Compendium of Dharma

Dharmasaṃgraha · Dहर्मसंग्रह

Compendium of Dharma

Dharmasaṃgraha

Dहर्मसंग्रह

SK
Dहर्मसंग्रहः / (Dह्स्)
SK
// नमो रत्नत्रयाय //
SK
रत्नत्रयं नमस्कृत्य सर्वसत्त्वहितोदयम् / कथ्यते मोहनाशाय धर्मसारसमुच्चयः //
SK
१. तत्र प्रथमं तावत् त्रीणि रत्नानि / तथद्या - बुद्धो धर्मः संघश्चेति //
SK
२. त्रीणि यानानि /[तद्यथा -] श्रावकयानम्, प्रत्येकबुद्धयानम्, महायानं चेति //
SK
३. पञ्च बुद्धाः / तद्यथा - वैरोचनः, अक्षोभ्यः, रत्नसंभवः, अमिताभः, अमोघसिद्धिश्चेति //
SK
४. चतस्रो देव्यः / तद्यथा - रोचनी, मामकी, पाण्डुरा, तारा चेति //
SK
५. पञ्च रक्षा / तद्यथा - प्रतिसरा, साहस्रप्रमर्दनी, मारीची, मन्त्रानुसारिणी, शीलवती चेति //
SK
६. सप्त तथागताः / तद्यथा - विपश्यी, शिखी, विश्वभूः, क्रकुच्छन्दः, कनकमुनिः, काश्यपः, शाक्यमुनिश्चेति //
SK
७. चत्वारो लोकपालाः / तद्यथा - धृतराष्ट्रः, विरूपाक्षः, विरूढकः, कुबेरश्चेति //
SK
८. अष्टौ लोकपालाः / तद्यथा - इन्द्रः, यमः, वरणः, कुबेरः, ईशानः, अग्निः, नैरृतः, वायुरिति //
SK
९. दश लोकपालाः / अष्टलोकपालाधिकमूर्ध्वं ब्रह्मा अधः कृष्णः //
SK
१०. चतुर्दश लोकपालाः / तद्यथा - दशलोकपालसकलम्, चन्द्रः, सूर्यः, पृथ्वी, असुरः //
SK
११. दश क्रोधाः / तद्यथा - यमान्तकः, प्रज्ञान्तकः, पद्मान्तकः, विघ्नान्तकः, अचरटर्किराजः, नीलदण्डः, महाबलः, उष्णीषः, चक्रवर्ती, सम्भराजश्चेति //
SK
१२. अष्टौ बोधिसत्त्वाः / तद्यथा - मैत्रेयः, गगनगञ्जः, समन्तभद्रः, वज्रपाणिः, मञ्जुश्रीः, सर्वनिवरणविष्कम्भी, क्षितिगर्भः, खगर्भश्चेति //
SK
१३. षड्योगिन्यः / तद्यथा - वज्रवाराही, यामिनी, संचारणी, संत्रासनी, चाण्डिका चेति //
SK
१४. सप्तविधा अनुत्तरपूजा / तद्यथा - वन्दना, पूजना, पापदेशना, अनुमोदना, अध्येषणा, बोधिचित्तोत्पादः, परिणामना चेति //
SK
१५. त्रीणि कुशलमूलानि / बोधिचित्तोत्पादः, आशयविशुद्धिः, अहंकारममकारपरित्यागश्चेति //
SK
१६. चत्वारो ब्रह्मविहाराः / मैत्री, करुणा, मुदिता, उपेक्षा चेति //
SK
१७. षट् पारमिताः / दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता चेति //
SK
१८. दश पारमिताः / षट्पारमितासकलम्, उपायम्, प्रणिधिः, बलम्, ज्ञानं चेति //
SK
१९. चत्वारि संग्रहवस्तूनी / दानम्, प्रियवचनम्, अर्थचर्या, समानार्थता चेति //
SK
२०. पञ्चाभिज्ञाः / दिव्यचक्षुः, दिव्यश्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, ऋद्धिश्चेति //
SK
२१. चत्वार्यार्यसत्यानि / तद्यथा - दुःखम्, समुदयः, निरोधः मार्गश्चेति //
SK
२२. पञ्च स्कन्धाः / रूपम्, वेदना, संज्ञा, संस्कारा, विज्ञानं चेति //
SK
२३. लोकोत्तरपञ्चस्कन्धाः / शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धा इति //
SK
२४. द्वादशायतनानि / चक्षुःश्रोत्रघ्राणजिह्वाकायमनआयतनानि रूपगन्धशब्दरसस्पर्शधर्मायतनानि चेति //
SK
२५. अष्टादश धातवः // चक्षुःश्रोत्रघ्राणजिह्वाकायमनोरूपगन्धशब्दरसस्पर्शधर्मधातवः चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानमनोविज्ञानघातवश्चेति //
SK
२६. तत्रैकादश रूपस्कन्धाः // चक्षुः, श्रोत्रम्, घ्राणम्, जिह्वा, कायः, रूपम्, शब्दः, गन्धः, रसः, स्पर्शः विज्ञप्तिश्चेति //
SK
२७. वेदना त्रिविधा / सुखाः, दुःखा, अदुःखासुखा चेति //
SK
२८. संज्ञास्कन्धः / निमित्तोद्गहणात्मिका //
