Light of the Middle Way

Madhyamakāloka · Mअध्यमकालोक

Light of the Middle Way

Madhyamakāloka

Mअध्यमकालोक

SK
Āचार्यकमलशीलविरचितो Mअध्यमकालोकः
SK
अज्ञानिनो ये ऽत्र विपन्नदृष्ट्या भावेषु चासक्तिमहाग्रहाणां वशेन ग्रस्ता हि प्रणष्टप्रज्ञा नागार्जुनादींश्च महामहिम्नः / क्षिपन्ति तेनात्मविनाश एव तेषां महाभूतग्रहोपशान्त्यै प्रारभ्यते पोषकरो ऽभ्युपायः कारुण्यमाश्रित्य मयाधूनात्र //
SK
भावाभिनिवेश एव तावत् समस्तसङ्क्लेशजालमूलम्, अतस्तत्परिहृत्य निःश्रेयसपदाभिलाषिणां सर्वधर्मनिःस्वभावताव्युत्पादनार्थमिदमारभ्यते /
SK
परमार्थगम्भीरोदधिनयमनवगाह्य अत्र केचिदाहुः - युक्त्यागमाभ्यां सर्वधर्मनिःस्वभावता सिध्यतीति चेत्?
SK
[१] नागमस्तावच्छक्तः, केनापि तथाभ्युपगमाभावाद्, विवक्षाधीनत्वाद् वचनानां तद्वस्तुसम्बन्धाभावाच्च न प्रामाण्यम् / स्यादपि सम्बन्धस्तथाप्यर्वाग्दर्शिभिरवधारयितुं न शक्यते
SK
प्रेक्षकास्तत्प्रवचनमत - मभ्युपगम्यमानेभ्यो ऽपि निःसंशयं सर्वभावानां निःस्वभावताप्रतिपादकं किमपि वचनमुपदर्शयितुं न शक्नुवन्ति /
SK
[२] सूत्रेषु केषुचित् - ऽनिःस्वभावाः सर्वधर्माः, अनुत्पन्नाः, आदिशान्ताः प्रकृतिपरिनिर्वृता इत्यादीनि [वचनानि] आगच्छन्ति, तान्यपि नेयार्थान्येव वेदितव्यानि, नानाभिसन्धिद्वारेण भगवतो देशनया अवतारणात् / त्रयाणां स्वभावानां परिकल्पितपरतन्त्रपरिनिष्पन्नानां क्रमशः लक्षणत उत्पत्तितः परमार्थतः निःस्वभावतां सन्धाय सर्वधर्मा निःस्वभावा उक्ताः, तेन निःस्वभावत्वादनुत्पन्ना, तत आदिशान्ताः, तेन प्रकृतिपरिनिर्वृताः / तथैव भगवता आर्यसन्धिनिर्मोचनसूत्रादौ सूत्रार्थाभिप्राययोगो देशितः /
SK
[३] द्वैताभासिविज्ञानमात्रेण सर्वधर्माणामुत्पत्त्यादयो विभज्यन्ते, न तु स्वसंवेदनमात्रेण / द्वैताभासो ऽपि मिथ्या, तेन सर्वभावा अपि मृषा एव व्यवस्थाप्यन्ते / परिकल्पितस्य लक्षणनिःस्वभावत्वात् सर्वधर्मानुत्पादादयो देशिताः, न तु परमार्थतः / अतो नागमद्वारा [सर्वधर्मनिःस्वभावता] साधयितुं शक्यते /
SK
[४] नापि युक्तिद्वारा / न खलु सर्वे भावाः प्रत्यक्षत एवं विविक्ताः [शून्याः] अनुभूयन्ते / वस्तुत्वात्तस्य विषयाणाम् / अभावाय तावद् नीरूपतया न कथमपि स्वरूपोपदर्शनेन विज्ञानजनकत्वं युज्यते, जनकत्वे सति वस्तुत्वप्रसङ्गः, अर्थक्रियासमर्थ्यत्वाद् वस्तुलक्षणस्य / यत् प्रत्यक्षं तदपि यदि सस्वभावम्, तदा सर्वधर्मनिःस्वभावताप्रतिज्ञाया हानिप्रसङ्गः / यदि तन्निःस्वभावम्, कथं तेन सर्वधर्माणां विविक्ततानुभूयते / अथ कैश्चिद् अर्थान्तरा विविक्ततेति पक्षो गृह्यते, तदा इतरेण तावत् प्रत्यक्षेण शून्यता ग्राह्या स्यात् /
SK
सर्वधर्मःस्वभाववादिषु ये केचन [धर्माः] प्रत्यक्षेण उपलभ्यन्ते [ते] सर्वे धर्मा विविक्ताः प्रतीयेरन् / सर्वधर्माणां स्वभावविविक्तता तावन्नास्ति किमपि वस्तु, तस्या अपि सर्वधर्मान्तर्गतत्वात् / न चेदन्तर्भावः, स्वप्रतिज्ञाहानिः /
SK
[५] अयं तावद् [विषयः] सर्वज्ञादीनां योगिनां प्रत्यक्षेण सुगम्य इत्युच्यमाने ऽपि न खलु विद्वद्भ्यस्तृप्तिमासादयति, युक्त्यभावात्तत्र / यदि तद् योगिज्ञानमप्यसदिति चेद्? तदा कथं तस्य प्रामाण्यम् / यदि तत् सत्, तदा प्रतिज्ञाहानिः /
SK
[६] नाप्यनुमानेनापि ऽसर्वे भावाः शून्याःऽ इति साधयितुं शक्यते, कस्याप्याधारस्य धर्मिण एवाभावात्, हेतुदृष्टान्तादीनामप्यनुपपन्नत्वात् / स्वभावाश्रयरहितैः सर्वहेतुभिः कथं सर्वधर्मनिःस्वभावता साधयितुं शक्यते /
SK
[७] परैः सिद्धत्वात् पराभ्युपगतहेत्वादिभिः स्वपक्षः प्रसिध्येदिति चेत् तदापि न युज्यते,साधनदूषणयोरुभयप्रसिद्धत्वेनाभिमतत्वात् / इथं यदा पराभ्युपगतहेत्वादयो यदि न वास्तविकाः, मोहेन कल्पितमात्रसत्ताकाः, तदा कथं तैः स्वपक्षः प्रसिध्येत् / यदि ते भावरुपेण सन्मात्राः, तदा न केवलं ते परप्रसिद्धमात्राः, तवापि तत्प्रसिद्धत्वात् / भावानां सिद्धयसिद्धयो न पुरुषविवक्षाधीनाः / पराभ्युपगतसाधनादयो यदि सन्मात्रा एवाभ्युपेयन्ते तदा भावा अपि सस्वभावाः कथं नाभ्युपेयन्ते?
SK
[८] सर्वधर्मशून्यता कुत्रापि केनापि हेतुना न सम्बद्धा, अत्यन्तपरोक्षत्वात् / यदि [सम्बन्धः] सिद्धः स्यात् तदा सर्वे तत्त्वदर्शिनः स्युरिति प्रसङ्गः / पूर्वत एव सिद्धत्वाद् युक्त्यनुसरणमपि निरर्थकं स्यात् /
SK
[९] अपि च, न तावत् कार्यस्वभावलिङ्गाभ्यां शक्यते साधयितुं सर्वधर्मनिःस्वभावता / तेषां खलु भावसाधनत्वात् / त्वन्मते तु एतौ [कार्यस्वभावौ] न सम्भवतः तथा हि - सर्वेषां धर्माणामनुत्पन्नत्वेन कस्यापि केनापि सह कार्यकारणभावस्यानभ्युपेतत्वात् कार्यहेतुस्तावन्न सम्भवति /
SK
सर्वधर्माणां निःस्वभावत्वेन कस्यापि आत्मनः स्वभावस्यासत्त्वात् कुतस्तावत् स्वभावहेतुः /
SK
[१०] अनुपलब्धिरपि तां साधयितुं न शक्ता / स्वभावानुपलब्धिर्या खलु असद्व्यवहारं साधयति, सा तदितरविविक्तस्य वस्तुनः प्रत्यक्षतः प्रतीतौ सत्यामपि असच्छास्त्रश्रवणविमूढमनसा केनचित् तदितरविवेकव्यवहारे ऽप्रवृत्तानां तद्व्यवहारप्रसाधनाय प्रयुज्यत इति / तव तु साध्यमानसर्वधर्माभावव्यवहारस्य प्रत्यक्षतः ज्ञानार्थं किञ्चिदपि नास्त्येव, स्वपक्षहानिप्रसङ्गादित्युक्तपूर्वम् /
SK
[११]विरुद्धोपलब्ध्यादयो ऽपि [तव मते अभावसाधनार्थं] न सम्भवन्त्येव / अत्यन्तपरोक्षात् सर्वधर्मविवेकात् सहानवस्थानविरोधेनापि न किञ्चिदपि सिध्यति / यदि सिध्येत् तदा तद्विरुद्धादयो भावत्वेनैव सिध्येयुरित्यनभ्युपेता न स्युः / भावानां विरोधो द्विधा व्यवस्थाप्यते, तद्यथा - सहानवस्थानलक्षणः परस्परपरिहारलक्षणश्च / ये तत्राविकलकारणानि तेभ्यो नियतं यस्मिन्न भवति, तयोः प्रथमो विरोधो व्यवस्थाप्यते, शीतोष्णस्पर्शवत् / यद् यस्मिन् परिह्रियते यन्न विच्छिद्यते तयोरुभयोरभावयोर्द्वितीयो विरोधो व्यवस्थाप्यते, एकस्मिन् धर्मिणि युगपत् सदसत्त्ववत् / तथाविधौ द्वावपि विरोधौ सर्वधर्मानिःस्वभाववादिषु नैव सम्भवतः / गगनारविन्दादिषु न सन्ति अविकलकारणान्यपि तथा नास्ति अतद्व्यावृत्त्या परिच्छेदो ऽपि भावपर्यन्तवात् / सत्ताव्यवच्छेन यद्यपि परिच्छेदो व्यवस्थाप्यते तथापि कुत्रचित् काचित्, सत्ता व्यवच्छिन्ना सिध्येत्, किन्तु भवन्तस्तावत् कुत्रापि कस्यापि व्यवच्छेदं कथमपि नैवाभ्युपगच्छन्ति /
SK
यदि सर्वे धर्मा निःस्वभावताप्रत्यासन्नास्तदा युष्मासु किमप्यविकलकारणसत्त्वं न सिध्येत् / यदि सिध्येत्तदा तान्यविकलकारणान्येव भावाः सिध्येयुः / यदि सर्वधर्मनिःस्वभावताव्यवच्छेदन केचन भावाः परिच्छिद्यन्ते, तदा त एवास्मासु वस्तुसन्तः सिध्येयुः तद्विरुद्धोपलब्ध्यसम्भवात् /
SK
[१२] यद्यसम्भवस्तदा व्यापकविरुद्धोपलब्ध्यादयो ऽपि न सम्भवेयुः / विरुद्धोपलब्ध्यसिद्धेस्ता अपि न सम्भवन्ति, विरुद्धोपलब्धिप्रभावितत्वात्तासाम् /
SK
[१३] व्यापकानुपलब्धिरपि व्याप्यव्यापकभावसिद्धौ व्याप्यनिषेधाय यदि प्रयुज्यते तदा सर्वधर्मस्वभावशून्यत्वं तु तावन्न कस्यापि व्याप्यं सिध्यतीति / यदि सिध्यतीति चेत् तद् व्याप्यमेव हि वस्तुतया सिद्धं स्यात् /
SK
[१४] कारणानुपलब्धिरपि कार्यकारणभावसिद्धौ कार्यत्वनिषेधाय यदि प्रयुज्यते तदा सर्वधर्मनिःस्वभावतायां तु कार्यकारणभाव एव सिद्धो न भवति / यदि सिद्धस्तदा यत् कारणं यच्चापि वा कार्यं तदेव वस्तु स्यात् /
SK
[१५] सर्वधर्मेषु कस्याप्येकस्य निषेधाद् एतेषां निःस्वभावतासिद्धयर्थं नास्ति किमप्येकं कारणम् /
SK
[१६] केनापि ईश्चराद्येकनिमित्ताभ्युपगमनिषेधे ऽपि नेमे निःस्वभावत्वे सिध्यन्ति, सर्वेषां स्वनिमित्तोत्पन्नत्वात् / एतेषां प्रतिस्वं निमित्तान्यपि निषेद्धुं न शक्यन्ते, तेषां प्रसिद्धत्वात् /
SK
[१७] अपि च, नैरात्म्यं यदि सर्वधर्मगोचरतायां साध्यते, तदा न दृष्टान्तः प्रसिद्धयति / प्रतिबिम्बादयो ये ऽपि दृष्टान्तास्तेष्वपि केचित् बाह्यवस्तुस्वभावाः, अन्ये तावज्ज्ञानस्वभावा अभ्युपगम्यन्ते, अतस्ते वस्तुस्वभावा एव स्वीकृताः /
SK
[१८] यदि प्रादेशिकं नैरात्म्यं साधयितुमिष्येत, तत्र यदि तैर्थिकपरिकल्पिताः प्रधानादयः निषिध्यन्ते, तदा सिद्धसाधनमात्रमेव /
SK
[१९] यदि लोकप्रसिद्धा रुपादयस्तदा दृष्टान्त एव तावन्नोपलभ्यते, प्रतिज्ञायाश्चापि प्रत्यक्षविरोधः /
SK
[२०] यद्यनुमानस्य प्रतिबन्धसाधनार्थं प्रत्यक्षप्रमाणमभयुपगम्यते, तदा सिद्ध एव तावद् भावः / तद्यथा - कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणम् / अभ्रान्तज्ञानेन निरूपितो ऽपि भावस्वभावः कथमनुमानेनापह्नोतुं शक्यते / यदि स निराक्रियते तदा प्रत्यक्षस्यैव बाधप्रसङ्गः / यदि स बध्यते तदा नानुमानस्यापि सौस्थित्यम् / प्रत्यक्षसम्बन्धादनुप्राप्तानुमानेनापि स एव कथं बाधयितुं शक्यते / यदि प्रत्यक्षसिद्धो ऽर्थो न बाध्यते तदा वस्तुवादिनामेव सौस्थित्यम्, प्राप्यस्य प्राप्तत्वात् /
SK
[२१] अपि च, सर्वधर्मनिःस्वभावत्वं साधयितु यदि कश्चिद् भावस्वभावो हेतुः प्रदर्श्यते, तदा विपरीतसाध्यसाधको हेतुर्विरोद्धो भवति /
SK
[२२] यदि अभावस्वभावस्तदा असदभवयोः परस्परसम्बन्धाअभावात् कथं साधयिष्यति?
SK
[२३] यद्युभयस्वभावः, सो ऽप्यनियत एव, विपक्षे ऽपि सत्त्वात् / यतो हि तत् साधयितुं नान्यत् किमपि प्रमाणमिति /
SK
[२४] शब्दमात्रतो ऽपि न तत् सिध्यति, सर्वतः सर्वसिद्धिप्रसङ्गात् / शब्दो ऽपि विरुद्धः, यतो हि यदि निःस्वभावस्तदा कथं स सिद्धः /
SK
[२५] प्रसङ्गत्वेन सिद्धे ऽपि नेष्टार्थसिद्धिः,तथाविधप्रसङ्गस्यैवासिद्धत्वात् / प्रसङ्गेन तावत् परपक्षो बाधयितुं शक्यते, तथापि स्वपक्षस्तु न सिध्यति, उभयसिद्धहेत्वन्तरापेक्षत्वात्तस्य /
SK
[२६] स्वतो नोत्पद्यते भावः, यश्चानुत्पन्नस्तस्यासत्त्वेन कुत्रापि हेतुत्वेनानुपपत्तेः / उत्पन्नानां पुनरुत्पादे नैरर्थक्यम्, विद्यमानत्वात् / यद्यविशिष्टस्तदा कार्यकारणभावो ऽपि न युज्यते, विशिष्टस्यैव हेतुत्वात् /
SK
परतो ऽपि नोत्पद्यते भावः, परस्यैवासिद्धत्वात् / अपि च नित्यभूतादपि तावत् परान्नोत्पद्यते, नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् / अनित्यादपि तावद् विनष्टान्न, तस्याविद्यमाअनत्वात् / अविनष्टादपि न, कार्यकारणयोस्तुत्वप्रसङ्गात् / समकालिकयोस्तावत् कार्यकारणभावो न युज्यते, निष्पन्नवस्थायां द्वयोर्विद्यमानस्वभावत्वेन परस्परोपकारकत्वाभावात् / अनिष्पन्नवस्थायां तु द्वयोरसत्त्वाद् उपकारकत्वात्यन्ताभावः /
SK
उभयतो ऽपि नोत्पद्यते,यथोक्तोभयदोषप्रसङ्गात्, एकस्मिन् द्वित्वविरोधाच्च /
SK
अहेतुतो ऽपि नोत्पद्यते भावः कादाचित्कत्वात्, नैवं कथनं युज्यते / यन्न स्वतो नोभयतो नापि विनष्टाद्धेतोर्नाप्यहेतुतो नाभीष्टान्नित्याद्धेतोः कार्योत्पत्तिर्भवतीति तथावादिनस्तत् [सर्वं] युज्यते, किन्त्वनित्यत्वेनाभीष्टात्तदितरादविनष्टाद्धेतोः कार्योत्पत्तौ कस्तावद् विरोधः, केन हेतुना ततः कार्योत्पत्तिर्निषिध्यते, नास्ति तद्बाधकं किमपि प्रमाणम् /
SK
परभूतस्य भावमात्रस्याप्यसिद्धिरिति न, यतो हि यदनन्तरं कार्यमुत्पद्यते तदेव ऽपरऽः इत्यभिधीयते / कार्योत्पादात् प्राक् परेति नाम्रो ऽसिद्धत्वे ऽपि भावस्य तु नैव हानिः /
SK
[२७]केचित् परत्वादिति बाधकं प्रमाणं वदन्ति, तदप्यनैकान्तिकमेव, परात्वजनकत्वयोरविरोधात् / स तावविरोधनयो ऽपि निषेद्धुं न शक्यते, अतिप्रसङ्गात् /
SK
यद्येवमस्ति तदा कस्मिंश्चिदपरस्मिन् द्रारिद्रयमूढत्वादिधर्माणां दृश्यत्वेन परत्वहेतोः सर्वजगद्दारिद्रयादिधर्मोपादानं स्यात् /
SK
[२८] अव्यवहितादविनष्टात् परात् कार्योत्पत्तौ कार्यकारणसमकालिकत्वप्रसङ्गो बाधकप्रणमिति यदि कश्चिदेवं मन्यते, तदप्ययुक्तमेव / अव्यवहिकार्योत्पादेनापि कार्यकारणसमकालिकत्वं न प्रसज्यते, क्षणिकत्वेन कार्यसत्त्वे कारणस्यासत्त्वात् /
SK
यदा कार्यमुत्पद्यते तदैव कारणं निरुध्यते, तुलादण्डोन्नामावनामवदिति कुतः समकालिकत्वप्रसङ्गः / कारणावस्थायामपि कार्यस्य विद्यमानत्वाद् नैरर्थक्यमेव / यथा अव्यवहितविनष्टो भाव उत्तरक्षणभाविना भावेन सह युगपद् व्यवस्थाप्यो न भवति, एवमेव कार्यस्यापि तत्सदृशत्वादविरुद्धतैव, छायातपवत् / यथा च पूर्वापराव्यवधानेन प्रवहमानजलधारायां विषयैकत्वं न भवति, तथैव अस्यापि तत्सदृशत्वात् समकालिकत्वं न भविष्यति /
SK
[२९] विद्यमानस्यापि कार्यस्य नैवोत्पादः, उत्पादवैयर्थात्, नाप्यविद्यमानस्य, शशशृङ्गदीनामप्युत्पत्तिप्रसङ्गाद् इत्यपि कथनं नैव युज्यते / यदि विद्यमानकार्यस्योत्पत्तिनिर्षिध्यते तदा तव [पक्षे] उभयसिद्धो हेतुर्दृष्टान्तश्च न स्याताम् / यद्यस्ति तदा निःस्वभावत्वप्रतिज्ञाया हानिः /
SK
[३०] सांख्यादिपरिकल्पितसत्कार्यवादो यद्यप्ययुक्तस्तथाप्यसत्कार्योत्पादे किं नाम विरुद्धत्वम्, किमर्थं च तन्निषिध्यते / नैव च स्यात् शशशृङ्गाद्युत्पत्तिप्रसङ्गः तत्तथाविधहेतूनामभावादनुत्पत्तेः न त्वभावाद्धेतोः /
SK
सर्वतः सर्वोत्पत्तिप्रसङ्गो ऽपि नैव; कारणप्रतिनियतसामर्थस्य व्यवस्थितत्वात् / प्रतिनियतकारणसामर्थ्यमप्यश्यमभ्युपेयम्, अन्यथा सांवृतिके ऽपि कार्यकारणभावे कथं न सर्वतः सर्वोत्पत्तिर्भवतीति /
SK
[३१] अपि च, यदि विनष्टाविनष्टादयो विकल्पाः पारमार्थिकीमुत्पत्तिं बाधन्ते, तदा कथं न सांवृतिकीमपि बाधन्ते? वस्तुबलप्रवृत्तस्य हेतोर्विषस्य पुरुषेच्छावशेन विभागो न युक्तरूपः / यदि पत्यक्षबाधितत्वाशङ्कया तस्मिन् हेतुत्वं न प्रवर्तत इत्युच्येत तर्हि स हेतुरेव नास्ति, बाधयोग्यत्वात् /
SK
[३२] न ह्येकेन हेतुना अनेककार्योत्पत्तिर्युज्यते, न चानेकेनाप्येकोत्पत्तिर्युज्यते, अन्यथा हेतुभेदेन भेदो न स्यात् / अत एव नानेकेभ्यो ऽप्यनेककार्योत्पत्तिर्भवतीति / यद्येकं कार्यं सर्वे हेतोवो ऽभिनिर्वर्तयन्ति, तदा भिन्नानां हेतूनामभेदः स्यात्, अनेकेभ्य एकैकस्योत्पत्तेः / यधेकैकं नाभिनिर्वर्तयन्ति तदा कथं नामानेकेभ्यो ऽनेकोत्पत्तिरपि /
SK
न ह्येकेनापि एकस्योत्पत्तिः, चक्षुरादीन्द्रियेभ्यस्तद्विज्ञानस्योत्पत्तेः / तदनन्तरं यदि सजातीयक्षणोत्पत्तिर्न भवेत्तदा सर्वेषामन्धबधिरत्वादिप्रसङ्ग इत्यपि कथनं तावन्नैव युज्यते / एवं यस्तावदन्धबधिरत्वादिप्रसङ्गो ऽभिहित स नैव सम्भवति, अनभ्युपगतत्वात्, सामग्र्या उत्पत्तेः, न हि काचिदेकेन एकस्योत्पत्तिरिति /
SK
येनैकस्मादनेकोत्पत्तिः, अनेकस्माद् वा एकस्योत्पत्तिः [ततः स] विरुद्धो हेतुस्वभावातिक्रान्तो जनकत्वेनानभ्युपगतो भवति, तथापि विद्यमानमात्रादनेकस्वभावात् प्रदीपादेः अनेकस्वभावं कार्यमुत्पद्यमानं दृश्यते /
SK
हेतुभेदो भेदको न भविष्यतीति न स्यात्, हेतुविशेषेण कार्यविशेषस्योत्पत्तेः / हेतुविशेषेण कार्यविशेषोत्पाद इति यदेव कथनं तदेव हेतुभेदस्य भेदकत्वप्रतिपादकमिति /
SK
[३३] यः प्रतीत्यसमुत्पन्नः स प्रकृत्या शान्त इत्येतदनैकान्तिकत्वम्, प्रतीत्यसमुत्पन्नस्य सस्वभावत्वेन विरोधाभावात्, प्रतीत्यसमुपादस्य सस्वभावत्वे प्रसिद्धत्वाद् / हेतोर्विरुद्धत्वमपि, अजातानां खपुष्पादीनां सस्वभावत्वेनाननुभूयमानत्वात् /
SK
[३४] यो हि परमार्थतो ऽसन् स संवृतावपि स्वभावतो ऽनुत्पन्नो दृश्यते, यथा - वन्ध्यापुत्रः / तुल्ये ऽपि निःस्वभावत्वे यथा रुपादयो ऽवभासन्ते, तथा शशशृङ्गादयः कथं नावभासन्ते? अवभासविशेषस्यास्य नास्ति किमपि कारणम् /
SK
[३५] ऽसर्वे धर्मा निःस्वभावाः, एकानेकस्वभावरहितत्वात्ऽ इत्येवमभिदधाना ये प्रसङ्गं साधयन्ति तेषामपि तथा परैरनङ्गीकाराद् हेतुरसिद्ध एव, एकानेकस्वभावरहितत्वस्य न केनाप्यभ्युपगतत्वात् / अतः स्वतः सिद्धावपि हेतुरयं परतो ऽसिद्धः /
SK
[३६] अन्यच्च, साध्यसाधने पर्युदासात्मके प्रसज्यात्मके वा? यदि पर्युदासात्मके तदा एकानेकस्वभावरहितात्वस्य भावस्वभावत्वेनाभ्युपेतत्वात्तदप्यनभ्युपगतं न भवेत् / यदि प्रसज्यात्मके तदा नास्ति गम्यगमकभावः, तयोर्निःस्वभावत्वाद् अन्यो ऽन्यासम्बद्धत्वाद् अभिन्नत्वाच्च /
SK
[३७] यच्च सर्वाभिलापविरहलक्षणं तन्न किञ्चिद् गम्यं गमकं वा, यथा - अश्वशृङ्गम् / यथोक्तसाध्यसाधने अपि सर्वाभिलापविरहलक्षणे /
SK
[३८] यौ ह्यन्यो ऽन्यासम्बद्धौ तयोर्नास्ति गम्यगमकभावः, यथा विन्ध्यहिमालयौ / साध्यसाधने चाप्यन्यो ऽन्यासम्बद्धे /
SK
[३९] यद्युभे अभावस्वभावत्वेन तादात्म्यलक्षणापन्ने एवेति मन्यसे चेत्, तदप्युक्तम्, तदात्मनो भावे व्यवस्थितत्वात् /
SK
[४०] यो यस्मान्न भिन्नस्वभावस्तयोर्नास्ति गम्यगमकभावः, वृक्षद्रुमवत् / यथोक्तसाध्यसाधने अपि न भिन्नस्वभावे / नायं कृतकत्वानित्यत्वाभ्यामनैकान्तिको ऽपि, व्यावृत्त्या भिन्नत्वात्तयोः /
SK
[४१] अत्रापि व्यावृत्त्या भेद इति मन्यते चेत्? तदप्ययुक्तम् / यद्येवं स्वाद् भाव एव ते स्याताम्, नीलपीतवत् /
SK
[४२] अपि च यथा केनापि एकानेकस्वभाववियुक्तत्वहेतुना भावानां निःस्वभावता साध्यते, तथा धर्मिणो ऽप्यभावः साध्यते तदा धर्मिव्यावृत्तत्वसिद्धेः / हेतुर्विरुद्धः स्यात्, तथा निःस्वभावत्वसिद्धौ नास्ति किमपि प्रमाणम् /
SK
[४३] अपि च, यदि विज्ञानमप्यन्यधर्मवत् परमार्थतो निःस्वभावं स्यात्तदा तदनुपादेयं स्याद् वितथत्वादन्यधर्मवत् / यद्येवं स्यात्तदा न स्युर्योगिनो ऽपि, नैव योगिज्ञानमपि स्यान्न च तैस्तत्त्वप्रतिबोधः स्यात् / नैव तेषां भगवतां बुद्धानामप्रतिष्ठितनिर्वाणं स्यान्न च सर्वाकारं ज्ञानं स्यात् / फलतः सर्वव्यवस्थाविलोपः स्यादिति /
SK
[४४] संवृतौ योगिज्ञानादीनामभ्युपगमाद् बुद्धा अपि विपर्यस्ता भवेयुरिति प्रसङ्गः /
SK
[४५] अपि चास्ति भवतां सर्वधर्मनिःस्वभावत्वप्रतिज्ञायां युक्त्यागमाभ्यां विरोधो ऽपि / यथा रुपादयस्तावत् सस्वभावत्वे एव नियता, देशकालावस्थाभेदेन स्फुटमवभासमानत्वात् / अत आदौ तावत् प्रत्यक्षविरोधः सुस्पष्टः /
SK
[४६] अग्न्यादयो ये भावाः परोक्षर्वेनाभ्युपगतास्ते ऽपि अभ्रान्तेन नियतधूमादिहेतुना अनुमानप्रमाणेन सत्स्वभावात्मका एव / भावानामुत्पादो ऽपि खलु हेतुप्रत्ययसापेक्ष एव सिद्धः, कादाचित्कत्वात् / अहेतुकस्य तु कादाचित्कत्वमपि न युज्यते, निरपेक्षत्वात् / अतः प्रतिज्ञायामनुमानबाधापि /
SK
[४७] यानि त्रायस्त्रिंशानां नगरादीन्यत्यन्तपरोक्षाणि, तान्यपि समस्तलोकैकचक्षुर्भूतेन तायिना स्वकीयेनानावृतेन ज्ञानचक्षुषा प्रत्यक्षीकृत्य अन्येभ्यो ऽपि सम्प्रकाशितानि, अतो विश्चस्तागमेन सत्तायाः सिद्धेरागमविरोधो ऽपि, असतामाकाशपुष्पादीनां तथा दर्शनसम्प्रकाशनयोरयुक्त्वात् /
SK
[४८] भगवता खलु ये आन्तरबह्यवस्तूनामनेकविधाः प्रतीत्यसमुत्पादाः समुपदिष्टास्ते ऽपि स्वभावविरहिताः कथं युज्यन्ते, अत्यन्ताभावानामाकाशपुष्पादीनां नैवात्यन्तिकी उत्पत्तिरिति /
SK
[४९] कुशलाकुशलमर्मणां फलभूता देवनरकादिगतयो भवन्तीति स्वयम्भुव उपदेशात् कथं न विरोधः, नैव युज्यते अत्यन्तासद्भूतकूर्मरोमादिभिर्वस्त्रनिर्माणोपदेशः /
SK
[५०] अतः कर्मणामिष्टानिष्टफलापवादात् संक्लेशपक्षापवादः /
SK
[५१] सूत्रादिषु आर्याणां मार्गाभ्यासबलेन या उत्तरोत्तरलोकोत्तरज्ञानफलव्यवस्था सापि न स्यात्, गतिगम्यगमकाद्यभावात् / शशशृङ्गकृतसोपानमार्गे पादौ निधाय
SK
वन्ध्यापुत्रस्य अश्चङ्गसमुच्छ्रितोत्तुङ्गविशालप्रासादारोहणं न सम्भवतीत्यतो व्यवदानपक्षापवादो ऽपि स्यात् /
SK
[५२] इत्येवमुभयपक्षापवादमनुतिष्ठन्तश्चत्वार्यार्यसत्यान्यपि निषेधन्ति भवन्तः /
SK
[५३] बीजादिषु जन्यजनकभावस्तावद् आगोपाङ्गनाप्रसिद्धः, अतः प्रतिज्ञायाः प्रसिद्धिविराधो ऽपि /
SK
[५४] हेतुप्रयोगेण परेषु निश्चयोत्पादाभ्युपगमात् स्ववचनविरोधो ऽपि /
SK
[५५] यश्च भगवता प्रत्यक्षादिप्रमाणैर्भावानां सत्तानिर्देशः कृतः, तस्यापि बाधा स्यात् / यतो हिः
SK
᳚चक्षुर्विज्ञानसमङ्गी नीलं विजानाति, नो तु नीलम्᳚ इत्यादिना तावन्नीलादयो भावाः कल्पानापोढलक्षणेन प्रत्यक्षप्रमाणेन ज्ञायन्त इति प्रतिपादितम्, नैव हि गगनोत्पलवर्तीनि नीलादीनि चक्षुर्विज्ञानेनानुभूयन्त इति /
SK
[५६] ᳚यत्किञ्चित् समुदयधर्मकम्, तत् सर्वत्र निरोधधर्मकम्᳚ अनेन साध्यव्याप्तहेतुनानुमानप्रमाणेनोपदर्शिताः क्षणस्थितधर्मिणो भावाः प्रसिद्धा इति स्पष्टमुपदर्शितम् / अनेन तावदुपदर्शनेन ते [भावा] सस्वभावतायां निरुच्यन्ते, अत्यन्तासद्भूताकाशपुष्पादीनामुत्पादाव्ययधर्मायोगात् /
SK
[५७] ᳚धूमेन ज्ञायते वह्निः सलिलं च बलाकया᳚ इति / अग्न्यादयो भावाः कार्यलिङ्गेन नियतं ज्ञायमानत्वान्नियतं स्वभावमवधारयन्तीति सुस्पष्टं निर्दिश्यते / बलाकादिहेतूनां दर्शनान्मरीचिकाद्यभावानुमानस्योत्पत्तेरभावात् /
SK
[५८] अभिधर्मादौ ये षड् हेतवश्चत्वारश्च प्रत्यया अभिहितास्ते ऽपि सर्वधर्मानुत्पादवादे तावत्कथं युज्यन्ते, उत्पाद्यस्य कस्यचिदभावेन हेत्वादीनामयुक्तत्वात् /
SK
[५९] सूत्रेषु सर्वे धर्माः स्कन्धधात्वायतनेषु सङ्गृहीताः समुपदिष्टाः / स्कन्धादीनां भगवता कार्यकारणस्वभावत्वसम्प्रकाशनात् कथं ते सर्वेधर्मानुत्पादतायां सङ्गृहीताः स्युः /
SK
[६०] यदि स्कन्धदिव्यतिरिक्तस्य कस्यचिद् धर्मस्य अनुत्पादः साध्यते तदा नास्ति [कश्चित्] विवादः, वयमपि तद्व्यतिरिक्तं धर्मं नाङ्गीकुर्महे /
SK
[६१] यद्येवं मन्यते यत्संवृतौ प्रमाणादीनामभ्युपगमान्नैव एषां सर्वेषां दूषणानामवकाशो युज्यत इति चेत्? तदा [संवृतौ] भावाभ्युगम एवाङ्गीकृतः स्यात्, यतो हि यानि प्रमाणादीनि संवृतावभ्युपेतानि तानि निश्चयेन सर्वाभिलापविधुरलक्षणशशशृङ्गादिभ्यो व्यावृत्तस्वभावान्येव व्याहतानि स्युः / यद्येवं न स्यात्ततदा लोकविरोध आगमविरोधश्च कथं परिहतः स्यात् / वयं तु यत् सर्वसामर्थ्यविरहलक्षणशशशृङ्गादिविपरीतं तदेव ऽवस्तुऽ इत्यभिदध्महे / यदि भवन्तस्तानपि संवृतिसदिति नाममात्रमुपचारमात्रं व्यवहारमात्रमिति प्रव्याहरन्ति, तदा कामं तथाभिलपन्त्विति / न हि नाममात्रेण भावस्तथाविधं स्वभावमनुसरतीत्यतिप्रसङ्गात् /
SK
[६२] अपि च, का नाम संवृतिरित्यपि वक्तव्यम् / यदि सर्वमसदिति कथ्यते, तदपि न युक्तम्, परस्परविरोधात् / तथाविधा संवृतिस्तावदसमर्थैवोच्येत / यदि उत्पादयतीति तदा सामर्थ्यमेवैतत् / तदा कथमेकस्मिन् परस्परविरुद्धयोः सामर्थ्यासामथ्ययोर्योग इति / कथमसता सन्निष्पादयितुं शक्यते /
SK
[६३] न हि सर्वमसदिति / तत्कथमिति चेत्? भावस्वभावैव संवृतिरिति / तदा नास्ति विवादः, भवतः प्रतिज्ञाया एव हानिः भवो ऽप्युत्पद्यत एव, अतः संवृत्या तदुत्पद्यत इति कथमेवमुच्येत? तदा त्वनुत्पन्न उत्पद्यत इत्युक्तं स्यात् / संवृतिविपरीतस्यानुत्पादस्य परमार्थत्वात् तदा परमार्थतो ऽनुत्पाद एव स्यादित्यसम्बद्धभिधानं स्यात् / उपयतो ऽनुभयत इत्येषापि कल्पना नैव सम्भवति, परस्परविरुद्धत्वात् /
SK
[६४] यद्यनित्यार्थः संवृत्यर्थ इत्येवं चेत्? तदा किं तावदनित्यम्? यदि नित्याभावमात्रम्? तदा कथं तल्लोके प्रतीतं स्यात् / यदि नित्यदितरं किमप्यनित्यमिति निगद्येत? तदा नित्यस्य विकल्पात्मकत्वात्तत् [इतरं] तावत् सामर्थ्यान्निर्विकल्पं ज्ञानमित्यतस्यदवस्थायां ऽसंवृतिसत्ऽ - इति कथनं तु निर्विकल्पकज्ञानेन तत्प्रतीयत इत्यभिहितं स्यात् /
SK
यद्येवं स्यात्तदा किमिव भावस्वभावो नाभ्युपेयते / [तथात्वे च] अनुमानकल्पनाया अपि तावत् परिहारः स्यात् सविकल्पकत्वात्तस्याः /
SK
[६५] अथ लोकप्रतीत्यर्थः संवृत्यर्थ इत्येवं चेत्? कस्तावल्लोक इति? शास्त्रकारा वा प्राकृता वा जनाः प्रथमे विकल्पे भावो ह्यनेकपरस्परविरुद्धस्वभावः स्यात्, शास्त्रकारैकस्यापि भावस्य नानाकारेणाध्यारोपणात् / द्वितीये विकल्पे नैरात्म्यकर्मफलादीनि नाभ्युपेतानि स्युः, प्राकृतकैरप्रतीतत्वात् /
SK
[६६] अथ मायार्थः संवृत्यर्थ इति चेत् तदा को हि नाम मायार्थ इति वक्तव्यम् / यदि सर्वमसदिति, तदा पूर्वदोष एव समापद्येत, संक्लेशव्यवदानानि च कथं स्युरिति च / अथ भ्रान्तिज्ञानेन मायेति चेत् तदा आभ्यन्तरिकज्ञेयनयेन को हि विशेषः स्यात् /
SK
[६७] अथ संवृतिर्नाममात्रमिति तदा सुभाषितदुर्भाषितयोर्भेदो ऽशक्यः स्यात्, असत्यभिधेये शब्दमात्रे भेदाभावात् /
SK
[६८] अथ शब्दार्थ इति चेत्तदा कथभेदः स्यात्, प्रत्यात्माधिगम्या ये सुखादयस्ते कुत्र संगृहीताः स्युः? न हि तावत् संवृतौ, तेषामनिर्वचनीयत्वात्, संवृतिसतां व्यवहारप्रज्ञप्यमानत्वाच्च / सूत्रे ऽप्येवमुक्तम्ः ᳚किं नाम संवृतिसत्यम्? यावन्तो लोकव्यवहाराः ये ऽक्षरपदनिरुक्तिभिर्निदिश्यन्त इति᳚ / अनेन हि संक्षेपतः संवृतिशब्दार्थो ऽभिहितः /
SK
अथैवं मन्यते यदाभासपरिकल्प्यौ व्यामिश्र्य सामान्याकारेन गृह्यन्त इति? तदा परमार्थे ऽप्येष प्रसङ्गः स्यात्, तस्यापि वचनीयस्वाभाव्ये व्यवस्थितत्वेन अभिधेयत्वात् / न च परमार्थसत्ये ऽपि सङ्गृह्यन्ते, तद्वस्तुसत्तयाः सत्त्वात् / सत्यान्तरविशेषपूरकाकारा अपि ते न भवन्ति / यदि प्रतीत्योत्पन्ना रुपादयः, प्रत्यामाधिगम्याः सुखादयश्चापि ऽसंवृतिसत्यम्ऽ इत् नाम्रा प्रज्ञप्यन्ते, तदा मुदा तथा कुर्युरिति, कुल्माषमपि दातव्यमिति, कतिपयेनाविर्पययेणाविवादश्चेति /
SK
[६९] अथ क्षणमात्रानन्तरानवस्थानेन अस्थिरार्थः संवृत्यर्थस्तद्विपरीतश्च नित्यार्थः परमार्थ इति सिद्धसाधनमेवैतत्, भवद्भिरेवं वस्तुनः क्षणिकत्वस्वीकरात्, वयमप्येवमभ्युपगच्छमः / अतो नास्ति विवादः तथा सांवृतिकानां वस्तुसामान्यलक्षणामां या नैरात्म्यरुपा धर्मता सास्ति परमार्थतः / सापि उत्पादाद् वा तथागनामनुत्पदाद् वा सर्वकालमविकारतया नित्याभ्युपेयते /
SK
[७०] अथ असत्यार्थः संवृत्यर्थ इति तदा कथं सा सत्यमिति परस्परविरुद्धयोः सत्यासत्ययोरैकात्म्यानुपपत्तेः भावस्वभावैव काचन संवृतिरभ्युपगन्तव्या, अन्यथा कथं जगत् तथा सत्यं सिध्येत्, यदि तदभ्युपगम्यते, तदा [भवतः] प्रतिज्ञातार्थहानिः स्यात् /
SK
[७१] अन्यच्च संवृतिः प्रमाणमप्रमाणं वा? यदि प्रमाणं कथं सा संवृतिः? अथाप्रमाणं तदा कथं नैरात्म्यं साधयितुं शक्येत?
SK
[७२] अवश्यमतः संवृतिबीजानि विज्ञानादीनि परमार्थतः सन्तीत्यङ्गीकर्तव्यानि, ऋते बीजं संवृत्यनुत्पत्तेः, यद् बिजं तदेव वस्तुतः सदिति /
SK
[७३] अपि च, यदि भावस्वभावा अब्भ्युपगम्यन्ते तदा तेष्वारोपितो मिथ्यास्वभावः संवृतिसत्यम्, अनारोपितस्तु भावस्वभावः परमार्थसत्यम् / परमार्थसत्यम् / ततश्च सत्यद्वयविभाजनं तावद् युज्यते / यदि नाभ्युपगम्यन्ते, तदा संवृतिरपि वितथा स्यात् परमार्थो ऽप्यशक्यव्यवस्थानः स्यात्, व्यवस्थाकाराणानामसत्त्वात् /
SK
[७४] यदि यथाकथञ्चन कञ्चिदेकः परमार्थः स्यात्तदा किमर्थं स साधयते? स नैव परमार्थः कथं स ज्ञानेनावधारयितुं शक्यते, न च परमार्थशब्देनाप्यभिधातुमर्हः एवं तावन्नायं परमार्थः, न चार्थो ऽपि परमः, नापि परमस्य ज्ञानस्यायमर्थः, साधारणत्वात् / यदि यथाकथञ्चन किश्चिदेकः परमार्थः स्यात् तदा परमार्थतो ऽसद्भावस्यैकस्य यथाकथञ्चन निराकरणाद् भावसत्ताया एवाभ्युपगमः स्यात् /
SK
[७५] अपि च, यदि संवृतिपरमार्थावभिन्नाविति मन्यते, तदा सत्यद्वयव्यवस्थानां कथं स्यात्, द्वयोरेकतरस्य परित्यागात् / अथ भिन्नौ तदोभयोः पृथक्सिद्धत्वाद् भावप्रसङ्गः / अथ भिन्नभिन्नौ, तदा कथमेकस्मिन् परस्परविरुद्धत्वम् / अतः पक्षो ऽयम् ऽन भिन्नो नाप्यभिन्नःऽ इति न युज्यते, विरुद्धत्वात् / एवं भिन्नाभिन्नत्वस्य अन्यो ऽन्यपरिहारस्थितलक्षणत्वेन एकस्य प्रतिषेधे ऽपरस्य विधानं न भवेत्तदा असत्त्वमेव / स तदा प्रतिषेद्धुमपि कथं शक्तः एकस्मिन् युगपत्पर्युदासप्रसज्ययोर्विरोधात् /
SK
[७६] अन्यच्च, भवतामनुसारेण तु पुण्यज्ञानसम्भारौ दुष्परिपूरणौ स्याताम्, तदभावे च बुद्धत्वमपि दुष्प्रापं स्यात् / पूजानुग्रहकाम्यया यद् दीयते तद् दानं त्वत्यन्तं प्रसादमभिनिर्वर्तयति, तच्च नास्ति देयदायकप्रतिग्राहकानुपलम्भाश्रितत्वात् / स चानुपलम्भः किं देयाभावाद् वा विषयाभावाद् वा भवति? प्रथमे तावत् पक्षे न को ऽपि किमपि ददातीति पुण्यस्यैवाभावः प्रसज्यते, सत्त्वाभावाच्च यो हि बोधिसत्त्वानां सत्त्वार्थपरिश्रमः स निरर्थक एव स्यात्, अतो ऽसत्त्वं तु नास्त्येव / विषयाभवो ऽपि तावन्नास्ति, भगवता देयादिवस्तूनां परिदृटत्वात् / यद्येवं न स्याउत्तदा भगवता बोधिसत्त्वावस्थायां कथमर्थिभ्यः पुत्रादिदानं कृतम्? भवन्तस्त्वालम्बनाश्रितं दानादिकं ऽविशुद्धम्ऽ इति नाभ्युपगच्छन्ति, अतः सम्भारपारिपूरिस्तावदसम्भवैव / तदभावे हेत्वभावाद् बुद्धात्वमपि दूरे ऽपास्तं स्यात् /
SK
[७७] अपि च, ऽसर्वे धर्मा निःस्वभावाःऽ इत्येत्तस्य तावत् को ह्यर्थः? यदि स्वयम्भावस्य अभावान्निःस्वभावा इत्यभिधीयन्ते तदा सिद्धसाधनमेव, हेतुप्रत्ययाधीनवृत्तित्वात् सर्ववस्तूनाम्, न तान्यहेतुकानीति वयमप्यभ्युपगच्छामः / यद्येवं न स्यात्तदा निरपेक्षत्वान्नित्यं सत्त्वमसत्त्वं वा स्यात् / यद्युच्येत - विनष्टा भावाः स्वस्वभावेनानुत्पन्नत्वात् स्वस्वभावेन न सन्तीति निःस्वभावाः? इत्येतदपि सिद्धसाधनमेव, अस्माकमपि विनष्टोत्पत्तेरनभ्युपेतत्वात् / यदि चाभिधीयेत - तत्स्वभावेनैव सर्वकालानवस्थानान्निःस्वभावा मन्यन्ते, तदपि सिद्धसाधनमेव, यस्मादुत्पत्तिसमनन्तरविनाशसद्भावात् क्षणिका एव / क्षणिकस्य खलु वस्तुनो द्वितीये क्षणे ऽवस्थानं नाभ्युपेयते /
SK
यद्युच्येत यथा बालपृथग्जनैः परिकल्पितस्य ग्राह्यग्राहकभावस्य परमार्थेन स्वभवतो ऽसत्त्वाद् ससत्त्वं तथा निःस्वभावत्वमिति तदपि सिद्धसाधनम्, अस्माभिरपि परिकल्पितात्मनो निःस्वभावत्वस्याभ्युपगमात् / यद्येवं न स्यात्तदा सर्वे ऽपि तत्त्वदर्शिनः स्युः /
SK
परमार्थतः सर्वे भावा बालपृथग्जनैः परिकल्पितेन ग्राह्यग्रहकारेण विराहिता अपि आर्यज्ञानस्य अद्वैतात्मना गोचरत्वेन स्थिता एव / यद्येवं न स्थिताः, तथाप्यसत्त्वेन निःस्वभावास्तदा सङ्क्लेशव्यवदानौ न स्याताम् /
SK
[७८] तथैव सर्वधर्मानुत्पादो ऽप्यभिहितः / किं तदनुत्पदतायास्तावदर्थं मन्यसे? यद्युच्येत आदितो ऽनुत्पन्नत्वात् सर्वे भावा अनुत्पन्ना इति तदपि सिद्धसाधनमेव, वयमपि संसारमनादिं मन्यामहे / अथ पूर्वमुत्पन्नस्य वस्तुनः पुनरनुपत्त्या सर्वे धर्मा अनुत्पन्ना इति तदपि सिद्धसाधनमेव, वयमपि पूर्वमत्पन्नस्य पुनरुत्पत्तिं नाभ्युपगच्छामः, तस्य विनष्टत्वात् / अथ अपूर्वोत्पादाभावादनुत्पादो ऽभिधीयते, तस्य विनष्टत्वात् / अथ अपूर्वोत्पादाभावादनुत्पादो ऽभिधीयते, तदपि नानिष्टसाधकम्, संसारे ऽपूर्वसत्त्वानभ्युपगमात्, सर्वदा च पूर्वविनष्टानां सजातीयोत्पत्तेः अथ बालपृथग्जनपरिकल्पितस्य स्वलक्षणतो ऽनुत्पादादनुत्पाद उच्यते, तदापि नास्ति विरोधः, कल्पितस्य स्वभावत उत्पेत्तरनभ्युपगमात् /
SK
अथ स्वतो ऽनुत्पादाद् अनुत्पाद इत्युच्येत तदापि नास्ति विरोधः, हेतुप्रत्ययाधीनत्वात् सर्ववस्तूनाम्, यथा पूर्वमुक्तम् / यदि सर्वशः सर्वानुत्पादाद् अनुत्पाद उच्यते तदा दर्शनादिविरोधो दुर्निवारः स्यात् / यदि परस्परविशेषानुत्पादाद् अनुत्पादो ऽभिधीयते तदा [यदि] तथतास्वभवतामुपादायोच्यते तदा नास्ति दोषः,[किन्तु] यदि लोकप्रसिद्धस्वभावतामुपादायोच्यते तदा केन दर्शनादिविरोधो निवारयितुं शक्यते / यदि स्वभावेतरक्रियालक्षणवियोगाद् अनुपाद इति? तदापि नास्ति दोषः, सर्वभावेषु क्रियाया अभावात् / अथेश्चरादिभिरितरैरनुत्पादाद् [अनुत्पाद] उच्यते, तदापि नानिष्टम्, [अस्माभिरपि] ईश्वरादेरनभ्युपगमात् / एवमादिभिराकारैः ऽआदिशान्ताः, प्रकृतिपरिनिर्वृत्ताःऽ इत्यादिशब्दानामप्यर्था विचारणीयाः / अपि च, अन्यैरनेकसूत्रैश्चापि विरोधः संल्लक्ष्यते, तथा हि आर्यसन्धिनिर्मोचनसूत्रे ह्युक्तं
SK
᳚अतो लक्षणनिःस्वभावतामभिसन्धाय मया सर्वधर्मणामनुत्पाद्ःपरिकीर्तितः /᳚
SK
परिकल्पितस्वभावे हि लक्षणनिःस्वभावता व्यवस्थाप्यते /
SK
महायानप्रसादप्रभावने [नाम महायानसूत्रे] चोक्तम्ः
SK
᳚कुलपुत्र, बोधिसत्त्वः धर्ममयोनिशः शब्दशः प्रविचय्य महायानप्रसदायतनो न भवति / शब्दशो ऽनभिप्रेत्य योनिशो मनसि कृत्वा महायानप्रसादायतनो भवति / एवं कुलपुत्र, बोधिसत्त्वो ऽयोनिशः शब्दशो धर्मान् प्रविचय्य अष्टाविंशतिमसद्दृष्टीरुत्पादयति, तदयथा - निमित्तदृष्टिः, अदृष्टिदर्शनदृष्टिः, व्यवहारापवाददृटिः, संक्लेशापवाददृष्टिः, तत्त्वापवाददृष्टिश्चेति᳚ इत्येवमादिकं विस्तरेणाभिधाय ः
SK
᳚कुलपुत्रं, का हि तावन्निमित्तदृटिः? सांयोगिकस्य स्वभावमभिसन्धाय मया सर्वधर्माणां यदसत्त्वं सम्प्रकाशितं तच्छब्दशो ऽभिनिविश्य [ये] सांक्लेशिकधर्माणां वैयवदानीकधर्माणां चाप्यसत्त्वे ऽभिनिविशन्ते, असन्निमित्तोपादानेन [तेषु] असद्दृष्टिरुपजायते, अतः [सैव] निमित्तदृष्टिरुक्ता / [अतः] बोधिसत्त्वस्य शब्दशो ऽभिनिविष्टायामसद्दृष्टि सैव तस्य महती दृष्टिरिति, अत एव सा अदृष्टिदर्शनदृष्टिरित्युच्यते / ततो व्यवहारापवाददृष्टिसंक्लेशापवाददृटितत्त्वापवाददृष्ट यस्तावज्जायन्ते / ततो व्यवहारापवाददृष्टिसंक्लेशापवाददृष्टितत्त्वापवाददृष्तयस्तावज्जायन्ते यदा निमित्तदृष्ट्या सर्वापवादः [यदा] क्रियते तदा व्यवहारापवाददृष्टेरप्यभिनिवेशो जायते, संक्लेशापवाददृष्टेरप्यभिनिवेशो जायते तत्त्वापवाददृष्टेरप्यभिनिवेशो जायते᳚ इत्येवमुक्तम् /
SK
लङ्कावतारसूत्रे ऽउपुक्तम्ः
SK
नास्ति वैकल्पितो भावः परतन्त्रश्च विद्यते / समारोपापवादं हि विकल्पन्तो विनश्यति //
SK
परिकल्पितं स्वभावेन सर्वधर्मा अजानकाः / परतन्त्रं समाश्रित्य विकल्पो भ्रमते नृणाम् //
SK
अतः प्रतीत्यसमुत्पन्नः परतन्त्रस्वभावः परमार्थतः सन्, तत्र परिकल्पितस्वभावो ऽनुत्पादिनाभिहितं इत्येव तावन्निर्देक्ष्यते / पुनस्तत्रोक्तम्ः
SK
न ह्यात्मा विद्यते स्कन्धे स्कन्धाश्चैव हि नात्मनि / न ते यथा विकल्प्यन्ते न च वै न सन्ति च //
SK
आभ्यां द्वाभ्यां प्रतिषेधाभ्यां स्कन्धानां सत्तैव तावन्निर्दिष्टा / महाशून्यतासूत्रे ऽपि यदुक्तम्ः
SK
᳚अस्ति कर्म अस्ति विपाकः कारकस्तु नोपलभ्यते᳚ अनेन तावद् वचनेन विरोधो ऽपि समुपजायते / एवं यदि परमार्थतः कर्माप्यस्ति विपाको ऽप्यस्ति तदा सर्वे धर्मा निःस्वभावा भवितुं नार्हन्ति / यदि संवृतौ सन्तीति चेत् तदा कर्तुरपि संवृतौ सद्भावात् ᳚कारकस्तु नोपलभ्यते᳚ इत्येवं न वक्तव्यम् / आर्यलङ्कावतारसूत्रे चोक्तम्ः
SK
अस्तित्वं सर्वभावानां यथा बालैविर्कल्प्यते / यदि ते भवेद् यथा दृष्टाः सर्वे स्युस्तत्त्वदर्शिनः //
SK
अभावात्सर्वधर्माणां संश्लेषो नास्ति बुद्धितः / न ते तथा यथा दृष्टा न च ते वै न सन्ति च //
SK
अनेन यदि सर्वधर्माणामसत्त्वं तदा संक्लेशव्यदानयोरपवाददोषः प्रसज्यत इति निर्दिष्टम् / पुनस्तत्रैवोक्तम्ः
SK
बाह्यर्थदर्शनं मिथ्या नास्त्यर्थं चित्तमेव तु / युक्ता विपश्यमानानां ग्राहग्राह्यं निरुध्यते //
SK
बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते / वासनैर्लुलितं चित्तमर्थाभासं प्रववर्ते //
SK
आर्यदशभूमकसूत्रे ऽप्युक्तम् ᳚चित्तमात्रं यदुत त्रैधातुकम्᳚ इति / तथैव आर्यसन्धिनिर्मोचनलङ्कावतारघनव्यूहादिष्वपि सर्वधर्माणां चित्तमात्रशरीरत्वं निर्देष्टुं ऽचित्तमात्रमेव परमार्थसत्, नेतरथाऽ इति सम्प्रदर्शितम् / अतः सर्वे धर्मा निःस्वभावत्वेन न सिध्यन्ति / आर्यातकूटे ऽप्युल्लिखितम्ः
SK
᳚अस्तीति काश्यप, अयमेको ऽन्त, नास्तीति काश्यप, अयमेको ऽन्तः, यदेनयोरन्तयोर्मध्यम्, तदरुप्यनिदर्शनमप्रष्ठिमनाभासमनिकेतमविज्ञप्तिकम्, इयमुच्यते काश्यप, मध्यता प्रतिपद् भूतप्रत्यवेक्षा᳚ इति /
SK
अनेन तावद् विज्ञानमेव परमार्थसत्त्वानिदर्शनत्वादिगुणोपेतं शाश्चतोच्छेदान्तद्वयविनिर्मुक्तमिति निर्दिष्टम् / एतदधिकृत्यैवार्यरत्नमेधे ऽप्युक्तम्ः
SK
᳚कुलपुत्र, यदि [विज्ञानं] परमार्थतो नास्ति, तदा ब्रह्मचर्यादीनि निरर्थकानि स्युः᳚ इति / आर्यरत्नकूटे ह्युक्तम्ः
SK
᳚ये परमार्थसतो ऽपि विज्ञानस्यापवादं कृत्वा सर्वधर्मशून्यतायामभिनिविश्य शून्यतादृष्टिकास्ते ऽचिकित्स्याः᳚ इति /
SK
तथा चोक्तम्ः
SK
᳚वरं खलु काश्यप, सुमेरुमात्रा पुद्गलदृष्टिर्न त्वेवाभिमानिकस्य शून्यतादृष्टिरिति᳚ /
SK
आर्यसन्धिनिर्मोचने चापि शून्यतालक्षणमुद्भावितम्ः
SK
᳚परतन्त्रलक्षणं मैत्रेय, परिनिष्पन्नलक्षणं च संक्लेशो व्यवदानं च / सर्वथात्यन्तवियुक्तं परिकल्पितलक्षणं यत्तन्न तेनोपलभ्यत इदं शून्यतालक्षनमुक्तं भवति᳚ /
SK
आर्याणां प्रत्यात्मवेद्यमवश्यमेव परमार्थतो वस्तुसत्, अन्यथा आर्यसन्धिनिर्मोचनोक्तानि वचनानि तावादसदर्थकानीती नैव / यद्युच्येत किं खलु वस्तु? यदार्यज्ञानेन आर्यदर्शनेन वानिर्वचनीयत्वेन परिज्ञातम् / अनिर्वचनीयधर्मतावबोधेन संस्कारासंस्काराभ्यां प्रज्ञप्तमिति यदुक्तं तेन विरोधः स्यादिति /
SK
एकमेव यानं परमार्थतो महायानलक्षणं, नावशिष्टमिति यद् भवताभिहितं तदपि युक्त्यागमाभ्यां विरुद्धम्, विप्रतिपत्तिनां सन्दर्शनात् / सत्त्वेषु तावद् विविधाधिमुक्तिका उपलभ्यन्ते / तथा हि केचन परहिताशया एव प्रवर्तन्ते / अथापरे निष्कारणं परदुःखेषु स्पृहन्ते / केचित्त्वल्पमात्र एवात्मनो हितसुखे आसज्यायेषु द्रह्यन्ति / तथैवान्ये स्वसुखसम्पत्तिसाधनतत्परा अन्यव्याघातं कृत्वा तद्दुःखविनिवृत्तितो विरज्यते / केचन संसारसुखमात्रस्यैवाभिलाषेण पुण्यादीनि सम्पादयन्ति / तथैवेतरे तावद् भवान्तरखेच्छतो विरम्य स्वमुक्त्यर्थं प्रयतन्ते / अये तु केवलं परविमुक्तिमेवानुचिन्तयन्ति संबोधिनिदानां च दानादिपारमिताप्रवृत्तिमालम्बन्ते / इत्येवमप्रमेयप्रतिपत्त्यालम्बनात् सत्त्वानां छन्दलक्षणो हेतुविशेषो ऽनुमीयते, फलविशेषो ऽपिहेतुविशेषाक्षिप्तवात्तस्य / स्वाभिलाषद्वारेणैव प्रवृत्तिदर्शनाद् श्रद्धैव हि प्रवृत्तिहेतुरिति निश्चितम् / सत्त्वानामयं श्रद्धाविशेषो ऽपि गोत्रविशेषेणाविनाभूतः, अतो नानागोत्रत्वात् सत्त्वानां तुल्यजातीयगोत्रकैर्विधीयमानप्रतिपत्तिविशेषानुरूपं फललक्षणयानमपि नाना भवतीति युक्तिभिर्नानायानतैव निश्चीयते /
SK
बहुधातुकसूत्रे ऽपि बहुधातुकाः सत्त्वा विनिर्दिष्टाः / भगवाता यत्खलु धातुज्ञानबलानां नानात्वमभिहितम्, तदपि नानाधातुत्वं किमिव असत् स्यात् / आर्यकङ्कवतारसूत्रे ऽपि पञ्च अभिसमयोत्राण्यभिहितानि / आर्याक्षयमतिनिर्देशसूत्रे ऽप्युक्तम् - त्रीणि तावत्रैर्याणिकयानानि, यदुत - श्रावकयानं प्रत्येकबुद्धयानं महायानं चेति / एवमेवानेकेषु सूत्रेष्वपि श्रावकादियानत्रयनिर्देशाद् आगमतो ऽपि तावन्नाना यानानि सिध्यन्तीति /
SK
आर्यसद्धर्मपुण्डरीकादिषु यद्धि एकं हि यानमिति व्यपदिष्टम्, तदाभिप्रायिकमिति द्रष्टव्यम् समताभिप्रायादिप्रदर्शनात् / धर्मधातुलक्षणतया यानानां भेदाभावाद् एकमेव यानमिति तदभिप्रायः / अथवा यानीकृतं यानमिति यानिकुर्वतां श्रावकादिपुद्गलानां नैरात्म्ये ऽतुल्यत्वाभावाद् एकमेव यानम् / अथवा ये विमुक्तास्तेषामभिन्नत्वाद् एकमेव यानम् / अथवा अनियतगोत्रकाणां श्रावकाणां महायानेनैव निर्याणाद् एकमेव यानं देशितम् / अथवा सर्वसत्त्वेष्वात्माध्याशयेन महाकरणामया भगवन्तः, पूर्वं समुदानीतबोधिसम्भाराः श्रावकगोत्रीयाश्चापि बुद्धत्वप्राप्त्यध्याशयाः, अतो ऽभिन्नाध्याशयाद् एकमेव यानम् / अथवा भगवता स्वयमनेकधा श्रावकयानादिभिर्निर्याणद्वारैः परिनिर्वाणसन्दर्शनाद् एकमेव यानम् / अथवा नास्ति महायानाद् विशिष्टतरं यानान्तरमिति तदधिकाराद् एकमेव यानमिति, तदेवंविधाभिप्रायेण एकमेव यानमिति देशितम् / अथवा अनियतानां श्रावकगोत्रीयाणामाकर्षणार्थं बोधिसत्त्वगोत्रीयाणां च
SK
सन्धारणार्थमित्यभिप्रायो भगवतैव आर्यदशधर्मकसन्धिनिर्मोचनलङ्कावतारादिषु सूत्रेषु स्पष्टीकृतः /
SK
अन्यच्च, नैकभवपरम्परायां सम्भारान् परिपूर्य बोधिसत्त्वा बुद्धत्वपदमधिगमिष्यन्ति / श्रावका अशेषभवसंयोजनं प्रजहन्तीति तेषां नैकजन्मसाध्यं बुद्धात्वधिगन्तुं को ऽपि भवप्रतीसन्धिर्नैव सम्भवति, तथा हि - मूलं भवस्यानुशयाः यदुक्तं सो ऽप्यात्मग्रहप्रभव एवेति नियतम् अभीष्टं च / आर्यैरात्मदृष्टिविपरीतया नैरात्म्यमार्गभावनया सर्वानुशयाः समूलमुच्छिनाः, तत्समुच्छेदेन तेषां जन्मनो ऽप्याधाररस्याभावात् तद् [जन्म] अपि समुच्छिद्यते / फलतः कुतस्तेषामनेकभवपरम्परासाध्यो बुद्धात्वलाभो भविष्यतीति / आर्यासद्धर्मपुण्डरीके भगवता यच्छ्रावकेभ्यो बुद्धात्वाधिगतेर्व्याकरणं कृतं तत्तु निर्मितश्रावकाणां निर्माणस्य, यैर्बोधौ परिणामना कृता, तेषां वाभिप्रायेण कृतमिति द्रष्टव्यम् / इदं तावद् भगवता आर्यलङ्कवतारसूत्रादिषु निर्दिष्टमेव / आर्यसमाधिराजसूत्रे यत्तावदुक्तम्ः
SK
अत्र नास्ति को ऽपि सत्त्वो ऽभव्यः /
SK
सम्पूर्णो ऽयं सत्त्वलोको बुद्धो भविष्यति //
SK
तदप्युच्यमानमुपगतानभिप्रेत्याभिहितमिति ज्ञातव्यम् / कतिपयेषु [सूत्रेषु] - ᳚तथागतगर्भाः सर्वे सत्त्वाः᳚ इति यदुक्तं तदपि तथतालक्षणायास्तथताया अभिप्रायेण व्यपदिष्टम् / अतः परमार्थतस्त्रीण्येव यानानि, सर्वे धर्माश्च सस्वभावा इत्यभिधीयते / इत्ययं पूर्वपक्षः /
SK
[१] ततश्चायं प्रत्यवस्थीयते / तत्र तावद् ऽनागमतः सर्वे धर्मा निःस्वभावत्वेन साधयितुं शक्याः, केनापि तथाभ्युपगमाभावाद्ऽ इत्याद्युक्तं तन्निरुच्यते / किं केनाप्यनभ्युपेतत्वादागम एकान्तेनानुपादेय एव भवत्युत उतदेयो ऽपीति? प्रथमस्तावत् पक्षो न युक्तः / तथा सति न को ऽपि कमप्यागममाश्रयिष्यति, केनचिदपि तदनभ्तुपेतत्वात् / तत्र कश्चिद् अभिमानितया वा, अनर्थितया वा, पापमित्रसंसर्गेण वा, विमूढचित्ततया वा, सुकल्यामित्रानुपलम्भेन वा, परप्रत्यनेयतया वा, श्रद्धेन्द्रियादिवैकल्येन वा? तद्विदां सुधियां विरहेण भगवत आदिमध्यपर्यवसानकल्याणं प्रवचनरत्नमनाश्रिता अपि किं तावदधिगतस्वपरहितसम्पादनोनोपायं तर्कनिपुणं विद्वांसमपि नाश्रयिष्यन्ते?
