Ornament of the Mahāyāna Sūtras with Vasubandhu's Commentary Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa
Mअहायानसूत्रालंकार wइथ् Vअसुबन्धुऽस् चोम्मेन्तर्य् (Bहाष्य) = Mस
1 SK आश्चर्य विभागे त्रयः श्लोकाः |
2 SK स्वदेहस्य परित्यागः संपत्तेश् चैव संवृत्तौ | दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः || AMस_१९.१ ||
3 SK वीर्यारम्भो ह्य् अनास्वादो ध्यानेषु सुख एव च | निष्कल्पना च प्रज्ञायाम् आश्चर्यं धीमतां गतं || AMस_१९.२ ||
4 SK तथागतकुले जन्म लाभो व्याकरणस्य च | अभिषेकस्य च प्राप्तिर् बोधेश् चाश्चर्यम् इष्यते || AMस_१९.३ ||
5 SK अत्र द्वाभां श्लोकाभ्यां प्रतिपत्त्याश्चर्यम् उक्तं षड्पारमिता आरभ्य | दानेन हि स्वदेहपरित्याग आश्चर्यं शीलसंवरनिमित्तम् उदारसंपत्तित्यागः | शेषं गतार्थं | तृतीयेन श्लोकेन फलाश्चर्यम् उक्तं चत्वारि बोधिसत्वफलान्य् आरभ्य प्रथमायाम् अष्टभ्यां दशभ्यां त्रीणि शैक्षाणि फलानि बुद्धभूमौ चतुर्थम् अशैक्षम् अत्र फलं | अनाश्चर्यविभागे श्लोकः |
6 SK वैराग्यं करुणां चैत्य भावनां परमाम् अपि | तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता || AMस_१९.४ ||
7 SK तास्व् इति पारमितासु | वैराग्यम् आगम्य दाने प्रयोगे नाश्चर्यं | करुणाम् आगम्य शीले क्षान्तौ च | परमां भावनाम् आगम्याष्टभां भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो नाश्चर्यं | आत्मपरसमचित्तताम् आगम्य सर्वास्व् एव पारमितासु प्रयोगो नाश्चर्यम् अर्थ इव परार्थे खेदाभावात् | समचित्ततायां त्रयः श्लोकः |
8 SK न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु | सत्वानां प्रगतः स्नेहो यथा सत्वेषु धीमतां || AMस_१९.५ ||
9 SK अर्थिष्व् अपक्षपातश् च शीलस्याखण्डना ध्रुवं | क्षान्तिः सर्वत्र सत्वार्थं सर्वार्थं वीर्यारम्भो महान् अपि || AMस_१९.६ ||
10 SK ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका | विज्ञेया बोधिसत्वानां तास्व् एव समचित्तता || AMस_१९.७ ||
11 SK एकः श्लोकः सत्वेषु समचित्ततायां | द्वौ पारमितासु | न हि सत्वानाम् आत्मादिषु स्नेहः समतया अनुगतो न चात्यन्तं | तथा हि आत्मनम् अपि कदाचिन् मारयन्ति | बोधिसतानां तु सर्वसत्वेषु समतया अत्यन्तं च पारमितासु पुनर् दाने समचित्तत्वम् अर्थिष्व् अपक्षपातात् | शीले ऽणुमात्रस्यापि नित्यम् अखण्डना | क्षान्तिः सर्वत्रेति सत्वेष्च् अभेदना | वीर्ये सत्वार्थं वीर्यारम्भात् स्वपरार्थं समं प्रयोगात् सर्वकुशलार्थं च | शेषं गतार्थं | उपकारित्वविभागे षोडश श्लोकाः |
12 SK स्थापना भाजनत्वे च शीलेष्व् एव च रोपणं | मर्षणा चापकारस्य अर्थे व्यापारगामिता || AMस_१९.८ ||
13 SK आवर्जना शासने ऽस्मिंश् छेदना संशयस्य च | सत्वेषु उपकारित्वं धीमताम् एतद् इष्यते || AMस_१९.९ ||
14 SK आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर् यथोपकारित्वं बोधिसत्वानां तत्परिदीपितं | दानेन हि सत्वानां भाजनत्वे स्थापयन्ति कुशलक्रियायाः | (Mस १६२) ध्यानेनावर्जयन्ति प्रभावविशेषयोगात् | शेषं गतार्थं | शेषैः श्लोकैः मात्रादिसाधर्म्येणोपकारित्वं दर्शितं |
15 SK समाशयेन सत्वानां धारयन्ति सदैव ये | जनयन्त्य् आर्यभूमौ च कुशलैर् वर्धयन्ति च || AMस_१९.१० ||
16 SK दुष्कृतात् परिरक्षन्ति श्रुतं व्युत्पादयन्ति च | पञ्चभिः कर्मभिः सत्वमातृकल्पा जिनात्मजाः || AMस_१९.११ ||
17 SK सत्वानां मातृभूताः सत्वमातृकल्पा | माता हि पुत्रस्य पञ्चविधम् उपकारं करोति | गर्भेण धारयति | जनयत्य् | आपाययति पोषयति संवर्धयति अपायाद् रक्षते अभिलापं च शिक्षयति | तत्साधर्म्येणैतानि पञ्चबोधिसत्वकर्माणि वेदितव्यानि | आरभूमिर् आर्यधर्मा वेदितव्याः |
18 SK श्रद्धायाः सर्वसत्वेषु सर्वदा चावरोपणात् | अधिशीलादिशिक्षायां विमुक्तौ च नियोजनात् || AMस_१९.१२ ||
19 SK बुद्धाध्येषणतश् चैषाम् आवृतेश् च विवर्जनात् | पञ्चभिः कर्मभिः सत्वपितृकल्पा जिनात्मजाः || AMस_१९.१३ ||
20 SK पिता हि पुत्राणां पञ्चविधम् उपकारं करोति | बीजं तेषाम् अवरोपयति | शिल्पं शिक्षयति | प्रतिरूपैर् दारैर् नियोजयति | अनृणं करोति यथा न पैतृकम् ऋणं दाप्यते | तत्साधर्म्येण बोधिसत्वानाम् एतानि पञ्च कर्माणि वेदितव्यानि | श्रद्धा हि सत्वानाम् आर्यात्मभावप्रतिलम्भस्य बीजं | सैक्षाः शिल्पं | विमुक्तिर् भार्या विमुक्तिप्रीतिसुखसंवेदना | बुद्धाः कल्याणमित्राणि | आवरणस्थानं |
21 SK अनर्हदेशनां ये च सत्वानां गूहयन्ति हि | शिक्षाविपत्तिं निन्दन्ति शंसन्त्य् एव च संपदम् || AMस_१९.१४ ||
22 SK अववादं च यच्छन्ति मारान् आवेदयन्ति हि | पञ्चभिः कर्मभिः सत्वबन्धुकल्पा जिनात्मजाः || AMस_१९.१५ ||
23 SK बन्धवो हि बन्धूनां पञ्चविधम् उपकारं कुर्वन्ति | गुह्यं गूहयन्ति | कुचेष्टितं विगर्हन्ति | कुचेष्टितं प्रशंसन्ति करणीयेषु साहाय्यं गच्छन्तिव्यसनस्थानेभ्यश् च निवारयन्ति | तत्साधर्म्येणैतनि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि | (Mस १६३) अनर्थेभ्यो गम्भीरधर्मदेशनाविनिगूहनात् शिक्षाविपत्तिसंपत्त्योर् यथाक्रमं निन्दनात् प्रशंसनाच् च | अधिगमायाववादनात् मारकर्मवेदनाच् च |
24 SK संक्लेशे व्यवदाने च स्वयम् अश्रान्तबुद्धयः | यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम् || AMस_१९.१६ ||
25 SK सुखे हिते चाभिन्ना अखेदित्वाद् अभिन्ना ये सदा सुखहितैषिणः | पञ्चभिः कर्मभिः सत्वमित्रकल्पा जिनात्मजाः || AMस_१९.१७ ||
26 SK तद् धि मित्रं यन् मित्रस्य हिते च सुखे चापर्यस्तं | सुखं चोपसंहरति हितं चाभिद्यं च भवति | हितसुखैषि च नित्यं | तथा बोधिसत्वाः सत्वानां पञ्चभिः कर्मभिः सत्वमित्रकल्पा वेदितव्याः | लौकिकी हि संपत् सिखं | तया सुखानुभवात् | लोकोत्तरा हितं क्लेशव्याधिप्रतिपक्षत्वात् |
27 SK सर्वदोद्यमवन्तो ये सत्वानां परिपाचने | सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु || AMस_१९.१८ ||
28 SK द्वयसंपत्तिदातारस् तदुपाये च कोविदाः | पञ्चभिः कर्मभिः सत्वदासकल्पा जिनात्मजाः || AMस_१९.१९ ||
29 SK दासो हि पञ्चभिः करभिः सम्यग् वर्तते | उत्थानसंपन्नो भवति कृत्येषु | अविसंवादको भवति | क्षमो भवति | परिभाषणताडनादीनां | निपुणे भवति सर्वकार्यकरणात् | विचक्षणश् च भवति उपायज्ञः | तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्वानां वेदितव्यानि | द्वयसंपत्तिर् लौकिकी लोकोत्तरा च वेदितव्या |
30 SK अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश् च ये मताः | सर्वयानोपदेष्टारः सिद्धयोगनियोजकाः || AMस_१९.२० ||
31 SK सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः | पञ्चभिः कर्मभिः सत्वाचार्यकल्पा जिनात्मजाः || AMस_१९.२१ ||
32 SK पञ्चविधेन कर्मणा शिष्याणाम् उपकारी भवति | स्वयं सुशिक्षितो भवति | सर्वं शिक्षयति | क्षिप्रं शिक्षयति | सुमुखो भवति सुरतजातीयः | निरामिषचित्तश् च भवति | तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि |
33 SK सत्वकृत्यार्थम् उद्युक्ताः संभारान् पूरयन्ति ये | संभृतान् मोचयन्त्य् आशु विपक्षं हापयन्ति च || AMस_१९.२२ ||