SK
२९. संस्कारा द्विविधाः / तत्र चित्तसंप्रयुक्तसंस्काराः, चित्तविप्रयुक्तसंस्काराश्चेति //
SK
३०. चित्तसंप्रयुक्तसंस्काराश्चत्वारिंशत् / तद्यथा - वेदना, संज्ञा, चेतना, छन्दः, स्पर्शः, मतिः, स्मृतिः, मनस्कारः, अधिमोक्षः, समाधिः, श्रद्धा, अप्रमादः, प्रस्रब्धिः, उपेक्षा, ह्रीः, अपत्रपा, अलोभः, अद्वेषः, अहिंसा, वीर्यम्, मोहः, प्रमादः, कौसीद्यम्, अश्राद्ध्यम्, स्त्यानम्, औद्धत्यम्, अह्रीकता, अनपत्रपा, क्रोधः, उपनाहः, शाठ्यम्, ईर्ष्या, प्रदानः, म्रक्षः, मात्सर्यम्, माया, मदः, विहिंसा, वितर्कः, विचारश्चेति //
SK
३१. तत्र चित्तविप्रयुक्तसंस्कारास्रयोदश / प्राप्तिः, अप्राप्तिः, सभागता, असंज्ञिकम्, समाप्तिः, जीवितम्, जातिः, जरा, स्थितिः, अनित्यता, नामकायः, पदकायः, व्यञ्जनकायश्चेति //
SK
३२. त्रीण्यसंस्कृतानि / तद्यथा - आकाशः, प्रतिसंख्यानिरोधः, अप्रतिसंख्यानिरोधश्चेति //
SK
३३. षड् विषयाः / तद्यथा - रूपम्, शब्दः, गन्धः, रसः, स्पर्शः, धर्मश्चेति //
SK
३४. तत्र रूपं विषयस्वभावम् / नीलम्, पीतम्, लोहितम्, अवदातम्, हरितम्, दीर्घम्, ह्रस्वम्, परिमण्डलम्, उन्नतम्, अवनतम्, सातम्, विसातम्, अच्छम्, धूमः, रजः, महिका, छाया, आतपः, आलोकः, अन्धकारश्चेति //
SK
३५. अष्टाविंशतिविधः शब्दः / सप्त पुरुषवाक्शब्दाः, सप्त पुरुषहस्तादिशब्दाः / एत एव(मनोज्ञा)मनोज्ञभेदेनाष्टाविंशतिः //
SK
३६. रसः षड्विधः / तद्यथा - मधुरः, अम्लः, लवणः, कटुः, तिक्तः, कषायश्चेति //
SK
३७. चत्वारो गन्धाः / तद्यथा - सुगन्धः, दुर्गन्धः, समगन्धः, विषमगन्धश्चेति //
SK
३८. एकादश स्प्रष्टव्यानि / पृथ्वी, आपः, तेजः, वायुः, श्लक्ष्णत्वम्, कर्कशत्वम्, लघुत्वम्, गुरुत्वम्, शीतम्, जिघत्सा पिपासा चेति //
SK
३९. पञ्च महाभूतानि / पृथ्वी, आपः, तेजः, वायुः, आकाश्चेति //
SK
४०. पञ्च भौतिकानि / रूपम्, शब्दः, गन्धः, रसः, स्पर्शश्चेति //
SK
४१. विंशतिः शून्यताः / तद्यथा - अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, लक्षणशून्यता, अलक्षणशून्यता, भावशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, परभावशून्यता चेति //
SK
४२. द्वादशाङ्गप्रतीत्यसमुत्पादः / अविद्या, संस्काराः, विज्ञानम्, नामरूपम्, षडायतनम्, स्पर्शः, वेदना, तृष्णा, उपादानम्, भवः, जातिः, जरामरणम्, शोकपरिदेवदुःखदौर्मनस्योपायासाश्चेति //
SK
४३. सप्तत्रिंशद्बोधिपाक्षिका धर्माः / चत्वारि स्मृत्युपस्थानानि // ४ // चत्वारि सम्यक्प्रहाणानि // ८ // चत्वार ऋद्धिपादाः // १२ // पञ्चेन्द्रियाणि // १७ // पञ्च बलानि // २२ // सप्त बोध्यङ्गानि // २९ // आर्याष्टाङ्गिकमार्गश्चेति
SK
४४. तत्र कतमानि स्मृत्युपस्थानानि? तद्यथा - काये कायानुदर्शस्मृत्युपस्थानम्, वेदनायां वेदनानुदर्शस्मृत्युपस्थानम्, चित्ते चित्तानुदर्शस्मृत्युपस्थानम्, धर्मे धर्मानुदर्शस्मृत्युपस्थानम् //
SK
४५. कतमानि चत्वारि सम्यक्प्रहाणानि? तद्यथा - उत्पन्नानां कुशलमूलानां संरक्षणम् / अनुत्पन्नानां समुत्पादः / उत्पन्नानामकुशलानां धर्माणां प्रहाणम् / अनुत्पन्नानां पुनरनुत्पादश्चेति //
SK
४६. चत्वारः ऋद्धिपादाः / तद्यथा - छन्दसमाधिप्रहाणाय संस्कारसमन्वागत ऋद्धिपादः / एवं चित्तऋद्धिपादः / वीर्यऋद्धिपादः / मीमांसासमाधिप्रहाणाय संस्कारसमन्वागतऋद्धिपादश्चेति //
SK
