The Tantra of the Kubjikā Doctrine Kubjikāmatatantra
कुब्जिकामततन्त्रम्
1.1 SK संवर्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा संसृज्याद्यं चतुष्कम् अकुलकुलगतं पञ्चकं चान्यषट्कम् चत्वारः पञ्चको ऽन्यः पुनर् अपि चतुरस् तत्त्वतो मण्डलेदं संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुजेशम् //
1.2 SK श्रीमद्धिमवतः पृष्ठे त्रिकूटशिखरान्तगम् सन्तानपुरमध्यगम् अनेकाकाररूपिणम् //
1.3 SK त्र्यस्रं वै त्रिप्रकारं तु त्रिशक्तित्रिगुणोज्ज्वलम् चन्द्रसूर्यकृतालोकं वह्निदेदीप्यवर्चसम् //
1.4 SK त्रिसन्ध्यावेष्टितं दिव्यं प्राकारत्रिपथान्वितम् द्वारपालत्रयोपेतं त्रिकपाटार्गलान्वितम् //
1.5 SK अनेकरत्नसन्दीप्तम् उद्यानवनमण्डितम् वसन्तगुणसम्पन्नं सततानन्दपूरितम् //
1.6 SK सन्तानभुवनं दिव्यं दिव्यादिव्यैर् निषेवितम् तत्र तं भुवनेशानं व्यक्ताव्यक्तं सनातनम् //
1.7 SK कार्यकारणभावेन किञ्चित् कालम् अपेक्षया तिष्ठते भैरवीशानो मौनम् आदाय निश्चलम् //
1.8 SK तत्र देवगणाः सर्वे सकिन्नरमहोरगाः कुर्वन्ति कलकलारावं समागत्य समीपतः //
1.9 SK श्रुत्वा कलकलारावं को भवान् किम् इहागतः हिमवान् तु प्रसन्नात्मा गच्छामो ऽन्वेषणं प्रति //
1.10 SK यावत् स पश्यते तत्स्थं शिवज्ञानावलोकनात् तावत् पश्यति श्रीनाथम् आगतं तु ममाश्रमे //
1.11 SK गतस् तूर्णं प्रयत्नेन यत्रास्ते भगवान् प्रभुः सकुटुम्बः स्तुतिं दिव्यां हिमवान् वाक्यम् अब्रवीत् //
1.12 SK अद्य मे सफलं जन्म अद्य मे सफलं तपः अद्य मे सफलं स्थानं जीवितं सफलं मम //
1.13 SK अद्य धन्यः कृतार्थो ऽहम् अद्य मे सफला गतिः अद्य मे सफलं सर्वं त्रैलोक्यं सचराचरम् //
1.14 SK यन् नाथ भवदङ्घ्रिभ्याम् अङ्कितं मस्तकं मम तेन विख्यातकीर्तिस् तु भविष्यामि जगत्त्रये //
1.15 SK त्वत्प्रसादेन देवेश सर्वज्ञत्वं लभाम्य् अहम् किम् अनेन न पर्याप्तं यद् आयात-म्-इह प्रभुः //
1.16 SK किं कुर्मः का गतिर् मह्यम् आदेशो दीयतां प्रभो हिमवन्तविलापो ऽयं श्रुत्वैवं सकुटुम्बिनः //
1.17 SK उवाच भगवान् नाथः प्रहस्येमां गिरं शुभाम् हिमवन्त गिरे साधु तुष्टो ऽहं तव क्लिन्नया //
1.18 SK प्रार्थयस्व वरं किञ्चिद् दास्यामो मनसेप्सितम् हिमवन्त महाप्राज्ञ तुष्टो ऽहं परमार्थतः //
1.19 SK किं कृतं मे महेशान स्वकीयदयया प्रभो रुचितं कुरु देवेश हिमवान् अब्रवीद् इदम् //
1.20 SK पर्वतोल्लपितं श्रुत्वा उवाचेदं सुरेश्वरः प्रसन्नगिरया दिव्यं वरं दातुं समुद्यतः //
1.21 SK प्रथमं तावत् तुभ्यं हि पञ्च श्लोकान् पठेत् तु यः सन्निधानः प्रयत्नेन भविष्यामो ह्य् अवश्यतः //
1.22 SK द्वितीयं सन्निधानो ऽहं भविष्यामि तवाध्वरे तृतीयं सर्वशैलानां राजत्वं चक्रधारिणः //
1.23 SK चतुर्थं मम तुल्यत्वं पञ्चमं मोक्षदं नृणाम् एवं पञ्च वरास् तुभ्यं हिमवन्त पुनर् वद //
1.24 SK किम् अन्येन महादेव आत्मतुल्यस् त्वया किल कृतो ऽहं तत् किम् अन्येन किं तु देवाभयं दद //
1.25 SK एवं ब्रूथ पुनः किञ्चिद् यत् ते मनसि रोचते तद् अर्पयाम्य् अहं सर्वं पूर्वम् एवोदितं मया //
1.26 SK आश्रमे सति सर्वत्र प्रातिचारं विना न हि तत्र डिक्करिका मह्यं करिष्यत्य् उपलेपनम् //
1.27 SK सा च धर्मप्रवृत्ता च येन तत् क्रियतां प्रभो इष्टा सा मम देवेश कालिका च कुमारिका //
1.28 SK एवं बभूव तस्माद् वै तत्रस्था गुणशालिनी प्रसादयति देवेशं विनयाद्यैर् अनेकधा //
1.29 SK विनयेनोपसङ्गम्य स्तुतिस्तोत्रैर् अनेकधा कालेन बहुना कालीम् उवाचेदं कुलेश्वरः //
1.30 SK तुष्टो ऽहं कालिके तुभ्यं ब्रूहि किञ्चिन् मनेप्सितम् यत् त्वया धारितं चित्ते तत् प्रार्थय ह्य् अशङ्किता //
1.31 SK लब्ध्[व्]आ प्रणयसद्भावं त्यक्तलज्जा मनोत्सुका वदते नाथ नाथस् त्वं भवास्माकं सुरार्चितः //
1.32 SK एवं श्रुत्वा महेशानो वाक्यम् आनन्दसम्भवम् ततः सम्पादितं शीघ्रम् आज्ञानन्दगुणोज्ज्वलम् //
1.33 SK आज्ञासनसमारूढं प्रेरितानन्तशम्भुना दर्शितं निखिलं सर्वं पूर्वसन्तानगोचरम् //
1.34 SK ततः प्रबुद्धभावात्मा वदत्य् एवं कुलेश्वरी दर्शितं निखिलं मह्यं किम् आश्चर्यं कुजेश्वर //
1.35 SK विदितं नाथ मे सर्वं क्रियाकारणगोचरम् यस्मात् सम्पद्यते ह्य् एवं तद् आचक्ष्व कुजेश्वर //
1.36 SK आज्ञातो गुणम् ऐश्वर्यं सञ्जातं परमेश्वर अस्य तन्त्रार्थसद्भावं ब्रूहि मे परमार्थतः //
1.37 SK दृष्टं समस्तपर्यन्तं भवदाज्ञाषडध्वरम् ब्रूहि निर्देशतः सर्वं यदि तुष्टः कुजेश्वर //
1.38 SK आज्ञातो गुणसद्भावं ब्रूहि देव गुणोदयम् यथा द्रक्ष्यापितं सर्वम् आज्ञाद्वारेण मे ऽखिलम् //
1.39 SK पूर्ववृत्तान्तसद्भावं पूर्वपाठश्रुतं च यत् पूर्वकल्पार्थनिर्देशम् आज्ञातो ज्ञापितं त्वया //
1.40 SK पूर्वसन्दर्शितं देव आज्ञागुणमहोदयम् तद्भ्रंशाद् भ्रंशम् उत्पन्नम् अतो ऽर्थं कथय स्फुटम् //
1.41 SK कल्पे कल्पे त्वया देव संहितार्थम् अनेकधा मन्त्रतन्त्रक्रियायोगाः कथिता नावधारिताः //
1.42 SK इदानीं संस्फुटं सर्वम् आज्ञागुणमहोदयम् यस्मात् सञ्जायते सर्वं तत्प्रभावं वद प्रभो //
1.43 SK आनन्दश् चावलिश् चैव प्रभुर् योगी तथैव च अतीतश् चैव पादश् च षट् प्रकाराः कथं स्थिताः //
1.44 SK साधु साधु महाभागे महानन्दविधायिनि पृच्छितं यत् त्वया वाक्यम् अत्यद्भुतम् अनामयम् //
1.45 SK गोपितं सर्वरुद्राणां वीराणां भैरवेषु च सिद्धक्रमं निराचारं तथापि कथयामि ते //
1.46 SK सिद्धमार्गक्रमायातं सिद्धपङ्क्तिव्यवस्थितं गोपितं सर्वमार्गेषु तवाद्य प्रकटीकृतम् //
1.47 SK पूर्वसञ्चोदितो देवि त्वयाहं त्वं मया पुनः अत्र कल्पे मया तुभ्यं त्वं पुनर् मम दास्यसि //
1.70 SK आराधयन्तं देवेशं न जानाति तपोत्कटा ततः स्तवेन दिव्येन देवेनानन्दभृद्गिरा दिव्यस्तोत्रं समारब्धम् अशेषार्थप्रबोधकम् //
1.71 SK एवं सम्यग्विधानेन रुद्रशक्तिः स्वयम्भुना निर्मिता स्वाङ्गजैर् वर्णैर् नादिफान्तस्वरूपिणी //
1.72 SK सर्वाक्षरमयी देवी सर्वलक्षणलक्षिता उत्पन्ना सुमहातेजा भैरवाभिमुखे स्थिता //
1.73 SK वदते मालिनी कस् त्वं देवो ऽहं किम् उपागतः मां त्वं कथं न जानासि देवि त्वं केन निर्मिता //
1.74 SK सृष्टिक्रीडावतारार्थे मया उत्पादिता प्रिये त्वम् एवोत्पादितः केन ब्रूहि वाक्यं तु भैरव //
1.75 SK वर्णराशिर् अहं भद्रे स्वयम्भूर् जगतः पतिः ममाङ्गसम्भवैर् बीजैस् त्वम् एवोत्पादिता मया //
1.76 SK वीरावलीति तेन त्वं रुद्रशक्तिः प्रशस्यसे वदते मालिनी क्रुद्धा त्वत्स्वकीयैः शरीरजैः //
1.77 SK वर्णैर् उत्पादिताहं ते गृह्ण वर्णान् स्वकान् इह प्रसार्य वर्णमालां तु तत्त्वाकारं स्वरूपिणम् //
1.78 SK पूर्वबीजतनुर् भूत्वा प्रसुप्तामृतकुण्डली कुतः सर्वे गता वर्णा भ्रान्तचित्तः सुरेश्वरः //
1.79 SK परं विस्मयम् आपन्नः क्षणम् एकं वितर्कितः लोलीभूतास् तु ते सर्वे जीवतत्त्वे लयं गताः //
1.80 SK अहो देव्याः प्रभावस् तु इति चिन्ता जगत्पतेः स्तुनोति विविधैः स्तोत्रैर् देवो भुवनमालिनीम् //
1.81 SK कावर्णा कामरूपे पुर् एव पुरिगता जालपीठे जिका या षड्भिन्ना मध्यपीठे त्रिपथपदगता त्वं च शृङ्गातकारा सिद्धैर् या वेष्टिताङ्गी परिवृतचतुरैः षष्टिभिर् योगिवृन्दैर् युक्ता हृत्पङ्कजेन डरलकसहजा पातु मां रुद्रशक्तिः //
60 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते चन्द्रद्वीपावतारो नाम प्रथमः पटलः
2.1 SK जय त्वं मालिनी देवी निर्मले मलनाशिनी ज्ञानशक्तिः प्रभुर् देवी बुद्धिस् त्वं तेजवर्धनी //
2.2 SK जननी सर्वभूतानां संसारे ऽस्मिन् व्यवस्थिता माता वीरावली देवी कारुण्यं कुरु वत्सले //
63 SK (१)जयति परमतत्त्वनिर्वाणसम्भूतितेजोमयी निःसृता व्यक्तरूपा (२)परा ज्ञानशक्तिस् त्वम् इच्छा क्रिया ऋज्विरेखा पुनः सुप्तनागेन्द्रवत् (३)कुण्डलाकाररूपा प्रभुर् नादशक्तिस् तु सङ्गीयसे भासुरा (४)ज्योतिरूपा सुरूपा शिवा ज्येष्ठनामा च वामा च रौद्री मनाख्याम्बिका (५)बिन्दुरूपावधूतार्धचन्द्राकृतिस् त्वं त्रिकोणा अ-उ-म-कार इ-कार (६)ए-कारसंयोजितैकत्वम् आपद्यसे तत्त्वरूपा भगाकारवत् स्थायिनी (७)आदितत्त्वोद्भवा योनिरूपा च श्रीकण्ठसम्बोधनी रुद्रमाता (८)तथानन्तशक्तिः सुसूक्ष्मा त्रिमूर्त्यामरीशार्घिनी भारभूतिस् (९)तिथीशात्मिका स्थाणुभूता हराख्या च झण्टीशभौक्तीश- (१०) सद्यात्मिकानुग्रहेशार्चिता क्रूरसङ्गे महासेनसम्भोगिनी (११) षोडशान्तामृता बिन्दुसन्दोहनिष्यन्ददेहप्लुताशेषसम्यक्परानन्द- (१२) निर्वाणसौख्यप्रदे भैरवी भैरवोद्यानक्रीडानुषक्ते (१३) परा मालिनी रुद्रमालार्चिते रुद्रशक्तिः खगी सिद्धयोगेश्वरी (१४) सिद्धमाता विभुः शब्दराशीति योन्यार्णवी वाग्विशुद्धासि वागेश्वरी (१५) मातृकासिद्धम् इच्छा क्रिया मङ्गला सिद्धलक्ष्मी विभूतिः सुभूतिर् (१६) गतिः शाश्वता ख्याति नारायणी रक्तचण्डा करालेक्षणा भीमरूपा (१७) महोच्छुष्मयागप्रिया त्वम् जयन्त्याजिता रुद्रसम्मोहनी (१८) त्वं नवात्मानदेवस्य चोत्सङ्गयानाश्रिता (१९) मन्त्रमार्गानुगैर् मन्त्रिभिर् वीरपानानुरक्तैः सुभक्तैश् च (२०) सम्पूज्यसे देवि पञ्चामृतैर् दिव्यपानोत्सवैर् एकजन्मद्विजन्म- (२१) त्रिजन्मचतुःपञ्चषट्सप्तजन्मोद्भवैस् तैश् च नारैः (२२) शुभैः फल्गुषैस् तर्प्यसे मद्यमांसप्रिये (२३) मन्त्रविद्याव्रतोद्भाषिभिर् मुण्डकङ्कालकापालिभिर् (२४) दिव्यचर्यानुरूढैर् नमस्कार ॐकारस्वाहास्वधाकारवौषड्वषट्- (२५) कारफट्कारहूंकारजातीभिर् एतैश् च मन्त्राक्षरोच्चारिभिर् (२६) वामहस्तस्थितैश् चाक्षसूत्रावलीजापिभिः साधकैः पुत्रकैर् (२७) मातृभिर् मण्डले दीक्षितैर् योगिभिर् योगिनीवृन्दमेलापकै (२८) रुद्रक्रीडालसैः पूज्यसे योगिनां योगसिद्धिप्रदे देवि त्वं (२९) पद्मपत्त्रोपमैर् लोचनैः स्नेहपूर्णैस् तु यं पश्यसे (३०) तस्य दिव्यान्तरीक्षस्थिता सप्तपातालसत्खेचरी सिद्धिर् अव्याहता (३१) वर्तते. भक्तितो यः पठेद् दण्डकं एककालं द्विकालं त्रिकालं (३२) शुचिः संस्मरेद् यः सदा मानवः सोऽपि शस्त्राग्निचौरार्णवे (३३) पर्वताग्रे ऽपि संरक्षसे देवि पुत्रानुरागान् महालक्ष्मि ये (३४) हेमचौरान्यदारानुषक्ताश् च ब्रह्मघ्नगोघ्ना महादोषदुष्टा (३५) विमुञ्चन्ति संस्मृत्य देवि त्वदीयं मुखं पूर्णचन्द्रानुकारं (३६) स्फुरद्दि व्यमाणिक्यसत्कुण्डलोद्घृष्टगण्डस्थलं (३७) ये ऽपि बद्धा दृढैर् बन्धनैर् नागपाशैर् भुजाबद्ध- (३८) पादार्गलैस् ते ऽपि त्वन्नामसङ्कीर्तनाद् देवि मुञ्चन्ति (३९) घोरैर् महाव्याधिभिः संस्मृत्य पादारविन्दद्वयं ते (४०) महाकालि कालाग्नितेजःप्रभे स्कन्दगोविन्दब्रह्मेन्द्रचन्द्रार्क- (४१) पुष्पायुधैर् मौलिमालालिसत्पद्मकिञ्जल्कसत्पिञ्जरैः सेव्यसे (४२) सर्ववीराम्बिके भैरवी भैरवस् ते शरण्यागतो ऽहं (४३) क्षमस्वापराधं क्षमस्वापराधं शिवे
2.3 SK एवं स्तुता महादेवी भैरवेण महात्मना ततो लिङ्गं विनिर्भिद्य निर्गता परमेश्वरी //
2.4 SK नीलाञ्जनसमप्रख्या कुब्जरूपा वृकोदरा ईषत्करालवदना बर्बरोर्ध्वशिरोरुहा //
2.5 SK सुरूपा च विरूपा च अनेकाकाररूपिणी वामप्रसारितकरा वामदेवी-म्-उवाच ह //
2.6 SK आज्ञानन्दसमाविष्टा स्तुत्यानन्दाकुलीकृता न वेद्मि को ऽत्र मां स्तौति काहं कस्य वरप्रदा //
2.7 SK उवाचैवं महासत्त्वा दृष्टिपातो मदीयकः आशीविषेव दुष्प्रेक्ष्यः स कथं धारितस् त्वया //
2.8 SK प्रार्थयस्व तदा किञ्चिद् यत् ते मनसि रोचते //
2.9 SK प्रसादाय महादेवि ददाज्ञानुग्रहं मम तपसा तव चोग्रेण मम हानिः कुजाम्बिके //
2.10 SK सञ्जाता तेन मे देवि पूर्वम् उक्तम् इदं मया एवं श्रुत्वा महादेवी सलज्जा गद्गदेक्षना //
2.11 SK किं ते सिद्धं महादेव येन लज्जापिता वयम् //
2.12 SK पूर्वम् उक्तं मया तुभ्यम् आज्ञासमयगोचरे मत्तुल्यानुगृहीत्वा तु पश्चाद् भव गणाम्बिका //
2.13 SK कस्येदं सिद्धसन्तानं पारम्पर्यक्रमागतम् मत्सकाशात् पुनस् तुभ्यं त्वत्सकाशात् पुनर् मम //
2.14 SK एवं तद् भैरवं वाक्यं श्रुत्वा देवी पराङ्मुखी सञ्जाता कुब्जिकारूपा लज्जातो रभसोदिता //
2.15 SK किं तु लज्जायसे देवि पूर्वम् आज्ञा मया तव इदानीं दद मे शीघ्रं मा शङ्का मा विलम्बय //
2.16 SK अप्रबुद्धप्रमत्तेन यदा तद् रभसोदितम् तत् किं निग्रहबुद्ध्या वा युक्तं त्वेदं कुजेश्वर //
2.17 SK सर्वानुग्रहके देवि किं न बुध्यसि चात्मनि न मया रहितं किञ्चिन् न त्वया रहितं क्वचित् //
2.18 SK अन्योन्यगुणयोगेन कार्यकारणयोगतः त्वं गुरुर् मम देवेशि अहं ते न विचारणात् //
2.19 SK रुद्रभैरववीराणाम् एषा चाज्ञा न कस्यचित् यदि शिष्यं न मन्येथ मित्रत्वेन तदा दद //
2.20 SK एवं ब्रूते तदा देव्या सर्वम् एतद् भविष्यति पश्चिमेदं कृतं देव पूर्वभागविवर्जितम् //
2.21 SK चन्द्रद्वीपं मनोरम्यं देव त्यक्तुं न मे मनः पश्चिमं सर्वमार्गाणां त्वं तावद् अनुशीलय //
2.22 SK पश्चिमाम्नायमार्गो ऽयं सिद्धानाम् अखिलं दद गच्छाम्य् अहं पुनस् तत्र भारते कुलपर्वतम् //
2.23 SK अनादियुगपर्यन्तं कीर्तयामास तद्विदाम् श्रीपर्वतं कुमाराख्यं छायाछत्रविभूषितम् //
2.24 SK एवम् उक्त्वा गता तूर्णं श्रीमत्कौमारपर्वतम् तत्र छायात्मिका देवी अव्यक्ता व्यक्तरूपिणी //
2.25 SK क्षपित्वा कालपर्यायं यावद् आलोकयेद् दिशाम् उत्तरां तावत् तत् सर्वं लिङ्गपूर्णं महावनम् //
2.26 SK अशीतियोजनायामं समन्तात् परिमण्डलम् चतुर्द्वारसमोपेतं तीर्थकोटिभिर् आवृतम् //
2.27 SK अनेकसिद्धसंछन्नं मनोरम्यम् अनोपमम् तमोगुणगणाकीर्णम् अनेकाश्चर्यसंकुलम् //
2.28 SK देव्यादृष्टिनिपातेन अकस्माच् छ्रीर् उपस्थिता तेन श्रीशैलम् उद्दिष्टं देव्यानामप्रतिष्ठितम् //
2.29 SK अङ्गुष्ठेन कृता रेखा स्वस्थानस्य च तस्य वै तत्र जाता नदी दिव्या सासीमा उभयोर् अपि //
2.30 SK तच्छायां निश्चलां कृत्वा आज्ञां दत्त्वा तु शाम्भवीम् अत्र यो विशते कश्चित् स मे तुल्यो भविष्यति //
2.31 SK हर्ता कर्ता स्वतन्त्रो ऽसौ भ्रष्टज्ञानप्रकाशकः आज्ञातो गुणम् ऐश्वर्यं त्रैलोक्ये सचराचरे //
2.32 SK एवम् आक्षेपयित्वा तु गता त्रिकूटपर्वतम् तत्र कालं क्षपित्वा तु किष्किन्धाख्यम् अनुग्रहेत् //
2.33 SK तस्य चाज्ञाविभूतिं तु दत्त्वानुगृह्य राक्षसान् येन तिष्ठाम्य् अहं तीरे समुद्रस्य त्व् अशङ्किता //
2.34 SK तत्र कन्याकुमारी त्वं गत्वा कालस्य पर्ययम् समुद्रम् अनुगृहीत्वा दरदण्डीं गता पुनः //
2.35 SK तत्र छायाधरी देवी अव्यक्तगुणचेतसा लोकानुग्रहहेत्वर्थं तत्राज्ञां मोचयेत् पुनः //
2.36 SK पूर्वस्थाने तु या वाचा सा त्व् अत्रैव भविष्यति एवम् उक्त्वा गता दूरं पश्चिमं हिमगह्वरम् //
2.37 SK यत्र ओलम्बिका नाम तिष्ठते वनपल्लिका रक्ताम्बरधरा रक्ता रक्तस्था रतिलालसा //
2.38 SK तत्रस्था गह्वरान्तस्था गुहागहनवासिनी यावत् सन्तिष्ठते कालं तावद् योगिमयं खिलम् //
2.39 SK तैस् तु सन्तोषिता देवी नयोपायैर् अनेकधा ततः प्रसन्नगम्भीरा उवाचेदं कुजेश्वरी //
2.40 SK अनेकोपायरचना विवेकगुणशालिनी ओड्डिता येन अङ्घ्रिभ्यां तेनेदम् ओड्डियानकम् //
2.41 SK भविष्यति पुरावस्थम् अष्टकोटिगुणाश्रयम् आगत्य खेचरीचक्रात् त्व् अमोघाज्ञाप्रसादतः //
2.42 SK अष्टौ ते मानसाः पुत्रा भविष्यन्ति च षड्गुणाः शाकिन्यष्टकमाता त्वम् अष्टसिंहासनाधिपाः //
2.43 SK रुद्राणी रुद्रशाकी च गोमुखी सुमुखी तथा वानरी केकरी चैव कालरात्री च भट्टिका //
2.44 SK वामनो हर्षणश् चैव सिंहवक्त्रो महाबलः महाकालैकवीरश् च भैरवश् च प्रचण्डकः //
2.45 SK चतुर्भुजो गणाध्यक्षो गजवक्त्रो महोत्कटः ऐरावतो विनायक्षः षड् एते प्रातिचारकाः //
2.46 SK पुत्रीपुत्राष्टकोपेता निवृत्तिस्था नियामिका अनेकसृष्टिकर्ता च सुसम्पूर्णगुणोज्ज्वलः //
2.47 SK कृते चोड्डमहेशानो मित्रानन्दः पतिस् तव अष्टौ पुत्राः करिष्यन्ति अधिकारं पश्चिमान्वये //
2.48 SK अधिकारं करिष्यन्ति षट् कुलाधिपतीश्वराः युगे युगे भविष्यन्ति पृथक्संज्ञाक्रमोदयाः //
2.49 SK एवं ते सूचितं सर्वं क्रमौघः कुलपद्धतिः भविष्यद्रक्तचामुण्डे गमिष्यामो यथेप्सितम् //
2.50 SK एवं दत्त्वा वरं तेभ्यः करालं च समागता महाज्वालालिसन्दीप्तं दीप्ततेजानलप्रभम् //
2.51 SK महाज्वालावलीटोपं देव्यास् तेजो महाद्भुतम् धृतं येन प्रतापो ऽस्यास् तेन तज् जालसंज्ञकम् //
2.52 SK किञ्चित्कालस्य पर्याये प्रबुद्धकिरणोज्ज्वला विचित्ररचनानेकं पश्यत्य् अग्रेन्द्रजालवत् //
2.53 SK कस्यैषा रचना दिव्या पूर्वम् आसीद् इहाध्वरे मत्तेजसः प्रतापेन भ्रष्टा त्वं न पलायिता //
2.54 SK करालवदने तुभ्यं मायाजालप्रसारिके जालन्धराधिपत्यत्वं भविष्यत्य् अचिरेण तु //
2.55 SK आगत्य खेचरीचक्राच् छ्रीसिद्धकौण्डलीश्वरः अशेषार्थविदो नाथः स ते नाथो भविष्यति //
2.56 SK भविष्यन्ति करालिन्यो दशैव दुहिता तव भविष्यन्त्य् उत्तरानन्दा दशैते गुणवत्तराः //
2.57 SK प्रातिचारास् तु षड् भद्रे भविष्यन्त्य् अनुगोचरे आज्ञानन्दसमेकत्वं करालीदुहिताजनम् //
2.58 SK माला शिवा तथा दुर्गा पावनी हर्षणी तथा जया तु सुप्रभा चैव प्रभा चण्डा च रुग्मिनी //
2.59 SK शकुनिः सुमतिर् नन्दो गोपालश् च पितामहः पल्लवो मेघनिर्घोषः शिखिवक्त्रो महाध्वजः //
2.60 SK कालकूटो दशैवैते पुत्राः सिंहासनाधिपाः भविष्यन्ति भवे तुभ्यं मेघवर्णादितो गणाः //
2.61 SK बृहत्कुक्षैकदंष्ट्रश् च गणेशो विघ्नराट् प्रभुः महानन्दः षड् एवैते भविष्यन्ति गणेश्वराः //
2.62 SK उत्तरानन्दम् ईशानाः करिष्यन्ति युगे युगे ज्ञानभ्रंशावसाने तु संज्ञाभेदान् पुनः पुनः //
2.63 SK कराली तव सन्ताने भविष्यन्ति ममाज्ञया एवम् उक्त्वा महेशानी गता सह्यं महावनम् //
2.64 SK सम्पूर्णमण्डलार्चीभिः पूरयन्ती जगत्त्रयम् निःशेषं निखिलं विश्वं लोकालोकान्तसंस्थितम् //
2.65 SK यावत् सन्तिष्ठते तत्स्था नयोपादैर् अनेकधा तावच् चण्डाक्षी बलवत् परिचर्याम् अनेकधा //
2.66 SK कुर्वन्ती विविधोपायैः सौकर्यरचनान् बहून् तेजोभाभिः प्रदीप्यन्ते चण्डाक्षीगुणपूरिताः //
2.67 SK यस्मिन्न् अद्रौ स्थिता देवी देदीप्यार्चिर् घनोज्ज्वला तत् प्रदेशं स्थिरं जातम् अन्यद् दग्धं चराचरम् //
2.68 SK आपूरितम् इदं सर्वम् अनेकरचनादिभिः पश्यते पर्वतं माता कालान्ते मुदितेक्षणा //
2.69 SK तावच् चण्डाक्षिणीत्य् अग्रे पश्यत्य् अमिततेजसा विश्वामृतैः पूरयन्ती दिव्यौघगुणलालसा //
2.70 SK उवाचेदं महादेवी साधु पूर्णमनोरथे येनेदं पूरितं स्थानं तेन त्वं पूर्णरूपिणी //
2.71 SK भविष्यत्य् आधिपत्यत्वं पर्वतो ऽयं तवोद्भवः विषुवेन तु योगेन येनेदं संस्कृतं त्वया //
2.72 SK तेन पीठेश्वरी त्वं वै भविष्यसि युगे युगे तेजस्कन्धासनं तुभ्यं द्वापरान्ताधिकारिणी //
2.73 SK भविष्यति भवे ऽवश्यं चक्रानन्दः पतिस् तव सम्पूर्णमण्डलाकारो ग्रन्थाधारः कुलेश्वरः //
2.74 SK द्वादशैव भवे तुभ्यं भविष्यन्ति कुमारिकाः ताभ्यस् त्व् एकैककोटिश् च आधिपत्याधिकारिकाः //
2.75 SK भविष्यन्ति तथा पुत्राः प्रातिचारास् तदर्धतः आगन्तुं खेचरीचक्रात् प्रेरितास् तु ममाज्ञया //
2.76 SK येन ते नामतो ब्रूमि यथा ते ऽहं प्रसादिता हंसावली सुतारा च हर्षा वाणी सुलोचना //
2.77 SK महानन्दा सुनन्दा च कोटराक्षी वृकानना यशोवती विशालाक्षी सुन्दरी द्वादशी तथा //
2.78 SK सिंहासनाधिपत्ये ताः पूर्णाद्रौ कुलकन्यकाः वलिर् नन्दो दशग्रीवो हयग्रीवो हयस् तथा //
2.79 SK सुग्रीवो गोपतिर् भीष्मः शिखण्डी खण्डलस् तथा शक्रश् चण्डाधिपः सिद्धाः सर्वानुग्रहकारकाः //
2.80 SK हंसभेदादिमार्गस्य भविष्यन्ति प्रकाशकाः आमोदश् च प्रमोदश् च सुमुखो दुर्मुखस् तथा //
2.81 SK अविघ्नो विघ्नकर्ता च तव मार्गेषु रक्षकाः एतत् सर्वं यथान्यायं चण्डाक्षी पुरतस् तव //
2.82 SK भविष्यति ममाज्ञातो गच्छामः कामिकं यथा एवम् उक्त्वा गता शीघ्रं यत्रोच्छुष्मा नदी शुभा //
2.83 SK महोच्छुष्मवनान्तस्था दिव्यादिव्यौघवाहिनी महोच्छुष्मह्रदं यत्र यत्र नीलो महाह्रदः //
2.84 SK तत्र सा रम् अते देवी दिव्याज्ञागुणशालिनी उभयोस् तटयोस् तस्था रमित्वा कालपर्ययम् //
2.85 SK यावत् पश्यति विश्वाङ्गी तत्त्वाङ्गी तावत् पश्यति कामभोगकृताटोपां वसन्ततिलकोज्ज्वलाम् //
2.86 SK द्रवयन्तीं द्रवन्तीं ताम् इच्छया भुवनत्रयम् तां दृष्ट्वा प्रहसिता माता का त्वं कस्माद् इहागता //
2.87 SK तां दृष्ट्वा मोहिता माता जानन्त्य् अपि न जानती विश्रम्य च मुहूर्तैकं यावद् आलोकयेत् पुनः //
2.88 SK तावोच्छुष्म इहायाता ममाग्रे शोकवाहिनी साधु कामिनि सर्वत्र यत् त्वया दर्शितं मम //
2.89 SK कामानन्दफलावाप्तिस् तेन कामेश्वरी भव कारुण्यात् कामरूपं तु ममाग्रे विविधं कृतम् //
2.90 SK तेनेदं कामरूपं तु महत् पीठं तवाध्वरम् भविष्यति कलौ प्राप्ते चन्द्रानन्दः पतिस् तव //
2.91 SK वायुस्कन्धोपविष्टो ऽसौ आत्मभेदप्रकाशकः अशेषार्थविदो नाथः सर्वज्ञः परमेश्वरः //
2.92 SK कामिके कामुकस् तुभ्यं कामदेवो भविष्यति भविष्यन्ति महानन्दास् त्रयोदश गुणान्विताः //
2.93 SK योगिन्यो योगसम्पन्नास् तव डिक्करिकाः शुभाः पुत्रास् त्रयोदशा ह्य् एवं सप्तैते प्रातिचारकाः //
2.94 SK भविष्यन्ति जगद्दीपा जगदानन्दकारकाः प्रभा प्रसूतिः शान्ताभा भानुवत्या च श्रीबला //
2.95 SK हारी च हारिणी चैव शालिनी कन्दुकी तथा मुक्तावली तथा चान्या गौतमी कौशिकी तथा //
2.96 SK शाकोदरी च विख्याता राज्ञाः सिंहासनाधिपाः भानुर् अनन्तहेतुश् च सुराजः सुन्दरस् तथा //
2.97 SK महावक्त्रार्जुनो भीमो द्रोणको भस्मको ऽन्तकः केतुध्वजो विशालाक्षः कल्याणश् चतुराननः //
2.98 SK एषोऽवतारो विविधः कलौ प्राप्ते भविष्यति लम्पटो घण्टकर्णश् च स्थूलदन्तो गजाननः //
2.99 SK बृहत्कुक्षिः सुरानन्दः सप्तमस् तु बलोत्कटः सप्तैते विषमाः क्रुद्धाः सर्वसन्तानपालकाः //
2.100 SK पीठोपपीठसन्दोहे क्षेत्रे क्षेत्रे महाबलाः सर्वसाधारणा ह्य् एते भविष्यन्ति कलौ युगे //
2.101 SK अन्यत् कामाम्बिके किञ्चिद् भणिष्यामः करिष्यथ सर्वसाधारणं तच् च चतुर्णां तु विजानथ //
2.102 SK भविष्यति कलाचक्रं मच्छरीरसमुद्भवम् परापरविभागज्ञं मातङ्गकुलसम्भवम् //
2.103 SK नीलस्योत्तरभागे तु महोच्छुष्मवनान्तगम् परापरं तु तेनेदं पञ्चमं पीठनायकम् //
2.104 SK मातङ्गिनीकुलान्तस्थम् आद्यं चैवाथ पञ्चमम् तेन जातं जगत् सर्वं तत् सञ्जातं कुलाकुलम् //
2.105 SK मच्छरीराङ्गसम्भूतं भविष्यन्ति तवाध्वरे कार्यदृष्टौ प्रशस्तं तु अप्रशस्तम् इतरे जने //
2.106 SK मध्यदेशस्थितं तच् च मत्समीपे व्यवस्थितम् सिद्धपालकसंयुक्तं भविष्यत्य् अवतारकम् //
2.107 SK निराचारं जगत् सर्वं निराचारविवर्जितम् निराचारेण योगेन करिष्यन्ति निराकुलम् //
2.108 SK हारिका हारि गान्धारी वीरा चैव नखी तथा ज्वालिनी सुमुखी चैव पिङ्गली च सुकेशिनी //
2.109 SK श्रीफलः कष्मलश् चण्डश् चण्डालश् चेटकस् तथा मातङ्गो बाहुको वीरो अव्यक्तो नवमः स्मृतः //
2.110 SK हेरम्बो धूलिसंज्ञस् तु पिशाचः कुब्जवामनः परापरं तु तत् पीठं कामपीठोर्ध्वमध्यगम् //
2.111 SK त्रिश्रोत्रं पूरितं यस्मात् त्रिश्रोत्रा त्वं तथा भव नदीरूपासि माङ्गल्ये भव त्वं कामरूपिणी //
2.112 SK मातङ्गानां कुलोत्पन्ने यस् त्वां नित्याभिवादयेत् तेषु क्षेमकरी नित्यं न मन्यन्ते क्षयङ्करी //
2.113 SK त्वां मुक्त्वा यो ऽन्यवर्णस् तु यो ऽत्र पीठे भविष्यति तस्यापदकरी नित्यं भविष्यसि कुलाम्बिके //
2.114 SK एवं तिष्ठ ममानन्दे जगानन्दकरी चिरम् भविष्यति पुरावस्थम् अमोघाज्ञाप्रसादतः //
2.115 SK एवम् उक्त्वा गता शीघ्रं देवीकोटं कृतक्षणात् आलोकनेन महता अट्टहासो ऽट्टहासतः //
2.116 SK कोलागिर्यां तथोज्जेनी प्रयागवरणादिकम् विरजेकाम्रकाद्यं च अन्यच् चान्यं चराचरम् //
2.117 SK यत्र यत्र गता देवी यत्र यत्रावलोकयेत् तत्र सन्दोहतीर्थं च उपक्षेत्राण्य् अनेकधा //
2.118 SK कृतं तु भारते वर्षे आत्मकीर्तिकुमारिका तेन कौमारिकाखण्डं सञ्जातं पुण्यपावनम् //
2.119 SK पूर्वसन्तानदेवेन यद् उक्तं भारतं व्रज तदावसाने कुब्जेशि उभाभ्यां मेलकं त्व् इह //
2.120 SK तत् कृतं सकलं देव्या आज्ञानन्दावबोधकम् आगता तु पुनस् तत्र पूर्वरूपानुयायिनी //
2.121 SK देवो ऽपि पूर्वसन्ताने शिष्यः सुरवरार्चिते श्रीमदोड्रमहेशानं कृत्वा चाज्ञां पुनर् ददेत् //
2.122 SK व्रज त्वं भारते वर्षे इतः प्रभृत्य् अनुग्रहः उड्डपीठे पुनः स्थातुं कुरु सृष्टिम् अनेकधा //
2.123 SK एवम् उक्त्वा पुनस् तत्र त्रिकूटशिखरान्तगः अदृष्टविग्रहेशानश् चान्तर्धानम् अभूत् क्षणात् //
185 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते आज्ञापर्यायकौमार्याधिकारो नाम द्वितीयः पटलः
3.1 SK त्वया सार्धं महादेव विवाहो जायते यथा किं निमित्तं च कस्यार्थे तन् मे निगद भैरव //
3.2 SK त्वम् एव देवि सा भद्रे गतासि पितृमन्दिरम् क्रौञ्चस्य च वधार्थाय देवैस् त्व् आराधिता वयम् //
3.3 SK स च क्रौञ्चो यथोत्पन्नस् तत् सर्वं कथयामि ते स्थानात् स्थानं क्रमन्त्याशु प्रस्वेदः पतितः क्वचित् //
3.4 SK तत्रासौ दानवो जातः क्रौञ्चाख्यो बलदर्पितः तेन देवगणाः सर्वे सप्तलोकान्तसंस्थिताः //
3.5 SK उपद्रुतास् तु बलिना गता ब्रह्मपुरं तु ते ब्रह्मापि तैः समं देवि विष्णोः पार्श्वम् उपागताः //
3.6 SK विष्णुना सह आलोच्य किं कुर्वाम उपद्रुताः क्रौञ्चासुरेण बलिना तस्योपायं वद प्रभो //
3.7 SK स्फोटनार्थं गरुत्मीश तेनाहम् इदम् आगतः हरिणापि पुनश् चोक्तं वधितुं तस्य न क्षमः //
3.8 SK देवदेवीसुतं मुक्त्वा कस्मात् सो ऽपि तदुद्भवः तत एवं समालोच्य क्व स्थानस्थः कुजेश्वरः //
3.9 SK देवीदेहोज्झितो देव उवाचेदं पितामहः प्रहस्य पालको ह्य् एवम् उवाचेदं पितामहः //
3.10 SK इदानीं किम् असौ दक्षो निर्वपेद् उत्थितो ऽनलः तस्य कोपानलाद् दग्धः कार्योत्पन्ने कुतस् तु सः //
3.11 SK महादर्पवशाद् भ्रष्टा नष्टा यूयं दिवौकसः एवोपलम्भिताः सर्वे हरिणा ब्रह्मणोदिताः //
3.12 SK ऊचुस् त्व् एवं पुनः पश्चाद् उपायः को ऽस्ति साम्प्रतम् हिमवद्गिरेर् दुहिता तिष्ठत्य् एका सुभाविता //
3.13 SK जगन्नाथाङ्घ्रिनिरता जगन्नाथो हि तत्र च एवम् उक्त्वा वसन्तस्य कामस्य गुणशालिनः //
3.14 SK देवैः प्रचोदितौ तौ द्वौ देवदेव्योर् मनोहरौ एवं तै रचितं सर्वं पुष्पपल्लवकादिभिः //
3.15 SK कोकिलारावझङ्कारं षट्पदोन्मत्तसङ्कुलम् वसन्तम् उदितं दृष्ट्वा प्रसन्नगिरया किल //
3.16 SK उवाचेदं तदा काले कामो विध्यति भैरवम् //
3.17 SK मदालसानन्दभृतेक्षणेक्षितः प्रपश्यताम् एव कुमारिकोरुम् धृत्वा करोत्कण्ठितया च कण्ठे आलिङ्गयन्त्या च दिशं विलोक्य //
3.18 SK लज्जायमानेन सकोपनेन त्रैलोक्यसंहारमहानलेन सन्दीपितो ऽसौ पतितः क्षणेन कामो हतः कामनिरीक्षणेन //
KubjT_3.19* SK कामानन्दे दग्धे प्रीतिरती रोदनात्मिके दुःसहम् / दृष्ट्वा ते रुदमाने नानङ्गः पतिर् भवति मा रुदथः //
3.20 SK निग्रहीत्वा तु तं कामं त्रिनेत्ररूपधारिणा निग्रहानुग्रहश् चैव भैरवेच्छा प्रवर्तते //
3.21 SK एतद् अन्तरम् आसाद्य ब्रह्मविष्णुपुरःसराः सर्वे देवगणाः प्राप्ता ऋषिसिद्धाः सगुह्यकाः //
3.22 SK स्तुतिस्तोत्ररवैर् दिव्यैस् तोषयित्वा कुजेश्वरम् उवाचेदं हरिर् ब्रह्मा देव चोत्कण्ठिता वयम् //
3.23 SK भवत्पादविनिर्मुक्ता देवदेवा ह्य् उपद्रुताः प्रचण्डबलिनाक्रान्ताः क्रौञ्चेन परमेश्वर //
3.24 SK प्रसीद दयया नाथ ब्रुवामस् त्व् अभयं दद देवीम् उद्वाह्यतां नाथ क्लेशायासप्रपीडिताम् //
3.25 SK कुत्र तिष्ठति कस्यैषा का माता कः पितामहः को मे ददाति को याच्यः किं कुर्वामः कुलोज्झिताः //
3.26 SK उक्तं तु ब्रह्मणा ह्य् एवं याच्यो ऽहं याचका वयम् यज्ञयाजी हिमन्ताख्यो अध्वर्युः परमेश्वरः //
3.27 SK एवम् उक्त्वा तु वृद्धेन वसिष्ठप्रमुखान् ऋषीन् प्रेषिता वद शीघ्रेदं सम्प्रदानक्रियां कुरु //
3.28 SK तैर् गतै रुचितं सर्वम् आदेशं शिरसा धृतम् बहुवित्तप्रभारेण विवाहानन्दकृद् ध्य् अभूत् //
3.29 SK सर्वमङ्गलमाङ्गल्यम् आनन्दानन्दपूरितम् तदा प्रभृति सर्वेदम् अभूत् पूर्णमनोरथम् //
3.30 SK भैरवे मथनासक्ते जगद्योनिः सदोदिता त्रैलोक्यसृष्टिहेत्वर्थं मन्थानस्थो भवेत् तद //
3.31 SK क्रीडाविनोदैर् अतिलालसस्थं कुलामृतानन्दविधौ प्रवृत्तम् कुलेश्वरं कुब्जिभृतानुरागं सम्पृच्छतेदं प्रणता कुजेशी //
3.32 SK प्रणयेन तु योगेन द्राविताङ्गं त्वया मम कुब्जेनैव तु रूपेण पीडितातीव भैरव //
3.33 SK विनोदकुशले देवि अनेकार्थविधायिनी तोषितोऽद्य त्वया नाथे पृच्छ पृच्छ सुदुर्लभम् //
3.34 SK पूर्वकाले त्वया मह्यं प्रसादो यः कृतः प्रभो कुब्जत्वं शब्दरूपेण पूर्वं व्याहरितं यतः //
3.35 SK तेन कार्येण देवेश कालस्थानं न मे प्रभो पृच्छामि प्रणयाविष्टा अज्ञानगुणशालिनी //
3.36 SK कथं मे कुब्जिका नाम किं खञ्जी पूर्व सूचिता एतद् आचक्ष्व यत्नेन सर्वोपायसमन्वितम् //
3.37 SK परमार्थं यदा देव तदा स्यात् सिद्धिसाधनम् अथ चेत् तन् मृषा वाक्यं तत् किं नाम प्रतिष्ठितम् //
3.38 SK कथयस्व प्रसादेन समाचारो गुरुः कथम् साधनं सर्ववस्तूनां येनैकेन प्रपद्यते //
3.39 SK मन्त्रतन्त्रेण योगेन आज्ञातः सम्प्रवर्तते तत् सर्वं हेलया नाथ एकोच्चाराद् वद प्रभो //
3.40 SK क्रीडानन्दस्वरूपेण पृष्टो ऽहं क्लिन्नचेतसे तेन ते क्लेदनामार्गं कथयामि सुरार्चिते //
3.41 SK नित्यानन्दप्रकर्तारं कल्याणार्थप्रबोधकम् गुरुम् अन्वेषयेद् यत्नात् सुभगं प्रियदर्शनम् //
3.42 SK शुभजातिसुवृत्तिस्थं शुभदेशसमुद्भवम् ज्ञानविज्ञानसम्पन्नं समस्तार्थविशारदम् //
3.43 SK कालज्ञं निपुणं दक्षं सामर्थज्ञम् अकुत्सितम् सर्वावयवसम्पन्नं व्यङ्गदोषविवर्जितम् //
3.44 SK वेधघट्टनिरोधज्ञं लोकमार्गविशारदम् क्रियाकाण्डरतं शान्तं सुभक्तं गुरुवत्सलम् //
3.45 SK सुसन्तुष्टम् अलोभिष्ठं तपस्विजनवत्सलम् प्रतिपन्नजनानन्दं शौर्यवन्तं दृढव्रतम् //
3.46 SK विद्याम् अभयदातारं लौल्यचापल्यवर्जितम् आचारपालकं धीरं समयेषु कृतास्पदम् //
3.47 SK आगतं न त्यजेद् वस्तुं यो गत्वा न परिग्रहेत् स गुरुर् न मनुष्यानां देवानाम् अपि दुर्लभः //
3.48 SK शक्तिहीनं गुरुं प्राप्य शिष्ये मुक्तिः कुतः प्रिये मूलच्छिन्ने यथा वृक्षे कुतः पुष्पफलादिकम् //
3.49 SK एवंविधं गुरुं प्राप्य को न मुच्येत बन्धनात् तं दृष्ट्वा सर्वभावेन शिष्यश् चाराधयेद् गुरुम् //
3.50 SK आत्मना च धनेनैव दासत्वेन भजेत् तु तम् तावद् आराधयेद् देवि प्रसन्नो यावत् स गुरुः //
3.51 SK प्रसन्नो ददते दीक्षां यया पाशक्षयो भवेत् प्रबोधो भवते तस्य गृह्णाति यदि तत्क्रमात् //
3.52 SK अक्रमाद् ददते यस् तु अक्रमाद् गृह्णते तु यः द्वाव् एतौ निश्चितौ बद्धौ पाशैः कुलसमुद्भवैः //
3.53 SK यावद् अष्टौ तथा पञ्च त्रीण्य् अब्दानि सुभावितः तावन् न कारयेद् दीक्षां निषिद्धस् तु कुलान्वये //
3.54 SK अथ चेद् गुरुसामर्थ्याद् ददते दयया शिशोः तथापि तेन कर्तव्यं दासत्वं तु गुरोः कुले //
3.55 SK आक्रुष्टः शतधा वापि ताडितस् तु सहस्रधा एवं कृते न यस्यास्ति विरागस् तस्य योग्यता //
3.56 SK गुरुणा रोषितो वाथ यो दद्याद् उत्तरं क्वचित् स तु नश्यति दुष्टात्मा अजीर्णे भोजनं यथा //
3.57 SK गुरोः कोपं न कर्तव्यं वाङ्मनःकायकर्मभिः तस्य कोपाद् दहिष्यन्ति प्राप्तज्ञानं मरीचयः //
3.58 SK मर्त्यलोकं समासाद्य किञ्चिज्ज्ञा गुरवो यदि तदा ज्ञानस्य का रक्षा ज्ञानचौरं हरन्ति ताः //
3.59 SK क्षमाशीलं गुरुं मत्वा यदि शिष्यो ऽपमानयेत् प्राप्तं मे ज्ञानसद्भावं गच्छामः कथनं विना //
3.60 SK तस्य रोधादिका देव्यो मूकत्वं जनयन्ति वै न रोहति यथा बीजं दग्धं तद्वद् इदं प्रिये //
3.61 SK आज्ञायोगं क्रियामन्त्रं मुषित्वा यः पलायते न च तेन समं याति तत्रैवायाति निश्चितम् //
3.62 SK स कथं तिष्ठते मूढो भुक्तोद्गीर्णे वपुर् यथा नाबुभुक्षा बुभुक्षा वा घृणी क्षीणतनुर् भवेत् //
3.63 SK शुभं वा अशुभं वाथ कुर्वाणं न हसेद् गुरुम् हसनाद् ध्वंसम् आयाति हसिते हिंसितो हि सः //
3.64 SK सामान्यप्रतिपत्त्या वा न वदेद् गुरुणा सह मुखे हस्तं प्रदत्त्वा तु ददादेशम् इति ब्रुवन् //
3.65 SK अङ्गरक्षा न कर्तव्या न शाठ्यं गुरुणा सह उक्तानुक्तेषु कार्येषु उपेक्षां नैव कारयेत् //
3.66 SK शठस् तु दुष्टभावश् च मृषावाद्यप्रवादकः अन्तरङ्गी न सद्भावी स नष्टः कञ्जिनी यथा //
3.67 SK द्विधाभावाभिपन्नस्य भिन्नभाव इतस् ततः य एवं वर्तते मूढः स नष्टः कञ्जिकं यथा //
3.68 SK आज्ञास्फुरन्तम् आनन्दं गुरुं त्यक्त्वान्यम् आश्रयेत् सन्निरुद्धस् तु सर्वत्र राज्यभ्रष्टो यथा नृपः //
3.69 SK शरीरं द्रव्यविज्ञानं वस्त्रवाहनभूषणम् गुर्वर्थं धारयेद् यस् तु स वै संस्कारम् अर्हति //
3.70 SK गुरुर् मान्यो गुरुः पूज्यश् चाराध्यो गुरवः सदा गुरौ सन्तोषिते सर्वं तोषितं सचराचरम् //
3.71 SK गुरोः समो नैव हि मर्त्यलोके तथा विशेषेण तु चान्तरिक्षे यस् तारयेद् दुःखमहार्णवौघात् किं तस्य कर्तुं स करोति शिष्यः //
3.72 SK न माता न पिता चैव न भ्राता नैव बान्धवाः उपकारं हि कुर्वन्ति कुरुते यादृशं गुरुः //
3.73 SK एवं मत्वा वरारोहे दुःखे दुःखी सुखे सुखी गुरोर् वैरोधिकं स्थानं प्रमादाद् अपि न व्रजेत् //
3.74 SK उपविष्टस्य पार्श्वे तु कर्तव्यं मार्जनादिकम् भिक्षापात्रं निवेद्येत पुष्पधाटीं वहेत् सदा //
3.75 SK अन्तरङ्गं न कर्तव्यं वाङ्मनःकायकर्मणा यत् किञ्चिद् गुरवे कार्यं तत् कर्तव्यम् अशङ्कितैः //
3.76 SK य एवं वर्तते शिष्यः सुखदुःखसमाश्रयी तस्य सिद्धिर् न दूरस्था मोक्षः स्वाधीनतां गतः //
3.77 SK गुरुणापादितं सर्वम् उपदेशं प्रपूजयेत् तस्माद् एवं विदित्वा तु गुरुर् देवो न चान्यथा //
3.78 SK त्रिष्कालं प्रणिपातेन ध्यानयोगेन तं यजेत् अदृष्टविग्रहेशानम् उपलभ्येत नान्यथा //
3.79 SK मन्त्रध्यानतपोपायैश् चर्यायोगैर् अनेकधा न पश्यन्ति परं शम्भुं यावन् नोपासयेद् गुरुम् //
3.80 SK ध्यायन्तो ऽपि सदा भक्त्या मद्रूपं गुरुणोदितम् तथापि न भवेत् सौख्यं शाम्भवं परमार्थतः //
3.81 SK यावन् मूर्ध्नोपरि पादा आज्ञायुक्तः सुभावितः तावन् न जायते शीघ्रम् अदृष्टगुणलक्षणम् //
3.82 SK गुरुरूपविधौ यदि निश्चलता तद् उपासति मूर्ध्नि धृताङ्घ्रियुगम् अचिरेण भवत्य् उपलद्भिगुणा अणिमादिगुणाष्टकशम्भुपदम् //
3.83 SK आज्ञाहीने परोक्षत्वं त्रयाणां दर्शितं मया रुद्रभैरववीराणां कथनाद् योगः प्रवर्तते //
3.84 SK सिद्धे सिद्धं विनिर्दिष्टं प्रत्यक्षगुणलक्षणम् आज्ञातः सम्प्रवर्तेत सा चाज्ञा गुरवो विदुः //
3.85 SK शास्त्रे शास्त्रे स्मृतं ज्ञानं मयानेकविधानतः प्रत्यक्षमन्त्रनिहिता सिद्धाज्ञा सिद्धगोचरे //
3.86 SK तेनेदं सिद्धसन्तानं गुरुदेवोपलक्षितम् यस्य चाज्ञानिपातेन सम्बोधः शाम्भवो भवेत् //
3.87 SK प्रत्यक्षं गुरवं त्यक्त्वा ज्ञानरूपं कुलेश्वरम् कथम् आराधनान्यत्र कुरुते मोहितात्मनः //
3.88 SK निर्वाणाग्नौ ज्वलद्दीप्ते यो ऽन्यत्राग्नौ व्रजेत् कुधीः देवागारं गुरुं त्यक्त्वा व्रजत्य् अधोभवं तु सः //
3.89 SK पूर्वकर्मविशुद्धस्य शक्तिपातः सुनिर्मलः तीव्रशक्तिनिपातो ऽस्य शीघ्रम् एव प्रपद्यते //
3.90 SK मलकायप्रपूर्णस्य मन्दं मन्दं प्रवर्तते अभाग्यस्यापि षण्मासात् तीव्रत्वं सम्प्रपद्यते //
3.91 SK यावन् न सर्वभावेन मर्त्यलोकम् उपागतम् गुरुमूर्तिधरं शम्भुं तावत् पातो न शाम्भवः //
3.92 SK मद्वीर्यः पारदो यद्वत् पतितः स्फुटितः कणैः तद्वच् च देशिकेन्द्राणां रूपेण प्रभ्रमाम्य् अहम् //
3.93 SK मम वीर्यप्रसूतास् ते आचार्याः सूतकेव हि विन्धन्ति संस्कृताः सन्तो भक्त्योषधिसुजारणात् //
3.94 SK अहम् एकः कुलालो वै खेचरादौ गुणोज्ज्वलः सृजामि निखिलं सर्वं गुरुत्वे संव्यवस्थितः //
3.95 SK सादाख्यः खेचराणां च पिङ्गो ऽहं पवनोद्भवः तेजसे ऽनन्तरूपो ऽहं ऽनुग्रहीशो जलोद्भवः //
3.96 SK श्रीकण्ठो ऽहं निवृत्[त्]यन्ते कुलीशो ऽहं क्षितीतले ऽनुघ्रहाम्य् अखिलं सर्वम् एको ऽप्य् अनेकधा स्थितः //
3.97 SK येन येन हि भावेन पृच्छितो ऽहं यथा यथा तथा तथा मया सर्वं गुरुत्वे सम्प्रदर्शितम् //
3.98 SK अत्रैव सिद्धसन्ताने प्रत्यक्षो ऽहं व्यवस्थितः गुरुमूर्तौ स्थितो नित्यं यस्याज्ञा सम्प्रवर्तते //
3.99 SK सुवर्णस्य यथाकाराः संज्ञाभेदैर् अनेकधा कटकङ्कणकेयूरैः कण्ठीमुद्राङ्गुलीयकैः //
3.100 SK तथा ते गुरवो ज्ञेया ममाज्ञाङ्गसमुद्भवाः रसवद् वेधका ज्ञेया स्तोकं स्तोकं बहुं बहुम् //
3.101 SK पलकोटिपलानां च गुञ्जाद् एवं न संशयः एवं विभूतिर् आख्याता युगरूपानुसारिणी //
3.102 SK पलेन विहितो वेधः किं गुञ्जातो न विध्यति संस्कारे सति सर्वत्र बहुस्तोकं न चिन्तयेत् //
3.103 SK परापरविभागेन कालभाववशेन च बहुस्तोकं न मन्तव्यं प्रत्ययश् चात्र कारणम् //
3.104 SK रसविद्धं यथा ताम्रं न भूयस् ताम्रतां व्रजेत् आज्ञाविद्धस् तथाप्य् एवं न संसारम् अनुक्रमेत् //
3.105 SK सा चाज्ञा विद्यते यस्य मम तुल्यः कुजाम्बिके पलमात्ररसो भव्यं गुञ्जामात्ररसेन किम् //
3.106 SK पलमात्ररसो ह्य् अहं गुञ्जामात्रस् ततोद्भवः एवं मत्वा गुरूणां च न विकल्पो विभूतये //
3.107 SK आज्ञातो भुक्ति मुक्तिश् च सर्वं साधयते क्षणात् वाञ्छितं लभते सर्वं यदि भक्तिः सुनिश्चला //
3.108 SK आज्ञा तु द्विविधा प्रोक्ता साधकानुग्रहात्मिका समर्थाचारयुक्तस्य ततस् तां तु प्रमोचयेत् //
3.109 SK प्राथमिकस्य या आज्ञा; सा विशुद्धिप्रबोधिका अधिकारनिमित्तार्थं पुनश् चाज्ञां ददेद् गुरुः //
3.110 SK आज्ञामात्रेण सन्तुष्टो अन्यस्याज्ञां ददाति च नेहत्रे तु सुखं तस्य परत्रे बाध्यते तु सः //
3.111 SK वाचासिद्धिः पुरक्षोभं यावज् ज्ञातं न योगिनः तावन् न कारयेद् दीक्षाम् इत्य् आज्ञा पारमेश्वरी //
3.112 SK ज्ञात्वाम्नायं वरारोहे दिव्यादिव्यैर् निषेवितम् चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं चतुः //
3.113 SK श्लोकद्वादशकं चान्यत् पञ्चरत्नं सतद्ग्रहम् षोढान्यासक्रमं ज्ञात्वा एतत् सर्वं विधानतः //
3.114 SK स योग्यः क्रमिको शिष्यो अन्यथा नामधारकः ततः प्रभृति सिद्धो ऽसौ पूज्यः पूजापकः स्मृतः //
3.115 SK एतद्गुणविशिष्टो ऽयं शिष्यः सर्वार्थदायकः महदन्यायसम्प्राप्तो गुरुस् तं न तिरस्करेत् //
3.116 SK एवं गुरुत्वम् आप्नोति सिद्धाम्नाये कुजेश्वरि अन्यथा जीविकार्थं तु आत्मानं च विडम्बितः //
3.117 SK आज्ञाया गुणम् ऐश्वर्यं यस्य जातं यशस्विनि तस्मात् सम्पद्यते सर्वं यदि दत्ता प्रसादतः //
3.118 SK क्रमेण विहिता चाज्ञा आज्ञामोघक्रमं विदुः ते ज्येष्ठाः क्रमसन्ताने यद्य् एषां ऽनुक्रमो न हि //
3.119 SK किं तु मण्डलयोग्यास् ते न भवन्ति कुलेश्वराः चन्दनाक्षतदीपानां नार्हत्वं च भजन्ति ते //
3.120 SK अधिकाराज्ञा प्रथमा प्रसादाज्ञा द्वितीयका सा यदि क्रमशः प्राप्ता सक्रमानुक्रमेण तु //
3.121 SK तत्र कालं समारभ्य गुरुत्वं भजते तु सः स यत्र तिष्ठते देशे तत्र ये ऽन्ये तु कन्यसाः //
3.122 SK भ्रातॄणां भ्रातृपुत्राश् च तत्पुत्राश् च गुरुर् यथा पूजयन्त्य् अविकल्पेन सिद्धिमार्गे विधिर् ह्य् अयम् //
3.123 SK आराध्यस् तिष्ठते यत्र तत्र किञ्चिन् न कारयेत् मन्त्रतन्त्रक्रियायोगम् अधिकारं प्रभुत्वता //
3.124 SK पञ्चयोजनमात्रेण गत्वा कर्म समारभेत् तत्पुरे दासवत् तिष्ठेद् आज्ञाश्रवणतत्परः //
3.125 SK स्वपुरस्थं प्रयत्नेन यदाराध्यं न पश्यति भुञ्जते मोहितात्मानः किल्बिषं भुञ्जते तु सः //
3.126 SK प्रायश्चित्तं चरेद् देवि कुब्जिकायायुतद्वयम् अथ चेद् दर्पमूढस् तु ज्ञात्वा भुञ्जत्य् अशङ्कितः //
3.127 SK लक्षं जप्त्वा भवेच् छुद्धि[र्] गुरुपूजा त्व् अनन्तरम् समपादेन चारुह्य गुरोर् अग्रे अजानतः //
3.128 SK कुब्जिकायुतम् एकं तु शुध्यते गुरुपूजया गुरोर् आस्थानसंस्थाने चारुह्य पादुकैः सह //
3.129 SK गुरुदृष्टिगते पादे जपते तस्य पूर्ववत् ज्येष्ठो भ्राता गुरोर् माता गुरोः स्थानार्चकास् तु ये //
3.130 SK त्रीण्य् एतास् तत्समा ज्ञेया द्रष्टव्या गुरुवद् यथा अपमान्य यदा ह्य् एतान् आत्मसम्भावितः कुधीः //
3.131 SK प्रायश्चित्ती सलक्षेण शुध्यते गुरुपूजया उपमर्द्य गुरोः स्थानं पापात्मा यत्र तिष्ठति //
3.132 SK तस्य दर्शनसम्भाषात् पातकिनो भवन्ति ते यदा साधुः प्रसन्नात्मा तदा लक्षत्रयेण वै //
3.133 SK मण्डलानां सहस्रेण गुरुपूजा त्व् अनन्तरम् पादुकोपानहौ छत्त्रं शय्यापट्टो ऽथ भाजनम् //
KubjT_3.133* SK पादेन संस्पृशेद् यस् तु शिरे धृत्वाष्टकं जपेत् //
320 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते मन्थानभेदप्रचाररतिसङ्गमो नाम तृतीयः पटलः
4.1 SK तृप्ताहं देवदेवेश बीजमन्त्रैर् अनेकधा चक्रैश् च विविधाकारैः सद्यःप्रत्ययकारकैः //
4.2 SK अद्यापि संशयो नाथ मन्त्राणां निर्णयं प्रति पूर्वं च कथिता मन्त्राः सप्तकोटिर् असङ्ख्यया //
4.3 SK साधनानि पुनस् तेषां सद्यःप्रत्ययकारकाः क्लिष्यन्ति मनुजात्यन्तं जपहोमपरायणाः //
4.4 SK व्रतैश् च विविधाकारैः कष्टैश् चान्द्रायणादिभिः किमर्थं ते न सिध्यन्ति जप्त्वा कोटिशतैर् अपि //
4.5 SK त्वं च देवो विभुः कर्ता त्वयोक्तं सत् यम् उच्यते अविचारेण तद् ग्राह्यं मिथ्या किं देव भाषितम् //
4.6 SK ध्वंसिताश् च त्वया लोका मायारूपेण भैरव //
4.7 SK साधु साधु महाप्राज्ञे वस्तुचोद्यविकल्पिनि ये मया कथिता मन्त्राः पूर्वं ये कामसिद्धिदाः //
4.8 SK ते गोपिता मया देवि वर्णरूपाः प्रकाशिताः तेन ते न प्रसिध्यन्ति जप्त्वा कोटिशतैर् अपि //
4.9 SK ॐकारेण तु ते गुप्ता नमस्कारेण भामिनि तेन गुप्तेन गुप्तास् ते शेषा वर्णास् तु केवलाः //
4.10 SK एकाक्षरा द्व्यक्षराश् च चतुःपञ्चनवाक्षराः कूटमन्त्राश् च ये केचित् पिण्डमन्त्रास् तथैव च //
4.11 SK एकाशीतिपदाश् चान्ये सहस्रान्ताः शतार्धिकाः सर्वे ते निष्फलाः प्रोक्ताः किं तु जीवविवर्जिताः //
4.12 SK लोके प्रसिद्धम् एवं हि जीवहीना मृताः किल मृतस्य चोपचारेण किं तेषां जीवितं भवेत् //
4.13 SK एवं मन्त्रा वरारोहे अक्षरार्थे व्यवस्थिताः व्रतचर्यैर् न सिध्यन्ति सत् यम् एतद् उदाहृतम् //
4.14 SK सिध्यन्ते जीवयुक्तास् तु किम् अत्र प्रविचार्यते अन्योन्यवलिताश् चैव भेदिता द्वादशस्वरैः //
4.15 SK रञ्जिताः शक्तिबीजेन सिध्यन्ते वरवर्णिनि उक्ताः कामप्रदाः सर्वे सर्वे चामोघशक्तयः //
4.16 SK शिववक्त्रोद्भवाः सर्वे मननत्राणधर्मिणः त्राणं तु रक्षणं प्रोक्तं तच् च वर्णविवर्जितम् //
4.17 SK शुद्धस्फटिकसêकाशं चारोच्चारविवर्जितम् ज्वलन्तं स्वेन तेजेन हृत्पद्मे संव्यवस्थितम् //
4.18 SK भावयेच् छून्यम् आत्मानम् एकीभूतं तया सह सुषुम्णाचारयोगेन उद्यन्तं रविबिम्बवत् //
4.19 SK ओ-जा-पू-का-क्रमान् भित्त्वा विद्याकुब्जपदे स्थितम् तावत् कम्पत्य् असौ योगी स्तोभम् आयाति तत्क्षणात् //
4.20 SK मुद्रा मन्त्रं तथा भाषा सर्वं जानाति तत्त्वतः कुब्जीशानपदं प्राप्तं सुप्तावस्था प्रजायते //
4.21 SK ईषन्मात्रं विजानाति सुप्तावस्थाव्यवस्थितः ब्रह्मरन्ध्रगता चाज्ञा काष्ठवत् तिष्ठते तदा //
4.22 SK यवमात्रप्रमाणं तु त्रिकोणाकृतिम् उत्तमम् वडवामणीन्द्रियं यद्वन् मीलनोन्मीलनानि च //
4.23 SK तत्र मध्ये गतं चेतः काष्ठावस्था तु जायते भेरीमृदङ्गशब्दाद्यैर् गीतवाद्यैर् अनेकधा //
4.24 SK न शृणोति न पश्येत न चान्यं मन्यते प्रभुम् खड्गचक्रादिभिः शस्त्रैश् छिद्यमानो न विन्दति //
4.25 SK ईषन्मात्रं विजानाति शक्त्यावस्था वरानने शक्त्यन्तं तु यदा प्राप्तस् तदा चोत्पतते क्षणात् //
4.26 SK एवं क्रमेण देवेशि शक्त्युच्चारं समभ्यसेत् सतताभ्यासयोगेन वागीशत्वं प्रजायते //
4.27 SK मासम् एकं यदाभ्यस्तं काव्यकर्ता न संशयः द्विभिर् मासैर् वपुष्मन्तः क्षुत्तृष्णाद्यैर् न बाध्यते //
4.28 SK विचरेद् अखिलान् लोकान् यावदाभूतसम्प्लवम् अक्षरार्थेन ये मन्त्रास् तेषाम् एव विधिः स्फुटम् //
4.29 SK अक्षरार्थोपदेशश् च सम्प्रदायश् च कौलिकः यथा विज्ञायते देव प्रसादं कुरु भैरव //
4.30 SK शृणु देवि प्रवक्ष्यामि मन्त्राणां निर्णयं स्फुटम् प्रस्तारादि-र्-अनेकैश् च ये मन्त्राश् चोदिताः प्रिये //
4.31 SK अक्षरार्थेन ते ज्ञेयाः खण्डमन्त्राः शिवोदिताः रञ्जकेन समायुक्ता उपदेशः सुरार्चिते //
4.32 SK सम्प्रदायो भवेद् देवि सो ऽपि षट्सु प्रभेदतः पल्लवो योगरोधश् च सम्पुटो ग्रथनस् तथा //
4.33 SK विदर्भश् च षड् एते हि सम्प्रदायाः प्रकीर्तिताः मालिनी शब्दराशिश् च कौलिको विधिर् उत्तमः //
4.34 SK सा तु ज्ञेया वरारोहे भेदाः पञ्चाश सुव्रते कुलं तु षड्विधं ज्ञेयं तस्य वक्ष्यामि लक्षणम् //
4.35 SK परं बीजं तथा मूलम् आगमो विधिर् एव च वर्णराशिसमायुक्तः षड्विधस् तु कुलक्रमः //
4.36 SK सकलो निष्कलश् चैव तथा सकलनिष्कलः सूक्ष्मो भिन्नकलश् चैव कलातीतो वरानने //
4.37 SK षट्प्रकारो भवेन् मन्त्रो ज्ञातव्यः सिद्धिम् इच्छता शुद्धद्वन्द्वजसट्कीर्ण उपदेशस् त्रिभेदतः //
4.38 SK सूचिता मन्त्रमार्गे तु ये मन्त्रा लक्षणान्विताः ते ज्ञेयास् त्वत्प्रसादेन ध्यानधारणयोगतः //
4.39 SK कुलमार्गगता देव यथा भवति तत् कथम् कथं तु पल्लवो योग आदि षट्सु प्रकारतः //
4.40 SK कौलिकं षड्विधं किं तु मन्त्राणां षड्विधा गतिः त्रिविधश् चोपदेशश् च एतद् इच्छामि वेदितुम् //