34 SK लोकसंपत्तिभिश् चित्रैर् अलोकैर् योजयन्ति च | पञ्चभिः कर्मभिः सत्वोपाध्यायकल्पा जिनात्मजाः || AMस_१९.२३ ||
35 SK उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणाम् उपकारी भवति | प्रव्राजयति उपसंपादयति | अनुशास्ति दोषपरिवर्जने | आमिषेण संगृह्णाति धर्मेण च तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि | प्रतिकारविभागे द्वौ श्लोकौ |
36 SK असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः | कृतज्ञतानुयोगाच् च प्रतिपत्तौ च योगतः || AMस_१९.२४ ||
37 SK षट्सु पारमितास्व् एव वर्तमाना हि देहिनः | भवन्ति बोधिसत्वानां तथा प्रत्युपकारिणः || AMस_१९.२५ ||
38 SK तथेति यथा तेषां बोधिसत्वा उपकारिणः | तत्र भोगेष्व् अनासक्त्या दाने वर्तन्ते | शीलस्य-अखण्डनेन शीले | कृतज्ञतानुयोगात् क्षान्तौ | उपकारिबोधिसत्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति | प्रतिपत्तियोगतो वीर्यज्ञासु येन च प्रतिपद्यन्ते यत्र चेति कृत्वा | आशास्तिविभागे श्लोकः |
39 SK वृद्धिं हानिं च काङ्क्षन्ति सत्वानां च प्रपाचनं | विशेषगमनं भूमौ बोधिं चानुत्तरां सदा || AMस_१९.२६ ||
40 SK पञ्च स्थानानि बोधिसत्वाः सदैवाशंसन्ते | पारमिताऋद्धिं तद्विपक्षहानिं | सत्वप्रपाचनं | भूमिविशेषगमनं | अनुत्तरां च सम्यक्संबोधिं | अबन्ध्यप्रयोगविभागे श्लोकः |
41 SK त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च | प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः || AMस_१९.२७ ||
42 SK चतुर्विधे सत्वार्थे बोधिसत्वानाम् अबन्ध्यः प्रयोगो वेदितव्यः | गम्भीरोदारधर्मत्रासयोगे (Mस १६५)| बोधिचित्तसमुत्पादे उत्पादितबोधिचित्तानां संशयच्छेदने | पारमिताप्रतिपत्त्यववादे च | सम्यग्प्रयोगविभागे द्वौ श्लोकः |
43 SK दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे | शीलं क्षान्तिश् च सर्वत्र वीर्यं सर्वशुभोदये || AMस_१९.२८ ||
44 SK विना रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता | सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि || AMस_१९.२९ ||
45 SK यथोक्तं रत्नकूटे | विपाको ऽप्रतिकङ्क्षिणो दानेनेति विस्तरः | परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ |
46 SK भोगसक्तिः सच्छिद्रत्वं मानश् चैव सुखल्लिका | आस्वादनं विकल्पश् च धीराणां हानिहेतवः || AMस_१९.३० ||
47 SK स्थितानां बोधिसत्वानां प्रतिपक्षेषु तेषु च | ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात् || AMस_१९.३१ ||
48 SK षण्णां पारमितानां विपक्षा हानिभागीयाः | तत्प्रतिपक्षा विशेषभागीया वेदितव्याः | प्रतिरूपकभूतगौणविभागे द्वौ श्लोकौ | एकः षड्पादः |
49 SK प्रवारणापि कुहना सौमुख्यस्य च दर्शना | लोभत्वेन तथा वृत्तिः शान्तवाक्कायता तथा || AMस_१९.३२ ||
50 SK सुवाक्करणसंपच् च प्रतिपत्तिविवर्जिता | एते हि बोधिसत्वानाम् अभूतत्वाय देशिताः | विपर्ययात् प्रयुक्तानां तद्भूतत्वाय देशिताः || AMस_१९.३३ ||
51 SK षण्णां पारमितानां प्रतिरूपकाः षड् बोधिसत्वगुणाः प्रवारणादयो वेदितव्याः | शेषं गतार्थं | विनयविभागे श्लोकः |
52 SK ते दानाद्युपंसहारैः सत्वानां विनयन्ति हि | षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु || AMस_१९.३४ ||
53 SK षड्प्रकारो विपक्षः | षण्णां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथाक्रमाः |
54 SK धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः | बोधौ व्याकरणे चैव महाच् चान्यद् उदाहृतं || AMस_१९.३५ ||
55 SK नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः | एकीभावगमत्वाच् च सर्वबुद्धजिनात्मजैः || AMस_१९.३६ ||
56 SK क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः | परिवारानुवृत्या च सद्धर्मस्य तद् इष्यते || AMस_१९.३७ ||
57 SK तत्र पुद्गलभेदेन द्व्याकरणं गोत्रस्थोत्पादितचित्तसंमुखसमक्षपुद्गलव्याकरणात् | कालभेदेन परिमितापरिमितकालव्याकरणात् | पुनर् बोधौ व्याकरणं भवति | व्याकरणं वा एवंनामा तथागत एवम् अमुष्मिन् काले व्याकरिष्यतीति | अन्यत् पुनर् महाव्याकरणं यद् यद् अष्टम्यां भूमौ अनुत्पत्तिकधर्मक्षान्तिलाभतः | अहं बुद्धो भविष्यामीति मानप्रहाणतः | सर्वनिमित्तभोगप्रहाणतः | सर्वबुद्धबोधिसत्वैश् च सार्धम् एकीभावोपगमनतः | तद् आत्मसंतानभेदादर्शनात् | पुनः क्षेत्रादिभिर् व्याकरणम् ईदृशए बुद्धक्षेत्रे एवंनामा इयता कालेन बुद्धो भविष्यति | एवंनामके कल्पे ईदृशश् चास्य परिवारो भविष्यति | नियतिपातविभागे श्लोकः षड्पादः |
58 SK संपत्त्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां | भावनायाश् च सातत्ये समाधानाच्युताव् अपि | कृत्यसिद्धाव् अनाभोगे क्षान्तिलाभे च सर्वथा || AMस_१९.३८ ||
59 SK षड्पारमिताधिकारेण षड्विधो नियतिपात एष निर्दिष्टः | संपत्तिनियतिपातो नित्यम् उदारभोगसंपत्तिलाभात् | उपपत्तिनियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात् | अखेदनियतिपातो नित्यं संसारदुःखैर् अखेदात् | भावनासातत्यनियतिपातो नित्यं भावनासातत्यात् | समाधानाच्युतौ कृतसिद्धौ च नियतिपातो नित्यं समाध्यपरिहाणितः सत्कृत्यसाधनतश् च | अनाभोगानुत्पत्तिकधर्मक्षान्तिलाभे (Mस १६७) नियतिपातश् च नित्यम् अनाभोगनिर्विकल्पज्ञानविहारात् | अवश्यकरणीयविभागे श्लोकः षड्पादः |
60 SK पूजा शिक्षासमादानं करुणा शुभभावना | अप्रमादस् तथारण्ये श्रुतार्थातृप्तिर् एव च | सर्वभूमिषु धीराणाम् अवश्यकरणीयता || AMस_१९.३९ ||
61 SK षड्परमिता अधिकृत्येयं षड्विधावश्यकरणीयता | गतार्थः श्लोकः | सात्यकरणीयविभागे द्वौ श्लोकौ |
62 SK कामेष्व् आदीनवज्ञानं स्खलितेषु निरीक्षणा | दुःखाधिवासना चैव कुशलस्य च भावना || AMस_१९.४० ||
63 SK अनास्वादः सुखे चैव निमित्तानामकल्पना | सातत्यकरणीयं हि धीमतां सर्वभूमिषु || AMस_१९.४१ ||
64 SK षड्परमितापरिनिष्पादनार्थं षड् सातत्यकरणीयानि | गतार्थौ श्लोकौ | प्रधानवस्तुविभागे श्लोकः षड्पादः |
65 SK धर्मदानं शीलशुद्धिर् नोत्पत्तिक्षान्तिर् एव च | वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः | प्रज्ञा पारमितानां च प्रधानं धीमतां मतम् || AMस_१९.४२ ||
66 SK षट्सु पारमितास्व् एतत् षड्विधं प्रधानं | तत्र शीलविशुद्धिर् आर्यकान्तं शीलं | अन्त्या सकरुणा स्थितिश् चतुर्थं करुणा ऽप्रमाणयुक्तं | शेषं गतार्थं | प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकः |
67 SK विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः | ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु || AMस_१९.४३ ||
68 SK चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः || AMस_१९.४४ ||
69 SK योनिशश् च मनस्कारः सम्यग्दृष्टिः फलान्विता | प्रमाणैर् विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम् || AMस_१९.४५ ||
70 SK आशयाद् देशनाच् चैव प्रयोगात् संभृतेर् अपि | समुदागमभेदाच् च त्रिविधं यानम् इष्यते || AMस_१९.४६ ||
