1 SK आचार्यधर्मकीर्तिविरचिता सम्बन्धपरीक्षा (प्रभाचन्द्रकृतव्याख्योपेता)
2 SK ननु चाणू नामयःशलाकाकल्पत्वेनान्योन्यं सम्बन्धाभावतः स्थूलादिप्रतीतेर्भ्रान्तत्वात् कथं तद्वशात् तत्स्वभावो भावः स्यात्? तथा हि - सम्बन्धो ऽर्थानां पारतन्त्र्यलक्षणो वा स्यात्, रूपश्लेषलक्षणो वा स्यात्? प्रथमपक्षे किमसौ निष्पन्नयोः सम्बन्धिनोः स्यात्, अनिष्पन्नयोर्वा? न तावदनिष्पन्नयोः; स्वरूपस्यैवासत्त्वात् शशाश्वविषाणवत् / निष्पन्नयोश्च पारतन्त्र्याभावादसम्बन्ध एव /
1 SK उक्तञ्च- पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता / तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः
4 SK नापि रूपश्लेषलक्षणो ऽसौ; सम्बन्धिनोर्द्वित्वे रूपश्लेषविरोधात् / तयोरैक्ये वा सुतरां सम्बन्धाभावः, सम्बन्धिनोरभावे सम्बन्धायोगात्; द्विष्ठत्वात्तस्य / अथ नैरन्तर्यं तयो रूपश्लेषः? न; अस्यान्तरालभावरूपत्वेनातात्त्विकत्वात् सम्बन्धरूपत्वायोगः / निरन्तरतायाश्च सम्बन्धरूपत्वे सान्तरतापि कथं सम्बन्धो न स्यात्?
5 SK किञ्च- असौ रूपश्लेषः सर्वात्मना, एकदेशेन वा स्यात्? सर्वात्मना रूपश्लेषे अणूनां पिण्डः अणुमात्रः स्यात् / एकदेशेन तच्छलेषे किमेकदेशास्तस्यात्मभूताः, परभूता वा? आत्मभूताश्चेत्; न एकदेशेन रूपश्लेषस्तदभावात् / परभूताश्चेत्; तैरप्यणूनां सर्वात्मनैकदेशेन वा रूपश्लेषे स एव पर्यनुयोगः, अनवस्था च स्यात् / तदुक्तम्-
2 SK रूपश्लेषो हि सम्बधो द्वित्वे स च कथं भवेत् / तस्मात् प्रकृतिभिन्नानां सम्बन्धो नास्ति तत्त्वतः
7 SK किञ्च- परापक्षैव सम्बन्धः, तस्य द्विष्ठत्वात् / तं चापेक्षते भावः स्वयं सन्, असन् वा? न तावदसन्; अपेक्षाधर्माश्रयत्वविरोधात् खरशृङ्गवत् / नापि सन्; सर्वनिराशंसत्वात्, अन्यथा सत्त्वविरोधात् / तन्न परापेक्षा नाम यद्रूपः सम्बन्धः सिद्ध्येत् /
3 SK उक्तञ्च- परापेक्षा हि सम्बन्धः सो ऽसन् कथमपेक्षते / संश्च सर्वनिराशंसो भावः कथमपेक्षते
9 SK किञ्च- असौ सम्बन्धः सम्बन्धिभ्यां भिन्नः, अभिन्नो वा? यद्यभिन्नः; तदा सम्बन्धिनावेव, न सम्बन्धः कश्चित्, स एव वा, न ताविति? भिन्नश्चेत्; सम्बन्धिनौ केवलौ कथं सम्बद्धौ स्याताम्?
