Ornament of the Mahāyāna Sūtras with Vasubandhu's Commentary

Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Mअहायानसूत्रालंकार wइथ् Vअसुबन्धुऽस् चोम्मेन्तर्य् (Bहाष्य) = Mस

Ornament of the Mahāyāna Sūtras with Vasubandhu's Commentary

Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa

Mअहायानसूत्रालंकार wइथ् Vअसुबन्धुऽस् चोम्मेन्तर्य् (Bहाष्य) = Mस

Full text

SK
महायानसूत्रालंकारः
SK
|| ॐ ||
SK
नमः सर्वबुद्धबोधिसत्वेभ्यः
SK
CHAPITRE I प्रथमो ऽधिकारः
SK
अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश् चामलैर् दुःखस्योत्तरणाय दुःखितजने कारुण्यतस् तन्मयः | धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु श्लिष्टाम् अर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन् || AMस_१.१ ||
SK
अर्थज्ञो ऽर्थविभावनां प्रकुरुते इति क उपदेशम् आरभ्य को ऽलंकरोतीति | अर्थज्ञः | कम् अलंकारम् अलंकरोति | अर्थविभावनां कुरुते | केन वाचा पदैश् चामलैः | अमलया वाचेति पौरुषया अमलैः पदैर् युक्तैः सहितैर् इति विस्तरः | न हि विना वाचा पदव्यञ्जनैर् अर्थो विभावयितुं सक्यत इति | कस्मै दुःखस्योत्तरणाय दुःखितजने कारुण्यतस् तन्मयः | दुःखितजने यत् कारुण्यं तस्मात् कारुण्यतः | तन्मय इति कारुण्यमयः | कस्यालंकारं करोति | धर्मस्योत्तमयानदेशितविधेः | उत्तमयानस्य देशितो विधिर् यस्मिन् धर्मे तस्य धर्मस्य | कस्मिन्न् अलंकरोति | सत्वेषु तद्गामिषु | निमित्तसप्तम् येषाम् महायानगामिसत्वनिमित्तम् इत्य् अर्थः | कतिविधम् अलंकारं करोति | पञ्चविधं | श्लिष्टाम् अर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् | (Mस २) श्लिष्टम् इति युक्तां निरुत्तरगताम् इत्य् अनुत्तरज्ञानगतां | ताम् इदानीं पञ्चात्मिकां अर्थगतिं द्वितीयेन श्लोकेन दर्श्यति |
SK
घटितम् इव सुवर्णं वारिजं वा विबुद्धं सुकृतम् इव सुभोज्यं भुज्यमानं क्षुधार्तैः | विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति || AMस_१.२ ||
SK
अनेन श्लोकेन पञ्चभिर् दृष्टान्तैः स हि धर्मः पञ्चविधम् अर्थम् अधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यम् अचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावं | सो ऽनेन सूत्रालंकारेण विवृतः प्रीतिम् अग्रां दधादति | यथाक्रमं घटितसुवर्णादिवत् | यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सो ऽलंक्रियत इत्य् अस्य चोद्यस्य परिहारार्थं त्र्तीयः श्लोकः |
SK
यथा बिम्बं भूषाप्रकृतिगुणवद् दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् | तथा धर्मः सोक्तप्रकृतिगुणयुक्तो ऽपि सततं विभक्तार्थस् तुष्टिं जनयति विशिष्टाम् इह सताम् || AMस_१.३ ||
SK
अनेन किं दर्शयति | यथा बिम्बं भूषाप्रकृतिगुणवद् दर्शणगतं दर्शनवशाद् विशिष्टं प्रामोद्यं जनयत्य् एवं स धर्मः सुभाषितैः प्रज्कृत्यैव गुणयुक्तो ऽपि सततं विभक्तार्थस् तुष्टिं विशिष्टां जनयति | बुद्धिमताम् अतस् तुष्टिविशेषोत्पादनाद् अलंकृत इव भवतीति | अतः परं त्रिभिः श्लोकैस् तस्मिन् धर्मे त्रिविधम् उपशंसं दर्शयत्य् आदरोत्पादनार्थं |
SK
आघ्रायमाणकटुकं स्वादुरसं यथाउषधं तद्वत् | धर्मर्मो द्वयव्यवस्थास्थो व्यञ्जनतो ऽर्थो न च ज्ञेयः || AMस_१.४ ||
SK
राजेव दुराराधो धर्मो ऽयं विपुलगाढगम्भीरः | आराधितश् च तद्वद्वरगुणधनदायको भवति || AMस_१.५ ||
SK
रत्नं जात्यमनर्थंर्घं यथा ऽपरीक्षकजनं न तोषयति | धर्मस् तथायम् अबुधं विपर्ययात् तोषयति तद्वत् || AMस_१.६ ||
SK
त्रिविधो ऽशंसः | आवरणप्रहाणहेतुत्वम् औषधोपमत्वेन | स्वयव्यवस्थ इति (Mस ३) व्यञ्जनार्थव्यवस्थः | विभुत्वहेतुत्वम् अभिज्ञादिवैशेषिकगुणाइश्वर्यदानाद् राजोपमत्वेन | आर्यधनोपभोगहेतुत्वं च अनर्थजात्यरत्नोपमत्वेन | परीक्षकजन आर्यजनो वेदितव्यः | नैवेदं महायानं बुद्धवचनं कुतस् तस्यायम् अनुशंसो भविष्यतीत्य् अत्र विप्रतिपन्नस् तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यम् आरभ्य श्लोकः |
SK
आदाव् अव्याकरणात् समप्रवृत्तेर् अगोचरात् सिद्धेः | भावाभावे ऽभावात् प्रतिपक्षत्वाद् रुतान्यत्वात् || AMस_१.७ ||
SK
आदाव् अव्याकरणात् यद्य् एतत् सद्धर्मान्तराये पश्चात् केनापि उत्पादितं | कस्माद् आदौ भवता न व्याकृतम् अनागतभयवत् | समप्रवृत्तेः समकालं च श्रावकयानेन महायानस्य प्रवृत्तेर् उपलभ्यते न पश्चाद् इति कथम् अस्याबुद्धवचनत्वं विज्ञायते | अगोचरान् नायम् एवम् उदारो गम्भीरश् च धर्मस् तार्किकाणां गोचरः | तीर्तिकशास्त्रेषु तत्प्रकारानुपलम्भाद् इति | नायम् अन्यैर् भाषितो युज्यते | उच्यमाने ऽपि तदनधिमुक्तेः | सिद्धे अथान्येनाभिसंबुध्य भाषितः | सिद्धम् अस्य बुद्धवचनत्वं | स एव बुद्धो यो ऽभिसंबुध्य एवम् भाषते | भावाभावे ऽभावाद् यदि महायानं किंचिद् अस्ति तस्य भाव सिद्धिम् इदं बुद्धवचनम् अतो ऽन्यस्य महायानस्याभावात् | अथ नास्ति तस्याभावे श्रावकयानस्याप्य् अभावात् | श्रावकयानं बुधवचनं न महायानम् इति न युज्यते विना बुद्धयानेन बुद्धानाम् अनुत्पादात् | प्रतिपक्षत्वाद् भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद् बुद्धवचनं | रुतान्यत्वात् न चास्य यथारुतम् अर्थस् तस्मान् न यथारुतार्थानुसारेणेदम् अबुद्धवचनं वेदितव्यं | यद् उक्तम् आदाव् अव्याकरणाद् इत्य् अनाभोगाद् एतद् अनागतं भगवता न व्याकृतम् इति कस्यचित् स्याद् अत उपेक्षाया अयोगे श्लोकः |
SK
प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः | अध्वन्य् अन्यनावृतज्ञाना उपेक्षातो न युज्यते || AMस_१.८ ||
SK
अनेन किं दर्शयति | त्रिभिः कारणैर् अनागतस्य महतः शासनोपद्रवस्योप्केषा न युज्यते | बुद्धानाम् अयत्नतो ज्ञानप्रवृत्तेः प्रत्यक्षचक्षुष्कतया शासनरक्षयाश् च यत्नवत्वात् | अनागतज्ञानसामर्थ्याच् च सर्वकालाव्याहतज्ञानतयेति | यद् उक्तं भावाभावे ऽभावाद् इति | एतद् एव श्रावकयानं महायानम् एतेनैव महाबोधिप्राप्तिर् इति कस्यचित् स्याद् अतः श्रावकयानस्य महायानत्वायोगे श्लोकः |
SK
वैकल्यतो विरोधाद् अनुपायत्वात् तथाप्य् अनुपदेशात् | न श्रावकयानम् इदं भवति महायानधर्माख्यम् || AMस_१.९ ||
SK
वैकल्यात् परार्थोपदेशस्य न हि श्रावकयाने कश्चित् परार्थ उपदिष्टः श्रावकाणाम् आत्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात् | न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुम् अर्हति | विरोधात् स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति विरोधम् एतत् | न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुम् अर्हति | अनुपायत्वात् | अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरम् अपि प्रयुज्यमानः प्रार्थितम् अर्थं प्राप्नोति | शृङ्गाद् इव दुग्धं न भस्त्रया | अथान्यथाप्य् अत्रोपदिष्टं यथा बोधिसत्वेन प्रयोक्तव्यं | तथाप्य् अनुपदेशान् न श्रावकयानम् एव महायानं भवितुम् अर्हति | न हि स तादृश उपदेश एतस्मिन्न् उपलभ्यते | विरुद्धम् वा चान्योन्यं श्रावकयानं चेत्य् अन्योन्यविरोधे श्लोकः |
SK
आशयस्योपदेशस्य प्रयोगस्य विरोधतः | उपस्तम्भस्य कालस्य यत् हीनं हीनम् एव तत् || AMस_१.१० ||
SK
कथं विरुद्धं | पञ्चभिर् विरोधैः | आशयोपदेशप्रयोग उपतम्भकालविरोधैः | श्रावकयाने ह्य् आत्मपरिनिर्वाणायैवाशयस् तदर्थम् एवौपदेशस् तदर्थम् एव प्रयोगः परीत्तश् च पुण्यज्ञानसंभारसंगृहीत उपस्तम्भः कालेन चाल्पेन तदर्थप्राप्तिर् यावत् त्रिभिर् अपि जन्मभिः | महायाने तु सर्वं विपर्ययेण | तस्माद् अन्योन्यविरोधाद् यद् यानं हीनं हीनम् एव तत् | न तन् महायानं भवितुम् अर्हति | बुद्धवचनस्येदं लक्षणं यत् सूत्रे ऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति | न चैवं महायानं (Mस ५) सर्वधर्मनिःस्वभावत्वोपदेशात् | तस्मान् न बुद्धवचनम् इति कस्यचित् स्याद् अतो लक्षणविरोधे श्लोकः |
SK
स्वके ऽवतारात् स्वस्यैव विनये दर्शनाद् अपि | औदार्याद् अपि गाम्भीर्याद् अविरुद्धैव धर्मता || AMस_१.११ ||
SK
अनेन श्लोकेन किं दर्श्यति | अवतरत्य् एवेदं स्वस्मिन् महायानसूत्रे स्वस्य च श्लेशस्य विनयः संदृश्यते | यो महायाने बोधिसत्वानां श्लेश उक्तः | विकल्पश्लेशा हि बोधिसत्वाः | औदार्यगम्भीर्यलक्षणत्वाच् च | न धर्मतां विलोमयत्य् अथैव हि धर्मता महाबोधिप्रापतये तस्मान् नास्ति लक्षणविरोधः | अगोचराद् इत्य् उक्तम् अतस् तर्कगोचरत्वायोगे श्लोकः |
SK
निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवान् अपि | बालाश्रयो मतस् तर्कस् तस्यातो विषयो न तत् || AMस_१.१२ ||
SK
अदृष्टसत्याश्रेयो हि तर्कः कश्चिद् आगमनिश्रितो भवति | अनियतश् च भवति कालान्तरेणान्यथा प्रत्यवगमात् | अव्यापी च न सर्वज्ञेयविषयः | सांवृतसत्यविषयश् च न पर्मार्थविषयः | खेदवांश् च प्रतिभानपर्यादनात् | महायानस् तु न निश्रितं यावत् अखेदवत् | शतसाहस्रिकाद्यनेकसूत्रोपदेशात् | अतो न तर्कस्य तद्विषयः | अनुपायत्वात् श्रावकयाने न बुद्धत्वं प्राप्तम् इत्य् उक्तम् अथ महायानं कथम् उपायो युक्त इत्य् उपायत्वयोगे श्लोकः |
SK
औदार्याद् अपि गाम्भीर्यात् परिपाको ऽविकल्पना | देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे || AMस_१.१३ ||
SK
अनेन श्लोकेन किं दर्शयति | प्रभाव् औदार्यदेशनया सत्वानां परिपाको प्रभाव् अधिमुक्तितो घटनात् | गाम्भीर्यदेशनया अविकल्पना अत एतस्य द्वयस्यास्मिन् महायाने देशना स चोपायो निरुत्तरे ज्ञाने ताभ्यां यथाक्रमं (Mस ६)सत्वानां परिपाचनाद् आत्मनश् च बुद्धधर्मपरिपाकाद् इति | ये पुनर् अस्मात् त्रसन्ति तदर्थम् अस्थानत्रासादीनवे कारणत्वेन श्लोकः |
SK
तदस्थानत्रासो भवति जगतां दाहकरणो महापुण्यस्कन्धप्रसवकरणाद् दीर्घसमयम् | अगोत्रो ऽसन्मित्रो ऽकृतमतिर् अपूर्वाचितशुभस् त्रसत्य् अस्मिन् धर्मे पतति महतो ऽर्थाद् गत इह || AMस_१.१४ ||
SK
त्रासास्थाने त्रासस् तदस्थानत्रासः | दाहकरणो भवत्य् अपायेषु किं कारणं | महतो अपुण्यस्कन्धप्रसवस्य करणात् | कियन्तं कालम् इति दीर्घसमयं | एवं पश्चाद् आदीनवः | येन च कारणेन यावन्तं च कालं तत् संदर्शयति | किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति | गोत्रं चास्य न भवति सन्मित्रं वा अव्युत्पन्नमतिर् वा भवति महायानधर्मतायां पूर्वं वानुपचितशुभो भवति | पतति महतो ऽर्थादिति महाबोधिसंभारार्थात् | अप्राप्तपरिहाणितो ऽपरमादीनवं दर्शयति | त्रासकारणम् उक्तम् अत्रासकारणं वक्तव्यम् इत्य् अत्रासकारणत्वे श्लोकः |
SK
तदन्यान्यान्याभावात् परमगहनत्वाद् अनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद् बहुमुखात् | यथाख्यानं नार्थाद् भगवति च भावातिगहनात् न धर्मे ऽस्मिंस् त्रासो भवति विदुषां योनिविचयात् || AMस_१.१५ ||
SK
तदन्यान्यान्याभावाद् इति ततो ऽन्यस्य महायानस्थाभावात् | अथ श्रावकयानम् एव महानं स्याद् अन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात् | सर्व एव हि बुद्धा भवेयुः | परमगहनत्वाच् च | सर्वज्ञज्ञानमार्गस्यानुगमाच् च तुल्यकालप्रवृत्त्या | विचित्रस्याख्यानाद् | विचित्रश् चात्र संभारमार्ग आख्यायते न केवलं शून्यतैव | तस्माद् अभिप्रायिकेनानेन भवितव्यम् इति | ध्रुवकथनयोगाद् बहुमुखाद् अभीक्ष्णं चात्र शून्यता कथ्यते बहिभिश् च पर्यायैस् तेषु तेषु सुत्रान्तेषु तस्माद् भवितव्यम् अत्र महता प्रयोगेन | अन्यथा हि सकृत् प्रतिषेधमात्रकृतम् अभविष्यद् इति | यथाख्यानं नार्थात् न चास्य यथारुतम् अर्थो ऽस्माद् अपि त्रासो न युक्तः | भगवति च भावातिगहनाद् अतिगहनश् च बुद्धानां भावो दुराज्ञेयस् तस्मान् नास्मभिस् तदज्ञानात् त्रसितव्यम् इति | (Mस ७) एवं योनिशः प्रविचयाद् विदुषां त्रासो न भवति | दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः |
SK
श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज् ज्ञानं प्रभवति च तत्वार्थविषयम् | ततो धर्मप्राप्तिः प्रभवति च तस्मिन् मतिरतो यदा प्रत्यात्मं सा कथम् असति तस्मिन् व्यवसितिः || AMस_१.१६ ||
SK
श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो योनिश इत्य् अर्थः | योनिशो मनसिकारात् तत्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिस् ततस् तत् फलस्य धर्मस्य प्राप्तिस् ततस् तस्मिन् प्राप्ते मतिर् विमुक्तिज्ञानं प्रादुर्भवति | एवं यदा प्रत्यात्मं सा मतिर् भवति | कथम् असति तस्मिन्न् एषा व्यवसितिर् निश्चयो भवति नैवेदं बुद्धवचनम् इति | अत्रासपदस्थानत्वे श्लोकः |
SK
अहं न बोद्धा न गभीरबोद्धा बुद्धो गभीरं किम् अतर्कगम्यं | कस्माद् गभीरार्थविदां न मोक्ष इत्य् एतद् उत्त्रासपदं न युक्तम् || AMस_१.१७ ||
SK
यदि तावद् अहम् अस्य न बोद्धेत्य् उत्त्रासपदं तन् न युक्तं | अथ बुद्धो ऽपि गम्भीरस्य पदार्थस्य न बोद्धा स किं गभीरं देशयिष्यतीत्य् उत्त्रासपदं तद् अयुक्तं | अथ गम्भीरं कस्माद् अतर्कगम्यं इत्य् उत्त्रासपदं तन् न युक्तं | अथ कस्माद् गभीरार्थविदाम् एवम् मोक्षो न तार्किकाणाम् इत्य् उत्त्रासपदं तन् न युक्तं | अनधिमुक्तित एव तत् सिद्धौ श्लोकः |
SK
हीनाधिमुक्तः सुनिहीनधातोर् हीनैः सहायैः परिवारितस्य | औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर् यदि नास्ति सिद्धम् || AMस_१.१८ ||
SK
यस्य हीना चाधिमुक्तिस् ततश् च हीन एव धातुः समुदागत आलयविज्ञानभावना | हीनैर् एव सहायैः समानाधिमुक्तिधातुकैर् यः परिवारितस् तस्यास्मिन्न् औदार्यगाम्भीर्यसुदेशिते महायानधर्मे यद्य् अधिमुक्तिर् नास्ति अत एव सिद्धम् उत्कृष्टम् इदं महायानम् इति | अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः |
SK
श्रुतानुसारेण हि बुद्धिमत्तां लब्ध्वा श्रुते यः प्रकरोत्य् अवज्ञां | श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयम् एति मूढः || AMस_१.१९ ||
SK
कामं तावद् अधिमुक्तिर् न स्याद् अश्रुतानां तु सूत्रान्तानाम् अविशेषेण प्रतिपक्षो न युक्तिः | (Mस ८) श्रुतानुसारेणैव हि बुद्धिमत्त्वं लब्ध्वा यः श्रुत एवावज्ञां करोति मूढः स सत्य् एवावशिष्टे श्रुते विचित्रे चाप्रमेये च कुतः | कारणान् निश्चयम् एति न तद् बुद्धवचनम् इति | न हि तस्य श्रुताद् अन्यद् बलम् अस्ति तस्माद् अश्रुत्वा प्रतिक्षेपो न युक्तः | यद् अपि च श्रुतं तद् योनिशो मनसि कर्तव्यं नायोनिश इत्य् अयोनिशोमनसिकाराधीनवे श्लोकः |
SK
यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिम् उपैति बुद्धेः | स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव || AMस_१.२० ||
SK
स्वप्रत्यय इति स्वयंदृष्टप्रआमर्षको न विज्ञानाम् अन्तिकाद् अर्थपर्येष्टी | हानिम् उपैति बुद्धेर् इति यथाभूतज्ञानाद् अप्राप्तिपरिहानितः | धर्मस्य च स्वाख्याततां प्रतिक्षिपति तन् निदानं चापुण्यप्रभावात् क्षतिं प्राप्नोति | धर्मे च प्रतिघातम् आवरणं च धर्मव्यवसनसंवर्तनीयं कर्मेत्य् अयम् अत्रादीनवः | अयथावतश् चार्थम् अविजानतो ऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः |
SK
मनः प्रदोषः प्रकृतिप्रदुष्टो ऽयथारुते चापि ह्य् अयुक्तरूपः | प्राग् एव संदेहगतस्य धर्मे तस्माद् उपेक्षैव वरं ह्य् अदोषा || AMस_१.२१ ||
SK
प्रकृतिप्रदुष्ट इति प्रकृतिसावद्यः | तस्माद् उपेक्षैव वरं | कस्मात् | सा ह्य् अदोषा | प्रतिघातस् तु सदोषः |
SK
महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः
SK
CHAPITRE II द्वितीयो ऽधिकारः
SK
शरणगमनविशेषसंग्रहश्लोकः
SK
रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरणणगतानाम् | सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश् चतुर्विधमयार्थविशेषणेन || AMस_२.१ ||
SK
स एव परमः शरणं गतानाम् इति | केन कारणेन | चतुर्विधस्वभावार्थविशेषणेन | चतुर्विधो ऽर्थः सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदतो वेदितव्यः | (Mस ९) सर्वत्रगार्थः | अभिभवार्थः | ते पुनर् उत्तरत्र निर्देक्ष्यन्ते | तथाप्य् अत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन् नोत्सहन्ते श्लोकः |
SK
यस्माद् आदौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैर् अपि कल्पैः | सिद्धो यस्मात् सत्वहिताधानमहार्थस् तस्माद् अग्रे यान इहाग्रशरणार्थः || AMस_२.२ ||
SK
एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति | फलप्राप्तिविशेषेण महार्थत्वं | पुर्वाधिकृते सर्वत्रगार्थे श्लोकः |
SK
सर्वान् सत्वांस् तारयितुं यः प्रतिपन्नो यनो ज्ञाने सर्वगते कौशल्ययुक्तः | यो निर्वाणे संसरणे ऽप्य् एकरसो ऽसौ संसृतिशान्त्येकरसो ऽसौ ज्ञेयो धीमान् एष हि सर्वत्रग एवम् || AMस_२.३ ||
SK
एतेन चतुर्विधं सर्वत्रगार्थं ... ... असांकेतिकं धर्मता प्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिर् औदारिकसूक्ष्मप्रभेदेन | शरणप्रतिपत्तिविशेषणे श्लोकः |
SK
शरणगतिम् इमां गतो महार्थां गुणगणवृद्धिम् उपैति सो ऽप्रमेयाम् | स्फुरति जगद् इदं कृपाशयेन प्रथयति चाप्रतिमं महार्थधर्मम् || AMस_२.४ ||
SK
अत्र शरणगमनस्थां महार्थां स्वपरार्थप्रतिपत्तिभ्यां दर्शयति | स्वार्थप्रतिपत्तिः (Mस १०) पुनर् बहुप्रकारा ऽप्रमेयगुणवृद्धा | अप्रमेयत्वं तर्कसंख्या कालाप्रमेयतया वेदितव्यं | न हि सा गुणवृद्धिस् तर्केण प्रमेया न संख्या न कालेनात्यन्तिकत्वात् | परार्थप्रतिपत्तिर् आशयतश् च करुणा स्फुरणेन प्रयोगतश् च महायानधर्मप्रथनेन | महायानं हि महार्यदृशां धर्मः |
SK
महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः
SK
CHAPITRE III तृतीयो ऽधिकारः
SK
गोत्रप्रभेदसंग्रहश्लोकः
SK
सत्वाग्रत्वं स्वभावश् च लिङ्गं गोत्रप्रभेदता | आदीनवो ऽनुशंसश् च द्विधाउपम्यं चतुर्विधा || AMस_३.१ ||
SK
अनेन गोत्रस्यास्तित्वम् अग्रत्वं स्वभावो लिङ्गं प्रभेद आदीनवो ऽनुशंसो द्विधाउपम्यं चेत्य् एष प्रभेदः संगृहीतः | एते च प्रभेदाः प्रत्येकं चतुर्विधाः | अनेन गोत्रास्तित्वविभागे श्लोकः |
SK
धातूनाम् अधिमुक्तेश् च प्रतिपत्तेश् च भेदतः | फलभेदोपलब्धेश् च गोत्रास्तित्वं निरूप्यते || AMस_३.२ ||
SK
नानाधातुकत्वानाम् अपरिमाणो धातुप्रभेदो यथोक्तम् अक्षराशिसूत्रे | तस्माद् एवं जातीयको ऽपि धातुभेदः प्रत्येतव्य इति | अस्ति यानत्रये गोत्रभेदः | अधिमुक्तिभेदो ऽपि सत्वानाम् उपलभ्यते प्रथमत एव कस्यचित् क्वचिद् एव यादे ऽधिमुक्तिर् भवति सो ऽन्तरेण गोत्रभेदं न स्यात् | उत्पादितायाम् अपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन् निर्वोहा भवति कश्चिन् नेति सो ऽन्तरेण गोत्रप्रभेदं न स्यात् | फलभेदश् चोपलभ्यते हीनमध्यविशिष्टा बोधयः (Mस ११) सो ऽन्तरेण गोत्रभेदं न स्यात् बीजानुरूपत्वात् फलस्य | अग्रत्वविभागे श्लोकः |
SK
उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च | शुभस्य तन्निमित्तत्वात् गोत्राग्रत्वं विधीयते || AMस_३.३ ||
SK
अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति | तद् धि गोत्रं कुशलमुलानाम् उदग्रत्वे निमित्तं सर्वत्वे महार्थत्वे अक्षयत्वे च | न हि श्रावकाणां तथोदग्राणि न च सर्वाणि सन्ति बलवैशारद्याद्यभावात् | न च महार्थान्यपरार्थत्वात् | न चाक्षयाण्य् अनुपधिशेषनिर्वाणावसानत्वात् | लक्षणविभागे श्लोकः |
SK
प्रकृत्या परिपुष्टं च आश्रयश् चाश्रितं च तत् | सदसच् चैव विज्ञेयं गुणोत्तारणतार्थतः || AMस_३.४ ||
SK
एतेन चतुर्विधं गोत्रं दर्शयति | प्रकृतिस्थं समुदानीतम् आश्रयस्वभावम् आश्रितस्वभावं च तद् एव यथाक्रमं | तत्पुनर्हेतुभावेन सत् फलभावेनासत् | गुणोत्तारणार्थन गोत्रं वेदितव्यं गुणा उत्तरन्त्य् अस्माद् उद्धवन्तीति कृत्वा | लिङ्गविभागे श्लोकः |
SK
कारुण्यम् अधिमुक्तिश् च क्षान्तिश् चादिप्रयोगतः | समाचारः सुभस्यापि गोत्रे लिङ्गं निरुप्यते || AMस_३.५ ||
SK
चतुर्विधं लिङ्गं बोधिसत्वगोत्रे | आदिप्रयोगत एव कारुण्यं सत्वेषु | अधिमुक्तिर् महायानधर्मे | क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन | समाचारश् च पारमितामयस्य कुशलस्येति | प्रभेदविभागे श्लोकः |
SK
नियतानियतं गोत्रम् अहार्यं हार्यम् एव च | प्रत्ययैर् गोत्रभेदो ऽयं समासेन चतुर्विधः || AMस_३.६ ||
SK
समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति | आदीनवविभागे श्लोकः |
SK
क्लेशाभ्यासः कुमित्रत्वं विधातः परतन्त्रता | गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः || AMस_३.७ ||
SK
बोधिसत्वगोत्रे समासेन चतुर्विध आदीनवः येन गोत्रस्थो ऽगुणेषु प्रवर्तते | (Mस १२) क्लेशबाहुल्यं | अकल्याणमित्रता | उपकरणविधातः | पारतन्त्र्यं च | अनुशंसविभागे श्लोकः |
SK
चिराद् अपायगमनम् आशुमोक्षश् च तत्र च | तनुदुःखोपसंवित्तिः सोद्वेगा सत्वपाचना || AMस_३.८ ||
SK
चतुर्विधो बोधिसत्वस्य गोत्रे ऽनुशंसः | चिरेणापायान् गच्छति | क्षिप्रं च तेभ्यो मुच्यते | मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते | संविग्नचेतास् तदुपपन्नांश् च सत्वान् करुणयमानः परिपाचयति | महासुवर्णगोत्राउपम्ये श्लोकः |
SK
Cओम्परैसोन् अवेच् उने ग्रन्दे Fअमिल्ले द्ऽओर्, एन् उन् वेर्स्.
SK
सुवर्णगोत्रवत् ज्ञेयम् अमेयशुभताश्रयः | ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः || AMस_३.९ ||
SK
महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति | प्रभूतस्य प्रभास्वरस्य निर्मलस्य कर्मण्यस्य च | तत्साधर्म्येण बोधिसत्वगोत्रम् अप्रमेयकुशलमूलाश्रयः | ज्ञानाश्रयः | क्लेशनैर्मल्यप्राप्त्याश्रयः | अभिज्ञादिप्रभावाश्रयश् च | तस्मान् महासुवर्णगोत्रोपं वेदितव्यं | महारत्नगोत्राउपम्ये श्लोकः |
SK
सुरत्नगोत्रवत् ज्ञेयं महाबोधिनिमित्ततः | महाज्ञानसमाध्यार्यमहासत्वार्थनिश्रयात् || AMस_३.१० ||
SK
महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति | जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च | तदुपमं बोधिसत्वगोत्रं वेदितव्यं महाबोधिनिमित्तत्वात् महाज्ञाननिमित्तत्वाद् आर्यसमाधिनिमित्तत्वात् चित्तस्य हि संस्थितिः समाधिः महासत्वपरिपाकनिमित्तत्वाच् च बहुसत्वपरिपाचनात् | अगोत्रन्नस्थविभागे श्लोकः |
SK
ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा | अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्य् अपि हेतुहीनः || AMस_३.११ ||
SK
अपरिनिर्वाणधर्मक एतस्मिन्न् अगोत्रस्थो ऽभिप्रेतः | स च समादतो द्विविधः | तत्कालापरिनिर्वाणधर्मा अत्यन्तं च | तत्कालापरिनिर्वाणधर्मा चतुर्विधः | दुश्चरितैकान्तिकः समुच्छिन्नकुश्लमूलः | हीनकुशलमूलश् चापरिपूर्णसंभारः | (Mस १३) अत्यन्तापरिनिर्वाणधर्मा तु हेतुहीनो यस्य परिनिर्वाणगोत्रम् एव नास्ति | प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः |
SK
गाम्भीर्याउदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर् भवति सुविपुला संप्रपत्तिक्षमा च | संपत्तिश् चावसाने द्वयगतपरमा यद् भवत्य् एव तेषां तज्ज्ञेयं बोधिसत्वप्रकृतिगुणवतस् तत्प्रपुष्टाच् च गोत्रात् || AMस_३.१२ ||
SK
यद्गाभीर्याउदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्याउदार्यार्थम् अज्ञात्वैवाधिमुक्तिर् विपुला भवति | प्रतिपत्तौ चोत्साहः | संपत्तिश् चावसाने महाबोधिर्द्वयगतायाः संपत्तेः परमा तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्वगोत्रस्य माहात्म्यं वेदितव्यं | द्वयगता इति द्वये लौकिकाः श्रावकाश् च | परमेति विशिष्टा | फलतो गोत्रविशेषणे श्लोकः |
SK
सुविपुलगुणबोधिवृक्षवृद्ध्यै धनसुखदुःखशमोपलब्धये च | स्वपरहितसुखक्रियाफलत्वाद् भवति समुदग्रसमूलम् उदग्रगोत्रम् एतत् || AMस_३.१३ ||
SK
स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वम् अनेन बोधिसत्वगोत्रं संदर्शितं |
SK
महायानसूत्रालंकारे गोत्राधिकारस् तृतीयः
SK
CHAPITRE IV चतुर्थो ऽधिकारः
SK
चित्तोत्पादलक्षणे श्लोकः |
SK
महोत्साहा महारम्भा महार्थाथ महोदया | चेतना बोधिसत्वानां द्वयार्था चित्तसंभवः || AMस_४.१ ||
SK
महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिक्षेपोत्सहनात् | महारम्भा यथासंनाहप्रयोगवीर्येण | महार्था आत्मपरहिताधिकारात् | महोदयामहाबोधिसत्वसमुदागमत्वात् | (Mस १४) सो ऽयं त्रिविधो गुणाः परिदीपितः पुरुषकारगुणो द्वाभ्यां पदाभ्याम् अर्थक्रियागुणः फलपरिग्रहगुणश् च द्वाभ्यां | द्वयार्था महाबोधिसत्वार्थक्रियालम्बनत्वात् | इति त्रिगुणा द्वयालम्बना च चेतना चित्तोत्पाद इत्य् उच्यते | चित्तोत्पादभेदे श्लोकः |
SK
चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः | वैपाक्यो भूमिषु मतस् तथावरणवर्जितः || AMस_४.२ ||
SK
चतुर्विधो बोधिसत्वानां चित्तोत्पादः | आधिमोक्षिको ऽधिमुक्तिचर्याभूमौ | शुद्धाध्याशयिकः सप्तसु भूमिषु | वैपाकिको ऽष्टम्यादिषु | अनावरणको बुद्धभूमौ | चित्तोत्पादविनिश्चये चत्वारः श्लोकाः |
SK
करुणामूल इष्टो ऽसौ सदासत्वहिताशयः | धर्माधिमोक्षस् तज्ज्ञानपर्येष्ट्यालम्बनस् तथा || AMस_४.३ ||
SK
उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः | उत्थापना विपक्षस्य परिपन्थो ऽधिवासना || AMस_४.४ ||
SK
शुभवृद्ध्यनुशंसो ऽभौ पुण्यज्ञानमयः स हि | सदा पारमितायोगनिर्याणश् च स कथ्यते || AMस_४.५ ||
SK
भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः | विज्ञेयो बोधिसत्वानां चित्तोत्पादविनिश्चयः || AMस_४.६ ||
SK
तथायं विनिश्चयः | किंमूल एष चतुर्विधो बोधिसत्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः किंपर्यवसान इति | आह | करुणामूलः | सदासत्वहिताशयः | महायानधर्माधिमोक्षः | तज्ज्ञानपर्येष्ट्याकारेण तज्ज्ञानालम्बनात् | उत्तरोत्तरच्छन्दयानः| | बोधिसत्वशीलसंवरप्रतिष्ठः | परिपन्थ आदीनवः | कः पुनस् तत्परिपन्थो | विपक्षस्यान्ययानचित्तस्योत्थापना ऽधिवासना वा | पुण्यज्ञानमयकुशलधर्मवृद्ध्यनुशंसः | सदा पारमिताभ्यासनिर्याणः | भूमिपर्यवसानश् च प्रतिस्वं भूमिप्रयोगात् | यस्यां भूमौ यः प्रयुक्तस् तस्य तद्भूमिपर्यवसानः | समादानसांकेतिकचित्तौत्पादे श्लोकः |
SK
मित्रबलाद् हेतुबलान् मूलबलाच् छ्रुतबलाच् छुभाभ्यासात् | अदृढदृढोदय उक्तश् चित्तोत्पादः पराख्यानात् || AMस_४.७ ||
SK
यो हि पराख्यानाच् चित्तोत्पादः परविज्ञापनात् स उच्यते समादानसांकेतिकः | स पुनर् मित्रबलाद् वा भवति कल्याणमित्रानुरोधात् | हेतुबलाद् वा गोत्रसामर्थ्यात् | कुल्शलमूलबलाद् वातीतपुष्टितः | छ्रुतबलाद् वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् | शुभाभ्यासाद् वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः | स पुनर् मित्रबलाद् अदृढोदयो वेदितव्यः | हेत्वादिबलाद् दृढोदयः पारमार्थिकचित्तोत्पादे सप्त श्लोकाः |
SK
सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे | धर्मेषु निर्विकल्पज्ञानप्रसवात् परमतास्य || AMस_४.८ ||
SK
धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे | समचित्तोपात्तोपलम्भात् प्रामोद्यविशिष्टता तस्य || AMस_४.९ ||
SK
जन्माउदार्यं तस्मिन्न् उत्साहः शुद्धिर् आशयस्यापि | कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम् || AMस_४.१० ||
SK
धर्माधिमुक्तिबीजात् पारमिताश्रेष्ठमातृतो जातः | ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री || AMस_४.११ ||
SK
औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् | उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात् || AMस_४.१२ ||
SK
आसन्नबोधिबोधात् तदुपायज्ञानलाभतश् चापि | आशयशुद्धिर् ज्ञेया कौशल्यं त्व् अन्यभूमिगतम् || AMस_४.१३ ||
SK
निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण | तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव || AMस_४.१४ ||
SK
प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति | स च पारमार्थिकश् चित्तोत्पादः प्रमुदितायां भूमाव् इति | प्रामोद्यविशिष्टायास् तत्र कारणं दर्शयति | तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात् | सत्वेषु समचित्तता आत्मपरमतोपगमात् | सत्वकृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् | बुद्धत्वे समचित्तता तद्धर्मधातोर् आत्मन्य् अभेदप्रतिबोधात् | तस्मिन्न् एव च पारमार्थिकचोत्तोत्पादे षडर्था वेदितव्याः | जन्म औदार्यम् उत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च | तत्र जन्म मातृगर्भधात्रीविशेषाद् वेदितव्यं | औदार्यं दशमहाप्रणिधानाभिनिर्हारात् | उत्साहो दीर्घकालिकदुष्कराखेदात् | आशयशुद्धिर् आसन्नबोधिज्ञानात् तदुपायज्ञानलाभाच् च | (Mस १६) परिशिष्टकौशल्यन् अन्यसु भूमिषु कौशल्यं | निर्याणं यथाव्यवस्थानभूमिमनसिकारेण | कथं मनसिकारेण तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात् कल्पनामात्रम् एतद् इति | तस्यैव च कल्पनाज्ञानस्याविकल्पनात् | औपम्यमाहात्म्ये षड् श्लोकाः |
SK
पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश् चान्यः | शुक्लनवचन्द्रसदृशो वह्निप्रख्यो ऽपरोच्छ्रायः ज्ञेयः || AMस_४.१५ ||
SK
भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः | सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः || AMस_४.१६ ||
SK
भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः | चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः || AMस_४.१७ ||
SK
गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः | कोष्ठागारप्रख्यो महापथसमस् यथैवान्यः || AMस_४.१८ ||
SK
यानसमो विज्ञेयो गन्धर्वसमश् च वेतसगचेतसःप्रभवः | आनन्दशब्दसदृशो महानदीश्रोतसदृशश् च || AMस_४.१९ ||
SK
मेघसदृशश् च कथितश् चित्तोत्पादो जिनात्मजानां हि | तस्मात् तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम् || AMस_४.२० ||
SK
प्रथमचित्तोत्पादो बोधिसत्वाणां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवस्य प्रतिष्ठाभूतत्वात् | आशयसहगतश् च चित्तोत्पादः कल्याणसुवर्णसदृशो हितसुखाध्याशयस्य विकाराभजनात् | प्रयोगसहगतः शुक्लपक्षनवचन्द्रोपमः कुशलधर्मवृद्धिगमनात् | अध्याशयसहगतो वह्निसदृश इन्धनाकरविशेषेणेवाग्निस् तस्योत्तरोत्तरविशेषाधिगमनात् | विशेषाधिगमाशयो ह्य् अध्याशयः | दानपारमितासहगतो महानिधानोपम आमिषसंभोगेनाप्रमेयसत्वसंतर्पणाद् अक्षयत्वाच् च | शीलपरमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानां ततः प्रसवात् | क्षान्तिपारमितासहगतः सागरोपमः सरवानिष्टोपरिपातैर् अक्षोभ्यत्वात् | वीर्यपारमितासहगतो वज्रोपमो दृढत्वाद् अभेद्यतया | ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वाद् अविक्षेपतः | प्रज्ञापारमितासहगतो भैषज्यराजोपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् | अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात् | अभिज्ञासहगतश् चिन्तामणिसदृशो यथाधिमोक्षं तत्फलसमृद्धेः | संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात् | प्रतिसंवित्सहगतो गन्धर्वमधुरघोषोपमो विनेयावर्जकधर्मदेशकत्वात् | प्रतिशरणसहगतो महाराजोपमो ऽविप्रणाशहेतुत्वात् | पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् | बोधिपक्षसहगतो महाराजपथोपमः सर्वार्यपुद्गलयातानुयातत्वात् | (Mस १७) शमथविपश्यनासहगतो यानोपमः सुखवहनात् | धारणाप्रतिभानसहगतो गन्धर्वौपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुतश्रुतधर्मार्थधारणोद्भेदतः | धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रवणात् | एकायनमार्गसहगतो नदीश्रोतसमः स्वरसवाहित्वात् | अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्वानाम् अभिन्नकार्यक्रियात्वात् | उपायकौशल्यसहगतो मेघोपमः सर्वसत्वार्थक्रियातदधीनत्वात् तुषितभवनवासादिसंदर्शनतः | यथा मेघात् सर्वभाजनलोकसंपत्तयः | एष च द्वाविंशत्युपमश् चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः | चित्तानुत्पादपरिभाषायां श्लोकः |
SK
परार्थचित्तात् तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् | महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत् सुखम् || AMस_४.२१ ||
SK
तेन चित्तोत्पादेन वर्जिताः सत्वाश् चतुर्विधं सुखं न लभन्ते यद् बोधिसत्वानां परार्थचिन्तनात् सुखं | यच् च परार्थोपायलाभात् | यच् च महाभिसंध्यर्थसंदर्शनात् गम्भीरमहायानस्वताभिप्रायिकार्थविबोधतः | यच् च परमत्वस्य धर्मनैरात्म्यस्य संदर्शनात् सुखं | चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयताम् उपादाय श्लोकः |
SK
सहोदयाच् चित्तवरस्य धीमतः सुसंवृतं चित्तम् अनन्तदुष्कृतात् | सुखेन दुःखेन च मोदते सदा शुभी कृपालुश् च विवर्धनद्वयम् || AMस_४.२२ ||
SK
तस्य चित्तवरस्य सहोदयात् बोधिसत्वस्य सुसंवृतं चित्तं भवत्य् अनन्तसत्वाधिष्ठानाद् (Mस १८) दुष्कृताद् अतो ऽस्य दुर्गतितो भयं न भवति | स च द्वयं वर्धयन् शुभं च कर्म कृपा च नित्यं च शुभी भवति कृपालुश् च तेन च सदा मोदते | सुखेनापि शुभित्वात् | दुःखेनापि परार्थक्रियानिमित्तेन कृपालुत्वात् | अतो ऽस्य बहुकर्तव्यतापरिखेदादपि भयं न भवति | अकरणसंवरलाभे श्लोकः |
SK
यद् आनपेक्षः स्वशरीरजीविते परार्थम् अभ्येति परं परिश्रमम् | परोघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति || AMस_४.२३ ||
SK
अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते आनपेक्षत्वात् अभ्येति परं परिश्रमम् | स कथम् आत्मार्थं परोघातेन दुष्कृते कर्मणि प्रवत्स्यतीति | चित्ताव्यावृत्तौ श्लोकौ |
SK
मायोपमान् वीक्ष्य स सर्वधर्मान् उद्यानयात्राम् इव चोपपत्तीः | क्लेशाच् च दुःखाच् च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले || AMस_४.२४ ||
SK
स्वका गुणाः सत्वहिताच् च मोदः संचिन्त्यजन्म र्द्धिविकुर्वितं च | विभूषणं भोजनम् अग्रभूमिः क्रीडारतिर् नित्यकृपात्मकानाम् || AMस_४.२५ ||
SK
मायोपमसर्वधर्मलक्षणात् स बोधिसत्वः संपत्तिकाले क्लेशेभ्यो न बिभेति | उद्यानयात्रोपमोपपत्तीलक्षणात् विपत्तिकाले दुःकान् न बिभेति | तस्य कुतो भयाद् बोधिचित्तं व्यावर्तिष्यते | अपि च स्वगुणा मण्डनं बोधिसत्वानां | परहितात् प्रीतिर् भोजनं | संचिन्त्योपपत्तिर् उद्यानभूमिः | ऋद्धिविकुर्वितं क्रीडारतिर् बोधिसत्वानाम् एवास्ति | नाबोधिसत्वानां |
SK
परार्थम् उद्योगवतः कृपात्मनो ह्य् अवीचिर् अप्य् एति यतो ऽस्य रम्यताम् | कुतः पुनस् त्रस्यति तादृशो भवन् पराश्रयैर् दुःखसमुद्भवैर् भवे || AMस_४.२६ ||
SK
अपि च यस्य परार्थम् उद्योगवतः करुणात्मत्वाद् अवीचिर् अप्य् रम्यः स कथं परार्थनिमित्तैर् दुःखोत्पादैर् भवे पुनस् त्रासम् आपत्स्यते यतो ऽस्य दुःखत्रासः स्याच् चित्तस्य व्यावृत्तिर् भवति | सत्वोपेक्षाप्रतिषेधे श्लोकः |
SK
महाकृपाचार्यसदोषितात्मनः परस्य दुःखैर् उपतप्तचेतसः | परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना || AMस_४.२७ ||
SK
यस्य महाकरुणाचार्येण नित्योषितो आत्मा परदुःखैश् च दुःखितं चेतस् तस्योत्पन्ने परार्थं करणीये यदि परैः समादापना कर्तव्या भवति अतिलज्जना | कौसीद्यपरिभाषायां श्लोकः |
SK
शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर् न हि शोभते ऽग्रसत्वः | स्वपरविविधबन्धनातिबद्धः शतगुणम् उत्सहम् अर्हति प्रकर्तुम् || AMस_४.२८ ||
SK
शिरसि महान्तं सत्वभारं विनिधाय बोधिसत्वः शिथिलं पराक्रममाणो न शोभते शतगुणं हि स वीर्यं कर्तुम् अर्हति श्रावकवीर्यात् तथा हि स्वपरवविधैर् विविधैर् अत्यर्थं बद्धः क्लेशकर्मजन्मस्वभावैः |
SK
महायानसूत्रालंकारे चित्तोपादाधिकारश् चतुर्थः
SK
CHAPITRE V पञ्चमो ऽधिकारः
SK
प्रतिपत्तिलक्षणे श्लोकः |
SK
महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिर् इष्यते | सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका || AMस_५.१ ||
SK
तत्र महाश्रयचित्तोत्पादाश्रयत्वात् | महारम्भास्वपरार्थारम्भात् | महाफलोदया महाबोधिफलत्वात् | अत एव यथाक्रमं महादाना सर्वसत्वोपादानात् | महाधिवासना सर्वदुःखाधिवासनात् | महार्थसंपादनकृत्यकारिका विपुलसत्वार्थसंपादनात् | स्वपरार्थनिर्विशेषत्वे श्लोकः |
SK
परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे | तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता || AMस_५.२ ||
SK
परत्रात्मसमानचित्ततां लब्ध्वा ऽधिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे | आत्मतो वा पुनः परत्र विशिष्टतराम् इष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे विशिष्टसंज्ञिनो बोधिसत्वस्य (Mस २०) कः स्वार्थः परार्थो वा | निर्विशेषं हि तस्योभयमित्यर्थः | परार्थविशेषणे श्लोकः |
SK
परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणा रिपौ | यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते || AMस_५.३ ||
SK
यथा स्वात्मनः परार्थो विशिष्यते तत् साधयति परार्थम् आत्मनो ऽत्यर्थं संतापनात् | परार्थप्रत्तिपत्तिविभागे द्वौ श्लोकौ |
SK
निकृष्टमध्योत्त्तमधर्मतास्थिते सुदेशनावर्जनता ऽवतारणा | विनीतिर् अर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः || AMस_५.४ ||
SK
गुणैर् विशिष्टैः समुदागमस् तथा कुलोदयो व्याकरणाभिषिक्तता | तथागतज्ञानम् अनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः || AMस_५.५ ||
SK
त्रिविधे सत्वनिकाये हीनमध्यविशिष्टगोत्रस्थे त्रयोदशविधो बोधिसत्वस्य परार्थः | सुदेशना ऽनुशासन्यादेशनाप्रतिहार्याभ्यां | आवर्जना ऋद्धिप्रातिहार्येण | अवतारणा शासनाभ्युपगमनात् | विनीतिर् अर्थे ऽवतीर्णानां संशयच्छेदनं | परिपाचना कुशले | अववादश् चित्तस्थितिः | प्रज्ञा विमुक्तिः अभिज्ञादिभिर् विशेषकैर् गुणैः | समुदागमः | तथागतकुले जन्म | अष्टम्यां भूभौ व्याकरणं दशम्याम् अभिशेकश् च | सह तथागतज्ञानेनेत्य् एष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्वस्य | परार्थप्रतिपत्तिसंपत्तौ स्लोकः |
SK
जनानुरूपाविपरीतदेशना निरुन्नता चाप्य् अममा विचक्षणा | क्षमा च दान्ता च सुदूरगा ऽक्षया जिनात्मजानां प्रतिपत्तिर् उत्तमा || AMस_५.६ ||
SK
यथा ऽसौ परार्थप्रतिपत्तिः संपन्ना भवति तथा संदर्शयति | कथं चासौ संपन्ना भवति | यदि गोत्रस्थजनानुरूपा ऽविपरीता च देशना भवति | अनुन्नता चावर्जना | अममा चावतारणा | न ऋद्धा मन्यते न चावतारितान् सत्वान् ममायति | विचक्षणा चार्थे विनीतिप्रतिपत्तिर् भवति | क्षमा च शुभे परिपाचनाप्रतिपत्तिः | दान्ता चाववादादिप्रतिपत्तिः | न ह्य् अदान्ता ऽववादादिषु परेषां समर्थः | सुदूरगा च कुलोदयादिप्रतिपत्तिः | न ह्य् अदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः | सर्वा चैषा परार्थप्रतिपत्तिर् बोधिसत्वानाम् अक्षया (Mस २१) भवत्य् अभ्युपगतसत्वाक्षयत्वाद् अतो ऽपि संपन्ना वेदितव्या | प्रतिपत्तिविशेषणे द्वौ श्लोकौ |
SK
महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः | प्रतिस्वम् आधिप्रशमे शमप्रियः सदा तु सर्वाधिगमे कृपात्मकः || AMस_५.७ ||
SK
जनो विमूढः स्वसुखार्थम् उद्यतः सदा तद् अप्राप्य परैति दुःखताम् | सदा तु धीरो हि परार्थम् उद्यतो द्वयार्थम् आधाय परैति निर्वृतिम् || AMस_५.८ ||
SK
तत्र कामानां महाभयत्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात् | चलं विपर्याससुखं रूपरूप्यभवप्रियाणाम् अनित्यत्वात् परमार्थदुःखत्वाच् च संस्कारदुःखतया | आधयः क्लेशा वेदितव्या दुःखाधानात् | विमूढो जनः सदा स्वसुखार्थं प्रतिपन्नः सुखं नाप्नोति दुःखम् एवाप्नोति | बोधिसत्वस् तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्य् अयम् अस्यापरः प्रतिपत्तिविशेषः | गोचरपरिणामने श्लोकः |
SK
यथा यथा ह्य् अक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः | तथा तथा युक्तसमानतापदैर् हिताय सत्वेष्व् अभिसंस्करोति तत् || AMस_५.९ ||
SK
येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्वः प्रवर्तते | ईर्यापथव्यापारचारे वर्तमानस् तेन तेन प्रकारेण संबद्धसादृश्यवचनैर् हितार्थं सत्वेषु तत् सर्वम् अभिसंस्करोति | यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टं | सत्वेष्व् अक्षान्तिप्रतिषेधे श्लोकः |
SK
सदा ऽस्वतन्त्रीकृतदोषचेतने जने न संदोषम् उपैति बुद्धिमान् | अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः || AMस_५.१० ||
SK
सदा क्लेशैर् अस्वतन्त्रीकृतचेतने जने न संदोषम् उपैति बोधिसत्वः | किं कारणं | (Mस २२)अकामकारेनैषां विप्रतिपत्तयो भवन्तीति विदित्व करुणावृद्धिगमनात् | प्रतिपत्तिमाहात्म्ये श्लोकः |
SK
भवगति सकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिर् एव | विविधगुणगणैर् विवर्धमाना जगद् उपगुह्य सदा कृपाशयेन || AMस_५.११ ||
SK
चतुर्विधं माहात्म्यं संदर्शयति | अभिभवमाहात्म्यं सकलं भवत्रयं गतिं च पञ्चविधाम् अभिभयगमनात् | यथोक्तं प्रज्ञापारामितायां | रूपं चेत् सुभूत भावो ऽभविष्यन् नाभावा नदं महायानं सदेवमानुषासुरलोकम् अभिभूय निर्यास्यतीति विस्तरः | निर्वृतिमाहात्म्यम् अप्रतिष्ठनिर्वाणानुगतत्वात् | गुणवृद्धिमाहात्म्यं सत्वापरित्यागमाहात्म्यं चेति |
SK
महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः
SK
CHAPITRE VI षष्ठो ऽधिकारः
SK
परमार्थलक्षणविभागे श्लोकः |
SK
न सन् न चासन् न तथा न चान्यथा न जायते व्येति न चावहीयते | न वर्धते नापि विशुध्यते पुनर् विशुध्यते तत्परमार्थलक्षणं || AMस_६.१ ||
SK
अद्वयार्थो हि परमार्थः | तम् अद्वयार्थं पञ्चभिर् आकारैः संदर्शयति | न सत्परिकल्पितपरतन्त्रलक्षणाभ्यां न चासत्परिनिष्पन्नलक्षणेन | न तथा परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात् | न चान्यथा ताभ्याम् एवान्यत्वाभावात् | न जायते न च व्येत्य् अनभिसंस्कृतत्वाद् धर्मधातोः | न हीयते न च वर्धते संक्लेशव्यवदानपक्षयोर् निरोधोत्पादे तदवस्थत्वात् | न विशुध्यति प्रकृत्यसंक्लिष्टत्वात् न च न विशुध्यति आगन्तुकोपक्लेशविगमात् | इत्य् एतत् पञ्चविधम् अद्वयलक्षणं परमार्थलक्षणं वेदितव्यं | आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः |
SK
न चात्मदृष्टिः स्वयम् आत्मलक्षणा न चापि दुःसंस्थितता विलक्षणा | द्वयान् न चान्यद् भ्रम एष ततूदितस् ततश् च मोक्षो भ्रममात्रसंक्षयः || AMस_६.२ ||
SK
न तावद् आत्मदृष्टिर् एवात्मलक्षणा | नापि दुःसंस्थितता | तथा हि सा विलक्षणा आत्मलक्षणात् परिकल्पितात् | सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात् | नाप्य् अतो द्वयाद् अन्यद् आत्मलक्षणम् उपपद्यते | तस्मान् नास्त्य् आत्मा | भ्रम एष तूत्पन्नो येयम् आत्मदृष्टिस् तस्माद् एव चात्माभावान् मोक्षो ऽपि भ्रममात्रसंक्षयो वेदितव्यो न तु कश्चिन् मुक्तः | विपर्यासपरिभाषायां द्वौ श्लोकौ |
SK
