Kātyāyanītantraṭīka

Kātyāyanītantraṭīka

SK
नं० ५२९५ नाम - कात्यायनीतन्त्रटीका मन्त्र व्याख्या प्रकाशिका कर्ता - श्रीनीलकण्ठः पत्र- १४ विषयः-तन्त्रम्
SK
ॐश्रीगणेशायनमः ॐअचलौगिरीशगिरिशौमातामहतांचताततांयातौ सर्वस्ययत्प्रभावाद्वंदे पर्णांलतांतुगिरिजांतां १ येसंतिश्रुतिमौलिसाररसिकायज्वानेवंपरे स्वर्वामाधरमाधुरमाधुरी परिचयेसंरंभिणस्संतुते २ अस्माकंतुतदेवलोचनचमत्कारायभूयाच्चिरं प्रालेयाचलकंदरोदररू रीखेलत्तुमैनंवपुः ३ मैनंमत्सीरूपमितिबाह्योर्थः मेनायांभवंमैनमुमारूपमितिगूढोर्थः श्री मल्लक्ष्मवतींलक्ष्मींमातरंदेशिकोत्तमां पितरंरङ्गनाथाख्यंदेशिकोत्तममाश्रये ४ शैवोपनाम कोवित्तोनीलकंठोभिधानतः सप्तशतीसप्तशतमंत्रसंख्याविभाजके ५ कात्यायनोतंत्रमध्येप टलानांविवोधिनीं व्याख्यांकरोतिशिवयोस्तोषायजनतामुदे ६ अथेदंसप्तशतीस्तोत्रंमार्कंडेय उवाचेत्यारभ्यसावर्णिर्भवितामनुरित्यंतंत्रयोदशाध्यायात्मकंमार्कंडेयपुराणांतर्गतंसर्वकामदुघेन केनचिन्निर्मितंकिंतुवेदवदनाद्येव तदुक्तंभुवनेश्वरीसंहितायां ययावैदोह्य?नादिर्हितद्वत्सप्तशती स्मृतेति मेरुतंत्रेपि सप्तशत्यास्तुसकलंतत्वंवेदगुहमेवहि पादोनंश्रीहरिर्वेत्तिवेत्यर्धंतुप्रजाप तिः व्यासस्तुर्यांशकंवेतिकोट्यंशमितरेजनाइतिव्यासेनप्रकटीकृतत्वात्तुव्यासकृतमितिलोके व्यवहारः रुद्रयामलेपि अस्तिगुतमंदेव्यामाहात्म्यंसर्वसिद्धिदं वाक्यैरर्थैश्चपद्यैश्चसप्तशत्या त्मकंशुभं
SK
सविशेषपरंसाक्षाच्चिच्छक्तिमहिमाश्रयं तात्पर्यगत्यातत्कृत्स्नंनिर्विशेषचिदाश्रयमि ति तत्रास्यस्तोत्रस्यसप्तशतीसप्तशतीचेतिनामद्वयंतद्व्युत्पत्तिर्मेरुतंत्रे सप्तशत्याश्चरित्रेतुप्रथमे
SK
का.त. पृ०१ अ) पद्मजोमुनिःछंदोगायत्रमुदितंमहाकालीतुदेवता वाग्वीजंपावकस्तत्वंधर्मार्थेविनियोजनं प्र योजनं प्रयोगानांतुनवतिर्मारणेमोहनेऽत्रतु इत्यादिउच्चाटेस्तेंभनेचात्रप्रयोगानांशतद्वयंमध्यमे तुचरीत्रेस्थातृतीयेऽथचरित्रकेविद्वेषवश्ययोश्चात्रप्रयोगादिक्कृतैर्मताः एवंसप्तशतंचात्रप्रयोगाः संप्रकीर्तिनाः तस्मात्सप्तशतीत्येवंप्रोक्तंव्यासेनधीमता महाविद्येत्यादिसत्यःसप्तकल्पेतथादिमे व्रह्मेंद्रगुरुशुक्राणांविष्णुरुद्रसुरद्रसुरद्विषां उपास्यादेवताजातास्ताश्चात्रव्रह्मणास्तुताः तस्मा त्सप्तशतीत्येवंव्यासेनपरिकीर्तिता तथामध्यमचरित्रेलक्ष्मीललिताकालीदुर्गागायत्र्यरुंधतौ सरस्वतीइति तथाकालीताराछिन्नमस्तासुमुखीभुवनेश्वरी बालाकुब्जेतिसप्तसतीनांमंत्रा गुप्तरूपेणकथिताः तस्मात्सप्तसतीतिनाम तथातृतीयचरित्रेव्राह्म्याद्याश्चामुंडांताःसप्त त थानंदाशाताक्षीशाकंभरीभीमारक्तदंतिकादुर्गाभ्रामर्यस्सत्यःसप्तसछ्रव्याउक्तास्तस्मात्सप्तसती नामेत्यादिमेरुतंत्रेस्पष्टं तत्रहोमेतर्पणेमार्जनेमंत्रैःसंपुटीकरणेचसप्तशतमंत्रविभागंकृत्वैव हो मादिकं सप्तशतमंत्रैःकर्तव्यमन्यथाविफलंभवतीतिवक्ष्यमाणकात्यायनीतंत्रवचनादस्यसप्त शतीस्तोत्रस्यसप्तशतमंत्रविभागोऽवश्यमपेक्षितःसतुमंत्रविभागःकात्यायनीतंत्रेउक्तः सच
SK
कात्यायनोतंत्रव्याख्यानेनस्पष्टीक्रियते || पृ० १ब) ईश्वरुवाच मार्कंडेयुवाचाद्यिति अस्यार्थःमर्कंडेयुपुवाचेत्याद्यःप्रथमेकोमंत्रित्यर्थः त तस्तदुत्तरंद्वितीयस्वराकारस्तेनसंयुतःसंयुक्तोव्योमहकारस्तस्यादिवर्णःसकारस्तेनसाइ तिसिद्धंतमारभ्यनृपमित्यक्षरद्वयमंतिमंयेषांतेतदंतिमाष्टादशतत्संख्याकाःश्लोकात्म कामंत्राभवंतीत्यर्थः तत्रयद्यपिसावर्णिःसूर्यतनयित्यारभ्यप्रत्युवाचसतंवैश्यःप्रश्रयावनतोनृ पमित्यर्द्धात्पूर्वंसप्तश्लोकाःप्रत्युवाचसतंवैश्यितित्वर्धश्लोकेवतथापिअंत्यार्धश्लोकस्यैवमंत्रत्वं स्वीकृत्यछत्रिन्यायेनाश्लोकार्द्धपिश्लोकव्यवहारःकृतितिबोध्यं तथाचप्रथममंत्रेणसहि ईश्वरुवाच मार्कांडेयुवाचाद्योमंत्रःश्लोकात्मकास्ततः व्यो मादिवर्णमारभ्यद्वितीयस्वरसंयुतं १ नृपमित्यंतिमामंत्राभवं त्यष्टादशप्रिये वैश्यवाक्यंततःश्लोकाव्योमाद्यासंवमंत्रकाः २
SK
