अव्यभिचारिपदेनैव संशयज्ञानमपि व्युदस्तम् / नो खलु संशयज्ञानं विकल्प्यमानवस्तुगोचरं तद्रूपं वस्तु प्रापयति / अप्रापयच्चोपदर्शितं कथं संवादम्, असंवादकं च कथमव्यभिचारि? तस्मादव्यभिचारिपदेनैव संशयज्ञाने निरस्ते सविकल्पकप्रत्यक्षावदोधार्थमुपादीयमानं व्यवसायात्मकपदं संशयज्ञानप्रत्यक्षतापाकरणमन्वाचिनोति / तद्यथा एधानाहर्तुमरण्यं गच्छ, शाकमप्यानेष्यसीति शाकानयनमन्वाचीयते / न च तदेवास्य प्रेषितुर्वि धित्सितम्, तथेहापि / व्यवसायात्मकपदं साक्षात्सविकल्पकस्य वाचकम् / तथा हि व्यवसायो विनिश्र्चयो विकल्प इत्यनर्थान्तरम् / स एवात्मा रूपं यस्य तत् सविकल्पकं प्रत्यक्षम् / तदेतदतिस्फटत्वात् शिष्यैर्गम्यत एवेति भाष्यवार्त्तिककाराभ्याम् अव्याख्यातमपि अस्माभिः, त्रिलोचनगुरुन्नीतमार्गानुगमनोन्मुखैः / यथान्यायं यथावस्तु व्याख्यातमिदमीदृशम् //
SK
स्यादेतत् / न व्यवसायात्मकं प्रतयक्षं भवितुमर्हति / अभिलापसंसर्गयोग्यप्रतिभासं हि तत् / न चेन्द्रियार्थाभ्यां लब्धजन्म विज्ञानमर्थावभासं शक्यमभिलापेन योजनयितुम् / न ह्यर्थे शब्दाः सन्ति, अर्थात्मनो वा, तथा सत्यव्युत्पन्नस्यापि व्युत्पन्नवद् व्यवहारः स्यादित्युक्तम् / न चाभिलापो ऽर्थासंस्पर्शो संवेदनधर्मः, अर्थेषु तन्नियोजनात् / तस्मादर्थादुपजायमानं ज्ञानमर्थमेवादर्शयेत् नाभिलापम् / न हि रूपात् जायमानं प्रत्यक्षं रससहितमेतदादर्शयति / तस्मादभिलापसंसर्गानपेक्षमभिलापसंसर्गिणमादर्शयद् विकल्पविज्ञानं विकल्पवासनोत्थापितमनियतार्थग्राहि मानसमात्मीयमुत्प्रेक्षालक्षणं व्यापारं तिरस्कृत्यानुभवप्रभवतया अनुभवव्यापारं दर्शनु पुरस्कृत्य प्रवर्तमानमनुभवतया अभिमन्यन्ते प्रतिपत्तारः / तत् सिद्धमेतत्, यदर्थसामर्थ्यलब्धजन्म, न तत् शब्दकल्पनानुगतम्, यथा निर्विकल्पकम् / अर्थसामर्थ्यलब्धजन्मारश्र्च विवादाध्यासिता विकल्पा इति प्रसङ्गसाधनविरुद्धव्याप्तोपलब्धिः / शब्दकल्पनानुगतत्वस्य हि प्रतिषेध्यस्य विरुद्धं तदननुगतत्वम्, तेनार्थसामर्थ्यजत्वं व्याप्तम् / तस्योपलब्धिस्तदननुगतत्वमुत्थापयन्ती तदनुगतत्वं विरूणद्धीति / अथैषां प्रत्ययानां प्रत्यक्षमभि लापानुगतत्वमशक्यापह्नवम्, हन्त भोः, नार्थसामर्थ्यजत्वमिति प्रसङ्गविपर्ययः / तथा हि यदभिलापकल्पनानुगतं न तदर्थसामर्थ्यजं यथेश्वरप्रधानादिविकल्पविज्ञानम् / तथा चैते विवादाध्यासिता विकल्पा इति व्यापकविरुद्धोपलब्धिः / निषेध्यमर्थसामर्थ्यजत्वं तदभिलापकल्पनाननुगतत्वेन व्याप्तं तद्विरुद्धं च सदनुगतत्वमिति / न च सन्दिग्धव्यतिरेकिता, अर्थसामर्थ्येन हि तदुत्पद्यमानमर्थरूपम् अनुकुर्याद् न शब्दरूपम् / न ह्यर्थे शब्दाः सन्ति तदात्मानो वेत्युक्तम् / असंबद्धरूपानुकारे तु विज्ञानस्य सर्वरूपानुकारेण सर्वसर्वज्ञातापत्तिरति / सङ्केतवशात् शब्दानामर्थसंबन्धेनार्थोपलब्धौ तत्स्मरणात् तत्संसृष्टवेदनमिति चेत्? यत्र तर्हि ते कृतसङ्केताः तदेव स्मारयेदेतान् / तत्रैव च ते कृतसङ्केता यदनुगतं सामान्यम् / न च तद्दृष्टम्, किं तु स्वलक्षणं दर्शनगोचरः / तदेव हि परमार्थसद्विज्ञानस्य कारणम्, न तु सामान्यम् / सर्वसामार्थ्ययहितं हि तत् अलीकत्वात् / तस्माद् यद् द्ष्टं न तेन शब्दानां संबन्धः, येन च संबन्धो न तद्दृष्टम् / अपि च दृष्टस्य शब्दवाच्यत्वे दर्शनादिव वहिनरुष्ण इति वाक्यादपि प्रतीयेत / तथा च शब्दादपि तस्मिन् प्रतीते शीतापनोपनप्रसङ्गः / सामान्यविषयौलिङ्गशब्दौ वस्तुभूतसामान्यवच्च स्वलक्षणम् / तादृशं च तद्दर्शनस्य कारणमिति निर्विकल्पकेन प्रथमाक्षतन्निपातजन्मना जातिमद्वस्तुवेदनात् तत्रोपलब्धचरसंबन्धस्य शब्दस्य स्मरणम् / तथा च तच्छब्दाभिधेयजातिविशिष्टद्रव्यावगाहीन्द्रियार्थसन्निकर्षजन्मा विकल्पप्रत्ययो गौरयमित्येवमाकारो जायत इति चेत्? यथाहुः, निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनः / ग्रहणम् # श्लो. वा. प्रत्यक्ष. ११८ # तथा ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया / बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमता //
SK
# श्लो. वा. प्रत्यक्ष. १२० # इति / तन्न, पिण्डविवेकेन जात्यादेरविकल्पकेनाग्रहणात् / न हि जातिजातिभन्तौ वा क्रियाक्रियावन्तौ व गुणगुणिनौ वा तत्समवायो वा विवेकेन चकासति / न च विवेकेनाप्रतिभासमानः शक्या मिथो योजयितुं क्षीरोदकवदतद्वेदिना / तस्मादेकमविभागं स्वलक्षणमनादिविकल्पवासनासमारोपितजात्यादिभेदं तथा विकल्प्यत इति युक्तमुत्पश्यामः / अपि च परमार्थसद्वस्तुद्वयवेदने ऽपि कुतो विशेषणविशेष्यभावः? न ह्यङ्गुल्यावेकविज्ञानविषयौ मिथो विशेषणविशेष्यभावमापद्येते //
SK
विशेषण खलूपकारकम्, उपकार्यं च विशेष्यम् / नान्यथा तयोस्तभ्दावः / न चैकविज्ञानसमारूढयोर्ज्ञाप्यज्ञापकभावो वा कार्यकारणभावो वा संभवी, समानकालयोः तयोरूभयोरपि पौर्वापर्यनियमात् / अपि च वस्तुनिवेशे जात्यादीनामुपाधीनामेकस्य वस्तुनः सत्त्वं च द्रव्यत्वं च पार्थिवत्वं च वृक्षत्वं च शिंशपात्वं चोपाधय इति दूरादेकोपाधिविशिष्टस्य ग्रहे सर्वोपाधिविशिष्टग्रहप्रसङ्गः / तथा ह्याधाराधेयभाव उपकारगर्भो भवति / पतनधर्मणो हि बदरस्योत्तरस्य कुण्डमधरं प्रतयासन्नमपतनधर्मकं बदरं विदधदाधारः / तद्वदिहापि द्रव्येण जात्यादीनामुपाधीनामुपकर्तव्यम् / न च शक्त्यन्तरैरूपकरोति / शक्त्यन्तरपकारे ऽपि शक्त्यन्तरौकल्पनायाम् अनवस्थापातात् / तस्मात् स्वभाव एव स्वकारणाधीनजन्मा द्रव्यस्य स तादृशो येन बहूनामुपाधीनामुपकरोतीति वाच्यम् / तथा च सत्त्वोपकारसमर्थें तस्मिन् द्रव्ये गृह्यमाणे द्रव्यत्वाद्युपकारसमर्थो ऽपि स एवास्य स्वभाव इति तत्स्वभावावच्छिन्नाः सत्त्वविकल्पकेन परमार्थसद्द्रव्यावगाहिना सर्व एव द्रव्यत्वपार्थिवत्ववृक्षत्वशिशपात्वादयो विषयीकृता इति विकल्पान्तराणामानर्थक्यम् / यदाह, यस्यापि नानोपाधेर्धीग्राहिकार्थस्य भेदिनः / नानोपाध्युपकाराङ्गशक्यभिन्नात्मनो ग्रहे / सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्र्चितः //
न चैतावन्तं व्यापारकलापं विचारकनिवर्तनीयमिन्द्रियज्ञानं सहते, तस्य सन्निहितविषयबलेनोत्पत्तेरविचारकत्वात् / जातिगुणक्रियावतां चैतन्न संभवत्येव रूपविवेकसंबन्धयोरप्रतिभासनेन घटनायोगात् क्षीरोदकवदतद्वेदिनेत्युक्तम् / तस्मात् न तद्विकल्पं प्रत्यक्षमिति //
SK
अत्रोच्यते / यत् तावदुक्तम्---अर्थसामर्थ्यजत्वाभिलापसंसर्गयोग्यप्रतिभासत्त्वयोः विरोध इति, तत्र ब्रूमः / स्याद् विरोधो यदि स्वलक्षणमेवार्थः, न त्वेतदस्ति / उपपादयिष्यति हि परमार्थसन्तं जात्यादिमन्तमर्थं स्थेमभाजमभिलापसंसर्गयोग्यम् / तेन तज्जनितं ज्ञानमर्थसामर्थ्यजं चाभिलापसंसर्गयोग्यप्रतिभासं चेति न विरोधः / तथा च प्रसङ्गसाधनस्य सन्दिग्धव्यतिरेकिता / न च द्रव्याद्यभिन्नं जात्यादि भिन्नं कल्पयन्तो विकल्पा नार्थसामर्थ्यजन्मान इति सांप्रतत् / द्रव्यादपि हि भेदः साधयिष्यते तेषाम् / यथा च भेदे ऽपि तेषां तद्वाचकानां सामानाधिकरण्यं तथोपपादितमधस्तात् / न च भिन्नेन शब्देन डित्थो ऽयमित्यभेदकल्पनादर्थस्य विकल्पानामनर्थजत्वमिति युक्तम् / उक्तमेतद् अव्यपदेश्यपदव्याख्यानावसरे यथा न शब्दाभेदेनार्थयोरेकेन्द्रियज्ञानसंसर्गिता किं तु प्रथममालोचितो ऽर्थः सामान्यविशेषवान् सङ्केतग्रहण्समयवर्तिनीमात्मनो ऽवस्थां स्मारयन् तत्कालभाविनं शब्दमपि स्मारयत्यवर्जनीयतया / न त्विन्द्रियजविकल्पोत्पादं प्रत्यस्त्युपयोगः कश्चित् शब्दस्मरणस्य / अन्यथा बालमूकादीनां नेन्द्रियजः स्याद्विकल्पः शब्दस्मरणाभावात् / सङ्केतसमयवर्त्यवस्थास्मरणं तूपयुज्यते, वस्तुनस्तदानीन्तनेदानीन्तनावस्थाभेदवत एकस्येन्द्रियजेन विकल्पेनाकलनात् / शब्दस्तु संपातायातो न निवेशयत्यात्मानम् इन्द्रियजे विकल्पे / यथाह, देवदत्तादिशब्दन हृदयस्थेन यः स्मृतः / चक्षुषापि स एवायं पिण्डः संप्रति दृश्यते //
SK
अनेन हि पिण्डस्य पूर्वापरावस्थावर्तिनीमेकतामिन्दियजविकल्पगोचरत्वेन दर्शयति, न तु शब्दनिवेशनमपि / तथा, संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते / संज्ञिनः / कुतः? सा तटावस्था न रूपाच्छादनक्षमा //
SK
नार्थेन्द्रियव्यापारं व्यवधत्ते इत्यर्थः / न च प्रागवस्थास्मरणसापेक्षतया नेन्द्रियार्थसन्निकर्षः कारणं विकल्पस्येति सांप्रतम् / यतो, न किञ्चिदेकमेकस्मात् सामग्र्याः सर्वंसंभवः / # प्र. वा. ३.५३ # इति भवन्तो ऽप्याहुः / अन्यथालोकमनस्कारसापेक्षमर्थेन्द्रियं निर्विकल्पकमपि न जनयेत् / यत्तु प्रथमं नाजीजनत् तत् स्मरणसहकारिविरहात् / न हि नाजीजनत् कुशूलस्थं बीजमङ्कुरमिति न समवहितक्षित्यादिसहकारिग्राममप्यस्याजनकं भवति / न च जनकत्वाजनकत्वलक्षणो विरुद्धधर्मसंसर्गो भेदहेतुरित्युपपादयिष्यते क्षणभङ्गभङ्गे //
SK
स्यादेतत् / अतीतावस्था नेन्द्रियगोचरस्तस्य वर्तमानार्थे नियमात् / न च वर्तमानो ऽर्थः स्मरणगोचरः स्मरणस्यानुभवजनितसंस्कारोद्बोधजन्मनः पूर्वानुभवगोचरं प्रति नियमात् / तस्मात् भिन्नविषयतया नेन्द्रियसहकारिता स्मरणस्य / न हि रूपविषयाः सहस्रमपि नयनप्रदीपादयः शब्दविषयस्य श्रवसः सहकारितामापद्यन्त इति / तत् किं भवतां यत्र गन्धज्ञानानन्तरं चाक्षुषं रूपज्ञानं जायते तत्र गन्धज्ञानम् न समनन्तरप्रत्ययः? तत्रापि हि चक्षूरूपविषयं न गन्धविषयस्य ज्ञानस्य सहकारि भवितुमर्हति, भिन्नविषयत्वादेव / अथान्वयव्यतिरेकनिबन्धनः कार्यकारणभावो न समानविषयत्वमनुविधीयते इत्युच्येत्र, तदस्माकमपि समानम् / नन्वतीतावस्थाविशिष्टत्वम् अस्य नेन्द्रियसन्निकृष्टमिति कथं प्रत्यक्षम्? तत् किं यदिन्द्रियसंबद्धं तत् प्रत्यक्षम्? तथा सत्याकाशपरमाण्वादयो ऽपि तत्संयुक्ता इति ते ऽपि प्रत्यक्षाः प्रसज्येरन् / तस्माद् यदेवेन्द्रियजस्य ज्ञानस्य गोचरस्तत् प्रत्यक्षम् / न त्विन्द्रियसंबद्धम् / नन्वसंबद्धमिन्द्रियं कथं तत्र ज्ञानं जनयति? तच्च ज्ञानं कथं प्रत्यक्षम्? प्रत्यक्षं चेत्, कथमिन्द्रियार्थसन्निकर्षोत्पन्नमिति लक्षणं प्रत्यक्षं व्याप्नोति, अस्यैव प्रत्यक्षस्य लक्षणेनाव्यानात्? मा भूदर्थस्य पूर्वकालवर्तिता इन्द्रियगोचरः, तथापि स्मरणसहकारिणा संस्कारसहकारिणेन्द्रियार्थसन्निकर्षेणोपजनितं तदिन्द्रियार्थसन्निकर्षोत्पन्नं न भवति / तथा च नाव्यापकमस्य लक्षणम् //
