Sutraya

Īśvarapratyabhijñāvimarśinī

The Reflection on Recognition of the Lord · ईश्वरप्रत्यभिज्ञाविमर्शिनी

tattvasaṅgrahādhikāre prathamamāhnikam

The Reflection on Recognition of the Lord

ईश्वरप्रत्यभिज्ञाविमर्शिनी

SK
[विमर्शिनी]
SK
{अनन्तमानमेयादिवैचित्र्याभेदशालिनम् / आत्मानं यः प्रथयते भक्तानां तं स्तुमः शिवम् //}
SK
एवं स्वसंवेदनोपपत्त्यागमसिद्धं महेश्वररूपमात्मस्वरूपं यदधिकारत्रयेण वितत्य निर्णीतं तदेव संक्षेपेण शिष्यबुद्धिषु निवेशयितुमागमार्थग्रहं श्लोकाष्टादशकेन दर्शयति स्वात्मैव सर्वजन्तूनाम् इत्यादिना उत्पलेनोपपादिता इत्यन्तेनैकेनाह्निकेन / तत्र ‘ल्सोकेन पारमार्थिकं रूपमुक्त्वा श्लोकनवकेन बन्धस्वरूपं प्रमातृप्रमेयतत्त्वदर्शनदिशा , सप्तकेन प्रत्यभिज्ञात्मकं मोक्षतत्त्वं , श्लोकेनोपसंहारं दर्शयति , ---- इति तात्पर्यम् / ग्रन्थार्थस्तु निरूप्यते /
SK
स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः / विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः //
SK
इह जडास्तावच्चेतननिमग्ना एव भान्ति ; इदमिति हि जडपरामर्शोऽहमिति संवित्परामर्श एव विश्राम्यति / ततश्च जडा निरात्मान इति जन्तव एव जीवाः सात्मानः , तेषां च महेश्वर एव स्वात्मा स एव महेश्वरो न त्वन्यः कश्चित् / यतः संवित्स्वभावोऽसौ , संविदश्च न देशेन न कालेन न स्वरूपेण कोऽपि भेदः , कामं देहप्राणादयो भिद्यन्तां , ते तु जडपक्ष्याश्चेतननिमग्ना एव , ---- इत्येक एव चिदात्मा स्वातन्त्र्येण स्वात्मनि यतो वैश्वरूप्यं भासयति , ततो महेश्वरोऽन्तर्नीतामिदन्तां कृत्वा परानुन्मुखस्वात्मविश्रान्तिरूपाहंविमर्शपरिपूर्णः , अत एव सर्वज्ञसर्वकर्तृत्वे नास्य यत्नोपपाद्ये , विचित्रबुद्धिकर्मेन्द्रियविषये हि यथा ज्ञातृत्वकर्तृत्वे एकस्यैवात्मनस्तयेन्द्रियस्थानीयरुद्रक्षेत्रज्ञसहस्रविषयस्य भावराशेर्जज्ज्ञानं करणं च तदेकत्र चिदात्मनि , ---- इति //१//
SK
ननु यद्येक एवायं महेश्वररूप आत्मा कस्तर्हि बन्धो यदवमोचनायायमुद्यमः ? इत्याशङ्क्याह
SK
तत्र स्वसृष्टेदंभागे बुद्ध्यादि ग्राहकात्मना / अहंकारपरामर्शपदम् नीतमनेन तत् //
SK
तत्रैवं स्वात्मनि महेश्वरे स्थिते तस्मिन्नेव प्रकाशरूपे स्वात्मदर्पणे तेनैव परमेश्वरेण स्वातन्त्र्यात् तावत्सृष्टः संकोचपुरःसर इदंभागः , तन्मधे यदेतद्बुद्धिप्राणदेहरूपमिदन्तया वेद्यंतद्बुद्ध्यादिभिन्नस्य वेद्यस्य प्राहकतया समुचितम् इदंभावाभिभवाप्रभविष्णुत्वात् कृतकेनापूर्णेनाहंभावेन परामर्शेन भासमानं चकास्ति अहं देवदत्तो ऽहं चैत्र इति //२//