SK
अथवा, अज्ञा वणिजो यथा विमुग्धतयानर्घं रत्नमपि परित्यजन्ति तथा सुविज्ञास्तर्कनिपुणा अपि वणिजस्तन्न परिगृह्णन्तीति न / तापाच्चेदाच्च निकषात् सुवर्णमिव प्रत्यक्षानुमानपूर्वपराविरुद्धागमैरविरुद्धात्वात् परेषाञ्चागमानां तद्विपरीतत्वाद् आभ्युदयिकनैःश्रेयसिकनैःश्रेयसिकफलमाप्तुकामा अशेषसम्पदमधिगन्तुकामा विपश्चितस्तं [विपरीतागमं] परित्यज्य यदेकान्तकुशलं तत्प्रवचनरत्नमेवाश्रयन्तीति यः पक्षः, स चेत् सम्यगिति तदा भवन्तो ऽपि यदि भगवत्प्रवचनं सुपरीक्ष्यैवाभ्युपयन्तीत्यतो भगवता प्रज्ञापारामितादिषु यो हि मध्यमो मार्गः सुस्पष्टमादिष्टस्तं किन्नाश्रयिष्यन्तीति?
SK
यदि स्वयं तमाश्रयितुं न शक्तास्तथाप्यार्यनागात्जुनपादैर्यो ह्यनेकयुक्तिप्रदीपप्रकारैः सुस्पष्टं निर्दिष्टस्तद्बलेनापि किमिव नाभ्युपगच्छन्ति? यतो हि स आचार्यस्तावद् भगद्वचननिर्दिष्टत्वेन प्रथमां भूमिमासादितत्वेन चार्यलङ्कावतारादौ व्याकृतः / तस्यापि यदि निर्देशो विपर्यस्तः स्यात्तदा नैव तावद् भगवता तथा व्याकृतः स्यात् / अतो यदयाचार्यवचानं त्यज्यते भगवद्वचनमपि नूनं परित्यक्तं भवेत् / फलत आर्यनागार्जुनपादप्रतिपदीतं मार्गं परित्यज्य अनार्यपुद्गलप्रदर्शितपथाश्रयणं तावान्नैव युज्यते /
SK
न वयं शब्दानां भाविकः कश्चन सम्बन्ध इति मन्यामहे / अतस्तन्निषेधतो न [ते] अनभ्युपगता भविष्यन्तीति / ते तावत् [शब्दाः] सङ्केताभिज्ञानेन व्यवहारे वक्तुरिच्छां द्योतयन्ते अर्थावस्थादिभिरभ्रान्तपुरुषैरभिहिताः शब्दाः विवक्षितार्थासम्बद्धा इति न सर्वथा निश्चेतुं शक्यते, अन्यथा सर्वव्यवहारोच्छेद एव स्यादिति /
SK
क्षीणरागद्वेषमोहानां शब्दा अविपरीतार्था इति प्रतिपादनेन सर्वेषां शब्दा विपरीतार्था एवति न, स्वसन्ततौ विनियतत्वात्तेषाम् / अतस्त्रिरुपपलिङ्गानि परिक्षणपरिशुद्धानि आदिमध्यान्तकल्याणनियतानि तावद् वचनानि अविसंवादकत्वाद् विद्वद्भिः समाश्रयणीयान्येव /
SK
[२] न वयं तथागतवचनप्रतिहतेभ्यस्तीर्थिकेभ्यस्तात्सिद्धये भगवद्वचनप्रामाण्यं प्रतिपादयामास्तथापि यदा आगमार्थं विनिन्तयामस्तदा व्याकरणप्रमाणत्वेन सम्प्रदर्शयामः / तत्प्रतिपादकं भगवद्वचनं नास्तीत्येतदपि कथनं नोचितम् / भगवताप्येवमेव नीतार्थसूत्रसमाश्रयणमेवाभिहितम्, न नेयार्थसूत्रसमाश्रयणमिति /
SK
यद्युच्येत को ऽयं परमार्थो नामेति चेत्? प्रमाणोपपत्रः परमार्थाधिकृतश्चेति / अथवा यदर्थो नान्यत्र नेतुं शक्यत इति / सर्वधर्मानुत्पादास्तावत् प्रमाणोपन्नार्थः,अतो युक्त्यन्वितत्वात् स परमार्थ इत्युच्यते / आर्यधर्मसंगीतावुक्तम् - अनुत्पादः सत्यम्, उत्पादादयो ऽन्ये धर्मा असत्याः, मृषा मोषधर्मकत्वात् / आर्यसत्यद्वयनिर्देशे ऽप्युक्तम् ᳚देवपुत्र, अर्थो हि परमार्थतो ऽनुत्पादः, अयं तावत् सर्वसंक्लेशव्यवदानधर्मेषु व्यवस्थाप्यते, न कतिपयेषु᳚ अवमेव पुनस्तत्रैवोक्तम् - ᳚तद्यथापि नाम देवपुत्र, यच्च मृद्भाजनस्याभ्यन्तरमाकाशम्, यच्च रत्नभाजनस्याकाशम् आकाशधातुरेव एषः / तत्र परमार्थनो न किञ्चिन्नानाकरणम् / एवमेव देवपुत्र, यः संक्लेशः, स परमार्थतो ऽत्यन्तानुत्पादता / यदपि व्यवदानं तदपि परमार्थतो ऽत्यन्तानुत्पादता / संसारो ऽपि परमार्थ ऽत्यन्तानुत्पादता / यावन्निर्वाणमपि परमार्थतो ऽत्यन्तानुत्पादता / नात्र किञ्चित् परमार्थतो नानाकरणम् / तत् कस्माद्धेतोः? परमार्थतो ऽत्यन्तानुत्पादत्वात् सर्वधर्माणामिति᳚ / एवमयमनुत्पादो ऽपि परमार्थानुकुलत्वात् परमार्थ उच्यते, न वस्तुतः, सर्वप्रपञ्चितीतत्वाद्धि वस्तुतः परमार्थस्य / अतो यानि च यावन्ति च परमार्थमधिकृत्य अनुत्पादीनि लक्षणानि निर्दिष्टानि तानि सर्वाणि नीतार्थत्वेन ग्रहीतव्यानि, अतो विपरीतानि नेयार्थानिति / आर्याक्षयमतिनिर्दिशसूत्रे तावन्नेयनीतार्थलक्षणं निर्दिष्टम्, तथाहि -
SK
के सूत्रान्ता नेयार्थाः?
SK
यावद् ये सूत्रान्ता संवृतिप्रतिपत्तये निर्दिष्टास्त उच्यन्ते नेयार्थाः यावद् ये सूत्रान्ताः परमार्थप्रतिपत्तये निर्दिष्टास्त उच्यन्ते नीतार्थाः /
SK
यावद् ये सूत्रान्ता नानापदव्यञ्चनानि निर्दिशन्ति, त उच्यन्ते नेयार्थाः, यावद् ये सुत्रान्ता गम्भीरदुर्दर्शदुर्ज्ञेयानि निर्दिशन्ति, त उच्यन्ते नीतार्थाः /
SK
यावद् ये सूत्रान्ता आत्मसत्त्वजीवपुरुषपुद्गलमनुजमानवकारवेदकान् अनेकरुतैरस्वामिकान् स्वामिन इव निर्दिशन्ति, त उच्यन्ते नेयार्थाः / यावद् ये सूत्रान्ताः शून्यतानिमित्ताप्रणिहितानभिसंस्काराजानुत्पादाभावनिरात्मनिःसत्त्वनिर्जीवनिःपुद्गलास्वामिकविमोक्षमुखा निर्दिष्टास्त उच्यते नीतार्थाः - इति विस्तरः /
SK
सुत्रान्तरेषु ऽतावदनुत्पादादिनिर्देशा अभिप्रायान्तरेण नीतार्थ इत्यभिहिताःऽ - इति यदुक्तम्, तदपि न सम्यक् / एकं हि स्थितौ आत्मादिनिर्देशा अपि नीतार्थाः स्युः / अतः परमार्थाभिधायको नीतार्थस्तद्विपरीतो नेयार्थ इत्यवबोद्धव्यम् / आर्यसर्वबुद्धविषयावतारज्ञानालोकालङ्कारे ऽप्युक्तम् - ऽयो हि नीतार्थाः, स परमार्थ इति᳚ / आर्याक्षयमतिनिर्देशसूत्रे च अनुत्पादादयो नीतार्था उक्ताः / अतश्चैवमनुत्पादादय एव परमार्था इति नियतम् /
SK
यद्येवं तदा कथं भगवता आर्यसन्धिनिर्मोचनसूत्रे त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभगवतामभिप्रेत्य सर्वे धर्मा निःस्वभावाः, प्रोक्ता इति चेद्?
SK
नास्ति दोषः / ये तावत् केचित् संवृतिस्वभावमप्यपवदन्ति, अथ चासच्छस्त्रश्रवणाभिनिशवशाद् विपर्यस्तमतयः संवृतौ असन्तमनृतमपि नित्यादिवस्तुरुपतया समारोप्य यथा रूपप्रतिभासं तथैव परिगृह्णन्ति, ते आरोपापवादान्तद्वयपतिततमतितया अन्तद्वयरहिते परमगम्भीरे परमार्थनयसागरे नानुप्रविशन्ति / अतएव तावद् भगवान् ऽअनुत्पादादिनिर्देशः परमार्थाधिकृतःऽ इति निरुच्य त्रिविधनिःस्वभावताभिप्रायप्रतिपादकमन्तद्वयरहितं० मध्यमपथं मधय्मपथं प्रकाशयितुं नीतार्थमेव मतं प्रतिष्ठापितवान् / न च माध्यमिकास्त्रिविधनिःस्वभावताव्यवस्थानं नाभ्युगच्छन्तीति, अन्यथा दर्शनादिविपरीतं कथं परिहरेयुरिति /
SK
तत्रविचारितं तावद् वस्तु यथाप्रतिभासं मायावत् प्रतीत्यसमुत्पन्नम्, तच्च परतन्त्रस्वभावम् / तत्रापि संवृतौ मायावत् परप्रत्ययेन तस्योत्पादः, न तु स्वयंभावः / अत एव उत्पत्तिनिःस्वभावतायां तद् व्यवस्थाप्यते / ऽयः प्रत्त्यसमुत्पन्नः स स्वभावतः शून्य इति विद्वांसो निर्धारयन्ति / न हि स्वभावो नाम कृत्रिमः / अभूत्वा भावः भूत्वा चाभावो ऽपि तावन्नस्ति, क्रमेणाप्येकस्य सदसत्त्वाम्यां विरुद्धत्वात् /
SK
यदुत -
SK
न सम्भवः स्वभावस्य युक्तः प्रत्ययहेतुभिः / हेतुप्रत्ययसम्भूतः स्वभावः कृतको भवेत् / स्वभावः कृतको नाम भविष्यति पुनः कथम् //
SK
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च / कुतः स्वभावस्याभावे परभावो भविष्यति /
SK
भगवतापि आर्यानवतप्तनागराजपरिपृच्छासूत्रे निर्दिष्टम् -
SK
यःप्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतो ऽस्ति / यःप्रत्ययाधीनु स शून्य उक्तो यःशून्यतां जानति सो ऽप्रमत्तः //
SK
आर्यसागरराजपरिपृच्छसूत्रे ऽप्युक्तम् -
SK
यत् प्रतीत्यसमुत्पन्नं तच्च शून्यं स्वभावतः / यच्च शून्यं स्वभावेन न हि तच्चस्ति कुत्रचित् //
SK
एतदर्थमेव आर्यपितापुत्रसमागमसूत्रे ऽपि प्रतीत्यसमुत्पादप्रवृत्त्या धर्मधातुप्रवृत्तिर्निदिष्टा, यदुत - ᳚तत्र भगवन्, अविद्या तु अविद्यात्वेनैवासती / तत्कथमित्युच्येत तर्ह्येवमविद्या तु स्वभावेन विरहिता / यस्मिन् धर्मे नास्ति स्वभावः स न तावद् वस्तु / यच्च नास्ति वस्तु तदपरिनिष्पन्नम्, यदपरिनिष्पन्नं तदनुत्पन्नमनिरुद्धं च / यदनुत्पन्नमनिरुद्धं तद् ऽअतीतम्ऽ इति प्रज्ञप्तुं नैव शक्यते, न च तदनागतं प्रत्यत्पन्नमित्यपि वा प्रज्ञप्तुं शक्यते / यच्च कालत्रये ऽप्यनुपपन्नं तन्नाम लक्षणं निमित्तं प्रज्ञप्तमिति वा न भवति, यतो हि तत् सत्त्वानां ग्रहणार्थं नाममात्रसंकेतमात्रव्यवहारमात्रसंवृतिमात्राभिधेयमात्रप्रज्ञप्तिमात्रेभ्यो ऽतिरिक्तं नास्ति / अविद्या तावत् परमार्थतो ऽनुपलब्धा / यश्च धर्मः परमार्थतो ऽनुपलब्धः, न तत् प्रज्ञप्तः, न व्यवहार्यः, नाभिधेयश्च / अतो हि भगवन् यच्च नाममात्रं संकेतमात्रं न तत्तथ्यमिति᳚ विस्तरेणाभिहितम् / अत एव परतन्त्रस्वभावो न तथ्यत्वे युज्यते, अन्यथा मायादीनामपि वस्तुत्वप्रसङ्गः, तान्यपि प्रत्ययसापेक्षतायां न सन्ति भिन्नानि / अत एव मायाभिन्नत्वेन परतन्त्रस्वभावस्तावदुत्पत्तिनिःस्वभावतायां व्यवस्थाप्यते /
SK
आर्यसन्धिनिर्मोचनसूत्रे चाभिहितम् - यथा मायाकृतं तथैवोत्पत्तिनिःस्वभावतायामुपलक्षणीयम् / मायादितो ऽभिन्नो यो हि परतन्त्रस्वभावः स एव नित्यानित्यादिभिः परमार्थत उपचरितः स एव च परिकल्पितस्वभावः सो ऽपि यथा परिकल्प्यते तथा लक्षणेनासिद्धत्वाल्लक्षणनिःस्वभावतायां व्यवस्थाप्यते / सापि निःस्वभावता वस्तुतः परतन्त्रस्वभावे एव स्थिता / यतो हि तस्मिन्नेव [परिकल्पितः] स लक्षणैरुपचर्यते / अत एव यथा अनित्यादिभिः परिकल्पिताः सर्वे धर्माः परमार्थतो लक्षणशून्यत्वेन अनुत्पन्नाः, अत एव चानिरुद्धाः, अत एव आदिशान्ताः, अत एव हि प्रकृतिपरिनिर्वृताः आर्यसन्धिनिर्मोचने ऽपि यथोक्तम् -
SK
ये तावत् स्वलक्षणेनासन्तस्ते ऽनुत्पन्नाः, ये ह्यनुत्पन्नास्ते ऽनिरुद्धाः, ये चानिरुद्धास्त आदिशान्ता, आदिशान्ता, ये ह्यादिशान्तास्ते प्रकृतिपरिनिर्वृता इति /
SK
अत एवाहं लक्षणनिःस्वभवाताभिसन्धाय ऽसर्वे धर्मा अनुत्पन्नाःऽ इति यदुपदिशामि, तदपि यथाशब्दमर्थपरिकल्पनं निराकरोति / परतन्त्रस्वभावश्च यथा संवृतौ ह्युक्तस्तथा परिकल्पितात्मना विरहितत्वेन प्रसिध्य संवृतिस्वभावस्यानपवादमपि निर्दिशति, न तु परमार्थत्वेन / अलक्षणस्वभावस्तु न कश्चन युज्यते / यथोक्तम्ः
SK
अलक्षणो न कश्चिच्च भावः संविद्यते क्वचित् /
SK
सर्वे धर्माः परमार्थतः सदा भावनिःस्वभावतायामेव प्रतिष्ठिता भवन्ति / अयमेव तावत् परिनिष्पत्रः स्वभावः, नित्यं तस्यानारोपितत्वेन स्थितत्वात् / स हि प्रमाणैः सम्युगुपपत्रन्नस्वभावतया परमार्थ इत्युच्यते, निःस्वभावताप्रभावितात्वाच्च निःस्वभावो ऽपि / अतो ऽयं [परिनिष्पन्नः] परमार्थनिःस्वाभाव इति /
SK
आर्यसन्धिनिर्मोचने ऽप्युक्तम् -
SK
᳚स च परमार्थो ऽपि धर्मनिःस्वभावताप्रभावितो ऽपीत्यतः परमार्थनिःस्वभावः᳚ इति /
SK
यन्निदानमनेन निःस्वभावेन सर्वे निःस्वभावाः, तन्निदानमनुत्पादादिदेशना नीतर्था / परमार्थाभिप्रायनिर्देशात् स न तावद् दर्शनादिविरुद्धः, न च यथाशब्दं परिकल्पितश्च / अत एव नाभिप्रायनिर्देशो ऽपि नीतार्थविरुद्धः, परिग्रहीतव्यः /
SK
अतश्च अभिप्रायनिर्देशो ऽपि न नीतार्थविरुद्धो भवतीति / फलतः अनुत्पादिदेशनां नीतार्थां साधयितुं दर्शनादिविरोधं परिहर्तुं यथाशब्दपरिकल्पनं च निराकर्तुम् आर्यसन्धिनिर्मोचने तावदभिहितम् -
SK
अपि च, परमार्थसमुद्गत्, परमार्थनिःस्वभावं धर्मनैरात्मप्रभावितमित्यभिप्रेत्य मया सर्वे धर्मा अनुत्पन्नाः सर्वे धर्मा अनिरुद्धाः, आदिशान्ताः, प्रकृतिपरिनिवृत्ताश्व देशिताः /
SK
यद्येवं महाश्रद्दधासूत्रे ᳚प्रयोगजं स्वभावमभिप्रेत्य यन्मया ऽसर्वे धर्मा असन्तःऽ इति यदुक्तं तत्र यथाशब्दमभिनिविश्च संक्लेशव्यवदानधर्माणामप्यभावमात्रमभिनिविश्च असन्निमित्तग्रहणाद् असद्दर्शनं तद् भवेदित्यतो निमित्तदर्शनं तदुच्यते / एवं विस्तरेण यदभिहितं तत्कथं ग्राह्यमिति?
SK
अयमपि यथोक्तः परतन्त्रस्वभाव एव, यो हि संवृतौ हेतुप्रत्ययबलसम्भूतत्वेन मायावन्निस्वभावत्वेन च ऽप्रयोगजःऽ इत्युक्तः /
SK
प्रज्ञापारमितायामप्युक्तम् -
SK
᳚प्रयोगजः स्वभावस्तावदसत् प्रतीत्यसमुन्पन्नत्वाद्᳚ इति /
SK
एतदर्शं यो हि परिकल्पितस्वभाव उक्तः सो ऽप्यागन्तुक एव कल्पनाभिनिर्हतत्वात् / अत एव सः [परतन्त्रः] प्रयोगज इत्युक्तः / स्वभावो ऽयं द्विधापि परमार्थतो नैव युज्यते / अतः सर्वे धर्माः स्वभावेनानेन परमार्थतो निः स्वभावाः / न ह्यभावात् संवृतिस्वभवो भवति / यदि स तावदसत् स्वात्तदा संक्लेशव्यदानधर्मा नैव व्यवस्थापयितुं शक्येरन्, यतो हि तत्प्रभाविता हि ते, न तु परमार्थेन [प्रभाविताः] / एवं हि सूत्रान्तेष्वपि प्रतिपादितमिति / अतो ये परमार्थाभिप्रायं नैव जानन्ति, ते पूर्वस्वभावमपि वस्तुरुपेण परिगृह्य पश्चात्तस्याप्यभावं मत्वा अनुत्पन्नादिदेशनानां शब्दशो ऽर्थाभिनिवेशं कुर्वन्ति / ते चाभावादिनिमित्तग्रहणेन निमित्तादिदृष्टयो भवन्ति / अतस्तन्निषेधायैव एतदुक्तम्, न तु माध्यमिकेभ्य एतदुक्तमिति / ते तु तथतां सर्वनिमित्तग्राहप्रतिपक्षां प्रचक्षते / अतस्तेष्वभावादिनिमित्तग्राहो नैव सम्भवति / तथा हिः
SK
अपरप्रत्यययं शान्तं प्रपञ्चैरप्रपञ्चितम् / निर्विकल्पमनानार्थमेतत्तत्तस्य लक्षणम् //
SK
अपि च, अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम् / तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः //
SK
येषु भावाभावादयो निमित्तग्राहा भवन्ति, तेषु नैव सम्भवति तत्त्वदर्शनावकाशो ऽपि, तथा चोक्तम् -
SK
स्वभावं परभावं च भावं चाभावमेव च / ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने //
SK
यो ऽयं भावाभावाभिनिवेशः, स तावद् भावाभिनिवेशपूर्वक इति सूत्रेषु प्रतिपादितम् / तथा हि लङ्कवतारसूत्रे प्रोक्तम् -
SK
अस्तितत्वपूर्वकं नास्ति अस्ति नास्तित्वपूर्वकम् / अतो नास्ति न गन्तव्यमस्तित्वं न च कल्पयेत् //
SK
अतो ये खलु भावाभिनिवेशपरशास्ते तावत् परतन्त्रं सनिमित्तं पश्यन्ति / ये तु व्यपगतभावग्राहास्ते तथा न कुर्वन्ति, कुत्राप्यनवस्थितत्वात् / तथा ह्युक्तम् -
SK
सिद्धिमाश्रितभावानामिच्छन्ति तत्त्वतस्तु ये / तत्र नित्यादयो दोषाः सम्भवन्ति न वा कथम् //
SK
भावानामाश्रितानां तु ह्यसत्त्वं सत्त्वमेव वा / जलेन्दुवन्न चेच्छन्ति ते दृष्ट्वा नापहारिताः //
SK
रागद्वेषोद्भवस्तीव्रदुष्टदृष्टपरिग्रहः विवादास्तत्समुत्थाश्च भावाभ्युपगमे सति //
SK
अतो ये ऽनुत्पादादिदेशनासु शब्दशो ऽभिनिविशन्ते, तान् प्रतिषेद्धुं निमित्तादिदृष्टयो विगर्हणीयाः / माध्यमिकाभिधास्तु अनुत्पादादिदेशनासु नाभिनिविशन्ते,परमार्थतो ऽनुत्पादादीनामभ्युपगमात् संवृत्योत्पादादीनामपि व्याहरणात् / तथा हि -
SK
तत्त्वमन्वेष्टुमारम्भे सर्वमस्तीति कथ्यताम् / ज्ञात्वार्थान् खलु वैराग्ये पश्चानूनं विविच्यते //
SK
अनाज्ञाय विविक्तार्थं श्रुतिमात्रे प्रविश्य च / ये पुण्यानि न कुर्वन्ति नरास्ते कुत्सिता हताः //
SK
फलयुक्तानि कर्माणि गतयश्च सुदेशिताः / तत्स्वभावपरिज्ञानमनुत्पादो ऽपि देशितः //
SK
ममेत्यहमिति प्रिक्तं यथा कार्यवशाज्जिनैः / तथा कार्यवशात् प्रोक्ताः स्वन्धायतनधातवः //
SK
यद्येवं चेत्? आर्यलङ्कावतारसूत्रे -
SK
नास्ति वैकल्पितो भावः परतन्त्रश्च विद्यते / समारोपापवादं हि विकल्पन्तो विनश्यति //
SK
यद्धि प्रोक्तं तत्कथमिति चिन्तायामत्रापि यथा कथितस्य परिकल्पितस्वभावस्य समारोपो भवति, तस्य परिहारार्थं ᳚नास्ति वैकल्पितो भावः᳚ इत्युक्तम् / यथोक्तः परतन्त्रस्वभावास्तु संवृतिनिषेधकरणात् परायत्तवृतितया ऽसन्ऽ इत्येवमुक्तः / उच्यमानमिदं द्वयं ये अन्तद्वयरुपेण परिकल्पियन्ति, ते नैव मध्यममार्गे प्रवृत्ता भविष्यन्ति, प्रपातस्थानस्थितस्कन्धसदृशत्वात् / अतः - ᳚समारोपापवादं हि विकल्पन्तो विनश्यति᳚ इत्युक्तम् / अत एव च -
SK
परिकल्पितं स्वभावेन सर्वधर्मा अजानकाः / परतन्त्रं समाश्रित्य विकल्पो भ्रमते नृणाम् //
SK
यदुक्तं तेनापि तन्निराकरणं भवति /
SK
अनेनापि चोक्तयोः समारोपापवादान्तयोः निराकरणं क्रियते / तथा हियथा विकल्प्यते तथा परमार्थतः परतन्त्रस्यानुत्पन्नत्वात् परिकल्पितात्मना अनुत्पन्न एव / तदनेन समारोपान्तस्वावन्निराक्रियते / संवृत्या परतन्त्रतया समुत्पन्नत्वात् तदाश्रिता अन्ये विकल्पा निर्माणनिर्मितसदृशा समुत्पद्यन्ते / अत एव -
SK
परतन्त्रं समाश्रित्य विकल्पो भ्रमते नृणाम् / इत्येवमुक्तं / अनेन तावदपवादान्तो निराक्रियते, संवृत्योत्पादस्यानपवादात् / अतस्तत्र तत्र या परतन्त्रस्वभावास्तितत्वदेशना याश्च भावोत्पत्यादिदेशनास्ताः सर्वाः देशनाः बालपृथग्जनानां भयहेतुपरिवर्जनार्थं संवृत्योत्पादाशयेन अभिप्रायतः प्रवृत्ता इत्यवगमाय, न तु परमार्थतः / तन्निषेधस्तु सूत्रे कृतः / यथोक्तं लङ्कावतारसूत्रे -
SK
बुद्धया विवेच्यमानं हि न तन्त्रं नापि कल्पितम् / निष्पन्नो नास्ति वै भावः कथं बुद्धया प्रकल्प्यते //
SK
न स्वभावो न विज्ञप्तिर्न वस्तु न च आलयः / बालैर्विकल्पिता ह्येते वशभूतैः कुतार्किकैः //
SK
आर्यधर्मसङ्गीतौ चाप्युक्तम् -
SK
कुलपुत्र, लोको ऽयं जातिनिराधयोरध्यवसायेन तिष्ठति, अतो महाकरुणामयेन तथागतेन लोकभयविषयपरिवर्जनार्थं व्यवहारवशेन तस्य उत्पत्तिनिरोधौ भवत इत्युपदिष्टम् / कुलपुत्र, नात्र कश्चिद् धर्म उत्पद्यत इति /
SK
आर्यप्रज्ञापारमितासूत्रे ऽपि -
SK
᳚आयुष्मन् शारद्वतीपुत्र, एवं रूपं स्वभावेन शून्यम्, यच्च स्वभावेन शून्यं तन्नोत्पद्यते, न च निरध्यते / यस्य नत्पत्तिनिराधौ तन्नान्यथा भवतीति / एवं यावद् वेदनातो विज्ञानपर्यन्तम्᳚ - इति विस्तरः /
SK
नात्र परिकल्पितस्य स्वभावो युक्ततरः, आगन्तुकत्वाद् भावबहिर्भूतत्वाच्च तस्य, एवं शब्दार्थो ऽपि नोपपद्यते / यद्यपि रुपादयः परमार्थतो ऽनुत्पन्नस्तथापि बालपृथग्जनैस्ते उत्पादादिस्वभावे परिकल्प्यन्ते / इत्येवं तैर्यदि तत्स्वभावे परिकल्पितत्वात् स्वभावशब्देनोच्यन्ते, तदा न दोषः, इष्टार्थाविरुद्धत्वात् / सूत्रान्तरे ऽपि -
SK
᳚कुलपुत्र , यो बोधिसत्त्वः धर्मान् अयोनिशो मनसिकृत्य शब्दशः प्रविचिनोति, स महायानश्रद्धायतनो न भवति / यश्च अशब्दशो ऽभिसन्ध्यर्थं योनिशो मनसिकरोति, स महायानश्रद्धायतनो भवति᳚ / यदुक्तं तत्तु ये परमार्थाभिप्रायानभिज्ञाः संवृतिस्वभावमप्यपवदन्ते ते ऽयोनिशो धर्मान् प्रविचिन्वन्तीतिहेतोर्महायानश्रद्धायतना न भवन्तीत्यतस्तन्निषेधार्थमिदमित्युक्तम् /
SK
निखिलेष्वपि सूत्रेषु शब्दशो ऽर्थाभिनिवेशपरिहराय अभिप्रेतार्थावबोधाय च सम्यग् यत्नोत्पादार्थं सर्वेषु चाधिमक्त्युपादार्थमेवाभिहितम्, न तु माध्यमिकमतनिषेधार्थम्, न हि माध्यमिकाः शब्दशो ऽर्थं परिकल्पयन्तीति पूर्वमेवोक्तत्वात् / आर्यरत्नमेघसूत्रे ऽप्युक्तम्, यथा -
SK
᳚कथमिव बोधिसत्त्वः परमार्थनिपुणो न भवति? कुलपुत्र, बोधिसत्त्वः सम्यक् प्रज्ञया रूपप्रत्यवेक्षणं याव्द् विज्ञानप्रत्यवेक्षणं प्रत्यवेक्षते / यदा स रूपं प्रत्यवेक्षते, तदा न रुपोत्पादमुपलभते, न समुदयमुपलभते, न च निरोधमुपलभते यावद् विज्ञानपर्यन्तं यथावदुत्पादं नोपलभते, यतो हि सो ऽपि तावद् [अनुपलम्भः] परमार्थतो ऽनुत्पादप्रवृत्तया प्रजया भवति, न तु सांव्यावहारिकस्वभावेन᳚ इत्येवं निर्दिष्टम् /
SK
आर्यलङ्कावतारे ऽपि -
SK
सर्वं विद्यति संवृत्यां परमार्थे न विद्यते / धर्माणां निःस्वभावत्वं परमार्थे ऽपि दृश्यते // इत्युक्तम् / ये तावदनुत्पादादिनिर्देशान् ऽसर्वे धर्माः परमार्थत उत्पद्यन्ते संवृतिस्वभाभावतश्च नोत्पद्यन्तेऽ इत्येतस्मिन् मते स्थापयन्ति, ते सर्वे आर्यरत्नमेघादिनिर्दिष्टैः समस्तवचनैर्विरुध्यन्ते, विप्रतिपन्नत्वात् तेषाम् / तेषु [सूत्रेषु] तु रुपादयः सर्वे [धर्माः] परमार्थतो ऽनुत्पन्नाः, संवृतितश्चोत्पन्ना इति निर्दिष्टाः सत्यद्वयनिर्देशादिषु तावद् - देवपुत्र, सर्वे धर्माः शान्ताः, परमार्थतो ऽनुत्पन्नत्वाद्
SK
इत्येवमादिकं यदुक्तं तेनापि [सह] विरुध्यन्ते / पुनश्च आर्यलङ्कावतरे ऽभिहितम् -
SK
भावा विद्यन्ति संवृत्या परमार्थे न भावकाः / निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत् //
SK
आर्यप्रज्ञापारमितायामपि -
SK
᳚सुभूते, विपर्ययमतिरिच्य बालपृथग्जनाः कुत्रावतिष्ठन्ते? कर्मार्भिसंस्कारवस्तु तावत् केशाग्रतुल्यमपि न विद्यते᳚
SK
इत्यादिका या देशाना, तयापि विरुध्यन्ते, वस्तुतः आत्मनो ऽतिसूक्ष्मस्वभावस्यापि निषिद्धत्वात् / यदि विपर्ययस्याप्रतिषेधाद् अस्ति विपर्ययं वस्तु, तत्रैव तथा प्रोक्तत्वादिति चेत्? तथा हिः
SK
निःस्वभावेषु या भ्रन्तिस्तत्सत्यं संवृतिर्भवेत् / इति / तदपि नैवोपपद्यते / विपर्यस्तं वस्तु यदि विद्येत, तदा अतिसूक्ष्मभावस्वभावनिषेधवचनं कथं नामोपपद्येत /
SK
असतीष्वपि समस्तभाववासनासु बालपृथग्जनाः असद्विपर्ययोपकल्पितानां भावस्वभावानामभिनिवेशेन कमाण्यभिसंस्कुर्वन्तीति यदैवं सूत्रार्थो विवेच्येत तदा एवंविधेन तावद् विवेचनेन [भवदभ्युपगतं] अभ्युपगन्तुं शक्येत /
SK
आर्यसमाधिराजसूत्रे -
SK
स्वभावशून्याः सद सर्वधर्माः वस्तुं विभावेन्ति जिनानपुत्राः / सर्वेण सर्वं भवसर्वशून्यं प्रादेशिकी शून्यता तीर्थिकानाम् //
SK
इति यदुक्तम् तदपि अभ्युद्धर्तुं शक्यते / अन्यत्रापि सूत्रेषु तावद् -
SK
प्रज्ञप्तिमात्रं त्रिभवं नास्ति वस्तु स्वभावतः / प्रज्ञप्तिवस्तुभावेन कल्पयिष्यन्ति तार्किकाः //
SK
इति यदुच्यते तदप्युद्धरिष्यते / विपर्ययादयो हि वस्तुत्वेन तावन्नैव यौज्यन्ते /
SK
इत्येवं भवद्भिश्चित्तचैत्तात्मकस्य त्रैधातुकस्य यदसम्यक्त्वं परिकल्प्यते तदपि असम्यगाकारोपग्रहणावभासत्वेन विपर्ययादितया प्रोच्यते / मिथ्यास्वभावेनोपग्रहणाद् यस्तस्यात्मत्वेनावभासः स कथं सम्यग् भाव इति भवेत्, तत्त्वान्यत्वयोः परस्परहारस्थितलक्षणत्वात् / तत्त्वस्य तावदन्यात्मकत्वं हि विरुद्धम् /
SK
यद्येवं नास्ति तदा सांख्यादिपरिकल्पितेषु प्रधानादिविकारेषु भवतां को द्वेषः स्वाद्, भवद्भिस्तेषामनभ्युपगमात् / अत एवः कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते /
SK
इत्येवमुक्तम् / आर्यसत्यद्वयनिर्देशे ऽपिः
SK
᳚देवपुत्र, यथा आत्मा, नान्ति परमार्थत आत्मा, तथैव देवपुत्र, क्लेशा अपि,परमार्थतो न सन्ति क्लेशाः / देवपुत्र, यद्यात्मा परमार्थतस्तत्त्वं स्वात्तदा देवपुत्र, अनेनैव हेतुना क्लेशा अपि परमार्थतस्तत्त्वानि स्युः /᳚
SK
इत्येवं कथितम् / अनेन तावद् आत्मादीनां मिथ्याकारोपग्रहणेन प्रवृत्तत्वाद् आत्मादिवत् क्लेशा अपि सर्वे मिथ्याकारोपग्रहणेन प्रवृत्तत्वाद् आत्मादिवत् क्लेशा अपि सर्वे मिथ्यास्वभावा एवेत्येवं तावन्निर्दिश्यते /
SK
इत्येवं त्रैधातुकाः खलु चित्तचैतसिका मिथ्याकारग्रहरणप्रवृत्तत्वात् स्वाकार इव तदभिन्नत्वाच्च मिथ्यास्वभावा एवेति निर्दिष्टाः /
SK
बोधिसत्त्वेभ्युस्तु विशेषतः क्लिष्टत्वात् सर्वपरिकल्पानां ते मिथ्या एवातः ᳚मिथ्या सर्वविकल्पाः᳚ इत्येवं तावत् प्रतिपादितम् /
SK
यदि नास्ति परमार्थतो वस्तुनां स्वकीयः कश्चन स्वभावस्तदा -
SK
न ह्यात्मा विद्यते स्कन्धे स्कन्धाश्चैव हि नात्मनि / न ते यथा विकल्प्यन्ते न च ते वै न सन्ति च //
SK
यदि यदुक्तं तद् यद्येवमुद्ध्रियते यदनेन निओषेधमुखेन स्वन्धादीनां तावत् सत्तैव निर्दिश्यत इति चेत्? तन्न प्रमाणयोग्यमिति / यतो ह्यत्र ᳚न ते यथा विकल्प्यन्ते᳚ इति यदुक्तं तेन सत्तया निषेधो विधीयते / ᳚न च वै न सन्ति च᳚ इत्यमुना च ये यथा संवृतववभासन्ते, ते तथैव सदिति निर्दिश्यन्ते / फलतश्च तैर्थिकपरिकल्पितस्यात्मनः संवृत्तवप्यसत्त्वम् / स्कन्धादीनां तावद् व्यवहारे सत्त्वम्, न तु तथतायामिति विस्पष्टमादिष्टम् / यद्येवं न भवेत्तदैकस्मिन्नसत्त्वभिधाय पुनः सत्त्वेन निर्देशः कथं सम्बध्येत / आर्यब्रह्नपरिवर्तसूत्रे चोक्तं यदुत -
SK
येन स्कन्धस्य नोत्पत्तिरनुपत्तिश्च ज्ञायते / समुदाचरति तल्लोके न च लोके स्थितश्च सः //
SK
इति //
SK
आर्यरत्नमेघे ऽपि न स्कन्धाः परमार्थतः सन्ति, संवृत्यैव ते सन्तीति अपष्टतया निर्दिष्टम्ः
SK
᳚कुलपुत्र, दशधर्मसमन्वागतो बोधिसत्त्वः संवृतिसत्ये कुशलो भवति, के च दशेति? तद्यथा - रूपप्रज्ञप्तिं करोति, न च परमार्थतो रूपमुपलभते, नाभिनिवेशं करोति / वेदनासंज्ञासंस्कारविज्ञानन्यपि तद्वदिति विस्तरः /᳚
SK
आर्यरत्नाकरे ऽपिः
SK
᳚सूर्यदत्त, एवमस्ति, यथा व्योम्नि चित्राङ्कनं न भवति, न भविष्यति, यतो हि तदभूतमनिरुद्धमनागममनिर्गममनुत्पन्नमच्युमनभिनिष्पन्नम् अनिर्वचनीयत्वाद् व्यवहारमात्रं संवृतिमात्रं भवति / सूर्यदत्त, तथैव रुपादिविज्ञानपर्यन्तं न भूतं न भविष्यति, इत आरभ्य...... संवृतिमात्रं भवति᳚ इत्येतत्पर्यन्तं यद् विस्तरेणाभिहितं तदर्थसम्बद्धं करणीयमिति /
SK
ननु महापरमार्थशून्यतायां ऽअस्ति कर्म, अस्ति विपाकः कर्ता तु नोपलभ्यतेऽ यदेवमुक्तं तत्तावद् एतद्विरुद्धं स्यात्, यतो हि यदा कर्मादयः परमार्थतः सन्ति, तदा न भवन्ति सर्वे धर्मा निःस्वभावाः, यदि संवृतितस्ते सन्ति तदा कर्तुरपि संवृतितः सत्वात् ऽकर्ता तु नोपलभ्यतेऽ इत्येतत्कथनं न युक्तिसङ्गतं स्यादिति चेत्?
SK
यद्येवमुच्येत तदात्रापि नास्ति विरोधः पूर्ववदेव, कर्मफलयोः संवृतावेव सत्त्वात्, तैर्थिकपरिकल्पितस्य च कर्तुः संवृतावप्यसत्त्वात् / इत्येवंविधनिर्देशतः कुतस्तावद् विरोधावसरः /
SK
यद्येवं चेद् अन्येषु सूत्रेषुः
SK
अस्तित्वं सर्वभावानां यथा बालैर्विकल्प्यते / यदि ते भवेद् यथादृष्टाः सर्वे स्युस्तत्त्वदर्शिनः //
SK
अभावात् सर्वधर्माणां संक्लेशो नास्ति शुद्धितः / न ते तथा यथा दृष्टा न च ते वै न सन्ति च //
SK
यदुक्तं तत्कथमिति चेत्?
SK
इदमपि पुर्वमक्तमेव / अत्रापि ऽयदि सर्वाणि वस्तूनि यथावभासन्ते तथैव परमार्थतो विद्यन्तेऽ इति तदा ऽसर्वे ऽपि तत्त्वदर्शिनः स्युःऽ इति स्यात् / अतो ऽनेनापि तावत् परमार्थतः सर्वधर्मानुत्पादमतमेव संस्थाप्यते / यद्धि ऽअभावात् सर्वधर्माणाम्ऽ इत्युक्तं तेन वस्तूनां संवृतिसत्त्वं प्रतिपादितम् ऽन ते तथा यथा दृष्टाःऽ इति वचनात् / प्रज्ञापारमितायामपि संक्लेशव्यवदानव्यवस्था खलु व्यवहारसत्यमाश्रित्यैव कृतेति, तद्यथाः ᳚सुभूते, प्राप्तिरभिसमयो जातिर्निरोधः संक्लेशो व्यवदानमिति व्यवहारत एव संविद्यन्ते, न तु परमार्थतः इति /᳚
SK
यद्येवं तर्हि तत्रैवः
SK
᳚बाह्यार्थदर्शनं मिथ्या नास्त्यर्थं चित्तमेव तु / ऽयुक्त्या विपश्यमानानां ग्राहग्राह्यं विरुध्यते / ऽबाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते /᳚ ᳚वासनैर्लुलितं चित्तमर्थाभासं प्रवर्तते /᳚
SK
᳚चित्तमात्रं भो जिनपुत्र, यदुत त्रैधातुकम्᳚ इति यदुक्तं तत्कथं नीयते?
SK
एवमेव आर्यान्धिमिर्मोचने आर्यघनव्यूहादिष्वापि सर्वधर्माणां चित्तमात्र कायत्वेन निर्दिष्टत्वाच्चित्तमेव हि तावत् परमार्थतः सत्, नान्यदिति साध्यते / अतश्च सर्वे धर्माः निःस्वभावत्वेन न साध्यितुं शक्यन्ते / यद्येवमुच्येत, तदपि न समुचितं कारणम्, यतो हि यथा चित्तसत्ता निर्दिष्टा तथैव रूपस्यापि सत्ताया निर्देशस्तत्तत्सूत्रेष्वनेकधा कृतो विद्यते /
SK
अथ प्रमानबाधितत्वात् सुत्त्रान्तरेषु च निषिद्धत्वात परमार्थतः सत्त्वेन व्यवस्थापयितुं न शक्यते, तदा पुद्गलनैरात्म्यमात्रप्रवेशाभिसन्धिना तथाविधविनेयजनाशयापेक्षया कथनमात्रमेवैतदिति?
SK
यद्येवमुच्येत तदा चित्तमपि वक्ष्यमाणप्रमाणैर्बाधितं भवति / सूत्रान्तरेष्वपि निःस्वभावत्वेन निर्दिष्टत्वात् परमार्थतो ऽगृहीतापि सा चित्तमात्रता क्रमशः परमार्थनयसमुद्रावगाहनहेतुमात्रतया निर्दिष्टेत्येवं ग्रहणनीयमिति /
SK
इत्येवं ये तावत् सर्वधर्मान् निःस्वभावतया युगपज्ज्ञातुमक्षमास्ते कदाचन चित्तमात्रतामाश्रित्य क्रमशो बाह्यार्थनिःस्वभावतायां प्रविशन्ति / अत एव
SK
युक्त्या निरीक्षमाणानां ग्रह्यग्राहो निरुध्यते /
SK
इत्युक्तम् /
SK
तदनन्तरं यदि क्रमेण चित्तस्वभावः प्रत्यवेक्ष्यते, तदा तमपि निःस्वभावत्वेनावबुध्य नितरां गम्भीरनये प्रविशन्ति / यथोक्तं भगवता -
SK
चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत् / तथातालम्बने स्थित्वा चित्तमात्रमतिक्रमेत् //
SK
चित्तमात्रमतिक्रम्य निराभासमतिक्रमेत् / निराभासस्थिओतो योगि महायानं स पश्यति //
SK
अनाभोगगतिः शान्ता प्रणिधानैर्विशोधिता / ज्ञानमनात्मकं श्रेष्ठं निराभासे न पश्यते //
SK
अन्ये तु ब्रुवते - चित्तमात्रता हि तवत् स्वप्रसिद्धस्वभावा, अतः संवृत्यैव स्थिता / बाह्यार्थास्तु न खलु संवृत्यापि, चित्तकारमतिरिच्य न सिध्यन्ति / अत एव भगवता तत्प्रदर्शनार्थं वस्तूनि चित्तमात्रतायां निर्दिष्टानि, सापि न परमार्थतः सिध्यति, सूत्रान्तरेष्वपि निःस्वभावतायामेव निर्दिष्टत्वाद्, यथोक्तम् आर्यसर्वबुद्धविषयावतारज्ञानलोकाकङ्कारे -
SK
सर्वे बुद्धाः सदा सर्वान् धर्मान् जानन्ति सर्वथा / नोपलभ्य क्वचिच्चित्तं नोपलम्भकरं नुमः //
SK
आर्यरत्नकुटसूत्रे ऽपि -
SK
चित्तं हि काश्यप, परिगवेष्यमाणं न लभ्यते / यन्न लभ्यते तन्नोपलभ्यते / यन्नोपलभ्यते तन्नैव अतीतं न अनागतं न प्रत्युत्पन्नम् / यन्नैवातीतं नानागतं न प्रत्युत्पन्नं तत् त्रिकालातीतम् / यत् त्रिकालातीतं तस्य सदसत्त्वमपि नास्ति / यस्य नास्ति सदसत्त्वं तस्य नास्त्युत्पादः / यस्य नास्त्युत्पादस्तस्य नास्ति स्वभावः यस्य नास्ति स्वभावस्तस्य नास्त्युत्पादः, यस्य नास्त्युत्पादस्तस्य नास्ति निरोधः / यस्य नास्ति निरोधस्तस्य नास्ति वियोगः / यस्य नास्ति वियोगस्तस्य नास्त्यागमः, निर्गमः, च्युतिः, जातिः / यस्य नास्त्यागमो निर्गमश्च्युतिर्जातिस्तस्य न सन्ति संस्काराः / यस्य न सन्ति संस्काराः तदसंस्कृताः / यदसंस्कृतं तदार्यैर्विदितमिति विस्तरः /
SK
पुनश्च तत्रैव -
SK
᳚नित्य इति काश्यप, अयमेको ऽन्तः, अनित्य इति काश्यप, अयमेको ऽन्तः / तथा अस्तीति काश्यप, अयमेको ऽन्तः, नास्तीति काश्यप, अयमेको ऽन्तः / यदनयोरन्तयोर्मध्यम्, तदरुप्यमनिदर्शनमप्रतिष्ठमनाभासमनिकेतमविज्ञप्तिकम् / इयमुच्यते काश्यप, मध्यमा प्रतिपद् भूतप्रत्यवेक्षा᳚ - इति /
SK
यदेवमुक्तं तन्मध्यभूतम्, न तस्य वस्तुसता विज्ञानस्वभावेन सत्त्वसिद्धिः / धर्मधातुर्हि द्वाभ्यामन्ताभ्यां विनिर्मुक्तः सर्वधर्मनिस्वभावलक्षणः निष्प्रपञ्च इति वचनीयः / स चापि धर्मधातुः ऽअयं सः - इत्याकारेण निरुपयितुमशक्यत्वाद् अरुप्यः, परेभ्यो निदर्शयितुसमर्थत्वाद् अनिदर्शनः, आध्यात्मिके धातौ आयतने वानवस्थितत्वाद् अप्रतिष्ठः, बाह्यानां धातूनामायतनानामिव अनवभासितत्वाद् अनाभासः, चक्षुर्विज्ञानादिधतुस्वभावातिक्रान्तत्वाद् अविज्ञप्तिकः, रागादिसमस्तक्लेशानामाश्रयाभावाद् अनिकेतः - इत्येवमुक्तम् /
SK
यदि मध्ये चित्तस्वभावतायाः को ऽप्यंशः परमार्थसन् स्यात्तदा तत्सत्तया नित्यानित्याभिनिवेशः खलु कथङ्कारमेको ऽन्तः स्याद्, यतो हि यथा वस्तुतत्त्वं तथा यथावदनुगम्य मनस्करणं पतनस्थानमिति नैव युज्यते /
SK
नित्यादिस्वरुओपमतिरिज्य वस्तुभूतः कश्चिदन्यो वस्त्वाकारो ऽसम्भवी मध्ये हि वस्तु खलु स्वस्वभावस्यासत्त्वाद् अभूतमिति ग्रहणं नास्ति तावद् अन्त इत्येवं यदि चिन्त्येत, तदपि न युक्तम् / असदिति ग्रःअणं सत्तग्रहणाभावे ऽभाव एव / विषयाभावनिषेधस्तु न तावत् सन् भवति, अतः यस्याभावग्रहणं स्त्, नियतं तस्य सत्ताग्रहणमपि सदेव / ततो द्वावप्यन्तौ भवतः /
SK
यदि मध्ये वस्तुनः सत्त्वं तदा तत्सत्त्वग्रहणं केन तत्सत्त्वग्रहणं केन निषिद्धं स्यात्? आर्यसमाधिराजसूत्रे मध्ये सतः परमार्थस्थितस्य वस्तुनो निषेधाय यदुक्तम्, तेनापि सह विरोधः स्यात् -
SK
अस्तीति नास्तीति उभे ऽपि अन्ता / शुद्धी अशुद्धीति इमे ऽपि अन्ता //
SK
तस्मादुभे अन्त विवर्जयित्वा / मध्ये ऽपि स्थानं न करोति पण्दितः //
SK
इत्येवमुक्तम् /
SK
अयं तावत् सूत्रार्थः - आश्रयणीये मध्ये यदि वस्तुसतां नास्ति किमपि स्वरूपं तदैव ऽमध्ये ऽपि स्थानं न करोति पन्डितःऽ इति यदुक्तं तद् युक्तं स्यादित्युच्यते यद्यस्ति किमपि वस्तु तदा कथं न पण्डितस्तस्मिन् स्थानं न ग्रहीष्यतीति / आर्यलोकोत्तरपरवर्ते तावदुक्तम् -
SK
अपि च, हे जिनपुत्राः, त्रयः खलु धावतो विज्ञप्तिमात्रतायां प्रचरन्ति, यतो हि अध्वत्रयं चित्तवत् प्रतिबुध्यते, तदपि तावच्चित्तं मध्यान्तरहितमेव प्रवर्तते / इदं तावत् सूत्रस्य तात्पर्यम् - उत्पादभङ्गयोः स्थितिलक्षणे च मध्ये परमार्थतो ऽसत्त्वाच्चित्तं तावन्मध्यारहितं सत् प्रवर्तते प्रतिबुध्यते चेत्युच्यते /
SK
अपेरे खल्वभिदधते - संवृतौ हि विज्ञानवद् बाह्यार्था अपि संविद्यन्त इति / अन्यथा दशभूमकसूत्रे - अष्टभ्यां हि भूमौ संस्थिता बोधिसत्त्वा लोकधात्वन्तर्गतानां परमाण्वादीनां संख्यां परिजानन्ति - इति यदुक्तम्, तेन सह विरोधःस्यादिति / तथा हि -
SK
᳚स परमाणुरजःसूक्ष्मतां च प्रजानाति, महद्गततां च अप्रमाणतां च विभक्तिं च प्रजानाति / अप्रमाणपरमाणुरजोविभक्तिकौशल्यं च प्रजानाति / अस्यां च लोकधातौ यावन्ति पृथ्वीधातोः परमाणुरजांसि तानि प्रजानाति / यावन्ति अब्धातोः, तेजोधातोः, वायुधातोः प्रजानाति᳚ / इति वस्तरः / विज्ञानवद् बाह्यार्थानामपि प्रसिद्धत्वात् प्रतीतिविरोधः, यतो हि युक्तिभिर्विचारणायां सत्यामुभावपि नैव परीक्षां सहेते, अतस्तौ अव्तुस्थितिमपि न क्षमेते / व्यवहारसत्ये [संवृतौ] त्वागोपालाङ्गनां यावत् प्रसिद्धौ / विज्ञप्तिमात्रताकथनस्य तावत् फलं तु परपरिकल्पितानां कर्तुभोक्त्रादीनां निषेध एव, व्यवहारे ऽपि चित्ततिरिक्तानां तेषां कर्त्रादीनां संसिद्धेरभावात् /
SK
अथवा - सर्वधर्मेषु पूर्वङ्गमत्वाच्चित्तं सर्वधर्मापेक्षया प्रधानं सिध्यते / यावद् यथा ᳚नास्त्यर्थं चित्तमेव तु᳚ इति यदुक्तम्, यथा वा ᳚वासनैर्लुलितं चित्तमार्थाभासं प्रवर्तते᳚ इत्यादि यदुक्तम्, यथा वा ᳚वासनैर्लुलितं चित्तमार्थाभासं प्रवतते᳚ इत्यादि यदुक्तम्, तदपि निराकारेण चित्तेन विषयग्रहणं कथमपि न युज्यत इत्यवश्यं तत् साकारमेव मन्तव्यम् / अतश्चित्ताकारं व्यतिरिच्य अर्थाकारावभासाभावात् तन्निषेधेन साकारचित्तमेव तावन्निर्दिश्यते, न तु तेन बह्यार्था भावो ऽवबोध्यते /
SK
अथवा आत्मदिसत्तानिर्देश इव तद्विनेयजनापेक्षया यथा सद्वैद्य आतुरान् पुष्णाति तथा भगवन्तो नानविद्या देशानाः प्रवर्तयन्ति / यथोक्तं लङ्कावतारसूत्रे -
SK
आतुरे आतुरे यद्वद् भिषग् द्रव्यं प्रयच्छति / बुद्धा हि तद्वत् सत्त्वानां चित्तमात्रं वदन्ति वै //
SK
नान्यान् विसंवादयतीति विनेयजनानां हितसुखकरत्वात् सार्थकं वचनम् / परहितं तावदेकान्ततया सत्यमिति हेतुर्भगवत्सु तावन्नास्ति मृषावादो ऽपि / अत उक्तम् -
SK
असत्यं यद् विसंवादि नासच्चाप्यर्थसंहितम् / ध्रुवं परहितं युक्तं हिताभावान्न चापरम् //
SK
इत्येवं किं स्ंवृतावस्ति बाह्यार्थसत्त्वन् / वरं तावच्चित्तमत्रता, किन्तु निःसन्दिग्धं सूक्ष्मवस्तुस्वभावं सम्यक् साधयितुं नास्ति सर्वथा को ऽपि आप्तागमः / आर्यरत्नमेघसूत्रे तावत् -
SK
᳚कुलपुत्र, यदि भवेत् परमार्थतो ऽसत्त्वम्, तदा निरर्थकं ब्रह्मचर्यम्᳚ इति यदुक्तं तत्किं नास्ति सत्?
SK
यद्येवमुच्येत तन्नैव युज्यते, यतो हि तत्प्रमाणभूतं परमार्थं को हि नाम त्यजेत् / अयं तावत् सूत्रार्थः - इयं हि पुद्गलधर्मनैरात्म्यलक्षणा तथतैव परमार्थशब्दवाच्या परमस्य ज्ञानस्य गोचरत्वात्,युक्तिमत्त्वाच्च सैव स्वयं परमेति / यदि तदप्यसत् स्यात्तदा यथा पुद्गलो धर्माश्च बालपृथग्जनेषु प्रसिद्धास्तथैव स्युः, तथा सति सर्वे जना अनायासेन आदित एव तत्त्वदर्शिनः स्युः, तत्त्वदर्शनार्थं च प्रयत्नो ऽपि निरर्थकः स्यादिति सुस्पष्टमेव / अतो नास्तीदं प्रमाणोपपन्नमिति /
SK
आर्यरत्नकूटसूत्रे तावतः ᳚काश्यप, वरं खलु सुमेरुमात्रा पुद्गलदृष्टिः, नाभिमानिकस्य शून्यतादृष्टिः᳚
SK
इति उअदुक्तं तेन कथं न विरोधः स्यादिति चेत्? तर्हि नास्ति विरोधः / ये खलु परमार्थसत् वस्त्वभ्युपगम्य पुनस्तस्यासत्त्वं परिकल्पयन्ति, एवञ्च येषां विनाशार्थं शून्यतादेशाना, तेषां रागादीनां सम्यक् सत्त्वमेवेति परिकल्पयन्ति, ते पूर्वं सत्त्वं परिकल्प्य पश्चात् तदसत्त्वं परिगृह्णन्ति / अतः सदसदन्तयोः पतितत्वात् ते अन्तद्वयरहितं सर्वप्रपञ्चपशमं शून्यतार्थं नैवाधिगच्छन्तीति ᳚अभिमानिनःऽ अत एव भगवन्तस्तथाविधाया दृष्टेर्निषेधेन परमार्थतः सदसत्सर्वप्रपञ्चजालविरहितस्य ज्ञानार्थं नियोजयन्तीति / अन्यैरपि सूत्रेः स्वयं भगवता एतन्निर्धार्यते / लङ्कावतारसूत्रे ऽपिः
SK
᳚द्वयनिश्रितो ऽयं महामते, लोको यदुत अस्तित्वनिश्रितश्च नास्तित्वनिश्रितश्च / भावाभावच्छन्ददृष्टिपतितश्च अनिःशरणे निःशरणबुद्धिः / तत्र महामते, कथमस्तित्वनिश्रितो लोकः? यदुत विद्यमानैर्हेतुप्रत्ययैर्लोक उत्पद्यते नाविद्यमनैः, विद्यमानं चोत्पद्यमानमुत्पद्यते नाविद्यमानम् / स चैवं ब्रुवन् महामते, भावानामस्तित्वहेतुप्रत्यानां लोकस्य च हेत्वस्तिवादी भवति / तत्र महामते, कथं नास्तित्वनिश्रितो भवति? यदुत रागद्वेषमोहाभ्युपगमं कृत्वा पुनरपि रागद्वेषमोहभावाभावं विकल्पयति / यश्च महामते, भावाब्नामस्तित्वं नाभ्युपैति भावलक्षणविविक्तत्वाद्, यश्च बुद्धश्रावकप्रत्येकबुद्धानां रागद्वेषमोहान्नाभ्युपैति भावलक्षणविनिर्मुक्तत्वाद् विद्यन्ते नेति / कतमो ऽत्र महामते, वैनाशिको भवति? महामतिराह - य एष भगवन् अभ्युपगम्य रागद्वेषमोहान् न पुनरभ्युपैति / भगवानाह - साधु, साधु महामते, साधु साधु पुनस्त्वं महामते, यस्त्वमेवं प्रभाषितः / केवलं महामते, न रागद्वेषमोहभावाभावाद् वैनाशिको भवति, बुद्धश्रावकप्रत्येकबुद्धवैनाशिको ऽपि भवति / इदं च महामते, सन्धायोक्तं मयावरं खलु सुमेरुमात्रा पुद्गलदृष्टिर्न त्वेव नास्त्यस्तित्वाभिमानिकस्य शून्यताद्षृष्टिः इति /
SK
अत एव भगवता ऽवस्तुवादिन एवाभिमानिनःऽ इत्युक्ताः / अतस्तत्रैवोक्तम् -
SK
अभुत्वा यस्य उत्पादो भूत्व वापि विनश्यति / प्रत्ययैः सदसच्चापि न ते शासने स्थिताः //
SK
यस्य नोत्पद्यते किञ्चिन्न च किञ्चिन्निरुध्यते / तस्यास्ति नास्ति नोपैति विविक्तं पश्यतो जगत् //
SK
द्वितीयपद्यार्थद्वारेण स्वमतं संस्थाप्य ऽपरिकल्पितस्वभावविविक्तत्वाद् विविक्तं जगदित्येव तावत् सूत्रार्थः, अतश्च नास्ति विरोधःऽ इत्यभिदधद्भिः कः परिकल्पितः स्वभावः इत्यभिधातव्यम् / अथ प्रमाणविरुद्धमपि यद् बालैः सत्यमिति गृह्यते तदिति चेत्? तदाशेषं जगत् परमार्थतो ऽनुत्पन्नमपि बालैर्यदुत्पत्त्यादिकं परमार्थतः सदित्यारोप्यते तद् वक्ष्यमाणप्रमाणैर्निषिद्धत्वात् संवृतिस्वभावमिति कस्मान्न गृह्यते / यद्येवं नास्ति? तदा यद्धि भगवताबाह्यार्थाः परिकल्पितस्वभावत्वाछून्याःऽ इति यदुक्तं तस्य परमार्थतो न सन्तीति व्याख्यानं कस्मान्न क्रियते? प्रमाणविरुद्धत्वात्तथा व्यख्यानं न कर्त्तव्यमिति चेत्? तदा विज्ञानस्यापि तथा व्याख्यानं न कर्तुव्यम्, बाहार्थवत् तस्यापि प्रमाणविरुद्धत्वात् /
SK
प्रमाणै कतिपयैर्यदि विज्ञानं वस्तुसत् सिध्यति तदा द्विविधमेव परिकल्पितम्, नान्यदिति सम्यग् व्याख्यातं भवेत्, किन्तु तदपि नैव सिध्यतीति निर्देष्टव्यम् / अतश्च जगदिदं यथोक्तपरिकल्पितस्वभावविविक्तमित्यस्माभिरप्यभ्युपेयत इति नास्ति सर्वथा दुरूहम् / अत एव आर्यसन्धिनिर्मोचनसूत्रे -
SK
᳚मैत्रेय, परतन्त्रपरिनिष्पन्नलक्षणयोः परिकल्पितसंक्लेशव्यवदानलक्षणं यच्चात्यन्तविविक्तं तन्नालम्बनीक्रियते, सर्वशून्यतालक्षणत्वात्तस्यऽ इति यदुक्तं तदप्यनेन निराकृतं भवति᳚ इत्युक्तम् /
SK
तत्रापि रागादयो ये संक्लेशात्मकसंवृतिस्वभावानां परतन्त्रलक्षणानां सम्यक्तया संक्लिष्टकरणेन संसारे नियोजनेन प्रतिपक्षे च यथाक्रमं विध्यनभूताभूतत्वादिना चारोप्यन्ते, ते तेषां कृते परिकल्पितलक्षणान्येव / योगिसंवृतौ अविपर्यस्तपरिनिष्पत्त्या तावत् परिनिष्पन्नलक्षणम् / अतः परिनिष्पन्नलक्षणयुक्तानि बोधिपक्षानुकूलव्यवदानान्यपि विपक्षात्यन्तप्रतिघातरुपेण परिनिर्वाणे च नियोजनादिना सम्यक्तया वस्तुधर्मतायामारोपितानि, तान्यपि तेषां परिकल्पितलक्षणमेव / यश्च धर्मधातुः प्रकृतिप्रभास्वरस्तस्मिन्नसम्भवः परमार्थतः संक्लेशादीनाम् / अतः परिकल्पितधर्मत्वात् तयोः स्वभावयोः संक्लेशव्यवदाधर्मत्वमसम्भवमेव / संक्लेशव्यवदानपक्षसर्वधर्माणां परमार्थतो ऽनुत्पादे हि एकरसीभूतत्वेन नानाकरणमयुक्तम् / अतो द्वावपि सम्यग्रुपेण शून्यावेव / तथ्यसंवृतौ तु द्वयोरपि भावात् संक्लेशब्यदानपक्षयोरभावादोषो ऽपि न खलु प्रसज्यते /
SK
आर्यसार्धद्विसाहस्रिकासूत्रे -
SK
᳚न हि सुविक्रान्तविक्रामिन् रूपं रागधर्मि वा विरागधर्मि वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं रागधर्मि वा विरागधर्मि वा / या च रूपवेदनासंज्ञासंकारविज्ञानानां न रागधर्मता नापि विरागधर्मता इयं प्रज्ञापारमिता / न हि सुविक्रान्तविक्रामिन् एवं द्वेषधर्म वा अद्वेषधर्मि वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं द्वेषधर्मि वा अद्वेषधर्मि वा / या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न द्वेषधर्मता नापि विगतद्वेषधर्मता इयं प्रज्ञापारमिता / न हि सुविक्रान्तविक्रामिन् रूपं मोहधर्मि वा विगतमोहधर्मि वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं मोहधर्मि वा विगतमोहधर्मि वा / या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न मोहधर्मता नापि विगतमोहधर्मता इयं प्रज्ञापारमिता / न हि सुविक्रान्तविक्रामिन् रूपं संक्लिश्यते वा व्यवदायते वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं संक्लिश्यते वा व्यवदायते वा / या च रूपवेदनासंज्ञासंस्कारविज्ञानानाम् असंक्लेशता अव्यवदानता इयमुच्यते प्रज्ञापारमिता᳚ / इत्युक्तम् /
SK
आर्यसत्यद्वयनिर्देशसूत्रे ऽपि -
SK
᳚कतमया पुनर्मञ्जुश्रीः समतया यावत् परमार्थतो यत्समं व्यवदानं तत्समाः सर्वधर्माः परमार्थत इति?