ताएकोनविंशतिमंत्रास्सपन्नाःवैश्यवाक्यमिति वैश्युवाचेत्येकोमंत्रित्यर्थः ततस्त्तदुत्तरं व्योमाद्यादिति ल्यब्लोपेपंचमीव्योमहकारस्तदाद्यःसकारस्तमारभ्योत्यर्थः तमारभ्यश्लोका अर्थाच्चत्वारःतेपंचमंत्रकाभवंतीतिशेषःचतुःश्लोकानामेवतावत्पर्यंतंसत्वात् ननुचतुर्षुश्लोके षुपंचमंत्रत्वंकथमितिचेत्प्रथमश्लोकस्यार्द्धभागस्यमंत्रत्वस्वीकारात् तदुक्तंभुवनेशीसंहितायां समाधिनीममंत्रोयमर्थोमंत्रस्ततस्त्रयः अंतिमार्द्धेन सहिताःपंचमंत्राउदीरिताइति २ || का.तं. पृ० २अ) नृपस्योक्तिरिति राजोवाचेत्येकीमंत्रोभवतीतिशेषः मांतवर्णोमकारांतवर्णोयकारःकथंभूतै कारेणयुक्तस्तेनयैइतिसिद्धंसादितादौअथचसकारोबिंदुसंयुक्त्ॐतेवसानेइदृशौमंत्रौद्वौम तौयैर्निरस्तितिश्लोकेखंडद्वयंकृत्वामंत्रद्वयंसंपादनोयमितिभावः ३ ततोवैश्युवाचेतीति वैश्य उवाचेत्येकोमंत्रित्यर्थः स्वरेषुएकादशःस्वरेकारःस्वादिआदौअथचवह्निबीजंरकारःक थंभूतंबिंदुयुक्तंतेनरमितितदंतेयस्यैतादृशंमनुपंचकंस्यादित्यर्थः अत्राप्येवमेतद्यथाप्राहे
SK
नृपस्योक्तिर्मांतवर्णैकारेणयुगादितः सकारोबिंदुसंयुक्त्ॐतेमंत्रा वीदृशौमतौ ३ ततोवैश्युवाचेतिस्वरैकादशादितःवन्हिबीजंबिं दुयुक्तमंतोस्यात्मनुपंचकं ४ मार्कंडेयुवाचैकस्ततोमंत्रत्रयंभवेत् तादिवर्णंचभुवनस्वरयुग्वारुणांतिमम् ५ त्यारभ्यनिष्टुरमित्यंताः चत्वारेवश्लो कास्तेषुपूर्वन्यायेनादिमार्धांतिमार्धेनसहितमध्यश्लोकत्रयेणपंचमंत्रत्वंबोध्यम् ४ मार्कंडेयुवा चैकितिमार्कंडेयुवाचेत्येकोमंत्रित्यर्थः ततस्तादिवर्णंतकारादिवर्णोयस्यभुवनस्वरौकार स्तद्युक्वारुणोअकारःस्ॐतिमेयस्यैतादृशंमंत्रत्रयंभवेत् अत्रापिततस्तावित्यारभ्यपार्थिवावित्यं तश्लोकार्द्धांतिमश्लोकार्धयोःपृथक्करणेनमध्यैकश्लोकेनमंत्रत्रयत्वंबोध्यं तदुक्तंभुवनेशीसंहिता यां ततस्तावर्द्धमेतत्स्यादिति ५ || पृ० २ब) राजोवाचेति राजोवाचेत्येकोमंत्रित्यर्थः ततोभकारादिर्येषांताइति अंतेयोषांतादृशाःषण्मंत्रामता ज्ञेयाइत्यर्थः अत्रापिप्रथमांतिमार्धद्वयपृथक्करणेनषण्मंत्रत्वंबोध्यम् भगवन्निदमर्धंस्यादिति अंति मार्धस्यतुउवाचांतास्तुयेमंत्रास्तेर्धमंत्रात्मिकाः प्रियेइतिहरगौरीतंत्रवचनान्मत्रत्वंबोध्यं अथो वाचेति अथानंतरम्रिपीरुवाचेत्येकोमंत्रित्यर्थः तदनंतरंज्ञानमस्तीत्यारभ्यसर्वेश्वरेश्वरी
SK
मार्कंडेयुवाचैकस्ततोमंत्रत्रयंभवेत् तादिवर्णंचभुवनस्वरयुग्वारुणांतिमं ५ राजो वाचेतिषण्मंत्राभादितांताःशुभानने अथोवाचृषिर्ज्ञानमस्तीत्यारभ्यपार्वति ६ स र्वेश्वरेश्वरीत्यंतामंत्राद्वादशकीर्तिताः राजोवाचेतिभगवन्नादावंतेविदांवर ७ मंत्र त्रयमिदंख्यातंपश्चादृषिरुवाच नित्यैवसाजगन्नादौप्रभुरंतेष्टमंत्रका ८ त्यंतामंत्राद्वादशकीतिताः प्रथमार्धंमध्येदशश्लोकावशिष्टमंतिमार्धंमिलित्वापूर्वन्याये नद्वादशमंत्राज्ञेयाः ५ ६ राजोवाचेतिराजोवाचेत्येकोमंत्रः अथादौभगवन्नितिअंतेविदा वरेति तादृशश्लोकद्वयेप्रथमाथमध्यश्लोकांतिमार्धात्मकंमंत्रत्रयमिदंपूर्वन्यायेनख्यात | मित्यर्थः पश्चादृषिरुवाचेत्येकोमंत्रः ततादौनित्यैवसाजगदितिअंतेप्रभुरितिदृशायेसप्तश्लो कास्तेषुप्रथमार्धमध्यश्लोकषट्कोतिमार्धात्मकाष्टमंत्राइत्यर्थः ८ || का.तं. पृ० ३अ) अथव्रह्मोवाचेति व्रह्मोवाचेत्येकोमंत्रःततस्त्वंस्वाहादिकामहासुरावित्यंतिमायेचतुर्दश श्लोकास्तेपूर्वन्यायेनप्रथमार्धमध्यत्रयोदशश्लोकांतिमार्धात्मकापंचदशमंत्राइत्यर्थः ९ ऋषिरेवमिति ऋषिरुवाचेत्येकोमंत्रःएवंस्तुतेत्याद्याःकेशवांतिमायेषट्श्लोकास्तेप्रथमा र्धमध्यश्लोकपंचकांतिमधिकाःसप्तमंत्राभवंतीत्यर्थः ततोभगवदुक्तिर्भगवानुवाचेत्ये
SK
अथव्रह्मोवाचततस्त्वांस्वाहात्वंस्वधादिमाः महासुरांतिमामंत्रामताःपंच दशप्रिये ९ ऋषिरेवंस्तुतेताद्याःसमस्युःकेशवांतिमाः ततोभगवदु क्तिःस्याद्भवेतामित्युभौमनू १० अयर्षिवीचिताभ्यामित्येतन्मंत्रद्वय शिवे ऋष्युक्तिश्चतथेत्युक्तेत्यादिमंत्रद्वयंभवेत् ११ || को मंत्रःभवेतामद्यमेतुष्टावितिश्लोकेखंडद्वयेनद्वौमंत्रावित्यर्थः १० अथर्षिरिति ऋषिरुवाचेत्येकोमंत्रःवंचिताभ्यामितिवंचिताभ्यामित्यादिकमेतन्मंत्रद्वयंभवेत् वंचिताभ्यामयंमंत्रोप्यर्धमंत्रोजलप्रदितिहरगौरीतंत्रार्धमंत्रो वशिष्टेकःश्लोकमंत्रितिमंत्रद्वयंऋषीरुवाचेत्येको मंत्रःतथेत्युक्तेत्यादिश्लोकद्वयात्मकंमंत्रद्वयंनात्रा र्धमंत्रोस्ति ११ पृ० ३ब) ननुसर्वेश्लोकाइहाध्यायेकतिजातास्तत्राह सर्वेश्लोकाइति इहप्रथमाध्यायेसर्वश्लोकाश्चतु ष्पादात्मकाष्टयुक्सप्ततिरष्टाधिकासप्ततिर्मताइत्यर्थः मध्येर्धश्लोकमंत्रास्तुपूर्वोक्तप्रकारेण चतुर्विंशतिरीरिताः इदमेवज्ञापकंमध्येमध्येर्धमंत्रकरणे १२ उवाचांताःकतिसंतितत्राह उवा सर्वेश्लोकाइहाध्यायेत्वष्टयुक्सप्ततिर्मताः मध्येर्धश्लोक मंत्रास्तुचतुर्विंशतिरीरिताः १२ उवाचांतास्तत्रबोध्यांमंत्रा भुवनसंख्यकाः संहत्याहुतयोज्ञेयाश्चतुर्भिरधिकंशतम् १३ इतिकात्यायनीतंत्रेसप्तशतीमंत्रविभागेविंशःपटलः २०