SK
नन्वेवमप्यस्तु , तथापि कस्य बन्धः ? ईश्वरव्यतिरिक्तो हि कोऽन्योऽस्ति ? तदेतत्परिहर्तुमाह ----
SK
स स्वरूपापरिज्ञानमयोऽनेकः पुमान् मतः / तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः //
SK
सत्यम् , परमार्थतो न कश्चिद् बन्धः केवलंस्वस्मादनुत्तरात् स्वातन्त्र्यात् यदा स्वात्मानं संकुचितमवभासयति स एव , तदा स्वस्य पूर्णस्य रूपस्य यदपरिज्ञानं भासमानत्वे ऽप्यपरामर्शरूपं तदेव कारणत्वेन प्रकृतं यस्य स पूर्णत्वाख्यातिमात्रतत्त्वः पुरुषः इत्युच्यते / अत एवानेकः तत्तद्देहप्राणबुद्धिविशेषेण संकोचग्रहणात् / स च पुमान् भोक्ता सम्बन्धनं भोगलक्षणमनुभवति / भोगश्च नाम तस्य यौ कल्पितौ क्रियानन्दौ , कल्पिता क्रिया दुःखम् , रजो हि प्रकाशाप्रकाशचाञ्चल्यरूपं दुःखमुच्यते ; प्रकाशरूपं च सत्त्वं सुखम् ; तमस्त्वप्रकाशरूपो मध्ये विश्रमः प्रलयस्थानीयः //३//
SK
ननु सृष्टावित्यनेन किं व्यवच्छेद्यं किं च संग्राह्यम् ? इत्याह ----
SK
स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या / मायातृतीये ते एव पशोः सत्त्वं रजस्तमः //
SK
विश्वरूपस्य भगवतः स्वरूपभूत एव विश्वत्र यः प्रकाशो यश्च विमर्शः , ते तावज्ज्ञानक्रिये स्वरूपद्वयपरामर्श एव विश्रान्तम् अहमिदमितिसदाशिवेश्वरपरमार्थं सा भगवतो मायाशक्तिः , ता एतास्तिस्रः शक्तयो भगवति नैसर्गिक्योऽसृष्टाः / स्वरूपापरिज्ञाने तु भिन्नेषु भावेषु ज्ञानं क्रिया , शुद्धमेव भिन्नत्वं प्रकाशविमर्शशून्यम् , ---- इति पशोः प्रकाशः प्रकाशाप्रकाशावप्रकाशश्च इति क्रमेण सुखदुःखमोहलक्षणानि प्रकाशक्रियानियमशीलानि सत्त्वरजस्तमांसि //४//
SK
ननु चैवं सति यथा पर्मेश्वरस्य ज्ञानक्रियामाया अव्यतिरेकण्यः शक्तयः , ---- इत्युच्यन्ते , तद्वत् पशोः सत्त्वरजस्तमा/म्सि प्रसज्यन्ते , व्यतिरिक्तानि च तानि पुंस्त्त्वाद् गण्यन्ते , तदेतत् कथम् ? इति संशयं शमयति
SK
भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते / एषां गुणानां करणकार्यत्वपरिणामिनाम् //
SK
सत्यम् एवं स्यात् यदि भेदग्रह न भवेत् , भेदस्त्वयं विचार्यते / तत्र च संकुचितचिन्मात्रस्वभावः पुरुषो , नास्य नैसर्गिकं भावविषयं प्रकाशनादि रूपं सर्वदा तत्प्रसङ्गात् , अपि त्वन्यसंबन्धकृतम् / ततश्च तस्मात् पशोः शक्तिमत्त्वेन शङ्क्यमानाद् भेदेन यत एतानि सत्त्वादीनि , ततः शक्तयो व्यतिरेकमुक्ताः ---- इति नोच्यन्ते किं तूपकरणत्वात् गु.