71 SK चतुर्विधं प्रज्ञप्तिव्यवस्थानं | धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात् | तत्र (Mस १६८) पञ्चविद्यास्थानव्यवस्थानं धर्मव्यवस्थानं वेदितव्यं सूत्रगेयादिभिर् आकारभेदैः | तदन्तर्भूतान्य् एव तदन्यानि विद्यास्थानानि महायाने बोधिसत्वेभ्यो देश्यन्ते | सत्वव्यवस्थानं तु सप्तविधां तथताम् आश्रित्य प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां सम्यक्प्रतिपत्तितथतां च | युक्तिप्रज्ञप्तिव्यवस्थानं चतुर्विधं | अपेक्षायुक्तिः | कार्यकारणयुक्तिः | उपपत्तिसाधनयुक्तिः | धर्मतायुक्तिश् च | यानप्रज्ञप्तिव्यवस्थानं त्रिविधं | श्रावकयानं | प्रत्येकबुद्धयानं | महायानं | तत्रापेक्षायुक्तिस् त्रिष्व् अपि यानेषु योनिशोमनस्कारः | तम् अपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्दृष्टेर् उत्पादात् | कारकारणायुक्तिः सम्यग्दृष्टिः सफला | उपपत्तिसाधनयुक्तिः | प्रत्यक्षाधिभिः प्रमाणैः परिक्षा | धर्मतायुक्तिर् अचिन्त्यं स्थानं | सिद्धा हि धर्मता न पुनश् चिन्त्या कस्मात् | योनिशोमनस्कारात् सम्यग्दृष्टिर् भवति | | ततो वा क्लेशप्रहाणं फलम् इत्य् एवम् आदि | यानत्रयव्यवस्थानं पञ्चभिर् आकारैर् वेदितव्यं | आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश् च | तत्र हीनं आशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानं उत्तमा महायानं | यथाशयं हि यथाभिप्रायं धर्मदेशनाभिभवति | यथा देशनं तथा प्रयोगं | यथाप्रयोगं संभारः | यथासंभारं च बोधिसमुदागम इति | पर्येषणाविभागे श्लोकः |
72 SK आगन्तुकत्वपर्येषा अन्योन्यं नाम वस्तुनोः | प्रज्ञप्तेर् द्विविधस्यात्र तन्मात्रत्वस्य वैषणा || AMस_१९.४७ ||
73 SK चतुर्विधा पर्येषणा धर्माणां | नामपर्य्षणा वस्तुपर्येषणा | स्वभावप्रज्ञप्तिपर्येषणा | विशेषप्रज्ञप्तिपर्येषणा च | तत्र नाम्नो वस्तुन्य् आगन्तुकत्वपर्येषणा नामपर्येषणा वेदितव्या | वस्तुनो नाम्न्य् आगन्तुकत्वपर्येषणा वस्तुपर्येषणा वेदितव्या | तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्तिमात्रत्वपर्येषणा स्वभावविशेषप्रज्ञप्तिपर्येषणा वेदितव्या | यथाभूतपरिहारविभागे दश श्लोकः |
74 SK सर्वस्यानुपलम्भाच् च भूतज्ञानं चतुर्विधं | सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते || AMस_१९.४८ ||
75 SK चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतम् | वस्तुपर्येषणागतं | स्वभावप्रज्ञप्तिपर्येषणागतं | विशेषपर्ज्ञप्तिपर्येषणागतं च | तच् च सर्वस्यास्य (Mस १६९) नामादिकस्यानुपलम्भाद् वेदितव्यं | उत्तरार्धेन यथाभूतपरिज्ञानस्य कर्मणां माहात्म्यं दर्शयति |
76 SK प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि | साश्रयाश् चित्तचैत्तास् तु बध्यन्ते ऽत्र सबीजकाः || AMस_१९.४९ ||
77 SK तत्र प्रतिष्ठानिमित्तं भाजनलोकः | भोगनिमित्तं पञ्च रूपादयो विषयाः | बीजनिमित्तं यत् तेषां बीजम् आलयविज्ञानं | यत्र तिर्विधे निमित्ते साश्रयाश् चित्तचैत्ता बध्यन्ते | यच् च तेषां बीजम् आलयविज्ञानं | आश्रयाः पुनश् चक्षुरादयो वेदितव्याः |
78 SK पुरतः स्थापितं यच् च निमित्तं यत् स्थितं स्वयं | सर्वं विभावयन् धीमान् लभते बोधिम् उत्तमाम् || AMस_१९.५० ||
79 SK तत्र पुरतः स्थापितं निमित्तं यच् छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितं | स्थितं स्वयम् एव यत् प्रकृतियालम्बनीभूतम् अयत्नपरिकल्पितं | तस्य विभावनाधिगमो नालम्बनीभावः | अकल्पना तदुपायो निमित्तप्रतिपक्षः | तच् चोभयं क्रमाद् भवति | पूर्वं हि स्थापितस्य पश्चात् स्वयंस्थितस्य | तत्र चतुर्विपर्यासानुगतं पुदग्लनिमित्तं विभावयन् योगी श्रावकबोधिं प्रत्येकबोधिं वा लभते | सर्वधर्मनिमित्तं विभावयन् महाबोधिं | एतेन यथातत्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानं | तत् परिदीपितं |
80 SK तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं | दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम् || AMस_१९.५१ ||
81 SK एतेन यथास्वभावत्रयपरिज्ञानात् परतन्त्रस्वभावक्षयाय संवर्तते | तत् परिदीपितं | तथतालम्बनत्वेन परिनिष्पन्नं स्वभावं परिज्ञाय | द्वयग्राहविवर्जितत्वेन कल्पितं | दौष्ठुल्यकायप्रत्यक्षत्वेन परतन्त्रं | तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं तत्क्षये |
82 SK तथतालम्बनं ज्ञानम् अनानाकारभावितं | सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते || AMस_१९.५२ ||
83 SK अनानाकारभावितं नित्मित्ततथतयोर् अनानात्वदर्शनात् | एतेन श्रावकानिमित्तत्वाद् बोधिसत्वानिमित्तत्वस्य विशेषः परिदीपितः | ते हि नित्मित्तानिमित्तयोर् नानात्वं पश्यन्तु | सर्वनिमित्तानाम् अमनसिकाराद् अनिमित्तस्य च (Mस १७०) धातोर् मनसिकाराद् अनिमित्तं समापद्यन्ते | बोधिसत्वास् तु तथताव्यतिरेकेण निमित्तम् अपशन्तो निमित्तम् एवानिमित्तं पश्यन्त्य् अतस् तेषां तज्ज्ञानमनसिकारभावितं | सत्तार्थे च निमित्ते प्रत्यक्षं विकल्पविभु चोच्यते | विकल्पविभुत्वलाभाद् यथाविकल्पं सर्वार्थसमृद्धितः |
84 SK तत्वं संच्छाद्य बालानाम् अतत्वं ख्याति सर्वतः | तत्वं तु बोधिसत्वानां सर्वतः ख्यात्य् अपास्य तत् || AMस_१९.५३ ||
85 SK एतेन यथा बालानां स्वरसेनातत्वम् एव ख्याति निमित्तं न तत्वं तथता | एवं बोधिसत्वानां स्वरसेन तत्वं एव ख्यात्य् नातत्वम् इत्य् उपदर्शितं |
86 SK अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः | आश्रयस्य परावृत्तिर् मोक्षो ऽसौ कामचारतः || AMस_१९.५४ ||
87 SK असदर्थस्य निमित्तस्याख्यानता सदर्थस्य तथतायाः ख्यानता आश्रयस्य परावृत्तेर् वेदितव्या तया हि तदख्यानं च | सैव मोक्षो वेदितव्यः | किं कारणं | कामचारतः | तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात् |
88 SK अन्योन्यं तुल्यजातीयः ख्यात्य् अर्थः सर्वतो महान् | अन्तरायकरस् तस्मात् परिज्ञायैनम् उत्सृजेत् || AMस_१९.५५ ||
89 SK इदं क्षेत्रपरिशोधनोपाये यथाभूतपरिज्ञानं | भाजनलोकार्थो महान् अन्योन्यं वर्तमानस् तुल्यजातीयः ख्यात्य् स एवायम् इति | स चैवं ख्यानाद् अन्तरायकरो भवति बुद्धक्षेत्रपरिशुद्धये | तस्माद् अन्तरायकरं परिज्ञायैनम् उत्सृजेद् एवं ख्यातं | अप्रमेयविभागे श्लोकः |
90 SK परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने | सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम् || AMस_१९.५६ ||
91 SK पञ्चविधं हि वस्तु बोधिसत्वानाम् अप्रमेयं | परिपाच्यं वस्तु सत्वधातुर्विशेषेण विशोध्यं लोकधातुर् भाजनलोकसंगृहीतः | प्राप्यं धर्मधातुः | परिपाचनयोग्यं विनेयधातुः | सम्यग्देशनावस्तु विनयोपायधातुः | देशनाबलविभागे द्वौ श्लोकौ |
92 SK बोधिसत्वचित्तस्य चोत्पादो नोत्पादक्षान्तिर् एव च | चक्षुश् च निर्मलं हीनम् आश्रवक्षय एव च || AMस_१९.५७ ||
93 SK सद्धर्मस्य स्थितिर् दीर्घा व्युत्पत्तिच्छित्तिभोगता | देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः || AMस_१९.५८ ||
94 SK देशनायां प्रयुक्तस्य बोधिसत्वस्याष्टविधं देशनायाः फलं वेदितव्यं | श्रोतृषु केचिद् बोधिचित्तम् उत्पादयन्ति | केचिद् अनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते | केचिद् विरजो विगतमलं धर्मेषु धर्मेषु धर्मचक्षुर् उत्पादयन्ति हीनयानसंगृहीतं | केचिद् आश्रवक्षयं प्राप्नुवन्ति | सद्धर्मश् च चिरस्थितिको भवति परंपराधारणतया | अव्युत्पन्नानाम् अर्थव्युत्पत्तिर् भवति | संशयितानां संशयछेदो भवति | विनिश्चितानां सद्धर्मसंभोगो भवति अनवद्यो प्रीतिरसः | महायानमहत्वविभागे द्वौ श्लोकः |