SK
चांता इतिऋषिरुवाच राजोवाचेत्यादयुवाचमंत्राभुवनसंख्यकाश्चतुर्दशसंख्यामवंति अस्त्वे तत्संहत्याहुतपःकतिजातास्तत्राह संहत्येति अस्यार्थःस्पष्टेव १३ इतिकात्यायनीतंत्रव्याख्या यांविंशःपटलः २० || का.त. पृ० ४अ) ईश्वरुवाच द्वितीयेऋष्युवाचेतीति द्वितीयाध्यायेऋषिरुवाचेतिप्रथमोमंत्रित्यर्थः तेनसहाष्ट षष्टिश्लोकमेलनेननवषष्टिआहुतयोजाताएकोनसप्ततिरितिफलितं आहुतिरित्येकवचनमार्षं ततस्तृतीयेध्यायेहेदेशिकेगुरुरूपिणिपार्वतिऋषिरुवाचेत्येकोमंत्रः १ ततःपंचत्रिंशत्श्लोक ईश्वरुवाच द्वितीयेऋष्युवाचेतिनवषष्ट्याहुतिःक्रमा त् ततस्तृतीयेध्यायेतुऋषिरुवाचेतिदेशिके १ पंचत्रिं शच्चैवमंत्राःश्लोकज्ञेयावरानने देव्युवाचेतिमंत्रांतेमंत्रश्लो कस्तंतःपरं २ ऋषेरुक्तिःपुनःश्लोकाःपंचमंत्राःसनातनाः एवमाहुतयस्तत्रचत्वारिंशंच्चतुर्युताः ३ चतुर्थेक्रमतोदे विऋष्युक्तिःषट्चतुविंशतिः पुनस्तथैवृष्युक्तिःश्लोकौ द्वौमंत्ररूपिणौ ४ ||
SK
रूपामंत्राइत्यर्थः ततोदेव्युवाचेत्येकोमंत्रस्तदंतेएकोमंत्रश्लोकेकश्लोकात्मकोमंत्रित्यर्थः २ ततृषेरुक्तिः ऋषिरुवाचेत्येकोमंत्रःपुनःपंचश्लोकाःपंचमंत्राइत्यर्थः एवंप्रकारेणचतुर्युता श्चत्वारिंशदाहुतयित्यर्थः ३ चतुर्थेइति चतुर्थेअध्यायेऋष्युक्तिःऋषिरुवाचेतिमंत्रःततःष ट्विंशतिश्लोकात्मकामंत्राःपुनरृषिरुवाचे त्येकोमंत्रःततोद्वौश्लोकौमंत्ररूपिणौ ४ || पृ० ४ब) तन्मध्येएवंस्तुतासुरैर्देवोतिमंत्रोऽतिगुह्योभवतिअतिपावनश्चभवतिएतद्रहस्यंशिवजानातिनास्मत्या मदृष्टिगोचरम् ततोदेव्युवाचेत्येकोमंत्रः ततोव्रियतामितिषोडशक्षरोर्धश्लोकात्मकोमंत्रित्यर्थः ५ देवा ऊचुरिति देवाऊचुरित्येकोमंत्रः तंमंत्रमुक्त्वाभगवत्याकृतंसर्वमितिवदेत्कियत्पर्यंतंवदेत्तत्राह मंत्रो यमिति द्वादशशते उत्तरावर्णास्तद्युक्तद्युक्तःशतवर्णाढ्यःद्वादशाधिकशतवर्णात्मिकःसार्धत्रि श्लोकात्मकितियावत् तावत्पर्यंतमेकोमंत्रित्यर्थः इदमेकमंत्रत्वविधानंकामनापरत्वेनकेवलमंत्रजप एवंस्तुतेतिमंत्रोयमतिगुह्यःसुपावनः देव्युवाचेतिव्रियतांमंत्रोयंषोडशाक्षरः ५ देवा ऊचुस्ततश्चोक्ताभगवत्याकृतंवदेत् मंत्रोयंशतवर्णाढ्योद्वादशोत्तरयुक्पुनः ६
SK
परतयाक्वचिदुक्तंतत्सर्वोत्तमंभवतीतिसूचनायप्रसंगादुक्तं नतुसार्धत्रिश्लोकात्मकमंत्रेणैकाहुतिःक र्तव्येत्यभिप्रायेणपटलांतेवक्ष्यमाणसंख्यायाविरोधापत्तेः तस्मादत्रापिखंडंकृत्वाहोमःकर्तव्यः तत्रभु वनेशीसंहितायांभगवत्येतदर्धंसर्वाशापूरकंस्मृतमित्युक्तत्वाद्भगवत्याकृतंसर्वमित्यर्धश्लोकात्मक एकोमंत्रस्ततःश्लोकत्रयात्मकाःत्रयोमंत्राइतिबोध्यम् ६ || || का.त. पृ० ५अ) ततोऋषीरुवाचेति ऋषिरुवाचेत्येकोमंत्रः अंतेतदंतेइतिप्रसादिनेत्यादयश्चत्वारः श्लोकायेस्युस्तावंतेवमं त्राभवंतीत्यर्थः ७ सर्वाध्यायमंत्रसंख्यांमेलयति श्लोकाश्चतुर्थेइतिपंचत्रिंशदिति पंचत्रिंशत्श्लोकात्मका मंत्राःपचोवाचांतार्थाद्बौध्याः तत्रैवार्धमंत्रद्वयमेलनेचत्वारिंशद्द्वियुक्ताद्विचत्वारिंशन्मांत्राभवंतिइत्य ततोऋषिरुवाचांतितिप्रासादितेतिवै चतुःसंख्यास्तुयेश्लोकामंत्रास्तावंते वहि ७ श्लोकाश्चतुर्थेःध्यायेतुपंचत्रिं शत्यरेश्वरि अर्धमंत्रद्वयेनैवचत्वारिं शद्द्वियुक्पुनः ८ एवंमध्यचरित्रस्य पंचाशच्चशतोत्तरं तथापंचयुतंमंत्रा महालक्ष्म्याविभेदतः ९ इतिकात्या यनीतंत्रेएकविंशःपटलः २१
SK
