Examination of Relationships with Prabhacandra's Commentary

Saṃbandhaparīkṣā with Prabhacandra's commentary. · Sअंबन्धपरीक्षा wइथ् Pरभचन्द्रऽस् चोम्मेन्तर्य्.

Examination of Relationships with Prabhacandra's Commentary

Saṃbandhaparīkṣā with Prabhacandra's commentary.

Sअंबन्धपरीक्षा wइथ् Pरभचन्द्रऽस् चोम्मेन्तर्य्.

SK
आचार्यधर्मकीर्तिविरचिता सम्बन्धपरीक्षा (प्रभाचन्द्रकृतव्याख्योपेता)
SK
ननु चाणू नामयःशलाकाकल्पत्वेनान्योन्यं सम्बन्धाभावतः स्थूलादिप्रतीतेर्भ्रान्तत्वात् कथं तद्वशात् तत्स्वभावो भावः स्यात्? तथा हि - सम्बन्धो ऽर्थानां पारतन्त्र्यलक्षणो वा स्यात्, रूपश्लेषलक्षणो वा स्यात्? प्रथमपक्षे किमसौ निष्पन्नयोः सम्बन्धिनोः स्यात्, अनिष्पन्नयोर्वा? न तावदनिष्पन्नयोः; स्वरूपस्यैवासत्त्वात् शशाश्वविषाणवत् / निष्पन्नयोश्च पारतन्त्र्याभावादसम्बन्ध एव /
SK
उक्तञ्च- पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता / तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः
SK
नापि रूपश्लेषलक्षणो ऽसौ; सम्बन्धिनोर्द्वित्वे रूपश्लेषविरोधात् / तयोरैक्ये वा सुतरां सम्बन्धाभावः, सम्बन्धिनोरभावे सम्बन्धायोगात्; द्विष्ठत्वात्तस्य / अथ नैरन्तर्यं तयो रूपश्लेषः? न; अस्यान्तरालभावरूपत्वेनातात्त्विकत्वात् सम्बन्धरूपत्वायोगः / निरन्तरतायाश्च सम्बन्धरूपत्वे सान्तरतापि कथं सम्बन्धो न स्यात्?
SK
किञ्च- असौ रूपश्लेषः सर्वात्मना, एकदेशेन वा स्यात्? सर्वात्मना रूपश्लेषे अणूनां पिण्डः अणुमात्रः स्यात् / एकदेशेन तच्छलेषे किमेकदेशास्तस्यात्मभूताः, परभूता वा? आत्मभूताश्चेत्; न एकदेशेन रूपश्लेषस्तदभावात् / परभूताश्चेत्; तैरप्यणूनां सर्वात्मनैकदेशेन वा रूपश्लेषे स एव पर्यनुयोगः, अनवस्था च स्यात् / तदुक्तम्-
SK
रूपश्लेषो हि सम्बधो द्वित्वे स च कथं भवेत् / तस्मात् प्रकृतिभिन्नानां सम्बन्धो नास्ति तत्त्वतः
SK
किञ्च- परापक्षैव सम्बन्धः, तस्य द्विष्ठत्वात् / तं चापेक्षते भावः स्वयं सन्, असन् वा? न तावदसन्; अपेक्षाधर्माश्रयत्वविरोधात् खरशृङ्गवत् / नापि सन्; सर्वनिराशंसत्वात्, अन्यथा सत्त्वविरोधात् / तन्न परापेक्षा नाम यद्रूपः सम्बन्धः सिद्ध्येत् /
SK
उक्तञ्च- परापेक्षा हि सम्बन्धः सो ऽसन् कथमपेक्षते / संश्च सर्वनिराशंसो भावः कथमपेक्षते
SK
किञ्च- असौ सम्बन्धः सम्बन्धिभ्यां भिन्नः, अभिन्नो वा? यद्यभिन्नः; तदा सम्बन्धिनावेव, न सम्बन्धः कश्चित्, स एव वा, न ताविति? भिन्नश्चेत्; सम्बन्धिनौ केवलौ कथं सम्बद्धौ स्याताम्?