95 SK आलम्बनमहत्वं च प्रतिपत्तेर् द्वयोस् तथा | ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च || AMस_१९.५९ ||
96 SK उदागममहत्वं च महत्वं बुद्धकर्मणः | एतन् महत्वयोगाद् धि महायानं निरुच्यते || AMस_१९.६० ||
97 SK सप्तविधमहत्वयोगान् महायानम् इत्य् उच्यते | आलम्बनमहत्वेनाप्रमाणविस्तीर्णसूत्रादिधर्मयोगात् | प्रतिपत्तिमहत्वेन द्वयोः प्रतिपत्तेः स्वार्थे परार्थे च | ज्ञानमहत्वेन द्वयोर् ज्ञानात्मपुद्गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले | वीर्यारम्भमहत्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात् | उपायकौशल्यमह्त्वेन संसारापरित्यागासंक्लेशतः | समुदागममहत्वेन बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात् | बुद्धकर्ममह्त्वेन च पुनः पुनर् अभिसंबोधिमहापरिनिर्वाणसंदर्शनतः |
98 SK गोत्रं धर्माधिमुक्तिश् च चित्तस्योत्पादना तथा | दानादिप्रतिपत्तिश् च न्यायाम् आवक्रान्तिर् एव च || AMस_१९.६१ ||
99 SK सत्वानां परिपाकश् च क्षेत्रस्य च विशोधना | अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात् दर्शना || AMस_१९.६२ ||
100 SK एतेन दशविधेन वस्तुना कृत्स्नं महायानं संगृहीतं | सत्वानां परिपाचनं भूमिपर्तिष्ठितस्य यावत् सप्तम्यां भूमौ वेदितव्यं | क्षेत्रपरिशोधनम् अप्रतिष्ठितनिर्वाणं चाविनिवर्तनीयायां भूमौ त्रिविधायां | श्रेष्ठा बोधिर् बुद्धभूमौ | तत्रैव चाभिसंबोधिमहापरिनिर्वाणसंदर्शना | (Mस १७२) शेषं गतार्थं | बोस्हिसत्वविभागे दश श्लोकाः |
101 SK आधिमोक्षिक एकश् च शुद्धाध्याशयिको ऽपरः | निमित्ते चानिमित्ते च चार्य् अप्य् अनभिसंस्कृते | बोधिसत्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु || AMस_१९.६३ ||
102 SK तत्र निमित्तचारी द्वितीयां भूमिम् उपादाय यावत् षष्ठ्यां | अनिमित्तचारी सप्तम्यां | अनभिसंस्कारचारी परेण | शेषं गतार्थं |
103 SK कामेष्व् असक्तस् त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश् च | धर्मे ऽचलस् तत्वगभीरदृष्टिर् बोधौ स्पृहावान् खलु बोधिसत्वः || AMस_१९.६४ ||
104 SK एतेन षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं |
105 SK अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्व् अधिवासकश् च | धीरो ऽप्रमत्तश् च बहुश्रुतश् च परार्थयुक्तः खलु बोधिसत्वः || AMस_१९.६५ ||
106 SK १९.६५ चोम्म्. तत्र धीर आरब्धवीर्यो दुःखैर् अविषादात् | अप्रमत्तो ध्यानसुखेष्व् असक्तः | शेषं गतार्थं |
107 SK आदीनवज्ञः स्वपरिग्रहेषु भोगेष्व् असक्तो ह्य् अनिगूढवैरः | योगी निमित्ते कुशलो ऽकुदृष्टिर् अध्यात्मसंस्थः खलु बोधिसत्वः || AMस_१९.६६ ||
108 SK तत्र भोगेष्व् असक्तो यस् तान् विआय प्रव्रजति | निमित्तकुशलः शमथादिनिमित्तत्रयकौशल्यात् | अध्यात्मसंस्थो महायानाविकम्पनात् | महायानं हि बोधिसत्वानाम् अध्यात्मं | शेषं गतार्थं |
109 SK दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात् स्वसुखेष्व् असक्तः | स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्वः || AMस_१९.६७ ||
110 SK तत्र स्मृतिप्रधानो ध्यानवान् स्मृतिबलेन चित्तसमाधानात् | सुसमाहितात्मा निर्विकल्पज्ञानः | शेषं गतार्थं |
111 SK दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः | दुःखाद् विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्वः || AMस_१९.६८ ||
112 SK तत्र दुःखाद् विमुक्तो ध्यानवान् कामधातुवैराग्याद् दुःखदुःखतामोक्षतः | दुःखाभ्युपेतः संसाराभ्युपगमात् | शेषं गतार्थं |
113 SK धर्मे रतो ऽधर्मरतः धर्मे ऽरतो ऽधर्मरतः प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः | धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्वः || AMस_१९.६९ ||
114 SK तत्र धर्मे जुगुप्सी अक्षान्तिजुगुप्सनात् | धर्मे वशी समापत्तौ | धर्मप्रधानो महाबोधिपरमः | धर्म एवात्र धरम उक्तो वृत्तानुवृत्त्या | शेषं गतार्थं |
115 SK भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः | सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्वः || AMस_१९.७० ||
116 SK तत्र रक्षाप्रमत्तः क्षान्तिमान् स्वपरचित्तानुरक्षणात् | धर्माप्रमत्तो यथाभूतधर्मज्ञानात् | शेषं गतार्थं |
117 SK विमानलज्जस् तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः | विशालविसारलज्जस् तनुदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्वः || AMस_१९.७१ ||
118 SK तत्र विमानलज्जो यो ऽर्थिनो न विमानयति | तनुदोषलज्जो ऽणुमात्रेष्व् अवद्येषु भ्यदर्शी | तनुदृष्टिलज्जो धर्मनैरात्म्यप्रतिवेधी | शेषं गतार्थं | सर्वैर् एभिः श्लोकैः पर्यायान्तरेण षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं |
119 SK इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः | शमोपसमौपदेशेन महाफलेन अनुग्रहे वर्तति बोधिसत्वः || AMस_१९.७२ ||
120 SK इहएव सत्वानाम् अनुग्रहे वर्तते दानेन | अमुत्र शीलेनोपपत्तिविशेषं प्राप्य | संस्कारयोगेनेति वीर्ययोगेन | महाफलेन-इति बुद्धत्वेन | शेषं गतार्थं | एतेन (Mस १७४) षड्भिः पारमिताभिर् महाबोधिप्रणिधानेन च यथा सत्वानुग्रहे बोधिसत्वो वर्तते तत् परिदीपितं | बोधिसत्वसामान्यनामविभागे अष्टौ श्लोकाः |
121 SK बोधिसत्वो महासत्वो धीमांश् चैवोत्तमद्युतिः | जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः || AMस_१९.७३ ||
122 SK विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः | कृपालुश् च महापुण्य ईश्वरो धार्मिकस् तथा || AMस_१९.७४ ||
123 SK एतानि षोडश सर्वबोधिसत्वानाम् अन्वर्थनामानि सामन्येन |
124 SK सुतत्वबोधैः सुमहार्थबोधैः सर्वावर्थबोधैर् अपि नित्यबोधैः | उपायबोधैश् च विशेषणेन तेनोच्यते हेतुन बोधिसत्वः || AMस_१९.७५ ||
125 SK पञ्चविधेन बोधविशेषेण बोधिसत्व इत्य् उच्यते | पुद्गलनैरात्म्यबोधेन | सर्वाकारसर्वार्थबोधेन अक्षयावब्धेन परिनिर्वाणसंदर्शने ऽपि | यथाविधेनायं च विनयोपायबोधेन |
126 SK आत्मानुबोधात् तनुदृष्टिबोधाद् विचित्रविज्ञप्तिविबोधतश् च | सर्वस्य चाभूतविकल्पबोधात् तेनोच्यते हेतुन बोधिसत्वः || AMस_१९.७६ ||
127 SK अत्र पुनश् चतुर्विधबोधिविशेषं दर्शयति चित्तमनोविज्ञानबोधतः | तेषां चाभूतपरिकल्पत्वावबोधतः | तत्र चित्तम् आलयविज्ञानं | मनस् तदालम्बनम् आत्मदृष्ट्यादिसंयुक्तं | विज्ञानं षड्विज्ञानकायाः
128 SK अबोधबोधाद् अनुबोधबोधाद् अभावबोधात् प्रभवानुबोधात् | अबोधबोधप्रतिबोधतश् च तेनोच्यते हेतुन बोधिसत्वः || AMस_१९.७७ ||
129 SK अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति | अविद्याबोधात् | विद्याबोधात् | परिकल्पितादिस्वभावत्रयबोधाच् च | तत्रावबोधत्वेन बोधिप्रतिबोधात् परिनिष्पन्नस्वभावबोधो वेदितव्यः |
130 SK अनर्थबोधात् परमार्थबोधात् सर्वावबोधात् सकलार्थबोधात् | बोद्धव्यबोधाश्रयबोधबोधात् तेनोच्यते हेतुन बोधिसत्वः || AMस_१९.७८ ||