SK
मञ्जुश्रीराह - देवपुत्र, परमार्थतः सर्वधर्मानुत्पादसमतया परमार्थतः सर्वधर्मात्यन्ताजातिसमतया परमार्थतः सर्वधर्माभावसमतया परमार्थतः समाः सर्वधर्माः᳚ इत्युक्तम् /
SK
आर्यसर्वबुद्धविषयावतारज्ञानालोकालङ्कारसूत्रे च -
SK
᳚संक्षेपतो हि सर्वे ऽकुशलमनस्कारास्तावत् संक्लेशहेतवो भवन्ति, सर्वे च कुशलमनस्कारा व्यवदानहेतव इति / तत्र ये चापि संक्लेशहेतवो वा व्यवदानहेतवो वा धर्मास्ते सर्वे स्वभावतः शून्याः, निःसत्त्वनिर्जीवनिःपुद्गलनिरात्मकमायावन्निःस्वलक्षणत्वेभ्यः / अतस्ते अन्तःशाअन्ताः, ये अन्तःशान्तास्ते प्रशान्ताः, ये प्रशान्तास्ते तावत्तत्प्रकृतिकाः, ये खलु तत्प्रकृकास्ते नोपलभ्यन्ते, ये नोपलभ्यन्ते ते नैवोपतिष्ठन्ते, ये नोपतिष्ठन्ते त एव तावदाकाशम्, आकाशं चाभ्यवकाशः / सर्वधर्मान् आकाशसमान् विज्ञायापि संक्लेशः व्यवदानं चेति व्यवहियेते आकाशधर्मता चापि नापनीयते / कथमिदमिति चेत्? मञ्जुश्रीः, जातिनिरोधधर्मवान् न को ऽपि धर्मो भवति᳚ इत्युक्तम् /
SK
यदि पुनः परिकल्पितलक्षणशून्यः को ऽपि धर्मः स्यात् तदास्मिन्नेव सूत्रे -
SK
᳚मञ्जुश्रीः, अद्वया, सर्वे धर्माः, अर्थान्निःस्वलक्षणा अद्वैधीकारा अनामिका अनिमित्ता अमनश्चित्तविज्ञाप्तिका अनुत्पन्ना अनिरुद्धा अहेतुका असञ्चारा असनुदाचारा अनक्षरा अनिर्घोषस्वराः सन्ति᳚ /
SK
इति यदुक्तम्, अपि च -
SK
᳚मञ्जुश्रीः, यच्छून्यं तदभिनिवेशग्रहणाभावस्यैवैतदधिवचनम्, मञ्जुश्रीः, नोपलभ्यते परमार्थतः कश्चन शून्यताख्यो धर्मः᳚ /
SK
इति च यदुक्तम्,तद् विरुध्यते /
SK
यद्येवं तदा आर्यसन्धिनिर्मोचनसूत्रे -
SK
᳚अभिलापस्तावन्नास्ति असद्भूतो भावः / तत्र को हि नाम भाव इति चेत्? यः खल्यवार्यज्ञानेन आर्यदर्शनेन चानिर्वचनीयतायामवबुध्यते, स एव तदनिर्वचनीयतायामवबुद्धत्वद् असंस्कृतनाम्ना केवलं व्यवहियते᳚ / इत्यादिकं यदुक्तम्, तथा भगवत्प्रवचनेषु च यदार्यज्ञानगोचरं प्रत्यात्मवेदनीयं तद् भावस्वभावेन सदिति निर्दिष्टम्, तत्कथं सम्भवेदिति चेत्? न विरोधः / अत्रार्यज्ञानगोचराणां सर्वधर्माणां यो हि नैरात्म्यलक्षणो धर्मधतुः स एव भावशब्देन विवक्षया वस्त्वभिनिवेशशालिनां भयस्थानं परिहर्तुकामेन तथा देशितम् / अथवा आर्यज्ञानानि सर्वे च धर्माः तथतापन्नाः, अतो वस्तुशब्दाश्रयप्रतिपिपादयिषया धर्मधातुवाभिहितः स्यादिति / भगवद्भित्रपि विनेयजनाशयानुरोधेन तावत् सा धर्मतैव विविधैरुपायैरुपदिष्टा /
SK
आर्यलङ्कावतारसूत्रे - ᳚महामते, पदार्थानां तथागतगर्भोपदेशं कृत्वा तथागता अर्हन्तः सम्यक्सम्बुद्धा बालानां नैरात्म्यसन्त्रासपदविवर्जनार्थं निर्विकल्पनिराभासगोचरं तथागतर्भखोपदेशेन देशयन्ति / तद्यथा महामते, कुम्भकार एकस्मान्मृत्परमाणुराशेर्विवधानि भाण्डानि करोति हस्तशिल्पदण्डोदकसूत्रप्रयत्नप्रयोगाद्, एवमेव महामते, तथागतास्तदेव धर्मनैरात्यं सर्वविकल्पलक्षणविनिवृत्तं विविधैः प्रज्ञोपायकौशल्ययोगैर्र्गर्भोपदेशेन वा नैराम्योपदेशेन वा कुम्भकारवच्चित्रैः पदव्यञ्चनपर्यायैर्देशयन्ते᳚ /
SK
तथातापियं सर्वथा वाच्यापि व्यवहारवशेन अशेषसंस्कृतधर्मता, अतः संकृतेति नाम्ना व्यवहियते / उत्पादाद् वा तथागतानामनुत्पादाद् वा तथागतनां सर्वकालेषु स्थितत्वाद् असंस्कृतेति नाम्नापि व्यपदिष्टा / तथता तावत् सर्वस्वभावातीतलक्षणा, अतो नान्त्युभयस्वभावापीत्थमेवावबुध्यते / अन्यथा भवत्सम्मतम् असंस्कृतस्त्वपि तत् कथं भवेत् / यतो हि [भवता] तदसंस्कृतं वस्त्वित्यप्यभिधीयते, संस्कृतमेव वस्त्वित्यपि चाभिधीयते /
SK
आर्यरत्नकरसूत्रे ऽप्युक्तम् -
SK
वदन्ति ये वै तथतामसंकृतां तथैव चान्ये कृतकां यतस्ताम् / नोत्साहवन्तो ह्युभये भवन्ति धर्मस्य ज्ञाने सुगतोपदिष्टे //
SK
अतस्तदित्थं संस्कृतासंस्कृतयोर्वस्तुत्वग्राहस्तावद् अन्तग्राह इति अथवा श्रावकप्रत्येकबुद्धनां यद् गोचरं तत्स्वलक्षणं वस्तित्वत्यभ्युपगच्छातां बालानां केवलं सन्त्रासपदविवर्जनार्थमेव आर्यज्ञानगोचरं वस्तुसदित्यभिहितम् / बुद्धबोधिअत्त्वानाम् अत्यन्तलोकोत्तरज्ञानस्य विषयस्तु पारमार्थिकं वस्तुस्वलक्षणं सर्वथासत्, सर्वधर्मानुत्पादानिरोधविषयकत्वात् सदसत्पक्षविरहितमेव तदिति / सूत्रे ऽउपुक्तम् - ᳚किं लोकोत्तरज्ञानम्? श्रावकप्रत्येकबुद्धानां स्वसामान्यलक्षणपतिताशयानां यो ह्यभिनिवेशः / किमत्यन्तलोकोत्तरज्ञानम्? बुद्धबोधिसत्त्वानां निराभासधर्प्रविचयेन अनुत्पादानिरोधदर्शनात् सदसत्यक्षविवर्जितं तदिति /᳚
SK
श्रावकादयस्तावत् तथ्यसंवृतिसंगृहीतं स्कन्धमात्रं स्वसामान्यलक्षणाकरेण भावयन्ति, अतः पुद्गलनैरात्म्यमात्रगृहीतत्वात्तेषां तज्ज्ञानं वस्तुविषयकमिति व्यवह्रियते, न तु परमार्थतया /
SK
यदि बुद्धबोधिसत्त्वानां ज्ञानस्य विषयः परमार्थलक्षणेन सहैकीभूतं तदा कथं तज्ज्ञानं सत्पक्षविवर्जितं स्यात्? अत एव हि बालानां सन्त्रासपदविवर्जनार्थम् आर्यज्ञानगोचरं वस्तुसदित्युपदिष्टम्, न तु परमार्थतो वस्तु स्वलक्षणसदिति कथनार्थम् / यद्येवं नास्ति, तदा बुद्धां बोधिसत्त्वाश्च सद्विकल्पसम्बद्धा न भवन्तीति? यथा बालानां सन्त्राअपदविवर्जनार्थमित्युक्तम्, न तु परमार्थतो वस्तुसदिति प्रतिपादनार्थम्, तथा भगवतापि सूत्रान्तरेषु देशितम्, तथा हि आर्यकङ्कावतारसूत्रे - ᳚किमिदं भगवन् सत्त्वानां त्वया नास्त्यसिदृष्टिं विनिवार्य वस्तुस्वभावाभिनिवेशेन आर्यज्ञानगोचरविषाअभिनिवेशान्नास्तित्वदृष्टिः पुनर्नास्तित्वदृष्टिः पुनर्निपात्यते, विविक्तधर्मोपदेशाभावश्च क्रियते आर्यज्ञानस्वभाववस्तुदेशनया? भगवानाह - न मया महमते, विविक्तधर्मोपदेशाभावः क्रियते, न च न चास्तीत्वदृष्टिर्निपात्यते आर्यवस्तुस्वभावनिर्देशेनः किन्तु उत्त्रासपदविवार्जनार्थं सत्त्वानां महामते, मया अनादिकालभावस्वभावलक्षणाभिनिविष्टानामार्यज्ञानवस्तुस्वभावाभिनिवेशालक्षणदृष्ट्या विविक्तधर्मोपदेशः क्रियते, न मया माहमते, भावस्वभावोपदेशः क्रियते / किं तु महामते स्वयमेवाधिगतयाथातथ्यविविक्तधर्मविहारिणो भविष्यन्ति᳚ - इति विस्तरः / अतो यदार्यज्ञानगोचरविषयो वस्तुस्वलक्षणत्वेन निर्दिष्ट निर्दिष्टः स तावद् भगवत उपायेनैव देशनामात्रम् / अतो भगवतो ऽसन्दिग्धं प्रवचननयमनुपादाय ते मिथ्या [मोषधर्मकं] वस्तुस्वभावत्वेन विकल्पयन्ति / ते तावाभिमानिनो भगवन्तमपि अपवाद्य स्वयं विनश्यन्ति परांश्चापि नाशयन्ति / एवमित्थमस्निन्नेव सूत्रे वस्तुसभावाभिनिवेशिनः आत्मग्राहगृहीतत्वान्न मुक्ता भविष्यन्तीत्येवं समुपदिष्टम् - ᳚पुनरपरं महामते, प्रमाणत्रयावयवप्रत्यवस्थानं कृत्या आर्यज्ञानप्रत्यात्माधिगम्यं स्वभावद्वयविनिर्मुक्तं वस्तु स्वभावतो विद्यत इति विकल्पयिष्यन्ति / न च महामते, चित्तमनो मनोविज्ञानचित्तपरावृत्त्याश्रयाणां स्वचित्तदृश्यग्राह्यग्राहकविकल्पप्रहीणानां तथागतभूमिप्रत्यात्मार्यज्ञानगतानं योगिनां भावाभावसंज्ञा प्रवर्तते, स एवैषामात्मग्राहः पोषग्राहः पुरुषग्राहः पुद्गलग्राहः स्यात्᳚ / अपि च, यदि परमार्थतः स्यात् किमपि वस्तुसत् तदा तदवश्यं नित्यं वा अनित्यं वा स्याद्, अपरायाः कोटेरभावात् / तस्मिन् वस्तूनि नित्यानित्यत्वचिन्तया प्रवृत्ता या प्रज्ञा, सा वस्तुनो यथास्वभावज्ञानानुकूलतया सम्यक् प्रज्ञैव, न तु प्रज्ञापारमितेव प्रतिवर्णिका / अत एव तथागतेन प्रज्ञापारमितायां यदुक्तं तेनापि विरोधः स्यात् / तथा हि - ᳚कौशिक, ये कुलपुत्राः कुलदुहितारो वा यदा प्रज्ञापारमितामुपदिशन्ति तदा प्रज्ञापारमितावदेवोपदिशन्ति / तत्र ते प्रज्ञापारमितेव कुर्वन्ति / यतो हि रूपमनित्यमित्युपदिशन्ति, तथैव दुःखतां निरात्मतामशुचितां चोपदिशन्ति / एवमेव वेदना संज्ञा संस्कारा विज्ञानं स्कन्धा धातव आयतनानि ध्यानाप्रमाणारुपानुस्मृतिसत्म्यक्प्रहाणार्द्धिपादेन्द्रियबलबोध्यङ्गानि तथागतस्य दशबलवैशारद्यप्रतिसंविदावेणीका बुद्धधर्माः सर्वाकारज्ञता चेति सर्वं दुःखमनात्मकशुचीत्युपदिशन्ति / एवमेव यदाचरन्ति तदपि प्रज्ञापारमितायामेवाचरन्ति / कौशिक, तत् प्रज्ञापारमितावदेव कुर्वन्ति / तत्र ये प्रज्ञापारमितावन्न कौर्वन्ति तत्कथमिति चेत्? ते इत्थुमुपदिशन्तिकुलपुत्राः, अत्रागच्छथ, प्रज्ञापारमिताभावनायं रूपमनित्यमिति मानुपश्यथ, सर्वाकारज्ञतापर्यन्तं दुःखतां निरात्मकतामशुचितां च मानुपपश्यथ / यथो हि रूपमितिस्वभावतः शून्यम्, रूपस्य यो ऽपि स्वभावः, स [सर्वथा] असन् / यच्चासत् सैव प्रज्ञापारमिता / तस्यां नित्यमनित्यमिति नोपलभ्यते / यतश्च यत्ररूपमेव नास्ति तत्र कुतो नित्यमनित्यं वाआअ? सर्वाकारज्ञतापर्यतन्तमित्थमेव / एवं ये ह्युपदिशन्ति ते प्रज्ञापारमितावन्नोपदिशन्ति /
SK
अपित्वेवमुपदेष्टव्यम् - कुलपुत्राः, अत्रागच्छथ, प्रज्ञापारमितां भावयथ मा च कमपि धर्मं समतिक्रमथ, मा च कस्मित्रपि धर्मे तिष्ठथ / तत् किमर्थमिति चेत्? प्रज्ञापारमितायां नास्ति को ऽम धर्मः, यः समतिक्रमितव्यः, यत्र वा स्थातव्यमिति / यतो हि सर्वे धर्मा स्वभावतः शून्याः / ये स्वभावतः शून्यता ते ऽसन्तः, सैव प्रज्ञापारमिता / या च प्रज्ञापारमिता, तस्यां न को ऽपि ग्राह्यो हेय उत्याद्यो निरोध्यश्चेति / यद्येवमुपदिशन्ति तदा प्रġयापारमितावदेवोपदिशन्ति / अतः सर्वे वस्तुवादिनस्तावद् धर्मतथतां विपरीततया निर्दिशन्त्यतः [तन्निर्देशः] प्रज्ञापारमितोपदेश इव प्रतिवर्णिक एव / सर्वधर्मनिःस्वभावतावादिनस्त्वविपरीततया निर्दिशन्त्यतः सोपत्तिका एव त इति भगवता सुस्पष्टं निर्दिष्टम् / इत्येवं भगवान् तत्तत्सूत्रे ऽनेकशो ऽशेषधर्मन् निःस्वभावत्वेनैवोपदिष्टवान् / विस्तरभिया [अस्माभिः] न बहुन्यपितु कतपयान्येवात्रोद्धृतानि / अत एव भगवता तावदसन्दिग्धं सम्यक्प्रवचननयमवधाअयितुमशक्नुवतां ऽनैव तावदागमद्वर सर्वे धर्मा निःस्वभावत्वेन साधयितुं शक्याःऽ इत्यभिदधतां प्रतिविधानमनुष्ठितम् / तत्र यद्यल्पमतितया एवंविधं गम्भीरधर्मतां नाधिमोक्तुं पारयन्ति तथापि सविकल्पमात्मनो मन्दप्रज्ञत्वदोसमवलोकयद्भिस्तत्परित्यागो नैव युज्यते / आत्मानं विनाश्य परेषामपि महार्थविरहं कृत्वा प्रणाशो नैव समीचीनः / एवं हि सति स्वपरद्रोह एव स स्यात् / अतः प्रज्ञावन्तः श्रद्धावन्तश्च गम्भिरधर्मपरित्यादगृष्टिं परिवर्ज्य भगवन्तं प्रमाणीकृत्य आत्मनो ऽज्ञानदोषकारणात् तदपरिज्ञानं सम्भाव्यत इति विचार्य गम्भीरसूत्रेषु श्रद्धामुत्पाद्य श्रवणचिन्ताभावनादिषु योगं कुर्युः, परांश्चापि सम्यक् तदधिगन्तुमवतारयेयुः, स्वयं च तदधिमोक्तुं प्रणिदध्युरिति / अत एव आर्यरत्नकूटसूत्रे प्रोक्तम् - ᳚ये ऽस्य गम्भीरधर्मस्य गाम्भीर्य प्रज्ञया अवबोद्धुमशक्नुवानास्ते तथागतमेव प्रमाणं कुर्वन्ति, अनन्ता बुद्धोबोधिरिति कृत्वा / यतश्च विविधाधिमोक्षानुसारं तथागता एव धर्मोपदेशे प्रवर्तन्ते, अतस्तथागता एव जानन्ति / नास्मादृशैर्ज्ञातुं शक्यत इति विचार्य तत्परित्यागो नैव युक्तरूपः᳚ /
SK
इत्युवमागममुखेन सर्वे धर्मा निःस्वभावा एवेति सिद्धा भवन्ति /
SK
४८ [३] ये ऽपि तावदुत्पत्त्यादिविभागं द्वयाभासिना ज्ञानेनैव कुर्वन्ति, न तु स्वसंवित्तिमात्रेण, ते द्वयाभासस्य मिथ्यात्वेन तद्व्यवस्थापितः स्वभावो ऽपि मिथैवेत्यभिदधते / तानधिकृत्येदानीमुच्यते -
SK
यदि सर्वधर्माणामुत्पादादिधर्मता मिथ्याज्ञानावभासितत्वेन व्यवस्थाप्यते, तदा कथं सा परमार्थसती भवेत्? द्वयाभासो ऽपि यदि मिथ्यैव तदा कतज्ज्ञानरूपमवशिष्यते यत् खलु परमार्थसद् भवेत्? अन्यत्तद् विज्ञानं ग्राहकाकाररहितं तदर्वाग्दर्शिभिः नानुभवितुं युज्यते, सर्वेषां सर्वदर्शित्वप्रसङ्गात् / नानुमानेनापि निश्चेतुं शक्यम्, तथाविधहेतोरेवभावात् / तत्र न तावत् स्वभावहेतुकमनुमानं सम्भाव्यते, तत्स्वभावस्यैव साध्यत्वात् / न च कार्यहेतुरपि, यतो हि कामं स्यात्तदद्वयविरुद्धं तथापि तेन कार्यकारणभाव एव न सिद्धः, इन्द्रियानुभवातीततत्वात् / न चैतद्वयतिरिक्तमन्यत् कार्यं विद्यते, तथा सति भवन्मतेनाद्वयमेव कार्यं स्यात्, किन्तु साध्यावस्थापन्नत्वान्नैव तत् प्रमाणैः प्रसिध्यति / यो हि द्वयाभासः, स तावद् शशशृङ्गवन्नैव कार्यम् / अतश्च प्रत्यक्षानुपलम्भाभ्यां साध्यभूतस्य कार्यकारणभावस्य सिद्धये परमार्थे ऽद्वयज्ञानेन गृह्यमाणं किमपि नास्ति / अनुपलब्धेरपि प्रतिषेधसाधनत्वान्न भवति सा सत्त्वसिद्धिसाधिका / यथोच्यते कैश्चित् - यो हि यत्स्वभावविरुद्धः स तत्स्वभावविविक्तः, यथा शीतस्वभावविरुद्धमुष्णत्वं शीतस्वभावविविक्तम्, तथा च प्रतीतिष्वभावो धर्मी, द्वयस्वभावविरुद्धत्वात्, व्यापकविरुद्धोपलब्धेः / न चापि हेतोराश्रयासिद्धिः साअमान्यसुखदुःखाकारवेदकस्य धर्मिणो ज्ञानाख्यप्रतीतिस्वभावेन सिद्धत्वात् / न च स्वभावो ऽप्यसिद्धः, ग्राह्याकारस्य एकानेकस्वभाववियोगेन असत्त्वे तदाश्रितः परिकल्पितो ग्राहकाकारो ऽपि निःस्वभाव एव / न चापि सर्वाभावप्रसङ्गः, केवलेन कर्तुकर्मस्वभावेन कल्पितत्वान्मिथ्यैव / नैवात्मना आत्मत्वमित्यपि युज्यते / यदि सामान्येन परमार्थतो द्वयविविक्तस्त्वं साधयितुमिष्यते तदा सिद्धसाधनमेव, यतो हि वयमपि परमार्थतो द्वयस्य मिथ्यात्वाद् विविक्तत्वमेवाभ्युपगच्छामः / यदि ह्यभावस्वभावः खलु परमार्थत आकारविरहितविज्ञानत्वेन साधयितुमिष्यते, तदापि सिद्धसाधनमेव, यतो हि वयमपि परमार्थतः सर्वधर्माणामनुत्पन्नत्वात् सर्वविज्ञानानि तावत् परमार्थतो ऽसिद्धानि द्वयाकारसुवियुक्तानीत्यभ्युपगच्छामः /
SK
यदि विज्ञानाख्यं धर्मिणं द्वयवियुक्तत्वेन वस्तुसत्त्वेन च साधयितुमिष्यते तदा दृष्टान्तवयासिद्धत्वादनैकान्तिकत्त्वं हेतोः, बाह्यार्थस्वभावानां शीतोष्णीदीनां सम्यगसिद्धत्वात् / एकस्मिन्नेव ज्ञाने ज्ञानतदवभासयोरवभासितत्वेन अविरोधो ऽपि स्यादतः साध्यविकलं दृष्टान्तमपि स्यादिति / यदि विज्ञानं द्वयवियुक्तं सिध्यति तदा तद्बलेन स्वभावसत्त्वमपि सिध्यतीति चेत्? दुर्मतिरेषा, सम्बन्धाभावात् / यद्धि द्वयवियुक्तं तदवश्यं सम्यग् वस्तुसदिति को ह्यत्र सम्बन्धः? यतो हि यदि तन्निवर्तते तदानर्थोपसंहितं प्रमाणमपि निवर्तते / अपि च, तथाविधदृष्टान्तो ऽप्यसिद्धः / वन्ध्यापुत्रादिभिस्तेन द्वयेन चाप्यनैकान्तिकः / तस्मिन् द्वये नान्यद् द्वयमपि सम्भाव्यते, अनवस्थाप्रसङ्गात् / शीतादिस्पर्शवियुक्तानामूष्मादीनां स्वभाववत् द्वयस्वभावातिरिक्तः तद्वियुक्तस्वभावत्वेन सिद्धः प्रतीतिस्वभावभिन्नस्तत्समानस्वभावः कश्चिदपि धर्मी नास्त्येव, द्वयात्मकस्यैव प्रतीतिस्वभावत्वात् / एवं हि अन्यव्यक्तिनिरपेक्षः सन् यश्च स्वयमेवात्मनाभिव्यज्यते, स प्रतीतिलक्षणः / कायभूमिपर्वतनदी सागरादयो विविधाकारा ये पुगतो ऽवभासमाना बाह्यार्थास्ते स्वयमेवात्मना अभिव्यज्यमानत्वात् प्रतीतिस्वभावातिक्रान्ता एव प्रवर्तन्ते /
SK
एवमपि ये मिथ्यत्मना कुलेषु गृहेषु च प्रवृत्तिमाचरन्ति, तेषां स्वकायोपगूढदयितया प्रतीतिस्वभावालिङ्गनमिव आचरणाद् असद्द्वयसमायोगो ऽयं दूषितत्वान्न विश्वासयोग्यः / तथा च द्वयस्वभावात्मकात् प्रियतमाद् वियोगे सति किमिव नान्येन सह समायोगः स्यादतः केवलमस्यैव धर्मित्वावस्था नैवोपपद्यते / फलतश्च आश्रयासिद्ध एवायं हेतुः /
SK
सौत्रान्तिकादयो ऽपि ज्ञानं परमार्थतो द्वयस्वभावं नाङ्गिकुर्वन्ति, अंशाभावेन विरोधात् / अतस्तस्याद्वयस्वभावसिद्ध्या कस्य सिद्धिः, बाह्यार्थानामपि तदविरुद्धत्वात् /
SK
ये ऽन्यैः प्रमाणैर्बाह्यार्था निराक्रियन्त इति ब्रुवते, तेषां ज्ञानमपि किन्न तथा / ये तावत् कर्तृकर्मभावापेक्षया प्रज्ञप्तत्वान्मिथ्यैवेति कथयन्ति, तदप्यनुभावविपरीतमिति /
SK
भवन्तो ऽपि विज्ञानं परमार्थतो ऽद्वयाकारमेवाभ्युपगच्छन्ति / तथा सति ये नीलादिविविधचित्ताकारा बाह्यार्थत्वेन विज्ञाने ऽवभासन्ते ते कर्मकर्तृव्यवहारानभिज्ञैः कल्पनादोषविनिर्मुक्ते चित्ते स्पष्टतो ऽनुभूता भविष्यन्तीति / विविधवस्तुविशेषापेक्षया त उपलक्ष्यन्त इति चेत्? तस्य तावद् विशेषस्य बालपर्यन्तं नास्ति सुस्पष्टावबोधः / यदि नियतदेशकालावस्थितस्य तस्याकारराशेः तथाविधस्पष्टावभासतो भिन्नानुभवो मिथ्यैवेति भवन्तः स्वीर्कुन्ति तदा विमिक्तिकांक्षिणो भवन्तः तिरोभूतद्वयस्वभावरहितात्मकं प्रतीतिस्वभावं विविक्तस्वभावत्वेनाभिनिविश्य आसक्ता एवेति किमन्यत् / तदेतदल्पीयसश्छिद्रान्निर्गते ऽपि विपुलकाये हस्तिनि तत्पुच्छावरोधवच्चिरकालं विदुषामाश्चर्याद्भुतमेवेति / अतश्च स्वतीक्ष्णप्रज्ञाखड्गेन तामासक्तिं छित्त्वा कश्चन तादात्म्यलक्षणो वा तदुत्पत्तिक्षणो वा सम्म्बन्धः सत्यासत्ययोरन्योपरिहारस्थितलक्षणत्वात् तादार्म्यविरोधः असतो ऽपि न कुतश्चिदप्युत्पत्तिभ्युपेयते / उत्पत्तौ सत्यामपि न युगपत्तादात्म्येनावभासो युज्यते, कार्यकारणयोः कालस्वभावाभ्यां भिन्नत्वात् / असम्बद्धो नियतावभासो ऽपि न युज्यते, अतिप्रसङ्गात् / इत्येवमवश्यं कल्पनाभिन्नस्य असत्स्वभावाकारावभासस्य स्वीकारणात् तल्लक्षणान्वित एवाभ्युपगन्तव्यः / अत उभावपि मिथ्यैव भवतः / यद्येवं न स्यात् कथं नाम मिथ्याकारकल्पनास्वभावोयोस्तादात्म्येनानुभवो जायेत / अतश्च सत्याभिवेशपाशमुत्खातमुलं कुरुत / भगवतापि तावदुक्तम् - ᳚यो हि धर्मस्तथागतेनाभिसम्बुद्धः, स न सत्यं नापि मृषा᳚ इति /
SK
[४] तदपि युक्तिभिरपि [साधयितु] नैव शक्यते / एवं कतिपयैः प्रत्यक्षैः ऽसर्वे धर्मा विविक्ताऽ इति ज्ञातुमशक्यत्वत् / वस्त्वेव तेषां विषय इत्यभिदधानास्तावत् प्रष्टव्या किं सर्वेसां पुरुषाणां यानि प्रत्यक्षाणि तानि सर्वधर्मनैरात्म्यं नावबोद्धौं समर्थानि उताहो घनाज्ञनतिमिरोपहतमतियनानां भवदृशानां प्रत्यक्षाणि नावबोद्धुमिति / तत्र प्रथमस्तावत् पक्षो नैव युज्यते, प्रमाणाभावात् / सर्वेषां पुरुषाणां प्रत्यक्षाणि न प्रवर्तन्त इति निश्चायकस्य प्रमाणस्याभावात् /
SK
स्वालम्बननिवृत्तिमात्रं तावद् भ्रान्तमेव / यदि तदुपलब्धिलक्षणप्राप्तस्यानुपलब्धिरेवासत्त्वेन साध्यते / तदा यतो हि कारणात् स्वेनानुपलम्भः, तस्मिन् अप्रवृत्तिज्ञानां सर्वेषां स्त्रीपुरुसाणां चित्तसन्ततौ प्रवर्तमाना या चित्तप्रवृतिः सा तावान्नैव अर्वाग्दर्शिनामुपलब्धिलक्षणप्राप्ताः, अपरेषां हि निवृत्त्युपलब्धिरप्यनियता / अतः प्रेक्षावतां प्रत्यक्षेण तज्ज्ञानं नैव भवतीति यदुक्तं तन्न युक्तमिति /
SK
अथ द्वितीयः पक्षस्तदा सिद्धसाधनमेव / वयमपि हि अर्वाग्दर्शिभिस्तथाविधस्य तावद् गम्भीरधर्मतत्त्वस्य प्रत्यक्षतो दर्शनं नैव मन्यामहे / यद्यपि भवादृशाः खलु तथाविधतत्वावबोधे ऽसमर्थास्तथापि परमयोगिनः, ये कल्पैरनेकैरप्रमेयपुण्यग्ज्ञानसम्भारार्जनं कृत्वा अनुरूपकृत्स्नोपायसमन्विताः भूतार्थभावनाप्रकर्षपर्यन्तजम्यज्ञानप्रभाभिर्निरस्तसमस्तावरणान्धकारास्तेषं प्रत्यक्षेण तावत् सर्वधर्मनैरात्म्यबोधो भवत्येवेति कस्मात्र सम्भवति / [विषयम्] अमुमधिकृत्य पश्चाद् युक्तिरपि प्रदर्शयिष्यते /
SK
वस्तुविषयकाणि प्रत्यक्षाणीति यदुच्यते नैव सिध्यति / एवमर्वाग्दर्शिनां यानि प्रत्यक्षाणि तानि तिमिरोपहतप्रत्यक्षवद् रुपादिमिथ्याविषयकत्वाद् वस्तुस्वभावविषयत्वेन सम्यग्विषयत्वेन वा तावन्नैव युज्यन्ते, अन्यथा सर्वेषां खलु तत्त्वदर्शित्वप्रसङ्गः / बुद्धानां बोधिसत्त्वानां महायोगिनां चापि ज्ञानानि नैव तावद् वस्तुविषयकत्वेन प्रसिध्यन्ति, यस्मान्न तैः कश्चनापि अविपरीतो वस्तुस्वभावः परिदृष्टः / आर्यबोधिसत्त्वसूत्रपिटके ऽउयुक्तम् -
SK
यदुत सर्वे तैर्धर्मा निस्वभावाः अनिरुद्धाः प्रकृत्योपशान्ताः अत्यन्तमजाताः अत्यन्तमभूताः अत्यन्तपरिनिर्वृता एव दृष्टाः / तैस्तावद् येन दृष्टं तदप्यनिदर्शनमविदर्शनं च, यतो हि तत् सम्यग्दर्शनं यथावद् येन दृष्टं तदप्यनिर्दर्शनमविदर्शनं च, यतो हि तत् सम्यग्दर्शनं यथावद् दर्शनं चेति / किं पुनः सर्वधर्माणां यथावद् दर्शनमिति चेत्? तदेव यदनिदर्शनमिति /
SK
आर्यधर्मसङ्गीतौ नाम सूत्रे ऽप्युक्तम् -
SK
᳚सर्वधर्माणादर्शनमेव परमम् दर्शनम्᳚ / इति / अतः प्रत्यक्षविषयाणां सम्यग्वस्तुत्वं न सिध्यति /
SK
यद्धि असद् भवति वस्तु, तन्न कथमपि विज्ञानमुत्पादयितुं क्षममिति यदुच्यते, तदपि नैव युज्यते / अस्माभिरपि तावद् शशशृङ्गसमेभ्यो ऽवस्तुभ्यः प्रत्यक्षज्ञानोत्पादो नैवाभ्युपगभ्यते / तथापि महायोगिनः, ये मरीचिप्रतिशब्दनिभान् सर्वधर्मान् यथावद् भावयन्ति, तेषु सम्यगर्थभावनाबलेन प्रान्तकोटिकध्यानावाप्तितो ऽनुत्तराचिन्त्यप्रभावसम्पन्नतया तत्प्रत्यक्षेषु सर्वधर्मनैरात्म्यज्ञानं भवत्येव, अशेषधर्मनैरात्म्साक्षात्कारि सुस्पष्टं तावज्ज्ञानमुदेत्येव / अत एव तत् तत्त्वादर्शनमित्यभिधीयते, न तु निषेध्यस्वभावस्यासत्त्वमिति /
SK
अथ यत्तावत् प्रत्यक्षं तत् सस्वभावमिति यदुक्तं तत् सर्वेषां धर्माणामनुत्पादैकरसत्वत् प्रत्यक्षमपि परमार्थतो निःस्वभावमेव, तथापि या संवृतिसत्याश्रिता प्रत्यक्षव्यवस्था सा सर्वा तावदव्याहयैव / सर्वेषां धर्माणां परमार्थतो निःस्वभावत्वे ऽपि माध्यकाः सर्वव्यवहाराणां व्यावहारिकाणां योगिज्ञानानामपरेषां पृथग्जनज्ञानानाम् आर्यपुद्गलादीनां ये हेतवस्तातान्नैव नाभ्युपगच्छन्ति, किन्तुं ये तावत् संवृतितो ऽप्यहेतुकास्ते खलु व्यवहारतो ऽप्यनुत्पन्ना एव, शशशृङ्गवत् / यत् सत् तत् परमार्थतो निःस्वभावमपि तावदुत्पद्यते, मायाप्रतिबिन्बादिवत् / मायादीनां सर्वेषां प्रतीत्यसमुत्पन्नत्वे ऽपि नास्ति वस्तुताप्रसङ्गः, साधकबाधकप्रमाणबाधितत्वात् /
SK
तथैव प्रतीत्यसमुत्पन्नत्वे ऽपि सर्वधर्माणां नास्ति वस्तुताप्रसङ्गः प्रमाणबाधितत्वात / यथैव हि मन्त्रोषधादिप्रभावेण गजादिविविधमायाप्रादुर्भावस्तथैव कर्मक्लेशादिप्रभावेण् सत्त्वानामुत्पादादयः प्रादुर्भवन्ति / यगिनां तावत् स्वकीयपुण्यज्ञानसम्भारसञ्चयवशेन योगिज्ञानादिमायाप्रादुर्भावः, यतो हि विविधैर्हि प्रत्ययैः सा मायापि विविधैवावभासते /
SK
आर्यप्रज्ञापारमितासूत्रे ऽउयुक्तम्ः ᳚कश्चिछ्रावकनिर्मितः [कश्चित् प्रत्येकबुद्धनिर्मितः] कश्चिद् बोधिसत्त्वनिर्मितः कश्चित् तथागनित्मितः कश्चित् कर्मनिर्मितः / अनेन सुभूते, पर्यायेण सर्वधर्मा निर्मितोत्पन्ना इति᳚ /
SK
बालपृथग्जनेभ्यस्तावद् योगिनामेतदेव वैशिष्टयं यत्ते मायाकार इव यथावन्मायां परिजानन्ति, न च तथैव तस्यामभिनिविशन्ते /
SK
आर्यधर्मसङ्गीतावप्युक्तम्ः
SK
मायाकारो यथा कश्चिनिर्मितो मोक्षमुद्यतः / न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतो ऽस्य सः //
SK
त्रिभवं निमितप्रख्यं ज्ञात्वा सम्बोधिपारगः / संनह्यते जगद्धेतोर्ज्ञातपुर्वं जगत् तथा //
SK
यथा बालपृथग्जनजातीयदर्शकेषु उत्पत्त्यादिमायभासो भवति, तथैव ये तस्मिन् सत्यतो ऽभिनिविशन्ते, ते विपरीताभिनिवेशवशाद् ᳚बालाः᳚ इत्यभिधीयन्ते / अतः संवृतियोगहिनि योगिप्रत्यक्षे तथा स्थितत्वात्तेषां शशशृङ्ग इवात्यन्ताभावो नैव भवति / अत एव प्रत्यक्षतो ऽशेषधर्मनैरात्मज्ञानं तावत् सदेव / अविरोधो ऽपि तत एवेति / परमार्थतो निःस्वभावत्वे ऽपि योगिनः पृथग्जन इव व्यवहारतया व्यवस्थापयन्ति /
SK
आर्यपरमार्थसंवृतिसत्यनिर्देशसूत्रे तावदुक्तम्ः
SK
᳚परमार्थतो ऽत्यन्ताभावश्च संवृत्या च मार्गं भावयतीति कथनवत्᳚ ऽयदर्थान्तरविविक्तपाक्षिकेन प्रत्यक्षेण परिगृह्य तदितरशून्यप्रत्यक्षेण तावदवबुध्यतेऽ - इत्यादिकं यदुक्तं तदपि नैव युज्यते, इतरेतरशून्यत्वादस्य नयस्य, न तु लक्षणशून्यत्वादिति / लक्षनशून्यत्वे उ सर्वे धर्मास्तावत् परमार्थतो निःस्वभावत्वेनैवाभ्युपगम्यन्ते, यतस्तेषां स्वसामान्यलक्षणानि परमार्थतो यथा व्यवस्थितानि, तेभ्यस्तच्छून्यत्वात् /
SK
या हि वस्तूनामितरेतरशून्यता सा नैव परमार्थः, व्यवहारसत्यमाश्रिता खलु सा / इत्येवमनुत्पादरसैकत्वे ऽपि सर्वधर्माणां नैव भेदाभावः, तथापि स्वप्नाद्यवस्थादिवद् बालेषु परस्परभिन्नान्यवभासन्ते / अत एवात्र यथाप्रसिद्धिमर्थान्तरविविक्तग्रहणमुखेन तावदितरेतरशून्यता व्यवस्थाप्यते, न तु परमार्थतया / यतो हि स्वप्नमायादिसदृशवस्तूनां स्वभावः परमार्थतः परस्परमभिन्नः / अत एव भगवताभिहितम् -
SK
परमार्थमनाश्रितत्वेनेयं सर्वतः प्रतिक्रुष्टेति परिवर्जनीयैव / आर्यलङ्कावतारसूत्रे तावदुक्तम् ः
SK
᳚एवं महामते, इतरेतरशून्यता सर्वजघन्या, सा च त्वया परिवर्जयितव्या᳚ /
SK
या खलु सर्वधर्मलक्षणशून्यता, या च तस्याः स्वसामान्यकक्षणव्यवस्था, सा उपलब्धिलक्षणप्राप्तापि सती योगिभिः परमार्थतया अनुपलब्धाकारैव / अतः सर्वे धर्मा निराभासज्ञानोत्पत्त्या ज्ञाता भवन्तीति व्यवस्थाप्यते / अत एव च इतरेतरशून्यता बालपृथग्जनानां परिकल्पनामश्रित्यैवाभिहिता, असम्बधैव चैषा /
SK
[५] सा च ऽयोगिप्रत्यक्षेण सम्यगवगम्येऽ ति कथनं नैव विदुषां रुचिकरम् / युक्त्यभावस्तत्रेति यत् कथनं तदपि नास्ति युक्तिसङ्गतम्, युक्तीनां तावद् संविद्यमानत्वात् /
SK
विद्वांसः कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणं समुदीरयन्ति / अर्थाभावे ऽपि भावनाबलेन अर्थवभासि सुस्पष्टं ज्ञानमुत्पद्याते / तथाहि - यथा कामशोकभयोन्मादाद्युपहतेषु असकृदभासबलेन प्रमदाद्यवभासि स्पष्टं ज्ञानमुपजायते येन ते तान् पुरःस्थितनिव दृष्ट्वा सहसा विविधशरीरकम्पादिभिश्चेष्टमाना दृश्यन्ते /
SK
अतश्च यथोक्ततत्वं भावयत्सु तज्ज्ञनमुत्पत्स्यत एवेति सम्भाव्यते / यच्च स्पष्टावभासि ज्ञानं तन्नुनं निर्विकल्पकमेव, कल्पनावायुप्रकम्पितकायाकारस्य सुअपष्टमनुपपन्नत्वात्, प्रदीपवत् /
SK
प्रयोगः - ये तावत् केचिन्निरन्तरं सादरं भावनामनुतिष्ठन्ति, ते भावनाफलं प्रकर्षपर्यन्तजं स्fउटावबोधमनुभवन्त्येव, रागाद्युपहतैः प्रमदादिभावनावत् / यत्र चिरकालं निरन्तरं सादरं सर्वधर्मनैरात्म्यभावनं स्वभावहेतुः, तत्र प्रमाणोपपन्नार्थविसयकमविसंवादकं [ज्ञानं] भवत्येव, व्यवहारेण धूमादिलिङ्गजनितनिश्चयेनोत्पन्नाग्न्यादिज्ञानवत् / योगिनां खलु तन्नैरात्मज्ञानमपि प्रमाणोपपन्नार्थविषयकमिति स्वभावहेतुः /
SK
अस्य प्रमाणोपपन्नत्वं पश्चात् प्रकाशयिष्यते / स्पष्टावभासमानं सद् यज्ज्ञानमविसंवादणं जनयति तत् प्रत्यक्षं प्रमाणम्, रुपादिव्यवहारार्थमनुपहतचक्षुषां चक्षुविर्जानादिवत्, सर्वधर्मनैरात्म्यविषयकं योगिनां ज्ञानमपि स्पष्टावभासमानं सद् अविसंवादकमिति स्वभावहेतुः / यद्येवं सर्वधर्मनैरात्म्यज्ञानं युक्तिभिः सुसाध्यं तदा कथमिव विद्वांसस्तत्र न प्रिताः? यदपि योगिज्ञानं तदसदिति यदुच्यते, तत्पूर्वमस्माभिः सम्यगुत्तरितम्, सर्वधर्माणां शशशृङ्गवदत्यन्ताभावस्याभावात् / तथापि परमार्थतस्तेषामभाव एव मायावत् / अतो नैवास्माभिः सर्वे व्यवहारास्तावन्निषिध्यन्ते, न च ते ऽस्माभिर्नाभ्युपेयन्त इति यदुक्तं तत्तथा /
SK
[६] यैस्तावत् ᳚अनुमानेनापि सर्ववस्तुनि निःस्वभावत्वेन साधयितुमशक्यानि, कस्यापि धर्मिनो विषयस्यासिद्धत्वात्, दृष्टान्तादीनां चानुत्पन्नतावत्, सर्वसां युक्तीनां विषयस्य स्वभावस्य चासिद्धत्वात्᳚ इएत्यवमुक्तम्, तदप्यसम्बद्धमेव /
SK
इत्थमस्माभिर्निःस्वभावत्वेनाभ्युपेते सति यदा भवन्तः प्रसङ्गमापादयन्ति तदा स प्रसङ्ग एव नास्ति /
SK
यैः खलु हेतुभिरस्माभिर्वस्तूनां निःस्वभावताभ्युपेयते, तत्र परमार्थतो हेतुदृष्टान्तधर्मिणामसत्त्वाद् यद्यनुमानानुमेयादिसर्वव्यवहाराभावप्रसङ्गो ऽस्मास्वापाद्यते, तदा स प्रसङ्ग एव न भवति, इष्टापत्तेः / यतो वयमपि अनुमानानुमेयादिसर्वव्यवहारादीनां परमार्थतो ऽप्रवृतिभ्युपगच्छामः / फलतः कथमिव तावत्तदभावप्रसङ्ग आपतेदिति / अस्वीकरणं हि नाम प्राङ्गलक्षणम् /
SK
वयं तावद् भवद्भिः प्रयुक्तं दूष्णमपि परमार्थतो ऽनुत्पन्नमेवाभ्युपगच्छामः / अतो नास्ति को ऽपि दोषावसरलेशः / अत एवाचार्यपादैः -
SK
यदि किंचिदुपलभेयं प्रवर्तयेयं निर्वर्तयेयं वा / प्रत्यक्षादिभिरर्थैस्तदभावान्मे ऽनुपालम्भः //
SK
इत्यक्तम् / यत् परमार्थतो ऽसत् तद् व्यवहारे ऽपि प्रवर्तितुं न शक्यत इत्येवं यो हि प्रसङ्गः, स प्रसङ्ग एव न भवति, व्याप्त्यसिद्धेः / यतो हि येन कारणेन यस्यात्मनिवर्तनं तेन तस्य व्यवहारनिवर्तनं तु नास्ति परमार्थस्वभावव्याप्तम्, अपि तु तद्विपर्ययव्याप्तमिति / व्यवहारस्तु परमार्थतो ऽभावस्वभाव एव / परमार्थस्वभावविराहिता अपि स्वप्नादयो विविधव्यवहारेषु प्रवर्तमाना दृश्यन्ते / अतः सर्वे ऽपि तावद् व्यवहारा निर्माणस्वप्नादिवदविरुद्धा एव /
SK
निर्मितको निर्मितकं मायापुरुष स्वमायया सृष्टम् / प्रतिषेधयसे यद्वत् प्रतिषेधो ऽयं तथैव स्यात् //
SK
सर्वत्र साध्यधर्म्यादीनां परमार्थभूतत्वादेव अनुमानादिव्यवहाराः प्रवर्तन्त इति हेतोः परमार्थतो निःस्वभावत्वे सति नानुमानादिव्यवहाराः प्रवर्त्स्यन्त इति यो हि दोष आरोप्यते, सो ऽपि तावद् दोषाभाव एव / निर्विवादरूपतया सप्रसङ्गत्वात् परमार्तधर्म्यादिभिः अनुमानादिव्यवहाराः कुत्रापि नैव सिद्धाः, तथापि लोके यथाप्रसिद्ध एव धर्मिणि व्यवहारा भवन्ति / यतो हि प्रवादिनो हि तत्त्वानिर्णयार्थमेव अनुमानादिव्यवहारान् प्रयुञ्जन्ति / यथोक्तम् -
SK
धर्मधर्मिव्यवस्थानं भेदो ऽभेदोश्च यादृशः / असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते //
SK
तं तथैव समाश्रित्य साध्यसाधनसंस्थितिः / परमार्थावताराय विद्वद्भिरवकल्प्यते //
SK
पुनश्च, यथानुदर्शनं चेयं मेयमानफलस्थितिः / क्रियते विद्यमानापि ग्राह्यग्राहकसंविदाम् //
SK
अन्यथैकस्य भावस्य नानारुपावभासिनः / सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः //
SK
इदं तावद् व्यवहारिकप्रमाणलक्षणमित्यपि कथ्यते / प्रमाणस्य तावत् सर्वाणि लक्षणानि तत्त्वप्रवृत्यर्थमेव भवन्ति, अन्यथा व्यर्थान्येव तानि स्युरिति / प्रमाणलक्षणशास्त्राण्यनधीयानासु गोपालकाङ्गनासु एवमुपदेशाभावे ऽपि धूमादिलिङ्गदर्शनतो ऽग्न्यादीनां ज्ञानमुत्पद्यत एव / अत एव वयमपि तत्त्वप्रवेशाय तथताव्यवहाराभ्यामनुमानादिप्रवर्तनाद् दोषरहिता एव /
SK
अपि च, ये व्यवहारेणानुमानादिप्रवृत्तौ यत्रानित्यादि वस्तुधर्मं सत्स्वभावं साधयन्ति, तेषां निःसंशयं तत्र व्यवहारेण वस्तुभूतधर्मादयः स्युरेव, यतो हि तत्र तथाविधा आश्रयहीना साध्यदिस्थितिर्नैव सिद्धा /
SK
यदि तत्र तथाविध आश्रयो नास्ति तदा साध्यनिषेधनाद् आश्रया सिद्ध्याख्यो दोषो दीयते / सो ऽपि यदि यथाभूतधर्मिणो निवृत्तिश्चेत्तदा निःसंशयं साध्यादिधर्मिणो ऽविनाभावस्य निषेधं करोति, यतो हि असिद्धे सति हेत्वसिद्धयादिदोषा दीयन्ते / स्वयमुपकल्पितानां कतिपयधर्मिणां निवृत्तावपि साधयादेः कस्यापि निषेधस्याभावाद् असिद्धयादिदोषा नैव युज्यन्ते, तदभिलषितार्थसिद्धौ बाधाभावात् / ये वस्तुधर्मं सत्त्स्वभावं साधयितुं नाभिलषन्ते, अपि तु तदारोपितधर्माणां व्यवच्छेसिद्धिमात्रं विवक्षन्ते, तेभ्यो ऽसिद्धयादिदोषानापादयितुं व्यवहारे ऽपि वस्तुभूतधर्मी नैवावश्यकः, तस्य तद्धर्माभावात् /
SK
तदपेक्षयापि तद्धर्मिता नोपपद्यते / तदसिद्धावपि साध्याविनाभावी हेतुरभिष्टार्थसाधकः, बाधकाभावात् / वादिनो ऽभीष्टार्थसिद्धौ प्रतिवादिन उपघातकामनया धर्मिणः सदसत्त्वमन्वेषयन्ति, न तु कामचारतः / धर्मिणो ऽसत्त्वादिचर्चयापि किम्? यदि वादिनो ऽभिष्टार्थहानिर्न स्यात् / ऽचोदको दोषहीनःऽ इत्यपि कथनं विपर्ययदोषाणुपरिपूरिते परिधावनमात्रमेव, अन्यत्राभावात् / अत एव साध्यधर्मं तदनुकूलधर्मिणं चावगन्तुं पक्षलक्षणवेलायामेव युक्तिविद्भिर्विशेषेण ऽस्वधर्मऽ इत्यभिधीयते / एवं यस्तावत् स्वकार्याणि युगपन्न साधयति, स न भवत्यप्रतिहतनित्यैकस्वभावः, वन्ध्यापुत्रवत् / परैरिष्टमाकाशादिकमपि शब्दादिकार्यं न साध्यतीति व्यापकानुपलब्धि, इत्यभिहिते ऽयं तावन्न विरुद्धहेतुरपीती केचित् / साध्यसाधनयोरिव आकाशादिर्नैव वस्तुभूतः स्वभावधर्मीति साधनभूतो ऽयं हेतुराश्रयासिद्ध इत्यपरे / तत्रापि आकाशदिधर्मिणां वस्तुतायाः कृते ऽप्यत्र निराकरणे साध्याभावमात्रमभ्युपगच्छतां नास्ति को ऽपि दोषः, हेत्वभावमात्रेण च नस्ति स्वभावो ऽप्यसिद्धः, वस्तुताया अभावे ऽपि धर्मिणां सिद्धेः / अतो विप्रतिपत्तिनिराकरणाय स्वाभिमतधर्म्येव यदि बाध्यते चेत्तदा साध्य एव तावन्निषेध्यो भवति, न तु धर्मान्तरयुक्तो धर्मीत्येवं निर्देशकाले स्वेष्टप्रत्यक्षानुमानाप्तप्रसिद्धिद्वारा निषेधमविधाय स्वभावस्यैव तावन्निषेधः स्वधर्मी भवतीत्यत्र पक्षधर्मतावस्थायामाचार्येण स्वधर्मी कथित इति वार्तिककारः / तथाहिः
SK
सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः / तद्धर्मवति बाधा स्यन्नान्यधर्मेण धर्मिणि //
SK
अन्यथास्योपरोधः को बाधिते ऽन्यत्र धर्मिणि /
SK
इति वस्तरः / विप्रतिपत्तिनिराकरणार्थं चोक्तम्ः
SK
यथा परैरनुत्पाद्यापूर्वरूपं न खादिकम् / सकृच्छब्दाद्यहेतुत्वादित्युक्ते, प्राह दूषकः //
SK
तद्वद् वस्तुस्वभावो ऽसन् धर्मी व्योमादिरित्यपि / नैवमिष्टस्य साधयस्य बाधा काचन विद्यते //
SK
द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् / बाधनं धर्मिणस्तत्र बाधेत्येतेन वर्णितम् //
SK
अवश्यं चैतदवगन्तव्यम् / अन्यथा क्रमयौगपद्याभ्यामभिव्यक्तेन अर्थक्रियासामर्थ्यवियोगेन परपरिकल्पितः पदार्थाः कथमिव निषेद्धुं शक्ष्यन्ते / सद्वस्तुनस्तान्नैव कथमपि निषेधः कर्तुं पार्यते / आश्रयासिद्धदोषेण यदि असतो ऽपि नैव कर्तुं पार्यते तदा निषेध एव कस्यापि कथमपि कर्तुं नैव शक्यते / अत एव योगाचारैस्तावदुक्तम् -
SK
विषयत्वं न चैकस्मिन्ननेकमपि नास्त्यणौ / नास्ति तत् क्षणिकं वापि सच्चापि न हि विद्यते / क्रमेण युगपच्चापि स विरुद्धो भवेदिति //
SK
इत्यादिभिर्बाह्यादिनिषेधः कथमिव कर्त्तुं शक्यः स्यात् /
SK
तैर्थिकैःपरिकल्पितेषु द्रव्यगुणकर्मसामान्यादिषु निषेद्धुमिष्यमाणेष्वपि कथं तत्र आश्रयासिद्धादयो दोषा नैव प्रवर्त्स्यन्ते? यदि प्रसङ्गसाधनमात्रेणैव निषेधनात्र प्रवर्त्स्यन्त इत्येवं ब्रूयात्तदा अप्रमाणं हि तत्र प्रसङ्गसाधनम् / फलत एकान्तेनैषामभावो व्यवहारे कथं सिद्धः स्यात्, प्रमाणापेक्षितात्वात्तस्य /
SK
अथ प्रमाणमेव प्रसङ्गसाधनमिति चेत्तदा किमिव तत्र आश्रयासिद्धादयो दोषा न प्रवर्तन्ते? युक्त्तिबलेन आगन्तुशीलेषु दोषेषु प्रेक्षावद्भिः स्वतः [स्वपक्षतः] सिद्धिर्नैव युक्तिमती अथ बाह्यार्थादीन् निषेद्धुकामानां विद्यत एव वस्तुभूतो बुद्धिलक्षणो धर्मी, यतस्तेनैव बाह्यार्थेषु प्रधानादिषु चोत्पत्तिनिषेधः साधयते, अतः आश्रयासिद्धादयो दोषास्तत्र न प्रवर्तन्त इति चेत्तदा एकानेकस्वभाववियुक्तत्वक्रमयौपद्यव्याप्तार्थक्रियासामर्थ्यविरहितत्वादो हेतवस्तदा अप्रसिद्धतद्धर्मत्वधर्मिणि अभीष्टसाध्यधर्मं साधयिष्यन्त्येव /
SK
अपक्षधर्मत्वे ऽपि साध्याविनाभावमात्रहेतुः साध्यसाधने ऽसमर्थः / यद्येवं स्यात्तदा चाक्षुषत्वमपि शब्दधर्मणि कथमनित्यत्वसाधने ऽशक्तम्? यदि ते तत्प्रसिद्धत्वमभ्युपगच्छन्ति तदा बाह्यप्रधानादिवत् बुद्धिरेव शक्तत्वैकानेकत्वव्याप्तधर्मवियुक्तत्वन्निःस्वभावैव तावत् सेत्स्यति, तेषां तद्धर्मत्वात् / अन्ये ऽपि धर्मा नान्यसिद्धां भवन्ति / सामर्थ्यादिविराहितं वस्तु तावदसिद्धमेव /
SK
अन्यथा [यद्येवं न स्यात्तदा] ततो बह्यप्रधानादयो न निःस्वभावाः सेत्यन्ति / निःस्वभावत्वे खलु सिद्धे आश्रयासिद्धदिदोषाणां तादवस्थ्ये ऽपि नास्ति स्वपक्षहानिप्रसङ्गः / बुद्धौ तावत् सिद्धे ऽपि बाह्यप्रधानादिभिरुत्पत्तिनिषेधे प्रधानादीनां परिकल्पितस्वभावनिषेधस्तु असिद्ध एव, आकारान्तरत्वात्तस्य / यद्यसिद्ध एव सः, तदा परकल्पिताः प्रधानादयो ऽसन्त एव / एवंविधे तावद् धर्मिणि कथमसद्व्यवहारो ऽपि प्रवर्तेत / न खल्वन्येषु अन्यव्यवहारप्रवृत्तिर्यज्यते /
SK
केचन तावदज्ञानिनस्त्रिषु प्रतिसंख्यानिरोधासंस्कृतेषु कस्याप्युत्पत्तिमत्त्वाभावं परमार्थवस्तुरुपेण परिकल्पयन्ति / तन्निषेघसाधने च बुद्धेस्तावत् कथं नाम विषयिभावो भविष्यति, यतो ह्यन्ये [वादिनः] तेषु तया उत्पत्तिमत्त्वाभावधर्मं नाभ्युपयन्ति / अतो तन्निषेघस्तावन्न कथमपि साधयितुं शक्यः /
SK
अथ अनादिकालिनस्वबीजपरिपाकपरिनिष्पन्नबालानां बुद्धौ विद्यमानो बाह्यवस्तुविकल्प एव धर्मी, तदाधारेण प्रधानादीनां निषेध्यमानत्वात् / स परमार्थतः स्वभावविरहितो ऽपि भ्रान्त्या बाह्यमिव प्रधानाद्यभिन्नमिव सर्वसामर्थ्यशून्यं च सर्वधर्मसमवेतमिव कल्पयति / तत्र प्रधानादिस्वरूपनिषेधे प्रधानादिस्वरूपनिषेधस्तावत् साध्यसाधनविषयकः सिध्यति, यतो हि स बालैर्बाह्यपधानाद्युपगृहीतवादिप्रतिवादिभिरपि तैमिरिकैर्द्विचन्द्रदर्शनमिव तदभिन्नतयैव व्यवह्रियते /
SK
स हि यद्यपि [सर्वथा] बुद्धया परिकल्पितमात्र एव, तथापि तदाकारतया बुद्धिरित्येवमुपचर्यते वस्तुतो ऽयं नास्ति [कथमपि] बुद्धिस्वभावः, तद्विलक्षणस्वभावेनाववभासमानत्वात्तस्य / अतः सिद्धे ऽपि तस्य निःस्वभावत्वे बुद्धिनिः स्वभावताया नास्ति प्रसङ्गः, यतो हि बाह्यप्रधानादीनां तावन्निषेधस्तु प्रमाणैः साध्यते, न तु [कदाचित्] तत्त्वनिषेधाय हेतवः प्रयुज्यन्ते /
SK
वस्तुसतां शब्दादिबाह्यधर्मिणाम् अनित्यादिधर्मसिद्धये [ते] बाह्यशब्दादयस्तभिन्नाश्च बुद्धिस्थ उपचारधर्मिण्येवाश्रयन्ते, यतो हि ते देशकालादिभीन्नावस्थानियता बाह्यशब्दादयो वादिप्रतिवादिनां बुद्धौ स्वस्वभावेन नैव प्रत्यक्षीभवन्ति / साध्यसाधनादिविशेषाणामप्यसम्भवः, निरंशत्वात् / अतो ऽनुमानामेयादयः सर्वे व्यवहारा बुद्धिस्थ एव धर्मिण्याश्रिताः प्रवर्तन्ते, प्रकारान्तरासम्भवत् / यद्येवं तदा परमार्थतो निःस्वभावत्वे परिकल्पितधर्मिणं निःश्रित्य निषेधादिसिद्धयर्थम् आश्रयासिद्धादिदोषाणामप्रवृत्तवपि कामं बलेनास्मासु अपालम्भाः क्रियन्ते /
SK
यथा हि परमार्थप्रवृत्त्यर्थं भवन्तः प्रधानादिनिषेध्ये परिकल्पितधर्मिण्येव साध्यसाधनादीन् मनसिकुर्वन्ति, तथैव वयमपि प्रसिद्धेषु रूपशब्दादिषु ये तावत् सदसदादिस्वभावा आरोप्यन्ते, तन्निषेधाय बालेभ्यस्तान् मायामरीचिस्वप्नप्रतीबिम्बादिसमान् निर्दिशामः /
SK
तत्र यथा आरोपिते धर्मिणि वस्तुत्वारोपणनिषेधए ऽपि वादिप्रतिवादिषु प्रतीभासमानत्वाद् असदादिदोषा न प्रवर्तन्ते, तथैव रुपादयो ऽपि तावदागोआलङ्गनानामवभासन्ते, तत्कथं नाम ते ऽसिद्धा भविष्यन्तीति / अवभासो हि तत्कारणनिवृत्त्या जायमानेन सत्यस्वभावेन तावन्नस्ति व्याप्तः, अलीकस्याप्यवभासमानत्वात् / यद्येवं नो चेत्तदा सर्वे पुरुषास्तदर्शिनः स्युः, केवलस्य तत्त्वस्यैवावभासमानत्वात् /
SK
यथैव हि तस्मिन् परिकल्पितधर्मिणि सामर्थ्यशून्यत्वव्याप्त्युपन्यासेन निःस्वभावत्वं प्रसाध्य प्रधानादयः साध्यन्ते, तथैवास्माभिरपि परिकल्पितवस्तुनि तत् [निःस्वभावत्वं] सम्यक्ताअ साधयितुं यथोक्तः सामर्थ्याभावादिः कथं न सिद्धः स्यात् / प्रेक्षावद्भिस्तु स्वीकरणं विचारार्हम्, भावात्मकताया निर्णयस्यायुक्तत्वात्, विचरावस्थायां तु नास्त्येव / अतत्स्तन्निर्णयो न कृतः विचारो ऽपि निर्णयार्थक एव / यतः प्रमाणाद्वारा सिद्धान्तनिर्णयकाले को ऽपि सिद्धान्तो नाभ्युपगतो भवतीत्यतस्तस्मिन् काले कस्मिन् आश्रयासिद्धिमुखेन धर्म्यसिद्धयादिदोषः प्रदातुं शक्यते / अथ वादी प्रमाणैस्तत्त्वनिर्णयं कृत्वा परेभ्यस्तत्प्रतिपादयितुं प्रवृतः, अतः स सिद्धान्ताभ्युपगमात् पूर्ववर्तीति मन्यते, तदापि तावन्न उज्यते / स्वप्रतीतिकाले सिद्धान्तो नाभ्युपगम्यत इति /
SK
पूर्वत एव सिद्धान्तमनभ्युपगच्छन्तो वादिनः स्वयं प्रमाणतस्तत्त्वज्ञानं कुर्वन्ति, तैरेव चापरानपि बोधयन्तीति कथं सिद्धन्तो ऽभ्युपगतः स्यात् / पूर्वं स्वयं प्रमाणैस्तत्त्वश्चियं कृवा सिद्धान्तेन अपरेभ्यो ऽवबोधनमपि नास्ति सिद्धम् / अपरे ऽपि प्रेक्षावन्तस्तावत् तच्छब्दमात्रेणैव प्रमाणैरनुपपन्ने ऽर्थे नैव विश्वसन्ति / अतः स्वमिर्णयवद् अपरेभ्यो ऽपि निर्देशसमये तादवस्थ्यात् सर्वत्र प्रमाणैरेव तत्त्वनिर्णयः क्रियते / अतः सिद्धान्तो नाभ्युपगतो भवतीति / अत एव कथं तेन धर्मिणस्तावदसिद्धादयः प्रतीपाद्यन्ते / सम्यक्प्रमाणबलेन वादिनामभीष्टसाध्यसिद्धावपि ऽसिद्धान्ताभ्युपगमात् तेभ्यो दोषा जायन्तेऽ इति ये वदन्ति किं तेषां युक्त्यन्तरमिति / वस्तुतस्तत्त्वविमर्शावसरे सिद्धान्तप्रसिद्धे धर्मिणि न के ऽप्याश्रयन्ते / तथाविधस्य धर्मिणिः कुत्रापि वादिप्रतिवादिष्वसिद्धत्वादेव / यथा बौद्धेषु शब्दादयो भौतिका इत्यभ्युपगम्यन्ते, न तथा वैशेषिकादिषु, आकाशगुणत्वेन तस्याभ्युपगमात् / यदि तथाविधो धर्मि सिद्धो न स्यात्तदा न को ऽपि कुत्रापि तत्साधनार्थं प्रत्वर्तेत / यदि तथाविधो सिद्धस्तदा तद्धर्म्ॐ ऽपि उभयसम्मतः सिद्ध एव / अतो नास्ति विवादावसरः / अत एव सर्वे तत्त्वजिज्ञासवः सिद्धान्तविशेषसिद्धं धर्मिणमपहाय आगोपालप्रसिद्धमेव तमाश्रित्य साध्यसाधनविषयकं चिन्तनं परिवर्धयन्ति / अतः सिद्धान्ताश्रयणं कृत्या आश्रयासिद्धादिवचनमसम्बद्धमेव /
SK
व्यवहारे ये ऽप्रसिद्धा धर्मिणस्तेषु चोदनमिदं समुचितमेव / अस्मासु रुपादयस्तावद् व्यवहारे ऽपि नाप्रसिद्धाः /
SK
[७] ᳚यत्खलु परप्रसिद्धप्रमाणैः स्वपक्षः साधनीयः᳚ इति यदुच्यते तद् दूषणमेव तावन्न भवति, अनभ्युपगमात् / अतो व्यवहारे वयम् उभयसिद्धैर्हेत्वादिभिः साध्यं साधयाम इत्येवं पश्चान्निर्देक्ष्यामः /
SK
[८] ᳚सर्वे धर्मा विविक्ताः, न केनापि सम्यग्लिङ्गेनालिङ्गिता अतिपरोक्षत्वाद्᳚ इति यदुक्तं तदपि तावन्नैव युज्यते, सिद्धे ऽपि साध्यर्मिणि साध्यधर्मसम्यग्लिङ्गयोः परस्पराविनाभूतस्य साध्यसाधनभावस्याप्रवर्तनात्, विवादाभावाच्च तत्र / तथापि कतिपयेषु धर्मिसु स सिद्धः, कतिपयेषु च सन्दिग्ध इति / अतः अविनाभावनियमनिर्देशेन सामान्यधर्मिणि साध्यधर्मं साधयेयुरिति कथनं युज्यत एव /
SK
तद्वदत्रापि मायामरिचिस्वप्नगन्धर्वनगरादिसदृशेषु कतिपयेष्वेव धर्मिषु स सिध्यतीत्यतः परमार्थतो निःस्वभावत्वाद् एकानेकस्वभावादिधर्मेषु व्याप्तिः सिद्धैव / अपि च, अस्माभिरन्यत्र सविवादेषु रुपादिषु व्याप्तिधर्मोपदर्शनेन साधितत्वान्नास्ति दोष इति /
SK
[९-१०] ये केचन - ᳚कार्यस्वभावाभ्यां हेतुभ्यां नैव सर्वे धर्मा निःस्वभावा इति साधयितुं शक्यन्ते, वस्तुसाधनत्वात्तयोः᳚ इति यत् कथयन्ति, तदपि नैव युज्यते, परमार्थतो भावस्वभावसाधनावेताविति कुत्राप्यनुल्लिखितत्वात् /
SK
यदा साधनस्वरुपान्तःप्रविष्टत्वादिमौ वस्तुसाधनावित्युच्येते तदा निःस्वभावतायामपि प्रयोगविशेषवशेन साधनस्वभावावेव / अतस्तत्साध्यामानायां कथं न तौ [हेतू] सम्भवतः? स्वभावहेतुरेव कार्यादिहेतुभ्यः प्रयोगभेदेन विविधाकारेषु प्रपञ्चितः / अत एव विद्वद्भिः ᳚पक्षधर्मस्तदंशेन व्याप्तो हेतुः᳚ इति सामान्येन हेतुलक्षणं निर्दिष्टम् / अतो ऽत्रापि प्रयोगभेदेन स्वभावादयः औचित्यवशान्न विरुध्यन्ते / पश्चादप्येवं निर्देक्ष्यामः /
SK
तत्र सर्वे धर्मा परमार्थतो ऽनुत्पन्ना निःस्वभावाश्च, तथापि इमौ द्वावपि तेषु व्यवहारसत्यत्वेन विद्येते एव / अतः कथं तावेकस्मिन्न सम्भवतः / ᳚केवलं सम्यक् कार्यमात्रेण स्वभावमात्रेण वा हेतुना भवितव्यम्᳚ इति यदुक्तम्, तस्यापि किमपि कारणं नास्ति, यतो हि प्रतिबिम्बफलमप्युनुमानमेव स्वहेतुतयालम्बनीकरोति / ᳚आदर्शदिगतः प्रतिबिम्बो हि तावदन्यदेकं रूपम्᳚ इति यदुक्तम्, तदपि न युच्यते, सप्रतिघत्वस्य एकस्मिन्नेव विषये ऽनुपपन्नत्वात् / ᳚तदेव रूपं तथैवालम्ब्यते᳚ इदमपि कथनं नैव समीचीनम्, तथाविधविषयाकारसम्बबद्धस्वभावेन विरहितत्वात् /
SK