4.41 SK पल्लवो आदिदेशे तु योगो मध्ये विजानतः रोधस् तु आदिमध्यान्ते सम्पुटश् चादि-र्-अन्तगः //
4.42 SK ग्रथनं चान्तरे ज्ञेयम् अक्षराक्षरयोगतः विदर्भो मन्त्र-म्-आदौ तु मन्त्रान्ते वीरनायिके //
4.43 SK मालाग्रथनम् एतद् धि ज्ञातव्यं मन्त्रवादिना पल्लवो मन्त्रबोधे तु योगो ज्ञेयस् तु सर्वदा //
4.44 SK अमलीकरणे चैव सन्धानस्य विधौ प्रिये योगस् तु कथितो ह्य् एवं रोधश् चैवानुकथ्यते //
4.45 SK तीव्रमन्त्रपदस्तम्भे वाक्स्तम्भे सैन्यस्तम्भने हस्त्यादिशकटयन्त्रे नावान्ते च प्रकीर्तितः //
4.46 SK तेषु रोधः प्रशस्येत पशूनाम् उत्क्रमेषु च सम्पुटो मन्त्ररक्षासु वश्यार्थे चैव योजयेत् //
4.47 SK अमृतीकरणे चैव विषे स्थावरजङ्गमे शान्तिकादिषु कार्येषु सम्पुटस् तु प्रशयते //
4.48 SK ग्रथनं रूपकार्येषु आकृष्ट्यादिषु कर्मसु सन्धाने तु वरारोहे ग्रथनं समुदाहृतम् //
4.49 SK विदर्भः सर्वकार्येषु उक्तानुक्तेषु वस्तुषु कर्तव्यं सततं देवि यदि सिद्धिं समीहते //
4.50 SK एतद् देवि समाख्यातं सम्प्रदायविधिः शुभः न मया कस्यचित् ख्यातं सत्यं सत्यं गणाम्बिके //
4.51 SK साम्प्रतं कुलमार्गस् तु यथा भवति तच् छृणु परं बिन्दुः समाख्यातो हृत्पद्मे सुरनायिके //
4.52 SK ग्रहणं तस्य चोपायस् तं ज्ञेयं कौलिकं परम् बीजं कुण्डलिनी शक्तिर् या करोति गमागमम् //
4.53 SK तस्यान्तं तु ततो ज्ञात्वा बीजं कौलिकम् उत्तमम् मूलं शक्तिः स्मृता कुब्जी जगतः कारणात्मिका //
4.54 SK तस्या जातम् अशेषं तु आब्रह्मभुवनान्तिकम् सृजते येन सुश्रोणि कार्यकारणयोगतः //
4.55 SK ज्ञेया धर्मिणि धर्मित्वं यथोष्मा कृष्णवर्त्मनः एतत् कौलिकम् आख्यातं मूलसंज्ञा वरानने //
4.56 SK आगमस् तत्र सूत्रार्थो विधिस् तत्रैव चोदिता वर्णराशिक्रमो ज्ञेयो नादिफान्तस्वरूपतः //
4.57 SK आदिक्षान्तश् च देवेशि शब्दराशिक्रमो विदुः एतत् कौलिकम् आख्यतं षट्प्रकारं वरानने //
4.58 SK सकलादिक्रमेणैव वक्ष्यमानं निबोधत ब्रह्मस्थः सकलो मन्त्र अष्टत्रिंशत्कलैर् युतः //
4.59 SK पूर्यष्टकसमोपेत उद्भवस्थो विजानतः कण्ठस्थो निष्कलो देवि कलाकालविवर्जितः //
4.60 SK रुद्रस्थानगतो भद्रे मन्त्रो भावैर् द्विभिर् युतः स्थूलजालकलैर् युक्तो बिन्द्वादीनां च सम्भवैः //
4.61 SK सूक्ष्माधारस्थितो ह्य् एकः स्पर्शाख्यो मन्त्रवेदकः सकलो निष्कलश् चासौ मन्त्रो ज्ञेयस् तु सुव्रते //
4.62 SK विलीनो बिन्दुदेवे तु योन्याकारस्वरूपतः शब्दस्पर्शविनिर्मुक्तो मन्त्रो ज्ञेयस् तु निष्कलः //
4.63 SK सूक्ष्मात् सूक्ष्मतरो देवि स च सूक्ष्मो निगद्यते कालरूपः स्मृतो बिन्दुस् तं भित्त्वा व्रजते यदि //
4.64 SK ऊर्ध्वपदे प्रवृत्तस्य सुषुम्णाधारगोचरः प्रलीनः शब्ददेवे तु चिच्छक्तिप्रतिबोधितः //
4.65 SK भिन्नकलः स्मृतो ह्य् एवं लयातीतस् तु मोक्षदः पञ्चावस्था समाख्याता मन्त्राणाम् अमितौजसाम् //
4.66 SK यावद् एवं न विन्देत तावत् सिद्धिः कुतो भवेत् हृत्कण्ठतालुजिह्वौष्ठौ दन्तनासोद्भवाक्षराः //
4.67 SK क्षणप्रध्वंसिनो देवि यथोत्पत्तिस् तथा क्षयः कृतका ह्य् अचेतना शून्या अनित्या जल्पकारकाः //
4.68 SK पञ्चावस्थाप्रभिन्नस् तु तदा मन्त्र-म् इहोच्यते एवं मन्त्रगतिं ज्ञात्वा सिध्यन्ते लीलया नराः //
4.69 SK उद्भवे शुद्धम् इत्य् उक्तो विश्लेषे द्वन्द्वजः स्मृतः सङ्कीर्णे लयसंस्था हि उपदेशस् त्रिधा स्मृतः //
4.70 SK स्पर्शनं चावलोकं च सम्भाषं चात्मदर्शनम् स्वयमावेशनं चैव सङ्क्रान्तिः पञ्चलक्षणा //
4.71 SK स्पर्शनं हृदिसंस्थं तु आलोकं कण्ठदेशतः तालुस्थाने तु सम्भाषं दर्शनं बिन्दुमध्यतः //
4.72 SK स्वयमावेशनं देवि कुब्जिरन्ध्रे न संशयः स्पर्शने कम्पनं ज्ञेयम् आलोके धुननं भवेत् //
4.73 SK सम्भाषे तु भवेत् स्तोभः शास्त्रार्थं चैव मन्यते दर्शनेन गुणावाप्तिर् अणिमादिगुणाष्टकम् //
4.74 SK स्वयमाविशने देवि उत्पतेन् नात्र संशयः एवं मन्त्रगतिं ज्ञात्वा सिध्यते नात्र संशयः //
4.75 SK अतः परं प्रवक्ष्यामि मन्त्रोद्धारं वरानने सुगुप्ते भूसमे शुद्धे गोमयेनोपलेपिते //
4.76 SK पुष्पप्रकरगन्धाढ्ये गह्वरं तु समालिखेत् सप्तत्रयोदशैर् भागैः षड् लोप्याः षट्क्रमेण तु //
4.77 SK यथा चैवैकपार्श्वे तु द्वितीयम् एवम् एव हि एकं त्रीणि तथा पञ्च सप्त नव तथैव च //
4.78 SK एकादश तथाप्य् एवं त्रयोदशावसानतः पञ्चाशद् ऊनम् एकेन कर्तव्यं हि यथाविधि //
4.79 SK कामरूपाद् अकारादौ लिखेद् एवं क्रमेण तु स्वराः स्पर्शा यथावृत्त्या यावन् मध्यम् उपागताः //
4.80 SK ओड्डियानगतं देवि हंसाख्यं तु महात्मनम् क-षाख्यं मन्त्रराजानं संयोगेन तु जायते //
4.81 SK एवं न्यासे कृते देवि उद्धरेन् मालिनीं शुभाम् नादिफान्तक्रमेणैव यथा भवति तच् छृणु //
4.82 SK प-ध-मध्ये शिखा ज्ञेया अधःशिरव्यवस्थिता ए-पूर्वाक्षरचतुष्कं शिरोमाला निगद्यते //
4.83 SK ऐ-श-मध्ये शिरो देव्याः कारयेच् छुभलक्षणम् तृतीयं नयनं देव्या ङ-छ-मध्यगतं पुनः //
4.84 SK न-द-मध्यगतं ज्ञेयं द्विधाभूतं वरानने नयनौ च स्मृतौ देव्याः क्रमाद् दक्षिणवामगौ //
4.85 SK ट-पूर्वे नासिका ज्ञेया संसृष्टा चैव मध्यगा ढ-त-मध्यगतं गृह्य द्विरभ्यासपदेरितम् //
4.86 SK ठ-ड-पूर्वौ युतौ ऽधस्ताद् भूषणौ कर्णयोः स्मृतौ वामदक्षिणमार्गेण कर्णभूषस्थिताव् इह //
4.87 SK स-च-मध्यगतं वक्त्रं देव्याया वीरनायिके विसर्गान्त-ख-मध्यस्थं क-ग-मध्यगतं पुनः //
4.88 SK ख-पश्चिमं समुद्दिष्टं पश्चिमोत्तरम् एव च घ-च-मध्यगतं चैव उद्धरेद् अक्षरं शुभम् //
4.89 SK एते पञ्च स्मृता वर्णा देव्या दशनकल्पना ञ-पूर्वे रसना देव्या झ-ऊर्ध्वेन सरस्वती //
4.90 SK स-त-मध्यस्थितः कण्ठः म-छ-मध्यगतोद्धरेत् र-म-मध्यगतं तद्वद् अक्षरौ तु शुभात्मकौ //
4.91 SK शिखरौ तौ स्मृतौ भद्रे वामदक्षिणगौ शुभौ ऊ-ढ-मध्यगतं गृह्य ड-ण-मध्ये द्वितीयकम् //
4.92 SK वामदक्षिणगौ द्वौ तु बाहू देव्याः सुरार्चिते ट-ड-मध्यगतं चैव द्विधाभूतं तु कारयेत् //
4.93 SK करतलौ स्मृतौ देव्याः सव्यासव्यौ विजानतः ज-म-पूर्वौ तु अङ्गुल्यौ वामदक्षिणगौ शुभौ //
4.94 SK अं-क-मध्ये करपृष्ठे द्विधाभूतं प्रकल्पयेत् ञ-ठ-मध्यगतं गृह्य वामहस्ते प्रदापयेत् //
4.95 SK ऊर्ध्ववक्त्रकपालं तु अमृताख्येन पूरितम् दक्षिणे तु करे ज्ञेयं य-ढ-मध्ये तु दण्डकम् //
4.96 SK शूलस्य कथितं भद्रे उद्धारेण समुद्धृतम् अ-छ-मध्यगतं शूलम् उत्तानम् ऊर्ध्ववक्त्रगम् //
4.97 SK ज्ञातव्यं तु विपश्चिद्भिर् यथालक्षणलक्षितम् घ-न-मध्ये तु हृदयं देव्यायाः सर्वकामदम् //
4.98 SK म-ष-मध्यगतं गृह्य आत्मबीजं शिवात्मकम् विसर्गसहितं भद्रे उद्धृतं मन्त्रम् उत्तमम् //
4.99 SK य-स-मध्यगतं प्राणं देव्याया वीरनायिके ज-च-मध्यगतं गृह्य र-व-सन्धिगतं तथा //
4.100 SK वामदक्षिणगौ द्वौ तु अक्षरौ तौ स्तनात्मकौ झ-पूर्वे तु पयो ज्ञेयम् अमृतं च उदाहृतम् //
4.101 SK न-स-मध्यगतं गृह्य उदरम् उद्धृतं ऽनघे क-षाख्यं तत्त्वराजानं नाभिं देव्याः प्रकल्पयेत् //
4.102 SK भ-ञ-मध्यगतं देवि नितम्बं सकलात्मकम् व-ष-मध्यगतं गुह्यम् औ-पश्चिमसमन्वितम् //
4.103 SK ऊर्वाकारं भवेद् बीजं ण-थ-मध्यगतं ऽनघे ण-त-दक्षिणगौ बीजौ जानुनी द्वे प्रकल्पयेत् //
4.104 SK सव्यासव्यगतौ ज्ञेयौ क्रमेणैव शुभेक्षणे थ-द-दक्षिणगौ द्वौ तु जङ्घौ द्वे वामदक्षिणौ //
4.105 SK थ-द-मध्यगतं देवि प-ब-मध्यं तथैव च द्वौ बीजौ चोद्धृतौ भद्रे पादौ ज्ञेयौ विपश्चिता //
4.106 SK वामदक्षिणगौ प्रोक्तौ लक्षणेन समन्वितौ एवं सम्यग्विधानेन उद्धृता मालिनी प्रिये //
4.107 SK सप्त कोट्यस् तु विद्यानां मन्त्राणाम् अमितौजसाम् एषा ह्य् एका परा योनिर् मालिनी सर्वकामदा //
4.108 SK मालयित्वा स्थिता येन तेनैषा मालिनी स्मृता ये भूता ये भविष्यन्ति अप्रमेया वरानने //
4.109 SK रुद्राणां योगिनीनां च सा मातैव निगद्यते अवर्णा वर्णसंयोगा ज्ञातव्या तु शुभेक्षणे //
4.110 SK सर्वरुद्रात्मका मन्त्रा रुद्राः शक्त्यात्मकाः प्रिये शक्तिस् तु मातृका ज्ञेया सा ज्ञेया तु शिवात्मिका //
4.111 SK एवं मन्त्रप्रमाणं तु कथितं तव शोभने एतद् आद्यं समाख्यातं गोपनीयं प्रयत्नतः //
KubjT_4.111* SK एकवीरविधानं तु प्राग् उक्तम् अन्य आगमे //
433 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते मन्त्रनिर्णयगह्वरमालिन्युद्धारो नाम चतुर्थः पटलः
5.1 SK उमामाहेश्वरं चक्रं कथयामि सुनिश्चितम् पदं च पदभेदं च यो जानाति स सिध्यति //
5.2 SK ऐं नमो भगवते रुद्राय पदं चैव दशाक्षरम् नमश् चामुण्डे द्वितीयं स्यात् पञ्चाक्षरम् उदाहृतम् //
5.3 SK नमश् चाकाशमातॄणां पदम् अन्यत् तृतीयकम् अष्टाक्षरं समाख्यातं लक्षणेन विलक्षितम् //
5.4 SK सर्वकामार्थसाधकीनां पदं चैव चतुर्थकम् नवाक्षरम् इदं देवि पदं यत् समुदाहृतम् //
KubjT_5.5* SK अजरामरीणां पदं चात्र कथितं पञ्चगुणावहम् / अक्षराणां समासेन रससङ्ख्या उदाहृता //
KubjT_5.6* SK सर्वत्राप्रतिहतगतीनां पदं षष्ठं वरानने / दशाक्षरं समाख्यातं कथितं वीरनायिके //
KubjT_5.7* SK स्वरूपपररूपपरिवर्तनीनां पदं सप्तमकं भवेत् / अक्षराणां समासेन दशत्रितयम् उत्तमम् //
441 SK सर्वसत्त्व वशीकरणोच्छादनोन्मूलनसमस्तकर्मप्रवृत्तीनां पदं चाष्टमकं भवेत् |
5.8 SK अक्षराणां समासेन विंशच्चत्वारिसङ्ख्यया //
KubjT_5.9* SK सर्वमातृगुह्यहृदयपरमसिद्धं पदं तु नवमं भवेत् / अक्षराणां समासेन शक्रसङ्ख्या वरानने //
5.10 SK परकर्म तथा देवि छेदनकरं प्रकीर्तितम् सिद्धिकरं च एवात्र पदं चैव द्विपञ्चकम् //
5.11 SK अक्षराणां तथा सङ्ख्या एकत्र समुदाहृता द्विसप्तपरिमाणेन स्फुटम् एतत् कुलेश्वरि //
5.12 SK शृणु चान्यं वरारोहे मातॄणां वचनं शुभम् अक्षराणां प्रमाणेन द्विचतुष्कं वरानने //
5.13 SK एकादशमम् एतद् धि पदं सर्वगुणावहम् तद् यथेति समारभ्य द्वितीयं शोभनं प्रिये //
5.14 SK ब्रह्माणीति पदं पूर्वं माहेश्वरी द्वितीयकम् कौमारीति तृतीयं स्याद् वैष्णव्या तु चतुर्थकम् //
5.15 SK वाराह्या पञ्चमं ज्ञेयम् ऐन्द्री षष्ठमकं भवेत् ऐशानी सप्तमं प्रोक्तम् आग्नेयी चाष्टमं प्रिये //
5.16 SK एवमाद्याः स्थिता देव्यः कथितास् तव शोभने अघोरे अमोघे वरदे विच्चे वै वचनं शुभम् //
5.17 SK सर्वासां चैव मातॄणां स्वाहाप्रणवसंयुतम् ऐं चामुण्डे पदं पूर्वम् ऊर्ध्वकेशि द्वितीयकम् //
5.18 SK ज्वलितशिखे तृतीयं तु विद्युज्जिह्वे चतुर्थकम् तारकाक्षि तथा देवि पञ्चमं परिकीर्तितम् //
5.19 SK पिङ्गलभ्रुवे नामेन षष्ठमं तु सुलोचने विकृतदंष्ट्रे पदं ह्य् एतत् सप्तमं परिकीर्तितम् //
KubjT_5.20* SK क्रुद्धे ति च तथा चान्यम् अष्टमं शुभलक्षणम् / मांसशोणितसुरासवप्रिये नवमं दशमं तु हसद्वयम् //
5.21 SK नृत्यद्वयं तथा चोक्तं दश-म्-एकं तु सुव्रते विजृम्भ च तथा युग्मं दशद्वे च प्रकाशितम् //
5.22 SK मायात्रैलोक्यरूपेति दशत्रितयम् उत्तमम् सहस्रपरिवर्तनीनां द्विसप्तमं परमेश्वरि //
5.23 SK नुदयुग्मं त्रिपञ्चैव कूटयुग्मं द्विरष्टकम् चिरियुग्मं तथा भद्रे दशसप्त च एकतः //
5.24 SK हिरिद्वितयम् एकत्र दश-अष्ट शुभेक्षणे भिरि चैव द्विरभ्यासाद् विंश-म्-एकोनसङ्ख्यया //
5.25 SK त्रासनिद्वितयं चैव पदं विंशमकं भवेत् भ्रामणियुग्मम् एतद् धि विंश-म्-एकं तु उत्तमम् //
5.26 SK विद्रावणि द्विरभ्यासाद् विंशद्वयं तथानघे क्षोभणीति द्विरभ्यासाद् विंशत्रिकम् उदाहृतम् //
5.27 SK मारणिद्वितयं चैव विंशचत्वारिसङ्ख्यया सञ्जीवनिपदे द्वे तु पञ्चविंशपदं प्रिये //
5.28 SK हेरियुग्मं स्मृतं भद्रे षड्विंशकम् अनुत्तमम् गेरियुग्मं तथा प्रोक्तं सप्तविंशतिमं पदम् //
5.29 SK घुरि चैव द्विरभ्यासाद् अष्टाविंश वरानने घुरिलेति तथाप्य् एवम् ऊनत्रिंशम् उदाहृतम् //
5.30 SK नमो मातृगणायेति त्रिंशकं कथितं स्फुटम् नमो नमः ऐं विच्चे स्वाहा त्रिंशम् एकोत्तरं पदम् //
5.31 SK समस्तपदसंयोगात् परिमाणं शतार्धकम् वर्णानां च शते द्वे तु द्वानवत्या वरानने //
5.32 SK अधिकं कथितं भद्रे मातॄणां नामवर्जितम् पदभेदस् तु विद्याया ज्ञातव्यः साधकेन तु //
5.33 SK प्रयत्नेन वरारोहे तन्त्राम्नायप्रपालकः सकृद् उच्चारिता विद्या समयज्ञो भवत्य् असौ //
5.34 SK पञ्चप्रणव-म्-उद्धारं यथा त्वं गह्वरे शृणु ए-ओ-मध्ये समुद्धृत्य बिन्दुनाद-म्-अलङ्कृतम् //
5.35 SK भगाख्यं प्रथमं बीजम् उद्धृतं परमाक्षरम् व-ष-मध्यगतं गृह्य ण-ट-मध्यासने स्थितम् //
5.36 SK इ-उ-मध्येन सम्भिन्नम् अः-औ-मध्य-म्-अलङ्कृतम् द्वितीयं कथितं देवि तृतीयं व-म-मध्यगम् //
5.37 SK ठ-ल-मध्यासनासीनं चतुर्थस्वरभेदितम् बिन्दुना मस्तकाक्रान्तं न-च-मध्ये चतुर्थकम् //
5.38 SK ई-त-मध्ये समारुद्धम् ऐ-पूर्वेण विभेदितम् बिन्दुनादसमाक्रान्तं चतुर्थं प्रणवं भवेत् //
5.39 SK पञ्चमं य-स-मध्यस्थं ब-ह-मध्यासने स्थितम् अं-पूर्वेण समायुक्तम् औ-पश्चिमविभूटितम् //
5.40 SK अर्धचन्द्रान्वितं कृत्वा बिन्दुनादयुतं कुरु पञ्चप्रणव-म्-उद्धारं रहस्यं कथितं तव //
5.41 SK मन्त्राणां दीपकं देवि यथाकर्मणि योजयेत् विद्यायास् तु प्रसङ्गेन पञ्चप्रणवम् उद्धृतम् //
5.42 SK साम्प्रतं शृणु कल्याणि विद्यामाहात्म्यम् उत्तमम् सेवनाज् जपहोमाद् वा ध्यानाच् च क्रमशो भवेत् //
5.43 SK षण्मासाच् चोत्पतेद् देवि सत् यम् एतद् उदाहृतम् कृत्वा साम्राटजान् दोषान् उच्चारात् कल्मषापहम् //
5.44 SK देवद्रोहे गुरुद्रोहे कोटित्रिंशैः स शुध्यति छेदने पुष्पपत्त्राणाम् आवर्ताच् छुध्यते तु सः //
5.45 SK सन्ध्यालोपे कृते देवि त्रिरावर्तेण शुध्यति आह्निकच्छेदसञ्जाते शतम् एकम् उदीरयेत् //
5.46 SK लङ्घने समयानां च अभक्ष्यस्य तु भक्षणे अवाच्यवाचिते देवि सहस्राच् छुद्धिर् इष्यते //
5.47 SK काकोलूककपोतानां पक्षिणां घातने कृते सहस्रैर् द्विभिः शुध्येत सत्यं सत्यं न संशयः //
5.48 SK छागमेष तथान्यानि मृगजम्बूक ऋक्षयोः शुद्धिस् त्रिसहस्राद् देवि यथा भैरव-म्-अब्रवीत् //
5.49 SK सर्पमार्जारहन्तारो दुन्दुभोमत्स्यघातकः चतुर्भिश् च सहस्रैर् हि शीघ्रं शुद्धिम् अवाप्नुयात् //
5.50 SK श्वसूकरनकुलादि मूषकश् चाथ वापि वा पञ्चभिः शुद्धिर् इष्येत सहस्रैस् तु कुलान्वये //
5.51 SK गवां हत्वा प्रशुध्येत दशलक्षैस् तु सङ्ख्यया ब्राह्मणस् तु यदा देवि प्रमादाद् घातितो बुधैः //
5.52 SK लक्षैर् विंशति शुध्येत नक्ताशी तु जितेन्द्रियः बौद्धारहन्तहन्ता च द्विजाद् द्विगुण शुध्यति //
5.53 SK लाकुला मौषलाश् चैव ये चान्ये लातपाणयः हत्वा शुद्धिम् अवाप्नोति कोटित्रयजपेन तु //
5.54 SK गुरुं हत्वा पञ्च कोट्यः शुध्यते तु प्रमादतः स्त्रियो घाती दुराचारो दश कोट्यो जपेत् प्रिये //
5.55 SK नक्ताशी शुद्धिम् आप्नोति क्षेत्रपीठान् भ्रमेद् यदि अन्येषां वर्णजातीनाम् अधमोत्तममध्यमाः //
5.56 SK लक्षैस् तु भवते शुद्धिर् द्वित्रिचत्वारिसङ्ख्यया एकाद् एकोन कर्तव्यं वर्णाणां च क्रमेण तु //
5.57 SK निन्दते योगिनीं यस् तु शिवभक्तांश् च निन्दति शास्त्राणि दूषयेद् यस् तु स्त्रियम् आकोटयेति च //
5.58 SK क्रोषन्ति कन्यका देवि सहस्राच् छुद्धिर् इष्यते वामदक्षिणसिद्धान्ते शिवव्रतधरो हतः //
5.59 SK कोटिचतुर्भिर् देवेशि शुध्यते जपतत्परः यः पुनस् तत्त्ववेत्ता च षोढान्यासविशारदः //
5.60 SK स्मरणाच् छुद्धिर् इष्येत तथ्यं भैरव-म्-अब्रवीत् क्रोधेन तु यदा देवि उच्चैःशब्दप्रलापितम् //
5.61 SK त्रिवारावर्तयेद् विद्यां शान्तिम् आशु प्रयच्छति कृते कर्मणि बालानां लूताचिपिटगण्डयोः //
5.62 SK ज्वरग्रहविषादिभ्यः ओषधाख्यापनाय च पञ्चावर्ताद् विशुध्येत अन्वयी यस् तु शासने //
5.63 SK यः पुनः क्रमवेत्ता च शुद्धाशुद्धैर् न बाध्यते देशिकं पुत्रकं वापि साधकं समयज्ञकम् //
5.64 SK प्रमादान् निन्दते यस् तु दशावर्ताद् विशुध्यति अलिं जुगुप्सयेद् यस् तु फल्गुषं वा यदि प्रिये //
5.65 SK एकोच्चारेण शुध्येत अन्नं वा यज् जुगुप्सते कन्दुकं मल्लकोषाढ्या छिप्पकं चर्मकारकम् //
5.66 SK ध्वजं सूनाकरं वापि मत्स्यघातं तु लुब्धकम् कोङ्कणं चीनबाह्लीकं वङ्गालं कामरूपकम् //
5.67 SK मागधं सैन्धवं वापि गुज्जरं लाटसंज्ञकम् अन्ये ऽपि देशमध्यस्था वनवासान्त्यजातयः //
5.68 SK वेश्यादिक्रमशः सर्वे निन्दनाच् छुद्धिर् इष्यते त्रिरावर्तेण देवेशि अकामात् कामतो ऽपि वा //
5.69 SK कामतो द्विगुणं देवि कर्तव्यं सिद्धिम् इच्छता त्रिखण्डा यादृशं प्रोक्तं प्रायश्चित्तं कुलान्वये //
5.70 SK द्वात्रिंशाक्षरया तद्वत् कर्तव्यं तत्त्ववेदिभिः एते निरोधरूपास् तु साधकानां प्रकाशिताः //
5.71 SK तदर्थे कथिता विद्या येन सिध्यन्ति साधकाः श्रेयार्थिनां मयाख्याता मद्भक्ताः कृतनिश्चयाः //
5.72 SK अन्येषां न कदाचित् स्याल् लौल्यार्थे ये स्थितानघे इयं विद्या समाख्याता उपयोगाद् वरानने //
5.73 SK साम्प्रतं पदभेदस् तु यथा योज्यस् तु भैरवि तथा ते कथयिष्यामि तच् छृणुष्व समासतः //
5.74 SK या विद्या कथिता पूर्वं नादिफान्तक्रमेण तु तच्छरीरगता वर्णाः पञ्चप्रणवभेदिताह् //
5.75 SK पञ्चयोन्याः स्वरूपेण वर्णम् एकैकसङ्ख्यया भैरवः शब्दराशिस् तु आदिक्षान्तक्रमेण तु //
5.76 SK ते वर्णाः पञ्चप्रणवैः सम्पुटे[च्] च पृथक् पृथक् आदिक्षान्तक्रमेणैव नियोजनम् उदाहृतम् //
5.77 SK द्वाभ्यां तु ग्रथनं कार्यं समस्तस्यापि शोभने सप्त वर्णान् ददेच् चादौ मध्ये विद्यापदं ददेत् //
5.78 SK पुनः सप्त पदस्यान्ते तस्यान्ते तु पदं पुनः पुनः सप्तकम् उच्चार्य पदं च तदनन्तरम् //
5.79 SK अनेन क्रमयोगेन निर्वाहेन तु योजयेत् क्षान्तं वै याव देवेशि तावद् एव नियोजयेत् //
5.80 SK पदसङ्ख्या समस्तस्य निर्वाहोभयदीपिते मालिनी द्वादशैर् भेदैः शब्दराशिस् तु षोडशैः //
5.81 SK अनेन क्रमशः सर्वे वर्णाश् चैव पृथक् पृथक् चलचक्रविभागेन पदविद्यां यदा यजेत् //
5.82 SK तदा क्षोभं करोत्य् आशु दिव्यादिव्येतरं प्रिये योनयः पञ्चधा यास् तु सर्वाः क्लिद्यन्ति नान्यथा //
5.83 SK द्रावणं क्षोभणं मोहं जृम्भणं शोषणं तथा सर्वान् तान् कुरुते देवि यदा शक्तिसमो भवेत् //
5.84 SK प्रसुप्तभुजगाकारा द्वादशान्ते वरानने नाभिष्ठा तु तथाप्य् एवं द्रष्टव्या परमेश्वरि //
5.85 SK दृश्यते देहमध्ये तु व्योमान्ते च परापरा तस्याग्रे तु ततो मन्त्रं हुताशकणिकाकृतिम् //
5.86 SK उच्चारेत ततो मन्त्रं शब्दरूपं हृदि प्रिये शब्दान्ते शक्तिर् उच्चार्या ईषन्मन्दगमारुता //
5.87 SK पद्मसूत्रनिभाकारा उच्चार्या सानुनासिका उच्चारान्तावसाने तु ज्ञातव्यालातचक्रवत् //
5.88 SK तत्र मध्यगतं देवि चैतन्यं मन्त्रसंयुतम् प्रस्फुरत्किरणानेकैः कोटिशो दिक्ष्व् अवस्थितैः //
5.89 SK तस्याप्य् अन्ते ततो देवि शक्तिर् आद्या मनोन्मनी अतीता तु यदा सा वै तदा बिन्द्वी उदाहृता //
5.90 SK बिन्द्वन्ते व्यापको देवो मायातीतो निरामयः स शिवो भावनातीतो निर्गुणो गुणसम्भवः //
5.91 SK अधिकारी सर्वकारी च शक्त्यातीतो महाप्रभुः अनेन क्रमयोगेन क्रमः कार्यः सुनिश्चितैः //
5.92 SK आत्मा मनश् च मन्त्रश् च शिवः शक्तिस् तथैव च एकीभावगतो देवि ज्ञातव्यः सिद्धिम् ईहकैः //
5.93 SK तस्मात् प्राणसमं जाप्यं मन्त्रान्ते नादगोचरे नादस्यान्ते ततो ज्ञात्वा एतत् स्मरणम् उच्यते //
5.94 SK स्मरणं शक्तिर् उद्दिष्टा या करोति गमागमम् तस्यान्ते तु परा सूक्ष्मा सा कला अमृतात्मिका //
5.95 SK लयातीता अरूपा तु स्वयंवेद्याविचारतः न तस्य लक्षणं देवि न लक्षो नैव योजना //
5.96 SK न क्षयो नैव वृद्धिश् च शुक्लकृष्णौ न चैव हि न रात्रिर् न दिनं चैव न सन्ध्या अयनं तथा //
5.97 SK विषुवं नैव देवेशि सङ्क्रान्तिर् नैव विद्यते सर्वावस्थगतिं ज्ञात्वा विज्ञानम् उपजायते //
5.98 SK एतत् कौलिकम् आख्यातम् उमामाहेश्वरं प्रिये उत्पतेत न सन्देहो लक्षजापाच् चलस्य तु //
5.99 SK चला शक्तिः समाख्याता लक्षणेन उदाहृता अवर्णा वर्णसंयोगा मालिनी सा उदाहृता //
5.100 SK पदभेदगता ह्य् एका असङ्ख्याता वरानने एवं तद्ग्रह-म्-आख्यातः सद्यःप्रत्ययकारकः //
5.101 SK न कस्यचिन् मयाख्यातम् उमामाहेश्वरं प्रिये सततं जपते यस् तु योगिनीवल्लभो भवेत् //
5.102 SK षण्मासाच् छुध्यते देवि ब्रह्मघ्नो ऽपि न संशयः पश्यते विरजां शान्तां ज्योतिरूपां महाद्युतिम् //
5.103 SK जपस्य लक्षणं देवि इदानीं शृणु साम्प्रतम् एकोच्चारशतान्ते तु परावस्था तु गीयते //
5.104 SK शतभेदः समाख्यातस् तद्गुणो दश एव तु सहस्रभेदम् इत्य् उक्तं लक्षः शतगुणः स्मृतः //
5.105 SK कोटिभेदः शतानां तु लक्षाणां वरवर्णिनि एतज् जपविधानं तु कथितं तव शोभने //
5.106 SK मुक्तकः शतभेदेन युक्तं शतगुणं शतम् चलचक्रविभागेन लक्षभेदम् उदाहृतम् //
5.107 SK चलचक्रं यदा देवि कोटिभेदो वरानने बाह्यतः कथितो भद्रे अध्यात्मिकम् अतः शृणु //
5.108 SK उद्भवे शतभेदस् तु सहस्रो विश्लेषके विदुः लये तु लक्षभेदो वै लयातीते तु कोटयः //
5.109 SK वामा ज्येष्ठा तथा रौद्री बिन्द्वी च समुदाहृता इच्छा ज्ञानी क्रिया शान्ता क्रमेणैव सुरार्चिते //
5.110 SK आत्मचारगतिं ज्ञात्वा जपः कार्यः सदा बुधैः अनेनैवाक्षसूत्रेण लक्षलक्षणलक्षिते //
5.111 SK कर्तव्यो हि जपो नित्यं सर्वशास्त्रविशारदैः भुवनाख्ये वरारोहे शक्त्याख्ये तु तथैव हि //
5.112 SK चारोच्चारविभागेन जपः श्रेष्ठ उदाहृतः माला पञ्चाशिका प्रोक्ता सूत्रं शक्तिः शिवात्मिका //
5.113 SK ग्रथनं कुण्डली शक्तिर् लयान्ते मेरुसंस्थितम् एतद् गुप्ततरं कार्यम् अक्षसूत्रं शिवात्मकम् //
KubjT_5.114* SK प्रकटं नैव कर्तव्यं न मेरुं लङ्घयेत् क्वचित् / शङ्खस्फटिकरुद्राक्षपुत्रञ् जीवकरिष्टकाः //
5.115 SK एवमाद्याः स्मृता ये तु मणिमाला वरानने न तत्र विद्यते देवो न मन्त्रो नैव चेतना //
5.116 SK यत्र यत्र स्थिता माला न दोषो विद्यते प्रिये मन्त्रन्यासे कृते देवि किल गोप्यं तु कारयेत् //
5.117 SK शरीरं कुत्र गोप्यं तु कारयीत वरानने मन्त्रन्यासे कृते ह्य् आत्मा सकलीकृतविग्रहः //
5.118 SK यथा गोप्यं न युञ्जेत तद्वच् चैवाक्षमालिका अक्षं चेन्द्रियम् इत्य् उक्तं सूत्रं कुण्डलिनी स्मृता //
5.119 SK लक्षं तु सा परा सूक्ष्मा कला ह्य् अमृतवाहिनी संयोगकारिणी व्योम्नि तेन सूत्रेति कीर्तिता //
5.120 SK सङ्ख्याग्रहणकार्येषु सा चोक्ता अक्षमालिका शङ्खाद्यास् तु वरारोहे जपकर्मणि शस्यते //
5.121 SK शङ्खजं तु श्रियाकामः स्फाटिकं मुक्तिहेतवे पद्माक्षा पद्मजा प्रोक्ता श्रियापुष्टिकरा प्रिये //
5.122 SK रुद्राक्षैः सिद्धिम् आप्नोति यच् चान्यं खेचरीपदम् जीवका सर्वदा ज्ञेया गोपुच्छाग्रथितानघे //
5.123 SK विद्रुमा वश्यकार्येषु मौक्तिका सर्वकामदा अन्यानि तु स्मृता ये वै रत्नजा परमेश्वरि //
5.124 SK सर्वदा ते समुद्दिष्टा नात्र कार्यविचारणात् रिष्टकाक्षास्थिजा माला अभिचारे प्रशस्यते //
5.125 SK नागवङ्गस् तथा लोहा मिश्राश् चान्ये ऽपि ये स्मृताः मारणे तां प्रशस्येत स्तम्भने मोहने तथा //
5.126 SK कम्पने ध्वंसने देवि कर्तव्या चाभिचारके एवम् अन्ये ऽपि ये प्रोक्तास् तेषां श्रेष्ठा तु शङ्खजा //
5.127 SK प्रशस्ता सर्वकार्येषु जपकर्मणि शस्यते शङ्खावर्ता तु या नाडी शिखान्ते तु व्यवस्थिता //
5.128 SK तेन शङ्खमयं प्रोक्तम् अक्षसूत्रं सुराधिपे स्फुटते मस्तके या सा द्विधा चैव विसर्पिणी //
5.129 SK स्फाटिकं तेन चोद्दिष्टं गुरुवक्त्रे प्रतिष्ठितम् रौद्रीभाव[ः] स्मृतो रुद्रस् ताल्वग्रे च व्यवस्थितः //
5.130 SK शब्दस्पर्शरसो रूपं गन्धतन्मात्रसंयुतम् विकारित्वे प्रवर्तेत निरोधाल् लक्षम् एव च //
5.131 SK तेन रुद्राक्षमालाया जपः श्रेष्ठ उदाहृतः पुत्रवद् उदरे कृत्वा प्रसुप्तामृतकुण्डली //
5.132 SK तया नीयत्य् असौ जीव अधश् चोर्ध्वेन भाविनि पुत्रञ्जीवकसंज्ञा तु तेनैषा समुदाहृता //
5.133 SK अरिष्टानि अनेकानि सुखदुःखात्मिकानि तु भुञ्जते सततं देवि अर्जितं यत् पुरा धनम् //
5.134 SK अरिष्टाख्या स्मृता माला अप्रमेया भवान्तरे हृत्पद्मे संस्थिता नित्यम् अक्षराणां प्रबोधिका //
5.135 SK पद्माक्षमाला सा प्रोक्ता शास्त्रे शास्त्रे वरानने एवमाद्याः स्मृता ये तु पर्याया अक्षमालया //
5.136 SK ते सर्वे आत्मनश् चैव कथिताश् च कुलेश्वरि अक्षसूत्रविधिः ख्यातः सम्यक् कौलिकवेदिनाम् //
5.137 SK साम्प्रतं न्यासम् आख्यामि शृणु तत्त्वेन शोभने स्वाभाविकं चलं दीप्तं स्थिरं द्रवनभोयुतम् //
5.138 SK न्यासमात्रं समाख्यातं षोढाद्वादशभेदतः षोढा शक्तिः समाख्याता परा चैवाक्षरा शुभा //
5.139 SK कुण्डली नाभिदेशस्था परा सा व्योमरूपिणी एका एव परा सूक्ष्मा अक्षया तेजरूपिणी //
5.140 SK ज्ञातव्या सा परा देवी षड्वर्णरहिता कला ब्रह्मस्थानगता सूक्ष्मा स्वाभाविकम् उदाहृता //
5.141 SK विष्णुस्थाने चला प्रोक्ता दीप्ता रुद्रपदे स्मृता ईश्वरे स्थिरसंज्ञा तु सदाख्ये द्रवसम्भवा //
5.142 SK शक्तिस्था व्योमरूपा तु ज्ञातव्या तत्त्ववेदिभिः अणिमादिगुणाधारा षड्गुणा गुणबोधनी //
5.143 SK व्यापिनी व्योमरूपा च अनन्तानाथनाश्रिता संयोक्त्री च वियोक्त्री च सद्भावगुणसंस्थिता //
5.144 SK एका एव परा शक्तिः संस्थिता कृत्यभेदतः कृत्यभेदेन भेदो ऽस्या न भेदः परमार्थतः //
5.145 SK एवं न्यासे कृते देवि अन्तरङ्गे प्रवर्तते बहिरङ्गे वर्णरूपा च एका चैव अनेकधा //
5.146 SK षोढाद्वादशभेदेन न्यासः प्रोक्तो गमागमे //
581 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते बृहत्समयोद्धारः शब्दराशिमालिनीतद्ग्रहव्याप्तिनिर्णयो नाम पञ्चमः पटलः
6.1 SK जपस्य लक्षणं देव पूर्वं हि कथितं त्वया एकोच्चारशतं ज्ञेयं सहस्रं लक्षम् एव च //
6.2 SK कोटयस् तु तथा शम्भो पृथग्लक्षणलक्षिताः न मे ज्ञातं प्रमाणं तु जपस्य सुरनायक //
6.3 SK तद् अहं श्रोतुम् इच्छामि मन्दबुद्ध्याल्पचेतसा //
6.4 SK या सा कुण्डलिनी शक्तिस् चिद्रूपा च परा कला आद्या शक्तिर् महेशस्य अणुमात्रा हृदि स्थिता //
6.5 SK सा अणु[ः ] कथिता तन्त्रे द्वे अणू त्रुटिम् आश्रिता त्रुटिभूता तु सा देवी जप्तव्या तु परापरा //
6.6 SK वर्णहीना परा प्रोक्ता अपरा वर्णरूपिणी एवं ज्ञात्वा वरारोहे जपः कार्यः सदा बुधैः //
6.7 SK त्रुटिरूपा तु सा देवी तदाधारे व्यवस्थिता कलते प्राणगा नित्यं दशस्थाने ह्य् अनुक्रमात् //
6.8 SK ब्रह्मा विष्णुस् तथा रुद्र ईश्वरो ऽथ सदाशिवः कुण्डली व्यापिनी चैव प्रशान्ता विषुवत् तथा //
6.9 SK शक्तिस्थानं तु देवेशि एते स्थाना दश स्मृताः येषां सञ्चरते देवः शिवः परमकारणः //
6.10 SK ऊर्ध्वे वा यदि वा तिर्यक् स्वस्थाने वा सुरेश्वरि प्रस्फुरेत कलैर् युक्ता दशभिस् तु महाबलैः //
6.11 SK दशधा कलनं तेन कथितं तव शोभने प्रयत्नेन कृतोच्चारं यावच् छक्तिर् लयं गता //
6.12 SK तावद् देवि शतं प्रोक्तं वर्णोच्चारे न संशयः स्वाभाविकम् अनुच्चार्य सूक्ष्माधारो जगत्पतिः //
6.13 SK शतधा कलनं तस्य त्रुटिरूपस्य योगिनः सहस्रं तु समुद्दिष्टं दशधा परमेश्वरि //
6.14 SK उभयस्य परित्यागाद् कलाधारः सदाशिवः१ दृक्क्रियाज्ञाननिर्मुक्तः कलते च सहस्रधा //
6.15 SK लक्षभेदः समुद्दिष्ट इति शास्त्रे न संशयः जपो ह्य् एवं समुद्दिष्टो योगिनां तत्त्ववेदिनाम् //
6.16 SK लक्षातीतो मनातीतो निर्मुक्तस् तत्त्वबन्धनैः उन्मनत्वे सदा लीनो अणुरूपो नकिञ्चनः //
6.17 SK सत्तामात्रस्थितो देही गुणानां प्रतिबोधकः विषयभावनिर्मुक्तः कलते लक्षधा प्रिये //
6.18 SK कोटिस् तु भवते ह्य् एवं ज्ञातव्यं मन्त्रवादिभिः सोच्चारोपांशुभूतस् तु मानसो मनवर्जितः //
6.19 SK जपः पूर्वं समाख्यातः शास्त्रे शास्त्रे सुरार्चिते सशब्दोच्चारयोगेन शुद्ध्यर्थे कथितं स्फुटम् //
6.20 SK सिद्ध्यर्थे ऽपांशुर् उद्दिष्टः स्वप्रवृत्तो हृदि स्थितः मानसो योगहेत्वर्थे उभयत्र विवर्जितः //
6.21 SK मनातीतो भवेद् देवि मोक्षदस् तु न संशयः एवं देवि समाख्यातो जपः प्राणसमस् तव //
6.22 SK जपः प्राणसमः कार्यो दृष्टादृष्टफलार्थिनाम् अवर्णा वर्णसंयोगा मया ते समुदाहृता //
6.23 SK निरालम्बे महाशून्ये यत् तेजम् उपजायते तद्गर्भे अभ्यसेन् नित्यं भाग्यहीनो ऽपि सिध्यति //
6.24 SK योगमूली विशुद्धी च सार्णवे सा च एकता एकत्र संस्थितानन्दं कुलरत्नं त्रिधा प्रिये //
6.25 SK मुद्रा तु सूचिता नाथ न मे ज्ञाता महाप्रभो तन् ममाचक्ष्व देवेशि येन भ्रान्तिर् विनश्यति //
6.26 SK पातालोर्ध्वगतं यच् च शृङ्गाटपुरमध्यगम् गोलाकारं ततो देवि रन्ध्रस्योर्ध्वगतं प्रिये //
6.27 SK चक्रद्वयम् इदं प्रोक्तं प्राधान्येन व्यवस्थितम् वेधघट्टनिरोधं च उच्चाराकृष्टिकारकम् //
6.28 SK स्तोभस्तम्भनम् आवेशो गमं चैवात्र सुव्रते एतद्विरहितो मन्त्री हास्यतां याति निश्चितम् //
6.29 SK अनेन ज्ञातमात्रेण प्रत्ययान् कुरुते बहून् वृत्तिराजा वरारोहे निवेश्य चक्रमध्यतः //
6.30 SK वृत्तिहीनस् ततस् तत्र काव्यकर्ता न संशयः चक्रमध्ये च सञ्चिन्त्य सुशुक्लां च परापराम् //
6.31 SK पुस्तकव्यग्रहस्तां च ज्ञानमुद्राधरां तथा स्फाटिकेनाक्षसूत्रेण सर्वाभरणभूषिताम् //
6.32 SK स्रग्दामलम्बितगलां प्रभामण्डलमण्डिताम् द्विबाहु-र्-एकवदनां चन्द्रकोटिसमप्रभाम् //
6.33 SK उद्गिरन्ती[ ं ] महौघेन शास्त्रकोटीर् अनेकशः एवं ध्यानसमाविष्टः साक्षाद् वागीश्वरो भवेत् //
6.34 SK संस्कृतं प्राकृतं चैव वेदसिद्धान्तगह्वरम् ग्रन्थतश् चार्थतश् चैव उद्गिरेन् नात्र संशयः //
6.35 SK पीठमध्यगताभ्यासात् पीठद्वारे ऽथवा प्रिये सम्प्रदायम् इदं कौलं शाक्तं शक्तिपदानुगम् //
6.36 SK मात्रायोगेन देवेशि मुद्राबन्धं तु कारयेत् सा मात्रा गीयते चात्र उच्चारवशवर्तिनी //
6.37 SK उच्चरं सहजं देवि देहमध्ये व्यवस्थितम् शतसङ्ख्याप्रमाणेन यावद् उच्चरते पराम् //
6.38 SK तावद् आविष्टदेहस् तु शास्त्रार्थं वदते सुधीः नित्यारूपेण सैवात्र ध्यायेद् रक्तसमप्रभाम् //
6.39 SK लाक्षालक्तकसङ्काशां चतुर्वक्त्रां चतुर्भुजाम् मूर्तित्रयसमोपेतां त्रिभिर् भेदैर् व्यवस्थिताम् //
6.40 SK त्रिस्थां त्रिमार्गगां देवीं त्रिनाडीसमतां गताम् नित्यक्लिन्नां च देवेशि तथा चैव मदद्रवाम् //
6.41 SK देव्यारूपधरां सर्वाम् एकवक्त्रां द्विबाहुकाम् पाशाङ्कुशधरां सर्वां मदविभ्रान्तलोचनाम् //
6.42 SK यौवनस्थां मदोन्मत्तां मदिरानन्दनन्दिताम् स्मरेद् देव्याः स्वरूपं तु तत्प्रयोगव्यवस्थया //
6.43 SK तडित्सहस्रबन्धूकदाडिमीकुसुमद्युतिम् पञ्चशृङ्गाटकाधारां सा परा पररूपिणी //
6.44 SK महायोगविलासा तु शिवाद्यवनिगोचरम् व्यापयित्वा स्थिता देवी रविनक्षत्रमण्डलम् //
6.45 SK शृङ्गाटकं चोर्ध्वमुखं तिर्यग्रेखाग्रमूलगम् शिखोर्ध्वकुण्डलाकारं कामशक्ति-र्-अधिस्थितम् //
6.46 SK पञ्चशृङ्गाटकासीनं स्थितं तत्र वरानने देव्यारूपधरं चक्रं ध्यायेद् एवं न संशयः //
6.47 SK एष बन्धस् तु मुद्रायाः कथितस् ते कुलेश्वरि त्रितत्त्वेन तु मन्त्रेण वक्ष्यमानेन कारयेत् //
6.48 SK द्रावणं क्षोभणं चैव आकर्षवशम् एव च पूजाविधानं देवेशि देव्याया वीरवन्दिते //
6.49 SK त्रिशिखा पद्ममुद्रा च योनिमुद्रा विशेषतः तासां लक्षणम् आख्याहि यथावत् स्फुटतो वद //
6.50 SK मुद्राणां लक्षणं देवि कथयामि समासतः हस्ताभ्यां कारयेद् आदौ सम्पुटं चोर्ध्वदिङ्मुखम् //
6.51 SK अङ्गुल्या ग्रथयेत् सर्वाः संश्लिष्टम् उभयेष्व् अपि तर्जन्यानामिकौ कुञ्च्य संश्लिष्टौ मध्यसंस्थितौ //
6.52 SK ताभ्यां मूले मुखं कार्यं तर्जन्याया वरानने संश्लिष्टौ सम्मुखौ द्वौ तु मध्यमौ ऊर्ध्वदिङ्मुखौ //
6.53 SK संयोगेन वरारोहे अङ्गुष्ठौ च कनिष्ठकौ तादृशीव हि कर्तव्या त्रिशिखा तु विधीयते //
6.54 SK कराभ्यां सम्पुटं कार्यं मणिबन्धौ तु संहतौ अग्राङ्गुल्या प्रसार्येत अङ्गुष्ठौ मध्यसंस्थितौ //
6.55 SK पद्ममुद्रा समाख्याता योनिमुद्राम् अतः शृणु हस्ताभ्यां सम्पुटं कार्यं कनिष्ठा मध्य योजयेत् //
6.56 SK पुटाकारौ करौ कृत्वा अङ्गुष्ठौ मध्यसंस्थितौ निःसृता वामहस्तस्य अङ्गुल्या तु कनीयसी //
6.57 SK योनिमुद्रा स्मृता भद्रे सर्वेषां क्षोभकारिका एता मुद्राः समाख्याता ध्यानपूजाविसर्जने //
6.58 SK साम्प्रतं खेचरीणां तु यथा मुद्रा खगाधिपे कथयामि समासेन त्वत्प्रीत्या खगगामिनी //
6.59 SK अनामा कर्णिके योज्या षोडशारं तु पीडयेत् पीडनाद् ऋजुतां याति खगमार्गे तु भाविनि //
6.60 SK फादिनान्तगते लक्षे खगतिश् च न संशयः षट्पत्त्रं मूर्ध्नितः कृत्वा तर्जन्याग्रे तु योजयेत् //
6.61 SK शून्ये शून्यमनो भूत्वा सम्पीड्येत परस्परम् षट्पत्त्रं तु विकाश्येत उदानप्रेरितेन तु //
6.62 SK भावयेन् नादिफान्तं तु खगतीति न संशयः द्वादशारोर्ध्वनालेन लम्बिकान्ते निवेशयेत् //
6.63 SK भेदनं कुञ्चितेनैव चार्गलं कूर्मसंयुतम् भावयेन् नादिफान्तं तु खगतिं वीरवन्दिते //
6.64 SK पद्ममुद्रा त्रिधा प्रोक्ता योनिमुद्राम् अतः शृणु योनिं योनौ समाक्रम्य मुद्गरेण तु भेदनम् //
6.65 SK विसर्गद्वयसंयोगात् खगगामी भवेद् ध्रुवम् अमृताख्या परा योनिर् भावयेन् मस्तकोपरि //
6.66 SK आक्रम्य गन्धमार्गं तु योजना नादिफान्तगा खगतिर् भवते-द्-एवं योनिमार्गे विचक्षणः //
6.67 SK उच्चार्य वामशक्तिं तु सन्धयेद् ग्रन्थिमध्यतः विक्षेपम् ऊर्ध्वतः कृत्वा परे योनौ तु भावना //
6.68 SK अनेन खगगामित्वं भवते तु न संशयः योनिमुद्रा समाख्याता त्रिभेदा परिकीर्तिता //
6.69 SK त्रिशिखालक्षणं देवि कथ्यमानं निबोधत कराभ्यां चैव तर्जन्यां पीडयेत् तत् प्रयत्नतः //
6.70 SK ब्रह्मनाड्या द्विरभ्यासाद् आसनं मन्दरस्य तु त्रिशिखा नाम मुद्रेयम् अर्पणं खगमार्गयोः //
6.71 SK गोलकं शून्यमार्गस्थं पथत्रयगतं प्रिये क्षेपणं बिन्दुकोट्यूर्ध्वम् अवनीं क्रम्य पादयोः //
6.72 SK गुह्ये निवेश्य मन्त्रज्ञस् त्रिशिखं खेचरं प्रिये अनेन खगगामी ऽसौ भवते साधकोत्तमः //
6.73 SK करणं चोर्ध्वमूलं स्याद् बन्धयेत् खगमण्डलम् आक्रम्य पञ्चमं तत्र कराभ्यां चैव शूलिनि //
6.74 SK जानुकौ कुर्परे योज्य विक्षेपो गुह्यमध्यतः वेधनं ब्रह्मरन्ध्रस्य कथितं तु तपोधने //
6.75 SK खगमार्गगतिस् त्व् एवं भवते तु सुलोचने एषा मुद्रा समाख्याता नवभेदैर् व्यवस्थिता //
6.76 SK मुद्रा शक्तिर् इति ख्याता मुद्रितं द्रावयिष्यति तेन मुद्रा समाख्याता कथिता परमेश्वरि //
6.77 SK मुद्रितं गोपितं प्रोक्तं चिच्छक्त्या या परापरा न ज्ञायते वरारोहे सा तु मुद्रा उदाहृता //
6.78 SK अज्ञानमलरूपेण यावद् बद्धः स पुद्गलः न जानाति परात्मानं तावन् माया प्रवर्तते //
6.79 SK भिन्ने तमसि चैकत्वं यदा पश्यति मानवः तदा सा तु परा प्रोक्ता बन्धमोक्षकरी प्रिये //
6.80 SK एका सा परमा शक्तिः संस्थिता तु शिवेच्छया मोचयन्ति ग्रहादिभ्यः पाशौघान् द्रावयन्ति च //
6.81 SK मोचनाद् द्रावणाद् यस्मान् मुद्राख्याः शक्तयः स्मृताः खगतिर् ह्य् ऊर्ध्वभावेन खगमार्गेण नित्यशः //
6.82 SK चरते सर्वजन्तूनां खेचरी तेन सा स्मृता परत्व्ऽ एका तु सा ज्ञेया पुनश् चैव त्रिधा स्मृता //
6.83 SK इच्छा ज्ञानी क्रिया सा तु वर्णरूपम् उपागता पञ्चाशभेदभिन्ना सा एका एव-म्-उदाहृता //
6.84 SK अङ्गावयवसम्पूर्णा मालयित्वा जगत् स्थिता नादिफान्तस्वरूपेण तेन सा मालिनी स्मृता //
6.85 SK सप्त कोट्यस् तु मन्त्राणाम् अप्रमेयास् तु याः स्मृताः स्वतन्त्रस्थास् तु ताः सर्वा मुद्रिताः परमेश्वरि //
6.86 SK तेन मुद्रा समाख्याता सद्यःप्रत्ययकारिका अवयवे मातृरूपा तु स्वैः स्वैर् अंशैर् व्यवस्थिता //
6.87 SK ब्रह्मांशा चैव रुद्रांशा कौमार्यांशा वरानने वैष्णव्या चैव याम्यांशा ऐन्द्र्यांशा च तथानघे //
6.88 SK योगेश्वर्या च योगांशा योगयोगीशनायिका एते ह्य् अंशाः स्मृताः सप्त पुनः सप्तसु सप्तसु //
6.89 SK ब्रह्माण्याः सप्त-म्-उद्दिष्टाः सप्त माहेश्वरी पुनः कौमार्याः सप्त-म्-उद्दिष्टा वैष्णव्याः सप्त एव च //
6.90 SK वाराही सप्त-म्-उद्दिष्टा ऐन्द्राण्याः सप्त एव तु चामुण्डा सप्त-म्-उद्दिष्टा एवं वै सप्त सप्तसु //
6.91 SK पञ्चाशैकोन वै देव्या भुवनावलिसंस्थिता[ः] अत्र भेदैर् अनेकैश् च संस्थिता भुवनावलिः //
6.92 SK तस्य देहगता रोमा[ः] कोट्यस् त्रीणि प्रकीर्तिताः लक्षाणि चैव पञ्चाशद् रोमाणां तु तदुद्भवा //
6.93 SK एकैकरोमकूपेषु योगिन्यः कोटिसंस्थिताः त्रिकोटिकोटिकोटीनां कोटयस् तु अनेकधा //
6.94 SK यथा चाम्बरपर्यन्ता पृथिव्यादिषु सम्भवाः अणवस् त्व् अप्रमाणास् तु तत्त्वे तत्त्वे त्व् अनेकधा //
6.95 SK सूक्ष्मरूपास् तथा रुद्रा एषां सङ्ख्या न विद्यते व्यापितं तु समस्तं हि रुद्रैः सूक्ष्मतरैः प्रिये //
6.96 SK एवं मुद्रा समाख्याता व्यापयित्वाप्रमेयतः एका एव परा मुद्रा यस्येदं तिष्ठते जगत् //
6.97 SK यं यं स्पृशति सा ह्य् अङ्गं सा सा मुद्रा विधीयते नृत्यं वल्गं तथा हास्यं रोदनं स्फोटम् एव च //
6.98 SK यद् विकारं प्रकुर्वन्ति तत् सर्वं मुद्रसंज्ञकम् अङ्गुल्या अङ्गना प्रोक्ता अङ्गे चरति नित्यशः //
6.99 SK अङ्गुल्या तेन चोद्दिष्टा मुद्राबन्धे वरानने कं शरीरम् इति ख्यातं न्यस्ता तस्मिन् प्रवर्तते //
6.100 SK हेलागमनमार्गेण तेन नामा कनीयसी अनामा नामरहिता कोटिभेदैर् व्यवस्थिता //
6.101 SK नामं न शक्यते वक्तुम् अनामा तेन गीयते मध्ये प्रवर्तते नित् यम् आश्रया पुद्गलस्य तु //
6.102 SK तत्राधाराद् व्रजेद् ऊर्ध्वं पुनरागमनं प्रिये मध्यमा नाम तेनात्र कथिता मन्त्रवादिनाम् //
6.103 SK तर्जनं कुरुते नित्यं संयोजनवियोजनम् तर्जयन्ती महामोहं पाशजालम् अनन्तकम् //
6.104 SK तर्जनी तेन सा प्रोक्ता मुद्रा सर्वेषु चोत्तमा अङ्गुष्ठश् चौघभूता तु प्रवाहे सततं प्रिये //
6.105 SK उच्चारेण प्रवर्तेत अङ्गुष्ठस् तेन स स्मृतः अह-म्-ऊर्ध्वगतिः प्रोक्तः स्तौ ति रात्री निगद्यते //
6.106 SK हस्तौ तेन समाख्यातौ वामदक्षिण उच्यते वामे सृष्टिर् इति प्रोक्ता संहारं दक्षिणे विदुः //
6.107 SK सव्यासव्यगतौ तेन कथितौ वीरनायिके वामाव्याप्तं जगत् कृत्स्नं संहारान्तं तदा प्रिये //
6.108 SK संयोगेन वरारोहे आत्मा कुण्डलिनी स्मृता इयं सा परमा योनिर् योनीनाम् उत्तमा प्रिये //
6.109 SK यो जानाति वरारोहे शक्तिर् आद्या मनोन्मनी तेन ज्ञातं जगत् सर्वं वर्णावर्णविवर्जितम् //
6.110 SK सा मुद्रा तु समाख्याता विश्वव्याप्तिकरी परा द्वौ बिन्दू चूलिके द्वे तु विसर्गशक्तिसम्पुटम् //
6.111 SK तदूर्ध्वम् इह नादान्तं विभ्वी शून्यम् उदाहृतम् जन्मस्थानात् समुद्यन्ती यावत् तद्भवमण्डलम् //
6.112 SK सृष्टिसंहारयोगेन मेढ्रम्-आधारमध्यगम् एवं मुद्रा समाख्याता वाङ्मनःकायकर्मभिः //
6.113 SK किम् अन्यत् पृच्छसे देवि तत् सर्वं कथयाम्य् अहम् //
695 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते जपमुद्रानिर्णयो नाम षष्ठः पटलः
7.1 SK या सा देवी (देव Eद्.) परा योनिः समया कुब्जिनी परा ताम् आचक्ष्व प्रयत्नेन संस्फुटं व्याप्तिलक्षणम् //
7.2 SK शृणु देवि यथातथ्यं देव्या माहात्म्यम् उत्तमम् कार्ये वाथ अकार्ये वा उक्तानुक्तेषु वस्तुषु //
7.3 SK कुब्जीशानीं जपेद् यस् तु तस्य पापं न विद्यते यः पुनः शुद्धभावात्मा समयाख्यां महेश्वरीम् //
7.4 SK जपेत् तस्य प तद् वस्तु यन् न सिध्यति भूतले एतत् परमसमयं देवीतन्त्रे प्रकीर्तितम् //
7.5 SK न देयं यस्य कस्यापि यस्मात् सर्वं प्रपद्यते तन्त्रे तन्त्रे तु समया कथितानेकधा मया //
7.6 SK अन्यकल्पोपचारेषु निरुद्धा तत्र शासने एषा सा समया देवि अत्र सर्वं प्रतिष्ठितम् //
7.7 SK चतुष्पीठेषु समयास् ते ऽत्र सर्वे विनिर्गताः एषा राजेश्वरी देवी समयाचारनिर्गता //
7.8 SK निराचारेण योगेन सिध्यते ह्य् अविचारतः पञ्चव्याप्तम् अतः सर्वं सर्वव्याप्त्यन्तसंस्थितम् //
7.9 SK अस्योच्चारणमात्रेण तन् नास्ति यन् न साधयेत् कम्पते भुवनं सर्वं त्रैलोक्यं सुरडामरम् //
7.10 SK समयाख्यं जपन्तस्य क्षुभ्यते सचराचरम् वामदक्षिणतन्त्रेषु सामान्या समया परा //
7.11 SK तस्या देव्याः प्रभावो ऽयं या पञ्चाशपदात्मिका सिद्धमार्गे ऽन्यथा देवि द्वात्रिंशगुणलक्षिता //
7.12 SK कुब्जिका नाम विख्याता समयस्था कुलेश्वरी यत्र विश्वेश्वरं सर्वं समयाद्यं विनिर्गतम् //
7.13 SK मन्त्रमुद्रागणो ह्य् अत्र विद्यामण्डलकादिकम् यस्याः कमलिनी देवी हृदिस्था सम्प्रवर्तते //
7.14 SK यया सृष्टम् इदं सर्वम् आब्रह्मस्तम्भगोचरम् कुलदीपा शिरस्थास्याः षड्विधाध्वप्रबोधिका //
7.15 SK बर्बराख्या शिखा ह्य् अस्यास् त्रितत्त्वोर्ध्वव्यवस्थिता मुद्राधारगता देवी बहुरूपात्र निर्गता //
7.16 SK छादयन्ती समस्तां तु शब्दराशिं तु मालिनी कवचं यस्या महादेव्या मन्त्रमायात्मकं महत् //
7.17 SK किण्किणिं तं प्रचण्डोग्रं तेजोदेदीप्यवर्चसम् ज्ञेयं वृद्धोपमं नेत्रं तत्त्वार्थगुणसङ्कुलम् //
7.18 SK संवर्तादिशिवान्तस्थं षडस्रं पिङ्गलोचनम् तद् अस्त्रं कोङ्कणेशान्या येन व्याप्तं षडध्वरम् //
7.19 SK कथं तु कुब्जिका नाथ वद मन्त्रपदान्वितम् सर्वज्ञा सर्वदा देवी लक्षणेन समन्विता //
7.20 SK उवाच भैरवो ह्य् एवं कुब्जिकां शृणु कुब्जिके किं तु त्वया न वक्तव्या यावन् नादेशितः शिशुः //
7.21 SK च्चेवीति पदं प्रथमं णिकि णिकि द्वितीयकम् छीं छां पदं तृतीयं तु खिमुराघो-अ चतुर्थकम् //
KubjT_7.22* SK मे न ण ञ ङ पञ्चमं ह्रौं ह्रीं ह्रां षष्ठमं पदम् / यैकाब्जिकुश्री सप्तमं तिवगभ मोन अष्टमम् //
7.23 SK विलोमेन पदान्य् अष्टौ द्वात्रिंशाक्षरमालिका पञ्चप्रणव-म्-आद्यन्ता वियुक्ता लक्षणाधिका //
7.24 SK आदिकूटावसाने तु चत्वारिंशद् धि मालिनी विलोमेनोद्धरेद् देवी[ं] गुरुवक्त्रोपदेशतः //
7.25 SK रेफसहम् इदं कूटं विद्यासप्तमकं पदम् श्रीलोपे सन्नियोक्तव्यं जीवितं कुब्जिके मम //
7.26 SK स्वमनीषिकातो ऽन्यथा स विद्विष्टो मरीचिभिः यस्माद् भाण्डारम् इत्य् एवं सर्वस्वं योगिनीकुले //
7.27 SK अथ चेत् सर्वपीठेषु मातेयं समयात्मिका अस्याः स्मरणमात्रेण विह्वलं तु जगत्त्रयम् //
7.28 SK भवते नात्र सन्देह इति माता सुरक्षिता हृदयाद्यस्त्रपर्यन्तम् एकोच्चारेण सुव्रते //
7.29 SK सिद्धमार्गं यथा ब्रूमि विलोमेन विलोमतः //
7.30 SK यस्त्रा-अ यैव्वाणाङ्कको च्चेवि णिकि णिकि | ययात्रत्रने यैकारिन्ताहम छीं छां | यचावक यैपारूहुब खिमुराघो-अ मे न ण ञ ङ | यैखाशि खेशिरर्बब ह्रौं ह्रीं ह्रां | सेरशि यैपादीलकु यैकाब्जिकुश्री | ययादहृ यैलामत्कहृ तिवगभ मोन ||
7.31 SK पञ्चदशाक्षरं हृदयं शिरश् चैव त्रयोदश एकादशाक्षरा शिखा विंशदेकोन कवचम् //
7.32 SK नेत्रं त्रयोदशैः प्रोक्तम् अस्त्रं चैव चतुर्दशम् पञ्चप्रणव-म्-आद्यन्ता यथा विद्या तथा कुरु //
7.33 SK एतत् कौलिकभाषायां कथितं तु सप्रत्ययम् संस्फुटं गुरुवक्त्रस्थं विलोमस्थं न सिध्यति //
7.34 SK कौलिकेदं समाख्यातं सिद्धमार्गसुदुर्लभम् च्चेवि ति प्रथमं पदं णिकि णिकि द्वितीयकम् //
7.35 SK छीं छां चैव तृतीयं स्यात् ह्रौं ह्रीं ह्रां र्ध्वेखोशित्रि चतुर्थकम् | ह्रें मे न ण ञ ङ पञ्चमं खिमुराघो-अश्री षष्ठम् ||
7.36 SK यैकाब्जिकु मोन ह्रीं सप्तमम् | रफसह एअं कूटम् ऐं विलोमेन चाष्टमम् ||
7.37 SK द्वात्रिंशदक्षरा देवी नियुक्ता गुणशालिनी आदिकूटक्रमेणैव विलोमेनोद्धृता इयम् //
7.38 SK गुरुवक्त्रोपदेशेन संस्फुटं कथितं तव //
734 SK स्त्रम्-अ व्वाणाङ्कको च्चेवि | त्रंने निजितेश्ववि णिकि णिकि चंवक केघ्विल छीं छां | यैखाशि केरिन्ताहम ह्रौं ह्रीं ह्रां मे न ण ञ ङ | सेरशि रर्बब खिमुराघो-अश्री | यंदहृ यैकाब्जिकुलमक मोन ह्रीं ह्स्फ्रें ऐं ||
7.40 SK सर्वसाधारणं कौलं ब्रूमि अन्योपदेशतः पञ्चमं तु पदादिस्थं हृदयं च दशाक्षरम् //
7.41 SK शिरम् अष्टाक्षरं विद्धि द्वादशार्धं शिखा स्मृता द्विसप्तकं च कवचं नेत्रं सप्ताक्षरं शुभम् //
7.42 SK अस्त्रं नवाक्षरं प्रोक्तं जातयश् च पृथक् पृथक् कवचान्तं चतुर्वक्त्रं पञ्चमं तु तदग्रतः //
7.43 SK परिपाटिस् तु वक्त्राणाम् ऊर्ध्ववक्त्रादितः क्रमात् एषा सा समया देवी कुलमार्गे व्यवस्थिता //
7.44 SK सकलस्था तु साचारा अशेषार्थविशोधिका कौलभाषोदिता या तु सा तु सिद्धा कुलान्वये //
7.45 SK अशेषार्थप्रदातारा अनेकार्थप्रबोधिका यान्त्य् अनेन तु देहेन खेचरत्वं तदाश्रिताः //
7.46 SK अक्षराक्षरसन्तानं योजयेल्लक्षसङ्ख्यया कुब्जीशगुणतुल्यो ऽसौ हर्ता कर्ता स्वयं प्रभुः //
7.47 SK खेचरीणां पदं सो हि पश्यते ह्य् अविचारतः निराचारेण योगेन चिन्तयन्तः कुलेश्वरीम् //
7.48 SK अथ सामान्यरूपेण तदा भूचरतां व्रजेत् कुपितः पातयेच् छैलान् शोषयेज् जलधीश्वरान् //
7.49 SK स्फोटयेच् छैलवृक्षांश् च तद्ध्यानगुणम् आश्रितः भूचरीणां पतित्वं च क्षुद्रकर्मोपजीविनाम् //
7.50 SK कुरुते विविधाश्चर्यं पूज्यते स शिवो यथा यत्र तिष्ठत्य् असौ देशे तत्र विघ्नं पलायते //
7.51 SK कुब्जिकायाश् च या दूती कालिका नाम विश्रुता कालिकाख्ये महातन्त्रे स्वतन्त्रा सा उदःर्ता //
7.52 SK शृणुष्वेकमना भद्रे ज्ञानविज्ञानदायिनी सर्वसिद्धिकरी देवी सर्वकार्यप्रसाधनी //
7.53 SK व्याघ्रसिंहगजव्यालभूतवेतालशत्रवः स्मरणान् नाशम् आयान्ति विघ्नसङ्घानि यानि च //
7.54 SK प्रश्नकाले परीक्षेत कुमार्य् आवेशपूर्विका शुभाशुभं वदत्य् आशु यद् भूतं यद् भविष्यति //