आ इत्युच्यन्ते / ननु पुरुषात् किमिति ते भेदेनोच्यन्ते ? , उच्यते , इह सुखदुःखमोहपरिणामरूपमेतत्करणत्रयोदशकं कार्यदशकं च सुखादिस्वभावत्वेनानुभूयते , ---- इति सुखदुःखमोहाः करणकार्यवर्गतादात्म्यवृत्तयो यदि पुरुषव्यापि तादात्म्यं भजेरन् तर्हि पुरुषः कार्यकरणपर्यन्तसृष्टिमयः संपन्नः , परिणामश्च दूषितः ---- इति स्वातन्त्र्यशक्त्या पुरुषो विश्वरूपः , ---- इत्यायातम् / तथा च न कश्चित् पुरुष ईश्वर एव , तस्मात् अप्रत्यभिज्ञानमयपुरुषस्वरूपविचारे सत्त्वादयो भिन्ना एव , ---- इति स्थितम् //५//
SK
ननु ज्ञानादीनि कथं सत्त्वादिरूपाणि पशुं प्रति ? इत्याह
SK
सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोह् / द्वयात्मा तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् //
SK
इह तावत् परित्विश्वस्यावभासवैचित्र्यलक्षणेण सृष्ट्यादिना पालयिता स्वप्रकाशस्वभावः , तस्य विश्वपतेर्या सत्ता भवनकर्तृता स्फुरत्तारूपा पूर्वं व्याख्याता {सा स्फुरत्ता महासत्ता}(Iप्व्_१,५.१४) इत्यत्र , सैव प्रकाशस्य विमर्शाव्यतिरेकात् विमर्शात्मकचमत्काररूपासती क्रियाशक्तिरुच्यते , परौन्मुख्यत्यागेन स्वात्मविश्रान्तिरूपत्वाच्च सैव आनन्दः , तदेवं भगवतश्चिदात्मतयैवेयद्रूपता / पशोस्तु सत्ता तदभावश्च आनन्दश्च तदभावश्च संकुचिततद्रूपत्वात् , तेन योऽसौ सत्तानन्दभागस्तत्प्रकाशसुखवृत्ति सत्त्वम् , यस्तदभावस्तदावरणमोहरूपं तमः , एते च ते सत्त्वतमसी नीलानीलवत् परस्परपरिहारेण यद्यपि वर्तेते कार्यकारणत्ववत् तयापि एकपरामर्शगोचरीकार्यधर्म्यपेक्षया चित्रपतङ्गसंगतनीलानीलात्मकरूपन्यायेनान्योन्यमिश्रतयापि भातः , अतो योऽयं द्वयात्मा मिश्रस्वभावः तद्रजोगुणः , अत एव प्रकाशाप्रकाशस्वरूपयोः सत्त्वतमसोरत्र श्लेषेणावस्थानम् इति दुःखत्वम् ; प्रियपुत्रादेरेकघन एव हि प्रकाशः सुखम् ; एकघन एवाप्रकाशो मोहः / यस्तु कथञ्चित्प्रकाशो यथा सव्याधिकदेहरूपतयानभिमतया , कथञ्चिच्चाप्रकाशो यथा गतगदकल्याणधर्मयोगितयाभिमतया तदेव दुःखत्वम् ; अयमेव च पूर्वापरीभावसारः क्रियापरमार्थः / अत्रानुभयरूपत्वं तु नास्ति , प्रतीतौ कस्यांचित् कल्पिताकल्पितरूपायामामननुप्रवेशात् तस्य / तथा हि ---- नीलं तावदकल्पितरूपायां धियि भाति ; नीलाभावस्तु तुच्छो ऽपि कल्पनाकल्पित आभासमानत्वात् तावद्व्यवहारपरमार्थः , तदुभयव्याभिश्रणात्तु नीलानीलं भातु नाम , यत्त्वनुभयरूपं तन्नीलप्रतीत्या तावदकल्पितया न विषयीकृतं चेत् तत् कल्पितामनीलधियमनुधावेत् , अथ तां कल्पितां धियं नाविशत्यकल्पितया विषयीकृतं नीलमेव स्यात् , ---- इति न पशोश्चतुर्थोऽस्ति गुणः / अपिशब्दश्चार्ये , पशोः सा सत्ता सत्त्वम् , तदभावस्तमः , द्वयात्मा रजश्च , ---- इति संबन्धः //६//