SK
ननु पूर्वापरावस्थापरामर्शिज्ञानं कथमेकम्, विषयभेदात् पारोक्ष्यापारोक्ष्यलक्षणविरुद्धधर्मसंसर्गाच्च? तथा हि तदिति पारोक्ष्यम्, इदमिति च साक्षात्कारः / न च विरुद्धधर्मसंसर्गे ऽप्येकत्वम्, त्रैलाक्यस्यैकत्वप्रसङ्गात् / विषयभेदश्र्च पूर्वदेशकालापरदेशकालसंबन्धयोरेकस्य विरोधात् / यथा ह्येकस्मिन् पद्मरागमणौ गृह्यमाणे तदभावो व्यवच्छिद्यते, यदि पुनर्नं व्यवच्छिद्येत तदा भावो न परिच्छिद्येत, तस्य स्वाभावव्यवच्छेदरूपत्वात् / तदभावाविनाभाविनश्र्च पुष्परागादय इति ते ऽपि सर्वे वयवच्छिन्न भवन्ति / यदि पुनर्न व्यवच्छिद्यरन्, स एव पुष्परागाद्यत्मेति तदविनाभावी पद्मरागाभावः पद्मरागश्र्च स्यादिति दुर्घटमापद्येत / एवं तस्यैव पूर्वदेशकालसंबन्धे गृह्यमाणे तदभावव्यवच्छेदक्रमेणापरदेशकालसंबन्धो व्यवच्छिन्नः / पूर्वदेशकालसंबन्धाभावाव्यभिचारी / तथा च न पददेशकालसंबन्धस्वभावः / तथापि यद्यसौ तद्देशकालसंबन्धादन्यस्वभावो भवेत्, तथा सति स एव भवेत्, न भवेच्चेति दुर्घटमापद्येत / तस्मात् पूर्वदेशकालसंबन्धादन्यो ऽपरदेशकालसंबन्ध इति सिद्धो विषयभेद इति //
SK
अत्रोच्यते / यदि परोक्ष्यापारोक्ष्यधर्मभेदात् पूर्वापरावस्थापरामर्शिज्ञानं भिद्येत, हन्त भोः, तदित्यपि विकल्पो भिद्येत / सो ऽपि हि परोक्षश्चापरोक्षश्र्च विकल्पश्चाविकल्पश्र्च / अर्थे परोक्षो विकल्पश्र्च स्वात्मनि त्वविकल्पो ऽपरोक्षश्र्च / तस्माद् विषयभोदात् विरोध इति चेत्---न त्विहापि तदेकं ज्ञानं तस्यैवैकस्य वस्तुनः पूर्वदेशकालसंबन्धे परोक्षमपरोक्षं वा परदेशकालसंबन्ध इति को विरोधः? यो ऽपि कालदेशसंबन्धभेदेन विषयभेद उक्तः, सो ऽपि अयुक्तः / यतो युक्तं यत् पद्मरागस्वरूपग्रहे तदभावो व्यवच्छिद्यत इति, स्वाभावव्यवच्छेदात्मकत्वेन भावानां तदव्यवच्छेदे स्वरूपाग्रहणप्रसङ्गात् / कस्मात् पुनः पुष्परागादयो व्यवच्छिद्यन्ते, पद्मरागाभावाविनाभावादिति चेत्? अथैतदभावाविनाभावज्ञानं कुतस्त्यम्? तयोः कदाचिदपि तादा त्म्येनानुपलम्भादिति चेत्---यत्र तर्हि तादात्म्यमुपलभ्यते न तत्र तदभावाविनाभावः, तथा च पूर्वापरदेशकालसंबद्धस्तादात्म्येनानुभूयमान इन्द्रियजेन विकल्पेन पद्मरागो न भिन्नो भवितुमर्हति / तस्मात् पर्वापरदेशकालौ तत्संन्धौ वा कामं भिद्येयातां परस्पराभावाविनाभावात्, तयोरेकदापि तादात्म्येनाप्रतिभासनात् / न तु तदालिड्रिगतस्वभावः पद्मरागमणि/, तस्य ताभ्यामन्यत्वात् / न चान्यस्य भेदो ऽन्यस्य भेदमापादयति, अतिप्रसङ्गात् / न चेन्द्रियार्थसन्निकर्षाभावे ऽपि पूर्वापरावस्थापरामर्शात्मनो विकल्पस्य भावादनिन्द्रियजयत्वमिति सांप्रतम्, तथा सत्यविकल्पकमपि कामातुरस्य कामिनीं भावयतः तद्विषयमिन्द्रियार्थसन्निकर्षं विनापि दृष्टमिति नीलाद्यनुभावात्मानो ऽपि अविकल्पका अनिन्द्रियजाः प्रसज्येरन् / यदि तु नीलाद्यनुभवानां कामिन्यनुभवात् कथञ्चिद् विशेषं ब्रूयात, तदा अस्माकमपि अनिन्द्रियजेभ्यो विकल्पेभ्य उत्प्रेक्षाव्यापारेभ्यो ऽस्तीन्द्रियजानां दर्शनव्यापाराणां भेदः / न च विकल्पगतो दर्शनव्यापारो ऽनुभूयमानः सति संभवे निर्विकल्पकोपाधिरिति युक्तम् / सर्वा एव हीन्द्रियजा बुद्धयो विकल्पिका अविकल्पिका वा धारावाहिन्यो ऽमहमिकया परस्परानपेक्षा एकमर्थमवगाहमाना उदयन्ते व्ययन्ते च / न त्वमूषामन्योन्यमनुगम्यानुगन्तृतामीक्षामहे / तस्मात् इन्द्रियार्थसन्निकर्षलब्धजन्मानो विकल्पा दर्शनव्यापारा नान्य इति युक्तमुत्पश्यमः / न च शब्दप्रत्यक्षयोर्वस्तुगोचरत्वे सत्यपि प्रत्ययाभेदः कारणभेदेन पारोक्ष्यापारोक्ष्यभेदोपपत्तेः / न च वहिनसंयोगजन्मा शीतापनोदो वहिनज्ञानाद् भवितुमर्हति / न चैकोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाध्यन्तरविशिष्टतद्ग्रहप्रसङ्गः / स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते, न तूपाधयो व तैर्विशिष्टत्वं वा तस्य स्वभावः / न च यत् स्वभावसंबन्धि स स्वभावः / तथा सत्यसंबन्धित्वमेव / न हि तदेव तेन संबध्यते / अपि च रूपज्ञानं विषयग्रहणधर्म नानापरमाणुविषयं न परमाणुस्वभावः / तत्स्वभावत्वे वा तेषां सर्वान् प्रत्यविशेषात् सर्वैरेव ते परमाणवो विदिताः स्युः / न चासंबद्धा एव स्वज्ञानेन रूपपरमाणवो विषयास्तस्येति वाच्यम्, असंबद्धस्य विषयत्वे ऽतिप्रसङ्गात् / स्वभाव एवार्थज्ञानभेदयोः संबन्धो यदर्थो विषयो ज्ञानं च विषयीति चेत्? हन्तोपाध्युपाधिमतोरपि स्वभाव एव संबन्धो ऽस्तु तथापि विज्ञानार्थवन्न स्वरूपाभेदः / क्षणभङ्गपरिणामनिराकरणे तु स्वभावातिरिक्तं संबन्धमुपपादयिष्यामः / तस्मात् नैकोपाध्यन्वितग्रहणे सकलोपाध्यन्वितप्रत्ययप्रसङ्गः //
SK
यच्चैकविज्ञानगोचरयोर्न विशेष्यविशेषणभाव इति, तत्र ब्रूमः / भिन्नज्ञानगोचरत्वे ऽपि नासौ संभीति / न हि विशेषणज्ञानं विशेष्याविषयं विशेष्यमवच्छेत्तुमर्हति / एवं विशेष्यज्ञानमपि विशेषणाविषयं केन स्वविषयमवच्छिन्द्यात्, तयोः परस्परवार्तानभिज्ञत्वात्? ताभ्यां वासना, ततो मानसप्रत्ययो विशेषणविशेष्यभावाकर उत्पद्यते / न त्वस्ति विशेषणविशेष्यभावो वास्तव इति चेत्? अस्तु तावद् वास्तवावास्तवचिन्ता / करिष्यते हीयमुपरिष्टात् / यस्तु भवतामस्य मानसत्वे प्रयासः, स वरमिन्द्रियजत्व एव भवतु, तथा सति दर्शनव्यापारत्वमस्य साक्षात् समर्थितं भवति / इतरथा हि निर्विकल्पकोपधानं कल्प्येत //
SK
नन्वविचारकमिन्द्रियज्ञानं कथं विशेषणविशेष्यादि सकलं संकलयेत्? हन्त भोः किं मानसमपि ज्ञानं संकलयितुमर्हति? संकलयति मनसस्तत्कारणस्य सर्वविषयत्वात् इति चेत्? यदि पूर्वकं विज्ञानं मनः, कथं तस्य सर्वविषयता? अस्माकं तु मनः सर्वविषयमपि अचेतनतया न विचारकम् / तस्मादात्मैव सकलज्ञानतज्जनितवासनाधारः स्मर्ता च प्रतिसन्धाता च / यथाह, आत्मन्येव स्थितं ज्ञानं स हि बोद्धात्र गम्यते / स्मरणे चास्य सामर्थ्यं सन्धानादौ च विद्यते //
SK
# श्लो. वा. प्रत्यक्ष. १२२ # स सल्विन्द्रियार्थसन्निकर्षादालोच्य जातिमन्तं संमुग्धमर्थम् उद्बुद्धसंस्कारसमुपजातपूर्वपिण्डानुस्मृतिसहायः प्रागेव चक्षुषा विकल्पयति, गौरयमिति / यथाह, करणं चेन्द्रियं बुद्धेः कर्ता चात्म सचेतनः / स च स्मृतिसमर्थत्वात् सर्वार्थान् कल्पयिष्यति //
SK
तेनैकविज्ञानवेद्यत्वे यद्यपि ज्ञाप्यज्ञापकभावरूप उपकार्योपकारकभावो नास्ति, तथापि, तदर्थालोचनानुगतस्मरणयोर्विशेषणविशेष्यभावावगाहि विज्ञानं प्रत्युत्पादकत्वमेवोपकारकत्वमस्ति / अर्थौ हि रूपरूपिभावेन स्थितावपि नापातजन्मना ज्ञानेन तथा गृहीतौ, अपि तु स्वरूपमात्रेण / न हि यावदस्ति तावद् ग्रहीतव्यम्, तेन तदेकदेशग्रहे ऽपि नाप्रमाणता / सविकल्पकं तूक्तसामग्रीजन्म जात्यादिरूपतया द्रव्यं च रूपितया कल्पयत् पश्चाज्जायमानमपीन्द्रियार्थसन्निकर्षप्रभवतया प्रत्यक्षं भवत्येव / अक्रमस्यापि च क्रमवत्सहकारिभेदसमवधानवशात् क्रमेण कार्यकरणमुपपादयिष्यते / तत् सिद्धमेतद् विवादाध्यासिता विकल्पाः स्वगोचरे प्रत्यक्षा अव्यभिचारित्वे सति इन्द्रियार्थसन्निकर्षजत्वात् / यो य एवंभूतः स सर्पः प्रत्यक्षो यथालोचनम्, तथा चैतत् / तस्मात् तथेति //
Nय्S_१,१.५: अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं च //
SK
प्रत्यक्षलक्षणानन्तरमनुमानलक्षणपरं सूत्रं पठति---अथ तत्पूर्वकं त्रिविधमनुमानमिति / अत्रानुमानमिति सिद्ववत् प्रमाणाविशेषरूपलक्ष्यानुवाद एव नाप्रत्यक्षं प्रमाणमित्यप्रामाण्यमनुमानस्य सुदूदं प्रतिक्षिपति / दृष्टप्रामाण्याप्रामाण्यविज्ञानव्यक्तिसाधर्म्येण हि कासांचिद् व्यक्तीनां प्रामाण्यमप्रामाण्यं वा विदधीत / दृष्टसाधर्म्यं चानुमानम् एवेति कथं तेनैव तस्याप्रामाण्यम्? अपि चानुमानमप्रमाणमिति वाक्यप्रयोगो ऽज्ञं विप्रतिपन्नं सन्दिग्धं वा पुरुषं प्रत्यर्थंवान् / न च परपुरुषवर्तिनो देहधर्मा अपि सन्देहाज्ञानविपर्यासा गौरत्वादिवत् प्रत्यक्षमीक्षन्ते / न च तद्ववचनात् प्रत्तीयन्ते, वचनस्यापि प्रत्यक्षादन्यस्याप्रामाण्योपगमात् / पुरुषविशेषमनधिकृत्य तु वचनमनर्थङ्कं प्रयु/जानो नायं लौकिको न परीक्षक इत्युन्मत्तवदनवधेयवचनः स्यात् / परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते / तस्मादकामेनापि प्रमाणमनुमानमुपेतव्यमिति / लक्ष्यं प्रमाणभेदमनुमानमनूद्य तत्पूर्वकमिति लक्षणं विधत्ते / अथेत्यानन्तर्ये उक्तं प्रत्यक्षम् अनुमानस्य हेतुः / अथेदानीमनुमानं हेतुमद्व्युत्पाद्यते इत्यर्थः / लक्षणसूत्रतात्पर्यमाह---अनुमानेति / तदेव स्फुटयति---अनेनेति / समानजातीयानि प्रमाणतया प्रत्यक्षादीनि, असमानजातीयानि चानुमानाभासादीनि, यथा क्षणिकत्वादिषु साध्येषु सत्त्वादीनि / स्यादेतदतिव्यापकमेतत् तत्पूर्वकत्वम् / तदिति हि प्रत्यक्षं परामृशत्यानन्तर्यात् / तथा च प्रत्यक्षपूर्वकत्वमनुमानस्येवागमस्मृतिसंशयविपर्यासानामप्यस्तीति तान्यप्यनुमानं प्रसज्येरन् / अनुमानादिपूर्वकं चानुमानं न प्रत्यक्षपूर्वकमिति नानुमानं स्यात्, अनुमानलक्षणेनाव्यातत्वात् / तस्मादव्याप्त्यतिव्याप्तिभ्यामलक्षणमेतदित्यत आह---तत्पूर्वकमिति / तत्पूर्वकमित्यावृत्या विग्रहत्रयप्रदर्शनम् / तत्र प्रथमे विग्रहे तानीत्यनन्तरं सूत्रम् उवल्लङ्घ्य विभागसूत्रगताः प्रत्यक्षादयः संबन्धनीयाः योग्यत्वात् / यथाहुः, यस्य येनार्थसंबन्धो दूरस्थस्यापि तस्य सः / इति तदनेन लक्षणस्याव्याप्तिः परिहृता / तदिदमाह---यदा तानीति / नन्वेदं प्रत्यक्षपूर्वकमिति भाष्यविरोध इत्यत आह---पारम्पर्येणेति / पारम्पर्येण हि प्रत्यक्षपूर्वकत्वमुक्तं भाष्यकृता, तस्मान्न विरोध इति / अतिव्याप्तिनिरासाय द्वितीयं विग्रहं विवृणोति---यदापीति / ते इति विग्रहे अनन्तरसूत्रगतमेव प्रत्यक्षपदं संबध्यते / यथा च द्वे प्रत्यक्षे पूर्वे यस्य प्रत्यक्षस्य लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफलस्य / तदिदं तत्पूर्वकं प्रत्यक्षम्, तद्धि स्वविषये प्रत्यक्षमप्यनुमेयार्थप्रत्ययं कुर्वदनुमानम् / तदिदं तदित्युच्यते / प्रत्यक्षग्रहणमुपलक्षणार्थम्, अनुमाने इत्याद्यपि द्रष्टव्यम् / स्यादेतत् / संबन्धग्रहणसमये पदतदर्थगोचरं प्रत्यक्षं प्रथमम् / अथ तदर्थविषये द्वितीये प्रत्यक्षे सति या तत्पदविषया स्मृतिरुत्पद्यते सापि प्रत्यक्षद्वयपूर्वा / एवं लिङ्गल्लिङ्ग्सिंबन्धस्मृतिरपि प्रत्यक्षद्वयपूर्वेति तदवस्थैवातिव्याप्तिरित्याशयवान् पृच्छति--- कतरे द्वे इति / उत्तरम्---लिङ्गेति / सर्वसन्देहेष्विदमुपतिष्ठते / व्याख्यानतो विशेषप्रतिपत्तिर्न हि संन्देहादलक्षणमिति भावः / न च द्वितीयलिङ्गदर्शनं व्यप्तिस्मरणसमये विनश्यदवस्थमप्यस्ति, व्याप्तिसंस्कारोब्दोध समयजन्मना स्वजनितेन संस्कारेणास्य व्याप्तिस्मरणसमये विनाशात् / विनश्यदवस्थस्य द्वितीयलिङ्गदर्शनस्य व्याप्तिस्मरणेन सह यौगपद्ये ऽपि तयोः परस्परवार्तानभिज्ञतया मिथो घटनायोगः / न चात्मा ते घटयतीति युक्तम् / वृत्त्या खल्वयं घटयेत्, न स्वरूपतः / तस्माद् उभाभ्यामुत्पन्नं परामर्शज्ञानमिन्द्रियार्थसन्निकर्षजं तृतीयं प्रत्यक्षम् एषितव्यम् / बुभुत्सावतो द्वितीयादिति / बुभुत्साप्यनुमानज्ञानोत्पत्तौ कारणमिति दर्शयितुं बुभुत्सावत इत्युक्तम् / लिङ्गलिङ्गिसंबन्धदर्शनमाद्यं प्रत्यक्षम् इत्यत्र संबन्धपदेनानुमानाङ्ग संबन्धं विवक्षन् परोक्तान् संबन्धविकल्पान् अनुमानानङ्गभूतान् प्रतिक्षिपति---प्रत्यक्षमिति च तस्य प्रमाणमाह / तथा हि केचिदविनाभावं तादात्म्यतदुत्पत्तिनिबन्धनमनुमानाङ्गमाहुः / द्विविधो ह्यर्थः, प्रत्यक्षश्च परोक्षश्च / तत्र यो बुद्धौ साक्षादात्मीयं रूपं निवेशयति स प्रत्यक्षः / स हि स्वविषयाया बुद्धेः जनक इति तमन्तरेण बुद्धिरात्मानमनासादयन्ती तस्य सत्ता निश्चाययतीति युक्तम् / परोक्षस्तु बुद्धौ साक्षात् स्वरूपोपधानसामर्थ्यरहितो ऽयुक्तप्रतिपत्तिरेव / न चान्यदर्शने अन्यकल्पना युक्ता, अतिप्रसङ्गात् / नान्तरीयकतया त्वन्यो ऽप्यन्यं गमयेत् / स हि प्रतिबद्धस्वभावो यथाविधः सिद्धः तथाविधसन्निधानं सूचयति / स च प्रतिबन्धो न दर्शनादर्शनमात्रादवसेयः, तथा सति स श्यामो मैतनयत्वात् परिदृश्यमानमैत्रतनयस्तोमवदित्यप्यनुमानं स्यात् / इहापि हि स्तो दर्शनादर्शने / तस्मात् तादात्म्यतदुत्पत्तिनिबन्धन एव प्रतिबन्धः / यथाह कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् / अविनाभावनियमो दर्शनान्न न दर्शनात् //
SK
तथा च लिङ्गविकल्पं विना न लिङ्गिविकल्पः / न लिङ्गविकल्पो लिङ्गानुभवं विना / न लिङ्गानुभवो लिङ्गं विना / न चाविनाभूतं लिङ्गं विना लिङ्गिनमिति लिङ्गिस्वलक्षणाप्रतिभास्यपि पारम्पर्येण तत्प्रतिबन्धात् तत्राविसंवादको ऽनुमानविकल्प इति / कार्यकारणभावश्चेदम् / अस्मिन् सति भवति सत्स्वपि तदन्येष्वस्मिन्नसति न भवति एवमाकारो नान्वयव्यतिरेकाभ्यामतिरिच्यते / तौ च प्रत्यक्षपृष्ठभाविना विकल्पेनावसीयेते / तथा हि सत्यग्नौ धूम इति प्रत्यक्षमेव विकल्पानुगतव्यापारमध्यवस्यति / असति चाग्नौ न धूम इत्यपि प्रत्यक्षमेव, न ह्यग्निधूमानुपलम्भावान्यौ / अतस्तद्विविक्तवस्तूपलभ्भात् नाप्यनयोर्व्यतिरेको ऽन्यस्तद्विविक्ताद् वस्तुनः / एवं तादात्म्यमपि विपर्यये बाधकप्रमाणोपपत्त्या निश्चेतव्यम्, यथा सत्त्वस्य क्षणिकतया सह तादात्म्यं विपक्षैऽक्षणिके क्रमाक्रमयोर्व्यापकयोरनुपलम्भन्निश्चीयते / तस्मात् तादात्म्यतदुत्पत्तिभ्यामेव प्रतिबन्धो नान्यत इति //
SK
अत्रोच्यते / सत्यं यत् किञ्चित् क्वचिद् दृष्टम्, तस्य यत्र प्रतिबन्धः तद्विदस्तस्य तद्गमकं तत्रेत्यनुजानीमः / स एव तु प्रतिबन्धो न तावत् तदुत्पत्त्या संभवति / का पुनरियं तदुत्पत्तिर्धूमस्य? किं वह्न्यनन्तरं भावः? स तादृशो ऽस्ति रासभस्यापीति तत्प्रतिबद्धो ऽपि धूमः स्यात् / अथ तदनन्तरमेव भावः, न च रासभानन्तरं भवन्नपि तदनन्तरमेव भवति, तस्मिन् सत्यप्यसत्यग्नौ तदभावात् / असत्यपि तस्मिन् सति आद्रेन्धनवति वह्नौ तद्भावात् / अथ यद्यपि धूमस्य वह्निभावाभावानुविधानं तत्रोपलब्धं तथापि देशान्तरादिषु तद्भावो ऽस्य कुतस्त्यः? तथा हि भूयो भूयो रासभे दृष्टे धूमो दृष्टः, तदभावे चादृष्टः / न च स तत्कार्यः / तज्जातीयस्यैव धूमस्य रासभं विना सति वह्नौ भावात् / एवं सत्यप्यग्नौ पिशाचेन जनितो धूमः क्वचित् देशादौ तज्जातीय एव रासभवद् वह्न्यभावे ऽपि पिशाचादेव भविष्यतीति, अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् / न च सति भावमात्रं नियामकम्, तस्य रासभादिष्वष्यविशेषात् / तदनन्तरमेवेति चावधारणस्य शङ्कापनयनमन्तरेणासंभवात् / अवधारणेन तु शङ्कापनये परस्पराश्रयप्रसङ्गः //
SK
स्यादेतत् / यो यो धूमो दृष्टः स सर्वस्तावदार्द्रेन्धनसहितवह्न्यनन्तरमेव न पिशाचानन्तरम् / स च कादाचित्कतया निमित्तमपेक्षमाणो यदनन्तरमेव गम्यते तदेवाप्रतीतव्यभिचारं निमित्तीकरोति, न तु प्रतीव्यभिचारं रासभादि / नापि सर्वथा अनुपलब्धपूर्वपिशाचादि / यदि न तन्निमित्तं कस्मात् विनापि वह्नि क्वचिद् धूमो नोपलभ्यते? अथासौ सर्वथा वह्निसहितः, तथा सत्याद्रेन्धनवत् कथं वह्निरपि न कारणम्? कारणं चेत् कथं तदन्तरेण धूमभावशङ्का? अकारणस्य हि कार्यस्य नित्यं सत्त्वमसत्त्वं वा स्यात्, अनपेक्षत्वात्, न कादाचित्कत्वम् / नाप्यनेककारणकम्, अकारणकत्वप्रसङ्गादेव / वह्न्यनन्तरमेव भाव इति हि धूमस्य वह्निकार्यत्वम् / स चेत् अवह्नेरप्यनन्तरं नैवकारार्थः स्यादिति न वह्नेः कार्यम् / एवमन्यस्यापि न कार्यम् / न हि अन्यानन्तरमेव भवति, वह्नेरप्यनन्तरं भावात् / ततश्चाहेतुको धूमः स्यात् / तथा च कादाचित्कत्वव्याहतिः //
SK
सत्यम्, तत्कार्यत्वसिद्धौ स्यादेवम् / तदेव तु तदनन्तरमेव भाव इत्येवंरूपं नास्ति / यद्यपि च विना वह्नि नोपलब्धो धूमो यद्यपि च पिशाचानन्तरं नोपलभ्यते तेषामनुपलब्धेः, तथापि पिशाचकार्य एव धूमस्यत्र तत्र वह्निः कुतश्चित् स्वहेतोरूपनिपतितो रासभ इव न तु धूमस्य जनमः / तेन तदभावे ऽपि तज्जातीय एव कारणभेदजन्मा कदाचित् कादाचित्को धूमः स्यादिति अनिवृत्तिरेव शङ्कायाः / न दृष्टसंभवे नादृष्टं कल्पयितुं युक्तमिति शक्यं भवद्भिर्वक्तुम्, अनुपलब्धिलक्षणप्राप्तस्य अशक्यनिराकरणत्वात् / न चानुपलब्धन्तराण्यपि तन्निषेधे प्रभवन्ति / तस्मात् अनन्तरमेवेत्यवधारणाभावात् नैवंरूपं कार्यकारणभावावधारणं युक्तम् / न च यद् यदन्यसहितानन्तरम् मुपलब्धं तत् तदन्यरहितात् तस्माद् भवद् भिन्नजातीयं भवति / उक्तं हि रासभसहिताद् वह्नेर्यादृशो धूमः तादृश एव तद्विरहिताद् वह्नेरिति / तस्मादेवंविधा शङ्कापिशाची स्वनिवारकं तदुत्पत्तिनिश्चयमास्कन्दन्ती न शक्या निवारयितुम् / अपि चास्तु तदुत्पत्तिनिश्चयः, तथापि कस्मात् कारणमन्तरेण न कार्यं भवति? तथा च सत्यनपेक्षतया कादाचित्कत्वविहतिरिति चेत्---यथाह, नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् / अपेक्षातो हि भावानां कादाचित्कत्वसंभवः //
SK
इति / अस्तु तर्हि संबन्धः स्वाभाविकतया अन्यानपेक्षो ऽव्यभिचारी गमकाङ्गम् / स च यो वा स वा भवतु, कृतं कार्यकारणभावावधारणायासेन / यथा चैतत् तथात्रैव प्रदर्शयिष्यामः //
SK
अपि च कार्यात् कारणमनुमीयमानं ततः पूर्वमेवानुमीयेत, न तु वर्तमानकालम् / न हि हेतुसत्ता कार्यकाला कार्योत्पादाङ्गम्, अपि तु तत्पूर्वकाला / न हि नदीपूरभेदः स्वसत्तासमयवर्ति वर्षं गमयत्यपि तु तत्पूर्वकालम् / तत्कालं तु न तस्य कारणम् / अत एव साधकबाधकप्रमाणाभावेन तत्कालवर्तिन वर्षे सन्दिहाना न तदर्थिनः प्रवर्तन्ते / एवं धूमादप्यग्निः तत्पूर्वकाल एवानुमीयेत, न तु वर्तमानकालः / तथा च सति न तदर्थिनः तत्र निःशङ्कं प्रवर्तेरन् / अपि च रसादन्यद्रूपं रससमानकालमनुमिमते ऽनुमातारः / न चानयोरस्ति का कारणभावः तादात्म्यं वा / यद्युच्येत तत्पूर्वेभ्यो रूपरसगन्धस्पर्शक्षणेभ्यो रसक्षणो जायते, स स्वकारणं पूर्वरूपक्षणमनुमापयन् यादृशा तेन जनितः, तादृशमेवानुमापयति / स चानुमापकरसक्षणसमानकालरूपक्षणान्तरजनक एव स्वकारणम् इति तादृशमेव गमयति / तथा च कार्यसमानकालरूपानुमानसिद्धिः / एतेन धूमानुमानं व्याख्यातम् / यथाह, एकसामग्र्यधीनस्य रूपादेरसतो गतिः / हेतुधर्मानुमानेन धूमेन्धनविकारवत् //
SK
इति //
SK
अत्रोच्यते / यो ऽयु गमकरससमानकालो रूपक्षणः, स किं तज्जनकस्य रूपक्षणस्य स्वभाव अत तत्स्वभावावच्छेदको ऽस्वभावभूतः? न तावत् स्वभावः, एकस्मिन्नभिन्ने जन्यजनकभावानुपपत्तेः, तस्य भेदाश्रयात् / तदस्वभावभूतः कथं तदनुमाननिवेशी? तदवच्छेदकत्वादित चेत्? ननु नैतावताप्यस्य तुल्यकालस्य रूपस्य कारणभाव इति कथं कार्यं हेतोर्गम्येत? विशिष्टेन कारणस्वभावेनास्वभावो ऽपि असावाक्षिप्यते विशेषणतयेति चेत्? नन्वाक्षिप्यते ज्ञाप्यत इत्यनर्थान्तरम् / स किं कारणानुमितेः प्रागथानुमितिसमये पश्चाद् वा? न तावत् प्राक् न हि सत्तामात्रेण कारणं तद् गमयत्यतिप्रसङ्गात्, किं तु स्वज्ञानेन / न च कार्यमस्य गमकम्, अकारणत्वादित्युक्तम् / अत एवानुमितिसमये ऽप्यगमकम्, स्वज्ञानेन गमकत्वात् / उभयोश्च ज्ञानयोः सहभवतोः सव्येतरविषाणवत् कार्यकारणभावाभावात् / तथा च रसात् कार्यात् तत्कारणं रूपमनुमातव्यम् / तथा च कारणात् कार्यानुमानं तादात्म्यतदुत्पत्तिभ्यामन्यत इति नाभ्यामेव प्रतिबन्धसिद्धिः / लौकिकानां चेदं रसाद् रूपानुमानम्, न चैते पिशितचक्षुषः क्षणानामन्योन्यभेदमध्यवस्यन्ति / न चानध्यवस्यन्तः प्रवृत्तरूपोत्पादनसामर्थ्यं रसहेतुं रूपमनुमातुमुत्सहन्ते / न च लक्षणानुरोधेन लक्ष्यस्यान्यथाकरणं युक्तं परीक्षकारणम् / अतिपतितलोकमर्यादानां तेषां तत्त्वानुपपत्तेः / यथाहुः, सिद्धानुगममात्रं च कर्तुं युक्तं परीक्षकैः / न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् //
SK