कथं जनो विभ्रममात्रम् आश्रितः परैति दुःखप्रकृतिं न संतताम् | अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः || AMस_६.३ ||
SK
प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् | तमः प्रकारः कतमो ऽयम् ईदृशो यतो ऽविपश्यन् सदसन् निरीक्षते || AMस_६.४ ||
SK
कथं नामायं लोको भ्रान्तिमात्रम् आत्मदर्शनं निश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति | अवेदको ज्ञानेन तस्या दुःखप्रकृतेः | वेदको ऽनुभवेन दुःखस्यादुःखितो दुःखस्याप्रहीणत्वात् | न दुःखितो दुःखयुक्तस्यात्मनो ऽसत्वात् | धर्ममयो धर्ममात्रत्वात् पुद्गलनैरात्म्येन | न च धर्ममयो धर्मनैरात्म्येन | यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति | तत् कथम् एतां दृष्टिं श्रयते ऽन्यकारितं दर्शनादिकं न प्रतीत्यसमुत्पन्नम् इति | कतमो ऽयम् ईदृशस् तमःप्रकारो लोकस्य यद् विद्यमानं प्रतीत्यसमुत्पादम् अविपश्यन् न विद्यमानम् आत्मानं निरीक्षते | शक्यं हि नाम तमसा विद्यमानम् अद्रष्टुं स्यान् न त्वविद्यमानं द्रष्टुम् इति | असत्य् आत्मनि शमजन्मयोगे श्लोकः |
SK
त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोर् इह | तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् || AMस_६.५ ||
SK
न चास्ति संसारनिर्वाणयोः किंचिन् नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया | तथापि जन्मक्षयान् मोक्षप्राप्तिर् भवत्य् एव शुभकर्मकारिणां ये मोक्षमार्गं भावयन्ति | विपर्यासपरिभाषां कृत्वा तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः |
SK
संभृत्य संभारम् अनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्वः | धर्मेषु चिन्तासुविनिश्रिश् चितत्वाज् जल्पान्वयाम् अर्थगतिं परैति || AMस_६.६ ||
SK
अर्थान् स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे | प्रत्यक्षताम् एति च धर्मधातुस् तस्माद् वियुक्तो द्वयलक्षणेन || AMस_६.७ ||
SK
नास्तीति चित्तात् परम् एत्य बुद्ध्या चित्तस्य नास्तित्वम् उपैति तस्मात् | द्वयस्य नास्तित्वम् उपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मघातौ || AMस_६.८ ||
SK
अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा | तदाश्रयो गह्वरदोषसंचयो महागदेनेव विषं निरस्यते || AMस_६.९ ||
SK
एकेन संभृतसंभारत्वं धर्मचिन्तासुविनिश्रितत्वं समाधिनिश्रित्यभावनात् मनोजल्पाच् च तेषां धर्माणाम् अर्थप्रख्यानावगमात् तत्प्रवेशं दर्शयति | असंख्येयप्रभेदकालं पारमस्य परिपूरणम् इत्य् अनन्तपारं | द्वितीयेन मनोजल्पमात्रानर्थान् विदित्वा तदाभासे चित्तमात्रे ऽवस्थानमियं बोधिसत्वस्य निर्वेधभागीयावस्था | ततः परेण धर्मधातोः प्रत्यक्षतो गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन इयं दर्शनमार्गावस्था | तृतीयेन यथासौ धमधातुः प्रत्यक्षताम् एति तद् दर्शयति | कथं चासौ धर्मधातुः प्रत्यक्षताम् एति | चित्ताद् अन्यदालम्बनं ग्राह्यं नास्तीत्य् अवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्यंभावे ग्राहकाभावात् | द्वये चास्य नास्तित्वं विदित्वा धर्मधातौ अवस्थानम् अतद्गतिर् ग्राह्यग्राहकलक्षणाभ्यां रहित एवं धर्मधातुः प्रत्यक्षताम् एति | चतुर्थेन भावनामार्गावस्थायाम् अश्रयपरिवर्तनात् पारमार्थिकज्ञानप्रवेशं दर्शयति | सदा सर्वत्र समतानुगतेनाविकल्पज्ञानबलेन यत्र तत्समतानुगतं परतन्त्रे स्वभावे तदाश्रयस्य दूर-अनुप्रविष्टस्य दोषसंचयस्य दौष्ठुल्यलक्षणस्य महागदेनेव विषस्य निरसनात् | परमार्थज्ञानमाहात्म्ये श्लोकः |
SK
मुनिविहितसुधर्मसुव्यवस्थो मतिम् उपधाय समूलधर्मधातौ | स्मृतिम् अगतिम् अवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः || AMस_६.१० ||
SK
बुद्धविहिते सुधर्मे सुव्यवस्थापिते स परमार्थज्ञानप्रविष्टो बोधिसत्वः संपिण्डितधर्मालम्बनस्य मूलचित्तस्य धर्मधातौ मतिम् उपनिविधाय या स्मृतिर् उपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्राम् अवगच्छत्य् एवं गुणार्णवस्य पारं बुद्धत्वम् आशु व्रजतीत्य् एतत् परमार्थज्ञानस्य माहात्म्यं |
SK
महायानसूत्रालंकारे तत्वाधिकारः षष्ठः
SK
CHAPITRE VII सप्तमो ऽधिकारः
SK
प्रभावलक्षणविभागे श्लोकः |
SK
उत्पत्तिवाक्चित्तशुभाशुभ-अधितत्स्थाननिःसारपदा परोक्षम् | ज्ञानं हि सर्वत्रगसप्रभेदेष्व् अव्याहतं धीर् अगतः प्रभावः || AMस_७.१ ||
SK
परेषाम् उपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा | वाचि ज्ञानं दिव्यश्रोत्राभिज्ञायां वाचं तत्र गत्वोपपन्ना भाषन्ते | चित्ते ज्ञानं चेतःपर्यायाभिज्ञा | पूर्वशुभाशुभाधाने ज्ञानं पूर्वनिवासाभिज्ञा | यत्र विनेयास् तिष्ठन्ति तत्स्थानगमनज्ञानं ऋद्धिविषयाभिज्ञा | निःसरणे ज्ञानम् आस्रवक्षयाभिज्ञा यथा सत्वा उपपत्तितो निःसरन्तीति | एषु षट्स्वर्थेषु सर्वत्र लोकधातौ सप्रमेदेषु पदापरोक्षम् अव्याहतं ज्ञानं स प्रभावो बोधिसत्वानां षडभिज्ञासंगृहीतः | प्रभावलक्षणविभागे स्वभावार्थ उक्तः | हेत्वर्थम् आरभ्य श्लोकः |
SK
ध्यानं चतुर्थं सुविशुद्धम् एत्य निष्कल्पनाज्ञानपरिग्रहेण | यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति || AMस_७.२ ||
SK
येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस् तत्संदर्शयति | फलार्थम् आरभ्य श्लोकः |
SK
येनार्यदिव्याप्रतिमैर् विहारैर् ब्राह्मैश् च नित्यं विहरत्य् उदारैः | बुद्धांश् च सत्वांश् च स दिक्षु गत्वा संमानयत्य् आनयते विशुद्धिम् || AMस_७.३ ||
SK
त्रिविधं फलम् अस्य प्रभावस्य संदर्शयति | आत्मन आर्यादिसुखविहारम् अतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्वानां विशोधनं च | कर्मार्थं षड्विधम् आरभ्य चत्वारः श्लोकाः | दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः |
SK
मायोपमान् पश्यति लोकधातून् सर्वान् ससत्वान् सविवर्तनाशान् | संदर्शयत्य् एव च तान् यथेष्टं वशी विचित्रैर् अपि स प्रकारैः || AMस_७.४ ||
SK
स्वयं च सर्वलोकधातूनां ससत्वानां सविवर्तसंवर्तानां मायोपमत्वदर्शनात् | परेषां यथेष्टं तत्संदर्शनात् | अन्यैश् च विचित्रैः कम्पनज्वलनादिप्रकारैः | दशवशितालाभात् | यथा दशभूमिके ऽष्टभ्यां भूमौ निर्दिष्टाः | रश्मिकर्मारभ्य श्लोकः |
SK
Aच्ते दे रयोन्नेमेन्त्; उन् वेर्स्. रश्मिप्रमोक्षैर् भृशदुःखितांश् च आपायिकान् स्वर्गगतान् करोति | मारान्वयान् क्षुब्धविमानशोभान् संकम्पयं स्रासयते समारान् || AMस_७.५ ||
SK
द्विविधं रश्मिकर्म संदर्शयति | अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनं | मारभवनानां च समारकाणां कम्पनोद्वेजनं | विक्रीडनकर्म चारभ्य श्लोकः |
SK
समाधिविक्रीडितम् अप्रमेयं संदर्शयत्य् अग्रगणस्य मध्ये | सकर्मजन्मोत्तमनिर्मितैश् च सत्वार्थम् आतिष्ठति सर्वकालम् || AMस_७.६ ||
SK
अप्रमेयसमाधिविक्रीडितसंदर्शनात् बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्वार्थकरणाच् च | त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणं | विनेयवशेन यथेष्टोपपत्तिनिर्माणं | उत्तमनिर्माणं च तुषितभवनवासादिकं | क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः |
SK
ज्ञानवशित्वात् समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय | अबुद्धनामेषु च बुद्धनाम संश्रावणात् तान् क्षिपते ऽन्यधातौ || AMस_७.७ ||
SK
द्विविधपापविशोधनया | भाजनपरिशोधनया ज्ञानवशित्वाद् यथेष्टं स्फटिकवैदुर्यादिमयबुद्धक्षेत्रसंदर्शनतः | सत्वपरिशोधनया च बुद्धनामविरहितेषु (Mस २७) लोकधातुषूपपन्नानां सत्वानां बुद्धनामसंश्रावणया प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात् | योगार्थम् आरभ्य श्लोकः |
SK
शक्तो भवत्य् एव च सत्वपाके संजातपक्षः शकुनिर् यथैव | बुद्धात् प्रशंसां लभते ऽतिमात्राम् आदेयवाक्यो भवति प्रजानाम् || AMस_७.८ ||
SK
त्रिविधं योगं प्रदर्शयति | सत्वपरिपाचनशक्तियोगं प्रशंसायोगम् आदेयवाक्यतायोगं च | वृत्त्यर्थम् आरभ्यं श्लोकः |
SK
षड्धाप्य् अभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षा ऽभिभुवस् तथाऽष्टौ | दशापि कृत्स्नायतनान्य् अमेयाः समाधयो धीरगतः प्रभावः || AMस_७.९ ||
SK
षड्भिः प्रभेदैर् बोधिसत्वस्य प्रभावो वर्तते | अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः | एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः |
SK
स हि परमवशित्वलब्धबुद्धिर् जगदवशं स्ववशे विधाय नित्यम् | परहितकरणैकताभिरामश् चरति भवेषु हि सिंहवत् सुधीरः || AMस_७.१० ||
SK
त्रिविधं माहात्म्यं दर्शयति | वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः स्ववशे स्थापनात् | अभिरतिमाहात्म्यं सदा परहितक्रियैकारामत्वात् | भवनिर्भयतामाहात्म्यं च |
SK
प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः
SK
CHAPITRE VIII अष्टमो ऽधिकारः
SK
बोधिसत्वपरिपाके संग्रहः श्लोकः |
SK
रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वम् एव च | अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम् || AMस_८.१ ||
SK
रुचिर् महायानदेशनाधर्मे प्रसादस् तद्देशिके प्रशमः क्लेशानाम् अनुकम्पा सत्वेषु क्षमा दुष्करचर्यायां मेधा ग्रहणधारणप्रतिवेधेषु प्रबलत्वम् अधिगमे अहार्यता मारपरप्रवादिभिः प्राहाणिकाङ्गैः समन्वागतत्वं | भृशमिति रुच्यादीनाम् अधिमात्रत्वं दर्शयति | एष समासेन बोधिसत्वानां नवप्रकार आत्मपरिपाको वेदितव्यः | रुचिपरिपाकम् आरभ्य श्लोकः |
SK
सुमित्रतादित्रयम् उग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः | कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम् || AMस_८.२ ||
SK
सुमित्रतादित्रयं सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश् च | उग्रवीर्यता अधिमात्रो वीर्यारम्भः | परार्धनिष्ठा सर्वाचिन्त्यस्थाननिर्विचिकित्सता | उत्तमधर्मसंग्रहो महायानधर्मरक्षा तत्प्रतिपन्नानाम् उपद्रवेभ्यो रक्षणात् | बोधिसत्वस्य महायानधर्मपरिग्रहम् अधिकृत्येदं रुचिपरिपाकलक्षणं वेदितव्यं | येन कारणेन परिपच्यते सुमित्रतादित्रयेण | यश् च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः | यत्कर्म चोत्तमधर्मसंग्रहकरणात् तद् एतेन परिदीपितं | प्रसादपरिपाकम् आरभ्य श्लोकः |
SK
गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर् मनसो ऽध्यभेदता | जिनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम् || AMस_८.३ ||
SK
तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः | गुणज्ञता इत्य् अपि स भगवांस् तथागत इति विस्तरेण कारणं | अवेत्य प्रभावलाभाद् अभेद्यचित्तता स्वभावः | आशुसमाधिलाभस् तत्फलस्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म | प्रशमपरिपाकम् आरभ्य श्लोकः |
SK
सुसंवृत्तिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता | जीनात्मजे क्लेशविनोदनाय तन् मतं हि सम्यक्परिपाकलक्षणम् || AMस_८.४ ||
SK
क्लेशविनोदना बोधिसत्वस्य प्रशमः | तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः | इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां सुसंवृतिः कारणं | (Mस २९)क्लिष्टवितर्कवर्जना स्वभावः | प्रतिपक्षभावनायां निरन्तरायत्वं कुशलाभिरामता च कर्म | कृपापरिपाकलक्षणम् अधिकृत्य श्लोकः |
SK
कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् | विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम् || AMस_८.५ ||
SK
स्वप्रकृत्या च गोत्रेण परदुःखदर्शनेन निहीनयानपरिवर्जनतया च परिपच्यत इति कारणं | विशेषगामित्वं परिपाकवृद्धिगमनात् स्वभावः | सर्वलोकश्रेष्ठात्मभावता कर्माविनिवर्तनीयभूमौ | क्षान्तिपरिपाकलक्षणम् आरभ्य श्लोकः |
SK
धृतिः प्रकृत्या प्रतिसंख्यभावना सुदुःखशीताद्यधिवासना सदा | विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम् || AMस_८.६ ||
SK
धृतिः सहनं क्षान्तिर् इति पर्यायास् तत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणं | तीव्राणां शीतादिदुःखानाम् अधिवासना स्वभावः | क्षमस्य विशेषगामित्वं कुशलाभिरामता च कर्म | मेधापरिपाकम् आरभ्य श्लोकः |
SK
विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरुक्तयोस् तथा | स्मृतेर् महाबुद्ध्युदये च योग्यता सुमेधतायाः परिपाकलक्षणम् || AMस_८.७ ||
SK
तत्र मेधानुकूला विपाकविशुद्धिः कारणं | श्रुतचिन्तितभावितचिरकृतचिरभाषितानाम् असंमोषता सुभाषितदुर्भाषितार्थसुप्रविष्टता च स्मृतेर् मेधापरिपाकस्वभावः | लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म | बलवत्वप्रतिलम्भपरिपाकम् आरभ्य श्लोकः |
SK
शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा | मनोरथाप्तिर् जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम् || AMस_८.८ ||
SK
तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीजपुष्टता तत्परिपाके कारणं | अधिगमं प्रत्याश्रययोग्यता तत्परिपाकस्वभावः | मनोरथसंपत्तिर् जगदग्रभूतता च कर्म | अहार्यतापरिपाकम् आरभ्य श्लोकः |
SK
सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् | पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम् || AMस_८.९ ||
SK
तत्परिपाकस्य सद्धर्मे युक्तिविचारणाकृत आशयः कारणं | मारनिरन्तरायता स्वभावो यदा मारो न पुनः शक्नोत्य् अन्तरायं कर्तुं | विशेषाधिगमः परपक्षदूषणं च कर्म | प्राहाणिकाङ्गसमन्वागमपरिपाकम् अधिकृत्य श्लोकः |
SK
शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता | जिनात्मजे ह्य् अङ्गसमन्वये पुनर् मतं हि सम्यक्परिपाकलक्षणम् || AMस_८.१० ||
SK
तत्परिपाकस्य कारणं कुशलमूलोपचयः | आश्रयस्य वीर्यारम्भक्षमत्वं स्वभावः | विवेकोत्कृष्टता कुशलाभिरामता च कर्म | नवविधात्मपरिपाकमाहात्म्यम् आरभ्य श्लोकः |
SK
इति नवविधवस् तु पाचितात्मा परपरिपाचनयोग्यताम् उपेतः | शुभधर्ममयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः || AMस_८.११ ||
SK
द्विविधं तन्माहात्म्यं | परपरिपाके प्रतिशरणत्वं | सततं धर्मकायवृद्धिश् च | तत एव जगतो ऽग्रबन्धुभूतः | सत्वपरिपाकविभागे एकादश श्लोकाः |
SK
व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता | तथाश्रये ऽस्मिन् द्वयपक्षशान्तता तां तथोपभोगत्वसुशान्तपक्षता || AMस_८.१२ ||
SK
अनेन परिपाकस्वभावं दर्शयति | यथा व्रणस्य स्रावणयोग्यता परिपाकः | भोजनस्य च भोगयोग्यता | एवं सत्वानाम् आश्रये व्रणभोजनस्थानीये स्रावणस्थानीयं विपक्षशमनं | भोगस्थानीयश् च प्रतिपक्षोपभोगः | तद्योग्यता आश्रयस्य परिपाक इति | विपक्षप्रतिपक्षाव् अत्र पक्षद्वयं वेदितव्यं | द्वितीयः श्लोकः |
SK
विपाचनोक्ता परिपाचना तथा प्रपाचना चाप्य् अनुपाचनापरा | सुपाचना चाप्य् अधिपाचना मता निपाचनोत्पाचनना च देहिषु || AMस_८.१३ ||
SK
अनेन परिपाकप्रभेदं दर्शयति | क्लेशविगमेन पाचनना विपाचना | सर्वतो यानत्रयेण पाचना परिपाचना | वाह्यपरिपाकविशिष्टत्वात् प्रकृष्टा पाचना प्रपाचना | यथाविनेयधर्मदेशनात् तदनुरूपा पाचना अनुपाचना | सत्कृत्य पाचना सुपाचना | अधिगमेन पाचना अधिपाचना अविपरीतार्थेन | (Mस ३१)नित्या पाचना निपाचना अपरिहाणीयार्थेन | क्रमेणोत्तरोत्तरपाचना उत्पाचना | इत्य् अयम् अष्टप्रकारः परपरिपाकप्रभेदः | तृतीयचतुर्थौ श्लोकौ |
SK
हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् | तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्व् अपि सुव्यवस्थिताः || AMस_८.१४ ||
SK
तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने | यथा कृपात्मा परसत्ववत्सलो हिते सुखे चैव नियोजनात्मतः || AMस_८.१५ ||
SK
आभ्यां किं दर्शयति | यादृशेनाशयेन बोधिसत्वः सत्वान् परिपाचयति तम् आशयं दर्शयति | मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात् | आत्मवत्सलस् तु लोक आत्मानं हिते च सुखे च संनियोजयति | अवशिष्टैः श्लोकैर् येन प्रयोगेण सत्वान् परिपाचयति तं पारमिताप्रतिपत्त्या संदर्शयति | यादृशेन दानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः |
SK
न बोधिसत्वस्य शरीरभोगयोः परेष्व् अदेयं पुनर् अस्ति सर्वथा | अनुग्रहेण द्विविधेन पाचयन् परं समैर् दानगुणैर् न तृप्यते || AMस_८.१६ ||
SK
त्रिविधेन दानेन पाचयति | सर्वस्वशरीरभोगदानेन अविषमदानेन अतृप्तिदानेन च | कथं परिपाचयति दृष्टधर्मसंपरायानुग्रहेण | अविघातेनेच्छापरिपूर्णात् | अनागतेन च संगृह्य कुशलप्रतिष्ठापनात् | यादृशेन शीलेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः |
SK
सदा प्रकृत्याध्यविहिंसकः स्वयंरतो ऽप्रमत्तो ऽत्र परं निवेशयन् | परंपरानुग्रहकृत् द्विधा परे विपाकनिष्यन्दगुणेन पाचकः || AMस_८.१७ ||
SK
पञ्चविधेन शीलेन | ध्रुवशीलेन प्रकृतिशीलेन परिपूर्णशीलेनाध्यविहिंसकत्वात् | परिपूर्णो ह्य् अविहिंसको ऽध्यविहिंसकः | दशकुशलकर्मपथपरिपूरितः | यथोक्तं द्वितीयायां भमौ | अधिगमशीलेन स्वयंरततया निरन्तरास्खलितशीलेन चाप्रमत्ततया | कथं च परिपाचयति | शीले संनिवेशनात् | द्विधानुग्रहक्रियया(Mस ३२) दृष्टधर्मे संपराये च | संपरायानुग्रहं परेषु विपाकनिष्यन्दगुणाभ्यां परंपरया करोति | तद्विपाकनिष्यन्दयोर् अन्योन्यानुकूल्येनाव्यवच्छेदात् | यादृश्या क्षान्त्या यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः |
SK
परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्न् उग्रम् अपि व्यतिक्रमम् | उपायचित्तैर् अपकारमर्षणैः शुभे समादापयते ऽपकारिणः || AMस_८.१८ ||
SK
अपकारिणि परे उपकारिबुद्ध्या प्रगाढापकारमर्षणक्षान्त्या परिपाचयति | उपकारिबुद्धित्वं पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यं | कथं परिपाचयति | दृष्टधर्मानुग्रहेण चापकारमर्षणात् | संपरायानुग्रहेण चोपायज्ञस् तैर् अपकारमर्षणैर् आवर्ज्यापकारिणां कुशले समादापनात् | यादृशेन वीर्येण यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः |
SK
पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः | जिनात्मजः सत्वगणं प्रपाचयन् परैकचित्तस्य शुभस्य कारणात् || AMस_८.१९ ||
SK
अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वम् अनन्तसत्वपरिपाचनात् | परैकचित्तस्य कुशलस्यार्थे कल्पसहस्रकोटिभिर् अखेदात् | अत एवोक्तं भवति यथा परिपाचयति | कुशलचित्तसंनियोजनात् दृष्टधर्मसंपरायानुग्रहेणेति यादृशेन ध्यानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः |
SK
वशित्वम् आगम्य मनस्य् अनुत्तरं परं समावर्जयते ऽत्र शासने | निहत्य सर्वाम् अवमानकामतां शुभेन संवर्धयते च तं पुनः || AMस_८.२० ||
SK
प्राप्तानुत्तरवशित्वेन ध्यानेन निरामिषेण च निहतसर्वावमानाभिलाषेण परिपाचयति | बुद्धशासने परस्यावर्जनाद् आवर्जितस्य च कुशलधर्मसंवर्धनात् परिपाचयति | यादृश्या प्रज्ञया यथा सत्वान् परिपाचयति तदारभ्य श्लोकः |
SK
स तत्वभावार्थनये सुनिश्चितः करोति सत्वान् सुविनीतसंशयान् | ततश् च ते तज्जिनशासनाद् अराद् विवर्धयन्ते स्वपरं गुणैः शुभैः || AMस_८.२१ ||
SK
स बोधिसत्वस् तत्वार्थनये चाभिप्रायार्थनये च सुविनिश्चितया प्रज्ञया परिपाचयति | (Mस ३३) कथं परिपाचयति सत्वानां संशयविनयनात् | ततश् च शासनबहुमानात् तेषाम् आत्मपरगुणसंवर्धकत्वेन | नियमनश्लोकः |
SK
इति सुगतिगतौ शुभत्रये वा जगद् अखिलं कृपया स बोधिसत्वः | तनुपरमविमध्यमप्रकारैर् विनयति लोकसमानभावगत्या || AMस_८.२२ ||
SK
अनेन यत्र च विनयति सुगतिगमने यानत्रये वा | यच् च विनयति जगदखिलं | येन च विनयति कृपया | यश् च विनयति बोधिसत्वः | यादृशैश् च परिपाचनप्रकारैस् तनुपरमविमध्यमप्रकारैः | यावन्तं च कालं तत्परिदीपनात् समासेन परिपाकमाहात्म्यं दर्शयति | तत्र तनुः प्रकारो ऽधिमुक्तिचर्याभूमौ बोधिसत्वस्य परमो ऽष्टम्यादिषु विमध्यमः सप्तसु वेदितव्यः यावल् लोकस्य भावस् तत्समानया गत्या अत्यन्तम् इत्य् अर्थः |
SK
महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः
SK
CHAPITRE IX नवमो ऽधिकारः
SK
सर्वाकारज्ञतायां द्वौ श्लोकौ | तृतीयस् तयोर् एव निर्देशभूतः |
SK
अमेयैर् दुष्करशतैर् अमेयैः कुशलाचयैः | अप्रमेयेण कालेन अमेयावरणक्षयात् || AMस_९.१ ||
SK
सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला | विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम् || AMस_९.२ ||
SK
कृत्वा दुष्करम् अद्भुतं श्रमशतैः संचित्यसर्वशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् | सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता रत्नानाम् इव सा प्रभावमहतां पेटा समुद्धातिता || AMस_९.३ ||
SK
समुदागमतः स्वभावत औपम्यतश् च बुद्धत्वम् उद्भावितं | यावद्भिर् दुष्करशतैर् यावद्भिः कुशलसंभारैर् यावता कालेन यावतः क्लेशज्ञेयावरणस्य प्रहाणात् समुदागच्छत्ययं समुदागमः | सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला स्वभावः | (Mस ३४) विवृता रत्नपेटा तदौपम्यं | तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ श्लोकौ |
SK
सर्वधर्माश् च बुद्धत्वं धर्मो नैव न कश्चन | शुक्लधर्ममयं तच् च न च तैस् तन्निरूप्यते || AMस_९.४ ||
SK
धर्मरत्ननिमित्तत्वाल् लब्धरत्नाकरोपमम् | शुभस्य निमित्तत्वाल् लब्धमेघोपमं मतम् || AMस_९.५ ||
SK
सर्वधर्माश् च बुद्धत्वं तथताया अभिन्नत्वात् तद्विशुद्धिप्रभावितत्वाच् च बुद्धत्वस्य न च कश् चिद्धर्मो ऽस्ति परिकल्पितेन धर्मस्वभावेन शुक्लधर्ममयं च बुद्धत्वं पारमितादीनां कुशलानां तद्भावेन परिवृत्तेः | न च तैस् तान् निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेर् इदम् अद्वयलक्षणं | रत्नाकरमेघोपमत्वम् अनुभावः | देशना धर्मरत्नानां तत्प्रभवत्वात् कुशलसस्यानां च विनेयसंतानक्षेत्रेषु |
SK
बुद्धत्वं सर्वधर्मः समुदितम् अथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर् धर्मरत्नप्रततसुमहतो धर्मरत्नाकराभम् | भूतानां शुक्लसस्य प्रसवसुमहतो हेतुतो मेघभूतं दानाद् धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु || AMस_९.६ ||
SK
अनेन तृतीयेन श्लोकेन तम् एवार्थं निर्दिशति | सुमहतः प्रततस्य धर्मरत्नस्य प्रोद्भूतेर् निमित्तत्वाद् रत्नाकराभं भूतानां महतः शुक्लसस्य प्रसवहेतुत्वान् मेघभूतं | महतः सुविहितस्याक्षयस्य धर्माम्बुवर्षस्य दानात् प्रजास्व् इत्य् अयम् अत्र पदविग्रहो वेदितव्यः | तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः |
SK
परित्राणं हि बुद्धत्वं सर्वक्लेशगणात् सदा | सर्वदुश्चरितेभ्यश् च जन्ममरणतो ऽपि च || AMस_९.७ ||
SK
अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेशपरित्राणार्थेन शरणत्वं दर्शयति |
SK
उपद्रवेभ्यः सर्वेभ्यो अपायाद् अनुपायतः | सत्कायाद् धीनयानाच् च तस्माच् छरणम् उत्तमम् || AMस_९.८ ||
SK
अनेन द्वितीयेनोपद्रवादिपरित्राणाद् विस्तरेण | तत्र सर्वोपद्रवपरित्राणत्वं (Mस ३५) यद् बुद्धानुभावेन अन्धाश् चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्रं विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्य् एवम् आदि | अपायपरित्राणत्वं बुद्धप्रभया तद्गतानां मोक्षणात् तदगमने च प्रतिष्ठापनात् | अनुपायपरित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात् | सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात् | हीनयानपरित्राणत्वम् अनियतगोत्राणां महायानैकायनीकरणात् |
SK
शरणम् अनुपमं तच्छ्रेष्ठबुद्धत्वम् इष्टं जननमरणसर्वक्लेशपापेषु रक्षा | विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां || AMस_९.९ ||
SK
अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति |
SK
बौद्धैर् धर्मैर् यच् च सुसंपूर्णशरीरं यत् सद्धर्मे वेत्ति स सत्वान् प्रविनेतुम् | यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठम् इह एष्यं शरणानाम् || AMस_९.१० ||
SK
अनेन चतुर्थेन यैः कारणैस् तत् तथानुत्तरं शरणं भवति तत् संदर्शयति | बौद्धैर् धर्मैर् बलवैशारद्यादिभिः सुसंपूर्णास्वभावत्वात् | स्वार्थनिष्ठाम् अधिकृत्य सद्धर्मसत्वविनयोपायज्ञानात् करुणापारगमनाच् च परार्थनिष्ठाम् अधिकृत्य |
SK
आलोकात् कालात् सर्वसत्वानां बुद्धत्वं शरणं महत् | सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम् || AMस_९.११ ||
SK
अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्वानां यत्रार्थे शरणं भवति तत् समासेन दर्शयति | यत्रार्थे इति सर्वव्यसनव्यावृत्तौ संपत्त्यभ्युदये च | आश्रयपरावृत्तौ षट् श्लोकाः |
SK
क्लेशज्ञेयवृतीनां सततम् अनुगतं बीजम् उत्कृष्टकालं यस्मिन्न् अस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः | बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आश्रयस्यान्यथाप्तिस् तत्प्राप्तिर् निर्विकल्पाद् विषयसुमहतो ज्ञानमार्गात् सुशुद्धात् || AMस_९.१२ ||
SK
अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश् चाश्रयपरिवृत्तिः परिदीपिता | (Mस ३६) यथा च तत्प्राप्तिर् द्विविधमार्गलाभात् | सुविशुद्धलोकोत्तरज्ञानमार्गलाभात् | तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच् च | उत्कृष्टकालम् इत्य् अनादिकालं | सुविपुलैः सर्वहानिप्रकारैर् इति भूमिप्रकारैः |
SK
स्थितश् च तस्मिन् स तथागतो जगन् महाचलेन्द्रस्थ इवाभ्युदीक्षते | शमाभिरामं करूणायते जनमघाभिरामे ऽन्यजने तु का कथा || AMस_९.१३ ||
SK
अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस् तद्विशेषं दर्शयति | तत्स्थो हि महाचलेन्द्रस्थ इव दूरान्तरनिकृष्टं लोकं पश्यति | दृष्ट्वा च करुणायते श्रावकप्रत्येकबुद्धान् अपि प्राग् एव तदन्यान् |
SK
प्रवृत्तिर् ऊद्धित्तिर् अवृतिर् आश्रयो निवृत्तिर् आवृत्तिर् अथो द्वयाद्वया | समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिर् इष्यते || AMस_९.१४ ||
SK
अनेन तृतीयेन तद्दशप्रभेदं दर्शयति | सा हि तथागतानां परिवृत्तिः परार्थवृत्तिर् इति प्रवृत्तिः | सर्वधर्मविशिष्टत्वाद् उत्कृष्टा वृत्तिर् इत्य् उद्वृत्तिः | संक्लेशहेताव् अवृत्तिः | आश्रय इति यो ऽसौ परिवृत्त्याश्रयस्तं दर्शयति | संक्लेशान् निवृत्तितो निवृत्तिः | आत्यन्तिकत्वाद् आयता वृत्तिर् इत्य् आवृत्तिः | अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या द्वया वृत्तिः | संसारनिर्वाणाप्रतिष्ठितत्वात् संस्कृतासंस्कृतत्वेनाद्वया वृत्तिः | विमुक्तिसामान्येन श्रावकप्रत्येकबुद्धसमा वृत्तिः | बलवैशारद्यादिभिः बुद्धधर्मैर् असमत्वाद् विशिष्टा वृत्तिः | सर्वयानोपदेशगतत्वात् सर्वगता वृत्तिः |
SK
यथाम्बरं सर्वगतं सदामतं तथैव तत् सर्वगतं सदामतम् | यथाम्बरं रूपगणेषु सर्वगं तथैव तत् सत्वगणेषु सर्वगम् || AMस_९.१५ ||
SK
अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति | आकाशसाधर्म्येणोद्देशनिर्देशतः पूर्वापरार्धाभ्यां | सत्वगणेषु सर्वगतत्वं बुद्धत्वस्यात्मत्वेन सर्वसत्वोपगमने परिनिष्पत्तितो वेदितव्यं |
SK
यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते | तथ दुष्टेषु सत्वेषु बुद्धबिम्बं न दृश्यते || AMस_९.१६ ||
SK
अनेन पञ्चमेन सर्वगतत्वे ऽप्यभाजनभूतेषु सत्वेषु अबुद्धबिम्बदर्शनं दृष्टान्तेन साधयति |
SK
यथाग्निर् ज्वलते ऽन्यत्र पुनर् अन्यत्र शाम्यति | बुद्धेष्व् अपि तथा ज्ञेयं संदर्शनमदर्शनम् || AMस_९.१७ ||
SK
अनेन षष्ठेन बुद्धविनेयेषु सत्सु बुद्धोत्पादात् तद्दर्शनं | विनीतेषु परिनिर्वाणात् तददर्शनं अग्निज्वलनशमनसाधर्म्येण साधयति | अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः |
SK
अघटितेभ्यस् तूर्येभ्यो यथा स्याच् छब्दसंभवः | तथा जिने विनाभोगं देशनायाः समुद्भवः || AMस_९.१८ ||
SK
यथा मणेर् विना यत्नं स्वप्रभावसनिदर्शनम् | बुद्धेष्व् अपि विनाभोगं तथा कृत्यनिदर्शनम् || AMस_९.१९ ||
SK
आभ्यां श्लोकाभ्याम् अनाभोगेन बुद्धकार्यं साधयत्य् अघटिततूर्यशब्दमणिप्रभावसाधर्म्येण |
SK
यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः | यथैवानास्रवे घातौ अविच्छिन्ना जिनक्रियाः || AMस_९.२० ||
SK
यथाकाशे क्रियाणां हि हानिर् अभ्युदयः सदा | यथैवानास्रवे धातौ बुद्धकार्योदयव्ययः || AMस_९.२१ ||
SK
आभ्याम् अप्य् अप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात् | आकाश इव लोकक्रियाणाम् अविच्छेदे ऽपि चान्यान्यक्रियोदयव्ययस् तथैव | अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः |
SK
पौर्वापर्याविशिष्टापि सर्वावरणनिर्मला | न शुद्धा नापि चाशुद्धा तथता बुद्धता मता || AMस_९.२२ ||
SK
पौर्वापर्येण विशिष्टत्वान् न शुद्धा | पश्चात् सर्वावरणनिर्मलत्वान् नाशुद्धा मलविगमात् |
SK
शून्यतायां विशुद्धायां नैरात्म्यान् मार्गलाभतः | बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम् || AMस_९.२३ ||
SK
तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते | किं कारणं | अग्रनैरात्म्यात्मकत्वात् | अग्रं नैरात्म्यं विशुद्धा तथता सा च बुद्धानाम् आत्मा स्वभावार्थेन तस्यां विशुद्धायाम् अग्रं नैरात्म्यम् आत्मानं बुद्धा लभन्ते शुद्धं | अतः शुद्धात्मलाभित्वात् बुद्धा आत्ममाहात्म्यं प्राप्ता इत्य् अनेनाभिसंधिना बुद्धानाम् अनास्रवे धातौ परमात्मा व्यवस्थाप्यते |
SK
न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते | तस्माद् बुद्धतथाप्रश्ने अव्याकृतनयो मतः || AMस_९.२४ ||
SK
तेनैव कारणेन बुद्धत्वं न भाव उच्यते | पुद्गलधर्माभावलक्षणत्वात् तदात्मकत्वाच् च बुद्धत्वस्य | नाभाव उच्यते तथतालक्षणभावात् | अतो बुद्धस्य भावाभावप्रश्ने भवति तथागतः परं मरणान् न भवतीत्य् एवमादिर् अव्याकृतनयो मतः |
SK
दाहशान्तिर् यथा लोहे दर्शने तिमिरस्य च | चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते || AMस_९.२५ ||
SK
यथा च लोहे दाहशान्तिर् दर्शने च तिमिरम् एतस्य शान्तिर् न भावो दाहतिमिरयोर् अभावलक्षणत्वात् | नाभावः शान्तिलक्षणेन भावात् | एवं बुद्धानां चित्तज्ञाने च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर् न भावः शस्यते तदभावप्रभावितत्वाच् चेतःप्रज्ञाविमुक्त्या नाभावस् तेन तेन विमुक्तिलक्षणेन भावात् |
SK
बुद्धानाम् अमले धातौ नैकता बहुता न च | आकाशवद् अदेहत्वात् पूर्वदेहानुसारतः || AMस_९.२६ ||
SK
बुद्धानाम् अनास्रवधातौ नैकत्वं पूर्वदेहानुसारेण | न बहुत्वं देहाभावाद् आकाशवत् |
SK
बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा | जगत्कुशलसस्येषु महामेघोपमा मता || AMस_९.२७ ||
SK
पुण्यज्ञानसुपूर्णत्वात् पूर्णचन्द्रोपमा मता | ज्ञानालोककरत्वाच् च महादित्योपमा मता || AMस_९.२८ ||
SK
एतौ रत्नाकरमेघोपमत्वे पूर्णचन्द्रमहादित्योपमत्वे च श्लोकौ गतार्थौ |
SK
अमेया रश्मयो यद्वद् व्यमिश्रा भानुमण्डले | सदैककार्या वर्तन्ते लोकम् आलोकयन्ति च || AMस_९.२९ ||
SK
यथैवानास्रवे धातौ बुद्धानाम् अप्रमेयता | मिश्रैककार्या कृत्येषु ज्ञानालोककरा मता || AMस_९.३० ||
SK
एकेन व्यामिश्ररश्म्य् एककार्यस्योपमतया साधरणकर्मतां दर्शयति | रश्मीनाम् एककार्यत्वं पाचनशोषणसमानकार्यत्वाद् वेदितव्यं | द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु |
SK
यथैकरश्मिनिःसारात् सर्वरश्मिविनिःसृतिः | भानोस् तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः || AMस_९.३१ ||
SK
एककाले सर्वरश्मिविनिःसृत्या स च बुद्धानाम् एककाले ज्ञानप्रवृत्तिं दर्शयति |
SK
यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् | तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम् || AMस_९.३२ ||
SK
यथा सूर्यैकमुक्ताभै रश्मिभिर् भास्यते जगत् | सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते || AMस_९.३३ ||
SK
ममत्वाभावे जगज्ज्ञेयप्रभासेन च | यथाक्रमं श्लोकौ गतार्थौ |
SK
यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् | तथैव बुद्धज्ञानानाम् आवृतिः सत्वदुष्टता || AMस_९.३४ ||
SK
यथा रश्मीनां मेघाद्यावरणम् अप्रभासेन | तथा बुद्धज्ञानानाम् आवरणं सत्वानाम् आभाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया |
SK
यथा पांशुवशाद् वस्त्रे रङ्गचित्राविचित्रता | तथा ऽवेधवशान् मुक्तौ ज्ञानचित्राविचित्रता || AMस_९.३५ ||
SK
यथा पांशुविशेषेण वस्त्रे रङ्गविचित्रता क्वचिद् अविचित्रता | तथैव पूर्वप्राणिधानचर्याबलाधानविशेषात्(Mस ४०) बुद्धानां विमुक्तौ ज्ञानविचित्रता भवति | श्रावकप्रत्येकबुद्धानां विमुक्ताव् अविचित्रता |
SK
गाम्भीर्यम् अमले धातौ लक्षणस्थानकर्मसु | बुद्धानाम् एतद् उदितं रङ्गैर् वाकाशचित्रणा || AMस_९.३६ ||
SK
एतद् अनास्रवधातौ बुद्धानां त्रिविधं गाम्भीर्यम् एवम् उक्तं | लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः | स्थानगाम्भीर्यं पञ्चमेनैकत्वपृथक्त्वाभ्याम् अस्थितत्वात् | कर्मगाम्भीर्यं दशभिः | तत् पुनर् लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणम् अव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तं | कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तं | सेयमनास्रवे धातौ निष्प्रपञ्चत्वाद् आकाशोपमे गाम्भीर्यप्रभेददेशना यथा रङ्गैर् आकाशचित्रणी वेदितव्या |
SK
सर्वेषाम् अविशिष्टापि तथता शुद्धिम् आगता | तथागतत्वं तस्माच् च तद्गर्भाः सर्वदेहिनः || AMस_९.३७ ||
SK
सर्वेषां निर्विशिष्टा तथता तद्विशुद्धिस्वभावश् च तथागतः | अतः सर्वे सत्वास् तथागतगर्भा इत्य् उच्यते | विभुत्वाविभागे श्लोका एकादश |
SK
श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते | प्रत्येकबुद्धेभ्यो मनःबुद्धभौमेन श्रावकस्याभिभूयते || AMस_९.३८ ||
SK
बोधिसत्वविभुत्वस्य तत्कलां नानुगच्छति | तथागतविभुत्वस्य तत्कलां नानुगच्छति || AMस_९.३९ ||
SK
आभ्यां तावद् द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति |
SK
अप्रमेयम् अचिन्त्यं च विभुत्वं बौद्धम् इष्यते | यस्य यत्र यथा यावत् काले यस्मिन् प्रवर्तते || AMस_९.४० ||
SK
अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथम् अप्रमेयं कथं वाचिन्त्यम् इत्य् आह | यस्य पुद्गलस्यार्थे तत् प्रवर्तते यत्र लोकधातौ यथा तादृशैः प्रकारैर् यावद् अल्पं (Mस ४१) वा बहु वा यस्मिन् काले | अवशिष्टैः श्लौकेः मनोवृत्तिभेदेन विभुत्वभेदं दर्शयति |
SK
पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् | सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये || AMस_९.४१ ||
SK
पञ्चेन्द्रियपरावृत्तौ द्विविधं विभुत्वं परमं लभ्यते | सर्वेषां पञ्चानाम् इन्द्रियाणां सर्वपञ्चार्थवृत्तौ | तत्र प्रत्येकं द्वादशगुणशतोत्पत्तौ |
SK
मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् | विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले || AMस_९.४२ ||
SK
मनसः परावृत्तौ विभुत्वानुचरे निर्विकल्पे सुविशुद्धे ज्ञाने परमं विभुत्वं लभ्यते | येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते |
SK
सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् | क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि || AMस_९.४३ ||
SK
अर्थपरावृत्तौ उद्ग्रहर्परावृत्तौ च क्षेत्रविशुद्धिविभुत्वं परमं लभ्यते येन यथाकामं भोगसंदर्शनं करोति |
SK
अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम् || AMस_९.४४ ||
SK
विकल्पपरावृत्तौ सर्वेषां ज्ञानानां कर्मणां च सर्वकालम् अव्याघाते परमं विभुत्वं लभ्यते |
SK
प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् | अप्रतिष्ठितनिर्वाणं बुद्धानाम् अचले मले पदे || AMस_९.४५ ||
SK
प्रतिष्ठापरावृत्ताव् अप्रतिष्ठितनिर्वाणं परमं विभुत्वं लभ्यते बुद्धानाम् अनास्रवे धातौ |
SK
मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् | बुद्धसौख्यविहारे ऽथ दारा ऽसंक्लेशदर्शने || AMस_९.४६ ||
SK
मैथुनस्य परावृत्तौ द्वयोर् बुद्धसुखविहारे च दारा ऽसंक्लेशदर्शने च |
SK
आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् | चिन्तितार्थसमृद्धौ च गतिरूपविभावने || AMस_९.४७ ||
SK
आकाशसंज्ञाव्यावृत्तौ द्वयोर् एव चिन्तितार्थसमृद्धौ च येन गगनगर्भो भवति | गतिरूपविभावने च यथेष्टगमनाद् आकाशवशीकरणाच् च |
SK
इत्य् अमेयपरावृत्ताव् अमेयविभुता मता | अचिन्त्यकृत्यानुष्ठानाद् बुद्धानाम् अमलाश्रये || AMस_९.४८ ||
SK
इत्य् अनेन मुखेनाप्रमेया परावृत्तिः | तत्र चाप्रमेयं विभुत्वम् अचिन्त्यकर्मानुष्ठानं बुद्धानाम् अनास्रवे धातौ वेदितव्यं | तस्यैव बुद्धस्य सत्वपरिपाकनिमित्तत्वे सप्त श्लोकाः |
SK
शुभे वृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् | व्रजत्य् एवं लोको दिशि दिशि जिनानां सुकथितैर् अपक्वः पक्वो वा न च पुनर् अशेषं ध्रुवम् इह || AMस_९.४९ ||
SK
अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति | उपचितकुशलमूलानां च विमुक्तौ परमतायाम् अनुपचितकुशलमूलानां च कुशलमूलोपचये | अपक्वः शुभवृद्धौ परमतां व्रजनपाकं व्रजति पक्वः सुविशुद्धौ परमतां व्रजति | एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात् |
SK
तथा कृत्वा चर्यां कृच्छ्रावाप्यां परमगुणयोगाद् भुतवर्ती महाबोधिं नित्यां ध्रुवम् अशरणानां च शरणम् | लभन्ते यद्धीरा दशदिग् सदा सदा सर्वसमयं तद् आश्चर्यं लोके सुविधचरणान् नाद्भुतम् अपि || AMस_९.५० ||
SK
अनेन द्वितीयेन परिपक्वानां बोधिसत्वानां परिपाकस्याश्चर्यं नाश्चर्यं | (Mस ४३) लक्षणं सदा सर्वसमयम् इति नित्यं निरन्तरं च तद् अनुभूय मार्गचरणं सुविधिचरणं |
SK
क्वचिद्धर्माञ् च कं धर्म्यं चक्रं बहुमुखशतैर् दर्शयति यः क्वचिज् जन्मान्तर्धिं क्वचिद् अपि विचित्रां जनचरीम् | क्वचित्कृत्स्नां बोधिं क्वचिद् अपि च निर्वाणम् असकृत् न च स्थानात् तस्माद् विचलति स सर्वं च कुरुते || AMस_९.५१ ||
SK
अनेन तृतीयेन युगपद्बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति | यथा यत्रस्थः सत्वान् विनयति | विचित्रा जनचरी जातकभेदेन | न च स्थानाच् चलतीत्य् अनास्रवाद् धातोः |
SK
न बुद्धानाम् एवं भवति मम पक्वो ऽयम् इति चाप्रपाच्यो ऽयं देही अपि च अधुनापाच्यत इति | विना संस्कारं तु प्रपचम् उपयात्य् एव जनता शुभैर् धर्मैर् नित्यं दिशि दिशि समन्तात् त्रयमुखम् || AMस_९.५२ ||
SK
अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वम् अनभिसंस्कारेण दशयति | त्रयमुखम् इति यानत्रयेण |
SK
यथायत्नं भानुः प्रततविषदैर् अंशविसरैः प्रपाककं सस्यानां दिशि दिशि समन्तात् प्रकुरूते | तथा धर्मार्को ऽपि प्रशमविधिधर्मांशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात् प्रकुरूते || AMस_९.५३ ||
SK
अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति |
SK
यथैकस्माद् दीपाद् भवति सुमहान् दीपनिचयो ऽप्रमेयो ऽसंख्येयो न च स पुनर् एति व्ययमतः | यथैकस्माद् बुद्धाद् पाकाभवति सुमहान् परिपाकपाकनिचयो ऽप्रमेयो ऽसंख्येयो न च पुनर् एति पुनर् उपैति व्ययमतः || AMस_९.५४ ||
SK
अनेन षष्ठेन परंपरया परिपाचनं |
SK
यथा तोयैस् तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः | तथा बौद्धौ धातुः सततसमितैः शुद्धिविशनैर् न तृप्तिं वृद्धिं वा व्रजति परमाश्चर्यम् इह तत् || AMस_९.५५ ||
SK
अनेन सप्तमेन परिपक्वानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोर् अतृप्तिं चावकाशदानाद् अवृद्धिं ध्यानाधिकत्वात् | धर्मधातुविशुद्धौ चत्वारः श्लोकाः |
SK
सर्वधर्मद्वयावारतथताशुद्धिलक्षणः | वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः || AMस_९.५६ ||
SK
एष स्वभावार्थम् आरभ्यैकः श्लोकः | क्लेशज्ञेयावरणद्वयात् सर्वधर्मतथताविशुद्धिलक्षणश् च | वस्तुतदालम्बनज्ञानयोर् अक्षयवशितालक्षणश् च |
SK
| सर्वतस् तथताज्ञानभावना समुदागमः | सर्वसत्वद्वयाधानसर्वथाक्षयता फलम् || AMस_९.५७ ||
SK
एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः | सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः | सर्वत इति सर्वधर्मपर्यायमुखैः | सर्वसत्वानां सर्वथा हितसुखद्वयाधानाक्षयता फलं |
SK
कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः | समाधिधारणीद्वारद्वयामेयसमन्वितः || AMस_९.५८ ||
SK
एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः | त्रिविधिं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः |
SK
स्वभावधर्मसंभोगनिर्माणैर् भिन्नवृत्तिकः | धर्मधातुर् विशुद्धो ऽयं बुद्धानां समुदाहृतः || AMस_९.५९ ||
SK
एष वृत्त्यर्थम् आरभ्य चतुर्थः श्लोकः | स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः | बुद्धकायविभागे सप्त श्लोकाः |
SK
स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः | कायभेदा हि बुद्धानां प्रथमस् तु द्वयाश्रयः || AMस_९.६० ||
SK
त्रिविधिः कायो बुद्धानां | स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः | सांभोगिको येन पर्षन्भण्डलेषु धर्मसंभोगं करोति | नैर्माणिको येन निर्माणेन सत्वार्थं करोति |
SK
सर्वधातुषु सांभोग्यो भित्रो गणपरिग्रहैः | क्षेत्रैश् च नामभिः कायैर् धर्मसंभोगचेष्टितैः || AMस_९.६१ ||
SK
तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनाम् अशरीरधर्मसंभोगक्रियाभिर् भिन्नः |
SK
समः सूक्ष्मश् च तच्छिष्टः कायः स्वाभाविको मतः | संभोगविभुताहेतुर् यथेष्टं भोगदर्शने || AMस_९.६२ ||
SK
स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया | सूक्ष्मो दुर्ज्ञानतया | तेन सांभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर् यथेष्टं भोगदर्शनाय |
SK
अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः | द्वयोर् द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता || AMस_९.६३ ||
SK
नैर्माणिकस् तु कायो बुद्धानाम् अप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वाथसंपत्तिलक्षणः | नैर्माणिकः परार्थसंपत्तिलक्षणः | एवं द्वयार्थसंपत्तिर् यथाक्रमं द्वयोः प्रतिष्ठिताः सांभोगिके च काये नैर्माणिके च |
SK
शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः | बुद्धनिर्माणकायो ऽयं महामायो महोपायो विमोचने || AMस_९.६४ ||
SK
स पुनर् निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः | जन्मनश् चाभिसंबोधेश् च (Mस ४६) निर्वाणस्य च दर्शनैर् विमोचने महोपायत्वात् परार्थसंपत्तिलक्षणो वेदितव्यः |
SK
त्रिभिः कायैस् तु विज्ञेयो बुद्धानां कायसंग्रहः | साश्रयः स्वपरार्थो यस् त्रिभिः कायैर् निर्दर्शितः || AMस_९.६५ ||
SK
त्रिभिश् च कायैर् बुद्धानां सर्वकायसंग्रहो वेदितव्यः | एभिस् त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः | द्वयोः स्वपरार्थप्रभावितत्वात् द्वयोश् च तदाश्रितत्वाद् यथा पूर्वम् उक्तं |