131 SK अत्र पञ्चविधं बोधिविशेषं दर्शयति | परतन्त्रलक्षणबोधात् | परिनिष्पन्नबोधात् | सर्वज्ञेयसर्वाकारबोधात् | बोध्यवबोधत्रिमण्डलपरिशुद्धिबोधाच् च |
132 SK निष्पन्नबोधात् पदबोधतश् च गर्भानुबोधात् क्रमदर्शनस्य | बोधाद् भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्वः || AMस_१९.७९ ||
133 SK तत्र निष्पन्नबोधो बुद्धत्वं | पदबोधो येन तुषितभवने वसति | गर्भानुबोधो येन मातुः कुक्षिम् अवक्रामति | क्रमदर्शने बोधो येन गर्भान् निष्क्रमणं कामपरिभोगं प्रव्र्ज्यां दुष्करचर्याम् अभिसंबोधिं च दर्शयति | भृशं संशयहानिबोधो येन सर्वसंशयछेदाय सत्वानां धर्मचक्रं प्रवर्तयति |
134 SK लाभी ह्य् अलाभी धीसंस्थितश् च बोद्धानुबोद्धा प्रतिदेशकश् च | निर्जल्पबुद्धिर् हतमानमानी ह्य् अपक्कसंपक्कमतिश् च धीमान् || AMस_१९.८० ||
135 SK अत्रैकादशविधेनातीतादिना बोधेन बोधिसत्वः परिदीपितः | तत्र लाभी अलाभी धीसंस्थितश् चातीतानागतप्रत्युत्पन्नैर् यथाक्रमं | बोद्धा स्वयंबोधात् | अनुबोद्धा परतो ब्धात् एतेनाध्यात्मिकबाह्यं बोधं दर्शयति | प्रतिदेशको निर्जल्पबुद्धिर् इत्य् औदारिकसूक्ष्मं | मानी हतमानीति हीनप्रणीतं | अपक्कसंपक्कमतिश् चेति दूरान्तिकं बोधं दर्श्यति |
136 SK महायानसूत्रालंकारे गुणाधिकारः एकोनविंशतितमः समाप्तः
137 SK CHAPITRE XX-XXI विंशतितमः एकविंशतितमश् चाधिकारः
138 SK लिङ्गविभागे द्वौ श्लोकौ |
139 SK अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता | गम्भीरसंधिनिर्मोक्षो लिङ्गान्य् एतानि धीमतां || AMस_२०-२१.१ ||
140 SK परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे | आशयाच् च प्रयोगाच् च विज्ञेयं लिङ्गपञ्चकं || AMस_२०-२१.२ ||
141 SK तत्र प्रथमेन श्लोकेन पञ्च बोधिसत्वलिङ्गनि दर्शयति | द्वितीयेन तेषां (Mस १७६) कर्म समाससंग्रहं च | तत्रानुकम्पा बोधिचित्तेन सत्वपरिग्रहार्थं प्रियाख्यानं सत्वानां बुद्धशासनाधिमुक्तिलभार्थं धीरता दुष्करचर्यादिभिर् अखेदार्थं मुक्तहस्तता गम्भीरसंधिनिर्मोक्षणं च द्वयेन संग्रहार्थम् आमिषेण धर्मेण यथाक्रमं | एषां पञ्चानां लिङ्गानां अनुकम्पा आशयतो वेदितव्या | शेषाणि प्रयोगतः | गृहिप्रव्रजितपक्षविभागे त्रयः श्लोकः |
142 SK बोधिसत्वा हि सततं भवन्तश् चक्रवर्तिनः | प्रकुर्वन्ति हि सत्वार्थं गृहिणः सर्वजन्मसु || AMस_२०-२१.३ ||
143 SK आदानलब्धा प्रव्रज्या धर्मतोपगता परा | निदर्शिका च प्रव्रजया धीमतां सर्वभूमिषु || AMस_२०-२१.४ ||
144 SK अप्रमेयैर् गुणैर् युक्तः पक्षः प्रव्रजितस्य तु | गृहिणो बोधिसत्वाद् धि यतिस् तस्माद् विशिष्यते || AMस_२०-२१.५ ||
145 SK एतेन श्लोकेन यादृशे गृहपक्षे स्थितो बोधिसत्वः सत्वार्थं करोति तत्परिदीपितं | द्वितीयेन यादृशे प्रव्रजितपक्षे | तत्र त्रिविधा प्रव्रज्या वेदितव्या | समादानलब्धा | धर्मतालब्धा | निदर्शका च निर्माणैः | तृतीयेन गृहपक्षात् प्रव्रजितपक्षस्य विशेषः परिदीपितः | अध्याशयविभागे श्लोकः षड्पादः |
146 SK परत्रेष्टफलेच्छा च शुभवृत्ताव् इहैव च | निर्वाणेच्छा च धीराणां सत्वेष्व् आशय इष्यते | अशुद्धश् च विशुद्धश् च सुविशुद्धः सर्वभूमिषु || AMस_२०-२१.६ ||
147 SK एतेन समासतः पञ्चविधो ऽध्याशयः परिदीपितः | सुखाध्याशयः | परत्रेष्टफलेच्छा हिताध्याशयः इहैव कुशलप्रवृत्तीच्छा निर्वाणेच्छा तदुभयाह्याशय एवेति नान्यो वेदितव्यः | अशुद्धादिकास् त्रयो ऽध्याशया अप्रविष्टानां | भूमिप्रविष्टानां | अविनिवर्तनीयभूमिप्राप्तानां च यथाक्रमं वेदितव्याः | परिग्रहविभागे श्लोकः |
148 SK प्रणिधानात् समाच् चित्ताद् आधिपत्यात् परिग्रहः | गणस्य कर्षणत्वाच् च धीमतां सर्वभूमिषु || AMस_२०-२१.७ ||
149 SK चतुर्विधः सत्वपरिग्रहो बोधिसत्वानां प्रणिधानपरिग्रहो वेदितव्यो बोधिचित्तेन सर्वसत्वपरिग्रहणात् | समचित्ततापरिग्रह आत्मपरसमतालाभाद् अभिसमयकाले | (Mस १७७) आधिपत्यपरिग्रहः स्वामिभूतस्य येषाम् असौ स्वामी | | गणपरिकर्षणपरिग्रहश् च शिष्यगणोपादानात् | उपपत्तिविभागे श्लोकः |
150 SK कर्मणश् चाधिपत्येन प्रणिधानस्य चापरा | समाधेश् च विभुत्वस्य चोत्पत्तिर् धीमतां मता || AMस_२०-२१.८ ||
151 SK चतुर्विधा बोधिसत्वानाम् उपपत्तिः कर्माधिपत्येन याधिमुक्तिचर्याभूमिस्थितानां कर्मवशेनाभिप्रेतस्थानोपपत्तिः प्रणिधानवशेन या भूमिप्रविष्टानां सर्वस्तवपरिपाचनार्थं तिर्यगादिहीनस्थानोपपत्तिः | समाध्याधिपत्येन या ध्यानानि व्यावर्त्य कामधाताव् उपपत्तिः | विभुत्वाधिपत्येन या निर्माणैस् तुषितभवनाद्युपपत्तिसंदर्शनात् | विहारभूमिविभागे त्रिंशत् श्लोकः |
152 SK लक्षणात् पुद्गगलाच् छिक्षास्कन्धनिष्पत्तिलिङ्गतः | निरुक्तेः प्राप्तितश् चैव विहारो भूमिर् एव च || AMस_२०-२१.९ ||
153 SK लक्षणविभागम् आरभ्य पञ्च श्लोकाः |
154 SK शून्यता परमात्मस्य कर्मनाशे व्यवस्थितिः | विहृत्य ससुखैर् ध्यानैर् जन्म कामे ततः परम् || AMस_२०-२१.१० ||
155 SK ततश् च बोधिपक्षाणां संसारे परिणामना | विना च चित्तसंक्लेशं सत्वानां परिपाचना || AMस_२०-२१.११ ||
156 SK उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा | एकायनपथश्लिष्टा ऽनिमित्तैकान्तिकः पथः || AMस_२०-२१.१२ ||
157 SK अनिमित्ते ऽप्य् अनाभोगः क्षेत्रस्य च विशोधना | सत्वपाकस्य निष्पत्तिर् जायते च ततः परम् || AMस_२०-२१.१३ ||
158 SK समाधिधारणीनां च बोधेश् चैव विशुद्धता | एतस्माच् च व्यवस्थानाद् विज्ञेयं भूमिलक्षणम् || AMस_२०-२१.१४ ||
159 SK एकादश विहारा एकादश भूमयः | तेषां लक्षणं | प्रथमायां भूमौ परमशून्यताभिसमये लक्षणं पुद्गलनैरात्म्याभिसमयात् | द्वितीयाणां कर्मणाम् विप्रनाशव्यवस्थानं कुशलाकुशलकर्मपथतत्फलवैचित्र्यज्ञानात् | तृतीयायां सातिशयसुखैर् बोधिसत्वध्यानैर् विहृत्यापरिहीनस्यैव तेभ्यः कामधाताव् उपपत्तिः | चतुर्थ्या बोधिपक्षबहुलविहारिणो ऽपि बोधिपक्षाणां संसारे परिणामना | पञ्चम्यां चतुरार्यसत्यबहुलविहारितया विनातमनश् चित्तसंक्लेशेन सत्वानां परिपाचनायां नानाशास्त्रशिल्पप्रणयनात् | षष्ट्यां प्रीत्यसमुत्पादबहुलविहारितया (Mस १७८) संचित्यभवोपपत्तौ तत्र संक्लेशस्यानुरक्षणा | सप्तम्यां मिश्रोपमिश्रत्वेनैकायनपथस्याश्लिष्ट्स्य श्लिष्ट आनिमित्तैकान्तिको मार्गः | अष्टम्यां अनिमित्ते ऽप्य् अनाभोगो निरभिसंस्कार-अनिमित्तविहारित्वाद् बुद्धक्षेत्रविशोधना च | नवयां प्रतिसंविद्वशितया सत्वपाकनिष्पत्तिः सर्वाकारपरिपाचनसामर्थ्यात् | दशम्यां समाधिमुखानां धारणीमुखानां च विशुद्धता | एकादश्यं बुद्धभूमौ बोधिविशुद्धता लक्षणां सर्वज्ञेयावरणप्रहाणात् | भूमिष्ठे च पुद्गलविभागम् आरभ्य द्वौ श्लोकौ |
160 SK विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः | संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः || AMस_२०-२१.१५ ||
161 SK उपेक्षकः क्षेत्रविशोधकश् च स्यात् सत्वपाके कुशलो महर्द्धिः | संपूर्णकायश् च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्वः || AMस_२०-२१.१६ ||
