Ornament of the Mahāyāna Sūtras

Mahāyānasūtrālaṃkāra · Mअहायानसूत्रालंकार

Ornament of the Mahāyāna Sūtras

Mahāyānasūtrālaṃkāra

Mअहायानसूत्रालंकार

ekonaviṃśatyadhikāraḥ

SK
आश्चर्यविभागे त्रयः श्लोकाः |
SK
स्वदेहस्य परित्यागः संपत्तेश्चैव संवृत्तौ | दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः || Mस_१९.१ ||
SK
वीर्यारम्भो ह्यनास्वादो ध्यानेषु सुख एव च | निष्कल्पना च प्रज्ञायामाश्चर्यं धीमतां ग[म]तं || Mस_१९.२ ||
SK
तथागतकुले जन्मलाभो व्याकरणस्य च | अभिषेकस्य च प्राप्तिर्बोधेश्चाश्चर्यमिष्यते || Mस_१९.३ ||
SK
अत्र द्वाभ्यां श्लोकाभ्यां प्रतिपत्त्याश्चर्यमुक्तं षट्पारमिता आरभ्य | दानेन हि स्वदेहपरित्याग आश्चर्यं शीलसंवरनिमित्तमुदारसंपत्तित्यागः | शेषं गतार्थं | तृतीयेन श्लोकेन फलाश्चर्यमुक्तं चत्वारि बोधिसत्त्वफलान्यारभ्य प्रथमायामष्टम्यां दशम्यां त्रीणि शैक्षाणि फलानि | बुद्धभूमौ चतुर्थमशैक्षमत्र फलं |
SK
अनाश्चर्यविभागे श्लोकः |
SK
वैराग्यं करुणां चैत्य भावनां परमामपि | तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता || Mस_१९.४ ||
SK
तास्विति पारमितासु | वैराग्यमागम्य दाने प्रयोगो नाश्चर्यं | करुणामागम्य शीले क्षान्तौ च | परमां भावनामागम्याष्टम्यां भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो नाश्चर्यम् | आत्मपरसमचित्ततामागम्य सर्वास्वेव पारमितासु प्रयोगो नाश्चर्यमात्मार्थ इव परार्थे खेदाभावात् |
SK
समचित्ततायां त्रयः श्लोकाः |
SK
न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु | सत्त्वानां प्रगतः स्नेहो यथा सत्त्वेषु धीमतां || Mस_१९.५ ||
SK
अर्थिष्वपक्षपातश्च शीलस्याखण्डना ध्रुवं | क्षान्तिः सर्वत्र सत्त्वार्थं[सर्वार्थं]वीर्यारम्भो महानपि || Mस_१९.६ ||
SK
ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका | विज्ञेया बोधिसत्त्वानां तास्वेव समचित्तता || Mस_१९.७ ||
SK
एकः श्लोकः सत्त्वेषु समचित्ततायां | द्वौ पारमितासु | न हि सत्त्वानामात्मादिषु स्नेहः समतया अनुगतो न चात्यन्तं | तथा ह्यात्मानमपि कदाचिन्मारयन्ति | बोधिसत्त्वानां तु सर्वसत्त्वेषु समतयात्यन्तं च पारमितासु पुनर्दाने समचित्तत्वमर्थिष्वपक्षपातात् | शीले ऽणुमात्रस्यापि नित्यमखण्डना | क्षान्तिः सर्वत्रेति देशकाले सत्वेष्वभेदना | वीर्ये सत्त्वार्थं[सर्वार्थं]वीर्यारम्भात्स्वपरार्थं समं प्रयोगात्सर्वकुशलार्थं च | शेषं गतार्थम् |
SK
उपकारित्वविभागे षोडश श्लोकाः |
SK
स्थापना भाजनत्वे च शीलेष्वेव च रोपणं | मर्षणा चापकारस्य अर्थे व्यापारगामिता || Mस_१९.८ ||
SK
आवर्जना शासने ऽस्मिंश्छेदना संशयस्य च | सत्त्वेषु उपकारित्वं धीमतामेतदिष्यते || Mस_१९.९ ||
SK
आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर्यथोपकारित्वं बोधिसत्त्वानां तत्परिदीपितं | दानेन हि सत्त्वानां भाजनत्वे स्थापयन्ति कुशलक्रियायाः | ध्यानेनावर्जयन्ति प्रभावविशेषयोगात् | शेषं गतार्थं | शेषैः श्लोकैः मात्रादिसाधर्म्येणोपकारित्वं दर्शितम् |
SK
समाशयेन सत्त्वानां धारयन्ति सदैव ये | जनयन्त्यार्यभूमौ च कुशलैर्वर्धयन्ति च || Mस_१९.१० ||
SK
दुष्कृतात्परिरक्षन्ति श्रुतं व्युत्पादयन्ति च | पञ्चभिः कर्मभिः सत्त्वमातृकल्पा जिनात्मजाः || Mस_१९.११ ||
SK
सत्त्वानां मातृभूताः सत्त्वमातृकल्पा | माता हि पुत्रस्य पञ्चविधमुपकारं करोति | गर्भेण धारयति | जनयति | आपाययति पोषयति संवर्धयति | अपायाद्रक्षते | अभिलापं च शिक्षयति | तत्साधर्म्येणैतानि पञ्चबोधिसत्त्वकर्माणि वेदितव्यानि | आर्यभूमिरार्यधर्मा वेदितव्याः |
SK
श्रद्धायाः सर्वसत्त्वेषु सर्वदा चावरोपणात् | अधिशीलदिशिक्षायां विमुक्तौ च नियोजनात् || Mस_१९.१२ ||
SK
बुद्धाध्येषणतश्चैषामावृतेश्च विवर्जनात् | पञ्चभिः कर्मभिः सत्त्वपितृकल्पा जिनात्मजाः || Mस_१९.१३ ||
SK
पिता हि पुत्राणां पञ्चविधमुपकारं करोति | बीजं तेषामवरोपयति | शिल्पं शिक्षयति | प्रतिरूपैर्दारैर्नियोजयति | सन्मित्रेषुपनिक्षिपति | अनृणं करोति यथा न (MSA_Bअग्छि १५६) पैतृकमृणं दाप्यते | तत्साधर्म्येण बोधिसत्त्वानामेतानि पञ्च कर्माणि वेदितव्यानि | श्रद्धा हि सत्त्वानामार्यात्मभावप्रतिलम्भस्य बीजं | शैक्षाः शिल्पं | विमुक्तिर्भार्या विमुक्तिप्रीतिसुखसंवेदना[त्?]बुद्धाः कल्याणमित्राणि | अवरणमृणस्थानम् |
SK
अनर्हदेशनां ये च सत्त्वानां गूहयन्ति हि | शिक्षाविपत्तिं निन्दन्ति शंसन्त्येव च संपदम् || Mस_१९.१४ ||
SK
अववादं च यच्छन्ति मारानावेदयन्ति हि | पञ्चभिः कर्मभिः सत्त्वबन्धुकल्पा जिनात्मजाः || Mस_१९.१५ ||
SK
बन्धवो हि बन्धूनां पञ्चविधमुपकारं कुर्वन्ति | गुह्यं गूहयन्ति | कुचेष्टितं विगर्हन्ति | सुचेष्टितं प्रशंसन्ति | करणीयेषु साहाय्यं गच्छन्ति | व्यसनस्थानेभ्यश्च निवारयन्ति | तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि | अनर्हेभ्यो गम्भीरधर्मेदेशनाविनिगूहनात् शिक्षाविपत्तिसंपत्त्योर्यथाक्रमं निन्दनात्प्रशंसनाच्च | अधिगमायाववादात् मारकर्मवेदनाच्च |
SK
संक्लेशे व्यवदाने च स्वयमश्रान्तबुद्धयः | यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम् || Mस_१९.१६ ||
SK
सुखे हिते चाभिन्ना[अखेदित्वादभिन्ना] ये सदा सुखहितैषिणः | पञ्चभिः कर्मभिः सत्त्वमित्रकल्पा जिनात्मजाः || Mस_१९.१७ ||
SK
तद्धि मित्रं यन्मित्रस्य हिते च सुखे चाविपर्यस्तं | सुखं चोपसंहरति हितं चाभेद्यं च भवति | हितसुखैषि च नित्यं | तथा बोधिसत्त्वाः सत्त्वानां पञ्चभिः कर्मभिर्मित्रकल्पा बेदितव्याः | लौकिकी हि संपत् सुखं | तया सुखानुभवात् | लोकोत्तरा हितं | क्लेशव्याधिप्रतिपक्षत्वात् |
SK
सर्वदोद्यमवन्तो ये सत्त्वानां परिपाचने | सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु || Mस_१९.१८ ||
SK
द्वयसंपत्तिदातारस्तदुपाये च कोविदाः | पञ्चभिः कर्मभिः सत्त्वदासकल्पा जिनात्मजाः || Mस_१९.१९ ||
SK
दासो हि पञ्चभिः कर्मभिः सम्यग् वर्तते | उत्थानसंपन्नो भवति | कृत्येषु अविसंवादको भवति | क्षमो भवति परिभाषणताडनादीनां | निपुणो भवति सर्वकार्यकरणात् | (MSA_Bअग्छि १५७) विचक्षणश्च भवति उपायज्ञः | तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्त्वानां वेदितव्यानि | द्वयसंपत्तिर्लौकिकी लोकोत्तरा च वेदितव्या |
SK
अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश्च ये मताः | सर्वयानापदेष्टारः सिद्धयोगानियोजकाः || Mस_१९.२० ||
SK
सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः | पञ्चभिः कर्मभिः सत्त्वाचार्यकल्पा जिनात्मजाः || Mस_१९.२१ ||
SK
पञ्चविधेन कर्मणा[चार्यः?]शिष्याणामुपकारी भवति | स्वयं सुशिक्षितो भवति | सर्वं शिक्षयति | क्षिप्रं शिक्षयति | सुमुखो भवति सुरतजातीयः | निरामिषचित्तश्च भवति | तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि |
SK
सत्त्वकृत्यार्थमुद्युक्ताः संभारान्पुरयन्ति ये | संभृतान्मोचयन्त्याशु विपक्षं हापयन्ति च || Mस_१९.२२ ||
SK