SK
भवतु वा सम्बन्धो ऽर्थान्तरम्; तथापि तेनैकेन सम्बन्धेन सह द्वयोः सम्बन्धिनोः कः सम्बन्धः? यथा सम्बन्धिनोर्यथोक्तदोषान्न कश्चित् सम्बन्धः, तथात्रापि / तेनानयोः सम्बन्धान्तराभ्युपगमे चानवस्था स्यात्; तत्रापि सम्बन्धान्तरानुषङ्गात् / तन्न सम्बन्धिनोः सम्बन्धबुद्धिर्वास्तवी; तवद्यतिरेकेणान्यस्य सम्बन्धस्यासम्भवात् / तदुक्तम्-
SK
द्वयोरेकाभिसम्बन्धात् सम्बन्धो यदि तद्द्वयोः / कः सम्बन्धो ऽनवस्था च न सम्बन्धमतिस्तथा
SK
ततः- तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः / इत्यमिश्राः स्वयं भावास्तान् मिश्रयति कल्पना
SK
तौ च भावौ सम्बन्धिनौ ताभ्यामन्यश्च सम्बन्धः, सर्वे ते स्वात्मनि स्वस्वरूपे स्थिताः / तेनामिश्रा व्यावृत्तस्वरूपाः स्वयं भावाः, तथापि तान्मिश्रयति योजयति कल्पना
SK
अत एव तद्वास्तवसम्बन्धाभावे ऽपि तामेव कल्पनामनुरुन्धानैर्व्यवहर्तृभिर्भावानां भेदो ऽन्यापोहः, तस्य प्रत्यायनाय क्रियाकारकादिवाचिनः शब्दाः प्रयोज्यन्ते- ऽदेवदत्त गामभ्याज शुक्लां दण्डेन इत्यादयः / न खलु कारकाणां क्रियया सम्बन्धो ऽस्ति; क्षणिकत्वेन क्रियाकाले कारकाणामसम्भवात् / उक्तञ्च-
SK
तामेव चानुरुन्धानैः क्रियाकारकवाचिनः / भावभेदप्रतीत्यर्थं संयोज्यन्ते ऽभिधायकाः
SK
कार्यकारणभावोपि तयोरसहभावतः / प्रसिद्ध्यति कथं द्विष्ठो ऽद्विष्ठे सम्बन्धता कथम्
SK
कार्यकारणभावस्तर्हि सम्बधो भविष्यति- इत्यप्यसमीचीनम्, कार्यकारणयोरसहभावतस्तस्यापि द्विष्ठस्यासम्भवात् / न खलु कारणकाले कार्यं तत्काले वा कारणमस्ति, तुल्यकालं कार्यकारणभावनुपपत्तेः, सव्येतरगोविषाणवत् / तन्न सम्बन्धिनौ सहभाविनौ विद्येते येंनानयोर्वर्तमानो ऽसौ सम्बन्धः स्यात् / अद्विष्ठे च भावे सम्बन्धतानुपपन्नैव
SK
क्रमेण भाव एकत्र वर्त्तमानो ऽन्यनिस्पृहः / तद्भावे ऽपि तद्भावात् सम्बन्धो नैकवृत्तिमान्
SK
कार्ये कारणे वा क्रमेणासौ सम्बन्धो वर्तते- इत्यप्यसाम्प्रतम्; यतः क्रमेणापि भावः सम्बन्धाख्य एकत्र कारणे कार्ये वा वर्त्तमानो ऽन्यनिस्पृहः कार्यकारणयोरन्यतरानपेक्षो नैकवृत्तिमान् सम्बन्धो युक्तः; तदभावेपि कार्यकारणयोरभावे ऽपि तद्भावात्
SK
यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते / उपकारी ह्यपेक्ष्यः स्यात् कथं चोपकरोत्यसन्
SK
यदि पुनः कार्यकारणयोरेकं कार्यं कारणं वापेक्ष्यान्यत्र कार्ये कारणे वासौ सम्बन्धः क्रमेण वर्त्तत इति सस्पृहत्वेन द्विष्ठ एवेष्यते; तदानेनापेक्ष्यमाणेनोपकारिणा भवितव्यम्, यस्मादुपकार्यपेक्ष्यः स्यात्, नान्यः / कथं चोपकरोत्यसन्? यदा कारणकाले कार्याख्यो भावो ऽसन् तत्काले वा कारणाख्यस्तदा नैवोपकुर्याद्; असामर्थ्यात्
SK
यद्येकार्थाभिसम्बन्धात् कार्यकारणता तयोः / प्राप्ता द्वित्वादिसम्बन्धात् सव्येतरविषाणयोः
SK