र्थः ८ मध्यमचरित्रसंख्यांमेलयति एवंमध्यचरित्रस्येतिस्पष्टं ९ प्रथमंशतंतदुत्तरंपंचयुतंपंचा शदित्यर्थः १५५ इतिकात्यायनीतंत्रकाशेएकाविंशःपटलः २१ || || || पृ० ५ब) पंचमाध्यायेऋषिरुवाचेतीति ऋषिरुवाचेत्येकोमंत्रः ततःपुराइत्यारभ्यविष्णुमायांप्रतुष्टुवुरि त्यंताः श्लोकरूपाः षण्मंत्राभवंतीत्यर्थः ततोदेवाऊचुरित्येकोमंत्रः १ नमोदेव्यादीति नमोदेव्यै इत्यारभ्यविनम्रमूर्तिभिरित्यंताः श्लोकास्त्रिंशद्वंतितन्मध्येविष्णुमायेतिशब्दितेत्यादिभ्रांतिरूपे णसंस्थितेत्यंतिमाएतत्पदघटितायेमंत्राएकविंशतिसंख्याकास्तेखंडत्रयेणत्रिषष्टिर्भवंतीत्यर्थः २ कथंखंडत्रयंकर्तव्यमितिचेन्नाह अवतारौरिति एतत्पदलब्धांकैःपृथङ्मंत्राःकर्तव्याःखंडत्रयं ऋषिरुवाचेतिपुराविष्णुमायांप्रतुष्टुवुःषण्मंत्राश्लोकरूपास्तेदेवाऊचुस्ततःपरं १ नमोदे व्यादिनः श्लोकास्त्रिंशद्द्विनम्रमूर्तिभिः विष्णुमायादितोभ्रांतिरूपातेत्रीणिषष्टियुक् २ अवतारैःपृथङ्मंत्रास्तेषांत्रिषष्टिराहुतिः ||
SK
कर्तव्यंतत्राकारेणावर्गस्यग्रहणंतेनच षोडशसंख्यालक्ष्यते वकारेणवररुचिसंकेतेनचतुःसंख्यायाग्रहणंमिलित्वाविष्णुमपित्या दिनमस्तस्यैपर्यंतंविंशत्यक्षरात्मकः प्रथमःखंडःतारेइतितकारेणषट्संख्यायाग्रहणंरकारे णद्वित्वसंख्यायामिलित्वाष्टाक्षरात्मकोद्वितीयःखडःयद्यप्येतत्ग्रंथानुरोधेनायंद्वितीयःखंडःप्रा प्तस्तथापिवेदाक्षरोननुर्मध्येमहालक्ष्म्याःप्रतोषकृत् लक्ष्मीसूक्तेतुताशब्देनायमेवोच्यतेशिवे इतिच १८ का.त. पृ० ६अ) तुत्रिंशेपटलेवचनात् तृतीयखंडोज्ञेयःनमस्तस्यैइतितुद्वितीयखंडः एवंप्रतिश्लोकंसंपन्नायेत्रयोमं त्राःस्तेषांत्रिषष्टिराहुतिराहुतयोज्ञेयाइत्यर्थः ३ संमूलाक्षरात्तंत्रांतराच्चमंत्रत्रयेलब्धेगुप्तवत्यांकेनचि ज्जल्पितंयादेवीसर्वभूतेषुविष्णुमायेतिशब्दितानमस्तस्यैनमोनमितिचतुर्विंशत्यक्षरोमंत्रस्त्रिवारमु इंद्रियाणामधिष्टात्रीत्येकःश्लोकात्मकःपरः ३ चितिरूपेणमंत्रेणाप्याहुतित्रयमुच्चरेत् एवंमं त्राशीतिस्तेपूर्वैःसहसुरेश्वरि ४ || ४
SK
च्चार्याहुतित्रयं भवतीतितत्केनगुरुणाबोधितमितिसेवप्रष्टव्यः तथाचविंशत्यक्षरःप्रथमोमंत्रोद्विती यश्चतुरक्षरः अष्टाक्षरस्तृतीयोमंत्रितिसिद्धं इंद्रियाणामधिष्टात्रीति || अयमेकश्लोकात्मकोमंत्रः ३ चितिरूपेणेति चितिरूपेणयाकृत्स्नमितिमंत्रेणपूर्वोक्तयुक्त्याआहुतित्रयंकुर्यादित्यर्थः एवंमंत्रा इति विष्णुमायेत्यादितःपूर्वैस्त्रयोदशमंत्रैःसहेवंप्रो क्तप्रकारेणसप्तषष्टिमंत्रमेलनेअशीतिमंत्राभवंतीत्यर्थः ४ पृ० ६ब) अथप्रथमोक्तमुवाचमंत्रद्वयंमेलयित्वाशीतिसंख्यासंपादिनेतिबोध्यम् ततिति स्तुतेतियुगलंस्तुतासुरै रित्यादिकंमंत्रद्वयमित्यर्थः ऋषिरुवाचेत्येकोमंत्रःएवंस्तवादियुक्तनामित्यारभ्यत्वयाकस्मान्नगृह्यतेइत्यंतं सप्तदशमंत्राइत्यर्थः ५ ऋषिरुवाचेत्येकोमंत्रः ततोवैनिश्चयेननिशेतिनिशम्येतिवचःशुंभित्यादित्रित यैःश्लौकैर्मत्रास्त्रयःशुद्धभेदाःप्रकीर्तिताः शुद्धभेदेत्युपरंजकतयाविशेषणम् ६ अथदूतेति दूतुवाचेत्येको
SK
तत्रस्तुतेतियुगलमृषिरुवाचित्यथ एवंस्तवादियुक्तानांत्वयाकस्मान्नगृह्यते ५ मंत्राःसप्तदशैतेतु ऋष्युक्तिश्चनिशेतिवैइत्यादित्रितयैर्मंत्राःशुद्धभेदाःप्रकीर्तिताः ६ अथदूतुवाचेतिदेविदैत्ये | श्वरस्ततः इत्याद्यानवमंत्राश्चपुनरृषिरुवाचह ७ इत्युक्तेत्यादिमंत्रेणेहैकेनचसरस्वतीदेव्युवाच ततःश्लोकाश्चत्वारोमंत्रभेदतः ८ अथदूतुवाचेतिगौरवामागमिष्यसिमंत्रामू०श्चतःसंख्यकास्तुदे व्युवाचततःपरं ९ मू० मंत्रः देविदैत्येश्वरित्यादयोनवमंत्राः ऋषिरुवाचेत्येकोमंत्रः ७ इत्युक्तेत्यादीति इत्युक्तासातदादेवी त्येकेनश्लोकेनैवेहसरस्वतीप्राप्यतितिशेषः सारस्वतप्रदोयंमंत्रितिभावः ततोदेव्युवाचेत्येकोमंत्रः ततःश्लोकाश्चत्वारोमंत्राः ८ अथदूतुवाचेति दूतुवाचेत्येकोमंत्रः गौरवामागमिष्यसीत्यंताश्चतुःसं ख्यामंत्राःदेव्युवाचेतिर्कैः ९९ || का.त. पृ० ७अ) एवमिति एवमेतद्बलीशुंभित्यारभ्यसचयुक्तंकरोतुयदित्यंतंमंत्रद्वयं एवंरीत्यातेसर्वेश्लोकाथचनवसं ख्या अंगमंत्राश्चअत्रनवशब्दःसप्तसंख्याबोधकोलक्षणयावक्ष्यमाणसंख्यानुरोधात् अंगशब्दोप्या?रं भवाचक्रः अंगंतुदेहावयवेपुंस्यारंभेप्रकीर्तितमितिकोशात्तथाचारंभमंत्राइत्यर्थः तेचृषिरुवाचदेव्यु
SK