SK
आश्रयेणाशयेनापि कर्मणा ते समा मताः | प्रकृत्या ऽस्रंसनेनापि प्रबन्धेनैषु नित्यता || AMस_९.६६ ||
SK
ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर् निर्विशेषा आश्रयेण धर्मधातोर् अभिन्नत्वात् आशयेन पृथक् बुद्धाशयस्याभावात् | कर्मणा च साधारणकर्मकत्वात् | तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास् तथागता उच्यन्ते | प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात् | अस्रंसनेन सांभोगिकस्य धर्मसंभागो विच्छेदात् | प्रबन्धेन नैर्माणिकस्यान्तर्व्यये पुनः पुनर् निर्माणदर्शनात् | बुद्धज्ञानविभागे दश श्लोकाः |
SK
आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् | समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च || AMस_९.६७ ||
SK
चतुर्विधं बुद्धानां ज्ञानम् आदर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च | आदर्शज्ञानम् अचलं त्रीणि ज्ञानानि तदाश्रितानि चलानि |
SK
आदर्शज्ञानमममापरिच्छिन्नं सदानुगम् | सर्वज्ञेयेष्व् असंमूढं न च तेष्व् आमुखं सदा || AMस_९.६८ ||
SK
आदर्शज्ञानम् अममम् अपरिच्छिन्नं देशतः सदानुगं कालतः | सर्वज्ञेयेष्व् असंमूढं सदावरणविगमात् न च तेष्व् आमुखम् अनाकारत्वात् |
SK
सर्वज्ञाननिमित्तत्वान् महाज्ञानाकरोपमम् | संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच् च तत् || AMस_९.६९ ||
SK
तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात् सर्वज्ञानानामाकरोपमं | संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानम् इत्य् उच्यते |
SK
सत्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं मतम् | अप्रतिष्ठसशमाविष्टं समताज्ञानमिष्यते || AMस_९.७० ||
SK
यद्बोधिसत्वेनाभिसमयकालेषु समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बुधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते |
SK
महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् | यथाधिमोक्षं सत्वानां बुद्धबिम्बनिदर्शकम् || AMस_९.७१ ||
SK
महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्वानां बुद्धबिम्बनिदर्शकं | यतः केचित् सत्वास् तथागतं नीलवर्णं पश्यन्ति केचित् पीतवर्णम् इत्य् एवमादि |
SK
प्रत्यवेक्षणकं ज्ञाने ज्ञेयेष्व् अव्याहतं सदा | धारणीनां समाधीनां निधानोपमम् एव च || AMस_९.७२ ||
SK
परिषन्मण्डले सर्वविभूतीनां निदर्शकम् | सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम् || AMस_९.७३ ||
SK
प्रत्यवेक्षणकं ज्ञानं यथाश्लोकं |
SK
कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु | चित्राप्रमेयाचिन्त्यैश् च सर्वसत्वार्थकारकम् || AMस_९.७४ ||
SK
कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर् नानाप्रकारैर् अप्रमेयैर् अचिन्त्यैश् च सर्वसत्वार्थकरं |
SK
कृत्यनिष्पत्तिभिर् भेदैः संख्याक्षेत्रैश् च सर्वदा | अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच् च सर्वथा || AMस_९.७५ ||
SK
तच् च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यं | कृत्यक्रियाभेदतः संख्यातक्षेत्रतश् च |
SK
धारणात् समचित्ताच् च सम्यग्धर्मप्रकाशनात् | कृत्यानुष्ठानतश् चैव चतुर्ज्ञानसमुद्भवः || AMस_९.७६ ||
SK
तत्र धारणात् श्रुतानां धर्माणां | समचित्तता सर्वसत्वेष्व् आत्मपरसमतया | शेषं गतार्थं | बुद्धानेकत्वापृथक्त्वे श्लोकः |
SK
गोत्रभेदाद् अवैयर्थ्यात् साकल्याद् अप्य् अनादितः | अभेदान् नैकबुद्धत्वं बहुत्वं चामलाश्रये || AMस_९.७७ ||
SK
एक एव बुद्ध इत्य् एतन्न् एष्यते | किं कारणं | गोत्रभेदात् | अनन्ता हि बुद्धगोत्राः सत्वाः | तत्रैक एवाभिसंबुद्धो नान्ये ऽभिसंभोत्स्यन्त इति | कुत एतत् | पुण्यज्ञानसंभारवैयर्थ्यं च स्याद् अन्येषां बोधिसत्वानाम् अनभिसंबोधान् न च युक्तं वैयर्थ्यं | तस्माद् अवैयर्थ्याद् अपि नैक एव बुद्धः सत्वार्थक्रियासाकल्यं च न स्यात् | बुद्धस्य बुद्धत्वे कस्यचित् अप्रतिष्ठापनाद् एतच् च न युक्तं | न च कश्चिद् आदिबुद्धो ऽस्ति विना संभारेण बुद्धत्वायोगाद् विना चान्येन बुद्धेन संस्थानायोगाद् इत्य् अनादित्वाद् अप्य् एको बुद्धो न युक्तः | बहुत्वम् अपि नेष्यते बुद्धानां धर्मकायस्याभेदाद् अनास्रवे धातौ | बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः |
SK
या ऽविद्यमानता सैव परमा विद्यमानता | सर्वथा ऽनुपलम्भश् च उपलम्भः परो मतः || AMस_९.७८ ||
SK
या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन | यश् च सर्वथा ऽनुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्नस्वभावस्य |
SK
भावना परमा चेष्टा भावनाम् अविपश्यताम् | प्रतिलम्भः परश् चेष्टः प्रतिलम्भं च पश्यताम् || AMस_९.७९ ||
SK
सैव परमा भावना यो भावनाया अनुपलम्भः | स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः |
SK
पश्यतां गुरुत्वं तां दीर्घं निमित्तं वीर्यम् आत्मनः | मानिनां बोधिसत्वानां दूरे बोधिर् निरूप्यते || AMस_९.८० ||
SK
ये च गुरुत्वं बहुत्वं पश्यन्ति अद्भुतधर्मयुक्तं | दीर्घं च कालं पश्यन्ति तत्समुदागमाय | निमित्तं न पश्यन्ति चित्तालम्बनं | आत्मनश् च वीर्यं वयम् आरब्धवीर्या (Mस ५९) बुद्धत्वं प्राप्स्याम इति | तेषाम् एवं मानिनां बोधिसत्वानाम् औपलम्भिकत्वात् दूरे बोधिर् निरूप्यते |
SK
पश्यताम् कल्पनामात्रं सर्वम् एतद् यथोदितं | अकल्पबोधिसत्वानां प्राप्ता बोधिर् निरूप्यते || AMस_९.८१ ||
SK
कल्पनामात्रं त्व् एतत् सर्वम् इति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनाद् अकल्पबोधिसत्वानाम् अनुत्पत्तिकधर्मक्षान्तिलाभावस्थायाम् अर्थतः प्राप्तैव बोधिर् इत्य् उच्यते | बुद्धानाम् अन्योन्य नैककार्यत्वे चत्वारः श्लोकाः |
SK
भिन्नाश्रया भिन्नजलाश् च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः | जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः || AMस_९.८२ ||
SK
समुद्रविष्टाश् च भवन्ति सर्वा एकाश्रया एकमहाजलाश् च | मिश्रैककार्याश् च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम् || AMस_९.८३ ||
SK
भिन्नाश्रया भिन्नमताश् च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः | परीत्तसत्वार्थसदोपभोग्या भवन्ति बुद्धत्वम् असंप्रविष्टाः || AMस_९.८४ ||
SK
बुद्धत्वविष्टाश् च भवन्ति सर्वे एकाश्रया एकमहावबोधाः | मिश्रेककार्याश् च महोपभोग्याः सदा महासत्वगणस्य ते हि || AMस_९.८५ ||
SK
तत्र भिन्नाश्रय नद्यः स्वभाजनभेदात् | कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात् | तनूपभोग्या इत्य् अल्पानाम् उपभोग्याः | शेषं गतार्थं | बुद्धत्वप्रोत्सहने श्लोकः |
SK
इति निरुपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः | शुभपरमसुखाक्षयाकरत्वात् शुभमतिर् अर्हति बोधिचित्तम् आप्तुम् || AMस_९.८६ ||
SK
निरुपमशुल्कधर्मयोगात् स्वार्थसंपत्तितः | हितसुखहेतुत्वाच् च बुद्धत्वस्य परार्थसंपत्तिः | अनवद्योत्कृष्टाक्षयसुखाकरत्वाच् च सुखविहारो विशेषतः | बुद्धिमान् अहीनबोधिचित्तम् आदातुं तत्प्रणिधानपरिग्रहात् |
SK
महायानसूत्रालंकारे बोध्यधिकारो नवमः
SK
CHAPITRE X दशमो ऽधिकारः
SK
उद्दानम् आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः | स्वपरार्थस् तत्वार्थः प्रभावपरिपाकबोधिश् च || AMस_१०.१ ||
SK
एष च बोध्यधिकार आदिम् आरभ्य यावत् बोधिपटलानुसारेणानुगन्तव्यः | अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ |
SK
जाताजाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च | अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च || AMस_१०.२ ||
SK
जाता अतीतप्रत्युत्पन्ना | अजाता अनागता | ग्राहिका आध्यात्मिकी ययालम्बनम् अधिमुच्यते | ग्राह्यभूता बाह्या यानालम्बनत्वेनाधिमुच्यते | मित्रादात्ता औदारिकी | स्वात्मतः सूक्ष्मा | भ्रान्तिका हीना विपरीताधिमोक्षात् | अभ्रान्तिका प्रशान्ता | आमुखा अन्तिके समवहितप्रत्ययत्वात् | अनामुखा दूरे विपर्ययात् | घोषाचारा श्रुतमयी | एषिका चिन्तामयी | ईक्षिका भावनामयी प्रत्यवेक्षणात् |
SK
हार्या कीर्णा ऽव्यावकीर्णा विपक्षैर् हीनोदारा आवृता ऽनावृता च | युक्ता ऽयुक्ता संभृता ऽसंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः || AMस_१०.३ ||
SK
हार्या मृद्वी | व्यवकीर्णा मध्या | अव्यवकीर्णा विपक्षैर् अधिमात्रा | हीनाऽन्ययाने | उदारा महायाने | आवृता सावरणा विशेषगमनाय | अनावृता निरावरणा | युक्ता सातत्यसत्कृत्यप्रयोगात् | अयुक्ता तद्विरहिता | संभृताधिगमयोग्या | (Mस ५१) असंभृता विपर्ययात् | गाढं विष्टा भूमिप्रविष्टा | दूरगा परिशिष्टासु भूमिषु | अधिमुक्तिपरिपन्थे त्रयः श्लोकाः |
SK
अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः | कुमित्रं शुभदौर्बाल्यम् अयोनिशोमनस्क्रिया || AMस_१०.४ ||
SK
जाताया अमनसिकारबाहुल्यं परिपन्थः | अजातायाः कौशीद्यं ग्राह्यग्राहकभूताया योगविभ्रमस् तथैवाभिनिवेशात् | मित्रादात्तायाः कुमित्रं विपरीतग्राहणात् | स्वात्मतो ऽधिमुक्तेः कुशलमूलदौर्बल्यं | अभ्रान्ताया अयोनिशो अमनसिकारः परिपन्थस् तद्विरोधित्वात् |
SK
प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता | शममात्राभिमानश् च तथा ऽपरिजयो मतः || AMस_१०.५ ||
SK
आमुखायाः प्रमादस् तस्या अप्रमादकृतत्वात् | घोषाचाराया अल्पश्रुतत्वं नीतार्थसूत्रान्ताश्रवणात् | एषिकायाः श्रुतमात्रसंतुष्टत्वम् अल्पचिन्तासंतुष्टत्वं च | ईक्षिकायाश् चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश् च | हार्याव्यवकीर्णयोर् अपरिजयः परिपन्थः |
SK
अनुद्वेगस् तथोद्वेग आवृतिश् चाप्य् अयुक्तता | असंभृतिश् च विज्ञेयाऽधिमुक्तिपरिपन्थता || AMस_१०.६ ||
SK
हीनाया अनुद्वेगः संसारात् | उदाराया उद्वेगः | अनावृतायाश् चावृत्तिः | युक्ताया अयुक्तता | संभृताया असंभृतिः परिपन्थः | अधिमुक्ताव् अनुशंसे पञ्च श्लोकाः |
SK
पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् | अविप्रणाशः स्थैर्यं च विशेषगमनं तथा || AMस_१०.७ ||
SK
धर्माभिसमयश् चाथ स्वपरार्थाप्तिर् उत्तमा | क्षिप्राभिज्ञत्वम् एते हि अनुशंसाधिमुक्तितः || AMस_१०.८ ||
SK
जातायां प्रत्युत्पन्नायां पुण्यं महत् | अतीतायाम् अकौकृत्यम् अविप्रतिसारात् | ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात् | कल्याणमित्रजनितायाम् अविप्रणाशः | स्वयम् अधिमुक्तौ स्थैर्यं | भ्रान्तिकायामामुखायां श्रुतमयादिकायां च यावत् मध्यायां विशेषगमनं | अधिमात्रायां धर्माभिसमयः | हीनायां स्वार्थप्राप्तिः | उदारायां परार्थप्राप्तिः परमा | अनावृतयुक्तसंभृतादिषु शुल्कपक्षासु क्षिप्राभिज्ञत्वम् अनुशंसः |
SK
कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् | भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम् || AMस_१०.९ ||
SK
यथा श्वा दुःखार्तः सततम् अवितृप्तः क्षुधितको यथा कूर्मश् चासौ जलविवरके संकुचितकः | यथा भृत्यो नित्यम् उपचकितमूर्तिर् विचरति | यथा राजा राज्ञां विषये वशवर्ती विहरति |
SK
तथा कामिस्थातृस्वपरजनकृत्यार्थम् उदिते विशेषो विज्ञेयः सततम् अधिमुक्तया विविधया | महायाने तस्य विधिवद् इह मत्वा परमतां भृशं तस्मिन् धीरः सततम् इह ताम् एव वृणुयात् || AMस_१०.१० ||
SK
अपि खलु कामिनाम् अधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्या स्वार्थवतां भृत्योपमा | राजप्रख्या परार्थवतां | एतम् एवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति | अधिमुक्तिलयप्रतिषेधे श्लोकाः |
SK
मनुषष्य भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् | अप्रमेया यतः सत्वा लयं नातो ऽधिवासयेत् || AMस_१०.११ ||
SK
त्रिभिः कारणैर् लयो न युक्तः | यतो मनुषभूता बोधिं प्राप्नुवन्ति | नित्यं प्राप्नुवन्ति | अप्रमेयाश् च प्राप्नुवन्ति | अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ |
SK
यथा पुण्यं प्रसवते परेषां भोजनं ददत् | न तु स्वयं स भुञ्जानस् तथा पुण्यमहोदयः || AMस_१०.१२ ||
SK
सूत्रोक्तो लभ्यते धर्मात् परार्थाश्रयदेशितात् | न तु स्वार्थाश्रयाद् धर्माद् देशिताद् उपलभ्यते || AMस_१०.१३ ||
SK
यथा भोजनं ददतः पुण्यम् उत्पद्यते परार्थाधिकारात् | न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात् | एवं परार्थाश्रयदेशितात् महायानधर्मात् तेषु तेषु सूत्रेषूक्तः पुण्योदयो महांल् लभ्यते | न तु स्वार्थाश्रयदेशितात् श्रावकयानधर्मात् | अधिमुक्तिफलपरिग्रहे श्लोकः |
SK
इति विपुलगतौ महोघमहार्यधर्मे जनिय सदा मतिमान् महाधिमुक्तिम् | विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैर् असमैर् महात्मतां च || AMस_१०.१४ ||
SK
यत्र यादृश्याधिमुक्त्या यो यत्फलं परिगृह्लाति | विस्तीर्णे महायानधर्मे ऽपरिणीययोदाराधिमुक्त्या मतिमान् त्रिविधं फलं परिगृह्णाति | विपुलपुण्यवृद्धिं तस्या एवाधिमुक्तेर् वृद्धिं तद्धेतुकां चातुल्यगुणमहात्मतां बुद्धत्वं |
SK
महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः
SK
CHAPITRE XI एकादशो ऽधिकारः
SK
धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः
SK
पिटकत्रयं द्वयं वा संग्रहतः कारणैर् नवभिर् इष्टम् | वासनबोधनशमनप्रतिवेधैस् तद् विमोचयति || AMस_११.१ ||
SK
पिटकत्रयं सूत्रविनयाभिधर्माः | तद् एव त्रयं हीनयानाग्रयानभेदेन द्वयं भवति | श्रावकपिटकं बोधिसत्वपिटकं च | तत्पुनस् त्रयं द्वयं वा केनार्थेन पिटकम् इत्य् आह | संग्रहतः सर्वज्ञेयार्थसंग्रहाद् वेदितव्यं | केन कारणेन त्रयं | नवभिः कारणैर् विचिकित्साप्रतिपक्षेण सूत्रं यो यत्रार्थे संशयितस् तस्य तन्निश्चयार्थं देशनात् | अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्यानवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य | स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मो ऽविपरीतधर्मलक्षणाभिद्योतनात् | (Mस ५४) पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतो ऽविप्रतिसारादविप्रतिसारेण समाधिलाभात् | अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात् | पुनर् धर्मार्थदेशना सूत्रेण | धर्मार्थनिष्पत्तिर्विनयेन क्लेशविनयसंयुक्तसस्य तयोः प्रतिवेधात् | धर्मार्थसांकथ्यविनिश्चयकौशल्यम् अभिधर्मेणेति | एभिर् नभिः कारणैः पिटकत्रयम् इष्टं | तच् च संसाराद् विमोचनार्थं | कथं पुनस् तद् विमोचयति | वासनबोधशमनप्रतिवेधैस् तद् विमोचयति | श्रुतेन चित्तवासनतः | चिन्तया बोधनतः | भावनया शमथेन शमनतः | विपश्यनया प्रतिवेधतः |
SK
सूत्राभिधर्मविनयाश् चतुर्विधार्था मताः समासेन | तेषां ज्ञानाद् धीमान् सर्वाकारज्ञताम् एति || AMस_११.२ ||
SK
ते च सूत्रविनयाभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस् तेषां ज्ञानाद् बोधिसत्वः सर्वज्ञतां प्राप्नोति | श्रावकस् त्व् एकस्या अपि गाथाया अर्थम् आज्ञायास्रवक्ष्यं प्राप्नोति |
SK
आश्रयतो लक्षणतो धर्माद् अर्थाच् च सूचनात् सूत्रम् | अभिमुखतो ऽथाभीक्ष्ण्याद् अभिभवगतितो ऽभिधर्मश् च || AMस_११.३ ||
SK
कथं प्रत्येकं चतुर्विधार्थः | आश्रयक्षणधर्मार्थसूचनात् सूत्रं | तत्राश्रयो यत्र देशे देशितं येन यस्मै च | लक्षणं संवृतिसत्यलक्षणं परमार्थसत्यलक्षणं च | धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः | अर्थो ऽनुसंधिः | अभिमुखत्वाद् अभीक्ष्णत्वाद् अभिभवनाद् अभिगमनाच् चाभिधर्मो वेदितव्यः | निर्वाणाभिमुखो धर्मो ऽभिधर्मः सत्यबोधिपक्षविमोक्षमुखादिदेशनात् | अभीक्ष्णं धर्मो ऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात् | अभिभवतीत्य् अभिधर्मः परप्रवादाभिभवनाद् विवादाधिकरणादिभिः | अभिगम्यते सूत्रार्थ एतेनेत्य् अभिधर्मः |
SK
आपत्तेर् उत्थानाद् व्युत्थानान् निःसृतेश् च विनयत्वम् | पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच् चैव || AMस_११.४ ||
SK
आपत्तितः समुत्थानतो व्युत्थानतो निःसरणतश् च वेदितव्यः | तत्रापत्तिः (Mस ५५) पञ्चापत्तिनिकायाः | समुत्थानम् आपत्तीनाम् अज्ञानात् प्रमादात् क्लेशप्राचुर्यादनादराच् च | व्युत्थानम् आशयतो न दण्डकर्मतः | निःसरणं सप्तविधं | प्रतिदेशना | अभ्युपगमः शिक्षादत्तकादीनां दण्डकर्मणः | समवद्योतः प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण | अज्ञानात् प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्थ प्रतिप्रस्रम्भणात् | आश्रयपरिवृत्तिर् भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनाद् असाधारणा वेदापत्तिः | भूतप्रत्यवेक्षा धर्मोद्दानाकरैः प्रत्यवेक्षाविशेषः | धर्मताप्रतिलम्भश् च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्नाभावे धर्मप्रतिलम्भात् | पुनश् चतुर्विधेनार्थेन विनयो वेदितव्यः | पुद्गलतो यम् आगम्य शिक्षा प्रज्ञप्यते | प्रज्ञप्तितो यदा ऽरोचिते पुद्गलापराधे शास्ता संनिपात्य संघशिक्षां प्रज्ञापयति | प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तद् उद्देशस्य विभागः | विनिश्चयतश् च तत्रापत्तिः कथं भवत्य् अनापत्तिर् वेति निर्धारणात् | आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः |
SK
आलम्बनं मतो धर्मः आध्यात्मं बाह्यकं द्वयम् | लाभो द्वयोर् द्वयार्थेन द्वयोश् चानुपलम्भतः || AMस_११.५ ||
SK
..... बाह्यम् आध्यात्मिकं बाह्यं च | तत्र ग्राहकभूतं कायादिकमाध्यात्मिकं ग्राह्यभूतं बाह्यं तयोर् एव तथताद्वयं | तत्र द्वयोर् आध्यात्मिकबाह्ययोर् आलम्बनयोर् द्वयार्थेन लाभो यथाक्रमं | यदि ग्राह्यार्थाद् ग्राहकार्थम् अभिन्नं पश्यति ग्राहकार्थाच् च ग्राह्यार्थं द्वयस्य पुनः समस्तस्याध्यात्मिकबाह्यालम्बनस्य तथताया लाभस् तयोर् एव द्वयोर् अनुपलम्भाद् वेदितव्यः |
SK
मनोजल्पैर् यथोक्तार्थप्रसन्नस्य प्रधारणात् | अर्थख्यानस्य जल्पाच् च नाम्नि स्थानाच् च चेतसः || AMस_११.६ ||
SK
धर्मालम्बनलाभः स्यात् त्रिभिर् ज्ञानैः श्रुतादिभिः | त्रिविधालम्बनलाभश् च पूर्वोक्तस् तत् समाश्रितः || AMस_११.७ ||
SK
धर्मालम्बनलाभः पुनस् त्रिभिर् ज्ञानैर् भवति श्रुतचिन्ताभावनामयैः | तत्र समाहितेन चेतसा मनोजल्पैर् यथोक्तार्थप्रसन्नस्य तत्प्रधारणात् | श्रुतमयेन ज्ञानेन तल्लाभः मनोजल्पैर् इति संकल्पैः | प्रसन्नस्येत्य् अधिमुक्तस्य निश्चितस्य | प्रधारणाद् इति प्रविचयात् | जल्पाद् अर्थख्यानस्य प्रधारणाच् चिन्तामयेन तल्लाभः | यदि मनोजल्पाद् एवायम् अर्थः ख्यातीति पश्यति नान्यन् मनोजल्पाद् यथोक्तं द्वयालम्बनलाभे | चित्तस्य नाम्नि स्थानात् भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद् यथोक्तं द्वयालम्बनलाभे | अत एव च स पूर्वोक्तस् त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः | मनसिकारपर्येष्टौ पञ्च श्लोकाः |
SK
त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः | अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः || AMस_११.८ ||
SK
हीनपूर्णाश्रयो द्वेधा सजल्पो ऽजल्प एव च | ज्ञानेन संप्रयुक्तश् च योगोपनिषदात्मकः || AMस_११.९ ||
SK
संभिन्नालम्बनश् चासौ विभिन्नालम्बनः स च | पञ्चधा सप्तधा चैव परिज्ञा पञ्चधा ऽस्य च || AMस_११.१० ||
SK
चत्वारः सप्तत्रिंशच् च आकारा भावनागताः | मार्गद्वयस्वभावो ऽसौ द्व्यनुशंसः प्रतीच्छकः || AMस_११.११ ||
SK
प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः | योगिनां हि मनस्कार एष सर्वात्मको मतः || AMस_११.१२ ||
SK
अष्टादशविधो मनस्कारः | धातुनियतः कृत्यकर आश्रयविभक्तो ऽधिमुक्तिनिवेशकश् च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावो ऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश् च | तत्र धातुनियतो यः श्रावकादिगोत्रनियतः | कृत्यकरो यः संभृतसंभारस्य | आश्रयविभक्तो यः ससंबाधगृहस्थाश्रयो ऽसंबाधप्रव्रजिताश्रयश् च | अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः | च्छन्दजनको (Mस ५७) यस् तत् संप्रत्ययसहगतः | समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचारमात्रावितर्काविचारसहगतश् च | ज्ञानसंप्रयुक्तो यो योगोपनिषद् योगसहगतः स पुनर्यथाक्रमं श्रुतचिन्तामन्यो भावनामयश् च | संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्गृहीतयावद्देशितालम्बनः | विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्गलनैरात्म्यालम्बनो धर्मनैरात्म्यालम्बनो रूपिधर्मालम्बनो ऽरूपिधर्मालम्बनश् च | तत्र रूपिधर्मालम्बनो यः कायालम्बनः | अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः | परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेये ऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च | तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयो ऽर्थस् तस्यैवानित्यदुःखशून्यानात्मता | परिज्ञा मार्गः | परिज्ञाफलं विमुक्तिः | तत्प्रवेदना विमुक्तिज्ञानदर्शनं | भावनाकारप्रविष्टश् चतुराकारभावनः सप्तत्रिंशदाकारभावनश् च | तत्र चतुराकारभावनः पुद्गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश् च | तत्र सप्तत्रिंशदाकारभावनः | अशुभाकारभावनो दुःखाकारभावनो ऽनित्याकारभावनो ऽनात्माकारभावनः स्मृत्युपस्थानेषु | प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावनाकारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु | संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति | विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यम् आरभते यथाक्रमं | औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति | लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति | एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः | स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश् चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु | एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु | संबोधिसंप्रख्यानाकारभावनस् तत्रैव विचयोत्साहसौमनस्यकर्मण्यता चित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु | प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचारकारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनो ऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश् च मार्गाङ्गेषु | शमथविपश्यनाभावनामार्गस्वभावयोर् न कश्चिन् निर्देशः | अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो (Mस ५८) दृष्टिनिमित्तापकर्षणश्च | प्रतीच्छको यो धर्मस्रोतसि बुद्धबोधिसत्वानाम् अन्तिकाद् अववादग्राहकः | प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे | संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्याम् उपलक्षयते | वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिम् उपलक्षयते परिमाणवृत्तिं च व्यञ्जनानाम् अपरिमाणवृत्तिं च नामपदयोः | परिकल्पोपलक्षणप्रायोगिको येन द्वयम् उपादाय द्वयपरिकल्पम् उपलक्षयते | नामपरिकल्पम् उपादायार्थपरिकल्पम् अर्थपरिकल्पमुपादाय नामपरिकल्पम् अपरिकल्पम् अक्षरं | क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकाम् अर्थग्रहणप्रवृत्तिम् उपलक्षयते | प्रतिवेधप्रायोगिकश् च | स पुनर् एकादशविधो वेदितव्य आगन्तुकत्वप्रतिवेधतः संप्रख्याननिमित्तप्रतिवेधतो ऽर्थानुपलम्भप्रतिवेधत उपलम्भानुपलम्भप्रतिवेधतो धर्मधातुप्रतिवेधतः पुद्गलनैरात्म्यप्रतिवेधतो धर्मनैरात्म्यप्रतिवेधतो हीनाशयप्रतिवेधत उदारमाहात्म्याशयप्रतिवेधतो यथाधिगमधर्मव्यवस्थानप्रतिवेधतो व्यवस्थापितधर्मप्रतिवेधतश् च | वशवर्तिमनस्कारस्रिविधः आवरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धो गुणाभिनिर्हारसुविशुद्धश् च | धर्मतत्वपर्येष्टौ द्वौ श्लोकौ |
SK
तत्वं यत् सततं द्वयेन रहितं भ्रान्तेश् च संनिश्रयः शक्यं नैव च सर्वथाभिलपितुं यञ् चाप्रपञ्चात्मकम् | ज्ञेयं हेयम् अथो विशोध्यममलं यच् च प्रकृत्या मतम् यस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिर्मता || AMस_११.१३ ||
SK
सततं द्वयेन रहितं तत्वं परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्वात् | भ्रान्तेः संनिश्रयः परतन्त्रस् तेन तत्परिकल्पनात् | अनभिलाप्यम् अप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः | तत्र प्रथमं तत्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिः | न ह्य् आकाशादीनि प्रकृत्या अशुद्धानि | न चागन्तुकमलापगमाद् एषां विशुद्धिर् नेष्यत इति |
SK
न खलु जगति तस्माद् विद्यते किंचिद् अन्यज् जगद् अपि तद् अशेषं तत्र संमूढबुद्धि | कथम् अयम् अभिरूढो लोकमोहप्रकारो यदसदभिनिविष्टः सत्समन्ताद् विहाय || AMस_११.१४ ||
SK
न खलु तस्माद् एवंलक्षणाद् धर्मधातोः किंचित् अन्यल् लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात् | शेषं गतार्थं | तत्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः |
SK
यथा माया तथाऽभूतपरिकल्पो निरुच्यते | यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते || AMस_११.१५ ||
SK
यथा माया यन्त्रपरिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकं तथाभूतपरिकल्पः परतन्त्रः स्वभावो वेदितव्यः | यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस् तद्भावेन प्रतिभासिता तथा तस्मिन्न् अभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेन प्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या |
SK
यथा तस्मिन् न तद्भावः परमार्थस् तथेष्यते | यथा तस्योपलब्धिस् तु तथा संवृतिसत्यता || AMस_११.१६ ||
SK
यथा तस्मिन् न तद्भावो मायाकृते हस्तित्वाद्यभावस् तथा तस्मिन् परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः | यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिस् तथाभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः |
SK
तदभावे यथा व्यक्तिस् तन्निमित्तस्य लभ्यते | तथाश्रयपरावृत्ताव् असत्कल्पस्य लभ्यते || AMस_११.१७ ||
SK
यथा मायाकृत्यस्याभावे तस्य निमित्तस्य काष्ठादिकस्य व्यक्तिर् भूतार्थोपलभ्यते तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावाद् अभूतपरिकल्पस्य भूतो ऽर्थ उपलभ्यते |
SK
तन्निमित्ते यथा लोको ह्य् अभ्रान्तः कामतश् चरेत् | परावृत्ताव् अपर्यस् तः कामचारी तथा पतिः यतिः || AMस_११.१८ ||
SK
यथा तन्निमित्ते काष्ठादाव् अभ्रान्तो लोकः कामतश् चरति स्वतन्त्रस् तथा ऽश्रयपरावृत्त्वपर्यस्त आर्यः कामचारी भवति स्वतन्त्रः |
SK
तदाकृतिश् च तत्रास्ति तद्भावश् च न विद्यते | तस्माद् अस्तित्वनास्तित्वं मायादिषु विधीयते || AMस_११.१९ ||
SK
एष श्लोको गतार्थः
SK
न भावस् तत्र चाभावो नाभावो भाव एव च | भावाभावाविशेषश् च मायादिषु विधीयते || AMस_११.२० ||
SK
न भावस् तत्र चाभावो यस् तदाकृतिभावो नासौ न भावः | नाभावो भाव एव च यो हस्तित्वाद्यभावो नासौ न भावः | तयोश् च भावाभावयोर् अविशेषो मायादिषु विधीयते | य एव हि तत्र तदाकृतिभावः | स एव हस्तित्वाद्यभावः | य एव हस्तित्वाद्यभावः स एव तदाकृतिभावः |
SK
तथा द्वयाभतात्रास्ति तद्भावश् च न विद्यते | तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते || AMस_११.२१ ||
SK
तथा ऽत्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश् च नास्ति | तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते ऽभूतपरिकल्पस्वभावेषु |
SK
न भावस् तत्र चाभावो नाभावो भाव एव च | भावाभावाविशेषश् च रूपादिषु विधीयते || AMस_११.२२ ||
SK
न भावस् तत्र चाभावः | या द्वयाभासता | नाभावो भाव एव च | या द्वयता नास्तिता | भावाभावाविशेषश् च रूपादिषु विधीयते | य एव हि आभासताया भावः स एव द्वयस्याभाव इति |
SK
समारोपापवादाभप्रतिषेधार्थम् इष्यते | हीनयानेन यानस्य प्रतिषेधार्थम् एव च || AMस_११.२३ ||
SK
किम् अर्थं पुनर् अयं भावाभावयोर् ऐकान्तिकत्वम् अविशेषश् चेष्यते | यथाक्रमं | समारोपापवादाभप्रतिषेधार्थम् इष्यते | हीनयानगमनप्रतिषेधार्थं च | अभावस्य ह्य् अभावत्वं विदित्वा समारोपं न करोति | भावस्य भावत्वं विदित्वापवादं न करोति | तयोश् चाविशेषं विदित्वा न भावाद् उद्विजयते तस्मान् न हीनयानेन निर्याति |
SK
भ्रान्तेर् निमित्तं भ्रान्तिश् च रूपविज्ञप्तिर् इष्यते | अरूपिणी च विज्ञप्तिर् अभावात् स्यान् न चेतरा || AMस_११.२४ ||
SK
रूपभ्रान्तेर् या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिर् इष्यते रूपाख्या | सा तु (Mस ६१) रूपभ्रान्तिर् अरूपिणी विज्ञप्तिः | अभावाद् रूपाविज्ञप्तेर् इतरापि न स्याद् अरूपिणी विज्ञप्तिः | कारणाभावात् |
SK
मायाहस्त्याकृतिग्राहभ्रान्तेर् द्वयम् उदाहृतम् | द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते || AMस_११.२५ ||
SK
बिम्बसंकलिकाग्राहभ्रान्तेर् द्वयम् उदाहृतम् | द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते || AMस_११.२६ ||
SK
मायाहस्त्याकृतिग्राह्यभ्रान्तितो द्वयम् उदाहृतं | ग्राह्यं ग्राहकं च तत्र यथा नास्ति द्वयं चैवोपलभ्यते | प्रतिबिम्बं संकलिकां च मनसिकुर्वतः तद्ग्राहभ्रान्तेर् द्वयम् उदाहृतं पूर्ववत् |
SK
तथा भावात् तथाभावाद् भावाभावविशेषतः | सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः || AMस_११.२७ ||
SK
ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास् ते सदसन्तो मायोपमाश् च | किं कारणं | सन्तस् तथा भावाद् अभूतपरिकल्पत्वेन | असन्तस् तथा ऽभावात् ग्राह्यग्राहकत्वेन | तयोश् च भावाभावयोर् अविशिष्टत्वात् सन्तो ऽप्य सन्तो ऽपि मायापि चैवंलक्षणास् तस्मान् मायोपमाः |
SK
तथा ऽभावात् तथा ऽ; भावात् तथा ऽभावाद् अलक्षणाः | मायोपमाश् च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः || AMस_११.२८ ||
SK
ये ऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस् ते ऽप्यलक्षणा मायाश् च निर्दिष्टाः | किं कारणं तथा ऽभावाद् यथा बालैर् गृह्यन्ते | तथा ऽभावाद् यथा देशिताः | तथा ऽभावाद् यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः | एवम् अलक्षणा अविद्यमानाश् च ख्यान्ति तस्मान् मायोपमाः |
SK
मायाराजैव चान्येन मायाराज्ञा पराजितः | ये सर्वधर्मान् पश्यन्ति निर्मारास् ते जिनात्मजाः || AMस_११.२९ ||
SK
ये प्रातिपक्षिका धर्मास् ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्यात् | ये ऽपि सांक्लेशिका धर्मास् ते ऽपि राजस्थानीयाः संक्लेशनिर्वृत्ताव् आधिपत्यात् | अतस् तैः प्रातिपक्षिकैः संक्लेशपराजयो मायाराज्ञेव राज्ञः पराजयो द्रष्टव्यः | तज्ज्ञानाच् च बोधिसत्वा निर्मानाः] भवन्ति उभयपक्षे | औपम्यार्थे श्लोकः |
SK
मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः | षट् षट् द्वौ च पुनश् च षट् द्वयमता एकैकशश् च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर् विबुद्धोत्तमैः || AMस_११.३० ||
SK
यत् तूक्तं भगवता मायोपमा धर्मा यावन् निर्माणोपमा इति | तत्र मायोपमा धर्माः षडाध्यात्मिकान्य् आयतनानि | असत्य् आत्मजीवादित्वे तथा प्रख्यानात् | स्वप्नोपमाः षट् बाह्यान्य् आयतनानि तदुपभोगस्यावस्तुकत्वात् | मरीचिकोपमौ द्वौ धर्मो चित्तं चैतसिकाश् च भ्रान्तिकरत्वात् | प्रतिबिम्बोपमाः पुनः षड् एवाध्यात्मिकान्य् आयतनानि पूर्वकर्मप्रतिबिम्बत्वात् | प्रतिभासोपमाः षड् एव बाह्यान्य् आयतनान्य् आध्यात्मिकानाम् आयतनानां छायाभूतत्वात् तदाधिपत्योत्पत्तितः | षट् द्वयं मताः षट् द्वयमताः | प्रतिश्रुत्कोपमा देशनाधर्माः | उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेर् उदकस्थानीयत्वाद् अच्छतया | निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहे ऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात् | ज्ञेयपर्येष्टौ श्लोकः |
SK
अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च | न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते || AMस_११.३१ ||
SK
अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः | न भूतो नाभूतो यस् तदनुकूलो यावन् निर्वेधभागीयः | अकल्पस् तथता लोकोत्तरं च ज्ञानं | न कल्पो (Mस ६३) नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानं | एतावच् च सर्वं ज्ञेयं | संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयं |
SK
स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः | विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः || AMस_११.३२ ||
SK
स्वधातुत इति भावाङ्गाद् आलयविज्ञानतः | द्वयाभासा इति ग्राह्यग्राहकाभासाः | सहाविद्यया क्लेशैश् च वृत्तिर् एषां त इमे साविद्याक्लेशवृत्तयः | द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च | एवं क्लेशः पर्येषितव्यः |
SK
आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः | त एव ह्य् अद्वयाभासा वर्तन्ते चर्मकाण्डवत् || AMस_११.३३ ||
SK
आलम्बनविशेषाप्तिर् इति यो धर्मालम्बनलाभः पूर्वम् उक्तः | स्वधातुस्थानयोगत इति स्वधातुर् विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच् चेतसः | योगत इत्य् अभ्यासात् | भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य | चर्मवत् काण्डवच् च | यथा हि खरत्वापगमात् तद् एव चर्म मृदु भवति | अग्निसंतापनया तद् एव काण्डं ऋजु भवति | एवं शमथविपश्यनाभावनाभ्यां चेतःप्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर् द्वयाभासाः प्रवर्तन्ते इत्य् एव व्यवदानं पर्येषितव्यं | विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ |
SK
चित्तं द्वयप्रभासं रागाद्याभासम् इष्यते तद्वत् | श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति || AMस_११.३४ ||
SK
चित्तमात्रम् एव द्वयप्रतिभासम् इष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च | तथा रागादिक्लेशाभासं तद् एवेष्यते | श्रद्धादिकुशलधर्माभासं वा | न तु तदाभासाद् अन्यः क्लिष्टो धर्मो ऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः |
SK
यथा द्वयप्रतिभासाद् अन्यो न द्वयलक्षणः | इति चित्तं चित्राभासं चित्राकारं प्रवर्तते || AMस_११.३५ ||
SK
तथाभासाभावाभावो न तु धर्माणां मतः | तत्र चित्तम् एव वस्तु तच् चित्राभासं (Mस ६४) प्रवर्तते | पर्यायेण रागाभासं वा द्वेषाभासं वा तदन्यधर्माभासं वा | चित्राकारं च युगपत् श्रद्धाद्याकारं | भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि | न तु धर्माणां कुशलानां तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात् | लक्षणपर्येष्टौ श्लोका अष्टौ | एकेनोद्देशः शेषैर् निर्देशः |
SK
लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः | अनुग्रहार्थं सत्वानां संबुद्धैः संप्रकाशिता || AMस_११.३६ ||
SK
अनेनोद्देशः |
SK
सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता | लक्ष्यम् एतत् समासेन ह्य् अप्रमाणं प्रभेदतः || AMस_११.३७ ||
SK
तत्र चित्तं विज्ञानं रूपं च | दृष्टिश् चैतसिका धर्माः | तत्रावस्था चित्तविप्रयुक्ता धर्माः | अविकारिता असंस्कृतम् आकाशादिकं तद्विज्ञप्तेर् नित्यं तथाप्रवृत्तेः | इत्य् एतत् समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणं |
SK
यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना | तस्माद् अप्य् अर्थविख्यानं परिकल्पितलक्षणं || AMस_११.३८ ||
SK
लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणं | तत्र परिकल्पितलक्षणं त्रिविधं यथाजल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच् च वासनाद्यो ऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया | तत्र यथा ऽभिलापम् अर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा | तस्या यद् आलम्बनं तन्निमित्तम् एवं यच् च परिकल्प्यते यतश् च कारणाद् वासनतस् तद् उभयं परिकल्पितलक्षणमत्राभिप्रेतं |
SK
यथा नामार्थम् अर्थस्य नाम्नः प्रख्यानता च या | असंकल्पनिमित्तं हि परिकल्पितलक्षणम् || AMस_११.३९ ||
SK
अपरपर्यायो यथा नाम चार्थश् च यथानामार्थम् अर्थस्य नाम्नश् च प्रख्यानता यथानामार्थप्रख्यानता | यदि यथानामार्थः ख्याति यथार्थं वा नाम इत्य् एतद् अभूतपरिकल्पालम्बनं परिकल्पितलक्षणं एतावद् धि परिकल्प्यते यद् उत नाम वा अर्थो वेति | त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः | अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम् || AMस_११.४० ||
SK
त्रिविधस् त्रिविधश् चाभासो ऽस्येति त्रिविधत्रिविधाभासः | तत्र त्रिविधाभासः पदाभासो ऽर्थाभासो देहाभासश् च | पुनस् त्रिविधाभासो मनौद्ग्रहविकल्पाभासः | मनो यत् क्लिष्टं सर्वदा | उद्ग्रहः पञ्च विज्ञानकायाः | विकल्पो मनोविज्ञानं | तत्र प्रथमत्रिविधाभासो ग्राह्यलक्षणः | द्वितीयो ग्राहकलक्षणः | इत्य् अयम् अभूतपरिकल्पः परतन्त्रस्य लक्षणं |
SK
अभावभावता या च भावाभावसमानता | अशान्तशान्ता ऽकल्पा च परिनिष्पन्नलक्षणम् || AMस_११.४१ ||
SK
परिनिष्पन्नलक्षणं पुनस् तथता सा ह्य् अभावता च सर्वधर्माणां परिकल्पिता नाभावता च तदभावत्वेन भावात् | भावाभावसमानता च तयोर् भावाभावयोर् अभिन्नत्वात् | अशान्ता चागन्तुकैर् उपक्लेशैः शान्ता च प्रकृतिपरिशद्धत्वात् | अविकल्पा च विकल्पागोचरत्वात् निष्प्रपञ्चतया | एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्लेशव्यवदानलक्षणम् अविकल्पलक्षणं च | उक्तं त्रिविधं लक्षनां |
SK
निष्पन्दधर्मम् आलम्ब्य योनिशो मनसिक्रिया | चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना || AMस_११.४२ ||
SK
लक्षणा पुनः पञ्चविधा योगभूमिः | आधार आधानम् आदर्श आलोक आश्रयश् च | तत्राधारो निष्पन्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्पन्दः | आधानं योनिशो मनस्कारः | आदर्शः चित्तस्य धातौ स्थानं समाधिर् यद् एतत् पूर्वं नाम्नि स्थानम् उक्तं | आलोकः सदसत्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा तथा सच् च सतो यथाभूतं पश्यत्य् असच्चासतः | आश्रय आश्रयपरावृत्तिः |
SK
समतागमनं तस्मिन्न् आर्यगोत्रं हि निर्मलम् | समं विशिष्टम् अन्यूनानधिकं लक्षणा मता || AMस_११.४३ ||
SK
समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैर् आर्यैः | तच् च निर्मलम् आर्यगोत्रं बुद्धानां | समं विमुक्तिसमतया श्रावकप्रत्येकबुद्धैः | विशिष्टं पञ्चभिर् विशेषैः | विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः | परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः | कायविशेषेण धर्मकायतया | संभोगविशेषेण पर्षन्मण्डलेष्व् अविच्छिन्नधर्मसंभोगप्रवर्तनतः | कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्वार्थक्रियानुष्ठानतः | न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्य् एषा (Mस ६६) पञ्चविधा योगभूमिर् लक्षणा | तथा हि तल्लक्ष्यं च लक्ष्यते | विमुक्तिपर्येष्टौ षट् श्लोकाः |
SK
पदार्थदेहनिर्भासपरावृत्तिर् अनास्रवः | धातुर् बीजपरावृत्तेः स च सर्वत्रगाश्रयः || AMस_११.४४ ||
SK
बीजपरावृत्तेर् इत्य् आलयविज्ञानपरावृत्तितः | पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिर् अनास्रवो धातुर् विमुक्तिः | स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः |
SK
चतुर्धा वशिता वृत्तेर् मनसश् चोद्ग्रहश् च च | विकल्पस्याविकल्पे हि क्षेत्रे ज्ञाने ऽथ कर्मणि || AMस_११.४५ ||
SK
मनसश् चोद्ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेर् इत्य् अर्थः | चतुर्धा वशिता भवति यथाक्रमम् अविकल्पे क्षेत्रे ज्ञानकर्मणोश् च |
SK
अचलादित्रिभूमौ च वशिता सा चतुर्विधा | द्विधैकस्यां तदन्यस्याम् एकैका वशिता मता || AMस_११.४६ ||
SK
सा चेयम् अचलादिभूमित्रये चतुर्धा वशिता वेदितव्या | एकस्याम् अचलायां भूमौ द्विविधा | अविकल्पे न चानभिसंस्कारनिर्विकल्पत्वात् | क्षेत्रे च बुद्धक्षेत्रपरिशोधनात् | तदन्यस्यां भूमाव् एकैका वशिता साधुमत्यं ज्ञानवशिता प्रतिसंविद्विशेषलाभात् | धर्ममेधायां कर्मण्यभिज्ञाकर्मणाम् अव्याघातात् |
SK
विदित्वा नैरात्म्यं द्विविधम् इह धीमान् भवगतं समं तच् च ज्ञात्वा प्रविशति स तत्वं ग्रहणतः | ततस् तत्र स्थानान् मनस इह न ख्याति तद् अपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः || AMस_११.४७ ||
SK
अपरो विमुक्तिपर्यायः | द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्वः समं तच् च ज्ञात्वा द्विविधिनैर् आत्म्यं परिकल्पितपुद्गलाभावात् परिकल्पितधर्माभावात् न तु सर्वथैवाभावतः | तत्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रम् एतद् इति | ततस् तत्र तत्वविज्ञप्तिमात्रस्थानान् मनसस् तद् अपि तत्वं न ख्याति (Mस ६७) विज्ञप्तिमात्रं | तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्गलधर्मयोर् अनुपलम्भात् |
SK
आधारे संभाराद् आधाने सति हि नाममात्रं पश्यन् | पश्यति हि नाममात्रं तत्पश्यंस् तच् च नैव पश्यति भूयः || AMस_११.४८ ||
SK
अपरपर्यायः | आधार इति श्रुतौ संभाराद् इति संभृतसंभारस्य पूर्वसंभारलाभात् | आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्न् इत्य् अभिलापमात्रम् अर्थरहितं | पश्यति हि नाममात्रम् इति विज्ञप्तिमात्रं नाम अरूपिणश् चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस् तद् अपि भूयो नैव पश्यत्य् अर्थभावे तद्विज्ञप्त्यदर्शनाद् इत्य् अयम् अनुपलम्भो विमुक्तिः |
SK
चित्तम् एतत् सदौष्ठुल्यम् आत्मदर्शनपाशितम् | प्रवर्तते निवृत्तिस् तु तद् अध्यात्मस्थितेर् मता || AMस_११.४९ ||
SK
अपरप्रकारश् चित्तम् एतत् सदौष्ठुल्यं प्रवर्तते जन्मसु | आत्मदर्शनपाशितम् इति दौष्ठुल्यकारणं दर्शयति | द्विविधेनात्मदर्शनेन पाशितमतः सदौष्ठुल्यम् इति | निवृत्तिस् तु तद् अध्यात्मस्थितेर् इति तस्य चित्तस्य चित्त एवावस्थानाद् आलम्बनानुपलम्भतः | निःस्वभावतापर्येष्टौ श्लोकद्वयं
SK
स्वयं स्वेनात्मना ऽभावात् स्वभावे चानवस्थितेः | ग्राहवत्तदादभावाच् च निःस्वभावत्वम् इष्यते || AMस_११.५० ||
SK
स्वयम् अभावान् निःस्वभावत्वं धर्माणां प्रत्ययाधीनत्वात् | स्वेनात्मना ऽभावान् निःस्वभावत्वं निरुद्धानां पुनस् तेनात्मनानुत्पत्तेः | स्वभाव ऽनवस्थितत्वान् निःस्वभावत्वं क्षणिकत्वाद् इत्य् एतत्त्रिविधं निःस्वभावत्वं संस्कृतलक्षणत्रयानुगं वेदितव्यं | ग्राहवत् तदभावाच् च निःस्वभावत्वं तदभावाद् इति स्वाभावात् | यथा बालानां स्वभावग्राहो नित्यसुखशच्यात् तो वा ऽन्येन वा परिकल्पितलक्षणेन तथासौ स्वभावो नास्ति तस्माद् अपि निःस्वभावत्वं धर्माणाम् इष्यते | ....