किञ्च- यद्येकार्थाभिसम्बन्धात् कार्यकारणता तयोः कार्यकारणभावत्वेनाभिमतयोः; तर्हि द्वित्वसंख्यापरत्वापरत्वविभागादिसम्बन्धात् प्राप्ता सा सव्येतरगोविषाणयोरपि
SK
द्विष्ठो हि कश्चित् सम्बन्धो नातो ऽन्यत्तस्य लक्षणम् / भावाभावोपधिर्योगः कार्यकारणता यदि
SK
न येन केनचिदेकेन सम्बन्धात् सेष्यते; किं तर्हि? सम्बन्धलक्षणेनैवेति चेत्; तन्न, द्विष्ठो हि कश्चित्पदार्थः सम्बन्धः, नातो ऽर्थद्वयाभिसम्बन्धादन्यत् तस्य लक्षणम्, येनास्य संख्यादेर्विशेषो व्यवस्थाप्येत
SK
योगोपाधि न तावेव कर्यकारणतात्र किम् / भेदाच्चेन्नन्वयं शब्दो नियोक्तारं समाश्रितः
SK
कस्यचिद्भावे भावो ऽभावे चाभावः, तावुपाधी विशेषणं यस्य योगस्य=सम्बन्धस्य स कार्यकारणता यदि न सर्वसम्बन्धः; तदा तावेव योगोपाधी भावाभावौ कार्यकारणतास्तु, किमसत्सम्बन्धकल्पनया? भेदाच्चेत् ऽभावे हि भावो ऽभावे चाभावःऽ इति बहवो ऽभिधेयाः कथं कार्यकारणतेत्येकार्थाभिधायिना शब्देनोच्यन्ते? नन्वयं शब्दो नियोक्तारं समाश्रितः / नियोक्ता हि यं शब्दं यथा प्रयुङ्क्ते तथा प्राह, इत्यनेकत्राप्येका श्रुतिर्न विरुध्यते इति तावेव कार्यकारणता
SK
पश्यन्नेक मदृष्टस्य दर्शने तददर्शने / अपश्यत्कार्यमन्वेति विना व्याख्यातृभिर्जनः
SK
यस्मात् पश्यन्नेकं कारणाभिमतमुपलब्धिलक्षणप्राप्तस्यादृष्टस्य कार्याख्यस्य दर्शने सति तददर्शने च सत्यपश्यत्कार्यमन्वेति ऽइदमतो भवतिऽ इति प्रतिपद्यते जनः ऽअत इदं जातम्ऽ इत्याख्यातृभिर्विनापि
SK
दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसम्भवात् / कार्यादिश्रुतिरप्यत्र लाघवार्थ निवेशिता
SK
तस्माद् दर्शनादर्शने विषयिणि विषयोपचारात्- भावाभावौ मुक्त्वा कार्यबुद्धेरसम्भवात् कार्यादिश्रुतिरप्यत्र ऽभावाभावयोर्मा लोकः प्रतिपदमियतीं शब्दमालामभिदध्यात्ऽ इति व्यवहारलाघवार्थं निवेशितेति
SK
तद्भावाभावात् तत्कार्यगतिर्याप्यनुवर्ण्यते / सङ्केतविषयाख्या सा सास्नादेर्गोगतिर्यथा
SK
अन्वयव्यतिरेकाभ्यां कार्यकारणता नान्या चेत् कथं भावाभावाभ्यां सा प्रसाध्यते? तदभावाभावात् लिङ्गात् तत्कार्यतागतिर्याप्यनुवर्ण्यते- ऽअस्येदं कार्यं कारणं चऽ इति; सङ्केतविषयाख्या सा / यथा ऽगौरयं सास्नादिमत्त्वात्ऽ इत्यनेन गोव्यवहारस्य विषयः प्रदर्श्यते
SK
भावे भाविनि तद्भावो भाव एव च भाविता / प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः
SK
यतश्च ऽभावे भाविनि=भवनधर्मिणि तद्भावः=कारणाभिमतस्य भाव एव कारणत्वम्, भावे एव कारणाभिमतस्य भाविता कार्याभिमतस्य कार्यत्वम्ऽ इति प्रसिद्धे प्रत्यक्षानुपलम्भतो हेतुफलते / ततो भावाभावावेव कार्यकारणता, नान्या
SK
एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः / विकल्पा दर्शयन्त्यर्थान् मिथ्यार्था घटितानिव
SK