लोकसंपत्तिभिश्चित्रैरलोकैर्योजयन्ति च | पञ्चभिः कर्मभिः सत्त्वोपाध्यायकल्पा जिनात्मजाः || Mस_१९.२३ ||
SK
उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणामुपकारी भवति | प्रव्राजयति उपसंपादयति | अनुशास्ति दोषपरिवर्जने | आमिषेण संगृह्णाति धर्मेण च | तत्साधर्म्येणैतानि बोधिसत्त्वानां पञ्च कर्माणि वेदितव्यानि |
SK
प्रतिकारविभागे द्वौ श्लोकौ |
SK
असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः | कृतज्ञतानुयोगाच्च प्रतिपत्तौ च योगतः || Mस_१९.२४ ||
SK
षट्सु पारमितास्वेव वर्तमाना हि देहिनः | भवन्ति बोधिसत्त्वानां तथा प्रत्युपकारिणः || Mस_१९.२५ ||
SK
तथेति यथा तेषां बोधिसत्त्वा उपकारिणः | तत्र भोगेष्वनासक्त्या दाने वर्तन्ते | शीलस्याखण्डनेन शीले | कृतज्ञतानुयोगात् क्षान्तौ | उपकारिबोधिसत्त्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति | प्रतिपत्तियोगतो वीर्यध्यानप्रज्ञासु येन च प्रतिपद्यन्ते यत्र चेति कृत्वा |
SK
आशास्तिविभागे श्लोकः |
SK
वृद्धिं हानिं च काङ्क्षन्ति सत्त्वानां च प्रपाचनं | विशेषगमनं भूमौ बोधिं चानुत्तरां सदा || Mस_१९.२६ ||
SK
पञ्च स्थानानि बोधिसत्त्वाः सदैवाशंसन्ते | पारमितावृद्धिं | तद्विपक्षहानिं | सत्त्वपरिपाचनं | भूमिविशेषगमनं | अनुत्तरां च सम्यक्संबोधिम् |
SK
अबन्ध्यप्रयोगविभागे श्लोकः |
SK
त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च | प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः || Mस_१९.२७ ||
SK
चतुर्विधे सत्त्वार्थे बोधिसत्त्वानामबन्ध्यः प्रयोगो वेदितव्यः | गम्भिरोदारधर्मत्रास[आ?]योगे | बोधिचित्तसमुत्पादे | उत्पादितबोधिचित्तानां संशयोपच्छेदने | पारमिताप्रतिपत्त्यववादे च |
SK
सम्यक्प्रयोगविभागे द्वौ श्लोकौ |
SK
दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे | शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये || Mस_१९.२८ ||
SK
विना[आ?]रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता | सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि || Mस_१९.२९ ||
SK
यथोक्तं रत्नकूटे | विपाको ऽप्रतिकाङिक्षणो दानेनेति विस्तरः |
SK
परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ |
SK
भोगसक्तिः सच्छिद्रत्वं मानश्चैव सुखल्लिका | आस्वादनं विकल्पश्च धीराणां हानिहेतवः || Mस_१९.३० ||
SK
स्थितानां बोधिसत्त्वानां प्रतिपक्षेषु तेषु च | ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात् || Mस_१९.३१ ||
SK
षणां पारमितानां विपक्षा हानभागीयाः | तत्प्रतिपक्षा विशेषभागीया वेदितव्याः |
SK
प्रतिरूपकभूतगुणविभागे द्वौ श्लोकौ | एकः पट्पादः |
SK
प्रवा[ता]रणापि कुहना सौमुख्यस्य च दर्शना | लोभत्वेन तथा वृत्तिः शान्तवाक्कायता तथा || Mस_१९.३२ ||
SK
सुवाक्करणसंपच्च प्रतिपत्तिविवर्जिता | एते हि बोधिसत्त्वानामभूतत्वाय देशिताः | विपर्ययात्प्रयुक्तानां तद्भूतत्वाय देशिताः || Mस_१९.३३ ||
SK
षणांपारमितानां प्रतिरूपकाः षड् बोधिसत्त्वगुणाः प्रवा[ता]रणादयो वेदितव्याः | शेषं गतार्थम् |
SK
विनयविभागे श्लोकः |
SK
ते दानाद्युपसंहारैः सत्त्वानां विनयन्ति हि | षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु || Mस_१९.३४ ||
SK
षट्प्रकारो विपक्षः | षणां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथांक्रमं | शेषं गतार्थम् |
SK
व्याकरणविभागे त्रयः श्लोकाः |
SK
धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः | बोधौ व्याकरणे चैव महाच्चान्यदुदाहृतं || Mस_१९.३५ ||
SK
नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः | एकीभावगमत्वाच्च सर्वबुद्धजिनात्मजैः || Mस_१९.३६ ||
SK
क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः | परिवारानुवृत्त्या च सद्धर्मस्य तदिष्यते || Mस_१९.३७ ||
SK
तत्र पुद्गलभेदेन व्याकरणं गोत्रस्थोत्पादितचित्तसंमुखासमक्षपुद्गलव्याकरणात् | कालभेदेन परिमितापरिमितकालव्याकरणात् | पुनर्बोधौ व्याकरणं भवति | व्याकरणे वा एवंनामा तथागत एवममुष्मिन्काले व्याकरिष्यतीति | अन्यत्पुनर्महाव्याकरणं यदष्टम्यां भूमावनुत्पत्तिकधर्मक्षान्तिलाभतः | अहं बुद्धो भविष्यामीति मानप्रहाणतः | सर्वनिमित्त[आ?]भोगप्रहाणतः | सर्वबुद्धबोधिसत्वै[त्व]श्च सार्धमेकीभावोपगमनतः | तदात्मसंतानभेदादर्शनात् | पुनः क्षेत्रादिभिर्व्याकरणमीदृशे बुद्धक्षेत्रे एवंनामा इयता कालेन बुद्धो भविष्यति | एवंनामके कल्पे ईदृशश्चास्य परिवारो भविष्यति | एतावदन्तरं कालमस्य सद्धर्मानुवृत्तिर्भविष्यतीति |
SK
नियतिपातविभागे श्लोकः षट्पादः |
SK
संपत्त्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां | भावनायाश्च सातत्ये समाधानाच्युतावपि | कृत्यसिद्धावनाभोगे क्षान्तिलाभे च सर्वथा || Mस_१९.३८ ||
SK
षट्पारमिताधिकारेण षड्विधो नियतिपात एष निर्दिष्टः | संपत्तिनियतिपातो नित्यमुदारभोगसंपत्तिलाभात् | उपपत्तिनियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात् | अखेदनियतिपातो न्(MSA_Bअग्छि १६०) इत्यं संसारदुःखैरखेदात् | भावनासातत्यनियतिपातो नित्यं भावनासातत्यात् | समाधानाच्युतौ कृत्यसिद्धौ च नियतिपातो नित्यं समाध्यपरिहाणितः सत्त्वकृत्यसाधनतश्च | अनाभोगानुत्पत्तिकधर्मक्षान्तिलाभे नियतिपातश्च नित्यमनाभोगनिर्विकल्पज्ञानविहारात् |
SK
अवश्यकरणीयविभागे श्लोकः षट्पादः |
SK
पूजा शिक्षासमादानं करुणा शुभभावना | अप्रमादस्तथारण्ये श्रुतार्थातृप्तिरेव च | सर्वभूमिषु धीराणामवश्यकरणीयता || Mस_१९.३९ ||
SK
षट्पारमिता अधिकृत्येयं षड्विधावश्यकरणीयता गतार्थः श्लोकः |
SK
सातत्यकरणीयविभागे द्वौ श्लोकौ |
SK
कामेष्वादीनवज्ञानं स्खलितेषु निरीक्षणा | दुःखाधिवासना चैव कुशलस्य च भावना || Mस_१९.४० ||
SK
अनास्वादः सुखे चैव निमित्तानामकल्पना | सातत्यकरणीयं ही धीमतां सर्वभूमिषु || Mस_१९.४१ ||
SK
षट्पारमितापरिनिष्पादनार्थं षट् सातत्यकरणीयानि | गतार्थौ श्लोकौ | प्रधानवस्तुविभागे श्लोकः षट्पादः |
SK
धर्मदानं शीलशुद्धिर्नोत्पत्तिक्षान्तिरेव च | वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः | प्रज्ञा पारमितानां च प्रधानं धीमतां मतम् || Mस_१९.४२ ||
SK
षट्सु पारमितास्वेतत् षड्विधं प्रधानं | तत्र शीलविशुद्धिरार्यकान्तं शीलम् | अन्त्या सकरुणा स्थितिश्चतुर्थं ध्यानं करुणाप्रमाणयुक्तं | शेषं गतार्थम् |
SK
प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकाः |
SK
विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः | ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु || Mस_१९.४३ ||
SK
पुनः सत्यव्यवस्थानं सप्तधा तथताश्रयात् | चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः || Mस_१९.४४ ||
SK
योनिशश्च मनस्कारः सम्यग्दृष्टिः फलान्विता | प्रमाणैर्विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम् || Mस_१९.४५ ||
SK
आशयाद्देशनाच्चैव प्रयोगात्संभृतेरपि | समुदागमभेदाच्च त्रिविधं यानमिष्यते || Mस_१९.४६ ||
SK