7.55 SK अस्योद्धारं प्रवक्ष्यामि यथावद् अनुपूर्वशः अः-ख-मध्यगतं गृह्य झ-पूर्वेण समन्वितम् //
7.56 SK प्रथमम् उद्धृतं बीजं द्वितीयं ण-ह-सन्धिगम् भेदितं तु ञ-पूर्वेण एतद् वर्णद्वयं पुनः //
7.57 SK आ-स-रन्ध्रगतं गृह्य य-स-मध्यगतं पुनः द्वितीयेन तु सम्भिन्नं षष्ठं वै बीजम् उत्तमम् //
7.58 SK प्रथमं सप्तमं ज्ञेयं द्वितीयस्य द्वितीयकम् अष्टमम् उद्धृतम् बीजं नवमं भ-ञ-मध्यगम् //
7.59 SK ञ-उत्तरसमायुक्तं शून्यमस्तकभूषितम् म-ष-मध्यगतं गृह्य दशमं केवलं प्रिये //
7.60 SK ष-व-मध्यगतोद्धृत्य औ-पूर्वेण तु भेदितम् एकादशाक्षरं प्रोक्तम् ऐ-ठ-मध्यगतं ददेत् //
7.61 SK ञ-पूर्वेण तु सम्भिन्नं दशद्वितयम् उत्तमम् ए-व-रन्ध्रगतं गृह्य केवलं त्रिदशं पुनः //
7.62 SK ज-स-मध्यगतं गृह्य ऐ-औ-मध्येन आहतम् चतुर्दशोद्धृतं बीजम् अ-छ-सन्धिगतं पुनः //
7.63 SK केवलं कथितं बीजं दशपञ्चाक्षरं प्रिये प-ध-मध्यगतं गृह्य ञ-पूर्वेण तु भेदितम् //
7.64 SK षोडशम् उद्धृतं बीजं स-य-मध्यगतं ददेत् ल-ठ-मध्यासनासीनं झ-पूर्वेण तु भेदितम् //
7.65 SK नादबिन्दुकलाक्रान्तं दशसप्तकम् उद्धृतम् व-म-मध्यगतोद्धृत्य ट-ण-मध्यासने स्थितम् //
7.66 SK ट-पूर्वेण तु सम्भिन्नं शून्ययुक्तं दशाष्टमम् वह्नियुक्तं महाप्राणम् अं-पूर्वेण तु भेदितम् //
7.67 SK चतुर्दशस्वराक्रान्तं बिन्दुनादसशक्तिगम् विंशमं न्यूनम् एकेन उद्धृतं बीजम् उत्तमम् //
7.68 SK य-ढ-मध्यगतं गृह्य केवलं विंशमं भवेत् ख-पूर्ववर्णम् उद्धृत्य थ-पूर्वासनसंस्थितम् //
7.69 SK विंशम् एकाधिकं भद्रे अः-ख-मध्यगतं पुनः ॠ-पूर्वासनम् आरूढं द्वाविंशतिम् उदाहृतम् //
7.70 SK द-च-रन्ध्रगतोद्धृत्य त-पूर्वासनसंस्थितम् विंशत्रितयम् आख्यातं य-ज-मध्यगतं पुनः //
7.71 SK पञ्चमस्वरसंयुक्तं चतुर्विंशतिमं पुनः ग-पूर्वं तु समुद्धृत्य चतुर्थस्वरसंयुतम् //
7.72 SK पञ्चविंश समाख्यातम् ओ-ष-मध्यगतं पुनः ऐ-पूर्वेण तु सम्भिन्नं षड्विंशकम् उदाहृतम् //
7.73 SK स-त-मध्यगतं चान्यं ट-परेण समाहतम् सप्ताविंशतिमं भद्रे आ-स-मध्यगतं पुनः //
7.74 SK झ-पूर्वेण समायुक्तम् अष्टाविंश तु पार्वति पुनर् एवं ददेद् देवि त्रिंशत्यूनं सबिन्दुकम् //
7.75 SK घ-न-मध्यगतं गृह्य केवलं त्रिंशमं भवेत् ध-ह-रन्ध्रगतं देवि वाय्वासनसमन्वितम् //
7.76 SK त्रिंशम् एकाधिकं प्रोक्तं क-ष-मध्यगतं पुनः थ-ण-मध्यासनारूढं पञ्चमस्वरयोजितम् //
7.77 SK द्वात्रिंशमं समाख्यातं केवलं व-ष-मध्यगम् त्रयस्त्रिंश समुद्दिष्टं ण-थ-मध्यगतं पुनः //
7.78 SK वह्निना दीपितं कृत्वा त्रिंशमं चतुराधिकम् स-त-रन्ध्रगतं बीजं केवलं सृष्टिसंयुतम् //
7.79 SK पञ्चत्रिंश स्मृता वर्णाः पञ्चप्रणवसम्पुटाः योजितव्या महाविद्या कालिका सिद्धिकाङ्क्षिणा //
7.80 SK अदृशीकरणे ह्य् एषा सर्वसम्पददायिनी न देया दुष्टबुद्धीनां देवीदूत्या महाबला //
7.81 SK दूती तु कथिता ह्य् एवं मुद्राबन्धम् अतः शृणु पद्मासनस्थितो योगी समकाय ऋजुःशिरः //
7.82 SK रेच्य वायुं स्वकाद् देहात् पुनर् आकृष्य धारयेत् हृदये यः स्थितो ग्रन्थिस् तस्य नाभौ क्षिपेन् मनः //
7.83 SK मन्त्रं चैव तथात्मानम् एकीकृत्य त्रयं बुधः दण्डाकारं नयेत्ऽतावद् यावद् ब्रह्मबिलान्तगम् //
7.84 SK तत्स्थानात् प्रेरयेत् तूर्णं महायानेन सुन्दरि कराभ्यां चैव तर्जन्यां पीडयेत पुनः पुनः //
7.85 SK ललनाघण्टिके योज्य पञ्चमं स्थानम् आक्रमेत् आक्रमेद् गुह्यचक्रं तु करणं चोर्ध्वमूलकम् //
7.86 SK लग्ने ग्रन्थित्रयं देवि खगतिर् नात्र संशयः अङ्गषट्कं शृणुष्वेदं कुब्जिकायाः कुलेश्वरि //
7.87 SK हृदयेन तु देव्यायाः क्षोभयेच् चासुरीगणम् नवलक्षकृते जाप्ये राजिकालवणे हुते //
7.88 SK राजराजेश्वराणां तु मर्त्यलोके ऽथवा पतिः सामान्यजपहोमेन सद्यःसम्पददायिनः //
7.89 SK स्त्रीजनं क्षोभयेत् सर्वं बालवृद्धयुवान् पशून् शिरो [ऽ]धिष्ठितयोगेन भूतवेतालराक्षसान् //
7.90 SK यक्षिणीयक्षकन्याश् च पिशाचीनां च साधनम् कुरुते विविधाश्चर्यं फलपुष्पादिकर्षणम् //
7.91 SK यक्षिण्याकर्षणं देवि मृतकोत्थापनादिकम् साकिनीकुलसामान्यः पाशच्छेदं पशुग्रहम् //
7.92 SK कुरुते विविधाश्चर्यं शिरःसिद्धो ह्य् अनेकधा असिद्धस्य तु कर्माणि कर्मयोगाद् वदाम्य् अहम् //
7.93 SK अशक्तह् साधने वीरस् तस्येदं द्वेषणं प्रति शिरोरुहसमुत्पन्ना चण्डाली जुष्टपूर्विका //
7.94 SK रक्षणार्थं तु सा दूती शासने सम्प्रतिष्ठिता पठनाद् एव संसिद्धा जपहोमविवर्जिता //
7.95 SK शिरसो वशगा दूती तदाज्ञा निग्रहात्मिका //
7.96 SK ॐ हास्वा ट्फ २ हूं २ सग्र २ यरमा कंमु-अ २ चप २ मध २ हद २ नह णिरिधाङ्गट्वाखलपाक णिक्षभसमांरधिरु लीण्डाचाष्टजु तिवगभ मोन ॐ ||
7.97 SK विलोमेन कृताभ्यासम् उद्धरेद् उपदेशतः सम्पूज्य योगिनीषट्कं रामणीशिरसान्वितम् //
7.98 SK दाघम् उत्पादयेत् प्रथमं लेख्य मात्रा न संशयः षडस्रपुरमध्यस्थं रकारं तु अधोर्ध्वतः //
7.99 SK रकारं तु तद् एवं स्याद् बहिष्कोणे पृथक् पृथक् षट्प्रकारं प्रदातव्यं ज्वालासञ्छन्नलाञ्छितम् //
7.100 SK कोपकाले समुत्पन्ने चितिवस्त्रे नृचर्मजे लिखितव्यं सक्रुद्धेन विषोन्मत्तरसेन च //
7.101 SK श्मशानाङ्गारसंयुक्तं साध्यनामं तु मध्यतः लिखित्वा तापयेत् पश्चाज् ज्वरो भवति दारुणः //
7.102 SK ज्वरम् उत्पादयित्वा तु सदन्तम् आनयेच् छिरः पूर्वद्रव्यैर् लिखित्वा तु नाम तस्य गले क्षिपेत् //
7.103 SK विपरीतमुखं कृत्वा ऊर्ध्वग्रीवं यथा भवेत् तथा संस्थापयेद् भूमौ कपालं मन्त्रवित् सुधीः //
7.104 SK श्मशाने वा नदीतीरे कृत्वा वेदीं तदूर्ध्वतः पश्चाद् धोमं प्रकुर्वीत उग्रद्रव्यैः समाहितः //
7.105 SK विषेण गन्धकेनैव कुनट्या तालकेन च राजिकालवणेनैव निम्बपत्त्रैस् त्रिसप्तकम् //
7.106 SK प्रथमे ऽहनि छागान्त्रं रक्ताक्तं होमयेद् बुधः पश्चाद् ध्यानं प्रकुर्वीत कृष्णवर्णं सुदारुणम् //
7.107 SK ज्वलन्तं पादसन्धीनि मस्तकान्तं विचिन्तयेत् रकारं तु ललाटस्थं जपेन् मन्त्रं पुनः पुनः //
7.108 SK होममण्डलकं यच् च चतुरस्रं वज्रलाञ्छितम् एवं वै भवते कालो यदि साक्षात् सचीपतिः //
7.109 SK एवं निग्रहम् आख्यातं शिरोदेव्याः समुद्भवम् चण्डालीति प्रयोगो ऽयं गोपितव्यं प्रयत्नतः //
7.110 SK शासनस्य च यो द्वेष्टा यो द्वेष्टा गुरवोपरि तेष्व् अमोघिनी चाण्डाली योजयेत् परमार्थतः //
7.111 SK लक्षम्-एके कृते जाप्ये वाचामात्रेण मारयेत् अतोऽर्थं गोपयेद् देवि सिद्धाज्ञामोघचण्डिका //
7.112 SK शिरोदूती परा ह्य् एषा क्षुद्रकर्मस्व् अनेकधा सर्वं स्वच्छन्ददेवेशी करिष्यति शिखो[ज्]ज्वला //
808 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते मन्त्रोद्धारे षडङ्गविद्याधिकारो नाम सप्तमः पटलः
8.1 SK श्रुतं देव मयाख्यातम् अशेषार्थसुविस्तरम् कथं देव्याः शिखासंस्था स्वच्छन्दः कतिरूपधृक् //
8.2 SK प्रयोगविपुलं देव सर्वोपायविवर्जितम् अधुनाश्रोतुम् इच्छामि सारात् सारतरं विभो //
8.3 SK आप्यायनं शरीरस्य आकाशादिप्रसाधनम् अर्चनं चैव सङ्क्षेपाद् ग्रहमर्दकरं यथा //
8.4 SK रिपुमर्दकरं चैव बिलयन्त्रप्रसाधनम् ज्वरदुष्टविषादीनां सर्वदुःखविमर्दनम् //
8.5 SK यथा स्मरणमात्रेण व्याधितो मुच्यते क्षणात् धर्मकामार्थसंसिद्धम् अर्थमोक्षप्रसाधनम् //
8.6 SK वशीकरणकर्माणि आकर्षणविधिक्रिया दिव्यादिव्येषु कार्येषु नागकार्येषु भैरव //
8.7 SK शरीरस्थं यथा ब्रूहि नाडिस्थं मुद्रया सह सङ्क्षेपार्चनकर्म च संसिद्धं भोगसाधनम् //
8.8 SK व्रतयागविहीनं च वित्तोपायविवर्जितम् स्मरणात् केवलो मन्त्रः सुखम् उत्पादयेद् यथा //
8.9 SK साधु कुब्जिनि भद्रे त्वं कथयतः शृणुष्व मे शिखा गुणकला यस्य स्वच्छन्दस्यामितद्युतेः //
8.10 SK कुब्जिकायाः शिखा रौद्रा रौद्रसिद्धिप्रदायिका सारात् सारतरं देवि सत्यं सत्यं न चान्यथा //
8.11 SK अघोरान् न परो मन्त्रः कस्माच् चूलीगतस् तु सः शमनं सर्वदुःखानां व्याधीनां च निकृन्तनम् //
8.12 SK सर्वानुग्रहकं देवि भुक्तिमुक्तिप्रदायकम् कालनिर्णाशनं देवि जरासिंहम् उदाहृतम् //
8.13 SK दारिद्रशमनं चेदम् अचिरेण गणाम्बिके आशाः संशोधयित्वा तु देव्या न्यासं हि पूर्ववत् //
8.14 SK हृदयादिप्रभेदेन अस्त्रान्तं यावदावधिम् स्वस्थानन्यासविन्यासं पूर्ववच् च यथास्थितम् //
8.15 SK शिखास्वच्छन्ददेवेशं मन्त्रेदं पारमेश्वरम् षडङ्गयजनाद् वाथ निराचारेण सिध्यति //
8.16 SK ततो मुद्रां परां बद्ध्वा चिन्तयेद् योनिमध्यगाम् महामुद्रेति विख्याता नाख्याता कस्यचिन् मया //
8.17 SK ध्यात्वा प्रेतं पुरा देवि सर्वकारणकारणम् महायोगी महासिद्धः सर्वलोकधरः प्रभुः //
8.18 SK सर्वज्ञगुणसंयुक्तं पद्मं तस्योपरि स्थितम् कर्णिकोपरि दीप्यन्तं प्रज्वलन्तं महौजसम् //
8.19 SK अनन्तं तद् विजानीयात् तस्योर्ध्वे तच्छिखाशिवम् अष्टपत्त्रासनासीनं द्वात्रिंशार्चिभिर् आवृतम् //
8.20 SK नानालङ्कारसम्पन्नं नानावर्णं विचिन्तयेत् दशबाहुं महाघोरं चतुर्वक्त्रं सुलालसम् //
8.21 SK सर्ववर्णधरं देवम् अथ श्यामं विन्चिन्तयेत् कपालं चैव खट्वाङ्गम् अन्यत् परशुशूलधृक् //
8.22 SK डमरुं चाक्षमालां च फलं हस्ते निवेशयेत् गजचर्मधरौ चोभौ हस्तौ तु परिकीर्तितौ //
8.23 SK गर्जन्तं भीषणं नादं सर्वकारणकारणम् भक्षन्तं चिन्तयेद् व्याधिं विश्वेश्वरकुजेश्वरम् //
8.24 SK खाद्यमानां रटन्तीं तां ताड्यमानां विभेदिताम् भेदयन्तीं त्रिशूलेन छेदयन्तीं महासिना //
8.25 SK क्रुद्धभावाद् धुनन्तीं तां पूर्वव्याधिं विचिन्तयेत् तस्योपरि तम् ऐकारम् ईशतत्त्वावधिस्थितम् //
8.26 SK शिखास्वच्छन्ददेवेशं तत् स्थाप्योपरि पूजयेत् स्वकीयाङ्गसमुद्भूतम् एकवीराङ्गपञ्चकम् //
8.27 SK आग्नेय्यां हृदयं न्यस्य शिरस् त्व् ईशानगोचरे शिखां शिखात्मकां रक्षे तनुत्राणं तु वायवे //
8.28 SK अस्त्रं दिशासु विन्यस्य भूयो मध्ये प्रपूजयेत् जुष्टचण्डेश्वरं क्षेत्रे पूजादौ विघ्नराट् कुले //
8.29 SK चलादीनाम् अधिष्ठानं जानीयाद् गुरुपङ्क्तिवत् धूपचन्दननैवेद्यं त्रयाणां प्रथमं ददेत् //
8.30 SK सिद्धिसाधनयुक्तस्य मार्गो ऽयं ह्य् अविचारकः निराचारपदस्थानां क्षेत्रचण्डीशविघ्नराट् //
8.31 SK बलिपूजासु नैवेद्यं त्रयाणां प्रथमं ददेत् पश्चात् क्रमस्य कुब्जीशे अतः शाठ्यं न कारयेत् //
8.32 SK पारम्पर्यक्रमं पूज्य पश्चान् मण्डलकोपरि शिखास्वच्छन्ददेवेशं यामलं तु चतुष्कलम् //
8.33 SK हृत्तनुत्राणपर्यन्तं यजेद् देवं चतुष्कलम् योगमार्गावलम्बानां श्रीसिद्धाख्यं चतुष्कलम् //
8.34 SK पूज्य स्वच्छन्ददेवेशं क्रमाग्रे मण्डलोपरि ततो जपेच् छिखानाथम् अघोरं परमेश्वरम् //
8.35 SK प्रणवाद्यं नमस्कारम् असिद्धानां नियुञ्जयेत् सिद्धार्थयोगयुक्तानाम् ऐंपादाद्यन्तयोजितम् //
8.36 SK ततो ऽ ग्निपूजनं कृत्वा यथा पूजा तथाहुतिम् सहस्रं वा शतं वाथ पञ्चाशत् पञ्चविंश वा //
8.37 SK तिलैर् होमं प्रकुर्वीत दधिमध्वाज्यसंयुतैः घृतसक्त्वा च मधुना सर्वदुःखप्रमर्दकम् //
8.38 SK व्याधिनिर्णाशनं कुब्जि शेषहोमं तु भूतिदम् सहस्रेण महाभूतिः शतेन व्याधिनाशनम् //
8.39 SK शतम् अष्टशतं कुब्जि देवतुल्यो भविष्यति सर्वदुःखविनिर्मुक्तं जपपूजासमन्वितम् //
8.40 SK शततो ऽ ष्टसहस्रेण त्रिष्कालेन तु सुन्दरि षण्मासाज् जायते सिद्धिः साक्षात् पश्यति भैरवीम् //
8.41 SK यथेष्टं जायते सिद्धिर् नास्त्य् अत्र-म्-अनृतं वचः सहस्रेण ज्वरं याति छागस्य पिशितैर् हुतैः //
8.42 SK त्रिष्कालं मासम् एकं तु सहस्रं हुनते तु सः सिध्यते मांसहोमेन क्षौद्राज्यदधिसंयुतम् //
8.43 SK यवक्षीरान्नहोमेन शालितण्डुलसाधितम् प्रीयते तु शिखादेवः स्वच्छन्दो घोररूपधृक् //
8.44 SK दधिहोमात् परा पुष्टिः क्षीरहोमेन शान्तिकम् षण्मासात् तु घृतं हुत्वा सर्वव्याधिविनाशनम् //
8.45 SK राजयक्ट्मं तिलैर् होमाद् आयुवृद्धिर् यवैर् हुतैः कुष्ठस्यैव सदा होमात् त्रियुक्तैस् तण्डुलैः प्रिये //
8.46 SK समसक्तुघृतेनाशु नाशयेत भगन्दरम् तिलैर् होमं प्रकुर्वीत दधिमध्वाज्यसंयुतम् //
8.47 SK व्याधिनिर्णाशनं कुब्जि शेषहोमस् तु भूतिदः घृतकेवलहोमेन सर्वव्याधिनिकृन्तनम् //
8.48 SK प्रयोगं सम्प्रवक्ष्यामि यद् उक्तं ते पुरा मया धर्मकामार्थमोक्षाणां चतुर्वर्गफलोदयम् //
8.49 SK तव कुब्जि प्रवक्ष्यामि शृणुष्वेकमनाधुना सर्वव्याधिहरं ध्यानं परं पुष्टिविवर्धनम् //
8.50 SK आशां संशोधयेत् पूर्वं न्यासं कृत्वा तु पूर्वकम् पूर्वं न्यस्य च मन्त्रेशं नाडीवर्णैस् तथाक्षरैः //
8.51 SK अधःस्रोतं तु वामेन दक्षिणोर्ध्वगतं प्रिये न्यासं कृत्वा शरीरे तु मन्त्रराजम् अनुस्मरेत् //
8.52 SK पञ्चप्रणव-म्-आद्येन अघोरेण सुराधिपे अध्युष्टमात्राद् उत्तीर्णं ज्ञात्वा मन्त्रम् अनुस्मरेत् //
8.53 SK अकुलादित्रिमध्यस्थं कुला[च्] चादेस् त्रिमध्यगम् मध्यमादित्रिमध्यस्थं पिण्डादेस् तु त्रिमध्यगम् //
8.54 SK त्रयार्धमात्रसंयुक्तं प्रणवेदं शिखाशिवम् त्रिनाडीपिण्डसम्भूतं मुद्रया चोर्ध्वदीपितम् //
8.55 SK त्रिपक्षक्षयकर्तारं त्रिधाबद्धं त्रिशूलिनम् त्रिमूर्तिगुणसम्भूतं तेनासौ त्रिदशेश्वरः //
8.56 SK त्रिमार्गविहितं शान्तं त्रिपथान्तसमुद्भवम् त्रिपथेन विना भद्रे भ्राजते योनिमण्डलम् //
8.57 SK योनिं विना न निष्पत्तिर् दिव्यादिव्येषु वस्तुषु उत्तमोत्तममध्यस्था कन्यसान्तव्यवस्थिता //
8.58 SK बिन्दु शक्तिस् तथा नादं मात्रात्रयम् उदाहृतम् त्रयाणाम् अपि संयोगान् निष्पद्येत भगालयम् //
8.59 SK परार्धमात्रसम्भिन्नं प्रणवो ऽयं कुलागमे अ-उ-म-कारसंयुक्तं प्रणवेदं क्रियात्मकम् //
8.60 SK सादाख्येश्वररुद्राणां ब्रह्मविष्णु-र्-अनुक्रमात् एते ते प्रणवाः पञ्च क्रियाकारणगोचरे //
8.61 SK प्रणवादिसमुद्भूताः पञ्चैते गुणवत्तराः पञ्चप्रणव-म्-आद्यन्तं ततोर्ध्वे तु शिखाशिवम् //
8.62 SK एवं तु प्रणवं दिव्यं सुगोप्यं प्रकटीकृतम् अत्र देवि स्फुटं तुभ्यं भ्रान्तं चात्र जगत्त्रयम् //
8.63 SK ज्ञात्वेवं संस्मरेद् यस् तु सन्निधानो ऽस्ति तस्य वै सुदुर्लभः प्रयोगो ऽयं गुरुवक्त्रात् तु लभ्यते //
8.64 SK यत्रोत्पन्नं ततो याति लयं कृत्वा सुराधिपे उत्पत्तिप्रलयं ज्ञात्वा ततो मन्त्रम् अनुस्मरेत् //
8.65 SK यत् किञ्चित् कुरुते कार्यं साधकः साधनात्मकः उच्चरेत् तु लयान्तस्थं तर्जन्याग्रे व्यवस्थितम् //
8.66 SK नाडीसूत्रेण विन्यस्तं बहिर् अन्ते च मातरः या नाडी सा भवेद् वर्णस् तया नाड्या तु वेष्टयेत् //
8.67 SK यदि चन्द्रं वहेच् चक्रं सूर्यं वा चक्रम् उत्तमम् तस्य मध्ये स्वयं स्थित्वा विश्वो ऽहम् इति चिन्तयेत् //
8.68 SK अहं ब्रह्मा तथा विष्णुर् अहं देवो महेश्वरः भैरवो ऽहम् इति देवि चिन्तयित्वा तु साधकः //
8.69 SK हृन्मध्ये चिन्तयेच् चक्रं नाडीवर्णैस् तथाक्षरैः आद्यक्षरं जपेन् मन्त्रं पुनर् आद्यं नियोजयेत् //
8.70 SK एवं संस्मृत्य विधिवत् सर्वकर्माणि साधयेत् अर्चनं हवनं ध्यानं जपम् एकान्तरूपिणम् //
8.71 SK कर्म कृत्वा कुजेशानि कुजेशाय निवेदयेत् ततो ध्यानं प्रकुर्वीत विशुद्धेनान्तरात्मना //
8.72 SK स एव मन्त्रम् उच्चार्य आद्यादौ यावद् अन्तिमम् नादेन तु गतिं कुर्यात् स्वच्छन्दगतिभावितः //
8.73 SK ब्रह्मं भित्त्वा ततो विष्णुं रुद्रम् ईश्वरम् एव च सेतुमध्येन गमनं कुञ्चिकोद्घाटयेद् बिलम् //
8.74 SK उद्घाट्य परमं स्थानम् अघोरं यत्र संस्थितम् अष्टाकपाल घोरीशं त्र्यक्षरं समनुस्मरेत् //
8.75 SK सर्वमन्त्रेषु हृदयं यत् कुब्जीशशिखात्मकम् मनसा स्मृतमात्रेण खेचरत्वं प्रजायते //
8.76 SK सर्वविघ्नोपशमनं मन्त्रं त्र्यक्षरम् उत्तमम् शेषषट्कं तु यद् देवि तदङ्गान्य् अस्य कल्पयेत् //
8.77 SK जप्तव्यं तु शिखासूत्रं सकृत् सिद्धिः प्रजायते आकाशादिप्रसिद्ध्यर्थं सिद्धिर् अन्यासु का कथा //
8.78 SK मन्त्रसन्नद्धदेहस् तु सर्वावस्थो ऽपि साधकः तिष्ठन् जाग्रन् स्वपन् गच्छन् भुञ्जानो मैथुने रतः //
8.79 SK चर्याधारी निराचारो मन्त्रसंस्मरणाच् छुचिः सामान्यस्मरणाद् एव व्याधिभिर् नाभिभूयते //
8.80 SK प्रज्वलन् दृश्यते भूतैर् यस्येदं तु शरीरगम् अतः किं बहुनोक्तेन सिंहस्यैव यथा मृगाः //
8.81 SK गन्धेन प्रलयं यान्ति सत्यं सत्यं महातपे जपेन साधयेत् सर्वं व्रतस्थो यस् तु साधकः //
8.82 SK पूर्वम् एव जपेल् लक्षं सिध्यते घोरमूर्धजम् अविदित्वा विधानेन किञ्चित् कार्यं न साधयेत् //
8.83 SK यः कुर्याद् विधिहीनं तु स विघ्नैश् चाभिभूयते तस्मात् पदार्थनवकं ज्ञातव्यं तु कुजेश्वरि //
8.84 SK क्षेत्रस्थानानि सुश्रोणि ज्ञातव्यानि सुनिश्चितैः क्षेत्रं व्रतानि मन्त्राश् च अक्षसूत्रं जपं तथा //
8.85 SK ध्यानं पूजा तथा द्रव्यं वर्णं मुखसमन्वितम् मुखहीना न सिध्यन्ति अग्निहोत्रविवर्जिताः //
8.86 SK मुखम् आहवनीयं स्यात् तस्मिन् मन्त्राः सदा स्थिताः अघोरं कालम् इत्य् उक्तम् अघोरं विष्णुर् उच्यते //
8.87 SK अघोरस् त्वं महेशानि अघोरश् चाहम् एव च बहुरूपधरो ह्य् अग्निः प्रचण्डः काल-म्-अन्तगः //
8.88 SK स शिवः परमो ब्रह्मा निर्वाणः स सदाशिवः ईश्वरः स परो नित्यम् अस्मात् परतरो न हि //
8.89 SK अनेन स्मृतमात्रेण सर्वदुःखैः प्रमुच्यते दारिद्रसिंहो ऽघोरीशो व्याधिसिंहः कुलेश्वरि //
8.90 SK प्रचण्डदुष्टसिंहश् च महापातकनाशनः सर्वतीर्थाभिषेकश् च सप्तजप्तेन जायते //
8.91 SK शतजप्तेन देवेन सर्वयज्ञफलं लभेत् दीक्षानिर्वाणकारी स्यात् त्रिसप्तपरिवर्तनात् //
8.92 SK दशावर्तेन दुरितं ब्रह्महत्यां व्यपोहति दशावर्ताद् गुरोपेक्षी स्मरणाद् एव मुच्यते //
8.93 SK विधिहीने तथा पाने पञ्चभिश् चोपपातकी शतेन चैव त्रिष्काल्यं वर्षात् सिद्धिर् यथेप्सिता //
8.94 SK बलवतां रिपूणां तु व्यस्तम् आवर्तयेत् प्रभुः दक्षिणास्यो महादेवि सहस्रेण निपातयेत् //
8.95 SK सङ्ग्रामकाले स्मर्तव्यम् असिपत्त्रगतं हृदि वेष्टन्तं मातृभिः सैन्यं भक्ष भक्षेति भाषयेत् //
8.96 SK हतदर्पाः प्रजायन्ते न पुनः संहरन्ति च दुःस्वप्ने द्विगुणं जाप्यं व्रणे चैव चतुर्गुणम् //
8.97 SK लूता दशगुणं चैव विषे वै विंशतिस् तथा दिने दिने शतं जप्त्वा विभूतिर् वर्धते ऽ चिरात् //
8.98 SK प्राङ्मुखो यस्य नाम्ना तु साध्यारूढो हृदि स्थितः वशीभवति राजानं शतजाप्येन धीमता //
8.99 SK सप्ताहात् स बलोपेतो वशीभवति नान्यथा दिने दिने सहस्रेण नास्ति तद् यन् न साधयेत् //
8.100 SK आदित्याभिमुखो भूत्वा सहस्रं परिवर्तयेत् यत् किञ्चिद् विहितं चित्ते सप्ताहात् साधयिष्यति //
8.101 SK न्यस्तं सर्वाङ्गिकं मन्त्रं भैरवाकारसंस्थितम् स तु भोजनकाले तु पात्रे सञ्चिन्त्य साधकः //
8.102 SK सम्पूर्णशशिनं ध्यायेद् भुञ्जानो ऽमृतम् अश्नुते सम्पूर्णचन्द्रमध्यस्थम् अधोर्ध्वसम्पुटीकृतम् //
8.103 SK पर्यटेत् साधको नित्यं सर्वश्रेयम् अवाप्नुयात् यद् इच्छेत् साधकः सिद्धिं हृदि कृत्वा कुजेश्वरम् //
8.104 SK चन्द्रमण्डलमध्यस्थं स्वच्छन्दगतिभावितम् तत्प्रविष्टं विचिन्तेत अन्त्याद् अन्तं परापरम् //
8.105 SK परस्परं तु सञ्चिन्त्य यावद् ब्रह्मबिलं गतः //
914 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते स्वच्छन्दशिखाधिकारो नामाष्टमः पटलः
9.1 SK भेदयित्वा परं तत्त्वं हकारं नाम नामतः सो ऽष्टाकपालो विज्ञेयस् तस्याकाशं तु तच् छिरः //
9.2 SK अघोरम् इति विख्यातं द्वात्रिंशाक्षरभूषितम् तस्मात् सञ्जायते सृष्टिः सा तु सृष्टिर् हृदि स्थिता //
9.3 SK द्वात्रिंश मातरस् तास् तु चक्रारूढा विचिन्तयेत् चण्डा घण्टा महानासा सुमुखी दुर्मुखी बला //
9.4 SK रेवती प्रथमा घोरा सौम्या भीमा महाबला जया च विजया चैव अजिता चापराजिता //
9.5 SK महोत्कटा विरूपाक्षी शुष्का चाकाशमातरा सेहारी जातहारी च दंष्ट्राली शुष्करेवती //
9.6 SK पिपीलिका पुष्पहारी अशनी सस्यहारिका भद्रकाली सुभद्रा च भद्रभीमा सुभद्रिका //
9.7 SK मनसा पूजयेत् तस्था भक्ष्यभोज्यादिभिः क्रमात् पुष्पैर् नानाविधैर् देवि नानालङ्कारकादिभिः //
9.8 SK स्रवन्तं चिन्तयेत् तस्थम् अमृतं सर्वतोमुखम् तेनाप्यायितदेहस् तु तत्क्षणाद् विरजो भवेत् //
9.9 SK यागं तु मानसं कृत्वा कस्य सिद्धिर् न जायते सम्पूर्णमण्डलं ध्यात्वा अघोरं नाम नामतः //
9.10 SK सो ऽष्टाकपालः प्रवरस् तत्त्वव्यापी निरक्षरः स एव चन्द्ररूपी स्यात् कर्णिकायां विचिन्तयेत् //
9.11 SK तत्त्वं तत्र महानादं हकारं नाम नामतः षट्पदार्थयुतो देवि नवकेन प्रसिध्यति //
9.12 SK स एव लीयते विष्णोर् विष्णु रुद्रसमाश्रितः स एव कालो विज्ञेयः सर्वभक्षो हुताशनः //
9.13 SK स एव लीयते माया सा च विष्णुः प्रकीर्तिता सा शक्तिर् निर्मला कुब्जि कालो वै येन भक्षितः //
9.14 SK स विष्णुः शिवतां याति सेतुं भित्त्वा कुलेश्वरि स च तुर्यपदं प्राप्य उन्मनत्वं हि तत् पदम् //
9.15 SK आश्रयं देवदेवस्य अघोरस्य महातपे निर्वाणं तु परं विन्द्यात् स कुब्जीशः प्रकीर्तितः //
9.16 SK स ध्रुवो वासुदेवश् च अजातः परिकीर्तितः तत्र शक्तिं सदा कुर्यात् तत्रासक्तः सदा भवेत् //
9.17 SK न पापैर् लिप्यते देवि महापापैः सुदारुणैः न कालस्य वशं गच्छेन् न जरा न च दुःखितः //
9.18 SK सर्वतीर्थफलं चैव सर्वयज्ञेषु दीक्षितः हृन्नादं मनसोत्थाप्य व्रजेन् निर्वाणजं पदम् //
9.19 SK चेतसा त्व् अमृतं गृह्य आगच्छेद् घण्टिकाश्रयम् तदुत्थं भारतीमूले कृत्वासौ ऽमृतम् अश्नुते //
9.20 SK आपूर्य वदनं तेन स्वच्छन्देन कुजेश्वरि अनन्गधेनवीं दुग्ध्[ व् ]आ तत्त्वं व्याप्येश्वरेण तु //
9.21 SK अघोरं पञ्चमध्ये तु आत्मतत्त्वं विचिन्तयेत् यो ऽग्निर् ज्वलति चापेन एकस् तिष्ठति पञ्चधा //
9.22 SK त्रैलोक्यं व्यापितं तेन यजन्ते ब्रह्मवादिनः तस्यैव यः शिखां वेत्ति आहिताग्निः स उच्यते //
9.23 SK सोऽ ग्निर् देवमुखं विन्द्याद् अघोरः सर्वतोमुखः मुखेषु च मुखं देवि त्रैलोक्ये ऽपि प्रगीयते //
9.24 SK विना तेन वरारोहे न होमो न च भोजनम् शुचिर् अग्निर् भवेद् देवो बहुरूपः कुजेश्वरि //
9.25 SK तदन्तं तु जपं कुर्यात् कृत्वा हृत्स्थं तु केशवम् अधस्तात् सेतुमार्गस्य तिष्ठते तु कुजेश्वरः //
9.26 SK स चासनं परं तस्य सेव्यते किं न मन्त्रराट् विद्याराजेति विख्यातो मन्त्रराजेति कथ्यते //
9.27 SK मुद्राराजेति महतां मण्डलाधिपतिः स्मृतः ब्रह्मविष्ण्वीश्वराद्येषु पतिर् देवि प्रचक्ष्यते //
9.28 SK नानेन सदृशो देवि मन्त्रकोटिशतैर् अपि हृदयं सर्वमन्त्राणां परमं परिकीर्तितम् //
9.29 SK अनेन हीना देवेशि महान् अपि न सिध्यति ग्रहयन्त्रेषु सर्वेषु व्याधितेषु कुलेश्वरि //
9.30 SK रिपुनाशे च बलवान् दारिद्रभयनाशनम् तस्माद् आराध्य यत्नेन दुःखसिंहः प्रकीर्तितः //
9.31 SK नानेन सदृशः कश्चिन् नान्यो ऽस्ति सचराचरे देवासुरमनुष्यानां तत्त्वरूपो महेश्वरि //
9.32 SK मूर्ध्नः पादतलं यावत् तत्त्वं चरति देहिनाम् निष्कलात् सकलं याति सकलान् निष्कलं पदम् //
9.33 SK एकेनांशेन वीराणां सर्वेषां किम् अपि स्तुतम् स भैरवः शिवो भाति सर्वज्ञः सर्वजन्तुषु //
9.34 SK यावत् तिष्ठत्य् असौ गात्रे तावज् जीवन्ति जन्तवः विना तेन वरारोहे नास्ति नास्तीति कथ्यते //
9.35 SK तस्य देवाधिदेवस्य सर्वव्यापिमयस्य च सर्वदेवमयो देवि कथं भक्त्या न सिध्यति //
9.36 SK येन विज्ञानमात्रेण स्मृतेनैव तु सुन्दरि अक्षयान् लभते लोकान् मुक्तिस्थानं गमिष्यति //
9.37 SK सर्वलक्षणहीनो ऽपि स्मरणात् कल्मषापहः अहो मन्त्रस्य माहात्म्यं जप्यमानस्य नित्यशः //
9.38 SK विनापि लययोगेन योगिनीसमतां व्रजेत् साधकाय प्रयच्छन्ति त्रैलोक्यज्ञानम् उत्तमम् //
9.39 SK आकाशादि प्रयच्छन्ति दिव्यदृष्टिश्रुतागमम् सर्वभूता वशं यान्ति ग्रहाश् चैव विशेषतः //
9.40 SK विषं च निर्विषं कुर्याद् दर्शनाद् एव सर्वतः न तस्य तिष्ठते गात्रे विषं स्थावरजङ्गमम् //
9.41 SK कीटलूतास् तु भूताश् च अपमृत्युर् न तिष्ठति गरजं योगजं दोषं प्रलयं यान्ति दूरतः //
9.42 SK चूर्णलेपाञ्जनादीनि कुहकानि तु यानि वै ये करिष्यन्ति रिपवः स्त्रियो वा पुरुषस्य वा //
9.43 SK तत्क्षणात् प्रलयं यान्ति तेषां प्रत्यङ्गिरा भवेत् स्मरणाद् देवदेवस्य इन्द्रं याति नरोत्तमः //
9.44 SK ज्वलन्तो दृश्यते भूतैर् हृच्चक्रे विधिसंस्थितः दुष्टाश् च प्रलयं यान्ति सिंहस्यैव यथा मृगाः //
9.45 SK एको दोषो हि मन्त्रस्य जप्यमानस्य जायते जरा मृत्युश् च दारिद्र्यं व्याधयो विविधाः प्रिये //
9.46 SK स्मरणात् प्रलयं यान्ति तुहिनं तु रवेर् इव जप्यते येषु राष्ट्रेषु देशे वा सुरसुन्दरि //
9.47 SK न रुजा जायते तत्र स्वामी तत्र विवर्धते एकेनापि सुपुत्रेण घोरदेवाङ्गपूजनात् //
9.48 SK घोरीशं तु यदा ज्ञातं स कुलं तारयिष्यति पशवश् च न नश्यन्ति सदा वर्धति गोकुलम् //
9.49 SK वन्ध्या न जायते नारी न म्रियन्ते च बालकाः ज्वररोगादिभिस् तस्य कुटुम्बं नैव पीड्यते //
9.50 SK सर्वलोकस्य सम्पूज्यो जायते राजवल्लभः धारणीयं सदा गात्रे यथावत् प्रवदाम्य् अहम् //
9.51 SK पुष्पेण गुडिकां कृत्वा मन्त्रं भूर्जे समालिखेत् कुङ्कुमेन लिखेद् देवि रोचनायाथवा पुनः //
9.52 SK अकारचतुरो मध्ये आत्मनाम समालिखेत् मन्त्रेण छादितं नाम अङ्कुसेन तु रक्षितम् //
9.53 SK माययाच्छादयित्वा तु शिवं मूर्ध्नि गतं लिखेत् याष्टं षष्ठसमायुक्तं बिन्दुनादाङ्कितं प्रिये //
9.54 SK तच् छिवं तु वरारोहे चतुराश्रमपूजितम् सर्वं क्षस्थं परं मन्त्रं सर्वरक्षाकरं परम् //
9.55 SK नाम्ना तु गुडिका ह्य् एषा सर्वरोगविमर्दनी सान्ता पूर्वं तु कर्तव्या ततः क्षस्थां तु कारयेत् //
9.56 SK क्षकारं कालम् आरूढम् ओकारोपरिदीपितम् षष्ठस्वरयुतं देवि अमरत्वं प्रयच्छति //
9.57 SK यस् तु धारयते दिव्यां गुडिकां शिवपूजिताम् तस्य वक्ष्यामि सुश्रोणि गुणान् नानाविधान् शृणु //
9.58 SK सर्वतीर्थेषु यः स्नातः सर्वयज्ञेषु दीक्षितः न भयं विद्यते तस्य धरणद् अजरामरः //
9.59 SK सर्वव्रतानि चीर्णानि सर्वतीर्थनमस्कृतः अवनिं विचरेत् सर्वां भैरवस् तु यथा हि सः //
9.60 SK सर्वे ते दर्शनात् तस्य साधकस्य महात्मनः दुष्टाश् च प्रलयं यान्ति व्याधयो विद्रवन्ति च //
9.61 SK अब्रह्मचारी चारी स्याद् अस्नातः स्नानम् आप्नुयात् न भयं विद्यते तस्य सङ्ग्रामे च सदा जयः //
9.62 SK अभक्ष्यभक्षणं कृत्वा अगम्यागमनं तथा नासौ लिप्यति पापेन पङ्कस्थं कमलं यथा //
9.63 SK गुडिका तु सदा सिद्धा महाभैरवधारिता योगेश्वरादिमुनिभिः सर्वदेवैर् नमस्कृता //
9.64 SK बहुनापि किम् उक्तेन सत्यं सत्यं यशस्विनि ज्वलन्तो दृश्यते भूतैर् यथा रुद्रो मखान्तकृत् //
9.65 SK सुप्तो भुक्तः प्रबुद्धश् च अथ मैथुनम् आगते महाहवे महादेवि दुष्टसिंहगजेषु च //
9.66 SK विद्युद्वज्राशनिश् चैव उत्पातेष्व् अशनीषु च शत्रुनाशे च गोनाशे विषशङ्कागतं च यत् //
9.67 SK आर्णवेषु च सर्वेषु धारणान् न भयं भवेत् शाकिन्यो वशगास् तस्य दुष्टवेतालराक्षसाह् //
9.68 SK शुचिर् वाप्य् अशुचिर् वापि विद्रवन्ति दिशो दश गुडिकैषा समाख्याता त्रिलोहपरिवेष्टिता //
9.69 SK धारणीया प्रयत्नेन शिवलोकम् अवाप्नुयात् सर्वावस्थगतो वापि मुक्तिं याति सुराधिपे //
9.70 SK मत्समो धारणाद् देवि सत्यं सत्यं यशस्विनि मयापि धारिता ह्य् एषा ब्रह्मणापि ततः पुनः //
9.71 SK विष्णुना देवराजेन युद्धे दैत्यास् तु निर्जिताः अग्निवायुकुबेरेण यमेन वरुणेन च //
9.72 SK मातृभिर् गुह्यकैश् चैव गरुडेन च धीमता दधीचिना च शुक्रेण दुर्वासेनापि धीमता //
9.73 SK ऋषिभिश् च तथा सर्वैर् देवदैत्यैः कुजेश्वरि ततस् त्व् अन्यैश् च राजानैर् बलिभिर् नहुषादिभिः //
9.74 SK युद्धे जयार्थिभिर् देवि उग्रव्याधिजयार्थिभिः प्रजावश्यार्थिभिश् चैव गुडिका कण्ठधारिता //
9.75 SK नानया सदृशी विद्या गुडिका भुवि विद्यते पिण्डं तु प्रथमं मन्त्र्यम् अघोरेण सुसंस्कृतम् //
9.76 SK भुञ्जीयाच् चैव निःशङ्कं ततस् तस्यामृतायते दिशो ऽभिमन्त्र्य गच्छेत वामं चाग्रपदं न्यसेत् //
9.77 SK उभयोश् चन्द्रमध्ये तु पर्यटेत सदा स्थितः भुञ्जाने शयने चैव चन्द्रमध्ये सदा स्थितः //
9.78 SK चन्द्रारूढेन सततं स्थातव्यं वरवर्णिनि नाघोरसदृशो मन्त्रो मन्त्रा यस्माद् विनिर्गताः //
9.79 SK गुरुवक्त्रात् तु विज्ञेयो मध्ये ॐकारमध्यगम् स एव नादसंलीनो यावद् ब्रह्मबिलं गतः //
9.80 SK धारणाद् धारितं कृत्वा त्रिभिः प्राणैर् अलङ्कृतम् स्वच्छन्दसहितं देवं वर्णान्तपरिवेष्टितम् //
9.81 SK मुखे ऽनङ्गां ततो दुग्ध्वा धेनवीं चाम्बरां प्रिये ग्राह्यग्राहविमर्दश् च त्रिशूलं वडवामुखम् //
9.82 SK कुञ्चिका घण्टिका चैव राजदन्तामृतागमम् आयुषो ज्ञानम् उत्क्रान्तिर् अघोरस्य वशे स्थितः //
9.83 SK नाघोरसदृशो मन्त्रो मन्त्रकोटिशतैर् अपि सत्यं सत्यं पुनः सत्यं भूयः सत्यं पुनः पुनः //
9.84 SK सर्वज्ञं परमं मन्त्रं मुक्तिदं व्याधिनाशनम् जरामृत्युहरं देवि विद्याराजेति कीर्तितम् //
9.85 SK विषुवं च सदा तत्र यत्र सर्वं प्रतिष्ठितम् उत्पत्तिस्थितिकर्तारं यत्र सर्वे लयं गताः //
9.86 SK किं न सेव्यति देवेशि बहुरूपं कुजेश्वरि देवाधिदेवं परमं यत् तत् कारणम् अव्ययम् //
9.87 SK तत्त्वव्यापीति परमं व्योमव्यापीति कथ्यते ब्रह्मविष्णुसुरादीनाम् उत्पत्तिप्रलयान्तिकम् //
9.88 SK अघोरं घोररूपेति अघोरीश इति स्मृतः //
1003 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते शिखाकल्पैकदेशो नाम नवमः पटलः
10.1 SK कवचस्य तु माहात्म्यं शृणु देवि वदाम्य् अहम् येन संरक्षयेत् सर्वं क्रुद्धः शत्रून् निपातयेत् //
10.2 SK आगतं रक्षयेत् कालं क्रुद्धः कालं विनाशयेत् कालवत् कुलसिद्धो ऽसौ तनुत्राणावलम्बकः //
10.3 SK शाकिनीभूतवेतालान् नाशयेत् साधयेति च मायारूपधरो मन्त्री माहेन्द्रगुणशालिनः //
10.4 SK कुरुते विविधाश्चर्यं पिच्छकभ्रामणेन वै कवचं तु समाख्यातम् असिद्धभेदकृद् भवेत् //
10.5 SK अस्य दूतीं प्रवक्ष्यामि सद्यःसिद्धां कुलोद्भवाम् यस्या लेखनमात्रेण प्रस्रावो ऽङ्घ्रितलं भवेत् //
10.6 SK आख्खिल्ल भेट्टा दुर्वस आख्खिल्ले उसि आन्निदि आट्टि वसं विह पूर्वस अट्टि मसि आलित्तो उ //
10.7 SK एवं पारम्परेणैव कौलभाषा समुद्धृता गुरुवक्त्राद् विलोमेन तर्जन्यग्रेषु सिद्धिदा //
10.8 SK कवचं तु समाख्यातं शृणु नेत्रं यथास्थितम् नेत्रसिद्धो महायोगी लोकालोकं चराचरम् //
10.9 SK पश्यते निखिलं सर्वं शिवाद्यवनिगोचरम् क्रुद्धः संशोषयेत् सर्वं सागरांश् च नदानदीन् //
10.10 SK आप्यायति तदावस्थं पञ्चव्याप्त्यन्तगोचरम् निराचारपदस्थो ऽसौ तत्त्वस्थो जपते यदि //
10.11 SK अस्य दूती परा देव्या परदृष्टिसमुद्भवा सद्यःसिद्धा महादेवि सद्यःप्रत्ययकारिका //
10.12 SK हास्वा यैरीश्वण्डेमुचा क्तेरहाम क्तेर क्तेर ॐ ||
10.13 SK गुरुवक्त्रोपदेशेन पारम्पर्यक्रमेण वै तिथिसङ्ख्याकलैर् युक्ता कुलभाषासुरक्षिता //
10.14 SK अस्योपचारः कर्तव्यः कौमार्यौ द्वे समाहरेत् गन्धधूपपयःपानं शुचौ स्थाने नयेत् तु ते //
10.15 SK शुक्लवस्त्रधरां तां वै देवीं धायेद् यथा तु ताम् भावनान्तानुसारेण मर्दयेद् दारिकाननाम् //
10.16 SK शिखिनोच्छिष्टयोगेन शरीरं तस्य लाञ्छितम् स्वस्तिकेन तु कुम्भोर्ध्वं सितवस्त्रावगुण्ठितम् //
10.17 SK कुर्यात् स्नानं तु तैलाक्ता भुञ्जानस् तिलपिष्टकम् तृप्ताः सन्तः प्रपश्यन्ति दारिकाननमध्यतः //
10.18 SK यत् किञ्चिद् वाङ्मयं लोके चिन्तयित्वा तु साधकः भूतभव्यार्थनिर्देशं तत् पस्यति तदोदरे //
10.19 SK एषा नेत्रगता दूती सद्यःसिद्धिफलप्रदा कालवेलाविनिर्मुक्ता साधिता सति सर्वदा //
10.20 SK अस्त्रं प्रचण्डदण्डोग्रं साधितं विधिना यदि हृदादौ क्रमशो वृद्ध्या सङ्क्रुद्धः संहरेत् खिलम् //
10.21 SK अशुद्धं शोधयेत् सर्वं सकृदुच्चारणात् तु तम् तन् न वस्त्वन्तरं किञ्चिद् यद् अनेन न सिध्यति //
10.22 SK अस्य दूती महामाया श्रीमद्गुह्येश्वरी परा गुह्यकालीति नामेन सर्वायुधविमर्दनी //
10.23 SK रक्षणी कालपाशानां शत्रूणां तु निकृन्तनी छेदनी परमन्त्राणां यन्त्रमन्त्रापवादिनाम् //
10.24 SK यस्येषा तिष्ठते कण्ठे महाकृत्या सुदारुणा तस्य यः कुरुते किञ्चित् तस्यैव तु पुनर् भवेत् //
10.25 SK अशुभे वा शुभे वाथ कर्मवृत्तौ नियोजयेत् साधकेन्द्रस्य यः कश्चित् तस्य प्रत्यङ्गिरा भवेत् //
10.26 SK महाभये समुत्पन्ने सितगन्धाम्बरान्वितः चिन्तयन्तो निशाभागे शत्रोर् युद्धं परस्परम् //
10.27 SK एवम् अन्यानि कर्माणि साधयेत् परमेश्वरी देव्याः शस्त्रस्य धारेण अमोघोत्कटवर्चसा //
10.28 SK श्रूयतां कुल-म्-ईशानि कालस्य कालरूपिणी अमोघा शक्ति विख्याता संवर्ताङ्गसमुद्भवा //
10.29 SK हास्वा यैकाब्जिकुह्यगु ट्फ हूं ह्रें हूं ह्रीं ह्रें लिराकष्ट्रादं नह नह र्वान्स तान् तिष्यरिक तंपिराका तंकृ नये कंदिगायोप्रर्णचून्त्रतन्त्रमन्त्रयवान्द्रपर्वोस मम ट्फ हूं केब्जिकुह्यगु ॐ ||
10.30 SK स्वाहा ॐ वै परित्यज्य सिद्धवर्णास् त्रिषष्टि च खादकास्त्रेति विख्याता सर्वार्थगुणरूपधृक् //
10.31 SK अस्य नाम्ना पृथक्तन्त्रं स्वतन्त्रं सिद्धसागरम् गुह्यकालीति नामेन सपादलक्षपूर्वकम् //
10.32 SK व्यावर्णितं तु तत्रस्थम् अत्र किञ्चिद् उदाहृतम् कुब्जिकास्त्रस्य माहात्म्यं कुलालीतन्त्रनिर्गतम् //
10.33 SK पारम्पर्यक्रमायातम् उपदेशसमन्वितम् विलोमविहितं सर्वं खादकास्त्रे ऽप्य् अयं विधिः //
10.34 SK खादकास्त्रस्य लक्षेण निराचारेण योजयेत् मांसाहारस्वरूपस्य परिवर्तं करोति च //
10.35 SK तत्क्षणाद् विष्णुपङ्केन लेपनात् सिंहरूपधृक् जायते नारसिंहत्वं यद् धृतं विष्णुना पुरा //
10.36 SK विष्णुनापि पुरा चीर्णं व्रतं ह्य् अस्याः सुभीषणम् तेन तं नारसिंहत्वं तस्य सिद्धं सुदारुणम् //
10.37 SK नायातं मर्त्यलोकेदं क्वचित् सिद्धं क्रमे स्थितम् माहात्म्यं गोपितं ह्य् अस्याः सिद्धैर् भृगुपुरःसरैः //
10.38 SK अस्त्रस्य दूतिका ह्य् एषा कुब्जिकाम्नायनिर्गता सिद्धविद्यामहौघैषा आशुसिद्धा सुगोपिता //
10.39 SK कुलेश्वर्याङ्गसम्भूता सुव्रता या गुणोज्ज्वला गोपिता अन्यतन्त्रेषु प्रत्यक्षा कुब्जिकामते //
10.40 SK एतद् देव्याङ्गषट्कं तु नानानन्दप्रदायकम् देव्या हृदयमाहात्म्यं नित्यातन्त्रम् अशेषकम् //
10.41 SK नित्यानन्दकरी दूती देव्या हृदि समुद्भवा तेन नित्या समाख्याता स्वाधिष्ठानं समाश्रिता //
10.42 SK सिद्धातन्त्रं शिरोद्भूतं तत्र देव्या महाबला सिद्धयोगेश्वरी नाम रौद्रशक्तिर् महोज्ज्वला //
10.43 SK अनाहतेन संयुक्ता रौद्रदेव्या महाबला सिद्धयोगेश्वरीतन्त्रे अस्याः कीर्तिर् अनेकधा //
10.44 SK देव्याः शिखिशिखोद्भूता स्वच्छन्दानेकभेदतः मणिभेदान्तरालेन स्वच्छन्दाद्यं विनिर्मितम् //
10.45 SK स्वतन्त्रा सहजा शान्ता स्वच्छन्दगतिगामिनी मणिभेदं पूरयन्ती स्वच्छन्दार्थप्रबोधिका //
10.46 SK स्वच्छन्देन स्वरूपेण शिखासूत्रं प्रवर्तते स्वच्छन्दाघोररूपस्य तस्येदं तन्त्रम् उत्तमम् //
10.47 SK तनुत्राणसमुद्भूतं तन्त्रं सम्मोहनादिकम् विशुद्धिभावनासीनं दूत्यनेकसुसङ्कुलम् //
10.48 SK अनेकाश्चर्यकर्तारं सम्मोहध्वंसकारकम् सम्मोहनं तु तेनेदं माहात्म्यं तत्र तस्य वै //
10.49 SK देव्या नेत्रसमुद्भूतं ज्योतिःशास्त्रं स्वरोदयम् आज्ञाधारगतं ह्य् एतत् सामर्थ्यानेकसङ्कुलम् //
10.50 SK कैवल्याद्यं च यत् किञ्चित् तन् नेत्राङ्गसमुद्भवम् अस्याङ्गस्य तु माहात्म्यं ज्योतिषेश्वरसागरे //
10.51 SK परमास्त्रस्य मध्ये तु खादकास्त्रं महाबलम् तस्य व्यावर्णितं पूर्वं तन्त्रं स्वाभावलक्षणम् //
10.52 SK अभिषेकं प्रवक्ष्यामि सर्वपापप्रणाशनम् परमास्त्रप्रयोगेन सर्वं तत्र न संशयः //
10.53 SK शूलदण्डं समुद्धृत्य नाभिस्थं वर्णम् उद्धरेत् शूलदण्डासनस्थं तु कर्णभूषणवामकम् //
10.54 SK वामजङ्घासमायुक्तं नितम्बालङ्कृतं प्रिये एतद् देव्यास्त्रपरमं नापुण्यो लभते स्फुटम् //
10.55 SK क्रमपूजाविधानेन यथाविभवविस्तरम् दीपमालाभिर् उद्द्योतं कृत्वा धूपाधिवासितम् //
10.56 SK शङ्खं वा कलशं वापि अभिमन्त्र्य स्वविद्यया उत्तमाधममध्यस्य कर्मसेवानुसारतः //
10.57 SK तया विद्याभिषेकं तु न्यस्तव्या कलशे तु सा शिष्यहस्ते तु तं दत्त्वा इदं कूटं तु योजयेत् //
10.58 SK यावत् क्षुभ्यत्य् असौ हस्तः स्वयम् एव चलत्य् असौ धारणाद् इव संयातं यदा पतति मस्तके //
10.59 SK तदा तु जायते ऽसौ वै साध्यलक्षणसाधकः दग्धपापः प्रजायेत नात्र कार्यविचारणात् //
10.60 SK नाशिष्याय प्रदातव्यं न धूर्ताय न निन्दके भक्ताय श्रद्दधानाय गुरुभक्ताय सुन्दरि //
10.61 SK तस्य देयम् इदं देवि अभिषेकं वरानने तदा तु साधयेत् कर्म यद् उक्तं कर्मसन्ततौ //
10.62 SK ३ ट्फ ३ हूं २ यतघावि २ यतघा २ मव २ हक २ टचप्र २ टच परूनुत रतरघो २ रस्फुप्र ह्रौं ह्रीं ह्रां ||
10.63 SK लक्षं वै पूर्वसेवायां सिध्यते नात्र संशयः षडङ्गं षट्प्रकारं च षड्योगिन्यः षडध्वरम् //
10.64 SK षट् प्रकाराणि षट् सिद्धा ज्ञात्वैतान् भिन्नदृष्टिना स जानाति वरारोहे समस्ताम्नायपद्धतिम् //
10.65 SK अन्यथा न भवेत् सिद्धिः किञ्चिज्ज्ञः पश्चिमान्वये श्रुत्वा सविस्मयं वाक्यम् आनन्दप्रणयान्वितम् //
10.66 SK उवाचेदं पुनः कुब्जी षडध्वं वद मे प्रभो //
10.67 SK युक्तम् उक्तं च देवेशि श्रूयतां परमार्थतः सङ्क्षेपात् कथयिष्यामि शेषान्यत् पुरतः पुनः //
10.68 SK भूतं भावं तथा शाक्तं मान्त्रं रौद्रं च शाम्भवम् आज्ञातः सम्प्रवर्तेत षडध्वेदं कुलान्वये //
10.69 SK भूतं भुवनावरणं पदं भावं प्रयुज्यते शाक्तं वर्णाः समाख्याता मान्त्रं द्वादश कीर्तिताः //
10.70 SK रौद्रं कलाध्वरं प्रोक्तं शाम्भवं तत्त्वलक्षणम् आज्ञानलवती दीक्षा मन्त्राणां साधने हिता //
10.71 SK सा चाज्ञा पूर्विका सिद्धा अन्यथा तिलघातकी सा च तत्त्ववतां चैव तत्त्वं वै शाम्भवम् पदम् //
10.72 SK तत् पदं विद्यते यस्य सामर्थज्ञः स सर्वशः ज्ञानमार्गप्रसिद्ध्यर्थं दीक्षा वेधवती शुभा //
10.73 SK योग्यतातः प्रदातव्या सुभक्तस्य कुलाध्वरे सर्वासाम् एव दीक्षानां चोत्तमा परिकीर्तिता //
10.74 SK तेन वेधो न कर्तव्यो न ज्ञातं याव निश्चयम् शाम्भवाज्ञाभिमानेन लोभमोहः प्रकीर्तितः //
10.75 SK सामर्थ्यो ऽन्यो न मे तुल्यो य एवं मन्यते कुधीः आज्ञातः सम्प्रवर्तेत किं तु भूतवती भवेत् //
10.76 SK अथ चेत् परिपक्वस्य षड्विधो ह्य् अल्पस्वल्पवत् पृथिव्यादीनि भूतानि चाविशन्ति च यस्य वै //
10.77 SK भूतावेशं तु तद् विद्धि भावावेशम् अतः शृणु शब्दः स्पर्शस् तथा रूपं रसो गन्धश् च भावजम् //
10.78 SK श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं शक्तिमनो विदुः वाचा पाणिस् तथा पादं पायूपस्थं तु मान्त्रजम् //
10.79 SK मनो बुद्धिस् तथा गर्वः प्रकृतौ गुण रौद्रजम् पुरुषादिनिवृत्[त्]यन्तम् उन्मनत्वं परान्तिकम् //
10.80 SK एतत् ते शाम्भवं ज्ञानं भुवनाद्यं महाह्रदम् //
10.81 SK भूतादिशाम्भवान्तस्य भेदोपायं पृथक् पृथक् कथितं तु यथा नाथ तथा तत्प्रत्ययं वद //
10.82 SK साधु देवि महाप्राज्ञे कथयामि सप्रत्ययम् अन्यथा तत् कथं तस्य भ्रान्तिज्ञानं विनश्यति //
10.83 SK कम्पते भ्रमते रोदेच् चोत्पतेन् निपतेद् वदेत् अनिबद्धरवोन्मादी ससंज्ञो भूतवद् यथा //
10.84 SK भूतावेशस्य चिह्नेदं भावावेशम् अतः शृणु यानि चिह्नानि जायन्ते भावविद्धस्य भाविनि //
10.85 SK घूर्मणं स्वेदरोमाञ्च अश्रुपाताङ्गमोटनम् आराध्य स्मरणाद् एवं सम्पद्यन्ते स्वभावधृक् //
10.86 SK भ्रमते चक्रवत् पातः काष्ठवत् क्षुभितेक्षणः पश्यते विभ्रमापन्नः शक्तिवेधोपलक्षयेत् //
10.87 SK कम्पते भ्रमते चैव जल्पते वदते ऽखिलम् मन्त्रावेशस्य चिह्नेदं कथितं तव शोभने //
10.88 SK रौद्रं चैवम् अतो ब्रूमि पञ्चावस्था[ स्] तु रौद्रजाः अनाधीतानि शास्त्राणि ग्रन्थतश् चार्थतः सुधीः //
10.89 SK अतीतानागतं सर्वं वर्तमानस्य यत् फलम् रौद्रशक्तिसमावेशात् सर्वम् एव प्रपद्यते //
10.90 SK यस्येदं वर्तते चिह्नं रौद्रावेशं तद् उच्यते शाम्भवेन तु वेधेन सर्वाण्य् एतानि सुव्रते //
10.91 SK शुद्धशाम्भववेधस्य साम्प्रतं निर्णयं शृणु येन विद्धस्य लोके ऽस्मिन् सर्वज्ञत्वं प्रपद्यते //
10.92 SK पूर्वोक्तेन तु कालेन शोधितस् तु यदा शिशुः तदा सम्पद्यते तस्य शाम्भवं गुणदायकम् //
10.93 SK कुब्जीशो यं यदायातः पुंसो जन्मन्य् अपश्चिमे तदा सम्पद्यते तस्य शाम्भवं कुब्जिके तनौ //
10.94 SK बह्वर्थकाले ऽपि विशोधितात्मा आत्मैव सौ पश्यति सर्वभूतान् न मे समानो भुवनान्तराले विशुद्धभावो भवते ह्य् अकाले //
10.95 SK एकैकं भुवनं पश्येत् पुंसादौ चोन्मनावधिम् विशुद्धतनुजो ह्य् एवं देहेनानेन चोत्पतेत् //
10.96 SK न कम्पधुनने तस्य ईशद्घूर्मिः प्रवर्तते विषोन्मूर्छागतस् त्व् एवं तिष्ठते भूतकुम्भवत् //
10.97 SK पश्यते चाग्रतः सर्वं तत्त्वव्रातं सदोदितम् तत्क्षणाद् विषयान् मुच्येज् जीर्णकञ्चुर् यथोरगः //
10.98 SK सदानन्दमदोन्मत्तः सर्वज्ञगुणभूषितः शाम्भवेन तु विद्धस्य चिह्नेदं सम्प्रवर्तते //
10.99 SK भूतभावनशक्तीनां मन्त्रावेश[ ं ] सरौद्रजम् क्रमेण शाम्भवस् तेषां विशुद्धत्वं यथा यथा //
10.100 SK झलझलेति यद् वेधं सम्पूर्णघटवद् यथा भूतान्तशक्तिमन्त्रादौ तथेदं सम्प्रचक्ष्यते //
10.101 SK गुरुभक्तिविहीनानां वञ्चकानां यशस्विनि पूर्वं शाम्भवविद्धस्य भूताद्यं सम्प्रवर्तते //
10.102 SK वेधदीक्षापरं नास्ति कथं सा प्रत्ययात्मिका प्रत्यये सति सञ्जाते कथं तन् मोक्षलक्षणम् //
10.103 SK प्रत्यये सति मोक्षो ऽ स्ति पिण्डपातेन सर्वथा विषयेषु न मुच्येत सिद्धभावं न गच्छति //
10.104 SK शाम्भवेन तु वेधेन तत्क्षणाद् विषयोज्झितः विषयोज्झित-आत्मा वै देहेनानेन चोत्पतेत् //
10.105 SK येन वेधेन विद्धस्य सुखास्वादो न विद्यते स कथं स्वार्थनिर्मुक्तो विषयेषु विरज्यते //
10.106 SK शाम्भवे न हि सम्प्राप्ते दर्पेणाकुलितेक्षणः नायकैः सो ऽभिभूयेत न सिध्यत्य् अधिकारकृत् //
10.107 SK आज्ञानन्दे समुत्पन्ने न गन्तव्यं गुरोः कुलात् कस्मात् सामर्थ्यहेत्वर्थं यावन् नोत्पादयेद् गुणान् //
10.108 SK दिवा प्रेषणतन्निष्ठो रात्रौ ज्ञानपरिग्रहः एवं सम्पादयेत् सर्वं सामर्थ्यं तु गुरोः कुले //
10.109 SK अप्रेषिते न गन्तव्यं न कुर्याच् चोल्बणादिकम् ये न कोपवशाद् आज्ञां दास्यन्ति गमनं प्रति //
10.110 SK शाम्भवाज्ञासमुत्पन्ने य एवं कुरुते कुधीः तस्य पीठाधिपाः पालाश् चाभिभूयन्त्य् अनेकधा //
10.111 SK अनुष्ठानतपोपायैर् यदानन्दभृतस् तनुः तदाधिकारः कर्तव्यो यस्याज्ञा तस्य तत्पदे //
10.112 SK अनुज्ञातो ऽभिषिक्तस्य नाममालां प्रकाशयेत् नवपञ्चविधं द्रव्यं पूजार्थे सम्प्रदर्शितम् //
10.113 SK शुभे ऽहनि मुहूर्ते च चतुर्दश्याष्टमीषु च दर्पणोदरभूभागे वस्त्रे वाथ सुशोभने //
10.114 SK ततोपरि यजेत् सिद्धान् सर्वज्ञगुणशालिनान् चतुर्विंश षोडशैवम् अष्टौ चैव त्रिपङ्क्तिषु //
10.115 SK द्वौ सिद्धौ मध्यदेशे तु कुङ्कुमेन तु चाक्षतैः त्रिहस्तं मण्डलं कुर्याद् ऊर्ध्वादौ पूर्वपश्चिमम् //
10.116 SK शृङ्गातकाकृति ह्य् एवं तत्र पूजां समारभेत् पूजयित्वा विधानेन द्रव्यैः पञ्चनवादिभिः //
10.117 SK पृथग्दीपैः पूजयित्वा फल्गुषालिसुगन्धिभिः सुप्रणीतं सुभक्तं च आज्ञागुणविधायिनम् //
10.118 SK ततः प्रवेशयेच् छिष्यं पुष्पं मोचापयेद् इति यस्मिन् मार्गे पतेत् पुष्पं तन् नाम तस्य दापयेत् //
10.119 SK प्रकटं शिव विज्ञेयं गुप्तम् आनन्द-म्-उच्यते अकारादिक्षकारान्तं पञ्चाशगुणलक्षितम् //
10.120 SK अक्षरे अक्षरे सिद्धं पुष्पपाताद् विलक्षयेत् श्रीकण्ठानन्तसूक्ष्मेशं त्रिमूर्तिर् अमरो ऽर्घिनः //
10.121 SK तिथीशो भारभूतिश् च स्थाणुनामो हरस् तथा झण्टीशो भौक्तिकश् चैव सद्योजातस् त्व् अनुग्रही //
10.122 SK क्रूरसेनस् तथान्यो वै महासेनस् ततः परः प्रथमादौ स्थिता ह्य् एते उपरिष्टाद् विलक्षयेत् //
10.123 SK क्रोधश् चण्डः प्रचण्डश् च शिवैकरुद्र एव च कूर्मश् चैवैकनेत्रश् च चतुरास्यो ऽवसानुगः //
10.124 SK प्रथमा या स्थिता पङ्क्तिः पीठत्रयविभूषिता अजेशः शर्म सोमश् च लाङ्गुलीशो ऽथ दारुकः //
10.125 SK अर्धनार्यो ह्य् उमाकान्तो आषाढी दिण्डिर् एव च धात्रीशश् च तथा मीनो मेषो लोहित-म्-एव च //
10.126 SK शिखीशश् छगलण्डश् च द्विरण्डो मध्यपङ्क्तिगाः महाकालश् च वालाख्यो भुजङ्गाख्यः पिनाकिनः //
10.127 SK खड्गानन्दो बकानन्दः श्वेतानन्दस् तथैव च भृगुश् चैवान्तिमे चक्रे अष्टौ तांश् च प्रपूजयेत् //
10.128 SK लाकुलानन्द मध्यस्थं संवर्तानन्दसंयुतम् तयोर् मध्यगतां देवीं कुब्जिकां परमेश्वरीम् //
10.129 SK पूजयेत् पीठसंयुक्तां पारम्पर्येण संयुताम् यथा सिद्धास् तथा देव्याः संहार्यादि प्रपूजयेत् //
10.130 SK वागेश्यन्ताः क्रमेणैव गुरुवक्त्रप्रसादतः षडारे डादिषट्कं तु क्रमेणैव प्रपूजयेत् //
10.131 SK कुलाष्टकं ततो बाह्ये अष्टारे पङ्कजे क्रमात् पञ्चद्रव्यभृतं पात्रं तदग्रे सन्निवेशयेत् //
10.132 SK क्रमाम्नायं पुनः पात्रे कुर्यात् तेनाभिषेचनम् मुखेन वाथ कर्तव्यं यस्योपरि सुभावना //
10.133 SK ततश् चादेशयेत् तं तु कुरु कार्यं यदृच्छया अधिकारपदं सर्वं मोक्षितं ते प्रसादतः //
10.134 SK ततः प्रभृति देवेशि योग्यो भवति शासने शासनं भूषयेन् नित्यं गुप्ताचारविधौ स्थितः //