SK
निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः | अनुत्पादो ऽनिरोधश् चादिशन्तिः परिनिर्वृतिः || AMस_११.५१ ||
SK
...... निःस्वभावतया ऽनुत्पादादयः | यो हि निःस्वभावः सो ऽनुत्पन्नो यो ऽनुत्पन्नः सो ऽनिरुद्धो यो ऽनिरुद्धः स आदिशान्तो य आदिशान्तः स प्रकृतिपरिनिर्वृत इत्य् एवम् उत्तरोत्तरनिश्रयैर् एभिर् निःस्वभावताभिर् निःस्वभावतया ऽनुत्पादादयः सिद्धा भवन्ति | अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या |
SK
आदौ तत्वे ऽन्यत्वे स्वलक्षणे स्वयम् अथान्यथाभावे | संक्लेशे ऽथ विशेषे क्षान्तिर् अनुत्पत्तिधर्मोक्ता || AMस_११.५२ ||
SK
अष्टास्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिकधर्मक्षान्तिः | आदौ संसारस्य न हि तस्याद्युत्पत्तिर् अस्ति | तत्वे ऽन्यत्वे च पूर्वपश्चिमानां न हि संसारे तेषाम् एव धर्माणाम् उत्पत्तिर्ये पूर्वम् उत्पन्नास् तद्भावेनानुत्पत्तेः | न चान्येषाम् अपूर्वप्रकारानुत्पत्तेः | स्वलक्षणे परिकल्पितस्य स्वभावस्य न हि तस्य कदाचिद् उत्पत्तिः | स्वयमनुत्पत्तौ परतन्त्रस्य | अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथा भावस्योत्पत्तिर् अस्ति | संक्लेशे प्रहीणे न हि क्षयज्ञानलाभिनः सक्लेशस्योत्पत्तिं पुनः पश्यन्ति | विशेषे बुद्धधर्मकायानां न हि तेषां विशेषोत्पत्तिर् अस्ति | इत्य् एतेष्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिधर्मोक्ता | एकयानतापर्येष्टौ सप्त श्लोकाः |
SK
धर्म नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः | द्व्याशयाप्तेश् च निर्माणात् पर्यन्ताद् एकयानता || AMस_११.५३ ||
SK
धर्मतुल्यत्वाद् एकयानता श्रावकादीनां धर्मधातोर् अभिन्नत्वात् यातव्यं यानम् इति कृत्वा नैरात्म्यस्य तुल्यत्वाद् एकयानता श्रावकादीनाम् आत्माभावतासामान्याद् याता यानम् इति कृत्वा विमुक्तितुल्यत्वाद् एकयानता याति यानम् इति कृत्वा | गोत्रभेदाद् एकयानता | अनियतश्रावकगोत्राणां महायानेन निर्याणाद् यान्ति तेन यानम् इति कृत्वा द्व्याशयाप्तेर् एकयानता बुद्धानां च सर्वसत्वेष्व् आत्माशयप्राप्तेः श्रावकाणां च तद्गोत्रनियतानां पूर्वं बोधिसंभारचरिताद् अनात्मनि बद्धाशयप्राप्तेर् अभिन्नसंतानाधिमोक्षलाभतो बुद्धानुभावेन तथागतानुग्रहविशेषप्रदेशलाभाय इत्य् एकत्वाशयलाभेनैकत्वात् बुद्धतच्छ्रावकाणाम् एकयानता | निर्माणाद् एकयानता यथोक्तम् अनेकशतकृत्वो ऽहं श्रावकयानेन परिनिर्वृत इति विनेयानाम् अर्थे तथा निर्माणसंदर्शनात् | पर्यन्ताद् अप्येकयानता यतः परेण यातव्यं नास्ति तद्यानम् इति कृत्वा | बुद्धत्वम् एकयानम् एवं तत्र तत्र सूत्रे तेन (Mस ६९) तनाभिप्रायेणैकयानता वेदितव्या न तु यानत्रयं नास्ति | किम् अर्थं पुनस् तेन तेनाभिप्रायेणैकयानता बुद्धैर् देशिता |
SK
आकर्षणार्थम् एकेषाम् अन्यसंधारणाय च | देशितानियतानां हि संबुद्धैर् एकयानता || AMस_११.५४ ||
SK
आकर्षणार्थम् एकेषाम् इति ये श्रावकगोत्रा अनियताः | अन्येषां च संधारणाय ये बोधिसत्वागोत्रा अनियताः |
SK
श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः | दृष्टार्थो वीतरागश् चावीतरागो ऽप्य सौ मृदुः || AMस_११.५५ ||
SK
श्रावकः पुनर् अनियतो द्विविधो वेदितव्यः | दृष्टार्थयानश् च यो दृष्टसत्यो महायानेन निर्याति अदृष्टार्थयानश् च यो न दृष्टसत्यो महायानेन निर्याति | दृष्टार्थः पुनर् वीतरागश् चावीतरागश् च कामेभ्यः | असौ च मृदुर् धन्धगतिको वेदितव्यः | यो दृष्टार्थो द्विविध उक्तः |
SK
तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् | अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ || AMस_११.५६ ||
SK
तौ च दृष्टार्थो लब्धस्यार्यमार्गस्य भवेषु परिणामनात् | अचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ | अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्माद् अचिन्त्यपरिणामिकी |
SK
प्रणिधानवशाद् एक उपपत्तिं प्रपद्यते | एको ऽनागामितायोगान् निर्माणैः प्रतिपद्यते || AMस_११.५७ ||
SK
तयोश् चैकः प्रणिधानवशाद् उपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः | एको ऽनागामितायोगबलेन निर्माणैः |
SK
निर्वाणाभिरतत्वाच् च तौ धन्धगतिकौ मतौ | पुनः पुनः स्वचित्तस्य समुदाचारयोगतः || AMस_११.५८ ||
SK
तौ च निर्वाणाभिरतत्वाद् उभाव् अपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः | स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात् |
SK
सो ऽकृतार्थो ह्य् अबुद्धे च जातो ध्यानार्थम् उद्यतः | निर्माणार्थी तदाश्रित्य परां बोधिम् अवाप्नुते || AMस_११.५९ ||
SK
यः पुनर् असाव् अवीतरागो दृष्टसत्यः सो ऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थम् उद्यतो भवति निर्माणार्थी | तच्च निर्माणम् आश्रित्य क्रमेण परां बोधिं प्राप्नोति | तम् अवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे | श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश् च बुद्ध इति | अग्निदृष्टान्ते च यदा च पूर्वं दृष्टसत्यावस्था सदा बुद्धरहिते काले स्वयं ध्यानम् उत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति | विद्यास्थानपर्येष्टौ श्लोकः |
SK
विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित् परमार्यः | इत्य् अन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्य् एव स योगम् || AMस_११.६० ||
SK
पञ्चविधं विद्यास्थानं | अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च | तद् यद् अर्थं बोधिसत्वेन पर्येषितव्यं तद् दर्शयति | सर्वज्ञत्वप्राप्त्यर्थम् अभेदेन सर्वं | भेदेन पुनर् हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थम् अन्येषां तद् अनधिमुक्तानां | चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषाम् अनुग्रहार्थं तदर्थिकानां | अध्यात्मविद्यां स्वयम् आज्ञार्थं | धातुपुष्टिपर्येष्टौ त्रयोदश (Mस ७१) श्लोकाः | पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर् गाथाभिर् देशिताः |
SK
हेतूपलब्धितुष्टिश् च निश्रयतदनुस्मृतिः | साधारणफलेच्छा च यथाबोधाधिमुच्यना || AMस_११.६१ ||
SK
ते पुनर् हेतोपलब्धितुष्टिमनसिकारात् | यावद् अग्रत्वात्मावधारणमनसिकारः | तत्र हेतूपलब्धितुष्टिमनसिकार आदित एव तावत् | गोत्रस्थो बोधिसत्वः स्वात्मनि पारमितानां गोत्रं पश्यन् हेतूपलब्धितुष्ट्या पारमिताधातुपुष्टिं करोति | गोत्रस्थो ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयतीत्य् अतो ऽनन्तरं निश्रयतदनुस्मृतिमनसिकारः | स हि बोधिसत्वः स्वात्मनि पारमितानां संनिश्रयभूतं बोधिचित्तं समनुपश्यन्न् एवं मनसिकरोति नियतम् एताः पारमिताः परिपूरिं गमिष्यन्ति | तथा ह्य् अस्माकं बोधिचित्तं संविद्यते इति | उत्पादितबोधिचित्तस्य पारमिताभिः स्वपरार्थप्रयोगे साधारणफलेच्छामनसिकार आसां पारमितानां परसाधारणं व फलां भवत्व् अन्यथा वा मा भूद् इत्य् अभिसंस्करणात् | स्वपरार्थं प्रयुज्यमानो ऽसंक्लेशोपायं तत्वार्थं प्रतिविध्यतीत्य् अतो ऽनन्तरं यथाबोधाधिमुच्यनामनसिकारः | एवं सर्वत्रानुक्रमो वेदितव्यः | यथा बुद्धैर् भगवद्भिः पारमिता अभिसंबुद्धा अभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च तथा ऽहम् अधिमुच्ये इत्य् अभिसंस्करणात् |
SK
चतुर्विधानुभावेन प्रीयणा खेदनिश्चयः | विपक्षे प्रतिपक्षे च प्रतिपत्तिश् चतुर्विधा || AMस_११.६२ ||
SK
अनुभावप्रीयणामनसिकारश् चतुर्विधानुभावदर्शनप्रीयणा चतुर्विधानुभावो विपक्षप्रहाणं संभारपरिपाकः स्वपरानुग्रह आयत्यां विपाकफलनिःष्यन्दफलदानता च | सत्वस्वबुद्धधर्मपरिपाकम् आरभ्याखेदनिश्चयमनसिकारः सर्वसत्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश् चाखेदनिश्चयाभिसंस्करणात् परमबोधिप्राप्तये | विपक्षे प्रतिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः | दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना प्रतिपक्षाणां च दानादीनाम् अनुमोदना (Mस ७२) तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा | तासां च बोधौ परिणामना |
SK
प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च | संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया || AMस_११.६३ ||
SK
अधिमुक्तिबलाधानताम् आरभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः | धर्मपर्येष्टिम् आरभ्य संप्रतीच्छनमनसिकारस् तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया | दशनाम् आरभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषां | प्रतिपत्तिम् आरभ्य संनाहमनसिकारो दानादिपरिपूरये संनहनात् | प्रणिधानमनसिकारस् तत्परिपूरिप्राप्तये समवधानार्थं | अभिनन्दमनसिकारो ऽहो बत दानादिप्रतिपत्त्या सम्यक् संपादयेयम् इत्य् अभिनन्दनात् | एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः | उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात् |
SK
शक्तिलाभे सदाउत्सुक्यं दानादौ षड्विधे धनम् | परिपाके ऽथ पूजायां सेवायाम् अनुकम्पना || AMस_११.६४ ||
SK
औत्सुक्यमनसिकारश् चतुर्विधः | शक्तिलाभे न दानादौ षड्विधे दानदाने यावत् प्रज्ञादाने | एवं शीलादिषु षड्विधेषु | पारमिताभिर् एव संग्रहवस्तुप्रयोगेण सत्वपरिपाके | पूजायां च दानेन लाभसत्कारपूजया | शेषाभिश् च प्रतिपत्तिपूजया | अविपरीतपारमितोपदेशापञ्चकल्याणमित्रसेवायाम् औत्सुक्यमनसिकारो वेदितव्यः | अनुकम्पामनसिकारश् चतुर्भिर् अप्रमाणैर् दानाद्युपसंहारेण मैत्रायतः | मात्सर्यादिसमवधानेन सत्वेषु करुणायतः | दानादिसमन्वागतेषु मुदितायतः | तदसंक्लेशाधिमोक्षतश् च उपेक्षायतः |
SK
अकृते कुकृते लज्जा कौकृत्यं विषये रतिः | अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः || AMस_११.६५ ||
SK
ह्रीधर्मम् आरभ्य लज्जामनस्कारो ऽकृतेषु वा दानादिष्व् अपरिपूर्णमिथ्याकृतेषु वा लज्जा लज्जायमानश् च प्रवृत्तिनिवृत्त्यर्थम् अनानुषङ्गिकं कौकृत्यायते | धृतिम् आरभ्य रतिमनस्कारो दानाद्यालम्बने ऽविक्षेपतश् चित्तस्य धारणात् | अखेदमनस्कारो (Mस ७३) दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात् | रचनाच् छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्त्ररचनाभिसंस्करणात् | लोकज्ञताम् आरभ्य उद्भावनामनस्कारस् तस्यैव शास्त्रस्य लोके यथाभाजनम् उद्भावनाभिसंस्करणात् |
SK
दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः | दोषाणां च गुणानां च प्रतिसंवेदनाद् द्वयोः || AMस_११.६६ ||
SK
प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान् नेश्वरादीनां प्रतिसंविन्मनस्कारो मात्सर्यदानादिविपक्षप्रतिपक्षयोर् दोषगुणप्रतिसंवेदनात् |
SK
चयानुस्मरणप्रीतिर् माहार्थ्यस्य च दर्शनम् | योगे ऽभिलाषो ऽविकल्पे तद्धृत्यां प्रत्ययागमे || AMस_११.६७ ||
SK
चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात् | माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात् | अभिलाषमनस्कारः स पुनश् चतुर्विधः | योगाभिलाषमनस्कारः शमथविपश्यनायोगभावनाभिलाषात् | अविकल्पाभिलाषमनस्कारः पारमितापरिपूरणार्थम् उपायकौशल्याभिलाषात् | धृत्यभिलाषमनस्कारः पारमिताधिपतेयधर्मार्थधारणाभिलाषात् | प्रत्ययाभिगमाभिलाषमनस्कारः सम्यक्प्रणिधानाभिसंस्करणात् |
SK
सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् | आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा || AMस_११.६८ ||
SK
सप्तप्रकारासद्ग्राहव्युत्थानशक्तिदर्शनमनस्कारः | सप्तविधो ऽसद्ग्राहः | असति सद्ग्राहो दोषवति गुणवत्वग्राहो गुणवत्यगुणवत्वग्राहः | सर्वसंस्कारेषु च नित्यसुखासद्ग्राहौ | सर्वधर्मेषु चात्मासद्ग्राहः निर्वाणे चाशान्तासद्ग्राहः | यस्य प्रतिपक्षेण शून्यतासमाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते | आश्चर्ये चतुर्विधसंज्ञामनस्कारः | पारमितासूदारसंज्ञा आयतत्वसंज्ञा प्रतिकारनिरपेक्षसंज्ञा विपाकनिरपेक्षसंज्ञा च | अनाश्चर्ये ऽपि चतुर्विधमनस्कारः | चतुर्विधम् अनाश्चर्यम् औदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिवर्तनात् | अस्मिन्न् एव च द्वये सति स्वपरसमचित्तावस्थापनात् तद्विशिष्टेभ्यश् च शरुदिभ्यः (Mस ७४) पूजादिलाभे सति प्रतिकारनिरपेक्षता ...
SK
समता सर्वसत्वेषु दृष्टिश् चापि महात्मिका | परगुणप्रतिकारस् त्रयाशस्तिर् निरन्तरः || AMस_११.६९ ||
SK
... प्रत्ययकाराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः | आशास्तिमनस्कारः सत्वेषु त्रिस्थानाशंसनात् | पारमितानां बोधिसत्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्वावरणाशंसना च्च | निरन्तरमनस्कारो दानादिभिर् अवध्यकालकरणाभिसंस्करणात् |
SK
बुद्धप्रणीतानुष्ठानाद् अर्वागस्थानचेतनात् | तद्धानिवृद्ध्या सत्वेषु अनामोदः प्रमोदना || AMस_११.७० ||
SK
सम्यक्प्रयोगमनस्कारो ऽविपरीतानुष्ठानाद् अर्वागस्थानमनसिकारणात् | अनामोदमनस्कारो दानादिभिर् हीयमानेषु | प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्वेषु |
SK
प्रतिवर्णिकायां वर्णिकाभूतायां भावनायां च नारूचिः | नाधिवासमनस्कारो व्याकृतनियते स्पृहा || AMस_११.७१ ||
SK
अरुचिमनस्कारः पारमिताप्रतिवर्णिका भावनायां | रुचिमनस्कारो भूतायां | अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात् | स्पृहामनस्कारो द्विविधिः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश् च |
SK
आयत्यां दर्शनाद् वृत्तिचेतना समतेक्षणा | अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात् धारणा || AMस_११.७२ ||
SK
आयत्यां दर्शनाद् वृत्तिमनस्कारो यात्वा गतिं गत्वा बोधिसत्वेन सता ऽवश्यकरणीयता ऽभिसंस्कारणात् | दानादीनां समतेक्षणामनस्कारस् तदन्यैर् (Mस ७५) बोधिसत्वैः सहात्मनः पारमितासातत्यकरणाधिमोक्षार्थं | अग्रत्वात्मावधारणमनस्कारः पारमिताग्रधर्मप्रवृत्त्या स्वात्मनः प्रधानभावसंदर्शनात् |
SK
एते शुभमनस्कारा दशपारमितान्वयाः | सर्वदा बोधिसत्वानां धातुपुष्टौ भवन्ति हि || AMस_११.७३ ||
SK
इति निगमनश्लोको गतार्थः | धर्मपर्येष्टिभेदे द्वौ श्लोकौ |
SK
पुष्टेर् अध्याशयतो महती पर्येष्टिर् इष्यते धीरे | सविवासा ह्य् अविवासा तथैव वैभुत्विकी तेषाम् || AMस_११.७४ ||
SK
असकाया लघुलब्धकाया प्रपूर्णकाया च बोधिसत्वानाम् | बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता || AMस_११.७५ ||
SK
त्रयोदशविधा पर्येष्टिः | पुष्टितः श्रुताधिमुक्तिपुष्ट्या | अध्याशयतो धर्ममुखस्रोतसा | महती चित्तत्वलाभिनां | सविप्रवासा प्रथमा | अविप्रवासा द्वितीया वैभुत्विकी तृतीया | अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात् | सकाया भावनामयी अधिमुक्तिचर्याभूमौ | लघुकाया सप्तसु भूमिषु | परिपूर्णकाया शेषासु | बहुमानाधिमुक्तिचर्याभूमौ | सूक्ष्ममाना सप्तसु | निर्माणा शेषासु | धर्महेतुत्वपर्येष्टौ श्लोकः |
SK
रूपारूपे धर्मो लक्षणहेतुस् तथैव चारोग्यंग्ये | ऐश्वर्ये ऽभिज्ञाभिस् तदक्षयत्वे च धीराणाम् || AMस_११.७६ ||
SK
रूपे लक्षणहेतुर् धर्मः | अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात् ऐश्वर्यहेतुर् अभिज्ञाभिस् तदक्षयत्वहेतुश् चानुपधिशेषनिर्वाणो ऽप्यनुपच्छेदात् | अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे | चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा धर्मं पर्येषन्ते | (Mस ७६) रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन | रत्नाभूतानि हि लक्षणानि शोभाकरत्वाद् अतस् तद्धेतुत्वाद् धर्मरत्नसंज्ञा | आरोग्यहेतुत्वाद् भैषज्यसंज्ञा अभिज्ञाइश्वर्यहेतुत्वाद् अर्थसंज्ञा | तदक्षयहेतुत्वान् निर्वाणसंज्ञाक्षयनिर्भयतार्थेन | विकल्पपर्येष्टौ श्लोकः |
SK
अभावभावाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः | यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः || AMस_११.७७ ||
SK
दशविधविकल्पो बोधिसत्वेन परिवर्जनीयः | अभावविकल्पो यस्य प्रतिपक्षेणाह | प्रज्ञापारमितायाम् इह बोधिसत्वो बोधिसत्व एव सन्न् इति | भावविकल्पो यस्य प्रतिपक्षेणाह | बोधिसत्वं न समनुपश्यतीत्य् एवम् आदि | अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह | रूपं शारिपुत्र स्वभावेन शून्यम् इति | अपवादविकल्पो यस्य प्रतिपक्षेणाह | न शून्यतयेति | एकत्वविकल्पो यस्य प्रतिपक्षेणाह | या रूपस्य शून्यता न तद्रूपम् इति | नानात्वविकल्पो यस्य प्रतिपक्षेणाह | न चान्यत्र शून्यताया रूपं रूपम् एव शून्यता शून्यतैव रूपम् इति | स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह | नाममात्रम् इदं यद् इदं रूपम् इति | विशेषविकल्पो यस्य प्रतिपक्षेणाह | रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् इति | यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह | कृत्रिमं नामेत्य् एवम् आदि | यथार्थनामाभिनिवेशविकल्पश् च यस्य प्रतिपक्षेणाह | तानि बोधिसत्वः सर्वनामानि न समनुपश्यत् यसमनुपश्यन् नाभिनिविशते यथार्थतयेत्य भिप्रायः |
SK
इति शुभमतिर् एत्य यत्नम् उग्रं द्वयपर्येषितधर्मतासतत्वः | प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत् प्रपूर्णः || AMस_११.७८ ||
SK
अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति | उपायमाहात्म्यम् उग्रवीर्यतया संवृतिपरमार्थसत्यधर्मतापर्येषणतश् च तत्वं सत्यम् इत्य् अर्थः | परार्थमाहात्म्यं प्रतिशरणीभावात् प्रजानां | स्व-अर्थमाहात्म्यं च गुणैः समुद्रवत् प्रपूर्णत्वात् |
SK
महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः
SK
CHAPITRE XII द्वादशो ऽधिकारः
SK
धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः
SK
प्राणान् भोगांश् च धीराः प्रमुदितमनसः कृच्छ्रलब्धान् असारान् सत्वेभ्यो दुःखितेभ्यः सततम् अवसृजन्त्य् उच्चदानप्रकारैः | प्राग् एवोदारधर्मं हितकरम् असकृत् सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च || AMस_१२.१ ||
SK
कृच्छ्रलब्धान् अप्य् असारान् क्षयित्वा प्राणान् भोगांश् च बोधिसत्वा दुःखितेभ्यः कारुण्यात् सततम् उदारैर् विसर्गैर् उत्सृजन्ति प्राग् एव धर्मं यो नैव कृच्छ्रेण वा भृशम् अपि वावसृजतां वृद्धिं गछति न क्षयं | धर्मनैरर्थक्यसार्थक्ये श्लोकद्वयं |
SK
धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्तयुक्तिविहितैर् धर्मैः स्वकीं धर्मतां | स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस् त्वजगरप्रख्यैः समापादिता || AMस_१२.२ ||
SK
तत्र बुद्धा अजगरोपमास् तेषां स्वशान्तिर् आस्यपुटं धर्मकायः | विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः | साधारणं सर्वबुद्धैः अक्षयम् आत्यन्तिकत्वात् |
SK
तस्मान् नैव निरर्थिका भवति सा या भावना योगिनां तस्मान् नैव निरर्थिका भवति सा या देशना सौगती | दृष्टो ऽर्थः श्रुतमात्रकाद् यदि भवेत् स्याद् भावनापार्थिका अश्रुत्वा यदि भावनाम् अनुविशेत् स्याद् देशनापार्थिका || AMस_१२.३ ||
SK
तस्मान् न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् | न निरर्थिका देशना भवति युक्तिविहितैर् धर्मैः स्वधर्मतायां जनताकर्षणात् | यथा पुनर्भावना सार्थिका भवेद् देशना वा तत् श्लोकार्धेन दर्शयति | शेषं गतार्थं | देशनाविभागे श्लोकः |
SK
आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां | मुखतो रूपात् सर्वाकाशाद् उच्चरणता ऽपि............ || AMस_१२.४ ||
SK
तत्र विभुत्वतो या महाभूमिप्रविष्टानां | सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति | शेषं गतार्थं | देशनासंपत्तौ श्लोकद्वयं |
SK
विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा | संपन्नदेशनेयं विज्ञेयंया बोधिसत्वानां || AMस_१२.५ ||
SK
अयं चतुष्कार्थनिर्देशेन श्लोकः | यद् उक्तं ब्रह्मपरिपृच्छायां | चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरुषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च | एकेन हि बाहुश्रुत्याद् विषदा देशना भवति | द्वितीयेन महाप्राज्ञत्वात् संशयजहा परेषां संशयच्छेदात् | तृतीयेनानवद्यकर्मत्वाद् आदेया | चतुर्थेन तत्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्यां |
SK
मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां | स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव || AMस_१२.६ ||
SK
अस्मिन् द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरुषवचनात् | मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् | अखिन्ना अकिलासिकत्वात् | स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः | चित्रा अपुनरुक्तत्वात् | युक्ता प्रमाणाविरुद्धवात् | गमिका प्रतीतपदव्यञ्जनत्वात् निरामिषा प्रसन्नाधिकारानधिकत्वात् | सर्वत्रगा यानत्रयगतत्वात् | वाक्संपत्तौ श्लोकः |
SK
अदीना मधुरा सूक्ता प्रतीता विषदा तथा वाग् जिनात्मजे | यथार्हा निरामिषा च परिमिताक्षया तथा || AMस_१२.७ ||
SK
अदीना पौरी पर्षन्पूरणात् | मधुरा वल्गुः | सूक्ता विस्पष्टा सुनिरुक्ताक्षरत्वात् | प्रतीता विज्ञेया प्रतीताभिधानत्वात् | यथार्हा श्रवणीया विनेयानुरूपत्वात् | अनामिषा अनिःश्रितलाभसत्कारा लोके | प्रतता अप्रतिकूला | परिमिता आयामखेदात् | विषदा अपर्यात्ता | व्यञ्जनसंपत्तौ श्लोकद्वयं |
SK
उद्देशान् निर्देशात् तथैव यानानुलोमनात् श्लाक्ष्ण्यात् | प्रातीत्याद् याथार्हान् नैर्याण्याद् आनुकूल्यत्वात् || AMस_१२.८ ||
SK
युक्तैः पदव्यञ्जनैर् उद्देशात् प्रमाणाविरोधेन | सहितैर् निर्देशाद् उद्देशाविरोधेन | यानानुलोमनाद् आनुलोमिकैर् यानत्रयाविरोधेन | श्लाक्ष्ण्याद् अनुच्छविकैर् अकष्टशब्दतया | प्रातीत्याद् औपयिकैः प्रतीतार्थतया चार्थोपगमनात् | याथार्हात् प्रतिरूपैर् विनेयानुरूपतया | नैर्याण्यात् प्रदक्षिणैर् निर्वाणाधिकारतया | आनुकूल्यान् निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् |
SK
व्यञ्जनसंपच् चैषा विज्ञेया सर्वथाग्रसत्वानां | षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस् तु सुगतानां || AMस_१२.९ ||
SK
षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा | पुनर् अपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः | तत्र (Mस ८०) स्निग्धा सत्वधातुकुशलमूलोपस्तम्भिकत्वात् | मृदुका दुष्ट एव धर्मे सुखसंस्पर्शत्वात् | मनोज्ञा स्वर्थत्वात् | मनोरमा सुव्यञ्जनत्वात् | शुद्धा निरुत्तरलोकोत्तरपृष्ठलब्धत्वात् | विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् | प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् | वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविघातबलगुणयुक्तत्वात् | श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् | अनन्ता सर्वपरप्रवादिभिर् अनाछेद्यत्वात् | कला रञ्जिकत्वात् | विनीता रागादिप्रतिपक्षत्वात् | अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् | अपरुषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् | सुविनीता यानत्रयनयोपदेशिकत्वात् | कर्णसुखा विक्षेपप्रतिपक्षत्वात् | कायप्रह्लादनकरी समाध्यावाहकत्वात् | चित्ताउद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् | हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् | प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् | निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् | आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् | विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् | विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् | प्रेमणीया ऽनुप्राप्तस्वक-अर्थानां प्रेमकरत्वात् | अभिनन्दनीया ऽननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् | आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् | विज्ञापनीया ऽचिन्त्यधर्मसम्यग्देशिकत्वात् | युक्ता प्रमाणाविरुद्धत्वात् | सहिता यथार्हविनेयदेशिकत्वात् | पुनरुक्तदोषजहा अवन्ध्यत्वात् | सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात् | नागस्वरशब्दा उदारत्वात् | मेघस्वरघोषा गम्भीरत्वात् | नागेन्द्ररुता आदेयत्वात् | किन्नरसंगीतिघोषा मधुरत्वात् | कलविङ्कस्वररुतरविता ऽभीक्ष्णभङ्गरत्वात् | ब्रह्मस्वररुतरविता दूरंगमत्वात् | जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगमनङ्गलत्वात् | देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् | दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् | अनुन्नता स्तुत्यसंक्लिष्टत्वात् | अनवनता निन्दाऽसंक्लिष्टत्वात् | सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् | अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् | अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् | अलीना लाभसत्कारानिश्रितत्वात् | अदीना सावद्यापगतत्वात् | प्रमुदिता अखेदित्वात् | प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् | अखिला सत्वानां तत्सकलार्थसंपादकत्वात् | सरिता प्रबन्धानुपच्छिन्नत्वात् | ललिता विचित्राकारप्रत्युपस्थानत्वात् | सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् | सर्वसत्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् | अनिन्दिता यथाप्रतिज्ञत्वात् | अचञ्चला आगमितकालप्रयुक्तत्वात् | अचपला अत्वरमाणविहितत्वात् | सर्वपर्षदनुरविता दूरान्तिकपर्षत्तुल्यश्रवणत्वात् | (Mस ८१) सर्वाकारवरोपेतो सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् | देशनामाहात्म्ये चत्वारः श्लोकाः |
SK
वाचा पदैः सुयुक्तैर् अनुदेशविभागसंशयच्छेदैः | बहुलीकारानुगता ह्य् उद्धटितविपञ्चितज्ञेषु || AMस_१२.१० ||
SK
आख्याति वाचा | प्रज्ञापयति पदैः सुयुक्तैः | प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः | उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानर्थं | देशयत्य् उद्घटितज्ञेषु | संप्रकाशयति विपञ्चितज्ञेषु |
SK
शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां | दोषैर् विवर्जिता पुनर् अष्टभिर् एषैव विज्ञेया || AMस_१२.११ ||
SK
शुद्धा त्रिमण्डलेनेति | येन च देशयति वाचा पदैश् च | यथा चोद्देशादिप्रकारैः | येषु चोद्घटितविपञ्चितज्ञेषु | एषैव च देशना पुनर् अष्टदोषविवर्जिता वेदितव्या यथाक्रमं |
SK
कौशीद्यम् अनवबोधो ह्य् अवकाशस्याकृतिर् ह्य् अनीतत्वम् | संदेहस्याच्छेदस् तद्विगमस्यादृढीकरणम् || AMस_१२.१२ ||
SK
ते पुनर् अष्टौ दोषाः कौशीद्यम् अनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयस्येत्य् अर्थः |
SK
खेदो ऽथ मत्सरित्वं दोषा ह्य् एते मता कथायां हि | तदभावाद् बुद्धानां निरुत्तरा देशना भवति || AMस_१२.१३ ||
SK
खेदो येनाभीक्ष्णं न देशयेत् | मत्सरित्वं चाकृत्स्नप्रकाशन्ता | अर्थसंपत्तौ श्लोकद्वयं |
SK
कल्याणो धर्मो ऽयं हेतुत्वाद् भक्तितुष्टिबुद्धीनां | द्विविधार्थः सुग्राह्यश् चतुर्गुणब्रह्मचर्यवदः || AMस_१२.१४ ||
SK
परैर् असाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् | स्वभावशुद्धं मलशुद्धितश् च तच् चतुर्गुणब्रह्मविचर्यम् इष्यते || AMस_१२.१५ ||
SK
चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः | आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर् भक्तितुष्टिबुद्धिहेतुत्वात् | तत्र भक्तिर् अधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं युक्तिनिध्यानाच् छक्यप्राप्तितां विदित्वा | बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं | द्विविधार्थ इत्यतः स्वर्थः संवृत्तिपरमार्थसत्ययोगात् | सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् | चतुर्गुणं ब्रह्मचर्यं | केवलं परैर् असाधारणत्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् | परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् | पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणां | अभिसंधिविभागे श्लोकद्वयं |
SK
अवतारणसंधिश् च संधिर् लक्षणतो ऽपरः | प्रतिपक्षाभिसंधिश् च संधिः परिणताव् अपि || AMस_१२.१६ ||
SK
श्रावकेषु स्वभावेषु दोषाणां विनये तथा | अभिधानस्य गाम्भीर्ये संधिर् एष चतुर्विधः || AMस_१२.१७ ||
SK
असारे सारमतयो विपर्यासे च सुस्थिताः | क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां || AMस_१२.१७* || || इति ||
SK
चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः | अवतारणाभिसंधिर् लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामन-अभिसंधिश्च | तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः | शासनावतारणार्थम् अनुत्त्रासाय रूपाद्यस्तित्वदेशनात् | लक्षणाभिसंधिस् त्रिषु परिकल्पितादिस्व् अभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् | प्रतिपक्षाभिसंधिर् दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषानुशंसे गाथाद्वयं वक्ष्यति | परिणामनाभिसंधिर् अभिधानगाम्भीर्ये द्रष्टव्यो यथाह |
SK
असारे सारतयो विपर्यासेच सुखिताः | क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिम् उत्तमां || इति
SK
अयम् अत्राभिसंधिः | असारे सारमतय इत्य् अविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश् चेतसः | विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः | क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायाम् अश्रमेणात्यर्थं परिक्लिष्टाः | अभिप्रायविभागे श्लोकः |
SK
समता ऽर्थान्तरे ज्ञेयस् तथा कालान्तरे पुनः | पुद्गलस्याशये चैव अभिप्रायश् चतुर्विधः || AMस_१२.१८ ||
SK
चतुर्विधो ऽभिप्रायः | सतताभिप्रायो यद् आह | अहम् एव स तस्मिन् समये विपश्वी सम्यक्संबुद्धो ऽभूवम् इत्य् अविशिष्टधर्मकायत्वात् | अर्थान्तराभिप्रायो यद् आह | निःस्वभावाः सर्वधर्मा अनुत्पन्ना इत्य् एवम् आदि अयथारुतार्थत्वात् कालान्तराभिप्रायो यदाह | ये सुखावत्यां प्राणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्य् अभिप्रायः | पुद्गलाशयाभिप्रायो यत् तद् एव कुशलमूलं कस्यचित् प्रशंसते कस्यचिद् विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयम् उपादायाह |
SK
बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिर् अल्पमात्रेण | रागे माने चरितं कौकृतं चानियतभेदः || AMस_१२.१९ ||
SK
सत्वानाम् आवरणं तत्प्रतिपक्षो ऽग्रयान् असंभाषा | सर्वान्तरायदोषप्रहाणम् एषां ततो भवति || AMस_१२.२० ||
SK
यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत | स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान् || AMस_१२.२१ ||
SK
कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले | जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र || AMस_१२.२२ ||
SK
बुद्धैश् च समवधानं तेभ्यः श्रवणं तथाग्रयान् अस्य | अधिमुक्तिं सह बुद्ध्या द्वयमुखताम् आशुबोधिं च || AMस_१२.२३ ||
SK
बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः | तत्रानियतभेदो बोधिसत्वानाम् अनियतानां महायानद्भेदः | अग्रयान् असंभाषा या महायानदेशना | बुद्धे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा | अहम् एव स तेन कालेन विपश्वी सम्यक्संबुद्धो ऽभूवम् इति | धर्मे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा | इयतो गंगानदीवालिकासमानबुद्धान् पर्युपास्य महायाने ऽवबोध उत्पद्यत इति | कौशीद्यावरणस्य प्रतिपक्षसंभाषा | ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति | विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्य् उनत्तरायां सम्यक्संबोधाव् इति | अल्पमात्रसंतुष्ट्यावरस्य प्रतिपक्षसंभाषा | यत्र भगवान् क्वचिद् दानादि विवर्णयति अन्यत्र वर्णितवान् | रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा | यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति | मानचरितस्यावरणस्य प्रतिपक्षसंभाषा | यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति | कौकृत्यावरणस्य (Mस ८४) प्रतिपक्षसंभाषा | ये बुद्धबोधिसत्वेष्व् अकारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति | अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा | महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च | कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस् तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः | द्वयमुखता समाधिमुखता धारणीमुखता च | दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिके ऽष्टविधः क्रमेणोत्तराउत्तरविशेषलाभाद् वेदितव्यः | देशनानुशंसे श्लोकः |
SK
इति सुगतिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञताम् उपेतः | भवति सुकथिको हि बोधिसत्वस् तपति जने कथितैर् यथैव सूर्यः || AMस_१२.२४ ||
SK
पञ्चभिः कारणैः सुकथिकत्वं | सूर्यवत् प्रतपनं चानुशंसः | लोकावर्जनतो बहुमतत्वात् | पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च |
SK
महायानसूत्रालंकारे देशनाधिकारो द्वादशः
SK
CHAPITRE XIII त्रयोदशो ऽधिकारः
SK
प्रतिपत्तिविभागे षट् श्लोकाः |
SK
द्वेधा नैरात्म्यम् आज्ञाय धीमान् पुद्गलधर्मयोः | द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि || AMस_१३.१ ||
SK
यथार्थम् आज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचारी तत्संदर्शयति | तत्र द्विधा पुद्गलधर्मनैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः | द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्यं त्रयं | अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य | भावे चाप्रणिहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः | (Mस ८५) एतत् समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात् | न सम्यक्त्वम् अलोकोत्तरत्वात् |
SK
अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां | श्रुततुष्टिप्रहाणाय धर्मज्ञस् तेन कथ्यते || AMस_१३.२ ||
SK
एवम् अर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति | श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति |
SK
पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा | तज्ज्ञानपरिनिष्पत्ताव् अनुधर्मं प्रपद्यते || AMस_१३.३ ||
SK
एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते | एवम् अनुधर्मं प्रतिपद्यते |
SK
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं | आदिभूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिः || AMस_१३.४ ||
SK
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरम् इति | विशिष्टतरयानाभावात् | आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिर् इति तद्भूमिकैर् एवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्वसमतया |
SK
कृत्वा दर्शनज्ञेयानां हेयानां क्लेशानां सर्वसंक्षयम् | ज्ञेयावरणज्ञानाय हानाय भवनायां प्रयुज्यते || AMस_१३.५ ||
SK
श्लोको गतार्थः |
SK
व्यवस्थानाविकल्पेन ज्ञानेन सहचारिणा | अनुधर्मं चरत्य् एवं परिशिष्टासु भूमिषु || AMस_१३.६ ||
SK
शेषेणानुधर्मचारित्वं दर्शयति | व्यवस्थानाविकल्पेनाति भूमिव्यवस्थानज्ञानेनाविकल्पेन (Mस ८६) च | सहचारिणेत्य् अनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण | एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितं | प्रतिपत्ताव् अप्रमादक्रियायां चत्वारः श्लोकाः |
SK
सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः | सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते || AMस_१३.७ ||
SK
चतुर्भिश् चक्रैर् अप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः | तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति | सुलाभश् चीवरपिण्डपातादीनां जीवितपरिष्काराणाम् अकृच्छेन लाभात् | स्वधिष्ठानो दुर्जनैर् दस्युप्रभृतिभिर् अनधिष्ठितत्वात् | सुभूमिर् आरोग्यभूमित्वात् | सुसहायकः सभागशीलदृष्टिसहायकत्वात् | सुयोगो दिवाल्पाकीर्णाभिलापकत्वात् रात्रौ चाल्पशब्दादिकत्वात् |
SK
बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः | अखिन्नो बोधिसत्वश् च ज्ञेयः सत्पुरूषो महान् || AMस_१३.८ ||
SK
अनेन द्वितीयेन सत्पुरुषं दर्शयति | आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात् |
SK
स्वालम्बना सुसंभारा सुसंस्तब्धा सुभावनैव देशिता | सुनिर्याणप्रयोगा चात्मसम्यक्प्रधानता || AMस_१३.९ ||
SK
अनेन तृतीयेन योनिशोमनस्कारसंगृहीतामात्मनः सम्यक्प्रणिधानतां दर्शयति | सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च |
SK
रतेः क्षणोपपत्तेश् च आरोग्यस्यापि कारणं | समाधेर् विचयस्यापि पूर्वे हि कृतपुण्यता || AMस_१३.१० ||
SK
अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति | रतिहेतुत्वेन यतः प्रतिरूपदशवासे ऽभिरमते | क्षणौपपत्तिहेतुत्वेन यतः सत्पुरुषायाश्रयं (Mस ८७) लभते | आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं संपद्यते | क्लेशत एव क्लेशनिःसरणे श्लोकास् त्रयः |
SK
धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते | तस्माद् रागादयस् तेषां बुद्धैर् निःसरणं मताः || AMस_१३.११ ||
SK