इति / अपि चाद्यतनस्य सवितुरूदयस्य ह्यस्तनेन सवितुरूदयेन, चन्द्रोदयस्य च समानकालस्य समुद्रवृद्ध्या, मध्यनक्षत्रदृष्ट्या चाष्टमास्तमयोदयस्य, न कार्यकारणभावः तादात्म्यं वा, अथ च दृष्टो गम्यगमकभावः / अपि च तादात्म्ये ऽपि कथं गम्यगमकभावः? न हि तदेव कर्म च कर्तृ चेति युक्तम् / तस्य भेदाश्रयत्वात् / यद्यपि च वृक्षत्वशिंशपात्वे परमार्थतो न भिन्ने तथापि भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां कल्पितभेदयोर्गम्यगमकभाव इति चेत्---न, वास्तवमेव वृक्षत्वशिंशपात्वयोर्भेदमुपपादयिष्यामः / अपि च काल्पनिकमपि रूपं विचार्यमाणं न यथा भिन्नमेवमभिन्नमपि न भवति, वस्तुनो ऽपि तुच्छत्वप्रसङ्गात् / काल्पनिकस्यावास्तवत्वेन तत्त्वानुपपत्तेः / तस्मात् कल्पनारूढयोर्नवस्तुतादात्म्यम्, नापि परस्परम् / तथा सति सद्द्रव्यपार्थिववृक्षशिशपादिविकल्पानां च पर्यायत्वप्रसङ्गात् //
SK
स्यादेतत् / कल्पनाभेदविरहिणां भेदमुल्लिखन्त्यपि परस्परमेषामभेदमप्यवगाहते सामानाधिकरण्याकारत्वात्, अभेदानुल्लेखे तदनुपपत्तेः / तथा च तादात्म्यं सिद्धमिति / तदयुक्तम् / उक्तं हि यथा सामानाधिकरण्यं न भावानामभेदसाधकम् / जात्यादिशब्दा हि जात्यादीन् निमित्तीकृत्य द्रव्ये वर्तन्ते / तच्चाधिकरणमेकमिति सामानाधिकरण्यम् अश्नुवते, न पुनर्जात्यादीनपि मिथो मिश्रयन्ति / शब्दसमानविषयाणां विकल्पानाम् अपीयमेव गति / तस्माद् यत्र गम्यगमकभावो न तत्र तादात्म्यम्, यत्र तादात्म्यं न तत्र गम्यगमकभाव इति सद्धिम् / यत्तु विदितशिंशपाव्यवहारमविदितवृक्षव्यवहारमुच्चायां हि शिंशपायां वृक्षशब्दः प्रयुक्तः, तस्मादुच्चत्वमेव वृक्षशब्दप्रवृत्तिनिमित्तमिति मन्यमानं मूढं प्रति शिंशपात्वेन वृक्षव्यवहारमात्रं साध्यते / वामनायामपि शिशपायां वृक्ष इति व्यवहर्तव्यम्, शिंशपामात्रानुबन्धित्वाद् वृक्षत्वस्येति / तत्रापि चेद् व्यवहारः साध्यः स शिंशपाया भिन्न इति, न तादात्म्यम् / व्यवहारयोग्यता चेत्? सा शिंशपाया अभिन्नेति न गम्यगमकभावः / व्यावृत्तिभेदे चोक्तम् / तस्मात् तादात्म्यतदुत्पत्तिभ्यां प्रतिबन्ध इति मनोरथमात्रम् //
भूतेभ्य इति सूत्रावयवतात्पर्यव्याख्यानपरं भाष्यं भूतेभ्य इतीति / नानाप्रकृतीनामित्यादि / तद् वार्त्तिककारो व्याचष्टे---भूतेभ्य इति / पृच्छति---कः पुनरिति / उत्तरम्---भूतगुणविशेषग्रहणसाधनत्वम् घ्राणेनैव हि पृथिव्या यो गुणविशेषो गन्धः स गृह्यते, न रसनादिना / एवं रसनेनैवापां यो माधुर्यं गुणविशेषः स गृह्यते, न घ्राणादिना / एवं चक्षुषैव शुक्लभास्वरं रूपं तेजसः / एवं त्वचैवानुष्णाशीतस्पर्शो ऽपाकजो वायोः / एवं श्रोत्रेणैव शब्दो नभस इति हि नियमः //
SK
अत्र च प्रयोगः, गन्धोपलब्धिः करणसाध्या क्रियात्वात् छिदिक्रियावदिति / एवं सा तदन्यक्रियाकारणातिरिक्तकरणनिष्पाद्या, तदन्वयव्यतिरेकाननुविधाने सति कार्यत्वात् / या यत्क्रियाकरणान्वयतिरेकाननुविधाने सति कार्या, स सर्वा तक्रियाकरणातिरिक्तकरणनिष्पाद्या, यथा पटादिक्रिया घटदिक्रियाकरणचक्रदण्डाद्यतिरिक्तवेमादिकरणनिष्पाद्या / तथा चेयम् / तस्मात् तथेति / तच्च करणं चक्षुराद्यतिरिक्तं घ्राणम् / तद् द्रव्यम्, संयोगाधारत्वाद् घटदिवत् / तच्च पार्थिवम्, द्रव्यत्वे सति रूपादिषु मध्ये गन्धस्यैव व्य/जकत्वात्, पार्थिवान्तरवत् / एवं रसनादिष्वपि योज्यम् / तदिदमुक्तम्---यज्जातीयमिन्द्रियं पार्थिवं पार्थसीयं वा भवति, तस्य पृथिव्याः पाथसो वा यो गुणविशेषो गन्धो वा मधुर एव वा रसभेदः, तेन हि पृथिवी अबादिभ्यः, आपो वा पृथिव्यादिभ्यो व्यवच्छिद्यन्ते इति / इतरेतरभूतव्यवच्छेदहेतुः स तेनैवेन्द्रियेण गृह्यते नान्येनेति / न चैवे रसना अपामिव पृथिव्या अपि रसभेदं गृह्णातीति पार्थिवी भवति / तथात्वे तया गन्धो ऽप्युपलभ्येत / तेन तेनैवेन्द्रियेणेति नियमो गुणविशेषमवधारयति, न त्विन्द्रियमिमि / अत्र च कर्णशष्कुलीसंयोगोपाधिना श्रोत्रस्य नभसः कथञ्चिद् भेदं विवक्षित्वा भूतेभ्य इति प/यम्यर्थो व्याख्येयः //
यद्यपि शरीरेन्द्रियबुद्धिसुखदुःखोपभोगातिरिक्तं गौणमुख्यफलं भिन्नं नास्ति, ते च यथायोगं पूर्वं लक्षिताः, तेनापि च रूपेण ते निर्वेदोपयोगिनः, तथापि प्रवृत्तिदोषजनितत्वेनापि रूपेणामी निर्वेदोपयोगिन इति तेन रूपेण लक्ष्यन्ते //
SK
प्रवृ---लम् //
SK
अत्र च प्रवृत्तिजनित इति वक्तव्ये दोषग्रहणं न केवलं प्रवृत्ति प्रति दोषाणां हेतुभावः, अपि तु प्रवृत्तिकार्ये सूखदुःखे अपि प्रति इति दर्शनार्थम् / दोषसलिलावसिक्तायां खल्वात्मभूमौ धर्माधर्मबीजे सुखदुःखे जनयतः, नान्यथा / न चास्ति सम्भवो न तत्र तृष्यति तच्च तस्य सुखम्, न च तद् द्वेष्टि तच्च तस्य दुःखमिति / सूत्रे अर्थग्रहणं गौणमुख्यफलावरोधार्थम् / भाष्ये च निष्ठा समाप्तिः / सा च महाप्रलये ऽष्यस्तीत्यत उक्तम्---पर्यवसानमिति / अवसानमात्रमस्ति, न तु परितः पुनरपि सर्गहानोपादानयोर्भावादित्यर्थः / सुबोधं वार्त्तिकम्
तदेतद् दूषयति---एतच्चेति / वस्तु हि यादृशं स्वकारणादुत्पन्नं तादृशमेव तत् / न तस्यान्यथाभाव इति न तत्र दोषो निविशते / तद्विषयाणि पदान्यपि प्रत्येकम् अदुष्टान्येव / या पुनः षौरुषेयी दृष्टमन्यत्रार्थमन्यत्र समारोप्य भ्रान्त्या वा परविप्रलम्भाय वा प्रतिज्ञादिरूपेण वाक्यक्रिया, सा स्ववचनविरोधादिशालिनी दुष्टा / तद्द्वारेण पुरुषो निगृह्यते, नार्थो न पदानीति / स्वार्थापवादः स्ववचनविरोधः कर्तृदोषो भ्रमो वा विप्रलम्भो वा क्रियायामुपचर्यते / न च क्रियायां भ्रमो वा विप्रलम्भो वा, तयोरभिप्रायभेदतया पुरुषधर्मत्वात् क्रियाया वस्तुबाधनात् पुरुषाभिप्रायावगतिरिति क्रियाद्वारेणेत्युक्तम् //
SK
चोदयति---अथ प्रतिज्ञाया इति / तदेतदतिप्रसङ्गेन दूषयति---नैतद् युक्तं हेत्वादीति / न पुनर्दूषणानि न्यूनतावयवात्तरदोषाक्षेपभावोद्भावनानीति / त्रैरूप्यसंपन्नो हेतुः पूर्णः / स त्रिषु रूपेष्वन्यतमेन रूपेण रहितो न्यूनो ऽसिद्धो वा विरुद्धो वा अनैकान्तिको वा भवतीति सो ऽयं न्यूनतादोषो हेतोः / अवयवदोषश्च प्रतिज्ञादोषः स्ववचनविरोधादिः / हेतुदोषो ऽसिद्धात्वादिः एवमुदाहरणरणदोषः साध्यविकलत्वादिः / उत्तरदोषो जातिः प्राप्त्यप्राप्तिसमादिः / तस्याक्षेप उपादानं स्वीकार इति यावत् / भावो ऽप्रतिभादिः / स हि वादिनो वा प्रतिवादिनो वाभिप्रायः / तस्योद्भावनानि दूषणनीति / न हि संभवे सत्युपचार इति / प्रतिज्ञागता हि दोषा यदि तद्गतत्वेन उद्भाव्यमाना न वादिनो निग्रहमापादयेयुः, ततस्तत्र निष्प्रयोजनत्वेनासंभवात् पक्ष एवोपचर्येरन्, पारयन्ति तु प्रतिज्ञागतानि दूषणानि निग्रहितुं वादिनमिति / सो ऽयं प्रतिज्ञादोषाणां प्रतिज्ञायां संभव इति / कस्मात् पुनर्मञ्चस्था इत्येवं न प्रयु/जते इत्यत उक्तम्---लौकिकप्रयुक्तवाक्यान्वाख्यानम् / न, अनादिर्लोकप्रयोगो नियोज्यः पर्यनुयोज्यो वेत्यर्थः //
SK
स्यादेतत् / इष्टग्रहणमनक्षरारूढमप्यभिप्रायव्याप्तं साध्यं तथा स्यादित्येवमर्थं यथा परार्थाश्चक्षुरादय इति / अत्र हि पारार्थ्यमात्रमक्षरारूढम् / न च तन्मात्रमस्य साध्यम्, अपि त्वात्मपारार्थ्यम् / तच्च नोच्चारयति मा भूदनन्वयो हेतुः संघातत्वादिति / तस्मात् तदवरोधायेष्टग्रहणमित्याह---अथेष्टग्रहणेनेति / परिहरति---अयमप्यर्थः साधनादेवगम्यते / प्रतिज्ञाप्रयोगादेव गम्यते / अयमभिसन्धिः / वचनलिङ्गाः हि वक्त्रभिप्राया भवन्ति / यत्परं च वचनं स वचनार्थः / तात्पर्यं चास्य क्वचिद् वाच्ये क्वचिल्लक्ष्य इति सर्व एवासौ वचनार्थः / यस्तु नैवंविधः कथमसौ वचनार्थः? कथमसौ वाद्यभिप्रायव्याप्त इत्यवगन्तव्यम्? न च क्वचिदपि पक्षः प्रतिज्ञापदवाच्यः, तस्य वाक्यार्थत्वेन लक्ष्यत्वाद् एवेति / अनिष्टनिवृत्तिरिष्टेति / तत्साधनमन्विष्यमाणमपि तदानीमिष्टमेव / तत्र प्रयत्नानुपपत्तेरिच्छापूर्वकत्वात् तस्येति / अथ संशयो विचारणेति / ततश्च संशयविषय इष्यमाणो जिज्ञास्यमानश्च साध्य एव भवति, न साधनादिरित्यर्थः //
SK
स्थानान्तरीयं च भदन्तस्य लक्षणम्, साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः //
SK
इति दूषयति---एवेनेति / अत्रापि हि साध्यपदादूर्ध्वं वृथाक्षरचतुष्टयमिति / तथा पक्षो यः साधयितुमिष्टः इत्यत्रापि वसुबन्धुलक्षणे विरुद्धार्थानिराकृतग्रहणं न कर्तव्यम् / एतदुक्तं भवति---न केवलमस्माक्रमेतद् विरुद्धार्थानिराकृतपदमनर्थकं प्रतिभाति, समानतीर्थानामपि तथा विभाति, यतस्तैर्नोपात्तमिति / अत एवं वक्तव्यं पक्षो यः साधयितुमिष्ट इति / यद्यप्यत्रापि प्रयोज्यप्रयोजकव्यापारयोः साधयितुमिति समानम्, तथापि तुमुना य एव साधयिता वादी स एवैषितेत्युक्तं भवति / न पुनर्वादिनो नियोक्ता साधयिता वादी चैषितेति / एषितृत्वं च वादिनो ध्रुवं कृत्वैतदुच्यते, यदा पनुरेषितृत्वमपि प्रयोजके संचार्यते, तदा स्वयङ्ग्रहणेनाप्यप्रतीकार इत्यभिप्रायः तत्त्वभाक्तयोश्चेति / सिद्धः साध्यस्य प्रयोजकः कर्ता / स हि सिध्यन्तं साध्यं वादी तस्मिन्नियं साधना समवेता / यस्तु तस्यापि प्रयोजकस्तृतीयस्थानपतितो न तस्मिन् साधना समवैतीति / यः कारयति स करोत्येवेति कथञ्चिदस्य भक्त्या कर्तृत्वम्, तच्चायुक्तं सति मुख्ये कर्तरीत्यभिप्रायः / आ/जसत्वं मुख्यत्वम् / पूवाभिप्रायस्थितमर्थमुद्घाटयति---तुमुनश्चेति / अत्रोक्तं भाष्यकारीयाभ्युपगमसिद्धान्तनिराकरणावसरे ऽप्रमाणकमर्थमिति / यस्तावत् शास्त्राविरुद्धो ऽर्थः प्रमाणसिद्धः स शास्त्रीय एव शास्त्राभ्युपेतप्रमाणसिद्धत्वात्, तं व्युत्पादयन् न शास्त्रं बाधते / यस्तु प्रमाणीकृतवैशषिकतन्त्रः शब्दनित्यत्वं साधयति सो ऽनवधेयवचनः न हेत्वभिधानं यावत् परिषत्प्रतिवादिभ्यां नीयते, अपि तु प्रतिज्ञोच्चारणानन्तरमेव निगृह्यते / यस्तु वैशेषिकतन्त्राध्ययनमात्राद् वैशेषिकत्वमात्मनो दर्शयित्वा शब्दनित्यतां प्रतिजानीते नासौ प्रमाणीकृतवैशेषिकतन्त्र इति न निगृह्यते इति / यश्चाप्रमाणको ऽभ्युपगम इति / अभ्युपगम्यत इत्यभ्युपगमः / तदभिधानं प्रतिज्ञेति वक्तव्यमिति / साध्यग्रहणात् तद्ग्रहणस्य लाघवादित्यर्थः / यस्तु तत्रभवता नैयायिकेन इति पुकृतमुपसंहरति---तस्मादपेतेति
SK
Nय्S_१,१.३४: उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः //
SK