एवमेतद्बलीशुंभःसचयुक्तंकरोतुयत् इतिमंत्रद्वयंश्लोकांगमंत्राश्चतेनव १० एकोनत्रिं शच्चशतादधिकामंत्ररूपकाः ऋषिरुवाचेत्याकर्ण्यश्लोकाश्चत्वारीरिताः ११ पुनरृषि रुवाचेतितेनाज्ञप्तस्ततःपरम् मंत्रत्रयमिदंप्रोक्तंदेव्युवाचेतिवैततः १२ १२ १२ वाचेत्यादयः सर्वेमंत्रामिलित्वात्तस्मिन्नध्यायेऐतेएकोनपंचाशत्संख्यामंत्राःपूर्वोक्ता अशीतिमंत्राश्च श्चमिलित्वाशताधिकाएकोनत्रिंशन्मंत्रकाजाताइत्यर्थः १० ततषष्टेध्यायेऋषिरुवाचेत्याकर्ण्येति ऋषिरुवाचेत्येकोमंत्रःततित्याकर्णेत्याद्याश्चत्वारःश्लोकामंत्राईरिताः ११ पुनरृषिरुवाचेति ऋषि रुवाचेत्येकोमंत्रःतेनाज्ञाप्तस्ततःशीघ्रमित्यादिमं त्रत्रयंप्रोक्तंदेव्युवाचेत्येकोमंत्रः १२ पृ० ७ब) दैत्येश्वरेणेति दैत्येश्वरेणप्रहितित्येकोमंत्रः अथोअनंतरंऋषिरुवाचेतिमंत्रः अथानंतरमि त्युक्तांतेइत्युक्तपदस्यांतेसोभ्यधावतितिपदित्यादितदादयोद्वादशश्लोकैस्तत्संख्यादेवता हुतयोभवंति १३ आदिताहुतीःकथयति चतुर्विंशतिभेदाइति षष्टेध्यायेचतुर्विंशतिसं ख्याआहुतयित्यर्थः १४ ततःसप्तमाध्यायेऋष्युक्तिरिति ऋषिरुवाचेत्येकोमंत्रः तताज्ञप्त
SK
दैत्येश्वरेणप्रहितेकोमंत्रःप्रकीर्तितः अर्थोऋषिरुवाचाथेत्युक्तांतेसौभ्यधावत १३ इत्यादिद्वादशश्लोकाःषष्टेध्यायेप्रकीर्तिताः चतुर्विंशतिभेदास्तादेवताहुतयःक्रमा त् १४ ऋष्युक्तिराज्ञप्तेत्यादित्रयोविंशतिमातरः ऋषिरुवाचतावातीतौमंत्रभेदद्व यंक्रमात् १५ सप्तविंशत्पदोदेविभवंत्याहुतयःक्रमात् अत्राध्यायद्वयेदेविधूम्रा क्षींतिप्रकीर्तिता १६ इत्यादि आज्ञप्तास्तेनतोदैत्याइत्यादयस्त्रयोविंशतिसंख्यामातरहुआहुतयोभवंतीत्यर्थःऋ षिरुवाचेत्येकोमंत्रःतावानीतावितिमंत्रद्वयम् १५ सप्तविंशदिति हेदेवीअदेताआहुतयः सर्वाःसप्तविंशतिसंख्याभवंतीत्यर्थः अत्राध्यायद्वयेधूम्राक्षीदेवतातदुपासकेनेदमध्याय द्वयमवश्यंपठनीयमित्यर्थः १६ का.त. पृ० ८अ) ऋषिश्चंडेचनिहतेति अष्टमाध्यायेऋषिरुवाचेत्येकोमंत्रः चंडेचनिहतेइत्याद्यध्यायावसानकं अध्यायांतंत्रिषष्ट्याहुतयःप्रोक्तास्तन्मध्येएकैवार्धश्लोकाहुतिरन्याःश्लोकरूपाःएकषष्टिसंख्या आहुतयःऋषिरुवाचेत्येकाहुतिःमिलितात्रिषष्ट्याहुतयः तत्रप्राकृतमंत्रस्यश्लोकात्मकस्य विच्छेदकरणापेक्ष्ययांतेविद्यमानस्यैवार्धस्यहतेमातृगणाइत्यस्यमंत्रत्वमुचितं १७ र
SK
ऋषिश्चंडेचनिहतेइत्यध्यायावसानकं त्रिषष्ट्याहुतयःप्रोक्ताएकाप्यर्धाहु तिस्तथा १७ रक्ताक्ष्यादेवता अष्टौदेवतास्तुप्रकीर्तिताः राजोविचित्रमित्या दिश्लोकद्वयमुदाहृतं १८ ऋषिश्चकारकोपंहीत्यादिश्लोकस्वरूपतः स प्तत्रिंशच्चविज्ञेयादेवतामंत्ररूपतः १९ एकचत्वारिंशदितिआहुतिर्नवमेशु देवताभैरवीताराशृणुगोप्यंवरानने २० क्ताष्ट्याइतिदेवीललाटान्तिसृतायारक्ताक्ष्याव्राह्म्याद्याष्टौशक्तयोदेवतास्मि न्नध्यायेभवंतितदुपासकैरयमध्यायोनियमेनपठनीयितिभावःनवमेध्यायेराजो विचित्रेति राजोवाचेत्येकः विचित्रमित्यादिश्लोकद्वयं १८ ऋषिश्चकारेतिऋषि वाचेत्येकःचकारकोपमित्यारभ्यश्लोकरूपाःसप्तविंशन्मंत्राः १९ एकचत्वेतिसर्वा आहुतयोनवमाध्यायेएकचत्वारिंशद्भ वंति अस्याध्यायस्यभैरवीतारादेवतोतिपूर्ववत् २० पृ० ८ब) दशमेध्यायेऋषिर्निशुंभमिति ऋषिरुवाचेत्येकोमंत्रःनिशुंभंनिहतमित्यादिद्वयमंत्रद्वयंभवतीत्य र्थः ततोदेव्युवाचेत्येकोमंत्रः ततेकैवाहमित्याद्यौअनुत्तमौद्वौमंत्रावित्यर्थः २१ पुनर्देव्येकेति पुनर्देव्युवाचेत्येकोमंत्रित्यर्थः तदुत्तरमेकमंत्रेणअहंविभूत्येतिमंत्रेणसहपूर्वोक्ताष्टौमंत्राः संपन्नाः ऋषिरुवाचेत्येकः ततःप्रवृतेइत्यादिसार्धद्वाविंशतिमंत्राभवंतितत्रद्वाविंशत्श्लोक
SK
ऋषिर्निशुंभंनिहतमित्यादिद्वयमंत्रकं ततोदेवीतिमंत्रौद्वावेकोवाहमनुत्तमौ २१ पुनर्देव्येकमंत्रेणाप्यष्टौमंत्राउदाहृताः ऋषिस्ततःप्रवृतेसार्धद्वाविंशतिर्मताः २२ द्वाविंशन्मनवस्तत्राप्येकोह्यर्धमनुर्मतः दशमेसिंहमासीनाशूलपाशविधारिणि २३ मुख्याचतुर्भुजाबाणचापहस्ताशुभेक्षणा इतिकात्यायनीतंत्रेद्वाविंशःपटलः २२ ऋषिःसुमेधाविख्यातःप्रोक्तोदेव्याहृतेशुभे चतुस्त्रिंशत्तथाश्लोकामंत्रास्तत्संख्य काःस्मृताः १ रूपामंत्राजज्वलश्चाग्नयितिएक्ॐतिमोर्धमनुः अस्मिन्नध्यायेसर्वेमंत्राद्वात्रिंशद्भवंतीबोध्यम् दशमेइ त्यादिस्पष्टपूर्ववत् ज्ञेयम् २२ इतिकात्यायनीतंत्रप्रकाशेद्वाविंशतितमःपटलः २२ || ऋषिःसु मेधेति | एकादशेऋषिरुवाचेत्येकोमंत्रः देव्याहतेइत्यारभ्यचतुस्त्रिंशत्श्लोकास्तावतेवमंत्रा इत्यर्थः १ || का.त. पृ० ९अ) ततिति देव्युवाचेतिमंत्रः एकेनवरदाहमित्युत्तरमंत्रेणयुक्तः तथाचमंत्रद्वयंबोध्यम् देवाऊचु रित्येकः सर्वाबाधाप्रशमनमित्युतरैकमंत्रेणयुक्तस्तेनमंत्रद्वयंफलितं २ देव्युवाचेत्येकोमंत्रः ततोवैवस्वतेंतरेप्राप्तित्यादयश्चतुर्द्दशश्लोकामंत्राः ३ पंचसंयुताः पंचाशदाहुतयोऽर्धमंत्रे