४७. पञ्चेन्द्रियाणि / तद्यथा - श्रद्धासमाधिवीर्यस्मृतिप्रज्ञेन्द्रियं चेति //
SK
४८. पञ्च बलानि / श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलं चेति //
SK
४९. सप्त बोध्यङ्गानि / तद्यथा - स्मृतिसंबोध्यङ्गम्, धर्मविचयसंबोध्यङ्गम्, वीर्यसंबोध्यङ्गम्, प्रीतिसंबोध्यङ्गम्, प्रस्रब्धिसंबोध्यङ्गम्, समाधिसंबोध्यङ्गम्, उपेक्षासंबोध्यङ्गमिति //
SK
५०. आर्याष्टाङ्गिकमार्गः // सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यक्कर्मान्तः, सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिश्चेति / एते सप्तत्रिंशब्दोधिपाक्षिका धर्माः //
SK
५१. चतस्रः प्रतिसंविदः / तद्यथा - धर्मप्रतिसंवित्, अर्थप्रतिसंवित्, निरुक्तिप्रतिसंवित्, प्रतिभानप्रतिसंविच्चेति //
SK
५२. चतस्रो धारण्यः / तद्यथा - आत्मधारणी, ग्रन्थधारणी, धर्मधारणी, मन्त्रधारणी चेति //
SK
५३. चत्वारि प्रतिशरणानि / तद्यथा - अर्थप्रतिशरणता न व्यञ्जनप्रतिशरणता / ज्ञानप्रतिशरणता न विज्ञानप्रतिशरणता / नीतार्थप्रतिशरणता न नेयार्थप्रतिशरणता / धर्मप्रतिशरणता न पुद्गलप्रतिशरणता चेति //
SK
५४. षडनुस्मृतयः / बुद्धानुस्मृतिः, धर्मानुस्मृतिः, संघानुस्मृतिः, त्यागानुस्मृतिः, शीलानुस्मृतिः, देवानुस्मृतिश्चेति //
SK
५५. चत्वारि धर्मपदानि / तद्यथा - अनित्याः सर्वसंस्काराः / दुःखाः सर्वसंस्काराः / निरात्मानः सर्वसंस्काराः / शान्तं निर्वाणं चेति //
SK
५६. दशाकुशलानि / तद्यथा - प्राणातिपातः, अदत्तादानम्, काममिथ्याचारः, मृषावादः, पैशुन्यम्, पारुष्यम्, संभिन्नप्रलापः, अभिध्या, व्यापादः, मिथ्यादृष्टिश्चेति //
SK
५७. गतयः षट् / तद्यथा - नरकः, तिर्यक्, प्रेतः, असुरः, मनुष्यः, देवश्चेति //
SK
५८. षड् धातवः / पृथ्वी, आपः, तेजः, वायुः, आकाशः, विज्ञानं चेति //
SK
५९. अष्टौ विमोक्षाः / तद्यथा - रूपी रूपाणी पश्यति शून्यम् / आध्यात्मारूपसंज्ञी बहिर्धारूपाणि पश्यति शून्यम् / आकाशानन्त्यायतनं पश्यति शून्यम् / विज्ञानानन्त्यायतनं पश्यति शून्यम् / आकिंचन्यायतनं पश्यति शून्यम् / नैवसंज्ञानासंज्ञायतनं पश्यति शून्यम् / संज्ञावेदयितनिरोधं पश्यति शून्यं चेति //
SK
६०. पञ्चानन्तर्याणि / तद्यथा - मातृवधः, पितृवधः अर्हद्वधः, तथागतदुष्टचित्तरुधिरोत्पादः, संघभेदश्चेति //
SK
६१. अष्टौ लोकधर्माः // लाभः, अलाभः, सुखम्, दुःखम्, यशः, अयशः, निन्दा, प्रशंसा चेति //
SK
६२. नवाङ्गप्रवचनानि / तद्यथा - सूत्रम्, गेयम्, व्याकरणम्, गाथा, उदानम्, जातकम्, वैपुल्यम्, अद्भुतधर्मः, उपदेशश्चेति //
SK
६३. द्वादश धूतगुणाः / पैण्डपातिकः, त्रैचीवरिकः, खलुपश्चाद्भक्तिकः, नैषद्यिकः, यथासंस्तरिकः, वृक्षमूलिकः, एकासनिकः, आभ्यवकाशिकः, आरण्यकः, श्माशानिकः, पांशूकूलिकः, नामन्तिकश्चेति //
SK
६४. दश भूमयः / प्रमुदिता, विमला, प्रभाकरी, अर्चिष्मती, सुदुर्जया, अभिमुखी, दूरंगमा, अचला, साधुमती, धर्ममेघा चेति //
SK
६५. समन्तप्रभा, निरुपमा, ज्ञानवती / एताः सहितास्रयोदश भूमयः //
SK
६६. पञ्च चक्षूंषी / मांसचक्षुः, धर्मचक्षुः, प्रज्ञाचक्षुः, दिव्यचक्षुः, बुद्धचक्षुश्चेति //
SK
६७. षट् क्लेशाः / रागः, प्रतिघः, मानः, अविद्या, कुदृष्टिः, विचिकित्सा चेति //
SK
६८. पञ्च दृष्टयः / सत्कायदृष्टिः, अन्तग्राहदृष्टिः, मिथ्यादृष्टिः, दृष्टिपरामर्शः, शीलपरामर्शः //
SK