चतुर्विधं प्रज्ञप्तिव्यवस्थानं | धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात् | तत्र पञ्चविद्यास्थानव्यवस्थानं धर्मव्यवस्थानं वेदितव्यं सूत्रगेयादिभिराकारभेदैः | तदन्तर्भूतान्येव हि तदन्यानि विद्यास्थानानि महायाने बोधिसत्त्वेभ्यो देश्यन्ते | सत्यव्यवस्थानं तु सप्तविधां तथतामाश्रित्य प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां [विशुद्धितथतां?]सम्यक्प्रतिपत्तितथतां च | युक्तिप्रज्ञप्तिव्यवस्थानं चतुर्विधम् | अपेक्षायुक्तिः | कार्यकारणयुक्तिः | उपपत्तिसाधनयुक्तिः | धर्मतायुक्तिश्च | यानप्रज्ञप्तिव्यवस्थानं त्रिविधं | श्रावकयानं | प्रत्येकबुद्धयानं | महायानं च | तत्रापेक्षायुक्तिस्त्रिष्वपि यानेषु योनिशोमनस्कारः | तमपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्दृष्टेरुत्पादात् | कार्यकारणयुक्तिः सम्यग्दृष्टिः सफला | उपपत्तिसाधनयुक्तिः प्रत्यक्षादिभिः प्रमाणैः परीक्षा | धर्मतायुक्तिरचिन्त्यं स्थानं | सिद्धा हि धर्मता न पुनश्चिन्त्या | कस्माद्- योनिशोमनस्कारात् सम्यग्दृष्टिर्भवति | ततो वा क्लेशप्रहाणं फलमित्येवमादि | यानत्रयव्यवस्थानं पञ्चभिराका रैर्वेदितव्यं | आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश्च | तत्र हीनामाशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानमुत्तमा महायानं | यथाशयं हि यथाभिप्रायं धर्मदेशनाभिभवति | यथा देशनं तथा प्रयोगः | यथाप्रयोगं संभारः | यथासंभारं च बोधिसमुदागम इति |
SK
पर्येषणाविभागे श्लोकः | आगन्तुकत्वपर्येषा अन्योन्यं नामवस्तुनोः | प्रज्ञप्तेर्द्विविधस्यात्र तन्मात्रत्वस्य वैषणा || Mस_१९.४७ ||
SK
चतुर्विधा पर्येषणा धर्माणां | नामपर्येषणा वस्तुपर्येषणा | स्वभावप्रज्ञप्तिपर्येषणा | विशेषप्रज्ञप्तिपर्येषणा च | तत्र नाम्नो वस्तुन्यागन्तुकत्वपर्येषणा नामपर्येषणा वेदितव्या | वस्तूनो नाम्न्यागन्तुकत्वपर्येषणा वस्तुपर्येषणा वेदितव्या | तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्तिमात्रत्वपर्येषणा स्वभावविशेषप्रज्ञप्तिपर्येषणा वेदितव्या |
SK
यथाभूतपरिहार[ज्ञान]विभागे दश श्लोकाः |
SK
सर्वस्यानुपलम्भाच्च भूतज्ञानं चतुर्विधं | सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते || Mस_१९.४८ ||
SK
चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतं | वस्तुपर्येषणागतं | स्वभावप्रज्ञप्तिपर्येषणागतं | विशेषप्रज्ञप्तिपर्येषणागतं च | तच्च सर्वस्यास्य नामादिकस्यानुपलम्भाद्वेदितव्यं | उत्तरार्धेन यथाभूतपरिज्ञानस्य कर्मणां महात्म्यं दर्शयति |
SK
प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि | साश्रयाश्चित्तचैत्तास्तु बध्यन्ते ऽत्र सबीजकाः || Mस_१९.४९ ||
SK
तत्र प्रतिष्ठानिमित्तं भाजनलोकः | भोगनिमित्तं पञ्च रूपादयो विषयाः | बीजनिमित्तं यत्तेषां बीजमालयविज्ञानं | यत्र[अत्र]त्रिविधे निमित्ते साश्रयाश्चित्तचैत्ता वध्यन्ते | यच्च तेषां बीजमालयविज्ञानम् | आश्रयाः पुनश्चक्षुरादयो वेदितव्याः |
SK
पुरतः स्थापितं यच्च निमित्तं यत्स्थितं स्वयं | सर्वं विभावयन्धीमान् लभते बोधिमुत्तमाम् || Mस_१९.५० ||
SK
तत्र पुरतः स्थापितं निमित्तं यच्छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितं | स्थितं स्वयमेव यत्प्रकृत्यालम्बनीभूतमयत्नपरिकल्पितं | तस्य विभावनाधि[वि]गमो ऽनालम्बनीभावः | अकल्पना तदुपायो निमित्तप्रतिपक्षः | तच्चोभयं क्रमाद्भवति | पूर्वं हि स्थापितस्य पश्चात् स्वयंस्थितस्य | तत्र चतुर्विपर्यासानुगतं पुद्गलनिमित्तं विभावयन्योगी श्रावकबोधिं प्रत्येकबोधिं वा लभते | सर्वधर्मनिमित्तं विभावयन् महाबोधिम् | एतेन यथा तत्त्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानं | तत्परिदीपितम् |
SK
तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं | दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम् || Mस_१९.५१ ||
SK
एतेन यथास्वभावत्रयपरिज्ञानात् परतन्त्रस्वभावक्षयाय संवर्तते | तत्परिदीपितं | तथतालम्बनत्वेन परिनिष्पन्नं स्वभावं परिज्ञाय | द्वयग्राहविवर्जितत्वेन कल्पितं | दौष्ठुल्यकायप्रत्यक्षत्वेन परतन्त्रं | तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं तत्क्षये |
SK
तथतालम्बनं ज्ञानमनानाकारभावितं | सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते || Mस_१९.५२ ||
SK
अनानाकारभावितं निमित्ततथतयोरनानात्वदर्शनात् | एतेन श्रावकानिमित्ताद्वोधिसत्त्वानिमित्तस्य विशेषः परिदीपितः | ते हि निमित्तानिमित्तयोर्नानात्वं पश्यन्तु | (MSA_Bअग्छि १६३) सर्वनिमित्तानाममनसिकारादनिमित्तस्य च धातोर्मनसिकारादनिमित्तं समापद्यन्ते | बोधिसत्त्वास्तु तथताव्यतिरेकेण निमित्तपश्यन्तो निमित्तमेवानिमित्तं पश्यन्त्यतस्तेषां तज्ज्ञानमनानाकारभावितं | सत्तार्थे च तथतायामसत्तार्थे च निमित्ते प्रत्यक्षं विकल्पविभु चोच्यते | विकल्पविभुत्वलाभाद्यथाविकल्पं सर्वार्थसमृद्धितः |
SK
तत्त्वं संच्छाद्य बालानामतत्त्वं ख्याति सर्वतः | तत्त्वं तु बोधिसत्त्वानां सर्वतः ख्यात्यपास्य तत् || Mस_१९.५३ ||
SK
एतेन यथा बालानां स्वरसेनातत्त्वमेव ख्याति निमित्तं न तत्त्वं तथता | एवं बोधिसत्त्वानां स्वरसेन तत्त्वमेव ख्याति नातत्वमित्युपदर्शितम् |
SK
अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः | आश्रयस्य परावृत्तिर्मोक्षो ऽसौ कामचारतः || Mस_१९.५४ ||
SK
असदर्थस्य निमित्तस्याख्यानता सदर्थस्य तथतायाः ख्यानता आश्रयपरावृत्तिर्वेदितव्या | तया हि तदख्यानं ख्यानं च | सैव च मोक्षो वेदितव्यः | किं कारणं | कामचारतः | तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात् |
SK
अन्योन्यं तुल्यजातीयः ख्यात्यर्थः सर्वतो महान् | अन्तरायकरस्तस्मात्परिज्ञायैनमुत्सृजेत् || Mस_१९.५५ ||
SK
इदं क्षेत्रपरिशोधनो[नौ]पाये[य]यथाभूतपरिज्ञानं | भाजनलोका[को ऽ]र्थो महानन्योन्यो वर्तमानस्तुल्यजातीयः ख्याति स एवायमिति | स चैवं ख्यानादन्तरायकरो भवति बुद्धक्षेत्रपरिशुद्धये | तस्मादन्तरायकरं परिज्ञायैनमुत्सृजेदेवं ख्यातं |
SK
अप्रमेयविभागे श्लोकः |
SK
परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने | सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम् || Mस_१९.५६ ||
SK
पञ्चविधं हि वस्तु बोधिसत्त्वानामप्रमेयं | परिपाच्यं वस्तु सत्त्वधातुरविशेषेण विशोध्यं लोकधातुर्भाजनलोकसंगृहीतः | प्राप्यं धर्मधातुः | परिपाचनयोग्यं विनेयधातुः | सम्यग्देशनावस्तु विनयोपायधातुः |
SK
देशनाफलविभागे द्वौ श्लोकौ |
SK
बोधिसत्त्व[चित्त]स्य चोत्पादो नोत्पादक्षान्तिरेव च | चक्षुश्च निर्मलं हीनमाश्रवक्षय एव च || Mस_१९.५७ ||
SK
सद्धर्मस्य स्थितिर्दीर्घा व्युत्पत्तिच्छित्तिभोगता | देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः || Mस_१९.५८ ||
SK