यद् उक्तं भगवता | नाहम् अन्यत्र रागाद् रागस्य निःसरणं वदाम्य् एवं द्वेषान् मोहाद् इति | तत्राभिसंधिं दर्शयति | यस्माद् धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात् | तस्माद् रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनाम् इत्य् एवं तत्राभिसंधिर् वेदितव्यः |
SK
धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते | तस्मात् संक्लेशनिर्देशे स संविद् धीमतां मतः || AMस_१३.१२ ||
SK
यद् उक्तं | अविद्या च बोधिश् चैकम् इति | तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः | अविद्या बोधिधर्मता स्यात् तद् उपचारात् |
SK
यतस् तान् एव रागादीन् योनिशः प्रतिपद्यते | ततो विमुच्यते तेभ्यस् तेनैषां निःसृतिस् ततः || AMस_१३.१३ ||
SK
तान् एव रागादीन् योनिशः प्रतिपद्यमानस् तेभ्यो विमुच्यते तस्मात् परिज्ञातास् त एव तेषां निःसरणं भवतीत्य् अयम् अत्राभिसंधिः | श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयं |
SK
न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्वहेतोः कथंचित् | शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु || AMस_१३.१४ ||
SK
न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति | स्वहितपरमशीतस् त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति || AMस_१३.१५ ||
SK
अनयोः श्लोकयोर् एकस्य द्वितीयः साधकः | उभौ गतार्थो | निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः |
SK
धर्माभावोपलब्धिश् च निःसंक्लेशविशुद्धिता | मायादिसदृशी ज्ञेया आकाशसदृशी तथा || AMस_१३.१६ ||
SK
यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नस्ति च दृश्यते ऽथ च | अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नस्ति च दृश्यते ऽथे च || AMस_१३.१७ ||
SK
यथैव तोये लुतिटिते प्रसादिते न जायते सा पुनर् अच्छतान्यतः | मलापकर्षस् तु स तत्र केवलः स्वचित्तशुद्धौ विधिर् एष एव हि || AMस_१३.१८ ||
SK
मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं | न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते || AMस_१३.१९ ||
SK
धर्माभावश् च धर्मोपलब्धिश् चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चाद् इति त्रासस्थानं बालानां | तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस् ततस् त्रासं प्रतिषेधयति | तथा चित्रे नतोन्नतसादृश्येन लुतितप्रसादिततोयसादृश्येन च यथाक्रमं | चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति | यथा तोयं प्रकृत्या प्रसन्नम् आगन्तुकेन तु कालुष्येण लुतितं भवत्य् एवं चित्तं प्रकृत्या प्रभास्वरं मतम् आगन्तुकैस् तु दोषैर् दूषितम् इति | न च धर्मताचित्ताद् ऋते ऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते | तस्माच् चित्ततथतैवात्र चित्तं वेदितव्यं | रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः |
SK
बोधिसत्वस्य सत्वेषु प्रेम मज्जगतं महत् | यथैकपुत्रके तस्मात् सदा हितकरं मतम् || AMस_१३.२० ||
SK
सत्वेषु हितकारित्वान् नैत्य् आपत्तिं स रागजां | द्वेषो विरुद्यते त्वस्य सर्वसत्वेषु सत्पथा || AMस_१३.२१ ||
SK
यथा कपोती स्वसुतातिवत्सला स्वभावकांस् तान् उपगुह्य तिष्ठति | तथाविधायं प्रतिघो विरुध्यते सुतेषु तद्वत् सकृपे ऽपि देहिषु || AMस_१३.२२ ||
SK
मैत्री यतः प्रतिघचित्तम् अतो विरुद्धं शान्तिर् यतो व्यसनचित्तम् अतो विरुद्धं | अर्थो यतो निकृतिचित्तम् अतो विरुद्धं ल्हादो यतः प्रतिभयं न च ततो विरुद्धं || AMस_१३.२३ ||
SK
यत् सत्वेषु बोधिसत्वस्य प्रेम सो ऽच रागो ऽभिप्रेतस् तत्कृताम् आपत्तिं तेषां प्रतिषेधयति | सत्वहितक्रियाहेतुत्वात् | कपोतीम् उदाहरति तद्बहुरागत्वात् अपत्यस्नेहाधिमात्रतया सकृपे बोधिसत्वे देहिषु सत्वेषु प्रतिघो विरुध्यते | बोधिसत्वानां सत्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ह्लादश् च प्रीत्युत्पादात् | यत इमे मैत्र्यादयस् तत एव प्रतिघचित्तं विरुद्धं | तत्पूर्वकाणि च व्यसनचित्तादीनि | प्रतिपत्तिभेदे पञ्च श्लोकाः |
SK
यथातुरः सुभैषज्ये संसारे प्रतिपद्यते | आतुरे च यथा वैद्यः सत्वेषु प्रतिपद्यते || AMस_१३.२४ ||
SK
अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते | वणिग्यथा पुनः पुण्ये कामेषु प्रतिपद्यते || AMस_१३.२५ ||
SK
यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते | पिता यथा सुते बाले सत्वाहेठे प्रपद्यते || AMस_१३.२६ ||
SK
अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते | वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते || AMस_१३.२७ ||
SK
मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते | प्रतिपत्तिर्यथा यस्मिन् बोधिसत्वस्य सा मता || AMस_१३.२८ ||
SK
यथा यस्मिन् प्रतिपद्यते तद् अभिद्योतयति | यथेति सुभैषज्यादिष्व् इवातुरादयः | यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात् | कारुण्येन क्लेशातुरसत्वापरित्यागात् | स्वप्रणिहितत्वचित्तकरणात् | दानादिपारमिताभिश् च यथाक्रमं भोगवृद्धिनयनात् | कायादिकर्मपरिशोधनात् | सत्वापकाराकोपात् | कुशलभावनानिरन्तराभियोगात् | समाध्यनास्वादनात् | ज्ञेयाविपर्यासाच् च | प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः |
SK
इति सततम् उदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः | परमविमलनिर्विकल्पबुद्ध्या व्रजति स सिद्धिम् अनुत्तमां क्रमेण || AMस_१३.२९ ||
SK
इति निर्विकल्पेन धर्मनैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश् चाविकल्पना त्रिमण्डलपरिशुद्धिर् वेदितव्या | द्वयपरिपाचनशोधनेषु युक्त इति सत्वानाम् आत्मनश् च |
SK
महायानसूत्रालंकारे प्रतिपत्त्यधिकारस् त्रयोदशः
SK
CHAPITRE XIV चतुर्दशो ऽधिकारः
SK
अववादानुशासनीविभागे श्लोका एकपञ्चाशत् |
SK
कल्पासंख्येयनिर्यातो ह्य् अधिमुक्तिं विवर्धयन् | संपूर्णः कुशलैर् धर्मैः सागरो वारिभिर्यथा || AMस_१४.१ ||
SK
अधिमुक्तिं विवर्धयन्न् इत्य् अधिमात्रावस्थानयनात् | शेषं गतार्थः |
SK
तथा संभृतसंभारो ह्य् आदिशुद्धौ जिनात्मजः | सुविज्ञः कल्पचित्तश् च भावनायां प्रयुज्यते || AMस_१४.२ ||
SK
आदिशुद्धो बोधिसत्वसंवरपरिशोधनान् महायाने दृष्टिऋज्जुकरणाच् चाविपरीतार्थग्रहणतः | सुविज्ञो बहुश्रुतत्वात् | कल्पचित्तो विनिवरणत्वात् |
SK
धर्मस्रोतसि बुद्धेभ्यो ऽववादं लभते तदा | विपुलं शमथज्ञानवैपुल्यगमनाय हि || AMस_१४.३ ||
SK
श्लोको गतार्थः |
SK
ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके | सूत्रादिनाम्नि बन्धीयाच् चित्तं प्रथमतो यतिः || AMस_१४.४ ||
SK
ततः पदप्रभेदेषु विचरेद् अनुपूर्वशः | विचारयेत् तदर्थांश् च प्रत्यात्मयोनिशश् च सः || AMस_१४.५ ||
SK
अवधृत्य च तान् अर्थान् धर्मे संकलयेत् पुनः | ततः कुर्यात् समाशस्तिं तदर्थाधिगमाय सः || AMस_१४.६ ||
SK
सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकम् इत्य् एवमादि तत्र चित्तं प्रथमतो बध्नीयात् | एभिस् त्रिभिः श्लोकैः षट् चित्तान्य् उपदिष्टानि | मूलचित्तम् अनुचरचित्तं विचारणाचित्तम् अवधारणाचित्तं संकलनचित्तम् आशास्तिचित्तं च | तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनं | अववादं श्रुत्वा स्वयं वा कल्पयित्वा | तद्यथा ऽनित्यं दुःखं शून्यम् अनात्म्यं च योनिशो न चेत्य् आदि | अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदम् अनुगच्छति | विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति | तत्रार्थं चतुर्भिर् आकारैर् विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च | तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्य् एकस्य च प्रदेशो वेदना षड् वेदनाकाया इत्य् एवम् आदि | तुलना संख्यावतो धर्मस्य शमलक्षग्रहणम् अनाध्यारोपान् अपवादतः | मीमांसा प्रमाणपरीक्षा | प्रत्यवेक्षणा | गणिततुलितमीमांसितस्यार्थस्यावलोकनं | व्यञ्जनं द्वाभ्याम् आकाराभ्यां विचारयति | सार्थतथा च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानां | अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तम् अवधारयति | संकलनचित्तं तद्यथा विचारितम् अर्थं मूलचित्ते संक्षिप्य परिपिण्डिताकारं वर्तते | आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते | चित्तम् एव ह्य् आलम्बनप्रतिभासं वर्तते न चित्ताद् अन्यद् आलम्बनम् अस्तीति जानतो वा चित्तमात्रम् अजानतो वा चित्तम् एवालम्बनं नान्यत् | इति षड्विधं चित्तम् आलम्बनं व्यवस्थाप्यते |
SK
एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः | निर्जल्पैकरसैश् चापि मनस्कारैर् विचारयेत् || AMस_१४.७ ||
SK
ज्ञेयः शमथमार्गो ऽस्य धर्मनाम च पिण्डितं | ज्ञेयो विपश्यनामार्गस् तदर्थानां विचारणा || AMस_१४.८ ||
SK
युगनद्धश् च विज्ञेयो मार्गस् तत्पिण्डितं पुनः | लीनं चित्तस्य गृह्णीयाद् उद्धतं शमयेत् पुनः || AMस_१४.९ ||
SK
शमप्राप्तम् उपेक्षेत तस्मिन्न् आलम्बने पुनः | सातत्येनाथ सत्कृत्य सर्वस्मिन् योजयेत् पुनः || AMस_१४.१० ||
SK
एभिश् चतुर्भिः श्लोकैर् एकादश मनस्कारा उपदिष्टाः | सवितर्कः सविचारः | अवितर्को विचारमात्रः | अवितर्को ऽविचारः | शमथमनस्कारः | विपश्यनामनस्कारः | (Mस ९२) युगनद्धमनस्कारः | शमथनिमित्तमनस्कारः | उपेक्षानिमित्तमनस्कारः | सातत्यमनस्कारः | सत्कृत्यमनस्कारश् च |
SK
निबध्यालम्बने चित्तं तत्प्रवेधं न विक्षिपेत् | अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत् पुनः || AMस_१४.११ ||
SK
प्रत्यात्मं संक्षिपेच् चित्तम् उपर्य् उपरि बुद्धिमान् | ततश् च रमयेच् चित्तं समाधौ गुणदर्शनात् || AMस_१४.१२ ||
SK
अरतिं शमयेत् तस्मिन् विक्षेपदोषदर्शनात् | अभिध्या दौर्मनस्यादीन् व्युत्थितान् शमयेत् तथा || AMस_१४.१३ ||
SK
ततश् च साभिसंस्कारां चित्ते स्वरसवाहितां | लभेतानभिसंस्कारान्रां तदभ्यासात् पुनर् यतिः || AMस_१४.१४ ||
SK
एभिश् चतुर्भिः श्लोकैर् नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः | चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्य् एकोतीकरोति चित्तं समादधातीति नवाकाराः |
SK
ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः | विज्ञेयः समनस्कारः पुनस् तान्स् तां स विवर्धयन् || AMस_१४.१५ ||
SK
वृद्धिदूरंगमत्वेन मौली स लभते स्थितिं | तां शोधयन्न् अभिज्ञार्थम् एति कर्मण्यतां परां || AMस_१४.१६ ||
SK
ध्याने ऽभिज्ञाभिनिर्हाराल् लोकधातून् स गच्छति | पूजार्थम् अप्रमेयाणां बुद्धायां श्रवणाय च || AMस_१४.१७ ||
SK
अप्रमेयान् उपास्यासौ बुद्धान् कल्पैर् अमेयगैः | कर्मण्यतां पराम् एति चेतसस् तदुपासनात् || AMस_१४.१८ ||
SK
एति कर्मण्यतां परां ध्याने इति संबन्धनीयं | कल्पैर् अमेयगैर् इत्य् अप्रमेयसंख्यागतैः | शेषम् एषां श्लोकानां गतार्थं |
SK
ततो ऽनुशंसान् लभते पञ्च शुद्धैः स पूर्वगान् | विशुद्धिभाजनत्वं च ततो याति निरुत्तरं || AMस_१४.१९ ||
SK
कृत्स्नादौ स्वल्पदौष्ठुल्य कायो हि द्रवते ऽस्य प्रतिक्षणं | आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः || AMस_१४.२० ||
SK
अपरिच्छिन्नम् आभासं धर्माणां वेत्ति सर्वतः | अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति || AMस_१४.२१ ||
SK
प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा | करोति सततं धीमान् एवं हेतुपरिग्रहं || AMस_१४.२२ ||
SK
ततः शुद्धेः पूर्वंगमान् पञ्चानुशंसान् लभते | शुद्धेर् इति शुद्ध्याशयभूमेः | तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति | निरुत्तरं यानानन्तर्यात् | प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरि र्बुद्धभूमौ विशुद्धिः | एतेषां पञ्चानाम् अनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ | अतो यावल् लौकिकः समुदागमः |
SK
ततश् चासौ तथाभूतो बोधिसत्वः समाहितः | मनोजल्पाद् विनिर्मुक्तान् सर्वार्थान् न प्रपश्यति || AMस_१४.२३ ||
SK
धर्मलोकस्य वृद्ध्यर्थं वीर्यम् आरभते दृढं | धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते || AMस_१४.२४ ||
SK
सर्वार्थप्रतिभासत्वं ततश् चित्ते प्रपश्यति | प्रहीनो ग्राह्यनिविक्षेपस् तदा तस्य भवत्य् असौ || AMस_१४.२५ ||
SK
ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते | आनन्तर्यसमाधिं च स्पृशत्य् आशु तदा पुनः || AMस_१४.२६ ||
SK
अत ऊर्ध्वं निर्वेधभागीयानि | तथाभूतो बोधिसत्वः समाहितचित्तो मनोजल्पाद् विनिर्मुक्तान् सर्वधर्मान् न पश्यति स्वलक्षणसामान्यलक्षणाख्यान् मनोजल्पमात्रम् एव ख्याति | सास्योष्मगतावस्था | अयं स आलोको यम् अधिकृत्योक्तं क्षारनद्याम् | आलोक इति धर्मनिध्यानक्षान्तेर् एतद् अधिवचनम् इति | स तस्यैव धर्मालोकस्य विवृद्ध्यर्थम् आस्थितक्रियया दृढं वीर्यम् आरभते | सास्य मूर्धावस्था धर्मालोकविवृद्ध्या च चित्तमात्रे ऽवतिष्ठते | चित्तम् एतद् इति प्रतिवेधात् | ततश् चित्त एव सर्वार्थप्रतिभासत्वं पश्यति | न चित्ताद् अन्यम् अर्थं | तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति | ग्राहकविक्षेपः केवलो ऽवशिष्यते | सास्य क्षान्त्यवस्था | तदा च क्षिप्रम् आनन्तर्यसमाधिं स्पृशति | सास्य लौकिकाग्रधर्मावस्था | केन कारणेन स आनन्तर्य उच्यते |
SK
यतो ग्राहकविक्षेपो हीयते तदनन्तरं | ज्ञेयान्य् उष्मगतादीनि एतानि हि यथाक्रमं || AMस_१४.२७ ||
SK
इत्य् एतान्य् उष्मगतादीनि निर्वेधभागीयानि |
SK
द्वयग्राहविसंयुक्तं लोकोत्तरम् अनुत्तरं | निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः || AMस_१४.२८ ||
SK
अतः परेण दर्शनमार्गावस्था | द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात् | अनुत्तरं यानानन्तर्येण | निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात् | मलापेतं दर्शनज्ञेयक्लेशप्रहाणात् | एतेन विरजो विगतमलम् इत्य् उक्तं भवति |
SK
सास्याश्रयपरावृत्तिः प्रथमा भूमिर् इष्यते | अमेयैश् चास्य सा कल्पैः सुविशुद्धिं निगच्छति || AMस_१४.२९ ||
SK
श्लोको गतार्थः |
SK
धर्मधातोश् च समतां प्रतिविध्य पुनस् तदा | सर्वसत्वेषु लभते सदात्मसमचित्ततां || AMस_१४.३० ||
SK
निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि | सत्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः || AMस_१४.३१ ||
SK
धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्वेषु सदा आत्मसमचित्ततां प्रतिलभते | पञ्चविधया समतया | नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोर् अविशेषात् | कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात् | निष्प्रतिकारसमतया | आत्मन इव परतः प्रतिकारानभिनन्दनात् | तदन्यबोधिसत्वसमतया च यथा तैर् अभिसमितं तथाभिसमयात् |
SK
त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः | ज्ञानेन सुविशुद्धेन अद्वयार्थेन पश्यति || AMस_१४.३२ ||
SK
स त्रैधातुकात्मसंस्कारान् अभूतपरिकल्पनामात्रान् पश्यति | सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात् |
SK
तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः | लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते || AMस_१४.३३ ||
SK
तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून् दर्शनप्रहातव्यैः क्लेशैर् विमुक्तं पश्यति |
SK
अभावशून्यतां ज्ञात्वा तथा भावस्य शून्यतां | प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते || AMस_१४.३४ ||
SK
स च बोधिसत्वः शून्यज्ञ इत्य् उच्यते | त्रिविधिशून्यताज्ञानात् | अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात् | तथा भावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः | प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात् |
SK
अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः | अभूतपरिकल्पश् च तदप्रणिहितस्य हि || AMस_१४.३५ ||
SK
अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः | अभूतपरिकल्पस् तदप्रणिधानस्य पदम् आलम्बनम् इत्य् अर्थः |
SK
तेन दर्शनमार्गेण सह लाभः सदा मतः | सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे || AMस_१४.३६ ||
SK
तेन दर्शनमार्गेण सह बोधिसत्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनां |
SK
संस्कारमात्रं जगद् एत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं | विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्थां || AMस_१४.३७ ||
SK
विनात्मदृष्ट्या य इहात्मदृष्टिर् विनापि दुःखेन सुदुःखितश् च | सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा || AMस_१४.३८ ||
SK
यो मुक्तचित्तः परया विमुक्त्या बद्धश् च गाढायतबन्धनेन | दुःखस्य पर्यन्तम् अपश्यमानः प्रयुज्यते चैव करोति चैव || AMस_१४.३९ ||
SK
स्वं दुःखम् उद्वोढुम् इहासमर्थो लोकः कुतः पिण्डितम् अन्यदुःखं | जन्मैकम् आलोकयते गतं त्वचिन्तो विपर्ययात् तस्य तु बोधिसत्वः || AMस_१४.४० ||
SK
यत्प्रेम या वत्सलता प्रयोगः सत्वेष्व् अखेदश् च जिनात्मजानां | आश्चर्यम् एतत् परमं भवेषु न चैव सत्वात्मसमान् अभावात् || AMस_१४.४१ ||
SK
एभिः पञ्चभिः श्लोकैर् दर्शनमार्गलाभिनो बोधिसत्वस्य माहात्म्योद्भावनं | अनर्थमयात्मदृष्टिर् या क्लिष्टा सत्कायदृष्टिः | महात्मदृष्टिर् इति महार्था या सर्वसत्वेष्व् आत्मसमचित्तलाभात्मदृष्टिः | सा हि सर्वसत्वार्थक्रियाहेतुत्वात् महार्था | विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर् महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्वसंतानजेन | यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन | बद्धश् च गाढायतबन्धनेन सर्वसत्वसांन्तानिंकेन (Mस ९६) दुःखस्य पर्यन्तं न पश्यति स्वधातोर् अनन्तत्वाद् आकाशवत् प्रयुज्यते च दुःखस्यान्तक्रियायै सत्वानां करोति चैव ताम् अप्रमेयाणां सत्वानां | विपर्ययात् तस्य तु बोधिसत्वः स हि संपिण्डितसर्वसत्वदुःखं यावल् लोकगतम् उद्वोढुं समर्थः | या सत्वेषु बोधिसत्वस्य प्रियता या च हितसुखैषिता यश् च तदर्थं प्रयोगो यश् चित्तप्रयुक्तस्याखेद एतत् सर्वम् आश्चर्यं परमं लोकेषु | न चैवाश्चर्यं सत्वानाम् आत्मसमानत्वात् |
SK
ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु | ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते || AMस_१४.४२ ||
SK
निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं | अन्यद् यथाव्यवस्थानं सत्वानां परिपाचकं || AMस_१४.४३ ||
SK
भावनायाश् च निर्याणं द्वयसंख्येयसमाप्तितः | पश्चिमां भावनाम् एत्य बोधिसत्वौ ऽभिषिक्तकः || AMस_१४.४४ ||
SK
वज्रोपमं समाधानं विकल्पाभेद्यम् एत्य च | निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां || AMस_१४.४५ ||
SK
सर्वाकारज्ञतां चैव लभते ऽनुत्तरं पदं | यत्र स्थः सर्वसत्वानां हिताय प्रतिपद्यते || AMस_१४.४६ ||
SK
एभिर् भावनामार्गः परिदीपितः | द्विविधं ज्ञानं | निर्विकल्पं च येनात्मनो बुद्धधर्माण् विशोधयति | यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्वान् परिपाचयति | असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनाम् आगम्यावसानगताम् अभिषिक्तो वज्रोपमं समाधिं लभते | विकल्पानुशयाभेद्यार्थेन वज्रोपमः | ततो निष्ठागताम् आश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलां | सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत् संसारम् अभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्वानां हिताय प्रतिपद्यते |
SK
कथं तथा दुर्लभदर्शने मुनौ भवेन् महार्थं न हि नित्यदर्शनं | भृशं समाप्यायितचेतसः सदा प्रसादवेगैर् असमश्रवोद्भवैः || AMस_१४.४७ ||
SK
अप्रचोद्यमानः सततं च संमुखं तथागतैर् धर्मसुमुखे व्यवस्थितः | निगृह्य केशेष्व् इव दोषगह्वरात् निकृष्य बोधौ स बलान् निवेश्यते || AMस_१४.४८ ||
SK
स सर्वलोकं सुविशुद्धदर्शनैर् अकल्पबोधैर् अभिभूय सर्वथा | महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः || AMस_१४.४९ ||
SK
एभिस् त्रिभिः श्लोकैर् अववादमाहात्म्यं दर्शयति | यो हि धर्ममुखश्रोतस्य् अववादं लभते तस्य नित्यं बुद्धदर्शनं भवति | ततश् चासमं धर्मश्रवणं | यतो ऽस्यात्यर्थं प्रसादः प्रसादवेगैर् आप्यायितचेतसस् तन्नित्यदर्शनं बुद्धानां महार्थं भवति | शेषं गतार्थं |
SK
बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते निन्दाम् ईर्ष्याप्रयुक्ते स्थितिविचयपरे चान्तरायानुकूलान् | धर्मान् सर्वप्रकारान् विधिवद् इह जिना दर्शयन्त्य् अग्रसत्वे यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम् || AMस_१४.५० ||
SK
चतुर्विधाम् अनुशासनीम् एतेन श्लोकेन दर्शयति | अधिशीलम् अधिकृत्य सम्यक्स्वार्थप्रयुक्ते बोधिसत्वे प्रशंसाविधानतः | अधिचित्तम् अधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः | यान् वर्ज्यासेव्येत्य् अन्तरायान् अनुकूलांश् च यथाक्रमं | योग इति शमथविपश्यनाभावनायां |
SK
इति सततशुभाचयप्रपूर्णः सुविपुलम् एत्य स चेतसः समाधिं | मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्वः || AMस_१४.५१ ||
SK
निगमश्लोको गतार्थः |
SK
महायानसूत्रालंकारे अववादानुशासन्यधिकारश् चतुर्दशः
SK
CHAPITRE XV पञ्चदशो ऽधिकारः
SK
उद्दानम् अधिमुक्तेर् बहुलता धर्मपर्येष्टिदेशने | प्रतिपत्तिस् तथा सम्यगववादानुशासनं || AMस_१५.१ ||
SK
उपायसहितकर्मविभागे चत्वारः श्लोकाः |
SK
यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः | तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते || AMस_१५.२ ||
SK
अनेन श्लोकेन समुत्थानोपायं दर्शयति | सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात् | बुधेष्व् इति बोधिसत्वेषु | वनादिग्रहणम् उपभोज्यास्थिरस्थिरवस्तुनिदर्शनार्थं |
SK
सुदुष्करैः कर्मभिरुद्यतात्मानां विचित्ररूपैर् बहुकल्पनिर्गतैः | न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः || AMस_१५.३ ||
SK
यथा विषाच् छस्त्रमहाशनाद् रिपोर् निवारयेद् आत्महितः स्वम् आश्रयं | निहीनयानाद् विविधाज् जिनात्मजो निवारयेत् कर्म तथा त्रयात्मकं || AMस_१५.४ ||
SK
आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति | महायानखेदान्ययानपातव्युत्थानाद् यथाक्रमं | संनतिः खेद इत्य् अर्थः | विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात् महायाने कुशलमूलसमुच्छेदनात् अनुत्पन्नकुशलमूलानुत्पादाय | उत्पन्नकुशलमूलस्य ध्वंसनात् | बुद्धत्वसंपत्प्राप्तिविबन्धनाच् च |
SK
न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा | ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्य् अनन्तं तदुपायसंग्रहात् || AMस_१५.५ ||
SK
अनेन श्लोकेन चतुर्थेन विशुद्ध्युपायं कर्मणो दर्शयति | मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणाम् अनुपलम्भात् | अनन्तम् इत्य् अक्षयं |
SK
महायानसूत्रालंकारे उपायसहितकर्माधिकारः पञ्चदशः
SK
CHAPITRE XVI षोडशो ऽधिकारः
SK
पारमिताप्रभेदसंग्रहे उद्दानश्लोकः |
SK
सांख्याथ तल्लक्षणम् आनुपूर्वी निरुक्तिर् अभ्यासगुणश् च तासां | प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश् च || AMस_१६.१ ||
SK
संख्याविभागे षट् श्लोकाः |
SK
भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः | क्लेशावशगत्वम् अपि च कृत्येषु सदाविपर्यासः || AMस_१६.२ ||
SK
इति प्रथमः | तत्र चतसृभिः पारमिताभिश् चतुर्विधो ऽभ्युदयः | दानेन भोगसंपत् | शीलेनात्मभावसंपत् | क्षान्त्या परिचारसंपत् | तथा हि तदासेवनाद् आयत्याद् बहुजनसुप्रियो भवति | वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः | पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् | षष्ट्या कृत्येष्व् अविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् | इत्य् अभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट् पारमिता व्यवस्थिताः |
SK
सत्वार्थेषु सुयुक्तस् त्यागानुपघातमर्षणैः कुरुते | सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति || AMस_१६.३ ||
SK
इति द्वितीयः | सत्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्वस् तिसृभिर् दानशीलक्षान्तिपारमिताभिर् यथाक्रमं त्यागेनानुपघातेनाउपघातमर्षणेन च सत्वार्थं कुरुते | तिसृभिः सनिदानतया चित्तस्थित्या विमुक्त्या च सर्वप्रकारम् आत्मार्थं चरति | वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यासमाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात् | इति परार्थम् आत्मार्थं चारभ्य षट् पारमिताः |
SK
अविघातैर् अविहेठैर् विहेठसंमर्षणैः क्रियाखेदैः | आवर्जनैः सुलपितैः परार्थ आत्मार्थ एतस्मात् || AMस_१६.४ ||
SK
इति तृतीयः | दानादिभिर्बोधिसत्वस्य सकलः परार्थो भवति | यथाक्रम परेषाम् उपकरणाविघातै | अविहेठैः विहेठनामर्षणैः | साहाय्यक्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः सुभाषितसुलपितैश् च संशयच्छेदनात् | एतस्मात् परार्थात् बोधिसत्वस्यात्मार्थो भवति | परकार्यस्वकार्यत्वान् महाबोधिप्राप्तितश् च | इति सकलपरार्थाधिकारात् षट् पारमिताः |
SK
भोगेषु चानभिरतिस् तीव्रा गुरुताद्वये अखेदश् च | योगश् च निर्विकल्पः समस् तम् इदम् उत्तमं यानं || AMस_१६.५ ||
SK
इति चतुर्थः | दानेन बोधिसत्वस्य भोगेष्व् अभिरतिर् निरपेक्षत्वात् | शीलसमादानेन बोधिसत्वशिक्षासु तीव्रा गुरुता | क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्वासत्वकृते कुशलप्रयोगे च | ध्यानप्रज्ञायां निर्विकल्पो (Mस १००) योगः शमथविपश्यनासंगृहीतः | एतावच् च समस्तमहायानसंग्रहाधिकारात् षट् पारमिताः |
SK
विषयेष्व् असक्तिमार्गस् तदाप्तिविक्षेपसंयमेष्व् अपरः | सत्वाविसृजनवर्धन आवरणविशोधनेष्व् अपरः || AMस_१६.६ ||
SK
इति पञ्चमः | तत्र दानं विषयेष्व् असक्तिमार्गस् त्यागाभ्यासेन तत्सक्तिविगमात् | शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयाप्राप्तये सर्वकर्मान्तविक्षेपाणाम् अप्रवृत्तेः | क्षान्तिः सत्वानुत्सर्गे सर्वोपकारदुःखानुद्वेगात् | वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्वद्धिगमनात् | ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस् ताभ्यां क्लेशज्ञेयावरणविशोधनात् | मार्ग इत्य् उपायः | एवं सर्वकारमार्गाधिकारात् षट् पारमिताः |
SK
शिक्षात्रयम् अधिकृत्य च षड् पारमिता जिनैः समाख्याताः | आद्या तिस्रो द्वेधा अन्त्यद्वयतस् तिसृष्व् एका || AMस_१६.७ ||
SK
इति षष्ठः | तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् | दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्य् आक्रुष्टाप्रत्याक्रोशनादिभिः | द्विधेत्य् अधिचित्तम् अधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च | तिसृष्व् अपि शिक्षास्व् एका वीर्यपारमिता वेदितव्या | सर्वासां वीर्यसहायत्वात् | लक्षणविभागे श्लोकाः षट् |
SK
दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन | सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा || AMस_१६.८ ||
SK
बोधिसत्वानां दानं चतुर्विधलक्षणं | विपक्षहीनं तात्पर्यस्य प्रहीणत्वात् | निर्विकल्पज्ञानसहगतं धर्मनैरात्म्यप्रतिवेधयोगात् सर्वेच्छापरिपूरकं यो यद् इच्छति तस्मै तस्य दानात् | सत्वपरिपाचकं त्रेधा दानेन सत्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात् |
SK
शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन | सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा || AMस_१६.९ ||
SK
क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन | सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा || AMस_१६.१० ||
SK
वीर्यं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन | सर्वेच्छापरिपूरकम् अपि सत्वाविपाचकं त्रेधा || AMस_१६.११ ||
SK
ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन | सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा || AMस_१६.१२ ||
SK
प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन | सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा || AMस_१६.१३ ||
SK
यथा दानलक्षणं चतुर्विधम् एवं शीलादीनां वेदितव्यं | एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं | सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् | सत्वपरिपाचकत्वं शीलादिभिर् आवर्ज्य त्रिषु यानेषु परिपाचनात् | अनुक्रमविभागे श्लोकः |
SK
पूर्वोत्तरविश्रयतश् चोत्पत्तेस् तत्क्रमेण निर्देशः | हीनोत्कर्षस्थानाद् औदारिकसूक्ष्मतश् चापि || AMस_१६.१४ ||
SK
त्रिभिः कारणैस् तेषां दानादीनां क्रमेण निर्देशः | पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः | भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यम् आरभते आरब्धवीर्यः समाधिम् उत्पादयति समाहितचित्तो यथाभूतं प्रजानाति | पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात् | हीनं हि दानम् उत्कृष्टं शीलम् एवं यावद् धीनं ध्यानम् उत्कृष्टा प्रज्ञेति | पूर्वस्य चाउदारिकत्वाद् उत्तरस्य सूक्ष्मत्वात् | औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच् च | सूक्ष्मं शीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच् च | एवं यावद् औदारिकं ध्यानं सूक्ष्मा प्रज्ञेति | निर्वचनविभागे श्लोकः |
SK
दारिद्यस्यापनयाच् छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः | वरयोगमनोधारणपरमाथज्ञानतश् चोक्तिः || AMस_१६.१५ ||
SK
दारिद्र्यम् अपनयतीति दानं | शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात् क्षयः क्रुद्धेर् इति क्षान्तिस् तया क्रोधक्षयात् | वरेण योजयतीति (Mस १०२) वीर्यं कुशलधर्मयोजनात् | धारयत्य् अध्यात्मं मन इति ध्यानं | परमार्थ जानात्य् अनयेति प्रज्ञा | भावनाविभागे श्लोकः |
SK
भावनोपधिम् आश्रित्य मनस्कारं तथाशयं | उपायं च विभुत्वं च सर्वासाम् एव कथ्यते || AMस_१६.१६ ||
SK
पञ्चविधा पारमिताभावना | उपधिसंनिश्रिता | तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः | विपाकसंनिश्रिता य आत्मभावसंपत्तिबलेन | प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन | प्रतिसंख्यानसंनिश्रिता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः | मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा | अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तम् अधिमुच्यमानस्य | आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन | अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्वानां दानादिकम् अनुमोदमानस्य | अभिनन्दनामनस्कारेणात्मनः सत्वानां चानागतं पारमिताविशेषम् अभिनन्दमानस्य | आशयसंनिश्रिता पारमिताभावना षडाकारा | अतृप्ताशयेन विपुलाशयेन मुदिता--आशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च | तत्र बोधिसत्वस्य दाने ऽतृप्ताशयो यद् बोधिसत्व एकसत्वस्यैकक्षणे गंगानदीवालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् | गंगानदीवालिकासमांश् चात्मभावान् | एवं च प्रतिक्षणं गंगानदीवालिकासमान् कल्पान् प्रतिपादयेत् | यथा चैकस्य सत्वस्यैवं यावान् सत्वधातुर् अनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस् तम् अनेन पर्यायेण प्रतिपादयेत् | अतृप्त एव बोधिसत्वस्य दानाशय इति | य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने ऽतृप्ताशयः | न च बोधिसत्व एवंरूपां दानपरंपरां क्षणमात्रम् अपि हापयति | न विच्छिनत्त्या बोधिमण्डनिषदनाद् इति | य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने विपुलाशय इति | मुदिततरश् च बोधिसत्वो भवति तान् सत्वान् दानेन तथानुगृह्णन् | न त्व् एव ते सत्वास् तेन दानेनानुगृह्यमाणा इति | य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने मुदिताशयः | उपकारकतरांश् च स बोधिसत्वस् तान् सत्वान् आत्मनः समनुपश्यति | येषां तथा दानेनोपकरोति नात्मानं | तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति | य एवंरूप आशयो ऽयं आशयः | न च बोधिसत्वः सत्वेषु तथा विपुलम् अपि दानमयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वा अर्थो भवति विपाकेन वा इति | य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां निर्लेपाशयः | यद्बोधिसत्वस् तथा विपुलस्यापि (Mस १०३) दानस्कन्धस्य विपाकम् सत्वेष्व् अभिनन्दति नात्मनः | सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति | य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां कल्याणाशयः | तत्र बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् अतृप्ताशयः | यद् बोधिसत्वो गंगानदीवालिकासमेष्व् आत्मभावेषु गंगानदीवालिकासमकल्पायुष्प्रमाणेषु सर्वाउपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधाताव् अग्निप्रतिपूर्णे चतुर्विधम् ईर्यापथं कल्पयन्न् एकं शीलपारमिताक्षणं यावत् प्रज्ञापारमिताक्षणं भावयेद् एतेन पर्यायेण यावांश् छीलस्कन्धो यावान् च प्रज्ञासकन्धो येनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते शीलस्कन्धं यावत् प्रज्ञास्कन्धं भावयेद् अतृप्त एव बोधिसत्वस्य शीलपारमिताभावनायाम् आशयो यावत् प्रज्ञापारमिताभावनायाम् आशय इति | य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायाम् अतृप्ताशयो यावत् प्रज्ञापारमिताभावनायाम् आशयः | यद्बोधिसत्वास्तां शीलपारमिताभावनापरंपरां यावत् प्रज्ञापारमिताभावना परंपरामा बोधिमण्डनिषदनान् न स्रंसयति न विच्छिनत्ति इति | य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां विपुलाशयः | मुदिततरश् च बोधिसत्वो भवति तया शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया सत्वाननुगृह्लन् | न त्व् एव ते सत्वा अनुगृह्यमाणा इति | य एवंरूप आश्यो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां मुदिताशयः | उपकारकतरांश् च बोधिसत्वस्तान् सत्वानात्मनः समनुपश्यति | येषां तथा शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया उपकरोति नात्मानं | तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति | य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् उपकाराशयः | न च बोधिसत्वस्तथा विपुलम् अपि शीलपारमिताभावनामयं यावत् प्रज्ञापारमिताभावनामयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वार्थो भवति विपाकेन वा इति | य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां निर्लेपाशयः | तत्र यद् बोधिसत्व एवं शीलपारमिताभावनामयस्य यावत् प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्वेष्व् एवाभिनन्दति नात्मनः | सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति | य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां कल्याणाशयः | उपायसंनिश्रिता भावना त्र्याकारा | निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणताम् उपादाय | तथा हि स उपायः सर्वमनसिकाराणाम् अभिनिष्पत्तये | विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा | कायविभुत्वतः | चर्याविभुत्वतः | देशनाविभुत्वतश् च | तत्र कायविभुत्वं (Mस १०४) तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश् च | तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः | येन सर्वाकारां सर्वसत्वानां सहधार्मिकचर्यां दर्शयति | देशनाविभुत्वं षट्पारमितासर्वाकारदेशनायाम् अव्याघातः | प्रभेदसंग्रहे द्वादश श्लोकाः | दानादीनां प्रत्येकं षडर्थप्रभेदतः | षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः | तत्र दानप्रभेदे द्वौ श्लोकौ |
SK
प्रतिपादनम् अर्थस्य चेतना मूलनिश्चिता | भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं || AMस_१६.१७ ||
SK
अमात्सर्ययुतं तच् च दृष्टधर्मामिषाभये | दानम् एव परिज्ञाय पण्डितः समुदानयेत् || AMस_१६.१८ ||
SK
अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः | अलोभादिसहजा चेतना हतुः | भोगसंपत्तिर् आत्मभावसंपत्तिश् चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् | स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश् च कर्म | अमात्सर्ययोगो अमत्सरिषु वर्तते | दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः | शीलप्रभेदे द्वौ श्लोकौ |
SK
षडङ्गशमभावान्तं सुगतिस्थितिदायकं | प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं || AMस_१६.१९ ||
SK
संकेतधर्मतालब्धं संवरस्थेषु विद्यते | शीलम् एवं परिज्ञाय पण्डितः समुदानयेत् || AMस_१६.२० ||
SK
षडङ्गम् इति स्वभावः | षडङ्गीति शीलवान् विहरति यावत् समादाय शिक्षते शिक्षापदेष्व् इति | शमभावान्तम् इति हेतुः | निर्वाणाभिप्रायेण समादानात् | सुगतिस्थितिदायकम् इति फलं | शीलेन सुगतिगमनात् | अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच् च | प्रतिष्ठाशान्तनिर्भीतम् इति कर्म | शीलं हि सर्वगुणानां प्रतिष्ठा भवति | क्लेशपरिदाहशान्त्या च शान्तं | प्राणातिपातादिप्रत्ययानां (Mस १०५) च भयावद्यवैराणाम् अप्रसवान् निर्भोतं | पुण्यसंभारसंयुतम् इति योगः सर्वकालं कायवाङ्मनस्कर्मसमावरणात् | संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस् तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं | धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतम् एषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् | संवरस्थेषु विद्यत इत्य् आचारवृत्तिः | क्षान्तिप्रभेदे द्वौ श्लोकौ |