162 SK दशसु भूमिषु दश बोधिसत्वा व्यवस्थाप्यते | प्रथमायां विशुद्धदृष्टिः पुद्गलधर्मदृष्टिप्रतिपक्षज्ञानलाभात् | द्वितीयायां सुविशुद्धशीलः सूक्ष्मापत्तिस्खलितसमुदाचारस्याप्य् अभावात् | तृतीयायां समाहितो भवत्य् अच्युतध्यानसमाधिलाभात् | चतुर्थ्या धर्मविभूतमानः सूत्रादिधर्मनानात्वमानस्य विभूतत्वात् | पञ्चम्यां संतानभेदे निर्माणो दशभिश् चित्ताशयविशुद्धिसमताभिः सर्वसंतानसमताप्रवेशात् | षष्ट्यां संक्लेशव्यवदानभेदे निर्माणः प्रतीत्यसमुत्पादतथताबहुलविहारितया कृष्णशुक्लपक्षाभ्यां तथतायाः संक्लेश्व्यवदानादर्शनात् | प्रकृतिविशुद्धिताम् उपादाय | सप्तम्याम् एकक्षणलब्धबुद्धिर् निर्निमित्तविहारसामर्थ्यात् प्रतिपक्षणं सप्तत्रिंशद् बोध्पक्षभावनातः | अष्टम्याम् उपेक्षकः क्षेत्रविशोधकश् चानाभोगनिर्निमित्तविहारित्वाद् मिश्र-उपमिश्रप्रयोगतश् चाविनिवर्तनीयभूमिप्रविष्टैर् बोधिसत्वैः | नवम्यां सत्वपरिपाककुशलः पूर्ववत् | दशम्यां बोधिसत्वभूमौ बोधिसत्वो महर्द्धिकश् च व्यवस्थाप्यते महाभिज्ञालाभात् | संपूर्णकायश् चाप्रमाणसमाधिधारणीमुखस्फुरणाद् आश्रयस्य निदर्शने च शक्तो व्यवस्थाप्यते तुषितभवनवासादिनिर्माणनिदर्शनात् | भिषिक्तश् च बुद्धत्वे सर्वबुद्धेभ्यस् तत्राभिषेकलाभात् | शिक्षाव्यवस्थानम् आरभ्य पञ्च श्लोकः |
163 SK धर्मतां प्रतिविध्येह अधिशीले ऽनुशिक्षणे | अधिचित्ते ऽप्य् अधिप्रज्ञे प्रज्ञा तु द्वयगोचरा || AMस_२०-२१.१७ ||
164 SK धर्मतत्वं तदज्ञानज्ञानाद् या वृत्तिर् एव च | प्रज्ञाया गोचरस् तस्माद् द्विभूमौ तद्व्यवस्थितिः || AMस_२०-२१.१८ ||
165 SK शिक्षाणां भावनायाश् च फलम् अन्यच् चतुर्विधम् | अनिमित्तससंस्कारो विहारः प्रथमं फलम् || AMस_२०-२१.१९ ||
166 SK स एवानभिसंस्कारो द्वितीयं फलम् इष्यते | क्षेत्रशुद्धिश् च सत्वानां पाकनिष्पत्तिर् एव च || AMस_२०-२१.२० ||
167 SK समाधिधारणीनां च निष्पत्तिः परमं फलं | चतुर्विधं फलं ह्य् एतत् चतुर्भूमिसमाश्रितम् || AMस_२०-२१.२१ ||
168 SK प्रथमायां भूमौ धर्मतां प्रतिविध्य द्वितीयायाम् अधिशीलं शिक्षते |तृतीयायाम् अधिचित्तं | चतुर्थोपञ्चमीषष्टीष्व् अधिप्रज्ञं | बोधिपक्षसंगृहीता हि प्रज्ञा चतुर्थां भूमौ | सा पुनर् द्वयगोचरा भूमिद्वये | द्वयं पुनर् धर्मतत्वं च दुःखादिसत्यं | तदज्ञानज्ञानादिका च वृत्तिर् अनुलोमः पर्तीत्यसमुत्पादः | तदज्ञानादिका हि वृत्तिर् अविद्यादिका | तज्ज्ञानादिका च वृत्तिर् विद्यादिका | तस्माद् भूमिद्वये ऽप्य् अधिप्रज्ञाव्यवस्थानं | अतः परं चतुर्विधं शिक्षाफलं चतुर्भूमिसमाश्रितं वेदितव्यं यथाक्रमं | तत्र द्वितीयं फलं स एवानिमित्तो विहारो ऽनभिसंस्कारः क्षेत्रशुद्धिश् च वेदितव्यं | शेषं गतार्थं | स्कन्धव्यवस्थानम् आरभ्य द्वौ श्लोकौ | धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना |
169 SK समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना || AMस_२०-२१.२२ ||
170 SK विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना | चतुर्विधाद् आवरणात् प्रतिघातावृतेर् अपि || AMस_२०-२१.२३ ||
171 SK तद् अन्यास्व् इति सप्तम्यां यावद् बुद्धबूमाव् अभयोर् विमुक्तिविमुक्तिज्ञानयोर् विशोधना | सा पुनर् विमुक्तिश् चतुर्विधफलावरणाच् च वेदितव्या प्रतिघातावरणाच् च बुद्धभूमौ | येनान्येषां ज्ञेये ज्ञानं प्रतिहन्यते | बुद्धानां तो तद्विमोक्षात् सर्वत्राप्रतिहतं ज्ञानं | शेषं गतार्थं | निष्पत्तिव्यवस्थानम् आरभ्य त्रयः श्लोकः | अनिष्पन्नाश् च निष्पन्ना विज्ञेयाः सर्वभूमयः | निष्पन्ना अप्य् अनिष्पन्ना निष्पन्नाश् च पुनर् मताः || AMस_२०-२१.२४ ||
172 SK निष्पत्तिर् विज्ञेया यथाव्यवस्थानमनसिकारेण | तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव || AMस_२०-२१.२५ ||
173 SK भावना अपि निष्पत्तिर् अचिन्त्यं सर्वभूमिषु | प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयाद् अपि || AMस_२०-२१.२६ ||
174 SK तत्राधिमुक्तिचर्याभूमिर् अनिष्पन्ना शेषा निष्पन्ना इत्य् एताः सर्वभूमयः | निष्पन्ना अपि पुनः सप्तमानिष्पन्नाः शेषा निष्पन्ना निरभिसंस्कारवाहित्वात् | यत् पुनः प्रमुदितादिभूमिर् निष्पन्ना पूर्वमुक्ता तत्र निष्पत्तिर् यथाव्यवस्थापितभूमिमनसिकारेण |तस्य भूमिव्यवस्थानस्य कल्पनामात्रज्ञानात् तद् अविकल्पना च च वेदितव्या | यदा तद्भूमिव्यवस्थानं कल्पनामात्रं जानीते | तद् पै च कल्पनामात्रं न विकल्पयत्य् एवं ग्राह्यग्राहकाविकल्पज्ञानलाभाद् भूमिपरिनिष्पत्तिर् उक्ता भवति | अपि च खलु भूमीनां भावना च निष्पत्तिश् चोभयम् अचिन्त्यं सर्वभूमिषु | तथा हि तद् बोधिसत्वानां प्रत्यात्मवेदनीयं बुद्धानां च विषयो नान्येषां | भूमिप्रतिष्ठस्य लिङ्गविभागम् आरभ्य द्वौ श्लोकौ |
175 SK अधिमुक्तिर् हि सर्वत्र सालोका लिङ्गम् इष्यते | अलीनत्वम् अदीनत्वम् अपरप्रत्ययात्मता || AMस_२०-२१.२७ ||
176 SK प्रतिवेधश् च सर्वत्र सर्वत्र समचित्तता | अनेयानुनयोपायज्ञानं मण्डलजन्म च || AMस_२०-२१.२८ ||
177 SK एतद्भूमिप्रविष्टस्य बोधिसत्वस्य दशविधं लिङ्गं सर्वासु भूमिषु वेदितव्यं | यां भूमिं प्रविष्टस् तत्र सालोको यां न प्रविष्टस् तत्राधिमुक्तिर् इत्य् एतद् एकं लिङ्गं | अलीनत्वं पर्मोदारगम्भीरेषु धर्मेषु | अदीनत्वं दुष्करचर्यासु | अपरप्रत्ययत्वं स्वस्यां भूमौ | सर्वभूमिप्रतिवेधश् च तद् अभिनिर्हारकौशल्यतः सर्वसत्वेष्व् आत्मसमचित्तता | अनेया वर्णावर्णशब्दाभ्यां | अननुनयश् चक्रवर्तीत्यादिसं पत्तिषु | उपायकौशल्यम् अनुपलम्भस् तस्य बुद्धत्वोपायज्ञानात् | बुद्धपर्षन्मण्डलेषु चोपपत्तिः सर्वकालम् इत्य् एतानि अपराणि लिङ्गानि बोधिसत्वस्य | भूमिषु पारमितालाभलिङ्गविभागे द्वौ श्लोकौ |
178 SK नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पैर् विकल्पैर् हतः | नो विक्षिप्तमतिः सुखैर् न च हतो दुःखैर् न वा व्यावर्तते सत्यं मित्रम् उपाश्रितः श्रुतपरः पूजापरः शास्तरि || AMस_२०-२१.२९ ||
179 SK सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्य् अहरहर्यो ह्य् उत्तमोपायवित् | जातः स्वायतने सदा शुभकरः क्रीडत्य् अभिज्ञागुणैः सर्वेषाम् उपरिस्थितो गुणनिधिर् ज्ञेयः स बुद्धात्मनः || AMस_२०-२१.३० ||
180 SK दशपारमितालाभिनो बोधिसत्वस्य षोडशविधं लिङ्गं दर्शयति | षोडशविदं लिङ्गं | सदा पारमिताप्रतिपत्तिच्छन्देनाविरहितत्वं | षड्पारमिताविपक्षैश् च रहितत्वं प्रत्येकं | अन्ययानमनसिकारेणाविक्षिप्तता | संपत्तिसुखेष्व् असक्तता | विपत्तिदुष्करचर्यादुःखैः प्रयोगानिर्वर्तिता | कल्याणमित्राश्रयः | श्रुतपरत्वं शास्तृपूजापरत्वं | सम्यक्परिणामना उपायकौशल्यपारमितया | स्वायतनोपपत्तिः प्रणिधानपारमितया बुद्धबोधिसत्वाविरहितस्थानोपपत्तेः | सदाशुभकरत्वे बलपारमितया तद्विपक्षधर्माव्यवकरणात् | अभिज्ञागुणक्रीडणं च ज्ञानपारमितया | तत्र मैत्री व्यापादप्रैपक्षः सुखोपसंहाराशयः | करुणा विहिंसाप्रतिपक्षो दुःखापगमाशयः | स्वभावकल्पनं कल्पः | विशेषकल्पनं विकल्पो वेदितव्हः | तत्रैवानुशंसविभागे श्लोकः |
181 SK शमथे विपश्यनायां च द्वयपञ्चात्मको मतः | धीमताम् अनुशंसो हि सर्वथा सर्वभूमिषु || AMस_२०-२१.३१ ||