10.135 SK अव्यक्तेन तु लिङ्गेन व्यक्तलिङ्गेन वा पुनः येन लिङ्गेन यस्येदं तल्लिङ्गं न परित्यजेत् //
10.136 SK आकाशात् पतितं तोयं यथा गच्छति सागरम् गर्तानद्योपचारेण तथा सर्वं कुलान्वये //
10.137 SK यास्यन्ति लिङ्गिनः सर्वे निश्चयार्थो ऽन्यथा न हि कस्मात् प्रत्यक्षरूपेण तत्राज्ञा वर्तते यतः //
10.138 SK समुद्रवत् कुलानन्दं यस्मात् तत् सर्वतोमुखम् कुलं तद् एव विज्ञेयं सर्वानुग्रहकारकम् //
10.139 SK ब्राह्मणं क्षत्रियं वैश्यं शूद्रं प्राकृतम् अन्त्यजम् मातङ्गम्लेच्छजात्युत्थं बौद्धसाङ्ख्यदिगम्बरम् //
10.140 SK त्रिदण्डमुण्डखट्वाङ्गमुषलान्यक्रियान्वितम् यास्यन्ति परमं शैवं शैवो याति न कुत्रचित् //
10.141 SK तच् च कौलभृतानन्दं नेतरं तु क्रियाकुलम् सर्वज्ञमार्गविहितं सर्वाचारप्रपालकम् //
10.142 SK कौलिकाचारमार्गेण भावाद्वैतेन सर्वथा तत्त्वाद्वैतेन मार्गेण सर्वथा यत्र संस्थितः //
10.143 SK पालयेल् लौकिकाचारम् अद्वैतं समनुष्ठयेत् गोपयेद् गुप्तलिङ्गानि तत्प्रविष्टानि सर्वथा //
10.144 SK अधमाद् उत्तमं ज्ञानं यद्य् अर्थी उत्तमो भवेत् लिङ्गिनो वा द्विजन्मा वा आज्ञार्थी तु न वञ्चयेत् //
10.145 SK एकान्ते विहितं सर्वं कुर्वीत न जनाकुले अन्यथा स्थितिभङ्गः स्यान् नश्यते शासनं प्रिये //
10.146 SK वर्जयेत् कौलिकान् बौद्धान् तथा मीमांसकास्थितान् कस्माद् भ्रष्टक्रिया तेषां न मोक्षो नैव साधनम् //
10.147 SK जिह्वोपस्थनिमित्तार्थम् अद्वैतं तेषु सर्वथा कौलिकाचारनिर्मुक्ताः श्वानवद् विचरन्ति ते //
10.148 SK निराचारं प्रकुर्वन्ति निराचारविवर्जिताः विषं भक्षन्ति ते मूढा यथाज्ञामन्त्रवर्जिताः //
10.149 SK यद्य् अपि ते त्रिकालज्ञास् त्रैलोक्याकर्षणक्षमाः तथापि संवृताचाराः पालयन्ति कुलस्थितिम् //
10.150 SK निराचारेण योगेन पश्यन्ति विषयोज्झिताः विषयस्थो ऽपहासित्वं निराचारेण यात्य् असौ //
10.151 SK भ्रष्टनष्टकुलं त्यज्य कुलकौलं समाश्रयेत् तत्र योगिगुरूणां च पूज्यते चरणाम्बुजम् //
10.152 SK समयेन विना देवि समर्थो भवते कथम् सामर्थ्येन विना चर्या निराचारात्मिका भवेत् //
10.153 SK ज्ञात्वाम्नायपदं सर्वं यथावस्थं कुलेश्वरम् षट्प्रकारविधानेन निर्गताचाररूपिणम् //
10.154 SK सामर्थ्यगुणयुक्तात्मा विषयातीतो जितेन्द्रियः विरजो रञ्जितात्मा वै निराचारो भवेत् तु सः //
10.155 SK एतत् ते कथितं देवि सरहस्यं सुगोपितम् अन्यद् यत् ते मनस्थं तु तत् पृच्छ वदतो मम //
1159 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते देव्यासमयो नाम मन्त्रोद्धारे दशमः पटलः
11.1 SK मन्त्रतन्त्रैस् त्वया देव भ्रामिताहं क्रियादिभिः ध्यानधारणयोगैश् च इदानीं कथय स्फुटम् //
11.2 SK पूर्वतन्त्रे त्वया देव सूचितं न प्रकाशितम् अधुना श्रोतुम् इच्छामि षट्पदार्थविनिर्णयम् //
11.3 SK महानन्दकरं वाक्यं महाश्चर्यकरं परम् गोपितं सर्वदेवानां तथा ते कथयाम्य् अहम् //
11.4 SK अनादिनिधनेशानाच् छिवात् परमकारणात् दिव्याज्ञायाः क्रमो जातः पारम्पर्यौघसन्ततिः //
11.5 SK अकुलं च कुलं चैव कुलाकुलविनिर्णयम् अधुना कथयिष्यामि नवधा निर्णयो यथा //
11.6 SK परस्य परमां विद्धि योनिम् आद्यां महाम्बिके रूपातीतादियोगेन परेच्छेयं चतुर्विधा //
11.7 SK रूपातीतं तु कामाख्यं रूपं पूर्णगिरिर् महान् पदं जालन्धराख्यं तु पिण्डम् ओड्रं प्रकीर्तितम् //
11.8 SK अन्तिमामृत सूक्ष्मा च सुसूक्ष्माद्यं चतुष्टयम् अकुलेश्वरदेवस्य सम्बन्धः प्रथमः स्मृतः //
11.9 SK रूपातीतात् परो हिन्दुः शक्त्याधिष्ठित भास्वरः ततो नादो निरोधश् च अर्धचन्द्रम् अनुक्रमात् //
11.10 SK एतत् तत् पञ्चकं प्रोक्तं ज्ञानरत्नमहोदयम् सा योनिः परमा ज्ञेया क्रियाध्वानमहोदधिः //
11.11 SK बिन्दुतत्त्वात् परो बिन्दुर् मकारोकार-म्-एव च अकारस् तु समाख्यातः षट्पदार्थविभेदकः //
11.12 SK रूपात् पदं समुत्पन्नं कालरूपं षडाननम् षड्विधाध्वानयोगेन सृजते संहरन्ति च //
11.13 SK आधाराधेययोगेन षट्पदार्थपदेन च कुरुते विविधां सृष्टिं येन तत् कथ्यते ऽ धुना //
11.14 SK आत्मा धारयते शक्तिम् आत्मा हंसोपरिस्थितः हंसः समीरणान्तस्थः स च नाडीपथे स्थितः //
11.15 SK नाड्यः पिण्डे सकर्माद्यः पशुर् मायामलान्विताः एतत् षट्कं समाख्यातं कुलमार्गप्रबोधकम् //
11.16 SK अत्र जातं जगत् सर्वं क्रियाकारणगोचरम् पराच् च शाम्भवं ज्ञानं विज्ञानानेकसङ्कुलम् //
11.17 SK विशुद्धिर् बोधजननी षोडशान्त-म्-अधोर्ध्वतः मणिपूरक शब्दस्थं दशपञ्चावतारकम् //
11.18 SK सा तु माया परा ज्ञेया चतुर्योनिर् महाम्बिके शब्दसूत्रेण येनैताः पञ्चाश मणयो महान् //
11.19 SK आपूरिताश् च महता तेनेदं मणिपूरकम् अस्याधारं तु विज्ञेयं कर्णकुब्जं महापुरम् //
11.20 SK विज्ञानैः पञ्चदशभिः पूरितं भुक्तिमुक्तिदम् मणिपूरकमालायां ग्रन्थिर् जाता चतुर्विधा //
11.21 SK मण्डलं मन्त्रविद्याश् च मुद्रा ग्रन्थिश् चतुर्विधा मायायन्त्रोदरे चान्या पुंसां सृष्टिर् अनाहता //
11.22 SK नदते दशधा सा तु दिव्यानन्दप्रदायिका चिणीति प्रथमं शब्दं चिञ्चिनी तु द्वितीयकम् //
11.23 SK चीरवाकी तृतीयं तु शङ्खशब्दं चतुर्थकम् पञ्चमं तन्त्रिनिर्घोषं षष्ठं वंशरवस् तथा //
11.24 SK सप्तमं कंसतालं तु मेघशब्दं तु चाष्टमम् नवमं दाघनिर्घोषं दशमं दुन्दुभिस्वनः //
11.25 SK नवशब्दम् परित्यज्य दशमं मोक्षदं परम् हननेन विना येन व्याहरेद् दशधा रवम् //
11.26 SK तेनैवानाहतं जातं कर्णकुब्जाद् विनिर्गतम् दशधा रवते-द्-एवम् अष्टपत्त्रोपरिस्थितम् //
11.27 SK दशधा गुणदातारं चिच्चेताहृदयात्मकम् प्रमाणपदयोगेन क्षोभयित्वा नवान् बहून् //
11.28 SK कलाकर्मसमायोगात् स्वाधिष्ठानं विनिर्मितम् शतकोटिसुविस्तीर्णं भुवनानेकसङ्कुलम् //
11.29 SK मायाकालकलाकीर्णम् आधारं ब्रह्मणस् तु तत् चतुष्कलसमोपेतं शिवशक्तिसमन्वितम् //
11.30 SK षट्प्रकारम् इदं कुब्जि स्वाधिष्ठानं पृथक् पृथक् षट्पदार्थविभागो ऽयं दुर्लभः प्रकटीकृतः //
11.31 SK क्रियातत्त्वार्थनिर्देशं कुब्जिके ऽन्यत्र गोपितम् कुलाकुलम् इदं षट्कम् उत्तरं ते प्रकाशितम् //
11.32 SK दक्षिणस्यापि षट्कस्य साम्प्रतं निर्णयं शृणु मणिपूरकदेवस्य तत् तेजो भास्वरस् तु यः //
11.33 SK तत्र तद् दक्षिणं षट्कम् आज्ञापूर्वं कुलोद्भवम् सृष्टिमार्गक्रमायातं शिवशक्तेः कुलाकुलम् //
11.34 SK संहारपदषट्कस्य कुलं शक्त्यान्तदक्षिणम् गुदम् आधारम् इत्य् उक्तं स्वाधिष्ठानं तु लिङ्गजम् //
11.35 SK मणिपूरक नाभिस्थं हृदिस्थं च अनाहतम् विशुद्धिः कण्ठदेशे तु आज्ञा नेत्रद्वयान्तरे //
11.36 SK विशुद्धिः षोडशैर् भेदैर् दशधा तु अनाहतम् मणिपूरक विज्ञेयं भेदैर् द्वादशभिः स्थितम् //
11.37 SK अनेकार्थगुणाधारं स्वाधिष्ठानं तु षट्कलम् चतुष्कलं तु आधारम् आज्ञाभेदद्वयं विदुः //
11.38 SK आज्ञाभेदद्वयं नाथ कथं तत् परमेश्वर आचचक्ष्व प्रयत्नेन येन भ्रान्तिर् विनश्यति //
11.39 SK लक्षवारसहस्रैस् तु वारं वारं पुनः पुनः एष साङ्केतिको ह्य् अर्थः कथ्यमानं न बुध्यसि //
11.40 SK शाम्भवं कथितं ज्ञानं सृष्टिमार्गेण शक्तिगम् इच्छाशक्तिसमायुक्तम् उत्तरं ते प्रकाशितम् //
11.41 SK इच्छाज्ञानं परित्यज्य शम्भुर् अत्रापि दक्षिणम् क्रियाशक्तिर् अधोभागे संयोगात् प्रत्ययायते //
11.42 SK ऊर्ध्वशक्तिनिपातेन अधःशक्तिनिकुञ्चनात् कुरुते विविधां सृष्टिम् अनेकाकाररूपिणीम् //
11.43 SK न शिवेन विना शक्तिर् न शिवः शक्तिवर्जितः क्रियातत्त्वस्य मार्गो ऽयं परेच्छाध्वं तु केवलम् //
11.44 SK उत्तरस्य तु मार्गस्य यच् छतुष्कं सुसूक्ष्मगम् क्षोभितं तेन चात्मानं पुनः षोडशधा कृतम् //
11.45 SK विशुद्धं परतत्त्वान्तं तेनात्मानं विसर्पितम् चतुस्त्रिंशतिभेदेन तस्मान् ऽनेकविधाकृतिः //
11.46 SK सप्रत्ययगुणाधारम् अवस्थागुणदायकम् लक्ष्यते येन सुश्रोणि तच् छृणुष्व यथार्थतः //
11.47 SK मुक्ताफलनिभाकारं क्वचिज् ज्वालाचलाचलम् क्वचिन् मर्कटिजालाभं मृगतृष्णेव चापलम् //
11.48 SK रूपातीतं च रूपं च पदपिण्डं चतुर्विधम् विशुद्धतनुदेवस्य आद्यभेदं चतुष्टयम् //
11.49 SK सरहस्यं प्रबुद्धानां क्षुब्धानां तु क्रियाध्वरे तस्मात् पीठचतुष्कं तु सञ्जातं तु कुलाकुलम् //
11.50 SK कलाभृत्तनुदेवस्य कैलासोपरिसंस्थितम् मध्यदेशे तु रन्ध्रस्थं श्रीमदोड्रकुलेश्वरम् //
11.51 SK प्रथमं पीतवर्णं तु सशैलवनकाननम् वनोपवनसंयुक्तं हेमप्राकारमण्डितम् //
11.52 SK नदीनदसमाकीर्णम् अनेकार्थसमाकुलम् सर्वबीजसमाकीर्णं चतुरस्रं समन्ततः //
11.53 SK वज्रार्गलसमोपेतं वज्रहस्ता तु मालिनी तत्राधिपत्ययोगेन पीठपीठेश्वरीयुतम् //
11.54 SK तस्यैव दक्षिणे कोणे चन्द्राभं चन्द्रवर्चसम् अर्धचन्द्र पुराकारं सरि त्सरसमाकुलम् //
11.55 SK जलकल्लोलगम्भीरं षड्रसार्णवसङ्कुलम् वीचीतरङ्गकल्लोलैस् तटास्फालनभीषणैः //
11.56 SK तत्त्वनाथोपरिस्थं तु पुरं तत् पारमेश्वरम् हिमचन्द्रशिलाभिश् च समन्तान् निचितं तु तम् //
11.57 SK प्राकारेण विचित्रेण गोपुराट्टालशोभितम् अनेकगुणसञ्छन्नम् अनेकाश्चर्यसङ्कुलम् //
11.58 SK तत्र तत्त्वेश्वरं देवं देव्याधिष्ठितविग्रहम् श्यामवर्णं सुतेजाढ्यं पाशहस्तं सुलोचनम् //
11.59 SK आधारं सर्वसृष्टेस् तु महापीठोपरिस्थितम् कैलासदक्षिणे शृङ्गे अनेकगुणसङ्कुलम् //
11.60 SK श्रीमज्जालन्धरं पीठं तत्रस्थं लक्षयेत् प्रिये कैलासस्योत्तरे शृङ्गे अनेकार्चिसमाकुलम् //
11.61 SK ग्रसन्तम् इव त्रैलोक्यं सूर्यकोटिसमप्रभम् पिङ्गलं दहनावस्थं लेलिहानं सुदारुणम् //
11.62 SK ममापि देवि दुष्प्रेक्ष्यं किं पुनस् त्व् इतरैर् जनैः त्रिकोणपुरमध्यस्थं वज्रप्राकारमण्डितम् //
11.63 SK वज्रस्तम्भमयं दिव्यं पुरं वै पारमेश्वरम् कालाग्निगोपुराट्टालं समन्तात् परिवेष्टितम् //
11.64 SK बहुरूपसमाकीर्णं विद्यागुणविभूषितम् अनेकाश्चर्यसम्पन्नं जीवभूतं जगत्त्रये //
11.65 SK आपूरितम् इदं येन तेन तत् पूर्णसंज्ञितम् सप्तजिह्वासमोपेतं कालरूपं षडाननम् //
11.66 SK पूर्णमाया समायुक्तं साञ्जनं चारुरूपिणम् शक्तिहस्तं महावीर्यं सृष्टिसंहारकारकम् //
11.67 SK नपुंसकगुणान्तस्थं व्याप्तिभूतं विनिर्गतम् मध्यपीठस्य पूर्वेण चाग्रशृङ्गे व्यवस्थितम् //
11.68 SK पद्मिनीदलसङ्काशं धूम्रवत् ताम्रवर्चसम् महाप्रचण्डदण्डौघैः स्फालनोल्लाललालसैः //
11.69 SK धूयमानं समन्तात् तु शोषयन्तं चराचरम् षडस्रमण्डलान्तस्थं सर्वव्यापिकुलेश्वरम् //
11.70 SK न तेन रहितं किञ्चित् सृष्टिसंहारगोचरे इन्द्रनीलनिभैः स्तम्भैः समन्तान् निचितं पुरम् //
11.71 SK प्राकारगोपुराट्टालं ध्वजाएकुशधनुर्धरम् पञ्चबाणधरं देवं कामदेव्या समन्वितम् //
11.72 SK द्रावयन्तं जगत् सर्वं श्रुतिरूपं तनूज्झितम् चतुर्दशविधस्यापि नायको दण्डधारकः //
11.73 SK तस्येच्छाप्रेरितं सर्वं कामाद्यं सम्प्रवर्तते तेनेदं चाग्रकोटिस्थं मनोन्मन्योर्ध्वसंस्थितम् //
11.74 SK स्त्रीपुंनपुंसके द्वे तु पीठव्याप्तौ परे विदुः ल् कामेन क्षुभितं तत्त्वं स्थाणुसंज्ञा मनोन्मनम् //
11.75 SK मनोन्मनेन समनं द्वाव् एतौ तु नपुंसकौ पुटरूपौ समाख्यातौ तस्मान् ऽन्यो व्यापिनः परः //
11.76 SK सा तु माया परा देवी दुर्भेद्या चाक्षयाव्यया व्यापिनी सर्वतत्त्वानाम् आत्मादौ त्व् अपरे ऽध्वनि //
11.77 SK मायैव सा षडध्वस्य षट्त्रिंशानां विशेषतः यया विभज्य चात्मानं स्वरूपे चाध्वनिर्मितम् //
11.78 SK अर्धकोट्या अधःस्थाने नादान्तं सन्निवेशितम् उन्मनः समनश् चैव व्यापिनो ध्वनिर् एव च //
11.79 SK पीठचतुष्कम् एतत् तु स एवान्योन्यतः क्रमात् ध्वनेर् नादः समुत्पन्नः स चानेकविधः स्थितः //
11.80 SK सूक्ष्मश् चैव सुसूक्ष्मश् च व्यक्ताव्यक्तो ऽथ कृत्रिमः आत्मनो ऽप्य् अर्धकोट्यन्ते अधःस्थाने निवेशितः //
11.81 SK तस्मात् स कुरुते सृष्टिम् अनेकाकाररूपिणीम् सूक्ष्मनादो गुहावासी कालाग्नौ तु सुसूक्ष्मगः //
11.82 SK स्वस्थानस्थस् तु अव्यक्तः पदान्ते व्यक्त-म्-आश्रितः कृत्रिमश् चैव संयोगात् स चाकाशे व्यवस्थितः //
11.83 SK तस्माद् अक्षरसन्तानं वाग्विलासं प्रवर्तते तेन सङ्क्षोभ्य चात्मानं अव्यक्ताव्यक्तरूपिणम् //
11.84 SK निरोधितं तु तेनेदं सूक्ष्मभावस्य सम्भवः तेन नैरोधिकं नाम गोलाकारं व्यवस्थितम् //
11.85 SK आत्मलग्नस्वरूपेण प्रतिमूर्ति द्वितीयकम् तेन सङ्क्षोभ्य चात्मानम् अर्धचन्द्रविनिर्मितम् //
11.86 SK स्रवन्तम् अमृतं दिव्यं सर्वस्य जगतः स्थितम् तस्य सम्प्लावनात्यर्थं विसर्गाभिरतस् तु यः //
11.87 SK तत्रादित्यं समुत्पन्नं वर्णानां प्रभुम् ईश्वरम् बिन्दुरूपं जगन्नाथं क्रियाकालगुणोत्तरम् //
11.88 SK वर्णसृष्टेस् तु कर्तारं देदीप्यन्तं सुवर्चसम् उन्मनादिचतुष्कस्य सञ्जातेदं चतुष्कलम् //
11.89 SK क्षुभितं क्रमयोगेन विशुद्धतनु शाम्भवम् स्थितं षोडशभेदेन चतुष्केन पृथक् पृथक् //
11.90 SK कुलातीतशरीरस्य पिण्डम् आद्यं चतुष्कलम् द्वादशाङ्गं कुलेशस्य मस्तके संव्यवस्थितम् //
11.91 SK चतुष्कलं द्वितीयं तु पीठरूपं जगाम्बिके नादान्तोर्ध्वं तु मायाद्यं विज्ञेयं तु पुटत्रयम् //
11.92 SK ललाटोर्ध्वं कुलेशस्य ज्ञातव्यं तु कुलेश्वरि तदधः पञ्चधा नादं कृत्रिमं मुखमण्डले //
11.93 SK निरोधं तत्समं ज्ञेयं चन्द्रसूर्यं ततोदरे एवं विशुद्धदेवेन षोडशावयवं तनुम् //
11.94 SK अकुलेशकुलेशानं विभज्य च निवेशितम् अत्र योगाभिपन्नानाम् अवस्थां शृणु भाविनि //
11.95 SK रोमाञ्चश् चाश्रुपातश् च विषुवं चन्द्रदर्शनम् पिपीलिकापरः स्पर्शः सूर्यं रात्रौ च पश्यति //
11.96 SK उत्पतेद् गगनाम्भोभिः शब्दान् मुञ्चति दारुणान् वागीशत्वं प्रपद्येत किं त्व् अबद्धप्रलापिनः //
11.97 SK क्षोभः क्षुधाजयो निद्रा उन्मनत्वं क्षनात् क्षनात् सुगन्धश् च सुदीप्तश् च वाचासिद्धिः प्रवर्तते //
11.98 SK षोडशैते महावस्थाः प्रत्यक्षानुभवेद् यदि तदा तेन तु देहेन खेचरीकुलनन्दनः //
11.99 SK एतत् ते सरहस्यं तु विशुद्धं कथितं मया इदानीं शृणु कल्याणि यथावस्थम् अनाहतम् //
11.100 SK कण्ठाधस्तात् कुलेशस्य उदरोर्ध्वम् अवस्थितम् क्रोधशर्मादिभिः सिद्धैश् चक्रवर्तिदशान्वितः //
11.101 SK एकरुद्रः सुशर्मा च ग्रन्थौ नाले व्यवस्थितः क्रोधाजेशादयः सिद्धाश् चक्रवर्तिदले स्थिताः //
11.102 SK पूर्वेशगोचरान्तास् ते मध्ये देवः सदाशिवः चारोच्चारविचारैश् च एभिः सार्धं रमेत् तु सः //
11.103 SK राज्यक्रीडाम् अथोर्ध्वे च संहारात्मा जगत्त्रयम् मांसादपिशुनत्वेन ह्य् अभिलाषो ऽ धुना पुनः //
11.104 SK आप्यायितमनो हृष्टस् तुष्टचित्तस् तु वत्सलः पृथ्वीं भ्रमामि निखिलां व्रजामो गिरिगह्वरम् //
11.105 SK द्रव्यम् आवर्जयाम् आस विलसामो ददाम्य् अहम् परं वैराग्यम् आपन्नो मोक्षान्वेषणतत्परः //
11.106 SK गुरुम् अन्वेषयिष्यामि येन भूयो न सम्भवः सन्धिनालान्तरस्थो ऽसौ पातालम् अनुकाङ्क्षति //
11.107 SK दिव्यसिद्धो भविष्यामः क्रीडामः कामिनीजनैः मध्यदेशान्तरस्थो ऽसौ न किञ्चिद् अपि चिन्तयेत् //
11.108 SK सुखावस्थो जितक्रोधः सत्त्वावस्थो जितेन्द्रियः तिष्ठते ऽनाहतो देवश् चक्रवर्त्यष्टकैर् वृतः //
11.109 SK दशधावस्थिते चक्रे भावाभावसमन्वितः गुरुवक्त्रगतो देवश् चक्रवर्तिसमन्वितः //
11.110 SK स्वभावगुणसंयुक्तं चिन्तयन्तोपदेशतः अभ्यसन्तस्य देवेशि अवस्थाः सम्भवन्ति हि //
11.111 SK पुंसो भेदेन जायन्ते सात्त्वराजसतामसाः उत्तमो मध्यमश् चेति कन्यसस् तु तृतीयकः //
11.112 SK कन्यसे तामसावस्था राजसा सात्त्विका पुनः मध्यमे रजसा युक्तं सत्त्वावस्थादितोत्तमः //
11.113 SK याश् च ताः शृणु कल्याणि येषु योगस्य साधनम् तमो मोहो रजः शोकश् चतुष्कं कन्यसादिकम् //
11.114 SK लोलुपा रागवत्या च कामुका चापलायिनी मध्यमादिष्व् अवस्थैताः कन्यसे तु द्वितीयका //
11.115 SK प्रभावती सुतारा च बिम्बा बिम्बखगेश्वरी ज्येष्ठादिमध्यमे द्विस्था त्रिस्था कन्यसगोचरे //
11.116 SK उदयन्ति क्रमा ह्य् एताः समाधिविषये स्थिताः अन्तिमैका द्विमध्यस्था त्रिधावस्था तु कन्यसे //
1276 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते षट्प्रकारनिर्णयो नाम एकादशमः पटलः
12.1 SK किं तु ज्येष्ठचतुष्कस्य द्वे ऽवस्था न भवन्ति हि कुलेशानाम् अवस्थानां लक्षणं वद भैरव येन वै ऽनाहतं देवं जानीमः परमेश्वर //
12.2 SK कथयामि वरारोहे प्रत्ययं तु सलक्षणम् ताम् अविज्ञाय भ्रष्टत्वम् अवश्यं हितकारिणि //
12.3 SK अक्रमाज्ञा भवेद् येषां रभसाज्ञा प्रकाशिता सामर्थ्यतो ऽथ दयया उक्तकालाद् अवान्तरे //
12.4 SK तामसास् ते समाख्यातास् तमोऽवस्थान्तरान्विताः समयानि न मन्यन्ते गुर्वाज्ञालोपकारकाः //
12.5 SK कलिद्वन्द्वप्रिया नित्यं छिद्रान्वेषणतत्पराः गुरोपवादनिरता निरपेक्षा मुहुर् मुहुः //
12.6 SK अपवादं रुषित्वा तु गुरोर् यान्ति पराङ्मुखाः येनासौ निधनं याति तत् करोति तमोऽन्वितः //
12.7 SK मोहाविष्टो न जानाति आत्मसम्भावितः कुधीः अहङ्कारतमोलुब्धः पूर्वजातिम् अनुस्मरेत् //
12.8 SK गुरुं विचारयित्वा तु शोकेनान्तरितात्मनः प्रयाति गृहसायोज्यं तमेनाकुलितेक्षणः //
12.9 SK तेनाधमपदं याति जीवन्न् एव मृतस् तु सः बुद्धिमन्तो महाप्राज्ञः स्वागमार्थविशारदः //
12.10 SK ततः क्षमापयेन् नाथं तद्विदाम्नायपूजनम् त्रिसप्तकं तु मौनेन सर्वोपस्करणैः सह //
12.11 SK अवस्थाश् चोपशाम्यन्ते तमो ऽवस्थाचतुष्टयम् लोलुपादौ तु चत्वारि क्रमाद् ध्य् एवं व्यपोहयेत् //
12.12 SK मायया भृतचित्तस् तु दासत्वेन तु रञ्जयेत् उक्तकालार्धमानेन रञ्जितो ऽनुग्रहेद् गुरुः //
12.13 SK तीव्रत्वे ऽपि हि सञ्जाते मन्दत्वं सम्प्रवर्तते उपदेशोपचारेण अवस्थालक्षणं भवेत् //
12.14 SK राजसो ऽयं समाख्यातश् चाहङ्कारगुणान्वितः पण्डितो ऽहं सुभक्तो ऽहं वक्ताहं बोधको ह्य् अहम् //
12.15 SK ज्ञानिनो ऽहं समर्थो ऽहं वयं सर्वगुणेश्वराः करोति गुरुणा सार्धं वादम् अज्ञानचेतसः //
12.16 SK इदं तत्त्वम् इदं तत्त्वम् आगमोक्तं न जानथ एवं ऽसौ रजसालिप्तो यद्य् आत्मानं न संस्मरेत् //
12.17 SK तदावस्थाचतुष्केण लोलुपाद्येन गृह्यते परस्त्रियं हसेन् नित्यं धावयित्वा विलग्यते //
12.18 SK स शृङ्गारी मदस्रावी नित् यम् एवं गजो यथा आत्मानं विक्रयित्वा तु मद्यमांसं समाचरेत् //
12.19 SK विवेको यदि चित्तस्थस् तदाराध्यं समाश्रयेत् अथ चेत् पूर्वविहितां क्रमपूजां समाचरेत् //
12.20 SK मध्यमस्य ततः पश्चाद् अवस्था शुभदायिका उत्तमं परया भक्त्या आविष्टस् तु सदा गुरोः //
12.21 SK उक्तकालेन चादेशानुग्रहः सम्प्रपादितः त्रिशुद्धान्तरभावेन यस्य भावो न चान्यथा //
12.22 SK तस्य चैवोत्तरे मार्गे दक्षिणाम्नायपूर्वकम् विन्दते निखिलं ज्ञानं निरहङ्कारी दृढव्रतः //
12.23 SK उदयन्ति शुभावस्थाः प्रभावत्यादितः क्रमात् षट्कमार्गेति याः प्रोक्ताः शुभास् ताश् चोदयन्ति वै //
12.24 SK प्रभाभिरञ्जितात्मा वै पश्यते भुवनत्रयम् तारकान्तस्थम् आत्मानं देदीप्यन्तं सुवर्चसम् //
12.25 SK चन्द्ररूपं यदा पश्येत् तारामण्डलमध्यतः तारावती तु सा प्रोक्ता अवस्था सिद्धिदायिका //
12.26 SK अभ्यस्यन्तः स्वरूपेण समाधिस्थः प्रपश्यति आत्मबिम्बपुरस्थं तु बिम्बा सावश्यसिद्धिदा //
12.27 SK समाधिस्थः स्वबिम्बं तु आसनेन समन्वितम् उत्पतन्तं यदा पश्येत् तदा सा बिम्बखेचरी //
12.28 SK दृष्ट्वैतां तु महावस्थां सिद्धे[र्] भ्रान्तिं न कारयेत् अवश्यं याति खेचक्रे ह्य् उक्तकालं कुलेश्वरि //
12.29 SK एषावस्था समासाद्य दशावस्था[स्] त्यजेत् पुनः गुणान् उत्पादयित्वा तु अनाहतपदं व्रजेत् //
12.30 SK अथान्यत् परमं वक्ष्Yए मणिपूरं यथा स्थितम् तथा त्वं शृणु कल्याणि कल्याणानन्दवर्धनम् //
12.31 SK स्थितं द्वादशभेदेन सोमेशादौ शिखान्तिकम् नाभ्युदरनितम्बोरुजङ्घाङ्घ्रीम् अनुक्रमात् //
12.32 SK कुलनाथमहेशस्य संस्थितो मणिपूरकः तनुचक्रे समावृत्य यथावस्थं तथा शृणु //
12.33 SK सोमेशोदरसंस्थं तु द्वादशार्चिसमन्वितम् द्वीपक्षेत्रसमायुक्तं तद् एवान्यान् विलक्षयेत् //
12.34 SK लाङ्गली दक्षिणे कुक्षौ वामे दारुकजं विभुम् अर्धनारीश्वरं नाभौ स्वचक्रपरिवारितम् //
12.35 SK दक्षिणेन ह्य् उमाकान्तं नितम्बे वामतो ऽषढिम् डिण्डित्रियुगलोरुभ्यां जानुभ्यां मीनमेषकौ //
12.36 SK लोहिताख्यं शिखीनाथं दक्षादौ वामम् आश्रितौ पीठनाथं तथा क्षेत्रं द्वीपं द्वीपाधिपैः सह //
12.37 SK मणिवद् द्योतयन्तं तु पूरयन्तं दिशो दश सूर्यकान्तिमणिप्रख्यं भास्करेव प्रपश्यते //
12.38 SK कालसङ्ख्याकरं देवं कलैर् द्वादशभिर् युतम् पीठनाथं तु द्वीपस्थं मासमासादितः क्रमात् //
12.39 SK पूरयेद् वर्षसन्तानं युगमन्वन्तराणि च कल्पं चेति महाकल्पं मणिद्वादशभिः खिलम् //
12.40 SK यतः पूरयेद् विश्वात्मा तेनेदं मणिपूरकम् शक्तिमार्गप्रपन्नानां भुक्तिमुक्तिफलप्रदम् //
12.41 SK एकैकं चिन्तयेच् चक्रं नाथाज्ञा ह्य् उपदेशतः भवन्ति सर्वसिद्धीनि उत्तमाधममध्यमाः //
12.42 SK मणिपूरक पादस्थं पीठेश्वरसमन्वितम् द्वीपद्वीपाधिपैर् युक्तं मासम् एकं यदाभ्यसेत् //
12.43 SK पादचारि जगत् सर्वं क्षोभयेद् अविचारतः पूजाध्यानसमाधिस्थः शक्तिमार्गेण योगवित् //
12.44 SK षण्मासेन अवश्यं हि वत्सरान्तं न संशयः अन्यच् छीघ्रगतिस् तस्य आत्मनः सम्प्रवर्तते //
12.45 SK पादुके पादलेपं वा मनोवेगः प्रजायते एवं जानुनि अभ्यासाद् भूतवेतालनयकः //
12.46 SK कुरुते विविधाश्चर्यं कल्पस्थायी भवेत् तु सः आत्मवन्तो महोत्साह ऊरुभ्यां उरगेश्वरः //
12.47 SK किं तु तद्द्विगुणेनैव कालेन प्रथमादितः क्रमेण सिध्यते सर्वम् आद्यन्तेन विलक्षयेत् //
12.48 SK नितम्बाभ्यासयोगेन गुह्यकानां पतिर् भवेत् यक्षविद्याधराणं च प्रेतपैशाचराक्षसाम् //
12.49 SK क्रीडते नायको भूत्वा पूर्वमार्गविधौ स्थितः कुक्षिमार्गगते चक्रे अभ्यसन्तः श्रियं लभेत् //
12.50 SK किन्नरेन्द्र सगन्धर्वो लोकालोकेषु पूज्यते वायुवद् भ्रमते सो हि सर्वत्रैवम् अशङ्कितः //
12.51 SK मध्यनाभिगते चक्रे मूलमेढ्रे यदाभ्यसेत् शान्तिपुष्टिवशाकर्षं सर्वज्ञत्वं पृथुश्रियम् //
12.52 SK सकृत्संस्मरणाद् एवम् अभ्यसन्तः खगेश्वरः ब्रह्माण्डान्तरनिःशेषं भ्रमते कामरूपिणः //
12.53 SK साङ्ख्यज्ञानविदो भूत्वा विचरेत् स्वपुरं पुनह् अथ स्पष्टतरं देवि शक्तित्यागं शृणुष्व मे //
12.54 SK यद् एतत् परमं बीजं हंसाख्यं हृदि संस्थितम् विना तेनोपलब्धिं च न जानाति कदाचन //
12.55 SK तस्य रूपत्रयं भद्रे नादं संयोगम् एव च वियोगं चेति सुश्रोणि लक्षणीयं प्रयत्नतः //
12.56 SK चैतन्यत्रितयं चात्र आत्मशक्तिशिवात्मकम् अविनाभावयोगेन चैतन्यत्रितयस्थितम् //
12.57 SK तेनोपचर्यते भद्रे हंसदेवः परापरः सङ्कोचे तु परा शक्तिर् विकासे भैरवः स्मृतः //
12.58 SK मध्ये आत्मा सदा तिष्ठेत् पूर्यष्टकसमन्वितः विकासश् चोर्ध्वनाडिस् तु सङ्कोचोऽधः प्रकीर्तितः //
12.59 SK मध्ये नाभिर् इति प्रोक्तस् त्रयम् एतत् सुदुर्लभम् ऊर्ध्वनाडीनिरोधेन अधोनाडीनिकुञ्चनात् //
12.60 SK मध्ये चित्तं समादाय मथनं तत्र कारयेत् योनिमध्यगतं लिङ्गं योन्योदरपुटीकृतम् //
12.61 SK तन्मध्ये चात्मनो रूपं लक्षयेत पुनः पुनः मथनं ह्य् एतद् आख्यातम् अज्ञानमलनाशनम् //
12.62 SK मध्यमन्थानयोगेन ज्ञानाग्निर् ज्वलते किल ज्वलिते तु तदा वह्नौ ज्योतिर् एवं प्रवर्धते //
12.63 SK प्रवर्धनान् महाज्योतेर् आनन्दम् उपजायते मथनाद् भगलिङ्गाभ्यां यथानन्दः प्रजायते //
12.64 SK मथनाच् छिवशक्त्योस् तु तथानन्दः प्रजायते निश्चयत्वं भवेद् देवि शिवशक्त्योर् अभेदतः //
12.65 SK मथनं ह्य् एतद् एवोक्तम् अमृतोत्पादकं प्रिये तेनामृतेन चात्मानं प्लाव्यमानं विचिन्तयेत् //
12.66 SK एषा सा परमा वृत्तिः परतत्त्वम् इदं स्मृतम् एतत् तत् परमं ब्रह्म परमानन्दलक्षणम् //
12.67 SK तद् आनन्दपरानन्दं शक्तित्यागम् इति स्मृतम् एष ते मणिपूरस् तु सरहस्यं प्रकाशितम् //
12.68 SK गोपितं पूर्वतन्त्रेषु कुब्जि तुभ्यं प्रकाशितम् द्वीपमार्गविभागेन पीठनाथक्रमेण तु //
12.69 SK दुर्लभं सिद्धमार्गस्य किं पुनस् त्व् इतरेषु च उक्तकालेन सिध्यन्ति अवश्यं नानृतं वचः //
12.70 SK शृणु देवि यथावस्थं स्वाधिष्ठानं वदामि ते कलाकलितदेहस्य यथास्थानं निगद्यते //
12.71 SK पूर्वम् एकार्णवे घोरे तमोभूते जगत्त्रये लिङ्गरूपधरश् चाहं परेच्छावशवर्तिनः //
12.72 SK षण्मुखः कालरूपो ऽहं लिङ्गाकारो व्यवस्थितः षट्कलाभिर् वृतो नित्यं विश्वमध्ये रमाम्य् अहम् //
12.73 SK षट्कौषिकेन युक्तो ऽहं पिण्डो ऽहं ऽनङ्गवर्चसः ततः प्रवर्तिता सृष्टिर् ममेच्छा तु पुनः प्रिये //
12.74 SK ब्रह्मविष्ण्वादिभिः सिद्धैः पूजिताराधित[ः] स्तुतः ततो ऽहं वरम् आपन्नस् तेषु भावानुवर्तिनाम् //
12.75 SK षडस्रं चतुरस्रं तु आत्मानं च समर्पितम् तेन ते कारणत्वेन सृष्टिकृत् कारणेश्वराः //
12.76 SK हर्ता कर्ता स्वतन्त्रास् ते मद्रूपगुणचेतसः पुनः स्तोत्रं समारब्धं तैस् तु नाथैः पुनर् ह्य् अह् अम् //
12.77 SK यावन् ऽनेकविधानेन तावत् तेषां वरप्रदः पुनः सन्तोषितो ऽतीव वरं प्रार्थय पुष्कलम् //
12.78 SK तैर् उक्तं देवदेवेश लिङ्गेदं सर्वतोमुखम् येन पूज्यो भवामीह तद् वरं दद मे प्रभो //
12.79 SK अस्य लिङ्गस्य माहात्म्यं व्याप्तिभूतं यथास्थितम् तथा कुरु महेशान जानीमो निश्चयं यथा //
12.80 SK ततस् तेषां महादेवि व्याप्तिमार्ग[ः] प्रदर्शितः व्यक्तलिङ्गं कृतं पश्चात् षडध्वगुणगोचरम् //
12.81 SK षडध्वरोपदेशेन तनुस् तेषां प्रदर्शिता द्विरण्डेन कृतं देहं शेषा वक्त्राणि चोर्ध्वतः //
12.82 SK वामादिक्रमयोगेन सञ्जातानि विदुर् बुधाः छगलण्डोत्तरं वक्त्रं महाकालोर्ध्वतः स्थितः //
12.83 SK वालिवक्त्रं भवेत् पूर्वं पुरुषं जीवरूपिणम् भुजङ्गं दक्षिने क्रूरं नागरूपं महद्भुतम् //
12.84 SK पश्चिमं तु पिनाकाख्यं निवृत्तिस्थं नियामकम् अविद्याख्यं पुरा प्रोक्तं क्षणध्वंसीविनाशकम् //
12.85 SK अत्र मध्ये त्रयं श्रेष्ठम् अविनाशाक्षयाव्ययम् माया शम्भुश् च पुरुषं क्षीYअते न कदाचन //
12.86 SK पञ्चवक्त्रतनूद्भूतं षट्कौषकुलसम्भवम् तेषां प्रदर्शितं रूपं कलाध्वं कुलनायकम् //
12.87 SK साधितो ऽहं त्वया विष्णो निश्चलेनान्तरात्मना भावाधिष्ठानयोगेन तेनेदं दर्शितं मया //
12.88 SK स्वाधिष्ठानं परं योगं प्रविश्य मम सर्वथा लिङ्गं प्रविश्य मेधावी येन पूज्यो भविष्यसि //
1365 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते षट्प्रकाराधिकारार्णवो नाम द्वादशमः पटलः
13.1 SK एवं देवि मयासौ तु पूर्वं चक्रधरः सुधीः लिङ्गे स्वाधिष्ठितो येन स्वाधिष्ठानं तु तेन वै //
13.2 SK मायाशाम्भवसंस्थानं कलाधिष्ठानशासनम् पुरुषाणुसमायुक्तं स्वाधिष्ठानम् अतो ऽर्थतः //
13.3 SK रागेण रञ्जितात्मा वै नियत्या यो नियामितः अविद्याप्रेरितो गच्छेत् स्वर्गं वा स्वभ्रम् एव वा //
13.4 SK त्रितयं शुभम् उद्दिष्टम् अशुभं तु तथा त्रिकम् षट्कौषिकम् इदं स्थानं व्याप्तिभूतं मया तव //
13.5 SK शक्ते यं तु समाख्यातं शाम्भवं परतोत्तरे कथयिष्यामि सुश्रोणि इदानीं प्रत्ययं शृणु //
13.6 SK साधनं लोकविख्यातं षट्सिद्धाधिष्ठितं तु तत् स्वाधिष्ठानं तु लिङ्गस्थं यथा स्थानगतं शृणु //
13.7 SK द्विरण्डेन तनुस् तस्य छगलण्डादितः क्रमात् यत्र स्थाने स्थिता माया महाकाल मुखाग्रतः //
13.8 SK वालीश्वरं तु रन्ध्रस्थं भुजङ्ग मणिमस्तके पिनाकिनं तु सीमन्यां संस्थितं तु नियामकम् //
13.9 SK अत्र योगं प्रवक्ष्यामि योगिनां शुभदायकम् येन पश्यन्ति तं लिङ्गं पूर्वोक्तं गुणशालिनम् //
13.10 SK द्वीपद्वीपेश्वरं नाथं द्वादशार्चिसमन्वितम् मासमासावधी ऽकैकम् अभ्यसन्तो गुणान् लभेत् //
13.11 SK युञ्जन्तः श्रियम् आप्नोति षड्रसास्वादनं क्रमात् कटुतिक्तकषायाम्लं क्षारश् च मधुरावधि //
13.12 SK नाथं द्वीपस् तु द्वीपार्चि द्वीपादिक्रमसंयुतम् ध्यानस्थानसमायोगात् तन् नास्ति यन् न साधयेत् //
13.13 SK षड्वक्त्रं चिन्त्यम् आत्मानं देवीं च गुणलालसाम् मुखेन मुखम् आलग्नं ह्य् आत्मलिङ्गोपरिस्थितम् //
13.14 SK भावानन्दरसालाढ्यं हेलादोलैर् व्यवस्थितम् लिङ्गरन्ध्रं तु रन्ध्रस्थं तेन मार्गेण चाभ्यसेत् //
13.15 SK विद्युज्ज्योतिलताकारं वक्त्रमण्डलनिःसृतम् तस्य वै ह्य् आत्मनः पश्चात् नित् यम् एव समभ्यसेत् //
13.16 SK षण्मासेन वरारोहे स्फोटयेत् पर्वतान् अपि द्वितीये ऽनङ्गरूपो ऽसौ क्षोभयेत वराङ्गनाम् //
13.17 SK तत्स्थाने तिर्यगालोकात् किं तु रक्तारुणेन तु मर्त्यजान् खेचरान् यक्षान् रक्षःपैशाचगोचरान् //
13.18 SK क्षोभयेद् धाटकीशस्य पुरं साधकपुङ्गवः तत्रैव ब्रह्मयोगेन चक्रावर्तेन चक्षुषा //
13.19 SK कर्षयेन् निखिलान् सर्वान् फलपुष्पादितः क्रमात् मर्त्यलोकादितः कृत्वा पातालस्वर्गसंस्थितान् //
13.20 SK तृतीयेन तु योगेन चतुर्थं स्तम्भने क्षमः किं तु पीतेन तत्त्वाक्षश् चक्षुषा परिपूर्णधीः //
13.21 SK स्तम्भयेद् गगनाम्भोभिर् विमानपवनौ महान् नावागति गजानां च वाजिचौरारिपन्नगान् //
13.22 SK पञ्चमेन तु योगेन तत्रस्थः कृष्णमण्डले मारयेद् यस्य क्रुद्धो ऽसौ यः क्रुद्धो म्रियते तु सः //
13.23 SK स देवासुरत्रैलोक्यं द्विपदं वा चतुष्पदम् चतुर्दशविधस्यापि क्रुद्धः संहरणे क्षमः //
13.24 SK षष्ठम् ऊर्ध्वपरं स्थानं ब्रह्मद्वारेति कीर्तितम् अप्रसिद्धेन मार्गेण हेलादोलैकतत्परः //
13.25 SK विद्युल्लताछटाटोपं वारं वारं मुहुर् मुहुः अभ्यसेद् याव योगेशि तावद् आनन्दतां व्रजेत् //
13.26 SK त्यजेत् स्वाभाविकं सर्वं संसारपथगोचरम् निःसंज्ञो मृतवद् योगी काष्ठवद् उपलक्ष्यते //
13.27 SK सात्त्विकं राजसं भावं तामसं तु यदा भवेत् त्रयावस्थगतो योगी पूर्वलिङ्गसमो भवेत् //
13.28 SK पूज्यते स सुरैः सर्वैः खेचरस्थैर् न चापरैः षट्प्रकारम् इदं लिङ्गं यो जानाति स तत्त्ववित् //
13.29 SK एतत् ते कथितं सर्वं सरहस्यं सुगोपितम् न देयं दुष्टबुद्धीनां ज्ञानचौरेषु शासनम् //
13.30 SK यावन् न सर्वभावेन कायक्लेशसहा नराः ततश् चेदं प्रदातव्यम् अन्यायान् नरकं व्रजेत् //
13.31 SK एतत् कुलेश्वरं लिङ्गं प्रलयोत्पत्तिकारकम् यो जानाति वरारोहे स सिद्धो ह्य् अत्र शासने //
13.32 SK तस्माल्लिङ्गं न निन्देत यावत् तावत् तनौ स्थितम् सर्वेषां विद्यते ह्य् एतत् कल्पना ह्य् अत्र कारणम् //
13.33 SK द्विपदं मर्त्यजं लिङ्गं रौप्यहेममणिर्मयम् मन्त्रमूर्तिकुलेशानम् आवाह्याप्य् अत्र रोपितम् //
13.34 SK स्वाधिष्ठानं तु तत् तस्य पूजनात् तत् पदं लभेत् प्रथमं न हि सर्वस्य सर्वज्ञत्वं प्रपद्यते //
13.35 SK तस्मान् न निन्दयेल्लिङ्गं तन्मूर्तिगुणशालिनम् सर्वज्ञत्वे ऽपि सम्प्राप्ते समयान् सम्प्रपालयेत् //
13.36 SK तमोरजःप्रविष्टानाम् अहङ्कारवशानुगाम् न तेषां साधनं सिद्धिर् जायते पतनं पुनः //
13.37 SK श्रीकुलेश्वरदेवस्य लिङ्गाधारं शृणु प्रिये वृत्ताकारं सरन्ध्रं तु चतुरस्रं प्रकीर्तितम् //
13.38 SK त्रिरन्ध्रवलयाकारं शृङ्गाटाकृतिवर्चसम् पिण्डिकोपरिलिङ्गस्य जगद्योनिर् महाम्बिके //
13.39 SK चतुष्कलसमोपेतं चतुष्पीठसमन्वितम् चतुःसिद्धसमायुक्तं ज्ञात्वा सिद्धिफलप्रदम् //
13.40 SK खड्गीशः प्रथमे वृत्ते जलपट्टे निवेशितः बकश् चाङ्कुररूपेण रन्ध्रसन्धौ व्यवस्थितः //
13.41 SK श्वेतः प्रणालके द्विस्थः प्रवाहे संव्यवस्थितः भृगुर् मेखलरूपेण समन्तात् परिमण्डलम् //
13.42 SK शृङ्गाटके तु पीठानि खातस्याग्रे विलक्षयेत् ओ-जा-पू-का-मतत्वं तु मध्यदक्षिणवामतः //
13.43 SK अग्रदेशे तु कोटिस्थं शृङ्गाटं चतुरस्रकम् कृ-त्रे-द्वा-क-क्रमाद् एवम् आधारं चतुरङ्गुलम् //
13.44 SK तत्राभ्यासं प्रकुर्वीत अभिषेकगुणान्वितः आज्ञालब्धपरो भक्तश् चतुर्मासात् फलं लभेत् //
13.45 SK जलपट्टगतं देवम् आदिपीठसमन्वितम् शुक्लवर्णं यदा ध्यायेच् छान्तिपुष्टिपरं व्रजेत् //
13.46 SK तं त्यज्य बकनाथाख्यं दक्षपीठगतं यदा तदा पुष्टिश्रियारोग्यं पूर्वाभ्यासफलं लभेत् //
13.47 SK श्वेतं प्रणालरन्ध्रस्थं वामपीठगतं यदा अभ्यसेत् क्रमयोगेन वश्याकर्षणमारणम् //
13.48 SK रोगव्याधिजयः पुष्टिः क्रमात् खेचरतां व्रजेत् भृगु[ं] कामसमायोगाद् अभ्यसन्तो गुणान् लभेत् //
13.49 SK शान्तिपुष्टिवशाकर्षं पुरक्षोभं पृथुश्रियम् वलीपलितनाशस् तु वागीशत्वं प्रवर्तते //
13.50 SK सञ्जीवनं मृतानां च द्रुमाकृष्टि जलप्लवम् वातमेघनदीनां च स्तम्भकृद् वाचहारिणः //
13.51 SK वाचासिद्धिः प्रभुत्वं च स्तोभकृत् पर्वतादिषु स्तम्भयेत् सर्वसैन्यानि आधारगतचेतसः //
13.52 SK आधारं क्रमम् इत्य् उक्तं तद् विना साधनं न हि न मोक्षो न च भुक्तिश् च यावाम्नायो न वेदितः //
13.53 SK एतद् आधारम् इत्य् उक्तम् आज्ञाभेदम् अतः शृणु येन विज्ञातमात्रेण सर्वज्ञत्वं प्रपद्यते //
13.54 SK क्रमं शाम्भवम् इत्य् आहुर् यस्मात् सम्भवते ऽखिलम् वाचासिद्धेस् तु आधारं वाचयाज्ञा प्रवर्तते //
13.55 SK शाम्भवाभ्यासमात्रं तु यत् क्रमात् सम्प्रवर्तते अथाणुरुद्रशक्तिस्था भावभूतेषु शाम्भवा //
13.56 SK अधिकारात्मिका ह्य् एषा विशुद्धिगुणदायिका न मोक्षो विद्यते तेषां प्रसादाज्ञा विवर्जिता //
13.57 SK प्रसादं क्रमम् इत्य् उक्तं क्रमाज् ज्ञानं तु शाम्भवम् शाम्भवेन समस्तार्थान् वेत्ति पश्यति चाग्रतः //
13.58 SK यदा दृष्टः समस्तार्थो गुरुतः शास्त्रतः स्वतः तदासौ क्रमिकः प्रोक्तः क्रमतुल्यो ऽथवा हि सः //
13.59 SK आज्ञाभ्यासे न मुक्तिस् तु यावाम्नयो न वेदितः सबाह्याभ्यन्तरं भद्रे अतो ऽर्थं तोषयेद् गुरुम् //
13.60 SK सर्वाङ्गभक्तियुक्तस् तु त्रिशुद्धेनान्तरात्मना भक्त्या चाराधयेन् नाथं तस्य सर्वं प्रपद्यते //
13.61 SK या भक्तिः सा भवेच् छक्तिः शक्त्या सम्भवते क्रमः क्रमात् सम्भवते वाचा वाचयाज्ञा प्रवर्तते //
13.62 SK यादृशेन तु भावेन गुरुदेवम् उपासयेत् तादृग्भावेन तस्याज्ञा किञ्चिच् चांशेन सङ्क्रमेत् //
13.63 SK उपरोधप्रसङ्गेन उक्तकालाद् अवान्तरे किञ्चिच् चाज्ञा भवेत् तस्य भूतोर्मिगुणसङ्कुला //
13.64 SK परिपक्वफलं यद्वत् सुस्वादगुणसंयुतम् तद्वच् छिष्यो ऽपि कालेन समस्तार्थविदो भवेत् //
13.65 SK रसोज्झितं न सुस्वादं यथाम्लफलभक्षणम् तथा ह्य् अपक्वशिष्याणां वृथाज्ञानपरिश्रमः //
13.66 SK सामर्थ्येनापि दत्ताज्ञा भूतांशेन समाविशेत् ऊर्मिग्रस्तो ह्य् अहङ्कारी अहङ्काराद् विनश्यति //
13.67 SK एकपक्षः समाख्यातः साम्प्रतं वै ऽधिकं शृणु स्थूलमार्गेण सूक्ष्मत्वं क्रमाद् एवं प्रजायते //
13.68 SK भेदो रन्ध्रं तथा छिद्रम् एका संज्ञा यशस्विनि सबीजाश् चेति निर्बीजाः स्थितिभेदो द्विधा स्थितः //
13.69 SK कूर्मानन्दं च पैनाकं महाकालं तृतीयकम् क्रोधीशम् अर्घिणा युक्तं विद्या चैव द्वितीयकम् //
13.70 SK झण्टीशेन समायुक्तं कुलवागेश्वरी स्मृता प्रणवं कौलिकं गृह्य लकुलीशाद् अनन्तरम् //
13.71 SK श्रीकण्ठं चोष्मणा युक्तं लकुलीशादिमं पुनः उपदेशसमायुक्तं सर्वदं भृगु-र्-आवधिम् //
13.72 SK वज्ररन्ध्रान्तरे योज्य कोदण्डान्तं विचिन्तयेत् श्लोकद्वादशकोपेतं चक्रद्वादशकान्वितम् //
13.73 SK गुरुवक्त्रसमोपेतं ध्यात्वा वाचां प्रसाधयेत् स्मरणमात्रयोगेन कालक्षेपो न चात्र वै //
13.74 SK अथ चेद् अभ्यसेद् एवं वज्रकोदण्डकान्तरम् सर्वज्ञत्वं भवेत् तस्य क्रियाख्यं याव सुन्दरि //
13.75 SK क्रियातो ऽ घं प्रवर्तेत वाचाज्ञामोघशालिनी वागीशत्वं पुनः पश्चाद् वागीशः सृजते ऽखिलम् //
13.76 SK ज्वलन्तं स्वेन तेजेन लकुली वाममार्गतः स ज्येष्ठः कुलसन्ताने रौद्रशक्तिभिर् आवृतः //
13.77 SK त्रयस्त्रिंशतिमे तत्त्वे ह्य् अधिकारो लयः परे संवर्तः केवलो नाथः सबीजो बीजवर्जितः //
13.78 SK अस्य रन्ध्रान्तरस्थानम् आज्ञाध्यानं तु शाम्भवम् न मन्त्रोच्चारणं ज्ञानं न मुद्रा ध्यान चिन्तनम् //
13.79 SK नायामो न निरोधश् च ग्रन्थिभेदो न धारणा सर्वोपायविहीनो ऽसौ किं तु स्थानविकल्पना //
13.80 SK अधोर्ध्वरोमसंस्थाने तत्र भावं विनिक्षिपेत् ऊर्ध्वग्रन्थिर् अधःकन्दो मध्ये किञ्चिन् न विद्यते //
13.81 SK तत् स्थानं शाम्भवं विद्धि शम्भुरन्ध्रोपलक्षितम् न किञ्चिच् चिन्तयेत् तत्र ईषदारोपणं चितौ //
13.82 SK एवं संस्मरणाद् एव ज्ञानानन्दं प्रवर्तते वाचामात्रेण चान्येषां कुरुते प्रत्ययान् बहून् //
13.83 SK सकृत्संस्मरणाद् एवम् अभ्यसन्तः श्रियं लभेत् विज्ञानानि च सर्वाणि षण्मासाभ्यासयोगतः //
13.84 SK चतुस्त्रिंशपदेशानं विन्दते वत्सराष्टकान् तत् स्थानं सहजं तस्य संयोगं यदि तस्य वै //
13.85 SK भुजङ्गानुग्रहीशेन मन्त्रयुक्तेन तत् प्रिये उच्चरन्तो हनेत् सृष्टिं लकुलीशान्तकारकः //
13.86 SK भोगश् चास्य हि नादान्ते लयः स्याद् व्यापिनीपदे आज्ञाभेदद्वयं नाथे ह्य् एतत् तत् परमार्थतः //
13.87 SK शक्तिमार्गगतं विद्धि शेषो ऽन्यच् चोत् तरे पुनः एतत् षट्कं परं शाक्तं दक्षिणं परिकीर्तितम् //
13.88 SK योगिषट्कसमायुक्तं सद्योमेलकदायकम् त्वया मह्यं मया तुभ्यं त्वयाहं त्वं मया पुनः //
13.89 SK कथितं तव सुश्रोणि त्वत्सङ्गान्येषु मोक्षदम् पशु पक्षि तथा वृक्षास् तृणगुल्मसरीसृपम् //
13.90 SK व्याख्यानं यत्र मार्गस्य मु च्य् अन्ते तान्य् अवश्यतः येन वर्षसहस्राणि भक्त्या आराधितो ह्य् अहम् //
13.91 SK जन्मन्य् अपश्चिमे पुंसां जायते ऽदं सुदुर्लभम् चेतश्चित्तविहीनानां प्रसङ्गान् मुक्तिदं प्रिये //
13.92 SK किं पुनश् चित्तयुक्तानां सङ्गाद् एव न मुक्तिदम् अतो ऽर्थं सह संयोगं खानपानं सहासनम् //
13.93 SK वस्त्रमाल्योपहाराणि स्वजुष्टान्यं न दापयेत् असत्सङ्गं न कर्तव्यं सत्सङ्गं न विवर्जयेत् //
13.94 SK शुद्धाशयसमाचारं ज्ञानाधारं प्रपूजयेत् विशुद्धं काञ्चनं यद्वन् नागसङ्गाद् विनश्यति //
13.95 SK एवं विशुद्धतत्त्वो ऽपि असत्सङ्गाद् विनश्यति योगिनीकुलगर्भस्थः कुलवीराङ्गसम्भवः //
13.96 SK सिद्धो ऽसौ सिद्धसन्ताने षट्पादार्थं स विन्दति एतत् ते कथितं सर्वं दक्षिणेदं सलक्षणम् //
13.97 SK योगषट्कं कुलाधारं पृच्छस्वान्यद् यद् इच्छसि //
1463 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते दक्षिणषट्कपरिज्ञानो नाम त्रयोदशमः पटलः
14.1 SK दया च परमा मह्यं मण्डलीशकुलाकुलम् षट्पदार्थो मया ज्ञातः षड् योगिन्यो वद प्रभो //
14.2 SK उवाच भगवान् नाथः कुब्जीशानि वदाम्य् अहम् सद्यःप्रत्ययकर्तारं सद्योमेलकदायकम् //
14.3 SK कम्-ब-मा-लम्-वि-का देव्यः क्रमात् षट्कं कुलाकुले मोक्षभुक्तिप्रदातारः षड् एताः षट्कनायिकाः //
14.4 SK ड-र-ल-क-स-ह-जोत्थाः संस्थिताः कुलगोचरे कुलषट्कनिवासिन्यो निग्रहानुग्रहे ऽपि वा //
14.5 SK एकैकानुग्रहन्त्य् एता निग्रहन्त्य् अनुलोमकृत् षट्पत्त्रे पूजिताः सन्त्यः षट्पदार्थफलप्रदाः //
14.6 SK पुरतः पृच्छयिष्यामि प्रारब्धं कथयस्व मे चतुष्कपञ्चकानां च चतुर्णां च फलोदयम् //
14.7 SK षट्पदार्थोपदेशेन समस्तं कथितं मया तथापि कथयिष्यामि अधिकारो यथा स्थितः //
14.8 SK ओ-जा-पू-कामुको भेदो दृष्ट्वाक्षरविनिश्चितम् मुद्राचतुष्टयोपेतं सङ्केतात् कथितं प्रिये //
14.9 SK चतुर्युगं चतुष्पीठं योन्यश् चत्वारि याः प्रिये सबाह्याभ्यन्तरे सर्वं कथयामि यथार्थतः //
14.10 SK नाभ्यधोदरहृत्कण्ठे कृ-त्रे-द्वा-कम् अनुक्रमात् ओ-जा-पू-कामरूपिण्यश् चत्वार्य् एवं व्यवस्थिताः //
14.11 SK सबाह्याभ्यन्तरेणैव चतुष्कं परिकीर्तितम् गुरूपदेशसंयुक्तं पञ्चकं कथयामि ते //
14.12 SK देव्यो दूत्यस् तथा मात्र्यो योगिन्यः खेचरीगणः पञ्चधा ह्य् अधिकारो ऽयं कुर्वन्त्य् एताः कुलाकुले //
14.13 SK देवीचतुष्टयाधारं स्वाधिष्ठानं षडाश्रयम् रन्ध्रकामशिखिर् गोलं ध्वजकन्दान्तकावधिम् //
14.14 SK सप्तमं तत्त्वम् उद्दिष्टं ब्रह्मणः पदम् उत्तमम् अत्र सृष्टिः समुत्पन्ना षट्कौषकुलसम्भवा //
14.15 SK देव्याधिष्ठितम् ईसानं स्वाधिष्ठानगुणाश्रयम् रन्ध्रद्वादशकोपेतं कामद्वादशकान्वितम् //
14.16 SK वह्नीश्वरे तथाप्य् एवं द्वादशं ध्वजकन्दयोः पिण्डद्वादशकोपेतं चतुराशीत्य् अनेकशः //
14.17 SK शाम्भवाधिष्ठिते योगे स्वाधिष्ठाने निरामये चतुराशीतिगुणानां विज्ञानपदवीं लभेत् //
14.18 SK अत्र मध्ये महेशानि सर्वकारणकारणम् यथा निष्पद्यते पिण्डं तत् तथा चावधारयेत् //
14.19 SK आधारशक्तिम् आदौ तु ब्रह्मशक्तिम् अतोर्ध्वतः एतद् ब्रह्माण्डम् इत्य् उक्तं सप्तलोकसमन्वितम् //
14.20 SK आधारं चैव भूर्लोकं भुवर्लोकं तु कामगम् स्वर्लोकं शिखिम् इत्य् उक्तं महर्लोकं तु गोलकम् //
14.21 SK ध्वजस्थं जनम् इत्य् उक्तं तपोलोकं तु कन्दगम् सत्यलोकं तु तत्त्वस्थं ब्रह्मग्रन्थ्यावधिस्थितम् //
14.22 SK सत्यलोकाद् अधः सृष्टिः कलाद्या पिण्डसम्भवा आज्ञातः सम्प्रवर्तन्ते त्रयान्तं याव मानसी //
14.23 SK चतुर्णां तु पुनः सृष्टिर् अधस्ताद् योनिसम्भवा मध्यमन्थानयोगेन शुभाशुभनिबन्धनम् //
14.24 SK भुवर्लोकाद् अधोलोके विविधा सृष्टिः प्रवर्तते जरायुजा च सा ज्ञेया बहुदुःखसमाकुला //
14.25 SK कन्दात् सञ्जायते सृष्टिः कन्दं वै सप्तलौकिकम् रन्ध्रादौ ग्रन्थिपर्यन्तं विज्ञेयं सप्तधातुकम् //
14.26 SK कन्दात् सञ्जायते ऽङ्कुरः अङ्कुरान् मूलसम्भवः मूलात् पर्णलताशाखा[स्] ततः पुष्पफलादिकम् //
14.27 SK फलं शरीरम् इत्य् उक्तं धातुवृक्षसमुद्भवम् पिण्डं कन्दोद्भवं तच् च शुभाशुभजलान्तगम् //
14.28 SK त्वग्रक्तमांस रन्ध्रादौ अशुभं कामवह्निगम् शुभं मेदोऽस्थिमज्जान्तं गोलकन्दध्वजान्वितम् //
14.29 SK अशुभं तु रजः साक्षात् त्रिशक्तिगुण मातृजम् पैतृकं शुभम् उद्दिष्टं रेतो ह्य् आत्मादि-म्-ईश्वरः //
14.30 SK पिण्डं सर्वत्र सामान्यम् उभयोर् अपि कुब्जिके सङ्गमे शिवशक्तीनां पिण्डबन्धो भवेत् तदा //
14.31 SK यत् किञ्चिच् चिन्तयेन् माता यत् किञ्चिच् चिन्तयेत् पिता उभौ भावसमायोगात् तद्भावः सहजो भवेत् //
14.32 SK विश्वरूपो मणिर् यद्वद् उपाधिविषयो यथा तत्कालोपाधिचिन्तायां स रागः सहजो भवेत् //
14.33 SK एतद् अन्तरम् आसाद्य पिण्डः कारणरूपधृक् बन्धते पञ्चधात्मानं पञ्चपञ्चादिभिः क्रमात् //
14.34 SK पुरुषं प्रकृतिश् चैव गुणो ऽहङ्कार धीर् मनः षण्मुखस् तु परो ह्य् आत्मा चतुष्कपरिवेष्टितः //
14.35 SK अधोर्ध्वं नीयते जीवः कोषकीट-म्-इव स्थितः प्रकाशयति चात्मानं बध्नाति च पुनः पुनः //
14.36 SK नियामिकाचतुष्केण सन्नद्धो भ्रमते ह्य् अणुः एकैकं तं चतुर्धा तु देवीचक्रं प्रकीर्तितम् //
14.37 SK नियामिका भवेत् पृथ्वी प्रतिष्ठा शब्दपूर्विका श्रोत्रपूर्णा भवेद् विद्या शान्तिर् वागेश्वरी स्मृता //
14.38 SK क्षोणी तु प्रथमा ज्ञेया शब्ददेवी द्वितीयका तृतीया श्रोत्रिका नाम वाचादेवी चतुर्थिका //
14.39 SK देवीचतुष्टयं ह्य् एतद् एकैकं तु चतुष्टयम् एतच् चतुष्टयं देवि संसारपथवर्त्मनि //
14.40 SK चतुष्टयं तु भूतानां तन्मात्राणां चतुष्टयम् बुद्धीन्द्रियचतुष्कं तु चतुष्कं कर्मयाजिनाम् //
14.41 SK पञ्चकं तत् तु विज्ञेयं पुंसः षड्गुणसंयुतम् एवं निष्पद्यते पिण्डं पञ्चधा पञ्चविंशकम् //
14.42 SK षट्कौशिकं तु मार्गो ऽयम् आदिदेवीचतुष्टयम् कथितं सरहस्यं तु षट्सिद्धपुरनिश्चयम् //
14.43 SK उवाच कुब्जिका नाथं षट्सिद्धपुरनिश्चयम् न मे ज्ञातं कुलेशान संस्फुटं कथयस्व मे //
14.44 SK उवाच भगवान् नाथः कुब्जीशानि मया तव कथिता सप्तधा सृष्टिः सिद्धान् सप्त वदाम्य् अह् अम् //
14.45 SK नवतत्त्वेश्वरो नाथो नवचक्रेश्वरेश्वरः ब्रह्माण्डशिवसिद्धो ऽ सौ हर्ता कर्तावतारकः //
14.46 SK स नाथः सर्वसिद्धानां पतित्वे संव्यवस्थितः कन्दभूतो ऽङ्कुरो ऽसौ वै षट्पुराधिपतिः प्रभुः //
14.47 SK पुम्पुरं प्रथमं कन्दं प्राकृतं चापरं पुरम् गुणानन्दं तु गोलाख्यं गर्वं जालन्धरात्मकम् //
14.48 SK धीपुरं कामरूपाख्यम् आधारं तु मनःपुरम् पुम्पुरे श्रीमत्खड्गीशः खगीशः प्राकृते पुरे //
14.49 SK विश्वनाथो गुणानन्दे झण्टीशो ऽहम्महापुरे धीपुरे ऽनुग्रहीशानो मित्रेशानो मनःपुरे //
14.50 SK षट्पुराधिपतिर् नाथाः कौलीशाः कुलनायकाः कुलसिद्धाः समाख्याताः षट्क्रमौघप्रकाशकाः //
14.51 SK भविष्यन्ति पुरा कल्पे मर्त्यलोकम् उपागताः प्रभुर् आनन्द योगाख्यम् आवली पादम् अन्तिमम् //
14.52 SK भविष्यन्त्य् अपरे कल्पे कुलसिद्धाः कुलोत्थिताः कुलसिद्धाधिपो देव आज्ञामोघकुलेश्वरः //
14.53 SK षट्कुलानां त्व् असौ नाथस् तस्मात् सर्वं कुलान्वयम् नवानां चक्रवर्तीनां चक्रवर्तिस् त्व् असौ प्रभुः //
14.54 SK तस्मात् प्रवर्तते सृष्टिर् ब्रह्माद्या कुलसम्भवा षट्पुराणां तम् आधारं कर्तारं कुलपद्धतौ //
14.55 SK शास्तारं ब्रह्मजन्तूनां देवीनां तु चतुष्टयम् अपरे ब्रह्मणः सृष्टौ यत् किञ्चिद् वाङ्मयाखिलम् //
14.56 SK तत् सर्वं देविभिर् व्याप्तं त्वयाधारान्तकावधिम् चतुर्मुखेश्वरस्यान्ते कन्दः सप्तविधश् च यः //
14.57 SK तत्र जातं जगत् सर्वं सदेवासुरमानुषम् देवीचतुष्टयानां तु मार्गो ऽयं कथितो ऽखिलम् //
14.58 SK अधुना कथयिष्यामि दूतीनां लक्षणं यथा ब्रह्माधारम् इति प्रोक्तं सप्ताधारसमन्वितम् //
14.59 SK प्रथमैषा परा सृष्टिः शाम्भवी या कुलाध्वरे नवतत्त्वेश्वरेशस्य नाभ्यधस्तात् तु मण्डलम् //
14.60 SK शतकोटिसुविस्तीर्णं देवीकुलसमाश्रयम् त्रिकोणं चैव षट्कोणं वृक्षवल्लीक्रमस् तथा //