SK
मर्षाधिवासनज्ञानं कारुण्याद् धर्मसंश्रयात् | पञ्चानुशंसम् आख्यातं द्वयोर् अर्थकरं च तत् || AMस_१६.२१ ||
SK
तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं | क्षान्तिम् एवं परिज्ञाय पण्डितः समुदानयेत् || AMस_१६.२२ ||
SK
मर्षाधिवासज्ञानम् इति त्रिविधियाः क्षान्तेः स्वभावः | अपकारमर्षणक्षान्तेर् मर्षणां मर्ष इति कृत्वा | दुःखाधिवासक्षान्तेर् धर्मनिध्यानक्षान्तेश् च यथाक्रमं | कारुण्याद् धर्मसंश्रयाद् इति हेतुः | धर्मसंश्रयः पुनः | शीलसमादानं श्रुतपर्यवाप्तिश् च | पञ्चानुशंसम् आख्यातम् इति फलं | यथोक्तं सूत्रे | पञ्चानुशंसाः क्षान्तौ | न वैरबहुलो भवति | न भेदबहुलो भवति | सुखसौमनस्य बहुलो भवति | अविप्रतिसारी कालं करोति | कायस्य न भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति | द्वयोर् अर्थकरं च तद् इति मर्षाधिवासनम् इत्य् अधिकृतं इदं कर्म | यथोक्तं |
SK
द्वयोर् अर्थं स कुरूते आत्मनश् च परस्य च | यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति || इति ||
SK
तपःप्राबल्यसंयुक्तम् इति योगः | यथोक्तं | क्षान्तिः परमं तप इति | तेषु तद् इत्य् आधारवृत्तिः क्षमिषु तद्वृत्तेः | त्रिविधं मतम् इति प्रभेदवृत्तिस् त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् | वीर्यप्रभेदे द्वौ श्लोकौ |
SK
उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः | स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः || AMस_१६.२३ ||
SK
अलोभादिगुणोपेतस् तेषु सप्तविधश् च सः | वीर्यम् एव परिज्ञाय पण्डितः समुदानयेत || AMस_१६.२४ ||
SK
उत्साहः कुशले सम्यग् इति स्वभावः | कुशल इति तदन्यकृत्योत्साहव्युदासाथ सम्यग् इत्य् अन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं | श्रद्धाच् छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्य् अतीव वीर्यम् आरभति | स्मृत्यादिगुणवृद्धाव् इति फलं | आरब्धवीर्यस्य (Mस १०६) स्मृतिसमाध्यादिगुणोद्भवात् | संक्लेशप्रातिपक्षिक इति कर्म | यथोक्तं आरब्धवीर्यस् तु सुखं विहरत्य् अव्यवकीर्णः पापकैर् अकुशलैर् धर्मैर् इति | अलोभादिगुणोपेत इति योगः | तेष्व् इत्य् आरब्धवीर्येषु इयम् आधारवृत्तिः | सप्तविध इति प्रभेदवृत्तिः | स पुनर् अधिशीलादिशिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद् वीर्यं | ध्यानप्रभेदे द्वौ श्लोकौ |
SK
स्थितिश् चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं | सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम् || AMस_१६.२५ ||
SK
धर्माणां प्रमुखं तेषु विद्यते त्रिविधश् च सः | ध्यानम् एवं परिज्ञाय पण्डितः समुदानयेत् || AMस_१६.२६ ||
SK
स्थितिश् चेतस अध्यात्मम् इति स्वभावः | स्मृतिवीर्यप्रतिष्ठितम् इति हेतुः | आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् | सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् | अभिज्ञाविहारवशवर्तकम् इति कर्म | ध्यानेनाभिज्ञावशवर्तनात् | आर्यदिव्यब्राह्मविहारवशवर्तनाच् च | धर्माणां प्रमुखम् इति प्रामुख्येन योगः | यथोक्तं | समाधिप्रमुखाः सर्वधर्मा इति | तेषु विद्यत इति ध्यायिष्व् इयम् आधारवृत्तिः | त्रिविधश् च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः | अवितर्को अविचारः | पुनः प्रीतिसहगतः | सातसहगतः | उपेक्षासहगतश् च | इयं प्रभेदवृत्तिः | प्रज्ञाप्रभेदे द्वौ श्लोकौ |
SK
सम्यक्प्रविचयो ज्ञेयः शसमाधानप्रतिष्ठितः | सुविमोक्षाय संक्लेशात् प्रज्ञाजीवसुदेशनः || AMस_१६.२७ ||
SK
धर्माणाम् उत्तरस् तेषु विद्यते त्रिविधश् च सः | प्रज्ञाम् एवं परिज्ञाय पण्डितः समुदानयेत् || AMस_१६.२८ ||
SK
सम्यक् प्रविचयो ज्ञेय इति स्वभावः | सम्यग् इति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थं | समाधानप्रतिष्ठित इति हेतुः | समाहितचित्तो यथाभूतं प्रजानाति | यस्मात् सुविमोक्षाय संक्लेशाद् इति फलं | तेन हि संक्लेशात् सुविमोक्षो भवति | लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन | प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म | तेन ह्य् अनुत्तरप्रज्ञा जीवकानां जीवति | सम्यग् धर्म देशयतीति | धर्माणाम् उत्तर इत्य् उत्तरत्वेन योगः | यथोक्तं | प्रज्ञोत्तराः सर्वधर्मा इति | तेषु विद्यते त्रिविधश् च स इति वृत्तिः | प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन | लौकिको हीनलोकोत्तरो (Mस १०७) महालोकोत्तरश् च | उक्तः प्रत्येकं दानादीनां षडर्थप्रभेदेन प्रभेदः | संग्रहविभागे श्लोकः |
SK
सर्वे शुक्ला धर्मा विक्षिप्तसमाहितोभया ज्ञेयाः | द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः || AMस_१६.२९ ||
SK
सर्वे शुक्ला धर्मा दानादिधर्माः | तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोर् असमाहितत्वात् | समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः समाहितत्वात् | उभये द्वाभ्यां क्षान्तिवीर्याभ्यां | तयोः समाहितासमाहितत्वात् | विपक्षविभागे श्लोकाः षट् |
SK
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च दानं | न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् || AMस_१६.३० ||
SK
सप्तविधा सक्तिर् दानस्य विपक्षः | भोगसक्तिः विलम्बनशक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः प्रतिकारसक्तिः विपाकसक्तिः | विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्घातात् | विक्षेपसक्तिश् च | स पुनर् विक्षेपो द्विविधः | मनसिकारविक्षेपश् च हीनयानस्पृहणात् | विकल्पविक्षेपश् च दायकप्रतिग्राहकदानविकल्पनात् | अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वम् उक्तं |
SK
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च शीलं | न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् || AMस_१६.३१ ||
SK
न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः | न च सक्ता न च सक्ता न च सक्ता बोधिसत्वानाम् || AMस_१६.३२ ||
SK
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव च न वीर्यं | न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् || AMस_१६.३३ ||
SK
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च ध्यानं | न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् || AMस_१६.३४ ||
SK
न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा | न च सक्ता न च सक्त न च सक्ता बोधिसत्वानाम् || AMस_१६.३५ ||
SK
यथा दानासक्तिर् उक्ता एवं शीले यावत् प्रज्ञायां वेदितव्या | अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासक्तिर् वेदितव्या विपक्षसक्तिस् तद्विपक्षानुशयासमुद्घातनात् | विकल्पविक्षेपश् च यथायोगं त्रिमण्डलपरिकल्पनात् | गुणविभागे त्रयोविंशतिः श्लोकाः |
SK
त्यक्तं बुद्धसुतैः स्वजीवितम् अपि प्राप्यार्थिनं सर्वदा कारुण्यात् परतो न च प्रतिकृतिर् नेष्टं फलं प्रार्थितं | दानेनैव च तेन सर्वजनता बोधित्रये रोपिता दानं ज्ञानपरिग्रहेण च पुनर् लोके ऽज्ञयं स्थापितम् || AMस_१६.३६ ||
SK
इति सुबोधः पदार्थः |
SK
आत्तं बुद्धसुतैर् यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता | शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता शीलं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् || AMस_१६.३७ ||
SK
त्रिविधं शीलं | संवरशीलं | कुशलधर्मसंग्राहकशीलं | सत्वार्थक्रियाशीलं च | एकात्मकं यमस्वभावं | द्वे उद्यमस्वभावे |
SK
क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थम् असशक्तिमतो न च भयान् नैवोपकारेक्षणात् | क्षान्त्यानुत्तरया च सर्वजनता बोधित्रये रोपिता क्षान्तिर् ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षया स्थापिता || AMस_१६.३८ ||
SK
इति | क्षान्त्यानुत्तरया चैति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमं |
SK
वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परतः प्राप्तुं च बोधिं परां | वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता वीर्यं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् || AMस_१६.३९ ||
SK
इति | संनाहवीर्यं प्रयोगवीर्यं च |
SK
ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर् ध्यानसुखैर् विहृत्य कृपया हीनापपत्तिः श्रिता | ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता ध्यानं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् || AMस_१६.४० ||
SK
इति | समाधिंबहुलम् इति अनन्तबोधिसत्वसमाधिसंगृहीतं |
SK
ज्ञातं बुद्धसुतैः सतत्वम् अखिलं ज्ञेयं च यत् सर्वथा सक्तिर् नैव च निर्वृतौ प्रजनिता बुद्धैः कुतः संवृतौ | ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता ज्ञानं सत्वपरिग्रहेण पुनर् लोके ऽक्षयं स्थापितम् || AMस_१६.४१ ||
SK
इति | सतत्वं परमार्थसंगृहीतं सामान्यलक्षणं पुद्गलधर्मनैरात्म्यं | ज्ञेयं च यत् सर्वथेत्य् अनन्तस्वसंकेतादिलक्षणभेदभिन्नं यद् अज्ञेयं | दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् | ज्ञानस्य पुनः सत्वपरिग्रहेण करुणया सत्वानाम् अपरित्यागात् | एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः |
SK
औदार्यानामिषत्वं च महार्थाक्षयतापि च | दानादीनां समस् तं हि ज्ञेयं गुणचतुष्टयम् || AMस_१६.४२ ||
SK
इति | तत्र दानादीनां प्रथमेन पादेनोदारता परिदीपिता | द्वितीयेन निरामिषता | तृतीयेन महार्थताः महतः सत्वार्थस्य संपादनात् | चतुर्थेनाक्षयता इत्य् एषां गुणचतुष्टयम् एभिः श्लोकैर् वेदितव्यं |
SK
दर्शनपूरणतुष्टिं याचनके ऽतुष्टिम् अपि समाशस्तिं | अभिभवति स तां दाता कृपालुराधिक्ययोगेन || AMस_१६.४३ ||
SK
याचनके हि जने दायकदर्शनात् ततश् च यथा-ईप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिर् उत्पद्यते | अतुष्टिश् चादर्शनाद् अपरिपूरणाच् च | आशास्तिश् च या तद्दर्शने मनोरथपरिपूरणे च | सा बोधिसत्वस्याधिकोत्पद्यते (Mस ११०) सर्वकालं याचनकदर्शनात् तन्मनोरथपरिपूरणाच् च | अदर्शनाद् अपरिपूरणाच् चातुष्टिः | अतो दाता कृपालुस् तां सर्वम् अभिभवत्य् आधिक्ययोगात् |
SK
प्राणान् भोगान् दारान् सत्वेषु सदान्यत्यजनकृपालुत्वात् | आमोदते निकामं तद्विरतिं पालयात्र कथम् || AMस_१६.४४ ||
SK
तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः | एतेन त्रिविधात् कायदुश्चरिताद् विरतिशीलगुणं दर्शयति |
SK
निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः | मिथ्यावादं ब्रूयात् परोपघाताय कथम् आर्यः || AMस_१६.४५ ||
SK
एतेन मृषावादाद् विरतिगुणं दर्शयति | आत्महेतोर् मृषावाद उच्येत कायजीवितापेक्षया | परहेतोर् वा प्रियजनप्रेम्ना | भयेन वा राजादिभयात् | आमिषकिंचित्कहेतोर् वा लाभार्थं | बोधिसत्वश् च स्वकायजीवितनिरपेक्षः | समचित्तश् च सर्वसत्वेष्व् आत्मसमचित्ततया | निर्भयश् च पञ्चभयसमतिक्रान्तत्वात् | सर्वप्रदश् चार्थिभ्यः सर्वस्वपरित्यागात् | स केन हेतुना मृषावादं ब्रूयात् |
SK
समहितकामः सकृपः परदुःखोत्पादने ऽतिभीरूश् च | सत्वविनये सुयुक्तेः सुविदूरे त्रिविधवाग्दोषात् || AMस_१६.४६ ||
SK
बोधिसत्वः सर्वसत्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति | सकृपश् च परदुःखापनयाभिप्रायात् | परदुःखोत्पादने चात्यर्थं भीरुः स कथं परेषां दुःखोत्पादनार्थं परुषं वक्ष्यति | सत्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्माद् असौ सुविदूरे त्रिविधवाग्दोषात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापाच् च |
SK
सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश् च | अधिवासयेत् कथम् असौ सर्वाकारं मनः क्लेशम् || AMस_१६.४७ ||
SK
अभिध्या व्यापादो मिथ्यादृष्टिर् वा यथाक्रमं | एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच् छीलविशुद्धिगूणो बोधिसत्वानां वेदितव्यः |
SK
उपकरसंज्ञामोदं ह्य् अपकारिणिपरहित संज्ञांपरहिते सदा दुःखे | लभते यदा कृपालुः क्षमितव्यं तस्य किं न स्यात् || AMस_१६.४८ ||
SK
यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा |
SK
परपरसंज्ञापगमात् स्वतो ऽधिकतरात् सदा परस्नेहात् | दुष्करचरणात् सकृपे ह्य् अदुष्करं वीर्यं || AMस_१६.४९ ||
SK
सकृपो बोधिसत्वः | तत्र सकृपे यत् परार्थं दुष्करचरणाद् वीर्थं तददुष्करं च सुदुष्करं च | कथम् अदुष्करं | परत्र परसंज्ञापगमात् | स्वतोऽधिकतराच् च सर्वदा परेषु स्नेहात् | कथं सुदुष्करं | यद् एवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यं |
SK
अल्पसुखं ह्य् आत्मसुखं लीनं परिहाणिकं क्षयि समोहं | ध्यानं मतं त्रयाणां विपर्ययाद् बोधिसत्वानाम् || AMस_१६.५० ||
SK
अल्पसुखं ध्यानं लौकिकानाम् आत्मसुखं श्रावकप्रत्येकबुद्धानां | लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे | परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरुपधिशेषनिर्वाणे तत्क्षयात् | समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन | बोधिसत्वानां पुनर् ध्यानं बहुसुखम् आत्मपरसुखम् अलीनमपरिहाणिकम् अक्षय्यसमोहं च |
SK
आमोषैस् तमसि यथा दीपैर् नुन्नं तथा त्रयज्ञानं | दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम् || AMस_१६.५१ ||
SK
यथा हस्तामोषैस् तमसि ज्ञानं परीत्तविषयमप्रत्यक्षम् अव्यक्तं च तथा पृथग्जनानां | यथावचरके दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च | यथा दिनकरकिरणैर् ज्ञानं समन्तात् प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्वानां | अत एव तद् अतुल्यं |
SK
आश्रयाद् वस्तुतो दानं निमित्तात् परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् || AMस_१६.५२ ||
SK
तत्राश्रयो बोधिसत्वः | वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमं | अभ्यदानस्यापायसंसारभीतेभ्यस् तु (Mस ११२) तदभयं | धर्मदानस्य महायानं | निमित्तं करुणा | परिणामना तेन महाबोधिफलप्रार्थना | हेतुः पूर्वदानपारमिताभ्यासवासना | ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहकाविकल्पनात् | क्षेत्रं पञ्चविधं | अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश् च | चतुर्णाम् उत्तरं क्षेत्रं परं | तदभावे पञ्चमं | निश्रयस् त्रिविधो यं निश्रित्य ददाति | अधिमुक्तिर् मनसिकारः समाधिश् च | अधिमुक्तिर् यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः | मनस्कारो यथा तत्रैवास्वादनाभिनन्दनमनस्कार उक्तः | समाधिर् आदिर् यथा तत्रैव विभुत्वम् उक्तं | एवम् आश्रयादिपरसमयो दानं परमं | सोऽयं चापदेशो वेदितव्यः | यश् च ददाति यच् च येन च यस्मै च यतश् च यस्य च परिग्रहेण यत्र च यावत् प्रकारं तद् दानं |
SK
आश्रयाद् वस्तुतः शीलं निमित्तात् परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् || AMस_१६.५३ ||
SK
आश्रयाद् वस्तुतो वीर्यं निमित्तात् परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् || AMस_१६.५४ ||
SK
आश्रयाद् वस्तुतो ध्यानं निमित्तात् परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् || AMस_१६.५५ ||
SK
आश्रयाद् वस्तुतः प्रज्ञा निमित्तात् परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परा मता || AMस_१६.५६ ||
SK
शीलस्य परमं वस्तु बोधिसत्वसंवरः | क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ | वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च | धानस्य बोधिसत्वसमाधयः | प्रज्ञायास् तथता | सर्वेषां शीलादीनां क्षेत्रं महायानं | शेषं पूर्ववद् वेदितव्यं |
SK
एकसत्वसुखं दानं बहुकल्पविघातकृत् | प्रियं स्याद् बोधिसत्वानां प्राग् एव तद्विपर्ययात् || AMस_१६.५७ ||
SK
यदि बोधिसत्वानां दानम् एकस्यैव सत्वस्य सुखदं स्याद् आत्मनश् च बहुकल्पविघातकृत् | तथापि तत् तेषां प्रियं स्यात् करुणाविशेषात् किं पुनर् यद् अनेकसत्वसुखं च भवत्या त्मनश् च बहुकल्पानुग्रहकृत् |
SK
यद् अर्थम् इच्छन्ति धनानि देहिनस् तदेव धीरा विसृजन्ति देहिषु | शरीरहेतोर् धनम् इष्यते जनैस् तद् एव धीरैः शतशो विसृज्यते || AMस_१६.५८ ||
SK
अत्र पूर्वार्धम् उत्तरार्धे व्याख्यातं |
SK
शरीरम् एवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा | तदस्य लोकोत्तरम् इति यन् मुदं स तेन तत् तस्य तद् उत्तरं पुनः || AMस_१६.५९ ||
SK
अत्र शरीरम् एवाउत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरम् इति संदर्शितं | एति यन् मुदं स तेन दुःखेन तत् तस्य तदुत्तरम् इति तस्माल् लोकोत्तराद् उत्तरं |
SK
प्रतिग्रहैर् इष्टनिकामलब्धर्न तुष्टिम् आयाति तथार्थिको ऽपि | सर्वस्तिदानेन यथेह धीमान् तुष्टिं व्रजत्य् अर्थिजनस्य तुष्ट्या || AMस_१६.६० ||
SK
इष्टनिकाम् अलब्धैर् इत्य् अभिप्रेतपर्याप्तलब्धैः | सर्वास्तिदानेनेति यावत् स्वजीवितदानेन |
SK
संपूर्णभोगो न तथास्तिमन्तम् आत्मानम् अन्वीक्षति याचको ऽपि | सर्वस्तिदानाद् अधनो ऽपि धीमान् आत्मानम् अन्वेति यथास्तिमन्तं || AMस_१६.६१ ||
SK
सुविपुलम् अपि वित्तं प्राप्य नैवोपकारं विगणयति तथार्थी दायकाल् लाभहेतोः | विधिवद् इह सुदानैर् अर्थिनस् तर्पयित्वा महदुपकरसंज्ञां तेषु धीमान् यथैति || AMस_१६.६२ ||
SK
करुणाविशेषाद् | गतार्थो श्लोकौ |
SK
स्वयम् अपगतशोका देहिनः स्वस्थरूपा विपुलम् अपि गृहीत्वा भुञ्जते यस्य वित्तं | पथि परमफलाढ्याद् भोगवृक्षाद् यथैव प्रविसृतिर् अतिभोगी बोधिसत्वान् न सो ऽन्यः || AMस_१६.६३ ||
SK
प्रविसृतिर् अतिभोगश् चास्येति प्रविसृतिर् अतिभोगी स च नान्यो बोधिसत्वाद् वेदितव्यः | शेषं गतार्थं |
SK
प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश् च | चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयम् इति प्रदिष्टम् || AMस_१६.६४ ||
SK
षड्विधेन प्रभेदेन वीर्यं परिज्ञेयं | प्राधान्यभेदेन | तत्कारणभेदेन | प्रकारभेदेन | आश्रयभेदेन | चतुर्विबन्धप्रतिपक्षभेदेन च | अस्याद् देशस्योत्तरैः श्लोकैर् निर्देशः |
SK
वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस् तस्य यतो ऽनुलाभः | वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगतां च सिद्धिः || AMस_१६.६५ ||
SK
वीर्यं परं शुक्लगणस्य मध्ये इति सर्वशुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं | तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं | यस्माद् वीर्याश्रितः सर्वकुशलधर्मलाभः | वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिर् इति कर्म निर्दिष्टं | वीर्येण हि दृष्टधर्मे परमः सुखविहारः | सर्वा च लोकोत्तरा सिद्धिर् लौकिकी च क्रियते |
SK
वीर्यावद् अवाप्तं भवभोगम् इष्टं वीर्येण शुद्धिं प्रबलाम् उपेताः | वीर्येण सत्कायम् अतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः || AMस_१६.६६ ||
SK
इति | पर्यायद्वारेण वीर्यस्य कर्म निर्दिष्टं | लौकिकलोकोत्तरसिद्धिभेदात् | तत्र प्रबला लौकिकी सिद्धिर् अनात्यन्तिकत्वात् |
SK
पुनर् मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षम् अन्यत् | तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तम् अन्यत् || AMस_१६.६७ ||
SK
संनाहवीर्यं प्रथमं ततश् च प्रयोगवीर्यं विधिवत्प्रहितं | अलीनम् अक्षोभ्यम् अतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः || AMस_१६.६८ ||
SK
इत्य् एष प्रकारभेदः | तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु च द्वयोः कुशलधर्माभिवृद्धये | मोक्षाधिपं वीर्यम् इन्द्रियेषु | मोक्षाधिपत्यार्थेन यस्माद् इन्द्रियाणि | पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद् बलानि | तत्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्यवस्थापनात् | परिवर्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्याश्रयपरिवृत्तिहेतुत्वात् | महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् | संनाहवीर्यं प्रयोगाय संनह्यतः | प्रयोगवीर्यं तथा प्रयोगतः | अलीनवीर्यम् उदारे ऽप्यधिगन्तव्ये लयाभावतः | अक्षोभ्यवीर्यं शीतलोष्णादिभिर् दुःखैर् अविकोपनतः | असंतुष्टिवीर्यम् अल्पेनाधिगमेनासंतुष्टितः | एभिर् एव (Mस ११५) संनाहवीर्यादिभिः सूत्रे | स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्व् इत्य् उच्यते यथाक्रमं |
SK
निकृष्टमध्योत्तमवीर्यम् अन्यत् यानत्रये युक्तजनाश्रयेण | लीनात्युदाराशयबुद्धियोगात् वीर्यं तद् अल्पार्थमहार्थम् इष्टम् || AMस_१६.६९ ||
SK
अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः | यानत्रये प्रयुक्तो यो जनस् तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं | किं कारणं | लीनात्युदाराशयबुद्धियोगात् | लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् | अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् | अत एव यथाक्रमं वीर्यं त दल्पार्थं महार्थम् इव स्वार्थाधिकाराच् च |
SK
न वीर्यवान् भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति | न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति || AMस_१६.७० ||
SK
इत्य् अयं चतुर्विबन्धप्रतिपक्षभेदः | चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते | भोगसक्तिस् तदाग्रहतः | क्लेशसक्तिस् तत्परिभोगाध्यवसानतः | खेदो दानादिषु प्रयोगाभियोगपरिखेदतः | प्राप्तिर् अल्पमात्रदानादिसंतुष्टितः | तत्प्रतिपक्षभेदेनैतच् चतुर्विधं वीर्यम् उक्तं | अन्योन्यविनिश्चयविभागे श्लोकः |
SK
अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच् च | षण्णां पारमितानां विनिश्चयः सर्वथा ज्ञेयः || AMस_१६.७१ ||
SK
अन्योन्यसंग्रहतो विनिश्चयः | अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात् ताभ्याम् अभयं ददाति | धर्मदानेन ध्यानप्रज्ञयोर् यस्मात् ताभ्यां धर्मं ददाति | उभाभ्यां वीर्यस्य यस्मात् तेनाभयं ददाति | कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः | एवं क्षान्त्यादिभिर् अन्योन्यसंग्रहो यथायोगं योज्यः | प्रभेदतो विनिश्चयः | दानं षड्विधं दानदानं शीलदानं यावत् प्रज्ञादानं | परसंतानेषु शीलादिनिवेशनात् | धर्मतो विनिश्चयः | ये सूत्रादयो येषु दानादिष्व् अर्थेषु संदृश्यन्ते | ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते | तेषां परस्परं संग्रहो वेदितव्यः | निमित्ततो विनिश्चयः | दानं शीलादीनां निमित्तं भवति | भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः | शीलम् अपि दानादीनां भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच् छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् | कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं | एवं (Mस ११६) क्षान्त्यादीनाम् अन्योन्यनिमित्तभावो यथा योज्यः | संग्रहवस्तुविभागे सप्त श्लोकाः | चत्वारि संग्रहवस्तूनि | दानं प्रियवादिता अर्थचर्या समानार्थता | तत्र |
SK
दानं समं प्रियाख्यानम् अर्थचर्या समार्थता | तद्देशना समादाय स्वानुवृत्तिभिर् इष्यते || AMस_१६.७२ ||
SK
दानं समम् इष्यते यथा पारमितासु प्रियाख्यानं तद्देशना | अर्थचर्या तत्समादापना | तच् छब्देन पारमितानां ग्रहणात् पारमितादेशना पारमितासमादापनेत्य् अर्थः | समानार्थता यत्र परं समादापयति तत्र स्वयम् अनुवृत्तिः | किम् अर्थं पुनर् एतानि चत्वारि संग्रहवस्तूनीष्यन्ते | एष हि परेषां |
SK
उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः | तथानुवर्तको ज्ञेयश् चतुःसंग्रहवस्तुतः || AMस_१६.७३ ||
SK
दानम् अनुग्राहक उपायः | आमिषदानेन कायिकानुग्रहोत्पादनात् | प्रियवादिता ग्राहकः | अव्युत्पन्नसंदिग्धार्थग्राहणात् | अर्थचर्या प्रवर्तकः | कुशले प्रवर्तनात् | समानार्थता ऽनुवर्तकः | यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तद् अनुवर्तन्ते |
SK
आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना | प्रतिपत्तिस् तृतीयेन चतुर्थेन विशोधना || AMस_१६.७४ ||
SK
आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः | प्रियवादितया तं धर्मम् अधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः | अर्थचर्यया प्रतिपद्यते यथाधर्म | समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् | इदं संग्रहवस्तूनां कर्म |
SK
चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं | आमिषेणापि धर्मेण धर्मेणालम्बनाद् अपि || AMस_१६.७५ ||
SK
यद् अप्य् अन्यत् संग्रहवस्तुद्वयम् उक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश् च | ताभ्याम् एतान्य् एव (Mस ११७) चत्वारि संग्रहवस्तूनि संगृहीतानि | आमिषसंग्रहेण प्रथमे | धर्मसंग्रहेणावशिष्टानि | तानि पुनस् त्रिविधेन धर्मेण | आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमं |
SK
हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश् च संग्रहः | अबन्ध्यः सर्वथा चैव ज्ञेयो ह्य् आकारभेदतः || AMस_१६.७६ ||
SK
एष संग्रहस्य प्रकारभेदः | तत्र हीनमध्योत्तमः संग्रहो बोधिसत्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं | प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ | प्रायेणाबन्ध्यो भूमिप्रविष्टानां | अवन्ध्यः सर्वथा अष्टम्यादिषु भूभिषु सत्वार्थस्यावश्यं संपादनात् |
SK
पर्षत्कर्षणप्रयुक्तैर् विधिर् एष समाश्रितः | सर्वार्थसिद्धौ सर्वेषां सुखोपायश् च शस्यते || AMस_१६.७७ ||
SK
ये केचित् पर्षत्कर्षणे प्रयुक्ताः सर्वैस् तैर् अयम् एवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि | तथा हि सर्वार्थसिद्धये सर्वेषां सुखश् चैष उपायः प्रशस्यते बुद्धैः |
SK
संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना | सर्वे त एवं तस्माच् च वर्त्म तत् सत्वपाचने || AMस_१६.७८ ||
SK
एतेन लोकत्रये ऽपि सर्वसत्वानां परिपाचने चतुर्णां संग्रहवस्तूनाम् एकायनमार्गत्वं दर्शयति | अन्यमार्गाभावात् |
SK
इति सततम् असक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा | भवविषयनिमित्तनिर्विकल्पो भवति स सत्वगणस्य संगृहीता || AMस_१६.७९ ||
SK
एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्वस्य संग्रहवस्तुप्रयोग दर्शयति स्वपरार्थसंपादनात् पारमिताभिः संग्रहवस्तुभिश् च यथाक्रमं |
SK
महायानसूत्रालंकारे पारमिताधिकारः षोडशः समाप्तः
SK
CHAPITRE XVII सप्तदशो ऽधिकारः
SK
बुद्धपूजाविभागे सप्त श्लोकाः |
SK
संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः | गाढप्रसन्नचित्तस्य संभारद्वयपूरये || AMस_१७.१ ||
SK
अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः | त्रयस्यानुपलम्भस् तु निष्पन्ना बुद्धपूजा || AMस_१७.२ ||
SK
सत्वानाम् अप्रमेयानां परिपाकाय चापरा | उपधेश् चित्ततश् चान्या अधिमुक्तेर् निधानतः || AMस_१७.३ ||
SK
अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा | वस्त्वाभोगावबोधाच् च विमुक्तेश् च तथात्वतः || AMस_१७.४ ||
SK
इत्य् एभिश् चतुर्भिः श्लोकैः |
SK
आश्रयाद् वस्तुतः पूजा निमित्तात् परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता || AMस_१७.५ ||
SK
वेदितव्या | तत्राश्रयः समक्षपरोक्षा बुद्धाः | वस्तु चीवरादयः | निमित्तं प्रगाढप्रसादसहगतं चित्तं | परिणामना उत्पादः स्याद् इति पूर्वप्रणिधानं | ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः | क्षेत्रम् अप्रमेयाः सत्वाः | तत्परिपाचनाय तैस् तत्प्रयोजतात् तेषु तद्रोपणतः | निश्रय उपधिश्रितं च | तत्रोपधिं निश्रित्य पूजा चीवरादिभिश् चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः | तथोक्तैश् चाधिमुक्त्यादिभिर् यद् उत महायानधर्माधिमुक्तः बोधिचित्तोत्पादतः | प्रणिधानम् एव हि निधानम् अत्रोक्तं श्लोकवत्त्वानुरोधात् | सत्वानुकम्पनतः | दुष्करचर्या दुःखक्षमणतः | पारमितासमुदाचारतः | योनिशो धर्ममनसिकारतः | स ह्य् अविपर्ययस्तत्वाद् वस्त्वाभोगः | सम्यग्दृष्टितो दर्शनमार्गे | स हि यथाभूतावबोधाद् वस्त्ववबोधः | विमुक्तितः क्लेशविमोक्षाच् छ्रावकाणां | तथा त्व् अतो महाबोधिप्राप्तेर् इत्य् अयं पूजायाः प्रकारभेदः |
SK
हेतुतः फलतश् चैव आत्मना च परैर् अपि | लाभसत्कारतश् चैव प्रतिपत्तेर् द्विधा च सा || AMस_१७.६ ||
SK
परीत्ता महती पूजा समानामानिका च सा | प्रयोगाद् गतितश् चैव प्रणिधानाच् च सा मता || AMस_१७.७ ||
SK
इत्य् अयम् अर्थादिभेदेनापरः प्रकारभेदः | तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुर् अनागता फलम् इत्य् एवं हेतुफलतो ऽतीतानागतप्रत्युत्पन्ना वेदितव्या | आत्मनेत्य् आध्यात्मिकी परैर् इति बाह्या | लाभसत्कारतो औदारिकी | प्रतिपत्तितः सूक्ष्मा | परीत्ता हीना महती प्रणीता | पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात् | कालान्तरप्रयोज्या दूरे | तत्कालप्रयोज्यान्तिके | पुनर् विच्छिन्नायां गतौ दूरे | समनन्तरायाम् अन्तिके | पुनर् यां पूजाम् आयत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके | कतमा पुनर् बुद्धपूजा परमा वेदितव्येत्य् आह | बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् | अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च || AMस_१७.८ ||
SK
इत्य् एभिः पञ्चभिर् आकारैः स्वचित्तपूजा बुद्धेषु परमा वेदितव्या | यद् उत पूजोपसंहितमहायानधर्माधिमुक्तितः | आशयतो नवभिर् आशयैः | आस्वादनानुमोदनाभिनन्दनाशयैः | अतृप्तविपुलम् उदितोपकरनिर्लेपकल्याणाशयैश् च ये पारमिताभावनायां निर्दिष्टाः | विभुत्वतो गगनगञ्जादिसमाधिभिः | निर्विकल्पज्ञानोपायपरिग्रहतः | सर्वमहाबोधिसत्वैककार्यत्वप्रवेशतश् च मिश्रोपमिश्रकार्यत्वात् | कल्याणमित्रसेवाविभागे सप्त श्लोकाः | तत्रार्धपञ्चमैः श्लोकैः |
SK
आश्रयाद् वस्तुतः सेवा निमित्तात् परिणामनात् | हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता || AMस_१७.९ ||
SK
मित्रं श्रयेद् दान्तशमोपशान्तं गुणाधिकं सोद्यमम् आगमाढ्यं | प्रबुद्धतत्वं वचस् आभ्युपेतं कृपात्मकं खेदविवर्जितं च || AMस_१७.१० ||
SK
इत्य् एवं गुणमित्रं सेवाया आश्रयः | दान्तं शीलयोगाद् इन्द्रियदमेन | शान्तं समाधियोगाद् अध्यात्मं चेतःशमथेन | उपशान्तं प्रयोगाद् उपस्थितक्लेशोपशमनतः | गुणैर् अधिकं न समं वा न्यूनं वा | सोद्यमं नोदासीनं परार्थे | आगमाढ्यं (Mस १२०) नाल्पश्रुतं | प्रबुद्धतत्वं तत्वाधिगमात् | वचसाभ्युपेतं वाक्करणेनोपेतं | कृपात्मकं निरामिषचित्तत्वात् | खेदविवर्जितं सातत्यसत्कृत्यधर्मदेशनात् |
SK
सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश् च |
SK
इति | सेवायास् तु |
SK
१७.११च्-द् धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत् समये नतश् च || AMस_१७.११ ||
SK
इति त्रिविधं निमित्तं | आज्ञातुकामता | कालज्ञता | निर्मानता च |
SK
सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच् च |
SK
इति परिणामना प्रतिपत्त्यर्थं सेवनान् न लाभसत्कारार्थं |
SK
यथानुशिष्टप्रतिपत्तितश् च संराधयेच् चित्तम् अतो ऽस्य धीरः || AMस_१७.१२ ||
SK
इति | यथानुशिष्टप्रतिपत्तिः सेवाहेतुः | तया तच्चित्ताराधनात् |
SK
यानत्रये कौशलम् एत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ |
SK
इति यानत्रयकौशलात् ज्ञानं |
SK
सत्वान् अमेयान् परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय || AMस_१७.१३ ||
SK
इति द्विविधं क्षेत्रं तत्सेवायाः | अप्रमेयाश् च सत्वाः परिशुद्धं च बुद्धक्षेत्रं | धर्मं श्रुत्वा येषु प्रतिष्ठापनात् | यत्र च स्थितेन |
SK
धर्मेषु दायाद् अगुणेन युक्तो नैवामिषेण प्रवेसत् स मित्रम् |
SK
इति निश्रयः सेवायाः | धर्मदायादतां निश्रित्य कल्याणमित्रं सेवेत | नामिषदायादतां | अत ऊर्ध्वमध्यर्धेन श्लोकेन प्रकारभेदः सेवाया वेदितव्यः |
SK
हेतोः फलाद् धर्ममुखानुयानात् सेवेत मित्रं बहितश् च धीमान् || AMस_१७.१४ ||
SK
श्रुतश्रवाच् चेतसि योगतश् च समाननिर्मानमनो ऽनुयोगात् |
SK
हेतोः फलाद् इत्य् अतीतादिभेदतः पूर्ववत् धर्ममुखानुयानात् सेवेत मित्रं (Mस १२१) बहितश् च धीमान् इत्य् आध्यात्मिकबाह्यभेदः | धर्ममुखस्रोतो हि धर्ममुखानुयानं बहिर्धा बहितः श्रुतश्रवाच् चेतसि योगतश् चेत्य् औदारिकसूक्ष्मभेदः | श्रवणं ह्य् औदारिकं चिन्तनभावनं सूक्ष्मं | तद् एव चेतसि योगः | समाननिर्मानमनोऽनुयोगाद् इति हीनप्रणीतभेदः |
SK
गतिप्रयोगप्रणिधानतश् च कल्याणमित्रं हि भजेत् धीमान् || AMस_१७.१५ ||
SK
इति दूरान्तिकभेदः पुर्ववद् योजयितव्यः | कतमा पुनः परमा सेवेति सप्तमः श्लोकः |
SK
सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः | अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च || AMस_१७.१६ ||
SK
इति पूर्ववत् | अप्रमाणविभागे द्वादश श्लोकाः |
SK
ब्राह्मा विपक्षहीना ज्ञानेन गताश् च निर्विकल्पेन | त्रिविधालम्बनवृत्ताः सत्वानां पाचका धीरे || AMस_१७.१७ ||
SK
ब्राह्म्या विहाराश् चत्वार्य् अप्रमाणानि | मैत्री करुणा मुदितोपेक्षा च | ते पुनर् बोधिसत्वे चतुर्लक्षणा वेदितव्याः | विपक्षहानितः | प्रतिपक्षविशेषयोगतः | वृत्तिविशेषतस् त्रिविधालम्बनवृत्तित्वात् | तथा हि ते सत्वालम्बना धर्मालम्बनाश्च | कर्मविशेषतश् च | सत्वपरिपाचकत्वात् | सत्वधर्मालम्बनात् | पुनः कतमस्मिन् सत्वनिकाये धर्मे वा प्रवर्तन्ते | अनालम्बनाश् च कतमस्मिन्न् आलम्बने |
SK
सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते | तद्देशिते च धर्मे तत् तथतायां च धीराणाम् || AMस_१७.१८ ||
SK
सत्वालम्बनाः सुखार्थिनि यावत् क्लिष्टे सत्वनिकाये प्रवर्तन्ते | तथा हि मैत्री सत्वेषु सुखसंयोगाकारा | करुणा दुःखवियोगाकारा | मुदिता सुखावियोगाकारा | उपेक्षासु वेदनासु तेषां सत्वानां निःक्लेशतोपसंहाराकारा | धर्मालम्बनास् तद्देशिते धर्मे | यत्र ते विहारा देशिताः | अनालम्बनास् तत्तथतायां | ते ह्य् अविकल्पत्वाद् अनालम्बना इवेत्य् अनालम्बनाः | अपि खलु |
SK
तस्याश् च तथतार्थत्वात् क्षान्तिलाभाद् विशुद्धितः | कर्मद्वयाद् अनालम्बा मैत्री क्लेशक्षयाद् अपि || AMस_१७.१९ ||
SK
एभिश् चतुर्भिः कारणैर् अनालम्बना मैत्री वेदितव्या | तथतालम्बनत्वात् | अनुत्पत्तिकधर्मक्षान्तिलाभेनाष्टम्यां भूमौ | धातुपुष्ट्या तद्विशुद्धितः | कर्मद्वयतश् च | या मैत्री निष्पन्देन कायकर्मणा संगृहीता | क्लेशक्षयतश् च | तथा हि क्लेश आलम्बनम् उक्तं | मनोमयानां ग्रन्थानां प्रहाणाद् उच्छिद्यते आलम्बनम् इति वचनात् |
SK
ते निश्चलाश् च चलाश् च कृपणैर् आस्वादिता न च ज्ञेयाः |
SK
ते च ब्राह्म्या विहाराश् चतुर्विधा वेदितव्याः | तत्र चला हानभागीयाः परिहाणीयत्वात् | अचलाः स्थितिविशेषभागीया अपरिहाणीयत्वात् | आस्वादिताः क्लिष्टाः अनास्वादिता अक्लिष्टाः | कृपणैर् इति सुखलोलैर् अनुदारचित्तैः | एष ब्राह्म्यविहाराणां हानभागीयादिप्रकारमेदः | तेषु पुनः |
SK
अचलेषु बोधिसत्वाः प्रतिष्ठिताः सक्तिविगतेषु || AMस_१७.२० ||
SK
न चलेषु नाप्य् आस्वादितेषु |
SK
असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि | हीनाशयाः समाना हीनास् ते ह्य् अन्यथा त्व् अधिकाः || AMस_१७.२१ ||
SK
एष मृद्वधिमात्रताभेदः | तत्र षड्विधा मृदुका असमाहितस्वभावाः | सर्वे समाहिता अपि | ये मृदुमध्याः | हीनभूमिका ये ऽपि उत्तरां बोधिसत्वभूमिम् अपेक्ष्य | हीनाशया अपि | श्रावकादीनां समाना अपि | ये ऽनुत्पत्तिकधर्मक्षान्तिरहिता हीनास् ते मृदुका इत्य् अर्थः | अन्यथा त्व् अधिका इति यथोक्तविपर्ययेणाधिमात्रता वेदितव्या |
SK
ब्राह्म्यैर् विहृतविहारः कामिषु संजायते यदा धीमान् | संभारान् पूरयते सत्वांश् च विपाचयति तेन || AMस_१७.२२ ||
SK
सर्वत्र चाविरहितो ब्राह्म्यै रहितश् च तद्विपक्षेण | तत्प्रत्ययैर् अपि भृशैर् न याति विकृतिं प्रमत्तो ऽपि || AMस_१७.२३ ||
SK
हेतुफललिङ्गभेदः | तत्र ब्राह्म्यैर् विहृतो विहारैर् इति हेतुः | कामिषु सत्वेषु (Mस १२३) संजायत इति विपाकफलं | संभारान् पूरयत्य् अधिपतिफलं | सत्वान् परिपाचयतीति पुरुषकारफलं | सर्वत्र चाविरहितो ब्राह्म्यैर् विहारैर् जायत इति निष्पन्दफलं | रहितश् च तद्विपक्षेणेति विसंयोगफलं भृशैर् अपि तत्प्रत्ययैर् अविकृतिगमनं लिङ्गं | प्रमत्तो ऽपीत्य् असंमुखीभूते ऽपि प्रतिपक्षे | अन्यैश् चतुर्भिः श्लोकैर् गुणदोषभेदः |
SK
व्यापादविहिंसाभ्याम् अरतिव्यापादकामरागैश् च | युक्तो हि बोधिसत्वो बहुविधम् आदीनवं स्पृशति || AMस_१७.२४ ||
SK
इति दोषः | ब्राह्म्यविहारभावे तद्विपक्षयोगात् | तत्र व्यापादादयो मैत्र्यादीनां यथाक्रमं विपक्षाः | व्यापादकामरागाव् उपेक्षायाः | कथं बहुविधादीनवं स्पृशतीत्य् आह |
SK
क्लेशैर् हन्त्यात्मानं सत्वान् उपहन्ति शीलम् उपहन्ति | सविलेखलाभहीनो रक्षाहीनस् तथा शास्त्रा || AMस_१७.२५ ||
SK
साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च | प्राप्ताप्राप्तविहीनो मनसि महद् दुःखम् आप्नोति || AMस_१७.२६ ||
SK