देशनायां प्रयुक्तस्य बोधिसत्त्वस्याष्टविधं देशनायाः फलं वेदितव्यं | श्रोतृषु केचिद्बोधिचित्तमुत्पादयन्ति | केचिदनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते | केचिद्विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पादयन्ति हीनयानसंगृहीतं | केच्चिदाश्रवक्षयं प्राप्नुवन्ति | सद्धर्मश्च चिरस्थितिको भवति परंपराधारणतया | अव्युत्पन्नानामर्थव्युत्पत्तिर्भवति | संशयितानां संशयच्छेदो भवति | विनिश्चितानां सद्धर्मसंभोगो भवति अनवद्यो प्रीतिरसः |
SK
महायानमहत्त्वविभागे द्वौ श्लोकौ |
SK
आलम्बनमहत्वं च प्रतिपत्तेर्द्वयोस्तथा | ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च || Mस_१९.५९ ||
SK
उदागममहत्त्वं च महत्त्वं बुद्धकर्मणः | एतन्महत्त्वयोगाद्धि महायानं निरुच्यते || Mस_१९.६० ||
SK
सप्तविधमहत्त्वयोगान्महायानमित्युच्यते | आलम्बनमहत्त्वेनाप्रमाणविस्तीर्णसूत्रादिधर्मयोगात् | प्रतिपत्तिमहत्त्वेन द्वयोः प्रतिपत्तेः स्वार्थे परार्थे च | ज्ञानमहत्त्वतो द्वयोर्ज्ञानात्पुद्गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले | वीर्यारम्भमहत्त्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात् | उपायकौशल्यमहत्त्वेन संसारापरित्यागासंक्लेशतः | समुदागममहत्त्वेन बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात् | बुद्धकर्ममहत्त्वेन च पुनः पुनरभिसंबोधिमहापरिनिर्वाणसंदर्शनतः |
SK
महायानसंग्रहविभागे द्वौ श्लोकौ |
SK
गोत्रं धर्माधिमुक्तिश्च चित्तस्योत्पादना तथा | दानादिप्रतिपत्तिश्च न्याया[मा]वक्रान्तिरेव च || Mस_१९.६१ ||
SK
सत्त्वानां परिपाकश्च क्षेत्रस्य च विशोधना | अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात्[दर्शना] || Mस_१९.६२ ||
SK
एतेन दशविधेन वस्तुन कृत्स्नं महायानं संगृहीतं | तत्र सत्वानां परिपाचनं भूमिप्रतिष्ठ[प्रविष्ट]स्य यावत्सप्तम्यां भूमौ वेदितव्यं | क्षेत्रपरिशोधनमप्रतिष्ठितनिर्वाणं चाविनिवर्तनीयायां भूमौ त्रिविधायां | श्रेष्ठा बोधिर्बुद्धभूमौ | तत्रैव चाभिसंबोधिमहापरिनिर्वाणसंदर्शना वेदितव्या | शेषं गतार्थम् |
SK
बोधिसत्त्वविभागे दश श्लोकाः |
SK
आधिमोक्षिक एकश्च शुद्धाध्याशयिको ऽपरः | निमित्ते चानिमित्ते च चार्यप्यनभिसंस्कृते | बोधिसत्त्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु || Mस_१९.६३ ||
SK
तत्र निमित्तचारी द्वितीयां भूमिमुपादाय यावत् षष्ठयां | अनिमित्तचारी सप्तम्याम् | अनभिसंस्कारचारी परेण | शेषं गतार्थम् |
SK
कामेष्वसक्तस्त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश्च | धर्मे ऽचलस्तत्त्वगभीरदृष्टिर्बोधौ स्पृहावान् खलु बोधिसत्त्वः || Mस_१९.६४ ||
SK
एतेन षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम् |
SK
अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्वधिवासकश्च | धीरो ऽप्रमत्तश्च बहुश्रुतश्च परार्थयुक्तः खलु बोधिसत्त्वः || Mस_१९.६५ ||
SK
तत्र धीर आरब्धवीर्यो दुःखैरविषादात् | अप्रमत्तो ध्यानसुखेष्वसक्तः | शेषं गतार्थम् |
SK
आदीनवज्ञः स्वपरिग्रहेषु भोगेष्वसक्तो ह्यनिगूढवैरः | योगी निमित्ते कुशलो ऽकुदृष्टिरध्यात्मसंस्थः खलु बोधिसत्त्वः || Mस_१९.६६ ||
SK
तत्र भोगेष्वसक्तो यस्तान्विहाय प्रव्रजति | निमित्तकुशलः शमथादिनिमित्तत्रयकौशल्यात् | अध्यात्मसंस्थो महायानाविकम्पनात् | महायानं हि बोधिसत्त्वानामध्यात्मं | शेषं गतार्थम् |
SK
दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात्स्वसुखेष्वसक्तः | स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्त्वः || Mस_१९.६७ ||
SK
तत्र स्मृतिप्रधानो ध्यानवान् स्मृतिबलेन चित्तसमाधानात् | सुसमाहितात्मा निर्विकल्पज्ञानः | शेषं गतार्थम् |
SK
दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः | दुःखाद्विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्त्वः || Mस_१९.६८ ||
SK
तत्र दुःखाद्विमुक्तो ध्यानवान् कामधातुवैराग्याद् दुःखदुःखतामोक्षतः | दुःखाभ्युपेतः संसाराभ्युपगमात् | शेषं गतार्थम् |
SK
धर्मेरतो ऽधर्मरतः [धर्मे ऽरतो ऽधर्मरतः] प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः | धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्त्वः || Mस_१९.६९ ||
SK
अत्र धर्मे जुगुप्सी अक्षान्तिजुगुप्सनात् | धर्मे वशी समापत्तौ | धर्मप्रधानो महाबोधिपरमः | धर्म एवात्र धरम उक्तो वृत्तानुवृत्त्या | शेषं गतार्थम् |
SK
भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः | सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्त्वः || Mस_१९.७० ||
SK
रत्र रक्षाप्रमत्तः क्षान्तिमान् स्वपरचित्तानुरक्षणात् | धर्माप्रमत्तो यथाभूतधर्मप्रज्ञानात् | शेषं गतार्थम् |
SK
विमानलज्जास्तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः | विशाल[विसार]लज्जस्तुनदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्त्वः || Mस_१९.७१ ||
SK
तत्र विमानलज्जो यो ऽर्थिनो न विमानयति | तनुदोषलज्जो ऽणुमात्रेष्ववद्येषु भयदर्शी तनुदृष्टिलज्जो धर्म नैरात्म्यप्रतिवेधी | शेषं गतार्थं | सर्वैरेभिः श्लोकैः पर्यायान्तरेण षट्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश्च बोधिसत्त्वलक्षणं परिदीपितम् |
SK
इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः | शमोप[समौप]देशेन महाफलेन अनुग्रहे वर्तति बोधिसत्त्वः || Mस_१९.७२ ||
SK
इहैव सत्त्वानामनुग्रहे वर्तते दानेन | अमुत्र शीलेनोपपत्तिविशेषं प्राप्य | संस्कारयोगेनेति वीर्ययोगेन | महाफलेनेति बुद्धत्वेन | शेषं गतार्थम् | एतेन षड्भिः पारमिताभिर्महाबोधिप्रणिधानेन च यथा सत्त्वानुग्रहे बोधिसत्त्वो वर्तते तत्परिदीपितम् |
SK
बोधिसत्त्वसामान्यनामविभागे अष्टौ श्लोकाः |
SK
बोधिसत्त्वो महासत्त्वो धीमांश्चैवोत्तमध्युतिः | जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः || Mस_१९.७३ ||
SK
विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः | कृपालुश्च महापुण्य ईश्वरो धार्मिकस्तथा || Mस_१९.७४ ||
SK
एतानि षोडश सर्वबोधिसत्त्वानामन्वर्थनामानि सामान्येन |
SK
सुतत्त्वबोधैः सुमहार्थबोधैः सर्वाव[र्थ]बोधैरपि नित्यबोधैः | उपायबोधैश्च विशेषणेन तेनोच्यते हेतुन बोधिसत्त्वः || Mस_१९.७५ ||
SK
पञ्चविधेन बोधविशेषेण बोधिसत्त्व इत्युच्यते | पुद्गलधर्म नैरात्म्यबोधेन | सर्वाकारसर्वार्थबोधेन अक्षयावबोधेन परिनिर्वाणसंदर्शने ऽपि | यथा विनेयं च विनयोपायबोधेन |
SK
आत्मानुबोधात्तनुदृष्टिबोधाद्विचित्रविज्ञप्तिविबोधतश्च | सर्वस्य चाभूतविकल्पबोधात्तेनोच्यते हेतुन बोधिसत्त्वः || Mस_१९.७६ ||
SK
अत्र पुनश्चतुर्विधबोधविशेषं दर्शयति चित्तमनोविज्ञानबोधतः | तेषां चाभूतपरिकल्पत्वावबोधतः | तत्र चित्तमालयविज्ञानं | मनस्तदालम्बनमात्मदृष्ट्यादिसंप्रयुक्तं | विज्ञानं षड्विज्ञानकायाः |
SK
अबोधबोधादनुबोधबोधादभावबोधात्प्रभवानुबोधात् | अबोधबोधप्रतिबोधतश्च तेनोच्यते हेतुन बोधिसत्त्वः || Mस_१९.७७ ||
SK
अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति | अविद्याबोधात् | विद्याबोधात् | परिकल्पितादिस्वभावत्रयबोधाच्च | तत्राबोधत्वेन बोधप्रतिबोधात् परिनिष्पन्नस्वभावबोधो वेदितव्यः |