SK
एवं तावत् पतिपशुरूपं प्रमातृतत्त्वं संक्षेपेण निर्णीतम् ; अथ प्रमेयतत्त्वं निर्णेतुं पत्यौ तावत् इत्यभिदं प्रमेयतत्त्वम् इति निर्णेतुमाह ----
SK
येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः / ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः //
SK
इहाभासा एव तावदर्थाः , ---- इत्युक्तम् , ते च परामर्शैक्येन कदाचिन्मिश्रीक्रियन्ते यदा विशेषरूपता , कदाचिदमिश्रा एव परामृश्यन्ते यदा समान्यरूपता , ते एते उभयात्मानोऽप्यर्था असामायिकेनाकल्पितेनेदंभावेन सहजपरामर्शरूपेणाङ्गुलिनिर्देशादिप्रख्येन गोचरीकार्याः प्रभोरपि न केवलं सद्योजातबालादेर्यावदीश्वरस्यापि , तथा तेन सामान्यविशेषप्रकारेण चित्रतयावभासन्ते / चित्रत्वं हि तयोः ---- यन्मिश्रत्वममिश्रत्वं च युगपदेकाहन्ताविश्रान्तं भाति , ---- इति ईश्वरदशायां भावोल्लासनान्तरीयकत्वेन संवित्संकोचरूपं निषेध्यानुपरक्तनञर्थमात्ररूपं शून्यं संवित्प्रकाशेनैव प्रकाशमानमहन्तानिषेधरूपामसामायिकीमिदन्तामुल्लासयति //७//
SK
एवं तावदीश्वररूपस्य पत्युरित्थं प्रमेयतत्त्वं , परमशिवे तु भगवति प्रमेयकथैव कथमुत्तिष्ठति , प्रमेयकथोत्थापकत्वमेव भगवतः सदाशिवेश्वरत्वम् ; अतो ऽधुना पशुं प्रति कीदृक् प्रमेयस्य वृत्तान्तः , ---- इति सन्देहमपोहति श्लोकत्रयेण ----
SK
ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः / तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे //
SK
तस्यासाधारणी सृष्टिर् ईशसृष्ट्युपजीविनी / सैषाप्यज्ञतया सत्यैवेशशाक्त्या तदात्मनः //
SK
स्वविश्रान्त्युपरोधायाचलया प्राणरूपया / विकल्पक्रियया तत्तद्वर्णवैचित्र्यरूपया //
SK
तुर्विशेषं द्योतयति , प्रत्यगात्मनस्तु इत्थं प्रमेयरूपा अर्थाः , न स्वीश्वरयदुक्तनयेनेति / भिन्न इति मिश्रामिश्रतया भिद्यमान आभासो येषामर्थानां ते विशेषसामान्यात्मानोऽर्थाः प्रत्यगात्मनः प्रतिपुरुषमव्यामिश्रस्वसंवेदनादगमस्वरूपस्यासंकीर्णाहंप्रकाशात्मनः प्रकल्प्याः कल्पनीयाः , प्रतिप्राणिस्ववासनानुसारेण तत्तद्विचित्रसुखदुःखाद्युपयुक्ताभिः स्मरणे उत्प्रेक्षणे संकल्पने ऽन्यत्रान्यत्र च विकल्पयोगे / एतदुक्तं बह्वति ---- ईश्वरस्य विकल्पात्मकतामन्तरेण शुद्धविमर्शविषयीभाव्या अर्थाः , पशोस्त्वन्योन्यापोहनहेयाकिनि विकल्पे समारूढास्ते ऽर्था भवन्ति , सांसारिकहानादानादिव्यवहारोपयोगात् इति /