यद्यपि प्रतिबिम्बादय आदर्शद्याश्रयाश्रिता भवन्ति, तथापि यदि विषयाकारादिभेदानुरूपतया आलम्ब्येरन्, तदा तद्रूपं तथाविधं स्थिरस्वभावं नास्त्येव / अन्याकारग्रहनमपि तावन्नैव युज्यते, अतिप्रसङ्गात् / ऽविज्ञानस्यैव प्रतिबिम्बाकारतया प्रतिभासनादस्ति स [आकारः] विज्ञास्वभावेन वस्तुसन्ऽ इदि यदुक्तं तदपि न युक्तियुक्तम्, यतो हि अमूर्तं नीलादिविज्ञानं निरंशतया स्थितं विविधाकाररहितमेव भवतीत्युच्यते / प्रतिबिम्बवस्तु तद्विलक्षणतया प्रतिभासत इत्यतः कथं स [आकारः] तत्स्वभावेन सन् स्यात् / यथोक्तं भवतापि त्रिंशिकायां पुद्गलनिःस्वभावतं प्रतिपादयता यद् यो हि परिकल्पितः स्वभावः स सर्वथा निथ्यैव, वन्ध्यापुत्रादिवत् /
SK
आत्मादयः परिकल्पितस्वभावा एवेत्यादिभिः प्रयोगैः स्वभावहेतुरेवोच्यते / तथैवान्ये ऽपि परपरिकल्पितधर्मा नैवालम्बिता भवन्तीति कथं नोच्यते / यथाचार्यैर्निर्दिष्टं तथा सर्वधर्मनिःस्वभावतासाधनायां व्याप्यानुपलब्धिक्षणा धर्माः कथं नोक्ताः / तथा पश्चान्निर्देक्ष्यामः / यत्खलु स्वभावानुपलब्धिरसम्भवेत्युक्तं तत्तावत् पूर्वं कृतोत्तरमिति / नयो ऽयमन्यो ऽन्यशून्यताया इत्यप्यशक्यसाधनः / तदा किमिति प्रश्ने लक्षणशून्यतेयमिति /
SK
[११-१२] विरुद्धोपलब्ध्यादयो ऽसम्भवा इति यदुक्तं ता अत्यसम्बद्धा एवेति / यतो हि सर्वे धर्मा विविक्ताः कतिपये च सहविरुद्धा इति न सिध्यन्ति, तथापि मायाखपुष्पादयश्च सामान्यतया निःस्वभावाः सहविरुद्धाश्चेति सिध्यन्त्येव /
SK
यद्येवं नास्ति तदा कथम् भवद्भिः परपरिकल्पिता ईश्वरादयो निःस्वभावत्वेन साधयितुं शक्यन्ते / अतः सामान्येन निःस्वभावतामात्रेण यदि व्यवहारे विरुद्धादयः सिध्यन्ति, ततः सर्वेषां धर्माणां परमार्थतः सत्त्वाभ्युपगमे विरुस्शाधर्मादीनुपदर्शय निःस्वभावत्वेन तेषां सम्यक् साधनात् किमत्र तावद् विरोध / तद्विरुद्धादीनां वस्तुतायां प्रसङ्गो न युक्तरूपः, यतो हि परमार्थतो निःस्वभावेषु धर्मेषु भूतरुपाभिव्यक्तिस्तु, कुत्रापि सम्यग्भावस्वभावे नोत्पतिष्ठति / यदि तिष्ठेत्तदा विरुद्धादयो न सिध्येयुः /
SK
अतो यदि सर्वे धर्मा निःस्वभावाःसहानवस्थानविरुद्धाश्च सिध्यन्त्यतस्तद्विरुद्धेषु वस्तुताप्रसङ्ग इति न वक्तव्यम्, विरुद्धादीनां व्यवहारसिद्धत्वात्, न तु परमार्थतः / एवमेव दीपकादौ अदृढलक्षणे वस्तुनि परिच्छिन्ने सति दृढाकारविविक्ततैव तावत् परिच्छिद्यते, यतो न व्यवहारे व्यवच्छेदः, अतःपरिच्छेदानुपपत्तिरेव तत्र / यो यथा परिछिद्यते, यत्र च तथा परिच्छेदो नास्ति, स अभाव एव ताअवत् परस्परपरिहारस्थितलक्षणो विरधो व्यवस्थाप्यते / सदसतोः क्रमाक्रमयोश्च विरोधयोरपि तथैव द्रष्टव्यम् / नास्त्यासन्ने देशे ऽग्नि, अविकलशीलस्पर्शदित्यादिस्थलेषु स विरोधधस्तावत् सहानवस्थानलक्षणो व्यवस्थाप्यते /
SK
प्रसिद्धे ऽपि तस्मिन् विरोधे दीपकादयो हि वस्तुरुपेणात्यन्तमनुपपन्नाः, मायादिमिथ्यावस्तुष्वपि जातिविनाशयोरवभासमानत्वात् अत एव आचार्यैः परमार्थप्रवृत्त्यर्थं यथा दीपकादिषु नित्यानित्यादिविरोधो ऽवभासते, तथैव व्यवस्था कृता / दीपकादयो बाह्यार्थत्वेन विज्ञानरूपत्वेन वा परमार्थतो ऽसिद्धाः, उभयोः स्वभावयोस्तैरेव निराकृतत्वात् / परमार्थवस्तुस्वभावेन सहानवस्थानलक्षणविरोधस्य साक्षात्कारि ज्ञानं परमार्थवस्तुस्वभावे न कथञ्चित् प्रवर्तते, अर्वाग्दर्शिनां दर्शनमार्गे ऽप्रवृतत्वात् / सहानवस्थानलक्षणो
SK
विरोधस्तावत् सांवृतिक एव, वस्तूनां स्वयमेव विनश्यमानत्वान्नान्यकारणैः / यदि प्रत्ययान्तरैर्विनाश इति तदा न विनाशहेतुभिस्तत्र किमप्युपक्रियते / प्रत्ययान्तरैः क्रियमाणे ऽपि विनाशे स स्वहेतुभिरेव क्रियते, नान्यकारणैरिति /
SK
यद्यवस्तुत्वाद् विनाशस्य तत्त्वेन अन्यत्वेन वा तस्य विज्ञप्तिर्न युज्यत इति चिन्त्यते तदा आत्यन्तिकतया स विनाशकारणैर्न क्रियते, निःस्वभावत्वात् / अतो ऽकिञ्चित्करा अग्न्यादयो हि कथं नाम परमार्थतो विरुद्धाः सेत्स्यन्ति / तथाप्यग्न्यादयः शीतादीन् क्रमशो निःसामर्थलक्षणान् अनित्यान् प्रकर्षतमान् उत्पादयन्त्यत एव ते ह्यग्न्यादयो विरुद्धा इति केवलं व्यवह्रियन्त एव / अत आचार्यैर्विरोधनयो ऽयमित्युक्तो न तु विरोध एवेत्युक्तः / अतश्च विरोधो ऽयं व्यवहारमात्राश्रित एवोक्तो न तु परमार्थाश्रितः अग्निशीतादयश्च न परमार्थतो बाह्यार्थस्वभावाः सिध्यन्ति, तेषां तावज्ज्ञानाकारस्वभावो ऽपि च कल्पित एव / एकस्मिन् ज्ञाने शीतोष्णयोरवभासः सम्भवति / अनेकानि सजातीयविज्ञानानि युगपन्नैव सम्भवन्ति, अतः शीतादयः स्वप्नादिन्मिथ्यावभास एव, अतो नास्ति तेषु परमार्थतो विरोधः /
SK
[१३-१९] वृक्षशिंशपादीनि व्याप्यव्यापकवस्तून्यपि व्यवहारमाश्रित्य परिकल्पितसामाअन्यविशेषव्यवस्थया व्यवस्थाप्यन्ते, यतो हि वृक्षादयो व्यापकाः वस्तुतः सामान्यात्मकाः / परमार्थतस्त्वेतत् किमपि नास्त्येव /
SK
विशेषादयस्तावन्न बाह्यार्थस्वभावाः, ज्ञानाकारा अपि परमार्थतयासिद्धत्वात् / तथाप्युक्षिततत्त्वर्था विद्वांसो गजावलोकनमिव स्वप्नदृष्टखदिरादिविविधमिथ्याविषयाणामनुभूतिवद् वृक्षादिवस्तूनां मृषात्वमेवाश्रित्य तथतायां प्रवृत्त्यर्थं परमार्थानुकूलतया व्याप्यव्यापकादिव्यवस्थां कुर्वते / तथैव बीजाङ्कुरादीनि कारणकार्यादीन्यपि संवृत्याश्रयेणैव व्यवह्रियन्ते, न तु परमार्थसत्तया, बीजादीनां परमार्थतो ऽसिद्धत्वाद् बितथानामपि स्वप्नादीनां तथैवावभासमानत्वाच्च /
SK
जाग्रदवस्थायां मायाकार्यकारणादीनि वितथान्यप्युपलभ्यन्त एव / अतस्तानि व्यावहारिकेण कार्यकारणभावेन वस्तुस्वभावत्वेन व्याप्तानि भवन्ति / किन्तु तावता तानि परमार्थस्वभावतया न समवतिष्ठन्ते / यतो हि व्यापके विद्यमाने ऽपि सति व्याप्यस्य सिद्धिर्न नियता / तथापि वस्तुस्वभावत्वेन सुव्याप्तानि कार्यकारनवस्तूनि यदि निवतन्ते, तदा मायादिवत् परमार्थतः परिकल्पितो वस्तुस्वभाव एव निवर्तते / अतः विरोधादिसर्वा व्यवस्थास्तत्त्वप्रवृतौ समर्था भवन्ति / अतः एव विद्वद्भिस्तथताया निर्देशः कृतः / तैर्थिकपरिकल्पिततानि प्रमाणादीनी तथाताया अननुकूलत्वात् परीत्याज्यानीती सन्यक्प्रमाणलक्षणप्रतिपादकस्य शास्त्रस्य प्रणयनं कृतमिति /
SK
इत्थं कतिपये तैर्थिकाः पिण्डात्मादिकं मिथ्यावस्तुतत्त्वं सिसाधयिषया सर्वज्ञताविरागिताकर्मफलसम्बन्धादीनां सांवृतिकीं व्यवस्थां निराकर्तुं प्रमाणानां विपरीतलक्षणानि कुर्वन्ति / अतः सुधियस्तावत्तन्निषिध्य पुद्गलधर्मनैरात्म्यतथतायां प्रवेशानुकूलां सांवृतिकीं कर्मफलसम्बन्धादिव्यावस्थां प्रतिष्ठापयितुं प्रत्यक्षादीनां विशुद्धानि प्रमाणलक्षणानि विरचितवन्तः /
SK
तान्यपि भगवता [तथागतेन] अनुज्ञातान्येव / अतो वयं परमार्थानुकुलानि विशुद्धप्रमाणलक्षणान्येव तावन्मन्यामहे / अतो विरोधादिव्यवहाराणां स्वीकृतिआत्रेण यो हि भावस्वभावाभ्युपगमप्रसङ्गः, स तावदनैकान्तिक एव, तदभ्युपगमे ऽपि भाअस्वभावस्यासिद्धेः /
SK
[२०] नन्वेवमनुमानेन सह सम्बन्धप्रसिध्यर्थं प्रत्यक्षप्रमाणं यद्यभ्युपगम्यते तदा वस्तुनस्तावत् सिद्धिरेव, कल्पनापोढत्वादभ्रान्तत्वाच्च प्रत्यक्षप्रमाणस्य / अभ्रान्तज्ञानेनाध्यवसितः खलु वस्तुस्वभावः कथं नामानुमानेन निराकर्तुं शक्यते? यदि निरक्रियते तदा प्रत्यक्षमेव तावद् बाधितं स्यात् / यदि तद् बाधितं स्यात्तदानुमानमेव तावन्न स्यात् सिस्थितम् / प्रत्यक्षसम्बद्धेनाप्युनुमानेन प्रत्यक्षं बाध्यत इति कथनतो नैवाचितमन्यत् / यदि प्रत्यक्षसिद्धो ऽर्थो ऽनुमानेन नैव बाध्यते तदा प्राप्यस्य प्राप्त्या सुस्थित एव तावद् वस्तुवादीति कथनमपि सम्यङ्निराकृतमेवेति /
SK
इत्यमाचार्यैस्तावत्प्रत्यक्षस्य द्वैविध्यमभिहितम् - यगिप्रत्यक्षं सामान्यप्रत्यक्षं च / तत्र यद्धि साधरणं प्रत्यक्षं तत् परमार्थमधिकृत्य नास्त्यभ्रान्तम् / अन्यथा सर्वं योगिप्रत्यक्षमेव स्यान्न च स्युः केचनाप्यर्वाग्दर्शिनः / योगिप्रत्यक्षातिरिक्तं सामान्य प्रत्यक्षं यद्यपि [अभ्रान्तं] नास्ति तथापि व्यवहारे स्वप्नादिवद् यथाप्रसिद्धेनार्थेन सहाविसंवादात्तदभ्रान्तमुच्यते / श्रावकीयाणि योगिप्रत्यक्षाणि पुद्गलनैरात्म्यमात्रसाक्षात्कारीणीत्यतस्तदविसंवादेन प्रत्यक्षप्रमानानि, न तु सर्वाकारगोचरत्वेनेति / केवलं भगवत एव प्रत्यक्षं सर्वाकारतत्त्वगोचरम्, अतस्तदेव तावदविपरीतमविसंवादकम् / फलतो यदेव सर्वाकारतत्त्वमधिकृत्याभ्रान्तं तदेव सर्वाकारतत्त्वाविसंवादाद् यथार्थमभ्रान्तमिति / अत एव भगवद्भिरेव तावत् सर्वधर्मलक्षणरहितता परिज्ञाता /
SK
तस्य सर्वाकारज्ञानस्य नास्ति वस्तुताप्रसङ्गो ऽपि, सर्वधर्मसंगृहीइतत्वात्तस्य / अतस्तेन लक्षणाभावतायामभिसंबुध्यते / आर्यप्रज्ञापारमितायामपि - ᳚यदुत प्रत्यक्षलक्षणं सर्वाकारज्ञानम्, अलक्षणे अभिसम्बुद्धत्वात्तथागतानाम्᳚ - इति यदुक्तं तत्तथैव /
SK
व्यवहारार्थस्तावत् प्रत्यक्षगोचरार्थः मिथ्याभासितस्वप्नादिवत् / स यदा बालैर्वस्तुतः परमार्थत्वेरोप्यते, तदा स अनुमानबाधितो भवति, न तु दर्शनादिव्यवहारार्थः [बाध्यते] / अतो यदभ्रान्तं तत् प्रत्यक्षम्, न चानुमानबाघितमिति / यश्च परमार्थत्वेनारोपः स एव बाध्यते, तदभ्रान्तत्वाभावात् / अतो नास्त्यनेन प्रत्यक्षापवादप्रसङ्गः /
SK
अर्वाग्दर्शिनस्तावदनुमानेन प्रत्यक्षसम्बद्धत्वे ऽपि न परमार्थत्वप्राप्ता भवन्ति, अपितु केवलं संवृतावेव [तिष्ठन्ति] / यतो हि अर्वाग्दर्शिभिर्वास्तविकः परमार्शस्वभावः प्रत्यक्षतया पृथक् पृथक् नानुभूयते / अतो नैव वस्तुस्वभावः संवृतिमपि बाधते किन्तु यो हि तत्र सत्याकारत्वारोपस्तन्निराकृतिरेव साध्यते / फलनो वस्तुवादिनो अर्थाभावे ऽपि अर्थाभिनिवेशिनस्ते कथं सुस्थिता इति /
SK
एकतो ऽनुमानं व्यवहारेण प्रत्यक्षसम्बद्धं सत् स्थितिं प्रत्नोति, अपरतश्च प्रत्यक्षं काष्ठद्वयघर्षणजतिताग्निरिव तद्बाधां करोतीति बाधितमेव तदिति चेन्नैतावतास्मास्वनिष्टापत्तिरिति / यथा सर्वे जागतिकधर्मा यथावत्प्रविचयाग्नेरिन्धनानि भवन्ति, स च मिथ्येन्धनानि भस्मीकृत्य स्वयमप्युपशान्तः प्रशान्तविकल्पलक्षणमुत्तमं निर्वाणमवबोधयतीति / यदुत -
SK
विज्ञानाग्नेर्जद्धर्माः सर्व एवन्धनं मताः / तान् यथावत्य्रविचय्य ज्वालैर्दग्ध्वोपशाम्यति // अतो यदि तत्त्वज्ञानमुत्यद्यते तदानुमानलक्ष्णा कल्पना निवृत्ता सती निराश्रयापि नानभ्युपगता [भवती] / अत एव भगवता रत्नकूटे सविकल्पापि सम्प्रत्यवेक्षणा निर्विकल्पज्ञानफलोत्पत्तेः कारणमिति [मत्वा] महाफलाभिनिर्वृत्तये काष्ठद्वयघर्षणजनिताग्नेर्दृष्टान्तेन निर्दिष्टा /
SK
[२१] अपि च, सर्वधर्माणां निःस्वभावत्वसाधने यद्येको हेतुभूतो धर्मो नीर्दिश्यते तदा निवृतिसाधकः स धर्मो विरुद्धो जायते /
SK
[२२] यद्यसन् स धर्मस्तदा असतो ऽभावेनासम्बद्धत्वात् कथं हि स [अभावं] साधयेदिति /
SK
[२३] यद्युभयात्मक स धर्मस्तदाप्यनैकान्तिक एव / अतो ऽहेतुकमेव [निःस्वभावत्वमिति] ये प्रतिविदधति तदप्यसम्बद्धमेव / यतो ह्यनेन तावत् सदसदुभयधर्माणां परमार्थत्वसाधने हेतोरसम्भवत्ववोच्यते युक्तिज्ञैः न तु निःस्वभावतादिसामान्यधर्माणां लक्षणसाधने [सम्भवत्वमिति], यदि तथैव स्यात्तदा परपरिकल्पितानामीश्वरादीनामपि निःस्वभावत्वसाधने कथं नाम ते सर्वे चोद्या नाबतरिष्यन्तीती?
SK
तद् यथा ईश्वरादिषु सामर्थ्यव्याप्यवस्तुत्वनिषेधार्थं वस्तुस्वभावे समारोपं च निसेधार्थं असद्धर्मा न भवन्त्यसम्बद्धाः / एवमेव परमार्थतः कार्यकाराणादिवस्तुधर्मेषु व्यापकनिषेधेन समारोपनिषेधं साधयितुं कथं नास्मासु साध्यसाधनसम्बन्धः / अन्यथा प्रशानादयो ऽशक्यनिषेधाभवेयुः, यतो हि वस्तुसति स्वभावे न तथा कर्तुं शक्यते / यदि असता असम्बद्धतया असामर्थं तदा कुत्र सामर्थ्यं स्यात् / परमर्थतो ऽसद्वस्तुनि न भवति कश्चन सम्बन्धो नाम / यतो हि व्यापकनिषेधेन व्याप्यनिवृत्तिस्तावर्न्निर्देशमात्रमेव / यथा सद्वस्तुनि धर्मधर्मिभावादिसर्वाणि वस्तुजातानि कल्पितानीति व्यवस्थाप्यन्ते तथा असद्वस्तुन्यपि कथं तानि नैव व्यवस्थाप्यन्ते?
SK
अपि च, यदा को ऽपि कदाचिदपि स्वलक्षणतया भावत्वेन परमार्थतो नैव सिध्यति, तदा वस्तुलक्षणस्य तथाभूतत्वात् तदभावो ऽप्यसिद्ध एव, परमार्थतस्तत्र सदसदुभयधर्मत्वेन कस्यापि हेतोरसम्भवात् / अतस्तेषां प्रतिवादो वा परीक्षणं वा कथं युज्येत, सर्वेषां वस्तूनां मायादिवत् सदसदुभयधर्मातीतत्वात् / सत्त्वस्य तदभावस्य चापि हेतोरानुकूल्येन वादिप्रतिवादिनोर्यथाप्रसिद्धत्वेन ते प्रसिद्धयविनाभूता एवोक्ताः / अतस्तेषु धर्मधर्मित्वं विरुद्धत्वं व्याप्यव्यापकत्वं स्वभावः कार्यत्वादीनि च यथा आभासन्ते तथैव सर्वा अपि व्यवस्था अविरुद्धा एव / कैश्चिद् विद्वद्भिर्यदि दर्शनस्यास्य धर्मधर्मिविरुद्धाद्याधारेण प्रतिवादः क्रियते तदा तत्र परमार्थव्यवहारनयानवबोध एव कारनं भवतीति / अतो ऽनवमर्दनीयमेतदिति ग्राह्यम् /
SK
[२४] तदपि न शब्दमात्रेण सिध्यतीति यदुक्तं तन्न दुषनमनभ्युपगमात् / न वयमपि शब्दमात्रेण शून्यतां साधयामः /
SK
६८ [२५] न च प्रसङ्गमात्रेण, अपि तु सम्यक्प्रामाणेनैवेति / इत्येवं यदि वस्तुषु परमार्थस्वभाव एको भवति तदा प्रकारद्वयमेव तत्र भवेत् हेतुप्रत्ययापेक्षितत्वात् सर्वेषाम्, उत्पद्यमानस्वभावतया अनित्यत्वाच्च / यथात्र सौत्रान्तिकयोगाचाराणामैकमत्यम्, स्वभावेन सिद्धत्वादाश्रितन्तर्भूतं वा तैर्थिकपरिकल्पात्मादिवत् / न च नित्यानित्ययोरन्योपरिहारस्थितलक्षणत्वात् तृतीईना काचन गतिः / स्वभावे ऽस्मिन् उभयमपि प्रकाद्वयं परमार्थतया न सम्भवति, साधकप्रमाणाभावाद् बाधकसम्भवाच्च / यदि प्रत्यक्षमनुमानं वा तत्र साधकप्रमाणं तदा वस्तुस्वभाव एव पूर्वं तावदुभाभ्यां न सिद्धः, स तु[वस्तुस्वभावः] तदैव स्यात्, किन्तु कार्यकारणभाव एव तावत् प्रत्यक्षेण न परमार्थतः सिद्धः / सो ऽपि तावदिन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण वा सिध्यति, यतो हि नार्वाग्दर्शिनो मानसप्रत्यक्षं व्यवहरन्ति, नापि च तन्मानसप्रत्यक्षं कुत्रापि सिध्यतीति तत्रामाण्यमङ्गीक्रियते /
SK
तत्र केचिदिन्द्रियप्रमाणेन न सिध्यतीति ब्रुवते, पृथगर्थविषयित्वेन निर्दिष्टत्वात्तस्य, किन्तु कार्यकारनभूतस्य तस्यान्यार्थस्य परमार्थतो ज्ञानग्राह्यत्वं नैव युज्यते / विज्ञाने स्वप्रतिभास इव यो हि ज्ञानेतरस्वभावो ऽन्यावभासः [प्रतीयते], स नैव [ज्ञानाद्] अन्यः / अन्यानन्यौ हि परस्परविरुद्धौ / अतस्तदाकारेण ज्ञानेनान्यस्य प्रतीतिरिति यदुच्यते, तदपि नोपपद्यते, अतिप्रसङ्गात् /
SK
यद्येवं तदा घटादयः, ये ऽन्यप्रकाराननुविधाय प्रादुर्भवन्ति, ते ऽपि सर्वे परस्परं गृहीतस्वभावा एव / यो ऽपि तदाकारस्तज्ज्ञानाकारमेवेति विशेषाभिधाने सत्यपि विज्ञानसदृश्येनैवान्यावबोधः संजायते, न घटमात्रादिनेत्येवं विशेषो नास्ति / विज्ञानस्वभावत्वे ऽपि तेषां स्वस्वभावस्थितत्वादन्येष्वकिञ्चित्करत्वमेव / यदि नास्ति विशेषस्तदार्थक्रियार्थिनः स्वतो वस्त्वनुधानेन सम्प्रयुज्यते, तथापि प्रतिनियतार्थक्रियास्वभावः कुत्रापि न सिध्यति, अतिप्रसङ्गात् /
SK
नाटयचन्द्रमल्लदर्शनवद् युगपदनेकदर्शनेन तद्विज्ञानेष्वपि परस्परसाम्यं स्यात्, ज्ञानस्वभावसाम्येन च तेषामपि परस्परं प्रत्यक्षत्वं प्रसज्येत / तदुद्भूतत्वे सतीति विशेषान्तरोपादाने ऽपि अन्यार्थस्य प्रत्यक्षत्वेन प्रत्यतिरसम्भवैव, यतो हि अभ्युपगममात्रेणोपचरितत्वाद् विशेषो न प्रसिध्यतीति /
SK
अनयच्च, अन्यार्थो यदि प्रत्यक्षत्वेन प्रसिध्यति तदा ज्ञानविशेषस्तावत्तत्सदृशस्तदुद्भूतो वा साधनीयः / कथं ज्ञानेनान्यार्थो गृह्यत इत्येवं विचार्यमाणे ऽन्यार्थो यदि प्रत्यक्षतो ऽसिद्धस्तदा कथं तावदसिद्धेन स्वभावबिशेषेण सिद्धा मार्गविशेषाः सेत्स्यन्त इति यावत् /
SK
तद्विज्ञानक्षणिकत्वस्यापि समनन्तरप्रत्ययार्थानुबलेनोपपन्नत्वाद् यथा ज्ञानानि पूर्वक्षणसापेक्षतया समुद्भवन्ति तथा जन्मान्तराण्यपि सम्भवन्ति / अतः पूर्ववर्तिनां परवर्तिज्ञानग्राह्यत्वप्रसङ्गस्य निवृतिर्दुष्करैव /
SK
अपि च, ये तावदवयव्यादिबाह्यवस्तूनां प्रत्यक्षत्वमामनन्ति, स्वसिद्धान्तानुसारं च यथा तद्दर्शनोपचारं कुर्वन्ति तथा प्रत्यक्षतयावभासो नास्त्येव / कदाचिदप्यवयविनस्तदाकारग्राहिज्ञाने प्रत्यक्षानुभवो न भवती / सर्वदैव पाण्याद्यनेकावयवसमूहाकारज्ञानमेव प्रत्यक्षतयानुभूयते /
SK
नीलाद्यवयविनो गुणेषु सदित्याकारकं ज्ञानं नैवानुभूयते, आधारस्याप्रत्यक्षत्वे तद्गुणादिमात्राणां ग्रहणासम्भवात् / अरिष्टनीलाक्षपीताक्षतिमिराद्यपहतनेत्रेषु दूरसमीपस्थित एकस्मिन्नपि वस्तुनि विभिन्नानि विषमाकाराणि ज्ञानान्युत्पद्यन्ते, अतो बाह्यावयविविषयकं कल्पनाजालं चित्ते नास्त्येव विद्यमानम्, तथात्वे तस्य पृथग्ग्रहणप्रसङ्गात् / अतस्तदात्वे तत्स्वभावगुणाद्युत्पत्तिः सर्वथासती एव / विरुद्धधर्माणामपि गुणानां यद्येकत्वं तदा भिन्नसत्ताकानामप्येकत्वप्रसङ्गः /
SK
बाधकाभावाद् गुणादीनां सर्वेषां धर्माणां प्रत्यक्षत्वप्रसङ्गः / स्वप्नादिषु तथानीलादिगुवतामर्थान्तराणां विद्यमानत्वे ऽपि नीलाद्याभासिज्ञानानां पृथगनुभवो भ्रान्त एवं, न चाकारवशेन अर्थान्तरग्रहणव्यवस्था युक्तिमती / ये खलु परमाण्वात्मकलीआद्यर्थानां प्रत्यक्षत्वमामन्वते तेष्वपि तावत् समानदोषताप्रसङ्गः, निरवयवानां सूक्ष्मपदार्थनां भिन्नाकारेषु ज्ञानेषु पृथगनुभवाभावात् / समूहविषयाणि तानि ज्ञानान्यभ्युपेअतानि, स्वप्नादिवच्च तानि स्थूलावभासीन्यनुभूतानि / न समवायिभिन्नः समवायः समस्ति, नापि समवायकल्पनया तदुपचारः सम्भवति /
SK
यदि सञ्चितानेकवस्तुग्रहणात् स्थूलेषु भ्रान्तिरुपजायते, तदा तदानीन्तनज्ञानस्य अप्रामाण्यप्रसङ्गः, भ्रान्तत्वादिति / यदि सा स्थूलभ्रान्तिश्चित्तेनोपकल्पिता, तदाभिव्यक्तौ अनाभासताप्रसङ्गः, कल्पनाविषयाणां सर्वदा अस्पष्टावभासनात् / यदि तानीन्द्रयज्ञानान्तर्गतानि तदा परमाणुनां सर्वदाग्रहणप्रसङ्गः, सर्वदा तदाकारज्ञानानुत्पत्तेः /
SK
यस्थूले भ्रान्तं तत्तथाग्रहणतः पूर्वमपि न [अभ्रान्तं] सिध्यति, आरम्भे उत्पत्तावेव स्थूले भ्रान्तत्वाभ्युपगमात् / पुरतः प्रमाणैर्यदि प्रमाण्यं सिध्यति तदा या स्थुले भ्रान्तिः सा ग्रहणपूर्विकैवैका सिध्यति, यदि न तथा सिध्यति तदा सा भ्रान्तिर्गृहीतेत्येव न सम्भवति / स्वप्नादिष्वन्यप्रमाणानि न गृह्यन्ते, तथापि स्थूले भ्रान्तिस्तु [तत्र] दृष्टैव, अतस्तस्यास्तत्पूर्वकत्वं न युज्यते / मरुभूमौ लघ्वपि वस्तुजातं महदित्यवलोक्यते / तत्र दूरादूरभेदेन स्पष्टाष्पष्टावभासभेदो ऽपि नैव भवति, तस्यैकवस्तुत्वेन तत्र तादृशाकारा नैव सम्भवन्तीति /
SK
अपि च, याद्याकारा याथातथ्येनाभ्युपगम्यन्ते तदा यथा विविधानां रेखादीनां विस्तारस्तथा ज्ञानाकाराणामपि आकारवत् पृथक्त्वम् प्रसज्येत / सिद्धान्तवैविध्यस्थापनार्थम् अनेकज्ञानानामुत्पादमवगच्छतो विज्ञानस्य विषयेषु यथा प्रसारस्तथाभासो ऽसम्भाव एव / एकज्ञानेनाभिन्नस्वभावत्वाद् आकाराणामप्येकस्वभावताप्रसङ्गः / यदि [आकाराः] भिन्नास्तदा अर्थसदृश्ज्ञानेन तेषां ग्रहणं नोपपद्यते, भिन्नार्थत्वात् / तद्ग्रहणार्थं सत्यामप्यन्यान्याकारकल्पनायामाकाराणामनवस्थाप्रसङ्गः, अन्यान्याकारणां कदाचिदप्युनुभवाभावात् / यदि ते ऽलीकास्तदा तत्त्वान्यत्वविचारो ऽउप्यसम्भवी / तदानया दृष्टया तद्वशेनान्यार्थव्यवस्थानं सर्वथायुक्तम्, असम्यक्त्वात् / ग्राह्याकारो ऽपि हि प्रज्ञाप्तिरेव स्यात् /
SK
अपि च, यदि ज्ञानसादृशयं सर्वात्मना भवति, तदा अर्थानुसारिणो ऽपि ज्ञानस्य अज्ञानस्वभावत्वं स्यात्, परचित्ताभिज्ञस्य योगिनो ऽपि सरागत्त्वादिप्रसङ्गः, सरागादीनां परचित्तादीनां परिग्रहणात् / एकदेशेनापि न सादृश्यं [युज्यते], एकस्मिन् सावयवत्वप्रसङ्गात् / यदि विपर्यये ह्युपचारत् कर्तुरेकदेश एव तदा सर्वत्र वस्तुसादृश्यसम्भावनया सर्वज्ञातृत्वं स्यात् / सादृश्यमपि प्रज्ञप्तिरेव स्त्रान्न तु परमार्थम् / अतः सादृश्येन ज्ञानेतरस्वभावग्रहणं न [सर्वथा] युज्यते ऽसम्भवात् /
SK
तत्सादृश्यते ऽपि न तत्प्रत्यक्षत्वेन ग्रहणं युज्यते, विषयस्य हेतुत्वे तदनुभवकाले सामीप्याभावात् / सामिप्ये ऽपि नैव तद्ग्रहणम्, आत्मस्थसादृश्यग्रहणप्रवणत्वाज्ज्ञानस्य, अपरस्य अर्थस्थाकारस्य तदानीमनवभासात् / अवभासे ऽपि तद्विरुद्धत्वं तुल्यपरीक्षणीयम् / यदि स एव [अनुभवः] तदर्थाकारानुभवत्वेन गृह्यत इति चेत्? कल्पनामात्रमेवैतत् / नैव तावन्मात्रेण वस्तुनस्तादृशः स्वभाव् सन्, अतिप्रसङ्गात् / ऽअग्निर्माणवकः [बाह्मणवटुः]ऽ इति कृते ऽप्युपचारे नैव [तमिन्] दाहपाकादिः प्रयुज्यते / आकारेणान्यार्थव्यवस्थाने ऽप्यनुमानमेवैतन्नैव हि तत्प्रत्यक्षम् /
SK
प्रत्येतव्या अर्थान्तराः सामीप्ये ऽपि न [ज्ञान]आकारव्याप्ता भवन्ति, अर्थान्तराभावे ऽपि स्वप्नादिषु तथाकारसम्भवात् / अत्यन्तपरोक्षत्वादर्थान्तराणां ते [अर्थान्तराः] तदीयज्ञानाकारवन्तः सन्तीति नैव सिध्यति / हेतुत्वं तावन्न केवलम् साकारकार्यस्योत्पादनं नाम, स्वकीयविज्ञानानां चक्षुरादिद्वारा भ्रान्तत्वात्, शब्दादिज्ञानान्तरं चक्षुर्विज्ञानोत्पादेन शब्दाद्याभासिचक्षुर्विज्ञानोत्पादसम्भवाच्च / अतस्तावत्कालिकावभासिज्ञाअनेनार्थान्तरग्रहणं नैव युज्यते / नाप्यनाभासिभिः. तेषु भेदाभावात् / तदा यदि सामीप्याद् विज्ञानेनार्थान्तरग्रहणं भवतीति कल्प्यते तदा सर्वाण्यपि विज्ञानानि सर्वसमीपविषयकाणि स्युः सर्वेषु तत्सत्ताया भेदाभावात् / फलतः सर्वैः सर्वदर्शनं स्यात् / श्रोत्रादिज्ञानान्यपि रुपादिविषयकाणि स्युः सामीप्ये भेदाभावात्तदानीम् / ततश्च ऽइदं नीलं पीतमिदम्ऽ इति विभागो नैव स्यात्, कस्यचनापि विभागविशेस्यानभ्युपगमात् / यद्यभ्युपगम्यत इति तदा तत्सादृश्यमभ्युपगतं स्यात् /
SK
कल्पनास्वरूपमात्रे ज्ञानाभिन्नात्मके सादृश्यातिरिक्ततया न कश्चनापि भेदो भवितुर्महति, तद्दोषाणामभिहितत्वात् / सामीप्यवशाज्ज्ञानस्य यदि नार्थान्तरादनुभवस्तदा कथमिति प्रश्ने तदुत्पत्त्यैवेति वक्तव्यं स्यात् / तथाविधमभिधानं नैव युक्तम्, ज्ञानकाले विषयस्याभावात्, अभावग्रहणायोगात् समकालिककार्यणभावास्यायुज्यमानत्वाच्च / कस्याप्येवंविधाभ्युपगमाभावादिति /
SK
चक्षुरिन्द्रियादीनामपि तद्धेतुत्वाद् ग्राह्यत्वप्रसङ्गः / तुल्यैकसामग्रीप्रतिबद्धौ देशकालावेव विज्ञानेन गृह्येते नान्यद्, यद्येवं परिकल्प्येत तदापि चक्षुरादिग्राह्यत्वप्रसङ्गः दुष्परिहारः / विषयत्वाभावादेवेन्द्रियं न गृह्यत इति चेन्नैतावता तदविषायत्वम् , विषयलक्षणस्य सत्वात् / ग्राह्यत्वमपि न विषयस्वभावेतरत् / अतः अविषयत्वान्नास्ति तद्विषय इति कथमिव वक्तुं शक्यते / तदेवं निराकारेण तावज्ज्ञानेन नार्थान्तरग्रहणं युज्यते, नापि तदन्येन साकारेण [ज्ञानेन], व्यवस्थाया एवाभावात् /
SK
यद्येवं तर्हि श्रोत्रविज्ञानेनापि रुपादिग्रहणं स्यात् / अर्थान्तराणां परोक्षत्वे नैवान्याकारो ऽपि सिध्यति / यस्मादर्थान्तरग्राहक आकारान्तरो ऽपि नास्ति, तस्मात् कार्यकारणात्मको ऽपि नाकारान्तरः सिध्यति / अतः परमार्थतो न प्रत्यक्षतः कार्यकारणभावसिद्धिः / अत एव परमार्थतः -
SK
तद्विविक्ततदाकारप्रत्यक्षेण द्वेयेन च / कार्यकारणभावस्य व्यवसायो विधीयते //
SK
इति यदुक्तं तदप्यसिद्धम् साकारबुद्धया अर्थान्तरपरिच्छेदाभावात् कार्यकारणभावनिश्र्चायकप्रमाणाभावे, सति ज्ञानद्वयाभावकथने नास्ति किमपि बाधकम्, अनया तावद् युक्त्या सर्वेषां धर्माणां चित्तमात्रताकायप्रमुखत्वात् /
SK
तत्प्रत्यक्षे ऽर्थान्तरायोगे ऽपि तज्ज्ञानं स्वसंवेदनप्रत्यक्षगम्यमेव, तदपि च कार्यकारणभूतमेवेतिः, कार्यकारनभावस्तु प्रत्यक्षसिद्ध इति चेन्नैव तद् युक्तिमत्, यथा तथता तथानुभवाभावाद्, यथा चानुभवस्तथा तथाताया अभावात् / एवं यदि विज्ञानस्य ग्राह्यग्राहकाकाररहितत्वे ऽपि तस्य वस्तुसत्त्वमभ्युपगम्यते तदा तत्र तथानुभूतेरभावः, सर्वस्य ग्राह्यग्राहकाकारज्ञानस्यैव सर्वदानुभूतेः / यद्येवं न स्यात्तदा सर्वस्यैव तथतादर्शनं स्यादिति / तज्ज्ञानमपि यथानुभूयते न तथा स्थितं भवति, एकस्मिन् स्वरूपद्वयविरोधात् / यदि भ्रान्तत्वात् तत्तथा ज्ञानमिति चेत्? का नाम भ्रान्तिः? यदि ज्ञानं तदा नैव सा प्रत्यक्षम्, अभ्रान्तलक्षणत्वात् प्रत्यक्षस्य, तत्तु स्वयं स्वतो भ्रान्तमिति /
SK
द्वयात्मके च तत्स्वभावावभासादद्वयस्वभावहानिप्रसङ्गः, द्वयाद्वययोः परस्परविरोधात् / अर्थान्तरस्य भ्रान्तत्वे ऽपि पर्यन्तस्वसंवेद्यत्वान्न तेनाद्वयज्ञानम् / यदि प्रत्यक्षं कल्पनास्वभावं तदा न तत् स्वलक्षणविषयकम्, कल्पनायाः समान्यलक्षणविषयत्वात् /
SK
अपि च, यः कल्पनास्वभाव उच्यते, तेन स्वतस्तदात्मनो ऽभिव्यक्तिरुच्यते, ग्राह्यग्राहकाकारो ऽपि स्वत एवाभिव्यज्यते, अतः कल्पनास्वभाव एवैषः / यदि स [ग्राह्यग्राहकाकारः] मिथ्या तदा तदभिन्नः कल्पनास्वभावो ऽपि तथैव मिथ्या, तथात्वे कथं स प्रत्यक्षप्रमाणेन भावस्वभावः प्रसिध्येत् /
SK
यदि विशेषो [विशेष्यः] मिथ्या तदा कल्पनास्वभावस्य सामान्यस्य वस्तुता असम्भविनी, अन्यव्यवच्छेदेन सामान्यं विशेषेषु व्यवह्रियते / तदेवं तत्त्वज्ञानस्य यथावदनुभवाभावान्नैव तस्य स्वसंवेदनप्रत्यक्षत्वं युक्तम् / स्वसंवेदनप्रत्यक्षत्वे ऽपि न हि तेन ज्ञानेन कार्यकारणभावसिद्धिः, एकात्म्येन कार्यकारणात्मकस्य द्वयस्वभावस्य विरोधात् / अपेक्षाविशेषेण तयोः स्वभावः परिकल्प्येत तथाप्यर्थान्तरत्वादपेक्षायाः स्वसंवेदनप्रत्यक्षाभावे सा नैव सिध्यति / फलतस्तदपेक्षया व्यवस्थितस्य तत्स्वभावस्यापि प्रत्यक्षत्वं न युक्तियुक्तम् / कार्यात्मकस्य कारणात्मकस्य च स्वभावस्य अर्थान्तरभूतं ज्ञानमपि भिन्नं भिन्नम्, अतो ह्येकस्मिन् ज्ञाने नोभयोरनुभवः भिन्नकालत्वात् /
SK
यद्येकस्मिन् ज्ञाने नानुभवस्तदा न केनापि सम्बन्धग्रहणम् / एकज्ञानावभासे ऽपि ऽइदं कारणं कार्यं चेदम्ऽ इति प्रत्यक्षे न शक्यमुभयोः सत्तासम्बन्धग्रहणम्, निर्विकल्पकत्वात्तस्य / सम्बन्धग्रहणाभावे नैव तावत् कार्यकारणभावग्रहण्, अन्यथा ह्यतिप्रसङ्गः स्यात् / तत्पृष्ठभाविना निश्चयाकर्षिणा ज्ञानेनापि परमार्थतस्तद् द्वयं नैव युज्यते, तेन तदनुभवस्याभावात् / अन्यानुभवस्यान्येन निश्चयो ऽपि नैव शक्यते कर्तुम्, अतिप्रसङ्गादेव / एकसन्ताने एकानुभवस्य प्रज्ञप्तिरपि नैव युक्तिमती, एकसन्ताने प्रज्ञप्तस्य वस्तूनो ह्यसत्त्वात् / भिन्नसन्ताने ऽपि परस्परानुभवस्य तावदसत्त्वम् / निश्चायकज्ञानकाले तावत् कार्यं कारणं चाप्यतीतम्, अतः स्वसंवेदनप्रत्यक्षेणापि न कार्यकारणाभावः प्रसिध्यतीति /
SK
यदि प्रत्यक्षेण कार्यकारणभावो नानुभूयते कथं तदा स्मृतिस्वभावो ऽप्युत्पद्येतेति चेन्न, स्वप्नादिष्वर्थानुभवाभावे ऽपि स्मृतिसम्भवात् / न च परमार्थतस्तत्स्वभावे ऽर्थान्तरानुभवः सिध्यति, यथोक्तं प्राक् / इत्थं प्रत्यक्षेण तावन्न तस्य [कार्यकारनभावस्य] सिद्धिः /
SK
नानुमानेनापि, यथोक्तनयेन प्रत्यक्षेणानुभूयमानस्य कस्यचिद् धर्मस्याभावात् / अतः कस्तावत् तत्सवभावत्वेनं साध्येत / हेतवो ऽपि सर्वे स्वभावासिद्धा आश्रयासिद्धाश्च / दृष्टान्तधर्म्यप्यसिद्धः, सर्वविरुद्धत्वात् तुल्यपरीक्षणीयत्वाच्च /
SK
अपि च, कार्यहेतुनापि स वस्तुत्वेन साधयितुं न शक्यते, अन्यो ऽन्याश्रयदोषप्रसक्तेः / [तथाहि -] कार्यकारणभावसिद्धौ कार्यहेतोःसिद्धिः, कार्यहेतोश्च सिद्धौः कर्यकारणभावसिद्धिरिति सुस्पष्टमन्यो ऽन्याश्रयदोषः / धर्मिणो ऽसिद्धौ च कुतः स्वभावहेतोरपि प्रवृत्तिः / धर्मिणः सिद्धावपि परमार्थतः कार्यकारणभावसिद्धये नास्त्येव कुत्रापि हेतोव्यार्प्तिः, सर्वत्र विरुद्धत्वात् तुल्यपरीक्षणीयत्वाच्च /
SK
यदि कार्यकारणभावसिद्धये ऽअस्मिन् सतीदं भवतीऽत्युच्यते, तदाप्येतद् भ्रान्तमेव / तद्धेतुकाले चाशेषजगतो विद्यमानत्वाद् ऽअस्मिन् सतीऽति तस्य कारणता नैव सर्वथा सम्भाव्यते / सन्ततावेवान्यव्यतिरेकसम्भवात्तस्यामेव कार्यसत्त्वस्य हेतुत्वम्, न क्षणिकत्वे, यद्येवमुच्यते तथापि परमार्थकार्यकारणभावसाधनस्यैवात्रावस्थितत्वान्नैव तद् युज्यते / क्षणिकत्वव्यतिरेकेण परमार्थतः सन्ततेरसिद्धत्वात् /
SK
कस्यापि कार्यक्षणस्य सत्त्वं कस्यापि करणक्षणसत्त्वाद् यदि कल्प्यते तदा तत्समकालं सर्वसत्त्वान्तर्गशेषविद्यमानक्षणानामपि सत्त्वं स्यात् / यथा तत्स्वहेतुक्षणा विद्यमानाः, यदि दृश्यन्ते, न विद्यमाना यदि न दृश्यन्ते, तथैव तद्धेतुक्षासमाकालं सर्वसत्त्वान्तर्गताशेषक्षणा विद्यमाना यदि दृश्यन्ते, न विद्यमाना यदि न दृश्यन्ते / एवं सति तेषां कथं न हेतुत्वम् /
SK
अपि च, ऽयदस्ति तत् सत्ऽ इत्युक्तौ तच्छब्देन यद्यन्यो हेतुभूतो धर्मीत्येवं गृह्यते तदा सो ऽपि परमार्थतः प्रत्यक्षे नैव सिध्यति,यथोक्तं प्राक् /
SK
नानुमानेनापि धर्मिनः सत्त्वसिद्धिः सम्भाव्यते, सर्वेषामपि सत्त्वसाधकानां हेतूनां दोषत्रयानतिक्रान्तत्वात् / यदि धर्मी तावदसिद्धस्तदा सतो धर्मस्य हेतुत्वं नैव सम्भवि नापि चासतो धर्मस्य यक्तम्, विरुद्धत्वात् / उभयधर्मस्तु तावद् भ्रान्त एव, असपक्षे ऽपि सत्त्वात् / नैतेभ्यो भिन्नाः साधनाकाराः / यदि धर्मी तावदसिद्धस्तदापरस्यापि सत्त्वं नैव सिध्यति, तदपेक्षितत्वात् / कार्यसिद्धिरपि तथैवसम्भविनी / नात्र स्वभावहेतुना कार्यकारनभावसिद्धिः / नाप्यनुपलब्धेः, प्रतिषेधसाधकत्वात्तासां सर्वासाम् /
SK
कार्यकारणभावसिद्धिस्तावत् प्रत्यक्षतो ऽनुपलब्धेति यदुक्तं, तत्राप्युनुपलब्धिशब्दस्तावत् तदितरस्य उपलब्धात्मकप्रत्यक्षस्याभिप्रायेण प्रजुज्यते, नानुमानमभिप्रेत्य यथा तदप्रमाणं तथोक्तत्वात् /
SK
अपि च, या खलु उपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सा समुपलब्धिफला, ईदृशोनान्वयेन या कर्यकारणभावसिद्धिः तत्रापि परमार्थतः सन्देहः / किं तत्त्वतः सदित्यतः सत् अतवा अदृश्यानां पिशाचादीनां समीपवर्तित्वात् अथवा दूरेदेशस्थितस्य वस्त्वन्तरस्य समीपवर्तिनो बलादेवंविधः सम्देहः / उपलब्धिलक्षणप्राप्तस्यानुपलब्ध्या देशान्तरात् तदागमनस्य पूर्वतो वा तत्सत्त्वस्य निषेधः क्रियते, नान्यफलस्येति /
SK
यदि तत् सत्तदा तत्सत्त्वं यादृच्छिकं स्यात् / दूरदेशस्थचन्द्रदीनामपि चक्षुर्विज्ञानहेतुत्वाभ्युपगमात् / ये चान्ये तत्समर्थहेतवः तेषां निवृत्तौ तत्फलस्यापि निवृत्तौ व्यतिरेकेन या तत्सिद्धिरुक्ता, सापि परमार्थतो नैव सन्देहविगता, पिशाचादीनां दूरदेशस्थितानामप्यन्येषां सत्त्वे ऽपि तदसत्त्वसन्देहात् / यदि तदसत्त्वं तत्रापि यादृच्छिकत्वं सम्भवति, यथा मातृविवाहसंस्कारवति देशे जन्मादानम् यत्र च नास्ति मातृविवाहस्तत्रासत् / तत्समर्थकारणान्तराणि सन्तीत्येवं विशेषाभावान्न स्यात् सन्देह इति चेत्? न, तेषां सामार्थ्यविशेस्यासिद्धत्वात्, अवसरप्राप्तत्वाच्च तत्त्वसिद्धेरिति /
SK
कार्यकारणयोः सन्देहे सति तन्नैयत्यार्थं यद्यपि तत्कारणं समर्थं तथापि प्रज्ञाक्षेत्रे विशेषतस्तदसिद्धिवचनानि कथं विद्वद्भिर्निराक्रियन्ताम् / अन्वयव्यतिरेकौ व्यतीरिच्य वस्तुनि तत्सिद्धिनिश्चायकहेतूनामभावात् तत्रानवस्थादोषः स्यात् / यदि तत् सत्तदा तत्सत्त्वं साधयितुं शक्यते, किन्तु सहकारिवस्तूनां पृथक्स्वभाव इव अन्येभ्यस्तदुत्पत्त्याशङ्का कथं निवर्तेत / नाप्यदर्शनमात्रेण तदभावनिश्चयो युज्यते, अतिप्रसङ्गात् /
SK
नार्वग्दर्शिनां परेभ्य उत्पत्तिनिश्चयस्य स्पष्टं दर्शनं भवतीति / यदि परेभ्यो ऽपि तदुत्पत्तिस्तदा न भवेद् हेतुभेदाद् भेद इति चेत्? न, तथा सति स्वभाववैलक्षण्यादिसहकारिप्रत्ययेभ्यो ऽप्यनुत्पत्तिप्रसङ्गः / यदि पृथक् तद्विशेषेष्वेव ते सहकारिप्रत्यया उपयुज्यन्ते, न तु कार्यमात्रे इति चेत्? न, परमार्थतो विशेषाणामपृथक्त्वात् / यदि तदंशेनापि [कार्याणि] उत्पाद्यानीति चेत्? न, नैकस्मिन् अंशभेदः सम्भवतीति /
SK
यदि विशेषस्य पृथग्विशेषे उपचर्यमाणत्वात् स तत्त्वान्यत्वाभ्यां चिन्तयितुं न युज्यत इति व्याहरन्तो नैव विशेषान् व्याहरन्ति, प्राज्ञप्तिकस्य कदाचिदपि हेतावयुज्यमानत्वात् समूहमात्रेणैव तावदुत्पत्तिर्विभक्तिश्चापि विधीयते, न त्वेकैकेनेति चेत्, तदपि नैव युज्यते, न च कायं व्यतिरिच्य समूहो भवति / अतः एकैकः समूह एव हेतुत्वेनाभ्युपगम्यते / फलतः परमार्थतः कार्यकारणभावसिद्धौ नास्ति किमपि प्रमाणम्, कार्यकारणभावस्य सांवृतिकत्वात् / अत आचार्यैः कार्यकारणभावो यथाप्रसिद्धि सिद्ध इत्युक्तः / अतः स नैवास्ति परमार्थेनेत्यभ्युपेयम् / इत्येवं परमार्थतो ऽनित्यस्वभावम् साधयितुं नास्ति किमपि प्रमाणम्, परपरिकल्पितशब्दानामप्रमाणत्वात्, प्रमाणस्य चैतत्प्रमाणद्वयसंगृहितत्वात् / नित्यस्वभावमपि तावत् परमार्थतः साधयितुं नास्ति प्रमाणम्, प्रत्यक्षेणैवं तावत्तदसिद्धत्वात्, पूर्ववत्तेषां साकारनिराकारज्ञानभ्यामपि ग्रहणस्यानुपपन्नत्वत् /
SK
आत्मादिनित्यवस्तून्यपि यथा स्वसिद्धन्तेषु विज्ञप्यन्ते तथा प्रत्यक्षज्ञाने नैवावभासन्ते / प्रत्यक्षज्ञानविषयत्वे सन्मात्रत्वेन तेषां सत्त्वम् / तथा सति सर्वदा सत्त्वप्रसङ्गः / न चात्र परापेक्षा युज्यते, अनाधेयातिशयत्वाद् अपेक्षाया अयोगात्, अहेतुकानां च विषयत्वानुपपन्नत्वत् /
SK
तद्विज्ञानने विज्ञेयस्वभावत्वाद् विषयत्वोपचारे ऽपि तद्विज्ञानस्य तद्व्न्नित्यत्वप्रसङ्गः / तस्य [विज्ञानस्य] विज्ञेयस्वभावानुसरणात् सः [विज्ञेयः] अपि तद् [विज्ञानं] अनुसरति, अन्यथा तेन ज्ञेयस्वभावानुसरणमपि न कृतं स्यात्, तद्विज्ञेयस्य तदपेक्षितत्वात् /
SK
नानुमानेनापि तत् सिध्यति, केनापि हेतुना सह तस्यासम्बद्धत्वात् / अतः कार्यहेतुस्तावदसम्भवी / ततः क्रमयौपद्याभ्यां कस्यापि फलस्यानुत्पादात् / अप्रत्यक्षार्थस्य किमपि सहकारिकाणत्वेन न परिगृह्यते / कार्यकारणभावस्तावदन्वयव्यतिरेकाभ्यां स्पष्टमवगम्यते / अत आत्मादीनां सुखादिफलेन सह कुत्राप्यन्वयो न सिध्यति अविकलकारणत्वेन न ततः कादाचित्कसुखोत्पतिरिति / व्यतिरेको ऽपि तावान्नास्त्येव, नित्यत्वादव्यतिरेक एव / नापि स्वभावहेतोस्तत्सत्त्वसिद्धिः सम्भवति, आधारधर्मिणो ऽसिद्धत्वात् तत्सत्तासाधकहेतोः पूर्ववद्दोषत्रयानतिक्रान्तत्वाच्च / ये तावद् रुपादयः प्रसिद्धधर्मिणस्ते ऽपि परमार्थतो ऽसिद्धा एव / कादाचित्कत्वात्तेषां व्यवहारेणापि नित्यस्यापेक्षा दुरुपपादैव / अनुपलब्ध्यापि तावन्नैव तत्सत्त्वसिद्धिः प्रतिषेधसिद्धौ समर्थत्वात् प्रतिषेधमात्रं सा साधयतीति /
SK
अपि च, स्वभावानुपलब्धिरपि तावन्नैव सम्भविनी, अभावव्यवहारसाधनपरत्वात्तस्याः / इन्द्रियैरग्राह्यार्थेन सहविरुद्धयोर्व्याप्यव्यापकयोःकार्यकारणयोश्चासिद्धत्वाद् विरुद्धोपलब्धिरपि तावन्नैव सम्भविनी / प्रमाणद्वयमतिरिच्य नास्ति प्रमाणान्तरमित्यन्यत्र प्रसाधितत्वात् / फलतः वस्तुस्वभावपरीक्षणार्थं नास्ति किमपि साधकं प्रमाणमिति / अतः प्रेक्षावद्भिः परमार्थतः सत्त्वेन स नैव व्यवहर्त्तव्यः / तत्र तावदयं पयोगः - यस्य परमार्थः साधने नस्ति किमपि प्रमाणम्, कल्पनानिर्मितत्वात्तस्य तथैव सम्यक्ताया ग्रहणं नैव कर्त्तव्यम्, यथाश्यामत्वादिगुणविशिष्टस्य वन्ध्यापुत्रस्येति /
SK
उपर्युक्तयोरुभयोः सम्यक्स्वभावयोः प्रसिद्धयर्थं नास्ति किमपि प्रमाणम् / व्यापकानुपलब्धेस्तावत् प्रतिषेधमात्रफलत्वात्, प्रेक्षावतां सद्व्यवहारस्य च प्रमाणव्याप्तत्वात् / नास्ति हेतोरसिद्धत्वमिति यदुक्तं तत् पूर्वं विस्तरेण विचारितम् /
SK
व्याप्यव्यापकभावानुपपत्तेः कल्पनायोगप्रसङ्गनिवृत्तेस्तु बाधकप्रमाणाभावान्नास्त्यनैकान्तिकत्वमपि / सपक्षे सत्त्वान्नास्ति हेतोर्विरुद्धत्वमपि / सदसद्व्यवहारयोः प्रमाणव्याप्तत्वाभ्युपगतत्वे भावसिद्धिरेव [नूनं] स्यात्, तादृशस्य खलु व्याप्यव्यापकभावस्य कुत्राप्यन्वयं विहाय व्यतिरेकमात्रेन सिद्धेरसम्भवात् /
SK
व्यतिरेकनिश्चयो ऽपि नैवान्वयश्चयं विना सम्भवति / यत् सत् तत् कथमसदिति तन्निवृत्त्या व्यतिरेकी भवितुं शक्नोति, सम्बन्धाभावात् / अतो नियतमेव प्रमाणाभिव्यक्तान्वयः सद्भावव्यवहारश्च स्वीकर्त्तव्यः /
SK
यदि स स्वीक्रियते तदा क्वचित्तदेव सदिति सदव्यवहारप्रमाणं यत् यत् सत्तानुविधाने प्रसिद्धं तदेवास्माकं वस्तुनि प्रसिद्धमिति चेत्? तन्नैव युज्यते / एवं सद्व्यवहारप्रमाणव्याप्तमपि प्रमाणमात्रेण परमार्थतया नैयत्येन सद्विषयित्वेन नैव सेत्स्यति, व्यापकसंनिधानेन व्याप्यविशेषनिश्चयस्य कर्त्तुमशक्यत्वाद् अन्यत्रापि सम्भवाच्च / अन्यथा वृक्षेणापि शिंशपादिविशेषा निश्चयेण ज्ञास्यन्त इति, किमतेनास्ति प्रतिकूलम्? एवं तावद् वृक्षस्त्वशेषविशेषसाधारणत्वान्न तेन देवलादिविशेषा निर्णेतुं शक्याः / प्रमाणं हि नैव तावद् भावातिक्रान्ते ऽपरस्मिन्नपि सम्भवति /
SK
इत्थमभावप्रवृत्तत्वात् प्रमाणहानिरेव स्यात् / सर्वप्रमाणानि भावाभिव्यञ्जकानि तद्व्याप्तप्रमाणबलभाविव्यवहारप्रवर्तकान्यपि प्रमाणावज्ञातवस्तुमात्रे प्रवृत्तत्वाद् वृक्षादिवत् कुतः साधारणानीति चेत्? नैतद् युज्यते, संवृतिकजगदर्थविषयीण्यपि प्रमाणनि भवन्तीत्येतद् बहुधा पूर्वं चर्चितम् / अन्यथा सर्वप्रमाणानि परमार्थैकविषयीणि भवेयुः, ततश्च सर्वे तत्त्वदर्शिनः स्युः, तत्त्वदर्शिनां कृते आर्यमार्गभावनायाश्चापि नैरर्थक्यम्, वक्तृणामपि तत्त्वविषेये कश्चन विवादो न स्यात्, सर्वेषां तत्त्वदर्शित्वात् तेषु संशयाभावात् / प्रमाणलक्षणशास्त्राणां प्रणयनमपि निरर्थकं स्यात्, मोहनिवर्तनफलत्वातेषाम्, तत्त्वज्ञानार्थमेव तैः सर्वेषां मोहावकाशो दूरीक्रियत इति /
SK
लक्षणकारैर्लक्षणेषु परस्परविरोधो भिन्नसिद्धान्तप्रवेशो वा न करिष्यते, तत्त्वस्यैकस्वभावत्वात् / अतो व्यवहारप्रमाणं यन्नैव परमार्थविषयि तदपि व्यवहारप्रमाणं सम्भवत्येव / नैव हि सर्वप्रमाणानि परमार्थत्वेन व्याप्तानि / अपरमार्थविषयित्वे ऽपि इष्टार्थप्रापकत्वेन स्वप्नादिवद् व्यवहारप्रमाणं व्यवस्थाप्यते / तद्विषयेषु ऽपरमार्थाऽ इति संज्ञाप्रदाने ऽपि नास्ति विवादः / देहधारिणो ये वस्तुस्वभावस्य यथावत् परिज्ञानेन संसारकारातो मुमुक्षवस्तेषामविद्या विषयेभ्यो विनिवृत्तवभावा, ते च [विषयाः] सम्यग्ज्ञानगोचरा जायन्ते / अभीष्टार्थक्रियासाधकर्थप्राप्तिमात्रेण पुरुषा नैव मुक्ताः स्युः सर्वस्य मुक्तिप्रसङ्गात् / अतः अविसंवादि ज्ञानं प्रमाणमिति यदुक्तं तत् प्रमाणसाधारणलक्षणम् / सद्व्यवहारव्याप्तमपि तन्न सम्यगर्थविषयित्वेन सिध्यति / अतः कथं तस्मिन् सम्यग् वस्तु अविपरीततया सेत्स्यति / अस्मिन् बाधकप्रमाणाभावरुपो व्यवहारो ऽपि सिध्यति /
SK
[२६-२९] ये तावत् परमार्थतः स्वपरोभयाहेतुकतो ऽनुत्पन्नास्तेषां सम्यक्तया निःस्वभावत्वात्, खपुष्पवत् / यानि तावत् स्वतो वा परतो वा अविपरीतया सद्वस्तूनि, तानि सर्वाण्यपि तथैव / अत्र नास्ति प्रमाणासिद्धत्वमपि, यतो ये तावत् सांख्यादयस्ते हेतुं सत्कार्यं व्यवस्थापयन्ति / स्वत एव वस्तूनि जायन्त इति ब्रुवाणा नैव युक्तिसङ्गताः / न हि सद् वा असद् वा वस्तु स्वतः स्वहेतौ निष्पद्यते / इत्येवं वस्तुः यद्यात्मानमुत्पादयतीति नियतमेव तत्रैकतरस्यासिद्धत्वम् / न ह्यत्र असिद्धस्तावदुत्पद्यते, तदानीं तस्यासिद्धत्वादेव / फलतः को हि नाम कस्योत्पादकः स्यात् / वन्ध्यापुत्रादयः खल्वसिद्धस्वभावा नात्मस्वभावमुत्पादयितुं क्षमाः /
SK
[स्वभावत] सिद्धो ऽपि नैवोत्पादकः / तदात्मना सिद्धो ऽपि विशेषाभावात् कस्तावत् कस्योत्पादकः स्यात् / यस्तावत् सिद्धः, स नैवासिद्धस्वभावयुक्तः, अतिप्रसङ्गात् / उपकार्योपकारकत्वं तावदुत्पाद्योत्पादकस्वभाव एव वस्तुनि युज्यते / यदि स स्वभावेन सिद्धस्तदा तस्मिन् अणुमात्रमपि उपकार्यस्वभावस्याभावात् कथं स उत्पाद्यः स्यात् / अविशेषणीयत्वे ऽपि यद्युत्पाद्यत्वमहेतुकतायामुपकल्प्यते तदा सज्ज्ञानमपि तथैव किं न परिकल्प्यते / अभिन्नत्वादाध्यात्मिकायतनादीनि तथैव न परिकल्पयितव्यानि / अत एव विद्वद्भिः ᳚आभ्यात्मिकायतनानि न स्वत उत्पन्नानि, सत्त्वात्, सज्ज्ञानवत्᳚ इत्यस्मिन् प्रसङ्गे प्राङ्गार्थमविदित्वा केचन [प्रयोगे] अस्मिन् दृष्टान्तासिद्धिं, केचिच्च विरुद्धहेतुत्वं निरुपयन्ति, तत्र तेषामज्ञानस्यैव दोषः / इत्यं परेषु परस्परविरोधं प्रतिपादयिषया परेषु सिद्धानि सज्ज्ञानादीनि तावदुदाह्रियन्ते / स्वतस्तावत् संसिद्धवस्तुनि को ऽपि अस्वीकृतिप्रसङ्गो नैवापादितः /
SK
सज्ज्ञानमपि परेषु नासिद्धम्, अतो दृष्टान्तासिद्धिः हेतोर्विरुद्धत्वमपि न स्तः / नित्यैकपर्यायस्वभावायाः स्वसन्ततेः सिद्धयर्थं तथाविधहेतुदृष्टान्तासिद्धेः / अपरतश्च परस्पराप्रतिबद्धाभिधानं तावदभिधानाभिलाषमात्रमेव, न तु स्वसन्ततेर्वस्तुधर्मतायाः प्रसाधनम् / यदि स सिद्धः स्यात्तदा तद्विरोधाभिधानमुचितम्, तत्र हेतुदृष्टान्तयोरप्रसिद्धत्वात् तदभिधानं तावदप्रतिबद्धमेव / परिनिष्पन्नभावात्मकत्वे ऽपि यदि तदुपकारः स्वीक्रियते तदा तद्भिन्नः स उपकारो न स्वत उत्पद्यते, अर्थान्तरभूतस्योपकारस्य उत्पन्नत्वात् / यद्यभिन्नस्तदोपकारस्यापि तथैव सिद्धत्वात् स कथमिव सेत्स्यति / अतो ऽस्मिन्नपि हेत्वभिधानमावश्यकम् /
SK
अपि च, यदि कार्यकारणभावो ऽयं वृक्षद्रुमवत् पर्यायतयोच्यते तदा न तथा लोकप्रसिद्धिरिति / अतो ऽवश्यमेवास्य प्रवृत्तेर्भिन्नं कारणमिति स्वल्पमपि हेतूपर्शनमावश्यकम् / यदि कार्यकारणैकत्वमभ्युपगम्यते तदा तदुपदर्शनमसम्भवम् / यदि हेत्वभिव्यक्तौ विपरिणामे वा सति फलं भवतीति निर्दिश्यते तदा एवमयं पृथग्व्यस्थितः सद्धेतुरेव / नैवं चिन्तनं युज्यते, यतो हि स यदि अभिव्यक्तेर्विपरिणामस्य वावभासो निश्चयेन तद्भिन्नस्तदा केवलादन्यस्मादुत्पत्तिरेवाभ्युपगता स्यात् / यदि नास्ति भिन्नस्तदा कार्यकारणविप्लवदोषः प्रसक्तः स्यात् /
SK
एकस्मिन् युगपद् व्यक्ताव्यक्तादिविरुद्धधर्मयोगः कथमिव युज्येत / अतः परस्परविरुद्धत्वाद् भेदाभेदपक्षो ऽपि नैव समीचीनः / परस्परपरिहारस्थितलक्षणधर्मस्य इतरप्रतिषेधकत्वाद् अन्यत्रासिद्धत्वाच्च अनुभयपक्षकल्पनमपि नैव युक्तीमत् /
SK
अपि च, यद्यभीष्टे तद्धेतौ अभीष्टं वस्तु आत्मनः पुर्वस्वभावमपरित्यज्य अभिव्यक्ताद्यवस्थां प्राप्नोति तदा अवस्थाविकृतिप्रसङ्गः / फलतः एकप्रतीत्यपेक्षघटादीनामवभासो ऽनवभासश्च स्याताम् / वार्धक्ये ऽपि बल्यावस्थादयः स्पष्टं प्रतिभासेरन् / यदि परित्यज्येति पक्षस्तदा निरंशस्वभावत्वात् कश्चिदप्यन्वयस्वभावो न स्यात् / पश्चाद् व्यक्तावस्थायामपि द्रव्यान्तरस्योत्पादान्नैव स्वत उत्पादः, नापि काचिदभिव्यक्तिः परिणामो वा स्यादिति /
SK
अपि च, व्यक्तमप्यनाभासितं सदितरलक्षणत्वाद् इतराभ्यामभिव्यक्तिपरिणामाभ्यां प्रभावितत्वात् परिकल्पितमेव / न च तदन्यरुपेण विपरिवर्तनीयम्, विरुद्धत्वात् / एकमेव वस्तु तत्त्वपरिच्छेदकाले तदितरव्यावृत्त्या परिच्छिद्यते / अन्यदपि इतरव्यावृत्त्या परिच्छिद्यते / एतदविपरीतत्वेन परिच्छेदे सति न तत् परिच्छेदयोग्यं स्यात् / यस्य परिच्छेदकाले यो विच्छेद्यो न भवति, तदभावस्तेन सह परस्परपरिहारस्थितलक्षणो भवति / ये परस्परपरिहारस्थितलक्षणास्ते एकस्मिन् धर्मिणि नैव युक्तरुपाः, यथा - एकस्मिश्चित्ते मूर्त्तमूर्त्तत्वविशेषणानि / तत्त्वान्यत्वयोः तत्सदृशयोर्वा कथमेकस्मिन् योगः सम्भवेत् / यदि विरुद्धधर्माणामप्येकत्वं तदा सर्वेषामेकद्रव्यत्वं प्रसज्येत / अतश्च बन्धनमुक्त्योर्जातिमरणयोश्च यौगपद्यं स्यात् / यद्येवं नास्ति तदा नाममात्रं खल्वेकत्वम् / नास्त्यत्र कश्चन विवादः / अतः यो हि वस्तुभेदः प्रागवस्थाविलक्षणः परिकल्प्यते, स एव अन्यस्तत्त्वविलक्षण इति / यश्चान्यः स कथं तस्येति?