SK
अनर्थबोधात्परमार्थबोधात्सर्वाव[र्थ]बोधात्सकलार्थबोधात् | बोद्धव्यबोधाश्रयबोधबोधात्तेनोच्यते हेतुन बोधिसत्त्वः || Mस_१९.७८ ||
SK
अत्र पञ्चविधं बोधविशेषं दर्शयति | परतन्त्रलक्षणबोधात् | परिनिष्पन्नलक्षणबोधात् | [परिकल्पितलक्षणबोधात्?] सर्वज्ञेयसर्वाकारबोधात् | बोध्यबोधकबोधि[ध]त्रिमण्डलपरिशुद्धिबोधाच्च |
SK
निष्पन्नबोधात्पदबोधतश्च गर्भानुबोधात् क्रमदर्शनस्य | बोधाद्भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्त्वः || Mस_१९.७९ ||
SK
तत्र निष्पन्नबोधो बुद्धत्वं | पदबोधो येन तुषितभवने वसति | गर्भानुबोधो येन मातुः कुक्षिमवक्रामति | क्रमदर्शने बोधो येन गर्भान्निष्क्रमणं कामपरिभोगं प्रव्रज्यां दुष्करचर्यामभिसंबोधिं च दर्शयति | भृशं संशयहानिबोधो येन सर्वसंशयच्छेदाय सत्त्वानां धर्मचक्रं प्रवर्तयति |
SK
लाभी ह्यलाभी धीसंस्थितश्च बोद्धानुबोद्धा प्रतिदेशकश्च | निर्जल्पबुद्धिर्हतमानमानी ह्यपक्वसंपक्वमतिश्च धीमान् || Mस_१९.८० ||
SK
अत्रैकादशविधेनातीतादिना बोधेन बोधिसत्त्वः परिदीपितः | तत्र लाभी अलाभी धीसंस्थितश्चातीतानागतप्रत्युत्पन्नैर्बोधैर्यथाक्रमं | बोद्धा स्वयंबोधात् | अनुबोद्धा परतो बोधादेतेनाध्यात्मिकबाह्यं बोधं दर्शयति | प्रतिदेशको निर्जल्पबुद्धिरित्यौदारिकसूक्ष्मं | मानी हतमानीति हीनप्रणीतम् | अपक्वसंपक्वमतिश्चेति दूरान्तिकं बोधं दर्शयति |
SK
|| महायानसूत्रालंकारे गुणाधिकारः [एकोनविंशतितमः?] समाप्तः ||
SK
विंशतितमएकविंशतितमश्चाधिकारः
SK
लिङ्गविभागे द्वौ श्लोकौ |
SK
अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता | गम्भीरसंधिनिर्मोक्षो लिङ्गान्येतानि धीमतां || Mस_२०.१ ||
SK
परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे | आशयाच्च प्रयोगाच्च विज्ञेयं लिङ्गपञ्चकं || Mस_२०.२ ||
SK
तत्रप्रथमेन श्लोकेन पञ्च बोधिसत्त्वलिङ्गानि दर्शयति | द्वितीयेन तेषां कर्म समास संग्रहं च | तत्रानुकम्पा बोधिचित्तेन सत्त्वपरिग्रहार्थं प्रियाख्यानं सत्त्वानां बुद्धशासनाधिमुक्तिलाभार्थं धीरता दुष्करचर्यादिभिरखेदार्थं मुक्तहस्तता गम्भीरसंधिनिर्मोक्षणं च द्वयेन संग्रहार्थमामिषेण धर्मेण च यथाक्रमम् | एषां पञ्चानां लिङ्गानाम् अनुकम्पा आशयतो वेदितव्या | शेषाणि प्रयोगतः |
SK
गृहिप्रव्रजितपक्षविभागे त्रयः श्लोकाः |
SK
बोधिसत्त्वा हि सततं भवन्तश्चक्रवर्तिनः | प्रकुर्वन्ति हि सत्त्वार्थं गृहिणः सर्वजन्मसु || Mस_२०.३ ||
SK
आदानलब्धा प्रव्रज्या धर्मतोपगता परा | निदर्शिका च प्रव्रज्या धीमतां सर्वभूमिषु || Mस_२०.४ ||
SK
अप्रमेयैर्गुणैर्युक्तः पक्षः प्रव्रजितस्य तु | गृहिणो बोधिसत्त्वाद्धि यतिस्तस्माद्विशिष्यते || Mस_२०.५ ||
SK
एकेन श्लोकेन यादृशे गृहिपक्षे स्थितो बोधिसत्त्वः सत्त्वार्थं करोति तत्परिदीपितं | द्वितीयेन यादृशे प्रव्रजितपक्षे | तत्र त्रिविधा प्रव्रज्या वेदितव्या | समादानलब्धा | धर्मतालब्धा | निदर्शिका च निर्माणैः | तृतीयेन गृहिपक्षात् प्रव्रजितपक्षस्य विशेषः परिदीपितः |
SK
अध्याशयविभागे श्लोकः षट्पादः |
SK
परत्रेष्टफलेच्छा च शुभवृत्ताविहैव च | निर्वाणेच्छा च धीराणां सत्त्वेष्वाशय इष्यते | अशुद्धश्च विशुद्धश्च सुविशुद्धः सर्वभूमिषु || Mस_२०.६ ||
SK
एतेन समासतः पञ्चविधो ऽध्याशयः परिदीपितः | सुखाध्याशयः | परत्रेष्टफलेच्छाहिताध्याशयः इहैव कुशलप्रवृत्तीच्छा निर्वाणेच्छा तदुभयाध्याशय एवेति नान्यो वेदितव्यः | अशुद्धादिकास्त्रयो ऽध्याशया अप्रविष्टानां | भूमिप्रविष्टानां | अविनिवर्तनीयभूमिप्राप्तानां च यथाक्रमं वेदितव्याः |
SK
परिग्रहविभागे श्लोकः |
SK
प्रणिधानात्समाच्चित्तादाधिपत्यात्परिग्रहः | गणस्य कर्षणत्वाच्च धीमतां सर्वभूमिषु || Mस_२०.७ ||
SK
चतुर्विधः सत्त्वपरिग्रहो बोधिसत्त्वानां प्रणिधानपरिग्रहो वेदितव्यो बोधिचित्तेन सर्वसत्त्वपरिग्रहणात् | समचित्ततापरिग्रह आत्मपरसमतालाभादभिसमयकाले | आधिपत्यपरिग्रहः स्वामिभूतस्य येषामसौ स्वामी | गणपरिकर्षणपरिग्रहश्च शिष्यगणोपादनात् |
SK
उपपत्तिविभागे श्लोकः |
SK
कर्मणश्चाधिपत्येन प्रणिधानस्य चापरा | समाधेश्च विभुत्वस्य चोत्पत्तिर्धीमतां मता || Mस_२०.८ ||
SK
चतुर्विधा बोधिसत्त्वानामुपपत्तिः कर्माधिपत्येन याधिमुक्तिचर्याभूमिस्थितानां कर्मवशेनाभिप्रेतस्थानोपपत्तिः प्रणिधानवशेन या भूमिप्रविष्टानां सर्वसत्त्वपरिपाचनार्थं तिर्यगादिहीनस्थानोपपत्तिः | समाध्याधिपत्येन या ध्यानानि व्यावर्त्य कामधातावुपपत्तिः | विभुत्वाधिपत्येन या निर्माणैस्तुषितभवनाद्युपपत्तिसंदर्शनात् |
SK
विहारभूमिविभागे त्रिंशत् [उदान] श्लोकाः |
SK
लक्षणात्पुद्लाच्छिक्षास्कन्धनिष्पत्तिलिङ्गतः | निरुक्तेः प्राप्तितश्चैव विहारो भूमिरेव च || Mस_२०.९ ||
SK
लक्षणविभागमारभ्य पञ्च श्लोकाः |
SK
शून्यता परमात्मस्य कर्म[आ?]नाशे व्यवस्थितिः | विहृत्य ससुखैर्ध्यानैर्जन्म कामे ततः परम् || Mस_२०.१० ||
SK
ततश्च बोधिपक्षाणां संसारे परिणामना | विना च चित्तसंक्लेशं सत्त्वानां परिपाचना || Mस_२०.११ ||
SK
उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा | एकायनपथश्लिष्टानिमित्तैकान्तिकः पथः || Mस_२०.१२ ||
SK
अनिमित्ते ऽप्यनाभोगः क्षेत्रस्य च विशोधना | सत्त्वपाकस्य निष्पत्तिर्जायते च ततः परम् || Mस_२०.१३ ||
SK
समाधिधारणीनां च बोधेश्चैव विशुद्धता | एतस्माच्च व्यवस्थानाद्विज्ञेयं भूमिलक्षणम् || Mस_२०.१४ ||
SK
एकादश विहारा एकादश भूमयः | तेपां लक्षणं | प्रथमायां भूमौ परमशून्यताभिसमयो लक्षणं पुद्गलधर्म नैरात्म्याभिसमयात् | द्वितीयायां कर्मणामविप्रणाशव्यवस्थानं कुशलाकुशलकर्मपथतत्फलवैचित्र्यज्ञानात् | तृतीयायां सातिशयसुखैर्बोधिसत्त्वध्यानैर्विहृत्यापरिहीनस्यैव तेभ्यः कामधातावुपपत्तिः | चतुर्थ्या बोधिपक्षबहुलविहारिणो ऽपि बोधिपक्षाणां संसारे परिणामना | पञ्चभ्यां चतुरार्यसत्यबहुलविहारितयाविनात्मनश्चित्तसंक्लेशेन सत्त्वानां परिपाचनायां नानाशास्त्रशिल्पप्रणयनात् | षष्ठ्यां प्रतीत्यसमुत्पादबहुलविहारितया संचित्यभवोपपत्तौ तत्र संक्लेशस्यानुरक्षणा | सप्तम्यां मिश्रोपमिश्रत्वेनैकायनपथस्याष्टमस्य विहारस्य श्लिष्ट आनिमित्तिकैकान्तिको मार्गः | अष्टभ्यामनिमित्ते ऽप्यनाभोगो निरभिसंस्कारानिमित्तविहारित्वाद् बुद्धक्षेत्रपरिशोधना च | नवम्यां प्रतिसंविद्वशितया सत्त्वपरिपाकनिष्पत्तिः सर्वाकारपरिपाचनसामर्थ्यात् | दशम्यां समाधिमुखानां धारणीमुखानां च विशुद्धता | एकादश्यां बुद्धभूमौ बोधिविशुद्धता लक्षणां [णं]सर्वज्ञेयावरणप्रहाणात् |
SK
भूमिष्ठे च [ष्वेवं] पुद्गलविभागमारभ्य द्वौ श्लोकौ |
SK
विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः | संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः || Mस_२०.१५ ||
SK
उपेक्षकः क्षेत्रविशोधकश्च स्यात्सत्त्वपाके कुशलो महर्द्धिः | संपूर्णकायश्च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्त्वः || Mस_२०.१६ ||
SK