SK
नन्वविकल्प्यन्ते यावआनेवार्थस्तावानेव यदि विकल्प्यत्वे तत्को विशेषः प्रमेयस्य पतिपशुरूपतायाम् ? उच्यते , तस्येति , पशुकर्तृका सृष्टिस्तेषामर्थानामीश्वरसृष्टानामुपरिवर्तिनी , अत एव तामीश्वरसृष्टिमुपजीवन्ती असाधारणी प्रतिप्रमातृनियता / तद्यथा इदं हृद्यम् इति येन सृष्टं तत् तस्यैव तदा नान्यस्य / ननु यदि पशोरपि सृष्टिशक्तिरस्ति तर्हीश्वर एव ? सत्यम् , ईश्वर एवासौ / नन्वेवं साधारणत्वं कस्मात् सृष्टेर्न भवति ? भवेत् यदि स्वशक्तिं परिजानीयात् , यावता सा तस्यापरिज्ञातापरवशस्यैव सतो विकल्पक्रिया विकल्पनशक्तिरुदेति / ननु केन सा तस्योत्थाप्यते ? आह ---- ईश्वरस्य परामर्शरूपतया शब्दराशिलक्षणस्य वा शक्तिः स्वरूपविश्रान्तिलक्षणपारमैश्वर्योपरोधप्रयोजनब्राह्म्यादिदेवताचक्रमयी तैस्तैः ककारादिवर्णवैचित्र्यैर्विचित्रा , तया यासौ विकल्पक्रिया तस्य पशोरेकत्र निरूढ्यभावात् चञ्चला , तेन मित्रमिदं शत्रुरयम् इत्यादिवर्णवैचित्र्यानुविद्धा , तया विकल्पनक्रियया तदात्मन ईश्वरस्वभावस्यैव पशोरसाधारणी सृष्टिः /
SK
{पञ्चवक्त्रश्चतुर्दन्तो हन्स्ती नभसि धायति /}
SK
इत्यपिविमिश्रतायां विकल्पसृष्टिः , तानाभासान् ईश्वरसृष्टानेयोपजीवति इति सर्वा पाशवी सृष्टिः प्रत्ययसृष्टिरीश्वरसृष्ट्युपजीविनीत्युक्तम् //१०//
SK
नन्वेयं यदि पाशवी सृष्टिः संसाररूपा तर्हि पारमेश्वरी सृष्टिः पशोः किं कुर्यात् ? इति निर्णीयते ----
SK
साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात् / विकल्पहानैकाग्र्यात् क्रमेणेश्वरतापदम् //
SK
ऐश्वरः सर्गो द्विधा , साधारणश्च घटादिरसाधारणश्च अन्यथा निर्दिष्टो द्विचन्द्रादिः ; तस्य च सामान्यलक्षणं स्पष्टावभासनं नाम / सोऽयं सर्गो यदा विकल्पहानक्रमेण तस्मिन्निर्विकल्पकपरिगृहीत एव स्पष्टाऽभेर्थ एकाग्रत्वमवलम्भ्य अहमिदम् इत्यैश्वर्यपरामर्शपदं भवति तदा अन्तर्लक्ष्यबैर्दृष्टिनिमेषोन्मेषपरिहारदिशा क्रमेण अभ्यासतारतम्येन पशोः पशुत्वं प्रतिहन्तीश्वरत्वं दर्शयति / किं च योऽयं विकल्पसर्गः पाशव उक्तः सोऽपि यदि अन्यथा इति पूर्विक्तरूपवैपरीत्येन परिज्ञातयेशशक्त्या परिज्ञाततादात्म्यस्य भवति तदा सोऽपि साधारण एवाप्यायनाभिचरणशान्त्यादिविकल्प इव न्यस्तमन्त्रस्य भावितान्तःकरणस्य //११//
SK
एवं विकल्पनिर्ह्रासेन निर्विकल्परूपसात्मीभावे विश्वात्मकसाक्षात्कारलक्षणः स्वप्रत्यय एव मोक्षो दर्शितः , अधुना विकल्पनिर्ह्रासाभावेऽपि तं दर्शयति ----
SK