14.61 SK द्विविधाज्ञाधिकारो ऽयं निग्रहानुग्रहं प्रति //
14.62 SK ब्रह्मणो ऽण्डकटाहस्य समन्तात् परिमण्डलम् सहस्रकोटिविस्तीर्णम् अप्सु विष्णोः पुरं महत् //
14.63 SK अर्धेन्दुशिखराकारं पोतनावाकुलं तु तत् अनेकतत्त्वसङ्कीर्णं नवनालोपशोभितम् //
14.64 SK पद्मपत्त्रम् अनौपम्यं षोडशारं सकर्णिकम् यत्र दूत्यः स्वभाविन्यः क्रीडन्ते विविधैः सुखैः //
14.65 SK यत्रासौ रमते नित् यम् उत्तमः पुरुषोत्तमः तत् स्थानं परमं प्रोक्तं यत्र दूत्यो ऽमृतोद्भवाः //
14.66 SK तास् तु क्षुब्धा यदा काले ऽमृतं मुञ्चन्ति भाविताः तदा चतुर्विधा सृष्टिर् ब्रह्मचक्रे तु नान्यथा //
14.67 SK षोडशारे महापद्मे दिव्यामृतपरिप्लुते तत्रस्थो दूतिभिः सार्धं पोषयेद् ब्रह्मणः पदम् //
14.68 SK ब्रह्मकन्दान्तबीजानाम् ऊर्ध्वरन्ध्राङ्कुरत्रयम् तत्र ग्रन्थीश्वरो ऽनन्तः स्वशक्तिकिरणोज्ज्वलः //
14.69 SK स्थितो महाम्भसि मध्ये नवदूतीसमन्वितः सृष्टिकृद् भगवानन्तः पदार्थपद-म्-ईश्वरः //
14.70 SK कपालं चण्डलोकेशं योगेशं तु मनोन्मनम् हाटकेश्वर क्रव्यादं मुद्रेशं दिङ्महेश्वरम् //
14.71 SK श्री अनन्तीश नाथान्तो नवैते भास्वरेश्वराः विभज्य नवधात्मानं पदसृष्टिं विनिर्मिते //
14.72 SK एकैका नवधात्मानं पुनश् चैवं सृजन्ति ते नवनव पदानि स्युर् दूतीनां कारणात्मकम् //
14.73 SK पदभुक्तिगतानां तु दूतीनां च पृथक् पृथक् नामानि कीर्तयिष्यामि या यस्याङ्गसमुद्भवाः //
14.74 SK श्री अनन्ताङ्गसम्भूताः सर्वे यास् तु नवैव हि अधिकारपदं तेषां तत् प्रवक्ष्याम्य् अशेषतः //
14.75 SK बिन्दुका बिन्दुगर्भा च नादिनी नादगर्भजा शक्ती च गर्भिणी चान्या परा गर्भार्थचारिणी //
14.76 SK निराचारपदावस्था मध्यस्थानन्तवर्चसः अधिकारं प्रकुर्वन्ति कुलाकुलसमाश्रिताः //
14.77 SK चण्डा चण्डमुखी चैव चण्डवेगा मनोजवा चण्डाक्षी चण्डनिर्घोषा भृकुटी चण्डनायिका //
14.78 SK चण्डीशनायकोपेता ह्य् अकुलेशपदे स्थिताः तस्मात् पदात् परा सृष्टिर् मनोन्मन्यादिसम्भवा //
14.79 SK मनोजवा मनोऽध्यक्षा मानसी मननायिका मनोहारी मनोह्लादी मनःप्रीतिर् मनेश्वरी //
14.80 SK मनोन्मन्या समायुक्ता उन्मनःपदम् आश्रिताः नवैव परमा दूत्यो मनश् चोन्मनकारिकाः //
14.81 SK ऐन्द्री हुताशनी याम्या नैरृती वारुणी तथा वायवी चैव कौबेरी ऐशानी कौलिकेश्वरी //
14.82 SK समनौघपदान्तस्था[ः] पराकाशे व्यवस्थिताः जनयन्त्य् अपरां सृष्टिं योगाख्या व्यापिनीपदे //
14.83 SK हिरण्या च सुवर्णा च काञ्चनी हाटका तथा रुक्मिणी च मनस्वी च सुभद्रा जम्बुहाटकी //
14.84 SK व्यापिनीपदम् आपन्ना योगदूत्यो महाबलाः व्याप्यव्यापकभावेन व्यापयन्ति चराचरम् //
14.85 SK वाग्वती वाक् तथा वाणी भीमा चित्ररथा सुधी देवमाता हिरण्या च योगेशी नवमा स्मृता //
14.86 SK वागेश्वरपदान्तस्था वागीश्वर्यसमन्विताः मन्त्रविद्याङ्गसम्भूताः सर्वार्थप्रतिपादिकाः //
14.87 SK वज्रिणी शक्ति दण्डी च खड्गिनी पासिनी ध्वजी गदी च शूलिनी पद्मी मुद्रेशपदसम्भवाः //
14.88 SK पिङ्गदूत्यो महावीर्याः कलाकालविधायिकाः तेजोरूपा महादेव्यो अनन्तगुणसम्भवाः //
14.89 SK लम्बा लम्बस्तनी सुष्का पूतिवक्त्रा महानना गजवक्त्रा महानासा विद्युत्क्रव्यादनायिका //
14.90 SK कालानलान्तरे दूत्यः संहारपदसंस्थिताः अनन्तगुणवीर्यास् ताः संहरन्ति चराचरम् //
14.91 SK सुप्रबुद्धा प्रबुद्धा च चण्डी मुण्डी कपालिनी मृत्युहन्ता विरूपाक्षी कपर्दी कलनात्मिका //
14.92 SK नियामिकापदान्तस्थाः शुभाशुभनियामिकाः एकाशीतिविभागेन दूत्यो ह्य् एवं महाबलाः //
14.93 SK नवकेश्वरदेवस्य उदरेदं प्रकीर्तितम् एकाशीतिपदैर् व्याप्तम् अनेकाश्चर्यसङ्कुलम् //
14.94 SK पदरूपसमायुक्तं रूपातीतादिसंयुतम् पद्ममार्गविधायिन्यस् त्रितत्त्वपदवीं लभेत् //
1558 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते देवीदूतीनिर्णयो नाम चतुर्दशमः पटलः
15.1 SK देवीदूतीमतं कुब्जि कथितं तु सुविस्तरम् इदानीं मातराणां च शृणु त्वं व्याप्तिलक्षणम् //
15.2 SK पदपत्त्रोर्ध्वगं पद्मं तेजोरूपं सुभास्वरम् लक्षकोटिसुविस्तीर्णम् अम्भोधिपरिमण्डलम् //
15.3 SK तत्र मध्ये महेशानं पिङ्गेशं पिङ्गरूपिणम् त्रिकोणपुरमध्यस्थं तेजोराशिम् अनामयम् //
15.4 SK काले ह्य् अहर्मुखे प्राप्ते क्षोभयित्वा स्वकां तनुम् विज्ञानकेवलान्य् अष्टौ बोधयामास पुद्गलान् //
15.5 SK अष्टौ मुद्रा महामात्र्यो जगद्योनिर् महाम्बिके तासु जातं जगत् सर्वं यत् किञ्चिद् वाङ्मयं ऽखिलम् //
15.6 SK प्रथमा खेचरीमुद्रा आत्मी नाम द्वितीयका तृतीया शशिनी ज्ञेया वह्निनामा चतुर्थिका //
15.7 SK पञ्चमी चलनी नाम षष्ठी भानुमती स्मृता सप्तमी महिमा नाम अष्टमी सुकृतालया //
15.8 SK एता अष्टौ महामात्र्यः श्रीमन्मित्राङ्गजोद्भवाः कुर्वन्ति विविधां सृष्टिं स्थूलसूक्ष्मपरापराम् //
15.9 SK विभाजयन्ति चात्मानम् एकैका चाष्टधाष्टधा तेष्व् अन्याः षोडशाधाराश् चतुःषष्ट्यान्त-म्-अन्तिकाः //
15.10 SK खेचरीतनुसम्भूताश् चाष्टौ मात्र्यो दिशात्मिकाः ऐन्द्रादीशान-म्-अन्तस्थाः सर्वाधाराः परापराः //
15.11 SK रुद्राण्यंशाः समाख्याता देवीकोटान्तसंस्थिताः संवर्तवीरसंयुक्ताः शम्भुकल्पावतारकाः //
15.12 SK आत्ममात्रोद्भवा ह्य् एवं सकला निष्कलाश् च ये विज्ञानप्रलयान्तान्ये धर्माधर्मे नियोजयेत् //
15.13 SK तत्राणवो ऽथ मायाया अष्टौ मात्र्यो ऽणुसम्भवाः प्रयागपुरमध्यस्थाश् चण्डकौलीशसंयुताः //
15.14 SK ब्राह्मीचक्रं समुद्दिष्टम् आदिकल्पस्य मध्यगम् आत्ममात्र्यष्टकं प्रोक्तम् इन्द्रमात्र्यष्टकं वदेत् //
15.15 SK छाया तु शीकरा ज्योत्स्ना ऋतुरत्ना सुशीतला पयोघृतवती चान्या इन्द्रमात्र्यो ऽष्ट वैष्णवी //
15.16 SK वाराणसीपुरान्तस्था अमृताधारशीतला आप्यायन्ति जगत् सर्वं पालयन्ति जगाम्बिकाः //
15.17 SK कल्पावान्तरम् आसाद्य क्रोधकौलीशसंयुताः कुर्वन्ति विविधां सृष्टिम् आपदां मोचयन्ति ताः //
15.18 SK तृष्णा रागवती मोहा कामा कोपा तमोत्कटा ईर्षा शोकवतीत्य् अष्टौ वह्निमात्र्यः प्रकीर्तिताः //
15.19 SK कौलीशोन्मत्तसंयुक्ताः कोल्लाद्रौ संव्यवस्थिताः महान्तकल्पमध्यस्थाः क्रीडन्त्य् अमिततेजसा //
15.20 SK त्वची स्पर्शवती गन्धा प्राणापानी समाननी उदानी व्यानि कृकरा मरुन्मात्र्यो ऽष्ट कीर्तिताः //
15.21 SK असिताङ्गकुलेशानम् अट्टहासपुरान्तगाः दिव्यकल्पे पुरा मात्र्यः क्रीडन्त्य् अमिततेजसा //
15.22 SK तमोहन्ता प्रभा मोहा तेजिनी दहनी दिना ज्वलनी शोषणीत्य् अष्टौ अर्कमात्र्यः प्रकीर्तिताः //
15.23 SK दिव्यादिव्यपरे कल्पे जयन्तीपुरमध्यगाः रुरुकौलेशसंयुक्तास् तेन सार्धं रमन्ति ताः //
15.24 SK निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च शान्तातीता च पृथिवी वज्रिणी कामधेनवी //
15.25 SK महिमेशानदेवस्य अष्टौ मात्र्यश् चरित्रगाः अदिव्यकल्पमध्यस्था झण्ठकौलेश्वरान्विताः //
15.26 SK ऐन्द्र्याधिष्ठितचक्रस्थाः क्रीडन्त्य् अमिततेजसा पूर्यष्टकस्य मध्यस्था वज्रहस्ता महाबलाः //
15.27 SK पयोष्णी वारुणी शान्ता अमृता व्यापिनी द्रवा प्लवनी जलमाता च पयोमात्र्यो ऽष्ट विश्रुताः //
15.28 SK वर्तमानिककल्पे तु एकाम्रकवनान्तगाः कपालीशकुलेशानं चामुण्डाचक्रमध्यगाः //
15.29 SK श्रीकुलेश्वरदेवस्य हृत्पद्मे ऽ ष्टदले स्थिताः ईशानक्रमयोगेन सृष्टिमार्गावलम्बिकाः //
15.30 SK कर्णिकायां स्थितो देवश् चतुष्कपरिवारितः रक्ताकरालाचण्डाक्षीमहोच्छुष्मासमन्वितः //
15.31 SK महारक्तवनान्तस्थस् तेजोमण्डलमध्यगः नवतत्त्वेश्वरं देवं पूर्यष्टकसमन्वितम् लि //
15.32 SK अन्तर्देहस्थितो यस्मात् पूरयेत् स चराचरम् तेन पूर्यष्टकं प्रोक्तम् अष्टधा तु प्रपूरकम् //
15.33 SK स शिवः सर्वसत्त्वानां हृदिस्थः परमेश्वरः भ्रामयेत जगत् सर्वं यन्त्रारूढस् तु मायया //
15.34 SK द्वासप्ततिसहस्राणाम् उपरिस्थो ऽन्तरे स्थितः अक्षारूढो ऽक्षगम्यो ऽयं मनीशानां पिशाचवत् //
15.35 SK गुरुवक्त्रं तु तत् प्रोक्तं गुरुवक्त्रात् तु लभ्यते गुरुत्वं यात्य् असौ योगी गुरुवक्त्रावलम्बकः //
15.36 SK तेजस्तत्त्वं तु तं देवि रुद्रशक्तिभिर् आवृतम् अतोर्ध्वं योगिनीनां तु घटस्थानं निगद्यते //
15.37 SK गुरुवक्त्रे गुरोर् वक्त्रं गुरुवक्त्रे तु संस्थितम् गुरुवक्त्रात् तु लभ्येत तस्मात् सन्तोषयेद् गुरुम् //
15.38 SK स्तुतिं कृत्वा उवाचेदं कुब्जिका परमेश्वरम् पृच्छामि नाथ यत्नेन घटस्थानं सुविस्तरम् //
15.39 SK उवाच भगवान् देवस् त्वत्पृच्छा रहितं ऽनघे निखिलं कथयिष्यामि यथा त्वं कुब्जि चेतसा //
15.40 SK कोटिकोटिसुविस्तीर्णं घटाधारं ततोर्ध्वतः वज्रपद्माङ्कितं दिव्यं पिङ्गनाथावधिस्थितम् //
15.41 SK अनन्तगुणदातारं सर्वार्थप्रतिपादकम् तस्मात् सम्पद्यते सर्वम् ऐहिं पारत्रिकं च यत् //
15.42 SK यत्र भाण्डानि सर्वाणि लभ्यन्ते च सहस्रधा लयं यान्ति पुनस् तत्र घटस्थानं तद् उच्यते //
15.43 SK यस्मात् सर्वं यथा याति यस्माद् यान्ति त्रुटन्ति च यत्र निर्भेद्यतां यान्ति तत् स्थानं घटिकात्मकम् //
15.44 SK भुवनाष्टोत्तरं भाण्डं पदभाण्डं तु तत्र वै वर्णभाण्डं तु तत्रस्थं मन्त्रतत्त्वकलात्मकम् //
15.45 SK भाण्डारिणो अमीषां च निवृत्त्याद्याः प्रकीर्तिताः यस्याधारेण वर्तन्ते भोगान्ते तत् पदं पुनः //
15.46 SK श्रीकुलेश्वरदेवस्य हृद्योर्ध्वघट-म्-अन्तरे तत् कुलेश्वरदेवस्य दुर्भेद्यं षट्पुरं महत् //
15.47 SK विभज्य स्वतनुं देवः षट्पदार्थपदेन च षड् योगिन्यो महातेजाः षट्पुरे सन्निवेशिताः //
15.48 SK डामरी रामणी चैव लम्बकर्णी च काकिनी साकिनी यक्षिणी चान्या कुसुम्भोदसमुद्भवाः //
15.49 SK वज्रपद्मासनारूढाः कुसुम्भगुणशालिनी[ः] षट्पुराधिपतीनां च पतित्वे सम्व्यवस्थिताः //
15.50 SK ओ-जा-पू-कामभेदेन का-पू-जा-ओ-व्यतिक्रमात् एतत् क्रमं समाख्यातं सृष्टिसंहारगोचरे //
15.51 SK परापरविभागेन स्थूलसूक्ष्मपरान्तगम् यथाधिपति देवत्वं योगिनीनां तथा शृणु //
15.52 SK दुःशीला डमरी भीमा आधारस्था तु डामरी स्वाधिष्ठानपुरान्तस्था रामणी रमणात्मिका //
15.53 SK मणिपूरपुरान्तस्था लम्बकर्णी महद्भुता ध्वनिदेवपुरे काकी विशुद्धौ साकिनी स्मृता //
15.54 SK आज्ञापुरस्य मध्यस्था यक्षिणीति निगद्यते कुब्जिकोदरसम्भूताः षड् योगिन्यः परापराः //
15.55 SK अत्र जातं जगत् सर्वं रुद्रान्तं ब्रह्मणो ऽवधिम् संहरन्ति पुनस् तास् तु विलोमेन प्रपूजिताः //
15.56 SK उपदेशप्रगम्यास् ताः पारम्पर्यक्रमेण वै ज्ञातव्यं षड्विधाध्वानं षट्प्रकारं गुरोर् मुखात् //
15.57 SK श्रवणे चक्षुषी नासा मुखे चैव तथैव हि चिबुके कण्ठदेशे तु गुरुवक्त्रात् तु लभ्यते //
15.58 SK प्रणयाविष्टचेतस्का उवाचेदं कुजेश्वरी व्याप्तिस्थानं कथं तेषां का कस्य पथयायिनी //
15.59 SK भक्त्या पृष्टवती मत्वा प्रहस्य परमेश्वरः उवाच कुब्जिके तुभ्यं कथयाम्य् अनुपूर्वशः //
15.60 SK घटन्ति सर्ववस्तूनि यस्याङ्गे तु वरानने घटस्थानं तु तेनोक्तं सन्दोहगुणलक्षणम् //
15.61 SK रुद्रपञ्चाशकोपेतं शक्तिपञ्चाशकान्वितम् चक्रवर्त्यष्टकोपेतं भुवनाष्टोत्तरं शतम् //
15.62 SK मनोजनपदाकीर्णम् आधारगृहसङ्कुलम् ॐकारदलमध्यस्थम् अघोरीहृदयान्वितम् //
15.63 SK तत्र सा डामरी देवी ज्वलत्पिङ्गोग्रलोचना मनोरसाधिपत्यस्था दुःसाध्या भुवनात्मिका //
15.64 SK पुनर् जपत्त्रमध्यस्था एकाशीतिपदावृता शिरसाधिष्ठिता योगी स्वाधिष्ठानगृहाकुला //
15.65 SK बुद्धिजनपदाकीर्णा पदाध्वे रामणी रमेत् दुष्प्रेक्षा दुःसहा भीमा बुद्ध्यासृग्लोलविग्रहा //
15.66 SK मणिपूरगृहान्तस्था कामपत्त्रान्तरे गता तडित्सहस्रवर्णाभा शिखारूपा महेश्वरी //
15.67 SK अहङ्कारजनानन्दा प्रालेयावलिसन्निभा वर्णेश्वरी महादेवी क्रियारूपा परापरा //
15.68 SK तस्याङ्गसम्भवा मन्त्राः सर्वज्ञास् ते प्रकीर्तिताः लम्बिका सा समाख्याता मांसाहारा च लम्पटा //
15.69 SK पूर्णकदलमध्ये तु नीलाञ्जनसमप्रभा तनुत्राणकृताटोपा मन्त्राध्वा-स्-तु विभूषिता //
15.70 SK अनाहतकमध्यस्था गुणानेकजनावृता काकी मेदवसालुब्धा गुणान् नाशयते क्षणात् //
15.71 SK क्रुद्धा तमोत्कटा नित्यं प्रचण्डोग्रा भयानका मन्त्राध्वानगता योगी लयभोगाधिकारिका //
15.72 SK पुनः पुंदलमध्यस्था विशुद्धिगृहमध्यगा संवर्तानलसङ्काशा नेत्राधिष्ठितभास्वरा //
15.73 SK प्राकृतजनसङ्कीर्णा कलाध्वानसमावृता रुद्रशक्तिसमाविष्टा रौद्रभावप्रदायिका //
15.74 SK अस्थिभङ्गप्रिया नित्यं प्राकृतार्थविनाशनी साकिनीयं महाघोरा स्थूलसूक्ष्मपरान्तगा //
15.75 SK दक्षे कामेश्वरीपत्त्रे प्रालेयावलिसन्निभा कदाचिन् [ऽ]नेकरूपाभा उपाधिगुणगोचरा //
15.76 SK तत्त्वाध्वपुरमध्यस्था आज्ञामन्दिरशोभिता पुंजनाकृतसम्पूर्णा महास्त्रौघसमावृता //
15.77 SK मज्जबीजाशिनी योगी यक्षिणी शक्ति शाम्भवी षड् योगिन्यो घटाधारे षडध्वानविधायिकाः //
15.78 SK तत्र मध्ये स्थिता कन्या विश्वरूपा परापरा सा पतिः सर्वयोगीनां योगेशी [ऽ]नन्तविग्रहा //
15.79 SK कम्-ब-मा-लम्-वि-कान्ताभिर् आवृता मध्यसंस्थिता ऽनुग्रहन्ति पुनस् तास् तु षडध्वानप्रयोगतः //
15.80 SK भूतं भावं तथा शाक्तम् आणवं रौद्र शाम्भवम् क्रमाद् अनुग्रहन्त्य् एतास् तत्त्वादौ भुवनादितः //
15.81 SK दक्षिणाध्वानसंस्थास् ताः कृन्तयन्ति महाम्बिकाः उत्तरस्थाः प्रकुर्वन्ति श्रेयं चामृतसम्भवम् //
15.82 SK वज्रपद्मासनासीना घटाम्बोदधिमध्यगाः अमृतौघतरङ्गौघैः प्लावयन्ति चराचरम् //
15.83 SK अस्या रूपं च माहात्म्यं साधनं सिद्धिलक्षणम् पुरतः कथयिष्यामि इदानीं खेचरीं शृणु //
1642 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते षट्प्रकारे योगिनीनिर्णयो नाम पञ्चदशमः पटलः
16.1 SK भुवनाङ्कुरसंयुक्तं पदपत्त्रविभूषितम् वर्णकण्टकसङ्कीर्णं मन्त्रच्छिद्रसमन्वितम् //
16.2 SK कलासूत्रचितं दिव्यं तत्त्वग्रन्थ्युपरिस्थितम् कोटिकोटिशतायामं चतुर्विंशदलायतम् //
16.3 SK व्योमोदार्णवमध्यस्थं नीलाञ्जनसमप्रभम् सहस्रादित्यसङ्काशं कालाग्निर् इव वर्चसम् //
16.4 SK तत्रोर्ध्वे मण्डलान्य् आहुश् चतुर्विंशम् अनुक्रमात् क्षेत्रोपक्षेत्रसन्दोहान् पूर्वादौ पार्थिवादितः //
16.5 SK क्षेत्रे द्वे चोपक्षेत्रे द्वे सन्दोहे द्वे विजानतः दलोपरि विराजन्ते चतुःषट्कं दिशादितः //
16.6 SK अट्टहासादितः कृत्वा राजगृहम् अपश्चिमम् पार्थिवादिप्रकृत्यन्तं संयोगान् मण्डलायते //
16.7 SK सौम्यादिभग्ननासान्ताः सूर्यमण्डलसंस्थिताः पृथग्मण्डलचक्रस्थाः खेचर्यः कुलनायिकाः //
16.8 SK सोममण्डलमध्ये तु द्वात्रिंशान्ये महाबलाः कुब्जिकाङ्गसमुद्भूताः प्रचण्डोग्रा गुणोत्कटाः //
16.9 SK चण्डा घण्टा महानासा सुमुखी दुर्मुखी बला रेवती प्रथमा घोरा सौम्या भीमा महाबला //
16.10 SK जया च विजया चैव अजिता चापराजिता महोत्कटा विरूपाक्षी शुष्का चाकाशमातरा //
16.11 SK सेहारी जातहारी च दंष्ट्राली शुष्करेवती पिपीलिका पुष्पहारी अशनी सस्यहारिका //
16.12 SK भद्रकाली सुभद्रा च भद्रभीमा सुभद्रिका द्वात्रिंशद्गुणशालिन्यश् चक्रेश्वर्या महाम्बिकाः //
16.13 SK सोममण्डलमध्यस्था वह्निस्थास् तु ततः शृणु खगेश्वरपतीनां तु पतिमात्र्यो ऽत्र संस्थिताः //
16.14 SK असिताङ्गतनूद्भूताः क्रियारूपाः परापराः कुर्वन्ति विविधां सृष्टिं त्वरितं लाघवे स्थिताः //
16.15 SK त्वरिताशब्दं कथं देव खञ्जीशब्दं किम् उच्यते कुब्जाशब्दं कथं प्रोक्तं कथं तन्मण्डलागणः //
16.16 SK कथं रूपं महेशान्याः सर्वम् एतद् यथाक्रमम् आचचक्ष्व प्रयत्नेन येन भ्रान्तिर् विनश्यति //
16.17 SK साधु देवि महादुर्गे किं न बुध्यसि पार्वति यद् अस्मात् त्वम् इहायाता तत् किं ते वेदितं न हि //
16.18 SK वालाग्रशतभागस्य विभिन्नस्य सहस्रधा अस्य कालविभागस्य त्वरात् सञ्चरसे यथा //
16.19 SK तथा त्वं त्वरिता नाम अशेषार्तिविनाशिनी खञ्जिनी कथिता तुभ्यं वारं वारं पुनः पुनः //
16.20 SK यस्या मध्यगतं विश्वं विश्वमध्यगता तु या खञ्जिका तेन सा प्रोक्ता सूक्ष्मे वस्तुनि सूक्ष्मगा //
16.21 SK एषा ते खञ्जिका ख्याता कुब्जिनी[ं] शृणु साम्प्रतम् अन्वर्थसंज्ञिका नाम एका त्वं तु कुलेश्वरि //
16.22 SK स्थूलसूक्ष्मे परे तत्त्वे व्यक्ताव्यक्ते निरामये सर्वं व्याप्तम् इदं देव्या सा च त्वं किं न बुध्यसि //
16.23 SK बृहत्कायो यदा कश्चित् स्वल्पे व्याचरते गृहे कुञ्चिताङ्गो विशेद् यस्मात् तद्वद् एषा महेश्वरी //
16.24 SK चतुर्द्वादशधाधारं ग्रन्थौ षोडशकान्वितम् वडवाख्यं त्रिशूलोर्ध्वं त्रित्तत्त्वं तु कलान्तगम् //
16.25 SK निदिध्यास्यं श्रुतं देश्यम् एतत् कौलेश्वरं तनुम् यस्योदरगतं तच् च तस्य किम् अपरं परम् //
16.26 SK कूटभूतं तु तन्मध्ये यस्मात् सा कुटिलीतया गतानेककुलोद्भिन्ना इच्छेयं पारमेश्वरी //
16.27 SK तेन त्वं कुब्जिका प्रोक्ता परा सर्वेषु वस्तुषु तत्रेदं दुर्लभं देवि सुगोप्यं प्रकटीकृतम् //
16.28 SK वेदसिद्धाः पशुस् चोर्ध्वे ऊर्ध्वं वामे पशुत्वता वामं दक्षिणमार्गस्य दक्षिणं कुलशासने //
16.29 SK तं तु योन्यार्णवे लीनं योनिः स्रीकुब्जिकामते अतोऽर्थं गोपितं तन्त्रं न कस्यचिन् मयोदितम् //
16.30 SK रभसाविष्टभावेन तवाद्य प्रकटीकृतम् //
16.31 SK सूर्यसोमस्थितिः प्रोक्ता वह्निस्थानावधारिता कथं सा कुरुते सृष्टिं को ऽसिताङ्गः कुलेश्वरः //
16.32 SK कुब्जेशि श्रूयतां सृष्टिर् यथावस्था प्रपद्यते असिताङ्गो महेशानस् ततोर्ध्वे मण्डलोपरि //
16.33 SK सोममध्ये रविस्थानं सूर्यमध्ये शिखि[ः] स्थितः तत्र मध्ये ऽङ्कुरं दिव्यम् असिताङ्गसमुद्भवम् //
16.34 SK ततो निष्पद्यते सृष्टिर् विचित्रानेकरूपिणी तत्त्वानि च कला वर्णा मन्त्रविद्या पदः पुरा //
16.35 SK विसृजन्ति महानन्दं शक्तिभैरवमण्डलम् पञ्चविंशतिमध्यादौ षोडशैवाष्ट चान्तिमाः //
16.36 SK भैरवानन्दशक्तिस्थम् असिताङ्गकुलेश्वरम् आदिमण्डलमध्यस्थं सिद्धैः षोडशभिर् वृतम् //
16.37 SK आदियोनिपुरस्थं तु मण्डलं खेचरात्मकम् अस्य पूजाविधानेन आज्ञायोनिफलं लभेत् //
16.38 SK आदिमण्डलकं ह्य् एतत् प्रवरं ह्य् उत्तमोत्तमम् अत्रोत्पन्नानि सर्वाणि मण्डलानि ह्य् अनेकधा //
16.39 SK पञ्चविंशात्मकं मध्ये मण्डलानां तदादिमम् चतुःसिद्धान्वितैकैकं विज्ञेयं पञ्चविंशकम् //
16.40 SK वालादौ खड्गपर्यन्तं मण्डले मण्डले तु तम् एषान्यत् पञ्चकं देवि कुलविद्या कुलाध्वरे //
16.41 SK भुजङ्गक्रूरसंयुक्ता त्रिमूर्तिगुणधारणा सामान्या सर्वसिद्धानां पञ्चविंशतिमण्डले //
16.42 SK मण्डलो[ द्]भृतदेहा सा क्रियाकालगुणोत्तरा चतुर्भिः सहिता देवी सृजते वर्णसागरम् //
16.43 SK ककारादौ मपर्यन्तं यकारादौ ह-म्-अन्तिमम् अत्र मन्त्राः समुत्पन्ना विद्यामुद्रागणो महान् //
16.44 SK देवीदेहात् समुत्पन्ना सा देवी मण्डलोद्भवा चतुर्विंशकमध्यस्था षट्चतुष्कविभूषिता //
16.45 SK वह्निमण्डलमध्यस्था बहुरूपा अरूपिणी बर्बरोरुह पिङ्गाक्षी दन्तुरा बृहदोदरा //
16.46 SK नीलमेघप्रभा भीमा गम्भीराभरणोज्ज्वला वेदैः कृतशिरोमाला सषडङ्गपदक्रमात् //
16.47 SK ब्रह्मसूत्रं महेशान्याः पुराणोद्बद्धमेखला ज्योतिःशास्त्राञ्जिताक्षी सा ध्वनिकर्णावतंसका //
16.48 SK कलालम्बितहारौघा विज्ञानकटकोज्ज्वला शब्दपङ्कामृतोद्भिन्ना मण्डितं मुखमण्डलम् //
16.49 SK विचित्रवसनानेका शास्त्रपट्टांशुकोमला आबद्धांशुकपर्यङ्का प्रमेयासनसंस्थिता //
16.50 SK ईदृग्रूपधरां देवीं पञ्चविंसान्तमध्यगाम् अपरां सृष्टिकर्तारां परां षड्विंश-म्-आदिमाम् //
16.51 SK आदिमण्डलमध्यस्थाम् असितोत्सङ्गगामिनीम् द्विभुजाभरणोपेताम् एकवक्त्रां त्रिलोचनाम् //
16.52 SK चारुबिम्बोष्ठवदनाम् अनेकगुणशालिनीम् अरूपां रूपसम्पन्नां तस्यान्ते रूपसम्भवाम् //
16.53 SK इच्छारूपधरां देवीं नवात्मानेन लभ्यते //
16.54 SK नवात्मानमयं सर्वं तस्यैतत् परमा परा सा परा लभ्यते येन स नवात्मा वद प्रभो //
16.55 SK साधु भैरवि यत्नेन पृच्छितं निर्मलार्थतः न तेन रहितं किञ्चित् सत्येदं परमार्थतः //
16.56 SK प्रसह्यं पूज्यते यत्र तत्र सिद्धक्रमो न हि यत्र सिद्धक्रमो भद्रे तत्रेदं गोपितं मया //
16.57 SK आज्ञालब्धरसास्वादास् त्यजन्तीदं सुदुर्लभम् विशुद्धमण्डलोर्ध्वेदं मण्डलं न तदोज्झितम् //
16.58 SK पञ्चविंशकभेदस्य पूर्वं विद्या समुद्धृता तस्यैवाद्यं द्विकं त्यज्य शेषान्यत्केवलाक्षराः //
16.59 SK भृगुलाकुलसंवर्तास् त्रीण्य् एतानि अनुक्रमात् तत्र लाकुलभृग्वेशं भुजङ्गासनसंस्थितम् //
16.60 SK संवर्तकमहाकालं पिनाकीगुणसंयुतम् खड्गवालासनासीनम् अर्घीशानन्दनोपरि //
16.61 SK ऽनुग्रहानन्दमूर्ध्निस्थं क्रूरानन्दसमन्वितम् परानन्दसमायुक्तं कूटेदं मण्डलेश्वरम् //
16.62 SK यस्य गर्भगतं सर्वं वाङ्मयं सचराचरम् तस्योपायम् इदं देवि उपेयस्य महात्मनः //
16.63 SK एतत् कौलेश्वरं नाम कूटरूपं कुलेश्वरम् नानेन रहिता सिद्धिः साधनं खेचरीपदे //
16.64 SK मण्डलान्तर्गतं पूज्य मण्डलं कामदं स्मृतम् येन पूजितमात्रेण सर्वव्याप्तिपदं लभेत् //
16.65 SK महतः कुलवृक्षस्य डालाः स्युः पञ्चविंशति आज्ञापुष्पोपशोभाढ्यं विज्ञानफलमालितम् //
16.66 SK परिपक्वरसानन्दं मोक्षतृप्तिकरं फलम् प्राप्यते येन यज्ञेन हेलया मण्डलं तु तम् //
16.67 SK खेचरीचक्रमध्यस्थं त्रितत्त्वगुणशालिनम् मण्डलोद्भृतदीप्यन्तं मण्डलं वडवामुखम् //
16.68 SK चतुःशक्तिसमायुक्तम् एकैकं पञ्चविंशकम् अम्बिका रौद्रिणी ज्येष्ठा वामादौ सृष्टिसागरे //
16.69 SK एतच्चतुष्टयान्तस्थं नवेशानं कुलेश्वरम् वडवानल-म्-आसीनम् आज्ञाशूलधरं विभुम् //
16.70 SK मण्डलानां पृथक् पूजा सिद्ध्यर्थं साधकेश्वर व्याप्तिस्थं तु यथा सर्वं तथा वदत भैरव //
16.71 SK कथयामि वरारोहे देव्या देहगतं यथा व्याप्तिनामविभेदेन ज्ञास्यन्ते ज्ञानिनो यथा //
16.72 SK काममण्डलकं स्कन्धे खेचरं तदधःस्थितम् गुरुमण्डलकं सन्धौ पाणिमध्ये घनोज्ज्वलम् //
16.73 SK रुद्रमण्डलकं दक्षे पाणौ तत् तु नखाग्रतह् चन्द्रमण्डलकं वामे छायामण्डलकं त्व् अधः //
16.74 SK जयन्तमण्डलं सन्धौ झङ्कारं करमध्यतः ज्ञानमण्डलकं वामे अङ्गुल्याग्रे व्यवस्थितम् //
16.75 SK वराङ्गोर्ध्वनितम्बाधो दक्षिणे ऽमृतमण्डलम् सोममण्डलकोरुभ्यां सन्धौ डामरमण्डलम् //
16.76 SK कन्यामण्डलकं पद्भ्याम् उमामण्डलकं नखे तारामण्डलकं वामे कुलदिव्योरुमध्यतः //
16.77 SK अनन्तमण्डलं सन्धौ पादान्ते मित्रमण्डलम् अङ्गुल्याग्रे समाख्यातं मण्डलं मेरुपूर्वकम् //
16.78 SK रक्तमण्डलकं कुक्षौ दक्षिणे वामतः शिखी कुलमण्डलकं पृष्ठौ वज्रसङ्ख्यात मध्यगम् //
16.79 SK मण्डलैश् चैकविंशाभिर् आवृतः स कुलेश्वरः षष्ठमण्डलकं नाभौ कालमण्डलकं हृदि //
16.80 SK श्रीमन्नाथादितः कृत्वा त्रयैतानुक्रमेण तु एकैकं चैकविंशानां मण्डलानां पतीश्वराः //
16.81 SK पञ्चविंशकयोगस्य चतुष्कं पतिरूपिणम् समुदायपतीनां च पतिर् एको विसुद्धिराट् //
16.82 SK रन्ध्रमण्डलकं वृत्ते रोमकोट्योर्ध्वसंस्थितम् सर्वाङ्गसुन्दरं देव्याः शरीरं मण्डलोद्भवम् //
16.83 SK शाम्भवीयं परा मूर्तिः स्वयंसम्भृतमण्डलम् मण्डलोद्भृतदेहा सा सा च मण्डलमध्यगा //
16.84 SK स्वयङ्कर्ता स्वयंहर्ता मण्डलानां कुलेश्वरी वडवानलरूपेण त्रिशूलासनसंस्थिता //
16.85 SK कङ्कालेश्वरमूर्ध्निस्था षट्पदार्थोपरिस्थिता चतुर्भुजैकवदना चाक्षसूत्रकराभया //
16.86 SK सर्वज्ञानावबोधेन पुस्तकान्यवरप्रदा पञ्चमोर्ध्वक्रमो देव्या मण्डलोद्भृतविग्रहा //
16.87 SK चतुराशीतिप्रमाणेन कोटीनां मूलतोर्ध्वतः शरीरं श्रीकुलेशस्य तस्य कुम्भो ऽब्जमण्डले //
16.88 SK स्थिता सञ्जनते सर्वं तेन कुब्जेश्वरी परा मण्डलोद्भृतदेहा सा मण्डलोपरिसंस्थिता //
16.89 SK मण्डलान्तर्गता देवी ध्यात्वा मण्डलदायिकाम् श्रीमहानन्दवृक्षो ऽयं डालानेकचितं तु तम् //
16.90 SK शास्त्रपल्लवसंयुक्तं विज्ञानाङ्कुरशोभितम् अखण्डज्ञानपुष्पाढ्यं सिद्धोदयफलान्वितम् //
16.91 SK पक्वानन्दरसालाढ्यं मोक्षतृप्त्यादिसत्फलम् एष मण्डलवृक्षो ऽयं यस्मात् सर्वं प्रपद्यते //
16.92 SK सर्वथा तद् यजेन् नित्यं व्याकुलेन-म्-अनेन किम् निराचारेण योगेन साचारेण न तद् यजेत् //
16.93 SK व्याप्तिभावम् अतो मत्वा भुक्त्वा चाण्डालजां तनुम् स पश्यति परं वृक्षं खेचरं मण्डलोद्भवम् //
16.94 SK तद्भावभावनां कृत्वा गुरुं मत्वावधारयेत् यत् किञ्चित् पुरतस् तस्य तत् सर्वं मण्डलं विदुः //
16.95 SK यदि स्यान् मण्डलो देहः पूजयेन् मण्डलादिभिः वडवानलयोगेन एकैकं मासकावधिम् //
16.96 SK कुलविद्यासमायुक्तं चतुष्कलसमन्वितम् कौलेशानसमायुक्तं स्वस्थानस्थोपदेशगम् //
16.97 SK एवं सञ्चिन्त्य मनसा भक्तियुक्तो जितेन्द्रियः पञ्चविंशतिमासेन प्राकृतान् लभते गुणान् //
16.98 SK द्विगुणेन तु कालेन पैशाचगुणकृद् भवेत् त्रिगुणेन तु कालेन दैवत्यं भजते तु सः //
16.99 SK चतुर्गुणेन कामित्वं सामान्यत्वामरालये पञ्चमावस्थयोगेन सत्यलोकावधिं व्रजेत् //
16.100 SK षष्ठमेन तु योगेन विष्णुत्वं जायते ध्रुवम् सप्तमेन तु योगेन ब्रह्माण्डान्तम् अनुव्रजेत् //
16.101 SK अष्टमेन तु पिङ्गोऽसौ नवमान्तेश्वरः प्रभुः मण्डलीशो दशावस्थः खेचरः खेचराधिपः //
16.102 SK मण्डलाभ्यासयोगेन निराचारेण योगिनः वडवानलमध्ये तु वडवानलपूरितः //
16.103 SK वडवानलरूपेण निराचारव्रतं चरेत् वडवानलम् आरूढो वाडवीयं पदं लभेत् //
16.104 SK यतः सर्वमयं तच् च जगेदं वडवोदरम् आज्ञेयं सकला देवी दिव्याज्ञातो ऽस्य सम्भवः //
16.105 SK षट्पदार्थस्य चान्यस्य प्रधानं वडवानलम् महावृक्षवटो यस्य सूक्ष्मबीजवटो यथा //
16.106 SK तथा तु हृदयस्यास्य सर्वम् एवोदरे जगत् खेचराधिपतिर् देव्या वटमालावलम्बिनी //
16.107 SK आज्ञासूत्रप्रयोक्ता सा चतुराशीतिगुणोज्ज्वला गुरुवक्त्रात् तु लभ्येत मालेयं वडवानली //
16.108 SK स्वमनीषिकतो ऽन्यथा पश्यन्तो ऽपि न पश्यति एतत् ते पञ्चकं प्रोक्तं सर्वव्याप्तिभृतोदरम् //
16.109 SK खेचरान्तपदं दिव्यं चतुष्कान्यं पुनः शृणु //
1752 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते षट्प्रकारे महानन्दपञ्चके षोडशमः पटलः
17.1 SK चतुष्कं पञ्चकं नाथ षट्कं तु पञ्चकं तथा ज्ञातं व्याप्तिभृतं सर्वं चतुष्कं कीदृशं पुनः //
17.2 SK पृच्छामि त्वां न शक्नोमि स्वत एव प्रसादतः वद नाथ गुणानन्दं येन जानीमहे ऽखिलम् //
17.3 SK कुब्जिके ऽतिमहाप्राज्ञे किं न बुध्यसि मूढधीः यद्य् एवं लपितं सर्वं कथयाम्य् अवशेषकम् //
17.4 SK स्थितिभोगलयान्तस्थं पूजाव्याप्तिपदं यथा तथा तं निखिलं सर्वम् उक्तानुक्तं वदामि ते //
17.5 SK देव्यापीठचतुष्कं तु सिद्धपिण्डचतुष्टयम् युगैश् चतुर्भिस् तद् व्याप्तं परापरविभागशः //
17.6 SK अकुलेश्वरदेवस्य यथा तिष्ठति विग्रहे तथा शृणु महेशानि निराचारपदं यथा //
17.7 SK ओ-जा-पू-का-क्रमं मध्याद् वामदक्षाग्रतोर्ध्वतः व्याप्तिभूतं यजेत् सर्वं नाभ्यधः सिद्धपूर्वकम् //
17.8 SK ओ-जा-पू-का-क्रमाद् धृत्स्थं दक्षादौ वाम नाभिगम् उपदेशेन जानीयाद् गुरुवक्त्रात् तु शाम्भवम् //
17.9 SK एवं कर्णमुखे नासा नासोर्ध्वं पूर्ववद् यजेत् पूर्वोक्तार्चिसमायुक्तं सिद्धवृन्दसपालकैः //
17.10 SK बलकौमारवृद्धस्थं त्रिशुद्धिस्थं त्रितत्त्वगम् वडवानलयोगेन गह्वराद् उपदेशतः //
17.11 SK कुलाकुले परे स्थाने सर्वज्ञां शाम्भवं क्रमम् सर्वव्याप्तिसमोपेतम् आज्ञापुष्पैः प्रपूजयेत् //
17.12 SK रूपातीतादियोगेन मण्डलोद्भृतविग्रहा तत्रस्था परमा देवी मध्यस्था पररूपिणी //
17.13 SK कालमूर्ध्नि स्थिता शान्ता कलातीता कलाकला कालहन्ता कलातीता कम्बलीयं कुलेश्वरी //
17.14 SK वडवानलम् उत्तीर्णा देदीप्यन्तगुणोज्ज्वला सहस्रादित्यसङ्काशा रूपातीता कुलेश्वरी //
17.15 SK रूपं पीठक्रमं देव्या नीलमेघाञ्जनप्रभा भुजैर् द्वादशकोपेता षड्वक्त्रा बर्बरालका //
17.16 SK बृहोदरा च लम्बोष्ठी स्तब्धाक्षी विरलद्विजा बालक्रमस्य मध्यस्था रूपस्था नग्नकुब्जिका //
17.17 SK वडवानलसन्दीप्ता अतिरौद्रा सुभीषणा गुरूपदेशगम्या सा दिव्याज्ञार्थप्रदायिका //
17.18 SK कौमारक्रममध्यस्था एकवक्त्रा चतुर्भुजा पुस्तकमण्डलुधरा अक्षसूत्रवरप्रदा //
17.19 SK वडवानलमध्यस्था सौम्यरूपा सुलालसा महानन्दमहाविष्टा आवेशन्ती जगत्त्रयम् //
17.20 SK महासंसार-म्-अम्भोधेस् तारयन्ती व्यवस्थिता सा महान्तारिकाप्य् अत्र कौमारे महतां गता //
17.21 SK पाशौघक्षयकर्ता सा विद्याशास्त्रावलम्बिनी यस्योच्चारात् स्फुटन्त्य् आशु पर्वतान् वज्रमौसलान् //
17.22 SK पञ्च पञ्च च विद्यास्त्रं महान्तारी स एव हि अक्षरौघेन सिद्धा सा उच्चारावेशिनी परा //
17.23 SK अभक्तं वा द्विषन्तं वा वादस्थं वा तथेतरम् कुपितः पातयेत् सर्वं यस्यैषा हृदि शालिनी //
17.24 SK पदस्थेन तु योगेन सिद्धा सा परमेश्वरी पिण्डम् आवेशयेच् छीघ्रं पिण्डस्थां शृणु कुब्जिनि //
17.25 SK वृद्धक्रमस्य मध्यस्थां लघुरूपां सुतेजसाम् द्विभुजैकवदनां तां पिण्डस्थां पतिरूपिणीम् //
17.26 SK पशुप्राणहरां देवीं पाशजालनिकृन्तनीम् दमनीं सर्वपापानां विज्ञानकरणीं पराम् //
17.27 SK पूर्वं व्यावर्णितं यच् च रूपान्ते गुणशालिनीम् विद्याङ्गाभरणोपेतां पिण्डस्थां तां विजानथ //
17.28 SK द्वात्रिंशाक्षरसंयुक्तां षडङ्गपरिवेष्टिताम् यद् उक्तं कर्मसन्तानं तद् अत्र फलदं क्रमात् //
17.29 SK मन्त्रसिद्धिकरी देवी पिण्डसिद्धिकरी परा वडवानलयोगेन सर्वज्ञत्वं लभेत् तु सः //
17.30 SK वडवानलकुब्जस्था कूजते ऽनन्दरूपधृक् तेन सा कुब्जिका नाम मणिरूपा१पखञ्जिका //
17.31 SK अस्या देव्याः पदं रूपं रूपातीतं प्रवर्तते पिण्डेशिनी परा माता चतुराशीतिगुणोज्ज्वला //
17.32 SK सम्पूज्य मानसैः पुष्पैर् अलिफल्ग्वादिभिः क्रमात् चतुःसिद्धक्रमाम्नायं स्वामिपादम् अनुक्रमात् //
17.33 SK पिण्डयोगस्थितां चाज्ञां संस्मरेन् मध्यतिर्यगाम् कुब्जिनीकुलम् आरूढाम् अभ्यसन्तः श्रियं लभेत् //
17.34 SK शान्तिपुष्टिवशाकृष्टि वाग्विलासं ज्वरापहम् मृत्युनाशं पुरक्षोभं सैन्यस्तम्भाम्भशोषणम् //
17.35 SK पशुपाशग्रहस्तोभं दन्तकाष्ठाञ्जलीघटम् निर्बीजीकरणाद्यं च वृक्षस्फोटं जलप्लवम् //
17.36 SK मुद्रास्फोटं शिलाच्छेदं वृक्षाणां लभनं महत् नदीप्रवर्तनस्तम्भो नावादिशकटस्य च //
17.37 SK अनग्निज्वलनं पातः सैन्यस्तम्भोर्ध्वरोपणम् ज्वालास्तम्भं जलस्तम्भं घटसस्त्रगिराचलम् //
17.38 SK स्तम्भयेद् वज्रपातं तु अशन्यौघं निवारयेत् मारयेट् टालयेच् छैलान् दारयेद् धरणीतलम् //
17.39 SK हस्तवृद्धिर् मनःसिद्धिर् दूराश्रवणदर्शनम् वर्तमानम् अतीतार्थं भविष्यं च लघुत्वता //
17.40 SK वाचासिद्धिश् च माहेन्द्रम् इन्द्रजालप्रवर्तकम् कामरूपान्तरध्यानं ज्ञानं मातृकुलस्य च //
17.41 SK जिह्वाप्रसारणं चान्यम् अङ्गैकैकविवर्धनम् स्फोटनं शुष्ककाष्ठानां त्रोटनं फलपुष्पयोः //
17.42 SK मृतकोत्थापनं शीघ्रं दग्धसञ्जीवनं महत् अकाले वृक्षफलनं पुष्पधान्यावरोहणम् //
17.43 SK परकायप्रवेशं च अन्यजन्मावबोधनम् परोक्षमृतकानयनं दृष्टिज्वालाप्रसारणम् //
17.44 SK दन्तवृद्धिकरं ज्ञानं ज्वालाविज्ञानम् उत्तमम् शरीरे फलपुष्पानि प्रतिमाजल्पकर्षणम् //
17.45 SK जल्पायनं कुमारीणाम् अन्तर्धानोर्ध्वदर्शनम् निरालम्बोर्ध्वरुहणं पररूपापकर्षणम् //
17.46 SK चित्रनृत्यापनं युद्धं शत्रूणां च परस्परम् हरणं शब्ददृष्टीनां वर्धतैकैकहेलया //
17.47 SK परसामर्थ्यहरणं पुंस्त्रियोपकरणं परम् अङ्गसङ्कोचनानयनं भूतानां भूतसाधनम् //
17.48 SK पिण्डक्रमस्य पूजायां स्वाधिष्ठानफलं लभेत् कुब्जानलेन योगेन कुब्जिपिण्डं चतुर्विधम् //
17.49 SK अश्वत्थपत्त्रवत् कुब्जं शुकचञ्चुनिभं परम् मणिकुब्जं परं चान्यं रन्ध्रकुब्जं ततो ऽपरम् //
17.50 SK एतत् ते संस्फुटं सर्वं कुब्जाम्बीनां चतुष्टयम् पिण्डो ऽथ पद रूपं च रूपातीतादितः क्रमात् //
17.51 SK आद्यं पिण्डस्थिता कुब्जी कुब्जेशीति कुलेश्वरी पदस्था कुब्जिका चान्या महान्तारी महद्भुता //
17.52 SK रूपस्था कुब्जिनी चान्या बिन्दुस्था बर्बरा परा रूपातीता तु रन्ध्रस्था कुब्जिनी कमलानना //
17.53 SK विज्ञानानेकविश्लिष्टा एकैका फलदायिनी पिण्डयोगक्रमेणैताः कुब्जिदेहफलप्रदाः //
17.54 SK मित्रेशानसमायुक्ता कण्ठोष्ठालिङ्गनान्विता गोलान्तपश्चिमान्तस्था शङ्खभेदाद् विनिर्गता //
17.55 SK विद्युदन्योन्यतारेभ्यो विशत्य् एका पुनर् द्विधा एवम् अभ्यसते यावत् तावत् कामः स्वयं क्षुभेत् //
17.56 SK स्वाधिष्ठानगते योगे शाक्ते शक्तिं समभ्यसेत् अब्दैकेन जगत् सर्वं क्षोभयेत् त्रिदशेश्वरम् //
17.57 SK दुर्भगानाम् अभाग्यानाम् अब्दात् सर्वं भविष्यति यः पुनः सर्वथा सिद्धः स सिध्यत्य् अचिरात् प्रिये //
17.58 SK सात्त्विकेन तु रूपेण त्यक्तमायासुखोज्झितः पादप्रक्षालनं जुष्टं यो न दद्यात् स सिध्यति //
17.59 SK एतत् कुलालिकाम्नाये पिण्डकुब्जिचतुष्टयम् अविज्ञाय न दातव्यं यावन् नादेशितः शिशुः //
17.60 SK अनादिविमलमातङ्गी सर्वज्ञा च पुलिन्दिका योगे च शबरी प्रोक्ता सिद्धसंज्ञेति चम्पका //
17.61 SK अधुना शृणु कुब्जीशे पदग्रन्थिविभञ्जकम् क्रमं वक्ष्यामि दिव्यौघं सामर्थ्यादिनिराकुलम् //
17.62 SK आज्ञामोघपदं खञ्जि द्वितीयं कुब्जिनीपदम् शक्तिविद्या तृतीयं तु चतुर्थौघपदक्रमम् //
17.63 SK चतुष्पीठविभेदेन पुनः पीठचतुष्पदम् षोडशैव पदान्य् आहुर् ग्रन्थिभूताः पृथक् पृथक् //
17.64 SK कलन्ति सकलं सर्वं स्थूलसूक्ष्मविभागतः नदन्ति कालरूपस्था[ः] स्थूलसूक्ष्मान् तथान्तिमान् //
17.65 SK तिथ्याद्यान्तपदं यान्ति वामान्तं दक्षिणं पुनह् चन्द्रसूर्यविभागेन जीवितं मरणं पदम् //
17.66 SK पदैः षोडशभिः सर्वं ग्रन्थिं बद्ध्वाध्वरं ऽखिलम् कालरूपास् तु ताः कालं हनन्त्य् उच्चारयोगतः //
1819 SK ओ-जा-पू-का-डि-लम्-र्ण-म-आ-ध-गि-रू-ण-र-रि-पू |
17.67 SK एवं ज्ञाते हनेत् कालम् उच्चरन्तो ऽनुपूर्वशः //
17.68 SK अक्षरे अक्षरे ग्रन्थिः पीठं ग्रन्थिचतुष्टयम् चतुष्पीठमया योनिश् चतुर्योनिमयं ऽखिलम् //
17.69 SK पञ्चमी या परा योनिस् तस्या ग्रन्थिः पदे पदे तया व्याप्तम् इदं सर्वं कारणानलमध्यगम् //
17.70 SK तत् पदं परमं प्रोक्तं यत्र सर्वे पदा गताः षोडशाक्षरभेदेन तत् पदं लभते स्फुटम् //
17.71 SK प्रथमाधारनन्ताख्या मध्यमाङ्घ्र्याङ्गुलीगता कालग्रन्थिस् तु गुल्फाधो रौद्रीग्रन्थिर् नलान्तरे //
17.72 SK ज्येष्ठाग्रन्थिर् नितम्बाधो वामे वामाधसंस्थिता कामग्रन्थिर् गुदाधारे पिङ्गग्रन्थिस् ततोर्ध्वतः //
17.73 SK अधोर्ध्वरोममध्ये तु ब्रह्मग्रन्थिर् उदाहृता सोमग्रन्थिस् ततश् चोर्ध्वे सूर्यग्रन्थिस् ततोर्ध्वतः //
17.74 SK प्राणग्रन्थिः पुनश् चोर्ध्वे जीवग्रन्थिस् ततोर्ध्वतः येन जीवन्ति भूतानि तद्वियोगान् म्रियन्ति च //
17.75 SK विष्णुग्रन्थिस् तु सा ज्ञेया कण्ठस्था तालुके ऽन्यथा रुद्रग्रन्थिर् महारौद्रा ईशग्रन्थिस् ततोर्ध्वतः //
17.76 SK सादाख्यस् तु परा ग्रन्थिस् त्रिकोट्योर्ध्वव्यवस्थिता माया शक्तिस् ततश् चोर्ध्वे इच्छानन्दामृताप्लुता //
17.77 SK षोडशावयवा देवी खेचरी तु खगेश्वरी पद्मस्था पद्ममध्यस्था हंसस्था हंसवाहिनी //
17.78 SK निष्कला सकला देवी वज्रदेहा मनोन्मनी पदक्रमस्य मध्यस्था पदाङ्गाभरणोज्ज्वला //
17.79 SK क्रममन्त्रपदालब्धा हेलया चाणिमाष्टकम् साधयेन् महता देवी षोडशाक्षरसम्भवा //
17.80 SK मालिनी सिद्धदेहा सा त्रितत्त्वार्चिघनोज्ज्वला अघोर्याष्टकसंयुक्ता द्वादशाङ्गप्रपूरिता //
17.81 SK षडङ्गावयवोपेता दिव्यदेहा महाबला असिताङ्गतनूद्भूता मन्त्रदेहा महेश्वरी //
17.82 SK मालिनी शब्दराशिश् च त्रिविद्याघोरिकाष्टकम् द्वादशाङ्गषडङ्गं च एतद् देहं कुलात्मकम् //
17.83 SK ललाटकण्ठवक्षस्थं गुह्याङ्घ्रौ रत्नपञ्चकम् श्लोकद्वादशभिर् माला पादादौ चूलिकावधिम् //
17.84 SK ब्रह्मसूत्रोज्ज्वला देव्याः स्कन्धोभौ तद्ग्रहान्वितौ पञ्चबीजैर् मुखकोषं पञ्चौंकारैः खिलं न्यसेत् //
17.85 SK परमं वद कौलेश पदमन्त्रा यथा स्थिताः यत्र स्थाने नियोक्तव्याः स्फुटैकैकं पृथक् पृथक् //
17.86 SK कथयामि वरारोहे पदार्थार्थपदं यथा सिद्धमन्त्रोपदेशो ऽयं प्रकटार्थं वदामि ते //
17.87 SK मूर्ध्नि वक्त्राक्षिणौ कर्णौ नासागण्डौ द्विजौष्ठकौ भारतीशङ्खिनीद्वारे श्रीकण्ठात् सेनकावधिम् //
17.88 SK क्रमेण षोडशैवैतान् दक्षिणादौ पदा न्यसेत् दन्तौष्ठादिम् अधो न्यस्य भारतीशङ्खिकावधिम् //
17.89 SK क्रोधादाव् एकरुद्रान्तं स्कन्धादौ चाङ्गुलावधिम् दक्षिणे वामतो ऽप्य् एवं कूर्मादौ शर्मकावधिम् //
17.90 SK सोमेश्वराद्युमाकान्तं स्फिचादौ ऽङ्घ्र्यान्त दक्षिणम् वामतो ऽषाढिमेषान्तं पार्श्वौ लोहिशिखान्वितौ //
17.91 SK छगलण्डं तु वंशस्थं द्विरण्डं नाभिमण्डले हृदये तु महाकालम् अष्टकं पुरतो ऽन्यथा //
17.92 SK वालिभौजङ्गपैनाकखड्गीशबकश्वेतकाः भृगुलाकुलसंवर्ताः कालप्राणसशुक्रगाः //
17.93 SK मज्जास्थिस्नायुमांसस्था रक्तत्वग्वालिमादितः अनुलोमविलोमेन कालवेलादितः क्रमात् //
17.94 SK नादिनी तु शिखाग्रस्था नकाराक्षरसम्भवा ऋ-ॠ-ऌ-ॡ निवृत्त्याद्या मालिका शिरसि स्थिता //
17.95 SK थ शिरो ग्रसनी देवी ध नेत्रे प्रियदर्शना ई गुह्यशक्ति नादस्था नासायां नेत्रमध्यतः //
17.96 SK व्यापयित्वा स्थिता देवी च तृतीयं तु लोचनम् चामुण्डा परमेशानी ललाटस्था विराजते //
17.97 SK बकारं वदनं देव्या वज्रिणी शक्तिर् अव्यया कवर्गे दशनास् तीक्ष्णाः कङ्कटा कालिका शिवा //
17.98 SK घोरघोषा मुखीवीरा कवर्गे दसना[ः ] शुभाः मायादेवी इ जिह्वा तु अ वाग् वागेश्वरी मता //
17.99 SK नारायणी ण कर्णौ तु तयोर् भूषणम् ई-परौ मोहनी च तथा प्रज्ञा व कण्ठे शिखिवाहिनी //
17.100 SK लामा विनायकी देवी डढौ बाहुद्वयं मतम् पौर्णिमा हस्तदेशस्था ठकाराख्यं विभोर् मतम् //
17.101 SK झङ्कारी कुर्दनी चैव झञौ चाङ्गुलयः क्रमात् कपालिनी वामकरे टकारः परमेश्वरी //
17.102 SK दीपनी शूलदण्डं च रेफः सम्यग् उदाहृतम् जयन्ती ज भवेच् छूलम् एवं देवी विराजते //
17.103 SK भीषणा वायुवेगा च स्कन्धयोर् उभयोर् अपि पावनी तु प हृल्लग्ना षोदरं लम्बिका स्थिता //
17.104 SK संहारिका क्षकारो ऽयं नाभिर् देव्या[श्] च भैरवि छगली पूतना चैव स्तनौ छलौ परिस्थितौ //
17.105 SK आमोटी तद्गतं क्षीरम् आवर्णः परिकीर्तितः परमात्मा सकारो ऽयं ह प्राणे शक्तिर् अम्बिका //
17.106 SK इच्छाशक्तिर् विसर्गाख्या व्याप्यभावेन संस्थिता म नितम्बं महाकाली श गुह्यं कुसुमायुधा //
17.107 SK शुक्रा देवी त्व् अनुस्वारं शुक्रं देव्यास् तु भैरवि तारा तकारम् ऊरुस्था ए ऐ ज्ञानीक्रियाव् उभौ //
17.108 SK जानुनी संस्थितौ देवि भैरव्याश् च महात्मनः गायत्री चैव सावित्री ओ औ जङ्घौ प्रकीर्तितौ //
17.109 SK दहनी दक्षपादस्था वामे फेत्कारिका मता नादिफान्ता वरारोहे देहं शक्तिमयं शुभम् //
17.110 SK सिद्धपञ्चाशकोपेतं मालिन्यार्धशतान्वितम् एवं शतं समाख्यातं योज्यमानं तनौ भृतम् //
17.111 SK पदद्वयं समाख्यातं तत्र हंसो व्यवस्थितः यावच् चरति तौ द्वौ तु तावद् आत्मा समाप्यते //
17.112 SK पदमानम् अशेषं तु अत्र सर्वं समाप्यते आज्ञातो भुञ्जते कालं पदं ज्ञात्वाजरामरम् //
1866 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते पदद्वयहंसनिर्णयो नाम सप्तदशमः पटलः
18.1 SK पदग्रन्थिसमालब्धस् तत्त्वग्रन्थिसमाश्रितः कुब्जिग्रन्थिपदान्तस्थो हंसभेदपदं व्रजेत् //
18.2 SK हंसभेदे परा शक्तिः सहजा शिवतत्त्वगा सा विद्या प्रथमा ज्ञेया द्वितीया तु परापरा //
18.3 SK चत्वारिंशत्पदा ज्ञेया विद्यातत्त्वे निवेशिता हंसग्रन्थिसमारूढां प्रकटार्थं वदामि ते //
18.4 SK सोमेश्वरं समुद्धृत्य पतितं सुरनायिके शिखीशं केवलं पश्चाल् लाकुलं तदनन्तरम् //
18.5 SK अर्घीशासनसंस्थं हि बिन्दुना मस्तके हतम् लाकुलं पुनर् उद्धृत्य भुजङ्गासनसंस्थितम् //
18.6 SK त्रिमूर्तिना च चाक्रान्तं शून्यमस्तकभूषितम् शिखीशं वह्निसंयुक्तं झण्टीशेन समन्वितम् //
18.7 SK क्रूरानन्देन सम्भिन्नं लाकुली तदनन्तरम् भुजङ्गेन तु सन्दीप्तम् अर्घीशासनसंस्थितम् //
18.8 SK तद् एवं लाकुलीशं तु भुजङ्गाधारम् ईश्वरम् त्रिमूर्तिना तु चाक्रान्तं अं क्रूरं शिरसि स्थितम् //
18.9 SK भुजङ्गं तु चतुर्धा वै कर्तव्यं तु कुलेश्वरि केवलं द्वितयं देवि अमरीशद्वितयान्वितम् //
18.10 SK लाकुलं तु ततो देयं झण्टीशेन तु भेदितम् महासेनाहतं देवि लाकुलीशं समुद्धरेत् //
18.11 SK खड्गीशं केवलं गृह्य लोहितं तदनन्तरम् सूक्ष्मानन्देन सम्भिन्नं महाकालं तु केवलम् //
18.12 SK खड्गीशं केवलं पश्चाद् उमाकान्तं ततः पुनः झण्टानन्देन सम्भिन्नं श्वेतानन्दं कुलाधिपे //
18.13 SK केवलं तु स्मृतं भद्रे द्विरण्डं तदनन्तरम् त्रिमूर्तिना तु चाक्रान्तं महाकालं ततः पुनः //
18.14 SK द्विरण्डं तु पुनर् देवि त्रिमूर्त्यालङ्कृतं कुरु सूक्ष्मानन्देन सम्भिन्नं चण्डानन्दं यशस्विनि //
18.15 SK महाकालं पुनः पश्चाद् अमरीशासनस्थितम् भुजङ्गं केवलं देवि शिवेशं सद्यसंयुतम् //
18.16 SK लाकुली भृगुसंयुक्तं नुग्रहीशान्वितं प्रिये क्रूरदेवं शिरस्थं हि लोहितं झण्टिनाहतम् //
18.17 SK रक्तं चैवार्घिना युक्तं भुजङ्गं केवलं पुनः शिवानन्दं तु देवेशि सद्योजातेन भेदितम् //
18.18 SK लाकुलम् अर्घिना युक्तं शून्यमस्तकभूषितम् भुजङ्गं झण्टिदेवेन भेदितं कुरु पार्वति //
18.19 SK शिवोत्तमं ततः पश्चात् सद्योजातेन भूषितम् केवलं तु महाकालं भुजङ्गं केवलं पुनः //
18.20 SK लोहितं तु पुनः पश्चान् महासेनं ततः पुनः आसनस्थं भृगोर् देवि लाकुलीशं समुद्धरेत् //
18.21 SK लाकुलीशं पुनर् भद्रे भुजङ्गासनसंस्थितम् त्रिमूर्तिना तु चाक्रान्तं क्रूरानन्दसमन्वितम् //
18.22 SK झण्टिना भेदितं देवि भुजङ्गं कारयेत् ततः शिवानन्दं ततोद्धृत्य सद्यानन्दान्वितं कुरु //
18.23 SK श्रीकण्ठं केवलं पश्चाद् भौक्तिकं बिन्दुना युतम् एषा परापरा देवी उद्धृता तु विलोमतः //
18.24 SK चत्वारिंशद्द्वयो वर्णा अर्धवर्णान्विता प्रिये एषा विद्या तथा प्रोक्ता विद्यातत्त्वे निवेशयेत् //
18.25 SK देव्या चैवात्मतत्त्वस्था क्रियाशक्त्यापरा पुनः अर्धसप्ताक्षरा देवी विलोमेन ततः शृणु //
18.26 SK पतितम् ईश सोमं हि शिखीशं केवलं ततः लाकुलम् अर्घिना युक्तं शिखीशं भुजगान्वितम् //
18.27 SK झण्टीशेन समायुक्तं लाकुलं रक्तसंस्थितम् द्विधा भूतं तु कर्तव्यं भेदं चात्र वदामि ते //
18.28 SK अर्घिना पूर्व सम्भिन्नम् अपरं तु त्रिमूर्तिना भौक्तिकं केवलं देवि उद्धृतं परमाक्षरम् //
18.29 SK बिन्दुनादान्विताः पञ्च कर्तव्यास् तु यशस्विनि अपरेयम् इमा विद्या सर्वस्वं योगिनीकुले //
18.30 SK परां देवीं ततो वक्ष्ये शिवतत्त्वानुसारिणीम् लाकुलं भृगुसंस्थं हि भुजङ्गेन समन्वितम् //
18.31 SK अर्घीशासनम् आरूढं ऽनुग्रहीशेन भेदितम् बिन्दुनादकलाक्रान्तम् उद्धृतं परमं प्रिये //
18.32 SK प्रणवोच्चारसंयुक्ता विद्या तत्त्वत्रयात्मिका शब्दमालिनिमूर्तिस्था विद्यादेहगुणोज्ज्वला //
18.33 SK पुर्याष्टकम् अघोरिस्थं यथावस्थां वदामि ते //
18.34.1 SK ह्रीं रु अघोरे ह्रीं स्हौं अघोर्यायै प्रथमं शिरः ||
18.34.2 SK ह्रीं रु परमघोरे हूं स्हौं परमघोरायै मुखम् ||
18.34.3 SK ह्रीं रु स्हौं घोररूपे स्हौं घोररूपायै हृदि ||
18.34.4 SK ह्रीं रु स्हौं घोरमुखि स्हौं घोरमुख्यै गुह्ये ||
18.34.5 SK ह्रीं फट् भीमनामे स्हौं भीमायै दक्षिणभुजे ||
18.34.6 SK ह्रीं हूं भीषणे स्हौं भीषणायै वामतो भुजे ||
18.34.7 SK स्हौं ह्रीं हः वम स्हौं वमन्यै दक्षिणोरु ||
18.34.8 SK ह्रीं हूं फट् पिब हे स्हौं पिबन्यै वामतोरु ||
18.35 SK एतत् पुर्याष्टकं देव्या अघोर्याष्टकसंयुतम् न्यसेद् अष्टविधाङ्गं तु अष्टपत्त्रेषु साधकः //
18.36 SK अतोर्ध्वं द्वादशाङ्गं तु देहनिष्पत्तिकारणम् पादादौ शिरसो यावन् न्यसेद् अङ्गे यथोदितम् //
18.37A SK सिद्धाईति सहं पद्भ्यां ऋद्धाई जानुनी सहां विद्युतायै सहिम् ऊरुभ्यां सहीं लक्ष्मीति गुह्यगा //
18.37B SK दीप्ताइका सहुं नाभौ सहूं नालाइका हृदि सहें शिवाइका कण्ठे सहैं वसुमुखी मुखे //
18.37C SK सह्ॐ नासा वमन्यायै कर्णे नन्दिनिका सहौं हरिकेशा सहं त्र्यक्षी महामुख्यै सहः शिरे //
18.38 SK अनेन दृढितो ह्य् आत्मा जीवभूतः स्थिरीकृतः षडङ्गन्यासयोगेन व्यक्तत्वं भजते तु सः //
18.39.1 SK स्हां सर्वज्ञ हृदयाय नमः ||
18.39.2 SK अमृते तेजोमालिनि तृप्ति शिरसे स्हीं स्वाहा ||
18.39.3 SK वेदवेदिनि हूं फट् स्हूं अनादिबोधाय शिखायै वौषट् ||
18.39.4 SK स्हैं वज्रिणे वज्रधराय स्वतन्त्र कवचाय हूं ||
18.39.5 SK स्हौं नित् यम् अलुप्तशक्ति स्हौं वौं धौं सहजे त्रिनेत्ररूपिणे नमस् तुभ्यम् अनन्तशक्ति ||
18.39.6 SK स्हः श्लीं पशु हूं फट् पाशुपतास्त्राय सहस्राक्षाय हूं फट् ||
18.40 SK षडङ्गन्यासयोगेन परादेहं पराध्वरम् एवम् निष्पन्नदेहस्य स्लोकद्वादशमेखला //
18.41 SK तद्ग्रहेण तु योगेन ब्रह्मसूत्रं विलम्बयेत् शिरःप्रभृति पादान्तं पञ्चरत्नविभूषितम् //
18.42 SK यत्र यत् पदविन्यासं $ तत् कुब्जीशे-म्-अतः शृणु //
18.43.1 SK ऐं हः अ परमानन्दे हः आ सिद्धिदानन्दने हः इ परापरे ह्रूं फ्रें फट् क्षः ई श्रीकुलाम्बिके ||