दशसु भूमिषु दश बोधिसत्त्वा व्यवस्थाप्यन्ते | प्रथमायां विशुद्धदृष्टिः पुद्गलधर्मदृष्टिप्रतिपक्षज्ञानलाभात् | द्वितीयायां सुविशुद्धशीलः सूक्ष्मापत्तिस्खलितसमुदाचारस्याप्यभावात् | तृतीयायां समाहितो भवत्यच्युतध्यानसमाधिलाभात् | चतुर्थ्यां धर्मविभूतमानः सूत्रादिधर्मनानात्वमानस्य विभूतत्वात् | पञ्चम्यां संतानभेदे निर्माणो दशभिश्चित्ताशयविशुद्धिसमताभिः सर्वसंतानसमताप्रवेशात् | षष्ठ्यां संक्लेशव्यवदानभेदे निर्माणः प्रतीत्यसमुत्पादतथताबहुलविहारितया कृष्णशुक्लपक्षाभ्यां तथतायाः संक्लेशव्यवदानादर्शनात् | प्रकृतिविशुद्धितामुपादाय | सप्तम्यामेकचित्तक्षलब्धबुद्धिर्निर्निमित्तविहारसामर्थ्यात् प्रतिक्षणं सप्तत्रिंशद्बोधिपक्षभावनातः | अष्टम्यामुपेक्षकः क्षेत्रविशोधकश्चानाभोगनिर्निमित्तविहारित्वाद् मिश्रोपमिश्रप्रयोगतश्चाविनिवर्तनीयभूमिप्रविष्टैर्बोधिसत्त्वैः | नवम्यां सत्त्वपरिपाककुशलः (MSA_Bअग्छि १७१) पूर्ववत् | दशम्यां बोधिसत्त्वभूमौ बोधिसत्त्वो महर्द्धिकश्च व्यवस्थाप्यते महाभिज्ञालाभात् | संपूर्णधर्मकायश्चाप्रमाणसमाधिधारणीमुखस्फुरणादाश्रयस्य निदर्शने च शक्तो व्यवस्थाप्यते तुषितभवनवासादिनिर्माणनिदर्शनात् | अभिषिक्तश्च बुद्धत्वे सर्वबुद्धेभ्यस्तत्राभिषेकलाभात् |
SK
शिक्षाव्यवस्थानमारभ्य पञ्च श्लोकाः |
SK
धर्मतां प्रतिविध्येह अधिशीले ऽनुशीक्षणे | अधिचित्ते ऽप्यधिप्रज्ञे प्रज्ञा तु द्वयगोचरा || Mस_२०.१७ ||
SK
धर्मतत्त्वं तदज्ञानज्ञानाद्या वृत्तिरेव च | प्रज्ञाया गोचरस्तस्माद् द्विभूमौ तद्व्यवस्थितिः || Mस_२०.१८ ||
SK
शिक्षाणां भावनायाश्च फलमन्यच्चतुर्विधम् | अनिमित्तसंस्कारो विहारः प्रथमं फलम् || Mस_२०.१९ ||
SK
स एवानभिसंस्कारो द्वितीयं फलमिष्यते | क्षेत्रशुद्धिश्च सत्त्वानां पाकनिष्पत्तिरेव च || Mस_२०.२० ||
SK
समाधिधारणीनां च निष्पत्तिः परमं फलं | चतुर्विधं फलं ह्येतत् चतुर्भूमिसमाश्रितम् || Mस_२०.२१ ||
SK
प्रथमायां भूमौ धर्मतां प्रतिविध्य द्वितियायामधिशीलं शिक्षते | तृतीयायामधिचित्तं | चतुर्थीपञ्चमीषष्ठीष्वधिप्रज्ञं | बोधिपक्षसंगृहीता हि प्रज्ञा चतुर्थ्यां भूमौ | सा पुनर्द्वयगोचरा भूमिद्वये | द्वयं पुनर्धर्मतत्त्वं च दुःखादिसत्यं | तदज्ञानज्ञानादिका च वृत्तिरनुलोमः [प्रतिलोमः?] प्रतीत्यसमुत्पादः | तदज्ञानादिका हि वृत्तिरविद्यादिका | तज्ज्ञानादिका च वृत्तिर्विद्यादिका | तस्माद्भूमिद्वये ऽप्यधिप्रज्ञव्यवस्थानं | अतः परं चतुर्विधं शिक्षाफलं चतुर्भूमिसमाश्रितं वेदितव्यं यथाक्रमं | तत्र[प्रथमं फलम् अनिमित्तोविहारः ससंस्कारः?] द्वितीयं फलं स एवानिमित्तो विहारो ऽनभिसंस्कारः क्षेत्रपरिशुद्धिश्च वेदितव्यं | शेषं गतार्थम् |
SK
स्कन्धव्यवस्थानमारभ्य द्वौ श्लोकौ |
SK
धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना | समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना || Mस_२०.२२ ||
SK
विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना | चतुर्विधादावरणात् प्रतिघातावृतेरपि || Mस_२०.२३ ||
SK
तदन्यास्विति सप्तम्यां यावद् बुद्धभूमावुभयोर्विमुक्तिविमुक्तिज्ञानयोर्विशोधना | सा पुनर्विमुक्तिश्चतुर्विधफलावरणाच्च वेदितव्या | प्रतिघातावरणाच्च बुद्धभूमौ | येनान्येषां ज्ञेये ज्ञानं प्रतिहन्यते | बुद्धानां तु तद्विमोक्षात् सर्वत्राप्रतिहतं ज्ञानं | शेषं गतार्थम् |
SK
निष्पत्तिव्यवस्थानमारभ्य त्रयः श्लोकाः |
SK
अनिष्पन्नाश्च निष्पन्ना विज्ञेयाः सर्वभूमयः | निष्पन्ना अप्यनिष्पन्ना निष्पन्नाश्च पुनर्मताः || Mस_२०.२४ ||
SK
निष्पत्तिर्विज्ञेया यथाव्यवस्थानमनसिकारेण | तत्कल्पनताज्ञानादविकल्पनया च तस्यैव || Mस_२०.२५ ||
SK
भावना अपि निष्पत्तिरचिन्त्यं सर्वभूमिषु | प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयादपि || Mस_२०.२६ ||
SK
तत्राधिमुक्तिचर्याभूमिरनिष्पन्ना | शेषा निष्पन्ना इत्येताः सर्वभूमयः | निष्पन्ना अपि पुनः सप्तानिष्पन्नाः | शेषा निष्पन्ना निरभिसंस्कारवाहित्वात् | यत्पुनः प्रमुदितादिभूमिर्निष्पन्ना पूर्वमुक्ता तत्र निष्पत्तिर्यथाव्यवस्थापितभूमिमनसिकारेण | तस्य भूमिव्यवस्थानस्य कल्पनामात्रज्ञानात् तदविकल्पना[नया] च वेदितव्या | यदा तद्भूमिव्यवस्थानं कल्पनामात्रं जानीते | तदपि च कल्पनामात्रं न विकल्पयत्येवं ग्राह्यग्राहकाविकल्पज्ञानलाभाद्भूमिपरिनिष्पत्तिरुक्ता भवति | अपि खलु भूमीनां भावना च निष्पत्तिश्चोभयमचिन्त्यं सर्वभूमिषु | तथा हि तद्बोधिसत्त्वानां प्रत्यात्मवेदनीयं बुद्धानां च विषयो नान्येषाम् |
SK
भूमिप्रतिष्ठ[विष्ट]स्य लिङ्गविभागमारभ्य द्वौ श्लोकौ |
SK
अधिमुक्तिर्हि सर्वत्र सालोका लिङ्गमिष्यते | अलीनत्वमदीनत्वमपरप्रत्ययात्मता || Mस_२०.२७ ||
SK
प्रतिवेधश्च सर्वत्र सर्वत्र समचित्तता | अनेयानुनयोपायज्ञानं मण्डलजन्म च || Mस_२०.२८ ||
SK
एतद्भूमिप्रविष्टस्य बोधिसत्त्वस्य दशविधं लिङ्गं सर्वासु भूमिषु वेदितव्यं | यां भूमिं प्रविष्टस्तत्र सालोको यां न प्रविष्टस्तत्राधिमुक्तिरित्येतदेकं लिङ्गम् | अलीनत्वं परमोदारगम्भीरेषु धर्मेषु | अदीनत्वं दुष्करचर्यासु | अपरप्रत्ययत्वं स्वस्यां भूमौ | सर्वभूमिप्रतिवेधश्च तदभिनिर्हारकौशल्यतः सर्वसत्त्वेष्वात्मसमचित्तता | अनेया वर्णावर्णशब्दाभ्यां | अननुनयश्चक्रवर्तीत्यादिसंपत्तिषु | उपायकौशल्यमनुपलम्भस्तस्य[लम्भस्य] बुद्धत्वोपायज्ञानात् | बुद्धपर्षन्मण्डलेषु चोत्पत्तिः सर्वकालमित्येतानि अपराणि लिङ्गानि बोधिसत्त्वस्य |
SK
भूमिषु पारमितालाभलिङ्गविभागे द्वौ श्लोकौ |
SK
नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पर्विकल्पर्हतः | नो विक्षिप्तमतिः सुखैर्न च हतो दुःखर्न वा [व्या]वर्तते सत्यं मित्रमुपाश्रितः श्रुतपरः पूजापरः शास्तरि || Mस_२०.२९ ||
SK
सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्यहरहर्यो ह्युत्तमोपायवित् | जातः स्वायतने सदा शुभकरः क्रीडत्यभिज्ञागुणैः सर्वेषामुपरिस्थितो गुणनिधिर्ज्ञेयः स बुद्धात्मजः || Mस_२०.३० ||
SK
दशपारमितालाभिनो बोधिसत्त्वस्य षोडशविधं लिङ्गं दर्शयति | षोडशविधं लिङ्गं | सदा पारमिताप्रतिपत्तिच्छन्देनाविरहितत्वं | षट्पारमिताविपक्षैश्च रहितत्वं प्रत्येकम् | अन्ययानमनसिकारेणाविक्षिप्तता | संपत्तिसुखेष्वसक्तता | विपत्तिदुष्करचर्यादुःखैः प्रयोगानिर्वर्तिता | कल्याणमित्राश्रयः | श्रुतपरत्वं | शास्तृपूजापरत्वं | सम्यक्परिणामना उपायकौशल्यपारमितया | स्वायतनोपपत्तिः प्रणिधानपारमितया बुद्धबोधिसत्त्वाविरहितस्थानोपपत्तेः | सदाशुभकरत्वे[त्वं]बलपारमितया तद्विपक्षधर्माव्यवकिरणात् | अभिज्ञागुणविक्रीडनं च ज्ञानपारमितया | तत्र मैत्री व्यापादप्रतिपक्षः सुखोपसंहाराशयः | करुणा विहिंसाप्रतिपक्षो दुःखापगमाशयः | स्वभावकल्पनं कल्पः | विशेषकल्पनं विकल्पो वेदितव्यः |
SK
तत्रैवानुशंसविभागे श्लोकः |
SK
शमथे विपश्यनायां च द्वयपञ्चात्मको मतः | धीमतामनुशंसो हि सर्वथा सर्वभूमिषु || Mस_२०.३१ ||
SK