तेनैतावन्मात्रं=भावाभावौ तावेव तत्त्वं ऽयस्यार्थस्यासावेतावन्मात्रतत्त्वः, सो ऽर्थो येषां विकल्पानां ते एतावन्मात्रतत्त्वार्थाः=एतावन्मात्रबीजाः कार्यकारणगोचराः, दर्शयन्ति घटितानिव=सम्बद्धानिवासम्बद्धानप्यर्थान् / एवं घटनाच्च मिथ्यार्थाः
SK
भिन्ने का घटनाभिन्ने कार्यकारणतापि का / भावेह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ
SK
किञ्च, असौ कार्यकारणभूतो ऽर्थो भिन्नः, अभिन्नो वा स्यात्? यदि भिन्नः;, तर्हि भिन्ने का घटना स्वस्वभावव्यवस्थितेः? अथाभिन्नः; तदाभिन्ने कार्यकारणतापि का? नैव स्यात् /
SK
स्यादेतत्, न भिन्नस्याभिन्नस्य वा सम्बन्धः / किं तर्हि? सम्बन्धाख्येनैकेन सम्बन्धात्; इत्यत्रापि भावे सत्तायामन्यस्य सम्बन्धस्य विश्लिष्टौ कार्यकारणाभिमतौ श्लिष्टौ स्याताम्, कथं च तौ संयोगिसमवायिनौ? आदिग्रहणात् स्वस्वाम्यादिकम्
SK
संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् / अन्योन्यानुपकाराच्च न सम्बन्धी च तादृशः
SK
सर्वमेतेनान्तन्तरोक्तेन सामान्यसम्बन्धप्रतिषेधेन चिन्तितम् संयोग्यादीनामन्योन्यमनुपकाराच्चाजन्यजनकभावाच्च न सम्बन्धी च तादृशो ऽनुपकार्योपकारकभूतः
SK
जनने ऽपि हि कार्यस्य केनचित् समवायिना / समवायी तदा नासौ न ततो ऽतिप्रसङ्गतः
SK
अथास्ति कश्चित् समवायी यो ऽवयविरूपं कार्यं जनयति, अतो नानुपकारादसम्बन्धितेति; तन्न; यतो जनने ऽपि कार्यस्य केनचित् समवायिनाभ्युपगम्यमाने समवायी, नासौ तदा; जननकाले कार्यस्यानिष्पत्तेः / न च ततो जननात् समवायित्वं सिद्ध्यति; कुम्भकारादेरपि घटे समवायित्वप्रसङ्गात्
SK
तयोरनुपकारे ऽपि समवाये परत्र वा / सम्बन्धो यदि विश्वं स्यात् समवायि परस्परम्
SK
तयोः समवायिनोः परस्परमनुपकारे ऽपि ताभ्यां वा समवायस्य नित्यतया समवायेन वा तयोः परत्र वा क्वचिदनुपकारे ऽपि सम्बन्धो यदीष्यते; तदा विश्वं परस्परासम्बद्धं समवायि परस्परं स्यात्
SK
संयोगजनने ऽपिष्टौ ततः संयोगिनौ न तौ / कर्मादियोगितापत्तेः स्थितिश्च प्रतिवर्णिता
SK
इत्याचार्यधर्मकीर्तिविरचिता सम्बन्धपरीक्षा समाप्ता /
SK
यदि च संयोगस्य कार्यत्वात्तस्य ताभ्यां जननात् संयोगिता तयोः तदा संयोगजनने ऽपिष्टौ, ततः संयोगजननान्न तौ संयोगिनौ, कर्मणो ऽपि संयोगितापत्तेः / संयोगो ह्यन्यतरकर्मजः उभयकर्मजश्चेष्यते / आदिग्रहणात् संयोगस्यापि संयोगिता स्यात् / न संयोगजननात् संयोगिता, किन्तर्हि? स्थापनादिति चेत्; न स्थितिश्च प्रतिवर्णिता=ग्रन्थान्तरे प्रतिक्षिप्ता, स्थाप्यस्थापकयोर्जन्यजनकत्वाभावान्नान्या स्थितिरिति
SK
इति प्रभाचन्द्रकृता सम्बन्धपरीक्षाव्याख्या समाप्ता /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dharmakīrti: Saṃbandhaparīkṣā with Prabhacandra's commentary. (sa_dharmakIrti-saMbandhaparIkSA-comm.htm).

Source