सर्वो ममायं विभव इत्येवं परिजानतः / विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता //
SK
नहि सः प्रत्यगात्या नाम पशुः कश्चिदन्यो योऽहम् , अपि तु परिगृहीतग्राह्यग्राहकप्रकाशैकघनः परो यः स एवाहं स चाहमेव , न त्वन्यः कश्चित् ; अतो विकल्पसृष्टिरपि मम स्वातन्त्र्यलक्षणो विभवः , ---- इत्येवं विमर्शे दृढीभूते सत्यपरिक्षीणविकल्पोऽपि जीवन्नेव मुक्तः / यथोक्तम् ----
SK
{शङ्कापि न विशङ्क्येत निःशङ्कत्वमिदं स्फुटम् /}
SK
इति //१२//
SK
नन्वेवं बद्धमुक्तयोः प्रमेयं प्रति को भेदः ? , उच्यते ----
SK
मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते / महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् //
SK
श्रीमत्सदाशिवेश्वरपदादारभ्य क्रिमिपर्यन्तप्रमातृवर्गाधिष्ठातृ यदहमितिरूपं तदेवात्मतयाभिनिविशते मुक्तः , ततश्च विश्वस्यापि प्रमेयं ममापि , मम प्रमेयं विश्वस्यापि , प्रमेयं चेदं ममैवाङ्गभूतं प्रमेयान्तरमपि तथा , ---- इत्यनेन क्रमेण प्रमेयं प्रस्परतश्च प्रमातृवर्गाच्चाव्यावृत्तम् , ---- इत्येकरसाभेदविश्रान्तितत्त्वमस्य सर्वं परामर्शपदमुपैति / बद्धस्य तु सर्वमेतद्विपरीतम् , ---- इत्येकरसभेददविश्रान्त एषासौ //१३//
SK
ननु सदाशिवेद्श्वरभुवि जीवन्मुक्तिपदे बद्धरूपपशुप्रमातृविषये च प्रमेयवृत्तान्तः परीक्षितः , परमशिवे तु कथमसौ ? इत्याशङ्क्याह ----
SK
सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः / शिवः चिदानन्दघनः परमाक्षरविग्रहः //
SK
न खलु भगवति श्रीपरमशिवे प्रमेयकया काचिदस्ति , तत्त्वौघस्य सर्वथा तत्र चिद्रूपतामात्रविश्रान्तत्वेन लीनत्वात् , ततश्च सावस्था संवित्स्वभावेन स्वात्मविश्रान्त्यानन्देन अकृत्रिमनैसर्गिकपरामर्शात्मकस्वात्मचमत्कारलक्षणेमैकधना अविच्छिन्नतद्रूपा परमाक्षरेण विग्रहवती भगवतो विश्वमयस्यानवच्छिन्नानुत्तरधाम्नो नित्यशुद्धस्य गलितप्रमेयकथा सर्वोत्तीर्णा व्यपदिश्यते //१४//
SK
एवमधिकारचतुष्ट्योक्तं यद्वस्तु तत्फलितमाह ----
SK
एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा / जानन्यथेप्सितान्पश्यञ्जानाति च करोति च //
SK
एवमिति , ईश्वररूपमात्मानं तस्य च स्वाव्यतिरिक्ते स्वातन्त्र्यमात्ररूपे ज्ञानक्रिये जानन् एवंभूतोऽयमात्मा न तु काणादादिदर्शितः , इत्थं च ज्ञानक्रिये न तु तस्य व्यतिरिक्ते केचन इति परामृशन् , यद्यदिच्छति तत्तज्जानाति करोति च समावेशाभ्यासपरोऽनेनैव शरीरेण / अतत्परस्तु सति देहे जीवन्मुक्तस्तत्पाते परमेश्वर एवेति //१५//
SK