तत्र प्रथमैस् त्रिभिः पदैर् आत्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधायेत्य् एतम् आदीनवं दर्शयति | सविलेखादिभिः षड्भिः पदैर् दृष्टधार्मिकम् अवद्यं प्रसवतीति दर्शयति | कथं च प्रसवति | आत्मास्यापवदते | परे ऽपि देवता अपि | शास्ताप्यन्ये ऽपि विज्ञाः सब्रह्मचारिणो धर्मतया विगर्हन्ते | दिग्विदिक्षु चास्य पापको ऽवर्णशब्दश्लोको निश्चरतीत्य् एवं सविलेखो यावद् अयशस् वीत्य् अनेन यथाक्रमं दर्शयति | शेषैस् त्रिभिः पदैर् यथाक्रमं सांपरायिकं दृष्टधर्मसांपरायिकम् अवद्यं प्रसवति | तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयत इत्य् एतद् आदीनवं दर्शयति |
SK
एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति | अक्लिष्टः संसारं सत्वार्थं नो च संत्यजति || AMस_१७.२७ ||
SK
इति | ब्राह्मविहारयोगे त्रिविधं गुणं दर्शयति | यथोक्तदोषाभावं अक्लिष्टस्य सत्वहेतोः संसारापरित्यागं |
SK
न तथैकपुत्रकेष्व् अपि गुणवत्स्व् अपि भवति सर्वसत्वानां | मैत्र्यादिचेतनेयं सत्वेषु यथा जिनसुतानां || AMस_१७.२८ ||
SK
इत्य् एते च बोधिसत्वमैत्रादीनां तीव्रतां दर्शयति | करुणाविभागे तदालम्बनप्रभेदम् आरभ्य द्वौ श्लोकौ |
SK
प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस् तमोवृतान् | दुर्गमार्गसमारूढान् महाबन्धनसंयुतान् || AMस_१७.२९ ||
SK
महाशनविषाक्रान्तलोलान् मार्गप्रनष्टकान् | उत्पथप्रस्थितान् सत्वान् दुर्बलान् करुणायते || AMस_१७.३० ||
SK
तत्र प्रदीप्ताः कामरागेण कामसुखभक्ताः | शत्रुवशगा मारकृतान्तरायाः कुशले ऽप्रयुक्ताः दुःखाक्रान्ताः दुःखाभूता नरकादिषु | तमोवृता औरभ्रिकादयो दुश्चरितैकान्तिकाः | कर्मविपाकसंमूढत्वात् | दुर्गमार्गसमारूढा अपरिनिर्वाणधर्माणः संसारवर्त्मात्यन्तानुपच्छेदात् | महाबन्धनसंयुता अन्यतीर्थ्याः | मोक्षसंप्रस्थिता नानाकुदृष्टिगाढबन्धनबद्धत्वात् | महाशनविषाक्रान्तलोलाः समापत्तिसुखसक्ताः | तेषां हि तत् क्लिष्टं समापत्तिसुखं | यथा मृष्टम् अशनं विषाक्रान्तं | ततः प्रच्यावनात् | मार्गप्रणष्टका अभिमानिका मोक्षमार्गभ्रान्तत्वात् | उत्पथप्रस्थिता हीनयानप्रयुक्ता अनियताः | दुर्बला अपरिपूर्णसंभारा बोधिसत्वाः | इत्य् एते दशविधाः सत्वा बोधिसत्वकरुणाया आलम्बनं | पञ्चफलसंदर्शने करुणायाः श्लोकः |
SK
हेठापहं ह्य् उत्तमबोधिबीजं सुखावहं तायपकम् इष्टहेतुं | स्वभावदं धर्मम् उपाश्रितस्य बोधिर् न दूरे जिनात्मजस्य || AMस_१७.३१ ||
SK
ततः हेठापहत्वेन तद्विपक्षविहिंसाप्रहाणाद् विसंयोगफलं दर्शयति | उत्तमबोधिबीजत्वेनाधिपतिफलं | परात्मनोर् यथाक्रमं सुखावहतायकत्वेन पुरुषकारफलं | इष्टहेतुत्वेन विपाकफलं | स्वभावदत्वेन निष्पन्दफलम् आयत्यां विशिष्टकरुणाफलदानात् | एवं पञ्चविधां करुणाम् आश्रित्य बुद्धत्वम् अदूरे वेदितव्यं | अप्रतिष्ठितसंसारनिर्वाणत्वे श्लोकः |
SK
विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च | नोद्वेगम् आयाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः || AMस_१७.३२ ||
SK
सर्वं संसारं यथाभूतं परिज्ञाय बोधिसत्वो नोद्वेगम् आयाति कारुणिकत्वात् | (Mस १२५) न दोषैर् बाध्यते ऽग्रबुद्धित्वात् | एवं निर्वाणे प्रतिष्ठितो भवति न संसारे यथाक्रमं | संसारपरिज्ञाने श्लोकः |
SK
दुःखात्मकं लोकम् अवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् | तस्याभ्युपायं परिवर्जने च न खेदम् आयत्य् अपि वा कृपालुः || AMस_१७.३३ ||
SK
दुःखायत इति करुणायते | वेत्ति च तद् यथावद् इति दुःखं यथाभूतं तस्य च दुःखस्य परिवर्जने ऽभ्युपायं | वेत्ति येनास्य दुःखं निरुध्यते | एतेन जानन्न् अपि संसारदुःखं यथाभूतं तत्परित्यागोपायं च न खेदम् आपद्यते बोधिसत्वः करुणाविशेषाद् इति प्रदर्शयति | करुणाप्रभेदे द्वौ श्लोकौ |
SK
कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् | विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करूणात्मकानां || AMस_१७.३४ ||
SK
सेयं यथाक्रमं गोत्रविशेषतः | गुणदोषपरीक्षणतः | जन्मान्तरपरिभावनतः | वैराग्यलाभतश् च वेदितव्या | तद्विपक्षविहिंसाप्रहाणे सति विशुद्धिलाभत इति वैराग्यलाभतः |
SK
न सा कृपा या न समा सदा वा नाध्याशयाद् वा प्रतिपत्तितो वा | वैराग्यतो नानुपलम्भतो वा न बोधिसत्वो ह्य् अकृपस् तथा यः || AMस_१७.३५ ||
SK
तत्र समा सुखितादिषु यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा | सदा निरुपधिशेषनिर्वाणे तदक्षयात् | अध्याशयाद् भूमिप्रविष्टानाम् आत्मपरसमताशयलाभात् | प्रतिपत्तितो दुःखपरित्राणक्रियया | वैराग्यतस् तद्विपक्षविहिंसाप्रहाणात् | अनुपलम्भतो ऽनुत्पत्तिकधर्मक्षान्तिलाभात् | करुणावृक्षप्रतिबिम्बके पञ्च श्लोकाः |
SK
करुणा क्षान्तिश् चिन्ता प्रणिधानं जन्मसत्वपरिपाकः | करुणा तरुर् एष महान् मूलादिः पुष्पपत्रफलः || AMस_१७.३६ ||
SK
इत्य् एष मूलस्कन्धशाखापत्रपुष्पफलावस्थः करुणावृक्षो वेदितव्यः | एतस्य करुणा मूलं | क्षान्तिः स्कन्धः | सत्वार्थचिन्ता शाखा | प्रणिधानं शोभनेषु जन्मसु पत्राणि | शोभनं जन्म पुष्पं | सत्वपरिपाकः फलं |
SK
मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत् | दुःखाक्षमश् च धीमान् सत्वार्थं चिन्तयेन् नैव || AMस_१७.३७ ||
SK
चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् | शुभजन्मान् अनुगच्छन् सत्वान् परिपाचयेन् नैव || AMस_१७.३८ ||
SK
आभ्यां श्लोकाभ्यां पूर्वोत्तरप्रसवसाधर्म्यात् करुणादीनां मूलादिभावं साधयति |
SK
करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः | शाखावृद्धिर् विशदा योनिमनस्कारतो ज्ञेया || AMस_१७.३९ ||
SK
पर्णत्यागादानं प्रणिधीनां संततेर् अनुच्छेदात् | द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात् || AMस_१७.४० ||
SK
एताभ्यां श्लोकाभ्यां वृक्षमूलसेकादिसाधर्म्यं करुणावृक्षस्य दर्शयति | करुणा हि मूलवृक्षा | तस्याः सेको मैत्री तया तदाप्य् आयनात् | मैत्रिचित्तो हि परदुःखेन दुःखायते | ततश् च करुणोद्भवदुःखम् उत्पद्यते बोधिसत्वस्य स्वार्थप्रयुक्तस्य तत्र सौख्योत्पादाद् विपुलपुष्टिः क्षान्तिपुष्टिर् इत्य् अर्थः | सा हि स्कन्ध इत्य् उक्ता | स्कन्धश् च विपुलः | योनिशोमनस्काराद् बहुविधा महायाने शाखावृद्धिः | चिन्ता हि शाखेत्य् उक्ता | पूर्वापरनिरोधोत्पादक्रमेण प्रणिधानसंतानस्यानुच्छेदात् | पर्णत्यागादानसाधर्म्यं प्रणिधानानां वेदितव्यं | आध्यात्मिकप्रत्ययसिद्धितः स्वसंतानपरिपाकात् पुष्पम् इव जन्माबन्ध्यं वेदितव्यं | बाह्यप्रत्ययसिद्धितः परसंतानपरिपाकात् फलभूतः सत्वपरिपाको वेदितव्यः | करुणानुशंसे श्लोकः |
SK
कः कुर्वीत न करुणां सत्वेषु महाकृपागुणकरेषु | दुःखे ऽपि सौख्यम् अतुलं भवति यद् एषां कृपाजनितं || AMस_१७.४१ ||
SK
अत्र महाकरुणागुण उत्तरार्धेन संदर्शितः | शेषो गतार्थः | करुणानिःसङ्गतायां श्लोकाः |
SK
अविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां | कुत एव लोकसौख्ये स्वजीविते वा भवेत् स्नेहः || AMस_१७.४२ ||
SK
सर्वस्य हि लोकस्य लौकिके सौख्ये स्वजीविते च स्नेहः | तत्रापि च निःस्नेहानां श्रावकप्रत्येकबुद्धानां सर्वदुःखोपशमे निर्वाणे प्रतिष्ठितं मनः | बोधिसत्वानां (Mस १२७) तु करुणाविष्टत्वान् निर्वाणे ऽपि मनो न प्रतिष्ठितं | कुत एव तयोः स्नेहो भविष्यति | करुणास्नेहवैशेष्ये त्रयः श्लोकाः |
SK
स्नेहो न विद्यते ऽसौ यो ऽनिरवद्यो न लौकिको यश् च | धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः || AMस_१७.४३ ||
SK
मातापितृप्रभृतीनां हि तृष्णामयः स्नेहः सावद्यः | लौकिककरुणाविहारिणां निरवद्यो ऽपि लौकिकः | बोधिसत्वानां तु करुणामयः स्नेहो निरवद्यश् च लौकिकातिक्रान्तश् च | कथं च पुनर् निरवद्य इत्य् आह |
SK
दुःखाज्ञानमहाउघे महान्धकारे च निश्रितं लोकं | उद्धर्तुं य उपायः कथम् इव न स्यात् स निरवद्यः || AMस_१७.४४ ||
SK
दुःखमहाउघ अज्ञानमहान्धकारे चेति योज्यं | शेषं गतार्थं | कथं लोकातिक्रान्त इत्याह |
SK
स्नेहो न सो ऽस्त्य् अरिहतां लोके प्रत्येकबोधिबुद्धानां | प्राग् एव तद् अन्येषां कथम् इव लोकोत्तरो न स्यात् || AMस_१७.४५ ||
SK
प्रत्येकां बोधिं बुद्धाः | शेषं गतार्थं | त्रासाभिनन्दननिमित्तत्वे श्लोकः |
SK
दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्वानां | संत्रासयति तद् आदौ स्पृष्टं त्व् अभिनन्दयति गाढं || AMस_१७.४६ ||
SK
दुःखाभावे इति दुःखाभावो निमित्तं | सत्वेषु करुणया बोधिसत्वानां यद् दुःखम् उत्पद्यते तदादौ संत्रासयति अधिमुक्तिचर्याभूमौ | आत्मपरसमतया दुःखस्य यथाभूतम् अस्पृष्टत्वात् | स्पृष्टं तु शुद्धाध्याशयभूमाव् अभिनन्दयत्य् एवेत्य् अर्थः | करुणादुःखेन सुखाभिभवे श्लोकः |
SK
किम् अतः परमाश्चर्यं यद् दुःखं सौख्यम् अभिभवति सर्व | कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः || AMस_१७.४७ ||
SK
नास्त्य् अत आश्चर्यतरं यद् दुःखम् एव करुणाजनितं बोधिसत्वानां तथा सुखं (Mस १२८) भवति | यत् सर्वं लौकिकं सुखम् अभिभवति | येन सुखेन विमुक्ता अर्हन्तो ऽपि कृतार्थाः प्राग् एवान्ये | कृपाकृतदानानुशंसे श्लोकः |
SK
कृपया सहितं दानं यद् दानसुखं करोति धीराणां | त्रैधातुकम् उपभोगैर् न तत्सुखं तत्कलां स्पृशति || AMस_१७.४८ ||
SK
यच्च त्रैधातुकं सुखम् उपभोगैः कृतं न तत्सुखं तस्य सुखस्य कलां स्पृशतीत्य् अयम् उत्तरार्धस्यार्थः | शेषं गतार्थं | कृपया दुःखाभ्युपगमे श्लोकः |
SK
दुःखमयं संसारं यत्कृपया न त्यजति सत्वार्थं | परहितहेतोर् दुःखं किं कारूणिकैर् न समुपेतम् || AMस_१७.४९ ||
SK
सर्वं हि दुःखं संसारदुःखे ऽन्तर्भूतं | तस्याभ्युपगमात् सर्वं दुःखम् अभ्युपगतं भवति | तत्र तत्फलवृद्धौ श्लोकः |
SK
करूणा दानं भोगाः सदा कृपालोर् विवृद्धिम् उपयान्ति | स्नेहानुग्रहजनितं तच् छक्तिकृतं सुखं चास्मात् || AMस_१७.५० ||
SK
त्रयं बोधिसत्वानां सर्वजन्मसु वर्धते करुणायोगात् | करुणा तदभ्यासात् | दानं करुणावशात् | भोगाश् च दानवशात् | तस्माच् च त्रयात् फलं त्रिविधं सुखं भवति | स्नेहजनितं करुणातः | सत्वानुग्रहजनितं दानात् | तदनुग्रहक्रियाशक्तिकृतं भोगेभ्यः | दानप्रोत्साहनायां श्लोकः |
SK
वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि | आकर्षामि नयामि च करुणासन्नान् प्रवदतीव || AMस_१७.५१ ||
SK
दाने सन्नान् इति संबन्धनीयं | षड्भिर् गुणैर् दाने ऽवसन्नान् बोधिसत्वान्करुणा प्रोत्सहयतीव | स्वभाववृद्ध्या | भोगैस् तद्वर्धनया | दानेन सत्वपरिपाचनया | दातुश् च सुखोत्पादनात् | महाबोधिसंभारस्यान्यस्याकर्षणात् | महाबोधिसमीपनयनाच् च | परसौख्येन सुखाभवे श्लोकः |
SK
दुःखे दुःखी कृपया सुखान्य् अनाधाय केन सुखितः स्यात् | सुखयत्य् आत्मानम् अतः कृपालुर् आधाय परसौख्यम् || AMस_१७.५२ ||
SK
करुणया बोधिसत्वः परदुःखैर् दुःखितः सत्वेष्व् अनाधाय सुखं कथं सुखितः (Mस १२९) स्यात् | तस्मात् परेषु सुखम् आधाय बोधिसत्व आत्मानम् एव सुखयतीति वेदितव्यं | कृपया दानसमनुशास्तौ षट् श्लोकाः |
SK
स्वं दानं कारुणिकः शास्तीव सदैव निःस्वसुखकामः | भोगैः सुखय परं वा माम प्य् अयुतसौख्यम् || AMस_१७.५३ ||
SK
न हि कारुणिकस्य विना परसुखेनास्ति सुखं | तस्यायुतसौख्यत्वाद् बोधिसत्वस् तेन विना नो दानस्य फलं सुखं नेच्छति |
SK
सफलं दानं दत्तं तन् मे सत्वेषु तत् सुखसुखेन | फल तेष्व् एव निकामं यदि मे कर्तव्यता ते ऽस्ति || AMस_१७.५४ ||
SK
दानं ददता दानं च दानफलं च तन्मया सत्वेषु दत्तं | तत्सुखम् एव मे सुखं यस्मात् | अतस् तेष्व् एव यावत् फलितव्यं तावत् फलेति लोट् | बोधिसत्वः करुणया दानम् अनुशास्ति |
SK
भोगे द्वेष्टुर् दातुर् भोगा बहुशुभतरोपसर्पन्ति | न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः || AMस_१७.५५ ||
SK
भोगविमुखस्य दातुर् भोगा बहुतराश् चोपतिष्ठन्ते | शोभनतराश् च | धर्मतैवेयं चित्तस्योदारतरत्वात् | न हि तत्सुखं मतं मे यद् भोगास् तथोपतिष्ठते | यस्माद् अहं दाने पारंपरस् तत्प्रबन्धकामत्वान् न सुखे |
SK
सर्वस्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं | ननु ते तेन ज्ञेयं न मत्फलेनार्थिता ऽस्येति || AMस_१७.५६ ||
SK
यो ऽहं दानफलं सर्वम् एव करुणया नित्यं परित्यजामि नन्व् अत एव वेदितव्यं नास्ति मे दानफलेनार्थित्वम् इति बोधिसत्वो दानं समनुशास्ति |
SK
दानाभिरतो न स्यां प्राप्तं चेत् तत्फलं न विसृजेयं |
SK
तथा हि |
SK
क्षणम् अपि दानेन विना दानाभिरतो भवति नैव || AMस_१७.५७ ||
SK
इति गतार्थः श्लोकः |
SK
अकृतं न फलसि यस्मात् प्रतिकारापेक्षया न मे तुल्यं |
SK
यस् त्वा करोति तस्य त्वं फलसि | तस्मात् त्वं प्रतिकारापेक्षया न मत्तुल्यं | तथा ह्य् अहं |
SK
प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते || AMस_१७.५८ ||
SK
गतार्थम् एतत् | कृपादाने द्वौ श्लोकौ |
SK
निरवद्यं शुद्धपदं हिताव् अहं चैव सानुरक्षं च | निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम् || AMस_१७.५९ ||
SK
तत्र निरवद्यं परम् अनुपहृत्य दानात् | शुद्धपदं कल्पिकवसुदानात् | विषशस्त्रमद्यादिविवर्जनतः | हितावहं दानेन संगृह्य कुशले नियोजनात् | सानुरक्षं परिजनस्याविघातं कृत्वा अन्यस्मै दानात् | निर्मृग्यम् अयाचमाने ऽप्य् अर्थित्वं विघातं वावगम्य स्वयम् एव दानात् दक्षिणीयापरिमार्गणाच् च | निर्लेपं प्रतिकारविपाकनिःस्पृहत्वात् | अपरः प्रकारः |
SK
सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं | बोधिनतं कुशलनतं जिनात्मजानां कृषादानम् || AMस_१७.६० ||
SK
तत्र सकलम् आध्यात्मिकबाह्यवस्तुदानात् | विपुलं प्रभूतवस्तुदानात् | श्रेष्ठं प्रणीतवस्तुदानात् | सततम् अभीक्ष्णदानात् | मुदितप्रतिसंख्याय प्रहृष्टदानात् | निरामिषं यथा निर्लेपं | शुद्धं यथा शुद्धपदं | बोधिनतं महाबोधिपरिणामनात् | कुशलनतं यथा हितावहं | उपभोगविशेषे श्लोकः |
SK
न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् | तुष्टिम् उपैति कृपालुः सुखत्रयाप्यायितमनस्कः || AMस_१७.६१ ||
SK
तत्र सुखत्रयं दानप्रीतिः परानुग्रहप्रीतिः बोधिसंभारसंभरणप्रीतिश् च | शेषं गतार्थं | पारमिताभिनिर्हारकरुणायां श्लोकः |
SK
कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु | विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च || AMस_१७.६२ ||
SK
तत्र कृपणा मत्सरिणः | रौद्रा दुःशीलाः परोपतानिः | संक्षुब्धाः (Mस १३१) क्रोधनाः | प्रमत्ताः कुशीदाः | विषयपरतन्त्राः कामेषु विक्षिप्तचित्ताः | मिथ्याभिनिविष्टाः दुःप्रज्ञाः तीर्थिकादयः | एषु पारमिताविपक्षधर्मावस्थितेषु या करुणा सा कृपणादिकरुणा | सा च तद्विपक्षविदूषणात् पारमिताभिनिर्हाराय संपद्यते | तस्मात् पारमिताभिनिर्हारकरुणेत्य् उच्यते | करुणाप्रत्ययसंदर्शने श्लोकः |
SK
करुणा बोधिसत्वानां सुखाद् दुःखात् तदन्वयात् | करुणा बोधिसत्वानां हेतोर् मित्रात् स्वभावतः || AMस_१७.६३ ||
SK
तत्र पूर्वार्धेनालम्बनप्रत्ययं करुणायाः संदर्शयति | त्रिविधां वेदनाम् आलम्ब्य तिसृभिर् दुःखताभिः करुणायनात् | अदुःखासुखा हि वेदना सुखदुःखयोर् अन्वयः पुनस् तदावाहनात् | उत्तरार्धेन यथाक्रमं हेतुमित्रस्वभावैः करुणाया हेत्वधिपतिसमनन्तरप्रत्ययान् संदर्शयति | महाकरुणत्वे श्लोकः |
SK
करुणा बोधिसत्वानां समा ज्ञेया तदाशयात् | प्रतिपत्तेर् विरागाच् च नोपलम्भाद् विशुद्धितः || AMस_१७.६४ ||
SK
तत्र समा त्रिविधवेदनावस्थेषु यत् किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा | सा पुनर् आशयतो ऽपि चित्तेन करुणायनात् | प्रतिपत्तितो ऽपि तत्परित्राणात् | विरागतो ऽपि तद्विपक्षविहिंसाप्रहाणात् | अनुपलम्भतो ऽप्य् आत्मपरकरुणानुपलम्भात् | विशुद्धितो ऽप्य् अष्टम्यां भूमाव् अनुत्पत्तिकधर्मक्षान्तिलाभात् |
SK
मैत्रादिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच् च | आशयतो ऽपि विभुत्वाद् अविकल्पाद् ऐक्यतश् चापि || AMस_१७.६५ ||
SK
इति | पूर्वनिर्देशानुसारेणार्थो ऽनुगन्तव्यः |
SK
इति भगवति जातसुप्रसादो महदुपधिध्रुवसत्क्रियाभिपूजी | बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं || AMस_१७.६६ ||
SK
एतेन यथोक्तानां पूजासेवाऽप्रमाणानाम् अनुक्रमं गुणं च समासेन संदर्शयति | महोपधिभिर् ध्रुवं सत्क्रिया चात्यर्थं पूजनान् महदुपधिध्रुवसत्क्रियाभिपूजी वेदितव्यः | सत्क्रिया पुनः सम्यक्प्रतिपत्तिर्वेदितव्या | एवं सत्कारप्रतिपत्तिपूजी (Mस १३२) भवति | बहुगुणं मित्रं तदन्यैर् गुणैः | हितम् अनुकम्पकत्वेन वेदितव्यं | एति सर्वसिद्धिम् इति स्वपरार्थसिद्धिं प्राप्नोतीति |
SK
महायानसूत्रालंकारे पूजासेवाऽप्रमाणाधिकारः सप्तदशः समाप्तः
SK
CHAPITRE XVIII अष्टादशो ऽधिकारः
SK
लज्जाविभागे षोडश श्लोकाः |
SK
लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन | हीनानवद्यविषया सत्वानां पाचिका धीरे || AMस_१८.१ ||
SK
एतेन स्वभावसहायालम्भनकर्मपदा चतुर्विधं लक्षणं बोधिसत्वलज्जायाः संदर्शयति | हीनानवद्यविषया | श्रावकप्रत्येकबुद्धानां | तद्विहीनं महायानाद् अनवद्यं च | तेन बोधिसत्वं लज्जते | कथं सत्वानां परिपाचिका | तस्याम् एव लज्जापारमिताविपक्षवृद्ध्या तत्प्रतिपक्षपरिहाण्या चात्यर्थं लज्जोत्पादनात् |
SK
षण्णां पारमितानां निषेवणालस्यतो भवति लज्जा | क्लेशानुकूलधर्मप्रयोगतश् चैव धीराणां || AMस_१८.२ ||
SK
इयम् अप्रयोगलज्जा पारमिताभावनायाम् अप्रयोगेन | क्लेशानुकुलेषु धर्मेष्व् इन्द्रियागुप्तद्वारत्वादिषु च प्रयोगेन लज्जोत्पादनात् |
SK
असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा | हीनाशया समाना हीना हि तदन्यथा त्व् अधिका || AMस_१८.३ ||
SK
इयं मृदुमात्रा लज्जा | पूर्वनिर्देशानुसारेणास्य श्लोकस्यार्थो ऽनुगन्तव्यं | अतः परं चतुर्भिस् त्रिभिश् च श्लोकैर् यथाक्रमं लज्जाविपक्षे लज्जायां च दोषगुणभेदं दर्शयति |
SK
लज्जारहितो धीमान् क्लेशान् अधिवासयत्य् अयोनिशतः | प्रतिघोपेक्षामानः सत्वान् उपहन्ति शीलं च || AMस_१८.४ ||
SK
इत्य् अत्र आत्मव्याबाधाय चेतयते परव्याबधायोभयव्याभाधाय चेत्य् संदर्शितं | अयोनिशत इत्य् अयोनिशो मनस्कारेण | कथम् उपेक्षया सत्वान् उपहन्ति | सर्वार्थप्रमादतः |
SK
कौकृत्यात् सविलेखो भवति स संमानहानिम् आप्नोति | श्राद्धात् मानुषसंघाच् छास्त्रा चोपेक्ष्यते तस्मात् || AMस_१८.५ ||
SK
सहधार्मिकैर् जिनसुतैर् विनिन्द्यते लोकतो ऽयशो लभते | दृष्टे धर्मे
SK
इत्य् एतेन दृष्टधार्मिकम् अवद्यं प्रसवतीति दर्शनं | यथाक्रमम् आत्मपरदेवताशास्तृभिर् अपवदनात् | विज्ञैः सब्रह्मचारिभिर् धर्मतया विगर्हनात् | दिग्विद्क्षु च पापकावर्णनिश्चरणात् |
SK
ऽन्यत्र क्षणरहितो जायते भूयः || AMस_१८.६ ||
SK
प्राप्ताप्राप्तविहानिं शुक्लैर् धर्मैः समाप्नुते तेन |
SK
इत्य् अनेन दृष्टधर्मसांपरायिकम् अवद्यं प्रसवतीत्य् संदर्शितम् प्राप्तकुशलधर्मपरिहानितः | अप्राप्तपरिहानितश् च यथाक्रमं |
SK
दुःखं विहरति तस्मान् मनसो ऽप्य् अस्वस्थताम् एति || AMस_१८.७ ||
SK
इत्य् एतेन लज्जं चैतसिकं दुःखं दौर्मनस्यं प्रतिसंवेदयत इत्य् संदर्शितं |
SK
एते सर्वे दोषा ह्रीमत्सु भवन्ति नो जिनसुतेषु |
SK
इत्य् अत उपादाय लज्जागुणो वेदितव्यः | यद् एते च दोषा न भवन्ति |
SK
देवेषु च मनुजेषु च नित्यं संजायते च बुधः || AMस_१८.८ ||
SK
इत्य् एतद् अस्य विपाकफलं भवति |
SK
संभारांश् च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् |
SK
इत्य् एतद् अधिपतिफलं |
SK
सत्वानां पाचनया न खिद्यते चैव जिनपुत्रः || AMस_१८.९ ||
SK
इत्य् एतत् पुरुषकारफलं |
SK
स विपक्षप्रतिपक्षै रहितो ऽरहितश् च जायते सततं |
SK
इत्य् एते विसंयोगनिष्पन्दफलं | यद् उत विपक्षरहितत्वं प्रतिपक्षारहितत्वं च |
SK
इत्य् एतम् आनुशंसं ह्रीमान् आप्नोति जिनपुत्रः || AMस_१८.१० ||
SK
इति यथोक्तदोषाभावं गुणयोगं च प्राप्नोतीति संदर्शितं |
SK
दोषमलिनो हि बालो ह्रीविरहात् सुवसनैः सुगुप्तो ऽपि | निर्वसनो ऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः || AMस_१८.११ ||
SK
एतेन वस्त्रविशेषणं ह्रियः | तदन्यवस्त्रप्रावृतस्यापि ह्रीरहितस्य दोषमलिनत्वात् | नग्नस्यापि च ह्रीमतो निर्मलत्वात् |
SK
आकाशम् इव न लिप्तो ह्रीयुक्तः जिनसुतो भवति धर्मैः |
SK
धर्मैर् इति लोकधर्मैः |
SK
ह्रीभूषितश् च शोभति संपर्कगतो जिनसुतानाम् || AMस_१८.१२ ||
SK
एतेन श्लोकेन ह्रिय आकाशभूषणसमतां दर्शयति |
SK
मातुर् इव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां |
SK
त्रातव्यसत्वोपेक्षाया लज्जनात् |
SK
आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः || AMस_१८.१३ ||
SK
हस्त्यश्वकायादिभूतत्वात् | एभिर् वस्त्रादिदृष्टान्तैर् विहारे क्लेशप्रतिपक्षतां चारे लोकधर्मप्रतिपक्षतां | सहधार्मिकसंवासानुकूलतां सत्वपरिपाकानुकूलतां | अक्लिष्टसंसारानुकूलतां च ह्रियो दर्शयति |
SK
सर्वेषु नाधिवासा सर्वेष्व् अधिवासनाप्रवृत्तिश् च | सर्वेषु च प्रवृत्तिर् ह्रीविहितं ह्रीमतो लिङ्गम् || AMस_१८.१४ ||
SK
एतेन चतुर्विधं ह्रीकृतं लिङ्गम् ह्रीमतो दर्शयति | यद् उत सर्वदोषेष्व् अनधिवासना चाप्रवृत्तिश् च | सर्वगुणेष्वधिवासना च प्रवृत्तिश् च |
SK
ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच् च | आशयतो ऽपि विभुत्वाद् अकल्पनाद् ऐक्यतश् चापि || AMस_१८.१५ ||
SK
इत्य् अस्य निर्देशो यथापूर्वं | धृतिविभागे सप्त श्लोकाः |
SK
धृतिश् च बोधिसत्वानां लक्षणेन प्रभेदतः | दृढत्वेन च सर्वेभ्यस् तदन्येभ्यो विशिष्यते || AMस_१८.१६ ||
SK
वीर्यं समाधिः प्रज्ञा च सत्वं धैर्यं धृतिर्मता | निर्भीतो बोधिसत्वो हि त्रयाद् यस्मात् प्रवर्तते || AMस_१८.१७ ||
SK
एतेन धृतिलक्षणं सपर्यायं समादनं चोक्तं | वीर्यादिकं लक्षणं | सत्वादिकं पर्यायः | शेषं साधनं | कतमस्मात् त्रयान् निर्भीतः प्रवर्तते इत्य् आह |
SK
लीनत्वाच् च चलत्वाच् च मोहाच् चोत्पद्यते भयं | कृत्येषु तस्माद् विज्ञेया धृतिसंज्ञा निजे त्रये || AMस_१८.१८ ||
SK
स्रवकार्येषु हि लीनचित्ततया वा भयम् उत्पद्यते तदनुत्साहतः | चलचित्ततया वा चित्तानवस्थानतः | संमोहतो वा तदुपायाज्ञानतः | तत्प्रतिपक्षाश् च यथाक्रमं वीर्यादयः | तस्मान् निजवीर्यादित्रये धृतिसंज्ञा वेदितव्या निज इत्य् अप्रतिसंख्यानकरणीये
SK
प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च | सत्वविप्रतिपत्तौ च गम्भीर्याउदार्यसंश्रवे || AMस_१८.१९ ||
SK
विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च | दुष्करेषु विचित्रेषु संसारात्याग एव च || AMस_१८.२० ||
SK
निःसंक्लेशे च तत्रैव धृतिर् धीरस्य जायते | असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः मतः || AMस_१८.२१ ||
SK
एभिस् त्रिभिः श्लोकैर् धृतिप्रभेदं दर्शयति | यथाक्रमं गोत्रतः | चित्तोत्पादः | स्वार्थतः | सत्वार्थतः | प्रभावतः | सत्वपरिपाचनतः | परमबोधितश् च | तत्र (Mस १३६) निरपेक्षत्वं स्वार्थप्रयुक्तस्य कायजीवितनिरपेक्षत्वाद् वेदितव्यं | पुनर् दुष्करचर्यातः | संचिन्त्यभावोपपत्तितः | तदसंक्लेशतो ऽपि प्रभेदः |
SK
कुमित्रदुःखगम्भीरश्रवाद् वीरो न कम्पते | शलभैः पक्षवातैश् च समुद्रैश् च सुमेरुवत् || AMस_१८.२२ ||
SK
एतेन बोधिसत्वधृतेर् दृढत्वं दर्शयति | उपमात्रयं त्रयेणाकम्पने यथाक्रमं वेदितव्यं | अखेदविभागे द्वौ श्लोकौ |
SK
अखेदो बोधिसत्वानाम् असमस् त्रिषु वस्तुषु | श्रुतातृप्तिमहावीर्यदुःखे ह्रीधृतिनिश्रितः || AMस_१८.२३ ||
SK
तीव्रच्छन्दो महाबोधाव् अखेदो धीमतां मतः | अनिष्पन्नश् च निष्पन्नः सुनिष्पन्नश् च भूमिषु || AMस_१८.२४ ||
SK
आभ्यां वस्तुनो निश्रयतः स्वभावतः | प्रभेदतश् चाखेदो निर्दिष्टः | त्रिषु वस्तुषु | श्रुतातृप्तौ | दीर्घकालवीर्यारम्भे | संसारदुःखे च | ह्र्यं धृतिं च निश्रित्य | ताभ्यां हि खेदोत्पत्तितो लज्जयते न चोत्पादयति | तीव्रच्छन्दो महाबोधाव् इति स्वभाव्वः | छन्दो हि व्यावृत्ते खिन्नो भवति | अनिष्पन्नो ऽधिमुक्तिचर्याभूमौ | निष्पन्नः स्पतभूमिषु | सुनिष्पन्नः परेण इत्य् एष प्रभादः | शास्त्रज्ञतायायां द्वौ श्लोकौ |
SK
वस्तुना चाधिकारेण कर्मणा च विशिष्यते | लक्षणेनाक्षयत्वेन फलस्योदागमेन च || AMस_१८.२५ ||
SK
शास्त्रज्ञता हि धीराणां समाधिमुखधारणी | गृहीता सत्वपाकाय सद्धर्मस्य च धारणे || AMस_१८.२६ ||
SK
तत्र शास्त्रज्ञतायाः पञ्च विद्यास्थानानि वस्तु | अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च | स्वपरार्थक्रिया अधिकारः | कर्म प्रथमवस्तुनि स्वयं प्रतिपत्तिः परेभ्यश् च तत्समाख्यानं | द्वितीये तद्दोषपरिज्ञानं परवादिनिग्रहश् च | त्र्तीये स्वयं सुनिरुक्ताभिधानं परसंप्रत्ययश् च | चतुर्थे परेषां व्याधिशमनं | पञ्चमे परेभ्यस् तत् संविभागः | लक्षणं शास्त्रज्ञताया एतान्य् एवस् पञ्च वस्तुनि श्रुतानि भवन्ति | धृतानि | वचसा परिजितानि | मनसा अन्वीक्षितानि | दृष्ट्या सुप्रतिविद्धानि | श्रुत्वा यथाक्रमं | तद् उद्ग्रहणतः | स्वाध्यायतः | प्रसन्नेन मनसार्थचित्तनतो यथायोगं तद्दोषगुणावगमात् | स्वाख्यातदुराख्यातावधारणतश् च | अक्षयत्वं निरुपधिशेषनिर्वाणे ऽप्य् अक्षयात् | (Mस १३७) फलसमुदागमः सर्वधर्मसर्वाकारज्ञता | सा पुनर् एषा शास्त्रज्ञता बोधिसत्वानां समाधिमुखैर् धारणीमुखैश् च संगृहीता | सत्वपाकाय च भवति | समाधिमुखैस् तत्कृत्यानुष्ठानात् | सद्धर्मपारणाय च धारणीभिस् तद्धारणात् | लोकज्ञतायां चत्वारः श्लोकः |
SK
कायेन वचसा चैव सत्यज्ञानेन चासमा | लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते || AMस_१८.२७ ||
SK
कथं कायेनेत्य् आह |
SK
कृतस्मितमुखा नित्यं |
SK
कथं वाचेत्य् आह
SK
धीराः पूर्वाभिभाषिनः |
SK
सा पुनः किम् अर्थम् इत्य् आह |
SK
सत्वानां भाजनत्वाय |
SK
कस्मिन्न् अर्थे भाजनत्वाय |
SK
सद्धर्मप्रतिपत्तये || AMस_१८.२८ ||
SK
कथं सत्यज्ञानेनेत्य् आह |
SK
सत्यद्वयाद् यतश् चेष्टो लोकानाम् उदयो ऽसकृत् | द्वयाद् अस्तंगमस् तस्मात् तज्ज्ञो लोकज्ञ उच्यते || AMस_१८.२९ ||
SK
द्वाभ्यां सत्याभ्यां लोकस्य उदयः पुनः पुनः संसारो यश् चोदयो येन चेति कृत्वा | द्वाभ्याम् अस्तंगमो निरोधमार्गसत्याभां | यश् चास्तंगमो येन चेतु कृत्वा | तस्मात् तज्ज्ञो लोकज्ञ उच्यते | लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागतत्वात् |
SK
शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते | सत्यज्ञानाद् यतो धीमान् लोकज्ञो हि निरुच्यते || AMस_१८.३० ||
SK
अनेन लोकज्ञतायाः कर्म निर्दिष्टं | तत्र शमाय दुःखसमुदयसत्ययोः प्राप्तये निरोधमार्गसत्ययोः | प्रतिसरणविभागे त्रयः श्लोकः |
SK
आर्षश् च देशनाधर्मो अर्थो ऽभिप्रायिको ऽस्य च | प्रामाणिकश् च नीतार्थो निर्जल्पा प्राप्तिर् अस्य च || AMस_१८.३१ ||
SK
इदं प्रतिसरणानां लक्षणं | तत्र प्रामाणिक ऽर्थो यः प्रमाणभूतेन नीतो विभक्तः शास्त्रा वा तत्प्रमाणीकृतेन वा | निर्जल्पा प्राप्तिर् अधिगमज्ञानं लोकोत्तरं | तस्यानभिलाप्यत्वात् | शेषं गतार्थं |
SK
प्रतिक्षेप्तुर् यथोक्तस्य मिथ्यासंतीरितस्य च | साभिलाषस्य च प्राप्तेः प्रतिषेधो ऽत्र देशितः || AMस_१८.३२ ||
SK
प्रथमे प्रतिसरणे आर्षधर्मप्रतिक्षेप्तुः पुद्गलस्य प्रतिषेद्गो देशितः | द्वितीये यथारुतस्य व्यञ्जनस्य नाभिप्रायिकार्थेन | तृतीयेन मिथ्या चिन्तार्थस्य विपरीतं नीय्यमनस्य | चतुर्थेन साभिलाषस्य ज्ञानस्य | प्रत्यात्मवेदनीयस्य |
SK
अधिमुक्तेर् विचाराच् च यथावत् परतः श्रवात् | निर्जल्पाद् अपि च ज्ञानाद् अप्रणाशो हि धीमतां || AMस_१८.३३ ||
SK
अथ प्रतिसरणानुशंसः | प्रथमेन प्रतिसरणेनार्षधर्माधिमुक्तितो न प्रणश्यन्ति | द्वितीयेन स्वयमाभिप्रायिककार्थविचारणात् | तृतीयेन परतस् तद् विपरीतार्थनयश्रवात् | चतुर्थेन लोकोत्तरज्ञानात् | प्रतिसंविद्विभागे चत्वारः श्लोकः |
SK
असमा बोधिसत्वानां चतस्रः प्रतिसंविदः | पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच् च ता मताः || AMस_१८.३४ ||
SK
प्रथमा पर्याये ज्ञानम् एकैकस्यार्थस्थ यावन्तो नाम पर्यायाः | द्वितीया (Mस १३९) लक्षणे यस्यार्थस्य तन्नाम | तृतीया वाक्ये प्रत्येकं जनपदेषु या भाषाः | चतुर्था ज्ञाने स्वयं यत् प्रतिभानं | इदं प्रतिसंविदां लक्षणं |
SK
देशनायां प्रयुक्तस्य यस्य येन च देशना | धर्मार्थयोर् द्वयोर् वाचा ज्ञानेनैव च देशना || AMस_१८.३५ ||
SK
धर्मस्योद्देशनिर्देशात् सर्वथा प्रापणाद् द्वयोः | परिज्ञानाहानाच् च चोद्यानां प्रतिसंविच्चतुष्टयम् || AMस_१८.३६ ||
SK
इति चतुष्ट्वे कारणं | देशनायां हि प्रयुक्तस्य यस्य च देशना येन च | तत्र ज्ञानेन प्रयोजनं कस्य पुनर् देशना || AMस_१८.३५ || धर्मस्यार्थस्य | केन देशना वचनेन ज्ञानेन च | तत्र धर्मार्थयोर् देशना | धर्मस्योद्देशनिर्देशात् वाक्येन देशना तयोर् एव द्वयोर् सर्वथा प्रापणात् | ज्ञानेन देशना चोद्यानां परिहरणात् | अतो यच् च येन च देश्यते तज्ज्ञानात् चतस्रः प्रतिसंविदो व्यवस्थापिताः |
SK
प्रत्यात्मं समताम् एत्य योत्तरत्र प्रवेदना | सर्वसंशयनाशाय प्रतिसंविन् निरुच्यते || AMस_१८.३७ ||
SK
एतेन प्रतिसंविदां निर्वचनं करम् च दर्शितं | प्रत्यात्मं लोकोत्तरेण ज्ञानेन सर्वधर्मसमतां तथतां एत्य उत्तरकालं तत्पृष्टलब्धेन ज्ञानेन प्रवेदना पर्यायादीनां प्रतिसंविद् इति निर्वचनं | सर्वसंशयनाशाय परेषाम् इति कर्म | संसारविभागे चर्वारः श्लोकाः |
SK
संभारो बोधिसत्वानां पुण्यज्ञानमयो ऽसमः | संसारे ऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ || AMस_१८.३८ ||
SK
यश् च संभारो यद् अर्थं च संदर्शयति | द्विविधः संभारः | तत्र पुण्यसंभारः संसारे ऽभ्युदयाय संवर्तते | ज्ञानसंभारो ऽसंक्लिष्टसंसरणाय |
SK
दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः | त्रयं चान्यद् द्वयस्यापि पञ्चापि ज्ञानसंभृतिः || AMस_१८.३९ ||
SK
एतेन पारमताभिस् तदुभयसंभारसंग्रहं भवति | क्षान्तिवीर्यध्यानबलेन (Mस १४०) ह्य् उभयं क्रियते | तस्माद् द्वयसंभारत्रयं भवति | पुनः प्रज्ञायां परिणामनात् सर्वाः पञ्च पारमिता ज्ञानसंभारो वेदितव्यः |
SK
संतत्या भावनाम् एत्य भूयो भूयः शुभस्य हि | आहारो यः स संभारो वीधीरे सर्वार्थसाधकः || AMस_१८.४० ||
SK
एतत् संभारनिर्वचनं कर्म च | सम् इति संतत्या | भा इति भावनाम् आगम्य | र इति भूयो भूय आहारः | सर्वार्थसाधक इति कर्म | स्वपरार्थयोः साधनात् |
SK
प्रवेशायानिमित्ताय अनाभोगाय संभृतिः | अभिषेकाय निष्ठायै धीराणाम् उपचीयते || AMस_१८.४१ ||
SK
अयं संसारप्रभेदः | तत्राधिमुक्तिचर्याभूमौ संभारो भूमिप्रवेशाय | षट्सु भूमिष्व् अनिमित्ताय सप्तमीभूमिसंगृहीताय | तस्यां निमित्तसमुदाचारात् | सप्तम्यां भूमाव् अनाभोगाय तदन्य्भूमिद्वयस्ंगृहीताय | तयोः संभाराभिषेकाय दशमीभूमिसंगृहीताय | तस्यां संभारो निष्ठागमनाय बुद्धभूमिसंगृहीताय | स्मृत्युपस्थानविभागे त्रयः श्लोकाः |
SK
चतुर्दशभिर् आकारैः स्मृत्युपस्थानभावना | धीमताम् असमत्वात् सा तदन्येभ्यो विशिष्यते || AMस_१८.४२ ||
SK
कस्मैश् चतुर्दशभिः |
SK
निश्रयात् प्रतिपक्षाच् च अवतारात् तथैव च | आलम्बनमनस्कारप्राप्तितश् च विशिष्यते || AMस_१८.४३ ||
SK
आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा | मात्रया परमत्वेन भावनासमुदागमात् || AMस_१८.४४ ||
SK
इत्य् एभिश् चतुर्दशभिर् आकारैर् बोधिसत्वानां स्मृत्युपस्तानभावना विशिष्यते | कथम् आश्रयतो महायाने श्रुतचिन्ताभावनामयीं प्रज्ञाम् आश्रित्य | कथं प्रतिपक्षतः चतुर्विपर्यासप्रतिपक्षाणाम् अप्य् अशुचिदुःखानित्यानात्मसंज्ञानं प्रतिपक्षत्वात् कायादिधर्मनैरात्म्यप्रवेशतः | कथम् अवतारतः | चतुर्भिः स्मृत्युपस्थानैर् यथाक्रमं दुःखसमुदयनिरोधमार्गसत्यावतारात् स्वयं परेषां चावतारणात् | यथोक्तं (Mस १४१) मध्यान्तविभागे | कथम् आलम्बनतः सर्वसत्वकायाद्यालम्बनात् | कथं मनस्कारतः कायाद्यनुपलम्भात् | कथं प्राप्तितः कायादीनां न विसं योगाय नावसंयोगाय | कथं आनुकूल्यतः पारमितानुकूल्येन तद्विपक्षप्रतिपक्षत्वात् | कथम् अनुवृत्तितः लौकिकानां श्रावकप्रत्येकबुद्धानां चानुवृत्त्या तदुपसंहितस्मृत्युपस्थानभावनात् तेभ्यस् तदुपदेशार्थं | कथं परिज्ञातः कायस्य मायोपमत्वपरिज्ञया तथैवाभूतरूपसंप्रख्यानात् | वेदनायाः | स्वप्नोपमत्वपरिज्ञया तथैव मिथ्यानुभवात् | चित्तस्य प्रकृतिप्रभास्वरत्वप्रैज्ञया आकाशवत् | धर्माणाम् आगन्तुककत्वपरिज्ञया आकाशागन्तुरजोधूमाभ्रनीहारोपक्लेशवत् | कथम् उत्पत्तितः संचिन्त्यभवोपपत्तौ चक्रवर्त्यादिभूतस्य विशिष्टकायवेदनादिसंपत्तौ तदसंक्लेशतः | कथं मात्रतः मृद्वा अपि स्मृत्युपस्थानभावनायास् तद् अन्येभ्यो अधिमात्रत्वात् | प्रकृतितीक्ष्णेन्द्रियतया | कतं परमत्वेन परिनिष्पन्नानाम् अनाभोगमिश्रोप्+अनिश्रभावनात् | कथं भावनातः अत्यन्तं तद्भावनात् निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् | कथं समुदागमतः | दशसु भूमिषु बुद्धत्वे च समुदागमात् | सम्यक्प्रहाणविभागे पञ्च श्लोकाः |
SK
सम्यक्प्रहाणं धीराणाम् असमं सर्वदेहिभिः | स्मृत्युपस्थानदोषाणां प्रतिपक्षेण भाव्यते || AMस_१८.४५ ||
SK
यावत्यः स्मृत्युपस्थानभावना उक्ताः तद्विपक्षाणां प्रतिपक्षेण सम्यक्प्रहाणभावनेति समस्तं सम्यक्प्रहाणलक्षणं | प्रभेदेन पुनः |
SK
संसारस्योपभोगे च त्यागे निवरणस्य च | मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु || AMस_१८.४६ ||
SK
अनिमित्तविहारे च लब्धौ व्याकरणस्य च |
SK
सत्वानां परिपाके च अभिषेके च धीमतां || AMस_१८.४७ ||
SK
क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च | भाव्यते बोधिसत्वानां विपक्षप्रतिपक्षतः || AMस_१८.४८ ||
SK
अयं सम्यक्प्रहाणभावनाप्रभेदः | संसारस्यासंक्लिष्टपरिभोगे संपत्तिषु | पञ्चनिवारणत्यागे | श्रावकप्रत्येकबुद्धमनस्कारत्यागे | भूमिप्रवेशे | अनिमित्तविहारे सप्रम्यां भूमौ | व्याकरणलाभे| सत्वानां परिपाचने नवम्यां | अभिषेके च दशम्यां | क्षेत्रविशुद्ध्यर्थं त्रये ऽपि | निष्ठागमने च बुद्धभूमौ | ये (Mस १४२) च विपक्षास् तेषां प्रतिपक्षेण सम्यक्प्रहाणभावना वेदितव्या | अयम् अस्याः प्रभेदः |
SK
छन्दं निश्रित्य योगस्य भावना सनिमित्तिका | सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते || AMस_१८.४९ ||
SK
एतेन छन्दं जनयति | व्यायच्छते वीर्यम् आरभते | चित्तं प्रगृह्णाति | सम्यक् प्रदधाति | इत्य् एषां पदानाम् अर्थनिर्देशः | छन्दं हि निश्रित्य शमथविपश्यनाख्यं योगं भावयतीति व्यायच्छते | सा च भावना शमथप्रग्रहोपेक्षानिमित्तैः सह भाव्यत्गे | तस्मात् सा सनिमित्तिका | कथं पुनर् भाव्यते | यच् छमथप्रग्रहोपक्लेशयोर् लयाउद्धत्ययोः प्रतिपक्षेण वीर्यम् आरभते | चित्तं प्रगृह्णाति प्रदधाति च | शमथे समप्राप्ते चोपेक्षायां प्रदधाति | एषा योगभावना यथोक्तप्रभेदेषु सर्वसम्यक्प्रहाणेषु प्रतिपक्ष उच्यते | ऋद्धिपादविभागे पञ्च श्लोकाः |
SK
ऋद्धिपादाश् च चत्वारो धीराणाम् अग्रलक्षणाः | सर्वार्थसिद्धौ जायन्ते आत्मनश् च परस्य च || AMस_१८.५० ||
SK
सर्वार्थसिद्धिर् लौकिकी लोकोत्तरा च वेदितव्या च | शेषं गतार्थं |
SK
निश्रयाच् च प्रभेदाच् च उपायाद् अभिनिर्हृतेः | व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते || AMस_१८.५१ ||
SK
अस्योद्देशस्य शेषो निर्देशः |
SK
ध्यानपारमिम् आश्रित्य प्रभेदो हि चतुर्विधः | उपायश् चाभिनिर्हारः षड्विधश् च विधीयते || AMस_१८.५२ ||
SK
ध्यानपारमिता निश्रयः प्रभेदश् चतुर्विधश् छन्दवीर्यचित्तमीमांसासमाधिभेदात् | उपायश् चतुर्विध एव | अभिनिर्हारः षड्विधः | चतुर्विध उपायः कतमः |
SK
व्यावसायिक एकश् च द्वितीयो ऽनुग्रहात्मकः | नैबन्धिकस् तृतीयश् च चतुर्थः प्रातिपक्षिकः || AMस_१८.५३ ||
SK
अष्टानां प्रहाणसंस्काराणां छन्दो व्यायामः शद्धा व्यावसायिकः उपायः | श्रद्धानस्यार्थिनो व्यायामात् | प्रश्रब्धिर् अनुग्रहात्मकः स्मृतिः सं प्रजन्यं चोपनिबन्धकः | एकेन चित्तस्यालम्बनाविस्मरात् | द्वितीयेन विसारप्रज्ञानात् | चेतना चोपेक्षा च प्रातिपक्षिक उपायः | लयाउद्धत्योपक्लेशयोः क्लेशानां च प्रातिपक्षत्वात् | षड्विधो ऽभिनिर्हारः कतमः |
SK
दर्शनस्याववादस्य स्थितिविक्रीडितस्य च | प्रणिधेर् वशितायश् च धर्मप्राप्तेश् च निर्हृतिः || AMस_१८.५४ ||
SK
तत्र दर्शनं चक्षुः पञ्चविधं मांसचक्षुः दिव्यं चक्षुः आर्यं प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुश् च | अववादः षडभिज्ञा यथाक्रमं | ताभिर् उपसंक्रम्य भाषा चित्तं चागतिं च गतिं च विदित्वा निःसरणायाववदनात् | स्थितिविक्रीडितं यस्मात् बोधिसत्वानां बहुविधं निर्माणादिभिः समाधिविक्रीडितं | प्रणिधिर् येन प्रणिधिज्ञानेन प्रणिधानबलिका बोधिसत्वाः प्रणिधानवैशेषिकतया विक्रीडन्ति | येषां न सुकरं संख्या कर्तुं कायस्य वा प्रभाया वा स्वरसस्य वेति विस्तरेण यथा दशभूमिके सूत्रे | वशिता यथा तत्रैव दश वशिता निर्दिष्टाः | धर्मप्राप्तिर् बलवैशारद्यावेणिकबुद्धधर्माणां प्राप्तिः | इत्य् एषा दर्शनादीनाम् अभिनिर्हारः षड्विधः | इन्द्रियविभागे श्लोकः |
SK
बोधिश् चर्या श्रुत चात्र शमथो ऽथ विपश्यना | श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः || AMस_१८.५५ ||
SK