10 SK भवतु वा सम्बन्धो ऽर्थान्तरम्; तथापि तेनैकेन सम्बन्धेन सह द्वयोः सम्बन्धिनोः कः सम्बन्धः? यथा सम्बन्धिनोर्यथोक्तदोषान्न कश्चित् सम्बन्धः, तथात्रापि / तेनानयोः सम्बन्धान्तराभ्युपगमे चानवस्था स्यात्; तत्रापि सम्बन्धान्तरानुषङ्गात् / तन्न सम्बन्धिनोः सम्बन्धबुद्धिर्वास्तवी; तवद्यतिरेकेणान्यस्य सम्बन्धस्यासम्भवात् / तदुक्तम्-
4 SK द्वयोरेकाभिसम्बन्धात् सम्बन्धो यदि तद्द्वयोः / कः सम्बन्धो ऽनवस्था च न सम्बन्धमतिस्तथा
5 SK ततः- तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः / इत्यमिश्राः स्वयं भावास्तान् मिश्रयति कल्पना
5 SK तौ च भावौ सम्बन्धिनौ ताभ्यामन्यश्च सम्बन्धः, सर्वे ते स्वात्मनि स्वस्वरूपे स्थिताः / तेनामिश्रा व्यावृत्तस्वरूपाः स्वयं भावाः, तथापि तान्मिश्रयति योजयति कल्पना
14 SK अत एव तद्वास्तवसम्बन्धाभावे ऽपि तामेव कल्पनामनुरुन्धानैर्व्यवहर्तृभिर्भावानां भेदो ऽन्यापोहः, तस्य प्रत्यायनाय क्रियाकारकादिवाचिनः शब्दाः प्रयोज्यन्ते- ऽदेवदत्त गामभ्याज शुक्लां दण्डेन इत्यादयः / न खलु कारकाणां क्रियया सम्बन्धो ऽस्ति; क्षणिकत्वेन क्रियाकाले कारकाणामसम्भवात् / उक्तञ्च-
6 SK तामेव चानुरुन्धानैः क्रियाकारकवाचिनः / भावभेदप्रतीत्यर्थं संयोज्यन्ते ऽभिधायकाः
7 SK कार्यकारणभावोपि तयोरसहभावतः / प्रसिद्ध्यति कथं द्विष्ठो ऽद्विष्ठे सम्बन्धता कथम्
7 SK कार्यकारणभावस्तर्हि सम्बधो भविष्यति- इत्यप्यसमीचीनम्, कार्यकारणयोरसहभावतस्तस्यापि द्विष्ठस्यासम्भवात् / न खलु कारणकाले कार्यं तत्काले वा कारणमस्ति, तुल्यकालं कार्यकारणभावनुपपत्तेः, सव्येतरगोविषाणवत् / तन्न सम्बन्धिनौ सहभाविनौ विद्येते येंनानयोर्वर्तमानो ऽसौ सम्बन्धः स्यात् / अद्विष्ठे च भावे सम्बन्धतानुपपन्नैव
8 SK क्रमेण भाव एकत्र वर्त्तमानो ऽन्यनिस्पृहः / तद्भावे ऽपि तद्भावात् सम्बन्धो नैकवृत्तिमान्
8 SK कार्ये कारणे वा क्रमेणासौ सम्बन्धो वर्तते- इत्यप्यसाम्प्रतम्; यतः क्रमेणापि भावः सम्बन्धाख्य एकत्र कारणे कार्ये वा वर्त्तमानो ऽन्यनिस्पृहः कार्यकारणयोरन्यतरानपेक्षो नैकवृत्तिमान् सम्बन्धो युक्तः; तदभावेपि कार्यकारणयोरभावे ऽपि तद्भावात्
9 SK यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते / उपकारी ह्यपेक्ष्यः स्यात् कथं चोपकरोत्यसन्
9 SK यदि पुनः कार्यकारणयोरेकं कार्यं कारणं वापेक्ष्यान्यत्र कार्ये कारणे वासौ सम्बन्धः क्रमेण वर्त्तत इति सस्पृहत्वेन द्विष्ठ एवेष्यते; तदानेनापेक्ष्यमाणेनोपकारिणा भवितव्यम्, यस्मादुपकार्यपेक्ष्यः स्यात्, नान्यः / कथं चोपकरोत्यसन्? यदा कारणकाले कार्याख्यो भावो ऽसन् तत्काले वा कारणाख्यस्तदा नैवोपकुर्याद्; असामर्थ्यात्
10 SK यद्येकार्थाभिसम्बन्धात् कार्यकारणता तयोः / प्राप्ता द्वित्वादिसम्बन्धात् सव्येतरविषाणयोः