६९. चतुविंशतिरुपक्लेशाः / तद्यथा - क्रोधः, उपनाहः, म्रक्षः, प्रदाशः, ईर्ष्याः, मात्सर्यम्, शाठ्यम्, माया, मदः, विहिंसा, ह्रीः, अनपत्रपा, स्त्यानम्, अश्राद्ध्यम्, कौसीद्यम्, प्रमादः, मुषितस्मृतिः, विक्षेपः, असंप्रजन्यम्, कौकृत्यम्, मिद्धम्, वितर्कः, विचारश्चेति //
SK
७०. पञ्चाहाराः / ध्यानाहाराः, कवलीकाराहाराः, प्रत्याहाराः, स्पर्शाहाराः, संचेतनिकाहाराश्चेति //
SK
७१. पञ्च भयानि / आजीविकाभयम्, शोकभयम्, मरणभयम्, दुर्गतिभयम्, पर्षदसाद्यभयं चेति //
SK
७२. चत्वारि ध्यानानि / तद्यथा - सवितर्कं सविचारं विवेकजं प्रीतिसुखमिति प्रथमध्यानम् / अध्यात्मप्रमोदनात्प्रीतिसुखमिति द्वितीयम् / उपेक्षास्मृतिसंप्रजन्यं सुखमिति तृतीयम् / उपेक्षास्मृतिपरिशुद्धिरदुःखासुखा वेदनेति चतुर्थं ध्यानमिति //
SK
७३. त्रयो विमोक्षाः / शून्यता, अनिमित्तः, अप्रणिहितश्चेति //
SK
७४. बोधिसत्त्वानां दश वशिताः / आयुर्वशिता, चित्तवशिता, परिष्कारवशिता, धर्मवशिता, ऋद्धिवशिता, जन्मवशिता, अधिमुक्तिवशिता, प्रणिधानवशिता, कर्मवशिता, ज्ञानवशिता चेति //
SK
७५. बोधिसत्त्वानां दश बलानि / तद्यथा - अधिमुक्तिबलम्, प्रतिसंख्यानबलम्, भावबलम्, क्षान्तिबलम्, ज्ञानबलम्, प्रहाणबलम्, समाधिबलम्, प्रतिभानबलम्, पुण्यबलम्, प्रतिपत्तिबलं चेति //
SK
७६. तथागतस्य दश बलानि / तद्यथा - स्थानास्थानज्ञानबलम्, कर्मविपाकज्ञानबलम्, नानाधातुज्ञानबलम्, नानधिमुक्तिज्ञानबलम्, सत्त्वेन्द्रियपरापरज्ञानबलम्, सर्वत्रगामिनीप्रतिपत्तिज्ञानबलम्, ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानज्ञानबलम्, पूर्वनिवासानुस्मृतिज्ञानबलम्, च्युत्युत्पत्तिज्ञानबलम्, आस्रवक्षयज्ञानबलं चेति //
SK
७७. चत्वारि वैशारद्यानि / तद्यथा - अभिसंबोधिवैशारद्यम्, आस्रवक्षयज्ञानवैशारद्यम्, नैर्वाणिकमार्गावतरणवैशारद्यम्[अन्तरायिकधर्मानन्यथात्वनिश्चितव्याकरणवैशारद्यं] चेति //
SK
७८. पञ्च मात्सर्याणि / धर्ममात्सर्यम्, लाभमात्सर्यम्, आवासमात्सर्यम्, कुशलमात्सर्यम्, वर्णमात्सर्यं चेति //
SK
७९. अष्टादशावेणिका बुद्धधर्माः / तद्यथा - नास्ति तथागतस्य स्खलितम् / नास्ति रवितम् / नास्ति मुषितस्मृतिता / नास्त्यसमाहितचित्तम् / नास्ति नानात्वसंज्ञा / नास्त्यप्रतिसंख्यायोपेक्षा / नास्ति छन्दपरिहाणिः / नास्ति वीर्यपरिहाणिः / नास्ति स्मृतिपरिहाणिः / नास्ति समाधिपरिहाणिः / नास्ति प्रज्ञापरिहाणिः / नास्ति विमुक्तिपरिहाणिः / नास्ति विमुक्तिज्ञानदर्शनपरिहाणिः / सर्वकायकर्मज्ञानपूर्वगमज्ञानानुपरिवृत्तिः / सर्ववाक्कर्मज्ञानपूर्वंगमज्ञानानुपरिवृत्तिः / सर्वमनस्कर्मज्ञानपूर्वंगमज्ञानानुपरिवृत्तिः / अतीते ऽध्वन्यसङ्गमप्रतिहतज्ञानम् / प्रत्युत्पन्ने ऽध्वन्यसङ्गमप्रतिहतज्ञानदर्शनं चेति //
SK
८०. चत्वारो माराः / तद्यथा - स्कन्धमारः, क्लेशमारः, देवपुत्रमारः, मृत्युमारश्चेति //
SK
८१. चत्वारि श्रद्धाङ्गानि / तद्यथा - आर्यसत्यम्, त्रिरत्नम्, कर्म, कर्मफलं चेति //
SK
८२. नवानुपूर्वसमाधिसमापत्तयः / तद्यथा - चत्वारि ध्यानानि, चतस्र आरूप्यसमापत्तयः, निरोधसमापत्तिश्चेति //
SK