18.43.2 SK ऐं हः उ कालरुद्रस्थे हः ऊ ऋद्धिबलान्विते हः ऋ शिरोहारे ह्रूं फ्रें फट् क्षः ॠ श्रीकुलाम्बिके ||
18.43.3 SK ऐं हः ऌ नरकान्तस्थे हः ॡ गुह्यमहाम्बिके हः ए सृष्टिगते ह्रूं फ्रें फट् क्षः ऐ श्रीकुलाम्बिके ||
18.43.4 SK ऐं हः ओ कुण्डलगुह्यान्ते हः औ कुण्डललक्ष्मिके हः अं कुण्डलिनी ह्रूं फ्रें फट् क्षः अः कुलमालिनी ||
18.43.5 SK ऐं हः क कमलदीप्ते हः ख कुण्डलनाभिगे हः ग कालहरे ह्रूं फ्रें फट् क्षः घ स्वतेजशिवे ||
18.43.6 SK ऐं हः ङ कमलमाले हः च क्रमसौहृदि हः छ पापहने ह्रूं फ्रें फट् क्षः ज कामरूपिणी ||
18.43.7 SK ऐं हः झ कण्ठकूपस्थे हः ञ शैवामृतात्मिके हः ट चन्द्रात्मिके ह्रूं फ्रें फट् क्षः ठ सुखदेश्वरी ||
18.43.8 SK ऐं हः ड कुहरान्तस्थे हः ढ सौमुख्यतामने हः ण स्वानन्दने ह्रूं फ्रें फट् क्षः त कालनाशनी ||
18.43.9 SK ऐं हः थ कालवमनि हः द चोग्रानुनासिके हः ध करोति सा ह्रूं फ्रें फट् क्षः न कालरोदनी ||
18.43.10 SK ऐं हः प श्रावणान्तस्थे हः फ सिद्धिम् आश्रिते हः ब करोति सा ह्रूं फ्रें फट् क्षः भ पारमेश्वरी ||
18.43.11 SK ऐं हः म कालकलातीते हः य श्रीबिन्दुनेत्रगे हः र श्रीहारिके ह्रूं फ्रें फट् क्षः ल सृष्टिबिन्दुगे ||
18.43.12 SK ऐं हः व प्रकटगुप्ते हः श महामुखे परे हः ष स्वाकाशगे ह्रूं फ्रें फट् क्षः स श्रीकुजाम्बिके ||
18.44 SK अजचक्रेश्वरी रेखा द्वितीया कादिभान्तगा मादिसान्ता तृतीया तु त्रिभि रेखैः स्वरेश्वरी //
18.45 SK अम्बिका शूलदण्डस्था गुह्यशक्त्या विभूषिता बिन्दुनादसमायुक्ता उद्धृतं परमाक्षरम् //
18.46 SK श्रीकण्ठ अम्बिका चैव द्विधारूपा तु कारयेत् पुनर् अम्बा च फेत्कारी दीपन्यासनसंस्थिता //
18.47 SK प्रज्ञाभूषितम् एकं हि ज्ञानदेव्या द्वितीयकम् बिन्दुनादयुते द्वे तु संहार्या इच्छयान्विता //
18.48 SK श्रीकण्ठादिभृगोऽन्ता वै संस्थिता कुलपद्धतिः अनेन विधिना देवि भिन्ना तु कुलपद्धतिः //
18.49 SK परामृतपदं ह्य् एतत् श्लोकानां दशकं द्विकम् एतस्मिन् पठिते देवि क्षुभ्यन्ते मातरः सदा //
18.50 SK सद्यावेशः प्रजायेत कवित्वं तस्य जायते आज्ञावेधादिका सिद्धिः पठिते ऽ स्मिन् प्रजायते //
18.51 SK त्वया न कथ्यम् अभक्तेष्व् इत्य् आज्ञा पारमेश्वरी श्लोकद्वादशकं ह्य् एतद् वटमालाविभूषितम् //
18.52 SK वडवानल मन्तव्यं पादादौ मस्तकावधिम् मेखलेयं न्यसेद् देवि विलोमेनोपदेशतः //
18.53 SK उच्चारं तस्य चावेशं स्थाने स्थाने प्रवर्तते गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् //
18.54 SK जीवस्य रक्षणं ह्य् एतद् अन्यथा हानिकृद् भवेत् तद्ग्रहोऽन्यं न्यसेद् देवि ब्रह्मसूत्रविभूषणम् //
18.55 SK देदीप्यन्तं प्रचण्डोग्रं यथावस्थं तथा शृणु //
18.55 SK अन ऐं | आ थ ह्रीं | इ ऋ अ | ई ऋ घो | उ ऌ रे | ऊ ॡ ह्रीं | ऋ च ह्सः | ऋ ध प | ऌ ण र | ॡ उ म | ए ऊ घो | ऐ ई रे | ओ ब हूं | औ क घो | अं ख र | अः ग रू | क घ पे | ख ङ ह्सौं | ग इ घो | घ अ र | ङ व मु | च भ खि | छ य भी | ज ड म | झ ढ भी | ञ ठ ष | ट झ णे | ठ ञ व | ड अः म | ढ ट व | ण र म | त ज पि | थ प व | द स पि | ध ह व | न छ ह | प ल हे | फ आ रु | ब ष रु | भ क्ष रु | म म रु | य श र | र अं र | ल त र | व ए र | श ऐ ह्रीं | ष ओ हूं | स औ फ्रें | ह द ह्सौं | क्ष फ ऐं ||
18.57 SK रुद्रशक्तित्रयं ह्य् एतद् आनन्दपदसंस्थितम् अन्योन्यवलयाकारं पञ्चाशत्पदभूषितम् //
18.58 SK वामरौद्रान्तदक्षस्थं दक्षरौद्रान्तवामगम् रौद्रारौद्रसमायुक्तं त्रिरौद्रं तद्ग्रहो ऽप्य् अय् अम् //
18.59 SK वागेश्वरी तथा माया मोहनी च तृतीयका ज्ञानदेवी च गायत्री रत्नाः पञ्च इमे स्मृताः //
18.60 SK न्यासमात्रेण चावेशम् उच्चाराद् भवते स्फुटम् पिण्डस्य बन्धनं ह्य् एतद् दुष्टसिंहविनाशनम् //
18.61 SK तद्ग्रहाबद्धमूलं तु पञ्चरत्नोपशोभितम् रत्नाङ्गी रत्नदेहा तु रत्नानां निर्णयं शृणु //
18.62 SK रत्नान्य् अमृतम् इत्य् उक्तं पञ्चधा त्व् अमृतं प्रिये पिण्डबन्धं विना तेन जीवितं तु न विद्यते //
18.63 SK गगनामृतरत्नं तु स्वर्गरत्नामृतं तथा पातालमर्त्यरत्नं च नारकं रत्नपञ्चकम् //
18.64 SK देवीदेहात् समुद्भूतं देवीदेहाद् विनिर्गतम् ज्ञानवीर्यः सवीर्यस् तु अज्ञाते वीर्यहानिकृत् //
18.65 SK तृतीयं दशनं देव्या आत्महृत्स्थं नितम्बगम् शिखान्तसहितं ह्य् एतत् स्तनवामोपरिस्थितम् //
18.66 SK कर्णभूषणवामस्थं बीजेनाहतमस्तकम् पञ्चरत्नादियोगस्य पदोद्धारः प्रकीर्तितः //
18.67 SK प्राणं वह्निसमारूढं गुह्यशक्त्या विभूषितम् बिन्दुमस्तक चाक्रान्तं पञ्चरत्नविभेदकम् //
18.68 SK एकैकं रक्षितं रत्नं योगिनीभिर् यथा यथा तत् तथा शृणु कल्याणि व्याप्तिभेदो यथा स्थितः //
18.69 SK चतुःषष्टिगणं व्योम्नि द्वात्रिंसत् स्वर्गचारिणः पातालं षोडशैर् व्याप्तं मर्त्यं चैवाष्टकान्वितम् //
18.70 SK निरयस्थास् तु चत्वारि रत्नानाम् अधिदेवताः तद्दीप्तिभासका ज्ञाता अज्ञाता दीप्तिहारिकाः //
18.71 SK रत्नप्रभावम् अतुलं देदीप्यार्चिसमुज्ज्वलम् तत्प्रभावाद् वरारोहे योगिन्यो बलवत्तराः //
18.72 SK अतोऽर्थं गोपयन्त्य् एतास् तद्वीर्यगुणवत्तराः रक्षन्ति स्वामिनोद्दिष्टा अनादिष्टं हरन्ति ताः //
18.73 SK अमीषां दर्शनात् स्पर्शात् पदार्थपदयोगतः दिव्यदेहत्वम् आप्नोति उच्चारात् क्षोभकृद् भवेत् //
18.74 SK षोडशावयवं पिण्डं षोढान्याससुयन्त्रितम् श्लोकमालान्वितं दिव्यं तद्ग्रहावलिभूषितम् //
18.75 SK पञ्चरत्नकृताटोपं परास्यम् अकुलान्वितम् एवं कृत्वा शरीरस्थं न्यासमण्डलभृत्तनुम् //
18.76 SK देव्या देहं परं ह्य् एतच् छाम्भवं पदपूर्वकम् वडवानलयोगस्थं पददेहं पदोद्भवम् //
18.77 SK पददेहोपदेशेन योगीन्यासपरायणः कृत्वा न्यासम् अशेषं तु यस् तिष्ठति सुभावितः //
18.78 SK तस्य दुष्टान्य् अनेकानि विघ्नानि प्रभवन्ति न शाकिनीभूतवेतालाः पिशाचोरगराक्षसाः //
18.79 SK सिंहव्याघ्रगजा ऋक्षा दुष्टचित्तान्य् अनेकधा ये हिंसन्ति यदालब्धं तेषां प्रत्यङ्गिरा भवेत् //
18.80 SK आपदो रक्षयेत् सर्वा आत्मनश् च परस्य च प्रचण्डयोगिनीघ्रातो नीतो वा यमशासनम् //
18.81 SK न्यस्त्वा षोडशवारेयं सत्येदं न म्रियेत् तु सः सकृन्न्यासे कृते देवि ब्रह्महत्यादिपातकैः //
18.82 SK सम्पर्के ऽपि न लिप्यो ऽसौ साधयेद् इतरांस् तु सः सत्यं सत्यं पुनः सत्यं प्रत्यक्षेदं पराध्वरम् //
18.83 SK कृतन्यासः पतेत् पद्भ्यां यस्यासौ म्रियते ध्रुवम् गुरोस् तु न पतेत् पादे यावेदं देहसंस्थितम् //
18.84 SK व्याधिदुःखं भवेत् तस्य यद्य् आक्रोशेन् म्रियेत् तु सः ज्ञाते सति न कर्तव्यं यावद् गुरुकुले वसेत् //
18.85 SK गुरुहानिकृते शिष्यो न नन्दत्य् अवशं प्रिये आज्ञानिष्ठो गुणश्रेष्ठः क्रमज्ञौघविशारदः //
18.86 SK स्वाधिकारी तु नान्यो वै वाचाज्येष्ठो ऽभिवादयेत् पूर्वसिद्धेषु लिङ्गेषु सुसिद्धप्रतिमासु च //
18.87 SK कृतन्यासः पतेत् पादौ स्फुटत्य् आशु न संशयः सदा प्रवर्तते यस् तु न्यासं देहस्य भाविनि //
18.88 SK अनुष्ठानाद् ऋते तस्य ऊर्ध्वेनोत्क्रमणं भवेत् त्रिकालन्यासयोगेन अर्धरात्रे तथा पुनः //
18.89 SK अनेन विधिना कालं क्षपयन्ति महाम्बिके अन्यं च परमं देवि ग्रन्थिभेदं सुदुर्लभम् //
18.90 SK हंसभेदप्रयोगेन न्यासं वक्ष्यामि दुर्लभम् ओ-जा-पू-काम-मध्यस्थं हृन्नाभौ लिङ्गमध्यगम् //
18.91 SK पीठं वा पदसंयुक्तम् आद्यग्रन्थिचतुष्टयम् ओघानन्दं जयानन्दं पुरानन्दं तृतीयकम् //
18.92 SK कमलानन्दसंयुक्तम् आद्यभेदचतुष्टयम् डिक्करियाण लम्पार्णं महानन्दपुरं तथा //
18.93 SK कर्णौ मुखे तु नासाद्यं पीठं वा पदसंयुतम् द्वितीयं पदग्रन्थीनां न्यासो ऽयं परिकीर्तितः //
18.94 SK अष्टकोटिसुविस्तीर्णं त्रिकोट्यर्धम् अतः शृणु आमर्दकं धरापीठं गिराङ्कं रूपिणीपुरम् //
18.95 SK द्वौ शङ्खाव् ऊर्ध्वमायान्तं मध्यकोटिगतं न्यसेत् पीठं वा पदसंयुक्तं त्रिस्थं ग्रन्थिचतुष्टयम् //
18.96 SK मायानिरोधिमध्यस्थम् अन्यग्रन्थिचतुष्टयम् ज्ञानशृङ्गं रमाशृङ्गम् ऋषिशृङ्गं तृतीयकम् //
18.97 SK पूर्णशृङ्गसमायुक्तं पीठं वा पदसंयुतम् सिद्धक्रमसमायुक्तं गुरुपङ्क्तिसमन्वितम् //
18.98 SK ज्ञानदृष्ट्या न्यसेत् तं तु चतुष्केदं कुलाकुलम् एतत् कुलाकुलं दिव्यं सर्वसाधारणं परम् //
18.99 SK पदभुक्तिमतानां च पदेदं परिकीर्तितम् अन्यत् परतरो देहः कोटिद्वादशम् आश्रितः //
18.100 SK अकुलीनपदाध्वानं निराधारं खगालयम् अकुलव्याप्तिर् इत्य् एषा क्षेत्रपीठसमाकुला //
18.101 SK साचारकुलयोगीनां षण्नवत्यापदानुगा चतुराशीतिपदैर् व्याप्तिः सा चान्यत्र प्रकाशिता //
18.102 SK येषां ते तु पुनस् तत्र व्यावृतन्ते पुनः पुनः षण्नवतिपदो हंसः स चाम्नायविदां विदुः //
18.103 SK सिद्धकौलाभिपन्नानाम् इतरेषां न दर्शितः तत्र दिव्यक्रमः पूज्यः पदचारेण योगिना //
18.104 SK येन गच्छेन् निराचारं तत् पदं परमं शृणु द्वादशाधारमूर्ध्निस्थं चतुष्पीठसमुच्छ्रितम् //
18.105 SK क्षेत्राष्टकं ततो ऽधस्तात् सन्दोहानि ततो ऽप्य् अधः षोडशैव प्रमाणेन चतुर्द्वारं ततस् त्व् अधः //
18.106 SK उपशब्दसमोपेतम् उपद्वारविवर्जितम् अकुलीनशरीरेदं चतुःषष्टिपदान्वितम् //
18.107 SK तस्मात् सञ्जायते सर्वं सर्वं तत्रैव लीयते तत्र ध्यानं जपं योगं तत्र पूजाक्रियाध्वरम् //
18.108 SK अत्र स्थितो न केनापि वस्तुना बाध्यते तु सः परो ह्य् आत्मा परा विद्या परः शैवः सनातनः //
18.109 SK अकुलीनतनुर् बद्धः परतत्त्वत्रयेण तु आत्मतत्त्वगतं पिण्डं सततं योगम् अभ्यसेत् //
18.110 SK विद्यातत्त्वगता मन्त्राः पदयोगसमन्विताः शिवतत्त्वगतो योगं रूपाभ्यासं समभ्यसेत् //
18.111 SK शिवतत्त्वगतो योगं रूपातीतं तु तत्र वै पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्तितः //
18.112 SK रूपं बिन्दुः समाख्यातं रूपातीतम् अनामयम् कुलदेहं परित्यज्य अकुलीनवपुःस्थितः //
18.113 SK स च वै सकलः पिण्डः कौलिकानां कुजीमते अपरं पाशवं सर्वं त्रितत्त्वगुणलक्षणम् //
18.114 SK शैवमार्गविहीनानां शैवानाम् अन्यधर्मिणाम् प्रसिद्धेन तु मार्गेण प्रसिद्ध्यर्थं भजन्ति ते //
18.115 SK अप्रसिद्धोज्झिते सिद्धा न पश्यन्त्य् अकुलां तनुम् अकुलेन विना सिद्धिर् ऐहिका पात्रिका न हि //
18.116 SK प्रसिद्धविहिते मार्गे मोक्षश् चात्र न संशयः अप्रसिद्धगता ऋज्वी षोडशान्तामृताह्रदम् //
18.117 SK आपूर्य पूरयेत् सर्वं जीवान्तं जीवरूपिणी सुप्रसिद्धाक्षभूता तु कालसङ्ख्याकरी तु सा //
18.118 SK संसारे तु गतिस् तस्या मोक्षमार्गनियामिका विंशत्येकसहस्राणि षट्शतैश् च समन्विता //
18.119 SK संसारी कुरुते सङ्ख्या ह्य् अहोरात्रोपदेशतः अपरेण तु मार्गेण संसारपथलक्षणम् //
18.120 SK अहोरात्रेण लक्षैकं कालसङ्ख्यां करोति सः सप्तादशानि लक्षाणि कोटिर् एका त्व् अहमिशि //
18.121 SK चतुराशीति पदेत्य् एवं कालः कलति सर्वथा पदमार्गविदानां तु सकलाद् अजरामरः //
18.122 SK शिवमार्गविदानां तु सिद्धमार्गे ऽन्यथा शृणु कोटिद्वादशकोपेतं कोटिलक्षचतुष्टयम् //
18.123 SK अहोरात्राक्षसूत्रस्य सङ्ख्येयं ह्य् अकुले तनौ अकुलेशतनुं यावत् साचारं कुलयोगिनाम् //
18.124 SK तच्छरीरभृतानन्दो निराचारपदं व्रजेत् कुलाध्वरपदं हृत्स्थं तत्रस्थं परमं क्रमम् //
18.125 SK पूजयेद् धृत्स्तनौ नाभिं सिद्धाव्वापीठपादुकौ श्रीमद्बर्बरम् ओड्डीशं पदस्थौघमहार्णवम् //
18.126 SK पूजयित्वा स्मरेत् तस्थाम् अब्देनोक्तफलं लभेत् द्विभिस् तु अधमा सिद्धिस् त्रिभिर् मध्यमतां व्रजेत् //
18.127 SK षड्भिर् द्वादशकाब्देन खेचर मध्यमोत्तमः अधमं भूचरं कर्म मध्यमं बिलसाधनम् //
18.128 SK उत्तमोत्तमसिद्धीभिः खेचरः खेचरोर्ध्वगः एवं देवि समस्तेदं पदयोगक्रियाध्वरम् //
18.129 SK कथितं सरहस्यं तु पदमार्गं सुदुर्लभम् पदस्यापि हि रूपो ऽस्ति रूपातीतं तु सङ्क्रमः //
18.130 SK हंसज्ञानपदं प्रोक्तं रूपस्थं शृणु साम्प्रतम् //
2022 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते चतुष्कस्य पदभेदम् अष्टादशमः पटलः
19.1 SK रूपं तु द्विविधं प्रोक्तं स्थूलसूक्ष्मं प्रकीर्तितम् स्थूलम् एकविधं भद्रे सूक्ष्मरूपम् अनन्तगम् //
19.2 SK कण्ठकूपादितः कृत्वा निरोध्यान्तम् अपश्चिमम् रूपोपलब्धिसंस्थानं विज्ञानानन्दपूरितम् //
19.3 SK प्रमाणं रूपमार्गस्य विंशत्कोट्येकसंस्थितम् मायावधिस् तु कूपादौ अत्र विज्ञानसम्भवः //
19.4 SK एतद् रूपपदैर् व्याप्तं रूपचक्रसमन्वितम् कोटिशः कोटिशश् चक्रं चक्रे चक्रे चतुष्टयम् //
19.5 SK विज्ञानानां वरारोहे प्रभावो ऽस्यानुशीलय चतुराशीति-म्-एकत्र क्रमात् स्थूलं पृथक् पृथक् //
19.6 SK कथयामि यथान्यायं चित्रभान्वादितः प्रिये द्वितीयं वारुणं रूपं तृतीयं दण्डपाणिकम् //
19.7 SK प्राणरूपं चतुर्थं तु हंसरूपं तु पञ्चमम् षष्ठम् आत्मवतं रूपं सप्तमं शक्तिपूर्वकम् //
19.8 SK अष्टमं ब्रह्मणो रूपं नवमं केशवात्मकम् दसमं तु भवेद् रुद्रं चन्द्रम् एकादशं विधुः //
19.9 SK द्वादशं भास्करं रूपम् ईश्वराख्यं त्रयोदशम् कोदण्डद्वयमध्यस्थं देदीप्यन्तं सुवर्चसम् //
19.10 SK कोदण्डतिर्यगौ द्वौ तु वामनौ कुब्जिकात्मकौ कोदण्डान्तर्गतौ चान्यौ कर्णकुब्जान्तरे स्थितौ //
19.11 SK शङ्खरूपधरौ द्वौ तु साङ्ख्ययोगस्य दायकौ अष्टादशम् अनन्ताख्यं पिङ्गलैकोनविंशमम् //
19.12 SK विंशमं सकलीशानं निरोधी चैकविंशमम् वडवानलम् आसीनम् एकैकं चक्ररूपिणम् //
19.13 SK चिन्तयन्तः स्वभावेन अभावपदम् आश्रितः अकुलेश्वररूपेण विज्ञानप्रभवो भवेत् //
19.14 SK यस्य यद् यादृशं रूपं तद् रूपं धरते तु सः अवान्तरपदस्थस्य पारम्पर्योज्झितस्य च //
19.15 SK तस्य चाभ्यासयोगेन न सर्वज्ञपदानुगम् यस्य यद् यादृशी व्याप्तिस् तत्रस्थस् तत्फलं लभेत् //
19.16 SK कारणान्ते महादेवो विभाति किरणोज्ज्वलः सतताभ्यासयोगेन त्रिरब्दात् तत्पदं व्रजेत् //
19.17 SK निरोधिनीपदार्थानां महाग्रन्थिपदे स्थिता तारयेद् विदिता सन्ती अविज्ञाता प्रपातयेत् //
19.18 SK महामायार्णवं घोरं तारयेद् विदिता सती महान्तारीति सा प्रोक्ता सर्वरूपोपरिस्थिता //
19.19 SK तस्या रूपम् अजानन्तः स्थूलसूक्ष्मसुसूक्ष्मगम् न पश्यन्ति गुणं रूपं यावद् एषां न सङ्क्रमेत् //
19.20 SK पूजिता ध्यायिता माता पूर्वोक्ते क्रममण्डले अष्टकोटिसुविस्तीर्णे त्रिकोट्योर्ध्वगुणोज्ज्वले //
19.21 SK तत्रस्थोच्चारिता ध्याता पूजिता तु फलप्रदा साधयेत् सर्वरूपाणि वटेन्दीकुसुमार्चिता //
19.22 SK रूपं देव्यास् तु पूर्वोक्तम् अशेषगुणशालिनम् किं तु नोच्चारितं तस्य स्थूलदेहं यथा स्थितम् //
19.23 SK तस्य चोच्चारणाद् देवि प्रबुद्धकिरणोज्ज्वला यष्टीहता भुजङ्गीव पातयेद् अवलोकनात् //
19.24 SK तद्वद् एषा महावीर्या महान्तारी महाबला विद्यायष्टिहता सन्ती सृष्टिचक्रे ह्य् अनेकधा //
19.25 SK षट्प्रकारोपरिस्था सा षड्वक्त्रा बृहदोदरा भुजैर् द्वादशकोपेता कोटराक्षा सुभीषणा //
19.26 SK वज्रहस्ता तु वज्रस्था षड्योगिकुलमध्यगा षष्ट्ःईशानसमायुक्ता सिद्धपङ्क्तौ निवेशिता //
19.27 SK विद्यादण्डसमायुक्ता तस्योच्चारं शृणुष्व मे योगिनीनां कुलेशा तु गोपितान्यत्र शासने //
19.28 SK हा स्वा यै प्रथमं पदं ण्डा क डु कु द्वितीयकम् डु कु टी ङ्ग तृतीयं तु पि टी ङ्ग रि चतुर्थकम् //
19.29 SK पञ्च पञ्च तथा पञ्च स्वरूपाक्षरमालिका एषा साङ्केतिका प्रोक्ता संस्फुटा गुरुवानने //
19.30 SK एषोपायो महान्तार्या दुर्लभः प्रकटीकृतः तस्यैवोच्चारणात् सर्वं कम्पते डामरीगणम् //
19.31 SK संहारक्रमषट्कस्य वृद्धाज्ञेयं प्रकीर्तिता आज्ञा क्रमति भक्तानाम् अभक्तानां न सङ्क्रमेत् //
19.32 SK किं तु चाराधिता किञ्चित् पारम्पर्यौघम् आगता उच्चरन्तो हनेच् छैलान् क्रुद्धस्यान्येषु का कथा //
19.33 SK अस्या देव्यार्चने ध्याने जपे हवनतत्परः स्थूलं संसाधयेत् सर्वं महामायान्तकावधिम् //
19.34 SK यत् सञ्चिन्तयते रूपं तत् सर्वम् इच्छया भवेत् महामायाविना योगी मायैव गुणकृद् भवेत् //
19.35 SK भूगुणो भूचरे मार्गे जलरूपो जलेश्वरः तेजस्वी तेजसो मार्गे वायोर् वायुभृतेश्वरः //
19.36 SK व्योम्नि व्योमाधिपो योगी पञ्चान्तगुणयोगतः त्रिपञ्चवर्षाद् ऊर्ध्वं च सर्वज्ञो गुण-म्-ईश्वरः //
19.37 SK वटेन्दीवरमालाभिः पूजयन्तौघसन्ततिम् साधयेन् निखिलं रूपं स्थूलसूक्ष्मम् अतीन्द्रियम् //
19.38 SK तत्प्रसादेन मायोर्ध्वं भित्त्वा शक्तित्रयं व्रजेत् तत्रैव सा महामाया सूक्ष्मरूपा सुसूक्ष्मगा //
19.39 SK खेचरे ऽनेकरूपा सा सूक्ष्मसूक्ष्मतरा परा दृश्यते मृगतृष्णेव गुर्वाज्ञातोपदेशतः //
19.40 SK अकुलेश्वरदेवस्य पदान्तम् अनुवर्तिनी विशुद्धमालिनी ह्य् एषा तदाभ्यासेन सर्ववित् //
19.41 SK अभ्यासो ऽप्य् अस्य कर्तव्यः पृष्ठे दत्त्वा तु भास्करम् प्रासादगृहवृक्षाणां सन्ध्याकालान्तरे स्थितः //
19.42 SK अथ चेद् वृक्षमूलाधो मध्याह्ने समुपस्थिते पस्यते रूपभृत् सर्वं सूक्ष्मसूक्ष्माणवो ह्रदम् //
19.43 SK रूपम् अन्यद् वरारोहे शृणुष्व करणात्मकम् येन साधयते रूपं खेचरादिम् अनुक्रमात् //
19.44 SK सर्वसाधारणं देवि न भवत्य् अफलप्रदम् यावन् न तत्प्रसादेन गुर्वाज्ञातः प्रवर्तते //
19.45 SK शुभे ऽहनि मुहूर्ते वा शिष्यम् एकान्ततो नयेत् आज्ञां दत्त्वा प्रपूजित्वा कृत्वा मण्डलकादिकम् //
19.46 SK ततोपरि च संस्थाप्य निर्मले गगनान्तरे छायां निरीक्षयित्वा तु कण्ठकूपोपदेशतः //
19.47 SK ततो निरीक्षयेद् व्योमं साकारं रूपदर्शनम् पश्यते भास्करं बिम्बं शिवरूपं सदाशिवम् //
19.48 SK तं दृष्ट्वा पातकानां च अवसानं भविष्यति षण्मासाभ्यासयोगेन भूचरीणां पतिर् भवेत् //
19.49 SK त्रिरब्देन तु भूनाथो हर्ता कर्ता स्वयं प्रभुः अवस्थां त्यजते सर्वां पञ्चावस्थापरं व्रजेत् //
19.50 SK निराचारेण योगेन तन् नास्ति यन् न साधयेत् उक्तानुक्तं तु देवेशि सर्वम् अस्मात् प्रसाधयेत् //
19.51 SK सकृदभ्यासयोगेन मासे वा त्व् अयने ऽपि वा विन्दते ह्य् आगतं कालम् आपदो वात्मनः परे //
19.52 SK कृष्णवर्णेन देवेन षण्मासान् म्रियते ध्रुवम् वक्त्रमूर्ध्नि भयं विन्द्यान् मूर्ध्नि पातान् म्रियेद् ध्रुवम् //
19.53 SK लोहिते ब्रह्महत्या तु पीते व्याधिभयं भवेत् पादौ यत्र न दृश्येते विदेशगमनं भवेत् //
19.54 SK ऊरुमार्गे भवेद् रोगं गुह्ये वै नश्यते प्रिया उदरे अर्थनाशं तु हृदये मृत्युभाग् भवेत् //
19.55 SK भुजहीने पतेद् बन्धुर् वामे भार्याभयं भवेत् षण्मासाल्लक्षयेत् सर्वम् आत्मनश् च परस्य वा //
19.56 SK उपदेशेन देवेशि शेषं च गुरवाननात् रूपपूर्णह्रदान्तस्थो रूपस्थो निरपेक्षधीः //
19.57 SK सूक्ष्मसूक्ष्मान्तरूपेण रूपातीतपदं व्रजेत् योगसिद्धा महादेवि दृश्यन्ते व्योमगागणाः //
19.58 SK बिन्दुरूपास् तु ते सर्वे क्वचिद् दृश्यन्ति न क्वचित् घटाधारगतं प्राणं कूर्मयन्त्रेण पीडयेत् //
19.59 SK नोच्छ्वसेन् मासम् एकं तु तथ्यं भैरव-म्-अब्रवीत् भैरवोवाच कल्याणि कुलरूपं प्रकाशितम् //
19.60 SK अकुलं व्यापकं रूपं सुसूक्ष्मं शृणु साम्प्रतम् एकानेकविभागेन संस्थिता व्योममालिनी //
19.61 SK अमृताम्भोधिमध्यस्था चारस्था चारवाहिनी इच्छारूपधरा देवी कुब्जिनीति कुजाम्बिका //
19.62 SK द्विभुजैकमुखी देवी अथानेकभुजानना चारस्था चारमध्यस्था चारदेहा चलेश्वरी //
19.63 SK चन्द्रगर्भस्य चर्येयं चारवी चण्डचण्डिका पीठमध्यगता पूज्या चन्द्रगर्भसमन्विता //
19.64 SK षोडशारकमध्यस्था चतुर्वर्गफलोदया पीठपीठाधिपैर् युक्ता सर्वज्ञा सर्वदायिका //
19.65 SK आज्ञावबोधजननी दिव्यरूपप्रकाशिनी अस्याः प्रगोपितं रूपं योगिनीभिर् वरानने //
19.66 SK तेन रूपवतानां तु रूपव्याप्तिर् न सिध्यति देदीप्यन्ती महानन्दा सहस्रादित्यवर्चसा //
19.67 SK स्फुरन्ती मालिका दिव्या आज्ञातः सम्प्रवर्तते सदोदितं सदानन्दं परानन्दप्रदायकम् //
19.68 SK कलातीतं तु कालान्तम् आज्ञारूपोज्ज्वलं परम् अनन्तं सकलं ज्ञानं दिव्याज्ञापरमोज्ज्वलम् //
19.69 SK उत्तरस्य च षट्कस्य रूपेदं परसम्भवम् दक्षिणस्यापि षट्कस्य शक्तियुक्तस्य वर्णितम् //
19.70 SK स्थूलरूपं वरारोहे सर्वत्रैव प्रकाशितम् उत्तरं गोपितं रूपं देवताभिः सुसिद्धिदम् //
19.71 SK कस्मात् सिध्यति शीघ्रेदम् अन्यत्र क्षपणाकुलम् भैरवेण तु रूपेण भैरवत्वं प्रसाधयेत् //
19.72 SK विघ्नजालोज्झितं ह्य् एतत् तेनेदं शीघ्रसिद्धिदम् अत्र रूपसमालब्धः पूर्वोक्तं लभते फलम् //
19.73 SK अकुलक्रममार्गेण आज्ञायोगेन सर्वथा अकुलीनक्रमान्तस्थः कुब्जीशपदम् आश्रितः //
19.74 SK प्राप्यते भैरवानन्दं समस्तानन्दपूर्वकम् तोषितो ऽहं त्वया देवि तेनेदं संस्फुटं मया //
19.75 SK कीर्तितं तव कल्याणि सुगोप्यं रूपसाधनम् सर्वतन्त्रेषु लुप्तेदम् ईषद् योगिमते स्फुटम् //
19.76 SK मौक्तिकावलिसादृश्यं सितरक्तं तु पीतगम् ग्रीवा कुण्डलिनी तस्य वियोगं तु तदा भवेत् //
19.77 SK चञ्चुप्रसारणे वर्षं दुर्भिक्षं चञ्चुसम्पुटे कृष्णवर्णे भवेन् मृत्युः षण्मासात् तु न संशयः //
19.78 SK सर्वम् एव न पश्येत सद्यम् एव विनश्यति भ्रूमध्यगतम् आत्मानं षडङ्गेन महामते //
19.79 SK दृश्यते सूर्यवद् बिम्बं प्रत्यक्षं चाग्रतः स्थितम् ह्रस्वे नीले भयं विन्द्याद् दीर्घे स्थूले ह्य् अरोगता //
19.80 SK धूम्रे उच्चाटनं प्रोक्तं रक्ते रोगं वरानने कृष्णे ब्रह्मविनाशं वा मृत्युर् एवाभिजायते //
19.81 SK समले तु तथा हानिर् नीलमाले तथापदः वायव्यां तु यदा धूम्रां मालां पस्यति योगवित् //
19.82 SK तदा उच्चाटनं देवि नैरृत्यां दंष्ट्रिणो भयम् आग्नेय्यां तु यदा भिन्नां मालां पश्यति योगवित् //
19.83 SK देशभ्रंशो ऽ ग्निदाहश् च राजा चैव विनश्यति मध्ये तस्य यदा छिद्रं पश्यते योगचिन्तकः //
19.84 SK मृत्युस् तस्य वरारोहे दिवसैर् दशभिर् भवेत् ईशाने स्थावरभयं कौबेर्याम् अर्थसिद्धिदम् //
19.85 SK ऐन्द्र्यां वै स्थानलाभं च वारुण्यां सुखम् एधते याम्यायां म्रियते देवि नात्र कार्यविचारणात् //
19.86 SK सम्पूर्णं सुसमं पीतं स्निग्धं रूक्षत्ववर्जितम् सामलं सिद्धिदं प्रोक्तं जीवादित्यं वरानने //
19.87 SK श्रीमत्कुब्जिमते सर्वं संस्फुटं कथितं तव मालिनी व्योमसंस्था च बिन्दुर् व्योमे तथैव च //
19.88 SK कुलाख्यं पुरुषं व्योमे रूपातीतम् अतः शृणु //
19.89 SK ऊचुस् त्व् एवं पुनर् भद्रे रूपातीतस्य निर्णयम् शृणुष्व सर्वभावेन अवज्ञारहिता सती //
19.90 SK अमनस्कं मनोऽतीतं भावाभावविवर्जितम् लयोच्चारविनिर्मुक्तं हेतुतर्कविवर्जितम् //
19.91 SK हेयोपायविनिर्मुक्तं श्रुतिदृष्टान्तवर्जितम् नास्तिक्यभावसम्पन्नं शून्यभूतम् अनामयम् //
19.92 SK प्रमेयावलियोगस्य अतीतं कारणेश्वरम् अतीन्द्रियम् अनाभाषं पराकाशं तु तद् विदुः //
19.93 SK तस्योपायम् इदं सर्वं योगमार्गक्रियाध्वरम् साध्यते येन मार्गेण रूपातीतं तु तच् छृणु //
19.94 SK व्योमं कृत्वा समाकाशे स संस्मृत्य विलापयेत् अस्मिन् तं तु चिदाकाशे बाह्याकाशे स एव हि //
19.95 SK पराकाशे परे स्थाने यानाकाशम् अतोर्ध्वतः रूपातीतं ततश् चोर्ध्वे निःसन्दिग्धं पदं परे //
19.96 SK बहुनोक्तेन किं देवि पूर्वं व्यावर्णितं मय गुरोर् अस्य प्रसादेन लभ्यते परमं पदम् //
19.97 SK पूर्वं व्यावर्णितं तुभ्यम् अदृष्टगुणलक्षणम् एतत् सर्वं समाख्यातं शाम्भवस्य गुणास्पदम् //
19.98 SK निराचारेण मार्गेण शाम्भवं तु समभ्यसेत् किम् अभ्यासः पुनस् तस्य यस्य सर्वं पुरःसरम् //
19.99 SK यस्य सम्भवितं शम्भुम् अनन्तगुणदायकम् योगात्मा वै स सर्वत्र पूज्यते योगिनीकुले //
19.100 SK यदि शम्भुविधेर् भक्तः संसारे विरतात्मनः स साधयति सर्वज्ञो देहेनानेन सर्वगः //
19.101 SK न ध्यानं न जपः पूजा मण्डलादिप्रपूजनम् निराचारविधानेन देहेनानेन भैरवि //
19.102 SK आत्मानं पूजयेन् नित्यं यथालब्धोपजीवकः अग्निवत् सर्ववर्णेषु स शीघ्रं फलभाग् भवेत् //
19.103 SK प्राकृताम् अधमां सिद्धिं मध्यमां चोत्तमां च याम् उत्तमोत्तमतां यान्ति षड्भिर् मासैः क्रमात् क्रमात् //
19.104 SK अधिकारपदस्थेन कर्तव्यं विधिपूर्वकम् गुरुमण्डलकाद्यं च पूर्वाम्नायप्रपूजनम् //
19.105 SK श्रुतं सर्वं च देवेश पदार्थानां च निर्णयम् किम् आम्नायं कथं पूजा एतद् आचक्ष्व भैरव //
19.106 SK देव्युक्तं च वचः श्रुत्वा भैरवो हसिताननः पूजाम्नायम् इदं सर्वं कथ्यमानं न बुध्यसि //
19.107 SK द्वीपाम्नायस् तु प्रथमो देव्याम्नायो द्वितीयकः पीठाम्नायस् तृतीयस् तु सिद्धाम्नायश् चतुर्थकः //
19.108 SK अस्योद्धारणम् एकत्र पूजनं तत् प्रकीर्तिर्तम् गुप्तदेशे सुगन्धाढ्ये विविक्तोपद्रवोज्झिते //
19.109 SK पीठाः पीठाधिपाः सिद्धाः पीठाम्बास् तत्समीपतः पीठमध्यगतां देवीं चतुःसिद्धसमन्विताम् //
19.110 SK मण्डलोत्तरदिग्भागे गुरुपङ्क्तिं प्रपूजयेत् एतद् आम्नायम् आख्यातं किं तु मण्डलकान्वितम् //
19.111 SK तलहस्तप्रमाणेन योन्यग्रे मण्डलादिकम् पूज्यो ऽहं मण्डले तत्र नवात्मानपदाक्षरैः //
19.112 SK आनन्दपदसंयुक्तं शक्तिभैरवपूर्वकम् भैरवेति पदं पश्चाद् वीराधिपतयेति च //
19.113 SK सषोडशपदैर् युक्तः पूजनीयो ऽत्र मण्डले आम्नायमण्डलं ह्य् एतत् समेखलचतुष्कलम् //
19.114 SK सर्वम् एतत् क्रमाम्नायं मण्डलोपरि मण्डलम् पूजितेन भवत्य् आसु तत् सर्वम् उदितं मया //
19.115 SK अलिना पूरितं पात्रं समयालब्धोदकं पृथक् कर्मकाले प्रकर्तव्यं पूजान्ते ऽर्घनिवेदनम् //
19.116 SK चन्दनैर् धूपनैवेद्यैर् दद्याद् आचमनं पृथक् तस्मात् क्रियाकलापेन आराधनविधिं यजेत् //
19.117 SK दीपोत्सवं सनैवेद्यम् अलिपात्रं सफल्गुषम् चक्रपूजाविधिर् ह्य् एवं कुर्याद् आराधने विधौ //
19.118 SK अथवाम्नायम् आधारं दिव्यौघागमपद्धतिम् पूजयेत् सर्वभावेन सर्वाम्नायं स गोपयेत् //
19.119 SK अथाद्यमण्डलं योनेस् तद्वद् अस्य दिने दिने कुर्वन्तस्य परा व्याप्तिः क्रमोघं सम्प्रवर्तते //
19.120 SK ओघाधारम् इदं दिव्यम् आगमं यः पठेद् इदम् पादुकौ पूजयित्वा तु चतुर्दश्याष्टमीषु च //
19.121 SK पुष्पावरणके दिव्ये वस्त्रमाल्योपशोभिते दिव्यगन्धसुगन्धाढ्ये दीपमालोपशोभिते //
19.122 SK सौवर्णरजतादीभिस् ताम्रलोहशिलामृदा भक्त्या-देवं स्वशक्त्या च पिष्टदीपान् घृतान्वितान् //
19.123 SK नैवेद्यफल्गुषालिभ्यां पुष्पधूपैर् अनेकधा एवं कृत्वा ततः पश्चाद् व्याख्याने वाचने ऽपि वा //
19.124 SK गुरुमण्डलकं कुर्यात् त्रिष्कालं पुस्तकाग्रतः अहं वै गुरवस् तस्य यत्रास्ते चागमः स्वयम् //
19.125 SK गुरुवच् च प्रमन्तव्यं विद्याबोधपरं गुरुम् न विना च गुरोर् विद्या न विद्यारहितो गुरुः //
19.126 SK यथा गुरुस् तथा विद्या यथा विद्या तथा गुरुः प्राप्तविद्या गुरोः पार्श्वे विद्याप्राप्ते गुरुत्वता //
19.127 SK एवं चाम्नायिको मार्गः सर्वथा ग्रन्थतो ऽर्थतः वेत्ति सिद्धः स मे तुल्यः सामान्यस् तत्समो न हि //
19.128 SK एष ते कौलिको मार्गः परमार्थोपदेशतः कुलं च कुलविद्यां च कुलमार्गं कुलक्रमम् //
19.129 SK चतुष्कं यो विजानाति स भवेत् कुलनन्दनः चतुष्टयं समाख्यातं पृच्छ-म्-अन्यं यथारुचि //
2152 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते चतुष्कनिर्णयो नाम एकोनविंशतिमः पटलः
20.1 SK पुरा मह्यं त्वया देव द्वीपाम्नायः प्रचोदितः परमार्थोपदेशेन यथा त्व् एवं वद प्रभो //
20.2 SK सत्येदं साधु देवेशि यत् त्वया परिपृच्छितम् द्वीपाम्नायावतारं तु सुगोप्यं प्रकटामि ते //
20.3 SK आद्यकल्पावतारे तु उद्यानार्णवमध्यतः कृष्णरक्तजनाकीर्णं देदीप्यार्चिसमप्रभम् //
20.4 SK ओघसृष्टेस् तु संस्थानं मातङ्गद्वीपम् उत्तमम् द्वितीये ऽत्र परे कल्पे सिन्दूरारुणसप्रभम् //
20.5 SK पीतरक्तजनाकीर्णं ब्रह्मघ्नं द्वीपनायकम् तेजःसृष्टेस् तु संस्थानं करालाग्निसमप्रभम् //
20.6 SK तृतीये द्वापरे कल्पे कुसुम्भोदकसन्निभम् पीतारुणजनाकीर्णं रजसा द्वीपम् उज्ज्वलम् //
20.7 SK क्रीडासृष्टेस् तु संस्थानं चण्डोग्राक्षिसमप्रभम् उद्यानभैरवाम्भोभिः कल्लोलालीसमाकुलम् //
20.8 SK महाकल्पे चतुर्थे तु पद्मरागसमप्रभम् श्वेतरक्तजनाकीर्णं विशुद्धामोघसम्पदम् //
20.9 SK इच्छासृष्टेस् तु संस्थानम् अत्रोद्यानं महावनम् गन्धमाल्यसुपुष्पाढ्यं महोच्छुष्मोपशोभितम् //
20.10 SK पञ्चमे दिव्यकल्पे तु चन्द्रकोटिसमप्रभम् चन्द्रकान्तिमयं दिव्यं विशुद्धोदधिमध्यगम् //
20.11 SK कामानन्दजनाकीर्णं चतुःसृष्टिप्रवर्तकम् अनेकानन्दसम्पन्नं चन्द्रद्वीपगुणावृतम् //
20.12 SK चतुर्वर्णगुणानन्दं चतुर्वर्गफलोदयम् चतुर्मायाजनातीतं चतुर्थान्तमृतात्मकम् //
20.13 SK ज्ञानक्रियाम् अधिष्ठानम् अव्यक्ताव्यक्तरूपिणम् सृष्टिसन्दोहम् आनन्दं चन्द्रद्वीपगुणास्पदम् //
20.14 SK पञ्चद्वीपोपचारो ऽयम् उपद्वीपान्य् अतः शृणु चत्वार्य् एव सबीजानि व्यक्तिं यान्ति कुलाध्वरे //
20.15 SK उपद्वीपारुणं चाद्यं वारुणं तु द्वितीयकम् नरसिंहं तृतीयं तु लोकालोकं चतुर्थकम् //
20.16 SK द्वीपोपद्वीपसम्भूतं सर्वम् एतच् चराचरम् व्यक्ताव्यक्तं तु तं यस्मात् कारणं तं निगद्यते //
20.17 SK परे चत्वारि द्वीपानि चत्वार्य् एवं पराणि च चन्द्रद्वीपं परं तेभ्यो मध्यस्थं व्यक्तिकारणम् //
20.18 SK द्वीपसृष्टिपरानन्दम् उद्यानार्णवमध्यगम् लक्षितव्योपदेशेन शेषान्यद् विस्तृतं पुरा //
20.19 SK द्वीपानन्दं कथं देव कथितं तु मया श्रुतम् तथापि मे मनोग्लानिः कथयस्व यथा स्फुटम् //
20.20 SK व्याप्यव्यापकभावेन यत्स्थाने संस्थितानि तु यस्माद् उत्पत्तिसंस्थानम् एतत् सर्वं वद प्रभो //
20.21 SK साधु साधु महाभागे साधु मालिनि सर्वथा पृच्छितं शृणु कल्याणि निरवद्यं वदामि ते //
20.22 SK आदौ षोडश पीठानि पीठे द्वीपसमुद्भवः तानि द्वादशधा विद्धि एकैकं च पृथक् पृथक् //
20.23 SK कुलचक्रसमायुक्तं त्रिःप्रकारं विलक्षयेत् पीठोपपीठसंयुक्तं क्षेत्रसन्दोहलक्षितम् //
20.24 SK उपक्षेत्रोपसन्दोहे द्वे द्वे पीठसमावृते लक्षितव्यानि यत्नेन उपास्य गुरवं प्रिये //
20.25 SK चतुस्त्रिंशति द्वीपानि द्वीपस्थं त्रिचतुष्टयम् मातराणां वरारोहे एकैकस्मिन् व्यवस्थितम् //
20.26 SK दूरस्थानि पुरस्थानि देहस्थानि विलक्षयेत् तैर् विना साधनं सिद्धिर् यत्नेनापि न जायते //
20.27 SK इतरस्य बहिस्थानि क्षेत्रस्थानि तु साधके देहस्थानि तु तस्यैव किं त्व् एवं हि स मुक्तिभाक् //
20.28 SK कुरुते यत्र संस्थानं क्वचित् साधकपुङ्गवः साधनं मन्त्रयोगस्य लिङ्गसंस्थापनेऽपि वा //
20.29 SK प्रतिमा चाधिकारार्थं ज्ञात्वा स्थानं समाश्रयेत् अन्यथा नैव भुक्तिस् तु द्वन्द्वद्वेषो रुजान्वितः //
20.30 SK द्वीपं द्वीपाधिपं देव्या द्वीपनाथसमन्वितम् पीठभिन्नक्रमं ज्ञात्वा सिध्यते ह्य् अविचारतः //
20.31 SK क्षेत्रग्रामपुरस्यैव पीठस्य नगरस्य वा ज्ञात्वा पञ्चसु संस्थानं संस्थानं कारयेत् तदा //
20.32 SK पञ्च पञ्च तथा पञ्च पञ्चमान्तं कुलान्तिकम् चलसौम्ये चतुष्कं तु ईश्वरैकं दिशादितः //
20.33 SK पीठव्यूहवरं मध्ये द्वीपव्यूहं बहिस्थितम् पुरं नाम भवेद् यत्र तां दिशं तु समाश्रयेत् //
20.34 SK अस्थिगूथावृतं चापि दोषैर् द्विष्टं यथा भवेत् तथापि भोगम् आप्नोति तत्स्थानन्यासयोगतः //
20.35 SK नाक्षरेण भवेन् मन्त्रं योगश् चैव गुणान्वितः अक्षरेणापि मन्त्रस्य किं तु तत्स्थानयोगतः //
20.36 SK मन्त्रस्थापितलिङ्गानि निस्फुराणि यशस्विनि दृश्यन्ते स्थानहीनानि सिद्धैः संस्थापितानि तु //
20.37 SK स्थानवैकल्यभावेन यस्याश्चर्यं कुलेश्वरि स्वतेजोदीपितं शम्भुं क्वचिद् दृश्यति निस्फुरम् //
20.38 SK सर्वज्ञं सर्वदं मन्त्रम् अजस्रं भावपूर्वकम् सर्वदं सर्वकालस्थं कालरूपामृतात्मकम् //
20.39 SK गोपितं सर्वतन्त्रेषु द्वीपाम्नायेन गोपितम् द्वीपाक्षरं तथा वारं तिथिनक्षत्रसंयुतम् //
20.40 SK साधकाक्षरसंयुक्तं मन्त्रम् एतत् सुरार्चितम् पीठयुक्तं प्रमेयेन भिद्य पीठेन चेतरम् //
20.41 SK दश-म्-एकादशेनैव कूटस्थं वा समेकतः पुरस्याद्यक्षरं वापि स्वस्थाने क्षोभकृद् भवेत् //
20.42 SK सर्वस्यापि हि क्षेत्रस्य प्रवेशे जपम् आरभेत् स्वस्थानात्मकमन्त्रेण स्वस्थानेन पुरं विशेत् //
20.43 SK दिशाम् आलोक्य जप्तव्यं सप्तवारावधि प्रिये तावत् क्षुभ्यति तत् क्षेत्रं बालवृद्धयुवान् अपि //
20.44 SK स्थितिर् वै यत्र मन्तव्या तत्रैव विधिम् आचरेत् सकृद् अन्यत्र चोच्चारं जपमानं पुरं विशेत् //
20.45 SK तत्रान्नपानशयनं किञ्चिद् दुःखं न जायते यः पुनः सर्वभावेन भक्तियुक्तः समभ्यसेत् //
20.46 SK द्वीपस्थानं समास्थाय स्वेष्टमन्त्रस्य साधयेत् तत्रापि तस्य सिद्धीनि भवन्त्य् अष्टविधा प्रिये //
20.47 SK द्वीपाधिपम् अजानन्तो वर्षपूर्णशतेन वा तथापि न हि सिध्यन्ति योगाद् ध्यानाच् च मन्त्रिणः //
20.48 SK पीठाधिपतयः प्रोक्ताः षोडशैव वरानने तैस् तु व्याप्तम् इदं सर्वं चतुस्त्रिंशान्तगोचरम् //
20.49 SK द्वीपाधिपतयः प्रोक्ताश् चतुस्त्रिंशति केवलाः पीठाधिपतिभिर् युक्ताः पञ्चाश पतयस् तु ते //
20.50 SK आद्यन्तसंस्थितं भद्रे मध्ये लिङ्गस्य लक्षयेत् पीठग्रामपुरस्यापि लक्षयित्वा निराकुलम् //
20.51 SK पालकस्याक्षरं यत्र यद् इदं न तद् आदिमम् कस्मात् पीठेषु अधिपाः पीठभिन्नं न पूजयेत् //
20.52 SK न गुरुं नादिमं चान्तं न मध्यं पीठसंयुतम् केवलं यदि लभ्येत तदाद्यं तु सुरार्चिते //
20.53 SK लिङ्गसंज्ञा तु नामस्य सर्वतो अधिपावृतम् तस्माद् एकतमं गृह्य लिङ्गमूलं यद् अक्षरम् //
20.54 SK तं तु गृह्य विकल्पेन मध्यान्तं वर्जयेत् प्रिये एवं ज्ञात्वा ततः सिद्धिर् जायते निर्विकल्पतः //
20.55 SK अविज्ञाय न पूज्येतां यस् तु कुर्वीत साधनम् मम तुल्यास् तु कुर्वन्ति विघ्नं वै पालकाः प्रिये //
20.56 SK अत्र सारतरं प्रोक्तं निश्चयम् अधिपान् प्रति श्रुतं देवि त्वया सर्वं नाम पञ्चाशकेष्व् अपि //
20.57 SK अघोर्याडामरे तन्त्रे सूचितो ऽप्य् अस्य निर्णयः संस्फुटं सर्वभावेन निर्णीतं कुब्जिनीमते //
20.58 SK कथं देव स्थिता देहे पीठद्वीपाधिपाश्रयम् क्व स्थाने संस्थिता देव एतद् आचक्ष्व निश्चयम् //
20.59 SK शृणु देवि यथा देहे पीठैः षोडशभिः शिरः आवृतं वंशगुह्यान्तं द्वीपैः कोदण्डकावधिम् //
20.60 SK ग्रीवाधो वांशमार्गेण कन्दोर्ध्वं याव संस्थितम् पञ्च द्वीपानि देवेशि ब्रह्मण्याधिष्ठितानि तु //
20.61 SK पञ्च नाभिगता भद्रे माहेश्यालङ्कृतास् तु ते जठरे पञ्च वैष्णव्या कौमार्य् एव हृदि स्थिता //
20.62 SK पञ्चद्वीपान्विता काली कण्ठान्ते संव्यवस्थिता ऐन्द्र्य् आकाशपदस्था तु चतुष्कपरिवारिता //
20.63 SK चतुर्द्वीपसमायुक्ता चामुण्डा तु भ्रुवोत्तरे महाकाली तु कोपस्था संहारपथवर्तिणी //
20.64 SK देव्याधिष्ठानद्वीपेषु यो यत्रान्तव्यवस्थितः दण्डधारी प्रचण्डश् च दंष्ट्राली वज्रतुण्डकः //
20.65 SK त्रिजटी शङ्खतुण्डश् च कपाली त्रिशिरस् तथा एते वर्गाधिपाः प्रोक्ता अष्टौ वसुमहाबलाः //
20.66 SK यां दिशं संस्थितास् ते वै तन्मुखस् तु प्रपूजयेत् सबाह्याभ्यन्तरं मत्वा ततो ऽसौ सिद्धिभाजनः //
20.67 SK एष देवि समासेन द्वीपाम्नायः प्रकाशितः शेषो ऽन्यो विस्तरो ऽप्य् अस्य कुलसारे वदाम्य् अहम् //
20.68 SK विज्ञान ऋद्धिसम्पन्नं ज्ञानमण्डलपूरितम् तेनेदं श्रीमतं प्रोक्तं भुक्तिमुक्तिप्रदायकम् //
20.69 SK ज्ञातेन तन्त्रसारेण अनुष्ठानं विना प्रिये भाजनो भुक्तिमुक्तीनां यद्य् एवं गोपयेत् सुधीः //
20.70 SK श्रीमतेन विना युक्ताः खण्डज्ञानविमोहिताः हस्त्यन्धवद् विभज्यन्ते दृष्तिहीना यतस् तु ते //
20.71 SK आगतं तु गजं श्रुत्वा अन्धवृन्देन सौ वृतः पुच्छकर्णाङ्घ्रिहस्ताभ्यां Pऋष्ठकुक्षोदरेषु च //
20.72 SK येन यत्र गजः स्पृष्टस् तद्भावस् तेन मन्त्रितः पुच्छहस्ता वदन्त्य् एवं गजो ऽयं चामराकृतिः //
20.73 SK कर्णलग्नास् तु सूर्पेव पादलग्नोखलं यथा भित्तिरूपं तु कुक्षिस्था पृष्ठस्था गृहरूपिणः //
20.74 SK स्तम्भोभौ हस्तलग्नौ तु मुषलौ दन्तिदन्तगौ एवम् अन्धगना मूढा अन्योन्यं स्पर्धयन्ति ते //
20.75 SK अन्यैश् चक्षुर्युतैस् त्व् एवं युध्यमानाः परस्परम् तान् दृष्ट्वा हास्यम् आरब्धं तं श्रुत्वा विस्मितास् तु ते //
20.76 SK अथ श्रुत्वा महाहास्यं किमर्थं हसिता वयम् ऊचुस् त्व् एवाक्षियुक्तेन मा युध्यैवं विमोहिताः //
20.77 SK दृष्टिहीनास् त्व् अहो तुभ्यं हस्तिरूपो ऽन्यथा स्थितः हस्तिनो ऽङ्गानि सर्वाणि यानि स्पृष्टानि तत्परैः //
20.78 SK पटलान्तरिता दृष्टिर् गत्वा वैद्यम् उपाश्रयेत् येन पश्यसि सर्वाङ्गं श्रीकुब्जौघमहागजम् //
20.79 SK गजो यथान्धवृन्दस्य तथा ज्ञानं प्रवर्तते आज्ञाक्रमं विना लोकस् तत्क्रमं कुब्जिनीमते //
20.80 SK कथितं निरवद्यं ते गजस्यावयवो यथा गजाङ्गन्यायतो यत्र दक्षवामोर्ध्वकौलिके //
20.81 SK सर्वं सम्पादितं तुभ्यम् आज्ञानन्दकुलार्णवम् इदानीं शृणु कल्याणि कालचक्रं यथास्थितम् //
2234 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते चन्द्रद्वीपावतारो नाम विंशतिमः पटलः
21.1 SK लक्षाचारमनोरूपाः शक्तयो वीर्यसंस्थिताः रुद्रशक्तिसमावेशास् ताभिर् आत्मनिबृंहणम् //
21.2 SK शिवचैतन्ययोगेन शक्तिचैतन्यबृंहणम् शक्तिचैतन्ययोगेन जीवचैतन्यबृंहणम् //
21.3 SK जीवचैतन्ययोगेन मन्त्रचैतन्यबृंहणम् मन्त्रचैतन्ययोगेन पिण्डचैतन्यबृंहणम् //
21.4 SK पिण्डचैतन्ययोगेन बाह्याचारस्य बृंहणम् चैतन्येन विना सर्वम् अस्वतन्त्रं शिलादिवत् //
21.5 SK निष्क्रियं चेतनाहीनं मृतदेहोपमं प्रिये अग्निचैतन्ययोगेन जलम् अप्य् अत्र दाहकम् //
21.6 SK तस्मात् सर्वप्रयत्नेन विद्यावीर्यचिदात्मकम् धरामण्डलगर्भे तु द्वीपदेशान्तरं यजेत् //
21.7 SK द्वादशैवात्र योगिन्यो द्वादशारे प्रपूजयेत् कर्णिकायां यजेद् देवं शब्दराशिं सलक्षणम् //
21.8 SK कुमारी सिंहलद्वीपं सुवर्णं च तृतीयकम् कर्णप्रावरणं चान्यं स्वामुखं देशम् उत्तमम् //
21.9 SK कुलूतम् ओड्डियानं च एभिर् देशैर् यजेत् सुधीः जालन्धरं च विख्यातम् एकपादं तथापरम् //
21.10 SK पारसौकुलविख्यातं कुशद्वीपं च शाल्मली पर्णद्वीपं कुमाराख्यं यवद्वीपं तथापरम् //
21.11 SK देशं तु कामरूपाख्यं पुष्करद्वीपम् एव च अपरं कटाहद्वीपं चीनदेशम् अतः परम् //
21.12 SK चन्द्रद्वीपं जनद्वीपं रत्नद्वीपं सुशोभनम् रसद्वीपं च गोमेदं गर्भोदं सूर्यद्वीपकम् //
21.13 SK आसवद्वीपं विख्यातं मरुदेशसमन्वितम् वसन्तं महासरद्वीपम् अमृतद्वीपम् एव च //
21.14 SK द्वीपम् आनन्दगन्धर्वौ अग्निद्वीपं महावनम् अङ्गारद्वीपपर्यन्तं नग्नद्वीपावसानगम् //
21.15 SK एषां द्वीपाधिपानां च नामं वक्ष्यामि तच् छृणु क्षेत्रपाला महारौद्रा रक्षां कुर्वन्ति साधके //
21.16 SK विद्रुमो गस्तिनश् चण्डस् तथा यक्षो गणाधिपः महाभृगुर् जयो नाम महाजिह्वस् तु विक्रमः //
21.17 SK ध्वाङ्क्षश् च जयभद्रश् च पीठे पीठे समासते महादिव्यो दधीचिश् च कुमारीशस् तथापरः //
21.18 SK महाधंष्ट्रः करालीशः श्रुतीधरो निगद्यते महाध्वाङ्क्षो महानन्दी सुगन्धी च गोपालकः //
21.19 SK पुष्पदन्तो धनाढ्यश् च विपुलो नन्दकारकः शुक्रो विडालो द्वाव् एतौ शुकारुणशुभाननौ //
21.20 SK रतिप्रियसुरप्रियौ द्वौ चित्राङ्गसुदुर्जयौ रसनो विडालः प्रद्युम्नः क्षेत्रपालाः कुलक्रमे //
21.21 SK मनोहरा रूपिणी देवी चित्रा चित्ररथा तथा चित्राङ्गी चित्ररेखा च विचित्रा चित्रना शुभा //
21.22 SK चित्राक्षी चित्ररूपा च सुभद्रा कामदा शुभा ककारस्य इमा देव्यः कन्यद्वीपाधिकरिणी[ः] //
21.23 SK क्षेत्रपालो महाविष्णुश् चक्रहस्तो महाबलः क्रूरा च पिङ्गला चैव खड्गिका लम्पटा सती //
21.24 SK दंष्ट्राली राक्षसी ध्वाङ्क्षी लोलुपा लोहितामुखी बह्वाशी च विरूपा च लम्पटा आमिषप्रिया //
21.25 SK खकारस्य इमा देव्यः सिंहलद्वीपम् आश्रिताः क्षेत्रपालो महायोगी अगस्तिश् च महा-ऋषिः //
21.26 SK सुप्रकीर्णा प्रकीर्णा च लम्बा लम्बमुखी तथा लम्बोष्ठी दीर्घदंष्ट्रा च लम्बजा प्राणहामुखी //
21.27 SK गजकर्णा सुकर्णा च महाकाली सुभीषणा वातवेगा रवा घोरा गकारे देवताः स्थिताः //
21.28 SK स्वर्णद्वीपाधिकारिण्यश् चण्डनाथो महाबलः घनरवा घोरघोषा महाघोषातिघोषिका //
21.29 SK घण्टा घण्टेश्वरी घोरा महाघण्टा सुघण्टिका अतिघण्टातिघोरा च कलकलारवेति च //
21.30 SK घकारे देवता ह्य् एताः कर्णाप्रावृतमण्डले यक्षराजा महादेवः क्षेत्रपालो महाबलः //
21.31 SK विभूतिर् भोगदा कान्तिः खड्गिनी पद्मिनी तथा गान्धारि योगमाता च सुधारा परमोज्ज्वला //
21.32 SK सेहारी मांसहारी च प्राणहारी बलापहा ऋच्छिका गृध्रतुण्डी च रेवती रङ्गिसंज्ञिका //
21.33 SK ङकारे देवता ह्य् एताः स्वामुखे मण्डले स्थिताः राज्यं पालयते देशे कवर्गे उत्तरापथे //
21.34 SK क्षेत्रपालो गणपति रक्षां कुर्वन्ति साधके चण्डा चण्डमुखी चण्डा चण्डवेगा महारवा //
21.35 SK भृकुटी चण्डवीर्या च चण्डभ्रू चण्डनायिका चञ्चला चलवेगा च चलजिह्वा चलेश्वरी //
21.36 SK चकारे देवता ह्य् एताः क्षेत्रपालो महाजयः कुलूतदेशवासिन्यो रक्षां कुर्वन्ति साधके //
21.37 SK कालरात्री च वेताली कङ्काली च करङ्किणी किङ्किणी चण्डघोषा च अट्टहासा महारवा //
21.38 SK चण्डमातङ्गी चण्डाली सूकरी कुक्कुटी तथा गन्धारी डोम्बी चम्पाक्षी छकारे देवताः स्मृताः //
21.39 SK नायिका ओड्डियाने तु क्षेत्रपालो महाभृगुः ज्वलिनी ज्वालिनी चैव महाज्वालावती प्रभा //
21.40 SK तेजा तेजवती वह्निः सुतेजा निर्मलोज्ज्वला ज्वालावती कराली च विस्फुलिङ्गा शिखाशिखी //
21.41 SK जकारे देवता राज्ञः सर्वसत्त्ववशङ्करी[ः] जालन्धरे च देवेशे क्षेत्रपालो महाजिह्वः //
21.42 SK सुभद्रा भीमभद्रा च भद्रा चैव शुभानना भीमा भीमवती कान्ती कङ्काली च करालिनी //
21.43 SK भद्रकाली सुकाली च विकटा कङ्कटेति च चार्वाकी लम्पटी चैव झकारे देवताः स्मृताः //
21.44 SK मण्डले एकपादे तु महामाया बलोत्कटाः चित्रसेनो महावीरः क्षेत्रपालो महाभयः //
21.45 SK सुभटोद्भटा विकटा कुटिला चैव कङ्कटा वीरमाता सुवीरा च खड्गिनी शूलिनी खरा //
21.46 SK छुच्छुन्दरी विडाली च ञकारे देवतागणाः पारसे तु महादेव्यो अधिकारं प्रकुर्वते //
21.47 SK ध्वाङ्क्षो नामेति विख्यातः क्षेत्रपालो भयानकः राजा दक्षिणदेशे तु चवर्गे च क्रमीश्वरी //
21.48 SK मृगा च शशिरेखा च हरिणी रोहिणी तथा अमृतोद्भवा पर्णजीवी जीवरक्षा सुजीविका //
21.49 SK हरिणाक्षी सुजीवा च चन्द्रोदयामृतोद्भवा टकारे देवता ह्य् एताः कुशद्वीपे व्यवस्थिताः //
21.50 SK क्षेत्रपालो जयभद्रः कुशद्वीपप्रपालकः व्योमनी व्योमरूपा च व्योमव्यापी शुभोदया //
21.51 SK ग्रहचारी सुचारी च विषहारी विषान्तिका जृम्भोद्याना च फेत्कारी देवकी दुर्जया महा //
21.52 SK ठकारे देवताः पूज्याः शाल्मलीद्वीपम् आश्रिताः क्षेत्रपालो महादिव्यः कपालहस्तो महाबलः //
21.53 SK चञ्चला चपला चण्डा डमरी डामरी शुभा डिण्डिनी मुण्डिनी मुण्डा शाकिनी डाकिनीति च //
21.54 SK कर्तनी काकिनी देवी हट्टकी डाकिनी महा डकारे देवता ह्य् एताश् चीनद्वीपे व्यवस्थिताः //
21.55 SK दधीचिः क्षेत्रपालस् तु तत्र देशे प्रपूजयेत् यमदंष्ट्रा महादंष्ट्रा अन्त्रमाला करालिका //
21.56 SK विकराला करालिन्या तालजङ्घा सुजङ्घिका लोहजङ्घातिजङ्घा च महावेगातिवेगगा //
21.57 SK वज्रशङ्खी नटी चैव बला चैव तथापरा ढकारे देवता नाम कुमारीद्वीपम् आश्रिताः //
21.58 SK क्षेत्रपालः कुमारीशो रक्षपालस् तथैव च बला चातिबला चैव अजिता चापराजिता //
21.59 SK जया च विजया देवी जृम्भनी स्तम्भनी तथा अन्धनी मोहनी माया निगडा कीलनी तथा //
21.60 SK यवद्वीपे स्थिता देव्य अधिकारं प्रकुर्वते महादंष्ट्रस् तु विख्यातः क्षेत्रपालो महाबलः //
21.61 SK णकारे देवता ह्य् एताः कामरूपनिवासिताः दन्तुरा रौद्रभाषा च अभ्रमाल कुलासुभा //
21.62 SK चलजिह्वाग्रणेत्रा च रुरु[र्] हूंकारिका तथा खादका रूपनाम च संहारी च क्षयान्तिका //
21.63 SK कण्डनी पेषणी चैव महाग्रासी कृतान्तिका तकारे देवताः ख्याताः पुष्करद्वीपम् आश्रिताः //
21.64 SK नायका देवता नाम क्षेत्रपालः श्रुतीधरः डम्भकी डिम्भिडिम्भा च कैवर्तरजलेहिका //
21.65 SK द्रवणी द्रावणी क्षोभा प्लवनी प्लावनीति च मदोत्कटा मदक्षोभा मदवाहा महाबला //
21.66 SK कामसन्दीपनी देवी अतिरूपा मनोहरा थकारे देवता नाम संस्थिता[ः ] परतीरके //
21.67 SK क्षेत्रपालो महाध्वाङ्क्षः खड्गहस्तो महाबलः अरुणा घोषदेवी च रेवती घोरदायिका //
21.68 SK स्तम्भनी घोररक्षा च घोररूपा च घोरिणी घोरघोरतराघोरा घोरा विकटनायिका //
21.69 SK वानरी क्रोष्टकी चैव सुरासवमधुप्रिया दकारे देवता राजाश् चीनदेशे सुवासिताः //
21.70 SK क्षेत्रपालो महानन्दी शूलहस्तो महाबलः भीमरावा सुरावा च संस्तारी सवराक्षिका //
21.71 SK स्तम्भनी रोषणी रौद्रा रुद्रवत्या छलापहा महाशक्तिः क्षान्तिशीला वज्रतुण्डी वृकोदरी //
21.72 SK धकारे देवता ह्य् एताः पूजनीयाः सदा बुधैः क्षेत्रपालः सुगन्धी च गन्धर्वो वीणहस्तकः //
21.73 SK चन्द्रद्वीपे सुवासिन्यो आर्तानाम् आर्तिनाशनी[ः] कलनी कृन्तनी काली कालसंवर्तनी कला //
21.74 SK अन्तेष्ठी च प्रतिष्ठा च शान्तिपुष्टिकरी तथा जया धृतिकरी सौम्या कामदा शुभदानना //
21.75 SK सुतेजा काममतिका नकारे देवताः शुभाः जनद्वीपरता नित्यं साधकानां तु वत्सलाः //