अवान्तरसंगति प्रदर्शयन् प्रतिज्ञावचनस्य साधनाङ्गत्वमपि दर्शयति---हेतोरवसरप्राप्तस्येति / प्रतिज्ञानन्तरं हेतुवचनस्यावसरः / तथा हि परप्रत्यायनाय वचनम् उच्चारयन्ति प्रेक्षावन्तः / तदेव च परे बोधयितव्या यद् बुभुत्सन्ते / तथा सत्यनेनापेक्षिताभिधायिना परो बोधितो भवति / नो खल्वाम्रान् पृष्टः कोविदारानाचक्षाणः प्रष्टुरवधेयवचनो भवति / अनवधेयवचनश्च कथं प्रतिपादको नाम? यथा च माठर समिधमाहरेति गुरुणा प्रेषित एषोहमाहरामीत्यनुक्त्वा तदर्थं तदर्यं यदायं दात्राय गृहं प्रविशति, तदास्मै कुप्यति गुरः आः शिष्यापसद छान्दसवचर माठर मामवधीरयसीति ब्रुवाणः / एवमनित्यं शब्दं बुभुत्समानायानित्यः शब्द इत्यनुक्त्वा यदेव किश्चिदुच्यते कृतकत्वादिति वा, यत् कृतकं तदनित्यमिति वा, कृतकश्च शब्द इति वा तत् सर्वमस्यानपेक्षितम् आपाततो ऽसंबद्धाभिधानबुद्ध्या, तथा चानवहितो न बोद्धुमर्हतीति / यत् कृतकं तत् सर्वमनित्यं यथा घटः, कृतकश्च शब्दः इति वचनमर्थसामर्थ्येनैवापेक्षितशब्दानित्यत्वनिश्चायकमित्यवधानमत्रेति चेत्---न, परस्पराश्रयत्वप्रसङ्गात् / अवधाने हि सति अतो ऽर्थे निश्चयः / तस्माच्चावधानमिति / न च परिषत्प्रतिवादिनौ प्रमाणीकृतवादिनौ यदेतद् वचनं संबन्धाय प्रतीक्षेते, तथा च सति न हेत्वाद्यप्यपेक्षेताम्, तद्वचनादेव तदर्थनिश्चयात् / अनित्यः शब्द इति त्वपेक्षित उक्ते कुत इत्यपेक्षायां कृतकत्वादिति हेतुरुप तिष्ठते / सो ऽयं पञ्चावयवप्रयोगे च तल्लक्षणे च प्रतिज्ञानन्तरकाल एवावसरो हेतोः / तदेवं हेतोरवसरप्राप्तस्य सामान्यलक्षणापदेशद्वारेण तद्विशेषलक्षणसूत्रम्--- उदा-तुः//३४// श्रुत्यर्थाभ्यामुभयलक्षणसूचनात् सूत्रम / अत्र हेतुरिति लक्ष्यनिर्देशः / स च विभागोद्देशे वाक्यावयव इति वचनरूपः / तस्य सामान्यलक्षणं साध्यसाधनमिति साध्यते ऽनेनेति व्युत्पत्त्या यद्यपि पारार्थ्यापन्नं कृतकत्वादिकमर्थम् आह, तथापि तस्य वचनात्मकहेतुसामानधिकरण्यानुपपत्तेर्विषयि कृतकत्वादित्यादिकं वचनमुपलक्षयति / यदि च वचनं हेतुरित्युच्येत तत्साध्येन समभिव्याहृतं प्रतिज्ञा स्यात् / अथ वचनमित्येतावदुच्येत, तदातिव्याप्तिः स्यात् / उपचारे तु न क्वचित् प्रसङ्गः / उपनयादपि साधनं न पराङ्गतया गम्यते, किं तु प्रातिपदिकार्थप्रधानतया स्वनिष्ठमिति न तत्रापि प्रसङ्गः / हेत्वाभासाश्च न साधनमिति साधनपदेनैव निराकृताः / न्यायवाक्यावयवत्वादेव च न शब्दे प्रसङ्गः / तदेवं समानासमानजातीयव्यवच्छेदकत्वं सिद्धं सामान्यलक्षणस्य / इदं चार्थम् / श्रौतं तु विशेषलक्षणम् / हेतुरिति यद्यपि सामान्यपदम्, तथापि प्रकरणादन्वयव्यतिरेकिहेतुविशेषपरं द्रष्टव्यम् / तेन हेतुरिति लक्ष्यनिर्देशः / परिशिष्टं तु लक्षणम् //
एतत् किल हेतुलक्षण भदन्तो दूषयांबभूव साधनं यदि सार्ध्म्यं न वाक्यांशः, न ह्यर्थः पञ्चावयववाक्यस्यावयवः / यदि साधनसाधर्म्ययोरत्यन्ताभेदो यदि वा सामान्यविशेषभावेन कथञ्चिद् भेदः उभयथापि न पञ्चमी, साधनसामानाधिकरण्येन प्रथमाप्रसङ्गात् / अत्यन्ताभेदे चैकतरपदाप्रयोगात् / वाक्यं चेत् ततः पञ्चम्युपपद्यते / साधनं हि वाक्यरूपु साधर्म्यादर्थादुत्थितं यतः / तद्विशेष्यं स्यात् न हि वाक्यमेवार्थादुत्थितम्, अपि तु विवक्षाद्यपीति / न विशेष्यम्, कुतः? साधनत्वादसंभवः //
इति / यत्र च प्रत्क्षानुमानागमविरोधः, अनुष्णो ऽग्निर्द्रव्यत्वादिति च अश्रावणः शब्दो गुणत्वादिति च, शुचि नरशिरःकपालं प्राण्यङ्गत्वादिति च, स सर्वः प्रमाणतो विपरीतनिर्णयेन सन्देहविशिष्टं कालमतिपततीति सो ऽयं कालस्यात्ययेनापदिश्यमानः कालातीत इति / तथा चोदाहृतं
SK
यत्तु प्रत्यक्षागमविरुद्धं न्यायाभासः सः /
SK
इत्यत्र वार्त्तिककृता बाधाविनाभावयोः सहासंभव इति चात्र बौद्धानामाक्षेपो ऽस्माभिः समाहितः / एवं व्यवस्थिते भाष्यकारः सूत्रं स्वपरमतश्लिष्टं व्याचष्टे---कालात्ययेन संशयकालात्ययेन युक्तो यस्य हेतोरपदिश्यमानस्याथैङ्कदेशः / धर्मविशिष्टो हि धर्मी हेतोरपदिश्यमानस्यार्थः / सर् ह्यति हेतुना, तस्यैकदेशः साध्यधर्मः / स हि धर्मिणि बलबला प्रमाणेन तद्विपरोतधर्मनिर्णयं कुर्वता संशयकालमतिपातितः / स तादृशो हेतुः कालात्ययापदिष्टः कालातीत इति स्वमतेनास्यार्थः / अत्र च पूर्वमेवोदाहृतमिति पौनरुक्त्यात् नोदाहृतम् /
SK
परमते च कालात्ययेन युक्तो यस्य हेतोरर्थरूप एकदेशो हेतुविशेषणमिति यावत्, स कालात्ययापदिष्ट इति योजना / परमतेनैव निदर्शनमाह---निदर्शनमिति / नित्यत्वं चात्रावस्थानमात्रमभिमतमिति, न
स्थान्यर्थो गुणशब्दो यो वस्तुतः स एव प्रधानशब्दः स्थानार्थ इति कल्पयित्वेति योजना / यथा हि वाक्छवले नवीनार्थो नवशब्दः संख्या भेदे कल्पितः, तथेहापीति पूर्वः पक्षः
अतः परमिदानीमिति / (२०७/१२) न ह्यवयवीनाम कश्चिदर्थान्तरभूतो ऽवयवेभ्यो ऽस्ति, अपि त्ववयवा एव परमार्थसन्तः, तेषु च कतिपयानवयवान् गृहीत्वा तत्सहचरितानवयवाननुमाय प्रतिसन्धानजेयं वृक्षबुद्धिस्तानेवावयवानालम्बमानानुमानमिति प्रत्यक्षस्यानुमाने ऽन्तर्भावाद्विभागसूत्रेण न्यूनाधिकसङ्ख्याव्यवच्छेदो नोपपद्यत इत्यर्थः / निराकरोति / न यथासम्भवं विकल्पानुपपत्तेः / एकदेशो ह्यवयविन आधार इति / (२०८/१४) एकश्चासौ देशश्चेत्येकदेशः / देशश्चाधारो न चाधेयो ऽस्त्यवयवीति कथमाधार इत्यर्थः / आहो शब्दार्थकौशलमाह / शब्दे ऽर्थे वा कौशलमित्यर्थः / अर्थे तावदकौशलमाह / अकार्येति / कार्यस्यैकस्य कारणानां तदेकं कार्यं कर्तु परस्परप्रत्यासत्तिभर्वति / यथा मृद्दण्डचक्रसूत्राणां घटे जनयितव्ये प्रत्यासत्तिः / कार्याणां चैकसामग्रीजन्मनां परस्परप्रत्यामत्तिः, यथा रूपरसगन्धस्पर्शानां, कार्यकारणयोर्वा, यथा अग्निधूमयोः, येषां तु न कार्यकानपरणभावो नैककार्यत्वं वा नैककारणत्वं वा, तेषां कुतो नियमवती प्रत्यासत्तिरित्यर्थः / शब्दाकौशलमाह / न च परस्परेति / अवयविनं दधदवयवान्तरमवयवान्तरमपेक्षते / ततश्चावयवाः परस्परोपकारिणो भवन्ति / अवयव्यभावे तु न परस्परोपकारिणः कथमवयवा इत्यर्थः / न चावृक्षप्रतिसन्धानजेति / स्वस्तिमतीं हि गां गृहीत्वा कालाक्ष्यां गवि गौरिति प्रतिसन्धानं दृष्टं, न त्वश्वं गृहीत्वाश्वान्तरे गौरिति प्रतिसन्धानं दृष्टं, तत्कस्य हेतोः, तयोरगोत्वात्, --एवमर्वाग्भागपरभागानामवृक्षत्वाद्वृक्ष इति प्रतिसन्धानं न भवेदित्यर्थः / यद्युच्येत मा भूद्वृक्षरूपधर्मिग्रहः, पूर्वमर्वाग्भागं धर्मिणं वृक्षविशेषमनुमाय प्रतिसन्धास्यतीत्यत आह / न चानुमानम् / ( २०९ / ६ ) कस्मादित्यत आह / अनुमान इति / नायमनुमाता पूर्वमनुपलभ्याग्निमनुमानेन च धूमविशेषणमग्निं प्रतिपद्य प्रतिसंधत्ते अयं धूमो ऽयं चाग्निरिति / अथ पूर्वं प्रतिसंधानं पश्चादनुमानमित्यत आह / न च प्रतिसन्धायेति / प्रतिसन्धानसमय एवाग्नेरवगतत्वाद्भवितव्यमत्राग्निनेति व्यर्थमनुमानं स्यादित्यर्थः / अभ्युपेत्याह / प्रतिसन्धायापि चेति / किं चार्वाग्भागमयमिति / स भागवान् भागो न भवति किं तु भाग्येव / कस्मान्न पश्यतीत्यत आह / नार्वाग्भागपरभागौ संवद्धौ / ( २१० / ४ ) एकावयविसमवायेन हि परस्परसम्बद्धौ स्यातां, न चावयव्यस्ति, न चापिव संयुक्तौ, संयोगस्यावयविनिरासमार्गेण निरस्तत्वादित्यर्थः / पृच्छति / कथं पुनरिति / उत्तरं नित्यमर्वाग्भागेनेति / सम्बन्धस्तावन्नास्तीत्युक्तमेव / तमभ्युपगय तूत्तरं-- सत्यं सम्बद्धौ सत्यपि सम्बन्ध अशक्यग्रहो ऽसावित्यर्थः / सत्यं सम्बद्धावित्ययमभ्युपगमवाद एव / यच्चेदमुच्यते प्रतिसन्धानप्रत्ययजेति / पूर्वं सत्यपि वृक्ष अवयवानामवृक्षत्वान्नावयवे प्रतिसन्धानजा वृक्षबुद्धिरित्युक्तं, सम्प्रति तु वृक्षस्यासत्त्वेन नावयवे वृक्ष इति प्रतिसन्धानम्रित्यपौनरुक्त्यम् / रूपं च मयोपलब्धं रसश्चेति / य एवोपलब्धा रसप्रत्ययोपरञ्जितः स एव रूपप्रत्ययोपरञ्जित इत्यर्थः / प्रमाणस्य यथाभूतार्थपरिच्छेदकत्वादिति / यथा भ्रान्तमप्यनुमानमर्थसम्बन्धेन प्रमाणमिति न भवति, तथा प्रथमे ऽध्याये दर्शितम् / प्रधानानुकारेण (२११/१) भ्रान्तिरिति पिपरीतख्यातौ सत्यां, सा चोपपादिता प्रथमाध्याये / न तथा शब्दस्यार्थानभिधानादिति / कः पुनरयं तथाशब्दार्थः / परमाणूनां रूपं वा नैरन्तर्यं वा संयोगभेदो वा उत्पादभेदो वा / यदि रूपमात्रंए तद् घटादिष्वपीति वृक्षबुद्धिः स्यात् / अथ रूपभेदः, क्षणान्तरेणावृक्षः स्यात् / न हि तत्पूर्वं रूपम् / अथ नैरन्तर्ये तद् घटादिष्वप्यस्ति / न वा क्वचिदपि, गन्धरसरूपस्पर्शपरमाणुव्यवधानात् / न संयोवगो भवद्भिरास्थीयत इति कुतस्तद्भेदः / उत्पादभेदो ऽपि परमाणूनां रूपमेव / न हि परमाणुव्यतिरिक्तः कश्चिदस्ति तेषामुत्पादः / रूपं च पूर्वं विकल्पितम् / यदि हि क्वचिदवयवसन्निवेशो वास्तवः पूर्वापरभागादिशब्दप्रवृत्तिहेतुरुपलब्धः स्यात् ततस्तथाशब्दार्थः प्रतीयेत, न तु भवतां क्वचिदेष वास्तवः, वस्तुसतां परमाणूनामभागत्वादित्यर्थः / सामान्यतोदृष्टे धर्मिविषयकमपि प्रत्यक्षं नास्तीति भ्रानतः पृच्छति / सामान्यतोदृष्टस्येति / (२१२/६) उत्तरम् / अयं विशेष इति / द्विकस्य प्रत्यक्षेण प्रसिद्धौ सामान्यतोदृष्टं प्रवर्त्तते / त्रिकस्य तु प्रत्यक्षेण प्रसिद्धौ प्रत्यक्षतोदृष्टमिति विशेषः / सर्वस्याप्रत्यक्षत्वाद् वृक्षबुद्धिर्न प्रत्यक्षतोदृष्टादनुमानादपि सामान्यतोदृष्टादित्याह / भवत्पक्षे त्विति
SK
Nय्S_२,१.३१: न प्रत्यक्षेण यावत् तावदप्युपलम्भात् //
SK
न प्र-त् (सू. ३१) // न प्रत्यक्षस्यानुमानता / कुतः यावदेकदेशभूतस्यार्थजातस्य ग्रहणमेकदेशग्रहणादुपलब्धेरित्यत्र हेताविष्यते तावदपि प्रत्यक्षेण / अन्यथैकदेशग्रहणाभावेनानुमानानुदयात् / अनुमानान्तरेण वा तद्ग्रहणे अनवस्थापातात् / अतस्तावतो ऽर्थजातस्य प्रत्यक्षेणोपलम्भात्तावत्प्रत्यक्षमनुमानमिति प्रतिज्ञा हेतुना एकदेशग्रहणानुपलब्धेरित्यनेन बाधिता, एकदेशग्रहणस्य प्रत्यक्षेणानभ्युपगमे वा प्रमाणान्तरस्य तत्रानुपपत्तेरसिद्धो हेतुःए सेयमुभयतस्पाशा रज्जुरित्यर्थः / अनुमानेनैकदेशग्रहणान्नासिद्धो हेतुरित्यत आह भाष्यकारः न चैकदेशग्रहणमिति / अनुमितिरनुमानम् / भावयितुं कर्तुम् अनवस्थाप्रसङ्गेन हेत्वभावादिति / तदेतत्सूत्रं वार्त्तिककारो व्याचष्टे / विरुद्धश्चायमिति / नन्वेकदेशप्रत्यक्षत्वे ऽपि तन्मात्रं प्रत्यक्षं, न तु सर्वं प्रत्यक्षं स्यादित्यत आह / न चैवं प्रतिज्ञायते सर्वमिति / अप्रकारवदिति / अनुमानस्य हि त्रयः प्रकारा यादृशा न तादृशाः प्रत्यक्षस्येति / त्रिकालविषयत्वाच्चेति / अनेन परोक्षार्थत्वं सूचयत्यनुमानस्य, प्रत्यक्षं त्वपरोक्षार्थविषयं, तस्मादपि भेद इत्यर्थः / लिङ्गपरामर्शज्ञानस्य प्रत्यक्षफलस्यापि प्रमाणस्य सतो लिङ्गलिङ्गिसम्बन्धस्मृत्यनुग्रहो ऽस्त्युत्पत्तौ, न त्वेवं प्रत्यक्षस्य प्रमाणस्य, अत उत्पत्तौ वा कार्ये वा लिङ्गलिङ्गिसम्बन्धस्मृत्यपेक्षेत्यर्थः / अन्यथापि चेत्यादि भाष्यं व्याचष्टे इतश्चेति / (२१३ / ४) न त्वेतदनुमानमित्यादिभाष्यार्थमाह / इन्द्रियेति / इन्द्रियसम्बन्धाच्चार्थस्य प्रत्यक्षमुत्पद्यते, न त्वनुमानमेवमित्यर्थः