अस्यार्थस्य स्वप्रत्ययसिद्धस्यापि गुरुपरम्परोपदेश उपोद्वलको वक्तव्यः , शास्त्रदृष्टिर्हि दर्शितागमाधिकारेण / एवं गुरुतः शास्त्रतः स्वतः एतद् दृढीकृतं भवति , इत्यभिप्रायेण गुरुपारम्पर्यं दर्शयति
SK
इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिरुच्यतेस्म शिवदृष्टिशास्त्रे यथा / तदत्र निदधत्पदं भुवनकर्तृतामात्मनो विभाव्य शिवतामयीमनिशमाविशन्सिद्ध्यति //
SK
अस्मत्परमेष्ठिभट्टारकश्रीसोमानन्दपादैः शिवदृष्टिशास्त्रे ऽयमभिनवः सर्वरहस्यशास्त्रान्तर्गतः सन्निगूढत्वादप्रसिद्धो बाह्यान्तरचर्याप्राणायामादिक्लेशप्रयासकलाविरहात् सुघटस्तावदुक्तः , स एवात्र प्रकटतां परवादकलङ्कशङ्कापसारणेन नीतः / यत एवं शास्त्रगुरुस्वप्रत्ययसिद्धोऽयमर्थः , तदिति तस्मादत्र प्रमेयपदे परामर्शं विश्रमयन् विश्वकर्तृत्वलक्षणमैश्वर्यमात्मनो विभाव्य दार्ढ्येन यदा परामृशति तर्हि तत्परामर्शमात्रादेव तावज्जीवन्मुक्तो भगवाञ्छिव एव / यथोक्तं परमेष्ठिपादैः
SK
{ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना / करणेन नास्ति कृत्यं क्वापि भावनयापि वा //
SK
सकृज्ज्ञाते सुवर्णे किं भावनाकरणादिना / सर्वथा पितृमात्रादि तुल्यदार्ढ्येन सत्यता //} (शि. दृ.)
SK
इत्यादि / तां विभाव्य यद्यनिशमाविशति शरीरप्राणबुद्धिशून्येभ्योऽन्यतमं द्वयं सर्वं वा तत्रैव निमज्जयति , अनवरतं तत्तां तां विभूतिं महाविभूतिपर्यन्तां लभते //१६//
SK
ननु यद्यात्माख्यं वस्तु तदेव तर्हि तस्य प्रत्यभिज्ञानाप्रत्यभिज्ञानयोरविशेषः , न हि बीजमप्रत्यभिज्ञाने निर्बन्धः ? उच्यते , द्विविधार्थक्रियास्ति , बाह्या चाङ्कुरादिका , प्रमातृविश्रान्तिचमत्कारसारा च प्रीत्यादिरूपा / तत्राद्या सत्यं प्रत्यभिज्ञानं नापेक्षते , द्वितीया तु तदपेक्षते एव / इह च अहं महेश्वरः इत्येवंभूतचमत्कारसारा परापरसिद्धिलक्षणा जीवन्मुक्तिविभूतियोगमय्यर्थक्रिया , इतीश्वरप्रत्यभिज्ञानमत्रावश्यापेक्षणीयम् / ननु प्रमातृविश्रान्तिसारार्थक्रिया प्रत्यभिज्ञानेन विना न दृष्टा , सति तत्र दृष्टा , इति क्वैतदुपलब्धमित्याशङ्क्याह ----
SK
तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा / लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता //
SK