21.76 SK क्षेत्रपालस् तु गोपालो धर्मज्ञः सत्यवादिनः धर्मा धर्मवती शीला पापहा धर्मवर्धनी //
21.77 SK धर्मरक्षितवार्ता च धर्माधर्मवतीति च धर्मकर्ता धर्मप्रिया धर्मसन्दीपनीति च //
21.78 SK पकारे देवता राजा रत्नद्वीपार्णवे स्थिताः क्षेत्रपालो महाकायस् तस्मिन् देशे ऽ धिपो महान् //
21.79 SK सुमतिर् दुर्मतिर् मेधा विमला मनविकाशिनी शुद्धिर् बुद्धिर् मतिः कान्तिर् बलोत्साहनवर्धनी //
21.80 SK बला चातिबला चैव प्राणवृद्धिकरी परा निर्लेपा निर्घृणा माया सर्वपापक्षयङ्करी //
21.81 SK फकारे देवता राजा सरद्वीपे सुवासिनः पुष्पदन्तस् तु विख्यातः क्षेत्रपालो महाबलः //
21.82 SK रक्ता चैव विरक्ता च उद्वेगा शोकवर्धनी कामतृष्णा क्षुधा मोहा निद्रालसभया जरा //
21.83 SK सुकृष्णा रोदनी कुष्मा मलाङ्गी शिशुनाशनी बकारे देवता राजा ह्य् एता गोमेदमण्डले //
21.84 SK धनदो नाम विख्यातः क्षेत्रपालो महायशः तृष्णा च कामदा भोगा निर्दुःखा सुखदा तथा //
21.85 SK आनन्दा च सुनन्दा च महानन्दा शुभङ्करी वीतरागा महोत्साहा जितरागा मनोरमा //
21.86 SK भकारे देवता ह्य् एता मध्ये गर्भोदमण्डले विपुलो नाम विख्यातः क्षेत्रपालो महाबलः //
21.87 SK मनोन्मनी मनःक्षोभा मदोन्मत्ता मदाकुला मदा गजमदा नाम कामानन्दसुविह्वला //
21.88 SK महावेगा सुवेगा च महावेगा क्षणापहा क्रमणी चैव नामा च क्रामणी च तथापरा //
21.89 SK सूर्यद्वीपे महायोगी[ः] सर्वाः कनकपिङ्गलाः मकारस्य इमा देव्यो राजा अधिपतिर् महान् //
21.90 SK आनन्दो नाम विख्यातः क्षेत्रपालः सदा स्थितः हयवेगा सुवेगा च अतिवेगवती महा //
21.91 SK चक्रवेगा विरुद्धा च चलचित्तवती मती रोदनी क्षोदनी बाला ऽतिरोषा कलहप्रिया //
21.92 SK विद्रुता त्रासनी देवी मनोवेगा च चञ्चला यकारे देवता राजा आसवद्वीपसंस्थिताः //
21.93 SK शुक्रो नामेति विख्यातः क्षेत्रपालो महाबलः विद्युज्जिह्वा महाजिह्वा शृङ्गाटा कुटिला स्फुटा //
21.94 SK ज्वाला चैव सुज्वाला च महाज्वाला तथैव च ज्वालावती विस्फुलिङ्गा ज्वालाभस्मक्षयान्तका //
21.95 SK रकारमध्यगा देव्यो मरुदेशाधिपो महान् विडालः क्षेत्रपालश् च महाबलपराक्रमः //
21.96 SK उल्लेखा च पताका च भोगा भोगवती महा महाभोगातिभोगा च भोगाढ्या भोगपारगा //
21.97 SK ऋद्धिर् वृद्धिर् धृतिः कान्तिर् लकारे देवताः शुभाः वसन्तद्वीपवासिन्यः क्षेत्रपालश् च कारुणी //
21.98 SK वरिष्ठा च परा दिव्या अमृता तु फलाशिनी हरिणाक्षी सुवर्णा च कनकरेणुपिञ्जरा //
21.99 SK रत्ना च रत्नद्वीपा च सुद्वीपा रत्नमालिनी रत्नशोभा महाशोभा रोमशोभा पराद्युतिः //
21.100 SK वकारे देवता ह्य् एताः सरद्वीपाधिवासिता[ः] क्षेत्रपालस् तु विख्यातः शुभाननो बलोत्कटः //
21.101 SK सवरी बर्बरी गृध्री घण्टकर्णा खरानना हयग्रीवा च जङ्घा च सर्वग्रासा कृतान्तका //
21.102 SK सर्वाशी च महाभक्षा महादंष्ट्रातिरौरवा शकारे देवता नाम कथिताश् च महायशाः //
21.103 SK अमृतासवद्वीपे च क्षेत्रपालो रतिप्रियः रागा रागवती क्रोधा महाभोगा च रौरवा //
21.104 SK क्रुद्धनी रोषणी कलहा कलकाली कलान्तिका दुर्भेद्या दुर्भटा चैव दुमिरीक्षा सुभीषणा //
21.105 SK यमान्तका कली नाम षकारे देवताः शुभाः आनन्दद्वीपवासिन्यो देव्यो अक्षययौवनाः //
21.106 SK देवश् च क्षेत्रपालो ऽत्र सुरासववरप्रियः नटी नाटी कुनाटी च वाटकी हाटकी विटी //
21.107 SK कङ्कटा विकटा चैव सुभटा च भटोद्भवा सकारे देवता नाम गान्धर्वद्वीपवासिनः //
21.108 SK वीणावंशरता देवी नोदं गन्धर्वकिन्नरैः चित्राङ्गः क्षेत्रपालश् च मेरूर्ध्ववलये स्थितः //
21.109 SK नादाक्षी नादरूपा च सर्वाकारी गमागमा अन्तचारी सुचारी च ऊर्ध्वनादी सुवाहिनी //
21.110 SK संयोगा च वियोगा च हंसाख्या च विसालिनी अङ्गारद्वीपवासिन्यो हकाराक्षरसम्भवाः //
21.111 SK विडालो नाम विख्यातः क्षेत्रपालो महाबलः सर्वग्रासी कृतान्ती च पवनी पावनी तथा //
21.112 SK भेदनी छेदनी चैव सर्वकारी क्षुधाशनी उच्छुष्मा देवगान्धारी भस्मान्ता वडवानला //
21.113 SK बह्वाशी अग्निद्वीपा च क्षमा क्षेमकरी परा क्षकारे देवता ह्य् एता नग्नद्वीपरताः प्रिये //
21.114 SK प्रद्युम्नः क्षेत्रपालश् च महाबलपराक्रमः //
2349 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते द्वीपाम्नायो नाम एकविंशतिमः पटलः
22.1 SK श्रुता देव महाव्याप्तिः समस्तव्यस्तविस्तरात् इदानीं श्रोतुम् इच्छामि त्वत्सकाशान् मनोद्भवाम् //
22.2 SK अपरां देहजैर् भिन्नां शब्दराशिं सभैरवम् //
22.3 SK साधु भद्रे पुनः साधु महावस्तुप्रबोधके तद् अहं सम्प्रवक्ष्यामि सिद्धकौलं महातपे //
2353 SK महाकल्पान्तसंहारे महाप्रलयम् अद्भुतम्
22.4 SK सूर्यकोटिकराभासं विद्युच्छटलताकुलम् कालाग्निशिखराटोपं शूलज्वालोर्मिसङ्कुलम् //
22.5 SK विस्फुलिङ्गज्वलन्तौघैर् महाज्वालार्चिवर्तुलम् ज्वालामालाकुलोज्ज्वालैः करालैर् भीमभीषणैः //
22.6 SK स्वर्गपातालभूर्लोकैर् अन्तरीक्षैर् दिशो दश मच्छरीरे समुत्पन्ना महाक्रोधसमुद्भवा //
22.7 SK अकारादिक्षकारान्ता एकैकाक्षरभेदिता भैरवावलिनी देवी विलोमेन समुद्धरेत् //
22.8 SK तद् अहं सम्प्रवक्ष्यामि शृणु कुब्जि महाधिपे क्ष ह स आदितः कृत्वा अकारान्तेन सम्पुटम् //
22.8 SK क्ष क्रोधावलि अ अनन्त अजर भैरव ह हंसावलि आ महानन्द आपकुम्भ भैरव स आनन्दावलि इ प्रचण्ड इडाचार भैरव ष गर्भावलि ई डामर इन्द्रमूर्ति भैरव श संहारावलि उ उद्यान उल्कास्य भैरव व अमृतावलि ऊ वसन्त ऊष्माद भैरव ल विपुलावलि ऋ ऋपुदर्प ऋपुसूदन भैरव र कालान्तकावलि ॠ कृतान्त ॠमुक्त भैरव य प्रचण्डावलि ऌ प्रसन्न ऌप्तकाय भैरव म महामोहावलि ॡ महामाया ॡपाद भैरव भ भूतभयावलि ए रौद्र एकदंष्ट्र भैरव ब वडवामुखावलि ऐ महादंष्ट्र ऐरावत भैरव फ लम्पटावलि ओ कङ्काल ओघाम्बु भैरव प पवनावलि औ अनङ्ग औषधीघ्न भैरव न कुसुमावलि अं स्वच्छन्द अंजन भैरव ध विपुलावलि अः मन्मथ अःह्वकायभैरव द सुरतावलि क उन्मत्त कम्बल भैरव थ कूर्मावलि ख मेघनाद खरुषानन भैरव त त्वरितावलि ग कराल गोमुख भैरव ण मन्दरावलि घ विकराल घण्टाल भैरव ढ खट्वाङ्गावलि ङ महाबल ङणनान्तभैरव ड चन्द्रावलि च असिताङ्ग चण्डधार भैरव ठ वज्रावलि छ उल्क छटाटोप भैरव ट मन्थावलि ज एकपाद जटालाक्ष भैरव ञ कान्तावलि झ कपाल झङ्कीश भैरव झ अम्बिकावलि ञ व्योम ञभटेश्वर भैरव ज भेदकावलि ट वेताल टङ्कपाणि भैरव छ कृतान्तावलि ठ आमर्दक ठानुबन्ध भैरव च चतुर्भुजावलि ड महासाह डामर भैरव ङ योगावलि ढ रुरु ढढृकर्ण भैरव घ भूतावलि ण भुवन णतीकान्त भैरव ग अभयावलि त विभूति तडिद्भास्वर भैरव ख चर्चकावलि थ ऊर्ध्वसेफ थविर भैरव क भस्मान्तकावलि द क्रूर दन्तुर भैरव अः सृष्टिकावलि ध लोहित धनद भैरव अं विजयावलि न लम्पट नागकर्ण भैरव औ ब्रह्मावलि प चर्चक प्रचण्ड भैरव ओ सद्योजातावलि फ ....... फेत्कार भैरव ऐ फेत्कारावलि ब अचिन्त्य वीरसिंह भैरव ए कर्णमोटावलि भ महादेवाङ्ग भृकुटि भैरव ॡ महामोहावलि म महाकालाग्नि मेघभासुर भैरव ऌ महामायावलि य मार्तण्ड युगान्त भैरव ॠ गान्धारावलि र प्राण रौरव भैरव ऋ पुष्पावलि ल अनन्त लम्बोष्ठ भैरव ऊ शब्दावलि व उच्छुष्म वसल भैरव उ महाघोषावलि श महायश शुकतुण्ड भैरव ई सूक्ष्मावलि ष महोद्यान षटालाक्ष भैरव विद्यावलि स अमृत सुनास भैरव आ व्यापकावलि ह शुभङ्कर हूहूक भैरव अ महामायावलि क्ष प्रलयान्तक क्षयान्त भैरव ||
22.9 SK एष क्रोधो महादेवि मम हृदयनिःसृतः पञ्चाशभैरवोपेता मालिन्या सह संयुता //
22.10 SK अनेन न्यासमात्रेण सकलीकृतविग्रहः चिन्तयेद् देहम् आत्मानम् उक्तलक्षणसंयुतम् //
22.11 SK संहरन्तं जगत् सर्वम् छिन्दन्तं पाशपञ्जरम् निर्दहन्तं जगत् सर्वम् भस्मकूटं विचिन्तयेत् //
22.12 SK अकारादिक्षकारान्तं पशुदेहे विचिन्तयेत् अधोमुखोर्ध्वपादान्तं संहारानलमध्यगम् //
22.13 SK संवर्तानलदह्यन्तं चतुर्दशवियोजितम् तद्बीजं सम्प्रवक्ष्यामि महाक्रोधस्य भैरवि //
22.14ab SK मन्त्रसारं वरारोहे शृणु त्वं भावितात्मना //
22.14 SK ॐ हूं क्षः हूं फट् ह्रीं छ्रीं क्षः श्लीं फ्रें ह्रूं हूं हूं फट् ||
22.14cd SK क्रोधहृदयानुजा देवी महाभैरवम् अब्रवीत् //
22.15 SK कुजाख्यमन्त्रम् उच्चार्य त्रैलोक्यम् अपि संहरेत् कैलासम् अपि पातयेद् वाचासिद्धिः प्रवर्तते //
22.16 SK एकैकाक्षरसम्भिन्नाम् उद्धरामि परापराम् अकारादिक्षकारान्तं नामं वक्ष्यामि पार्वति //
2370 SK %%२२.१६A अ अनन्तावलि क्ष गगनवीर आ प्रलयान्तकावलि ह भुवनवीर अनन्तशक्त्यावलि स विजयवीर ई हंसावलि ष अजयवीर उ मोहावलि श महा-अजयवीर ऊ क्रियाशक्त्यावलि व अङ्कुरवीर ऋ बृहोदरावलि ल संहारवीर ॠ रिपुमर्दकावलि र कुमारवीर ऌ विद्याशक्त्यावलि य महायशवीर ॡ इच्छावलि म महासाहसवीर ए रत्नावलि भ प्रचण्डवीर ऐ विज्ञानशक्त्यावलि ब महार्णववीर ओ लोहितावलि फ महामरवीर औ उल्कावलि प महादम्भकवीर अं लोलुपावलि न चर्चिकवीर अः बर्बरावलि ध प्रमथवीर क पवनावलि द कनकवीर ख लम्पटावलि थ खरोदकवीर ग मातावलि त गरुडवीर घ रौद्रावलि ण मेघनादवीर ङ सर्वभक्षावलि ढ महागर्जनवीर च ज्येष्ठावलि ड चर्वकवीर छ अम्बिकावलि ठ छेदकवीर ज वेदावलि ट त्रिशिखवीर झ क्रोधावलि ञ मारीचिवीर ञ ब्रह्मघोषावलि झ विधानवीर ट सर्ववीरावलि ज विकटवीर ठ वज्रकावलि छ वसन्तकवीर ड कन्यावलि च अभयवीर ढ प्रसन्नावलि ङ विपक्षवीर ण महाक्रोधावलि घ महाबलिवीर त डामरावलि ग कटङ्कटवीर थ महादंष्ट्रावलि ख डमरुकवीर द आधारावलि क धर्मवीर ध आसन्नावलि अः महातिबलवीर न उज्ज्वलावलि अं सर्ववीर प सागरावलि औ महाकायवीर फ त्रिभुवनावलि ओ वरलामुखवीर ब वलयावलि ऐ भस्मान्तकवीर भ निद्रावलि ए दुर्जयवीर म सन्ध्यावलि ॡ महावेतालवीर य चन्द्रवीणावलि ऌ महारौरववीर र मन्मथावलि ॠ महादुर्धरवीर ल व्योमावलि ऋ महाभोगवीर व ऊष्मावलि ऊ वज्रवीर श सितावलि उ कालाग्निवीर ष महामायावलि ई सर्वलोकवीर स सर्वदेवतावलि इ महानादवीर ह योगावलि आ परापरवीर क्ष अनन्ताख्यावलि अ महाक्षयान्तवीर
22.17 SK अथापरा परा ख्याता महामाया परापरा मन्त्रगर्भा महादेवी विश्रुता भुवनत्रये //
22.18 SK य्र्यौं र्र्यौं ल्र्यौं व्र्यौं श्र्यौं ष्र्यौं स्र्यौं ह्र्यौं क्ष्र्यौं कामाख्यस्य ह्स्र्यौं पूर्णगिरि स्म्र्यौं ओड्डियान क्ष्म्र्यौं जालन्धर | श्री हा क डो क श्री कामरिवाडी श्री देववाडी श्रीं ह्रीं अमृतविद्ये पुत्रं देहि आयुं देहि यशं देहि ||
22.18 SK प्रमादाल्लोपम् आयाते सिद्धे समयमण्डले साधकस्य भवेद् ग्लानिः क्लिष्टो विघ्नैः प्रबाध्यते //
22.19 SK का गतिस् तस्य देवेश कथं शुद्धिम् अवाप्नुयात् तम् आचक्षस्व सर्वज्ञ समयघ्नः शुध्यते यथा //
22.20 SK अट्टहासादितः कृत्वा राजगृहम् अपश्चिमम् आयुधैः सहितां देवीं क्षेत्रपालसमन्विताम् //
22.21 SK क्षेत्रोपक्षेत्रसन्दोहैः सेवनान् निर्मलो भवेत् अथाशक्तः प्रमादी वा पीठसङ्कीर्तनात् प्रिये //
22.22 SK सम्यक् शुद्धिम् अवाप्नोति प्रातर् उत्थाय यः पठेत् तद् अहं सम्प्रवक्ष्यामि समयानां विशुद्धये //
22.23 SK अट्टहासे कदम्बस्थां सौम्यास्यां वज्रधारिणीम् महाघण्टसमोपेतां प्रणमामि सिवङ्करीम् //
22.24 SK चरित्रायां करञ्जस्थां कृष्णाख्यां शक्तिधारिणीम् महाबलसमोपेतां प्रणमामि सुसिद्धिदाम् //
22.25 SK अग्निकेन समोपेतां दण्डहस्तां नगौकसाम् कोलागिर्ये महालक्ष्मीं नौमि लक्ष्मीविवर्धनीम् //
22.26 SK ज्वालामुखीं श्रीजयन्त्यां निम्बस्थां खड्गधारिणीम् महाप्रेतसमोपेतां नौमि सर्वार्थसिद्धिदाम् //
22.27 SK अश्वत्थस्थां महामायाम् उज्जैन्यां पाशधारिणीम् महाकालसमोपेतां नौमि सर्वार्थसिद्धिदाम् //
22.28 SK उडुम्बरतलावस्थां वायुवेगां ध्वजायुधाम् प्रयागे पवनोपेतां नौमि शत्रुविनाशनीम् //
22.29 SK वाराणस्यां तु तालस्थाम् ऊर्ध्वकेशीं गदायुधाम् प्रणम्य शिरसा देवीं शाङ्करीं शाङ्करान्विताम् //
22.30 SK कर्णमोटीं वटस्थां तु सशूलां हेतुकान्विताम् श्रीकोटे श्रीपदां नौमि राज्यसम्पददायिनीम् //
22.31 SK विरजायाम्बिकदेवीं मुद्रापट्टिशधारिणीम् अनलेन समोपेतां प्रणमामि जयावहाम् //
22.32 SK ऐरुड्याम् अग्निवक्त्रां तु वज्रशक्तिधरां शुभाम् घण्टारवसमोपेतां नमामि रिपुनाशनीम् //
22.33 SK मुषलायुधहस्तां तु महाजङ्घसमन्विताम् नमामि शत्रुभङ्गार्थे पिङ्गाक्षीं हस्तिनापुरे //
22.34 SK एलापुरे खरास्यां तु पाशहस्तां महाबलाम् गजकर्णसमोपेतां नौमि दुष्टप्रमर्दनीम् //
22.35 SK काश्मर्यां चैव गोकर्णां मुद्रालकुटधारिणीम् तडिज्जङ्घसमोपेतां नमामि रिपुमर्दनीम् //
22.36 SK करालेन समोपेतां नमाम्यङ्कुशधारिणीम् क्रमणीं मरुदेशे तु त्रैलोक्याकृष्टिकारिकाम् //
22.37 SK रोमजङ्घसमोपेतां नगरे तु हलायुधाम् चैत्रकच्छनिवासां तु नमामि धनसिद्धये //
22.38 SK कुम्भकेन समोपेतां खट्वाङ्गकरभूषिताम् नमामि पापशुद्ध्यर्थं चामुण्डाम् पुण्ड्रवर्धने //
22.39 SK परस्तीरे प्रसन्नास्यां वज्रशृङ्खलधारिणीम् नमामि त्रिजटोपेतां भेदस्तम्भनकारिकाम् //
22.40 SK पृष्ठापुरे विद्युन्मुखीं दण्डशक्त्यायुधोद्यताम् नमामि घनरवोपेतां भेदजृम्भनकारिकाम् //
22.41 SK उल्कामुखसमोपेतां कुहुद्यां तु महाबलाम् मुद्रालकुटधारिण्यां नौमि दुष्टाङ्गभञ्जनीम् //
22.42 SK पिशिताशसमोपेतां नौमि कट्टारिकोद्यताम् सोपारे अग्निवक्त्रां तु अमित्रपशुदारिणीम् //
22.43 SK क्षीरिके लोकमातां तु खड्गहस्तां नमाम्य् अहम् महामेरुसमोपेतां महतार्तिनिकृन्तनीम् //
22.44 SK वज्रायुधधरां सौम्यां भीमाननसमन्विताम् स्तम्भाकृष्टिकरीं देवीं मायापुर्यां तु कम्पिनीम् //
22.45 SK महाक्रोधसमोपेतां पूतनाम्रातिकेश्वरे गदाहस्तायुधां नौमि ताडनाकृष्टिकारिकाम् //
22.46 SK राजगृहे भग्ननासां महाकर्णसमन्विताम् वज्रशक्तिधरां नौमि अशेषफलदायिकाम् //
22.47 SK क्षेत्रोपक्षेत्रसन्दोहे स्थितभूचक्रमातराम् क्षेत्रपालसमोपेतां कीर्तयेद् यः समाहितः //
22.48 SK प्रातर् उत्थाय मन्त्रज्ञः स्वप्नकाले ऽथवा सुधीः युक्तो ऽपि पातकैर् घोरैर् मातॄणां सम्मतो भवेत् //
22.49 SK मातृहा पितृहा चैव ब्रह्मघ्न गोघ्न एव च वीरद्रव्यापहारी च प्रमादात् समयच्युतः //
22.50 SK मन्त्राचारविलुप्तो ऽपि पीठसङ्कीर्तनात् प्रिये पापकञ्चुकम् उत्सृज्य नैव पश्यति दुर्गतिम् //
22.51 SK यः पुनः शुद्धभावात्मा त्रिष्कालं परिवर्तयेत् प्राप्नोति चिन्तितान् कामान् स्त्रीणां भवति वल्लभः //
22.52 SK कुण्डे ऽथ मण्डले वाथ प्रतिमायां पटे ऽपि वा लिङ्गे दक्षिणमूर्तौ वा जलमध्ये गतो ऽपि वा //
22.53 SK त्रिष्कालम् एककालं वा यः पठेद् यस् तु भावितः विषशस्त्रज१आग्निभ्यो व्याधिभूतग्रहैर् अपि //
22.54 SK अजितः सुचिरं कालं जायते निरुपद्रवः महाभये समुत्पन्ने कपिलागोमयेन तु //
22.55 SK चतुर्दिक्षु चतुर्विंश कारयेन् मण्डलानि तु पूर्वम् उत्तरतश् चैव वारुण्यां दक्षिणेन तु //
22.56 SK षट्कं षट्कं तु कर्तव्यं तत्र पूज्य क्रमेण तु श्मशानकल्पवृक्षे तु योगिन्यः क्षेत्रपास् तथा //
22.57 SK पूर्वे तु श्वेतपुष्पैस् तु दक्षिणे पीतपुष्पकैः पश्चिमे रक्तपुष्पैस् तु उत्तरे कृष्णपुष्पकैः //
22.58 SK सायुधान् श्वेतपुष्पैस् तु गन्धैर् धूपैर् मनोरमैः मध्ये तु कलशं स्थाप्य दिव्यतोयपरिप्लुतम् //
22.59 SK चतुर्विंशति दीपांश् च स्थाने स्थाने प्रदापयेत् चतुर्विंशति पीठांश् च क्रमेण परिवर्तयेत् //
22.60 SK अहोरात्रोषितो भूत्वा निशाम् एकां सुयन्त्रितः प्रभाते विमले मन्त्री वीरभोज्यं तु कारयेत् //
22.61 SK ततः क्षमापयेत् पीठान् प्रणिपत्य पुनः पुनः निर्विघ्नस् तु ततो मन्त्री क्षिप्रं भवति सिद्धिभाक् //
22.62 SK उपसर्गग्रहादिभ्यः क्षयकुष्ठज्वरादिभिः मुच्यते सर्वरोगैश् च धनवान् अपि जायते //
22.63 SK कन्या मनेप्सितान् कामान् लभते चाभिषेकतः पुत्रार्थी लभते पुत्रान् कामुकः सुभगो भवेत् //
22.64 SK विद्यार्थी लभते विद्यां वणिग् वै लाभम् अश्नुते मन्त्राराधनशीलश् च जायते निरुपद्रवः //
22.65 SK योगाभ्यासरतो नित्यं प्राप्य सिद्धिं परं ययौ द्वीपाम्नायप्रसङ्गेन सर्वम् एतत् प्रकाशितम् //
22.66 SK समस्तव्यस्तव्याप्तिस् तु क्षेत्रोपक्षेत्रसंयुतम् यत् त्वया पृच्छितं सर्वं कालज्ञानं कुजेश्वरि //
22.67 SK तद् अहं सम्प्रवक्ष्यामि भक्तानां भक्तिवत्सले सर्वं सम्पादितं तुभ्यम् आज्ञानन्दक्रमार्णवम् //
22.68 SK इदानीं शृणु कल्याणि कालचक्रं यथा स्थितम् //
2424 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते समस्तव्यस्तव्याप्तिर् नाम द्वाविंशतिमः पटलः
23.1 SK कालचक्रं वरारोहे आत्मनश् च परस्य च ज्ञात्वा व्यपोहयेत् कालम् उत्क्रान्तिं वा सलक्षणम् //
23.2 SK येन जानाति देवेशि साधको निश्चयात्मकः शृणु त्वं परमानन्दं सुगोप्यं प्रकटामि ते //
23.3 SK कालं तु त्रिविधं प्रोक्तं परं चैव परापरम् अपरं तु कलाधारं कालस्य वशसंस्थितम् //
23.4 SK त्रुटिलवात् परः कालः कालोन्मेषात् परापरः मन्वन्तरादिकाष्ठादौ स कालः कलते तनुम् //
23.5 SK कल्पे परापरे काले स्थित्वा कालस्य वञ्चनम् परात् परतरे काले स्थितौ कालस्य कालकृत् //
23.6 SK इति मत्वा परं कालं मानभूतं गुरोर् मुखात् ततः कुर्वन्ति सर्वत्र ज्ञानक्रीडाम् अशङ्किताम् //
23.7 SK परं तु षण्णवत्योर्ध्वं षण्णवत्या परापरम् चतुराशीतिप्रमाणेन अपरं कलनात्मकम् //
23.8 SK पञ्चकेन निबद्धं तु पञ्चत्वं याति शीघ्रतः नन्दाभद्रादियोगेन जयारिक्तादिपौर्णिमा //
23.9 SK पञ्च पञ्च तथा पञ्च मासा-ऋत्वयनावधिम् संवत्सरं युगं चेति मन्वन्तरसकल्पकम् //
23.10 SK एवं कलन्ति तं कालं पञ्चपञ्चान्तकावधिम् कालावधिस्थितान् द्वीपान् द्वीपैः पीठान् विदुर् बुधाः //
23.11 SK पीठान्तस्थानि तत्त्वानि पञ्च भूतानि तेषु वै एकैकं पञ्चकावृत्तं पञ्चविंशान्तकाविधिम् //
23.12 SK स्वरपञ्चकयुक्तानि संसरन्ति कलार्णवे पद्मनाडीनिबद्धेताः कालयन्त्रोपरिष्ठिताः //
23.13 SK जीवतोयं हरत्य् आशु शोषयन्ति क्षणे क्षणे चन्द्रसूर्यकरैः कृत्वा कृतान्तो वाहने क्षमः //
23.14 SK जीवार्णवं समस्तेदम् आकृष्य च पुनः पुनः सिञ्चयेत् क्षयवृक्षाणि जरामृत्युफलार्थिनः //
23.15 SK एवं ते त्रिविधः कालः कथितस् तु सुविस्तरः लक्ष्यते यै रुतैः सो हि तन् निबोधयतः शृणु //
23.16 SK बहिरङ्गान्तरङ्गानि ज्ञात्वा वञ्चयते यथा वञ्चितुं यो न शक्येत स याति गुरुसन्निधौ //
23.17 SK स्वप्ने वा यदि प्रत्यक्षं समाधिगुणयोगतः विवर्णां पश्यते छायां जीवेद् वर्षत्रयं तु सः //
23.18 SK उत्तराभिमुखो भूत्वा पश्यते दक्षिणादिशम् विवर्णं पूर्वम् आख्यातं मासैकं त्रिदिनोज्झितम् //
23.19 SK शुद्धनिर्मलम् आदित्यं विरश्मिं यदि पश्यति वर्षद्वयेन मन्तव्यं मृत्युम् आत्मनि विन्दति //
23.20 SK अरुन्धतीं ध्रुवं चैव सोमच्छायां महापथम् यो न पश्यति देवेशि न जीवेद् वत्सरात् परम् //
23.21 SK मध्ये छिद्रं चन्द्रमसि यस् तु पश्यति भामिनि मृत्युं तस्य विजानीयान् मासे चैकादशे तथा //
23.22 SK भग्नशाखाद्रुमं पश्येद् गन्धर्वनगरं तथा पश्येत् प्रेतपिशाचांश् च दश मासान् स जीवति //
23.23 SK यस्य वै स्नातमात्रस्य हृदि पादौ च शुष्यति धूमो वा मस्तके वास्ति अष्टमासान् स जीवति //
23.24 SK अग्रतः Pऋष्ठतो वापि खण्डं यस्य पदं भवेत् पांसौ वा कर्दमे वापि सप्त मासान् स जीवति //
23.25 SK रक्तमाल्यानुलेपानि रक्तकृष्णं च वाससम् लभते स्वप्नयोगेन षण्मासांस् तु स जीवति //
23.26 SK आरुह्य मस्तके यस्य कृकलासः स्थिरीभवेत् धारयेत् त्रीणि रूपाणि पञ्चमासान् स जीवति //
23.27 SK पुरुषो लोहदण्डेन कृष्णो यस्य परिच्छदः पश्यते स्वप्नयोगेन चतुर्मासान् स जीवति //
23.28 SK चन्द्रबिम्बप्रतीकाशम् उदयन्तं दिवाकरम् विरश्मिमण्डलं पश्येत् त्रीणि मासान् स जीवति //
23.29 SK दीपम् आरक्तताम्राभम् आकाशे रविमण्डलम् मञ्जिष्ठां मेदिनीं पश्येज् जीवेन् मासद्वयं तु सः //
23.30 SK अप्सु वा यदि वादर्शे यद्य् आत्मानं न पश्यति विशिरां पश्यते छायां मासम् एकं स जीवति //
23.31 SK यदि नेत्रं स्रवेद् एकं कण्ठस्थानं विशुष्यति वाचाद्यं कम्पते यस्य स्वाङ्गं वह्निसमप्रभम् //
23.32 SK वेदना भवते तीव्रा अब्दम् एकं स जीवति ललाटं चलते यस्य विवर्णं जायते मुखम् //
23.33 SK ध्रुवस्थाने तु प्रस्वेदं जायते यस्य सर्वदा एकादश स मासानि जीवतेत्य् अविचारतः //
23.34 SK हृदये यस्य सन्तापं स्वकं कायं न पश्यति वाचा च चलते यस्य दन्ताश् च परिशुष्यति //
23.35 SK विस्मृतिर् नित्य चित्तस्य दश मासान् स जीवति हृदयं शुष्यते यस्य स्वकं कार्यं न जानति //
23.36 SK गुह्यं च शुष्यते शीघ्रं नव मासान् स जीवति शुष्यते दक्षिणाङ्गं तु वामाङ्गं चैव शुष्यति //
23.37 SK घूर्मते महता नित् यम् अष्ट मासान् स जीवति अकस्माज् जायते स्थूलः स्थूलो ऽपि कृषतां गतः //
23.38 SK धूसरो धूम्रवर्णश् च सप्त मासान् स जीवति पूर्वे तु उदिते सूर्ये छायां पश्यैव दक्षिणाम् //
23.39 SK मुहूर्तं जीवते सो वै सत्येदं कुलनन्दिनि वक्रनासा भवेद् यस्य मासाद् ऊर्ध्वं न जीवति //
23.40 SK छागगन्धं भवेद् गात्रं दन्ताश् चिटिचिटायते छायात्मां विकृतां पश्येत् सप्तरात्रं स जीवति //
23.41 SK यस्य कृष्णा भवेज् जिह्वा पद्मवर्णं मुखं भवेत् गण्डपृष्ठौ सुरक्ताभौ त्रिरात्रं च स जीवति //
23.42 SK श्यामदन्तं मुखं चैव प्रकृतिर् यस्य दृश्यते विपरीतेन्द्रियग्रामं अहोरात्रं स जीवति //
23.43 SK घोषं न शृणुते यस् तु दीपवर्तिं न पश्यति विशिरां पश्यते छायां क्षणम् एकं स जीवति //
23.44 SK अन्यच् च परमोपायं शृणुष्व वरवर्णिनि येन विज्ञातमात्रेण कालं जानाति तत्त्वतः //
23.45 SK षोडशद्वादशाराभ्यां या गतिस् त्व् अर्कसोमयोः तस्मिन् निरीक्षयेज् ज्योतिं दीप्यमाने हुताशने //
23.46 SK षोडशान्तर्गतं यच् च पूर्वोक्तं यच् चतुर्दलम् तस्य मध्ये विजानीयात् कालज्ञः काललक्षणम् //
23.47 SK सोमाधस्ताद् दले नष्टे षण्मासान् म्रियते ध्रुवम् त्रीणि मासांस् तथा चोर्ध्वे द्वौ मासौ ध्वनिसन्निधौ //
23.48 SK मासैकं वायुसामीप्ये तच् च पूषोदयं विदुः सोमचक्रम् इदं प्रोक्तं सृणु सूर्यं च साम्प्रतम् //
23.49 SK यदा न दृस्यते ज्योतिर् द्वादशारे चतुर्दले पक्षैकं तस्य देवेशि दिनानि दश पञ्चकैः //
23.50 SK तत्रैव तेन मार्गेण यदा ज्योतिर् न दृश्यते दश पञ्च तथा त्रीणि एकाहं तस्य जीवितम् //
23.51 SK अथान्यत् परमं वक्ष्ये निश्चितं काललक्षणम् जीवन्ति च तदभ्यासात् तदभावान् म्रियन्ति ते //
23.52 SK निश्चितं तद् वरारोहे कालयोगः स एव हि विस्मृतिर् जायते यस्य सा वारा मृत्युकाङ्क्षिणी //
23.53 SK देहमध्यगतं सर्वं म्रियते कालचोदितम् परापरेण कालेन भेदयित्वा समभ्यसेत् //
23.54 SK वामावर्तादियोगेन दक्षिणान्तम् अनुक्रमात् शुक्लकृष्णप्रयोगेण कदहान्तम् अपश्चिमम् //
23.55 SK पूर्णमावास्यमध्यस्थं कालचक्रं समभ्यसेत् पञ्च पञ्च तथा पञ्च प्रतिपव्छुक्लम् आदितः //
23.56 SK स्वरवर्णसमायोगं शुक्लादौ कृष्णकावधिम् पुद्गलात्मा समाश्रित्य अभ्यसेदम् अहर् अहः //
23.57 SK जरामृत्युविनाशार्थे शीघ्रेदं पिण्डसाधनम् कथयन्ति महाविद्याः कालस्य काललक्षणम् //
23.58 SK कथम् अप्य् एष तन्निष्ठो यदि सिद्धिं न गच्छति आकृष्टो योगिनीचक्रे तदा विस्मृतिकारिका //
23.59 SK विस्मृतिर् वा तिथिर् याति अभ्यसन्तो मुहुर् मुहुः सा वारा सा तिथिर् देवि निश्चितेदं मयोदितम् //
23.60 SK एतत् ते परमं कालं परमार्थं प्रकीर्तितम् सविस्मयकरं देवि अभेद्यं सम्प्रकाशितम् //
23.61 SK यदीच्छसि चिरं देवि जीवितं परमार्थतः देहमध्यं परित्यज्य तिष्ठस्वान्यत्र भाविता //
23.62 SK देहामृतं परं योगं न देयम् अपरीक्षिते यावज् ज्ञानविरागाभ्यां पूरितं स्यात् तनुर् न हि //
23.63 SK परापरस्य कालस्य ज्ञातृत्वं भवते यथा लेखनादिप्रयोगेण विधियोगेन भाविनि //
23.64 SK मार्गशीर्षस्य मासस्य कृष्णायां पञ्चमी भवेत् तस्यां सम्भारसम्पन्नो रात्रौ जागरणं यजेत् //
23.65 SK आहरेन् निर्व्रणं भूर्जं रोचनासृक् सकुङ्कुमम् लिखेत् पूर्वमुखो भूत्वा द्वादशैव स्वरान् शुभान् //
23.66 SK मात्राबिन्दुसुसम्पन्नान् रक्षयित्वा पुनः पुनः संवरेच् छुक्लसूत्रेण जप्तविद्यः समालभेत् //
23.67 SK सितचन्दननैवेद्यैर् जातीपुष्पैर् मनोरमैः पूजयित्वा क्रमाम्नायं दीपमन्त्रसुसंयुतम् //
23.68 SK शरावसम्पुटस्थं तु जातीकुसुममध्यतः स्थापयित्वा जपेन् मन्त्रं यावद् रात्रिक्षयं गतः //
23.69 SK ततः प्रभातसमये पूजयित्वा पुनः क्रमम् कुमार्यो वै प्रतर्पेत विद्या लब्धा तथा शृणु //
23.70 SK ह्रीं हूं स्व्लें स्वाहापतये रक्ष रक्षामृतोद्भवे स्व्लें हूं ह्रीं च पुनर् जाप्यं सम्पुटीकृत्य मन्त्रयेत् //
23.71 SK जप्तविद्यास् तु स्तुभ्यन्ते कथयन्ति शुभाशुभम् न स्तुभ्यन्ति यदा देव्यो जप्तविद्यास्य सम्पुटम् //
23.72 SK दर्शयन्ति महाहानिं भ्रष्टत्वं योगिनीकुले सामर्थ्यतो न मृत्युः स्याद् भ्रष्टसिद्धिं न यास्यति //
23.73 SK एवं कृत्वा ततः पश्चाद् भूर्जपत्त्रे स्थिताक्षरान् वाचयन् सन्निरूपेत समं हीनं सुवृद्धिदम् //
23.74 SK अक्षराभ्यधिके यत्र तत्र राज्यं विनिर्दिशेत् मात्रयाभ्यधिके लाभं समे चारोग्यवत्सलम् //
23.75 SK बिन्दुहीनं यदा पश्येद् हानिम् अर्थस्य तत्र वै मात्राहीने भवेद् व्याधिर् मृत्युः स्याद् अक्षरं विना //
23.76 SK वामादिक्रमयोगेन लक्षयेद् उपदेशतः विद्याकुम्भं सवर्धन्या तत्काले पूजितं तु यत् //
23.77 SK ततः पुनः समालब्धं ग्रामस्य च पुरस्य च भ्रामयेत् षोडशवारं दह्यते न तदम्भसा //
23.78 SK एतत् ते कथितं देवि शुभाशुभविलक्षणम् न देयं दुष्टबुद्धीनाम् आगमं गोपयेत् सदा //
23.79 SK कालावबोधनं देवि पूषाकालोपलक्षितम् समसप्तगते सूर्ये जन्म-ऋक्षे च चन्द्रमाः //
23.80 SK मकरोदयवेलायां पूषाकालस् तु कुब्जिके अरिष्टदर्शनं नाथे जपहोमोपशाम्यति //
23.81 SK मृत्युञ्जयेन योगेन तच् छृणुष्व परिस्फुटम् जुं सः सम्पुटनामाद्यं सः जुं अन्ते नियोजयेत् //
23.82 SK चन्द्रोदयामृतान्तस्थं पुद्गलात्मा विचिन्तयेत् जपेन् मृतुञ्जयं देवि परापरतनौ स्थितः //
23.83 SK अक्षसूत्रेण दिव्येन नेतरेण प्रशस्यते //
23.84 SK सविस्मयकरं वाक्यम् अत्यद्भुतम् अकारणम् अक्षसूत्रं पुरा ज्ञातं दिव्याक्षं वद साम्प्रतम् //
23.85 SK शृणु देवि प्रवक्ष्यामि दिव्याक्षसूत्रनिर्णयम् यन् न कस्यचिद् आख्यातं सिद्धिदं परमं पदम् //
23.86 SK यन् न भिद्यति चक्रेण यन् न दह्यति चाग्निना यन् न प्रोतापरे सूत्रे पट्टकार्पासिके ऽपि वा //
23.87 SK यस्य मध्ये स्थितो मेरुर् ग्रन्थयश् च न तत्र वै पञ्चाशाक्षमया तन्तु[र्] यस्मात् सर्वं चराचरम् //
23.88 SK छिन्नभिन्नेषु मन्त्रेषु लुब्धक्रुद्धेषु सुप्तके जप्तानेन तु सूत्रेण असिद्धं साधयेद् ध्रुवम् //
23.89 SK अक्षसूत्रम् इदं सिद्धं सर्वमार्गप्रबोधकम् सर्वमार्गेषु गुप्तेदम् ऽनुष्ठेयं परमेश्वरि //
23.90 SK प्रस्तुतायातमार्गेण वर्णितं सूत्रनिर्णयम् //
23.91 SK डाकिनी राक्षसी लामा काकिनी शाकिनी तथा यक्षिणी भ्रामणी चैव वद मन्त्रं सुराधिप //
23.92 SK ऊ-ढ-मध्यगतं गृह्य ण-ट-मध्यगतं तथा व-ख-पूर्वद्वयोद्धृत्य ध-ह-मध्यगतं पुनः //
23.93 SK य-स-मध्यगतं गृह्य एतत् षट्कं समुद्धृतम् ञपश्चिमं समुद्धृत्य दीर्घस्वरयुतं कुरु //
23.94 SK षट्प्रकारविधानेन षट्कं षट्कं नियोजयेत् प्रभुर् वै भ्रामणी प्रोक्ता षट्स्वराधिष्ठिता तु सा //
23.95 SK सर्वकार्ये नियोक्तव्या निग्रहानुग्रहं प्रति अन्यद् वै हृदयं वक्ष्ये शाकिनीनां यशस्विनि //
23.96 SK ऊ-पश्चिमं समुद्धृत्य ह-पूर्व-म्-आसने स्थितम् रेफाक्रान्तं तु कर्तव्यं द-उत्तरयुतं तथा //
23.97 SK झ-पूर्वेण समायुक्तं कूटं बिन्दुसमन्वितम् प्रस्तारायातमार्गेण उद्धृतं षट्कनिर्णयम् //
23.98 SK प्रस्तुतं शृणु कल्याणि उच्यमानं निगद्यते अरिष्टदर्शनाद्य् एवम् अभ्यस्यन्तो ऽन्यथा यदि //
23.99 SK शुष्यते घण्टिकास्थानं तदा ध्यानं परित्यजेत् जपध्यानार्चनाद् एव सञ्जातोपशमं न हि //
23.100 SK तदात्र निश्चितं जातं पञ्चाहान् मृत्युलक्षणम् निश्चयेन तदा काले गुरुदेवं समाश्रयेत् //
23.101 SK पुत्रदारादिबन्धूनां व्याहरित्वा वदेद् इदम् पञ्चाहावान्तरे काले कुर्याद् उत्क्रान्तिकारणम् //
23.102 SK अन्यथा कुरुते यस् तु स पापी ह्य् आत्मभेदकः न दुःखितो न कोपेन कुर्याद् उत्क्रान्तिकारणम् //
23.103 SK कीर्तिहेतोः शरीरस्य यदि शक्तो न रक्षणे गुरुणापि हि दातव्यं ज्ञात्वा शिष्यं सलक्षणम् //
23.104 SK अन्यथा ददते यस् तु लिङ्गभेदी गुरुस् तु सः पञ्चप्रकारको ह्य् आत्मा येन ज्ञातः स्वदेहतः //
23.105 SK सर्वतीर्थमयः सो हि तीर्थानि कृतकान्य् अपि सुसिद्धपुम्भिः सर्वैस् तु यत्र बद्धास्पदं क्वचित् //
23.106 SK तत्प्रभावाद् भवेत् तीर्थं न तीर्थं जलपूरितम् ज्ञानावबोधसम्पन्ना ज्ञानसम्पादने क्षमाः //
23.107 SK यत्र तिष्ठन्ति ते स्थाने तत् तीर्थं परमार्थतः वाराणसी कुरुक्षेत्रं नैमिषं भैरवं तथा //
23.108 SK सन्निधानो गुरुर् यत्र सर्वतीर्थानि तत्र वै तीर्थानि तोयपूर्णानि देवाः पाषाणमृण्मयाः //
23.109 SK आत्मविदो न मन्यन्ते तत् तीर्थम् इतरे जनाः बलिनोपद्रुते स्थाने गुरोर् मानम् उपागते //
23.110 SK ज्ञानिनो ऽपि न दोषोऽस्ति आत्मनो हनने कृते तीर्थङ्करो गुरुर् यस्मात् तत्कार्योज्झितजीविते //
23.111 SK तिर्यग्योनिं ह्य् असौ याति दुःखान्तं फलम् अश्नुते अन्यत्काले न कर्तव्यम् उत्क्रान्त्युत्क्रमणं प्रिये //
23.112 SK कीर्तिहेतोः प्रकर्तव्या सा यथा कथ्यते ऽ धुना द्वारेष्व् अर्गलसंयोगं कुर्याच् चोद्घाटनं क्वचित् //
23.113 SK जीवाधारं छिनेद् ग्रन्थिम् एतद् उत्क्रान्तिलक्षणम् गुदं लिङ्गं तथा नाभिर् मुखं नासा श्रुतीक्षणौ //
23.114 SK एषु स्थाने ऽर्गलं योज्य कुञ्चिकोर्ध्वं नियोजयेत् अर्गलान्य् उपदेशेन शृणु त्वं करणं यथा //
23.115 SK गुदाधारोपरि स्थित्वा कृत्वा वै कुक्कुटासनम् समपादोरुजङ्घस् तु कुर्परौ तु तदूर्ध्वगौ //
23.116 SK भग्नपृष्ठशिरःस्कन्धो ह्य् उत्तानोर्ध्वमुखः स्थितः मुष्टिभ्यां पीडयेत् स्कन्धौ कण्ठस्थौ चानुनासिकौ //
23.117 SK उच्चरेत् क्षुरिकामूले ग्रन्थिच्छेदं भवेत् क्षणात् घाटयित्वा तु द्वाराणि नित्यम् एव समभ्यसेत् //
23.118 SK घण्टिकायां तु देवेशि षण्मासावधिपूर्वकम् नित्यम् एवाभ्यसन्तस्य प्रत्ययानि भवन्ति हि //
23.118A SK घटाधारगतं प्राणं कूर्मयन्त्रेण पीडयेत् अभ्यसन् मासम् एकं तु सद्यम् उत्क्रान्तिलक्षणम् //
23.119 SK ब्रह्मरन्ध्रं स्फुरन्तीव निर्जीवं कण्ठकावधिम् एवम् अभ्यासयेन् नित्यं यत्र बन्धतनु[ः] स्थितः //
23.120 SK गुदाधारे मृदुं दत्त्वा पृष्ठाधारं सुशोभनम् जानूरुभ्यां तु पार्श्वे तु कीलकौ द्वौ निधापयेत् //
23.121 SK तत्प्रमाणौ समौ भूम्यां यन्त्रयेन् मृदुयन्त्रणात् एवं संशोधयित्वा तु पूर्वसिद्धि[र्] यथा यथा //
23.122 SK तदा सङ्कुरुते कीर्तिम् इत्य् आज्ञा पारमेश्वरी सतताभ्यासयोगेन सद्यम् उत्क्रमणे क्षमः //
23.123 SK क्रुद्धः संहरते क्षिप्रं घटिकाभ्यन्तरेण वै तृण वृक्षलतादीनां षट्पदाकाशगामिनाम् //
23.124 SK फलपुष्पप्रपातेन तदा सिद्धिं विलक्षयेत् अकालेनापि कालस् तु षड्घटिकाभ्यन्तरेण वै //
23.125 SK षण्मासाभ्यासयोगेन आत्मनः कुरुते ध्रुवम् एवं ते कथितं सर्वं सरहस्यं महामतम् //
23.126 SK क्षुरिकाद्यर्गलाभ्यासं कथयाम्य् उपदेशतः एतद्विज्ञानसारो ऽयं विज्ञानानेकसङ्कुलम् //
23.127 SK अनादेशान् न तद् देयं दत्ते स्याल्लिङ्गभेदकृत् लुब्धक्रुद्धेषु दुष्टेषु गोपयेदं सुरक्षितम् //
23.128 SK परं चाज्ञापहारो ऽस्ति यस्य हानिर् न विद्यते एवं सुरक्षिता देवि वारितासि पुनः पुनः //
23.129 SK अनादिष्टस्य शिष्येदं दास्यसे नरकार्थिनी पञ्चात्मानं यदा ज्ञातं यदा ज्ञातं षडध्वरम् //
23.130 SK तदा त्व् अपश्चिमम् इदं कथ्यम् उत्क्रान्तिकारणम् अन्यद् वा पश्चिमं वक्ष्ये दुःखाक्रान्तस्य योगिनः //
23.131 SK सर्वज्ञविहिते मार्गे न दोषस् तत्प्रसाधने आत्मनश् च परस्यैव क्रुद्धचेतोऽवधारणम् //
23.132 SK कर्तव्यं भीवने गत्वा रक्तमण्डलकं सुभम् मण्डलान्ते तु षट्कोणं तत्र देव्यः सुभीषणाः //
23.133 SK पूजयेद् यक्षिणीमूला डामर्यन्तं विदुर् बुधाः कुसुमिन्या सहैकत्वम् आत्मानं मध्यतो न्यसेत् //
23.134 SK मांसखण्डैः प्रपूज्येत रक्तेनार्घं प्रदापयेत् भेदयित्वा तु अष्टाङ्गं विष्ठमूत्रसमेकतः //
23.135 SK किञ्चिदलिसमायुक्तम् अर्घपात्रं नियोजयेत् क्ष्मापलेनाथ नारेण कृष्णवस्त्रोद्भवेन च //
23.136 SK पूजयेद् वाथ नैवेद्यैर् धातुं दत्त्वा स्वकां स्वकाम् रक्तपात्रं पृथक्कुर्यान् नैवेद्यानि पृथक् पृथक् //
23.137 SK कपालशकलैः सर्वं पात्रादौ धूपकावधिम् सान्निध्यकरणार्थं तु धूपान्यं सन्नियोजयेत् //
23.138 SK येनाकृष्टाः प्रयान्त्य् आशु सन्निधाना भवन्ति हि क्ष्मापलं हि च क्ष्मापित्तं नरास्थि शैलमद्रजम् //
23.139 SK किञ्चिदलिसमायुक्तं धूपो ऽयं परमार्थतः एवोपचारयोगेन धूपयित्वा समुच्चरेत् //
23.140 SK विद्यां स्वधातुसंयुक्तां यस्य तस्य शतं जपेत् //
23.140 SK ऐं श्रीं हां हीं हूं कुसुममालिनीये इदं प्रधानधातुं गृह्ण गृह्ण देवदत्तस्य उदरगतं आणिमारि वशङ्करि सर्वशत्रूणां स्वाहा ||
23.140 SK ऐं श्रीं यां यीं यूं यक्षिणी जम्भय जम्भय सर्वशत्रूणां देवदत्तानाम् अस्थि भञ्ज भञ्ज आणिमारि वशीकुरु कुरु स्वाहा ||
23.140 SK ऐं श्रीं शां शीं शूं शङ्खिनी शङ्खग्रहेन सर्वशत्रूणां देवदत्तानां आणिमारि वशीकुरु कुरु मज्जं गृह्ण गृह्ण स्वाहा ||
23.140 SK ऐं श्रीं कां कीं कूं काकिनी कायं संहारय संहारय मेदं सर्वशत्रूणां देवदत्तानां आणिमारि वशीकुरु कुरु स्वाहा ||
23.140 SK ऐं श्रीं लां लीं लूं लाकिनी सर्वशत्रूणां देवदत्तानां आणिमारि वशीकुरु कुरु मांसं भक्षय भक्षय स्तम्भय स्तम्भय स्वाहा ||
23.140 SK ऐं श्रीं रां रीं रूं राकिणी आणिमारि वशीकुरु कुरु सर्वशत्रूणां देवदत्तानां रक्तं गृह्ण गृह्ण स्वाहा ||
23.140 SK ऐं श्रीं डां डीं डूं डाकिनी सर्वशत्रूणां देवदत्तानां आणिमारि वशीकुरु कुरु त्वचधातुं गृह्ण गृह्ण स्वाहा ||
23.141 SK शतं शतं जपित्वा तु एकैकायाः समर्पयेत् गृह्णन्त्व् इदं मया दत्तम् अत्राज्ञा पारमेश्वरी //
23.142 SK दुःखितो ऽहं विरक्तो ऽहं भ्रष्टो ऽहं समयोज्झितः गृह्णन्तु देवताः क्षिप्रं मया दत्तां स्वकां तनुम् //
23.143 SK आज्ञा यदि प्रमाणो ऽस्ति प्रमाणं यदि चान्वयम् तेन सत्येन गृह्णन्तु मत्प्रदत्तं मरीचयः //
23.144 SK एवं विरक्तदेहस् तु यावत् कुर्याद् दिने दिने तावद् आयान्ति योगिन्यः सप्तमे ऽहनि भासुराः //
23.145 SK ज्ञानसिद्धिप्रसिद्धस्य सप्तरात्रान्तकावधिम् क्षपयन्त्य् अन्यथा नैव शीघ्रं संहारयन्ति ताः //
23.146 SK अथ चेद् दुष्टकर्माणां निग्रहेदं प्रकारयेत् तद् आत्माङ्गसमुद्भूतं किञ्चिद् द्रव्यं न गृह्णयेत् //
23.147 SK ब्रह्मणालेप्य-म्-आत्मानं पश्चाद् ध्यानं नियोजयेत् परमात्मस्वरूपो ऽहं भैरवो ऽहं महाप्रभुः //
23.148 SK इति मत्वा प्रयुञ्जीत षोढान्यासं स्वके तनौ कृत्वा षोडश वाराणि ततो वज्रतनुर् भवेत् //
23.149 SK अथातः सम्प्रवक्ष्यामि लोहके साधनं यथा अयुतैकेन सिद्धिः स्याल् लिङ्गे वै पश्चिमामुखे //
23.150 SK स्वयम्भौ बाणलिङ्गे वा इतरे वापि सुव्रते तत्र स्थित्वा जपेद् एवम् एकचित्तः समाहितः //
23.151 SK सदा क्रुद्धेन कर्तव्यं निग्रहं सप्तवासरैः शतम् अष्टोत्तरेणैव यावत् तन्निग्रहो भवेत् //
23.151 SK ठ ठ य ला ब हा म मि मि हि हि स ग्र स ग्र ||
23.151 SK कं मु अ हूं हूं ल ज्व ल ज्व न श ना र घो ||
23.151 SK प रू र घो र घो अ र श्व थे म प्र थ म प्र ||
23.151 SK थ म प्र श वि आ श वि आ द भिं द भिं य ||
23.151 SK श ध्वं वि य श ध्वं वि थ म थ म स ग्र ||
23.151 SK स ग्र कं मु अक ह लो हि ए हि ए य रा श्व मे र ||
23.151 SK प य रा प रा प य वा दे य सा हा ट्ट ङ्गा ||
23.151 SK लि स्फु वि ये त प धि णा ग हा म य का ह लो ||
23.151 SK मो न य रा श्व ऽजे स्ते म न ऐं ||
23.152 SK अतोर्ध्वे यन्त्रकर्माणि निग्रहानुग्रहं प्रति कृत्वा कुण्डलिकास् तिस्रो अष्टौ द्वादश षोडश //
23.152 SK य मध्ये क्षे म मे द अभ्यन्तरचक्रे विदिक्षु हूंकारेण नाम विदर्भ्य यच् च नि रा [रा] ज स दो [दो] रु ण यो [यो] नि र [य] इति द्वितीयचक्रे ल् ॐ ह्रीः ष्ट्रीः विकृतानन हूं हूं फट् फट् अमुकं मारय विद्वेषय उच्चाटय वशीकुरु आकृष्टिं कुरु शान्तिं कुरु पुष्टिं कुरु स्तोभं कुरु स्तम्भं कुरु हूं हूं फट् फट् ठ ठ तृतीयचक्रे / मारणे हूं विद्वेषे ह्रंः उच्चाटे ह्यः वशे ह्स्क्लीं आकृष्टौ ह्रीं शान्तिके स्फौं पौष्टिके स्फः स्तोभे ह्रूं मोहे ह्लौं स्तम्भे ह्लूं ||
23.153 SK मध्ये यकारलोपस्य लोप्ये निष्कद्वयस्य च कर्मकर्माणुरूपेण शेषा वर्णा यथासुखम् //
23.154 SK अथातः सम्प्रवक्ष्यामि स्वप्नमानवकाम्बिकाम् प्राणं वह्निसमारूढं मात्राद्वादशभेदितम् //
23.155 SK अक्षरान्तरितं कृत्वा सषडङ्गा भवेद् उमे ह्रस्वा त्याज्या प्रयत्नेन दीर्घा ग्राह्या सुलोचने //
23.156 SK अयुतं पूर्वसेवायां पञ्चप्रणवसम्पुटे रक्ताश्वमारकुसुमैः सिध्यते नात्र संशयः //
23.157 SK अष्टोत्तरशतं जप्त्वा शय्यारूढो निशासु च शुभाशुभं वदेद् रात्रौ सिद्धविद्यां तु कौलिकीम् //
23.158 SK अथान्यम् अपि वक्ष्यामि प्रयोगं मृत्युनाशनम् सङ्कोच्य मूलचक्रन् तु जन्मस्थं धारयेत् क्षणात् //
23.159 SK सङ्घट्टे पीडनं कृत्वा लम्बकं तु विदारयेत् लम्बकामृतसन्तृप्तो जयेन् मृत्युं न संशयः //
23.160 SK दाहशोषस् तु सन्तापो वैवर्णं वा महद्भुतम् नाशयेत वरारोहे अनेनाभ्यासयोगतः //
23.161 SK रसनां शून्यमध्यस्थां कृत्वा चैव निराश्रयम् न दन्तैर् दशनान् स्पृष्ट्वा ओष्ठौ नैव परस्परम् //
23.162 SK त्यज्य स्पर्शनम् एतेषां जिनेन् मृत्युं न संशयः एष मृत्युञ्जयो योगो न भूतो न भविष्यति //
23.163 SK नाभिचक्राद् अधश् चाग्निर् निवृत्ते तु गमागमे द्वन्द्वातीतं पदं देवि चिन्तातीतं प्रचक्ष्यते //
23.164 SK पृष्ठवंश-अधस्तात् तु स्पन्दने विलयं गते कालातीतं परं स्थानं चिन्तातीतम् इहोच्यते //
23.165 SK गुदगुह्यान्तरे ग्रन्थिः सीवन्या बदिरास्थिवत् जरातीतं पदं दिव्यं भावातीतं प्रचक्ष्यते //
23.166 SK गुदगुह्यान्तरे ग्रन्थिर् गुहाधारे सुखोदये परानन्दपदं दिव्यं चिन्तातीतं तु कथ्यते //
23.167 SK राजदन्तद्वयोर् मध्ये अधस्तात् पीडयेद् भृशम् ऊर्ध्वदृष्टिं परां कृत्वा एवम् एतत् समभ्यसेत् //
23.168 SK अनेन जयते मृत्युं नात्र कार्यविचारणात् नादान्ते संस्थितं लक्ष्यं पञ्चतत्त्वस्य मध्यगम् //
23.169 SK चतुष्कलसमोपेतं तत्र स्थित्वा जपेत् प्रिये जरा मृत्युश् च रोगाश् च ईतयो विविधाश् च ये //
23.170 SK नश्यन्ते नात्र सन्देहस् तुहिनं तु रवेर् यथा अधः प्राणं समानीय कुण्डलीपदमध्यगम् //
23.171 SK तत्र रुन्ध्यात् प्रयत्नेन वृत्तिराजविवर्जितम् ये प्राणास् ते महाजीवे गतायुर् वीरवन्दिते //
23.172 SK तत्रासक्तः सदा देवि मृत्युजिद् भवते क्षणात् कथितं सरहस्यं तु सुगोप्यं तु तवानघे //
23.173 SK षोढान्यासविधानं तु पूर्वं तु कथितं मया निरोधोत्क्रमणादीनां किं त्वेदं न प्रकाशयेत् //
2616 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते त्रिष्कालज्ञानम् उत्क्रान्तिसम्बन्ध [इति] त्रयोविंशतिमः पटलः
24.1 SK देवदेव महादेव शशाङ्ककृतशेखर तद्ग्रहाख्ये तु ये रुद्राः सृष्टिन्यासेन मे श्रुताः //
24.2 SK संहारेण सुरेशान कथयस्व प्रसादतः निश्चयार्थं महादेव क्षकाराद्या यथास्फुटम् //
24.3 SK कथयामि न सन्देहः स्फुटार्थं तद्ग्रहात्मकम् पञ्चाशद्व्युत्क्रमेणैव शृणुष्व गदतो मम //
24.4 SK क्ष संवर्तः स्थितः क्रोधे ह प्राणे लाकुली स्थितः स भृगुः शुक्रतो नित्यं ष श्वेतो मज्जम् आस्थितः //
24.5 SK श बकीशो ऽस्थिमध्ये तु व खड्गीशः सिरान्वितः ल पिनाकी स्थितो मांसे र भुजङ्गो ऽसृगास्थितः //
24.6 SK य वालीशस् त्वचामध्ये कथितं तव सुव्रते महाकालो मकारस् तु हृदये सर्वजन्तुषु //
24.7 SK द्विरण्डस् तु भ नाभ्यां तु ब वंशे छगलण्डिनः फ शिखी वामपार्श्वे तु कथितं तु वरानने //
24.8 SK पकारो लोहितो रुद्रो दक्षिणे कुक्षिम् आश्रितः न मेषो वामपादे तु ध मीनो जङ्घम् आश्रितः //
24.9 SK द धातृ जानुमध्ये तु संस्थितो वरवर्णिनि थ दिण्डी ऊरुदेशे तु त आषाढी ततोर्ध्वतः //
2626 SK लोण उमाकान्त पादे तु दक्षिणे च महाबलः ढार्धनारी स्थितो देवि जङ्घिकायां वरानने
24.11 SK डकारे दारुको रुद्रो जानुमध्ये प्रकीर्तितः ठ लाङ्गल्य् ऊरुदेशे तु नात्र कार्यविचारणात् //
24.12 SK सोमेश्वरस् टकारे तु जङ्घामूले स्थितस् तु सः ञ हस्ते संस्थितः शर्मा झाजेशो वामबाहुगः //
24.13 SK ज चतुर्मुख मध्ये तु छ एकाक्षस् तु कक्षगः चकारः कूर्म एवात्र शिखरे वामके स्थितः //
24.14 SK अतोर्ध्वे दक्षिणे हस्ते ङादिकान्तम् अतः शृणु ङकार[ः] कर-अग्रे तु एकरुद्रो व्यवस्थितः //
24.15 SK घ शिवेशः करस्योर्ध्वे ग प्रचण्डश् च कुर्परे ख चण्डो बाहुमध्ये तु क क्रोधः शिखरे स्थितः //
24.16 SK अः महासेनरुद्रस् तु विसर्गब्रह्मरन्ध्रगः अं क्रूरो मध्यघण्टान्ते औ ऽनुग्रहीशोर्ध्व-ओष्ठके //
24.17 SK ओ ओष्ठे सद्यदेवस् तु ऐ भौक्ती द्विज-म्-ऊर्ध्वगः ए झण्टीशो ऽ धपङ्क्तिस् तु द्विजभूतो व्यवस्थितः //
24.18 SK ॡ हरो वामगण्डे तु ऌ स्थाणुर् दक्षगण्डगः ॠ तिथीश इडायां तु ऋ भारभूति पिङ्गला //
24.19 SK ऊ अर्घीशो वामकर्णे उ अमरीशस् तु दक्षिणे ई त्रिमूर्तिर् वामचक्षुषि इ सूक्ष्म दक्षचक्षुगः //
24.20 SK आ अनन्तो मण्डले वक्त्रे अ श्रीकण्ठो ललाटगः तद्ग्रहे रुद्र-म्-आख्याता मालिन्यां शृणु साम्प्रतम् //
24.21 SK वामे फेत्कारिका चैव दहनी दक्षपादगा सावित्री चैव गायत्री औ ओ जङ्घौ प्रकीर्तितौ //
24.22 SK ए ऐ जानू क्रिया ज्ञानी तारा तकारम् ऊरुगा शुक्रदेवीत्य् अनुस्वारं शुक्रं देव्यास् तु भैरवि //
24.23 SK श गुह्यं कुसुमाख्या च महाकाली नितम्बगा क्ष संहारी स्थिता नाभौ षोदरं लम्बनोदरा //
24.24 SK ह प्राणे अम्बिका देवी सकारे च परापरा आमोटी तद्गतं क्षीरम् आ वर्णं परिकीर्तितम् //
24.25 SK पूतना छगलण्डा च ल-छौ स्तनौ प्रकीर्तितौ पावनी तु प हृल्लग्ना जयन्त्या शूलजा स्मृता //
24.26 SK दीपनी शूलदण्डा तु रेफं दक्षकरे स्थितम् कपालिनी वामकरे ट वर्णः परिकीर्तितः //
24.27 SK इच्छाशक्तिर् विसर्गाख्या करपृष्ठाव् उभाव् अपि कुर्दनी झङ्करी चैव ञ-झाव् अङ्गुलयः क्रमात् //
24.28 SK सम्पूर्णपूर्णिमा चैव ठवर्णस् तलहस्तयोः विनायकी च लामा च ड-ढौ बाहुद्वयं प्रिये //
24.29 SK वायुवेगा च भीषण्या स्कन्धयोर् उभयोर् अपि व कण्ठे शिखिवाहिन्या अ वाग् वागेश्वरी मता //
24.30 SK माया देवी इ जिह्वा तु जिह्वा देव्या विराजते खिर्विरा घोरघोषा च शिवा काली च कङ्कटा //
24.31 SK कवर्गे दशनास् तीक्ष्णा एवं देव्या विराजते बकारं वदनं तस्या वज्रिणी शक्तिर् अव्यया //
24.32 SK ई गुह्यशक्ति नादस्था नासायां नेत्रमध्यतः प्रज्ञा च मोहनी चैव ऊ उ भूषण-म्-ईक्षगौ //
24.33 SK नारायणी ण कर्णौ तु वामदक्षिणयोर् उभौ प्रियदर्शना ध नेत्रस्था उभौ नेत्रौ विराजते //
24.34 SK चामुण्डा च ललाटस्था थ वक्त्रं ग्रसनी स्मृता ॡ ऌ ऋ ॠ तु शान्त्याद्याः शिरोमाला तु मालिनी //
24.35 SK नादिनी तु शिखान्तस्था नकाराक्षरसम्भवा मालिन्यास् तद्ग्रहो ह्य् एष शक्तित्रयम् अतः शृणु //
24.36 SK क्रिया च शुक्रसहिता बिन्दु-अर्धेन्दुसंयुता नादशक्तिशिखाक्रान्ता प्रथमं बीजम् उत्तमम् //
24.37 SK अम्बिका शूलदण्डस्था गुह्यशक्त्या त्व् अलङ्कृता बिन्दुयुक्तं द्वितीयं तु तृतीयं शृणु साम्प्रतम् //
24.38 SK वाक्तत्त्वं केवलं शुद्धं घोरघोषा तथापरा दक्षजङ्घासमायुक्ता दीपनी दक्षजानुगा //
24.39 SK अम्बिका दीपनीसंस्था गुह्यशक्तीच्छयान्विता अम्बिका च परारूढा इच्छायुक्तं पदं भवेत् //
24.40 SK अभिन्ना पावनी तद्वच् छूलदण्डं तथैव च महाकालीस्वरूपेण दशनं तु चतुर्थकम् १ //
24.41 SK गायत्र्या भेदितं कार्यं ज्ञानभिन्ना च दीपनी मोहन्या भेदितं प्राणं महाकाल्या समाहितम् //
24.42 SK षडक्षरं द्वितीयं तु पदं देव्याः समुद्धृतम् गायत्र्या भेदितं कृत्वा घोरघोषा महाबला //
24.43 SK दीपनीं केवलां दद्यात् प्रज्ञया शूलदण्डकम् ज्ञानभिन्नं तु हृदयं प्राणं जीवसमन्वितम् //
24.44 SK सावित्रीसहितं कार्यं पदं विद्यात् तृतीयकम् दक्षजङ्घासमायुक्ता घोरघोषा कुलेश्वरी //
24.45 SK दीपनी केवला चात्र नितम्बं मोहनान्वितम् कालिका जिह्वया युक्ता चतुर्थं चतुरक्षरम् //
24.46 SK भीषणानासमायुक्ता महाकाली तु केवला भीषणा गुह्यशक्तिस्था लम्बिका केवलाप्य् अतः //
24.47 SK नारायणी ज्ञानशक्त्या युक्ता स्यात् पञ्चमं पदम् वज्रिणी तु महाकाली द्विर् अभ्यासं तु कारयेत् //
24.48 SK पावनी मायया भिन्ना अभिन्ना शिखिवाहिनी द्विर् अभ्यासम् इदं कार्यं प्राणम् इच्छासमन्वितं //
24.49 SK षष्ठमं तु पदं देव्या उद्धृतं तु नवाक्षरम् अम्बिका ज्ञानभिन्ना वै दीपन्या च चतुष्टयम् //
24.50 SK भूषितं भूषणेनैव वामकर्णस्य सुव्रते दीपन्या केवला चैव चतुर्धा तु प्रकल्पयेत् //
24.51 SK नववर्णम् इदं देवि सप्तमं पदम् उद्धृतम् अम्बिका शूलदण्डस्था गुह्यशक्त्या विभूषिता //