SK
अथ यश्चास्य स्वभावः पश्चादुपलभ्यते, स पूर्वमपि परमार्थतो विद्यत इति? तदा स तदानीं कथं नोपलभ्यते / अथानाभासस्वभावत्वात् पूर्वं नोपलभ्यत इति चेत्? तदा हैतावपि तस्य तथैवानुपलब्धिप्रसङ्गः / इष्यमाणे ऽपि चोपलब्धिस्वभावे प्राग्वत् पश्चादपि अनुपलब्धः स्यात् / यदि तदनींमावृतत्वादनुपलब्ध इति चेत्? तदा पश्चादपि आवरणशङ्कासद्भावात् तथैवानुपलब्धिप्रसङ्गः / दुग्धादीनां शतधा विनाशे ऽपि या हि दध्यादिरुपेण उपलब्धिलक्षणप्राप्तिः, सा नास्त्युपलब्धिबाधिका / अपि च, यः कश्चिद् दृढरुपेण भावस्वभावस्तत्स्य कथमन्यथा विकारानुभवः स्यात् / यदि स ताअवददृढस्वभावस्तदापि भङ्गुरत्वान्निरन्वयं विनष्टं स्यादिति तस्याप्यन्यथा विकारानुभवो नैव स्यात् /
SK
अतो ऽभिव्यक्तेः परिणामस्य चायुज्यमानत्वाद् या हि ताभ्यां स्वत उत्पत्तिपरिकल्पना, सापि तावन्नैव युज्यते / यदि आकस्मिकी तवत् स्वत उत्पत्तिस्तथापि यद्धि वस्तूनां देशकालस्वभावनियतत्त्वम्, तस्य किं कारणं स्यात् / निरपेक्षेषु तावद् वस्तुषु तथाविधा नैयत्याम्भावना नैव युक्तिमती / यदि हि परसापेक्षत्वं तदा परत उत्पत्तिः स्यात्, न हि उपकाराभावे अपेक्षा नोमोपपद्यते सापि पश्चान्निषेत्स्यत इति / अपेक्षाया अपि तावत् सदा संनिहितस्वभावत्वात् सर्वदैवोत्पत्तिप्रसङ्गः / इत्येवं व्यवहारे ऽपि तावत् स्वत उत्पादो ऽसम्भव एव /
SK
परतो ऽपि नैव [उत्पादः] / यदि ततः [परतश्चेत्] उत्पादः, तदा स [पराख्यः प्रत्ययः] नित्यो वा भवेद्, अनित्यो व / नित्यात्तावद् व्यवहारे ऽपि नोत्पादो युक्तियुक्तः, क्रमाक्रमाभ्याम् अर्थक्रियायास्तत्रानु पपन्नत्वात् / अप्रतीहतसामर्थ्यहेतुतो ऽपि न भवति कदाचित्ककार्योत्पत्तिः, नापि चाविकलहेतुतो ऽपि कादाचित्ककार्योत्पत्तिः [सम्भवति] / फलतः कथं नाम तस्मात् क्रमशो ऽर्थक्रिया सम्पस्यते? परैरनाधेयविशेषस्य [क्वचिदपि] अपेक्षाया अनुपपन्नत्वात् / सहकारिसम्बद्धस्वभावमनुसरतीति चेत्? सहकारिणामपि सर्वदा तथैवानुसरणप्रसङ्गः / नानुसरतीति चेत्? नित्यतायास्तस्य भङ्ग आपद्यते / अतो नास्ति तस्य सहकारिकारणापेक्षा / नित्यहेतुसमाश्रितस्य फलस्यापि नान्यप्रत्ययापेक्षा, असत्त्वात् / असत्त्वे ऽपि तत्प्रतिबद्धात्मभावस्य प्राप्यमाणत्वाद् बुद्धिपरिकल्पिता अपेक्षा तावद् व्यवस्थाप्यते, किन्तु तदभिनिर्हाराय यो हि अप्रतिसामर्थ्यवान् हेतुः, स एव तस्यानुपकारकत्वात् [सा] तदपेक्षिता भवति, न त्वन्यान् [अपेक्षते] /
SK
अतो नित्यत्वेन यदभीष्टं वस्तु सदैवोपकरोति तदप्रतिहतसमर्थ्यं हेतुं परित्यज्य कथमन्यान् अपेक्षिष्यते? कार्याणि हि सहकारिकारणान्यपेक्षन्ते, तथापि ये तावदीश्चरदयो हेतवः, यदि ते ऽप्रतिहतसामर्थ्यवन्तस्तदा कथमपेक्षामर्हन्ति, येन तेभ्य उत्पत्तिमस्वीकुर्वद्भिर्बलेन ᳚नैवोत्पाद्यन्ते᳚ इत्येवम् आत्मबलोपदर्शनं करिष्यते, नान्यत्र / अतो नैव तावद् अक्रमेण क्रमोत्पत्तिरिति / एवमेव कार्याणि यदि हेतुधर्मान् नानुसरन्ति तदा तदभिन्नत्वप्रसङ्गः स्यादेवेति / अतो ऽवश्यमुभयोर्भेदो ऽभ्युपेयः /
SK
अक्रमादपि हेतोः क्रमिणः कार्यस्योत्पादो न विरुध्यतीति चेत्? नैतद् युज्यते, यतः ऽकार्याणि सर्वान् हेतुधर्मान् नानुविदधतेऽ इत्येवं तत्कथनं स्यात् / किन्यु कार्याणि तावत् कारणान्वयव्यतिरेकानुविधायीनि भवन्त्येव / एतावन्मात्रमेव च कार्यकारणभावे हेतुत्वं नाम / किमपि कार्यं नित्यस्य वस्तनो व्यतिरेकं नैवानुविधत्ते, नित्यस्य तावद् व्यतिरेकाभावादेव / अन्यथा तदनित्यमेव स्यान्न नित्यमिति /
SK
नापि अन्वयानुविधानमपि / अविकले ऽपि कदाचित् कार्योत्पादाभावात् यद् यत्र अन्वयव्यतिरेकौ नानुविधत्ते, न तत् तत्कार्यं युज्यते, अतिप्रसङ्गात् /
SK
सतः कार्यस्य तावत् [क्वचिदपि] अपेक्षा नैव युज्यते, सर्वात्मना सिद्धत्वात्तस्य / अतो नाकाङ्क्षत एव सर्वानपि / इत्थं नित्ये तावत् क्रमशो ऽर्थक्रिया न युज्यते, नापि च युगपदपि, यतो हि तस्य तथाविधार्थक्रियाया विनष्टस्वभावमनुसृत्य कार्योत्पत्तिर्वा तद्वियोगो वा न युज्यते / यदि तत्सामर्थ्यस्वभावं पश्चत्काले ऽपि अनुसरति तदापि तेन सर्वाणि कार्याणि यानि पूर्वोत्पन्ननि तानि नैव पुनरुत्पादयितुं शक्यन्ते, पूर्वोत्पन्नत्वादेव /
SK
यदन्यत् तत्सदृशं तत्कथं नोत्पद्यत इति विरोधपरीक्षापि तावन्नैव युज्यते,तेन तदुत्पादयितुमशक्यत्वात् / सामर्थ्ये सति पूर्वोत्पन्नमेव स्यादिति चेत्? नैव तावत्तद् युज्यते / तत उत्पाद्यस्य कार्यस्य अनुत्पत्तावपि तदुत्पत्तिसामर्थ्यस्वभावानुसरणं प्रतिहतं स्यात् / यो यदा यदुत्पादयति तदा तस्मिन् अप्रतिहतसामर्थ्यं भवतीति कथनं नैव युक्तिमत्तरम् / तस्मादयं पूर्वमपि पश्चात्काल इव अनुत्पादक एव स्यात्, अनुत्पादकावस्थातो ऽभिन्नत्वात् / ततश्च पश्चात्काले ऽपि पूर्ववद् उत्पादक एव स्यात् / यद्येवं नास्ति तदा विरुद्धधर्मयोगाद् अस्मैकत्वहानिः स्यात् / अतः स युगपदर्शक्रियामपि तावन्नैव करोति /
SK
क्रमयौगपद्याभ्यां व्यतिरिच्य अन्यस्तावत् प्रकारो ऽर्थक्रियाकारी नास्त्येव / परस्परपरिच्छित्त्या व्यवच्छेदाभावात्, [अतः] असन्नेव सः / अतो परस्परपरिहारस्थितलक्षणो विरोधान्तरो न सिध्यतीति चेत्? असन्नेव तदा स इति / अतः परतो नित्यादुत्पत्तिस्तावन्नैव युज्यते /
SK
नाप्यनित्यात्, क्षणस्थितिधर्मित्वात्तस्यानित्यस्य / अतः कल्पकल्पान्तरेषु अविशेषतया स्थितत्वात् पूर्ववत् पश्चादपि तस्य विनाशो नैव युज्यते / कार्योत्पत्तिस्तावदतीताद् [हेतोः] भवतीति वैभाषिकाः, यथा ते अतीतादपि विपाकहेतोः कार्योत्पत्तिं वर्णयन्ति, अनागतां वा, यथा तत एव अनागतजातेरुत्पादः / एवंविध उपचारो वा वर्तमानक्रियाक्रमो वा अतीताद्धेतोर्भवतीति वादो नैव सर्वथा युक्तः, अतीतस्यासत्त्वात् / यदि तत उत्पत्तिरङ्गीक्रियते तदा अहेतुत एव स्यात् /
SK
को हि नामातीतः? किमुपहतस्वभावो ऽतीत इति / यद्येवं नास्ति तदा वर्तमान इव अनुपहतस्वभावात्मकत्वात् कथं हि स अतीत इति / यश्चोपहतस्वभावः स तावदसत्स्वभावत्वात् कथं कार्यमुत्पादयिष्यति / अर्थक्रिया हि स्वस्वभावमेवापेक्षते / यदि क्रियाविनाशेन अतीत इत्युच्यते, न तु स्वभावपरिहाण्येत्युच्यते, एवं सति विनष्टायाः क्रियातः कार्योत्पत्तिर्नैव युज्यते / एवं न भवति / कथं हि कार्योत्पत्तौ क्रियमाणायां क्रियाविनाश इति / एकस्वभावात्मके वस्तुनि क्रियावन्ति अक्रियावन्ति च कार्याणि न युज्यते, भिन्नतायाः प्रसङ्गात्, निरंशत्वाद्धि तस्य /
SK
आक्षेपमात्रा हि क्रिया, न चानाधायिका, अभिन्नत्वात् स आक्षेपकाल एवाधानं करिष्यति / अन्यथा पूर्ववत् पश्चादपि सा तथा भवितुं न शक्ता स्यात् /
SK
अपि च, क्रिया नाम सा किं समर्थस्वभावा यदुत कर्मस्वभावा? यदि तत् स्वभावद्वयं वस्तुनः सकाशाद् भिन्नं तदा कथं नाम तद् [वस्तु] विनष्टमित्यभिधातुं शक्यते / यदि तदुपहतस्वभावं तदा समस्तवस्तुनो नित्यसत्तावादस्य हानिः प्रसज्यते / अर्थान्तरविनाशे सत्यपि वस्तुनो ह्यचलस्वभावस्य विनाशो नैव सिध्यति / यथा मृते ऽपि देवदत्ते यज्ञदत्तस्य अनुपहतस्वभावात्मकत्वान्मृत स इति वक्तुं न शक्यते /
SK
यदि क्रियान्तरविनाशात्तस्य विनाशःस्वीक्रियते, तदैतन्नैव युज्यते, अनवस्थानात्, यतो हि क्रियायां क्रियान्तरसद्भावो नास्त्येत् / तस्यामपि तुल्य एव विरोधः परीक्षा च / फलतः कस्यापि विनाशो नैव सिध्येत् / अन्यार्थत्वे सति क्रियायाः वस्तु तावद् अहेतुकमेव स्यात्, केवलं क्रियात एव कार्यस्योत्पादात् / अतो वस्तुनस्तावदसत्त्वप्रसङ्गः / अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः / अन्यार्थक्रियान्तरोभयस्वभावात्मकत्वाद् यदि वस्तुन उत्पत्तिरभ्युपगम्यते तदा क्रिया यदा वस्तुन उत्पत्तिरभ्युपगम्यते तदा क्रिया यदा स्वभावत एवोत्पादयति तदा वस्त्वपि तथैवोत्पादकं स्यात् / फलतो ऽन्यार्थप्रतीत्या किम्? अर्थान्तरस्य पक्षत्वे अन्यार्थकल्पनायाम् अनवस्थादोषान्नैव [कदापि] हेतुत्वं सिध्येत् / वस्तूपकाराभावाद् ऽअस्येयं क्रियाऽ - इति सम्बन्ध एव न सिद्धः स्याद्, उपकारसापेक्षत्वात् सम्बन्धस्येति /
SK
उपकारकत्वमेव यदि वस्तुत्वेनाङ्गीक्रियते तदा क्रियात्मकत्वाद् वस्तुनः, क्रियामुपकरोतीति चेत्तदा कार्यमपि कथं न तथैवोपकरोति? केन तावत् कारणेन क्रियान्तरत्वेनोपकल्प्यते? यदि क्रिया हि सन्मात्रवस्तुसापेक्षैव तदा अविकलहेतुत्वात् सदा तल्समीपवर्तिनी एव, अतो विनाशो ऽपि तावन्नैव सिध्यति / यदि सा अर्थन्तरभूता तदा सम्बन्धस्तावदसिद्ध एव / क्रियाणामेव परस्परयोगाद् वस्तु ताअवद् गौणमेव स्थास्यपि / क्षणिकस्य [वस्तुनः] उत्पादसमनन्तरमेव अस्थायित्वात् [तस्य कस्यामपि] क्रियायां कर्मस्वभावत्वं नैव युज्यते ये तावदक्षणिकास्ते सदा एकस्वभावत्वेनावस्थित्वान्नैव क्रियावन्त आकाशवत् / अतः केष्वपि ऽकर्म क्रियतेऽ इति न सिध्यति / अत एव सामर्थ्यक्रियादिशब्देन वस्तुस्वभावो ऽभिधीयते, नान्यस्मिन्नर्थे /
SK
क्रिया, या वस्त्वभिन्नत्वेनोभयस्वभावा, सा विनश्य यदि स्वस्वभावोपहतलक्षणा [भवति], तदा वस्त्वपि तदभिन्नतया स्वस्वभावोहतमेव भवति / अतः कथमतीतस्य सत्त्वं सेत्स्यतीती? वस्तुनः स्वस्वभाव इव क्रियाया अपि अविनाशप्रसङ्गे सति क्रियाया नैव [कदापि] विनाशः सिध्यति / सैव क्रिया पुनर्यदि अन्यत्वे ऽनभिधेयेति सति क्रियाया नैव [कदापि] विनाशः सिध्यति / सैव क्रिया पुनर्यदि अन्यत्वे ऽनभिधेयेति कल्प्यते तदा प्रज्ञप्तिसत्त्वात् सा अवस्त्वेव / फलतस्तद्बलेन त्रिकालव्यवस्थापि नैव समीचीना स्यात् / वस्तुसतः केनाप प्रकारेण अनभिधेयत्वं नोपपद्यते / तथा सति सर्वस्याप्यनाभिधेयत्वप्रसङ्गः / अतो ऽतीतस्य अवस्तुत्वान्नैव तेन कार्यस्योत्पत्तिरिति /
SK
नाप्यनागतात् / अतीत इव तस्याप्यसत्त्वात् / एवमसत्त्वाद् आकाशकमलसदृशाद् अनागतादपि कार्योत्पत्तिर्नैव युज्यते / यदि अप्राप्तक्रियस्तावदनागत इत्युच्यते तदा तदानीं तस्मादपि कार्योत्पत्तिः आत्यन्तिकतया नैव युक्तिमती, अप्राप्तक्रियत्वादेव / यदि वस्तु सर्वदा विद्यमानं तदा तस्याः प्राप्तेरविकलकारणानां सद्भावे ऽपि किमिव क्रिया नैव प्राप्यते / नापि क्रिया वस्तुनः सकाशादर्थान्तरभूतेति पूर्वमेव निर्दिष्टत्वात् / यदि नास्ति अर्थान्तरभूता तदा क्रियावत् स्वभावो ऽपि नैव अप्राप्तः स्यादभिन्नत्वात् / अतः अनागतास्तित्वं नैव सिध्यति / वस्तुनः स्वभाव इव तदभिन्ना क्रियापि सर्वदा सदेव, अतः सा अप्राप्तेत्यपि नैव सिध्यति / अतः अनागतान्नास्ति कार्योत्पत्तिः तस्यासत्त्वादेव /
SK
वर्तमान इत्यपि पक्षो न सम्भवति / यदि ततः [वर्तमनात्] कार्यं समुत्पद्यते तदा समकालं वा समुत्पद्यताम्,. विषमकालं [भिन्नकालं] वा समुत्पद्यताम् / न तावत् कदाचित् समकालम् / कार्योत्पत्तितः पूर्वं शशशृङ्गनिभाद् असत्कारणाद् उत्पादो नैव युक्तः / यस्मिन् काले च हेतोरात्मभावः [कार्योत्पदने] समर्थस्तस्मिन् काले कार्यस्यापि समकालं सत्त्वात् सिद्धमेव तत् [कार्यम्] इति / अतस्तस्मिन् [कर्ये] स हेतुः कमपि व्यापारं नैव करोति / हेतुव्यवहारो ऽपि तावत् [तस्मिन्] नैव युक्तरूपः, यथा फलाभिमतो नैव हेतुरिति / यद्येवं न स्यात्तदा कार्यकारणभावस्यैव भङ्गः स्यादिति / विषम [भिन्न] कालमिति पक्षो ऽपि नैव सम्भवति एवमेव यदि कार्यं [उत्पादात्] पूर्वमेव सत् स्यात् तदानागतोत्पादः स्यात् / अयमपि तावत् [पक्षः] नैव युज्यत इत्युक्तपूर्वमस्माभिः /
SK
यदि [कार्यं] क्षणान्तरव्यवधानेनोत्पद्यते तदा तदतीतादेवोत्पद्यत इति नैव युक्तमित्युक्तपूर्वम् / यद्यव्यवहिततया [उत्पादः], तदा सर्वात्मनाव्यावहितत्वात् समकालिकताप्रसङ्गः / अथापि स्यात्, यद्यपि अव्यवहितत्वेन कार्यस्योत्पादस्तथापि नास्ति समकालिकताप्रसङ्गः, द्वितीये क्षणे कार्यसत्ताया अभ्युपगमादिति / तदापि क्षणिकत्वान्नस्ति हेतोः स्थितिः / अत्र भगवतापि - ᳚अस्मिन् सतीदं भवति᳚ इति कार्यकरणभावस्य निर्देशात् कल्पनात्रयं विवर्ज्य चतुर्थी स्वीक्रियते / ताः कल्पनाः पुनः - कारणत् पूर्वं कार्यं वा, समकालिके कार्यकारणे वा, क्षणान्तरव्यवहितत्वं वा, अव्यवहितत्वे सति द्वितीयक्षणे ऽवस्थानं वा - इत्येवंविधाः स्युः /
SK
तत्र यत्तवत् पूर्वमेव स्थितं भवति न तद् हेतौ सति जायते, पूर्वमेव निष्पन्नत्वात्तस्य / समकाले ऽपि हेतुतो नैवोत्पत्स्यते [कार्यम्], तस्मिन् काले तस्य [कार्यस्य] अपि सत्वात् / इत्येवं समकालिककार्याभावात् कारणस्याप्यसत्त्वम् / कारणसत्त्वे कार्येस्यापि सत्त्वम् / तृतीयक्षणभावि कार्यमपिओ हेतुतो नोत्पद्यते, द्वितीयसत्त्वे कार्यस्यापि सत्त्वम् / तृतीयक्षणभावि कार्यमपि हेतुतो नोत्पद्यते, द्वितीयक्षण एव विनाशात् कारणं तावदसदेव / इत्यं द्वितीयक्षणे विद्यमानं कार्यमेव हेतोः समुत्पद्यते, प्राथमक्षणिकस्य हेतोः स्वकाले सत्त्वादेव / ततो ऽव्यवहिते द्वितीये क्षणे कार्यसत्ताया अनुभवार्थम् - ᳚अस्मिन् सतीदं भवती᳚ त्युक्तम् / न च कार्यकाले काएअनसत्तायाः प्रसङ्गः, क्षणिकत्वात्तदा तस्यासत्त्वात् / नापि विनष्टात् कारणात् कार्योत्पत्तिप्रसङ्गः, प्रथमे क्षणे कारणस्य अविनष्टात्वात् तदव्यवधानेनैव च कार्यस्योत्पादात् / तृतीये क्षणे तावत् कार्योत्पादो ऽस्विति चेत्? नैतदपि युज्यते, [कार्यकारणयो] मध्ये नास्त्येवंविधम् अणुमात्रमपि कालान्तरास्तित्वम् / विद्यमानं कारणं कालान्तराव्यवहितं च कार्यं यद्यभ्युपगम्यते, नैव तत्कार्यं तदा स्वनिर्भरम् / [एवं च सति] समकालिकत्वप्रसङ्गः स्यान्नवेति विचारणीयतामर्हति / निरंशे तावद् वस्तुनि कालान्तरेणाव्यवहिते च सति समकालिकत्वं मुक्त्वा नान्या गतिः सम्भवति, तयोःसर्वात्मना अव्यवहितत्वात् / यदि नास्ति मध्ये कालान्तरास्तित्वं तदा अवश्यं पूर्वापरतोः क्षणयोः संस्पर्शः स्यात् / तथा च सति सर्वेषां [क्षणानां] एकस्मिन्नेव क्षणे समनुप्रवेशः स्यात् / [फलतः] यथा परमाणोः सर्वात्मना संयोगे पिण्डस्य अणुमात्रताप्रसङ्गः, तथैव कल्पस्यापि क्षणमात्रताप्रसङ्ग इति /
SK
यथा खलु देशक्रमः प्रमाणैरवभासमानत्वात् संवृतौ स्वीक्रियत तथा कालक्रमो ऽपिओ तत्सदृश एव, स्वप्नादौ कल्पादीनामप्यवभासमानत्वात् / तत्र प्रयोगः - ये सर्वात्मना कालान्तरेणाव्यवहितास्तेषु पूर्वापरकालभेदो न सम्भवति, दक्षिणवामशृङ्गवत् कार्यकारणयोरपि सर्वात्मना कालान्तरेणाव्यवधानमिति, स्वभावहेतुः / अथैकदेशेनाव्यवहितत्वम्, नैव सर्वात्मनेति चेत्? तदा क्षणस्यापि सावयवत्वप्रसङ्गः / फलतः अन्तिमकाललक्षणस्य क्षणस्यापि [स्वरूपता]हानिः स्यात् / अथापि कार्योत्पत्तिकाले हेतोरभावाद्, अभावेन च सह सर्वात्मना वा एकदेशेन वा अव्यवहितत्वमिति चिन्ता न प्रवर्तत इति चेत्? तदपि नैव युज्यते, तयोर्मध्ये कस्या अपि कालान्तरसद्भावसम्भावनाया अभावान्नैव तदा हेत्वभावयोगः सम्भवति /
SK
पुनश्च, कार्योत्पत्तिकाले यदि कारणं नास्ति, तदा कार्यमहेतुकमेव स्यात् / विनष्टात् कारणात् यदि कार्यमभ्युपगम्यते, न तु वर्तमानात् [वर्तमानस्य तदानीम्] असत्त्वात्, तदा तस्य वर्तमानमयुक्तम्, यदि तद् वर्तमानं तदा [तस्य] असत्त्वेन् सह विरोध आपद्यते / यदि तत् सदित्यभ्युपेयते तदा अव्यवहितत्वदिचिन्ता कथं न प्रवृता स्यात् / यदि पुनः कार्योत्पत्तिकाले कारणं विद्यमानमेव, किन्तु कार्यसत्ताकाले तदसदिति हेतोः अव्यवहितत्वादिचिन्ता नैव कार्येति चेत्? नैतदपि युज्यते, सत्तातो ऽनन्यार्थकत्वादुत्पत्तेः / इत्थं तु भवन्तः कारणस्य निरन्तरत्वे सत्कार्यस्योत्पत्तिं वर्णयन्ति / ये तावन्निरन्तरत्वेन सत्त्वादित्यभिदधानास्ते ऽपि कथञ्चिदप्यवहितत्वमभ्युपगच्छन्त्येव / अन्थया निरन्तरशब्दस्य को ऽर्थः स्यात् / निरन्तरत्वम् अव्यवहित्वं संस्पृष्टत्वमित्यादीनामभिन्नार्थकत्वात् तदभ्युपगमसामर्थ्येन कार्यकारणैकत्वमप्यभ्युपगतं स्यात् / कालान्तरेणाव्यवहितस्य सतो नान्यावस्था सम्भविनी /
SK
अपि च, विनष्टहेतोः कार्योत्पत्तिप्रसङ्गस्य अयुज्यमानत्वाद् भवन्तस्तं [पक्षं] परित्यज्य वर्तमानहेतोरव्यवधानेन कार्योत्पत्तिमभ्युपगच्छन्ति / तत्र तावत् किं सर्वात्मना कार्योत्पत्तिं स्वीकुर्वन्ति यदुत एकदेशेनेति चिन्ता प्रवृत्तैव स्यात्, प्रकारान्तरस्यासम्भवात् / अतः कारणं तावत् कार्यक्षणाव्यवहितमेव / तत्र च ये नाप्येकदेशेन न च सर्वात्मनेति ब्रुवन्ति, तेन तैः किमुच्यत इति विचार्यमाणे अव्यवहितमपि नाप्यव्यवहितमिति कथनं पर्यवस्येत् / एवंविधं सुभाषितं को ऽन्यः कथयितुं पारयति /
SK
अपि च, यदि विद्यमानकार्यकाले कारणं नास्त्येव, तदा ऽअविनष्टात् कारणात् कार्यमुत्पद्यतऽ इति नैव कथनीयम्, तस्मिन् काले कस्याप्यविनष्टकारणस्यासद्भावात् / यस्मिन् काले कारणम् अविनष्टं तस्मिन् काले कार्यमपि नास्ति, अतस्तत् [कार्यं] अविनष्टात् कथमुत्पद्यते /
SK
एवं चिन्त्यते - स्वयं विनाशव्यवहिते ऽपि वस्तुनि नास्ति समकालिकत्वम्, यथाच्छायातयोः पूर्वापरत्वाभावे ऽपि उदकधारायां चैकदेशत्वं नास्ति, तथैवात्रापि कार्यकारनयोरसमीचीनरूपत्वे ऽपि समकालिकत्वं नास्तीत्ययं विचारप्रकारो न युज्यते, विरोधात् तुल्यपरीक्षणीयत्वाच्च /
SK
एवं तत्र सदसद्भावे यद्येकदेशेनाव्यवहितत्वं तदा अवयविसद्भावप्रसङ्गः / यदि सर्वात्मना तदा समकालिकत्वमेव / तथैव छायातपयोरुदकधरायां चापि यदि सर्वात्मनाव्यवहितत्वं तदैकदेशत्वमेव स्यात् / यद्येकदेशेनाव्यवहितत्वं तदावयविसाद्भावप्रसङ्गः / अस्माकं तु [मते] सर्व एवायं सदसद्भावः परमार्थतो ऽसिद्धः, तस्य सदसद्भावादिसर्वप्रपञ्चजालविरहितत्वात् / अव्यवहितत्वादिसमुद्भूतो ऽसद्भाव इति नास्ति कश्चन व्यवहारस्तथापि द्विपीये क्षणे वस्तूनि स्वस्वभावनिरोधमात्रं प्रज्ञपयन्ति / नास्ति किञ्चिन्निरन्तरत्वमिति, असन्मात्रत्वात् /
SK
निरोधमात्रं तावन्न किञ्चित्, अतस्तेन सह परमार्थतो ऽव्यवहितत्वादिचिन्तनं नैव प्रवर्तते / कार्यकारणयोस्तु परमार्थतः सत्त्वभ्युपगमाद् एकदेशेनाव्यवहितत्वादिचिन्ता तावत् प्रवर्तत एव / आर्यशालिस्तम्बसूत्रे यो हि भगवता तुलादण्डोपमया अव्यवहितत्वेन कार्यकारणभावो ऽभिहितः, स तावदुच्छेददृष्टिपर्हारार्थं सांवृतिककार्यकारणभावत्वेन द्रष्टव्यः, न तु परमार्थतः, तुलादण्डस्य परमार्थत्वेनासिद्धत्वात् / यदि तुलादण्डस्वभाव एको ऽवयवी दृष्टान्तत्वेन प्रदश्र्यते, तदा स खल्लवसिद्ध एव / परस्परविरुद्धयोरुन्नामावनामादिकृत्ययोरेकस्मिन् युगपद्भावो नैव समीचीनः / परमाणुसञ्चयात्मको ऽपि स [तुलादण्दः] अर्थतो ऽसिद्ध एव, निरवयवत्वेन सञ्चयस्यायुज्यमानत्वादेव / यदि स अवयवीति तदा तस्याभावप्रसङ्गः / यदि विज्ञानावभासिस्वभावत्वेन तुलादण्डस्तावन्निर्दिशयते, तदा परिकल्पितस्वभावत्वेन मिथ्यैव सः / कथमिव तस्य वस्तुसत्त्वं स्यात् / अमूर्त्तत्वाद् विज्ञानस्य नोर्ध्वाधोगमनम् / अत एव छायातपोदकधारादिनोत्तरितम् /
SK
लङ्कावतारादिसूत्रेषु भगवता कार्यकारणभावनिषेधस्तावत् सांवृतकार्यकारणेष्वेवावगन्तव्यः यदपि भगवता ऽअस्मिन् सतीदं भवतिऽ इत्युक्तं तेन विकल्पत्रयं परिहत्य चतुर्थं एव विकल्पो ऽभ्युपगम्यत इति यदुक्तं तद् वक्ष्यते किं ऽअस्मिन् सतीदं भवतिऽ इति वचनेन विकल्पत्रयं निषिध्य चतुर्थविकल्पाभ्युपगम् आगमेन निर्दिष्टो यदुत युक्त्या? आगमेनेति चेत्, तन्नैव युज्यते / यतो हि यौ छायाङ्कुरौ दीपप्रकाशौ वा समकालविद्यमानौ तावपि दीपे सति प्रकाशो भवतीति न व्यवहारविरुद्धौ / एवमेव विद्यमानकार्यं विद्यमानकारणसापेक्षमिति शब्दमात्रेण निर्दिश्यते, न तु विद्यमानकार्यकाले कारणं नासदिति / यदि हि वस्तुत्वं प्रमाणान्तरैः परमार्थतः क्षणिकत्वेन साध्यते तदा तदपि परिकल्पितमात्रमेव, न त्वागमेन [सिद्धः] / इत्थं तु लोके ऽपि समकालिकं छायाङ्कुरादिकमपि कार्यकारणभावेन ज्ञायत एव /
SK
अथ युक्त्येति पक्षः, तदा भगवतो वचनानि [प्रमाणत्वेन] नैवोद्धर्तव्यानि, तानि एतदर्थं नैव प्रमाणम् / अथ केवलया युक्त्यैवैकया कथनीयमिति चेत्? एतदपि नैव वक्तुं शक्यते, यतो हि यथा युक्त्या विकल्पत्रयं न सम्भवति तथा चतुर्थो ऽपि विकल्पः परमार्थतो नैव सम्भवतीति [पूर्वं] विस्तरेन निर्दिष्टम् /
SK
लोकप्रसिद्धिमतिक्रम्य नित्यत्वद्रव्यत्व स्वातन्त्र्यादिगुणोपेतमात्मानमभ्युपेतमात्मानमभ्युपेत्य कर्मfआसम्बन्धादिसंवृतिं निराकुर्वतां दृष्टिपरिहारार्थं भगवदुक्तेन इदम्प्रत्ययतामात्रेणेवावस्थितेषु संवृतिमाश्रित्य अस्मिन् सतीदं भवतीत्युक्तम्, न त्वागमेन विकल्पत्रयं परिहत्य चतुर्थविकल्पाश्रयणं कल्पनीयम् / अतः परत उत्पत्तिर्नैव युक्तिमती / फलतश्च सर्वेषां वस्तूनां मायेव प्रज्ञाप्त्या उत्पादादिभ्य एव सन्तुष्यताम् , मिथ्यात्वात् /
SK
विनष्टात कारणात्तावत्कार्योत्पत्तिर्न युज्यते / न वाविनष्टास्वप्नेन तुल्योत्पत्तिर्मता तव //
SK
निरुद्धाद्वानिरुद्धाद्वा बीजादङ्कुर संभवः / मायोतादवदुत्पादः सर्व एव त्वयोच्यते // १७-१८ //
SK
अतो ये आचार्याः ᳚न परमार्थत अध्यात्मिकान्यायतनानि प्ररत्ययतः समुत्पद्यन्ते, परत्वात्᳚ इत्याद्यभिदधते, [तेषामपि] ते हेतवो नैव सन्दिग्धविपक्षव्यावृत्तिकाः, विपक्षे बाधकप्रमाणसम्भवात् / अतो ऽनित्यतासिद्धिवत्तावत् सत्त्वसिद्धिः / जडतादिसिद्धौ परतो विपक्षे बाधकप्रमाणाभावात् तेष्वनैकान्तिकता / उत्पादनिरोध एव तावत् साधनीयः, न तु विपक्षे बधकप्रमाणसद्भावः / व्यवहारे परतः सिद्धत्वान्नस्त्यसिद्धत्वं प्रमाणस्यापि [भवन्मते परमार्थतः] सम्यग्वस्तुत्वाद्धेत्वादीनां न व्यवहारः कुत्रापि सिध्यतीति निर्दिष्टं पूर्वम् / अत एतेषामनैकान्तिकत्वासिद्धत्वप्रतिपादनं नाम असम्बद्धमेत्तैतत् /
SK
तैर्थिकाः ये हि परादिव्यवहारवशात् परादीनि सन्तीति कथयन्ति तान् आचार्य आह -
SK
᳚न हि स्वभावो भावानां प्रत्ययादिषु विद्यते᳚
SK
इत्यादिना दूषयतीत्युच्यते / अतः शास्त्रैस्तावदसिद्धत्वात् परत उत्पत्तिर्नास्तीति निर्दिष्टम् / परादयः शब्दा ये तावत्प्रज्ञाप्तिगोचरास्तानपि परम्परया वस्तुसंसर्गिण इत्यभिदधतां तेषां ऽवस्तुसभावः प्रत्ययेष्वस्तीत्युत्पद्यतेऽ इत्युममभिप्रायमादाय दूषणं प्रदत्तम्, प्रत्ययादिषु सत्त्वे परमार्थतो वस्तुस्वभावस्यानुत्पादादिति विस्तरेण खल्वभिहितम् /
SK
अतो यदा सर्वेषां वस्तूनां परमार्थतः परत उत्पादो नैवोपपद्यते तदा प्रत्ययादिभ्यो ऽपि अनुत्पादादसिद्ध एव / अतो नास्त्येव परमार्थतः शब्दसंसर्गि किमपि वस्तु / फलतो ऽसिद्धे ऽप्येवंविधे व्यवहारे वस्तु तावदबाधितमेवेति यदुक्तं तन्न युज्यते /
SK
[३०] ये सांख्यादयः प्रधानेश्वरादिकं मन्वानाः प्रधानेश्वरादिभ्यो वस्तूनामुत्पादमभ्युपगच्छन्ति, तेषामपि मतं स्वतो वा परतो वा उत्पादपक्षे पृथक्पृथम् दोषाभिधानान्नैव युक्तरूपमिति /
SK
अन्ये ये कदाचित् स्वातन्त्र्येन उभयत उत्पत्तिं वर्णयन्ति , ते ऽप्युभयपक्षीय [स्वपरपक्षीय] दोषैर्दूषितत्वान्निराकृता एव / अपरे च ये तावत् - ऽउभयात्मकस्य वस्तुनः प्रमाणविरुद्धत्वान्न को ऽपि तदभ्युपगच्छतीति हेतोः उभयत उत्पत्तिं दूषयित्वा भवन्तः केवलमात्मानमेव मोहयन्ति, तत्तु [भवतां] शब्दमात्रमेव᳚ इति कथयन्ति / ते तावद् विद्वांसः स्वयं शास्त्राणामपरिज्ञानात् शब्दार्थयोश्च सम्यगनवगमात् [केवलं] शब्दश उपहसन्ति / केचन तावत् कण्टकादितीक्ष्णतादृष्टान्तेन सर्वाणि वस्तूनि परमार्थतो ऽहेतुत उत्पद्यन्त इति कथयन्ति, तत्र वस्तूनां परमार्थतो ऽहेतुत उत्पत्तिं साधयतां तेषां दृष्टान्तस्तावन्नैव सिद्धः, परमार्थतो ऽनुत्पन्नत्वात् सर्वधर्माणाम् / संवृतौ सुद्ध इति चेन्न, तत्राप्यसिद्ध एव, कण्टादीनां स्वबीजत उत्पादः प्रत्यक्षतो निश्चितत्वात् / अनेनैव तेषां तैक्ष्ण्यादीनामपि निश्चितत्वान्न को ऽपि [धर्मः] अहेतुत उत्पद्यते / एवं कादाचित्कत्वात् सर्वेषामेतेषां वस्तूनां सापेक्षत्वं निश्चितमेव अनपेक्षितस्य तु सदा अविशेषात्तस्य कादाचित्कत्वं नोपपद्यत एवेति /
SK
यत्तेषां सापेक्षत्वं तदेव हेतुः, अनुपकारिणि अपेक्षाया अनुपपन्नत्वात् / तत्र यदुपकारकत्वेन प्रसिद्धः, स एव तस्य हेतुरिति सिध्यति / अहेतुकत्वे सति सर्वत्र अभिन्नत्वात् कण्कादिष्वपि तीक्ष्णताया निर्धारणं न स्यात् / फलतः सर्वे सर्वात्मकाः स्युः / ये बीजादयस्ते लोके कार्यकारणात्मकत्वेन प्रत्यक्षतः सिद्धाः / अतः प्रतिज्ञा तावत् प्रत्यक्षबाधितैव / अपि च, हेतुतः साद्यस्य साधनावसरे अन्यतः [हेततः] उत्पत्तेः [सिद्धेः, भवद्भिः] अवश्यं स्वीकारात् स्ववचनविरोधो ऽपि / अन्यथा हेतुप्रयोग एव तावन्निरर्थकः स्यात् / नैव प्रतिज्ञामात्रेण तावदिष्टार्थसिद्धिः, तथा सति सर्वतः सर्वसिद्धिप्रसङ्गः / अतो ऽहेतुवादी खलु व्यवहारे प्रत्यक्षादिभिर्बाधितत्वाद् विद्वद्भिः सावधानतया परिहर्त्तव्य एव /
SK
हेत्वादयस्तावन्मायादिवत् सिद्धाः, ते यथा अविचाररमणीयत्वेन प्रसिद्धास्तथा तेषामनिषेधाद् अनुत्पत्तिरित्युच्यते, प्रत्यक्षादितश्चापि सां नैव बाधिता / धर्म्यसिद्धत्वादयस्तावद् दोषाः पूर्वमेव निराकृताः / सपक्षे सत्त्वान्नास्ति हेतुरप्यसिद्धो विरुद्धश्चापि / आकाशपुष्पादयस्त्वनुत्पन्न एव, न ते सस्वभावत्वेनानुभूयन्ते / अतस्तेषु व्याप्तेरुत्पत्तेः सम्यङ् निवृत्त्या तस्यापि [सस्वभावत्वस्य] निवृत्तिः / अतो नास्त्यनैकान्तिकत्वमपि / तेषूत्पत्तेः प्रवृत्तिर्निश्चयेन साधयितुं नैव शक्यते, स्वप्नादिष्वसत्पुत्रादीनामप्युत्पत्तिदर्शनात् / सा खलु [उत्पत्तिः] तद्विज्ञाने तथैवावभासत इत्यपि कथनम्युक्तम्, कथनमयुक्तम्, तत्रापि परमार्थतस्तथाकारो नैव सम्भवीति पूर्वं निर्दिष्टम् / अन्यस्य अन्याकारेणावभासनमप्ययुक्तमेव तत्त्वान्यत्वयोः परस्परविरुद्धत्वात्?