तत्रैव पारमितालाभे सर्वभूमिषु बोधिसत्त्वानां सर्वप्रकारो ऽनुशंसः पञ्चविधो वेदितव्यः | प्रतिक्षणं सर्वदौष्ठुल्याश्रयं द्रावयति | नानात्वसंज्ञाविगतिं च धर्मारामरतिः प्रतिलभते | अपरिच्छिन्नाकारं च सर्वतो ऽप्रमाणं धर्मावभासं संजानीते | अविकल्पितानि चास्य विशुद्धिभागीयानि निमित्तानि समुदाचरन्ति | धर्मकायपरिपूरिपरिनिष्पत्तये च उत्तरादुत्तरतरं हेतुसंपरिग्रहं करोति | तत्र प्रथमद्वितीयौ शमथपक्षे वेदितव्यौ | तृतीयचतुर्थौ विपश्यनापक्षे | शेषमुभयपक्षे |
SK
भूमिनिरुक्तिविभागे नव श्लोकाः |
SK
पश्यतां बोधिमासन्नां सत्त्वार्थस्य च साधनं | तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते || Mस_२०.३२ ||
SK
अत्र न किंचिद्व्याख्येयं |
SK
दौः शील्याभोगवैमल्याद्विमला भूमिरुच्यते |
SK
दौः शील्यमलस्यान्ययानमनसिकारमलस्य चातिक्रमाद्विमलेत्युच्यते | तस्मात्तर्ह्यस्माभिस्तुल्याभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति वचनात् |
SK
महाधर्मावभासस्य करणाच्च प्रभाकरी || Mस_२०.३३ ||
SK
तथा हि तस्यां समाधिबलेनाप्रमाणधर्मपर्येषणधारणात् महान्तं धर्मावभासं परेषां करोति |
SK
अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः | अर्चिष्मतीति तद्योगात्सा भूमिर्द्वयदाहतः || Mस_२०.३४ ||
SK
सा हि बोधिपक्षात्मिका प्रज्ञा द्वयदहनप्रत्युपस्थाना तस्यां बाहुल्येन | द्व्यं पुनः क्लेशावरणं ज्ञेयावरणं चात्र वेदितव्यम् |
SK
सत्त्वानां परिपाकश्च स्वचित्तस्य च रक्षणा | धीमद्भिर्जीयते दुःखं दुर्जया तेन कथ्यते || Mस_२०.३५ ||
SK
तत्र सत्त्वपरिपाकाभियुक्तो ऽपि न संक्लिश्यते | सत्त्वविप्रतिपत्त्या तच्चोभयं दुष्करत्वाद् दुर्जयम् |
SK
आभिमुख्याद् द्व्यस्येह संसारस्यापि निर्वृतेः | उक्ता ह्यभिमुखी भूमिः प्रज्ञापारमिताश्रयात् || Mस_२०.३६ ||
SK
सा हि प्रज्ञापारमिताश्रयेण निर्वाणसंसारयोरप्रतिष्ठानात् संसारनिर्वाणयोरभिमुखी |
SK
एकायनपथश्लेषाद्भूमिर्दूरंगमा मता |
SK
एकायनपथः पूर्वं निर्दिष्टस्तदुपश्लिष्टत्वात् दूरं गता भवति प्रयोगपर्यन्तगमनात् |
SK
द्वयसंज्ञाविचलनादचला च निरुच्यते || Mस_२०.३७ ||
SK
द्वाभ्यां संज्ञाभ्यां अविचलनात् | निमित्तसंज्ञया[निमित्ताभोगसंज्ञया]अनिमित्ताभोगसंज्ञया च |
SK
प्रतिसंविन्मतिसाधुत्वाद्भूमिः साधुमती मता |
SK
प्रतिसंविन्मतेः साधुत्वादिति प्रधानत्वात् |
SK
धर्ममेघा द्वयव्याप्तेर्धर्माकाशस्य मेघवत् || Mस_२०.३८ ||
SK
द्वयव्याप्तेरिति समाधिमुखधारणीमुखव्यापनान्मेघेनेवाकाशस्थलीयस्याश्रयसंनिविष्टस्य श्रुतधर्मस्य धर्ममेघेत्युच्यते |
SK
विविधे शुभनिर्हारे रत्या विहरणात्सदा | सर्वत्र बोधिसत्त्वानां विहारभूमयो मताः || Mस_२०.३९ ||
SK
विविधकुशलाभिनिर्हारनिमित्तं सदा सर्वत्र रत्या विहरणाद्वोधिसत्त्वानां भूमयो विहारा इत्युच्यन्ते |
SK
भूयो भूयो ऽमितास्वासु ऊर्ध्वंगमनयोगतः | भूतामिताभयार्थाय त एवेष्टा हि भूमयः || Mस_२०.४० ||
SK
भूयो भूयो ऽमितास्वासूर्ध्वंगमनयोगाद्भूतामिताभयार्थाय त एव विहाराः पुनर्भूमय उच्यन्ते | अमितास्विति दशसु भूमिषु एकैकस्याप्रमाणत्वात् | ऊर्ध्वंगमनयोगादिति उपरिभूमिगमनयोगात् | भूतामिताभयार्थमित्यमितानां भूतानां भयप्रहाणार्थम् |
SK
प्राप्तिविहारे[विभागे]श्लोकः |
SK
भूमिलाभे[भो]ऽधिमुक्तेश्च चरितेषु च वर्तनात् | प्रतिवेधाच्च भूमीनां निष्पत्तेश्च चतुर्विधः || Mस_२०.४१ ||
SK
चतुर्विधो भूमीनां लाभः | अधिमुक्तिलाभो यथोक्ताधिमुक्तितो ऽधिमुक्तिचर्याभूमौ | चरितलाभो दशसु धर्मचरितेषु वर्तनात्तस्यामेव | परमार्थ [प्रतिवेध] लाभः परमार्थप्रतिवेधतो भूमिप्रवेशे | निष्पतिलाभश्चाविनिवर्तनीयभूमिप्रवेशे |
SK
चर्याविभागे श्लोकः षट्पादः |
SK
महायाने ऽधिमुक्तानां हीनयाने च देहिनां | द्वयोरावर्जनार्थाय विनयाय च देशिताः | चर्याश्चतस्रो धीराणां यथासूत्रानुसारतः || Mस_२०.४२ ||
SK
तत्र पारमिताचर्या महायानाधिमुक्तानामर्थे देशिता | बोधिपक्षचर्या श्रावकप्रत्येकबुद्धयानाधिमुक्तानाम् | अभिज्ञाचर्या द्वयोरपि महायानहीनयानाधिमुक्तयोः प्रभावेणावर्जनार्थं | सत्त्वपरिपाकचर्या द्वयोरेव परिपाचनार्थं | परिपाचनं ह्यत्र विनयनम् |
SK
बुद्धगुणविभागे बहवः श्लोकाः | अप्रमाणविभागे तद् बुद्धस्तोत्रमारभ्यैकः |
SK
अनुकम्पकसत्त्वेषु संयोगविगमाशय | अवियोगाशय सौख्यहिताशय नमो ऽस्तुते || Mस_२०.४३ ||
SK
[अत्र] अनुकम्पकत्वं सत्त्वेषु हितसुखाशयत्वेन संदर्शितं | सुखाशयत्वं पुनः सुखसंयोगाशयत्वेन मैत्र्या | दुःखवियोगाशयत्वेन च करुणया | सुखावियोगाशयत्वेन च मुदितया | हिताशयत्वमुपेक्षया | सा पुनर्निः संक्लेशताशयलक्षणा वेदितव्या |
SK
विमोक्षाभिभ्वायतनकृत्स्नायतनविभागे श्लोकाः |
SK
सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने | ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमो ऽस्तुते || Mस_२०.४४ ||
SK
अत्र विमोक्षविशेषं भगवतः सर्वक्लेशज्ञेयावरणनिर्मुक्ततया दर्शयति | अभिभ्वायतनविशेषं सर्वलोकाभिभुत्वेन स्वचित्तवशवर्तनाद्यथेष्टालम्बननिर्माणपरिणामनताधिष्ठानतः | कृत्स्नायतनविशेषं सर्वज्ञेयज्ञानाव्याघाततः [ज्ञानव्याप्तः] | अत एव विमोक्षादिगुणविपक्षमुक्तत्वात् मुक्तचित्तः |
SK
अरणाविभागे श्लोकः |
SK
अशेषं सर्वसत्त्वानां सर्वक्लेशविनाशक | क्लेशप्रहारक क्लिष्टसानुक्रोश नमो ऽस्तुते || Mस_२०.४५ ||
SK
अत्रारणाविशेषं भगवतः सर्वसत्त्वक्लेशविनयनादुत्पादितक्लेशेष्वपि च तत्क्लेशप्रतिपक्षविधानात् क्लिष्टजनानुकम्पया संदर्शयति | अन्ये ह्यरणाविहारिणः सत्त्वानां कस्यचिदेव तदालम्बनस्य क्लेशस्योत्पत्तिप्रत्ययमात्रं प्रतिहरन्ति | न तु क्लेशसंतानादपनयन्ति |
SK
प्रणिधिज्ञानविशेषे[विभागे]श्लोकः |
SK
अनाभोग निरासङ्ग अव्याघात समाहित | सदैव सर्वप्रश्नानां विसर्जक नमो ऽस्तु ते || Mस_२०.४६ ||
SK
अत्र पञ्चभिराकारैः प्रणिधिज्ञानविशेषं भगवतः संदर्शयति | अनाभोगसंमुखीभावतः | असक्तिसंमुखीभावतः | सर्वज्ञेयाव्याघाततः | सदा समाहितत्वतः | सर्वसंशयच्छेदनतश्च सत्त्वानां | अन्ये हि प्रणिधिज्ञानलाभिनो नानाभोगान् [भोगेना] प्रणिधाय प्रणिधीज्ञानं संमुखीकुर्वन्ति | न चासक्तं समापत्तिप्रवेशापेक्षत्वात् | न चाव्याहतं प्रदेशज्ञानात् | न च सदा समाहिता भवन्ति न च सर्वसंशयांश्छिन्दन्ति |
SK
प्रतिसंविद्विभागे श्लोकः |
SK
आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके | अव्याहतमते नित्यं सुदेशिक नमो ऽस्तुते || Mस_२०.४७ ||
SK
अत्र समासतो यच्च देश्यते येन च देश्यते तत्र नित्यमव्याहतमतित्वेन भगवतश्चतस्रः प्रतिसंविदो देशिताः | तत्र द्वयं देश्यते आश्रयश्च धर्मः | तदाश्रितश्चार्थः | द्वयेन देश्यते वाचा ज्ञानेन च | सुदेशिकत्वेन तासां कर्म संदर्शितम् |
SK
अभिज्ञाविभागे श्लोकः |
SK
उपेत्य वचनैस्तेषां चरिज्ञ आगतौ गतौ | निः सारे चैव सत्त्वानां स्वववाद नमो ऽस्तु ते || Mस_२०.४८ ||
SK
अत्र षड्भिरभिज्ञाभिः सम्यगववादत्वं भगवतो दर्शितम् | उपेत्य विनेयसकाशमृध्द्यभिज्ञया | तेषां भाषया दिव्यश्रोत्राभिज्ञया चित्तचरित्रं ज्ञात्वा चेतःपर्यायाभिज्ञया यथा पूर्वान्तादिहगतिर्यथा चापरान्ते गतिर्यथा च संसारान्निः सरणं | तत्राववादं ददात्यवशिष्टाभिस्तिसृभिरभिज्ञाभिर्यथाक्रमम् |
SK