24.52 SK पुनर् एव तथाप्य् एवं शूलदण्डासने स्थिता प्रज्ञायुक्ता तु कर्तव्या वामपादं ततः पुनः //
24.53 SK शूलदण्डासनासीनं ज्ञानदेव्या ह्य् अलङ्कृतम् प्राणं जीवसमायुक्तं शूलदण्डासने स्थितम् //
24.54 SK सावित्र्या सहितं कार्यं भूषितं भूषणेन तु वामकर्णस्य देवेशि क्रियादेव्या ततः पुनः //
24.55 SK बिन्दुयुक्तं तु कर्तव्यं पदं देव्यास् तु चाष्टमम् कुब्जे ते प्रीतिपूर्वेण कथितं तु विशेषतः //
24.56 SK फेत्कारादिनियोगेन नादिफान्तं तु मालिनी विद्यात्रयं तथाप्य् एवं [ऽ]घोर्याष्टकसमन्वितम् //
24.57 SK द्वादशाङ्गं तु सुश्रोणि विद्याङ्गाश् च नवात्मकम् नवात्मा-अङ्गसंयुक्तं मालिन्याङ्गसमन्वितम् //
24.58 SK निग्रहस् तु समाख्यातो विलोमेनोपदेशतः अथान्यं सम्प्रवक्ष्यामि अर्चनं विधिपूर्वकम् //
24.59 SK कौलिकेन विधानेन यथाशास्त्रविधानतः सुसमे भूप्रदेशे तु गोमयेनोपलेपिते //
24.60 SK योगपीठे ऽथवा रम्ये गन्धधूपसुवासिते पुष्पप्रकरसङ्कीर्णे सुगुप्ते जनवर्जिते //
24.61 SK तत्रार्चनं समारभ्य एकचित्तो दृढव्रतः शुक्लवस्त्रपरीधानः सुक्लयज्ञोपवीतिनः //
24.62 SK शुचिर् भूत्वा सुसन्नद्धः षोढान्यासेन कुब्जिके सबाह्याभ्यन्तरे ध्यात्वा एकचित्तो व्यवस्थितः //
24.63 SK ततः कर्म समारभ्य पूर्वोक्तेन विधानवित् कुङ्कुमाक्षतसम्मिश्रैस् त्रिरस्रं वर्तयेत् क्रमम् //
24.64 SK रक्तचन्दनचूर्णेन सिन्दूरेण-म्-अथाम्बिके हिङ्गुलेन तथा रक्ते लिख्याक्षरं यथोदितम् //
24.65 SK नादबिन्दुसमायुक्तं षट्प्रकारसमन्वितम् सर्वाकारसमोपेतं परमं दिव्यरूपिणम् //
24.66 SK तत्र पूजा प्रकर्तव्या शास्त्रोक्तेन विधानवित् आदौ पीठानि चत्वारि चत्वारः पीठदेवताः //
24.67 SK योगिनीपञ्चकं चैव डादियान्ताः क्रमेण तु पुनर् महान्तारिकाः पञ्च ज्ञानं षड्विधम् उच्यते //
24.68 SK स्रष्टारः सिद्धसद्भावाः सिद्धाश् चत्वार्य् अनुक्रमात् ॐकारपीठमध्यस्थं देव्याया सह विन्यसेत् //
24.69 SK दक्षिणे चैव जालाख्यं पूर्णपीठं तथोत्तरे कामरूपं ततो ऽग्रे तु देव्यासिद्धसमन्वितम् //
24.70 SK षट्प्रकारविधानेन कुलाष्टकम् अतः शृणु प्रयागे तु महाक्षेत्रे आ-क्षा-मङ्गलसंयुता //
24.71 SK वैरिञ्ची आदिना पूज्या पूर्वभागे व्यवस्थिता वाराणस्यां महाक्षेत्रे ई-ला-चर्चिकसंयुता //
24.72 SK माहेशी कादिना पूज्या आग्नेयीं दिशम् आश्रिता कोलागिर्ये महाक्षेत्रे ऊ-हा-योगीसमन्विता //
24.73 SK कौमारी चादिना पूज्या याम्यायां दिशि संस्थिता अट्टहासे महाक्षेत्रे ॠ-सा-सिद्धिहरान्विता //
24.74 SK टादिना वैष्णवी ह्य् एवं नैरृत्यकोणम् आश्रिता जयन्ती च महाक्षेत्रे ॡ-षा-भट्टसमन्विता //
24.75 SK वाराही तादिना ह्य् एवं वारुण्यां दिशि भूषिता चरित्रे च महाक्षेत्रे ऐ-शा-किलकिलान्विता //
24.76 SK ऐन्द्री पाद्येन सम्पूज्या वायव्यकोणके स्थिता एकाम्रके महाक्षेत्रे कालरात्र्या च औ-व-का //
24.77 SK चामुण्डा यादिना पूज्या कौबेरीदिशि संस्थिता देविकोट्टे महाक्षेत्रे अः-ह्ला-भीषणसंयुता //
24.78 SK लक्ष्मी शाद्येन सम्पूज्या ऐशान्यां दिशि भूषिता क्षवर्णे कुब्जिनीशानं मध्यसंस्थं प्रपूजयेत् //
24.79 SK डकारे डाकिनी पूज्या रकारे राक्षसी तथा लकारे लाकिनी ऽप्य् एवं ककारे कुसुमालिका //
24.80 SK शकारे शाकिनी विद्धि यकारे यक्षिणी मता भ्रामणी मध्यतः पूज्या दक्षषट्कं प्रकीर्तितम् //
24.81 SK उत्तरं सम्प्रवक्ष्यामि यथावद् अनुपूर्वशः गुह्याख्या च महाख्या च बलाख्या मणिचन्द्रिका //
24.82 SK मालिनी विद्यया सार्धं षट्कम् उत्तरसंज्ञकम् ऊर्ध्वतः सिद्धसन्तानं मित्रादौ गुरवावधिम् //
24.83 SK आधारीशस् तु ॐकारे कुरङ्गीशस् तु जालके चक्रीशः पूर्णगिर्यायां मथनं कामरूपके //
24.84 SK योगिन्यश् च युगाश् चैव क्रमशः सम्प्रपूजयेत् चण्डा घण्टा महानासा सुमुखी दुर्मुखी बला //
24.85 SK रेवती प्रथमा घोरा भौम्या भीमा महाबला जया च विजया चैव ऽजिता चैवापराजिता //
24.86 SK महोत्कटा विरूपाक्षी शुष्का चाकाशमातरा सेहारी जातहारी च दंष्ट्राली शुष्करेवती //
24.87 SK पिपीलिका पुष्पहारी अशनी शस्पहारिका भद्रकाली सुभद्रा च भद्रभीमा सुभद्रिका //
24.88 SK कादिवर्णैः प्रपूज्यैताः स्वरैः पीठाधिपास् तथा सिद्धक्रमम् इदं देवि सिद्धमात्ट्ः प्रपूजयेत् //
24.89 SK गोपनीयं प्रयत्नेन यदीच्छेच् छिरजीवितम् न देयं दुष्टबुद्धीनाम् इत्य् आज्ञा पारमेश्वरी //
24.90 SK पूजनीयं प्रयत्नेन नित् यम् एव न संशयः योगाचारसमो योगी मानसं सम्प्रपूजयेत् //
24.91 SK त्रिकालम् एककालं वा षोढान्यासप्रपूर्वकम् षट्प्रकारम् इदं देवि त्रिसन्ध्यं सम्प्रपूजयेत् //
24.92 SK स्वरैः षोडशभिर् देव्यः सिद्धाश् चैव प्रपूजयेत् //
24.93 SK पीठं पीठेश्वरीम् ईशं पीठाधिपसपालकम् नाथदेव्या समायुक्तं सिद्धदेव्यान्वितं यजेत् //
24.94 SK पञ्चमं पीठमध्यस्थं देवीचतुष्टयान्वितम् सिद्धैश् चतुर्भिः संयुक्तं पूजयेत् समनुक्रमात् //
24.95 SK षडङ्गभोगसंस्थानं पङ्क्ति रत्नं च पञ्चकम् गुह्यषट्कं तथा डादि स्थानषट्कम् अतः परम् //
24.96 SK योगिनीषट्कम् एतद् धि पञ्चकं च ततः पुनः क्षेत्राष्ट-म्-अष्टकं चैव अष्टकं च चतुष्टयम् //
24.97 SK षट्कम् अन्यत् ततो बाह्ये पूजनीयं प्रयत्नतः यो वेत्ति योग्यता तस्य अन्यथा नामधारकः //
24.98 SK षोढान्यासं ततः पश्चाद् वाचनीयं प्रयत्नतः स्वभ्रा चैव निरभ्रा च भूचरी खेचरी तथा //
24.99 SK गोचरी गणमुख्या च योगिन्यः षट् कुले स्थिताः सूक्ष्मा चैव सुसूक्ष्मा च अन्तिमामृत-म्-अन्तिमा //
24.100 SK कामरूपादितः कृत्वा योगिन्यः सिद्धसंयुताः कमला बर्बरा चैव महान्तारी तृतीयका //
24.101 SK लघ्विनी च चतुर्थी स्याद् बिम्बाख्या वृद्धपञ्चकम् रक्ताख्या च करालाख्या चण्डा उच्छुष्मसंज्ञिका //
24.102 SK खण्डिका पञ्चमी ज्ञेया पञ्च देव्या उदाहृताः मातङ्गी च पुलिन्दा च शबरी चम्पका तथा //
24.103 SK मध्यतः कुब्जनामा तु रत्नभूषणभूषिता विशुद्धानाहतं चैव तथा च मणिपूरकम् //
24.104 SK स्वाधिष्ठानं तथाधारं पञ्चरत्नं प्रपूजयेत् षोढान्यासस्य तत्त्वज्ञो अन्यथा च विलोमकृत् //
24.105 SK पूज्यपूजकदिग्भागे क्रमशुद्धिक्रमेण तु स च योग्यो ऽन्वयी शिष्यो अन्यथा नामधारकः //
24.106 SK गन्धैश् च विविधैः पुष्पैर् जवाबन्धूकपाटलैः करवीरकुब्जकुण्डैश् च जातीमल्लिकचम्पकैः //
24.107 SK सैवल्योत्पलयूथीभिः सिन्दूरैः किंशुकैस् तथा एभिश् च बहुभिश् चान्यैः सुगन्धैर् धूपगुग्गुलैः //
24.108 SK वामामृतादिभिर् द्रव्यैः कुण्डगोलोद्भवैस् तथा पञ्चामृतैस् तथा चान्यैर् अलिफल्गुसमन्वितैः //
24.109 SK महापिशितधूपैस् तु नालाजैर् दीपकैः सह एवं कुर्याद् विधानेन अर्चनं विधिपूर्वकम् //
24.110 SK महाशङ्खार्घपात्रेण अर्घं दत्त्वा यथाक्रमम् तस्यापि पूर्वतो देवि मण्डलानां चतुष्टयम् //
24.111 SK पीतपुष्पैः समभ्यर्च्य एकैकस्य क्रमेण तु पुनर् दक्षिणतो देवि चत्वारः कृष्णपुष्पकैः //
24.112 SK उत्तरे चैव चत्वारि रक्तपुष्पैः प्रपूजयेत् चत्वारः पश्चिमे देवि श्वेतपुष्पैः प्रपूजयेत् //
24.113 SK प्रणामः क्रियते पश्चाद् अष्टाङ्गं मानसेन तु स्तोत्रं पश्चात् प्रकुर्वीत तच् च देवि वदाम्य् अह् अम् //
24.114 SK नमो ऽस्तु ते महामाये सूक्ष्मदेहे परापरे एकाकिनि विशुद्धात्मे नादाख्ये बिन्दुमालिनि //
24.115 SK अदेहाच् च समुत्पन्ने अचले विश्वधारिणि महाकुण्डलिनी नित्ये हंसमध्ये व्यवस्थिते //
24.116 SK सोमसूर्याग्निमध्यस्थे व्योमव्यापी परापरे ॐकारविग्रहावस्थे हकारार्धार्धधारिणि //
24.117 SK वालाग्रशतधासूक्ष्मे अनन्ते चाक्षये ऽव्यये हकारार्धकलाधारे पद्मकिञ्जल्कम् आश्रिते //
24.118 SK सकलाख्ये महामाये वरदे लोकपूजिते एकैकनाडिमध्यस्थे मर्म-म्-एकैकभेदिनि //
24.119 SK अष्टत्रिंशत्कला देवि भेदिनि ब्रह्मरन्ध्रगे ब्रह्मा विष्णुश् च रुद्रश् च ईश्वरश् च सदासिवः //
24.120 SK एते पञ्च महाप्रेताः पादमूले व्यवस्थिताः त्रैलोक्यजननी देवि नमस् ते शक्तिरूपिणी //
24.121 SK इडापिङ्गलमध्यस्थे मृणालतन्तुरूपिणि बिन्दुमध्यगते देवि कुटिले चार्धचन्द्रिके //
24.122 SK तुषारकणिकाभासे द्वादशान्तावलम्बिनि उमाख्ये हृद्गते गौरि द्वादशादित्यवर्चसे //
24.123 SK शून्ये शून्यान्तरावस्थे हंसाख्ये प्राणधारिणि लम्बाख्ये परमे देवि दक्षिणोत्तरगामिनि //
24.124 SK नासाग्रे तु समुत्तीर्णे मध्यसूत्रप्रवाहिनि हृल्लेखे परमानन्दे तालुमूर्ध्नि व्यवस्थिते //
24.125 SK नादघण्टिकसङ्घृष्टे गुणाष्टकसमन्विते स्थूलसूक्ष्मे तु सङ्क्षुब्धे धर्माधर्मपुटद्वये //
24.126 SK कार्यकारणकर्तृत्वे त्रिशून्ये नादविग्रहे परापरपरे शुद्धे चैतन्ये शाश्वते ध्रुवे //
24.127 SK सर्ववर्णधरी देवि गुह्यतत्त्वेति विश्रुते अशरीरे महाभागे संसारार्णवतारिणि //
24.128 SK जया च विजया चैव जयन्ती चापराजिता- तुम्बुरुबीजमध्यस्थे नमस् ते पापमोचनि //
24.129 SK बन्धमोक्षकरी देवि षोडशान्ते व्यवस्थिते भ्रामणी शक्तिशूलेन महाव्यूहसमन्विते //
24.130 SK भ्रमणि भ्रामणी गौरि मायायन्त्रप्रवाहिनि स्वच्छन्दभैरवी देवि क्रोध-उन्मत्तभैरवि //
24.131 SK पञ्चाशद्वर्णरूपस्थे त्वया रुद्राः प्रकीर्तिताः अमृताख्ये रुरुश् चण्डे नमस् ते ज्ञानभैरवि //
24.132 SK दंष्ट्रोत्कटे विद्युज्जिह्वे तारकाक्षि भयानके नमामि देवदेवेशि अघोरे घोररूपिणि //
24.133 SK ज्वालामुखी वेगवती उमादेवि सरस्वति हंसस्वरोद्वहे देवि गोमुखि शक्तिमालिनि //
24.134 SK क्रोष्टुके सुभगे देवि दुर्गे कात्यायनी तथा नित्यक्लिन्नासमाख्याते रक्ते एकाक्षरे परे //
24.135 SK ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा वाराही चैव माहेन्द्री चामुण्डा त्व् अभयानना //
24.136 SK योगेशी त्वं हि देवेशि कुलाष्टकविभूषिते ऐन्द्री चैव तु आग्नेयी याम्या नैरृत्यवारुणी //
24.137 SK वायव्या चैव कौबेरी ईशानी समुदाहृता प्रयागा वरुणा कोल्ला अट्टहासा जयन्तिका //
24.138 SK चरित्रेकाम्रके चैव देविकोट्टं तु चाष्टधा तथा काली उमा देवी देवदूति नमो ऽस्तु ते //
24.139 SK भद्रकालि महादेवि चर्ममुण्डे भयावहे महोच्छुष्मे महाशान्ते नमस् ते शक्तिरूपिणि //
24.140 SK भूर् भुवः स्वेति स्वाहान्ते दयां नाथे कुरुष्व मे ज्ञानार्थिनो महामाये एतद् इच्छामि वेदितुम् //
24.141 SK यस् त्व् इदं पठते स्तोत्रं त्रिसन्ध्यं चैव मानवः प्राप्नोति चिन्तितान् कामान् स्त्रीणां भवति वल्लभः //
2758 SK इति शिवशक्तिसमरसमहामायास्तवः समाप्तः
24.142 SK कुलजानां महेशान पवित्रारोहणं कथम् कस्मिन् काले कथं कार्यं किमर्थं वद मे प्रभो //
24.143 SK पुरा देवासुरैर् देवि क्षीरोदो मथितो यदा तत्र नेत्रो महाभागे कश्यपस्य सुतो बली //
24.144 SK मन्थाने योजितो भद्रे विषनिद्राविमूर्छितः न शक्नोति तलस्यान्ते वर्षासु वसितुं यदा //
24.145 SK तेनाहं राधितो देवि पवित्रेण महात्मना दिव्यं वर्षसहस्रं तु वायुभक्षो महाबलः //
24.146 SK तुष्टो ऽहं तस्य देवेशि किं कर्तव्यं पुरोदितम् ततो ऽसौ दण्डवद् भूमौ मम पादाग्रतः स्थितः //
24.147 SK प्रावृट्काले न शक्नोमि तलान्ते वसितुं हर ततः सो ऽपि मया देवि कराभ्यां गृह्य भूतलात् //
24.148 SK शिरसा धारितो देवि जटाजूटे वरानने ततः सर्वैस् तु देवेशि शिरसा धारितः शुचिः //
24.149 SK दशकोटिस् तु पूजानां पवित्रारोहणे समा वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनम् एव च //
24.150 SK हरते नागराजस् तु विना देवि पवित्रकात् वृथा परिश्रमस् तस्य यो न कुर्यात् पवित्रकम् //
24.151 SK तस्मात् सर्वप्रयत्नेन कर्तव्यं कुलजैः प्रिये आषाढे शुक्लपक्षे तु मिथुनस्थे दिवाकरे //
24.152 SK तदालाभे प्रकर्तव्यं कर्कटस्थे दिवाकरे अविरोधेन कर्तव्यं यावत् स्यात् तुलपूर्णिमा //
24.153 SK सौवर्णं तु कृतं सूत्रं सूक्ष्मं तु त्रिगुणीकृतम् तत्र तन्तुशतं प्रोक्तं ग्रन्थिपादं गुरोर् मतम् //
24.154 SK पूज्यस्य द्व्यधिकं कार्यं प्रतिपूज्ये चतुराधिकम् सप्ताधिकं शिवस्योक्तं योगेशीनां षडुत्तरम् //
24.155 SK विद्यापीठस्य सर्वस्य कुर्यात् तच् च षडुत्तरम् पादुकानां प्रकर्तव्यं शतम् अष्टाधिकं प्रिये //
24.156 SK अष्टत्रिंशच् च ग्रन्थ्यो वै पञ्चाशद् वा विकल्पना अष्टाधिकं गुरोर् उक्तं वटुकस्य तथा भवेत् //
24.157 SK अथवा राजतं सूत्रम् अभावाद् वस्त्रजं भवेत् शुक्लसूत्रं समादाय त्रिगुणं त्रिगुणीकृतम् //
24.158 SK तेन तन्तुशतं कुर्याद् अष्टाधिकं महातपे श्रीकण्ठादि चतुर्विंशैर् अजेशाद्यैस् तु षोडश //
24.159 SK अष्टाभिश् च महाकालैर् विद्यामाता चतुष्टयम् षट्तन्तु डादिषट्कस्य कुलाष्टे चाष्टतन्तुकम् //
24.160 SK ग्रन्थयश् च यथाशोभा यथाशक्त्या पवित्रकम् गोरोचना प्रकर्तव्या अथवा कुङ्कुमेन तु //
24.161 SK एवं निष्पादयित्वा तु यागं कृत्वा वरानने दातव्यं भक्तियुक्तेन पूजान्ते तु पवित्रकम् //
24.162 SK गीतं नृत्यं प्रकर्तव्यं स एवात्र वरानने हिन्दोलं वाथ कर्तव्यं मन्दतारयुतेन तु //
24.163 SK प्राप्ताः समयिनो ये तु ते पूज्यास् तु प्रयत्नतः तत् सर्वं तु प्रकर्तव्यं चातुर्मास्यं वरानने //
24.164 SK सप्तवासरम् एवं तु त्रीणि वा एकम् एव वा वीरक्रीडाकृते देवि सम्पन्नं भवते प्रिये //
24.165 SK तत् पवित्रं वरारोहे कृत्वा चैव क्षमापयेत् बहुयज्ञफलं देवि बहुतीर्थफलं तथा //
24.166 SK दानधर्मस्य देवेशि कलां नार्घन्ति षोडशीम् पवित्रं परमं पुण्यं सर्वदोषविवर्जितम् //
24.167 SK तेन कार्यम् इदं देवि कुलजैस् तु वरानने लङ्घनं समयानां तु कर्म विधिविनाकृतम् //
24.168 SK ते दोषा नाशम् आयान्ति पवित्रेण वरानने वर्षे वर्षे प्रकर्तव्यं यथाविभवविस्तरात् //
24.169 SK काशैः कुशैः प्रकर्तव्यं भक्तियुक्तेन भैरवि वित्तशाठ्यं न कर्तव्यम् इहैव तु कुलागमे //
24.170 SK शाठ्येन यत् कृतं कर्म न तत् सिद्धिपदं भवेत् एवं ज्ञात्वा वरारोहे वित्तशाठ्यं न कारयेत् //
24.171 SK तद्ग्रहश् च तथा पूजा पवित्रारोहणं परम् एतत् सर्वं समाख्यातं किम् अन्यत् परिपृच्छसि //
2789 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते तद्ग्रहपूजापवित्रारोहणं नम चतुर्विंशतिमः पटलः
KubjT_25.0* SK मण्डलानां विधानं तु प्रसादं कुरु भैरव येन जानाम्य् अहं देव कथयस्व विधानतः //
KubjT_25.0* SK सारं मण्डलम् आख्यातं फलं सारं परापरम् लाति यस्माद् यमातीतं मण्डलं तेन कीर्तितम् //
KubjT_25.0* SK मकारे मातरः सर्वा डकारे डामरीगणम् लकारे लाकिनीवर्गं मण्डलं तेन चोच्यते //
KubjT_25.0* SK मकारे नित् यम् आत्मानं डकारे खेचरीगणम् लकारे भूचरीवर्गो मण्डलं तेन कीर्तितम् //
KubjT_25.0* SK मकारे ऽ नाम यो देवो डकारे शक्तिर् इष्यते लकारे षड्विधा सृष्टिर् मण्डलं तेन कीर्तितम् //
KubjT_25.0* SK मकारं शिवतत्त्वं च विद्यातत्त्वं डकारगम् लकारम् आत्मतत्त्वं तु कीर्तितं तेन मण्डलम् //
KubjT_25.0* SK मकारे तु शिवं विद्याद् डकारे परमेश्वरी लकारे सप्तकोट्यस् तु मन्त्राणां परिकीर्तितम् //
KubjT_25.0* SK मकारे कारणाः पञ्च डकारे तु परापरा लकारे अपराः पञ्च तेन मण्डल कीर्तितम् //
KubjT_25.0* SK ब्रह्मा विष्णुश् च रुद्रश् च ईश्वरश् च सदाशिवः उच्यते मण्डलेनैते तेन मण्डलम् उच्यते //
KubjT_25.0* SK सर्वे ग्रहाश् च दिक्पाला नागा वै भैरवादयः तिष्ठन्ति मण्डले लीनाः सर्वाधिक्यम् अतो पुनः //
KubjT_25.0* SK अनन्ताद्याः शिवान्ताध्वा षड्विधः सम्प्रकीर्तितः आस्ते मण्डलके सो हि मण्डलं व्यापकं ततः //
KubjT_25.0* SK सर्वव्यापितया नान्यो मण्डलाभ्यधिको यतः तेन मण्डलम् अभ्यर्च्य[ं] भुक्तिमुक्तिफलार्थिभिः //
KubjT_25.0* SK इतीष्टं मण्डलाध्यायं निर्दिष्टं कुब्जिकामते कुर्यात् प्रदक्षिणं देवि अपसव्ये विसर्जनम् //
KubjT_25.0* SK श्रीमतस्याग्रतो देवि तद् एवं गुरुसन्निधौ सुप्रसिद्धां ततो ज्येष्ठां सुपरीक्ष्य प्रयत्नतः //
KubjT_25.0* SK सप्ताविंशतिभिर् भेदैः प्रश्नम् एतत् क्रमागतम् षट्प्रकारत्रयश् चाज्ञा येषां तीव्रावलोकनम् //
KubjT_25.0* SK सुभक्ता वत्सलाः शान्ता दम्भमायाविवर्जिताः तेषां मण्डलकं कुर्याद् अन्यथा तु विलोमकृत् //
KubjT_25.0* SK तस्य पूजाक्रमश् चायं जानुना भूमिसंस्थितः विधाय मार्जनी शुद्धे प्रोक्षिते चैव भूतले //
KubjT_25.0* SK दक्षहस्ततलं भ्राम्यं मण्डलं वारिनिर्मितम् सुपुष्पप्रकरैर् युक्तं विलिप्य चन्दनादिभिः //
KubjT_25.0* SK त्रिधा तद् यागविधिना दत्त्वार्घं द्रव्यसंयुतम् शिष्यो ऽस्य गन्धधूपाद्यैः पूजां कृत्वा पुरात्मनः //
KubjT_25.0* SK सद्विधानसमायुक्तं तद् अभ्यर्च्य समन्ततः गुरुपादाम्भुजौ भक्त्या स्तुत्वा स्तोत्रादिभिः क्रमात् //
KubjT_25.0* SK पश्चात् त्रिःशुद्धया भक्त्या प्रणम्य तदनुज्ञया उत्थाय शिरसा धार्यं भुक्तिमुक्तिफलार्थिना //
KubjT_25.0* SK गुरुपादस्थपुष्पं तु कार्यं शिस्येण सादरात् नीराजनं सुभक्त्याथ शुभवस्तुनिवेदनम् //
KubjT_25.0* SK दूरात् करोति पर्यायात् पार्श्वस्थो हि च पर्वसु स्वामिनं प्रणमेद् भक्त्या इत्य् आज्ञा पारमेश्वरी //
KubjT_25.0* SK पुष्पाघ्राय विसर्ज्येत नीत्वा नासम् अपुष्पता विधानं मण्डलस्योक्तं स्वामिपूजाविधिक्रमः //
KubjT_25.0* SK क्रमं कुर्याद् इदं भक्त्या यः शिष्यः कुब्जिकामते स्वामिपादप्रसादेन दिव्याज्ञां लभते पुनः //
KubjT_25.0* SK एतन् मण्डलम् आख्यातं यथार्थं तु मया तव इदानीं ब्रूहि देवेशि किम् अन्यं कथयामि ते //
25.1 SK पञ्चात्मानः कथं देव संस्थितः कतमः शिवः किन्नियोगरता देव किम्प्रमाणं व्यवस्थिताः //
25.2 SK अत्यन्तनिपुनं देवि पृच्छसे गुणविस्तरम् सविस्मयकरं भद्रे कथयाम्य् अनुपूर्वशः //
25.3 SK परः परापरः सिद्धः प्रसिद्धः पुद्गलात्मकः स्थाननिर्देशतो वक्ष्ये शृणु त्वं वरवर्णिनि //
25.4 SK शतकोटिप्रमाणेन परो ह्य् आत्मा व्यवस्थितः षण्नवत्येव कोटीनां विज्ञेयस् तु परापरः //
25.5 SK चतुराशीतिप्रमाणेन सिद्धो ह्य् आत्मा व्यवस्थितः षट्त्रिंशत्कोटिमध्यस्थः प्रसिद्धः कारणेश्वरः //
25.6 SK चत्वारिंशाष्टमानेन संस्थितः पुद्गलात्मकः लडहैव स विज्ञेयः परापरविभागशः //
25.7 SK प्रसिद्धकन्धरारूढः सिद्धसारथिनाहतः स याति नीयते यत्र परापरनिरीक्षणात् //
25.8 SK परमाणुसमादिष्टः कर्मवृत्तौ नियामितः वामादिपथमार्गेण प्रकृत्यर्थभरालसः //
25.9 SK प्रकृत्याक्रान्तशकटो भज्यते म्रियते गवि रोदते सारथिस् तत्र पश्यते तु परापरः //
25.10 SK वामादिपथम् आरूढो नद्याम्भोधिसरित्सरैः याति मद् ह्येन तेषां वै पस्यते वर्षणादिकम् //
25.11 SK यानक्रीडां च पश्येत कफाक्रान्तभरो यदि पुद्गलात्मा व्रजेत् तत्र सिद्धसारथिनेरितः //
25.12 SK पित्तद्रव्यभराक्रान्तो ज्येष्ठापथि नियोजितः ज्वालावलीढमध्ये तु ज्वलन्तैकपुरे ऽपि वा //
25.13 SK क्षुत्पिपासाभिभूतस् तु चौरा गृह्णन्ति तत्पथे कोपसङ्ग्रामसंरम्भं स्त्रियालिङ्गनचुम्बनम् //
25.14 SK राज्योपद्रवम् एतद् धि परदारसमाकुलम् सारथिस् तु भवेत् तत्र वध्यते मार्यते तु सः //
25.15 SK परापरो रुदत्य् आशु परः पश्यति तत्र वै यात्य् अनेकविधोपायैः ज्येष्ठापथसमाश्रितः //
25.16 SK कफपित्तभराक्रान्तो वाताक्रान्तो यथा पुनः पथि रौद्रे नियुक्तो ऽयं यात्य् असौ खेचरामुखः //
25.17 SK स्वर्गपाताललोकान्तं पिशाचभुवनानि च विद्याधरपुरं पश्येत् पुष्पितं वनकाननम् //
25.18 SK योगिनीचक्रमेलापं नृत्यगीतरवाकुलम् राज्याभिषेकम् आपन्नं छत्त्रोत्क्षेपितचामरम् //
25.19 SK वातपित्तभराक्रान्तः पुद्गलात्मा पथि स्थितः पश्यते सारथिः सर्वं भुञ्जते तु परापरः //
25.20 SK अथ वातभराक्रान्तो याति नीयति दूरतः सन्त्रासितस् तु रविना विषमः समपर्वतम् //
25.21 SK खञ्जमानो ऽप्य् असौ यत्नाद् भज्यते म्रियते तु सः अथ वातकफाक्रान्तः परसारथिनेरितः //
25.22 SK सर्पव्याघ्रवृकाकीर्णं मार्गं पश्यति सर्वथा खाद्यते चाप्य् असौ सर्पैर् म्रियते नीयते ऽपि वा //
25.23 SK एवं पुद्गल-आत्मा वै प्रसिद्धस्कन्धम् आश्रितः सिद्धसारथिना युक्तः परापरवशानुगः //
25.24 SK प्रेरितो ऽसौ परात्माना क्रीडते स चराचरम् कथितं सरहस्यं तु परात्मानिर्णयं स्फुटम् //
25.25 SK यन् न कस्यचिद् आख्यातं भ्रान्तिरूपं जगस्य च श्रीमतं ये न विन्दन्ति भ्रान्तिस् तेषां पदे पदे //
25.26 SK पराकाशे परो ह्य् आत्मा मन्त्राकाशे परापरः शक्त्याकाशे सुसिद्धस् तु पदभावे प्रसिद्धधीः //
25.27 SK भूताकाशपथे संस्थः पुद्गलात्मा नकिञ्चनः पञ्चैते शम्भुनादिष्टाः शम्भुः सर्वत्र समरसः //
25.28 SK षष्ठनाथः परः साक्षात् सर्वज्ञः स परापरः अलक्षणम् असंज्ञो ऽसौ प्रसादाच् छम्भुवस् तु सः //
25.29 SK अनुज्ञातो ऽभिषिक्तस् तु वीरो वीरत्वम् इच्छता चरेद् विद्याव्रतं मन्त्री यथा तत् कथयस्व मे //
25.30 SK शृणु देवि प्रवक्ष्यामि विद्याया व्रतम् उत्तमम् जटी मुण्डी शिखी भस्मी ब्रह्मचारी तु स्नातकः ल्ल् //
25.31 SK व्रतस्थो ऽप्य् अव्रतस्थो वा सर्वावस्थो ऽथ सिद्धिदः पञ्चमुद्राधरो वापि भस्मनिष्ठो दिगम्बरः //
25.32 SK चीरवल्कलधारी वा सर्वाभरणभूषितः मलीमसो ऽथ शुक्लो वा वस्त्राभरणभूषितः //
25.33 SK येन येन हि वेषेण वर्तते साधकोत्तमः तत् तद् एव व्रतं प्रोक्तम् इति शास्त्रस्य निश्चयः //
25.34 SK यद् यद् आभरणं तस्य यं वा वदति वाचया सा चर्या कथिता तस्य मन्त्राश् चैव न संशयः //
25.35 SK विद्या नाम परा शक्तिर् द्विभिर् भेदैर् व्यवस्थिता चिच्छक्तिरहिताधिष्ठा अवर्णा वर्णगा शुभा //
25.36 SK विन्दते वर्णगा येन तेन विद्याव्रतं प्रिये चीर्णचर्या जगत् सर्वं वर्णावर्णैर् व्यवस्थितम् //
25.37 SK व्रतं भावम् इति प्रोक्तं तेन विद्याव्रतं स्मृतम् चिच् चिनोति विद ज्ञाने चिच्छक्तिप्रतिबोधकम् //
25.38 SK अवर्णं रक्तवत् पिण्डं विद्यामन्त्रात्मविग्रहम् पश्यन्ति च व्रतासक्ताश् चीर्णविद्या स उच्यते //
25.39 SK सप्तकोटिसहस्राणां विद्यानाम् अप्रमेयतः चिच्छक्तिबोधनं यस्माद् अवर्णा वर्णतां गता //
25.40 SK एका एव परा प्रोक्ता विद्यारूपा तु कुण्डली तेन देवि व्रतं प्रोक्तं विद्यायावरणं शुभम् //
25.41 SK विद्यामार्गे चरेद् यस् तु शास्त्रदृष्टेन कर्मणा ध्यानं पूजा जपो होमः समयानां प्रपालनम् //
25.42 SK एतद् विद्याव्रतं प्रोक्तं नान्यथा वीरनायिके विद्या ज्ञेया तु योनिस्था चरते द्वादशान्तगम् //
25.43 SK व्रतस्थानेषु सर्वेषु तेन विद्याव्रतं प्रिये ब्रह्मा विष्णुस् तथा रुद्र ईश्वरस् तु सदाशिवः //
25.44 SK एते स्थाना व्रतस्यैव यत्र सा चरते परा तं ज्ञात्वा परमं स्थानं चीर्णविद्याव्रतो हि सः //
25.45 SK पञ्चमुद्रा भवेद् देवि पञ्चकारणकं ततः भूषितो हृदि तिष्ठेत पञ्चमुद्राव्यवस्थितः //
25.46 SK एतैस् तु भूषितो मन्त्री पर्यटेत् क्षेत्रम् आश्रितः श्मशाने कानने कूपे उद्याने देवकुले ऽपि वा //
25.47 SK शून्ये राजगृहे मन्त्री पर्वताग्रे चतुष्पथे त्रिपथग्रामरथ्यासु महोदधितटे तथा //
25.48 SK नदीसङ्गमतीरे वा एकवृक्षे ऽथ कानने एकलिङ्गे तथा षण्डे क्षेत्रैर् वा अष्टभिः क्रमात् //
25.49 SK प्रयागा वरुणा कोला भीमनादा जयन्तिका चरित्रेकाम्रकं चैव कोटीवर्षं तथाष्टमम् //
25.50 SK एतैस् तु पर्यटेन् मन्त्री योगिनीसिद्धिम् इच्छता खट्वाङ्गधारिणो मौनी वेगात् पर्यटते सदा //
25.51 SK डमरुं पाशखट्वाङ्गं त्रिशूलं खेटकं तथा नाराचा कर्तरी चक्रम् अङ्कुशं मुशलं धनुः //
25.52 SK गदा कट्टारिका शक्तिस् तथा दण्डकमण्डलुम् एते तु आयुधाः श्रेष्ठाश् चर्याकाले तु धारयेत् //
25.53 SK पञ्चदैवसिकं कार्यम् अस्त्रसम्ख्या व्रतोत्तमा द्वादसाहं चरेन् मन्त्री पक्षमासादितो ऽथवा //
25.54 SK षण्मासम् अथवाब्दं च द्विरब्दं त्रीणि-म्-एव वा चतुः पञ्च तथा षट्सु सप्त अष्ट तथापि वा //
25.55 SK नव द्विपञ्चकं वाथ एकादश-म्-अथापि वा द्वादशाब्दं चरेन् मन्त्री ब्रह्मघ्नो ऽपि स सिध्यति //
25.56 SK अब्द-म्-एकेन देवेशि मण्डलीकैः प्रपूज्यते देशं भृत्या[ः] पुरं ग्रामं समन्त्री सपुरोगमः //
25.57 SK सान्तःपुरवरो राजा वश्यो भवति शोभने द्विरब्दैर् यक्षकन्याश् च सिध्यन्ति सुरनायिके //
25.58 SK त्रिरब्दात् सप्तपाताला यास् तु दैत्याङ्गनाः शुभाः पश्यते मदमत्तास् तु मदविभ्रान्तलोचनाः //
25.59 SK मातङ्गमदगामिन्यो अक्षया यौवनोद्वहाः क्षुभ्यन्ति साधकेन्द्रस्य प्राणान् मुञ्चन्ति तत्क्षणात् //
25.60 SK चतुः पञ्च तथा षट्सु ब्रह्मलोकादि साधयेत् सप्तमे ऽब्दे वरारोहे रुद्रान्ता या व्यवस्थिताः //
25.61 SK सिध्यन्ति साधकेन्द्रस्य इति शास्त्रे प्रचोदिताः अष्टमे ईश्वराख्यं तु नवमे तु सदाशिवम् //
25.62 SK दशमे विद्यालयो भूत्वा क्रीडते गगने महान् दशमैकादशे देवि द्वादशैर् गुणसंयुतः //
25.63 SK अणिमादिगुणैर् युक्तो गच्छते खेचरैः सह अक्षयो ह्य् अजयो योगी क्रीडते सर्वगः शुभः //
25.64 SK व्रतस्थस्य फलं ह्य् एतत् कथितं तु मया प्रिये साम्प्रतं योगमार्गेण यथा भवति तच् छृणु //
25.65 SK श्मशानं तु गृहं प्रोक्तं गृहो देहः प्रकीर्तितः अटते तु अविश्रान्तः श्मशानगतचेतसः //
25.66 SK कं शरीरम् इति प्रोक्तं तस्यान्ते नयते भृशम् पश्यते मन्त्रसंस्थो ऽपि वाङ्मयं सचराचरम् //
25.67 SK काननं तेन चाख्यातं कायान्ते संस्थितं प्रिये मनः कूपं समुद्दिष्टं सङ्कल्पं कुरुते बहून् //
25.68 SK तत्राधारो व्रजेत् क्षेत्री तेन कूपेति विश्रुतः उद्यतो मन नाभिस्थो मध्यतः सर्वजन्तुषु //
25.69 SK नेति तत् परमं प्राप्तं उद्यानस् तेन उच्यते ददाति सततं देहे अमृतं तु नभोगतम् //
25.70 SK कुलान्ते च चरेद् येन धर्माधर्मात्मबन्धनैः तेन देवि समाख्यातं देही देवकुलं सदा //
25.71 SK राजा चात्मा समुद्दिष्टः षट्त्रिंशे ऽप्य् अथवाध्वनि शब्दादिगुणभूयिष्ठो मनःकोष्ठगतः प्रभुः //
25.72 SK तेन स्थितेन तिष्ठन्ति तेनैव सह गच्छति उन्मनत्वे सदा युक्तः शून्यो मन-म्-उदाहृतः //
25.73 SK शून्यं राजगृहं तेन उन्मनत्वे सदा प्रिये पर्वतं गुरुवक्त्रं तु तस्याग्रम् अवलम्बयेत् //
25.74 SK पर्वताग्रं स्मृतं तेन पर्यायेन सुरार्चिते चतुष्पथं भवेद् देवि वामा ज्येष्ठा च रौद्रिका //
25.75 SK अम्बिकाया समायुक्तम् अटनं पुद्गलात्मकम् चतुष्कं तेन चाख्यातं पथम् एतद् उदाहृतम् //
25.76 SK पथं नाडीत्रयं प्रोक्तम् इडाद्या तु कुलेश्वरि त्रिपथस्थो-र्-अटेन् नित्यं कुरुते गति-र्-आगतिम् //
25.77 SK त्रिपथस्थैकभावस्थो यः करोति स सिध्यति ग्रामं देहम् इति प्रोक्तम् आत्मा देहम् इति स्मृतः //
25.78 SK आलयः सर्वसत्त्वानां सुखदुःखपरापरः गच्छते अध ऊर्ध्वं तु रथ्याधारो जगत्पतिः //
25.79 SK तेन रथ्या स्मृता नाडी ब्रह्माद्या आत्मनश् च तु तटं तीरं समाख्यातं सिन्धूच्चारं निगद्यते //
25.80 SK दुःखान्ते तु लयातीतं तटम् उदधिसंज्ञकम् वाचान्ते व्यापिनं देवं शिवं परमकारणम् //
25.81 SK तिष्ठते सततं मन्त्री तत्र चर्या प्रकाशिता नदते चान्तराधारा परा कुण्डलिनी तु या //
25.82 SK सा नदी ओघभूता तु व्योमार्णे वहते सदा सङ्गमं परया युक्तम् उन्मनायाः प्रकीर्तितम् //
25.83 SK सङ्गमं तेन चाख्यातं नदी तु समुदाहृता तीरं तु समवायिन्या विभ्वीया सा परा कला //
25.84 SK तदातीतो भवेद् व्यापी नद्यास् तीरम् उदाहृतम् एकवृक्षं समाख्यातम् एका शक्तिर् इहोच्यते //
25.85 SK वृक्षम् इन्द्रियम् आख्यातं वृक्षं शक्तिर् इति स्मृता क्षयं गता परे व्योम्नि अमनस्के निरामये //
25.86 SK तेन देवि मया प्रोक्तम् एकवृक्षस् तु चर्यया एकम् एव परं तत्त्वं लिङ्गाधारं विभुं प्रिये //
25.87 SK पर्यटे[त्] तु दिवा रात्रौ अविश्रान्तः पुनः पुनः एकलिङ्गं समाख्यातं षण्डं तु कथयामि ते //
25.88 SK हृदयं तु सरः प्रोक्तं पद्मं वै अष्टपत्त्रकम् उदानेन तु देवेशि विकाशे तु रविस् तु सः //
25.89 SK सेव्यते पुद्गलालीनं सरोजं हृदयात्मकम् रमते तत्र हंसाख्यः शक्तिर् आद्या मनोन्मनी //
25.90 SK तं षण्डं कथितं शास्त्रे क्षेत्राणि कथयामि ते क्षेत्रं नाम परं शान्तं शरीरं तत्त्वसंयुतम् //
25.91 SK क्षेत्रज्ञो अटते नित्यं स्थानाष्टकगतिस्थितः तेनेदं कथितं देवि क्षेत्राष्टकम् उदाहृतम् //
25.92 SK ये पीठास् ते भवेत् क्षेत्राः क्षेत्राः पीठा उदाहृताः नामपर्यायसंज्ञा तु शास्त्रे शास्त्रे पृथक् पृथक् //
25.93 SK प्रयागं नाभिसंस्थं तु वरुणा हृत्प्रदेशतः कोलागिर्यं तु कण्ठस्थं भीमनादं च तालुके //
25.94 SK बिन्दुस्थाने जयन्त्याख्यं नादाख्ये तु चरित्रकम् एकाम्रं शक्तिमध्ये तु ज्ञातव्यं विदितात्मकैः //
25.95 SK गुरुवक्त्रगतं प्रोक्तं कोटीवर्षं तु चाष्टमम् एते स्थाना मया प्रोक्ता अध्यात्मं पुद्गलाश्रिताः //
25.96 SK अटते सततं येन हृच्चक्रस्थः सनातनः यावद् एवं न विन्देच् च पीठम् अध्यात्मिकं प्रिये //
25.97 SK तावत् तस्य कुतः सिद्धिर् अटतो ऽपि जगत्त्रयम् बहिरन्तरभावं तु अन्तरम्बहिरङ्गयोः //
25.98 SK लोकप्रवृत्तिहेत्वर्थे बहिःपीठाः प्रकीर्तिताः अन्तरङ्गं यदा शुद्धं पश्यते मनसा प्रिये //
25.99 SK तदा पश्यति बाह्ये तु सूक्ष्मरूपा गभस्तयः मेलकं च प्रयच्छन्ति चरुं वा पाशवीं विधिम् //
25.100 SK सम्प्रदायं प्रयच्छन्ति स्थानं वा कथयन्त्य् अपि अशुद्धेन तु भावेन पर्यटेत् पृथिवीं यदि //
25.101 SK न तस्य दर्शनं देवि ददते मनसा क्वचित् पश्यन्न् अपि च देवेशि पश्यन्तो ऽपि न पश्यति //
25.102 SK सङ्कीर्णलक्षणा देव्यो मिश्रा ज्ञातुं न शक्यते प्रभावो ऽस्याः समुद्दिष्टो विना तासाम् अनुग्रहात् //
25.103 SK ग्रामे ग्रामे तथारण्ये नगरे चत्वरे पुरे खेटके चैव सन्दोहे पीठक्षेत्रे वने तथा //
25.104 SK उद्यानोपवने चैव पूर्वम् उक्ते तथैव च देशे देशे ऽभिजायन्ते ज्ञानरूपा गभस्तयः //
25.105 SK पार्थिवाचरणे प्रोक्ता आपे तेजे तथानिले आकाशे चैव सुश्रोणि तासां सङ्ख्या न विद्यते //
25.106 SK पीठाश्रयविभागेन उत्पद्यन्ते ह्य् अनेकधा खानपानरता नित्यं क्रीडन्ते चान्त्यजेष्व् अपि //
25.107 SK तेन देवि मया प्रोक्ताः पीठा बाह्यस्वरूपतः वेश्यागृहं प्रयागाख्यं वरुणा सौण्डिकी विदुः //
25.108 SK कैवर्तिकी भवेत् कोल्ला अट्टहासं तु खट्टकी जयन्ती कन्दुकी विद्याच् चरित्रं रजकीगृहम् //
25.109 SK एकाम्रकं भवेच् छिप्पी कोटाख्येति च कौषटी पुरस्थितानि क्षेत्राणि ज्ञानात्मा लक्षयेत् तु ता[ः] //
25.110 SK बाह्यतः कथितो भेदो गृहस्थं शृणु साम्प्रतम् प्रयागं मध्यदेशे तु वरुणा द्वारम् आस्रिता //
25.111 SK कोलापुरं तु कञ्जिन्यां चुल्ली चैवाट्टहासकम् चरित्रं पेषणी ज्ञेया एकाम्रं कण्डनी स्मृता //
25.112 SK देविकोट्टं घरट्टं च उपक्षेत्राण्य् अतः सृणु वर्धमानी-म्-उपालम्भी देहल्या मुषलं तथा //
25.113 SK खट्वा शूर्पघरट्टं च वर्धमान्यादितः क्रमात् पादेनैतान् न संस्पृश्य यद् इच्छेच् छ्रियम् आत्मनः //
25.114 SK मार्जनीशूर्पवातं वा दूरतः परिवर्जयेत् वाताविष्टाः प्रविश्यन्ति छिद्रं मत्वा तु साधके //
25.115 SK विघ्नानि सिद्धयोगिन्यः श्रेयं गृह्णन्त्य् अतो ऽर्थतः कणिका शिरवाख्यं तु कालिकालालयं शिवम् //
25.116 SK कालञ्जरं महाकालं क्षेत्रसंस्थानम् आश्रितः पीठोपपीठसन्दोहं पुरस्थं गृहदेहगम् //
25.117 SK ज्ञातव्यं चुम्बकेनैव भुक्तिमुक्तिफलप्रदम् बाह्यतः कथिता ह्य् एवं पीठाः क्षेत्रास् तु सुव्रते //
25.118 SK पर्यटेद् एषु स्थानेषु पूजनीयाः सदा बुधैः भक्ष्यभोज्यान्नपानैश् च तर्पयेन् मन्त्रवित् सदा //
25.119 SK एतेषां संस्थितिस् तेषां योगिनाम् अप्रमेयता भवन्तीह न सन्देहो वरदाः साधकस्य तु //
25.120 SK तर्पिताः पूजिता देव्यः साधकस्य ददन्ति हि षण्मासाद् युक्तमार्गस्य समयव्रतपालके //
25.121 SK मन्तव्यं साधकेन्द्रेण तोषयित्वा गुरुं प्रिये अथान्यं सम्प्रवक्ष्यामि परिभाषास्त्रवादिनाम् //
25.122 SK अध्यात्मिकं बहिश् चैव यथा ज्ञायन्ति तत्त्वतः तथा ते कथयिष्यामि शृणुष्वायतलोचने //
25.123 SK अध्यात्मं कुरुते बाह्यं व्रतचर्या तु साधनम् एवं कृते भवेत् सिद्धिः सत्यं सत्यं न संशयः //
25.124 SK खट्वाङ्गं कथयिष्यामि खगतीकरणं परम् आपादतलमूर्ध्नान्तं यथा भवति तच् छृणु //
25.125 SK शिरादौ सर्व-म्-अङ्गेषु अङ्गप्रत्यङ्गकेष्वपि खट्वायते तु सुश्रोणि खट्वाङ्गी तेन उच्यते //
25.126 SK मौनेन वर्तयेन् नित्यं हृदि गूढं परापरम् तेन मौनीति विज्ञेयः सर्वभावेषु भाविनि //
25.127 SK वेगेन पर्यटेद् देहे अविश्रान्तः पुनः पुनः तेन वेगान् मयाख्यातम् अटनं पुद्गलस्य तु //
25.128 SK डमरुकं प्रवक्ष्यामि यथा शास्त्रे उदाहृतम् अमा नाम परा सूक्ष्मा कला चामृतवाहिनी //
25.129 SK आत्मा सञ्चरते तस्मिन् रावं मुञ्चन्ति बिन्दुके विसर्गस्थो महात्मानो वादयेत् कथयेति च //
25.130 SK डमरुकं स्मृतं तेन अमनस्के निरामये नाभिस्था यस्य तिष्ठेत मायारूपा तु कुण्डली //
25.131 SK पाशम् एतद् विनिर्दिष्टं खड्गं चैवाधुना शृणु खस्था छिनत्ति पाशांस् तु विसर्गास्त्रेण मोहनी //
25.132 SK खड्गवन् निर्मला येन खगमध्ये कुलेश्वरि गता सा ब्रह्मसायुज्यं घटते शक्तिर् अव्यया //
25.133 SK तेन खड्गम् इति प्रोक्तम् आयुधं सुरनायिके एका एव परा शक्तिस् त्रिपथा चक्रमण्डले //
25.134 SK वामा ज्येष्ठा तथा रौद्री इच्छाज्ञानक्रियात्मिका त्रिशूलं त्रिपथं ख्यातं त्रिशक्तिम् अनुपूर्वशः //
25.135 SK खरूपा व्योमगा शान्ता निर्मला अटते प्रिये खेटकं तेन नामं तु द्वादशान्ते व्यवस्थितम् //
25.136 SK नारा च शक्ति-र्-उच्चारं करणात्मव्यवस्थितम् वेधते तु निरोधिन्या कारणं पञ्च एव तु //
25.137 SK तेन नाराचम् आख्यातं पर्यायेण वरानने कर्तरी ज्ञानशक्तिस् तु येन पाशाञ् छिनत्त्य् असौ //
25.138 SK सा कला परमा सूक्ष्मा मन्त्राणां बोधनी परा कर्तरी कर्तृरूपेण ज्ञातव्या साधकेन तु //
25.139 SK चरते द्वादशान्ते तु क्रमात् तत्त्वानि मुञ्चति चक्रवेद् भ्रमते नित् यम् अङ्कुशस्था परापरा //
25.140 SK अङ्गमङ्गगता देवी बहिरन्तरसंस्थिता कुरुते सततं चेष्टाम् आसने शयने तथा //
25.141 SK धावनं वल्गनं रोधम् अङ्कुशस्थानम् आश्रितः मुषलत्वे स्थितो नादो रेखाकारोर्ध्वगः प्रिये //
25.142 SK तं भित्त्वा गमनं चोर्ध्वं मुषलाख्यं सदाशिवम् धनुर् लक्ष्ये मनाख्यं तु येन वेधयते परम् //
25.143 SK आपूर्य सविसर्गेण परेण मनचक्षुषा करणेन फडन्तेन विसर्गस्थेन सुस्वने //
25.144 SK ऋतुद्वयविशुद्धेन काननान्तर्गतेन तु अनेन करणान्तेन कट्टारिका परापरा //
25.145 SK प्राप्नोति तत्त्वसायोज्यं गदया च सुलोचने गता ह्य् एका परा रन्ध्रं ददते चामृतं शुभम् //
25.146 SK गतास् तु न निवर्तन्ते ये गता गदया सह शक्तिः शक्तिस्थभावेन आत्मानं नयते सदा //
25.147 SK तद्भावयोगविद्धस् तु शक्तिना तु सुराधिपे दण्डवदृजुरेखा तु नादान्तपदम् अव्ययम् //
25.148 SK तेन मार्गेण गन्तव्यं दण्डधारेण सुव्रते कं शरीरम् इति ख्यातं मण्डलाकारसंस्थितम् //
25.149 SK अत्राध्वा तु वरारोहे शोधनीयो मनीषिभिः कुलाद्या या परा शुद्धा सर्व-अध्वहृदि स्थिता //
25.150 SK तेनेदं कथितं भद्रे कमण्डलुर् इति स्मृतः एते तु आयुधाः सूक्ष्माः पर्यायात् कथिताः स्फुटम् //
25.151 SK समयिन्यगता सूक्ष्मा कला सूक्ष्मातिनायिका कथितास् तु मया देवि परापरविभागशः //
25.152 SK बाह्यतः कथयिष्यामि दूतीनां लक्षणं सुभम् अन्तरङ्गे तथा ह्य् एवं श्रूयतां तेषु निश्चयम् //
25.153 SK माता दुहिता भगिनी सहजा तु तथा न्त्यजा रजकी चर्मकारी च मातङ्गी चाग्रजन्मिका //
25.154 SK अन्नपानं तथा भक्ष्यम् आचरेच् छक्तिभिः सह अन्त्यजानां द्विजानां च एकत्र चरुभोजनम् //
25.155 SK कर्तव्यं साधकेनैव यद् इच्छेत् सिद्धिम् उत्तमाम् //
25.156 SK कुत्सितं कथितं देव अयुक्तं शास्त्रवादिनाम् पशूनां यत् समाख्यातम् आचारं परमेश्वर यतीनां तु यदा सो हि तद् आश्चर्यं महाप्रभो //
25.157 SK साधु देवि महाप्राज्ञे प्रश्नम् एतत् सुदुर्लभम् कथयामि समासेन त्वत्प्रीत्या सुरनायिके //
25.158 SK मातेव संस्थिता शक्तिर् जगतो योनिरूपिणी अत्रोत्पन्नं समस्तं हि वाङ्मयं सचराचरम् //
25.159 SK तेन मातेति विख्याता कथिता परमेश्वरी उद्भवस्था दुहित्री तु दुहनात् तु जगस्य च //
25.160 SK दुहित्री तु द्वितीया तु भगिनी त्व् अथ-म्-उच्यते भगरूपा परा सूक्ष्मा नान्येन तु सुनिर्मिता //
25.161 SK स्वतोत्पन्ना स्वयं जाता तेनोक्ता सहजा कला अन्तस्था सर्वभूतानां वर्तते चान्तगा परा //
25.162 SK अन्ते च संस्थिता ह्य् एका अन्त्यजा परमेश्वरी रजस्तमोविनिर्मुक्ता महान्ते रजकी उमे //
25.163 SK चरते चर्मगा येन स्वरङ्गेन तु रञ्जिता चर्मकारी तु सा चैका मातङ्गी च ततोच्यते //
25.164 SK आत्मस्था सततं नित्यं गीतस्यान्तपथे स्थिता मातङ्गी कथिता दूती अग्रजन्मी तथोच्यते //
25.165 SK सर्वेषां चैव शास्त्राणाम् अग्रोत्पन्ना तु अग्रणी नान्यत् तत्र भवेत् किञ्चिच् छक्तिर् आद्या मनोन्मनी //
25.166 SK अग्रजन्मा समाख्याता परा ह्य् अमृतवाहिनी पर्यायात् कथिता देवि शक्तिस् तद्धर्मधर्मिणी //
25.167 SK अज्ञात्वा देहजां शक्तिं बहुस्थानगतां प्रिये आचरन्ति च ये मूढाः पशवः समुदाहृताः //
25.168 SK अपाक्तेया असम्भाष्याः शिवव्रतविडम्बकाः खानं पानं तथा देवि कर्तव्यं न च तैः सह //
25.169 SK एवं युक्तः सदा तिष्ठेन् मदिरानन्दचेतसः मदिरा या परा शक्ति रञ्जितं तु जगत्त्रयम् //
25.170 SK आनन्दं तत्समत्वं हि मदिरानन्दचेतसः सिध्यते नात्र सन्देहो यथा भैरव-म्-अब्रवीत् //
25.171 SK ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः नैवास्ति किञ्चित् कर्तव्यम् अस्ति चेन् न स तत्त्ववित् //
25.172 SK अथान्यत् सम्प्रवक्ष्यामि अवस्थां ज्ञानबोधिकाम् घोषणी पिङ्गला चैव विद्युन्माला च चन्द्रिणी //
25.173 SK मनोऽनुगा च सुकृता सौम्या चैव निरञ्जना निरालम्बा तथा देवी अन्या चैव महाबला //
25.174 SK हेला लोला तथा लीला बोधाबोधवतीति च निरामयाः समाख्याता एताः प्रत्यक्षमातराः //
25.175 SK आज्ञासिद्धिप्रदातारा आज्ञासिद्धिकुलान्वये घोषणी घोषमार्गस्था शिखा धूम्रा च पिङ्गला //
25.176 SK रात्रौ द्योतयते शुक्लं विद्युन्मालेति चोच्यते चन्द्रिणी चन्द्रगर्भेण सन्ध्याबिन्दु मनोऽनुगा //
25.177 SK निमीलिताक्षे यत् पीतं सुकृता समुदाहृता कंसध्वनिस् तथा सौम्या घण्टा चैव निरञ्जना //
25.178 SK हंसाख्या तु निरालम्बा किङ्किणी तु महाबला गुददेशे प्रजायेत सदा सिद्धिप्रदायिका //
25.179 SK घोषमार्गे तु यो हंसो हेला नामेति चोच्यते तस्य मध्ये तु यः शब्दो लोलाख्या सा प्रकीर्तिता //
25.180 SK लीला चैवाणवा प्रोक्ता खेचरत्वप्रदायिनी चीत्कृतं कर्णदेशे तु बोधाबोधवती तु सा //
25.181 SK आत्मानं हंसम् इत्य् आहुर् मायारूपा तु बोधनी कुण्डली तु समाख्याता रुद्रशक्तिस् तु बिन्दुकम् //
25.182 SK गगने दृश्यते यस् तु प्रभाकारेण सुप्रभः अखण्डमण्डलाकारं द्योतयन्तं नभस्तलम् //
25.183 SK अचलं तत् समाख्यातम् अचलत्वेन संस्थितम् एतावस्थाः समाख्याता उदयन्ति क्रमेण तु //
25.184 SK आज्ञातत्परभावज्ञः सुगुप्तो गुरुपूजकः तस्य सिद्धिर् भवत्य् आशु नान्यथा कुब्जिके वचः //
25.185 SK पितु[ः] प्राप्तं यथा सौख्यं तत् सुखं भुञ्जते स्वयम् मृत्युर् येन सुखेनेह तत् सुखं ध्यानम् उच्यते //
25.186 SK समस्तेदं वरारोहे दुर्लभं प्रकटीकृतम् त्वं पुनश् चावतारित्वा क्रमौघं सम्प्रकाशय //
25.187 SK सुगोप्यं गोपनीभूत्वा क्रमं पूज्यारिहा भव //
25.188 SK या सा कुब्जि परा महौघजननी सञ्चोदितो ऽहं त्वया त्वं कुब्जा परकुब्जिनी मम पुनस् त्वाहं मया त्वं पुनः त्वयादिष्टचतुष्टयं क्रमपथं तेषां क्रमो वै यथा सम्प्रेष्यात्मगतं क्रमौघपरमं चाज्ञा गृहीतानघे //
25.189 SK शतकोटिसुविस्तीर्णं तन्त्रेदं पारमेश्वरम् अस्य भेदोपभेदाश् च भविष्यन्ति ह्य् अनेकधा //
25.190 SK अत्र कल्पे वरारोहे सूत्रसङ्ग्रहलक्षणम् चतुर्विंशतिसाहस्रं किं तु तत् प्रकटं न हि //
25.191 SK कर्तव्यं तु त्वया भद्रे किं तु पीठचतुष्टये प्रकाशयस्व चाज्ञातो यथा गोप्यतरं भवेत् //
25.192 SK सुदुर्लभतरं देवि तन्त्रेदं परमाद्भुतम् यत्र वा तिष्ठते देशे स देशो भुक्तिभाग् भवेत् //
25.193 SK किं पुनः पुरमध्यस्थं गृहावस्थगतं हृदि तिष्ठते यस्य ऽसौ नाथे पुरं पीठसमं भवेत् //
25.194 SK गृहं तद् योगपीठं च मन्तव्यम् अन्वयान्वितैः आगमं मण्डलाद्यैस् तु पूज्योघं पारमेश्वरम् //
25.195 SK यत्रेदं तिष्ठते स्थाने दिव्याम्नायं सुदुर्लभम् दिव्यैस् तु पूज्यते सो हि यदि गोप्यतरं भवेत् //
25.196 SK विधानविहिता पूजा यद्य् अष्टम्यां चतुर्दशी पूजयेत् परमाम्नायं पूज्यते स मरीचिभिः //
25.197 SK यस् त्व् एवं विन्दते देवि ग्रन्थतश् चार्थतो ऽपि वा स ज्येष्ठः कुलसन्ताने पूज्यो ऽसौ भैरवो यथा //
25.198 SK अवज्ञां कुरुते यस् तु यस्य तस्य प्रकाशयेत् सामर्थ्येन सतां द्विष्टो भ्रष्टो दुःखी स सर्वतः //
25.199 SK आगमाधारभाण्डस्य दृष्ट्वावज्ञां करोति यः नमस्कारेण तत् पीठं तस्यैवायं पुरोदितम् //
25.200 SK श्रुत्वैवं विस्मयापन्ना ऊचुस् त्व् एवं कुलेश्वरी प्रेरयित्वादितोद्दिष्टा अत्राज्ञानविरोधिनी //
25.201 SK आज्ञाश्रुतं समस्तेदं दृष्टम् अस्माद् विर्जृम्भितम् व्रजतोडादिसिद्धानां तेषु सर्वं समर्पयेत् //
25.202 SK समयिन्यश् च संयोज्य तस्य त्वामोघशालिनी भविष्यसि पुरावस्था तदवस्थान्तरे स्थिता //
25.203 SK प्रथमं मद्गुणैर् भद्रे द्वितीयं च खगान्तरे तृतीयं भूचरीनाथः पश्चानन्तभवात्मिका //
25.204 SK त्रयान्ते गुरुपङ्क्तिस्था Pऋथक्पूजाक्रमे स्थिता भविष्यसि पुरावस्था ह्रास्यमाना पदे पदे //
25.205 SK जीविकोपायहेत्वर्थम् उत्कर्षार्थम् अथापि वा तेषु त्यज्य पराम्नायं भूतावेशकरी भव //
25.206 SK व्यतिक्रमं यदा काले भविष्यत् कुब्जिनीमते तदा काले तु तं हत्वा समाप्येवं पुनर् भज //
25.207 SK सारसङ्ग्रहम् एतद् धि अनामामतम् उत्तमम् अस्योच्चारं न कर्तव्यम् उच्चाराद् अय् उतं जपेत् //
25.208 SK कुब्जिका या वरारोहे पञ्चभिः प्रणवैः सह तैर् विना न हि चोच्चारं कुब्जाम्नायमहाध्वरे //
25.209 SK यैस् तु तानि वरारोहे कथयामि स्वरूपतः बिन्दुयुक्तानि सर्वाणि जीवभूतानि शासने //
25.210 SK आदिमं च तृतीयं च दशमं चैकविंशकम् द्वितीयं चैकविंशेन वर्जितं पञ्चमं तु तत् //
25.211 SK किं तु वामेन जङ्घाया हतं बीजेन कारयेत् तद् बीजं परम् उद्दिष्टं सर्वज्ञानावतारकम् //
25.212 SK अम्बिका बिन्दुनादं च कुण्डली च परः शिवः रत्नानां पञ्चकं देवि व्यापयित्वा सुदुर्लभम् //
25.213 SK अनेनाभ्यासयोगेन खेचरीकुलनन्दनः सिध्यते नात्र सन्देहो गुरुवक्त्रप्रसादतः //
25.214 SK खेचरा भूचरा चैव दिक्चरा गोचरा तथा ददन्ति मेलकं सर्वं यस्येदं हृदि संस्थितम् //
25.215 SK देवदेवेन देव्याया मतं दिव्यं मया तव कर्तव्यं तु तथा गोप्यम् इत्य् आज्ञा पारमेश्वरी //
25.216 SK पूजा चास्य प्रकर्तव्या विशेषेण वरानने शुक्लपक्षे तृतीयायां वैशाखस्य तथा पुनः //
25.217 SK कृष्णपक्षे त्रयोदश्यां नभस्यनवमी पुनः आश्विने शुक्लपक्षस्य पूर्णिमा फाल्गुने मता //
25.218 SK आषाढे श्रावणे चैव भाद्रपद्यां तथैव च शुक्लपक्षे चतुर्दश्यां कर्तव्यं च पवित्रकम् //
25.219 SK आत्मवित्तानुसारेण उत्तमाधममध्यमाः गुरुपर्वम् इति ख्यातं पालनीयं कुलाम्बिके //
25.220 SK युगादयः समाख्याता अत्र पीठावतारणम् पीठमार्गक्रमायातम् आगमो ऽयं तद् एव हि //
25.221 SK आगमे पूजिते सर्वं पूजितं ज्ञानसागरम् येनेदं पुस्तकं देव्याः पूर्वोक्तं यन् मया तव //
25.222 SK अन्यत् तत् परमोपायं सिद्धिपर्यायशासने दिव्यसिद्धिप्रदातारं दिव्यभाषाविभूषितम् //
25.223 SK कुसुमं च रजं रक्तं रथ्यं शिवकुसुम्भकम् तडिद् अमृतमधुरं क्षतजोद्भवनेत्रजम् //
25.224 SK कादम्बरी प्रसन्ना च परिस्रुङ् मदिरा सुरा वामामृतम् अलिश् चैव सोमपानं मदालसी //
25.225 SK धारामृतं शिवाम्बुं च रतिविष्णुवरुणोद्भवम् वर्चो ब्रह्मा द्विजन्मा च सरोजः कमलासनः //
25.226 SK बुकपुष्पकणाख्यं च लिङ्गपङ्कमलं तथा कुण्डगोलोद्भवं शुक्रं शशिश् चैव सितं मधु //
25.227 SK कटं मांसं पलं क्रव्यं पिषितं फल्गुषामिषम् जाङ्गलं देवदारुं च क्ष्मा वै खड्गोद्भवं स्मृतम् //
25.228 SK तैलं वसा तथा स्नेहं कटुतैलं तु तीक्ष्णकम् तुरुष्कं सिह्णकं प्रोक्तं कपालपुटमध्यगम् //
25.229 SK लशुनं नासिकावस्थं तच् च हिङ्गु प्रकीर्तितम् गजं चैव तु कुष्माण्डं पलाण्डुं च विशेषतः //
25.230 SK पर्युषिताच्छाल्य् अगरुं पिप्पल्यः कृष्णतण्डुलाः कृष्णच्छागो महानेत्री पललं मेषात्मकं स्मृतम् //
25.231 SK सामर्थज्ञविदानां च इति पूजा प्रकीर्तिता सिद्धद्रव्यं समाख्यातं प्रसङ्गाद् योगिनीकुले //
25.232 SK नानेन रहिता सिद्धिर् भुक्तिमुक्तिर् न विद्यते निराचारपदं ह्य् एतत् तेनेदं परमं स्मृतम् //
3048 SK इति कुलालिकाम्नाये श्रीकुब्जिकामते समस्तज्ञानावबोधचर्यानिर्देशो नाम पञ्चविंशतिमः पटलः
3049 SK इति चतुर्विंशतिसाहस्रे सारात् सारतरं श्रीकुब्जिकाम्नायं श्रीओडियानपीठविनिर्गतं पञ्चविंशतिपटलं सार्धत्रीणि सहस्राणि श्रीमतं परिसमाप्तम्
Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kubjikāmatatantra: GRETIL corpustei HTML transform of the Kubjikāmatatantra.
Source