८३. द्वात्रिंशल्लक्षणानि / तद्यथा - चक्राङ्कितपाणिपादतलता / सुप्रतिष्ठितपाणिपादतलता / जालाबलबद्धा(वनद्धा?)ङ्गुलिपाणिपादतलता / मृदुतरुणहस्तपादतलता / सप्तोत्सदता / दीर्घाङ्गुलिता / आयतपार्ष्णिता / ऋजुगात्रता / उत्सङ्गपादता / उर्ध्वाग्ररोमता / ऐणेजयङ्घता / प्रलम्बबाहुता / कोषगतबस्तिगुह्यता / सुवर्णवर्णता / शुक्लच्छविता / प्रदक्षिणावर्तैकरोमता / ऊर्णालंकृतमुखता / सिंहपूर्वान्तकायता / सुसंवृत्तस्कन्धता / चितान्तरांसता / रसरसाग्रता / न्यग्रोधपरिमण्डलता / उष्णीषशिरस्कता / प्रभूतजिव्हता / सिंहहनुता / शुक्लहनुता / समदन्तता / हंसविक्रान्तगामिता / अविरलदन्तता / समचत्वारिंशद्दन्तता / अभिनीलनेत्रता / गोपक्षनेत्रता चेति //
SK
८४. अशीत्यनुव्यञ्जनानि / तद्यथा - ताम्रनखता / स्रिग्धनखता / तुङ्गनखता / छत्राङ्गुलिता / चित्राङ्गुलिता / अनुपूर्वाङ्गुलिता / गूढशिरता / निग्रन्थिशिरता / गूढगुल्फता / अविषमपादता / सिंहविक्रान्तगामिता / नागविक्रान्तगामिता / हंसविक्रान्तगामिता / वृषभविक्रान्तगामिता / प्रदक्षिणगामिता / चारुगामिता / अवक्रगामिता / वृत्तगात्रता / मृष्टगात्रता / अनुपूर्वगात्रता / शुचिगात्रता / मृदुगात्रता / विशुद्धगात्रता / परिपूर्णव्यञ्जनता / पृथुचारुमण्डलगात्रता / समक्रमता / विशुद्धनेत्रता / सुकुमारगात्रता / अदीनगात्रता / उत्साहगात्रता / गम्भीरकुक्षिता / प्रसन्नगात्रता / सुविभक्ताङ्गप्रत्यङ्गता / वितिमिरशुद्धालोकता / वृत्तकुक्षिता / मृष्टकुक्षिता / अभुग्नकुक्षिता / क्षामकुक्षिता / (Dह्स्, Vऐद्य ३३५) प्रदक्षिणावर्तनाभिता / समन्तप्रासादिकता / शुचिसमुदारता / व्यपगततिलकगात्रता / तूलसदृशसुकुमारपाणिता / स्निग्धपाणिलेखता / गम्भीरपाणिलेखता / आयतपाणिलेखता / नात्यायतवचनता / बिम्बप्रतिबिम्बोष्ठता / मृदुजिव्हता / तनुजिव्हता / रक्तजिह्वता / मेघगर्जितघोषता / मधुरचारुमञ्जुस्वरता / वृत्तदंष्ट्रता / तीक्ष्णंदंष्ट्रता / शूक्लदंष्ट्रता / समदंष्ट्रता / अनुपूर्वदंष्ट्रता / तुङ्गनासता / शुचिनासता / विशालनयनता / चित्रपक्ष्मता / सितासितकमलदलनयनता / आयतभ्रूकता / शुक्लभ्रूकता / सुस्निग्धभ्रूकता / पीनायतभुजलता / समकर्णता / अनुपहतकर्णेन्द्रियता / अविम्लानललाटता / पृथुललाटता / सुपरिपूर्णोत्तमाङ्गता / भ्रमरसदृशकेशता / चित्रकेशता / गुडाकेशता / असंमुणितकेशता / अपरुषकेशता / सुरभिकेशता / श्रीवत्समुक्तिकनन्द्यावर्तलक्षितपाणिपादतलता चेति //
SK
८५. चक्रवर्तिनां सप्त रत्नानि / तद्यथा - चक्ररत्नम्, अश्वरत्नम्, हस्तिरत्नम्, मणिरत्नम्, स्त्रीरत्नम्, खङ्गरत्नम्, परिणायकरत्नं चेति //
SK
८६. तत्र त्रयो ऽध्वानः / तद्यथा - अतीतो ऽध्वा, अनागतो ऽध्वा, प्रत्युत्पन्नो ऽध्वा चेति //
SK
८७. चत्वारः कल्पाः / तद्यथा - अन्तरकल्पाः, महाकल्पाः, शून्यकल्पाः, सारकल्पाश्चेति //
SK
८८. चत्वारि युगानि / तद्यथा - कृतयुगम्, त्रेतायुगम्, द्वापरम्, कलियुगं चेति //
SK
८९. लोकद्वयम् / तद्यथा - सत्त्वलोकः, भाजनलोकश्चेति //
SK
९०. चत्वारो योनयः / तद्यथा - अण्डजः, संस्वेदजः, जरायुजः, उपपादुकश्चेति //
SK
९१. पञ्च कषायाः / तद्यथा - क्लेशकषायः, दृष्टिकषायः, सत्त्वकषायः, आयुःकषायः, कल्पकषायश्चेति //
SK
९२. त्रयः सत्त्वाध्याः / तद्यथा - पूर्वान्तकोटिपरिज्ञायाः, अपरान्तकोटिपरिज्ञायाः, चतुर्मारकोटिपरिज्ञायाश्चेति //
SK
९३. दश ज्ञानानि / तद्यथा - दुःखज्ञानम्, समुदयज्ञानम्, निरोधज्ञानम्, मार्गज्ञानम्, धर्मज्ञानम्, अन्वयज्ञानम्, संवृतिज्ञानम्, परचित्तज्ञानम्, क्षयज्ञानम्, अनुत्पादज्ञानं चेति //
SK
९४. पञ्च ज्ञानानि / तद्यथा - आदर्शनज्ञानम्, समताज्ञानम्, प्रत्यवेक्षणाज्ञानम्, कृत्यानुष्ठानज्ञानम्, सुविशुद्धधर्मधातुज्ञानं चेति //