182 SK तत्रैव पारमितालाभे सर्वभूमिषु बोधिसत्वानां सर्वप्रकारो ऽनुशंसः | पञ्चविधो वेदितव्यः | प्रतिक्षणं सर्वदुअष्ठुल्याश्रयं द्रावयति | नानात्वसंज्ञाविगतिं धर्मारामरतिः प्रतिलभते | अपरिच्छिन्नाकारं च सर्वतो ऽप्रमाणं धर्मावभासं संजानीते | अविकल्पितानि चास्य विशुद्धिभागीयानि निमित्तानि समुदाचरन्ति | धर्मकायपरिपूरिपरिनिष्पत्तये च उत्तराद् उत्तरतरं हेतुसंपरिग्रहं करोति | तत्र प्रथमद्वितीयौ शमथपक्षे वेदितव्यं | तृतीयचतुर्थौ विपश्यनापक्षे | शेषम् उभयपक्षे | भूमिनिरुक्तिविभागे नव श्लोकः |
183 SK पश्यतां बोधिम् आसन्नां सत्वार्थस्य च साधनं | तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते || AMस_२०-२१.३२ ||
184 SK अत्र न किंचिद् व्याख्येयं |
185 SK दौःशील्याभोगवैमल्याद् विमला भूमिर् उच्यते |
186 SK दौःशील्यम् अलस्यान्ययानमनसिकारम् अलस्य चातिक्रमाद् विमलेत्य् उच्यते | तस्मात् तर्ह्य् अस्माभिस् तुल्याभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति वचनात् |
187 SK महाधर्मावभासस्य करणाच् च प्रभाकरी || AMस_२०-२१.३३ ||
188 SK तथा हि तस्यां समाधिबलेनाप्रमाणधर्मपर्येषणधारणात् महान्तं धर्मावभासं परेषां करोति |
189 SK अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः | अर्चिष्मतीति तद्योगात् सा भूमिर् द्वयदाहतः || AMस_२०-२१.३४ ||
190 SK सा बोधिपक्षात्मिका प्र्ज्ञा द्वयदहनप्रत्युपस्थाना तस्यां बाहुल्येन | द्वयं पुनः क्लेशावरणं ज्ञेयावरणं चात्र वेदितव्यं |
191 SK सत्वानां परिपाकश् च स्वचित्तस्य च रक्षणा | धीमद्भिर् जीयते दुःखं दुर्जया तेन कथ्यते || AMस_२०-२१.३५ ||
192 SK तत्र सत्वपरिपाकाभियुक्तो ऽपि न संक्लिश्यते | सत्वविप्रत्तिपत्त्या तच् चोभयं दुष्करत्वाद् दुर्जयं |
193 SK आभिमुख्याद् द्वयस्येह संसारस्यापि निर्वृतेः | उक्ता ह्य् अभिमुखी भूमिः प्रज्ञापारमिताश्रयात् || AMस_२०-२१.३६ ||
194 SK सा हि प्रज्ञापारमिताश्रयेण निर्वाणसंसारयोर् अप्रतिष्ठानात् संसारनिर्वाणयोर् अभिमुखी
195 SK एकायनपथश्लेषाद् भूमिर् दूरंगमा मता |
196 SK एकायनपथः पूर्वं निर्दिष्टस् तदुपश्लेषत्वात् दूरं गता भवति प्रयोगपयन्तगमनात् |
197 SK द्वयसंज्ञाविचलनाद् अचला च निरुच्यते || AMस_२०-२१.३७ ||
198 SK द्वाभ्यां संज्ञाभ्यां अविचलनात् निमित्तसंज्ञया अनिमित्ताभोगसंज्ञया च |
199 SK प्रतिसंविन्मतिसाधुत्वाद् भूमिः साधुमति मता |
200 SK प्रतिसंविन्मतेः साधुत्वाद् इति प्रधानत्वात् |
201 SK धर्ममेघा द्वयव्याप्तेर् धर्माकाशस्य मेघवत् || AMस_२०-२१.३८ ||
202 SK द्वयव्याप्तेर् इत्य् समाधिमुखधारणीमुखव्यापनान् मेघेनेवाकाशस्थालीयस्याश्रयसंनिविष्टस्य श्रुतधर्मस्य धर्ममेघेत्य् उच्यते |
203 SK विविधे शुभनिर्हारे रत्या विहरणात् सदा | सर्वत्र बोधिसत्वानां विहारभूमयो मताः || AMस_२०-२१.३९ ||
204 SK विविधकुशलाभिनिर्हारनिमित्तं सदा सर्वत्र रत्या विहरणाद् बोधिसत्वानां भूमयो विहारा इत्य् उच्यन्ते |
205 SK भूयो भूयो ऽमितास्व् आसु ऊर्ध्वंगमनयोगतः | भूतामिताभयार्थाय त एवेष्टा हि भूमयः || AMस_२०-२१.४० ||
206 SK भूयो भूयो ऽमितास्व् आसु ऊर्ध्वंगमनयोगाद् भूतामिताभयार्थाय त एव विहाराः पुनर् भूमय उच्यन्ते | अमितास्व् इति दशसु भूइषु एकैकस्याप्रमाणत्वात् | ऊर्ध्वंगमनयोगाद् इति उपरिभूमिगमनयोगात् | भूतामिताभयार्थम् इत्य् अमितानां भूतानां भयप्रहाणार्थं | प्राप्तिविहारे श्लोकः |
207 SK भूमिलाभेभो ऽधिमुक्तेश् च चरितेषु च वर्तनात् | प्रतिवेधाच् च भूमीनां निष्पत्तेश् च चतुर्विधः || AMस_२०-२१.४१ ||
208 SK चतुर्विधो भूमीनां लाभः | अधिमुक्तिलाभो यथोक्ताधिमुक्तितो ऽधिमुक्तिचर्याभूमौ | चरितलाभो दशसु धर्मचरितेषु च वर्तनात् तस्याम् एव | पर्मार्थप्रतिवेधतो च भूमिप्रवेशे | निष्पत्तिलाभश् चान्विनिवर्तनीयभूमिप्रवेशे | चर्याविभागे श्लोकः षड्पादः |
209 SK महायाने ऽधिमुक्तानां हीनयाने च देहिनां | द्वयोर् आवर्जनार्थाय विनयाय च देशिताः | चर्याश् चतस्रो धीराणां यथासूत्रानुसारतः || AMस_२०-२१.४२ ||
210 SK तत्र पारमिताचर्या महायानाधिमुक्तानां अर्थे देशिता | बोधिसत्वचर्या श्रावकप्रत्येकबुद्धयानाधिमुक्तानां | अभिज्ञाचर्या द्वयोर् अपि महायानहीनयानाधिमुक्तयोः प्रभावेणावर्जनार्थं | सत्वपरिपाकचर्या द्वयोर् एव परिपाचनार्थं | (Mस १८४) परिपाचनं ह्य् अत्र विनयनं च देशिताः | बुद्धगुणविभागे बहवः श्लोकाः | अप्रमाणविभागे तद् बुद्धस्तोत्रम् आरभ्ह्यैकः |
211 SK अनुकम्पकसत्वेषु संयोगविगमाशय | अवियोगाशय सौख्यहिताशय नमो ऽस्तु ते || AMस_२०-२१.४३ ||
212 SK अनुकम्पकत्वं सत्वेषु संदर्शितं | सुखाशयत्वं पुनः सुखसंयोगआशयत्वेन मैत्र्या | दुःखवियोगाशयत्वेन च कारुणया | सुखावियोगाशयत्वेन च मुदितया | हिताशयत्वम् उपेक्षया | सा पुनर् निःक्लेशताशयलक्षणा वेदितव्या | विमोक्षाभिभ्वायतनकृत्स्नायतनविभागे श्लोकः |
213 SK सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने | ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमो ऽस्तु ते || AMस_२०-२१.४४ ||
214 SK अत्र विमोक्षविशेषं भगवतः सर्वक्लेशज्ञेयावरणनिर्मुक्ततया दर्शयति | अभिभ्वायतनविशेषं सर्वलोकाभिभूत्वेन स्वचित्तवशवर्तनाद् यथेष्टालम्बननिर्माणपरिणामनताधिष्ठानतः | कृत्स्नायतनविशेषं सर्वज्ञेयज्ञानेनाव्याघाततः | अत एव विमोक्षादिगुणविपक्षमुक्तत्वात् मुक्तचित्तः | अरणाविभागे श्लोकः |
215 SK अशेषं सर्वसत्वानां सर्वक्लेशविनाशक | क्लेशप्रहारक क्लिष्टसानुक्रोश नमो ऽस्तु ते || AMस_२०-२१.४५ ||
216 SK अत्रावरणाशेषं भगवतः सर्वसत्वक्लेशविनयनाद् उत्पादितक्लेशेष्व् अपि च तत्क्लेशप्रतिपक्षविघानात् क्लिष्टजनानुकम्पया संदर्शयति | अन्ये ह्य् अरणाविहारिणः सत्वानां कस्यचिद् एव तदालम्बनस्य क्लेशस्योत्पत्तिप्रत्ययमात्रं प्रतिहरन्ति | न तु क्लेशसंतानाद् अपनयन्ति | प्रणिधिज्ञानविशेषे श्लोकः |
217 SK अनाभोग निरासङ्ग अव्याघात समाहित | सदैव सर्वप्रश्नानां विसर्जक नमो ऽस्तु ते || AMस_२०-२१.४६ ||
218 SK अत्र पञ्चभिर् आकारैर् प्रणिधिज्ञानविशेषं भगवतः संदर्शयति | अनाभोगसंमुखीभावतः | निरासङ्गसंमुखीभावतः | सर्वज्ञेयाव्याघाततः | सदा समाहितत्वतः | (Mस १८५) सर्वसंशयछेदनतश् च सत्वानां | अन्ये हि प्रणिध्ज्ञानं संमुखीकुर्वन्ति | न चासक्तं समापत्तिप्रवेशापेक्षत्वात् | न चाव्याहतं प्रदेशज्ञानात् | न च सदा समाहिता भवन्ति | न च सर्वसंशयांश् छिन्दन्ति | प्रतिसंविद्विभागे श्लोकः |
219 SK आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके | अव्याहतमते नित्यं सुदेशिक नमो ऽस्तु ते || AMस_२०-२१.४७ ||
220 SK अत्र समासतो यच् च देश्यते येन देश्यते तत्र नित्यम् अव्याहतमतित्वेनभगवतश् चतस्रः प्रतिसंविदो देशिताः | तत्र द्वयं देश्यते आश्रयश् च धर्मः | तदाश्रितश् चार्थः | द्वयेन देश्यते वाचा ज्ञानेन च | सुदेशिकत्वेन तासां कर्म संदर्शितं | अभिज्ञाविभागे श्लोकः |
221 SK उपेत्य वचनैस् तेषां चरिज्ञ आगतौ गतौ | निःसारे चैव सत्वानां स्वववाद नमो ऽस्तु ते || AMस_२०-२१.४८ ||
222 SK अत्र षड्भिर् अभिज्ञाभिः सम्यगववादत्वं भगवतो दर्शितं | उपेत्य विनेयसकाशम् ऋद्ध्यभिज्ञया | तेषां भाषया दिव्यश्रोत्राभिज्ञया चित्तचरित्रं ज्ञात्वा चेतःपर्यायाभिज्ञया यथा पूर्वान्ताद् इहागतिर् यथा च संसारान् निःसारणं | तत्राववादं ददात्य् अवशिष्टाभिस्तोतृभिर् अभिज्ञाभिर् यथाक्रमं | लक्षणानुव्यञ्जनविभागे श्लोकः |