10 SK किञ्च- यद्येकार्थाभिसम्बन्धात् कार्यकारणता तयोः कार्यकारणभावत्वेनाभिमतयोः; तर्हि द्वित्वसंख्यापरत्वापरत्वविभागादिसम्बन्धात् प्राप्ता सा सव्येतरगोविषाणयोरपि
11 SK द्विष्ठो हि कश्चित् सम्बन्धो नातो ऽन्यत्तस्य लक्षणम् / भावाभावोपधिर्योगः कार्यकारणता यदि
11 SK न येन केनचिदेकेन सम्बन्धात् सेष्यते; किं तर्हि? सम्बन्धलक्षणेनैवेति चेत्; तन्न, द्विष्ठो हि कश्चित्पदार्थः सम्बन्धः, नातो ऽर्थद्वयाभिसम्बन्धादन्यत् तस्य लक्षणम्, येनास्य संख्यादेर्विशेषो व्यवस्थाप्येत
12 SK योगोपाधि न तावेव कर्यकारणतात्र किम् / भेदाच्चेन्नन्वयं शब्दो नियोक्तारं समाश्रितः
12 SK कस्यचिद्भावे भावो ऽभावे चाभावः, तावुपाधी विशेषणं यस्य योगस्य=सम्बन्धस्य स कार्यकारणता यदि न सर्वसम्बन्धः; तदा तावेव योगोपाधी भावाभावौ कार्यकारणतास्तु, किमसत्सम्बन्धकल्पनया? भेदाच्चेत् ऽभावे हि भावो ऽभावे चाभावःऽ इति बहवो ऽभिधेयाः कथं कार्यकारणतेत्येकार्थाभिधायिना शब्देनोच्यन्ते? नन्वयं शब्दो नियोक्तारं समाश्रितः / नियोक्ता हि यं शब्दं यथा प्रयुङ्क्ते तथा प्राह, इत्यनेकत्राप्येका श्रुतिर्न विरुध्यते इति तावेव कार्यकारणता
13 SK पश्यन्नेक मदृष्टस्य दर्शने तददर्शने / अपश्यत्कार्यमन्वेति विना व्याख्यातृभिर्जनः
13 SK यस्मात् पश्यन्नेकं कारणाभिमतमुपलब्धिलक्षणप्राप्तस्यादृष्टस्य कार्याख्यस्य दर्शने सति तददर्शने च सत्यपश्यत्कार्यमन्वेति ऽइदमतो भवतिऽ इति प्रतिपद्यते जनः ऽअत इदं जातम्ऽ इत्याख्यातृभिर्विनापि
14 SK दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसम्भवात् / कार्यादिश्रुतिरप्यत्र लाघवार्थ निवेशिता
14 SK तस्माद् दर्शनादर्शने विषयिणि विषयोपचारात्- भावाभावौ मुक्त्वा कार्यबुद्धेरसम्भवात् कार्यादिश्रुतिरप्यत्र ऽभावाभावयोर्मा लोकः प्रतिपदमियतीं शब्दमालामभिदध्यात्ऽ इति व्यवहारलाघवार्थं निवेशितेति
15 SK तद्भावाभावात् तत्कार्यगतिर्याप्यनुवर्ण्यते / सङ्केतविषयाख्या सा सास्नादेर्गोगतिर्यथा
15 SK अन्वयव्यतिरेकाभ्यां कार्यकारणता नान्या चेत् कथं भावाभावाभ्यां सा प्रसाध्यते? तदभावाभावात् लिङ्गात् तत्कार्यतागतिर्याप्यनुवर्ण्यते- ऽअस्येदं कार्यं कारणं चऽ इति; सङ्केतविषयाख्या सा / यथा ऽगौरयं सास्नादिमत्त्वात्ऽ इत्यनेन गोव्यवहारस्य विषयः प्रदर्श्यते
16 SK भावे भाविनि तद्भावो भाव एव च भाविता / प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः
16 SK यतश्च ऽभावे भाविनि=भवनधर्मिणि तद्भावः=कारणाभिमतस्य भाव एव कारणत्वम्, भावे एव कारणाभिमतस्य भाविता कार्याभिमतस्य कार्यत्वम्ऽ इति प्रसिद्धे प्रत्यक्षानुपलम्भतो हेतुफलते / ततो भावाभावावेव कार्यकारणता, नान्या
17 SK एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः / विकल्पा दर्शयन्त्यर्थान् मिथ्यार्था घटितानिव