SK
Nय्S_२,१.३२: न चैकदेशोपलब्धिर् अवयविसद्भावात् //
SK
अपि चावयविनो ऽसत्त्वं मन्यमानेन त्वयैकदेशमात्रोपलब्ध्या वृक्षबुद्धेरनुमानत्वमुक्तंए न त्वियमेकदेशमात्रोपलब्धिरपि तु तस्य तत्सहचरितस्य चावयविन उपलब्धिलक्षणप्राप्तस्य सिद्धेरित्याह / न चैकदेशोपलब्धिरिति / तदेतद्भाष्यमनुभाष्य वार्तिककारोव्याचष्टे / न चेति/अत्र देश्यभाष्यम् / अकृत्स्नग्रहणादिति चेत् / उत्तरभाष्यं न कारणत इति / देश्यविवरणम् / न चावयवा इति / एकदेशग्रहणनिवृत्यर्थं हि त्वयावयविग्रहणमास्थीयते, न चैतावता कृत्स्नग्रहणसम्भवो यत एकदेशग्रहणनिवृत्तिः स्यात् / न ह्यवयविग्रहणे कृत्स्ना अप्यवयवा गृहीता भवन्ति / नाप्यवयवी, तस्यार्वाग्भागस्य ग्रहणे ऽपि मध्यमपरभागस्थस्याग्रहणादिति देश्यभाष्यार्थः / तदेतद्भाष्यं वार्तिकाकारो व्याचष्टे / नावयविन उपलब्धिरिति / यत्खलु बहुषु वर्त्तते तत्प्रत्येकं समष्ट्या वा, यथा कलंविङ्ककण्ठगुणः / एकदेशेन वा यथा स्रक्सूत्रं कुसुमेषु / न च कृत्स्नैकदेशाभ्यां प्रकारान्तरमस्ति / अनयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वात् नित्यत्वानित्यत्ववदिति / न चैकत्र कृत्स्नसमाप्तावन्यत्र तस्यैव सम्भव इति, तथा सति कृत्स्नसमाप्तेरभावात्, तस्माद्यो ऽबयवान्तरे दृश्यते नासाववयवीं, तथा चावयवा एवेति प्राप्त मित्यपि द्रष्टव्यम् / न ह्यस्य कारणव्यतिरेकेणेति / ( २१४ / ५ ) यदि ह्येकदेशान्तराण्यस्य स्युः, ततस्तेष्वपि वृत्तविकदेशान्तरकल्यनायामनवस्थाप्रसङ्ग इत्यर्थः / पूर्वपक्षवाद्येव प्रश्नपूर्वकं क्रियातिपत्तिमाह / अथोपलभ्यमान इति / उत्तरभाष्यविवरणपरं भाष्यं कृत्स्नमिति वै खल्वित्यादि / तदेकग्रन्थतया अङ्ग तु भवानित्यादिसम्बोधनोपक्रमं भाष्यं व्यवस्थितम् / तदेतद्वार्तिककारो व्याचष्टे / एकस्मिन्निति / अयमभिसन्धिः यत्तावत्कुसुमेष्वेकन्दशेन वर्त्तमानं दृष्टमिति, तदनुपपन्नं, यदि कुसुमेषु सूत्रावयवा वर्त्तन्ते किमायातमवयविनः सूत्रस्य / न ह्यन्यस्मिन्वर्त्तमाने अन्यद्वर्त्तत इत्युक्तम् / न चावयविनो ऽभावे भवेत्येतदपि सूत्रमवयव्यवयवैर्वर्त्तत इति / अथ मा भूत्सूत्रं नामावयवि, एकदेशास्तु कुसुमे वर्त्तन्त इति ब्रूमः / तथा च सति नैकमनेकत्रैकदेशेन वर्त्तत्ते किं त्वनेकमनेकत्रेति / तथा च कुसुमपरमाणावेकस्मिन्सूत्रपरमाणुरेको वर्त्तत्त इत्युक्तं भवति, न च वृत्तिरपि परमाणुभ्यामतिरिच्यते यतो भवति वर्त्तते इति, तस्मान्निरन्तरोत्पाद एव परमाण्वोर्वृन्त्तिरिति व्यवहर्त्तव्या, न पुनः परमाणुस्वरूपातिरिक्ता काचिद्वृत्तिरस्ति वस्तुसती / एवेच कलविङ्ककण्ठगुणवत्प्रत्येकं कृत्स्नपरिसमाप्तिर्वृत्तिरित्यपि व्याख्यातम् / तथा च वृत्तेरभावादेकदेशेन वा कार्त्स्न्येन वा वर्त्तत इति रिक्त वचः / यथालोकप्रत्ययं तु वृत्तेरभ्युपगमे सूत्रं कुसुमेषु नैकदेशेन वर्त्तते, किं तु तदेकदेशाः सूत्रं च कुसुमेषु वर्त्तत इति लौकिको ऽनुभवः / तत्र सूत्रस्य वृत्तिः कुसुमेषु नैकदेशेन वा नापि कार्स्त्न्येन, किं तु स्वरूपतः, एवमवयवेष्ववयविनः स्वरूपत एव / इयांस्तु विशेषो यत्सूत्रस्य कुसुमेषु वृत्तिं प्रति सन्ति भागा अपीति सूत्ररूपं च भागाश्च कुसुमेषु वर्त्तन्त इति, अवयविनस्तु स्वावयवेषु वृत्तिं प्रति नावयवान्तराणि सन्तीति रूपमात्रेण तत्र वर्त्तते ऽवयवीति / तस्मान्न किञ्चित्क्वचित्कार्त्स्न्येनैकदेशेन वा वर्त्तमानं दृष्टमिति तयोर्वृत्तिं प्रति व्यापकत्वमसिद्धम् / रूपस्यैव व्यापकत्वमिति / तच्चावयविन्यप्यस्तीति व्यापकानुपलब्धेरसिद्धेर्नावयविनो ऽवयवेषु वृत्तिनिवृत्तिरिति सिद्धम् / यथा च कृत्स्नैकदेशशब्दौ नावयविरूपे वर्त्तेते तथोक्तं वार्त्तिककृतेति / नैकदेशेन वर्त्तते न च कार्त्स्न्येन वर्त्तते अथ च वर्त्तत इति एष वाचोयुक्तिः यद्यथाभूतं वस्तु तत्तथा निर्दिश्यत इहेति योजना / उभयेन व्याघातादिति / ( २१५ / ४) एकस्यानेकवृत्तेः एकदेशेन कार्त्स्न्येन च व्याघातप इत्यर्थः / स एव हि धर्मो विकल्प्यते यो विकल्प्यमानो धर्मिणे न बाधते, यथा शब्दो नित्यो ऽनित्यो वेति, यो ह्यधिकरणं धर्मिणमेव बाधते नासौ धर्मविकल्पोन्याय्यः / आश्रयासिद्ध्या तस्यानुपपत्तेरिति / वस्तु वन्यते यत्सत्तत्सर्वमनवयवं, यथा विज्ञानं, सच्चेर्द नीलाद्यनुनवावसितमिति स्वभावहेतुः, सत्तामात्रव्यापित्वादनवयविस्वस्य / तथा ह्येकस्य सत्त्वं विरुद्धधर्मासंसर्गेण व्याप्तं, तद्विरुद्धश्च विरुद्धधर्मसंसर्गो नीलादीनां सावयवत्वे प्रसजन्स्वविरुद्धं विरुद्धर्मासंसर्गं निवर्त्तयंस्तद्व्याप्तं सत्त्वमपि निवर्तयति / तथाहि पाण्यदिकम्पे तत्स्थानो ऽवयव्यपि कम्पत इति तस्य जङ्घादिष्वप्यवयवेष्वविशेषावस्थानस्याप्यवयविनः कम्पत उपलभ्येत, न चोपलभ्यते, तस्मात्स एव तदानीं कम्पते न कम्पत इति विरुद्धधर्मसंसर्गः / अथावयवेषु कम्पमानेष्वपि नावयवी तत्समवेतः कम्पते, ततश्चलाचलयोर्वस्त्रोदकवद्युतसिद्धिप्रसङ्गः / एकस्यावयवस्यावरणे तत्तदवयवस्थानो ऽवयव्यावृत इति अवयवान्तरस्थानस्याप्यावरणप्रसङ्गः, अभेदात् / न वास्य क्वचिदप्यावरणमित्यविकलो दृश्येत / अवयवस्यावरणं नावयविनस्तस्यान्यत्वात्, न ह्यन्यस्यावरणे अन्यदावृतं भवत्यतिप्रसङ्गादिति चेन्न / अर्धावरणे ऽप्यनावृतत्वादवयविनः प्राग्वदविकलग्रहणप्रसङ्गः / अवयवदर्शनद्वारेणावयविदर्शनाददृष्टावयवस्यावयविनो ऽप्रतिपत्तिरिति चेन्न / विकल्पासहत्वात् / किं सर्वावयवदर्शनद्वारेणावयविनः प्रतिपत्तिरुत कतिपयावयवदर्शनद्वारेण / पूर्वस्मिन्कल्पे नावयवी कदाचिदपि दृश्येत / न ह्यसर्ववित्सर्वावयवोपलम्भक्षमः, अर्वाग्भागेन मध्यपरभागयोर्व्यवधानात् / कतिपयावयवदर्शने तु तदभिव्यक्तावल्पावयवदर्शने ऽपि वह्ववयवदर्शनवत्सूलोपलम्भप्रसङ्गः / रक्ते चैकस्मिन्नवयवे तत्स्थानो ऽवयव्यपि रक्त इति अवयवान्तरे ऽपि तस्याभेदाद्रागोपलम्भप्रसङ्गः / अवयवमात्ररागे वा तत्स्थानस्यावयविनो रूपमरक्तं दृश्यते, सो ऽयं विरुद्धधर्मसंसर्ग इति / तदनेनाभिप्रायेण वार्तिककारो ग्रहणाग्रहणलक्षणेन विरुद्धधर्मसंसर्गेण सर्वानेव विरुद्धधर्मसंसर्गानुपलक्षयति / ग्रहणाग्रहणेति / निराकरोति / न भेद इति / इदं तावदत्र वक्तव्यम् / यद्यनुभूतावसितं नीलमनवयवत्वेन साध्यते, ततः सिद्धसाधनं, नो खलु रूपविशेषो नीलादिरस्माक्रमपि सावयवो गुणत्वात् / तदाश्रयो घट इति चेत् / ननु घट इत्यपि च रूपसगन्धस्पर्शा एवार्थक्रियाकारिणस्तथा व्यपद्दिश्यन्ते, ते च गुणत्वेन निरवयवा एव,न तु तदाश्रयो ऽस्ति इत्थं नाम / अथ परसिद्धं द्रव्यं रूपाद्याश्रयं पक्षीकृत परसिद्धेनैव तस्य सत्त्वेनानवयवत्वं साधयति, सो ऽयमसिद्धं सिद्धने साधयन् महानैयायिकत्वमात्मनो दर्शयति / न हि स्वयमप्रतीतौ साध्यधर्मिणौ परप्रत्यायनाय कल्पेते / यथाहुः / यो ऽपि तावत्परासिद्धः स्वयंसिद्धो ऽभिधीयते / भवेत्तत्र प्रतीकारः स्वतो ऽसिद्धे तु का क्रिया ... इति / न च प्रसङ्गसाधने ऽप्येतद्भवितुमर्हति / न च सावयवत्वेन, विरोधाभावात् / न चैकस्य विरुद्धधर्मो बाधकं प्रमाणम् / न तावदेकस्यावयविनो ग्रहणाग्रहणे / अवयवावरणे ऽपि तस्य कतिपयावयवावस्थानस्य ग्रहणादेव / न च बह्ववयवस्थानस्य ग्रहणे इव कतिपयावयवस्थानस्य ग्रहणे तादृशस्थौल्यानवभासादनवभासो ऽवयविन इति साम्प्रतम् / परिमाणभेदो हि स्थौल्यमवयविधर्मो न च तस्य तादृशस्यानवभासे ऽवयवी नावभासितो भवति, तस्य ततो ऽन्यत्वात् / तस्मादिन्द्रियसन्निकर्षमात्रादवयविनो ग्रहणम् / इन्द्रियेणार्थस्य इन्द्रियावयवैरर्थस्य इन्द्रियेणार्थावयवानां इन्द्रियावयवैरर्थावयवानां सन्निकर्षात्परिमाणभेदग्रहणमिति सामग्रीभेदादवयवितत्परिमाणभेदयोर्ग्रहणाग्रहणे उपपद्येते / एतेनार्वाग्भागसहितस्य ग्रहणे ऽपि न मध्यभागसहितस्याग्रहणं कथञ्चिद्विरोधमावहतीत्युक्तं भवति / न वावयवकम्पे ऽप्यवयविनः कम्पो येनावयवान्तरे ःपि कम्पप्रसङ्गः, भिन्नत्वादवयवावयविनोः / तथा सति युतसिद्धिप्रसङ्ग इति चेत् / का पुनरियं युतसिद्धिः, किं भेदो ऽवयवावयविनोः, आहो स्विदसम्बद्धस्य विद्यमानत्वम् / यदि भेदः, सो ऽस्माभिरिष्यत एव / अथासम्बद्धस्य विद्यमानत्वं, तत्सत्यपि पृथग्गतिमत्वे नावयविनो ऽस्ति, जातः सम्बद्धश्चेत्येकः कालः / तथाहि नावयव्यवयवासम्बद्धो ऽस्ति / नाहि जातिमान् जात्यसम्बद्धो ऽस्ति / न गुणकर्मणी द्रव्यासम्बद्धेस्तः / न च विशेषो द्रव्यासम्बद्ध इति / ये त्वप्राप्तिसंयोगौ युतसिद्धिमाहुस्तैरवयवावयविनोरसंयोगे हेतुर्वक्तव्यः / अयुतसिद्धिरिति चेन्न / तस्या एवासंयोगेन बुभुत्सनादिति / रक्तारक्तत्वं च नावयविन एकस्य, तस्यारक्तत्वादेव / तत्संयोगिनस्तु महारजनस्य रक्तत्वात्, तस्य च पटादरक्तादन्यत्वात् / पटो रक्त इति तु भ्रमः, न त्वनेन विभ्रमेण सर्वत्र भवितव्यम्, तस्य महारजनसंयोगनिमित्तत्वात् तस्य च पटवृत्तित्वात् पटस्य च सर्वत्राविशेषात्, पटस्य क्व चिदसंयोगे संयुक्तासंयुक्तभेदप्रसङ्गः / न हि स एव तदैव तत्रैव भवति / न भवति चेति युज्यते / तस्मात्संयुक्तात्पटादन्यो ऽसंयुक्तः पट इति प्राप्तम् / अत्रोच्यते / एषा तावत्प्रमेयगतिः / भावाभावौ परस्परविरहात्मानौ, भावनिवृत्तिरेवाभावः, अभावनिवृत्तिरेव भावः / न त भावाभावाभ्यामन्या तयोर्निवृत्तिः / तेन नैतयोः कदाचिदपि परस्परात्मत्वं भवितुमर्हति, अदर्शनात् / एवमनयोराश्रयैकत्वनानात्वे अपि यथादर्शनं व्यवस्थापनीये, यथा तस्यैव श्वैवस्य यदा प्रासादे सद्भावस्तदैवाभावः काक इति / एवं च एवं कुम्भः श्यामः स एव पश्चादग्निसंयोगादश्यामः, यः पुनरस्य परिमाणभेदो न सति कुम्भे