SK
तदुत्पत्त्या सस्वभावत्वादीनां व्यप्तत्वे ऽपि उत्पत्तौ सत्यां सम्यक्स्वभावो नैव नियतरूपेण सिध्यति, व्यापकसामीप्ये सर्वव्याप्याणां सामीप्यं नवश्यंभावीति निश्चितमित्युक्तमेव पूर्वम् / अतः साधारणमेवैतद् / परमर्थतो न कस्मिन्नप्युत्पत्तिः प्रवर्तत इति साधितमेव /
SK
यन्न कैश्चिदपि प्रत्ययैः समुत्पद्यते तद् वस्तु कुतः प्रादुर्भवतीति कथयद्भिरभिव्यक्तिमात्रमेव अतो ऽनैकान्तिक एव हेतुरिति चेत् ततस्यापि पूर्वं निराकृतत्वात् त्याज्यमेवैतदिति / अथ प्रत्ययैर्वस्तु अभिव्यज्यत एवेति चेत्तदा कि सा अभिव्यक्तिः स्वलक्षणोपचयस्वभावा वा तदावरणसंक्षयात्मिओका वा इन्द्रियैः सुकृता वा तद्विषयकविज्ञानोत्पत्तिलक्षणा वेति विचारः समुपजायन्ते /
SK
तत्र नैव तावत् प्रथमः पक्षः कथमपि युज्यते, नित्यताया हानिप्रसङ्गत् /
SK
यदा अनुपचयस्वभावः स्वतो विनश्य अभिव्यञ्चकप्रत्ययैरुत्पद्यते तदा एकस्यापरस्यानुपचयस्वभावस्योत्पादवशात् स्वलक्षणोपचयो भवतीति चेत्? न, तत्पूर्वस्वभावो यदि न निरुध्येत तदा द्वौ परस्पराविरुधौ उपचयापचयस्वभावौ निर्युक्तितया एकस्मिन्नेव स्वीकार्यौ स्याताम् / यद्यपूर्वः कश्चन स्वभावो नोत्पद्यते तदा अभिव्यञ्चकाः प्रत्ययास्तावन्निरर्थकः स्युः / उपचयमनिराकृत्य वस्तूनामुत्पत्तिरपि न युज्यते / तच्च नैव तावदावरणसंक्षयात्मकम्, असत्स्वभावत्वेन परैरकार्यत्वात् /
SK
वतुस्वभावे क्रियानिराकरणं तावत् पूर्वमेव कृतम् / यद्यस्ति एका क्रिया, तदा सर्वे ते प्रत्यया ये यदा अर्थमभिव्यञ्चिन्ति तदा अनन्यार्थभूता क्रिया तत्र नैव सम्भवति, पूर्वत एव तस्याविद्यमानत्वात् / नित्यस्य भावस्य त्वावरणं तद्विशेषाणामविनाशाद् अनुत्पादाच्च कदापि न युज्यते, अतिप्रसञ्गात् / तद्विषयकविज्ञानओत्पत्तौ विघ्नकरणादप्यावरनं निव युज्यते, स्वविषयकज्ञानोत्पत्तौ समर्थत्वात्, विद्यमाने स्वविज्ञामविज्ञेयस्वभावे ऽविकलविज्ञानं तावत् केनापि विघ्नयितुमशक्त्वाच्च / यदि नास्ति स समर्थो वा स्वविज्ञानविज्ञेयो वा तदा स्वहेतुविकलतया तद्विज्ञानोत्पत्तिरेव न स्यात् / अतस्तद्विषकविज्ञानोत्पत्तौ विघ्नकारकत्वाद् आवरणं तावन्नैव युज्यते /
SK
यथा आवरणसंक्षये तथा विज्ञानोत्पत्तावपि अविघ्नापादनस्वभावो ऽपि क्रियायां नैव युज्यते / असामर्थ्यात् तद्विज्ञानविज्ञेयस्वभावाभावाच्च अभिव्यञ्जकैः प्रत्ययैरावरणं क्रियत इत्यस्यापि निराकरणं कृतमेव [पूर्वम्] / तथात्वे ऽपि तद्विषयकविज्ञानोत्पत्तिरयुक्तैव / यदि सामर्थयमभ्युपगम्यते तदा आवरणकारके सत्यपि अविकलहेतोः सद्भावात् सदैव विज्ञानोत्पत्तिसम्भवाद् व्यञ्जकानां भावानां क्रिया निरर्थिकैव स्यात् / अतो नित्यस्य तावदकिञ्चिकरत्वात् कथमप्यावरणं न युज्यते / अनित्यता तु कदापि केनापि हेतुविशेषेण विज्ञानानुत्पादकस्यान्यस्य क्षणस्योत्पादाद् आव्रियत एव /
SK
इन्द्रियैः सुकृतत्वपक्षो ऽपि तावन्नैव [युज्यते] / यदि तत्सुकृत्वं [वस्तु]स्वभावभूतं तदा अनित्यातायाः प्रसङ्गः, पूर्वसदृशत्वात्तस्य / यदि तदन्यार्थभूतं तदा सुकृतत्वं नैव युक्तियुक्तम्, अकिञ्चिकरत्वात्तस्य / यद्येवं नास्ति तदातिप्रसङ्गः / कस्मिन्नपि वस्तुनि केनापि किमपि करणं तावन्नैव सम्भवमिति [पूर्वं] निर्दिष्टम् / इन्द्रियैः सुकृतत्वे ऽपि यदि अभिव्यञ्चकैर्भावैः तदिन्द्रियविज्ञानोत्पादासामर्थ्यम् अथवा तद्विज्ञानविज्ञेयस्वभावासत्त्वं तदा तद्विज्ञानोत्पत्तिरसम्भविनी, अतो निरर्थकमेव तावत् सुकृतत्वमिति प्रसङ्गः /
SK
यदि विद्यत एव सामर्थ्यं तद्विज्ञेयस्वभावो वा तदा इन्द्रियैः सुकृतकत्वतः पूर्वमेव तस्मिन् [विषये] विज्ञानोत्पादस्य प्रसञ्गः स्यात्, तदा सुकृतकत्वमपि निरर्थकमेव स्यत् / अतस्तमिन् विषये विज्ञानोत्पादलक्षणमपि न सङ्गतं स्यात् / यतो ह्येवं तद् व्यङ्ग्यं वस्त्वपि यदि असमर्थं वा तद्विज्ञानविज्ञेयवभावं वापि नास्ति तदा विज्ञानोत्पादे ऽपि न पद् [वस्तु] तस्य [विज्ञानस्य] विषयः स्यात् / यदि [तद् वस्तु] समर्थं वा तद्विज्ञानविज्ञेयस्वभावं वा स्यात् तदा स्वस्वभाववत् सामीप्यात् तत्सत्तामत्रेणैव विज्ञानस्य समुत्पादो भविष्यतीत्यतो न तेन व्यञ्जकविज्ञानोत्पादः क्रियत इति [सिध्यति] /
SK
अपि च, भवतां तावन्मते सर्वेसां वस्तूनां जायतः सदैवावतिष्ठन्त इति हेतोस्तत्र [वस्तुषु] व्यङ्ग्यव्यञ्जकादीनामपि सदा अवस्थितत्वात् / [नित्यत्वात्] व्यङ्ग्यव्यञ्जकादिव्यवस्था नैव [समीचीनतया सर्वथा] युज्यते, [तेषां] व्यङ्ग्यव्यञ्जकादीनामकिञ्चित्करत्वात् / सदैवाभीव्यक्तिप्रसङ्गो ऽपि सर्ववस्तूनां दूर्निवार एव, सर्वदा अविकलसमग्रीकत्वात् / अपि च, व्यक्तस्य तावन्नित्यत्वेन परिकल्पितत्वात्, नित्यस्य च सर्वसामर्थ्यविरहिओतत्वान्नैव हि वस्तुत्वं कथमप्युपपद्यते / अतः कथं तेनानैकान्तिकहेतुत्वमपि / इत्येवं यदि सर्वसामर्थ्यशून्यं तस्य अभावरूपत्वमेव, यथा - वन्ध्यापुत्र इति / ये तावदीश्वरादयः [परैः] अभ्युपगम्यन्ते, ते ऽपि तथैव / ते ऽपि क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् सर्वसामर्थ्यशून्या एवेति पूर्वमपि [बहुधा] निर्दिष्टम् / समक्षे सिद्धत्वान्नायं हेतुरसिद्धः, नापि विरुद्धः, वन्ध्यापुत्रादिषु वस्तुत्वप्रसङ्गान्नाप्यनैकान्तिको ऽपि / इत्थं तावदशेषसामर्थ्यशून्यत्वमेव अभावलक्षणम् /
SK
असंस्कृतेष्वपि तथात्वात् कथं तानि वस्तूनीति? इत्येवं प्रतिसंख्यानिरोधादयो ये सर्वसामर्थ्यशून्यास्तेषां वन्ध्यापुत्राद्यभिन्नत्वे ऽपि ये खलु तान् वस्तुत्वेन परिकल्पयन्ति , तेषाम् कल्पनेयं नैव युक्तिमती, हेतोरेवाभावात् /
SK
प्रतिसंख्यानिरोधादयो यदि कस्यापि ज्ञानस्य विषयास्तदा अवश्यं ते हेतुत्वेनङ्गीकरणीयाः, अहेतोर्विषयत्वानभ्युपगमात् / हेतुविशेषस्य स्वाकारर्पणमात्रेण विज्ञानोपकाराद् विषयत्वमित्यङ्गीक्रियते / यद्येवं तर्हि तस्य नित्यताया हानिप्रसङ्गः, व्यवहारे ऽपि तस्य क्रमयौगपद्याभ्याम् अर्थक्रियाकारित्वानुपपन्नत्वात् / अनुपकारित्वे ऽपि यदि विज्ञानेन विज्ञेयस्वभावस्य अभावाद् विषयत्वं कल्प्यते, तथा सति यदि विज्ञानं विज्ञेयस्वभावमनुसरतीति तदा तद्विज्ञानस्यापि तदनुसरणेन नित्यतायाः प्रसङ्गः / यदि नानुसरति तदा तन्नित्यताया हानिप्रसङ्गः / यदि सर्वज्ञज्ञानं तदिति न कस्यापि वस्तुनः सामीप्यमिति कल्प्यते, तदापि प्रेक्षावद्भिस्तस्मिन् वस्तुसत्ताया व्यवहारो नोपपद्यते, विज्ञप्त्यर्थं तद्धेतुज्ञानस्याभावात् /
SK
येन कारणेन ततो विभक्तं शशशृङ्गादिं ये ज्ञेयत्वेनोपचरन्ति, तेषां समेषां स्वभावराहित्याद विशेषो ऽभिधातव्यः, अभावाद्
SK
विभक्तस्य राहित्यस्वभावस्य वस्तूत्वेन ज्ञानासम्भवात् / तत्र स्वभावत्वेन गृहीतलक्षणविशेषस्यात्मनः सत्त्वाभिधानमयुक्तम्, असद्वस्तुन्यपि सर्वसामर्थ्यवियोगस्वभावस्य ग्रहणात् / वन्ध्यापुत्रादिसदृशे तदभित्न्ने ऽपि यदि वस्त्विति नाम प्रज्ञप्यते, तदा नास्ति विवादः, किन्तुं कथं वन्ध्यापुत्रादयो ऽहेतुका इति नोच्यत इत्युच्यते / इत्येवम् असंस्कृतानां सत्त्वाभिधानं नैव समीचीनम् /
SK
अत एवोक्तं लङ्कावतारसूत्रेः
SK
असद्भावसमारोपः पुनर्महामते, यदुत आकाशनिरोधनिर्वाणाकृतकाभिनिवेशसमारोपः /
SK
ये तावन्नित्यानित्याभ्यामनभिधेयत्वेन पुद्गलादिनामुभयथापि सिद्धिरनैकान्तिकीति प्रतिपादयन्ति, तन्न युज्यते, सद्वस्तुनि कथमपि अनभिधेयत्वासम्भवात् / एवमेव नित्यानित्यानि तावत् परस्परपरिहारस्थितलक्षणानि / यदि तानि क्रमश एकसिद्धिनिसेधाम्याम् अपरनिषेधसिद्धिभाञ्जि न स्युस्तदा असदेव स्युः / फलत एकस्य निषेध एवापरस्य सिद्धिरिति हेतोः कथं तावदनभिधेयं वस्त्वित्यभिधीयते /
SK
अन्यथा [यद्येवं नास्ति तदा] अनभिधेयत्वात् सर्वाण्येव वस्तुन्यनभिधेयानि स्युः / फलतः स्वपरोदितानाम् अशेषवस्तुविशेषाणां विलोपसम्भवाद् महात्मभिर्वज्रकणादियुक्तिचतुष्टयस्याभिधाद् एभ्यो मार्गेभ्यो
SK
नैव विरुद्धम् / यथोक्तम् -
SK
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः / उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन //
SK
इति //
SK
इत्येवं सर्वे धर्मा निरात्मान इति साध्यन्ते / अत एव भगवता प्रज्ञापारमितासूत्रे वस्तुषु नित्यानित्यग्राहस्य तावन्निषेधः कृतः / अन्यसूत्राणां स्त्रोतांसि पूर्वमेव निर्दिष्टानि / अतो ये रूपं नित्यमित्युदीरयन्ति, ते तावन्नैव प्रज्ञापारमितामाचरन्ति / कथमिति चेत्? यदा तद् रूपं सदेव नास्ति तदा तन्नित्याभिधानस्य तु कथैव का? इत्युक्तम् / सर्वाकारज्ञतापर्यन्तं [सर्वधर्मेषु] एवमेव प्रयोक्तव्यमिति /
SK
अत एवात्रापि परतः कार्योत्पादे तावत् को विरोधः, कथं हि ततो ऽपि [परतो ऽपि] कार्योत्पादनिषेधः क्रियते? नात्र [कानिचित्] बाधकप्रमाणान्यपीत्यादि यदुक्तम्, एतत् सर्वं पूर्वं कृतोत्तरमेव /
SK
सत्कार्योत्पादनिषेधार्यमपि भवतां सविधे नास्ति उभयसिद्धो हेतुर्दृष्टान्तश्चेत्यादि यदुक्तम्, तापि नैव युज्यते / तथा हि - किं तत् यत् सदित्युच्यते? अंशैस्तावन्निरंशस्य सिद्धिरसम्भविनीति यस्य स्वभावः सर्वात्मना निष्पन्नः, यश्च निष्पन्नस्वभाव इति तस्य परैः[हेतुप्रत्ययैः] अपूर्व इत्याख्यं भेदं कर्तुं नैव शक्यते / यस्यापूर्वमिति भेदं नैव शक्यते कर्तुम्, स कदापि केनाप्युत्पादयितुं नैव शक्यते, यथा - आकाशकुसुमादीनि / यस्तावत्तस्य सत्ताभिनिवेशः, सो ऽपि तद्वदेवेति तस्यापि हेत्वादयो ऽसम्भविन एवेति /
SK
विच्छिन्नमात्रे साध्ये तथैव च हेतोर्निदेशे न ते अभूतधर्मितो विरुद्धाः / यथा सति नैव आश्रसिद्धादिदोषाः, पूर्वमेव तन्निर्दिष्टत्वात् / साध्यसाधनयोः सपक्षे ऽनुगमान्नैव विरुद्धख्यो ऽपि हेतुदोषः / व्यवहारेन भिन्नत्वाद् उत्पत्तौ व्यापकः / फलतो व्यापकनिवृत्त्या नास्ति व्याप्यो ऽपि सम्भवी / अतो नास्त्यनैकान्तिको ऽपि हेतुः / यस्य केनापि भवति भेदः, स तस्य प्रकृतिः / अतो यस्तावदन्यः, स कथं तस्येति? यश्च स्वभावतः पूर्वमेव स्थितः, स हेतुसन्निधानात् पूर्वमपि तथैव भावात् कथं ऽहेतुभिरुत्पन्नःऽ इति कथयितुं शक्यते? अतो नास्त्यनैकान्तिकत्वमिति /
SK
भेदयोग्यत्वादुत्पत्तौ व्यापकत्वमित्यतो ऽसदुत्पद्यत इति चेद्? व्यवहारमात्रेणैवैतत् स्यात्, परमार्थतो ऽसत्त्वात् / एवमेव यदि सवभावतो ऽभाव एकप्रकृतिक एव, तदा पश्चादपि कथं स सत्स्वभावः स्यात्, सदसतोः परस्परविरुद्धात्वात् / यश्च परस्परपरिहारस्थितलक्षणो धर्मः स तद्विरुद्धधर्मिणि कथं नाम युक्तः स्यात्, यथा अमूर्तधार्मान्तर्भूतं तावदाकाशं कथं नाम मूर्तं स्यादिति / उत्पत्त्याख्यो हि प्रसिद्धः सत्स्वभावस्तावद् असत्स्वभावपरिहारस्थितलक्षणत्वात् कथं हि नाम परमार्थतो ऽभावेन सम्प्रयुक्तः स्यात् /
SK
एवं विचार्यमाणे यद्सत्, तस्य उत्पत्तिक्रियावत्यामुत्पतौ किमप्युपदेशनं नाम नास्ति / पृथक्सामर्थ्यवतः कस्यापि भावात्मकस्य हेतोरनन्तरं प्रादुर्भावस्य सम्प्रतिभासाभावात् तद्धेतोरसदुत्पद्यत इति लोके उत्पत्तिविशेषविषयिकायाः कल्पनायाः अभिधानस्य च व्यवहारः प्रवर्तते / व्यवहारमात्रेण तु वस्तुसत्त्वे बाधालेशो ऽपि नैव सम्भवति / असद्वस्तुनि सदाख्यधर्मस्य तावत् सत्तालेशो ऽप्यस्माभिर्नाभ्युपेयते / यदि तत् सत्, तदा नैव तदसत् / यो हि पश्चादपि उत्पत्तिस्वभावः, स तावदन्य एव / यश्चान्यः, स न तस्येत्यभिधातुं शक्यते / अतः ऽअसदुत्पद्यतेऽ इति यद्क्तं तदभावतो भावसिद्धिरिति नैव युज्यते / यतो ह्यत्र भावस्वभावपरीक्षाया एवावसरः / अतः क्रियानिरोधमात्रं वक्तुं नेष्टमिति /
SK
यद्येतद् वस्तु हेतोः सामीप्यात् पूर्वमुद्भूतं नास्ति, तदा तस्य कः स्वभाव इत्यभिधेयम् / यदि तदा किञ्चिदपि नास्ति तदा तत् कदाचिद् वस्तुत्वेनाभिधास्यत इतिचिन्ता नैव युज्यते / यदि नास्ति वस्तुनः किमपि भावात्मकमस्तित्वं तदा तस्य स्वभावो ऽसदेवेति सुस्पष्तमभिधास्यते / अन्यथा किमिति तस्यासत्त्वमित्युच्यते / एवं यो हि पूर्वमसन्, स पश्चाद्भावी कश्चन भावस्वभाव एव /
SK
सो ऽपि कथं नामापूर्वस्वभावातिरिक्तः प्रज्ञप्तुं शक्यते / पूर्वं नासीदित्यसदुत्पत्तेर्व्यवहारस्यापि हेतुप्रत्ययाभासाः कथं सम्यगित्यभिधातुं शक्याः? एवमभूतस्य भूतसिद्धिस्तावदसतः सत्सिद्धिरेव स्यात् / यतो हि यदि नास्त्यन्यस्तदा अभूतादन्यो भूतो नास्ति सत्समीपवर्त्त्यपि / असत्यप्यन्ये अभूतादन्यस्योत्पादाभिधानसम्बद्धमेव / फलतो ऽपूर्ववस्तूनां पपश्चात् सत्त्वाभिधनं तावत् तद्विरुद्धधर्मान्वितस्यैवाभ्युपगमः /
SK
विरुद्धधर्मान्वितः स्वभावो ऽपि तावदनुपपन्न एव / तथा सति सर्वस्य सर्वस्वभावताप्रसङ्गः / एकस्मिन् क्रमेण सत्त्वासत्त्वे अविरुद्धेइत्यभिधानमपि नैव युज्यते / तथा सति समकाले ऽप्यविरुद्धत्वप्रसङ्गः / यदि समकाले ते अविरुद्धे तदा क्रमेणापि कथं ते न तथा, अभिन्नत्वादिति /
SK
भिन्नधर्मिणि विरुद्धलक्षणस्याविरुद्धत्वे ऽपि एकस्मिन् धर्मिणि नैव क्रमेणापि तद् भवितुं शक्रोति / यथा युगपदनेकविरुद्धधर्मान्वितत्वाद् एकत्वहानिप्रसङ्गः, तथैव क्रमेणापि तदन्वितत्वात् तत्प्रवृत्तिरिति / अन्यथा परैरपि प्रधानादीनां क्रमशो महदादिगणे परिवर्तनम् अभिव्यक्तिम् वा उपकल्पयतां व्यक्ताव्यक्तादिधर्मविरोधः कथमभिधीयते / क्रमेण वस्तूनामुत्पादकेषु ईश्वरादिषु कथं नाम समर्थासमर्थादिविरोधोद्भावनं युज्यते / ये केचन पर्वतकायवज्रादीन् दृढस्वभावान् तेषां शीतोष्माद्यवस्थाभेदेन क्रमशो भेदं व्यवस्थापयन्ति, ते ऽपि तेषां क्षणिकत्वं सिसाधयिषवः कथं क्रमेण प्रादुर्भवत्सु तेषु शीतोष्मादिविरुद्धत्वमभिधातुं शक्नुवन्ति / यदि वस्तूनि तावद् अभूत्वा उत्पद्यन्ते, भूत्वा चाभावत्वेनावभासन्त इति विचारणाद् एकस्मिन् क्रमशः सदसत्त्वविरुद्धत्वेन व्यवस्थापयितुं शक्यत इति कथयन्तीति चेन्नेदं युज्यते / यतो हि ताम्रादिष्वेवं दाढर्यमार्दवशैत्यौष्ण्यादीनि क्रमेण दृश्यन्त एव / अतस्तत्रापि अविरुद्धत्वप्रसङ्गः स्यात् / अतस्तेन अदृढतया ये स्वभावत्वेन साधयन्ति, तन्नैवोपपद्यते /
SK
अपि च, अस्माभिरप्येतादृशी दृष्टिर्नैव परित्यज्यते / यतो हि मायास्वप्नादिसमा अलीका अपि [पदार्थाः] अभूत्वा भवन्ति, भूत्वा च विनश्यमानाः प्रतिभासन्ते / किन्तु स्वभावतः सदसतोस्तु क्रमेणापि तयोः सदसतोर्विरोध एव / तद्यथा -
SK
यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता / प्रकृतेरन्यथाभावो न हि जातूपपद्यते //
SK
यथोक्तं कारिकायाम्ः -
SK
सो ऽसन् स्वभावतो ऽभाव स कथं प्रत्ययान्तरैः / निःस्वभावो भवेत् को ऽन्यो हेतुरुक्तस्तथागतैः //
SK
आर्यकङ्कावतारसूत्रे ऽपि पूर्वं रागादीन् सत्त्वेनाभ्युपगम्य पुनरसत्त्वेनाङ्गीकरणं वैनाशिकतैव / कार्यकारणभावो यदि परमार्थत स्यात्तदा एवमभिदधानानां [सा] दृष्टिस्तावत् सम्यग् मार्गानुसरणाद् मुक्तिमार्गानुकूलैव स्त्रान्नत्वननुकूला / अतो लङ्कावतारसूत्रे यदुक्तं तदप्यविरुद्धमेवं, तथा हि -
SK
कार्यकारणदुर्दृष्टया तीर्थ्याः सर्वे विमोहिताः / अतस्तेषां न मोक्षो ऽस्ति सदसत्पक्षवादिनाम् //
SK
पुनश्च,
SK
अभूत्वा यस्य चोत्पादो भूत्वा चापि विनश्यति / प्रत्ययैः सदसच्चापि न ते मे शासने स्थिताः //
SK
हेतुप्रत्ययसामर्थ्यनिश्चये ऽपि परमार्थतो ऽसत उत्पत्तिर्नैव युज्यते, स्वभावान्तरं कर्तुमशक्यत्वत् / प्रतिनियतसामर्थ्यतो विरुद्धमपि स्वभावं कर्तुं नैव पार्यते, तथा सति शशशृंङ्गादीनामप्युत्पादप्रसङ्गः स्यादिति विद्वांसो ब्रुवन्ति / अतो हेतूनां नियतसामर्थ्येन व्यवस्थापि नियता भवेदित्यभिधानमपि तावदसम्बद्धमेव / संवृतावपि खल्वसत उत्पत्तिः कथं न वितुध्यत इति विचारणापि तावन्नैव युज्यते, वस्तुन्येव विरोधस्य व्यवस्थापन्नान्मिथ्यावस्तुनि [अवस्तुनि] तद्व्यवस्थानमसम्बद्धमेव / अन्यथा परमार्थैवैषा उत्पत्तिः स्यान्नतु संवृतौ /
SK
अपि च, या खलु वस्तूनामुत्पत्तिः संवृतिमायावदवस्थिता, सैवरोप्यास्माभिर्विरोधिवचनैर्मिथ्यात्वेन साध्यते, नान्यत्वेनेति पश्चाद् विस्तरेण निर्देक्ष्यते / एवं वस्तूनां परमार्थसदुत्पत्तिर्नोपपद्यते, न सन्ति च तानि [वस्तूनि] असद्भूतान्यपि / एतेषामुत्पत्तिर्मायावन्मिथ्यैव प्रदर्श्यते / अत एव सर्वाणि खलु वस्तूनि मायावदेव व्यवस्थितानि / अतश्च भगवता - महामते, सतो ऽसतश्चानुत्पन्नत्वात् सर्वे धर्मा अनुत्पन्ना एवेत्यनेकधा सदसतोर्निषेधं कृत्वा अनुत्पाद एव निर्दिष्टः /
SK
भगवत ऽपि परिकल्पिस्वभावमभिप्रेत्य सदसतोरुत्पत्तिविरोधो व्यवस्थापितः न तु तत्त्वत इत्येवं येषां कथनं तदप्यग्रे ऽभिधास्यते / यो हि वस्त्वात्मा परमार्थतो ऽनुपन्न सो ऽपि तत्त्वत उत्पन्न इत्येवंभूतो यो परिकल्पितः स्वभावस्तमपि ये परिकल्पितस्वभावत्वेनाभ्युपगच्छन्ति, तदा तन्नैव युक्तरूपम् / वस्तूनामस्य स्वभावस्य परमार्थतो ऽनुत्पन्नत्वे ऽपि ग्राह्यग्राहकारस्वभावेनानुप्पन्नत्वात् स परिकल्पितस्वभाव इति चिन्त्यते तदा परिकल्पितात्मकयोः सदस्तोर्यथा उत्पत्तिविरोधस्तथैव परमार्थात्मकस्यापि कथं नोत्पत्तिविरोधः / तत्त्वतस्तु उत्पत्तेः सदसदाकारातिरिक्त्त्वेन अन्याकारतयानुत्पन्नत्वात् साधारणमेव तदिति /
SK
अतो यः प्रतीत्यसमुत्पन्नः स परमार्थतः शून्यः, मायादिवदिति / नास्त्ययं हेतुरनैकान्तिको ऽपि यदि विपर्ययस्तदा यथोक्तदोषदूषितानि प्रमाणान्यपि सम्भवेयुः / यो हि हेतुप्रत्ययानपेक्ष्य समुत्पद्यते तस्य कृतक एव स्वभावः, न तु पारमार्थिकः / अकृतकस्य परापेक्षा नैवोपपद्यते / य एव कृतकस्तस्य नैव प्रकृत्या स्वभावो युज्यते, प्रकृतेरविकारात् / को ऽपि तां [प्रकृतिं] परिवर्तयितुं नैव क्षमः / अतो यो हि पारमार्थिकः स्वभावः, यश्चाभूत्वा भवति, भूत्वा च विगच्चति तौ [स्वभावौ] परस्परविरुद्धत्वादसम्बद्धाविति पूर्वं निर्दिष्टमेव / अतो नास्त्यनैकान्तिकत्वमिति / तथा हिः
SK
᳚न सम्भवः स्वभावस्य युक्तः प्रत्ययहेतुभिः / हेतुप्रत्ययसम्भूतः स्वभावः कृतको भवेत् //
SK
स्वभावः कृतको नाम भविष्यति पुनः कथम् / अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च //᳚
SK
नित्यानित्यस्वभावयोरुपकल्पितत्वाद् वस्तूनाम् अन्तद्वयदर्शने प्रसङ्गमापादयितुम् उत्तम् आर्यश्रीमालासूत्रे -
SK
᳚भगवन्, द्वयोरन्तयो पश्यतीत्युच्यते / यदुत उच्छेदशाश्चतदर्शनम् / ऽअनित्याः संकारा इति चेद् भगवन् पश्येत् सास्य स्यादुच्छेददृष्टिः सास्य स्यान्न सम्यग्दृष्टिः / नित्यं निर्वाणमिति चेद् भगवन् पश्येत् सास्य स्याच्छश्वतदृष्टिः, सास्य स्यान्न सम्यग्दृष्टिः /᳚
SK
आचार्येणाप्युक्तम् -
SK
भवमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् / प्रसज्यते स्वभावो हि नित्यो ऽनित्यो ऽथवा भवेत् //
SK
इत्यादि //
SK
अतश्च सपक्षे सद्भावान्न विरुद्धो ऽपि हेतुः, यतो हि विपक्षे यस्य सद्भावः, स एव विरुद्धः, न तु यस्य सपक्षे सद्भावः, स विरुद्ध इति / मायादयस्तावत् वस्तुत्वेनानुपपन्नाः, ज्ञानज्ञेयाभ्यां विलक्षणस्वभावत्वात्तेषाम्, इति पूर्वं निर्दिष्टमेव / न हि ज्ञानज्ञेयाभ्यां भिन्नो वस्तुनः स्वभावः / अनुत्पन्नस्वभावेष्वाकाशपुष्पादिष्वदर्शने ऽपि प्रतीत्यसमुत्पादस्वभावस्तावत् सम्यक्तया युज्यत एवेति ये कथयन्तीत्यनेनापि [कथनेन] नैव [हेतोः] विरुद्धत्वं साधयितुं शक्यते ऽसम्बद्धत्वात्, व्यापकप्रवृतेः व्याप्यसाधने ऽशक्यत्वाच्च /
SK
मायादिषु हि मिथ्यात्वेन [तत्र] नैव प्रतीत्यसमुत्पादः सिध्यति, दृष्टान्तविकलत्वादिति यत्कथनं तदप्यसम्बद्धमेव / यदि परमार्थस्वभावमधिकृत्य मायादीनामनुत्पन्नत्वं केवलमभिधीयते, तत्तु, तदा स्वीकार्यमेव / यतो ऽस्माभिरपि परमार्थत उत्पत्तिमभ्युपगम्य नैव हेतोर्निदेशः कृतः, स तु केवलमुभ्यसिद्धप्रतिभासमादायैव / न हि सिद्धान्तापेक्षया धर्मिहेत्वादीनां निर्देशः क्रियत इति तु पूर्वं निर्दिष्टमेव / यदि मायादयो व्यवहारेणाप्यनुत्पन्ना इत्यभ्युपगम्यते तदेदं लोकस्यापि निर्वर्तकत्वाद् अस्माभिरस्यां निवृत्तौ प्रयत्नो नैवास्थेयः / को ऽपि स्वस्थमनाः पुरुषो यदि ऽयथा मायादीनां प्रत्यया मन्त्रौषध्यादयश्च दृश्यते, तथा तेषामुत्पत्तिर्नैव दृश्यतेऽ इत्येवं कथयति, तत्तु तेषां [कथनं] विदुषां कृते ऽत्यन्तं हास्यास्पदमपमानकरं चेति / इत्थं नास्त्यसिद्धत्वमपि हेतोः /
SK
यथोक्तं भगवता -
SK
यः प्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतो ऽस्ति / यः प्रत्ययाधीनु स शून्य उक्तो यः शून्यतां जानति सो ऽप्रमत्तः //
SK
सागरमतिनिर्देशसूत्रे ऽप्युक्तम् -
SK
प्रतीत्य यद् यद् भवति तत्तन्नस्ति स्वभावतः / निःस्वभावा हि ते भावाः कदाचित् सम्भवन्ति न //
SK
आचार्येणाप्युक्तम् -
SK
प्रतीत्य यद् यद् भवति तत्तच्छान्तं स्वभावतः / तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च //
SK
पुनश्च
SK
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्यहे / सा प्रज्ञप्तिरुपादाय प्रतीपत् सैव मध्यमा //
SK
[३१] यदि विनाशादयो हि विकल्पाः परमार्थत उत्पात्तौ बाधिता इत्युच्यते, तदपि नैव युक्तियुक्तम् / या च बाधाभिधीयते, कासौ? यदि मिथ्यात्वेन सिध्यन्तीत्युच्यते, तदा वयमप्यभ्युपगच्छामः / अतः संवृतिरेव सा इत्युच्यते / यदि युक्त्या ते प्रसिध्यन्ति तदा परमार्थत एव भवेयुः, न तु संवृत्या / यदि प्रसिद्धा तावद् बाधा निराकृतैवेत्युच्यते, तदपि नैव युज्यते, न हि प्रमाणबाधिता मिथ्यास्वभावा अपि मायादयो लोके ऽप्रसिद्धाः / अतो वस्तुस्थितं भ्रान्तं विज्ञानमपि मायादिवल्लोके प्रसिद्धमित्युच्यमानमपि न युज्यते / न ह्येकस्मिन् विविधप्रकारके विरुद्धज्ञाने तथैव मायादिस्वमियुच्यमानमपि न युज्यते / न ह्येकस्मिन् विविधप्रकारके विरुद्धज्ञाने तथैव भायादिस्वभावः सम्भवति, लोके ऽपि च तन्नैव ज्ञानस्वरुपेण प्रसिध्यति / मायादीनां ज्ञानस्वभावत्वे ऽपि ज्ञानस्य तदभिन्नतया गृहीतामिथ्याकारत्वेनावभासितत्वात् तदपि तद्वन्मिथ्यैव / अन्यथा सत्यासत्यस्वभावयोस्तावत् को हि सम्बन्धः स्यात् / अतो नास्ति भ्रान्तिः / अस्ति बाधाविरोध इत्युच्यते, तदपि न युज्यते, यदि नास्त्यात्मना विरोधस्तदा कथं स प्रमाणेन साधयितुं शक्यते /
SK
यद्यस्त्यामनि विरोधः, स च प्रमाणैः सिध्यत्यपीत्युच्यते तदा साधननिर्भरः सः कथमस्वीकार्यः स्यात् / न स विरोधो ऽवभासत इत्युच्यते चेत्, तदास्य विसर्जनं पूर्वमेवास्माभिः कृतम् /
SK
अपि च, अन्तर्ज्ञेयवादिनां मतानुसारं यदद्वयज्ञाने आकारद्वयं सागरपर्वतभूमिजलादिकं तदंशतयोपचर्यते, तदेकस्मिन् कथं विरुद्धावभासो ऽनुविधीयते / अतो ऽन्तर्ज्ञेयवादिभिरप्यवश्यं कथञ्चिद् भ्रान्तं ज्ञानमभ्युपेयमेव / अन्यथा सर्वे ऽपि तत्त्ववेदिनो जायेरन्, न च प्रतिवादिभिः सह विवादा अपि जायेरन् / कथं चारिष्टनीलाक्षताकामलादिभिरुपहतनेत्राणां देहादयो विरुद्धस्वभावद्वेये प्रतिभासेरन् / न च सत्यात्मकस्य ज्ञानस्य प्रतिभासमार्नैर्मिथ्याकारैः सह कश्चनापि सम्बन्धः, सत्यासत्योः परस्परविरुद्धत्वात् / न हि भवतां मते विरोधो दृश्यत इत्यतः सर्वेषां प्रत्यक्षतस्तत्त्वदर्शित्वसम्भवाद् मुक्त्यत्थिनां कृते तत्त्वभावानायाः प्रत्यत्नो निरर्थक एव स्यात् /
SK
यद्येवं चिन्त्यते यद् ऽभ्रान्ते विज्ञाने विविधावभासानां विरुद्धत्वे ऽपि विरोधो नैव व्यवस्थाप्यते, वस्तुविसयत्वात्तेषामति / वस्तुबलप्रवृत्तानुमानद्वारा वस्तुत्वेन स्वीकृतानामेव विरोधो ऽभिधीयते, न तु मिथ्यात्वेन स्वीकृतानाम् / यद्येवं न स्यात् तदा तदनुमानं वस्तुबलप्रवृत्तमेव न स्यात् / फलतो विज्ञाने भ्रान्तानां मिथ्याकाराणामप्यवभासः स्यात् / तत्र तावत्तत्त्वान्यत्वादिविरोधो ऽपि नाभिधीयते ऽ - यद्येवं विचार्यते तदा सांवृतकार्यकारणभावस्य कथं विरोधः प्रतिपाद्यते, मिथ्याभूते तस्मिन् वस्तुबलप्रवृत्तानुमानविषयत्वासम्भवात् स विरुद्ध इति नाभिधेय एव /
SK
यदि [विरोधः] क्रियते तदावश्यमस्माकमेवेस्टसिद्धिः, न तु युष्माकम् / यतो हि भवतां तथाविधेन विरोधेन मिथ्यात्वसिद्धिरेव स्यान्नत्ववभासनिराकृतिः, मिथ्यात्वस्यापि प्रसिद्धयविरोधात् / यदि स मिथ्यात्वेन प्रसाध्यते तदास्माकमेव पक्षः स्थापितः स्याद्, यतो वयमपि कार्यकारणदेशकालहेतुप्रत्ययविशेषाणां सत्यामप्यपेक्षायां [तं] प्रमाणबाधितं च मिथ्या चैव मन्यामहे, अत एव [सः] संवृतौ व्यवस्थाप्यते / तथाविधविरोधकरणेन भवद्भिरन्येषां वस्तुग्रहनिवृत्तिः कथं नाम न स्वीक्रियते, किन्तु निर्दोषाभिधानात्तावद् भवतामेव बाधा स्यात् अस्माकं तु प्रमाणानामप्रवृत्तिरपि नास्ति, अन्यथा कथं नाम संवृतौ साधयितुं शक्यः स्यात् /
SK
यथैव कार्यकारणभावः सिध्यति तथैव सम्यक्त्वेन अभ्युपगतवतां मिथ्यारोपनिवृत्तये केवलं वयं प्रमाणानि प्रयुञ्जमहे, नान्यत्र / प्रमाणानां प्रयोगे सत्यपि नैव प्रत्यक्षबाधा प्रवर्तते / प्रमाणैस्तावत् केवलं वस्तुतत्त्वस्य यथास्थितिरेव स्वीक्रियते, न तु प्रसिद्धिविरोधो ऽपि / अन्यथा नैव तत् प्रमाणं स्यात् / यो हि वस्तूनां परमार्थतः, प्रज्ञप्तस्वभावः, स एव प्रमानैर्बाध्यते / अभ्रान्तत्वं हि प्रत्यक्षलक्षणम् / अभ्रान्तप्रमाणेन यो हि बाध्यते, तस्य नैव विषयत्वं युज्यते, अतिप्रसङ्गात् / अतो नास्यस्यां प्रतिज्ञायां प्रत्यक्षबाधा / यधेवं न स्यात्तदा स्पष्टावभासितया बाह्यार्थस्य प्रत्यक्षसिद्धे ऽपि न स प्रत्यक्षविरुद्धः स्यात् / फलत एकानेकस्वभावविरहितत्वे ऽपि न स निःस्वभावः सिध्यतीतिः सिध्यतीति स्यात् /
SK
तैमिरिकादिषु केशमशकादीनामवभासे ऽपि प्रत्यक्षतो विरोधान्न केनापि तेषां मिथ्यात्वम् अस्वीक्रियते / अतः स्वानुरूपकार्यकारनभावेन अनादिकालिकपरम्पराअगतानां सर्वेषां जन्मनां देशाकालहेतुविशेषापेक्षितत्वे ऽपि मायोत्पादवत् संवृतावेव व्यवस्था क्रियते /
SK
ये खलु यथाप्रसिद्धं व्यवस्थापयन्ति, तेषां यदा समकालिकासमकालिकव्यवस्थायां नास्ति विरोधस्तदा अक्षणिकत्वादिदोषा अपि तेषु नैव प्रर्वतन्ते, अलीकेषु विरोधस्याप्रवृत्तेः / मायास्वप्नादिसदृशेषु धर्मेषु परमार्थतस्तावत् क्षणिकाक्षणिकत्वादयो नैव हि युज्यते, यथोक्तं प्रज्ञापारमितायाम् - ये रूपस्य नित्यत्वे ऽनित्यत्वे वा आचरन्ति ते नाचरन्ति प्रज्ञापारमितायाम् तत् कथमिति? तद् रूपं यदा नास्ति तथा सत् तदा कथं तन्नित्यमनित्यं वा स्यात् /᳚
SK
एवं तावत् सर्वज्ञतापर्यन्तं विस्तरेणाभिधातव्यम् /
SK
कतिपयेष्वन्येषु [सुत्रेषु] या खलु संस्काराणां क्षणिकता देशिता, सा प्रसादसंस्कारेभ्यो मानसमुद्विग्नं कृत्वा क्रमशो नैरात्म्ये प्रवेशायैव देशिता /
SK
नैवमुत्पद्यते किञ्चिन्निरोधो ऽपि न किञ्चन / मार्गप्रयोजनार्थाय निरोधोत्पाददेशाना //
SK
उत्पत्त्या ज्ञायते नाशो विनाशेनाप्यनित्यता / अनित्यताप्रवेशेन सद्धर्मेषु प्रवर्तते //
SK
यदि मायादिवदङ्कुरोत्पादादिषु बीजादीनां सामर्थ्यमभ्युपगम्यत इति चिन्त्यते तदा वस्तुनः स्वीकृतिरेव स्यात्, यतो ह्येवं यानि सांवृतिकानि बीजाख्यानि तानि सर्वाभिधानसमतिक्रान्तशशशृङ्गादिभ्यो विनिवृत्तान्येवाभिधेयानि / यद्येवं नास्ति तदा कथं भवद्भिर्लोकागविरोधपरिहारः कर्तुं शक्येत /
SK
वयं तु यत्तावत् सर्वसामर्थ्यविरहलक्षणेभ्यः शशशृङ्गादिभ्यो विनिवृत्तं तदेव वस्त्विति कथयामः / ऽयदि भवन्तस्तथाविधमपि संवृतिसदिति नाम्नाभिधातुमभिलषन्ते तदा सहर्षं ब्रवन्तु, संवृतिपरमार्थशव्दैरभिधीयमानानां वस्तूनाम् अर्थक्रियाकारित्वाभेदादिऽत्येवं चिन्त्यते? तदपि नैव यक्तुम्, यतो ह्येवं स्वप्नादौ गजाश्वग्निभूमिवृषभादयो मिथ्याभावा ये विविधार्थक्रियां कुर्वाणाः परस्परभिन्नशरीरानुगता दृश्यन्ते ते यथैव भिन्नदेशकालवस्थासु दृश्यन्ते तथैव किं सर्वाभिधानसमतिक्रान्तशशशृङ्गादिभ्यो विनिवृत्तकायाः सन्ति? न वा? ते यद्येकान्तेन विनिवृत्तकायास्तदा तेवामपि वस्तुत्वप्रसङ्गः स्यात् /
SK
यदि ते विनिवृत्तकाया इत्युच्येत, तर्हि कथं भवन्तः प्रसिद्धिविरोधस्य परिहारं करिष्यन्ति? यद्युच्येत यथावभासं तत्स्वभावो नावतिष्ठतीत्यतः प्रतीत्यसमुत्पन्नत्वाज्ज्ञानस्वभावत्वेन वस्तुतः सन्तीति? एतदपि नैव युज्यते, यतो हि तदा ज्ञानमात्रस्वभावत्वात्ते कायादिविशेषाननुगतत्वादत्यन्तविरुद्धस्वभावेनावभासिष्यन्ते / अन्यस्यान्यस्वभावेनावभासो नैव युक्तरूपः, तत्त्वान्यत्वयोर्विरुद्धत्वादिति पूर्वमेवावेदितम् / यदि ज्ञानस्वभावस्तावद् शुद्धस्फटिक इव निरंशः क्कचनाप्यनवस्थितो नीलादिविविधस्वभावेष्वनवभासमान इत्यभ्युपगम्यते, तदा स्वप्नादिषु गजाश्वादीनि वस्तुनि तत्स्वभावत्वेन न समुद्भविष्यन्ति, तद्विरुद्धकारयोगात् / यद्येवं नास्ति तदा तथावभासो नैव शक्यरूपः /
SK
अत एव वयं ज्ञानस्वभावातीतं विपरीताकारेणावभासितं मिथ्यात्वाल्लौकिकमभ्युपगच्छामस्तथा परिकल्पितस्वभावेनोच्यमानमेव वस्तुत्वेन भ्रान्तो विषय इति कथयामः, न तु ज्ञानस्वभावत्वेन / सो ऽपि तदभिन्नत्मकत्वेनावभासितत्वान्नस्ति सत्यस्वभावेन सिद्धः / एवं वस्त्वात्मना प्रसिद्धमपि प्रमाणेन यथावत् स्fउटमवभासिते ऽपि परमार्थतया वस्तुस्वभावत्वेन न व्यवस्थापयामः, यथा - तृणपुरुषं पुरुषत्वेन / अतः परमार्थतो वस्तुवपुषाभूतं यन्मिथ्या तस्मिन् पारमार्थिकसर्वदोषविरहितशशशृङ्गदिभ्यो निवृत्तमनिवृतं वा चित्तं नैव प्रविशतीत्युच्येत तदेवं यथोक्तः संवृतिस्वभावः प्रमाणेन मिथ्यास्वभावत्वनोक्तो ऽपि न तथैव चिन्तनीयः, यथा - मायास्वप्नाद्यभिन्नो वस्तुस्वभावः प्रमाणेन सुस्पष्टीकृतः अयमपि परमार्थ इति प्रज्ञप्यते तदा सहर्षं प्रज्ञप्यतामुत्सवश्चानुभूयताम्, परन्तु प्रज्ञप्तिमात्रकथनेन नैव वस्तूनि भिन्नस्वभावत्वेनोपादीयन्ते / अतः प्रतीज्ञा परित्यज्यतामिति कथनमिवैतद् /
SK
आचार्यः खल्वत्यन्तगम्भीरसागरे परमार्थनये प्रवेष्टुमसमर्थानां शाश्वोच्छेदाद्यपरदर्शनानां मलविशुद्धयर्थं बालपृथग्जनानां च प्रवृत्त्यर्थं ये परमार्थनुकूलां यथाप्रसिद्धां पुण्यज्ञानसम्भाराद्यर्थकृयां कुर्वन्ति, तानेवात्र परमार्थतः सदिति कथयामासुः, न त्वत्यन्तनियतपरमार्थज्ञानार्थमिति ज्ञातव्यम् / [यतो हि] ते नैव सन्ति परमार्थतः सदिति तु पूर्वमेवावेदितम्
SK
एतदर्शमक्तं वार्तिके - ᳚यथावक्तु तथैव᳚ इति / आर्यश्रीमालासिंहनादसूत्रे ऽपि - ᳚यदनित्यं तन्मिथ्या मोषधर्मकं च, यन्मोषधर्मकं तदसत्यम्᳚ इत्युक्तम् / आगमे ऽउयुक्तम् - ᳚एतद्धि भिक्षवः परमं सत्यं यदुत अमोषधर्मं निर्वाणम्, सर्वसंस्काराश्च मिथ्या मोषधर्माणःऽ इति /
SK
परमार्थतो निःस्वभावत्वे ऽपि वस्तुनो यदि नियतदेशकालाद्यवभासो भवतीति कथं न शशशृङ्गादयो ऽप्यवभासन्त इति चेत्? भवद्बिरप्यस्योत्तरं दातव्यं स्यात्, यतो हि केशादिवन्मिथ्यावभासे ऽपि किमिति केशादीनामेव मिथ्यावभासः, न शशशृङ्गादीनाम् / यदि तिमिरादिहेतुप्रत्ययादीनां प्रतीनियतसामर्थ्येन तथा प्रतिनियतत्वमित्युच्येत तदा असद्वस्तुनि कथं नाम हेतुप्रत्ययादीनां प्रतिनियतसामर्थ्यमिति कथयितुं शक्यते / यदि तद्दर्शनेन तथा भवतीति चेत्? तदा तथैव अपरेष्वपि प्रतिनियतहेतुप्रत्ययत्वेन प्रतिनियतसामर्थ्ये ऽपि किमिति नैव तथा व्यवस्था स्वीक्रियते / इयन्मात्रेण वस्तुत्वे ऽपि नैव प्रसङ्गः, तथा सति तैमिरिकदृष्टकेशादीनामपि वस्तुत्वप्रसङ्गः स्यादिति पूर्वमेवावेदितम् /
SK
यद्येवं न स्यात्तदा तैमिरिकैरध्यालम्बितानां मिथ्याकेशांदीनां हेतुप्रत्यया अपि कथं नाम नियताः स्युः / तैमिरिककेशादीनां ज्ञानस्वभावेनापि सत्यत्वं नैव युज्यत इति पूर्वमेव निर्दिष्टम् /
SK
अपि च, यदि ज्ञानस्वभावः सत्यत्वेन सिद्धं स्यात्तदा केशादयो न ततो भिन्ना इति तेषामपि सत्यत्वेनावबोधः स्यात्, किन्तु तदसिद्धमिति पूर्वमेवाभिहितम् / केशादयस्तु मिथ्यात्वेन लोकेन प्रमाणेन च सिद्धा एव / अतो ज्ञानमपि केशादिमिथ्यास्वभावेनाभिन्नत्वात् तथैव मिथ्यामात्रमिति कथं केशादीनां तत्स्वभावत्वेन सत्यत्वं स्यादिति /
SK
यथा सर्वणि वस्तूनि परमार्थतो ऽनुत्पन्नानि तथैव संवृतावप्युत्पन्नानि भवितुं न शक्नुवन्ति, तथा हि - ये तावत् परमार्थतो ऽनुत्पन्नास्तेषां संवृतावपि नोत्पादः, यथा - शशशृङ्गादय इति ये ब्रुवन्ति तेषां मायादिभिरनैकान्तिकत्वम्, साध्यवैपरीत्ये सति हेतुरपि सन्दिग्धविपक्षव्यावृत्तिकः / न हि दृष्टमात्रेणेष्टसिद्धिः, प्रमेयादीनामुभयपक्षव्याप्तिसम्भवात् / अतः परमार्थतो ऽसतो यदि संवृतावप्यसत्त्वं तदा संवृतिसत्यस्यैव विनाशप्रसङ्गः, फलतः को ऽपि विपर्ययो न स्यादिति /
SK
सिद्धे ऽपि प्रसङ्गे व्याप्तेरसिद्धत्वाद् हेतुरनैकान्तिकः / संवृतावपि अदृष्टोत्पदाः शशशृङ्गादयो न तथाविधकर्मणां सञ्चयाभावान तु परमार्थस्वभावरहितत्वाद्, अनियतवस्तूनां संवृतिस्वभावो ऽपि हेतुप्रत्ययसमूहनिर्भर इति स्वीकारात् / न हेतुप्रत्ययनिर्भरतामात्रेण वस्तुत्वप्रसङ्गः मायादिमिथ्यावस्तूनां हेतुप्रत्ययसमूहभावाभावाभ्यां प्रवृत्तिनिवृत्तिदर्शनात् / न हि दर्शनमात्रेण वस्तूनां तथाभावः सन्निति निर्दिष्टम् / चतुष्कोटिरहितत्वाद् विद्वद्भिर्वस्तूनां तत्त्वतो ऽनुपपन्नत्वं साधितम् / अतो निःस्वभावतायां स्पष्टतः सिद्धत्वे ऽपि प्रमाणमार्गस्य ज्ञानाभावद् ये ऽन्यतो दूषितान् निराकर्तुमभिलषन्ते, तेभ्यस्तावत् प्रमाणतत्त्वं दर्शयिष्यते / ये परमार्थतश्चतुष्कोटिकोत्पादरहितास्ते निःस्वभावा ए, यथा गगननलिनम् /
SK
[३२] विवादाधिकरणाश्च सर्वे पदार्थास्तत्सदृशा एव, एवंवादिनं कश्चित् ऽकथं नाम एकस्मादेकस्यानुत्पत्तिबोधःऽ इति पृच्छतीति चेत्? न हि प्रमाणनिवृत्त्या वस्तुस्वभावनिवृत्तिः, तस्य तदुत्पादकत्वतदात्मकत्वाभावात् / यदि केचित् ऽतदनङ्गीओकारात् कश्चित् तत्खण्डयतीति ऽकथयन्तीति चेत्? तदयुक्तम् / यदि केचनऽ ईश्वरादिना एकेन जगद् उत्पद्यत इति कथयन्तीति चेत्? एतदपि न युक्तम् / यद्येकमादेकस्योत्पत्तिरिति तदा सा नित्याद् वा अनित्याद् वा भवेत् / न नित्यात्, तस्य अनुत्पन्नावस्थातो ऽभिन्नत्वात् पूर्वापरकालवद् मध्ये ऽपि उत्पादकत्वविरोधात् / यदि स उत्पादयतीति चेत्? पूर्वापरकाले ऽपि तद्वदुत्पत्तिप्रसङ्ग, उत्पत्तिस्वभावानुसरणात्तस्य / नानुसरतीति चेद्? नित्यताया हानिसद्भावात् क्रमयौगपद्याभ्यां तस्योत्पादकत्वं विस्तरेण निराक्रियते / न हि कदाचिन्नित्यादुत्पत्तिर्युक्तिमती /
SK
न चानित्यादपि / पूर्वकालसमकालपश्चात्कालेषु च सामान्येनोत्पत्तेर्निराकृतत्वात् / न हि नित्यानित्याभ्यां व्यतिरिक्तस्तस्य कश्चनोत्पादक इति /
SK
ये चान्यैः [वादिभिः] एकस्वभावा ईश्वरादयो जगतो ऽस्य हेतवो मन्यन्ते, तेभ्यश्चापि [हेतुभ्यः] एकस्वभावादेकस्य फलस्योत्पत्तिस्तैर्नाङ्गीक्रियते, विविधस्वभाववतो जगतस्तत उत्पत्तिस्वीकारात् / अत एकस्मादेकस्योत्पत्तिर्न भवतीति कथनकाले भ्रान्ततया ईश्वरादिकं यन्निर्दिशन्ति, तत्तु अर्थस्थितेरज्ञानमेवोद्घोषयन्ति / न हि ईश्श्वरादयो हेतुत्वेन अस्तित्वभाजो भवन्ति, परैस्तस्य नित्यस्वभावत्वेनोपज्ञपितत्वात् / नित्यस्तावत् सर्वसामर्थ्यशून्य इति च पूर्वमेव प्रसाधिततत्वात् /
SK
यदि पुनः परैस्ते [ईश्वरादयः] केवलमनित्यत्वेनोपकल्प्यन्ते, तदापि तस्मादेकस्यैव फलस्योत्पत्तिर्नैव युक्तिमती, यतो हि ततो यदि भिन्नसन्तानवर्तिनां फलानामुत्पत्तिर्भवति, तदा तस्य अन्यसजातीयक्षणस्य प्रतिसन्धानाभावाद् द्वितीय एव क्षणे समुच्छेदः स्यात् / यद्येवं तदा ततः सदा विजातीयफलानामुत्पत्तिकाले सर्वेषां पूर्वसजातीयक्षणानां पश्चाद्वर्तिनि क्षणे प्रतिसन्धानाभावाद् ये तावदनित्यस्वभावा ईश्वरादिसंज्ञका जगतो हेतुत्वेनोपज्ञाप्यन्ते, ते के?
SK
यदि ते प्राथमक्षणिकस्वभावत्वादेकस्यैव क्षणस्य स्वभावेनाभिधीयन्ते, तदपि नैव युक्तम्, हेतोरभावेन तस्योत्पत्तेरसम्भवात् अथवा सम्पूर्नमेव जगत् तद्वदहेतुकमेव स्यात् / यतो हि पूर्वमपि पश्चादपि तद्धेतुत्वेन [सर्वथा] किमपि नास्तीति / यद्येवं तदा तस्य क्षणमात्रस्वभावहानिप्रसङ्गः, तस्यानादिकालिकत्वमप्यस्माभिः पूवमेव प्रतिषिद्धम् /
SK
यदि तस्यापरो ऽन्यो हेतुः परिकल्पयते, तदा स एव कथं न तस्य फलं वा तदुत्पन्नो वेति कल्प्यते / किं तदभावे स न सिध्यतीति, किमर्थं स कल्प्यत इति / अभिन्नसन्ताने विद्यमानो स हेतुरनादिकालात् तस्यामेव सन्ततौ प्रवृत्त एवेति, नैवान्यसन्ताने विद्यमानः सन्नुत्पत्तिकारक इति कल्प्यते तदा तस्मिन् परमार्थतो ऽसमकालत्वम्, अन्यत्र च सजातीयक्षणोत्पत्तिरपि नैव युज्यत इति पूर्वं बहुशो निर्दिष्टम् / अतच्चापि हेतुभेदस्य अभिन्नकारके प्रसङ्गश्च पश्चात् प्रतिपादयिष्यते / एतश्च ततो ऽनेकफलोत्पत्तिरपि ज्ञातव्या /
SK
यद्यन्ते चक्षुरादयस्तावत् फलस्यैकस्य नियतोत्पादका इति मन्यन्ते, तदा अन्धवधिरत्वप्रसङ्गः दुर्निवार एव स्यात्, यतो हि चक्षुरादीनीन्द्रियाणि यदा स्वविज्ञानमुत्पदयन्ति तदा सजातीयान्यक्षणानि नोत्पादयन्ति / फलतो द्वितीयस्मिन् क्षणे सर्वेषामन्धबधिरादित्वप्रसङ्गः स्यात् / समुह एव तावद् विज्ञानफलमुत्पादयति, अतो नैकस्मादेकस्य फलोत्पत्तिः, चक्षुःश्रोत्रमनस्कारादिभिश्चक्षुर्विज्ञानादीनानुत्पादस्य [भूयसा] दृश्यमानत्वादिति चेत्तदपि नैव युक्तम् / यद्येवं तदा हेतुभेदो भेदनियामको नैव स्यात् / यो हि घटादीनां पटादिभ्यो भिन्नः स्वभावः, स खलु हेतुभेदेनैव कृतः, न तु प्रकृत्या जनित इति / यद्येवं न स्यात्तदा अहेतुकान्येव तावद् वस्तूनि स्युः / तत्र हेतुभेदे ऽपि यदि फलभेदो न स्यात्तदा हेतोर्भेदाभेदाभ्यां फलस्य भेदाभेदौ न कृतौ स्याताम्, व्यभिचिरितत्वात् / भिन्नाभिन्नाभ्यां वस्तुनो ऽभावात् सर्वेषामेव अहेतुकत्वप्रसङ्गः / इत्थं नैव ते समूहाद् व्यतिरिक्ताः सिध्यन्ति, नैव च ते समूहात् पृथम् कर्तुं शक्यन्ते / परन्तु परस्परभिन्नस्वभावात् प्रत्येकस्मादुत्पत्तिसामर्थयवतो यदि फलमुद्भुयते तदा अभिन्नमेव कथं नामोद्भूयते / यदि सर्व एवैकफलोत्पादने समर्थाः, न त्वनेकफलोत्पादन इत्येवं चेत्तदपि न युक्तम् / यद्येवं तदा सजातीयफलप्रतीसन्धानाभावाद् द्वीतिये तावत् क्षणे चक्षुरादिसन्तानानोच्छेद एव स्यात् / यदि तेषु सजातीयक्षणोत्पादे सामर्थ्यमित्युच्यते तदा तदन्यदेव तावद् वस्तु स्यात्ततश्च सामर्थ्यमेव हेतुः स्यान्न न खलु वस्तु /
SK
पुनश्च, सम्बन्धो ऽपि नैव सेत्स्यति, समर्थस्योपकाराभावात् / उपकुर्वन्त्येवेति चेत्, समर्थान्तरस्य तत्रापेक्षितत्वादनवस्थाख्यस्तावद् दोष एव स्यात् / यदि ते स्वभावभूतं समर्थमुपर्कुर्वन्तीति मन्यते तदा फलमपि तथैव किं न कुर्वन्तीति / इमे समर्थास्तु वस्तुस्वभावेनाभिन्ना एव / अतो ये यतः सामर्थ्यात् सजातीयफलमुत्पादयन्ति, तत एव च चर्क्षुर्विज्ञानादिसामान्यमप्युत्पादयन्ति / अतः कथं नाम फलं भिन्नं स्यात् /
SK
यदि फलमेकं समूहनिर्भरम्, अन्यच्च [फलं] एकैकहेतुनिर्भरमित्यतः [फलं] भिन्नं स्यादिति चिन्त्यते, तदपि नैव युक्तम् / समूहो ऽपि तावदेकैकहेतुसापेक्ष इति समूहनिर्भ्रत्वमपि [वस्तुतः] एकैकनिर्भरत्वमेव / अतः फलस्य सजातीय विजातीयतयोर्भेदो नैव स्यात् /
SK
हेतुभेदस्त्रावत् [फलस्य] भेदको न भविष्यतीत्येवंविधस्य प्रसङ्गस्य को ह्यर्थः? यदि खण्डशो नोत्पादयतीत्यर्थस्तदा वस्तुस्वभावस्य निरंशत्वाद् अशंतश्चोत्पादस्यास्वीकृतत्वात् कथं नाम प्रसङ्गः स्यात्, तल्लक्षणस्यानुपपन्नात्वादिति /
SK
यदि विशेषको [भेदको] न भवतीत्येवमर्थो गृह्यते तदा असिद्धमेवैतत् / हेतुभिस्तावदनेकेभ्यो विजातीयफलेभ्यो विपरीतमेव जन्तय इत्यभिधानमपि नैव युक्तम्, यतो ह्येकस्य अंशत उत्पत्तेरसम्भवादिति प्रसङ्गो नैवोच्यते, परन्तु भवन्तो ये वस्तुषु परस्परं व्यतिरेकं विशेषं वा मन्वते, स विविधैर्हेतुभिरेव क्रियते / यदि विविधहेतूनङ्गीकृत्यापि फलमेकविधमेव स्वीकृयते तदा भ्रान्तिसद्भावाद् वस्तूनां तावद् भेदो विविधहेतुभिरकृत एव स्यादित्येवं प्रसङ्गो नूनमभिधानीयः स्यात् / यश्चानेकविजातीयनिवृत्तिलक्षणस्य फलविशेषस्याभिलापः, सो ऽप्यसम्बद्ध एव, यतो हि ये विशेषात्मकत्वेन विशेषफलमुत्पादयन्ति, ते यदि विजातीयनिवृत्त्यैव सजातीयलक्षणोत्पत्तितो ऽपि निवर्तन्ते, तदा तेभ्य उत्पद्यं सजातीयं फलं विजातीयं च नैव परस्परनिवृत्तं स्याद्, भित्रनिवृत्तिहेतोरभावात् /
SK
यदि हेतवस्ते निवृत्तिस्वभावत्वात् स्वयं सजातीयफलनां भेदका अपि भविष्यन्तीत्युच्यते, तदा तथैव ते सामान्यफले ऽपि कथं न भेदकाः? यतो हि तत्र सर्वे एकैका हेतवो भवन्ति / ये तावदेकोत्पादकस्वभावा एव ते ततो विपरीतं कमप्यन्यं नोत्पादयितुं शक्ताः, यतो हि ते उत्पादकस्वभावनिवृत्त्या अन्यार्थ इव भवन्ति, नान्ये उत्पादकस्वभावा इति / पुनस्ते परस्परनिवृत्तस्वभावाः किन्तु नैव ते उत्पादकस्वभावनिवृत्ताः / नान्यस्मिन् तदुत्पादकस्वभाव इति नैवं कथ्यते, किन्तु ये एकेनोत्पाद्यस्वभावास्ते नान्येनेति कथ्यते /
SK
अपि च, ते स्वस्वभावनैवोत्पादयन्ति, न त्वन्यस्वभावेन, अतदात्मकत्वात्, ते च यथास्वं भिन्ना अपि / स्वस्वभावेनोत्पादयन्तीत्यस्मिन् कथने को विरोधः? एकस्वभावस्याभावो नैव तस्य स्वभावो भवितुं शक्नोति, अकारकत्वात्तस्य /
SK
तेनैव तत्फलं निष्पादनीयमिति यदुक्तं तत्र का युक्तिरिति चेत् सांख्यैरेव तत्समाधानं विधेयमिति शोभनं प्रतिभाति / यतो हि ते खलु भिन्नभिन्नस्वभावं जगदिति प्रतिपादयन्ति / अतस्तेषां यत्तत्र ग्रहणं तन्निवृत्यर्थमेव आचार्येण भिन्नवस्तुनिर्देशकानां कृते व्यवहारवशादुक्तम् तानि [वस्तूनि] प्रतीत्यसमुत्पन्नतया नैव परमार्थत एकार्थानि नापि च भिन्नर्थानीति मन्वानां कृते नैव किमप्युक्तमिति / तेषां तावदनुसारं तु मायासदृशत्वात् सर्वेषु तेषु न किमप्येकं वस्तु भिन्नमभिन्नं वा सिध्यति /
SK
अपि च, यदि वस्तुषु परमार्थतः स्वभवद्वयम्, एकश्चोत्पादकलक्षणः, अपरश्च स्वभावलक्षणस्तदा निवृत्ते ऽप्यस्मिन् स्वभावेनैवोत्पादकलक्षणस्तावन्निवर्तत इत्युत्तरं खलु समीचीनं स्यादिति /
SK
यस्मिन् समये सर्व एवोत्पादकस्वभावस्तस्मिन् समये यदि ते परस्परनिवृत्तस्वभावा अपि तदा उत्पादकस्वभावतो निवृत्तत्वात् कथं नामोत्पादकाः स्युः / तेषामयमेव स्वभावो यत् स्वभावभेदे ऽपि एकमुत्पादयन्ति विरुद्धस्वभावे ऽपि च सति नैव परीक्षायोग्या इति यदि भवद्भिरुच्यते तदा पादौ प्रसार्य तथातापरीक्षातः पराङ्मुखबुद्धयो ये व्यवहारमात्रमनुसरन्ति ते सुखेनासितुं शक्नुवन्ति / ये तु तथातापरीक्षायां प्रवृतबुद्धयस्तेषां कृते तथैव सुखासनं नैव युक्तरूपम् / यद्येवं न स्यात्तदा ईश्वरादिस्तावदेकः सन्नपि स्वभावभेदे ऽपि च सति क्रमेण युगपद् वा विचित्रस्यास्य जगतो हेतुरुपेण नैव कथमपि विरुद्धो भविष्यति, तत्स्वभावस्य तथैव स्वभावसिद्धत्वात् / स्वभावभेदे ऽपि नास्ति परीक्षायोग्य इत्यभिदधतां कृते किं नामोत्तरं दत्तं स्यात्? तेनैव फलमुत्पादनीयमिति प्रतिपादयतां तत्र का युक्तिरिति ये कथयन्ति तेषां कृते अग्न्यादिकमपेक्ष्योत्पद्यमानो धूमस्तावद् शक्रमूर्धतो ऽउपुत्पद्यत इति कथनं यथा अहेतुकत्वे युक्त्या प्रसङ्गतयोच्यते, तथैवात्र किमिति नोच्यते? व्यवहारे ऽपि एकसमूहान्तर्गतो यद्येकफलस्योत्पादको भवेत्तदा नैव विरुद्धः, किन्तु समूहान्तर्गतस्तु विरुद्ध एवेत्येवं कथयद्भिः सह नास्ति कश्चन भेदः /
SK
अत्रापि अग्न्यादिभिरेव फलमुत्पादनीयम्, न तु शक्रमूर्धाद्यन्यैरिति ये कथयन्ति, तत्र का युक्तिः / समुहो ऽपि भिन्नः स्वभावतश्चोत्पन्न इत्येवमभिदधानैः सह को विरोध इति वक्तव्यं स्यात् / तत्र यथा एकसमूहमाश्रित्योत्पद्यमानं फलं समूहान्तरेणाप्युत्पद्यते तदा तेनोत्पाद्यस्य स्वभावस्यानियतत्वाद् अहेतुक इत्युच्यते, तथैव एकस्मिन्नेव समूहे विज्ञानादयो यदा एकहेतुमपेक्ष्यापि तद्विलक्षणहेतुत उत्पद्यन्ते तदा किमित्यहेतुकतायाः प्रसङ्गो नोक्तः स्यात् /
SK
हेतोर्यथात्मकेन प्रयोगेण निर्दुष्टात् स्वभावविशेषाद् हेतुभेदो भेदकश्च विरुद्धावेव स्याताम् / यतो हि चक्षुरादिना भिन्नस्वभावेन चक्षुर्विज्ञानादीनां फलानामुत्पत्तिकाले साक्षाद् भेदाभावे ऽपि प्रतीतिस्वभावाद् रूपादयः पृथग्विषयत्वेन नियता भवन्ति, तद्विकारेण च तथोत्पद्यन्ते / ते चान्वयव्यतिरेकाभ्यां समन्तरप्रत्ययेन च प्रतीतिस्वभावाः स्युः, न तु चक्षुरादयस्तथा नियताः सन्ति / विशेषेतुरपि तत्सदृश एव / इन्द्रियेण च विषयग्रहणं पृथक्तया नियतम् / इत्येवमन्द्रियाणि विषयाश्च न प्रतीतिस्वभावाः / इन्द्रियेषु समनन्तरप्रत्यये चापि नास्ति विषयग्रहणस्वभावः, विषयेण च समन्तरप्रत्ययेन चापि पृथक्तया विषयग्रहणं नैव नियतम् / एवंविधया नियतव्यवस्थया निश्चयेन हेतुभेदो भेदक एव स्यात् / भेद एव भिन्नविशेष इत्यसौ विचारो यदि व्यवहारतया बालपृथग्जनानां प्रवृत्त्यर्थमेवोच्यते तदा तु सुतरां यज्यते, न तु परमार्थतः /
SK
अथ ये तावद् भेदास्तेए अप्रज्ञप्तिमात्रात्मका वा निवृत्तिविशेषेण प्रज्ञप्तिस्वभावात्मका वा? यदि प्रथमः पक्षस्तदा विज्ञानस्य आलम्बनादस्वभावादभिन्नत्वेन तथैवानेकत्वप्रसङ्गः / आलमनादिस्वभावो ऽपि विज्ञानवन्नैव तावदेकत्वनिवृत्तः स्यात् / विज्ञानमपि प्रतितिस्वभावतो नास्ति भिन्नो ऽतस्तथैव रूपादिभ्यस्तस्यानुत्पत्तिप्रसङ्गः /
SK
तथैवाभिन्ने ऽपि रूपादिभ्य उत्पद्यत इत्युच्यत इति चेदेकस्मिन् एकदा परस्परविरुद्धावुत्पादानुत्पादौ कथं नाम न विरुद्धौ स्यातामित्ययं दोषो नैव युज्यतामिति विचार्य ये विशेषान् विज्ञानतो भिन्नार्थत्वेन कल्पयन्ति तेषां तदा विज्ञानमहेतुकं स्याद् अन्यस्मिन्नेव तदा चक्षुरादीनां योगात् / फलतः सदा सत्त्वेन प्रसङ्ग इति /