SK
ततोदेव्येकमंत्रेणवरदाहंसुरेश्वरि देवाऊचुस्ततःसर्वाबाधाप्रश मनंतथा २ श्लोकेनैकेनदेवेशिदेव्युवाचततःपरम् वैवस्वतेंतरेप्रा प्तेत्यादिश्लोकाश्चतुर्दश ३ सार्धासर्वाहुतिर्देविपंचाशत्पंचसंयुता वैष्णवीचसंयुता वैष्णवीदेवताह्यत्रमहागरुडवाहना ४ देव्यु वाचेतिचततेभिस्तवैश्चमांतदा दूरेत्यर्धेनसहिताष्टाविंश | तिरूपकाः ५ णसहिता अस्मिन्नध्यायेभवंतीत्य र्थः सचार्द्धमंत्रोर्थादवशिष्टेववैष्णवीदेवता पूर्ववद्बोध्या ४ देव्युवाचेतीति देव्युवाचेत्येकोमंत्रः ततेभिस्तवैश्चमामित्यारभ्यदूरादेवप लायंतेइत्यंतिमाधेनसहिताष्टाविंशतिसंख्याविशिष्टश्लोकरूपमंत्राबोध्या ५ || पृ० ९ब) ततश्चेति ऋषिरुवाचेत्येकोमंत्रः ततित्युक्तासाभगवतीश्लोकमादितादौकृत्वा प्रथमार्धश्लोकेन सहितायेनवश्लोकास्तैस्तत्संख्याकाहुतयोभवंतीर्थः तदुक्तंकात्यायनीतंत्रे इत्युक्तेत्यर्धमंत्रोयंज पात्शौर्यप्रदायकिति ६ सर्वाध्यायाहुतोःकथयति एवंत्वितिस्पष्टं ततस्त्रयोदशेइति ऋषिरुवा चेत्येकोमंत्रः ७ एतत्तेकथितंभूपेति एतत्तेकथितंभूपेत्यारभ्यांतिमार्धेनसहितंयत्त्रयंश्लोकानांत
SK
ततश्चर्षिरुवाचांतित्युक्ताश्लोकमादितः अर्धयुङ्नवभिःश्लोकैर्मंत्रास्तत्संख्यकामताः ६ एवंतुद्वादशेध्यायेएकचत्वारिंशदाहुतिः ततस्त्र योदशेध्यायेऋषिरुवाचित्यर्थः ७ एतत्ते कथितंभूपेत्यादिसार्धत्रयंमनुः मार्कंडेयुवाचेति इतितस्यवचोदितः ८ || न्मनुःसार्धास्त्रयःश्लोकात्मकामंत्राइतियावत् मार्कंडेयुवाचेत्येकः इतितस्यवचोदित आर्षप्रयोगः आदितितिछेदः आदितःप्रथमतः इतितस्यवचःश्रुत्वेत्यर्धात्मकेकोमंत्रित्यर्थः ततश्लोकषट् कंसार्धपंचमंत्रात्मकंभवति सृष्टीरूपदधातीतिन्यायेनार्धश्लोकेपिश्लोकव्यवहारः ततपंचश्लोकरू पामंत्रा अर्थश्लोकेकोमंत्रोमिलित्वाषण्मंत्राभवंतीत्यर्थः २२ ८ का.त. पृ० १०अ) देव्युवाचेत्येकोमंत्रः यत्सार्थ्यतेत्वयाभूपेत्येकः अत्रविशेषमाह श्लोकेनैकेनेति अनेनैवश्लोकेनासकृ दावर्तितेन श्रीभगवतीतोषकृद्भवतीत्यर्थः तेनचात्रार्धमंत्रत्वंनस्वीकर्तव्यमितितात्पर्यं ९ मार्कंडेय उवाचेत्येकः ततोवब्रेनृपोराज्यमित्यादिमंत्रद्वयं देव्युवाचेत्येकः स्वल्पश्लोकत्रयेणस्वल्पपदादिश्लोक त्रयेणात्रषडाहुतिःषडाहुतयोभवंतीत्यर्थः ननुश्लोकत्रये कथंषडाहुतित्वंतत्राह अत्रार्द्धानामेव
SK
श्लोकषट्कंततोदेवीवाक्यंस्यात्परमेश्वरि यत्प्रार्थ्यतेत्वयाभूपश्लोके नैकेनतोषकृत् ९ मार्कंडेयुवाचेतिततोवव्रेमनुद्वयं देव्युवाच पु नश्चैवस्वल्पश्लोकत्रयेणैवै १० अर्धानामेवमंत्रत्वाद्भवंत्यत्रषडाहु तिः ततोमार्कंडेय इतिइतिदत्वातयोरिति ११ द्वौमंत्रौपुनरुच्चा र्यसावर्णिर्भवि तामनःएकोन त्रिंशत्संख्याका हुतिरत्रविधी यते १२ १२ मंत्रत्वादिति अर्द्धमंत्रषट्केनषडाहुतयोभवंतीत्यर्थः १० ततोमार्कंडेयेति मार्कंडेयुवाचेत्येको मंत्रः इतिदत्वाततोरिति इतिदत्वेत्यर्द्धश्लोकेवमंत्रित्यर्थः पुनरनंतरंद्वौमंत्रौभूवांतर्हितासद्य इत्येकश्लोकात्मकेकोमंत्रः सूर्याज्जन्मसमासाद्येत्यर्धात्मकोद्वितीयोमंत्रः तौद्वौमंत्रावुच्चार्यांतेसा वर्णिर्भवितामनुरित्येकपादात्मकंमंत्रमंतेपठेदितिशेषः ग्रंथसमाप्तिबोधकंपठेन्नत्वस्याहुतिरित्य र्थः तदुक्तंकात्यायनीतंत्रे इतिदत्वेत्यर्धमंत्रो वांछितार्थप्रपूरणेइति १२
SK
पृ० १०ब) एवंत्रयोदशेध्यायेइति इदंपूर्वत्रान्वेति होमतर्पणकर्मणितिउत्तरत्रान्वेति होमादिषुसप्तशतमं त्राःकर्तव्याइत्यर्थः तेनकामनानुसारेणैकद्वित्रिमंत्रजपेनायंमंत्रविगनियमोयथादुर्गेस्मृते त्यादिकेवलमंत्राणां जपादिष्वितिबोध्यं अतेवभगवत्याकृतमित्यारभ्यसार्धत्रिंश्लोकात्मक एकोमंत्रोभगवतापूर्वमुक्तितिबोध्यं १३ सत्संप्रदायेति तदुक्तंभुवनेश्वरीसंहितायां इयंसप्त शतीदेवी ज्वलद्वन्हिर्नसंशयः सुरक्षितः सुखायस्यादन्यथागृहदाहकृदिति १४ इत्थंका एवंत्रयोदशेध्यायेहोमतर्पणकर्मणि शतानिसप्तसंख्यानिप्रोक्तानिनवशैलजे १३ मकारादिर्नुकारांतोमनुःपरमदुर्लभः सत्संप्रदायविधिनाज्ञातव्योममब ल्लभे १४ अन्यथाविफलोमंत्रः सत्यंसत्यंमयोदितं इतिश्रीकात्यायनीतंत्रेत्र योविंशःपटलः २३ || त्यायनीतंत्ररहस्यार्थलब्धेनुगमेसप्रमाणेसत्ययुगमारभ्याद्यपर्यंतंसर्वदेशीयैःसर्वशिष्टैरा श्रितेसत्यपितमनुगममनादृत्योन्मत्तवक्तैश्चिद्गुप्तवतीग्रंथेप्रलपितं यथासोचिंतयत्तदातत्रे त्यर्धश्लोकात्मकोमनुः तथाकिन्तुतेषांकथं तेकिन्वित्यर्धश्लोककौमनू तथातेषांकृतेक रोमीतिद्वावर्धश्लोककौमनू इत्यादिसर्व २३