यदा नायकगुणसंश्रवणप्रवृद्धानुरागा कामिनी तद्दर्शनमेव परमुपादेयमाकाङ्क्षन्ती दिवानिशमवशहृदया देवतोपयाचितानि दूतीसंप्रेषणानि मदलेखद्वारकात्मावस्थानिवेदनानि कुर्वाणा विरहक्षामीभवद्गात्रलतिका तिष्ठति , तदा तदुपयाचितवशात् अशङ्कितमेव सविधवर्तिनि प्रियतमेऽवलोकिते तैस्तैरुत्कर्षविशेषैः परामर्शपदवीमगच्छद्भिर्जनसाधारणतामापादिते संपन्नमपि प्रियतमावलोकनं न हृदयं पूर्णीकरोति ; तथा स्वात्मनि विश्वेश्वरे सततं निर्भासमानेऽपि तन्निर्भासनं न हृडयस्य पूर्णतामाधत्ते ; यतः सोप्यात्मा विश्वज्ञत्वकर्तृत्वाद्यप्रतिहतस्वशक्तिलक्षणपारमैश्वर्योत्कर्षयोगेन न परामृष्टः ---- इति भासमानघटादितुल्यवृत्तान्तो जातः / यदा तु दूतीवचनाद्वा तल्लक्षणाभिज्ञानाद्वोपायान्तराद्वा तानुत्कर्षान् हृदयङ्गमीकरणेनामृशति , तदा तत्क्षणमद्भुतफुल्लन्यायेनैव तावत् कामपि पूर्णतामभ्येति , परिभोगाभ्यासरसे तु विश्रान्त्यन्तराण्यपि लभते ; तद्वदात्मनि गुरुवचनाज्ज्ञानक्रियालक्षणशक्त्यभिज्ञानादेर्वा यदा पारमैश्वर्योत्कर्षहृदयङ्गमीभावो जायते , तदा तत्लक्षणमेव पूर्णतात्मिका जीवन्मुक्तिः ; समावेशाभ्यासरसे तु विभूतिलाभः ---- इति तस्य प्रत्यभिज्ञैव परापरसिद्धिप्रदायिनी भवति //१७//
SK
सर्वोपकारकं महाफलमिदं शास्त्रं प्रसिद्धान्वययोगेन नामधेयप्रसिद्ध्या च तदुत्कर्षस्मरणद्वारजनितसंभावनाप्रत्ययलक्षणप्रवर्तकसंवेदनया जनं प्रअव्र्तयितुं पितुर्नाम्ना चोपसंहारं दर्शयति
SK
जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना / ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता //
SK
यस्य कस्यचिज्जन्तोरिति नात्र जात्याद्यपेक्षा काचित् ---- इति सर्वोपकारित्वमुक्तम् / अयत्नेन सिद्धिः परापररूपा यथा स्यात् ---- इति महाफलत्त्वम् / उदयाकरपुत्रः श्रीमानुत्पलदेवोऽस्मत्परमगुरुरिदं शास्त्रमकार्षीत् ---- इति तत्प्रसिद्द्या जनः प्रवर्तते ---- इति प्रवर्तनाद्वारेण सोऽनुगृहीतो भवति ---- इत्युभयनामनिर्देशः / इयमिति हृदयङ्गमतामुपपत्तिशतैरानीता / इति शिवम् //१८// आदितः १९०//
SK
{एषाभिनवगुप्तेन सूत्रार्थप्रविमर्शिनी / रचिता प्रत्यभिज्ञायां लघ्वी वृत्तिरभङ्गुरा //} {वाक्यप्रमाणपदतत्त्वसदागमार्थाः स्वात्मोपयोगमुपयान्त्यमुतः स्वशास्त्रात् / भौमान् रसाञ्जलमयांश्च न सस्यपुष्टौ मुक्त्वार्कमेकमिह योजयितुं क्षमोऽन्यः //
SK
आत्मानमनभिज्ञाय विवेक्तुं योऽन्यदिच्छति / तेन भौतेन किं वाच्यं प्रश्नेऽस्मिन्को भवानिति //}
SK
इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेतायां तत्त्वसङ्ग्रहाधिकारः / समाप्ता श्रीमदीश्वरप्रत्यभिज्ञा //

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśvarapratyabhijñāvimarśinī: Input by Masahiro Takano.

Source
Īśvarapratyabhijñāvimarśinī — Reader · Sutraya