SK
९५. द्वे सत्ये / तद्यथा - संवृतिसत्यम्, परमार्थसत्यं चेति //
SK
९६. चतुरार्यसत्येषु षोडश क्षान्तिज्ञानलक्षणाः / तद्यथा - दुःखे धर्मज्ञानक्षान्तिः, दुःखे धर्मज्ञानम्, दुःखे ऽन्वयज्ञानक्षान्तिः, दुःखे ऽन्वयज्ञानम् / समुदये धर्मज्ञानक्षान्तिः, (Dह्स्, Vऐद्य ३३६) समुदये धर्मज्ञानम्, समुदये ऽन्वयज्ञानक्षान्तिः, समुदये ऽन्वयज्ञानम् / निरोधे धर्मज्ञानक्षान्तिः, निरोधे धर्मज्ञानम्, निरोधे ऽन्वयज्ञानक्षान्तिः, निरोधे ऽन्वयज्ञानम् / मार्गे धर्मज्ञानक्षान्तिः, मार्गे धर्मज्ञानम्, मार्गे ऽन्वयज्ञानक्षान्तिः, मार्गे ऽन्वयज्ञानं चेति //
SK
९७. तत्र दुःखसत्ये चत्वार आकाराः / तद्यथा - अनित्यतः, दुःखतः, शून्यतः, अनात्मतश्चेति //
SK
९८. समुदयसत्ये चत्वार आकाराः / तद्यथा - हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्चेति //
SK
९९. निरोधसत्ये चत्वार आकाराः / तद्यथा - निरोधतः, शान्ततः, प्रणीततः, निःसरणतश्चेति //
SK
१००. मार्गसत्ये चत्वार आकाराः / तद्यथा - मार्गतः, न्यायतः, प्रतिपत्तितः, नैर्याणिक(त)श्चेति //
SK
१०१. चत्वारः समाधयः / तद्यथा - आलोकसमाधिः, वृतासमाधिः, एकादशप्रतिष्ठसमाधिः, आनन्तर्यसमाधिश्चेति //
SK
१०२. तत्राष्टौ[पुरुष] - पुग्दलाः / तद्यथा - स्रोतआपन्नफलप्रतिपन्नकः, स्रोतआपन्नः, सकृदागामिफलप्रतिपन्नकः, सकृदागामी, अनागामिफलप्रतिपन्नकः, अनागामी, अर्हत्फलप्रतिपन्नकः, अर्हंश्चेति //
SK
१०३. तथाष्टौ प्रतिपुग्दलाः / तद्यथा - श्रद्धानुसारी, धर्मानुसारी, स्रोतआपन्नः, देवकुलंकुलः, मनुष्यकुलंकुलः, सकृदागामिफलः, श्रद्धविमुक्तिर्दृष्टिप्राप्त एकवीचीको ऽनागाम्यन्तरापरिनिर्वायी उपहत्यपरिनिर्वायी अभिसंस्कारपरिनिर्वायी प्लुतो ऽर्द्धप्लुतः सर्वास्तानप्लुतो दृष्टधर्मसमः कायसाक्षी खङ्गश्चेति //
SK
१०४. [तदनु द्वादशाकरधर्मचक्रप्रवर्तकं(नं) कतमत्? तद्यथा - इदं दुःखमार्यसत्यमिति भिक्षवः पूर्वमनुश्रुत्य तेषु धर्मेषु योनिशो मनसिंगवतः(?) चक्षुरुदपादि / ज्ञानमुत्पादि चिन्तोत्पादि / चुत्रिरुदपादि / इत्येकपरिचतकः १ इदं दुःखमार्य स तत्र खल्वभिज्ञातं इति भिक्षवः / इत्यादि पूर्ववदितियः // इदं दुःखसमुदयमार्यसत्वं तव खल्वभिज्ञाय प्रहीणमिति हित्यादि तृतीयः / तथा इदं दुःखनिरोध आर्यसत्यमिति हिप्रत्येकः // इदं दुःखनिरोधआर्य्यसत्यं तत्र खल्वभिज्ञाय शाक्षात् कर्तव्यमिति हित्य द्वितीयः / इदं दुःखनिरोधआर्यसत्य तत्र खलु भिज्ञाय शाक्षात् द्वितीय / तद्यथा इदं दुःखमार्गगामिनी प्रतिपदार्यसत्येमिति त्येक // इदं दुःखमोक्षगामिनि प्रतिप इत्यार्य्यसत्यं तत्र खलु भिज्ञाय भावयितव्यमिति हि भिक्षव इत्यादि तृतीयः / परिवर्त इत्येव द्वादशाकारधर्मचक्रप्रवर्त्तनमिति // ]
SK
Mस्. C. तदनु द्वादशाकारधर्मचक्रप्रवर्तकः / कतमत् / इदं दुःखमार्यसत्यमिति भिक्षवः / पूर्वमनुश्रुत्य तेषु धर्मेषु योनिशो मनसिगवतः चक्षुरुदपादि / ज्ञानमुत्पादि चित्तोत्पादि / चुत्रिरुत्पादि // इत्येकपरिवर्तक इदं दुःखमार्यसत्यं तत्र खल्वभिज्ञाय परिज्ञातमिति हि भिक्षवः / पूर्वमनुश्रुय तेषु योनिसो मनसिङ्गर्वुतः // इति द्वितीयः // इदमार्यसत्यं तत्र खल्वभिज्ञातं इति भिक्षवः / इत्यादि पूर्ववदिति यः //
SK
इदं दुःखसमुदयमार्यसत्यं तव खल्वभिज्ञाय प्रहीणमिति हीत्यादि तृतीयम् //
SK