विनश्यति, तत्र किङ्कच्वतां परिमाणावस्थापत्तावपि न नश्यतीति / एवं प्रमेयवैचित्र्ये दर्शनवैचित्र्यव्यवस्थापितं यथाभ्युपेयते तथा तस्यैव संयोगस्य तस्मिन्नेकदा भावाभावौ व्यवस्थापनीयौ, तथैव दर्शनादिति / व हि दृश्यमानस्य दृश्यमानान्तरवैधर्म्येण रूपमुपलभ्यमानं शक्वमपाकर्तुम्, मा भूद् दृश्यमानवैधर्म्येण दृश्यमानरूपान्तरापाकरणमविषेषात् / तस्माद्दर्शनानुरोधात्प्रमेयवैचित्र्यसिद्धेरूपवन्नः संयोगशब्दबुद्ध्यादीनां तत्रैव तदानीमभावो भावश्चेति / अत्र एवैषामव्याप्यवृत्तित्वमास्थीयते / रूपादीनां तु न दृष्टस्तत्रैव तदानीमभावो भावश्चेति तेषां व्याप्यवृत्तीनां भावाभावौ युगपदेकत्र विरुद्धाविति सिद्धम्-रक्तारक्तयोरेकत्राविरोधः सहदर्शनादिति / यत्पुनर्यदनेकवृत्ति तन्नाना, अनेकवृत्तिश्चावयव्यभ्युपगत इति प्रसङ्गसाधनं स्वभावहेतुः, नानात्वाभावादनेकवृत्तित्वाभाव इति प्रसङ्गविपर्ययो व्यापकानुपलब्धिरिति / तत्र ब्रूमः / एकत्वानेकवृत्तित्वयोरविरोधेन नानात्वस्य व्यापकत्वसिद्धेर्न प्रसङ्गो नापि विपर्यय इति / यथैव नीले परिच्छिद्यमाने तदभावो व्यवच्छिद्यते, अन्यथा न नीलं परिच्छिन्नं स्यात्, एवं तदभावाविनाभावि पीतमपि नीलपरिच्छेदकं प्रत्यक्षं व्यवच्छिनत्ति, तथैकावयवसंसर्गे अवयविनः परिच्छिद्यमाने तदभावो व्यवच्छिद्यते, तदभावाविनाभूताश्चावयवान्तरसंसर्गा इति तेपि व्यवच्छेत्तव्याः, तदव्यवच्छेदे तदभावो न व्यवच्छिद्येतेति स एव तदानीमेव तत्र भवेन्न भवेद्वेति दुर्घटमापद्येत, सो ऽयमेकत्वानेकवृत्तित्वयोर्विरोध इति चेत् / हन्त भावपरिच्छेदे तदभावो व्यवच्छिद्यत् इति युक्तम् / भावपरिच्छेदलक्षणत्वात्तदभावव्यवच्छेदस्य / न हि भावादन्यस्तव भावाभावो नाम / भावान्तराणि तु कस्माद्व्यवच्छिद्यन्ते / तदभावाविनाभावादिति चेत् / कुतः पुनरयं भावान्तराणां भावाभावाविनाभावः / पीतादिभावतादात्म्येन कदाचिदपि नीलस्य भावस्यानुपलम्भादिति चेत् / यत्र तर्ह्येकावयववृत्तेरप्येकस्यावयवान्तरेषु वर्त्तमानस्य तादात्म्यं दृश्यते न तत्रैकावयवसंसृष्टाभावाविनाभावो ऽवयवान्तरसंसृष्टस्य, तस्मान्नैकत्वनानावृत्तित्वयोर्विरोधः / अपि च एकं विज्ञानमनेकै रूपचक्षुरालोकमनस्कारैः कथं सम्बध्यते, सम्बध्यमानं वा, न वास्तवः कश्चित्कार्यकारणभावो नामास्ति सम्बन्धः / प्रतीत्य कथमेकम् / समुत्पादमात्रं तदिति चेत् / अथ कस्माद्रूपाद्येव प्रतीत्य रूपज्ञानं जायते न पुना रसाद्यपि / स्वभाव एव तादृशो यतस्तानेव प्रतीत्य जायते न पुना रासभादीनिति चेत् / हन्त भोः स्वभावान् भिन्नान् प्रतीत्य कथमेको भावो जायते / को विरोधो न हि कार्यकारणयोस्तादात्म्यं येन कारणस्वभावानुरोधःकार्यस्य भवेदिति चेत् / तत्किमवयवावयविनोरप्यभेदः समवायस्य वा ताभ्यां, येनावयवभदेःऽवयविनो वा समवायस्वय वा भेदो भेवदिति समः समाधिः / तस्माद्यद्यदवयविनि प्रमाणं वक्ष्यामः तत्तदसति बाधके ऽप्रत्यूहमवयविनमवस्थापयिष्यतीति सिद्धम् / यः पुनर्मन्यते अवयवसमुदाय एवावयवीति तं प्रत्याह भाष्यकारः / समुदाय्यशेषतेत्यादि / सुगमम्
SK
Nय्S_२,१.३३: साध्यत्वादवयविनि संदेहः //
SK
साध्य-हः (सू. ३३) // परं प्रत्यसिद्धत्वमेवावयविनः साध्यत्वम् / स खल्वेवं मेने संविन्निष्ठा हि विषयव्यवस्थितिः / स एव संविदा व्यवस्थाप्यते यस्तस्या विषयः / स एव विषयो य आकारमस्यामर्पयति / न च निरन्तरोत्पन्नरूपादिपरमाण्वतिरिक्तमवयव्याकारं बिभ्रतीं संविदमीक्षामहे, किं तु निरन्तरोत्पन्नरूपादिपरमाण्वाकाराम् / स्थौल्यं च न यद्यपि परमाणूनां प्रत्येकमस्ति, तथापि प्रतिभासधर्मो बहुत्वादिवन्न पुनरवयविनमेकमवस्थापयितुमर्हति / यदाहुः, सो ऽयममूल्यदानक्रयीस्वाकारं च ज्ञाने समर्पयति प्रत्यक्षतां च स्वीकर्तुमिच्छत्यवयवीति / तदेवं परं प्रत्यवयविनो ऽसिद्धेर्विप्रतिपत्तिः / ततः साधकबाधकप्रमाणाभावे सति संशय इत्यर्थः / न साध्यत्वं स्वरूपेण संशयहेतुरिति मत्वा भाष्यकृदाह / एवं च सतीति / परासिद्धत्वे सतीत्यर्थः / साध्यत्वादिति यथाश्रुतं सूत्रं गृहीत्वा वार्त्तिककारो विकल्प्याक्षिपति / किं पुनरत्रेति / ( २१७ / १ ) कुतश्चिद्धेतोस्तस्य धर्मिणो ऽभ्यनुज्ञानमङ्गीकारमर्हति, सर्वस्यैव हेतोराश्रयासिद्धेरिति भावः / अथाव्यतिरेक इति / सत्येव धर्मिणि तस्यावयवेभ्यो ऽभेदो धर्मःप साध्य इत्यर्थः / अवयव्यपेक्षत्वादिति / पटमपेक्ष्य हि तन्तवो ऽवयवा भवन्ति, नो खलु रण्डाकरण्डावस्थितास्तन्तवो ऽवयवा उच्यन्त इति / न च षष्ठीति / ( २१८ / १ ) पटस्यावयवास्तन्तव इति न षष्ठी, तथा च पटस्येति विशेषणाभावे अवयत्वमात्रं हेतुः स्यात्, स च विरुद्ध इत्यर्थः / अनर्थान्तरभवेनावयवत्वमित्यस्योदाहरणम् / न च तन्तुस्तन्तोरिति / षष्ट्यर्थाभावे तूत्तरमुदाहरणमिति / तन्तूनां तन्त्वक्वकत्वं ब्रवीतीति / तच्छब्दस्य प्रधानपरामर्शकत्वादित्यर्थः / अवयवशब्दस्य श्चेति / पूर्व कारणमविवक्षित्या अवयवशब्दस्य परापरशब्ददत्त्सम्बन्धिशब्दतामात्रं गृहीत्वोक्तं, सम्प्रति कारणत्वं विवक्षित्त्योच्यत इत्त्ययौनरक्त्यम् / देशयति / नैव हीति असत् क्रियमाणं निर्वर्त्यं, न चास्माकं सत्कार्यवादिनां तदस्तीत्यर्थः / दूषयति / एतच्चेति / न हि पटाकारप्रत्ययस्तन्तुमात्रालम्बनो रण्डाकरण्डावस्थितेष्वपि तन्तुषु प्रसङ्गात् / न च तन्तुपरिमाणभेदालम्बनः, तस्वय पूर्वमपि सत्त्वात् / असत्त्वे वा सत्कार्यवादव्याहतिप्रसङ्गात् / तस्यैवासत उत्पत्तेः / तस्मात्तन्तुष्वपरेषु पर इत्यकामेनापि मिथ्याप्रत्यय इति वक्तव्यं, तथा च दूषणमिति / प्रतिज्ञैकदेशश्चेति / संयोगमात्रपक्षीकरण इत्यर्थः / तान्येव तानीति / ( २१९ / १३) तान्येव प्रत्यासन्नानि क्षणभङ्गपरिणामप्रतिक्षेषादित्यर्थः / यथा दण्डाद्यनेकं कारणमिति / दण्डवेमाद्यनेकं कारणं घटपटादीनां कार्याणाम् / संयोगादिनिमित्तान्तरापेक्षमिति / संयोग आदिर्येषां निमित्तान्तराणां कुम्भकारकुविन्दादीनां तानि निमित्तान्तराणि / अतद्गुणसंविज्ञानो बहुव्रीहिः, यथा चित्रागुरिति / तेन साध्यस्यैव दृष्टान्ततेति न दोषः / विमृश्यावधारयति / वयं तु ब्रूमो विभाग उत्पन्न इति / ( २२१ / ८ ) संयोगो ऽनपक्षेकर्मकारणकः, कर्मकार्यत्वाद्विभागवदिति स्थिते प्रतिबन्धकापगमात्रं विभागेन क्रियत इति सिध्यति / यथा वा संयोगः साधारणकार्यद्रव्येति / यदा हि पटः पाट्यते तदा येषामवयवानामवस्थितानां संयोगानां पटाख्यं साधारणं कार्यं, तस्य साधारणस्य कार्यद्रव्यस्य पटस्य च तदसमवायिकारणानां च संयोगानां केषां चिद्विनाशोत्तरकालमर्द्धपटारम्भे तेषामनपेक्षाणां कारणत्वं, विभागस्तु कर्मजन्यस्तत्र कतिपयसंयोगविनाशद्वारेण साधारणपटादिकार्यविनाशमात्रे व्याप्रियते न तु विभगापेक्षो ऽर्द्धपटे जनयितव्ये संयोगः कारणमित्यर्थः / न हि प्रमाणमन्तरेणेति / ( २२२ / २ ) मिथ्याज्ञानमपि प्रमाणपूर्वकं, सम्यग्ज्ञानपूर्वकत्वाद्विपरीतख्यातेरित्यर्थः / वृक्षस्थितिं भावयद्भिः / पूर्वापरप्रत्ययैकविषयस्य वृक्षस्य स्थितिं स्थिरतां भावयद्भिरित्यर्थः / भेदादर्शनमिति ( २२४ / ९ ) आकारिभेदादर्शनम् / यथा घटपटावाकारिणौ भेदेन दृश्येते नैवमवयवावयविनौ, नापि समवायसमवायिनावित्यर्थः / यस्मादयमुपनयो ( २२५ / ७ ) ऽवयवाश्च तन्तवो ऽवयवी च पट इति / पूर्वमवयवाश्चेत्येतावन्मात्रं हेतूकृतं, सम्प्रति त्ववयवावयविनावित्यपौनरुक्त्यम् / अन्यो ऽवयवार्थ इति / अवयविनो ऽन्यो ऽवयवशब्दार्थ इत्यर्थः / प्रदेशिनो ऽन्यः प्रदेशशब्दार्थ इत्यर्थः / तत्प्रदेशशब्दस्य व्यपदेशविषयत्वस्येति / ( २२६ / ७ ) तन्तवो हि पक्षीकृताः प्रधानमिति तदिति सर्वनाम्ना हेतुगतेन पराम्रष्टव्याः / तथा च तन्तुप्रदेशस्य व्यपदेशविषयत्वं न तन्तूनामित्यसिद्धो हेतुरित्यर्थः / तेभ्यस्तूत्पत्तेरिति--कल्पितस्य हेतोर्विवरणं तन्तुभ्यस्तूत्पद्यते पट इति / उभयेन व्याघातादिति / ( २२ / ९) अभ्युपगमे नानभ्युपगमेनेत्यर्थः / द्रव्यान्तरेति / द्रव्यान्तरोत्पत्तिदेशावच्छेदो व्यवच्छेदः / यथा पटोत्पत्तिदेशादन्यो घटोत्पत्तिदेश इत्यर्थः व्यक्त्यादिधर्मभेदेनेति / आदिग्रहणेनाविर्भावसंस्थानादय उच्यन्ते ते च कारणव्यापारात्पूर्वं नासन्निति जन्मापि तेषामपूर्वमित्यर्थः / यथा चक्रादिभ्यो ( २२८ / ४ ) रथावयवेभ्य इत्यर्थः / हिमवत्परमाणुकमिति / ( २३० / १ ) परमाणुग्रहणं मूक्ष्मद्रव्योपलक्षणार्थम् / न पुनः परमाणोर्द्व्यणुकादन्यत्रारम्भसम्भवः / न च विवादाध्यासितः परमाणुर्न महद्द्रव्यमारभते परमाणुत्वाद् द्व्यणुकारम्भकपरमाणुवत् / अमहत्त्वाच्च न हिमवत्परमाणुकं प्रत्यक्षं स्यात् / तस्माद्धिमवद्धिमबिन्दुभ्यां संसर्गिभ्यां संयोगादवयविद्रव्यमारभ्यते महत्त्वं चास्यावयवमहत्त्वादुत्पद्यते / तथा च चाक्षुषत्वमस्य भवति / एवं तोयदविमुक्तोदबिन्द्दधिसंयोगात् द्रव्यान्तरोत्पत्तिः प्रतिपत्तव्या / भावो ऽप्रत्यक्षः स्यादिति / भावः सत्ता / ननु यथा संयोगः संयोगिद्वयनिरूपणाधीननिरूपणः तयोरेकस्यैवाप्रत्यक्षत्वे न प्रत्यक्ष एवमवयवाप्रत्यक्षत्वे नावयवी प्रत्यक्षः स्यादित्यत आह / न चायं पक्ष इति / संसृज्यमाननिरूपणाधीननिरूपणो हि संसर्गो युक्तं यत्तदनिरूपणे न निरूप्यत इति / न त्ववयव्यवयवनिरूपणाधीनो यत्तेष्वनिरूपितेषु न निरूप्यत इति / त्र्यणुकस्यावयवाग्रहणे ऽपि ग्रहणात् / एवं विद्रवर्त्तिनो हस्तिवनस्पत्यापदेरवयवाग्रहणे ःपि ग्रहणादिति भावः / न च तत्कृतो ऽस्ति भेद इति / न ग्रहणाग्रहणकृतो भेद इत्यर्थः / न हीन्द्रियमन्यस्य सांख्यस्यान्यथा सूक्ष्मत्वेनार्थं प्रकाशयति / अन्यस्य नैयायिकस्यान्यथा स्थौल्येन अविकल्पत्वादैकरूप्येणावस्थानादिति / प्रत्यक्षप्रमाणविरोधादिति / ( २३२ / ५ ) महाभूतानां हि मूलकारणं परमाणवः परमसूक्ष्मास्तेषामप्रत्यक्षत्वे मानसानुव्यवसायगम्यं परमसूक्ष्मविषयं मे प्रत्यक्षमिति तदभावश्चात्मनि संयुक्तविशेषणेन मनःसन्निकर्षेण प्रत्यक्षविरोध इत्यर्थः / एके त्विति / यमेव हि त्र्यणुकं दृश्यं भवन्तो दृश्यावयवमाचक्षते तमेव वयं परमाणुमाचक्ष्महे, न हि तदवयवकल्पनायामस्ति प्रमाणमिति भावः / कथवगम्तये भिद्यते त्रसरेणुरिति / अङ्गुल्यग्राम्यां मृद्यमानस्यास्यादर्शनं