SK
यदि प्रज्ञप्तिस्वभाव इति द्वितीयपक्षः स्वीक्रियते तदापि विज्ञानस्याहेतुकत्वं प्रसज्यत एव, प्रज्ञत्यात्मकत्वे चक्षुरादीनामुपयोगाभावात् / प्रज्ञप्त्यात्मकत्वे कस्यापि योगो नैव भवतीत्यतः सर्वेषामहेतुकत्वप्रसङ्गः / फलतः परमार्थतो ऽनेकेभ्य एकस्य फलस्योत्पत्तिर्नैव सर्वथा युजयत इति /
SK
नैकस्मादनेकस्यापि [उत्पादः], पूर्वदत्रापि हेतुभेदस्याभेदकत्वप्रसङ्गात् / इत्थं चक्षुर्यदिस्वविशेषतया तज्जातीयक्षणस्योत्पादकत्वात् स्वविज्ञानमुत्पादयतिति, तदा हेतुभेदाभावे ऽपि फलस्य भिन्नत्वात् फलस्य तावद् भेदाभेदौ कथं नाहेतुकाविति / येन खलु कारणेन तत्र फलान्तरोत्पत्तिमत्त्वे नास्त्यन्यः [कश्चन] विशेषः, निरंशत्वात् सर्ववस्तूनाम्, अतो हेत्तुअतावत् स्वभावप्रच्युतो भूत्वा फलं नोत्पादयतीति, तथापि तस्मिन् हेत्वात्मकत्वे भेदाभावात् तन्निर्वृते फले ऽपि तावद् भेदो न स्यात् /
SK
एकस्मादनेकस्य अनेकस्मादेकस्योत्पत्तिर्या कथ्यते, किं सा नैव दृश्यते? [अर्थात् दृश्यत एव], अतस्तस्याः परिहारं कर्तुं शक्यत इत्यभिधानं तावन्नैव युज्यते / वयमपि सा आदृश्येति न साधयामः / दर्शनमात्रं तु नैव तावत् प्रमाणमपि, स्वप्नवन्मिथ्याभासमानत्वाअत् / यद् यथा दृश्यते तत्तथैव सदित्यभिनिविशमानानां केवलं मिथ्याकल्पनानां निराकरणाय स्वप्न इव साध्यमानत्वान्नास्ति तावद् विरोधो ऽपीति /
SK
अपि च, चक्षुर्विज्ञानादीनां वस्तूनां यान्यनेकस्मादुत्यद्यमानानि दृश्यन्ते, तेषां पारमार्थिकः स्वभावस्तावदेकत्वेन नैव कथमपि सिद्धः, सदा विभिन्नेष्वाकोरष्ववभासमानत्वात् / विविधो ऽपि स्वभावो यद्येकः स्यात्तदा सर्वेषामेवैकद्रव्यताप्रसङ्गः स्यात् / यच्चैकस्य तावदसिद्धिः, सा संघातात्मकत्वादसिद्धैव / एकस्य चानेकषां च वस्तूनां परमार्थत उत्पत्तिस्तावत् कुत्र समवलोक्यते? अनेर्कस्मादनेकस्योत्पतिरिति द्वितीयो ऽपि पक्षो नैव युक्तः / एकैकस्य फलस्य स्तावदनैकैर्हेतुभिः क्रियमाणत्वादयमपि पक्षस्तावदनेकस्मादेकस्यैवोत्पत्तिपक्षः स्यात् / अस्य [पक्षस्य] दोषो ऽप्यस्माभिः पूर्वमेवोक्त इति /
SK
यधेकस्मिन् फले एकैकस्य हेतोर्योगः क्रियते, तदा पक्षो ऽयम् ऽएकस्मादेकस्योत्पत्तिपक्षःऽ स्यादिति / अस्मिन्नपि पक्षे यद्दूषणं तत् पूर्वमेवोक्तम् / अतो नास्त्ययमसिद्धो हेतुरपि कोटीनां चतुष्कं विहाय नास्त्यन्यो ऽपि कश्चनोत्पत्तिपक्षः / सर्वेषां नित्यवस्तूनां निराकरणमपि पूर्वमेव कृतम् / अतो नास्त्यनैकान्तिकत्वमपि हेतोः / सपक्षे सत्त्वाद् विरुद्धो ऽपि हेतुर्नास्ति / आचार्यो ऽपि संवृतौ कार्यकारणभावस्थितिं स्वीकृत्य यथा व्यवहारे एकस्मादनेकस्य चानेकस्मादेकस्य चोत्पत्तिः प्रसिध्यति तथा दृश्यत एवेति कथयागास / चक्षुरादिभिरन्वयव्यतिरेकाभ्यां चक्षुर्विज्ञानादीनामुत्पत्तिविशेषं ज्ञात्वा बालापृथग्जनानां प्रवृत्त्यर्थं कार्यहेत्वोर्भेदकाले यदि हेतुर्भिन्नस्तदा कार्यभेदो ऽपि सुतरां स्यादित्युक्तवान्, न तु परमार्थदशायाम्, परमार्थतो ऽसिद्धत्वात्तस्य, यथा विचारितं प्रागेव / एकस्माद् हेतोरनेकफलानामुत्पत्तिरयुक्तेत्यादिकं यदुक्तम्, तेषां समेषां समाधानमपि पृथक्पृथस्मामिः पूर्वमेव कृतम् /
SK
[३३] ऽप्रतीत्यसमुत्पन्नात्वाद्᳚ इत्ययं यो हेतुः, स अनैकान्तिक इति ये कथितवन्तस्तेषामप्युत्तरं दत्तपूर्वमेव /
SK
[३४] यदि वस्तूनि परमार्थतो न सस्वभावानि, तदा नैव तानि संवृतावपि भवितुं शक्यानीति यदुक्तम्, तस्याप्युतरं पूर्वं प्रदत्तमेव / ऽ एकानेकस्वभावरहितत्वात्ऽ इति हेतोर्यदसिद्धात्वादिकमुक्तम्, तेषां सर्वेषामपि समाधानं पूर्वाचार्यैः पूर्वं सम्यक्तया कृतमेव / तथापि ये तावत् केचन द्वेषवशाद् दूषणानि प्रयुञ्जते, सा तेषां विप्रतीतिरेवेत्यभिधातुं शक्यते /
SK
[३५] यदि ते प्रसङ्गं साधयन्ति, तदा नैव हेतोरसिद्धिः, वस्तूनामेकानेकस्वभावरहितत्वहेतोः परैः स्वीकृतत्वात् / तदभिव्यक्तधर्मस्वीकारात्तस्यापि [हेतोः] तावत् सामर्थ्यतः स्वीकरणमेव स्यादिति /
SK
तत्र यैस्तावत् कदाचिद् ईश्वरादयो नित्यैकत्वस्वभावेन परिकल्पितास्तैस्तेषु क्रमोत्पादधर्मयोगो ऽपि यतः स्वीक्रियते, अतस्तत्सामर्थ्यत एकत्वस्वभावरहिततापि तैरवश्यं स्वीकृता स्यात् / यतो ह्येकस्वभावतायामनुत्पादास्थातो ऽभिन्नत्वात् पूर्वकालवत् पश्चात्काले ऽप्युत्पादकस्वभावता नैव युज्यते / यद्युत्पादक एव स्वभावः स्यात्तदा पूर्वावस्थातः स्वभावस्य भिन्नलक्षणत्वादेकत्वहानिरेव स्यादिति /
SK
ते [ईश्वरादयः] तावदनेकत्वे ऽपि नैव युज्यन्ते, यतो हि तत्त्वतायां समकालिकत्वमपरस्मिंश्च स्वपरप्रतिसन्धानं तावन्नैव युज्यत इति पूर्वं प्रसाधितमेव / ये तावदाकाशादीनां त्रयाणामसंकृतानामेकस्वभावत्वं फलप्रतिसन्धानाभावं च तेषां स्वीकुर्वन्ति, तैरपि ज्ञानस्वभावस्य क्रमोद्भूतत्वं तावत् स्वीक्रियते, अतस्तत्सामर्थ्यस्तैरप्येकस्वभावरहिततैव स्वीकृता स्यात्, यतो हि प्रत्येकज्ञानात्तज्ज्ञेयस्वभावस्तावद् भिन्न एव स्यात् / यदि न स्यात्तदाभिन्नत्वात् पूर्ववत् तज्ज्ञाने ज्ञेयस्वभावो नैवोपपन्नः स्यादत एकस्वभावस्तावन्नैव युज्यत इति / नैव ते ऽनेकस्वभावा इत्यपि पूर्वमेवास्माभिः प्रसाधितम् /
SK
ये तावन्नित्यैकस्वभावाः कालपुरुषप्रधानब्रह्मादयश्च विचित्राया अस्या जगद्व्यवस्थाया हेतुत्वेन परिकल्प्यन्ते, ते यदि सत्यासत्यादिविविधस्वभावां वस्तुसामग्रीं क्रमेण युगपद् वा गृह्णन्तीति स्वीक्रियते तदा तत्सामर्थ्यत एकत्वरहित एव स्वभावे ते नियमेन ते नियमेन स्वीकृताः स्युः, यतो हि विविधस्वभावस्य जगतो ग्रहणे एकस्वभावा नैव युज्यन्ते / यदि ते नैव एकत्वेन सिध्यन्ति, तदानेकत्वमपि तेषां सुतरां नैव युज्यते, संघातस्वभावत्वात् /
SK
ये तावत् पुद्गलामिधं पदार्थं नित्यानित्यत्वेनानिर्वचनीयमिति परिकल्पयन्ति ते ऽउयेनम् एकानेकस्वभावरहितत्वेन साक्षात् स्वीकुर्वन्त्येव, फलत एकस्वभावस्य तावन्नित्यत्वे ऽनिर्वचनीयता नैव युक्तिमती / अपि च, भिन्नभिन्नस्वभावेनानुभूयमानस्य तावत् क्षणिकत्वे ऽनिर्वचनीयता नैव युज्यते / कायः भूमिपर्वतादयो ये ऽनित्याः सावयवाः पृथक्स्वभावास्तान् एकद्रव्यत्नेन परिकल्पयन्ति, ते ऽपि तदवयवद्रव्यं भिन्नानेकविषयव्यापकमिति स्वीकुर्वन्त्यत एकत्वरहिततैव तेषां स्वीकृता स्यात् यतो हि यदि तस्य प्रत्येकस्मिन्नवयवे नास्ति भिन्नस्वभावस्तदा नैव तस्मिन् व्यपकताप्युपपद्यत इति /
SK
निरंशेषु तावदावृतनावृतत्वादिविरुद्धधर्मयोगो ऽपि नैवोपपद्यते / ये तावद् देहादीनां परमाणुसञ्चयात्मकत्वात् तान् परमाणून् पृथक्शः परिकल्पयन्ति, ते ऽपि तेषु संयोगसंघातादीन् स्वीकुर्वन्त्येवेत्यतस्तैस्तत्सामर्थ्यात्तेषामेकत्वरहिततापि
SK
स्वीकृतैव स्यादिति / यतो हि निरंशस्वभावे [वस्तुनि] यत्रैव हि संयोगादयो ऽनुभूयन्ते, तत्र तादृशो नास्त्येव कश्चन पक्षः [भागः], यस्मिन् पक्षेण केनचित् सह संयोगः सञ्चयो वा न भवन्ति, तादृशेषु [निरंशेषु] विस्तरेण विषयव्याप्तिरपि नैव युज्यते / न चावयविन्नामेकस्वभावत्वमपि न युज्यते, अवयवसंघातात्मकत्वात्तेषाम् /
SK
परमाणुषु चावयविद्रव्येषु चोभयेषु तावदनेकस्वभावत्वमपि न युज्यते, यतो हि सञ्चितस्वभावात्मकत्वात्ते यदा नैवैकस्वभावत्वे युज्यन्ते तदा तत्परतन्त्रतया व्यवस्थितत्वेन तेषामनेकस्वभावत्वमपि नैव सिध्यति / इत्थं यदा कार्यं च कारणं चापि द्रव्यमेकानेस्वभावरहितं सिद्धम्, तदा तदाधारेन कल्पितनां गुणकर्मसामान्यविशेषाणां संघातस्य चापि सिद्धिः सुतरां नैव स्यात्, तत्परतन्त्रत्वात्तेषाम् /
SK
एवं कादाचित्कत्वसामर्थतः समस्तज्ञेयानामेकानेकस्वभावशून्यत्वमेव स्वीकर्त्तव्यमित्यनेकधा निवेदितम् / ज्ञानमपि तावत् काममेकस्वभावमित्युपकल्प्यतां किन्तु तत्स्वरूपं विविधस्यभावग्राहकमिति स्वीकृतत्वात् तत्सामर्थ्यत एकस्वभावरहितमेव तदिति स्वीकृतं स्यात् / यतो हि तज्ज्ञानं तावत् साकारमित्यवश्यं स्वीकर्त्तव्यम्, अन्यथा विषयाकारेण यो नाकारितस्तस्य ज्ञानकायस्य विषयġराहकरूपेण व्यवस्थापनं नोपपन्नं स्यात् / यदि साकारत्वेन स्वीक्रियते तदा तस्यैकस्वभावरहितत्वमपि स्पष्टतया स्वीकृतमेव स्यात्, विभिन्नात्मकत्वाज्ज्ञानकायस्य / विविधताया एकतायाश्च परस्परं स्fउटो विरोधः / अतः सर्वाण्येव तावज्ज्ञानानि विभिन्नानां वस्तूनां विषयित्वेन स्वीक्रियन्ते / अत एव स्वयूथ्याः ऽसञ्चितालम्बनाः पश्चविज्ञानकायाःऽ इति स्वीकुर्वन्ति / षष्ठं तावद् विज्ञानं चित्तचैतसिकानप्यालम्बनीकरोतीति /
SK
चित्रदर्शनकाले चित्राकारं विज्ञानमुपजायमाअनमनुभूयते, अतः सर्वज्ञानानि चित्राकारत्वेन प्रसिध्यन्ति / तत्र विविधतायां [विचित्रतायां] स्वमतस्थापनार्थ तावदनेकज्ञानोत्पत्तिकल्पनमपि नास्ति समीचीनम्, अमूर्तत्वात्तानि तत्र प्रकीर्णरूपेण नैवोपतिष्ठन्ति, अस्थितत्वाच्च विचित्रता नैवोपपद्यते / गुणकर्मसमवेतानां द्रव्यादीनां तावज्ज्ञानेन युगपद्ग्रहणस्वीकाराद् अपरे ऽपि [सिद्धान्तवादिनः] ज्ञानं चित्राकारत्वेनैव स्वीकुर्वन्ति / ये हि द्रव्यपर्यायादिविशेषणैः सर्वं वस्तु तावन्मेचकमणिवदित्यामनन्ति, तेष्वपि तद्विषयिमनसो विषयत्वे ऽनेकवस्तुस्वभावाः स्वीक्रियन्त एव / ये तावच्चातुर्महाभौतिकानि वस्तून्युपकल्पयन्ति, ते ऽपि ज्ञानमनेलवस्तुविषयमेवाभ्युपगच्छन्ति / ये च विषयं सत्त्वरजस्तमोगुणात्मकमभ्युपयन्ति, ते ऽपि ज्ञानविषयमनेकवस्तुस्वभावं स्वीकुर्वन्येव, वस्तुत्रयात्मकत्वस्वीकाराद् विषयाणाम् /
SK
ये ऽप्यतीतादिविषयकं मनोविज्ञानमात्रमनालम्बनमिति मन्वते, तेषामपि मते ऽभिधानाकारेण युक्तत्वात्तदेकाकारमिति न युज्यते, अनेकाक्षरस्वभावेनावभासितत्वात् / स्वप्नादिज्ञानान्यपि नीलादिविभिन्नाकारान् अनुभवन्तीति तन्येकस्वभावानीति नैव युक्तानि / ये खलु विज्ञानमात्रस्वभावं जगदित्यामनन्ति, ते बाह्यपदार्थानामविषयिभूतत्वात्तत् स्वसंवेदनस्वरूपं पर्यन्तं च ज्ञानमिति स्वीकुर्वन्ति, ते ऽप्यनादिकालीनभ्रान्तवासानापरिपाकवशाद् रूपादिविभिन्नविपरीतावभासानां सर्वेषां विज्ञानानामुत्पत्तिं स्वीकुर्वन्त्यतो विज्ञानमेकस्वभावमिति नैवाभ्युपगच्छन्ति / फलतो दर्शनेषु कस्मिन्नपि विज्ञानं नैकस्वभावमिति सिध्यति / यदि तथा न सिध्यति, तदा अनेकस्वभावो ऽपि न सिध्यतीति बहुशः पूर्वमावेदितम् /
SK
अत एव स्वातन्त्र्येण साधको हेतिरप्ययं नासिद्ध इति यथोक्तनयेन वादिप्रतिवाद्युभ्येषु सर्वे धर्म एकानेकस्वभावरहिता एव सिद्धाः / ये व व्यवच्छेदमात्रात्मकास्तेषु साध्यसाधनानुगतो धर्मेयेव अवस्तुभूतः सिध्यतीति पूर्वमनेकधा निर्दिष्टम् / स्वपरोभयसिद्धान्तवादिभिरुपकल्पितधर्मिण्यपि साध्यधर्मस्य यथोक्ता व्यवच्छेदमात्रता द्वयोरपि सिद्धैव /
SK
पुनश्च, हेतुरप्ययं कथं सिध्यति? यद्युनुपलब्ध्येति चेत्? साप्यपरयानुपलब्ध्या सिध्यतीत्यनवस्थाप्रसङ्गः स्यात् / नापि प्रत्यक्षेणानुपलब्धिसिद्धिरपि, प्रत्यक्षस्याविषयत्वादित्यपि कथनं निराकृतमेव, यतो हि यथोक्तनयेनैव ते हेतुं साधयन्तीति /
SK
इत्येवं ये केचिदिन्द्रियैरगम्या आत्मादयस्ते तद्व्याप्तक्रमिककार्ययोगादिधर्माणां स्वीकृत्या एकानेकस्वभावरहितत्वेनैव प्रसिद्धाः / यदि धर्म्येव तावदसिद्धस्तदा तद्राहित्यचिन्तनमप्ययुक्तम्, तादृशानां वस्तूनां प्रतिषेधाय धर्मिणः परीक्षायाः सर्वत्रानिवार्यत्वात् / अतस्तद्धर्मा नोपलभ्यन्त इति पूर्वमेव निर्दिष्टम् / अन्यथा [यद्येवं न स्यात्] तदा तन्निषेधाय भवतामपि अर्थक्रियासामर्थ्यवियोगलक्षणो हेतुस्तावत् कथं सिद्धो भविष्यतीति चोदना कथं न स्यात् / परपरिकल्पिते धर्मिणि तथाविधक्रमिककार्याणां स्वीकृत्यैव तद्व्याप्तधर्माणां निष्पत्तेस्तन्मतमात्राश्रितत्वाद् धर्मिणस्तस्य तावत् परिकल्पितत्वमेव / अनुमानेन तथा ज्ञाने सत्यपि नास्त्येवानवस्थाप्रसङ्गः, स्वतः प्रमाणत्वात्तस्य / व्यवहारेणापि तावत् साध्यव्याप्तसाधनस्य सिद्धत्वादिति पूर्वमेव सम्यगुक्तत्वात् /
SK
रूपादयस्तावद् धार्मिणः, ये खल्वपरोक्षास्ते ऽपि प्रत्यक्षत एकस्वभावरहिता एव, विविधेष्वाकारेषु सर्वदा प्रतिभासनादविशेषेण पृथक्श एकस्वभावत्वेनाननुभूयमानत्वात् / एकस्वभावहितत्वेन सिद्धे सत्यनेकस्वभावराहित्यमपि सुतरां प्रत्यक्षतः सिद्धमेव, एकैकसञ्चितत्वदनेकस्वभावस्य / न खलु प्रत्यक्षादिप्रमाणानि व्यवहारेणासद्भूतानीति पूर्वमेवोक्तम् /
SK
यत्खलु परमार्थतो ऽसत्, तत् संवृतितो ऽप्यसदेव, क्रियताप्यंशेनाननुभाव्यत्वात्, शशशृङ्गवत् / यदि प्रत्यक्षमपि तथैवेत्युच्येत, एवं सत्यसम्बद्धत्वादनैकान्तिकत्वमेवास्य हेतोरिति पूर्वमेव कृतोत्तरम् / आरोपितस्यात्मनो यः खलु स्वभावः, सो ऽपि तथैव ज्ञेयः, किन्तु नैव स परमार्थतो ऽसन्, मरीचिकासु जलज्ञानादृशत्वात्तस्य /
SK
आरोपस्वभावात्मकत्वात् सर्वप्रत्यक्षाणां कथं हि तैरेकानेकस्वभावयुक्तत्वं ज्ञातुं शक्यत इति चिन्तायां हेतुर्यमत्र मायाकाराप्रत्यक्षानुमानाभ्यामनैकान्तिक एव / यतो हि मायाकारज्ञाने तावद् यो ऽयं गजाद्याकारारोपस्तस्मिन् स्वभावे परमार्थतो नभिनिवेशो जायते / तस्मिंस्तथाभिनिवेशाभावात् तत् परमार्थतस्तद्विविक्तज्ञानोत्पत्तिहेतुर्भवतीत्यवश्यं तद्विषयित्वेन व्यवस्थाप्यते / एवं प्रेक्षावतां प्रत्यक्षस्य निराकृते ऽपि भान्तिकारणे कदाचिदन्यारोपाकारस्वभाववतः [ज्ञानस्य] उत्पत्तिर्भवतीति परमार्थतस्तत्स्वभावे ऽनभिनिवेशेन हेतुना नियतेन तावत्तद्विविक्तविषयित्वेन व्यवस्थाप्यते / तथैवानुमानज्ञानमपि यद्धि सामान्ये तावद् वस्तुलक्षणे समारोपाकारम्, तदपि वस्तुतथताया यथावज्ज्ञानस्वभावत्वात् तद्विषयकं भवतीति प्रमाणसद्भावादनैकान्तिक एव हेतुः / नास्ति तद्विषयीति कथनं तावन्नैव युक्त्म्, अश्चशृङ्गवद् वस्तूनामभ्युपगमाभावात् / तर्हि कथमिति चेत्? मायादिस्वभाववदिति, मायादिवत् प्रत्यक्षत्वात् / गृहीते ऽप्येकानेकस्वभावराहित्ये ऽनाप्तपुरुषशास्त्रश्रवणेनोत्पन्नारोपैरनिर्धार्यापरेण [प्रकारेण] निर्धारयतामेकानेकस्वभाववियुक्तवमनुपलब्ध्या तावत् कथं सेत्स्यति? विविधप्रकारादिलिङ्गैः सर्वे यद्येकस्वभावरहितत्वेन साध्यन्ते तदा ते ऽनेकत्वस्वभावरहिता अपि सिध्यन्येव, एकसञ्चयात्मकत्वादनेकस्य / एकस्त्वं वानेकत्वं वा सर्वेष्वाकारेषु व्याप्तम्, परस्परपरिहारस्थितलक्षणत्वात्तयोः / व्यवहारे घटादिविषयपरिच्छेदेन पुरुषा अतुल्यसम्बद्धान् व्यवहारयोग्यानत्यन्तं परिच्छेदयन्ति / ततस्तुल्यविपर्ययादिस्वभावविच्छेदेन परिच्छेदः / तथैव / परिच्छिन्ने ऽप्यनेकवस्तुव्यवहारयोग्ये ऽनेकद्रव्यजातिसंघाते ततो ऽतुल्यविपर्ययविच्चेदेनैव परिच्छेदः / परिच्छेदो यदि नैव विच्चिन्नस्तदा स नास्त्येव, परस्परपरिहारस्थितलक्षणत्वात्तयोः / ये तावत् परस्परपरिहारस्थितलक्षणास्ते सर्वत्र व्यापिनः, ये हि सर्वत्र व्यापिनस्ते स्कन्धाद्यन्यापोढाः, मूर्तामूर्तत्वादिविशेषवदिति /
SK
एकानेकत्वे अपि तथैव / व्यापकनिवृत्त्या व्याप्यनिवृत्तेर्नियतत्वान्नास्ति तावद् हेतुरपि सदिग्धविपक्षव्यावृत्तिकः, अपरेषां स्कन्धानामभावात् / व्याप्यस्य व्यापकस्य वा वस्तुनः स्वतो ऽसिद्धत्वादसिद्ध एव स हेतुरिति केचन / तथैव धर्मिण्येव केवले व्याप्यसद्भावसिध्यर्थं व्यापकनिवृत्या व्याप्यनिवृत्तिरसिद्धैवेत्यपरे / एतेषां सर्वेषां [आक्षेपाणां] समाधानं तावत्पूर्वमेवास्माभिः कृतम् /
SK
एवं व्याप्यव्यापकादिसर्ववस्तूनां पूर्वं संवृत्त्याश्रितत्वं प्रसाध्य पश्चाद् व्यवस्था कृतेत्यपि पूर्वमावेदितमेव / अत्यन्तं समीपवर्तिनि व्यापके नियतं व्याप्यविशेषज्ञानं नैव भवतीत्यपि पूर्वमेव निर्दिष्टम् / अतो व्यवहारेण एकानेकस्वभावमात्रेण सत्त्वं व्याप्तमिति / तथाप्यनेन परर्मार्थस्वभावो नैव निश्चियते / एकानेकस्वभावस्तावद् घटादयः संवृत्याप्यवभासन्त एवेति /
SK
व्याप्यव्यापकभावसिद्धिस्तु विशेषतो व्यवहारधर्मिणमाश्रयते, व्यापकनिवृत्तिस्तु परमार्थमाश्रयते, अतो विवादास्पदीभूतेषु सर्वधर्मिषु सामान्येन साधयितुमिष्यमाणत्वात् कथमिमौ द्वौ [व्याप्यव्यापकौ] एकस्मिन् धर्मिण्याश्रिताविति चेत्? एकस्मिन् धर्मिण्याश्रितत्वे ऽपि [मिथः] सापेक्षत्वाद् भिन्नावेवेति नास्ति दोषः / एवमेव व्याप्यव्यापकभावसिद्धिस्तु व्यावहारसत्यमाश्रयते, व्यापकनिवृत्तिस्तावत् परमार्थसत्यमेवाश्रयते, अतो विरुद्धैव /
SK
११७ [३६-३७] यः खलु साध्यः, साधको वा तौ प्रसज्यप्रतिषेधस्वभावौ, न वा तथास्वभावौ? प्रथमे तावत्पक्षे तौ नैव बोध्यबोधकरुपेणोपपन्नौ, निःस्वभावत्वादसम्बद्धत्वादनुपपन्नत्वाच्च / ये सर्वाभिलापविगतलक्षणास्ते न कथञ्चनापि बोध्या बोधकाश्च, अश्वशृङ्गवत्, यथोक्ताः सर्वे साध्यसाधकादयो ऽभिलापरहितलक्षणात्मकाः /
SK
[३८-३९] ये परस्परमसम्बद्धास्ते ऽपि नैव बोध्यबोधकस्वभावाः, हिमवद्विन्ध्यपर्वतवत्, साध्यसाधका अपि परस्परमसम्बद्धाः /
SK
[४०] अभिन्नस्वभावा अपि केचन न बोध्यबोधकभावापन्नाः, वृक्षशाखावत् / साध्यसाधका अप्यभिन्नाः / यदि प्रसज्यप्रतिषेधस्वभावपक्षपातिनस्तदा एकानेकस्वभावरहितास्तावद् वस्तुस्वभावभूतार्थक्रियायोग्यत्वस्वीकारादपि न स्वीक्रियन्त इत्यप्ययुक्तीयुक्तम्, विकल्पस्यास्य परपरिकल्पितेश्वरादिनिषेधे ऽपि सर्वत्र समानत्वात् / अतो ऽवश्यं व्यापकधर्मनिवृत्त्यैव ईश्वरादीनां निराकरणं कर्त्तव्यम्, अत्यन्तपरोक्षेषु प्रत्यक्षेण निषेद्धुशक्यत्वात् / अतस्तस्मिन् कथं न सर्व विवादा आपतेयुरिति /
SK
न तदेकं न चानेकं विषयः परमाणुशः /
SK
तथा
SK
भावा यत्र विचार्यन्ते न ते सन्ति सवभावतः / कथमिति न तेष्वेकानेकत्वं हि स्वभावतः //
SK
इत्यादिभीर्बाह्यार्थपरिकल्पना तावन्निषेध्यते / तत्रापि कथं न विवादाः स्युरिति / यदि निःस्वभावता तत्र नैव बोध्यत इति चेत्तदा अश्वशृङ्गस्यापि बोधाभावः कथं नोल्लिख्यते / भवतामभिलापलक्षणरहिताः सर्व भावा न मनागपि बोध्यन्त इत्यादिप्रयोगेषु विद्यत एव साध्यसाधकयोर्निषेधस्वभावः, अतः कीदृशस्तावदयं बोधकभावः / अतः प्रयोगो ऽयमात्मनो हानिकर एवोल्लिखितः शस्त्रशिक्षणदोषाभ्युपगमवत् / अतो नास्ति प्रयोगकौशलमपि सर्वेसां वस्तुनां निश्चेतव्यप्रसङ्गाल्लिङ्गस्यैव वस्तुनो बोधो न केनापि स्वीक्रियते, कस्यापि लिङ्गबोधस्य कुइस्मिन्नप्यवश्यमेव सम्भवात् / अतो नियतमेव लिङ्गं प्रत्यक्षेण बोध्यते, साध्याकारस्य नियमेनोत्पादकत्वात् /
SK
लिङ्गं तावत् कल्पनया बोधकत्वेन व्यवस्थितमिति युक्तम् / अतो निः स्वभावत्वे ऽपि निअयततदाकारस्य साध्यकारनिश्चयोत्पत्तौ हेतुत्वाद् बोधकत्वेन कल्पनायां नास्ति कश्चन दोषः / केवलस्य वस्तुभूतलिङ्गस्यैव सर्वत्र नोल्लेखो भवति, आकाशनिषेधकस्य लिङ्गस्य नितरां कल्पितत्वादेवेति पूर्वं निर्दिष्टम् / असम्बद्धत्वादिति यदभिहितम्, तत्रापि यदि वस्तुभूतः सम्बन्ध एवैको हेतुत्वेन कथयितुमिष्यते, तदापि स हेतुर्नास्त्यनैकान्तिकः, वस्तुभूते ऽपि [हेतौ] कुत्रचित्तथाविधस्य सम्बन्धस्यासिद्धतवात् / स [सम्बन्धः] तावद् द्वयाश्रितत्वेन परस्परश्लिष्टस्वभावत्वेन चोपकल्प्यते / द्वयोर्निष्पन्नयोः [वस्तुनोः] स्वभावः श्लिष्ट इति नोपपद्यते, स्वस्वभावे व्यवस्थितत्वात्तयोः / श्लिष्टत्वे सत्येकत्वमेव स्यात् / तच्च विरुद्धमेव / एकत्वे सति नैव द्वयाश्रित्वं तावद् युक्तम् /
SK
यदि स सम्बन्धिभ्यो ऽर्थान्तर इति तदा स्वस्वभावव्यवस्थितत्वात् कथं नाम सम्बद्धस्वभावः स्यात् / यदि नास्त्यर्थान्तर इति तदा केवलं सम्बन्धिनावेव स्याताम् / अतः सम्बन्धस्तावत् कल्पनामात्रात्मक एव, न तु वस्त्वात्मक इति / यानि हि सम्बन्धोद्भूतानि लक्षणानि तान्यपि कल्पनात्मकान्येव, कार्यकारणेयोर्युगपत्सम्भवा भावात् / ये तावदसन्निहितास्तेषु न सम्भवति सम्बन्धः /
SK
अपि च, यदा कार्यस्वभावः परिनिष्पन्नः तदा अपेक्षाविरहान्नैव तस्य कूत्रचिन्निर्भरत्वम् / अतो नास्ति तस्य केनापि सह सम्बन्धः / अपरिनिष्पन्ने ऽपि तस्मिन् कारणेन सह सम्बन्धकाले विदूरे स्थितत्वादसम्बद्धमेव तत् स्यादिति / अतः कल्पनयैव भवन्तो वस्तुप्रयोगमनुतिष्ठन्तीति /
SK
कार्यानपेक्षितत्वे ऽपि स्वहेतोर्हि प्रसिद्धितः / तदन्यापेक्षया सिद्धेरभावात् कल्पना पुनः / हेतुं बध्नाति कार्येण कार्यं न, तच्च कीदृशम् //
SK
तदात्मकलक्षणसम्बन्धो ऽपि नैव समीचीनः, द्वयाश्रितत्वात्तस्य / तदात्मकत्वे द्वैतं नैवोपपद्यते / द्वयाभावे कः केन सम्बध्येत सम्बन्धी / अतः कल्पनारचितमूर्तित्वात् सर्वेषां सम्बन्धानाम्, अभावे चैवानुपहतप्रवृत्तेर्हेतोरसिद्धिरेव स्यात् / असम्बद्धत्वे सति अभेदाभावात् कथं तादृशी यक्तिः, प्रयुज्यते / अभेदे सति तदात्मक एव सम्बन्ध इति निर्देशः स्यात् /
SK
वस्तुमात्र एव तादात्म्यसम्बन्धः, न त्वन्यत्रेति चेत्? अयुक्तमेतद्, अभिन्नपर्यायत्वात्तादात्म्यस्य / स तु निःस्वभावस्यापि नैरात्म्यसदृशत्वादविरुद्ध एव / यद्येवं न स्यात्तदा ऽअभिन्नत्वाद्ऽ इत्यपि वक्तुं न पर्येत / तत्र ऽअभिन्नत्वद्ऽ इत्ययं हेतुर्यदि परमार्थाधिकारेणोच्येत तदा अनेकान्तिक एव, यतो हि कृतकत्वानित्यत्वे यद्यपि परमार्थतो नैव भिन्ने तथापि बोध्यबोधकवस्तुषु तावत् ते दृश्येते /
SK
यदि व्यवहारे ऽपि तयोर्नास्ति भिन्नत्वमित्युच्येत तदा असिद्धमेव, निवृत्तिविशेषोपकल्पिताया भिन्नतायास्तत्र सद्भावात् / एवमेव शब्दादिधर्मिणि यदा अकृतकत्वादितो निवृत्तिर्निश्चीयते तदा नित्यादितो ऽपि निर्वृत्तेर्निश्चयनात् परमार्थतो भिन्नताया अभावे ऽपि निवृत्तिविशेषापेक्षया कृतकत्वानित्यत्वादीनां भिन्नव्यवस्थाया उपकल्पनाद् बोध्यबोधकवस्तुव्यवस्था तावत् क्रियत एव / इत्थं यदा वस्तूनि सामर्थ्यतः प्रतिम्बिवद् एकानेकस्वभावविनिवृत्तानि भवन्ति तदा परमार्थस्वभावतो ऽपि तेषां निवृत्तिर्नियतैव / अतो निवृत्तिविशेसापेक्षया कृतकत्वं भिन्नं व्यवस्थाप्यते, अत एव च तत्र बोध्यबोधकभावो ऽपि सम्भवत्येव / पुनश्च, यथा नित्यं ताव्द् वस्तु अर्थक्रियासामर्थ्यविरहाद् वस्तुस्वभावेन रहितं साध्यते, तथैव अन्यत्रापि तत्सदृशत्वान्न विरुध्यते /
SK
[४१] यदपि अतद्व्यावृत्तिविशेषेणानयोः कृतकत्वं तद् वस्तु स्यात् नीलपीतादिवत्तस्वभावत्वादिति कथनं तावदसम्बद्धमेव, कृतकत्वानित्यत्वाभ्यामनियतत्वात् / कृतकत्वानित्यत्वयोर्भेदो व्यावृत्त्योच्यते, किन्त्वेतावता न तद् वस्तु / यथा नित्यवस्तुनिषेधाय अर्थक्रियासामार्थ्यरहितत्वं निःस्वभावत्वं च व्यावृत्तिकृतविशेषे सत्यपि नैव वस्तु, तथैवान्यदपि तत्सदृशमिति ज्ञेयम्, अतो गौणमेवेदम् / यत्खलु नीलात्मकं पीतात्मकमिति निदर्शनं तदपि परमार्थे तावद् वस्तुन्यसिद्धत्वादयुक्तम् / ये ऽस्मिन् असत्पक्षत्वेन दोषमारोपयन्ति, तदपि नैव युक्तियुक्तम् / यतो हि नयो ऽयमसन्निति कथनमात्रेण तावत् परमार्थे वस्तुनि न किमपि सिद्धं भावति, अमूर्तादिशब्दप्रयोगे ऽपि कल्प्यमानमाकाशं तावदसत्त्वान्नैव युक्तम् /
SK
तत्र बुद्धौ प्रतिभासमानो यो हि पूर्वोदितो धर्मी, सो ऽपि असता तावन्नयेन [असत्पक्षेण] तथोक्तः, किन्तु परमार्थे वस्तुनि स नैव युक्तरूपः / वस्तुसदिति व्यवहरतां कथनमिदं सिद्धसाधनमिति स्यात्, एकानेकस्वभावरहितं खलु परमार्थं वस्तु नैव किञ्चित्, तस्य कल्पनाविषयत्वेनापि बहिर्भूत्वादिति / सर्वे खलु पदार्थाः एकानेकस्वभावाभ्यां व्याप्ता इति तु पूर्वमेव प्रसाधितम् / मायादिभिरव्यतिरिक्ताः परमार्थतो निःस्वभावा हि भावास्ते यदि ऽवस्तुऽ नाम्ना व्यवह्रियेरन्, तदा नास्ति कश्चनापि दोषः, भवत्कल्पितपक्षहान्या तावत्तस्य दूषितत्वात् / अतो नास्ति हेतुरनैकान्तिकः / नास्ति विरुद्धख्यो ऽपि [दोषः], प्रतिबिम्बादिसपक्षेषु सत्त्वात् / एकानेकस्वभावानि प्रतिबिम्बादिवस्तूनि नैव परमार्थतो युकानि, ज्ञानज्ञेयादिस्वभावेन परमार्थतो ऽसिद्धत्वादिति पूर्वमेवोक्तम् / [४२] एवं यथा एकानेकस्वभावलक्षणो हेतुस्तावन्नैरात्म्यं साधयति तद्वदभावधर्मिनि धर्मिव्यावृत्तिसाधकत्वाद् विरुद्धो ऽयं हेतुरिति यदुक्तं तत्तु अत्यन्तं प्रमाणानभिज्ञतामात्रमेव / यदा वस्तुस्वभावो धर्मी साधयितुमिष्यते, तदा तद्व्यावृत्तिसाधकत्वेन स हेतुर्विरुद्ध इत्युच्यते, किन्तु यदा स [धर्मी] निःस्वभावत्वेन साध्यते तदा सिद्धे ऽपि वादिनो मते कथं तावद् विरुद्धो हेतुर्भविष्यति / निःस्वभावतायां हि साधयितुमिष्टायां वस्तुस्वभावो धर्मी नैव सम्भवति, अननुरूपत्वादिति पूर्वमेवोदितम् / अतः साध्यसाधनाभ्यां यथोक्तो धर्मी अवस्तुभूत एव सम्मत् इत्यस्मात् कारणात् तेन हेतुना तावद् व्यावृत्तिरेव साधयते / वस्तुस्वभावसिद्धौ तु तद्विपरीतस्यैव सिद्धिः स्यात् /
SK
यथायं हेतुर्नैरात्म्यं साधयति तथैव अभावधर्म्यपीति केषाञ्चित् कथनमसम्बद्धमेव / यतो हि येन कारणेन तावन्नैरात्म्यस्य अभावस्य च द्वयोर्धर्मयोर्विरुद्धहेतुभ्यां सिद्धिरुच्यते, तौ व्यावृत्त्यापि नैव भिन्नौ, पर्यायस्वभावत्वात्तयोः / फलतो निरात्मकमिदं नैरात्म्यादिति कथनमिव स्यात् / एवंविधं तवदभिधानकौशलं कस्य स्यात्?[न कस्यापीत्यर्थः] / अतः सर्वे निःस्वभावाः सिध्यन्ति / हेतुरपि भगवतौवोक्तः, तथा हि -
SK
यथा हि दर्पणे रूपमेकत्वान्यत्ववर्जितम् / दृशयते न च तन्नास्ति तथा चोत्पादलक्षणम् //
SK
फलतो निःस्वभावतासाधनार्थं न को ऽपि हेतुरिति यत्कथनम्, तस्याप्युत्तरं दत्तपूर्वमेव /
SK
[४३-४४] यदि विज्ञानमपि इतरधर्माणामिव निःस्वभावमेव स्यात्तदा मिथ्यात्वाद् योगिभिरन्यधर्माणामिव तस्यापि परित्यागः करिष्यत एव / यद्येवं करिष्यते तदा न को ऽपि योगिनो भविष्यन्ति, न च तेषां तत्त्वज्ञानं भवैष्यति, नापि भगवतां बुद्धानामप्रतिष्ठितनिर्वाणं नैव च तेषां तत्त्वज्ञानं भविष्यति / अनेन खलु हेतुना सर्वासां व्यवस्थानां विलोप एव स्यादिति यत्कथनं तदपि नैव युक्तम्, यतो हि प्रसङ्गस्तावदयं यदि सत्याभिनिवेशपरित्यागार्थमुच्यते तदा सहर्षमुच्यताम्, किन्तु तथाभ्युपगम्य नैव प्रसङ्गः प्रयुक्तः, तल्लक्षणस्यैवनभ्युपगमात् / यदि सर्वविधप्रसङ्गपरित्यागार्थं तावदुच्यते, तदा हेतुरयमनैकान्तिकः साध्यविपरीतबाधकप्रमाणाभावात् / यन्मिथ्या तत् सर्वथा परित्याज्यमित्येतस्य नैव किमपि कारणमुपलभामहे, मिथ्यात्वे ऽपि प्रयोजनवशान्यमायाकार इव मायादर्शनवत् / ये हि मिथ्या स्वपरार्थं नैवोपयुज्यन्ते, ते योगिभिः परित्याज्या इति कथनं तु युज्यते, परन्तु ये तवत् साक्षात् परम्परया वा स्वपरप्रयोजनप्रसाधकाः, कृपालूनां परहितकरणोपायभूतास्तेषां कथं सर्वदा परित्यागः कर्तुम् शक्यते /
SK
अतो ये क्षेत्रपरिशुद्धिनिर्माणकायादयस्ते परार्थमत्यन्तमावश्यकाः, ते सर्वे विपरीतपरिहारद्वारा परित्याज्या अपि यावत्संसारमपरित्याज्या एव / ते यद्यपि मायाकार इव सर्वान् मिथ्याभूतान् जानन्ति, तथापि परहितोपायभूतान् तान् न परित्यजन्ति / नास्ति तेषु विपर्यभूता आसक्तिरपि, सम्यग्रूपेण तेषां यथाभूतपरिज्ञानात् / यथोक्तम् आर्यधर्मसङ्गीतौ ः
SK
मायाकारो यथा कश्चिन्निर्मितं मोक्षमुद्यतः / न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतो ऽस्य सः //
SK
त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारगः / संनह्यते जगद्धेतोर्ज्ञातपूर्वं जगत् तथा //
SK
भावो ऽपि तावन्न ग्राह्यो न चाभावो ऽपि परित्याज्यः, यतो हि श्रावका अपि, ये वस्तुसंज्ञिनस्ते ऽपिओ आदिमं सत्यद्वयं विवर्जयन्ति, तृतीयं चार्यसत्यमभावभूतमपि परिगृह्णन्ति / कृपापराधीनचेतसो योगिनो ऽपि परहितार्थं विविधरूपेण गजादिमिथ्यानिर्माणादिकं साधयन्ति /
SK
तत्र महाकरुणापराधीनतया ये परेषाम् अशेषहितसुखोपायशालिनः प्रज्ञालोकेन विध्वस्तसकलक्लेशान्धकाराः परहिताभिलाषिणो मतिमन्तस्ते प्रहीणेष्वपि सकलविपर्यासेषु पूर्वप्रणिधानवशतया यावत् सत्त्वकर्मक्लेशास्तावदाकाशपर्यन्तं स्थातुमेवाभिलषन्ते / इत्थं समेषां वस्तूनां परमार्थतो निःस्वभावत्वे ऽपि हेतुप्रत्ययसामग्रीपारतन्त्र्येन मायावत् सम्भवन्त्येव / हेतुमन्तस्ते न भवन्ति वस्तुसन्तः, अन्वयासिद्धत्वान्मायादिना भ्रन्तत्वाच्च / मिथ्याभूता हि ये स्वानुरूपहेतुमन्तस्तावन्नैव भवन्ति, ते व्यवहारे ऽप्यसन्त एवेति पूर्वमेवावेदितम् / अतो यथा मायादयः स्वहेतुसाकल्यपरतन्त्रतया प्रादुर्भवन्ति, तथैव यगिनां ज्ञानादयो ऽप्यविचाररमणीया एव /
SK
तत्र योगिज्ञानादिमायाहेतुस्तावद् यथावत् पुण्यज्ञानसम्भारानुकूल एव / संक्षेपतो भगवताम् अप्रतिस्ठितनिर्वाणहेतुस्तु करुना प्रज्ञा च / कृपया हि तन्निर्वाणावबोधे ऽपि ते नैव तस्य साक्षात्कारं कुर्वन्ति / प्रज्ञया तावत् सर्वसंक्लेशहेतोः सम्मोहस्यानवकाशात् संसारदोषगन्धेनाप्यलिप्ताः सन्तो नैव संसारे पतन्ति / अतस्ते नैवानयोर्द्वयोः [संसरनिर्वाणयोः] तिष्ठन्ति / अतः प्रज्ञोपाययुग्नद्धचर्या तावदप्रतिष्ठितनिर्वाणहेतुः / अत एव च सा बोधसत्त्वानां मार्ग उच्यते / तया विरहिताः सत्त्वास्तु श्रावकादिभूमिसु पतन्ति / यथोक्तम्..........
SK
᳚अपि च, शारिपुत्र, शून्यतानिमित्तं च बोधिसत्त्वानां मार्गः / ये तावत् प्रज्ञापारमितया विरहिताः, उपायकौशल्येन चापरिगृहीतास्ते यदि भूतकोटिं साक्षात्कुर्वन्ति, तदा नूनं श्रावकाः प्रत्येकबुद्धा एव भवन्ति /᳚
SK
प्रभास्वरादिज्ञानेन लोको यथावत् समनुपश्यति / तद्यथा - अचिन्त्यसामर्थ्यवत्त्वाद् योगिनो यथा वस्तून्यवभासन्ते तथा करतलामलकवत् संवृतिपरमार्थाकाराभ्यां सर्वाकारं
SK
प्रत्यक्षतया अवबुध्यन्ति / अत एव भगवान् सर्वाकारज्ञानत्वेन व्यवस्थापयामास / सर्वप्रपञ्चरहितं निरुत्तरं लोकोत्तरमशेसधर्मनिराभासं ज्ञानं भूतार्थभावनाप्रकर्षपर्यन्तजं तत्त्वावबोधकं भवति, [तथापि] व्यवहारे सर्वं निर्माणवत् सदेव भवति / अतो यथा सर्वाकारज्ञानादौ वस्तुव्यवस्था कृता, सा न प्रणश्यति, परमार्थे ऽभावात् / अत एव भगवत्यामुत्तम् - ऽयदि भगवन्, सर्वे धर्मा निर्माणनिव भवन्ति तदा भगवति निर्वाणे च किमन्तरम्? भगवान् आह - न किमपीति / कथम्? भगवतः सर्वाणि कर्माणि निर्माणवद् भवन्ति / परिनिर्वृते ऽपि भावति तथागतो निर्मणं करोति / निर्मणस्य तावन्नोद्भवो नापि परिनिर्वाणं किमपि भवति / इत्थं बोधिसत्त्वैः सर्वधर्मेषु निर्माणमिवाधिमुक्तिं विधाय प्रज्ञापारमितायामाचरितव्यम् / ᳚इत्येतत् प्रतिपादितम् /
SK
[४५] ये हि रूपादयो भिन्नदेशकालावस्थासु स्पष्टं प्रत्यक्षेणावभासन्ते ते निश्चयेन स्वभावेन युक्ता इत्यतः प्रतिज्ञा तावत् प्रत्यक्षेण बाधितेति यत् पूर्वमुक्तम्, तन्न सर्वथा समीचीनमिति चेन्न, यतो हि भिन्नदेशकालावस्थास्ववभासितत्वमात्रेण प्रत्यक्षावभासो नैव युक्तः, स्वप्नाद्यवस्थास्वपि तथावभासितत्वात् / वस्तूनं खलु परमार्थस्वभावतया साधयितुमिष्यन्ते, किन्तु नैव स्वभावः परमार्थतया सिद्ध इति पूर्वमावेदितम् /
SK
अपि च, यदि भ्रान्तप्रत्यक्षे ऽवभासितत्वत् प्रत्यक्षे ऽवभासितत्वमभ्युओपगम्यते तदा नैव तेन बाधा युज्यते, तिमिराद्युपहतलोचनेषु विद्यमाने ऽपि द्विचन्द्रे न तेन एकचन्द्रादिबाधा युक्तिमती / यद्यभ्रान्तप्रत्यक्षे ऽवभासितत्वेन त्था [बाधा] अभ्युपेयते तदा तन्नैव सिध्यति, अर्वाग्दर्शिनां प्रत्यक्षस्य तत्त्वार्थे ऽभ्रान्तत्वाभावात् /
SK
न चक्षुः प्रमाणं न श्रोत्र घ्राणं न जिह्ण प्रमाणं न कायचित्तम् / प्रमाण यद्येत भवेयुरिन्द्रिया कस्यार्यमार्गेण भवेत कार्यम् //
SK
यस्मादिमे इन्द्रिय अप्रमाणा जडाः स्वभावेन अव्याकृताश्च / तस्माद् य निर्वाणपथैव अर्थिकः स आर्यमार्गेण करोतु कर्यम् //
SK
अतस्तथागतस्यैव कवलं प्रत्यक्षं परमार्थे ऽभ्रान्तम् / ते नैव किमपि वस्तु सत्त्वेनालम्बन्ते / यथोक्तम् -
SK
᳚सुभूते, मोहपुरुषास्तावन्नेत्ररहिता अन्धा एव / ते रूपवेदनासंज्ञासंस्कारविज्ञानत आरभ्य सर्वाकारज्ञानपर्यन्तं तथागतचक्षुषा अनुपलब्धेषु सर्वधर्मेषु सत्त्वेनाभिनिविशन्ते ᳚.......इति वस्तरः /
SK
प्रतिज्ञाया अनुमानेनाभास इति यदुक्तं तदपि नैव युज्यते, यतो हि नानुमानेन किमपि वस्तु स्वभावतः सिध्यति, प्रमाणबाधितत्वात्तस्येत्युक्तपूर्वम् /
SK
[४६] धूमादिहेतुभिर्यो हि अग्न्यादीनां लोके निश्चयः, सो ऽपि तावदग्निर्नैव सद्विषयः, स्वप्ने ऽपि तथाविधस्य निश्चयस्य सम्भवादिति / धूमाग्न्योः सत्त्वनिषेधस्तावत् कृतपूर्व एव / अतो नास्ति किमपि / सांवृतिकं हि वस्तु मायावद् हेतुप्रत्ययसापेक्षम् / अतो नास्ति तेन सह कादाचित्कत्वविरोधः / ये तावदहेतुकोत्पादमभ्युपगच्छन्ति, तेषामेव कादाचित्कत्वविरोधः, न तु सहेतुकोत्पादमभ्युपगच्छताम् / कादाचित्कत्वमपि तावदसिद्धमेव, परमार्थतो ऽनुत्पादात् /
SK
[४७-५१] यच्च त्रायस्त्रिंशनगरादिकमुक्तम्, तदप्यविरुद्धमेव, व्यवहारे सत्त्वात् / वस्तूनां कूर्मरोमादिवदभावस्वभावत्वं यदि नैव प्रतिज्ञायते, तदा कथमिति चेत्? मायास्वप्नादिवदिति ब्रूमः / तथागतेनाप्युक्तम् -
SK
महामते, सर्वे धर्मा निःस्वभावा इत्यपि बोधिसत्त्वैर्नैव प्रतिज्ञा कार्या / तदा किमिति चेत्? आभासनिराभासलक्षनत्वाद् बोधिसत्त्वैः सर्वे धर्मा मायास्वप्नादिवन्निर्देष्टव्याः /
SK
व्यवहारे तावद् [वस्तूनम्] आभासलक्षणम्, परमार्थे तु निराभासलक्षणमिति सूत्रेआर्थो ऽभिव्यज्यते / तदपि -
SK
सर्वं विद्यति संवृत्या परमार्थे न विद्यते / धर्माणां निःस्वभावत्वं परमार्थे ऽपि दृश्यते //
SK
अतः ऽसर्वे धर्मा व्यवहरमात्राश्रिताःऽ, इत्यस्मिन् भगवन्निर्देशे नास्ति कश्चन विरोधः / भगवत्यामप्युक्तम् -
SK
ऽबोधिसत्त्वा महासत्वास्तावल्लोक्कल्पनया अनुत्तरसम्यक्संबोधौ अभिसम्भोत्स्यन्ते / परमार्थतस्तु बोध्यर्थमनुष्ठीयमानानि रूपं वेदना संज्ञा, संस्काराः विज्ञानानि कान्यपि न सन्त्येव / एवमेव अष्टादश धातवः, षट् स्पर्शाः, षड् वेदनाः, षड् धातवः द्वादश प्रतीत्यसमुत्पादाङ्गानि, पारमिता, शून्यता, स्मृत्युपस्थानानि, सम्यक् प्रहाणानि ऋद्धिपादाः, इन्द्रियाणि, बलानि, बोध्यङ्गानि, आर्याष्टाङ्गिकमार्गाः, सत्यानि, ध्यानानि, अपरिमाणानि, अरूपाणि, विमुक्तिद्वाराणि, अनुपूर्वसमापत्तयः, अभिज्ञाः, समाधयः, धारणीद्वाराणि, तथागतबलानि, प्रतिसंविदः, महाकृपा, आवेणिकबुद्धधर्माः, चत्वापि फलानि, मार्गज्ञानानि, अनुत्तरसम्यक्संबोधिरपि नैव स्वभावतः सत्त्वेन सिध्यन्ति / सर्वेषामेतेषां धर्माणां लोकव्यवहाराश्रयेन कल्पितत्वात्, न त्वेतेषां परमार्थतः सत्त्वम्ऽ - इति निर्देशः /
SK
रूपत आरभ्य सर्वाकारज्ञानपर्यन्तं ये तावद् धर्मास्तेषां न स्तः संयोगवियोगावपि / यतो हि रूपं अदर्श्नम् अप्रतिघम् अलक्षणमेव असत्त्वात् / सत्त्वानां ग्रहणार्थं ते केवलं तथागतेन लोकव्यवहारार्थं कथिताः, न तु परमार्थतः / लोकसंवृतौ ये पिनः प्राप्तिरभिसमयः पञ्चगतिभेदास्ते ऽपि पूर्वत एव परमार्थतो न सन्ति / परमार्थे तु कर्मापि नास्ति कर्मफलमपि, संक्लेशो नास्ति, नास्ति व्यवदानमपि / न स्त उत्पादनिरोधावपीत्युक्तम् / परमार्थतस्तावद् भगवान् सर्वत्र संक्लेशव्यवदानयोर्निषेधं कृतवान्, तथापि व्यवहारे तान् अङ्गीकृतवान् / तेषां तावदनिषेधेन स्वीकरणे ऽपि नास्ति[कश्चन] दोषः / अन्यत्र भगवान् स्पप्ने सर्पं दृष्ट्वा मूर्च्छा तदभावे संक्लेशं व्यवदानं च मिथ्यैवेति कथितवान् /
SK
[५२] नास्ति चतुर्यसत्यापवाददोषो ऽपि, यतो हि महायानान्दन्यत्र भगवान् तेषां [आर्यसत्यानां] उपदेशं कृतवान् / ब्रह्मप्रिपृच्छासूत्रे तावदुक्तम् -
SK
᳚यदुत दुःखं समुदयो निरोधो मार्गधो मार्गश्चेति नैव सन्त्यार्याणां सत्यानि, किन्तु ब्रह्मान्, यदनिष्पन्नं दुःखम्, तदेवार्याणां सत्यम् / यो द्यनुत्पन्नः, स एवार्याणां समुदयः / यश्चानिरोधो ऽनुत्पन्नश्च स एवार्याणां सत्यम् / सर्वधर्माणामद्वयसमतायां या खलु मार्गभावना, सैवार्याणां सत्यमिति / अतो नास्ति परमार्थतो दुःखसत्यम् / तत्तु श्रावकानधिकृत्य संसारोद्विग्नमानसानां कृते पुद्गलनैरात्म्यप्रवेशार्यं तावदनित्यादिस्वभावत्वेन केवलं निर्दिष्टम्, न तु नैरात्म्यद्वयनिर्देशाधिकारेणेति ज्ञातव्यम्᳚ /
SK
[५३] यश्च तावज्जन्यजनकस्वभावो जनेष्वागोपालं प्रसिद्धस्तेन प्रसिद्धिविरोधदोषो ऽपीति यदुक्तं तदप्यसम्बद्धमेव, परमार्थस्वभावादीनां सामान्यजनेष्वप्रसिद्धत्वात् / यदि प्रसिद्धस्तदा ते नैव सन्ति साधारणजनाः / स्वप्नादिवन्मिथ्यास्वभावस्यापि प्रसिद्धिर्नैव सुसम्भवा / प्रसिद्धिस्तावत् प्रत्यक्षाणुमानाभ्यातिरिक्तत्वेन नैव प्रमाणमिति / सा प्रमाणान्तर्गवेति चेत्? तदा तद्विरोधपरिहारेण तद्बाधाया अपि परिहारः कृत एव /
SK
[५४] यच्चावश्यं परोत्पत्त्यर्थं हेतुप्रयोगाभिलाषेण ततो ऽवश्यमुत्पत्त्यभ्युपगमात् स्ववचनविरोध इत्युक्तम्, तदप्यविरुद्धमेव, नियतोत्पत्त्यर्थं हेतुप्रयोगान्नैव ततः परमार्थतो नियतोत्पत्तिरभ्युपगता भवति / तत्किमिति चेत्? उत्पत्तिमात्रम्, नोत्पत्तिविशेषः / परमार्थत उत्पत्तिनिषेधेनात्र वस्तूनां निःस्वभावतैव परमार्थतः साधयितुमिष्यते, न तूत्पत्तिमात्रनिषेधः / अतो यद्यपि हेतुभ्यो नियततया पारमार्थिकी उत्पत्तिर्नैव भवति, तथापि बिम्बात् प्रतिबिम्बवत् सांवृतिकी उत्पत्तिस्तावदविरुद्धैव / अतो नास्ति प्रतिज्ञायाः स्ववचनविरोधः /
SK
[५५] यच्च भगवता - ᳚चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलम्᳚ - इत्युक्तम्, तदपि इन्द्रियविषयव्यवहारमभ्युपेत्यैवक्तमिति / अन्यत्र तु - ᳚न चक्षुः प्रमाणं न श्रोत्र घ्राणम्᳚ इत्यादिना षडिन्द्रियाणां प्रमाणत्वं प्रतिषिद्धमेवेति पूर्वमेव निर्दिष्टम् /
SK
आर्यप्रज्ञापारमितादिष्वपि रुपादिविषयाणां प्रतिषेधो विहित एव / लोकसंवृतौ तु सर्व [धर्माः] संविद्यन्त एवेत्येवंविधं भगवान् स्वाभिप्रयं सुस्पष्टं प्रकटितवान् / उपलम्भवतां तावन्नास्ति सुविधुद्धा प्रज्ञापारमितेत्यप्युक्तवान् / उपलम्भानुपलम्भयोर्बोधिसत्त्वेभ्यो हेयोपादेयत्वमपि [क्रमशः] निर्दिश्यत एव / भगवत्यामप्युक्तम् - कियता भगवन्, उपलम्भः, कियता च तावदनुपलम्भो भवतीति? भगवान् आह - यावद् द्वयता तावदुपलम्भः, यदद्वयं तदेवानुपलम्भः / अपृच्छात् - कियता भगवन् द्वयता? भगवान् आह - यावत् सूभूते, नाम रूपं श्रोत्रं घ्राणम् इत्यत् आरभ्य यावद् बुद्धत्वम् अनुत्तरसम्यक्संबोधिः बुद्ध इति तावद् द्वतेत्युपदिदेश / पुनश्च, यावद् द्वयसंज्ञा, नैव तावदानुलोमिकी क्षान्तिरित्यप्युक्तवान् / आर्यधर्मसंगीतौ ऽपि - सर्वधर्मा नैवोपलभ्यन्ते, तेषामदर्शनादित्युक्तम् / अतो व्यावहारिकचक्षुरादीनाभिसन्धाय द्रष्टृत्वतो ज्ञातृत्वपर्यन्तमात्मप्रसिद्धेस्तद्दृष्टिनिषेधार्यं पुद्गलनैरात्म्यप्रवेशाभिप्रायेण चक्षुरादीनां निर्देशः कृतः / अत एव चानाभासिन आकाशेत्पलस्य नीलत्वादिवदिमे नीलादिरूपाणां ये सांवृतिका आभासास्ते ऽपि न सन्त्यत्यन्ताभावरूपाः /
SK
[५६] ऽयत् किञ्चित् समुदयधर्मकं तत् सर्वं निरोधधर्मकम्ऽ इत्यमुनानुमानेन सम्यक्तया क्षणिकत्वेन स्थितस्य वस्तुधर्मिणः सिद्धिर्निनिर्दष्टेति यदुक्तं तदप्युत्पादविनाशधर्मिणो ज्ञानेन नैरात्म्यप्रवेशार्थं श्रावकानधिकृत्य पुद्गलनैरात्म्यमभिप्रेत्य चोक्तम्, न तु बोधिसत्त्वानामधिकारेण गम्भीरतत्त्वालापमपेक्ष्य प्रोक्तमिति / यतो हि भगवता संस्काराणामुत्पादविनाशस्वभावस्य सम्यगनुदर्शनं तदुद्देशं च प्रज्ञापारमितायामिव निर्मितसदृशमित्युक्तम् / संस्कारासंस्कारकोटिद्वययोगस्तावदनुत्तरसम्यक्संबोधेरुपाय इत्युपदिष्टः / आर्यधर्मसंगीतौ हि तथागतेन भयस्थानस्य परिहारार्थं व्यवहारे चोत्पादनिरोधौ तावदुक्तौ /
SK
आर्चार्येणाप्युक्तम् -
SK
उत्पादव्ययकर्मणाभिप्रायार्थः प्रदर्शितः /
SK
पुनश्च,
SK
यथा मया यथा स्वप्नो गन्धर्वनगरं यथा / तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहतम् //
SK
अपि च, आर्यसागरनागराजपरिपृच्छासूत्रे ऽपि -
SK
आदावन्ते हि शून्यत्वं जातिर्भङ्गस्तथा स्थितिः / सर्वे धर्माः स्वभावेन शून्या नासन्न सत् पुनः //
SK
इत्यादिकमुदाहतम् /
SK
यच्च तावत् संस्काराणां क्षणिकत्वम्, तदपि नैवोपपन्नमिति निर्दिष्टम् / आर्यसुबाहुपरिपृच्छासूत्रे चोक्तम् -
SK
᳚यदुत त्रयाणामतीतानागतप्रत्युत्पन्नानां कालानां परिज्ञानं जायते / तत्रातीताः संस्कराः, ये तावन्निरुद्धास्ते भूतकाल इत्युच्युन्ते / ये ह्यनागता अनुत्पनास्ते भविष्यकाल इति / ये च प्रत्युत्पन्ने पृथगुत्पन्नास्ते वर्तमानकाल इत्युभिधीयन्ते / वर्तमानकालोत्पन्नानि स्कन्धधात्वायतनानि न स्थितानि नाप्यस्थितानीति परिज्ञायन्ते / कथमिति चेत्? लोको ऽयं क्षणमात्रमपि नावतिष्ठति / ये तावत् क्षणिकास्तेषामुत्पदो ऽप्यन्यः, स्थितिरप्यन्या, व्ययो ऽप्यन्यो भवती, तेषां क्षणिकत्वात् स्थितास्थितत्वाभावाच्च /᳚ इत्यादिकमभिहितम्
SK
अतश्च क्षणिकता तावत् कल्पनास्वभावात्मिकैव, तदादिमध्यान्तानां भिन्नस्वभाअत्वादित्युपदिदेश / तथैवाचार्येणाप्युक्तम् -
SK
यथान्तो ऽस्ति क्षणस्यैवमादिर्मध्यं च कल्प्यताम् / त्रयात्मकत्वात् क्षणस्यैवं न लोकस्य क्षणं स्थितिः //
SK
[५७] यच्च भगवता ᳚धूमेन ज्ञायते वह्निः᳚ इत्यदिकमुक्तम्, तदपि सूत्रान्तरेषु सकलसामग्रीसमवधानात् समुत्पद्यमानानामग्निधूमादीनां सामान्येन निषेधपरकमेव / अतो नैव तत् परमार्थमधिकृत्योक्तमिति निर्दिष्टमेव पूर्वम् /
SK
आर्यलङ्कावतारे ऽप्युक्तम् -
SK
समवायाद् विनिर्मुक्तो बुद्धया भावो न गृह्यते / तस्माच्छून्यमनुत्पन्नं निःस्वभावं वदाम्यहम् //
SK
अन्यच्च तत्रैव -
SK
एकत्वं वा ह्यनेकत्वं यथा बार्लैर्विकल्प्यते / समवायात् पृथङ् नास्ति न चान्यस्य पृथक् स्थितिः //
SK
आर्यघनव्यूहसूत्रे चोक्तम् -
SK
न स्कन्धा धातवो नैव सर्वे धर्मा अलक्षणाः / चिन्त्यमानो ऽपि नैवास्ति परमाणुस्तथा स्थितः //
SK
पुनश्च,
SK
पृथिव्यबादिवस्तूनि कल्पितानि सुकल्पकैः /
SK
अपि च,
SK
विचारे सति नैवास्ति परमाणोश्च वस्तुता /
SK
इत्याद्यक्तम् /
SK
अतः पृथिव्यादीनां कल्पितस्वभावत्वात् तत्स्वभावसंगृहीतास्तावदग्निधूमादयो ऽपि कल्पितस्वभावा एव / अतो ऽग्निधूमादीनां कल्पनाकल्पितस्वभावत्वेन निर्देशः संवृतिमत्रात्मक एव, न तु परमार्थात्मकः /
SK
[५८] अभिधर्मादौ यः खलु हेतुप्रत्ययादीनां निर्देशः, सो ऽपि संवृतिरेव, न तु पारमार्थिकः / परमार्थस्तु यदा न कस्यचनोत्पादस्तदाहेतुकत्वं तावदनुपपन्नमेवेति पूर्वमेव निर्दिष्टम् / यतावत् स्कन्धादीनां निर्देशः, सो ऽपि व्यवहारसत्याश्रित एवेत्यपि पूर्वमेव निर्दिष्टम् /
SK
[५९-६०] आर्यधर्मसंगीतौ तवदुक्तम् - बोधिसत्त्वेन तथागतार्हत्सम्यक्संबुद्धानां यो व्यावहारिकत्वेन निर्देशः कृतः, स खलु दशाध बोदितव्यः / कथं दशधा? तद्यथास्कन्धनिर्देशः धातुनिर्देशः, आयतननिर्देशः, सत्त्वनिर्देशः कर्मनिर्देशः, जातिनिर्देशः, जरानिर्देशः, मरणनिर्देशः प्रतिसन्धिनिर्देशस्तथैवैतेषामुपशमार्थं निर्वाणनिर्देश इति / सर्व ऽपीमे व्यवहारमात्रत्वेन निर्दिष्टा इति तत्रोक्तम् / स्वपरमतस्थितैस्तत्त्वार्थत्वेनोपकल्पितानां स्कन्धादीनां परमार्थतो ऽनुत्पन्नत्वेन साधनात् सिद्धसाधनमेव /
SK
[६१] यच्च तदा वस्त्वेव स्वीकृतं स्यादित्युक्तं तत्पूर्वं कृतोत्तरमेव /
SK
[६२-६४] का नाम संवृतिर्यदि सर्वमेवासदिति यदुक्तं तदपि नैव युक्तिसंङ्गतम्, परस्परविरोधात् / संवृतिर्हि नास्ति शशशृङ्गवदभावस्वभावा / तदा कथमिति चेत्? यच्च सम्यङ् निःस्वभावं वस्तु तस्य तन्निवृत्तकारे या समारोपिका भ्रान्तबुद्धिः, सैव संवृतिरिति / अथवा यया तत्त्वमाव्रियते [यया वा तत्त्वबोधः] बाध्यते, सा संवृतिरिति / सूत्रे ऽपि तवदुतम् -
SK
भावा विद्यन्ति संवृत्या परमार्थे न भावकाः / निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत् //
SK
तन्निर्वृतत्वात्तदुपदर्शितं सर्वं खलु वस्तु संवृतिमात्रमेवेत्युक्तम् / साप्यनादिकलीनभ्रान्तवासनापरिपाकजरूपैव / तया सर्वेषु सत्त्वेषु पारमर्थिकवस्तुस्वभाव इवोपदर्श्यते, अतस्तद्बुद्धयधिकारेन सर्वं हि मिथ्यावस्तु संवृतिसन्मात्रमेवेति / तच्च नैव परमार्थतो वस्तुस्वभावम्, यथाभासमनवस्थितत्वात् / नैव च शशशृङ्गवत् तदत्यन्ताभावस्वभावमपि, अविचारतो रमणीयत्वेनावभासमानत्वात् / यथोक्ता संवृतिस्तावन्नैव वस्तुस्वभावापि, विपरीताकारोपग्राहेणाभासितत्वात् / तत्त्वान्यत्वयोस्तावत् परस्परपरिहारस्थितलक्षणत्वात् तत्त्वान्यत्वविरोध इति पूर्वमेव निर्दिष्टम् /
SK
न च ते अत्यन्तमभावस्वभावे, अवभासमानत्वात् / अतः सर्वं खलु वस्तु सदसत्स्वभावातीतम् / अतो भावमभावं वा स्वभावमाश्रित यत्तावच्चोद्यं तत्सर्वं निराधारमेव / वस्तुन्येव तावद् विधिर्वा प्रतिषेधो वा सम्भवी / विधिप्रतिषेधाभावे त्वसदेव / अत उभयं खल्लसत्स्वभावविरुद्धम्, नैव तदसद्वस्तुनि [सम्भवति] /
SK
कस्यचिदेकस्यापि स्वभावस्य तत्रासिद्धेः उभयासत्स्वभावत्वेन व्यवस्थाप्यते / अतो नास्त्युभयासत्स्वभावे कश्चन विरोधः / अपेक्षाविशेषेण सामर्थ्यासामर्थ्यदिविरोधो ऽपि नैव सम्भवी, असामर्थादिनां परमार्थसत्याश्रितत्वेन सामर्थ्यादीनां च संवृतिसत्याश्रितत्वेन व्यवस्थीयमानत्वात् /
SK
मायापुरुषादिवत् सर्ववस्तुषु भ्रान्ताभ्रान्तज्ञानाभ्यां व्यवस्थापनात् क्र्मशः सत्यद्वयभेदो व्यवस्थाप्यते / मायापुरुषादौ भ्रान्तैर्यथा व्यवस्थीयते, तथा सर्ववस्तुषु मिथ्याकारेन ज्ञानेन यदारोपितं तत् संवृतिसत्यमिति व्यवह्रियते / मायापुरुषादौ अभ्रान्तैर्यथा व्यवस्थीयते तथैव सर्ववस्तुषु यः स्वभावः सम्यक्प्रमाणैः सम्प्रतिपाद्यते, स परमार्थसत्यम् / अतो मायादिव्यवहार इवापेक्षाविशेषेन सत्यद्वयश्रिता इमे सर्वव्यवहारा अविरुद्धा एवेत्यवश्यमभ्युपेतव्यम् /