तथा इदं दुःखनिरोध आर्यसत्यमिति हि प्रत्येकः // इदं दुःखनिरोध आर्यसत्यं तत्र खल्वभिज्ञाय साक्षात् कर्तव्यमिति हित्यादि / द्वितीयः / इदं दुःखनिरोध आर्यसत्यं तत्र खल्वभिज्ञाय साक्षात् कृतमिति द्वितीयः /
SK
तथा इदं दुःखमार्गगामिनि प्रतिपदार्यसत्यमिति प्रत्येक / इदं दुःखमोक्षगामिनी प्रतिपत् // इत्यार्यसत्यं तत्र खल्वभिज्ञाय भातव्यमिति हि भिक्षवः इत्यादि तृतीयः / परिवर्त्त इत्येवं द्वादशाकारधर्मचक्रप्रवर्तनमिति // //
SK
Rएस्तोरेद् Tएxत्. तदत्र द्वादशाकारधर्मचक्रप्रवर्तकं(नं?) कतमत्? इदं दुःखमार्यसत्यमिति(मे) भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसिकुर्वतः चक्षुरुदपादि ज्ञानमुदपादि विद्योदपादि भूरिरुदपादीत्येकं परिवर्तकम् / इदं दुःखमार्यसत्यं तत्र खल्वभिज्ञाय परिज्ञातमिति हि (मे) भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु योनिशो मनसिकुर्वत इति द्वितीयम् / इदं दुःखमार्यसत्यं तत्र खल्वभिज्ञाय परिज्ञातमिति भिक्षवः इत्यादि पूर्ववदिति तृतीयम् //
SK
[तथेदं दुःखसमुदयमार्यसत्यमिति प्रत्येकम् / इदं दुःखसमुदयमार्यसत्यं तत्र खल्वभिज्ञाय प्रहातव्यमिति द्वितीयम् /] इदं दुःखसमुदयमार्यसत्यं तत्र खल्वभिज्ञाय प्रहीणमिति हीत्यादि तृतीयम् /
SK
तथेदं दुःखनिरोधमार्यसत्यमिति हि प्रत्येकम् / इदं दुःखनिरोधमार्यसत्यं तत्र खल्वभिज्ञाय साक्षात्कर्तव्यमिति हीत्यादि द्वितीयम् / इदं दुःखनिरोधमार्यसत्यं तत्र खल्वभिज्ञाय साक्षात्कृतमिति तृतीयम् //
SK
तथेयं दुःखमार्गगामिनी प्रतिपदित्यार्यसत्यमिति प्रत्येकम् / इयं दुःखमोक्षगामिनी प्रतिपदित्यार्यसत्यं तत्र खल्वभिविज्ञाय भावयितव्यमिति हि भिक्षव इत्यादि द्वितीयम् /
SK
[इदं दुःखमोक्षगामिनी प्रतिपदित्यार्यसत्यं तत्र खल्वभिज्ञाय भावितमिति तृतीयम् // ]
SK
१०५. तत्र दानं त्रिविधम् / तद्यथा - धर्मदानम्, आमिषदानम्, मैत्रीदानं चेति //
SK
१०६. शीलं त्रिविधम् / तद्यथा - संभारशीलम्, कुशलसंग्राहशीलम्, सत्त्वार्थक्रियाशीलं चेति //
SK
१०७. क्षान्तिस्त्रिविधा / तद्यथा - धर्मनिध्यानक्षान्तिः, दुःखाधिवासनाक्षान्तिः, परोपकारधर्मक्षान्तिश्चेति //
SK
१०८. वीर्यं त्रिविधम् / तद्यथा - संनाहवीर्यम्, प्रयोगवीर्यम्, पर(रि)निष्ठावीर्यं चेति //
SK
१०९. ध्यानं त्रिविधम् / तद्यथा - सदोषापकर्षध्यानम्, सुखवैहारिकध्यानम्, अशेषवैभूषितध्यानं चेति //
SK
११०. प्रज्ञा त्रिविधा / तद्यथा - श्रुतमयी, चिन्तामयी, भावनामयी चेति //
SK
१११. उपायस्त्रिविधः / तद्यथा - सर्वसत्त्वावबोधकः, सत्त्वार्थाभावकः, क्षिप्रसुखाभिसंबोधिश्चेति //
SK
११२. प्रणिधानं त्रिविधम् / तद्यथा - सुस्थानप्राबन्धिकम्, सत्त्वार्थप्रबन्धिकम्, बुद्धक्षेत्रपरिशोधकं चेति //
SK
११३. बलं त्रिविधम् / तद्यथा - कर्मव्यावर्तकम्, क्लेशापकर्षकम्, मानप्रमादादिव्यावर्तकं चेति //
SK
११४. ज्ञानं त्रिविधम् / तद्यथा - अविकल्पकम्, विकल्पसमभावबोधकम्, सत्यार्थोपायपरोक्षं चेति //
SK
११५. तत्रावरणे द्वे / तद्यथा - क्लेशवरणम्, ज्ञेयावरणं चेति //
SK
११६. नैरात्म्यं द्विविधम् / तद्यथा - धर्मनैरात्म्यम्, पुग्दलनैरात्म्यं चेति //
SK
११७. संभारो द्विविधः / तद्यथा - पुण्यसंभारः, ज्ञानसंभारश्चेति //
SK
११८. तत्र षट् समाध्यावरणानि / तद्यथा - कौसीद्यम्, मानम्, शाठ्यम्, औद्धत्यम्, अनाभोगः, सत्याभोगश्चेति //
SK
११९. तत्र प्रतिपत्त्याष्टौ प्रहाणसंस्काराः / तद्यथा - श्रद्धा, बुद्धः(द्धिः), व्यायामः, प्रस्रब्धिः, स्मृतिः, संप्रजन्यम्, चेतना, उपेक्षा चेति //