223 SK सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः | दृष्टमात्रात् प्रसादस्य विधायक नमो ऽस्तु ते || AMस_२०-२१.४९ ||
224 SK अत्र लक्षणानुव्यञ्जनानां भगवति महापुरुषत्वसंप्रत्ययेन दर्शनमात्रात् प्रसादजनकत्वं कर्म संदर्शयितं | परिशुद्धिविभागे श्लोकः |
225 SK आदानस्थानसंत्यागनिर्माणपरिणामने | समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते || AMस_२०-२१.५० ||
226 SK अत्र भगवतश् चतुर्विधया वशितया सर्वाकाराश् चतस्रः परिशुद्धयः परिदीपिताः | (Mस १८६) आश्रयपरिशुद्धिर् आत्मभावस्यादानस्थानत्यागवशितया | आलम्बनपरिशुद्धिर् निर्माणपरिणामनवशितया | चित्तपरिशुद्धिः सर्वाकारसमाधिवशितया | प्रज्ञापरिशुद्धिः सर्वाकारज्ञानवशितया | बलविभागे श्लोकः |
227 SK उपाये शरणे शुद्धौ सत्वानां विप्रवादने | महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते || AMस_२०-२१.५१ ||
228 SK अत्र चतुर्ष्व् अर्थेषु सत्वानां विप्रवादनय मारो यस् तद्भञ्जकत्वेन भगवतो दशानां बलानां कर्म संदर्शितं | यद् उतसुगतिदुर्गतिगमनाद्युपायविप्रवादने | अशरणे देवादिषु शरणविप्रवादने | साश्रवशुद्धिमात्रेण शुद्धिविप्रवादने | महायाननिर्याणविप्रवादने च | स्थानास्थानज्ञानबलेन हि भगवान् प्रथमे ऽर्थे मारभञ्जको वेदितव्यः | कर्मविपाकज्ञानबलेन द्वितीये | ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तृतीये | इन्द्रियपरापरत्वादिज्ञानबलेन चतुर्थे | हीनानीन्द्रियादीनि वर्जयित्वा श्रेष्ठसंनियोजनात् | वैशारद्यविभागे श्लोकः |
229 SK ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक | स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते || AMस_२०-२१.५२ ||
230 SK अत्र ज्ञानप्रहाणकारकत्वेन स्वार्थे | निर्याणविघ्नदेशिकत्वेन च परार्थे | निराधृष्यत्वाद् अन्यतीर्थ्यैर् भगवतो यथाक्रमं चतुर्विधं वैशारद्यम् उद्भावितं | आरक्षस्मृत्युपस्थानविभागे श्लोकः |
231 SK विगृह्यवक्ता पर्षत्सु द्वयसंक्लेशवर्जित | निरारक्ष असंमोष गणकर्ष नमो ऽस्तु ते || AMस_२०-२१.५३ ||
232 SK अनेन त्रीण्य् अरक्षाणि त्रीणि च स्मृत्युपस्थानानि भगवतः परिदीपितानि | तेषां च कर्म गणपरिकर्षकत्वं | तैर् हि यथाक्रमं विगृह्यवक्ता च भवति पर्षत्सु निरारक्षत्वात् | द्वयसंक्लेशवर्जितश् चानुनयप्रतिघाभावाद् | असंमोषतया सदाभूयस्थितस्मृतित्वात् | वासनासमुद्घातविभागे श्लोकः |
233 SK चारे विहारे सर्वत्र नास्त्य् असर्वज्ञचेष्टितं | सर्वदा तव सर्वज्ञ भूतार्थिक नमो ऽस्तु ते || AMस_२०-२१.५४ ||
234 SK अनेन चारे विहारे वा सर्वत्र सर्वदा वासर्वज्ञचेष्टितस्याभावात् भगवतः | (Mस १८७) सर्वक्लेशवासनासम्मुद्घातः परिदीपितः | असर्वज्ञो हि क्षीणक्लेशो ऽप्य् असमुद्घातितत्वाद् वासनाया एकदा भ्रान्तेन हस्तिना सार्धं समागच्छति भ्रान्तेन रथेनेत्य् एवमादिकम् असर्वज्ञचेष्टितं करोति | यथोक्तं माण्डव्यसूते | तच् च भूतार्थसर्वज्ञत्वं नास्ति | असंमोषताविभागे श्लोकः |
235 SK सर्वसत्वार्थकृत्येषु कालं त्वं नातिवर्तसे | अबन्ध्यकृत्य सततम् असंमोषः नमो ऽस्तु ते || AMस_२०-२१.५५ ||
236 SK अनेन यस्य सत्वस्य यो ऽर्थः करणीयो यस्मिन् काले तत्कालानतिवर्तनात् | अबन्ध्यं कृत्यं सदा भगवत इत्य् असंमोषधर्मत्वं स्वभावतः कर्मतश् च संदर्शितं | महाकरुणाविभागे श्लोकः |
237 SK सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे | महाकरुणया युक्त हिताशय नमो ऽस्तु ते || AMस_२०-२१.५६ ||
238 SK अत्र महाकरुणा भगवतः कर्मतः स्वभावतश् च परिदीपिता | महाकरुणया हि भगवान् षड्कृत्वो रात्रिन्दिवेन लोकं प्रत्यवेक्षते को हीयते को वर्धते इत्य् एवमादि | तद्योगाच् च भगवतः सर्वसत्वेषु नित्यं हिताशयः | आवेणिकगुणविभागे श्लोकः |
239 SK चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा | सर्वश्रावकप्रत्येकबुद्धोत्तम नमो ऽस्तु ते || AMस_२०-२१.५७ ||
240 SK अत्र चारसस्ं गृहीतैः षड्भिर् आवेणिकैर् बुद्धधर्मैः | अधिगमसंगृहीतैः षड्भिः | ज्ञानसंगृहीतैस् त्रिभिः | कर्मसंगृहीतैश् च त्रिभिः |तदन्यसत्वोत्तमानाम् अपि श्रावकप्रत्येकबुद्धानाम् अन्तिकाद् उत्तमत्वेन सर्वसत्वोत्तमत्वं परिदीपितं | तत्र नास्ति तथागतस्य स्खलितं | नास्ति रवितं | नास्ति मुषिता स्मृतिः | नास्त्य् असमाहितं चित्तं | नास्ति नानात्वसंज्ञा | नास्त्य् अप्रतिसंख्यायोपेक्षेति चारसंगृहीताः षडावेणिका बुद्धधर्मा ये बुद्धस्यैव संविद्यन्ते नान्येषां | नास्ति छन्दपरिहाणिर् नास्ति वीर्यस्मृतिसमाधिप्रज्ञाविमुक्तिपरिहाणिर् इत्य् अधिगमसंगृहीताः षड् | अतीते अध्वनि तथागतस्यासङ्गम् अप्रतिहतं ज्ञानं | अनागते प्रत्युत्पन्ने अध्वनि तथागतस्यासङ्गम् अप्रतिहतं ज्ञानम् इति | ज्ञानसंगृहीतास् त्रयः | सर्वं तथागतस्य (Mस १८८) कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति | सर्वं वाक्कर्म सर्वं मनस्कर्मेति कर्मसंगृहाइतास् त्रयः | सर्वाकारज्ञताविभागे श्लोकः |
241 SK त्रिभिः कायैर् महाबोधिं सर्वाकाराम् उपागत | सर्वत्र सर्वसत्वानां काङ्क्षाछिद नमो ऽस्तु ते || AMस_२०-२१.५८ ||
242 SK अनेन त्रिभिश् च कायैः सर्वाकारबोध्युपगमत्वात् सर्वज्ञेयसर्वाकारज्ञानाच् च सर्वाकारज्ञता भगवतः परिदीपिता | त्रयः कायाः स्वाभाविकः सांभोगिको नैर्माणिकश् च | सर्वज्ञेयसर्वाकारज्ञानं पुनर् अत्र सर्वसत्वानां देवमनुष्यादीनां सर्वसंशयच्छेदेन कर्मणा निर्दिष्टं | पारमितापरिपूरिविभागे श्लोकः |
243 SK निरवग्रह निर्दोष निष्कालुष्यानवस्थित | आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमो ऽस्तु ते || AMस_२०-२१.५९ ||
244 SK अनेन सकलषड्पारमिताविपक्षनिर्मुक्ततया षड्पारमितापरिपूरिर् भगवत उद्भाविता | तत्रानवग्रहत्वं भोगनिराग्रहत्वाद् वेदितव्यं | निर्दोषत्वं निर्मलकायादिकर्मत्वात् | निष्कालुष्यत्वं लोकधर्मदुःखाभ्यां चित्ताकलुषीकरणात् | अनवस्थितत्वम् अल्पावरणमात्राधिगमानवस्थानात् | | आनिङ्क्ष्यत्वम् अविक्षेपात् | निष्प्रपञ्चत्वं सर्वविकल्पप्रपञ्चासमुदाचारात् | बुद्धलक्षणविभागे द्वौ श्लोकौ |
245 SK निष्पन्नपरमार्थो ऽसि सर्वभूमिविनिःसृतः | सर्वसत्वाग्रतां प्राप्तः सर्वसत्वविमोचकः || AMस_२०-२१.६० ||
246 SK अक्षयैर् असमैर् युक्तो गुणैर् लोकेषु दृश्यसे | मण्डलेष्व् अप्य् अदृश्यश् च सर्वथा देवमानुषैः || AMस_२०-२१.६१ ||
247 SK अत्र षड्भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थैर् बुद्धलक्षणं परिदीपितं | तत्र विशुद्धा तथता निष्पन्नः परमार्थः | स च बुद्धानां स्वभावः | सर्वबोधिसत्वभूमिनिर्यातत्वं हेतुः | सर्वसत्वाग्रतां प्राप्तत्वं योगः | नानालोकधातुषु दृश्यमानता निर्माणकायेन (Mस १८९) पर्षण्मण्डलेष्व् अपि दृश्यमानता सांभोगिकेन कायेन | सर्वथा चादृश्यमानता धर्मकायेनेति त्रिविधा प्रभेदवृत्तिर् इति |
248 SK महायानसूत्रालंकारेषु व्यवदातसमयमहाबोधिसत्वभाषिते चर्याप्रतिष्ठाधिकारो नामैकविंशतितमो ऽधिकारः
249 SK समाप्तश् च महायानसूत्रालंकार इति ||
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Asaṅga: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa (sa_asaGga-mahAyAnasUtrAlaMkAra-comm.htm).
Source