SK
का.ता. पृ० ११अ) त्रसप्तशत्यांमंत्राणांप्रमाणाभावेनाकुलीभावःकृतस्तथान्यैरपिटीकाकारैःक्वचिदादिश्लोके वार्धमंत्रत्वंक्वचिन्मध्यश्लोकेवार्धंमंत्रत्वंस्वीकृत्यसर्वसप्तशतीमंत्राणामाकुलीभावः कृतस्तेनच सर्वानुष्टानेषुलोकैरधर्मःकारिस्तादृशाधर्मचारिणांकागतिर्भवेदितिपरमेश्वरेवजाता | तिननुकिमिदंमंत्रत्वंमननत्राणरूपत्वमितिचेन्न तस्यब्राह्मणेसत्वान्मंत्रत्वमतिव्याप्तंभवेत्वि हितार्थाभिधायकोमंत्रित्युक्तेवसंतापकपिंजलानालभतित्यस्यमंत्रस्यविधिरूपत्वादव्याप्ति रितिचेन्मैवं शास्त्रकारायंमंत्रमितिव्यवहरंतिसेवमंत्रिति समाख्यानस्यनिर्दोषलक्षणत्वात् स्पष्टीकृतंचैतज्जैमितिनातच्चोदकेषुमंत्राख्येतिसूत्रेणमीमांसायां अस्तिचसप्तशतीमंत्रेपिशि वस्यमंत्रत्वमितिव्यवहारःस्यादेतत्जैमिनिनार्थैकत्वादेकत्वादेकंवाक्यंसाकांक्षंचेद्विभागे स्यादितिसूत्रेणैकवाक्यत्वलक्षणमभिहितंतस्यायमर्थः यद्विभागेसाकांक्षमविभागेचैकार्थंत दैकंवाक्यमिति तत्रविभागेसाकांक्षमित्युक्तेतिव्याप्तिःस्यात् स्योनंतेसदनंकृणोमिघृतस्य धारयासुषेवंकल्पयामितस्मिन्सीदामृतेप्रतितिष्टब्रीहीणांमेधसुमनस्यमानिति अत्रत स्मिन्नित्यादि पदसमूहस्यविभागेसतिप्रकृतवाचितच्छब्दनिर्णयायपूर्वपदसमूहसाकांक्षा त्वमस्तितत्
SK
व्यवच्छेतुमेकार्थमित्युच्यतेहितत्रैकार्थत्वमस्तिपूर्वार्धस्यसदनकरणमर्थः उ त्तरार्धस्यपुरोडाशप्रतिष्टान स्योनंसमीचीनंसुषेवंसुष्टुसेवितंयोग्यंमेधसारपुरोडाशेत्य
SK
पृ० ११ब) र्थः अत्रद्वयोःसमूहयोर्वाक्यद्वयत्वमुभयवादिसिद्धंतदेकार्थमित्यनेनव्यावर्त्यतेएकार्थमित्युक्ते ऽतिव्याप्तिःस्यात् भगोवांविभजतुपूषावांविभजतु अनयोर्विभिन्नमंत्रत्वेनसमंतत्वेनपदसमू हयोस्तात्पर्यविषयस्यद्रव्यंविभागरूपस्यार्थस्यैकत्वात्तत् व्यवच्छेत्तुंविभागेसाकांक्षमित्युक्तं तथासतिमंत्रत्वपर्यास्यधिकरणैकवाक्यत्वयोः सामानाधिकरण्यव्यास्यातादृशार्धश्लोका नामन्वेषणेसोचिंतयत्तदातत्रेत्येवमादयेवार्धश्लोकाःसंभवतीतिचेत्तदसत् अव्यास्यति व्याप्तिदोषस्यदुष्पपरिहरत्वात् हुंफडादिमंत्रेषुमंत्रत्वेप्येकवाक्यत्वाभावात् ब्राह्मणग्रंथेएक वाक्यत्वेपिमंत्रत्वाभावात् तथाचतादृशसमानाधिकरण्यस्यक्वचित्सत्वेपिसर्वत्रासत्वात् किंचत्रयोदशेध्यायेस्वल्पैरहोभिर्नृपतेइत्यादिश्लोकत्रयेणपरस्परापेक्षितानांषडर्द्धानां षण्मंत्रस्वीकारेणभगवतातन्नियमस्यास्वीकाराच्चकिंचपूर्वोक्तवचनैःसर्वत्रनिर्वाहेजाते तन्निमित्तस्वीकारेउपयोगाभावाच्चवक्ष्यमाणकारिकाविरोधस्यदुष्परिहरत्वाच्चतस्मान्मदु क्तार्थेवसाधीयानितिसुधियोविभावयंतु अत्रकेचिदनुगमैकरसिकाएवमाहुः येसप्तश त्यामष्टसप्तत्युत्तरपंचशतश्लोकाः संतितत्रयत्संख्यश्लोकमध्येउवाचांतमंत्राः संतितत्रोवा
SK
चांनमंत्रविभागस्यदर्शितत्वादुवाचांतमंत्रपूर्वोत्तरभागस्यार्धश्लोकद्वयस्यमंत्रद्वयत्वंबोध्यं
SK
का.त. पृ० १२अ) यथाप्रथमचरित्रंअष्टादशश्लोकांतिमश्लोकमध्येवैश्युवाचेत्युवाचांतमंत्रोस्तितत्रपूर्वोत्तरार्धश्लो कद्वयस्यमंत्रद्वयत्वंतनप्रत्युवाचसतंवैश्यित्यादिरर्धमंत्रः वैश्युवाचेति चैकोमंत्रः समाधिर्ना मवैश्योहमित्याद्यर्धात्मकेकोमंत्रेवंसप्तशत्यांसर्वत्रानुगमः यत्रचाध्यायांतेर्धश्लोकः स्व भावतेवपतति यथाजज्वलश्चाग्नयः शांताइतितथाहते मातृगणस्तस्मिन्ननर्तासृङ् मदोद्धतितितत्रार्धश्लोकात्मकेवसमंत्रोबोध्यः प्रथमचरित्रांते ऋषिरुवाचेत्युवाचमं त्रस्तुपूर्वश्लोकांतेउत्तरश्लोकादौचपतितोनश्लोकमध्येइतिनपूर्वोत्तरार्धयोर्मंत्रद्वयत्वं एवंसप्तशत्यांविनाप्रमाणं सप्तशतमंत्रविभागोनुगमेनैवसिध्यति अयंचानुगमःस्तो त्रकारेणैवश्लोकमध्येउवाचांतमंत्रकरणेनदर्शितिति तत्रवदामः सत्योयमनुगमो भवतांयदिकात्यायनीतंत्रवचनविरुद्धोनस्यात्तदेवतुदुर्घटं तथाहिभवदनुगमानुरो धेनत्रयोदशाध्यायेस्वल्पैरहोभिर्नृपते इत्यादिश्लोकत्रचतुष्टयंभवतिकात्यायनीतं त्रानुरोधेनतुमंत्रषट्कभवति ततश्चकात्यायनीतंत्र विरोधोदुरुद्धरेवेति मदुक्तेव पंथारमणिपद्रसुधियोविभावयंतु तत्रयदिशिष्टास्तमनुगममाश्रित्यतदनुगमा नुरोधेनसप्तशतमंत्रविभागंस्वीकुर्वंतितर्हिवयमपिस्वीकुर्मोनास्माकमाग्रहः इति