SK
१२०. तत्र चत्वारो द्वीपाः / तद्यथा - पूर्वविदेहः, जम्बुद्वीपः, अपरगोदानिः(नीयः), उत्तरकुरुद्वीपश्चेति //
SK
१२१. अष्टावुष्णनरकाः / तद्यथा - संजीवः, कालसूत्रः, संघातः, रौरवः, महारौरवः, तपनः, प्रतापनः, अवीचिश्चेति //
SK
१२२. अष्टौ शीतनरकाः / तद्यथा - अर्बुदः, निरर्बुदः, अटटः, अपपः, हाहाधरः, उत्पलः, पद्मः, महापद्मश्चेति //
SK
१२३. सप्त पातालानि / तद्यथा - धरणीतलः, अचलः, महाचलः, आपः, काञ्चनः, संजीवः, नरकश्चेति /
SK
१२४. द्वौ चक्रवालौ / तद्यथा - चक्रवालमहाचक्रवालौ चेति //
SK
१२५. अष्टाङ्गपर्वताः / तद्यथा - युगंधरः, ईशाधरः, खदिरकः, सुदर्शनः, विनतकः, अश्वकर्णः, नेमिंधरगिरिः, सुमेरुश्चेति //
SK
१२६. सप्त सागराः / तद्यथा - क्षारः, क्षीरः, दधि, उदधिः, घृतम्, मधुः, सुरा चेति //
SK
१२७. तत्र षट् कामावचरा देवाः / तद्यथा - चातुर्महाराजकायिकाः, त्रायस्त्रिंशाः, तुषिताः, यामाः, निर्माणरतयः, परनिर्मितवशवर्तिनश्चेति //
SK
१२८. अष्टादश रूपावचरा देवाः / तद्यथा - ब्रह्मकायिकाः, ब्रह्मपुरोहिताः, ब्रह्मपार्षद्याः, महाब्रह्माणः, परीत्ताभाः, अप्रमाणाभाः, आभास्वराः, परीत्तशुभाः, शुभकृत्स्नाः, अनभ्रकाः, पुण्यप्रसवाः, बृहत्फलाः, असंज्ञिसत्त्वाः, अवृहाः, अतपाः, सुदृशाः, सुदर्शनाः, अकनिष्ठाश्चेति //
SK
१२९. चत्वारो ऽरूपावचरा देवाः / आकाशानन्त्यायतनोपगाः, विज्ञानानन्त्यायतनोपगाः, आकिंचन्यायतनोपगाः, नैवसंज्ञानासंज्ञायतनोपगाश्चेति //
SK
१३०. त्रिविधा आलङ्घनाः / तद्यथा - सत्यालङ्घना, धर्मालङ्घना, अनालङ्घना चेति //
SK
१३१. त्रिविधा महामैत्री / तद्यथा - सत्यालङ्घ(म्ब)ना, धर्मलङ्घ(र्मालम्ब)ना, अनालङ्घ(म्ब)ना चेति //
SK
१३२. त्रिविधं कर्म / तद्यथा - दृष्टधर्मवेदनीयम्, उत्पद्यवेदनीयम्, अपरवेदनीयं चेति //
SK
१३३. त्रिविधं प्रातिहार्यम् / तद्यथा - ऋद्धिप्रातिहार्यम्, आदेशनाप्रातिहार्यम्, अनुशासनीप्रातिहार्यं चेति //
SK
१३४. अष्टावक्षणाः / तद्यथा - नरकोपपत्तिः, तिर्यगुपपत्तिः, यमलोकोपपत्तिः, प्रत्यन्तजनपदोपपत्तिः, दीर्घायुषदेवोपपत्तिः, इन्द्रियविकलता, मिथ्यादृष्टिः, चित्तोत्पादविरागितता चेति //
SK
१३५. त्रिविधा विकल्पाः / तद्यथा - अनुस्मरणविकल्पः, संतिरन(तीरण)विकल्पः, सहजविकल्पश्चेति //
SK
१३६. चत्वारः समाधयः / तद्यथा - शूरंगमः, गगनगञ्जः विमलप्रभः, सिंहविक्रीडितश्चेति /
SK
१३७. चतुर्दशाव्याकृतवस्तूनि / तद्यथा - शाश्वतो लोकः, अशाश्वतो लोकः, शाश्वतश्चाशाश्वतश्च, नैव शाश्वतो नाशाश्वतश्च / अन्तवांल्लोकः, अनन्तवांल्लोकः, अन्तवांश्चानन्तवांल्लोकश्च, नैवान्तवान्नानन्तवांश्च / भवति तथागतः परं मरणात्, न भवति तथागतः परं मरणात्, भवति न च भवति च तथागतः परं मरणात्, नैव भवति न भवति तथागतः परं मरणात् / स जीवस्तच्छरीरम्, अन्यो जीवो ऽन्यच्छरीरं चेति //
SK
१३८. त्रीणि कुशलमूलानि / तद्यथा - अद्वेषः, अलोभः, अमोहश्चेति //
SK
१३९. एतद्विपर्ययान्त्रीण्यकुशलमूलानि / तद्यथा - लोभः, मोहः, द्वेषश्चेति //
SK
१४०. तिस्रः शिक्षाः / तद्यथा - अधिचित्तशिक्षा, अधिशीलशिक्षा, अधिप्रज्ञाशिक्षा चेति //
SK
इति नागार्जुनपादविरचितो ऽयं धर्मसंग्रहः समाप्तः //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Dharmasaṃgraha (sa_nAgArjuna-dharmasaMgraha.htm).

Source