लक्षणानुव्यञ्जनविभागे श्लोकः |
SK
सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः | दृष्टमात्रात्प्रसादस्य विधायक नमो ऽस्तु ते || Mस_२०.४९ ||
SK
अत्र लक्षणानुव्यञ्जनानां भगवति महापुरुषत्वसंप्रत्ययेन दर्शनमात्रात्परेषां प्रसादजनकत्वं कर्म संदर्शितम् |
SK
परिशुद्धिविभागे श्लोकः |
SK
आदनस्थानसंत्यागनिर्माणपरिणामने | समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते || Mस_२०.५० ||
SK
अत्र भगवतश्चतुर्विधया वशितया सर्वाकारश्चतस्रः परिशुद्धयः परिदीपिताः | आश्रयपरिशुद्धिरात्मभावस्यादानस्थानत्यागवशितया | आलम्बनपरिशुद्धिर्निर्माणपरिणामनवशितया | चित्तपरिशुद्धिः सर्वाकारसमाधिवशितया | प्रज्ञापरिशुद्धिः सर्वाकारज्ञानवशितया |
SK
बलविभागे श्लोकः |
SK
उपाये शरणे शुद्धौ सत्त्वानां विप्रवादने | महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते || Mस_२०.५१ ||
SK
अत्र चतुर्ष्वर्थेषु सत्त्वानां विप्रवादनाय मारो यस्तद्भञ्जकत्वेन भगवतो दशानां बलानां कर्म संदर्शितं | यदुत सुगतिदुर्गतिगमनाद्युपायविप्रवादने | अशरणे देवादिषु शरणविप्रवादने | साश्रवशुद्धिमात्रेण शुद्धिविप्रवादने | महायाननिर्याणविप्रवादने च | (MSA_Bअग्छि १७८) स्थानास्थानज्ञानबलेन हि भगवान्प्रथमे ऽर्थे मारभञ्जको वेदितव्यः | कर्मविपाकज्ञानबलेन द्वितीये | ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तृतीये | इन्द्रियपरापरत्वादिज्ञानबलेन चतुर्थे | हीनानीन्द्रियादीनि वर्जयित्वा श्रेष्ठसंनियोजनात् |
SK
वैशारद्यविभागे श्लोकः |
SK
ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक | स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते || Mस_२०.५२ ||
SK
अत्र ज्ञानप्रहाणकारकत्वेन स्वार्थे | निर्याणविघ्नदेशिकत्वेन च परार्थे | निराधृष्यत्वादन्यतीर्थ्यैर्भगवतो यथाक्रमं चतुर्विधं वैशारद्यमुद्भावितम् |
SK
आरक्षस्मृत्युपस्थानविभागे श्लोकः |
SK
वि[नि]गृह्यवक्ता पर्षत्सु द्वयसंक्लेशवर्जित | निरारक्ष असंमोष गणकर्ष नमो ऽस्तु ते || Mस_२०.५३ ||
SK
अनेन त्रीण्यरक्षाणि त्रीणि च स्मृत्युपस्थानानि भगवतः परिदीपितानि तेषां च कर्म गणपरिपकर्षकत्वं | तैर्हि यथाक्रमं वि[नि]गृह्यवक्ता च भवति पर्षत्सु निरारक्षत्वात् | द्व्यसंक्लेशवर्जितश्चानुनयप्रतिघाभावादसंमोषतया सदाभूय स्थितस्मृतित्वात् |
SK
वासनासमुद्धातविभागे श्लोकः |
SK
चारे विहारे सर्वत्र नास्त्यसर्वज्ञचेष्टितं | सर्वदा तव सर्वज्ञ भूतार्थिक नमो ऽस्तु ते || Mस_२०.५४ ||
SK
अनेन चारे विहारे वा सर्वत्र सर्वदा वासर्वज्ञचेष्टितस्याभावात् भगवतः सर्वक्लेशवासनाससुद्धातः परिदीपितः | असर्वज्ञो हि क्षीणक्लेशो ऽप्यसमुद्धातितत्वाद् वासनाया एकदा भ्रान्तेन हस्तिना सार्धं समागच्छति भ्रान्तेन रथेनेत्येवमादिकमसर्वज्ञचेष्टितं करोति | यथोक्तं माण्डव्यसूत्रे | तच्च भगवतो भूतार्थसर्वज्ञत्वं[ज्ञत्वेन]नास्ति |
SK
असंमोषताविभागे श्लोकः |
SK
सर्वसत्त्वार्थकृत्येषु कालं त्वं नातिवर्तसे | अबन्ध्यकृत्य सततमसंमोष नमो ऽस्तु ते || Mस_२०.५५ ||
SK
अनेन यस्य सत्त्वस्य यो ऽर्थः करणीयो यस्मिन्काले तत्कालानतिवर्तनात् अबन्ध्यं कृत्यं सदा भगवत इत्यसंमोषधर्मत्वं स्वभावतः कर्मतश्च संदर्शितम् |
SK
महाकरुणाविभागे श्लोकः |
SK
सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे | महाकरुणया युक्त हिताशय नमो ऽस्तु ते || Mस_२०.५६ ||
SK
अत्र महाकरुणा भगवतः कर्मतः स्वभावतश्च परिदीपिता | महाकरुणया हि भगवान् षट्कृत्वो रात्रिन्दिवेन लोकं प्रत्यवेक्षते को हीयते को वर्धते इत्येवमादि | तद्योगाच्च भगवान् सर्वसत्त्वेषु नित्यं हिताशयः |
SK
आवेणिकगुणविभागे श्लोकः |
SK
चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा | सर्वश्रावकप्रत्येकबुद्धोत्तम नमो ऽस्तु ते || Mस_२०.५७ ||
SK
अत्र चारसंगृहीतैः षड्भिरावेणिकैर्बुद्धधर्मैः | अधिगमसंगृहीतैः षड्भिः | ज्ञानसंगृहीतैस्त्रिभिः | कर्मसंगृहीतैश्च त्रिभिः | तदन्यसत्त्वोत्तमानामपि श्रावकप्रत्येकबुद्धानामन्तिकादुत्तमत्वेन सर्वसत्त्वोत्तमत्वं भगवतः परिदीपितं | तत्र नास्ति तथागतस्य स्खलितं | नास्ति रवितं | नास्ति मुषिता स्मृतिः | नास्त्यसमाहितं चित्तं | नास्ति नानात्वसंज्ञा | नास्त्यप्रतिसंख्यायोपेक्षेति चारसंगृहीताः षडावेणिका बुद्धधर्मा ये बुद्धस्यैव संविद्यन्ते नान्येषां | नास्ति छन्दपरिहाणिर्नास्ति वीर्यस्मृतिसमाधिप्रज्ञाविमुक्तिपरिहाणिरित्यधिगमसंगृहीताः षट् | अतीते ऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानम् | अनागते प्रत्युत्पन्ने ऽध्वनि तथागतस्यासङ्गमप्रतिहतं ज्ञानमिति ज्ञानसंगृहीतास्त्रयः | सर्वं तथागतस्य कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति | सर्वं वाक्कर्म सर्वं मनस्कर्मेति कर्मसंगहीतास्त्रयः |
SK
सर्वाकारज्ञताविभागे श्लोकः |
SK
त्रिभिः कायैर्महाबोधिं सर्वाकारामुपागत | सर्वत्र सर्वसत्त्वानां काङ्क्षाछिद नमो ऽस्तु ते || Mस_२०.५८ ||
SK
अनेन त्रिभिश्च कायैः सर्वाकारबोध्युपगमत्वात् सर्वज्ञेयसर्वाकारज्ञानाच्च सर्वाकारज्ञता भगवतः परिदीपिता | त्रयः कायाः स्वाभाविकः सांभोगिको नैर्माणिकश्च | सर्वज्ञेयसर्वाकारज्ञानं पुनरत्र सर्वसत्त्वानां देवमनुष्यादीनां सर्वसंशयच्छेदेन कर्मणा निर्दिष्टम् |
SK
पारमितापरिपुरिविभागे श्लोकः |
SK
निरवग्रह निर्दोष निष्कालुष्यानवस्थित | आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमो ऽस्तु ते || Mस_२०.५९ ||
SK
अनेन सकलषट्पारमिताविपक्षनिर्मुक्ततया षट्पारमितापरिपूरिर्भगवत उद्भाविता | तत्रानवग्रहत्वं भोगनिराग्रहत्वाद्वेदितव्यं | निर्दोषत्वं निर्मलकायादिकर्मत्वात् | निष्कालुष्यत्वं लोकधर्मदुःखाभ्यां चित्ताकलुषीकरणात् | अनवस्थितत्वमल्पावरण[वर]मात्राधिगमानवस्थानात् | आनिङ्क्ष्यत्वमविक्षेपात् | निष्प्रपञ्चत्वं सर्वविकल्पप्रपञ्चासमुदाचारात् |
SK
बुद्धलक्षणविभागे द्वौ श्लोकौ |
SK
निष्पन्नपरमार्थो ऽसि सर्वभूमिविनिःसृतः | सर्वसत्त्वाग्रतां प्राप्तः सर्वसत्त्वविमोचकः || Mस_२०.६० ||
SK
अक्षयैरसमैर्युक्तो गुणैर्लोकेषु दृश्यसे | मण्डलेष्वप्यदृश्यश्च सर्वथा देवमानुषैः || Mस_२०.६१ ||
SK
अत्र षड्भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थैर्बुद्धलक्षणं परिदीपितं | तत्र विशुद्धा तथता निष्पन्नः परमार्थः | स च बुद्धानां स्वभावः | सर्वबोधिसत्त्वभूमिनिर्यातत्वं हेतुः | सर्वसत्त्वाग्रतां प्राप्तत्वं फलं | सर्वसत्त्वविमोचकत्वं कर्म | अक्षयासमगुणयुक्तत्वं योगः |
SK
नानालोकधातुषु दृश्यमानता निर्माणकायेन पर्षन्मण्डलेष्वपि दृश्यमानता सांभोगिकेन कायेन | सर्वथा | चादृश्यमानता धर्मकायेनेति त्रिविधा प्रभेदवृत्तिरिति |
SK
|| महायानसूत्रालंकारेषु व्यवदातसमयमहाबोधिसत्त्वभाषिते चर्याप्रतिष्ठाधिकारो नामैकविंशतितमो ऽधिकारः ||
SK
|| समाप्तश्च महायानसूत्रालंकार इति ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Asaṅga: Mahāyānasūtrālaṃkāra (sa_asaGga-mahAyAnasUtrAlaMkAra.htm).

Source