SK
पृ० १२ब) हंसःसारंयथादतेसारासारविवेकः त्यक्त्वासारंतथासारसंगीकुरुतपंडिताः अथास्यसप्तशत मंत्रविभागस्यप्राचीनोक्ताःकारिकालिख्यतं मार्कंडेयुवाचेतिप्रथमोमंत्रीरितः ततोमंत्राः सप्तदशाप्यर्धश्लोकात्मकस्ततः १ वैश्योक्तिरग्नतोर्धंस्यात्ततोमंत्रास्त्रयःस्मृताः कथंतित्यप्य र्धंस्याद्राजोवाचेतिमंत्रकः २ ततश्चार्द्धद्वयंमंत्रौवैश्योक्तिस्तदनंतरं ततोर्धमंत्रःसंप्रोक्तस्त्र यःश्लोकामनुत्रयं ३ करोमिकिंयदर्धंस्यान्मार्कंडेयवचस्ततः ततस्ताविदमर्धंस्यादेकःश्लो कात्मकोमनुः ४ उपविष्टावित्यर्धमंत्रोराजोवाचमनुस्तथाभगवन्नितिचार्धंस्याच्चतुःश्लो कीचतुष्टयं ५ ममास्येत्यर्धमंत्रस्यान्मुनिवाक्यंततःपरं ज्ञानमस्तीत्यर्धमंत्रोदशमंत्रा | स्ततःपरं ६ संसारेत्यर्धमंत्रःस्याद्राजोवाचमनुस्ततः भगवन्केत्यर्धमंत्रोमनुःश्लोकात्मक स्ततः ७ तत्सर्वमर्धंमुनिवाक्नित्यैवेत्यर्धमंत्रकःषण्मंत्रास्तुततःप्रोक्तानिद्रामित्यर्धमंत्रकः ८ व्रह्मोवाच ततोर्धःस्यात्त्रयोदशततःपरं बोधश्चेत्यर्धमंत्रःस्यान्मुनिवाक्यंततःपरं ९ एवंस्तुतेत्य र्धमंत्रःपंचमंत्रास्ततःपरं उक्तवंतावर्धमनुर्भगवद्वाक्यमेवच १० भवेतामिदमर्धंस्यात्किमन्येनेति चार्धकं मुनिवाक्यंपुनश्चार्धंततःस्याच्छ्लोकमंत्रकः ११
SK
मुनिवाक्यंततोमंत्रौद्वौप्रोक्तौचरमौपरौ इत्येवंप्रथमेध्यायेमंत्रसंख्यासमीरिता १२ इतिप्रथमोध्यायः १ द्वितीयेऋषिवाक्यस्यादष्टष ष्ट्यणवःस्मृता तृतीयेमुनिवाक्यंतुपंचत्रिंशत्तथाणवः १ देवीवाक्यंततश्चैकःश्लोकोमुनिवच
SK
का.त. पृ० १३) स्तथा पंचश्लोकास्ततोमंत्रास्तृतीयोध्यायीरितः २ चतुथेमुनिवाक्यंतुषड्विंशतिरथाणवःमु निवाक्यं ततोमंत्राद्वयंदेवीवचस्तथा ३ अर्द्धश्लोकात्मकोमंत्रोदेवाऊचुस्ततःपरं भगवत्येत्यर्ध मंत्रस्ततःश्लोकत्रयंस्मृतं ४ मुनिवाक्यंवेदमंत्राःस्यादध्यायोथपंचमे मुनिवाक्यंचषट्श्लोका देवाऊचुस्ततःपरं ५ पंचश्लोकास्तुतेमंत्रायादेवीत्यादितःपुनः भ्रांतिदेव्यंतिमामंत्राएक विंशतिरीरिताः ६ तेषांखंडत्रयेणैवत्रिषष्ट्याहुतयोभवन् विंशत्यक्षरपर्यंतंप्रथमःखंडं ईरितः ७ वेदाक्षरोद्वितीयस्तुतृतीयोष्टाक्षरःस्मृतः इंद्रियेत्येकमंत्रःस्याच्चितिरूपेतिचत्र यं ८ पूर्ववच्चततोमंत्रौद्वौमुनेर्वाक्यमेवच सप्तदशाथमंत्रास्युर्मुनिवाक्यंत्रयोणवः ९ इत वाक्यंनवश्लोकामुनेर्वाक्यंसकृन्मनुः देवीवाक्यंवेदमंत्रादूतवाक्यंततःपरं १० चत्वारस्तु पुनःश्लोकादेवीवाक्यंमनुद्वयं अथषष्टेमुनेर्वाक्यंचत्वारःश्लोकमंत्रकाः ११ सप्तमेथमुनि र्वाक्यंत्रयोविंशतिमंत्रकाः मुनिवाक्यंचमंत्रौद्वौभवेतामष्टमेततः १२ मुनिवाक्यंत्रिष | ष्ट्यात्साहुतयोर्धाहुतयोर्धाहुतिस्तथा नवमेराजवाक्यंतुश्लोकद्वयमतःपरं १३ मुनि वाक्यंततःसप्तत्रिंशत्श्लोकास्तुमंत्रकाः दशमेमुनिवाक्यंतुमंत्रद्वयमतःपरं १४ देवी वाक्यंचमंत्रौद्वौपुनर्देव्येकमंत्रकः
SK
मुनिवाक्यंततोद्वाविंशत्याहुतयीरिताः १५ अर्द्धमं त्र्ॐतिमःप्रोक्तास्ततेकादशेपुनः मुनिवाक्यंचतुस्त्रिंशत्श्लोकदेवीवचस्ततः १६ एकमं का.त. पृ० १४अ) त्रस्ततोदेवाऊचुरित्येषमंत्रकः एकमंत्र्ॐबिकावाक्यंचतुर्दशतथाणवः १७ अर्धमंत्र्ॐतिमःप्रोक्तो द्वादशेथांबिकावचः अष्टाविंशतिमंत्रास्युरेकाप्यर्धाहुतिस्तथा १८ पुनरृषिस्ततोर्धंस्यान्नवश्लो कास्त्रयोदशे एकादशार्धाहुतयोद्वादशश्लोकमंत्रकाः १९ उवाचवचनैःषड्भिरेकोनत्रिंशदी रिताः गौडपादीयभाष्याब्धेःकारिकामृतमुद्धृतं २० पिबंतुविबुधाःसर्वेमृतिनाशोयतोभवेत् इतिकारिकाबलिसमाप्ता || रहस्योद्घाटनेनांबामाक्रोधमवलंवतां देषवंतःसुताःसंतिक्ष माशीसाहिमातरः १ रंगनाथसुतेनेयंश्रीलक्ष्मीतनयेनच नीलकंठेनविदुषामंत्रसंख्याप्रका शिका २ कात्यायनीतंत्रवर्येकृताटीकायथामति प्रीयतीतेनमेदेवीभुवनेशीमहेश्वरी ३ इतिश्रीरंगभट्टसुतलक्ष्मीगर्भजशैवोपनामकंठकृतायांकात्यायनीतंत्रेमंत्रव्याख्याप्रकाशि कायांटीकायांत्रयोविंशःपटलःसमाप्तः २३ # END OF FILE #

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. Kātyāyanītantraṭīka [M00631].

Source