SK
यद्येवं नास्ति तदा तैमिरिकाद्यालम्बितेषु केशादिषु विज्ञानवादिनां च द्वयाभासेषु किमिवेमानि चोद्यानि न स्युः / इत्थं यदीमे केशादयः परमार्थतो ऽसन्त एव तदा कथमिव ते सद्रूपेणावभासन्ते, कथमिव च देशकालावस्थानां पृथङ् निश्चयः परिगृह्यते / उत्पादानुत्पादादयः सदसती च परस्परमेकस्मिन् नैव युज्यते, यतो हि तत्र यथा केशादिषु द्वयाभासेषु च भ्रान्ताभ्रान्तज्ञानाभ्यां व्यवस्थितस्वभावस्य संवृतिपरमार्थसत्यमाश्रित्य संवृतौ सत्त्वं परमार्थे चासत्त्वं व्यवस्थाप्यते, यथा च तत्रापेक्षाविशेषस्तावदविरुद्ध एव, तथैव सर्ववस्तूनां सादृश्येन नेदं चोद्यं युज्यत एव /
SK
ये च संवृतावुत्पाद इत्यभिदधते, तेषामयमाशयः - येन हेतुना यथोक्तभ्रान्तनां संवृतस्वभावानां वस्तूनां नैव सम्यगुत्पादो जायते तथाप्युत्पत्तिसादृश्यमुपदृश्यते, अतस्तेषां बुद्धिमधिकृत्य संवृतावुत्पादो भवतीत्यभिधीयते / अत एव भगवता चाप्युक्तम् - ᳚भावा विद्यन्ति संवृत्या᳚ इति /
SK
परमार्थतो ऽनुत्पन्नत्वादिकं यदुक्तं तस्यायमर्थः सम्यक् श्रवणचिन्तनभावनोत्पन्नानि सर्वज्ञानान्यविपर्यस्तविषयित्वात्परमानि, तेषामर्थः परमार्थ इति / प्रत्यक्षेण व परम्परया वा कृत भेदा अपि सन्ति / ताभ्यां सर्वाणि वस्तूनि अनुत्पन्नत्वेनैव ज्ञायन्ते / इत्थं परमार्थतो ऽनुत्पद इति सम्यग्ज्ञानेन असिद्धोत्पाद इत्येव वक्ष्यते / अत उभे अपि न स्तो ऽसम्बद्धाभिधाने यद्येवं नास्ति तदा भवद्भिरपि ऽसर्वाणि वस्तूनि परमार्थतो ऽनुत्पन्नानिऽ इत्यादीनामर्थः कथमुपनीयते, कथं वा भवतां सत्यद्वयाश्रितो व्यवहारः प्रवर्तते / यदि नियतं शब्दार्थमतिरिच्य मिथ्यैव परे दूष्यन्ते तदा स्पष्टमसम्बद्धामेवाभिधानं परिलक्ष्यते /
SK
अपरीक्ष्यैव अविकल्पमात्रमित्यादि यदुक्तं तदप्यसम्बद्दमेव, यतो हि चिन्तनोत्पन्नस्य प्रज्ञातत्त्वस्याविपरीतत्वेन नियतचिन्तनगतसम्यक्प्रमाणबलोत्पन्नं तथैव भावनाबलोत्पन्नमपि कल्पितमेवोच्यते, यतो हि तत्त्वार्थप्रत्यक्षस्तावत् सम्यग्विचारहेतुकस्तन्निष्यन्दभूतश्च भवति /
SK
यानि खलु तत्त्वर्थपराङ्मुखनि मिथ्याकारोपगृहीतानि ज्ञानानि, तानि सर्वाणि तद्विपरीतत्वाद् अकल्पितानीत्युच्यन्ते, तानि नैव निर्विकल्पानि, नैव व कल्पनामात्ररहितानि / अतस्तत्प्रसिद्धस्वभावत्वात् सर्वाणि मिथ्याकारस्वभावानि वस्तूनि संवृतिरित्यभिधीयन्ते / फलतो ऽकल्पितत्वे ऽपि न तावन्निर्विकल्पज्ञानम्, न चानुमानप्रसिद्धार्थस्य परिहारः, नैव च वस्तुतत्त्वस्वीकारः / नैवात्र तावदसन्निषेधाभिलाषो ऽपि / इत्थं दूषणमिदं सर्वबालपृथग्जनान् संक्लेशयितुं शब्दप्रयोगमात्रमेव / अतो नैव तद् विदुषां सन्तोषकरमिति /
SK
[६५] ऽसंवृतिर्लोकप्रसिद्धाऽ इत्यादिकं यदुक्तं तच्च दोषरहितमेव, सर्वेषां लोकप्रसिधार्थानां संवृतित्वेनाभ्युपगमात् / नापि सर्वे ऽर्थाः सर्वेन्द्रियगोचराः, केनचित् कस्यचिदेव ग्रहणात् / अतः कर्मफलादीनां पृथक्शो नियतव्यवस्था या अत्यन्तपरोक्षा, सा सर्वथा सर्वज्ञज्ञानस्यैव गोचरा, न तु सामान्यज्ञानविषया / केचन शास्त्ररचयितारः प्रसिद्धिमतीत्य कल्पनादिस्वभावत्वेनिपकल्पितं वस्तु मिथ्यासंवृतिसदिति कथयन्ति, तत्तु प्रसिद्धावप्यसदिति / यत्तु प्रतीत्यसमुत्पदानुकूलत्वेन परिकल्पितं तत्तु᳚ नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः᳚ इत्यतः संवृतिसदेवेत्युक्तम् / अतो वस्तूनमनेकत्वे ऽपि प्रणेतृभिर्यद्यप्यनेकस्वभवत्वेन कल्पितानि, तथापि तेषां स्वभावे नैव परस्परविरोधः / [६६] यच्च ऽमायार्थः संवृत्यर्थःऽ इत्युक्तं तदप्यसत्यार्थे मायार्थस्य स्वीकाराद् दोषहितमेव, अत्यन्ताभावस्वभावाभावात् / अतो नास्त्यस्मिन् पूर्वोक्तो दोषो ऽपि / नापि चात्र संक्लेश्व्यवदानापवाददोषो ऽपि, तस्य पूर्वं निराकृतत्वात् /
SK
मायार्थस्य मिथ्याज्ञानार्थस्वे ज्ञानवस्तुनि नैव प्रसङ्गः, मिथ्याकारोपगृहीतत्वेनावभासनात्, सत्यासत्ययोः परस्परविरुद्धत्वाच्च / मिथ्यास्वरूपस्यापि सत्यत्वेनावभासे सति नैव ज्ञानं भ्रान्तं स्यात्, तस्मिन्नेकस्वभावो ऽपि नैव युक्तुरूपः, एकस्मिन्नेकस्वभावस्य विरुद्धत्वात् / असत्यस्वभावस्य मिथ्यात्वाद् भ्रान्ते सति नैव ज्ञानं स्यात्, तयोः सर्वात्मना परस्परविरुद्धत्वात्, एकस्मिन्नवयवावयविभावस्यासम्भवाच्च / अतो मिथ्यास्वभावत्वाज्ज्ञानस्वरूपे ऽन्तर्ज्ञेयवादिनां मते महान् विशेषो [भेदः] जायते /
SK
[६७] संवृतिः शब्दमात्रात्मिकेत्यादि यदुक्तं तदपि पूर्वपक्षरूपेण स्वमतोपकल्पित्मेव / अतस्तन्नैव युज्यते / सुगतमतेष्वपि जगदिदं शब्दमात्रमेवेत्युक्तम् / यथोक्तम् सूत्रे -
SK
सूत्रे सूत्रे विकल्पोक्तं संज्ञानामान्तरेण च / अभिधनविर्निमुक्तभिधेयं न लक्ष्यते //
SK
ये तावदभिधानं वस्तुभूतम्, अभिधेयं च तदतिरिक्तमिति कल्पयन्ति, तेषामेवं कल्पयतां मतनिषेधार्यमेवाभिधेयं कल्पनायां प्रतिष्ठितमित्युपदर्शितं संज्ञामात्रे प्रतिष्ठितमित्यादिना / संज्ञा तावदत्र कल्पनामात्रात्मिकैव, तस्यामवभास्यमानं नामैवाभिधानम्, अर्थस्त्वभिधेयः /
SK
अतो ऽभिधानादतिरिक्तभिधेयं नास्तीत्युक्तम् /
SK
कल्पनाज्ञाने ऽवभास्यमानमभिधानमत्र नामशब्देनाभिप्रेतं, न तु श्रोत्रविज्ञानविज्ञेयः शब्दः तस्याभिधानत्वाभावात् / एतावन्मात्रत्वे सति रूपदीनां सर्वे विविधाभासा न सेत्स्यन्ति, न च स्कन्धादीनां व्यवस्थापि सेत्स्यति / सूत्रे ऽपि परमार्थसत्यनिर्देशसामर्थ्येन सर्वेषां ज्ञानज्ञेयाभिधानादीनां संवृतिसत्यत्वेन निर्दिष्टत्वान्नैव ते शब्दमात्रत्वेन निर्दिष्टा इति / आर्यसत्यद्वयनिर्देशसूत्रे ऽप्युक्तम् -
SK
᳚यदुत देवपुत्र, परमार्थस्तावत् सर्वव्यवहारातीतः, यतो हि निर्विशेषः अनुत्पन्नः अनिरुद्धः अभिधानाभिधेयज्ञानज्ञेयादिरहितः स इति /᳚
SK
एतत्सामर्थ्येन ज्ञानज्ञेयाभिधानदयः सर्वे संवृतिसत्यत्वेनोपदर्शिताः ऽसंवृतिसत्यस्य परमार्थस्वभावनिवृत्तत्वात् / अत एवार्याक्षयमतिनिर्देशसूत्रे ऽप्युक्तम् -
SK
᳚एतदानुकूल्येन लोकव्यवहारस्तावज्ज्ञानज्ञेयात्मकः अक्षरशब्दैर्निर्दिष्टो ऽभिधानात्मक एव संवृतिसत्यमिति वेदितव्यम्, न तु अभिधानाबिधेयमात्रात्मकमिति᳚ / अन्यथा यत्र चित्तस्य प्रवृत्तिरपि नास्ति, एवंविधः परमार्थः संवृतिसत्यनिवृत्तस्वभाव इति निर्देशो ऽपि कथमुपपन्नः स्यात् / तत्र परमार्थत्वेन निर्दिष्टानामार्थानमवस्तुभूतानां सुभाषितादिविभागो ऽपि नैव सुशक इति चोद्यं तावत् सिद्धसाधनमेव / सर्वे धर्मास्तथातात्वेनैकरसा एव / तथातायां नास्ति कश्चनपि विभागः / अतः सुभाषितदुर्भाषितत्वेन यदि तथतास्वभावो नैव विभागार्हस्तदा नैवायं कश्चनापि दोष इति /
SK
इत्येवं ये ताथागतागमाः प्रत्यक्षपरोक्षतया परमार्तथाभिधायका देहवतां च हितसुखजनकास्ते सुभाषितानीत्युच्यन्ते, तद्विपरीतानि न सुभाषितानीति तेषां भेदः सिध्यति / भवन्मतानुसारं तवन्नाम्नः परिकल्पितस्वभावतयोपादानात् सुभाषितासुभाषितरुपेण कथं व्यवस्था क्रियते? अस्मिन् भवतां यदुत्तरम्, अस्माकमपि तथैवेति गौणमेवैतत् / यत्तावच्छब्दार्थेत्यादिकमुक्तम्, तदपि नैव युज्यते, शब्दार्थयोः संवृतिमात्रत्वाभावात् /
SK
[६८] शब्दार्थो ऽप्यस्तीति निर्दिश्यते, यतो हि अभिधेयादिसमस्तवस्तूनि परमार्थतो निःस्वभावत्वेन मायादिवत् परिकल्पितस्वभावानि / यथा अनेके पुरुषाः पुरुषेतिशब्दार्थसामान्याकारस्वभावेन व्यवस्थाप्यन्ते, तथैव परमार्थतो निःस्वभावानि वस्तूनि कथं न व्यवस्थापयितुं शक्यन्ते? विशेषतः केवलं वस्तुस्वभाव एव शब्दार्थसामान्यस्वरूपो भवतीति यदुक्तं तत्र किमपि कारणं नैव पश्यामः / अनादीति यद् विशेषणं नास्ति वस्तुभूतं तस्याप्यसदिति सामान्यव्यवहारो दृश्यते / सुखादीनि स्वसंवेद्यां - नित्त्यादिकं यदुक्तं तदपि नैव युज्यते, तेषां सर्वेषां सुखादीनां संवृत्यन्तर्गतत्वादिति पूर्वं कृत एव निर्देशः / वस्तूनि केवलमनिदर्शनस्वभावानि एव भविष्यन्तीति यदुक्तं तत्रापि नास्ति काचन युक्तिः, केशोण्डुकद्विचन्द्रादिमिथ्यास्वभावानामप्यनिर्वचनीयस्वभावेन दृश्यमानत्वात् / सूत्रे ऽप्यभिधानाभिधेयादयः संवृतिकाः, न तु सत्स्वभावा निर्दिष्टा इति पूर्वमुक्तमेव / अस्य स्त्रोतोभूतं सूत्रं पूर्वं निर्दिष्टमेव / ये केचन परमार्थं यद्यपि प्रसज्यमात्रमित्यभिदधते, [किन्तु] स तथा प्रसज्यमात्रो न भवति / अनिश्चितमेव तस्य लक्षणम् / यतावत् परमार्थे ह्यारोपितस्वभावः स संवृतिरेव स [परमार्थस्तु] सर्वप्रपञ्चातीतः / सूत्रे ऽप्युक्तम् - ᳚मञ्जुश्रीः, किं तावत् परमार्थसत्यम्? मञ्जुश्री - राहदेवपुत्र, यदि परमार्थतः परमार्थसत्यं कायवाक्चित्तनिषेधमात्रस्वभावः स्यात्तदा स परमार्थसत्यमिति संख्यां न गच्छेत्, तदा स संवृतिरेव स्यात् / अपि च, देवपुत्र, परमार्थतः परमर्थसत्यं सर्वव्यवहारातीतमिति᳚ /
SK
तेषु वस्तुवासनाया अपि पूर्वं कृतनिषेधात् केवलं संवृत्यन्तर्गताब्येव तान्योतो ऽन्यतः पूर्तिर्नैवावश्यकी / यदि प्रमाणैरभावो नैव मायादिभिर्भिन्नस्तथापि परमार्थतः स्वतः सदिति नाम क्रियते तदा सहर्षं क्रियतां स्वैरमुत्सवो ऽप्यनुभूयताम्, किन्तु स्वमतानकूल्येन कृतां व्यवस्थां वस्तूनि नैवानुविदधते / प्रतीत्यसमुत्पन्नता स्वसंवेद्यता च नैव वस्तूनो हेतुर्भवति, मायाकेशोण्डुकादीनां भ्रान्तत्वात् कुत्रापि सम्बन्धस्यासिद्धत्वाच्च / यद्यप्रतीत्यसमुत्पन्नत्वे वस्तूनि नैव दृश्यते तदा तददर्शनमन्यत्रापि तथैव स्यादिति कथनसम्बद्धमेव, सत्यपि व्यापके वृक्षे शिंशापासत्त्वस्याननिर्वार्यत्वात् / अतः सुखादीनि तावदविपरीत्तत्वेनासिद्धत्वान्नैव निर्विवादभूतानि /
SK
[६९] क्षणमात्रातिरिक्तत्वेनास्थितत्वादित्यादिकं यदुक्तं तदपि नास्त्यस्वीकार्यम्, स्वभावतो ऽनित्यत्वस्यानुपपन्नत्वात् / वस्तूनां यदि सम्यक्त्वं तदा स्थितत्वास्थितत्वतोः परस्परविरोधो ऽप्यनुपपन्न एवेति पूर्वं कृतनिर्देशादिति / अतश्चलस्वभावत्वाद् वस्तूनि तावन्निःस्वभावत्वेन प्रदर्श्यन्ते, अत एव च तानि संवृतिस्वभावान्युच्यन्ते /
SK
यदि चलस्वभावार्थः संवृत्यर्थस्तदा नास्त्यनिष्टापत्तिः / तानि सर्वाणि चलस्वभावानि वस्तूनि मायादिवत् प्रकृत्या निःस्वभावलक्षणरहितानि, परमार्थस्वभावानि चेति / सो ऽपि [स्वभाव] तथागतः स्यान्नवा स्यात् सर्वदा स्थितत्वान्नित्यः, अतो नास्ति सिद्धसाधनम् /
SK
[७०] यदपि असत्यार्थेत्यादिकमुक्तं तदपि सत्यशब्दस्यार्थानभिज्ञतयैवोक्तम्, भ्रान्तबुद्धित्वात् संवृतेरिति पूर्वं निर्देशात् / मिथ्याकारतयोपगृहीतत्वेन स असत्य इत्युक्तः / सम्यक्तया असत्ये ऽपि तस्मिन्,सत्य इव प्रसिद्धत्वात् तच्चिन्तनाधिकरेण सत्येति नाम्ना व्यवह्रियते / यदा सर्वाणि ज्ञानज्ञेयादीनि संवृतिरिच्युच्यन्ते, तदापि लोकप्रस्सिद्धयैव सत्यानीत्यभिधीयन्ते, न तु सम्यग्ज्ञानाधिकारेण, शब्दमात्रस्य अपेक्षाविशेषवशेन प्रयुक्तत्वात् सत्यासत्ययोः परस्परविरोधाभावात् /
SK
विपरीताकारेणावभासितस्त्वात् संवृतिस्तावद् वस्तुत्वेन नैवाभ्युपेयते, अन्यत्वाभावादिति पूर्वमेवावेदितम् / तया व्यवस्थितं जगत् तदधिकारेण यतः सत्यमित्युच्यते, अतः संवृतिरवश्यं वस्तुतया स्वीकर्तव्येति यदुक्तं तस्याप्ययुक्तत्वात् प्रतिज्ञा नैव हापयितुं शक्या /
SK
[७१] संवृतिः प्रमाणम् अप्रमाणं वा? यदि प्रमाणं तदा कथं सा संवृतिः? यद्यप्रमाणं तदा कथं तया नैरात्म्यं साधयितुं शक्यम्? - इति यदुक्तं तदपि नैव युक्तम् / यतो हि यथा अनुमानज्ञानस्य मिथ्याकारग्रहणप्रवृतत्वात् संवृतिस्वभावत्वे ऽपि अभीष्टर्थक्रियाप्रापकत्वात् प्रमाणत्वमभ्युपगन्यते तथैव संवृतिस्वभावस्य मिथ्यात्वे ऽपि यथानुरूपश्रवणमननादिहेतुपरम्परागतत्वाल्लोकिकलोकोत्तराथैः सहाविसंवादात् प्रमाणत्वमभीधीयते, तद्विपरीतत्वे त्वप्रमाणम् / प्रमाणादिसर्वव्यावस्थास्तवद् व्यवहारेणैवेति पूर्वं प्रसाधितमेव, अतस्ता गौणा एव /
SK
[७२] यानि विज्ञानादीनि संवृतिबीजानि तानि परमार्थतो ऽङ्गीकर्त्तव्यानीति यदुक्तं तन्न यक्तियुक्तम् / यदीमानि कारणमात्राणीति साध्यन्ते तदा सिद्धसाधनमेव, यतो ह्येतेषां स्वानुरूपहेतवस्तावदनादिसंवृतिरूपा इति स्वीक्रियन्त एव, नेमान्यहेतुकत्वेन प्रतिज्ञायन्ते /
SK
यदि तद् बीजं परमार्थसिद्धमेकं चेति तदा कुत्रापि तदन्वयाभावादनैकान्तिकमेव / वृक्षाद्यशेषसंवृतिओइनां यद्युत्तरोपादानहेत्वानुकूल्यं न परिक्षिष्यन्ते तदा रमणीयतामात्रमेव दृष्टं दृष्टं स्यात् / नापि विरुद्धो हेतुः, यक्षानुरूपबलेः सद्भावात् सर्वास्ताः संवृतयो ऽसत्स्वभावाः प्रसाधिता एव / अन्यथा [यद्येवं न स्यात्] कथ ताः संवृतय इति / यद्यसत्स्वभावास्तदा वीजान्यपि तदनुरूपावस्तुभूतन्येव, न ते वस्तुभूतानि, तद्विरुद्धत्वाद् असिद्धत्वात् प्रमाणबाधितत्वाच्चेति ता गौणा एव /
SK
[७३] वस्तुस्वभावस्तावत् स्वीक्रियत इति यदुक्तं तत्तु येन कारणेन वस्तुस्वभावः स्वीक्रियते तेन सत्यद्वयभेदानुधानं कुत्रापि नैव सिध्यति / असत्यपि वस्तुस्वभावे अपरीक्ष्यमाणानि रूपदीनि सिद्धान्येव / तेषु ये उत्पादादयः समारोप्यन्ते ते संवृतिसत्यत्वेन व्यावस्थाप्यन्ते / प्रमाणैः सम्यङ् निरुप्य अनारोपिता ये तावदनुत्पादादयस्ते परमार्थसत्यतया व्याह्रियन्ते / अतः परमार्थतो ऽसत्यपि वस्तुस्वभावे सत्यद्वयं व्यावस्थाप्यत एवेति गौणा एव /
SK
[७४] यत्तावदिदं गौणां परमार्थमित्युक्तं तदप्यसम्बद्धमेव, धर्मपुद्गलनैरात्म्यलक्षणायास्तथाताया युक्तिसङ्गतत्वात् / परमो ऽपि सा, आवरणपरिहारार्थिभिरर्थ्यत्वादर्थो ऽपि सा / अविपरीतस्य ज्ञानस्य अर्थ इति विषय इति कृत्वा सा परमार्थ इत्युच्यते / यत्खलु विषयि लोकोत्तरं ज्ञानं तदन्यश्ब्दार्थप्रयोगैरपि व्यवह्रियते / श्रवणमननभावनोपजातायाः प्रज्ञाया अनुकूलत्वाद् व्यवहारेणैव सा एवमभिधीयते /
SK
तत्र येन कारणेन परमार्थतत्त्वलक्षणभावनया योगिभिरशेषसंक्लेशान् परिहत्य उत्तरोत्तरप्रज्ञादिविशेगुणांश्चधिगम्य महार्थत्वं प्रसाध्यते, तेन ऽपरमऽ श्ब्दप्रयोगः सर्वथा युज्यत एव / तदपि लोकोत्तरं परमं ज्ञानं सर्वकल्पनाविगतत्वात् सर्वधर्मनिराभासत्वाच्च स्वसंवेद्यमनुपलम्भात्मकं च, न तूपलम्भस्वरूपम् / यथोक्तम् -
SK
ऽदेवपुत्र, परमार्थसत्यं तावत् सर्वाकारपरमगोचरसर्वज्ञस्ताप्यतीतम् /᳚
SK
अनेन वस्तुविषयतः सम्यगतीतत्वेन निर्देशादालम्बनदर्शनस्य निषेध एव कृतः / परमार्थलक्षणे यज्ज्ञानात्मकमित्युक्तं तदप्यशेषसम्पदाधारभूतमेव / अतो महार्थसाधकत्वात् परमार्थस्तावन्नास्ति गौणः /
SK
अपि च, यद्यस्ति तावदेकः तावदेकः कश्चन गौणः परमार्थस्तदा निर्वाणं तावत् कीदृशः परमार्थः? तत्र कस्यापि वस्तुनः सम्यक्तया अर्थस्वभावसम्भवाभावात् तदपि कथमेभिश्चोद्यैरनवमर्दनीयं स्यात् / अतस्तत्र यद् भवतामुत्तरं तदस्माकमपि समानमेव / परमार्थे वस्तूनि तावन्न सन्तीति यदुक्तं तदपि परमार्थमधिकृत्य ज्ञानात्मकत्वं सम्यगविपरीतत्वेनासदेवेत्युक्तम् / एकेन खलु प्रकारेण परमार्थस्तावदसन्निति यदुक्तं तत्तत्त्वतो विचारेणासदेवेत्यर्थः /
SK
[७५] संवृतिपरमार्थयोरेकत्वमिति यदुक्तं तत्र भगवान् परमार्थलक्षणं संस्कारलक्षणेन सह तत्त्वतो नान्यं नानन्यमिति स्वयमेवोक्तवान् / यथोक्तमार्यसन्धिनिर्मोचनसूत्रे -
SK
᳚यदुत यदि परमार्थलक्षणम् संस्कारेभ्यो नान्यं [अभिन्न] स्यात्तदा सर्वे बालपृथग्जनाः सत्यदर्शिनः स्युः / ततश्च सर्वे प्राप्तनिर्वाणाः सर्वज्ञाश्च भवेयुः / यथा च संस्काराः संक्लेशलक्षणास्तथैव परमार्थो ऽपि संक्लेशलक्षणः स्यात् / तथा च यथा परमार्थः सर्वसंस्कारेष्वभिन्नस्तथा संस्कारलक्षणन्यपि[अभिन्नानि] स्युः, किन्तु संस्कारलक्षणानि भिन्नानि, फलतः परमार्थो नैवानन्यः / भूतार्थप्राप्तेरनन्तरं योगिभिः परमार्थगवेषणं नैव युज्यत इति परमार्थस्तावत् संस्कारेभ्यो नास्त्यन्यो नान्यो ऽपीति / अन्यथा सत्यदर्शिनां संस्कारनिमित्तमनभिभूतमेव स्यात् / संस्कारनिमित्तस्यानभिभावाद् योगिनस्तावन्नैव निमित्तबन्धनान्मुक्ताः स्युः / निमित्तबन्धनैरमुक्तत्वान्न च ते दोष्ठुल्यबन्धनादपि मुक्ताः स्युः / तस्मादमुक्तत्वान्नैव स्यात् निर्वाणसद्धिर्न वानुत्तरसुखानुभूतिरपि / अपि च, परमार्थलक्षणं यदि संस्कारलक्षणेभ्यो भिन्नं स्यात्तदा न स्यात् परमार्थः संस्काराणां सामान्यलक्षणम् न च परमार्थलक्षणं संस्काराणां नैरात्म्यं निःस्वभावता वा स्यात्, नापि संक्लेशव्यवदानयोः पृथग्लक्षणं सिध्येत् / फलतः शखस्यं शुक्लत्वमिव परमार्थलक्षणम् संस्कारेभ्यस्तत्त्वान्यत्वभ्यामनिर्वचनीयमेवेति᳚ /
SK
वस्तुतायामेव तावत्तत्त्वान्यत्वकल्पनं सम्भवति / परमार्थलक्षणे तु निःस्वभावत्वेन तत्त्वान्यत्वाभ्यं वस्तु नाभिधातुं शक्यते / वस्तुसत्त्वे हि तत्त्वान्यत्वबोधस्य सम्भवान्न तु निःस्वभावे वस्तुनि तत्सम्भवः, अतो नास्ति विरोधः / ज्ञानात्मकपरमर्थो ऽपि संवृत्या सह तथतालक्षणे परमार्थाकारे एकत्वेन स्वीक्रियत एव / यथोक्तमार्यप्रज्ञापारमितायाम् -
SK
ऽकिं भगवन्, अस्ति लोकसंवृतिरन्या, परमार्थो ऽप्यन्यः? भगवानाहसुभूते, नैव लोकसंवृतिरन्या, परमार्थो ऽप्यन्यः / यत्तावल्लोकसंवृतेस्तत्त्वं तदेव परमार्थस्यापि तत्त्वमिति᳚ / ज्ञानात्मकस्तु परमार्थो मायादिभिरभिन्नत्वात् सम्यक्संवृतिस्वभावश्च तत्त्वावबोधानुकूलत्वात् परमार्थस्वभावश्च / अतो ऽपेक्षाविशेषवशेन एकस्मिन्नुभयस्वभावो नैव विरुद्धः /
SK
[७६] यत्तवद् भवद्भिः पुण्यज्ञानसम्भारपारिपूरिर्दुष्करेत्यादिकमुक्तं तदपि नैव युज्यते, अनेनैव तावद् दर्शनेन सम्भारपरिपूर्णताया युज्यमानत्वात् / इत्थं सम्यग्दृष्टिसमुत्थिता एव दानादयः परिसुद्दहेतुसमुत्थितत्वादिष्टफलं विशेषफलं चाभिनिर्हरन्ति, न तु विपरीतसमुत्थिताः, मिथ्यादृष्टिसमुत्थितशीलाङ्गादिवत् /
SK
परमार्थतो दानादिवस्तूनामभावात् तदुपलम्भो विपरीत एव, मरीच्यादिषु जलोपलम्भवत् / अतस्तत्समुत्थितपारमितानं सर्वो ऽपि प्रयासो मिथ्यात्मात्मीयसमुत्थितदानादिवद् अविशुद्धहेतुसमुत्थितत्वेनात्यन्तं निर्बल एव / उपलब्धिलक्षनप्राप्तानां दानादीनामनुपलब्धिस्तावत् सम्यगर्थत्वेन मरीच्यादिषु जलानुपलम्भैवाविपरीतैव / अतस्तत्समुत्थितदानादयो महाफलाः, सूपचितहेतुसमुत्थितत्वेन स्वस्थबीजाभिनिर्हताङ्कुर इव / अतो ऽनुपलम्भसमाश्रितेसु दानादिषु सम्यदृष्टिसमुत्थिततया विद्वज्जनेषु श्रद्धैवोत्पद्यते, न त्वन्येषु / येन कारणेन दानादिष्वप्रवृतेः पुण्याभावस्तानि दातव्यादीनि नैवात्यन्तमसद्भूतानि, संवृतौ तेषां सद्भावात् / नैव च सर्वदानुपलम्भ एव, असमाहितावस्थायां मायादिवत् तेषामुपलम्भो ऽपि / तदाधिमुक्तिसमुद्भूतानुपलब्धु तानि व्यवस्थाप्यन्त एव / यथोक्तं भगवता
SK
कथं भगवन्, उपाकुशला बोधिसत्त्वा महासत्त्वा दानं दत्वा प्रज्ञापारमितां परिसम्पदयन्ति? भगवानाह - सुभूते, बोधिसत्त्वा महासत्त्वा दानं दत्वा परित्यजन्ति तदा मायाबुद्धिरेव टेषां दाने सूपतिष्ठतीति᳚ विस्तरः /
SK
अत एव भगवन् ये बोधिसत्त्वा भवन्ति, मायादिवदधिमुक्त्या अर्थिजनेभ्यः पुत्रादीनां परित्यागो रोचते / समापत्त्यवस्थायं तु दानादीनामत्यन्तमनुपलम्भ एव / तदा ते तत्प्रवृत्तिं नैवाश्रयन्ते, समाहितावस्थायां दानादीनामुपेक्ष्यमाणत्वात् / किन्तु पृष्ठलब्धावस्थायां तावत् ते प्रवर्तन्त एव / आर्यरत्नकूटसूत्रे ऽप्युक्तम् -
SK
᳚भिक्षवः, बोधिसत्त्वैर्दानादीनां स्वभावोपलम्भो नैव कर्त्तव्यः, अदानमपि नैवाचरितव्यम्᳚ इति विस्तरः /
SK
अत एव प्रज्ञापारमितादिष्वपि शून्यताधिमुक्तस्य अनुपलम्भाश्रितानि दानादीनि बृहत्फलानि परिपूर्णानि चेत्युक्तानि / यथोक्तं तत्रैव -
SK
᳚तत्किं मन्यते सुभूते, सुकरं पूर्वस्यां दिशि आकाशस्य प्रमाणमुद्गृहीतुम्? सुभूतिराह नो हीदं भगवन् / एवमेव सुभूते, यो बोधिसत्त्वो ऽप्रतिष्ठितो दानं ददाति, तस्य सुभूते, पुण्यस्कन्धस्य न सुकरं प्रमाणमुद्गृहीतुम् /᳚
SK
दानशब्दो ऽत्र षट्पारमितावाचकः, षट्दानपारमिता इत्युक्तत्वात् / आर्यरत्नाकरसूत्रे ऽप्युक्तम् - ᳚बोध्यर्थमनुतिष्ठद्भिः सर्वे धर्मा निःस्वभावा ज्ञेयाः / तत्र दानमपि निःस्वभावत्वेन ज्ञायते / उपादाता च निःस्वभावत्वेन ज्ञेय, देयमपि निःस्वभावमिति ज्ञेयम्, परिणामनापि निःस्वभावेति ज्ञेया, यस्य खलु परिणामना क्रियते, तदपि निःस्वभावत्वेन ज्ञेयम् / यदर्थं हि परिणामना विधीयते तदपि निःस्वभावत्वेनैव ज्ञेयम् / तत् किमर्थम्? दानं तावद् दानस्वभावेन शून्यम् / तथैव उपादाता देयं दानफलं परिणामना बोधिश्चेति तत्तस्वभावेन शून्या इति योगः करणीयः / एवं हि शून्यताधिमुक्तस्याप्रमेयैश्चिन्तनैर्दानपारमिता परिशुद्धा भवति, तद् दानं च दानपारमितेति संज्ञां प्रतिलभते, न तु कदापि मलिना भविष्यति᳚ इति विस्तरः /
SK
इत्येवमनुपलम्भसमाश्रितानि दानादीनि बृहत्फलानि विशुद्धानि च भान्ति / ततश्च अनुत्तरसम्यक्संबोधिस्तावत् करतलस्थितेव भवति, उपलम्भावकाशो ऽपि दूरत एव स्थितः /
SK
[७७] सर्वे धर्मा निःस्वभावा इति यदुच्यते, तस्य तावत्को ऽर्थः? यद्यात्मनासत्त्वान्निःस्वभावास्तदा सिद्धसाधनमेवेति यदुक्तं तदपि यद्यात्मना ऽसत्त्वान्निऽ स्वभावत्वेन व्यवस्ताप्यते तदा न च विरुद्धत्वं नापि सिद्धसाधनमिति / यतो हि यदि वस्तुनः स्वभावो ऽविपोअरीततदा परापेक्षया तत्सत्त्वम् तत्सत्त्वम् आदितश्चासत्त्वं नैवोपपद्यते, एकस्मिन् सदसत्त्वयोः क्रमेणापि विरोधात् / फलतस्तावदिमानि वस्तूनि परमार्थतः स्वभावेन परापेक्षितानीत्यतो निःस्वभावन्येव / न हि स्वभावस्य कृतकत्वं नाम युज्यत इति पूर्वं कृतनिर्देशात् / न चैसां परमार्थतः परापेक्षयापि सत्त्वमिति पूर्वमेव प्रसाधितम् / अतः कथमिव सिद्धसाधनम् / व्यवहारे तावदिमानि परमाश्रित्य प्रवर्तन्ते, अतो नित्यसत्त्वादीनामपि नस्ति प्रसङ्गः / एवमेव यदि वस्त्वादीनि प्रकृतितः सस्वभावानि तदा स्वात्मनासत्त्वं स्वभावेन च सत्त्वं नैवोपपद्यते, विरुद्धत्वात् / एकस्मिन् वतूनि सत्त्वासत्त्वस्थितास्थिओतत्वादयः परस्परविरुद्धधर्मा नैव युज्यते / अतः स्वात्मनासत्त्वान् स्वभावतश्चास्थितत्वात्तानि [वस्तूनि] निःस्वभावत्वेनैव सुस्पष्टतयाभिव्यज्यन्ते / फलतः कथमिव सिद्धसाधनं स्यात् / परिकल्पितात्मना स्वभावतो ऽसत्त्वं तदा नैव सिद्धसाधनमिति पूर्वमेव प्रसाधितम्, प्रमानबाधितत्वात् परिकल्पितस्वभावस्येति /
SK
वस्तूनामुत्पत्तिरपि परमार्थतः प्रमाणबाधितैव / सा च संवृत्य युज्यते, न तु ग्रह्यग्राहकस्वभावतया / यच्चार्याणां परमज्ञानगोचरं वस्तूनामविपरीतं स्वलक्षणं तदपि नैव सदिति युक्त्यगमाभ्यां पूर्वं प्रतिपदितमेव / या च संक्लेशव्यवदानव्यव्स्था, सापि नैवाविपरीतस्वलक्षणसमाश्रिता / भगवतापि व्यवहारसत्याश्रितत्वेनैवास्याः व्यवस्थाया निर्दिष्टत्वादित्यपि पूर्वमेवावेदितम् /
SK
[७८] सर्वाणि तावद् वस्तून्यादित एव् नोत्पन्नानित्यतो ऽनुपन्नानीति यदुक्तं तत्र नैव सिद्धसाधनादयो दोषाः प्रवर्तन्ते, यतो हि सर्वे धर्माः परमार्थतो ऽनादिकालदेव प्रशान्तत्वादनुत्पन्ना इत्यभ्युपगम्यन्ते, न तु संसारस्यानादिमात्रतया, न चापि पूर्वनिरुद्धस्य अनुत्पत्तिकतया / अपि च, भगवता बालपृथग्जनानां सन्त्रासपरिवर्जनार्थमेभिरपि प्रकारैर्वस्तूनामनुत्पत्तिः सन्दर्शिता, न तु इयन्मात्रेणैवेत्यवधार्यते, स्वपरादिभिरनुत्पादस्य पूर्वमेव निर्दिष्टत्वादिति /
SK
परिकल्पितात्मना स्वात्मना वनुत्पादे ऽपि नैव सिद्धसाधनमिति निर्दिश्यते / मायादिवद् व्यवहारतयोत्पत्तेरभ्युपगमो ऽपि सर्वथानुत्पन्नत्वेन, नैवानुत्पत्तेरभ्युपगमो न वा परमार्थतो ऽनुत्पतेरभ्युपगमः / अतो नास्ति दर्शनादिविरोधो ऽपि / सर्वे तावद् धर्मा धर्मधातुलक्षणायां निःस्वभावतायां समरसत्वेन तथाताकारतया नैव विशेषोत्पत्तिरित्यतो ऽनुत्पत्तिरभ्युपगम्यते, तथापि नैव तत्र सिद्धसाधनमिति / लोकप्रसिद्धमपि स्वभावमालोच्य विशेषोत्पत्तिर्नास्तित्यपि नैवोच्यते, अतो नास्ति दर्शनादिविरोधो ऽपि / यद्यप्युत्पत्तिक्रियालक्षणरहितत्वाद् ईश्वरादितो ऽनुत्पन्नात्वाद् वानुत्पत्तिः स्वीक्रियन्ते, तथापि नैव तन्मात्रतयैवेति, अपि तु यथा पूर्वमुक्तं तथात्वेनैवास्वीक्रियन्ते / ये तावदनेकसूत्रविरोध इति कथयन्ति, तेभ्यः पूर्वमेव दत्तमुतरम् /
SK
[त्रियानसाधनम्] यदपि साधनविशेण यानत्रयसिद्धयनुमानं श्रद्धाविशेषेण च गोत्रविशेषानुमानं निर्दिष्टं तेनापि यनत्रयं साधयितुं न शक्यते / अनेन तावदपरिमिता यानभेदाः स्युः / पुनश्चनेन यानत्रयसाधनानुमितस्य गोत्रत्रयस्यापि निश्चितावबोधो नैव कर्तुं शक्यः, अपरिमितगोत्रभेदावबोधात् / सूत्रे ऽपि - ᳚एवं हि सति अपरिमितस्य यानभेदस्य यनभेदस्यप्रसङ्गः स्यात्᳚ - इत्युक्यम् /
SK
येन खलु कारणेन सत्त्वेषु गोत्रभेदानुमानस्य नियता सिद्धिः नियतश्च श्रद्धभेदाबोधः प्रतीयते, ते ऽप्यकल्याणमित्रसंसर्गेण अकारणमेव परदुःखमभिनन्दन्तो दृश्यन्ते / एवमेव ये ऽकारणमेव परदुःखमभिनन्दनार्थामालम्बन्ते, ते ऽपि कल्याणमित्रसम्पर्कादिना केवलं परहितचिन्तने प्रवर्तमाना अवलोक्यन्ते / ये कल्याणमित्रसम्पर्कादिना केवलं परहितचिन्तने प्रवर्तमाना अवलोक्यन्ते / ये खल्वल्पमात्रके स्वसुखे हिते चासज्यमानाः परेषु दौर्मनस्यं धारयन्ति, ते ऽपि परेषु दौर्मनस्यविपरीतत्वेनाप्यवलोक्यन्ते / ये तावत् भवसुखभिलाषेण पुण्यानि सम्पादयन्ति, ते ऽपि भवसुखेच्छविपरीत्त्वेन सम्यक्कार्याण्यनुतिष्ठमाना अपि दृश्यन्ते / इत्थं साधनानामनियतत्वावबोधात् श्रद्धाया अनैयत्यमनुमीयते / फलततस्तत्रानुमानेन गोत्रभेदस्याप्यनियतस्वभावो ऽवबुध्यते / अतो गोत्रभेदस्याप्यनियततया कथं तावद् यानत्रयनिश्चयः साधयितुं शक्यः /
SK
सत्त्वनां विवुइधाशयवशेनापि गोत्रभेदो निश्चेतुं न शक्यते / यानि तावत् पञ्चाभिसमयगोत्राणि तान्यपि एकनिश्चयाभिप्रायेणैव निर्दिष्टानि, न त्वात्यन्तिकताया / तस्मिन्नेव हि सूत्रे गोत्राण्यनात्यन्तिकतयैव निर्दिष्टानि / तथा हि -
SK
ऽसर्वकुशलमूलोत्सर्गेच्छन्तिको हि महामते, पुनरपि तथागताधिष्ठानात् कदाचित् कर्हिचित् कुशलमूलान् व्युत्थापयति / तत्कस्य हेतोः? यदुत अपरित्यक्ता हि महामते, तथागतानां सर्वसत्त्वाः᳚ इति /
SK
फलतस्तथागताध्ष्ठानेन तावदपरे ऽप्यनुत्तरबोधौ प्रणिदधत इति ज्ञातव्यम् / यस्तावद् अक्षयमतिनिर्देशसूत्रे यान्त्रयनिर्देशः, सो ऽपि नैवाधारभूतः, यतो हि तथागता लोकस्य विविधाशयवशेन विविधानि यानानि निर्दिशन्तो धर्मोपदेशे प्रवर्तन्ते, न तु यनत्रयमात्रतया / एवमेव आर्यगण्डव्यूहेसूत्रे ऽप्युक्तम् -
SK
᳚श्रीवैरोचनख्ये लोकधातौ तथाअतसमन्तज्ञानरत्नार्चिश्रीगुणकेतुराजेन अभिसम्बोधिरधिगता, तदनन्तदमेव तेन अप्रमेयाः सत्त्वाः श्रावकभूमौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः निर्याणायां भूमौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः इन्द्रियपरिशुद्धिप्रभावनानिर्यणायं बौधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः विमलपराक्रमध्वजायां बोधौ परिपाचिताः / अप्रमेयाः सत्त्वाः बुद्धभूमौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः बलसमतासमुदाचारानुगमनिर्याणायां बौधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः सर्वत्रानुतद्धर्यभिसम्भिन्ननययाननिर्याणायां बौधौ प्रतिष्ठापितः / अप्रमेयाः सत्त्वाः चर्याप्रयोगसमवसरणनयनिर्याणायां बौधौ प्रतिष्ठापिताः / अप्रेमेयः सत्त्वाः समाधिप्रस्थाननयनिर्यानायां बौधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः सर्वारम्बणविषयपरिशुद्धिमण्डलनयनिर्याणायां बौधौ प्रतिष्ठापिताः / अप्रमेयाः सत्त्वाः बोधिसत्त्वबौधौ चित्तमुत्पादिताः / अप्रमेयाः सत्त्वाः बोधिसत्त्वमार्गे प्रतिष्ठापिताः᳚ इति विस्तरः /
SK
भगवतापि बालजनप्रवेशार्थं यानभेदो व्यवस्थापितः, न तु नीतार्थतया निदिष्टः / अत एव अर्यलङ्कावतारे ऽप्युक्तम् -
SK
᳚देवयानं ब्रह्मयानं श्रावकीयं तथैव च / तथागतं च प्रत्येकं यनानेतान् वदाम्यहम् //
SK
यानानां नास्ति वै निष्ठा यावच्चित्तं प्रवर्तते / चित्ते तु वै परावृत्ते न यानं न च यानिनः / यानव्यवस्थानं नैवास्ति यानभेदं वदाम्यहम् / परिकर्षणार्थं बालाना यानभेदं वदाम्यहम्᳚ //
SK
अत एव आर्यसद्धर्मपुण्डरीकसूत्रादौ एकयाननिर्देशो नैव नेयार्थ इति प्रतिपादितम् तथा हि -
SK
᳚एवं रूपेषु शारिपुत्र, कल्पसंक्षोभकषायेषु बहुसत्त्वेषु लुब्धेष्वल्पकुशलमूलेषु तदा शारिपुतर्, तथागता अर्हन्तः सम्यक्संबुद्धां उपायजौशल्येन तदैवैकं बुद्धयनं त्रियाननिर्देशेन निर्दिशन्ति᳚ /
SK
पुनश्च
SK
᳚इमेषु बुद्धधर्मेषु श्रद्दधाध्वं मे शारिपुत्र, पत्तीयतावकल्पयत / न हि शारिपुत्र, तथागतानां मृषावादः संविद्यते / एकमेवेदं शारिपुत्र, यानं यदिदं बुद्धायानम्᳚ /
SK
पुनश्च
SK
ये भुन्ति हीनाभिरता अविद्वसू अचीर्णचर्या बहुबुद्धकोटिषु / संसारलग्नश्च सुदुःखिताश्च निर्वाण तेषामुपर्दर्शयामि //
SK
उपायमेतं कुरुते स्वयम्भू बौद्धस्य ज्ञानस्य प्रबोधनार्थम् / न चापि तेषां प्रवदे कदाचिद् युष्मे ऽपि बुद्धा इह लोकि भेष्यथ //
SK
किं कारणं कालमवेक्ष्य तायी क्षणं च दृष्ट्वा ततु पश्च भाषते / सो ऽयं क्षणो अद्य कथञ्चि लब्धो वदामि येनेह च भूतश्चयम् //
SK
बौद्धस्य ज्ञानस्य प्रकाशनार्थं लोके समुत्पद्यति लोकनाथः / एकं हि यानं द्वितियं न विद्यते न हीनयानेन नयन्ति बुद्धाः //
SK
प्रतोष्ठितो यत्र स्वयं स्वयम्भूर्यच्चैव बुद्धं यथ यादृशं च / बलाश्च ये ध्यानविमोक्ष इन्द्रियास्तत्रैव सत्त्वा पि प्रतिष्ठापेति //
SK
मार्त्सर्यदोषो हि भवेत मह्यं स्पृशित्व बोधिं विरजां विशिष्टाम् /
SK
यदि हीनयानस्मि प्रतिष्ठपेयमेकं पि सत्त्व न ममेतु साधु //
SK
एकं हि यानं द्वितियं न विद्यते तृतीयं हि नैवास्ति कदाचि लोके / अन्यत्रुपाया पुरुषोत्तमानां यद्याननात्वुपदर्शयन्ति //
SK
तत्र प्रज्वलितगृहान्तःस्थितान् बालजनान् बहिर्निष्कासयितुमुपायभूतस्य वाहनविशेषस्य दृष्टान्तद्वारा, तद्वदेव रत्नद्वीपस्थितं नायकपुरुषं निवर्तयितुमुपायभूतस्य मध्ये ऽरण्यं नगरनिर्माणस्य च दृष्टान्तद्वारा भगवान् उपायभूतानि यानि त्रीणि यानान्युपदिष्टवान्, स तावन्नेयार्थ एव / आर्यबोधिसत्त्वगोचरोपायविषयविकुर्वणनिर्देशे नाम महायानसूत्रे ऽप्युक्तम् -
SK
᳚मञ्जुश्रीः, तस्मिन् बुद्धक्षेत्रे यानेनैकेन निर्यास्तीति तद् यानं तावत् सारवत् स्यादिति / नास्मासु श्रावकप्रत्येकबुद्धयानव्यवस्था / कथमिति चेत्? तथागता हि नानात्वसंज्ञाविराहिता इति हेतोः /
SK
यदि मञ्जुश्रीः, तथागताः कस्मैचिन्मयानं निर्दिशेयुः, कस्मैचित् प्रत्येकबुद्धयानम्, कस्मैचिच्च श्रावकयानं निर्दिशेयुस्तदा तथागतस्य तावच्चित्तम् अपरिशुद्धमभिनिवेशजुष्टं च स्यात् / प्रादेशिकी च तस्य महाकरुणा स्यान्नानात्वसंज्ञा च / धर्ममुष्टिश्चाचार्यस्य स्यात् / अपि च, मञ्जुशीः, येभ्यश्च सत्त्वेभ्यो ऽहं धर्ममुपदिशामि ते सर्वे बोधिनियता महायानपरायणाः सर्वज्ञताभिनिर्हताः पक्षैकनिष्ठाश्च भवन्ति / तदित्थं सर्वज्ञतमनुप्राप्नुवन्तीति / अतो नास्मासु यानव्यवस्थेति / मञ्जुश्रीः, या हि यानव्यवस्थाभिधीयते, तया सर्वज्ञेन भूमेर्व्यवस्था कृता, पुद्गलानां व्यवस्था कृता, अल्पसत्त्वसमूहस्य अप्रमेयसत्त्वसमूहस्य च व्यवस्था कृता / धर्मधातोरसम्भेदाद् यानभेदो ऽपि तावन्नास्ति / अनेन हि प्रस्थानद्वारं प्रदर्शितम् / प्रस्थाननिर्देशो ऽपि तावत् संवृतिरेव, न तु परमार्थः / अत एकमेव यानम्, न द्वितीयमिति /᳚
SK
आर्यश्रीमालासूत्रे ऽप्युक्तम् -
SK
᳚यच्च परिनिर्वाणं यानि च त्रीणि यानान्युपदिष्टानि तत्सर्वं तथागतानामुपायमात्रम्, एकयानावबोधेन अनुत्तरसम्यक्संबोधेरधिगमात् /᳚ अत एव एकयाननिर्देशस्तावदाभिप्रायिक इति वचनस्य धर्मधातुलक्षणे सर्वयानानां समत्वादेकयानमिति कथनं तावन्नास्त्यार्यसद्धर्मपुण्डरीकाद्यनुकूलमिति नियतं विद्वद्भिरवधार्यम्, नैव तदभिप्रायवशादुक्तमिति ज्ञेयम् / आर्यदशधर्मादौ यानत्रयनिर्देशस्तु उपायस्वरूपत्वाद् विनेयजनेभ्यः स एकयाननिर्देशाभिप्रायेणैव विहित इत्येव निश्चेयम् / अतो यानत्रयनिर्देशस्तावद् बुद्धनामुपायमात्रम्, न तु वास्तविक इत्यतो विनेयजना नैव तेषु प्रवर्तन्ते / महायानसूत्राकङ्कारे हि - एकस्य यानस्य च या हि देशना तदानुकूल्येन प्रयोजनेन सा / इति यदुक्तं तच्छ्रावकाणां यद्यनुशयसमुच्छेदो जायेत तदा जातेरपि सर्वथोपच्छेदाद् अनेकजन्मपरम्परासमुदागतं बुद्धात्वं कथं नाम साध्यं स्यादिति कथनं तु तेषां जातेः सर्वथोपच्छेदस्यासिद्धत्वान्नैव युक्तम् / आर्यश्रीमालासिंहनादसूत्रे चोक्तम् -
SK
᳚अर्हतो ऽपि विनाशसद्भावात्तत्संत्रासेन तावदर्हन्तः प्रत्येकबुद्धा अपि भगवतः शरणं प्रतिपद्यन्ते, सोपधिशेषधर्मित्वाद् भगवन् श्रावकार्हतां प्रत्येकबुद्धानाम्, जन्मक्षयाभावाच्च भगवन्, तेषाम् / अतो भवत्येव तेषां जन्म / भवन्त्येव ते सोपधिपेषाः, नैव जन्मता, अपितु कर्मणां पारिपूरेरभावाद् बहुकरणीयावशेषाच्च / यदि नैव ते तेषां परिहारं कुर्वीरन् तदा सन्त्यनेके निर्वाणधातोरपसारकास्तेषु प्रहातव्यधर्मा...᳚ इति विस्तरः /
SK
यश्च जातिक्षय इत्यादिना क्षयानुत्पादज्ञानयोः समुद्भवस्तस्य नेयार्थत्वं तु तमिन्नेव सूत्रे निर्दिष्टम् / तथा हि -
SK
᳚भगवन्, अर्हन्तां प्रत्येकबुद्धानां विमुक्तिं यावद् यत् प्रत्येक्षणाज्ञानं याश्चाश्वासाधायिकाश्चतस्त्रो ऽनुस्मृतयस्तत् सर्वमाभिप्रायिकम्, यानानां नेयार्थत्वेन विभागं कृत्वा व्याकरणात् / भगवत्, तत्किमर्थमिति चेत्? द्विधा भवति च्युतिःसमुच्छेदिका च अचित्यपरिणामिनी चेति / तत्र समुच्छेदिका च अचिन्त्यपरिणामिनी चेति / तत्रसमुच्छेदिका तावच्च्युतिः प्रतिसन्दधतां सत्त्वानामेव / भगवन्, अर्हतां प्रत्येकबुद्धानां वशिताप्राप्तबोधिसत्त्वानां च मनोमयकायस्य च्युतिस्तु बोधिमण्डपर्यन्तम् अचिन्त्यपरिणामिन्येव भवति / भगवन्, अनयोर्दयोश्च्युत्योः समुच्छेदच्युतेरधिकारे तावदर्हतां प्रत्येकबुद्धानां जातिक्षयो जायत इति प्रतीयते........ इतिऽ विस्तरः /
SK
अनयोस्तावच्च्युत्योरविद्यावासभूमिप्रत्ययैरनास्त्रवकर्महेतुभिः समुद्भूता जातिस्तु भवत्येवेति निर्दिष्टम् / तथा हि -
SK
᳚भगवन्, यदुत उपादानप्रत्ययाः सास्त्रवकर्महेतुकास्त्रयो भवाः सम्भवन्ति / एवमेव भगवन्, अविद्यावासभूमिप्रत्यया अनास्त्रवकर्महेतुका अर्हतां प्रत्येकबुद्धानां वशिताप्राप्तानां बोधिसत्त्वानां च मनोमयास्त्रयः कायाः सम्भवन्ति.....इति᳚ विस्तरः /
SK
आर्यलङ्कावतारसूत्रे चापि निर्दिष्टं यद् धातुत्रयातिक्रान्त अपि ते ऽनास्त्रवधातौ अवस्थिता भवन्ति / अतस्तथागताधिष्ठानेन जातिवशितां प्राप्य सम्भारद्वयं च परिपूर्य ते बुद्धत्वमवाप्नुवन्तीति / तथा हि -
SK
᳚प्रहीणा भवन्ति धर्मनैरात्म्यावबोधात्, तदा ते वासनादोषसमाधिमदाभावादनास्त्रवधातौ प्रतिविबुध्यन्ते / पुनरपि लोकोत्तरानास्त्रवधातुपर्यापन्नान् सम्भारान् परिपूर्य अचिन्त्यधर्मकायवशवर्तीतां प्रतिलप्स्यन्ते /
SK
यथा हि काष्ठमुदधेस्तरङ्गैर्विप्रवाह्यते / तथा हि श्रवको मूढो लक्षणेन प्रवाह्यते //
SK
वासनाक्लेशसम्बद्धाः पर्युत्थानैर्विसंयुताः / समाधिमदमत्तास्ते धातौ तिष्ठन्त्यनास्त्रवे //
SK
निष्ठागतिर्न तस्यास्ति न च भूयो निर्वर्तते / समाधिकायं सम्प्राप्य आकल्पान्न प्रबुध्यते //
SK
यथा हि मत्तपुरुषो मद्याभावाद् विबुध्यते / तथा ते बुद्धधर्माख्यं कायं प्राप्स्यन्ति मामकम् //
SK
अत्र खलु काष्ठोदध्युपमया भवसागरे प्रवहमानत्वं निर्दिष्टम् / तरङ्गोपमया तावद् धर्मलक्षणं प्रति अभिनिवेशवशात् परिनिर्वाणं न प्राप्यत इति सङ्केतितम् / ऽवासनाक्लेशसम्बद्धाःऽ इत्यादिना तु अविद्यावासनाभूमिबन्धनेनाविमुक्ताः, क्लेशपर्यत्थानैश्च विसंयुक्ता इति / ऽनिष्ठागतिर्न तस्यास्तिऽ इत्यादिना तावन्निर्वाणनगरे ऽप्रविष्टास्तथा भवसागरे ऽपि न भ्रमन्तीति / अनास्त्रवसमाधिसम्प्रयुक्तत्वाद् अनेककल्पपर्यन्तमनास्त्रवधातौ स्थितिः, तदन्तरं ततो व्यत्थाय सम्भारान् परिपूर्य बुद्धत्वावाप्तिरित्यादिकं स्पष्टतया निर्दिष्टम् /
SK
यच्चाप्यार्यलङ्कावतारादिसूत्रेषु निर्मितश्रावकानधिकृत्य श्रावकव्याकरनं कृतं तद्धीनाधिमुक्तसत्त्वानां भयपरिहारार्थं यानत्रयनिर्देशोपायप्रदर्शनार्थं चेति ज्ञातव्यम् / अवैवर्तचक्रसूत्रे ऽप्युक्तम् -
SK
᳚सर्वेषु लोकधातुषु सर्वबुद्धानां धर्मोपदेशस्तावदवैवर्तचक्रसमानतया समान इति / मर्त्यलोकधातुसत्त्वास्तु पञ्चकषायकाले समुत्पद्यमाना हीनाधिमुक्ता एव / अतस्ते एकयानोद्देश्यं नैव परिपालयन्ति, न च तस्मिन्नधिमुच्यन्ते / अतो ऽनया युक्त्या ते सत्त्वा बुद्धत्वं प्रत्यभिमुखीक्रियन्त इति /᳚
SK
आस्त्रवाणां क्षयादर्हन्तो यदि न प्रतिसन्दधते, अतो ऽनेकजन्मपरमपरासाध्यं बुद्धत्वं न प्रतिलभन्त इति तदा बोधिपरिणामितानामप्यर्हतां न प्रतिसन्धिर्न च तेषु बुद्धात्वाधिगम इति / यदि प्रणिधानबलेन तथागताधिष्ठानेन च तेषां प्रतिसन्धिरभ्युपगम्यते, तदा कथं नापरेष्वपि तथा? यथोक्तमार्यप्रज्ञापारमितायाम् -
SK
᳚अपि च, यदि ते ऽनुत्तरसम्यक्संबोधौ चित्तमुत्पादयन्ति, तदा अनुमोदयिष्यामि, नाहं तेषां कुशलमूलनां विघ्नं करिष्यामि / शुद्धधर्मविशेषैः शुद्धधर्मविशेषाध्युपालम्भः करणीय इति /᳚
SK
यदि ते सर्वेण सर्वमनुत्तरसम्यक्संबोधेये अभव्या इति तदा कथं नाहं तेषां कुशलमूलानां विघ्नं न करिष्यामीत्युक्तम् / अत्यन्ताभावेषु नैव विध्नसम्भवः / अवस्थाविशेषाभिप्रायेणैव शान्तस्यैकायनस्य कथनं नियतम्, न तु सर्वदैव नियताभिप्रायेणेति ज्ञेयम् / आर्यसद्धर्मपुण्डरीकसूत्रे ऽयुक्तम् -
SK
᳚भिक्षुर्वा भिक्षुणी वार्हत्त्वं प्रतिजानीयादनुत्तरायां सम्यक्संबोधौ प्रणिधानं परिगृह्योच्छिन्नो ऽस्मि बुद्धायानादिति वदेदेतावन्मे समुच्छ्रयस्य पश्चिमकं परिनिर्वाणं वदेदाभिमानिकं तं शारिपुत्र, प्रतिजानीयाः /᳚
SK
अर्हन्तस्तावत् क्लेशक्षयहेतोः सर्वथा नैव प्रतिसन्दधते, तथात्वात् / ये खलु सत्यदर्शिनः श्रावकाः, ये च कामधातुरागरहिता अनागामिनस्ते बुद्धगोत्रका इति / द्विविधा अपि ते ऽनुत्तरसम्यक्संबोधौ व्याकृताः अचिन्त्यपरिणामिन्या जात्या युक्तत्वात्तेषामिति यत् कथनं तदप्यार्यश्रीमालासिंहनादआर्यप्रज्ञापारिमिताआर्यदशधर्मकसूत्रादिविरुद्धम् / तेषु केवलमर्हत एव प्रतिसम्धिरुपदिष्टा, न त्वनागामिनामिति / तत्रार्यमालासिंहनादसूत्रं तु पूर्वमेवोद्धृतम् / आर्यप्रज्ञापारमिताशुत्रे चोक्तम् -
SK
᳚अर्हत्त्वं समधिगम्य यदि स सम्यक्संबोधिमभिलषते तदा कथं नाम अजातिं लब्धुं शक्नोति, परिजनता खलु भगवता तस्य जातेर्व्याकृतत्वात् / भगवानाह - मैत्रेय, नाहं कर्मक्लेशवशाज्जातिं प्रज्ञपयामि, अपितु अचित्यपरिनिर्वाणे परिणामनया तस्य जातिं प्रज्ञपयामिति᳚ /
SK
आर्यदशधर्मकसूत्रे ऽप्युक्तम् -
SK
᳚भगवन्, श्रावकाः क्षीणास्त्रवाः, परिक्षीणभवसंयोजनगोत्रकास्तथापि कथं ते ऽनुत्तरसम्यक्सम्बोधिमभिसम्बोद्धुं शक्ष्यन्ते? भगवानह - शृणु कुलपुत्र, तस्य दृष्टान्तम् / तथैवास्ति यथा कुलपुइत्र, क्षत्रियकुले ऽभिषिकः कश्चन राजकुमारो यदि सर्वासां शिल्पविद्यानामध्ययनं करोति / स नास्ति तीक्ष्णेन्द्रियो ऽपि तु मन्देन्द्रियः सन् पश्चादध्येयस्य पाठयस्य प्रथमम्, पूर्वमध्येयस्य पाठयस्य पश्चादध्ययनं करोति, तदा किं विचारयसि कुलपुत्र, किमेतावता स नास्ति राजकुमार इति कथयिष्यते? अवोचत् - नैव भगवन्, नैव सुगत, राजकुमार एव स कथयिष्यते / भगवानाहकुलपुत्र, तथैव बोधिसत्त्वगोत्रका अपि ये मन्देन्द्रियास्ते पूर्वं भावनामार्गेण क्लेशक्षयं कृत्वा पश्चादनुत्तरसम्यक्संबोधौ अभिसम्बुद्धा भविष्यन्तीति /᳚ विस्तरः /
SK
यच्च ᳚सार्वगतिका बुद्धा भविष्यन्ति᳚ इत्युक्तम्, तदर्थस्तावत् सर्वेषां बुद्धत्वसामीप्यापेक्षाभिप्रायेणेति - यदुक्तं तदपि स्वेच्छामात्रोपकल्पितत्वादयुक्तमेव / सार्वगतिकानां भव्यतां दृष्ट्वा तथोक्तमित्यत्र को विरोधः / तथैव चार्यरत्नमेघादिसूत्रेष्वपि भगवतः शाक्यमुनेर्नामश्रवणमात्रेण अवैवर्तिकबीजारोपणाद् अभेदेन सर्वे सत्त्वा अवैवर्तिकत्वे व्याक्रियन्ते, न तु सामीप्यापेक्षया / अतो येन श्रावणं येन वा श्रवणं यश्च श्रोता तेषवपि अवैवर्तिकबीजानि विद्यन्त एव, यतो हि भवतां मते ऽपि मलानामागन्तुकत्वाच्चित्तं प्रकृत्या प्रभास्वरमभ्युपगम्यते / अतः सार्वगतिकास्तदर्शं भव्या एव / अस्तदभिप्रायेण तथाभिधानं युज्यत एव /
SK
सर्वे सत्त्वास्तथागतगर्भा इति यदुक्तं तेन सर्वे ऽप्यनुत्तरसम्यक्संबोधिपदप्राप्तियोग्या एवोपदर्शिताः, यतो हि तथागतश्ब्दो धर्मधातुः पुद्गलधर्मनैरात्म्यलक्षणः प्रकृत्या प्रभास्वरश्चेत्येतेष्वर्थेष्वभ्युपगम्यते / तथा च निर्देशेन सर्वे ऽनुत्तरसम्यक्संबोधिस्वभावा एव निर्दिष्टाः /
SK
अपि च, ऽयानम्ऽ इति यदुक्तं तदपि निर्वाणगरप्रापको ज्ञानात्मको मार्ग एवेत्युक्तम्, यायते ऽनेनेति कृत्वा / तत्त्वज्ञानादेव हि मोक्षमधिगन्तुं शक्यते, नान्यस्मात् / तत्त्वमप्येकमेव, अन्यथानवस्थाप्रसङ्गः / दृष्टिभेदे ऽपि वस्तुतत्त्वं नानेकरूपेषु विभाजयितुं शक्यते / एकस्वभावत्वात्तत्त्वस्य, तद्विषयि ज्ञानमप्येकस्वभावमेव / अधिगततत्त्वनां बुद्धबोधिसत्त्वानां यज्ज्ञानं तदपि तत्त्वविषयकाभिज्ञानस्वरूपमेव, सर्वसंक्लेशप्रतिपक्षत्वात्तस्य / न हि प्रादेशिकैर्ज्ञानैस्तत्त्वबोधो ऽतिप्रसङ्गात् / तथा सति सर्वे तत्त्वदर्शिनः स्युः / अतो यत्तावत् पुद्गलधर्मनैरात्म्यतत्त्वसाक्षात्कारि ज्ञानं तदेव निर्वाणप्रापकः सम्यङ् मार्गो नान्यः / अत एकमेव यानमिति /
SK
एत एव भगवता नान्येन तावन्मार्गेण मोक्ष इति निर्दिष्टम् / आर्यलङ्कावतारसूत्रे चोक्तम् -
SK
᳚यदुत अन्ये पुनर्महामते, कारणाधिनान् सर्वधर्मान् दृष्ट्वा निर्वाणगतिबुद्धयो भवन्ति, धर्मनैरात्म्यदर्श्नाभावान्नास्ति मोक्षो महामते / एषा महामते, श्रावकयानाभिसमयगोत्रकस्यानिर्यणनिर्याणबुद्धिः / अत्र ते महामते, कुदृष्टिव्यावृत्त्यर्थं योगः करणीयः᳚ इति /
SK
आर्यप्रज्ञापारमितासूत्रे ऽपि भगवता प्रोक्तम् -
SK
᳚यद् द्वयं तद् वस्तु, अद्वयं तु अवस्तु / अवोचत् - भगवन्, किं तावद् द्वयम्? भगवानाह - सूभूते, रूपसंज्ञैव द्वयम्, तथैव स्कन्धधातुस्पर्शवेदनाधातुषट्कप्रतीत्यसमुत्पादध्यानारूप्यदुःखनैरात्म्यसुखसत्त्वादीनां संज्ञा᳚ इति / इत्यादिकं विस्तरेण तावन्निर्दिश्य -
SK
᳚यावद्धि संज्ञा तावद् द्वयम् / यावद् द्वयं तावद् वस्तु / यावद् वस्तु तावत् संसारः / यवाच्च संसारस्तावन्नास्ति सत्त्वानां मोक्षः᳚ इति /
SK
इत्यनेन प्रक्रारेण द्वयसंज्ञानुकूला क्षान्तिरपि तावदसत्त्वेन ज्ञानव्येति प्रकटितम् / आर्यसत्यद्वयावतारसूत्रे ऽपि प्रज्ञप्तं यत् सर्वक्लेशानां मूलं भावाभिनिवेश एव / अत एव सर्वधर्मनिःस्वभावभावनयैव तावत् क्लेशाः परिहर्तुं शक्यन्ते, नान्येन केनचिन्मार्गेणेति कृतो निर्देशः / तथा हि -
SK
᳚कथं मञ्जुश्रीः, क्लेशा विनयं गच्छन्ति, कथं क्लेशाः परिज्ञाता भवन्ति? मञ्जुश्रीराहपरमार्थतो ऽत्यान्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु संवृत्यासद्विपर्यासः / तस्माद् असदविपर्यासात् संकल्पविकल्पः / तस्मात् संकल्पविकल्पाद् अयोनिशोमनसिकाराअद् आत्मसमारोपः / तस्माद् आत्मसमारोपाद् दृष्टिपत्युत्थानम् / तस्माद् दृष्टिपर्युत्थानात् क्लेशाः प्रवर्तन्ते / यः पुनर्देवपुत्र, परमार्थतो ऽत्यन्ताजातानुत्पन्नाभावान् सर्वधर्मान् प्रजानाति, स परमार्थतो ऽविपर्यस्तः / यश्च परमार्थतो ऽविर्यस्तः सो ऽविकल्पः / यश्चविकल्पः स योनिशः प्रयुक्तः / यश्च योनिशः प्रयुक्तः, तस्यात्मसमारोपो न भवति / यस्यात्मसमारोपो न भवति तस्य दृष्टिपर्युत्थानं न भवन्ति / यावत् परमार्थतो निर्वाणदृष्टिसर्वदृष्टिपर्युत्थानमपि न भवन्ति / तस्यैवम् अनुत्पादविहारिणः क्लेशा अत्यन्तंं विनीता द्रष्टव्या / अयमुच्यते क्लेशविनयः / यदा देवपुत्र, क्लेशान् निराभासेन ज्ञानेन परमार्थतो ऽत्यन्तशून्यान् अत्यन्ताभावान् अत्यन्तनिर्निमित्तान् प्रजानाति, तदा देवपुत्र, क्लेशाः परिज्ञाता भवन्ति / तत्र यथापि नाम देवपुत्र, य आशीविषस्य गोत्रं प्रजानाति , स तस्याशीविषयस्य विषं शमयति / एवमेव देवपुत्र, यः क्लेशानां गोत्रं प्रजानाति, तस्य क्लेशाः प्रशाम्यन्ति / देवपुत्र आहकतमन् मञ्जुश्रीः, क्लेशानां गोत्रम्? आह - यावदेषा परमार्थतो ऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु कल्पना, इदं क्लेशानां गोत्रम्᳚ इति विस्तरः /
SK
फलतः सर्वधर्मशून्यताभावनयैव तावन्निःश्रेयसनगरप्रवेशः / अतस्तदर्थिनो ये कल्याणमिच्छन्ति, तैः कुमार्गविचारान् दूरत एव परित्यज्य महात्मभिर्यो हि युक्त्यागमप्रदीपः प्रकाशीकृतः सद्भिश्च पुरुषैः [यः] मुहुर्मुहुरावेदितः स सादरं निरन्तरं च सदा सेवनीयः / अतश्च एकमेव यानम्, सर्वे च धर्माः परमार्थतो निः स्वाभावा इति सिध्यति /
SK
// आचार्यकमलशीलप्रणीतं मध्यमालोकाख्यं शास्त्रं समाप्तम् //
SK
भारतीयोपाध्याशीलेन्द्रबोधिना भोटदेशीयानुवादकेन द्पल ब्र्चेगस् महाभागेन चानूदितम् /
SK
शुभमस्तु

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kamalaśīla: Madhyamakāloka (sa_kamalazIla-madhyamakAloka.htm).

Source