श्रद्धेन्द्रियस्य बोधिः पदम् आलम्बनम् इत्य् अर्थः | वीर्येन्द्रियस्य बोधिसत्वचर्या | स्मृतीन्द्रियस्य महायानसंगृहीतं श्रुतं | समाधीन्द्रियस्य शमथः | प्रज्ञेन्द्रियस्य विपश्यना पदं | तदर्थाधिकारेणैव चैतानि श्रद्धादीनि आधिपत्यार्थेनेन्द्रियाण्य् उच्यन्ते | बलविभागे श्लोकः |
SK
भूमिप्रवेशसंक्लिष्टाश् चेष्टाः श्रद्धादयः पुनः |
SK
विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः || AMस_१८.५६ ||
SK
गतार्थः श्लोकः | बोध्यङ्गविभागे सप्त श्लोकाः |
SK
भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते | धर्माणां सर्वसत्वानां समतावगमात् पुनः || AMस_१८.५७ ||
SK
एतेन यस्याम् अवस्थायां यस्यावबोधात् बोध्यङ्गानि व्यवस्थाप्यन्ते तदुपदिष्टं | भूमिप्रविष्टावस्थायां सर्वधर्माणां सर्वसत्वानां च समतावबोधाद् यथाक्रमं धर्मनैरात्म्येनात्मपरसमता च | अतः परं चक्रादिसप्तरत्नसाधर्म्यं बोध्यन्ङ्गानां दर्शयति |
SK
स्मृतिश् चरति सर्वत्र ज्ञेयाजितविनिर्जये |
SK
अजितज्ञेयविनिर्जयाय | यथा चक्रवर्तिनश् चक्ररत्नम् अजितदेशविनिर्जयाय |
SK
सर्वकल्पनिमित्तानां भङ्गाय विचयो ऽस्य च || AMस_१८.५८ ||
SK
यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय |
SK
आशु चाशेषबोधाय वीर्यस्य प्रवर्तते |
SK
क्षिप्राभिज्ञतोत्पादनात् | यथाश्वरत्नम् आशु समुद्रपर्यन्तमहापृथिवीगमनाय |
SK
धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम् || AMस_१८.५९ ||
SK
आरब्धवीर्यस्य बोधिसवस्य धर्मालोका विवर्धन्ते | ततः प्रीतिः सर्वं कार्यं सदा प्रीणयति | यथा मणिरत्नम् आलोकविशेषेण चक्रवर्तिनं प्रीणयति |
SK
सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखम् एति च |
SK
सर्वदौष्ठुल्यसमुत्पादनात् | यथा स्त्रीरत्नेन चक्रवर्ती सुखम् अनुभवति |
SK
चिन्तितार्थसमृद्धिश् च समाधेर् उपजायते || AMस_१८.६० ||
SK
यथा चक्रवर्तिनो गृहपतिरत्नात् |
SK
उपेक्षया यथाकामं सर्वत्र विहरत्य् असौ | पष्ठलब्धाविकल्पेन विकल्पेन विहारेण सदोत्तमः || AMस_१८.६१ ||
SK
उपेक्षोच्यते निर्विकल्पं ज्ञानं तया बोधिसत्वः यथाकामं सर्वत्र विहरति तत्पृष्ठलब्धेन च विहारेणान्यस्योपगमात् | निर्विकल्पेन विहारेण तत्र निर्व्यापरतया वासकल्पनात् | यथा चक्रवर्तिनः परिणायकरत्नं चतुरङ्गबलकायम् उपनेतव्यं चोपप्रणयति | अपनेतव्यं चापनयति | तत्र च गत्वा वासं कल्पयति यत्राखिन्नः चतुरङ्गो बलकायः परैति |
SK
एवंगुणो बोधिसत्वश् चक्रवर्तीव वर्तते | सप्तरत्नोपमैर् नित्यं बोध्यङ्गैः परिवारितः || AMस_१८.६२ ||
SK
इति सप्तरत्नोपमत्वं बोध्यङ्गानां निगमयति |
SK
निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं | चतुर्थम् अनुशंसाङ्गम् अक्लेशाङ्गं त्रयात्मकम् || AMस_१८.६३ ||
SK
एतेन यद् बोध्यङ्गं यथाङ्गं तद् अभिद्यतितं | स्मृतिर् निश्रयाङ्गं सर्वेषां तन्निश्रयेण प्रवृत्तेः | धर्मप्रविचयः स्वभावाङ्गं बोधेस् तत्स्वभावत्वात् | वीर्यं निर्याणाङ्गं तेनाप्राप्यनिष्ठायाम् अधिष्थानात् | प्रीतिर् अनुशंसाङ्गम् चित्तसुखत्वात् | प्रश्रब्धिसमाध्युपेक्षा अक्लेशाङ्गं | येन यन् निश्रित्य यो ऽसंक्लेश इति | त्रिविधम् असंक्लेशाङ्गं वेदितव्यं | मार्गाङ्गविभागे द्वौ श्लोकौ |
SK
यथाबोधानुवृत्तिश् च तदूर्ध्वम् उपजायते |
SK
यथाबोधव्यवस्थानं प्रवेशश् च व्यवस्थितौ || AMस_१८.६४ ||
SK
कर्मत्रयविशुद्धिश् च प्रतिपक्षस्य भावना | ज्ञेयावृत्तेश् च मार्गस्य वैशेषिकगुणस्य च || AMस_१८.६५ ||
SK
बोध्यङ्गकालाद् ऊर्ध्वं यथाभूतावबोधानुवृत्तिः सम्यग्दृष्टिः | तस्यैवावबोधस्य अवस्थानं परिच्छेदः सम्यक्संकल्पः | तद्व्यवस्थाने च सूत्रादिके भगवता कृते स एव प्रवेशस् तेन तद्र्थावबोधात् | कर्मत्रयविशुद्धिः सम्यग्वाक्करमान्ताजीवाः | वाक्कायोभयक्रमसंग्रहात् | प्रतिपक्षस्य भावना भावना सम्यग्व्यायामादयो यथाक्रमं ज्ञेयावरणस्य मार्गावरणस्य च वैशेषिकगुणावरणस्य च सम्यग्व्यायामेन दीर्घं (Mस १४६) हि कालं अखिद्यमानो ज्ञेयावरणस्य प्रतिपक्षं भावयति | सम्यक्स्मृत्या शमथप्रग्रहोपेक्षानिमित्तेषु लयाउद्धत्याभावान् मार्गसंमुखीभावायावरणस्य प्रतिपक्षं भावयति | सम्यक्समाधिना वैशेषिकगुणाभिनिर्हारायावरणस्य प्रतिपक्षं भावयत्य् एवम् अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्ते | शमथविपश्यनाविभागे त्रयः श्लोकः |
SK
चित्तस्य चित्ते स्थानाच् च धर्मप्रविचयाद् अपि | सम्यक् स्थितिम् उपाश्रित्य शमथो ऽथ विपश्यना || AMस_१८.६६ ||
SK
सम्यक्समाधिं निश्रित्य चित्ते चित्तस्यावस्थानात् | धर्माणां च प्रविचयाद् यथाक्रमं शमथो विपश्यना च वेदितव्या | न तु विना सम्यक्समाधिनेत्य् एतच् छमथविपश्यनालक्षणं |
SK
सर्वत्रगा च सैकांशा नैकांशोपनिषन्मता |
SK
सा च शमथविपश्यना सर्वत्रगा यं यं गुणम् आकङ्क्षति तत्र तत्र तद्भावनात् | यथोक्तं सूत्रे | आकङ्क्षेद् भिक्षुर् अहो वताहं कामैर् इति विस्त्रेण यावत् तेन भिक्षुणा इमाव् एव द्वौ धर्मौ भावयितव्यौ | यद् उत शमथश् विपश्यना चेत्य् एवम् आदि | एकांशा शमथविपश्यना यदा शमथं भावयति | विपश्यनां वा | उभयांश यदा युगपद् उभयं भावयति | उपनिषन्संमता शमथविपश्यना बोधिसत्वानाम् अधिमुक्तिचर्याभूमौ |
SK
१८.६७ब्-च् प्रतिवेधे च निर्याणे अनिमित्ते ह्य् असंस्कृते || AMस_१८.६७ ||
SK
परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना | सर्वभूमिगता धीरे स योगः सर्वसाधकः || AMस_१८.६८ ||
SK
इत्य् उपनिषन् मतेत्य् एवमादिना शमथविपश्यनाः प्रभेदः कर्म च निर्दिष्टः | योग उपायो वेदितव्यः | तत्र प्रतिवेधः प्रथमभूमिप्रवेशः | निर्याणं यावत षष्टी भूमिः | ताभिः सनिमित्तप्रयोगनिर्णयात् | अनिमित्तं सप्तमी भूमिः | असंस्कृतम् अन्यद्भूमित्रयम् अनभिसंस्कारवाहित्वात् | संस्कारो हि संसृतं तद् अत्र नास्तीत्य् असंस्कृतं | तद् एव च भूमित्रयं निश्रित्य बुद्धक्षेत्रं च् परिशोधयितव्यं | बुद्धत्वं च प्राप्तव्यं | तद् एतद् यथाक्रमं परिशुद्धिर् विशुद्धिश् च | उप्यायकौशल्यविभागे द्वौ श्लोकौ |
SK
पूरये बुद्धधर्माणां सत्वानां परिपाचने | क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं || AMस_१८.६९ ||
SK
उपाये बोधिसत्वानाम् असमं सर्वभूमिषु | यत्कौशल्यं समाश्रित्य सर्वार्थान् साधयन्ति ते || AMस_१८.७० ||
SK
अनेनोपायकौशल्यस्य प्रभेदः कर्म च दर्शितः | तत्र बुद्धधर्मपर्पूरये निर्विकल्पं ज्ञानम् उपायः | सत्वपरिपाचने चत्वारि संग्रहवस्तूनि | क्षिप्राभिसंबोधे सर्वं पापं प्रतिदेशयामि यावद् भवतु ज्ञानं संबोधायेति प्रतिदेशना ऽनुमोदनाध्येषणा परिणामना | क्रियाशुद्धौ समाधिधारणीमुखानि | तैः सर्वार्थक्रियासाधनात् | वर्त्मानुच्छेदे अप्रतिष्ठनिर्वाणे | अस्मिन् पञ्चविध उपाये सर्वभूमिषु बोधिसत्वानाम् असमं तदन्यैः कौशल्यम् इत्य् अयं प्रभेदः | सर्वस्वपरार्थसाधनं कर्म | धारणीविभागे त्रयः श्लोकाः |
SK
विपाकेन श्रुताभ्यासात् धारण्य् अपि समाधिना | परीत्ता महती सा च महती त्रिविधा पुनः || AMस_१८.७१ ||
SK
अप्रविष्टप्रविष्टानां धीमतां मृदुमध्यमा | अशुद्धभूमिकानां हि महती शुद्धभूमिका || AMस_१८.७२ ||
SK
धारणीतां समाश्रित्य बोधिसत्वा पुनः पुनः | प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च || AMस_१८.७३ ||
SK
अत्रापि प्रभेदः कर्म च धारण्याः दर्शितं | तत्र त्रिविधा धारणी | पूर्वकर्मविपाकेन | श्रुताभ्यासेन | दृष्टधर्मबाहुश्रुत्येन ग्रहणधारणसामर्थ्यविशेषणात् | समाधिसंनिश्रित्येन च | सा पुनर् विपाकश्रुताभ्यासाभ्यां परीत्ता वेदितव्या | समाधिना महती सापि महती पुनस् त्रिविधा | अभूमिप्रविष्टानां मृद्वी भूमिप्रविष्टानां अकुशलभूमिकानां मध्या सप्तसु भूमिषु | परिशुद्धभूमिका त्व् अधिमात्रा शेषासु भूमिषु इत्य् अयं प्रभेदो धारण्याः | सद्धर्मस्य प्रकाशनं धारणं च कर्म | प्रणिधानविभागे त्रयः श्लोकाः |
SK
चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् | प्रणिधानं हि धीराणाम् असमं सर्वभूमिषु || AMस_१८.७४ ||
SK
हेतुभूतं च विज्ञेयं चित्तात् सद्यः फलं च तत् | आयत्याम् अर्थसिद्ध्यर्थं चित्तमात्रात् समृद्धितः || AMस_१८.७५ ||
SK
चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु | आ बोधेर् बोधिसत्वानां स्वपरार्थप्रसाधकं || AMस_१८.७६ ||
SK
अत्र प्रणिधानं स्वभावतो निदानतो भूमितः प्रभेदतः कर्मतश् च परिदीपितं | चेतना छन्दसंप्रयुक्ता स्वभावः | ज्ञानं निदानं | सर्वभूमिष्व् इति भूमिः | तच् च प्रणिधानं हेतुभूतं | चित्ताद् एव सद्यः फलत्वात् | आयत्यां वाभिप्रेतार्थसिद्ध्यर्थं चित्तात् पुनः सद्यःफलं चित्तमात्रात् यथार्थसमृद्धिता वेदुतव्या | येन प्रणिहानेन बलिका बोहिसत्वा विक्रीडन्ति | यस्य न सुकरा संख्या कर्तुं कायस्य वेति विस्तरः | चित्रम् अधिमुक्तिचर्याभूमाव् एवं च स्याम् इति | महद्भूमिप्रविष्टस्य दश महाप्रणिधानानि | विशुद्धं उत्तरोत्तरासु भूमिषु विशुद्धिविशेषाद् आ बोधेर् इत्य् एष प्रभेदतः | स्वपरार्थप्रसाधनं कर्म | समाधित्रयविभागे त्रयः श्लोकाः |
SK
नैरात्म्यं द्विविधं ज्ञेयो ह्य् आत्मग्राहस्य चाश्रयः | तस्य चोपशमो नित्यं समाधित्रयगोचरः || AMस_१८.७७ ||
SK
त्रयाणां समाधीनां त्रिविधो गोचरो ज्ञेयः | पुद्गलनैरात्म्यं शून्यतासमाधेः | तदुभयात्मग्राहस्याश्रयः पञ्चोपदानस्कन्धा अप्रणिहितसमाधेः | तस्याश्रयस्यात्यनतोपशम आनिमित्तसमाधेः | स एव समाधिस् त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः |
SK
त्रिविधस्य ग्राहस्य गोचरस्य ग्राहका ये समाधयः | ते शून्यतादिसमाधयः इति ग्राह्यग्राहकभावेन त्रयः समाधयो ज्ञातव्याः | ते पुनर् यथाक्रमं |
SK
निर्विकल्पो ऽपि विमुखो रतियुक्तश् च सर्वदा || AMस_१८.७८ ||
SK
शून्यतासमाधिर् निर्विकल्पः | पुद्गलधर्मात्मनोर् अविकल्पनात् | अप्रणिहितो विमुखस् तस्माद् आत्मग्राहाश्रयात् | आनिमित्तो रतिसम्प्रयुक्तः सर्वकालं तस्मिंस् तदाश्रयोपशमे |
SK
परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च | शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः || AMस_१८.७९ ||
SK
पुद्गलनैरात्म्यययोः परिज्ञार्थं शून्यता | तद् आत्मग्राहाश्रयस्य प्रहाणार्थम् अप्रणिहितः | तदुप्शमस्य साक्षात्क्रियार्थम् आनिमित्तः समाधिः | धर्मोद्दानविभागे श्लोकौ |
SK
समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं | देशितं बोधिसत्वेभ्यः सत्वानां हितकाम्यया || AMस_१८.८० ||
SK
तत्र संस्कारा अनित्याः सर्वसंस्कारा दुःखाः इत्य् अप्रणिहितस्य समाध्युपनिषत्भावेन देशितं | सर्वधम्रा अनात्मान इत्य् शून्यतायाः | शान्तं निर्वाणम् इति आनिमित्तस्य समाधेः | कः पुनर् अनित्यार्थो यावच् छान्तार्थः इत्य् आह |
SK
असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च | विकल्पोपशमार्थश् च धीमतां तच् चतुष्टयम् || AMस_१८.८१ ||
SK
बोधिसत्वानाम् असदर्थो ऽनित्यार्थः | यन् नित्यं नास्ति तद् अनित्यं तेषां यत् परिकल्पितलक्षणं | अभूतविकल्पार्थो दुःखार्थो यत् परतन्त्रलक्षणं | परिकल्पमात्रार्थो ऽनात्मार्थः | एवशब्देनावधारणं परिकल्पत आत्मा नास्ति परिकल्पमात्रं त्व् अस्तीति परिकल्पितलक्षणस्याभावार्थो ऽनात्मार्थ इत्य् उक्तं भवति | विकल्पोपशमार्थः परिनिष्पन्नलक्षणं निर्वाणं | क्षणभङ्गार्थो ऽप्य् अनित्यार्थो वेदितव्यः परतन्त्रलक्षणस्य | अतस् तत्साधनार्थं क्षणिकत्वविभागे दश श्लोकाः |
SK
अयोगाद् धेतुतो ऽत्पत्तेर् विरोधात् स्वयम् अस्थितेः | अभावाल् लक्षणैकान्त्याद् अनुवृत्तेर् निरोधतः || AMस_१८.८२ ||
SK
परिणामोपलब्धेश् च तद्धेतुत्वफलत्वतः | उपात्तत्वाधिपत्वाच् च शुद्धसत्वानुवृत्तितः || AMस_१८.८३ ||
SK
तत्र क्षणिकं सर्वं संस्कारम् इति पश्चाद् वचनाद् इयं प्रतिज्ञा वेदितव्या | तत् पुनः कथं सिध्यति | क्षणिकत्वम् अन्तरेण संस्काराणां प्रवृत्तेर् अयोगात् | प्रबन्धेन हि वृत्तिः प्रवृत्तिः | सा चान्तरेण प्रतिक्षणम् उत्पादनिरोधौ न युज्यते | अथ कालान्तरं स्थित्वा पूर्वोत्तरनिरोधोत्पादतः प्रबन्धेनेष्यते वृत्तिः | तदनन्तरं प्रवृत्तिर् न स्यात् प्रबन्धाभावात् नैव चोत्पन्नस्य विना प्रबन्धेन कालान्तरं भावो युज्यते | किं कारणं हेतुत उत्पत्तिः | हेतुतो हि सर्वं संस्कृतम् उत्पद्यते भवतीत्य् अर्थः | तद् यदि भूत्वा पुनर् उत्तरकालं भवति तस्यावश्यं हेतुना भवितव्यं | विनाहेतुना आदित इवाभावात् | न च तत् तेनैव हेतुना भवितुम् अर्हति तस्योपयुक्तहेतुकत्वात् | न चान्यो हेतुर् उप्लभ्यते | तस्मात् प्रतिक्षणम् अवश्यं पूर्वहेतुकम् अन्यद् भवतीति वेदितव्यं | एवं विना प्रबन्धेनोत्पन्नस्य कालान्तरं भावो नो युज्यते | अथ अप्य् एवम् इष्यत नोत्पन्नं पुनर् उत्पद्यते यद् अर्थं हेतुना भवितव्यं स्याद् उतपन्नं तु कालान्तरेण पश्चान् निरुध्यते नोत्पन्नमात्रम् एवेति | तत्पश्चात् केन निरुध्यते | यद् उत्पादहेतुनैव तद् अयुक्तं | किं कारणं | उत्पाद्निरोधयोर् विरोधात् | न हि विरोधयोस् तुल्यो हेतुर् उपलभ्यते | तद् यथा छायातपयोः शीतोष्णयोश् च | कालान्तरनिरोधस्यैव (Mस १५०) च विरोधात् | केन विरोधात् | आगमेन च | यद् उक्तं भगवता | मायोपमास् ते भिक्षो संस्कारा आपायिकास् तावत् कालिका इत्वरप्रत्युपस्थायिन इति | मनस्कारेण च योगिनां | ते हि संस्काराणाम् उदयव्ययौ मनसिकुर्वन्तः प्रतिक्षणं तेषां निरोधं पश्यन्ति | अन्यथा हि तेषाम् अपि निर्विद्विरागविमुक्तयो न स्युर् यथान्येषां मरणकालादिषु निरोधं पश्यन्तां | यदि चोत्पन्नः संस्कारः कालान्तरं तिष्ठेत् स स्वयम् एव वा तिष्ठेत् स्वयम् एव स्थातुं समर्थः | स्थितिकारणेन वा केनचित् | स्वयं तावद् अवस्थानम् अयुक्तं | किं कारणं | पश्चात् स्वयम् अस्थितेः | क्केन वा सो ऽन्ते पुनः स्थातुं न समर्थः | स्थितिकारणेनापि न युक्तं तस्याभावात् | न हि तत् किंचिद् उपलभ्यते | अथापि स्याद् विनापि स्थितिकारणेन विनाशकारणाभावात् अवतिष्ठते | लब्धे तु विनाशकारणे पश्चाद् विनाशयति अग्निनेव श्यामतेति | तद् अयुक्तं तस्याभावात् | न हि विनाशकारणं पश्चाद् अपि किंचिद् अस्ति | अग्निनापि श्यामता विनाशयतीति सुप्रसिद्धं | विसदृशोत्पत्तौ तु तस्य सामार्थ्यं प्रसिद्धं | तथा हि तत्संबन्धात् श्यामतायाः संततिर् विसदृशी गृह्यते म तु सर्वथैवाप्रवृत्तिः | अपाम् अपि क्वथ्यमानानाम् अग्निसंबन्धाद् अल्पतरतमोत्पत्तितो ऽतिमन्द्याद् अन्ते पुनर् अनुत्पत्तिर् गृह्यते | लक्षणैकान्त्यात् | एकान्तिकं ह्य् संस्कृतलक्षणम् उक्तं भगवता यद् उत संस्कृतस्यानित्यता | तद् यदि नोत्पन्नमात्रं विनश्येत् | कंचित् कालम् अस्यानित्यता न स्याद् इति अनैकान्तिकम् अनित्यतालक्षणं प्रसह्यते | अथापि स्यात् प्रतिक्षणम् अपूर्वोत्पत्तौ तद् एवेदम् इति प्रत्यभिज्ञानं न स्याद् इति | तद् भवत्य् एव सादृशस्य अनुवृत्तेर् मायाकारपलकवत् | सादृश्यात् तत्बुद्धिर् न तद्भावाद् इति | कथं गम्यते | निरोधतः | न हि तथैवावस्थितस्यान्ते निरोधः स्याद् आदिलक्षणनिर्विशिष्टत्वात् | तस्मान् न तत् तद् एवेत्य् अवधार्यते अन्ते परिणामोपलब्धेश् च | परिणामो हि नामान्यथात्वं | तद् यदि नादित एवारब्धं भवेद् आध्यात्मिकबाह्यानां भावानाम् अन्ते परिणामो नोपलभ्येत | तस्माद् आदित एवान्यथात्वम् आरब्धं यत् क्रमेणाभिवर्धमानम् अन्ते व्यक्तिम् आपद्यन्ते क्षीरस्येव दध्यवस्थायां | यावत् तु तद् अन्यथात्वं सूक्ष्मत्वान् न परिच्छिद्यते | तावत् सादृश्यानुवृत्तेस् तद् एवेदम् इमि ज्ञायत इति सिद्धं | ततश् च प्रतिक्षणम् अन्यथात्वात् | क्षणिकत्वं प्रसिद्धं | कुतश् च प्रसिद्धं | तद्धेतुत्वफलत्वतः | क्षणिकहेतुत्वात् | क्षणिकफलत्वाच् चेत्य् अर्थः | (Mस १५१) क्षणिकं हि चित्तं प्रसिद्धं तस्य चान्ये संस्काराश् चक्षूरूपादयो हेतुतः | तस्मात् ते ऽपि क्षणिका इति सिद्धं | न त्व् अक्षणिकात् क्षणिकं भवितुम् अर्हति यथा नित्याद् अन्य्त्यतम् इति | चित्त्स्य खल्व् अपि सर्वे संस्काराः फलं | कथम् इदं गम्यते | उपात्तत्वाद् आधिपत्याच् छुद्धसत्वानुवृत्तितश् च | चित्तेन हि सर्वे संस्काराश् चक्षुरादयः साधिष्ठाना उपात्ताः सहसंमूर्छ्नाः तदनुग्रहानुवृत्तितः | तस्मात् ते चित्तस्य फलं चित्तस्य चाधिपत्यं संस्कारेषु | यथोक्तं भगवता | चित्तेनायं लोको नीयते चित्तेन परिकृष्यते चित्तस्योत्पन्नस्योत्पन्नस्य वशे वर्तते इति | तथा विञानप्रत्ययं नाम रूपम् इत्य् उक्तं | तस्माच् चित्तस्य फलं | शुद्धचित्तानुवृत्तितश् च | शुद्धं हि योगिनां चित्तं संस्कारा अनुवर्तन्ते | यथोक्तं | ध्यायी भिक्षुः ऋद्धिमांश् चित्तवशे प्राप्त इमं दारुस्कन्धं सचेत् सुवर्णम् अधिमुच्यते तद् अप्य् अस्य तहैव स्याद् इति | तस्माद् अपि चित्तफलं संस्काराः | सत्वानुवृत्तितश् च | तथा हि पापकारेषु सत्वेषु बाह्या भावा हीना भवन्ति | पुण्यकारेषु च प्रणीताः | अतस् तच्चित्तानुवर्तनात् चित्तफलत्वं संस्काराणां सिद्धं | ततश् च तेषां क्षणिकत्वं | न हि क्षणिकस्याक्षणिकं फलं युज्यते तदनुविधायित्वात् | एवं तावद् अविशेषेण संस्काराणां क्षणिकत्वं द्वाभ्यां श्लोकाभ्यां साधितं | आध्यात्मिकानां पुनः साधनार्थं पञ्च श्लोका वेदितव्याः |
SK
आद्यस् तरतमेनापि चयेनाश्रयभावतः | विकारपरिपाकाभ्यां तथा हीनविशिष्टतः || AMस_१८.८४ ||
SK
भास्वराभास्वरत्वेन देशान्तरगमेन च | सबीजाबीजभावेन प्रतिबिम्बेन चोदयः || AMस_१८.८५ ||
SK
चतुर्दशविधोत्पत्तौ हेतुमान् अविशेषतः | चयायापार्थाद् अयोगाच् च आश्रयत्व असंभवात् || AMस_१८.८६ ||
SK
स्थितस्यासंभवाद् अन्ते आद्यनाशाविकारतः | तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च || AMस_१८.८७ ||
SK
गत्यभावात् स्थितायोगाच् चरमत्व असंभवात् | अनुवृत्तेश् च चित्तस्य क्षणिकं सर्वसंस्कृतम् || AMस_१८.८८ ||
SK
आद्यस् तरतमेनापि यावत् क्षणिकं सर्वसंस्कृतम् इति | कथम् एषाम् एभिः क्षणिकत्वं सिध्यति | आद्यात्मिकानां हि संस्काराणां चतुर्दशविध उत्पादः | आद्य उत्पादो यावत् प्रथमत आत्मभावाभिनिर्वृत्तिः | तरतमेन यः प्रथमजन्म लक्षणाद् ऊर्ध्वं | चयेन य आहारस्वप्नब्रह्मचर्यासमापत्त्य् उपचयेन | आश्रयभावतः यश् चक्षुर्विज्क्नानादीनां चक्षुरादिभिर् आश्रयैः | विकारेण यो रागादिभिर् वर्णादिविपरिणामतः | परिपाकेन यो गर्भबालकुमारयुवमध्यमवृद्धावस्तासु | हीनत्वेन (Mस १५२) विशिष्टत्वेन च यो दुर्गतौ चोत्पद्यमानानां यथाक्रमं | भास्वरत्वेन यो निर्मितकामेषु परिनिर्मितकामेषु रूपारूप्येषु चोपपन्नानां | चित्तमात्रादीनत्वात् | आभास्वरत्वेन यस् तद् अन्यत्रोपपन्नानां | देशान्तरगमनेन यो ऽन्यदेशोत्पादनिरोधे ऽन्यदेशोत्पादः | सबीजत्वेन यो ऽर्हतश् चरमान् स्कन्धान् वर्जयित्वा | अबीजत्वेन यस् तेषाम् एवार्हतश् चरम् एषां | प्रतिबिम्बत्वेन | यो अष्टविमोक्षध्यायिनां समाधिवशेन प्रतिबिम्बानां संस्काराणां उत्पादः | एतस्यां चतुर्दशविधायाम् उत्पत्ताव् आध्यात्मिकानां संस्काराणां क्षणिकत्वं हेतुमान् अविशेषादिभिः कारणैर् वेदितव्यं | आद्योत्पादे तावत् हेतुविशेषात् | यदि हि तस्य हेतुत्वेन विशेषो न स्यात् तद् उत्तरायाः संस्कारप्रवृत्तेर् उत्तरोत्तरविशेषो नोपलभ्येत हेत्वविशेषात् | विशेषे च सति तदुत्तरेभ्यस् तस्यान्यत्वात् | क्षणिकत्वसिद्धिः | तरतमोत्पादे मानविशेषात् | मानं प्रमाणम् इत्य् अर्थः | न हि प्रतिक्षणं विना ऽन्यत्वेन परिमाणविशेषो भवेत् | उपचयोत्पादे चयापार्थ्यात् | उपस्तम्भो हि चयः | तस्यापार्थ्यं स्याद् अन्तरेण क्षणिकत्वं तथैवावस्थितत्वात् | अयोगाच् चोपचयस्यैव | न हि प्रतिक्षणं विना पुष्टतरोत्पत्त्या युज्येतोपचयः | आश्रयभावेनोत्पत्ताव् आश्रितत्वासंभवात् | न हि तिष्ठत्य् आश्रये च तदाश्रितस्यानवस्थानं युज्यते | येन तिष्ठति त आरूढानवस्थानवद् अन्यथा ह्य् आश्रयत्वं न संभवेत् | विकारोत्पत्तौ परिपाकोत्पत्तौ च स्थितस्यासंभवात् | आद्यनाशाविकारतः | म हि तथास्थितस्यैव रागादिभिर् विकारः संभवति | न चावस्थान्तरेषु परिपाक आदाव् अविनाशे सत्य् अन्ते विकाराभावात् | तथा हीनविशिष्टोत्पत्तौ कणिकत्वं वेदितव्यं यथा विकारपरिपाकोत्पत्तौ | न हि तह्तास्थितेष्व् एव संस्कारेषु कर्मवासना वृत्तिं लभते यतो दुर्गतौ वा स्याद् उत्पत्तिः सुगतौ वा | क्रमेण हि संततिपरिणामविशेषात् वृत्तिलाभो युज्यते | भास्वराभास्वरे ऽपि चोत्पादे तथैव क्षणिकत्वं युज्यते | भास्वरे तावत् तथाथितस्यासंभावात् चित्ताधीनवृत्तितायाः | अभास्वरे ऽपि चादौ विनाशम् अन्तरेणान्ते विकाराय्गात् | देशान्तरगमनेनोत्पत्तौ गत्यभावात् | न हि संस्काराणां देशान्तरसंक्रान्तिलक्षणा गतिर् नाम काचित् क्रिया युज्यते | स ह्य् उत्पन्ना वा संस्कारं देशान्तरं गमयेद् अनुत्पन्ना वा | यद् उत्पन्ना तेन गतिकाले न कंचिद् गत इति स्थितस्यैव गमनं नोपपद्यते | अथानुत्पन्ना तेन असत्यां गतौ गत इति न युज्यते | सा च क्रिया यदि तद्देशस्थ एव संस्कारे कारित्रं करोति न युज्यते | स्थितस्यान्यदेशाप्राप्तेः | अथान्यदेशस्थे न युज्यते | विना क्रिययान्यदेशाप्राप्तेः | न च क्रिया तत्र वा अन्यत्र वा देशे स्थिता संस्काराद् अन्योपलभ्यते | तस्मान् नास्ति संस्काराणां देशान्तरसंतत्युत्पादाद् अन्या गतिः | तदभावाच् च सिद्धिं क्षणिकत्वं | देशान्तरनिरन्तरौत्पत्तिलक्षणा गतिर् विभवद्भिः कारणैर् वेदितव्या | अस्ति चित्तवशेन यथा चङ्क्रमणाद्यवस्थासु | अस्ति पूर्वकर्मावेधेन यथान्तराभवः | अस्त्य् अभिघातवशेन यथा क्षिप्तस्येषोः | अस्ति संबन्धवशेन यथा याननदीप्लवारुढानां | (Mस १५३) अस्ति नोदनवशेन यथा वायुप्रेरितानां तृणादीनां | अस्ति स्वभाववशेन यथा वायोस् तिर्यग्गमनम् अग्नेर् ऊर्ध्वं ज्वलनम् अपां निम्ने स्यन्दनं | अस्त्य् अनुभावेन यथा मन्त्राउषधानुभावेन | केषांचिद् अयस्कान्तानुभावेनायसां | ऋद्ध्यनुभावेन ऋद्धिमतां | सबीजाबीजभावेनोत्पत्तौ क्षणिकत्वं वेदितव्यं | स्थितायोगाच् चरमासंभवाच् च | न हि प्रतिक्षणं हेतुभावम् अन्तरेण तथास्थितस्यान्यस्मिन् काले पुनर् बीजभावो युज्यते | निर्बीजत्वं वा चरमे क्षणे | न च शक्यं पूर्वं सबीजत्वं चरमे क्षणे निर्बीजत्वम् अभ्युपगन्तुं | तदभावे चर्मत्वासंभावात् | तथा हि चरमत्वम् एव न संभवति | प्रतिबिम्बोत्पत्तौ क्षणिकत्वं चित्तानुवृत्तितो वेदितव्यं | प्रतिक्षणं चित्तवशेन तदुत्पादात् | एकान्तात् साधितम् आध्यात्मिकं सर्वसंस्कृतम् क्षणिकम् इति | बाह्यस्येदानीं क्षणिकत्वं त्रिभिः श्लोकैः साधयति |
SK
भूतानां षड्विधार्थस्य क्षणिकत्वं विधीयते | शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः || AMस_१८.८९ ||
SK
तत्संभवात् पृथिव्याश् च परिणामचतुष्टयात् | वर्णगन्धरसस्पर्शतुल्यत्वाच् च तथैव तत् || AMस_१८.९० ||
SK
इन्धनाधीनवृत्तित्वात् तारतम्योपलब्धितः | चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यम् अप्य् अतः || AMस_१८.९१ ||
SK
किं पुनस् तद् बाह्यं | चत्वारि महाभूतानि | षड्विधश् चार्थः | वर्णगन्धरसस्पर्शशब्दा धर्मायतनिकं च रूपं | अतो भूतानां षड्विधार्थस्य च क्षणिकत्वं विधीयते | कथं विधीयते | अपां तावच् शोषवृद्धेः | उत्सरस् तडागादिष्व् अपां क्रमेण वृद्धिः | शोषश् चोपलभ्यते | तच् चोभयम् अन्तरेण प्रतिक्षणं परिणामं न स्यात् पश्चाद् विशेषकारणाभावात् | वायोः प्रकृत्या च चलत्वाद् वृद्धिहानितश् च | न ह्य् अवस्थितस्य चलत्वं स्यात् तत्स्वभावाद् इति प्रसाधितम् एतत् | न च वृद्धिह्रासौ तथैवावस्थित्वात् | पृथिव्याश् तत्संभवात् परिणामचतुष्टयाच् च | तच् छबेनापश् च गृह्यन्ते वायुश् च | अद्भ्यो हि वायुसहिताभ्यः पृथिवी संभूता विवर्तकाले | तस्मात् तत्फलत्वात् सापि क्षणिका वेदितव्या | चतुर्विधश् च परिणामः पृथिव्या उपलभ्यते | कर्मकृतः सत्वानां कर्मविशेषात् | उपक्र्तमकृतः प्रहादिभिः | भूतकृतो ऽग्न्यादिभिः | कालकृतः कालान्तरपरिणामतः | स चान्तरेण प्रतिक्षणं अन्योत्पत्तिं न युज्यते विनाशकारणाभावात् | वर्णगन्धरसस्पर्शानां पृथिव्यादिभिस् तुल्यकारणत्वात् तथैव कणिकत्वं वेदितव्यं | तेजसः पुनः क्षणिकत्वम् इन्धनाधीनवृत्तित्वात् | (Mस १५४) न हि तेजस्य् उत्पन्ने तेजःसहोत्पन्नम् इन्धनं तथैवावतिष्ठते | न च दग्धेन्धनं तेजः स्थातुं समर्थं | मा भूद् अन्ते ऽप्य् अनिन्धनस्यावस्थानम् इति | श्लोकबधानुरोधाद् वर्णादीनां पूर्वम् अभिधानं पश्चात् तेजसः | शब्दः पुनर् यो ऽपि कालान्तरम् उपलभ्यते घण्ठादीनां तस्यापि क्षणिकत्वं वेदितव्यं तारतम्योपलब्धेः न ह्य् असति क्षणिकत्वे प्रतिक्षणमन्दतरतमोपलब्धिः स्यात् | धर्मायतनिकस्यापि रूपस्य क्षणिकत्वं प्रसिद्धम् एव चित्तानुवृत्तेर् यथा पूर्वम् उक्तं | तस्माद् बाह्यम् अप्य् क्षणिकत्वं प्रसिद्धं | पृच्छ्रयते खल्व् अपि सर्वसंस्काराणां क्षणिकत्वं सिध्यति कथं कृत्वा | इदं तावद् अयम् अक्षणिकवादी प्रष्टव्यः | कस्माद् भवान् अनित्यत्वम् इच्छति न संस्कारारां क्षणिकत्वं नेच्छतीति | यद्य् एवं वदेत् प्रतिक्षणम् अन्यत्वस्याग्रहणाद् इति स इदं स्याद् वचनीयः | प्रसिद्धक्षणिकभावेष्व् अपि प्रदीपादिषु निश्चलावस्थायां तदग्रहणाद् अक्षणिकत्वं कस्मान् नेष्यते | यद्य् एवं वदेत् पूर्ववत् पश्चाद् अग्रहणाद् इति | स इदं स्याद् वचनीयः | संस्काराणाम् अपि कस्माद् एवं नेष्यते | यद्य् एवं वदेत् विलक्षणत्वात् प्रदीपादितदन्यसंस्काराणाम् इति | स इदं स्याद् वचनीयः | द्विधं हि वैलक्षण्यं स्वभाववैलक्षण्यं वृत्तिवैलक्षण्यं च | तद् यदि तावत् स्वभाववैलक्षण्यम् अभिप्रेतम् अत एव दृष्टान्तत्वं युज्यते | न हि तत्स्वभाव एव तस्य दृष्टान्तो भवति यथा प्रदीपः प्रदीपस्य गौर् वा गोर् इति | अथ वृत्तवैलक्षण्यम् अत एव दृष्टान्तत्वं प्रदीपप्रदीपानां प्रसिद्धत्वात् | क्षणिकत्वानुवृत्तेः पुनः स इदं प्रष्टव्यः | कच्चिद् इच्छसि याने तिष्ठति यानारुढो गच्छेद् इति | यदि नो हीति वदेत् | स इदं स्याद् वचनीयः | चक्षुरादिषु तिष्ठत्सु तद् आश्रितं विज्ञानं प्रबन्धेन गच्छतीति न युज्यते | यद्य् एवं वदेत् ननु च दृष्टं वर्तिसंनिश्रिते प्रदीपे प्रबन्धेन गच्छति वर्त्या अवथानम् इति | स इदं स्याद् वचनीयः | न दृष्टं तत्प्रबन्धेन वर्त्या प्रतिक्षणं विकारोत्पत्तेर् इति | यद्य् एवं वदेत् सति कणिकत्वे संस्काराणां कस्मात् प्रदीपाद् इव क्षणिकत्वं न सिद्धम् इति | स इदं वचनीयः विपर्यासवस्तुत्वात् | सदृशसंततिप्रबन्धवृत्त्या हि क्षणिकत्वम् एषां न प्रज्ञायते | यतः सत्य् अप्य् अपरापरत्वे तद् एवेदम् इति विपर्यासो जायते | इतरथा हि अनित्यनित्यविपर्यासो न स्यात् तदभावे संक्लेशो न स्यात् कुतः पुनर् व्यवदानम् इत्य् एवं पर्यनुयोगतो ऽपि क्षणिकत्वं सर्वसंस्काराणां प्रसिद्धं | पुद्गलनैरात्म्यप्रसाधनार्थं नैरात्म्यविभागे द्वादश श्लोकः |
SK
प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु | नोपलम्भाद् विपर्यासात् संक्लेशात् क्लिष्टहेतुतः || AMस_१८.९२ ||
SK
एकत्वान्यत्वतो वाच्यस् तस्माद् दोषद्वयाद् असौ | स्कन्धात्मत्वप्रसङ्गाच् च तद्द्रव्यत्वप्रसङ्गतः || AMस_१८.९३ ||
SK
द्रव्यसन् यद्य् अवाच्यश् च वचनीयं प्रयोजनं | एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः || AMस_१८.९४ ||
SK
लक्षणाल् लोकदृष्टाच् च शास्त्रतो ऽपि न युज्यते | इन्धनाग्न्योर् अवाच्यत्वम् उपलब्धेर् द्वयेन हि || AMस_१८.९५ ||
SK
द्वये सति च विज्ञानसंभवात् प्रत्ययो न सः | नैरर्थक्याद् अतो द्रष्टा यावन् मोक्ता न युज्यते || AMस_१८.९६ ||
SK
स्वामित्वे सति चानित्यम् अनिष्टं न प्रवर्तयेत् | तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा || AMस_१८.९७ ||
SK
दर्शनादौ च तद्यत्नः स्वयंभूर् न त्रयाद् अपि | तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं || AMस_१८.९८ ||
SK
अकर्तृत्वाद् अनित्यत्वात् सकृत्र् इत्य् अप्रवृत्तितः | दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते || AMस_१८.९९ ||
SK
तथा स्थितस्य नष्टस्य प्राग् अभावाद् अनित्यतः | तृतीयपक्षाभावाच् च प्रत्ययत्वं न युज्यते || AMस_१८.१०० ||
SK
सर्वधर्मा अनात्मानः परमार्थेन शून्यता | आत्मोपलम्भे दोषश् च देशितो यत एव च || AMस_१८.१०१ ||
SK
संक्लेशव्यवदाने च अवस्थाच् छेदभिन्नके | वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः || AMस_१८.१०२ ||
SK
आत्मदृष्टिर् अनुत्पाद्या अभ्यासो ऽनादिकालिकः | अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलो ऽस्ति वा || AMस_१८.१०३ ||
SK
पुद्गलः किम् अस्तीति वक्तव्यो नास्तीति वक्तव्यः | आह |
SK
प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु |
SK
यतश् च प्रज्ञप्तितो ऽस्तीति वक्तव्यो द्रव्यतो नास्तीति वक्तव्यः | एवम् अनेकांशवादपरिग्रहे नैवास्तित्वे दोषावकाशो न नास्तित्वे | स पुनर् द्रव्यतो नास्तीति कथं वेदितव्यः | नोपलम्भात् | न हि स द्रव्यत उपलभ्यते रूपादिवत् उपलब्धिर् हि नाम बुद्ध्या प्रतिपत्तिः | न च पुद्गलं बुद्ध्या न प्रतिपद्यन्ते पुद्गलवादिनः | उक्तं च भगवता | दृष्ट एव धर्मे आत्मानम् नुपलभते प्रज्ञापयतीति कथं नोपलब्धा भवति | न स एवम् उपलभ्यमानो द्रव्यत उपलब्धो भवति | किं कारणं | विपर्यासात् तथा ह्य् अनात्मन्य् आत्मेति विपर्यास उक्तो भगवता | तस्माद् य एवं पुद्गलग्राहो विपर्यासः सः | कथम् इदं गम्यते | संक्लेशात् | सत्कायदृष्टिक्लेशलक्षणो ह्य् एष संक्लेशो यद् उत अहं ममेति | न च विपर्यासः संक्लेशो भवितुम् अरहति | न चैष संक्लेश इति कथं वेदितव्यं | क्लिष्टहेतुतः | तथा हि तधेतुकाः क्लिष्टा (Mस १५६) रागादय उत्पद्यन्ते |
SK
यत्र पुनर् वस्तुनि रूपादिसंज्ञके प्रज्ञप्तिः पुद्गल इति तस्मात् किम् एकत्वेन पुद्गलो वक्तव्य आहोस्विद् अन्यत्वेन | आह |
SK
एकत्वान्यत्वतो वाच्यस् तस्माद् असौ |
SK
किं कारणं | दोषद्वयात् | कतमस्माद् दोषद्वयात् |
SK
स्कन्धात्मत्वप्रसङ्गाच् च तद्द्रव्यत्वप्रसङ्गतः |
SK
एकत्वे हि स्कन्धानाम् आत्मत्वं प्रसज्यते पुद्गलस्य च द्रव्यसत्वं | अथान्यत्वे पुद्गल्स्य द्रव्यसत्यं | एवं हि पुद्गल्स्य प्रज्ञप्तितो ऽस्तित्वाद् अवक्तव्यत्वं युक्तः | तेनाव्याकृतवस्तुसिद्धः |
SK
ये पुनः शास्तुः शासनम् अतिक्रम्य पुद्गल्स्य द्रव्यतो ऽस्तित्वम् इच्छन्ति त इदं स्युर् वचनीयाः |
SK
द्रव्यसन् यद्य् अवाच्यश् च वचनीयं प्रयोजनं |
SK
किं कारणं |
SK
एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः |
SK
अथ दृष्टान्तमात्रात् पुद्गलस्यावक्तव्यत्वम् इच्छेयुः | यथाग्निर् अन्धनान् नान्यो नान्यो वक्तव्य इति | त इदं स्युर् वचनीयाः |
SK
लक्षणाल् लोकदृष्टाच् च शास्त्रतो ऽपि न युज्यते | इन्धनाग्न्योर् अवाच्यत्वम् उपलब्धेर् द्वयेन हि |
SK
एकत्वेनान्यत्वेन च अग्निर् हि नाम तेजोधातुर् इन्धनं शेषाणि भूतानि | तेषां च भिन्नं लक्षणम् इत्य् अन्य एवाग्निर् इन्धनात् | लोके च विनाप्य् अग्निना दृष्टम् इन्धनं काष्टाद् विनापि चेन्धनेनाग्निर् इति सिद्धम् अन्यत्वं | शास्त्रे च भगवता न क्वचिद् अग्नीन्धनयोर् अवाच्यत्वम् उक्तम् इत्य् अयुक्तम् एतत् | विना पुनर् इन्धनेनाग्निर् अस्तीति कथम् इदं विज्ञायते | उपलब्धेस् तथा हि वायुना विक्षिप्तं दूरम् अपि ज्वलत् परैति | अथापि स्याद् वायुस् तत्रेन्धनम् इति अत एवाग्नीन्धनयोर् अन्यत्वम् इत् सिद्धिः | कितः | द्वयेन हि उपलब्धेर् इति प्रकृतं | द्वयं हि तत्रोपलभ्यते अर्चिर् वायुश् चेन्धनत्वेन | अस्त्य् एव पुद्गलो य एष द्रष्टा यावद् विज्ञान्ता कर्ता भोक्ता ज्ञाता मोक्ता (Mस १५७) च | न स द्रष्टा युज्यते | नापि यावन् मोक्ता | स हि दर्शनादिसंज्ञकानां विज्ञानानां प्रत्ययभावेन वा कर्ता भवेत् स्वामित्वेन वा |
SK
तत्र तावत् | द्वयं प्रतीत्य विज्ञानसंभवात् प्रत्ययो न सः |
SK
किं कारणं | नैरर्थक्यात् | न हि तत्र किंचित् सामर्थ्यं दृष्टं |
SK
स्वामित्वे सति चानित्यम् अनिष्टं न प्रवर्तयेत् |
SK
स हि विज्ञानप्रवृत्तौ स्वामीभवन्न् अनिष्टं विज्ञानम् अनित्यं न प्रवर्तयेत् | अनिष्टं च | नैव तस्माद् उभयथाप्य् असंभावात् | असौ द्रष्टा यावन् मोक्ता न युज्यते |
SK
अपि खलु यदि द्रव्यतः पुद्गलो ऽस्ति
SK
तत्कर्मलक्षणं साध्यं
SK
यदि द्रव्यतो ऽस्ति तस्य कर्माप्य् उपलभ्यते | यथा चक्षुरादीनां दर्शनादिलक्षणं च रूपप्रसादादि | न चैवं पुद्गलस्य | तस्मान् न सो ऽस्ति द्रव्यतः | तस्मिंश् च द्रव्यत इष्यमाणे बुद्धस्य भगवतः
SK
संबोधो बाध्यते त्रिधा |
SK
गम्भीराभिसंबोधः | असाधारणाभिसंबोधः | लोकोत्तराभिसंबोधः | नि हि पुद्गलाभिसंबोधे किंचिद् गम्भीरम् अभिसंबुद्धं भवति | न तीर्थ्यासाधारणां | न लोकानुचितं | तथा ह्य् एष ग्राहः सर्वलोकगम्यः | तीर्थ्याभिनिविष्टः | दीर्घसंसारोचितश् च | अपि खलु पुद्गलो द्रष्टा भवन् यावद् विज्ञाता दर्शनादिषु सप्रयत्नो वा भवेन् निष्प्रत्यत्नो वा |
SK
सप्रयत्नस्य वा पुनर् असौ प्रयत्नः स्वयंभूर् वा भवेद् आकस्मिकः | तत्प्रत्ययो
SK
दर्शनादौ च तद्यत्नः स्वयंभूर् न त्रयाद् अपि |
SK
तस्माद् एव च दोषत्रयाद् वक्ष्यमानात्
SK
तद्यत्नप्रत्ययत्वं च
SK
नेति वर्तते | निष्प्रयत्नस्य वा पुनः सतः सिद्धं भवति |
SK
निर्यत्नं दर्शनादिकं
SK
इत्य् असति व्यापरे पुद्गलस्य दर्शनादौ कथम् असौ द्रष्टा भवति |
SK
यावद् विज्ञाता दोषत्रयाद् इत्य् उक्तं कतमस्माद् दोषत्रयात् |
SK
अकर्तृत्वाद् अनित्यत्वात् सकृत्र् इत्य् अप्रवृत्तितः | दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ||
SK
यदि दर्शनादिषु प्रयत्न आकस्मिको यतो दर्शनादीनि | न तर्हि तेषां पुद्ग्लः कर्तेति कथम् असौ द्रष्टा भवति यावद् विज्ञाता सति वाकस्मिकत्वे निरपेक्षत्वात् न कदाचित् प्रयत्नो न स्याद् अनित्यो न स्यात् | नित्ये च प्रयत्ने दर्श्नादीनांयुगपच् च नित्यं च प्रवृर्तिः स्याद् इति दोषः | तस्मान् न युज्यते दर्श्नादिषु प्रयत्नस्य स्वयंभूत्वं |
SK
तथा स्थितस्य नष्टस्य प्राग् अभावाद् अनित्यतः | तृतीयपक्षाभावाच् च प्रत्ययत्वं न युज्यते |
SK
अथ पुद्गलप्रयत्नः प्रयत्नः स्यात् | तस्य तथा स्थितस्य प्रयत्नत्वं न युज्यते | प्राग् अभावात् | सति हि तत्प्रयत्नत्वे न कदाचित् पुद्गलो नास्तीति | किम् अर्थं प्राक् प्रयत्नो न स्याद् यदा नोत्पन्नः | विनष्टस्यापि प्रत्ययत्वं न युज्यते पुद्गलस्यानित्यत्वप्रसङ्गात् | तृतीयश् च कश्चित्पक्षो नास्ति यन् न स्थितो न विनष्टः स्याद् इति | तत्प्रत्ययो ऽपि प्रयत्नो न युज्यते | एवं तावद् युक्तिम आश्रित्य द्रव्यतः पुद्गलो नोपलभ्यते |
SK
सर्वे धर्मा अनात्मानः परमार्थेन शून्यता | आत्मोपलम्भे दोषश् च देशितो यत एव च ||
SK
धर्मोद्दानेषु हि भगवता सर्वे धर्मा अनात्मान इति देशितं परमार्थशून्यतायाम् अस्ति कर्मास्ति विपाकः कारकस् तु नोपलभ्यते य इमंश् च स्खन्दान् निक्षिपति अन्यांश् च स्खन्दान् प्रतिसंदधाति | अन्यत्र धर्मसंकेताद् इति देशितं | पञ्चकेषु पञ्चादीनवा आत्मोपलम्भ इति द्शिता | आत्मदृष्टिर् भवति जीवदृष्टिः निर्विशेषो भवति तीर्थिकैः | उन्मार्गप्रतिपन्नओ भवति | शून्यतायाम् अस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते नाधिमुच्यते | आर्यधर्मा अस्य न व्य्वदायन्ते | एवम् आगमतो ऽपि न युज्यते | पुद्गलो ऽपि हि भगवता तत्र तत्र देशितः | (Mस १५९) परिज्ञातावी भारहारः श्रद्धानुसार्यादिपुद्गलव्यवस्थानत इत्य् असति द्रव्यतो ऽस्तित्वे कस्माद् देशितः |
SK
संक्लेशे व्यवदाने च अवस्थाच् छेदभिन्नके | वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ||
SK
अवस्थाभिन्ने हि संक्लेशव्यवदाने छेदभिन्ने च | पुद्गलप्रज्ञप्तिम् अन्तरेण तद्वृत्तिभेदः संतानभेदश् च देशयितुं न शक्यः | परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानं | भारहारसूत्रे | भारो भारादानं च संक्लेशः | भारनिक्षेपणं व्यवदानं | तयोर् वृत्तिभेदः संतानभेदश् चान्तरेण परिज्ञातावीभारहारपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं | बोधिपक्षाश् च धर्मा बहुधावस्थाः प्रयोगदर्शनभावनानिष्ठामार्गविशेषभेदतः | तेषां वृत्तिभेदः संतानभेदश् चान्तरेण श्रद्धानुसार्यादिपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं | येनासति द्रव्यतो ऽस्तित्वे पुद्गलो देशित इत्य् अयम् अत्र नयो वेदितव्यः | इतरथा हि पुद्गलदेशना निष्प्रयोजना प्राप्नोति |
SK
न हि तावद् असाव् आत्मदृष्ट्युत्पादनार्थं युज्यते यस्मात्
SK
आत्मदृष्टिर् अनुत्पाद्या पूर्वम् एवोत्पन्नत्वात् | नापि तदभ्यासार्थं यस्माद् आत्मदृष्टेर् अभ्यासो ऽनादिकालिकः |
SK
यदि चात्मदर्शनेन मोक्ष इत्य् असौ देश्येत | एवं सति स्यात्
SK
अयत्नमोक्षः सर्वेषां तथा हि सर्वेषां न दृष्टसत्यानाम् आत्मदर्शनं विद्यते | नैव वा मोक्षो ऽस्तीति (Mस १६०) प्राप्नोति | न हि पूर्वम् आत्मानम् अनात्मतो गृहीत्वा सत्याभिसमयकाले कश्चिद् आत्मतो गृह्णाति | यथा दुःखं दुःखतः पूर्वम् अगृहीत्वा पश्चाद् गृह्णातीति यथा पूर्वं तथा पश्चाद् अपि मोक्षो न स्यात् | सति चात्मन्य् अवश्यम् अहंकारममकाराभ्याम् आत्मतृष्णया चान्यैश् च तन्निदानैः | क्लेशैर् भवितव्यम् इति अतो ऽपि मोक्षो न स्यात् | न वा पुद्गलो ऽस्तीति अभ्युपगन्तव्यं | तस्मिन् हि सति नियतम् एते दोषाः प्रसज्यन्ते |
SK
एवम् एभिर् गुणैर् नित्यं बोधिसत्वाः समन्विताः | आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च || AMस_१८.१०४ ||
SK
ह्रीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टं |
SK
महायानसूत्रालंकारे बोधिपक्षाधिकारः अष्टादशः समाप्तः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Asaṅga: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa (sa_asaGga-mahAyAnasUtrAlaMkAra-comm.htm).

Source