सूक्ष्मतया ऽप्युपपद्यते / जालसूर्यमरीचिस्थमेव तद्रजः कथं चिदुपलभ्यते नान्यथेति भावः / द्रव्यत्वे सतीति सामान्यसमवायौ निवर्तयति / बाह्येत्यात्मानं निबर्तयति / अनित्यत्वाच्चेति / अनन्तावयवत्वेन मेरुसर्षपयोरभिन्नपरिमाणत्त्वप्रसङ्गात् महाभूतमूलकारणमनवयवं कल्पनीयं न च द्रव्यमनवयवं विनश्यति आकाशादिवदिति नित्याः परमाणवस्त्रसरेणवस्त्वनित्या इति न परमाणुः / अनित्यत्वमेव कुत इत्यत आह / सामान्यविशेषवत इति / संहतानामिति / रूपादीनां सङ्घातः परमाणुरिति / नचासंहतप्रतिषेध इति / अप्रतिषेधे वात एवासंहताः परमाणव इति भावः / संयुज्यते चायं विभज्यते चायमवयव्यन्तरेणेति न व्यतिरेक इति / यथा भिन्नात्संयोगाप्राप्त्यभावो व्यावृत्त एवमभिन्नादपि, न हि स एव तन्तुस्तेनैव तन्तुनाप्राप्यतैत्यर्थः / सत्त्वरजस्तमासां न संयोगः किं तु तेषां स्वाभाविकः स को ऽपि पंरिणतिभेदो यतः संभूयकारित्वमित्यर्थः / गुरुत्वान्तरकार्याग्रहणादिति / ( २३३ / २१ ) अवयवगुरुत्वाद् गुरुत्वान्तरमवयविनस्तस्य यत्कार्यमवनतिविशेषस्तस्याग्रहणादित्यर्थः / सत्यमुपपादितः पक्षधर्म इति / ( २३४ / १० ) कार्याग्रहणेन कार्याभावस्ततः कारणस्य गुरुत्वस्याभाव इत्यर्थः / प्रतिषेध्यं कार्यगतरूपादि तदभ्यनुज्ञातं भवतीति / तथा ऽपि कुतः प्रत्यक्षविरोध इत्यत आह कारणरूपादय इति / चोहेतौ / एतेन कार्ये रूपादिप्रतिपत्तिः प्रत्युक्ता निषेध्यत्वेनेति / यदा हि कार्यमेव रूपादि नास्ति तदा कस्मात्तत्र रूपादिप्रतिपत्तिः प्रतिषिध्यते इत्यर्थः / यथा रूपाद्यन्तरकार्यमिति / अवयविगतानां रूपादीनां कार्यं रूपसंस्कारादवयविनश्चाक्षुषता एवं दृश्यतेति / उपन्यासः स्थापनम् / यद्यप्ययमवनमनविशेषाभावस्तुलाव्यधिकरणः न, तथापि न शाब्दी तुलासंबन्धितास्य प्रतीयते, किं त्ववनमनविशेषसंबन्धितेत्येतावतोक्तम् / सो ऽयमिति / ( २३५ / २ ) असिद्धस्तावदित्यकदेशिनो दूषणम् / तदेतदेकदेशिदूषणं दूषयति / न तद्वत्तानुपलब्धेः / परमार्थदूषणमाह / अयमपीति / गुरुत्वमात्रोपहितानामणूनामवनमनविशेषं न करोति तुला / द्रव्यसमाहार इति ( २३६ / २ ) कार्यकारणद्रव्यसमाहारो मृत्कणमृच्चूर्णशर्कराकपालकुम्भसमाहार इत्यर्थः / ननु समाहारः कुम्भस्य कारणं तच्च ज्ञातेयद्गुरुत्वमेवेत्यत आह / न चेति ( २३६ / ३ ) ये त्वाहुः सर्वो मृत्कृणादिः कुम्भपर्यवसानः कार्यसमूहः परमाणुष्वेव समवैति, ते हि मृत्कणादिकमारभ्य मृच्चूर्णान्यारयन्त इति / प्रसङ्गात्तन्मतमपाकर्तुमुपन्यस्यति / के चित्त्विति / निराकरोति / तान्प्रतीदमिति / गुरुत्वमेनुपतदिति / ( ३३७ / ७ ) न च यथा प्रदीपाधीनप्रकाशाघटादयो न तु प्रदीपः प्रदीपार्धानप्रकाशः तस्य स्वमहिमनिषिद्धतमोनुषङ्गत्वात् / एवं गुरुत्वाधीनपाता घटादयो, गुरुत्वं तु स्वस्य चान्येषां च गुरुत्वान्तरानपेक्षं पतनहेतुरिति वक्तव्यम् / न हि प्रदीपेन स्वात्मनि प्रकाशयितव्ये किं चिदन्यत् क्रियते, यादृशा घटादयः स्वप्रकाशोपादे तादृशः प्रदीपो ऽपि / चक्षुषः पुनरयं स्वभावभेदो येन घटादौ प्रकाशयितव्ये प्रदीपमपेक्षते न तु प्रदीपे प्रकाशयितव्ये प्रदीपान्तरमिति / तस्मान्न प्रदीपस्य स्वात्मनि कर्मकरणभावः / गुरुत्वं तु द्रव्यगतस्य पतनकर्मणः करणं, तेन हि द्रव्यं पात्यते / स्वगतस्य तु पतनकर्मणः करणत्वे तदेव कर्म करणं चेति स्वात्मनि वृत्तिविरोधः / आत्मनस्तु स्वात्मनि प्रकाशयितव्ये कर्तृत्वमेव न कर्मत्वमित्युपपादितामिति / तस्माद्गुणादयो विवादाधिकरणा न पतन्ति अद्रव्यजातीयत्वाद्गुरुत्ववदिति सिद्धम् / सिद्धान्त्याह / वेद पुनरितिप्तं कारणं प्रमाणम् / रूपादयो न संयोगरूपप्राप्तिमन्तः गुणत्वात् संयोगवदित्यप्राप्ते रूपादिषु निश्चयात्तददर्शननिमित्तो रूपादिषु प्राप्तिभ्रमो द्रव्येषु प्राप्तिप्रत्ययः परिमार्थिक एवेति विनिश्चयः / तदनेनाभिप्रापयेणोपसंहरति / तस्माद्व्यवस्थितमिति / ( २३८ / ८ ) शेषमतिरोहितार्थम्
SK
Nय्S_२,१.३४: सर्वाग्रहणमवयव्यसिद्धेः //
SK
सर्वा--द्धेः (सू. ३४) // स्यादेतद् यथा ऽवयविनं नाभ्युपैति परः एवं गुणकर्माद्यपि / तत्कथमयं प्रसङ्गः परस्य सर्वाग्रहणमित्यत आह तदिदं सूत्रमिति / ( २४० / ९ ) यो ऽपि हि तावद् गुणकर्मादि नेच्छति सो ऽपि न तत्प्रत्ययमपन्हुते अस्ति लौकिकपरीक्षकाणाभवयविद्रव्यगुणकर्मादिप्रत्ययः सो ऽयमशक्यापन्हवः तस्य च प्रत्यक्षत्वमुपपादितं प्रत्यक्षलक्षणे / अवयविद्रव्यबाधकानि च प्रमाणान्यधस्तान्निराकृतानि / सो ऽयमसति बाधके स्वयं च गुणादिभिश्च सहोपलभ्यमानो न शक्यो निराकर्त्तुमित्यधिकरणार्थः
SK
Nय्S_२,१.३५: धारणाकर्षणोपपत्तेश्च //
SK
धार--श्च (सू. ३५) // ते एते धारणाकर्षणे गोघटादिकमुपलभ्यमानमवयविनं साधयतः, कुतो निरवयवे विज्ञानाकाशादौ, अवयवे च परमाणौ चादर्शनात् / इदमेवं प्रयोगमारोहति / यो ऽयं दृश्यमानो गोघटादिरवयवी परमाणुसमूहभावेन विवादाध्यासितः नासावनवयवी धारणाकर्षणानुपपत्तिप्रसङ्गात् / यो यो ऽनवयवी तत्र तत्र धारणाकर्षणेन भवतः यथा विज्ञानादौ, न चायं गोघटादिस्तथा तस्मान्नानवयवीति / न विरोध इति / ( २४१ / ३ ) व्यभिचारलक्षणो दोषो विरोधः / अवयविन एव ते प्रत्येकमिति / परमाणुसमूहे तु प्रत्येकमपि न परमाणवो ऽवयविन इत्यर्थः / विशेषहेत्वभावादिति / एवं हि विशेषहेतुः स्याद् यद्यवयविनमन्तरेण क्व चिद्विज्ञानाकाशादौ संग्रहश्चोक्तलक्षणो धारणाकर्षणहेतुता वा ऽस्य दृष्टा स्यात् / न चासौ दृश्यते काष्ठतृणोपलादयः प्रत्येकमवयविन एवेत्यर्थः / स्यादेतत् / अवयवित्येन तुल्यत्वे ऽपि कस्मादेकत्र धारणाकर्षणे नान्यत्रेत्यत आह / पांशुराशीति / समूहमात्रत्वेन तुल्यत्वे ऽपि यथा कश्चिद्विशेषे हेतुरेवमवयवित्वेन तुल्यत्वे ऽपीति समानमित्यर्थः / तत्सहचरितस्य सम्बन्धविशेषः स्नेहद्रवत्वकारित इति / तस्माद्भाष्यकारस्य सूत्रदूषणं परमतेन द्रष्टव्यम्
सत्यमेतानीति भाष्यम् / तस्यार्थः / सत्यमेतान्यैतिह्यादीनि प्रमाणानि न तु प्रमाणान्तरं नैव प्रमाणान्तरमनुमानादिभ्य इत्युक्तम् / न तु प्रमाणत्वमेवामीषां न मृष्यामह इति भावः / वार्त्तिकम् अर्थापत्तिमात्रस्येति / ( २७७ / २ ) दिव्या न भुङ्क्ते इत्यादेरर्थापत्तेरैकान्तिकत्वादिति
SK
Nय्S_२,२.४: अनर्थापत्तौ अर्थापत्त्यभिमानात् //
SK
स्वमतेन दूषयित्वा सौत्रं दूषणमाह / यामपि भवानिति / न सत्सु मेघेषु वृष्टिर्भवत्येवेत्यर्थो येन व्यभिचारो देश्येतापि तु असत्सु न भवतीति / तथा च न व्यभिचार इत्यर्थः
परिहारः नानुमीयमानस्येति / सत्यमनुपलब्धिनलक्षणप्राप्तमनुपलभ्यमानं न शक्यमनुमातुं न तु महत्त्वाद्येवोपलक्षणप्राप्तेरपि तु रूपविशेषो ऽपि / न चासौ विशेष उद्भवसमाख्यातः कृष्णसाराधिष्ठानस्पय चक्षुषो ऽस्तीत्यर्थः
स्वभावसिद्धेरिति यदुक्तं तदाक्षिपति शून्यवादी / न स्वभावसिद्धिरापेक्षिकत्वात् (सू. ३९) //
SK
सर्व एवं हि भावा भिन्नस्वभावा भिन्नत्वं च तेषामन्यापेक्षम् / तथा हि नीलं भिन्नं पीताद्यपेक्षया न तु स्वभावतः एवं ह्रस्वत्वदीर्घत्वपरत्त्वापरत्वपितापुत्रत्वादयः परस्परापेक्षा द्रष्टव्याः / यच्च परापक्षं तन्न स्वाभाविकं यथा जपाकुसुमापेक्षं स्फटिकस्य रक्तत्वमित्याक्षेपार्थः
SK
Nय्S_४,१.४०: व्याहतत्वादयुक्तम् //
SK
समाधत्ते / व्याहतत्वादयुक्तम् (सू. ४०) //
SK
तद्व्याचष्टे यदीति / ननु यद्यनेन क्रमेणोभयाभावो भवति भवतु सिद्धमेव नः समीहितमित्यत आह / अपेक्षायामनपेक्षायां चेति / परिमाणभेदो हि दीर्घत्वं ह्रस्वत्वं च स च भावानामौत्पत्तिकः केवलं तस्यातिशयानतिशयौ परस्परग्रहणाधीनौ / तथा हीक्षुयष्टेर्वेणुयष्टितो ह्रस्वत्वं पूर्वसंख्यायोगिहस्तपरिमितत्वमनतिशयः वेणुयष्टेर्दीर्घत्वमतिशयः परसंख्यायोगिहस्तपरिमितत्वं तच्चेदं प्रतियोगिनिरूपणाधीननिरूपणम्, न तु प्रतियोग्यधीनोत्पत्तीति, न वस्तुधर्मो ऽयं परापरापेक्षः / भिन्नत्वं च भेदः स च वस्तुविशेषणं नोत्पत्तौ वस्त्वन्तरमपेक्षते किं तु स्वनिरूपणे / एवं पितृत्वमपि व्यवस्थिता जनकशक्तिरेव सा जन्यनिरूपणाधीननिरूपणा न तु तदधीनोत्पत्तिः / विपञ्चितं चैतदस्माभिर्ब्रह्मतत्त्वपरीक्षायाम् / परत्वापरत्वादयस्त्वपेक्षाबुद्धिनिमित्ततया परापेक्षोत्पत्तिका अपि लोकयात्रां वहन्तो न शक्याः प्रत्याख्यातुम् / न चैतावता तदधिकरणं भावो न निरपेक्ष इति सर्वमवदातम् / स्यादेतत् अपेक्षामात्रमेव दीर्घत्वादयो भविष्यन्ति कृतमेषां वस्तुस्वभावेनेत्यत आह / स्वभावसिद्धौ चासत्यामिति / (४८१/१) अपेक्षा सामर्थ्यमपेक्षाप्रयोजनयोगः / स्वयंवार्तिककारो दूषणान्याह सर्वथा चायं व्याहत इति / निगदव्याख्यातम्
यथा नित्यस्वरूपायाश्चितिशक्तेर्नोत्पादो न च व्यय एवं फलस्यापि नित्यस्य तौ न स्यातामित्यर्थः / न हि सत्पक्ष इति / (४८६/१) सत्कार्यपक्षैत्यर्थः / न किं चिज्जायत इति / न प्रतिज्ञावाक्यात्किञ्चित्तत्त्वज्ञानं सम्भवति / किं चिच्च संदेहादि न विनश्यतीति / अज्ञानतिरो भावः संशयविपर्ययतिरोभावः / कारणस्य हि प्रधानस्य लक्षणं महान् लक्ष्यते हि महता प्रधानमिति / एवं तस्याप्यहङ्कारस्तस्य पुष्टिः स्थूलतेत्यर्थः / पश्चाद्भवतीति केवलकारणावस्थायाः पश्चादिति
अर्थे हि निषिद्धे भवेदप्येतत् / तद्व्यवस्थापने तद्वदेवाप्रत्यूहं बुद्धिसद्भावो ऽपि सिध्यति / न चैवं वादिनः प्रमाणमस्त्यसता च प्रमाणेन विचारासहत्त्वं भावानां व्यवस्थापयन् श्लाघनीयप्रज्ञो देवानांप्रिय इतञ् नि च कल्पनामात्रर्मित उपायस्तत्त्वज्ञानाय पर्याप्तः / न च वनस्पत्यादितत्त्वज्ञानस्य मिथ्याहस्तिज्ञानं निबन्धनमपि तु प्रणिहितमनस इन्द्रियार्थसन्निकर्षविशेषः / न चासौ मिथ्याज्ञानसमये आसीत् / न च मोहाभ्यासः समीचीनाय ज्ञानाय कल्पते स हि माहेमेव द्रढयतीति सर्वमवदातम् / सो ऽयं माध्यमिको ऽनुभूयमानां मिथ्याबुद्धिं नापह्नोतुमर्हति / तथा च मिथ्याबुद्धिं प्रतिपद्यमानेन तस्या निमित्तं वक्तव्यमित्युक्तम्
५ अध्याये १ आह्निके ४३ सूत्राणि १७ प्रकरणानि २ आह्निके २४ सूत्राणि ७ प्रकरणानि मिलित्वा ६७ सूत्राणि २४ प्रकरणानि / अस्मिन न्यायशास्त्रे ऽध्यायाः ५ आह्निकानि १० प्रकरणानि ८४ सूत्राणि ५२८ पदानि १९६ अक्षराणि ८३८५ न्यायसूचीनिबन्धानुसारेण निर्दिष्टानि /