17 SK तेनैतावन्मात्रं=भावाभावौ तावेव तत्त्वं ऽयस्यार्थस्यासावेतावन्मात्रतत्त्वः, सो ऽर्थो येषां विकल्पानां ते एतावन्मात्रतत्त्वार्थाः=एतावन्मात्रबीजाः कार्यकारणगोचराः, दर्शयन्ति घटितानिव=सम्बद्धानिवासम्बद्धानप्यर्थान् / एवं घटनाच्च मिथ्यार्थाः
18 SK भिन्ने का घटनाभिन्ने कार्यकारणतापि का / भावेह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ
39 SK किञ्च, असौ कार्यकारणभूतो ऽर्थो भिन्नः, अभिन्नो वा स्यात्? यदि भिन्नः;, तर्हि भिन्ने का घटना स्वस्वभावव्यवस्थितेः? अथाभिन्नः; तदाभिन्ने कार्यकारणतापि का? नैव स्यात् /
18 SK स्यादेतत्, न भिन्नस्याभिन्नस्य वा सम्बन्धः / किं तर्हि? सम्बन्धाख्येनैकेन सम्बन्धात्; इत्यत्रापि भावे सत्तायामन्यस्य सम्बन्धस्य विश्लिष्टौ कार्यकारणाभिमतौ श्लिष्टौ स्याताम्, कथं च तौ संयोगिसमवायिनौ? आदिग्रहणात् स्वस्वाम्यादिकम्
19 SK संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् / अन्योन्यानुपकाराच्च न सम्बन्धी च तादृशः
19 SK सर्वमेतेनान्तन्तरोक्तेन सामान्यसम्बन्धप्रतिषेधेन चिन्तितम् संयोग्यादीनामन्योन्यमनुपकाराच्चाजन्यजनकभावाच्च न सम्बन्धी च तादृशो ऽनुपकार्योपकारकभूतः
20 SK जनने ऽपि हि कार्यस्य केनचित् समवायिना / समवायी तदा नासौ न ततो ऽतिप्रसङ्गतः
20 SK अथास्ति कश्चित् समवायी यो ऽवयविरूपं कार्यं जनयति, अतो नानुपकारादसम्बन्धितेति; तन्न; यतो जनने ऽपि कार्यस्य केनचित् समवायिनाभ्युपगम्यमाने समवायी, नासौ तदा; जननकाले कार्यस्यानिष्पत्तेः / न च ततो जननात् समवायित्वं सिद्ध्यति; कुम्भकारादेरपि घटे समवायित्वप्रसङ्गात्
21 SK तयोरनुपकारे ऽपि समवाये परत्र वा / सम्बन्धो यदि विश्वं स्यात् समवायि परस्परम्
21 SK तयोः समवायिनोः परस्परमनुपकारे ऽपि ताभ्यां वा समवायस्य नित्यतया समवायेन वा तयोः परत्र वा क्वचिदनुपकारे ऽपि सम्बन्धो यदीष्यते; तदा विश्वं परस्परासम्बद्धं समवायि परस्परं स्यात्
22 SK संयोगजनने ऽपिष्टौ ततः संयोगिनौ न तौ / कर्मादियोगितापत्तेः स्थितिश्च प्रतिवर्णिता
48 SK इत्याचार्यधर्मकीर्तिविरचिता सम्बन्धपरीक्षा समाप्ता /
22 SK यदि च संयोगस्य कार्यत्वात्तस्य ताभ्यां जननात् संयोगिता तयोः तदा संयोगजनने ऽपिष्टौ, ततः संयोगजननान्न तौ संयोगिनौ, कर्मणो ऽपि संयोगितापत्तेः / संयोगो ह्यन्यतरकर्मजः उभयकर्मजश्चेष्यते / आदिग्रहणात् संयोगस्यापि संयोगिता स्यात् / न संयोगजननात् संयोगिता, किन्तर्हि? स्थापनादिति चेत्; न स्थितिश्च प्रतिवर्णिता=ग्रन्थान्तरे प्रतिक्षिप्ता, स्थाप्यस्थापकयोर्जन्यजनकत्वाभावान्नान्या स्थितिरिति
50 SK इति प्रभाचन्द्रकृता सम्बन्धपरीक्षाव्याख्या समाप्ता /
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dharmakīrti: Saṃbandhaparīkṣā with Prabhacandra's commentary. (sa_dharmakIrti-saMbandhaparIkSA-comm.htm).
Source