[७] परैः सिद्धत्वात् पराभ्युपगतहेत्वादिभिः स्वपक्षः प्रसिध्येदिति चेत् तदापि न युज्यते,साधनदूषणयोरुभयप्रसिद्धत्वेनाभिमतत्वात् / इथं यदा पराभ्युपगतहेत्वादयो यदि न वास्तविकाः, मोहेन कल्पितमात्रसत्ताकाः, तदा कथं तैः स्वपक्षः प्रसिध्येत् / यदि ते भावरुपेण सन्मात्राः, तदा न केवलं ते परप्रसिद्धमात्राः, तवापि तत्प्रसिद्धत्वात् / भावानां सिद्धयसिद्धयो न पुरुषविवक्षाधीनाः / पराभ्युपगतसाधनादयो यदि सन्मात्रा एवाभ्युपेयन्ते तदा भावा अपि सस्वभावाः कथं नाभ्युपेयन्ते?
[३०] सांख्यादिपरिकल्पितसत्कार्यवादो यद्यप्ययुक्तस्तथाप्यसत्कार्योत्पादे किं नाम विरुद्धत्वम्, किमर्थं च तन्निषिध्यते / नैव च स्यात् शशशृङ्गाद्युत्पत्तिप्रसङ्गः तत्तथाविधहेतूनामभावादनुत्पत्तेः न त्वभावाद्धेतोः /
SK
सर्वतः सर्वोत्पत्तिप्रसङ्गो ऽपि नैव; कारणप्रतिनियतसामर्थस्य व्यवस्थितत्वात् / प्रतिनियतकारणसामर्थ्यमप्यश्यमभ्युपेयम्, अन्यथा सांवृतिके ऽपि कार्यकारणभावे कथं न सर्वतः सर्वोत्पत्तिर्भवतीति /
SK
[३१] अपि च, यदि विनष्टाविनष्टादयो विकल्पाः पारमार्थिकीमुत्पत्तिं बाधन्ते, तदा कथं न सांवृतिकीमपि बाधन्ते? वस्तुबलप्रवृत्तस्य हेतोर्विषस्य पुरुषेच्छावशेन विभागो न युक्तरूपः / यदि पत्यक्षबाधितत्वाशङ्कया तस्मिन् हेतुत्वं न प्रवर्तत इत्युच्येत तर्हि स हेतुरेव नास्ति, बाधयोग्यत्वात् /
SK
[३२] न ह्येकेन हेतुना अनेककार्योत्पत्तिर्युज्यते, न चानेकेनाप्येकोत्पत्तिर्युज्यते, अन्यथा हेतुभेदेन भेदो न स्यात् / अत एव नानेकेभ्यो ऽप्यनेककार्योत्पत्तिर्भवतीति / यद्येकं कार्यं सर्वे हेतोवो ऽभिनिर्वर्तयन्ति, तदा भिन्नानां हेतूनामभेदः स्यात्, अनेकेभ्य एकैकस्योत्पत्तेः / यधेकैकं नाभिनिर्वर्तयन्ति तदा कथं नामानेकेभ्यो ऽनेकोत्पत्तिरपि /
SK
न ह्येकेनापि एकस्योत्पत्तिः, चक्षुरादीन्द्रियेभ्यस्तद्विज्ञानस्योत्पत्तेः / तदनन्तरं यदि सजातीयक्षणोत्पत्तिर्न भवेत्तदा सर्वेषामन्धबधिरत्वादिप्रसङ्ग इत्यपि कथनं तावन्नैव युज्यते / एवं यस्तावदन्धबधिरत्वादिप्रसङ्गो ऽभिहित स नैव सम्भवति, अनभ्युपगतत्वात्, सामग्र्या उत्पत्तेः, न हि काचिदेकेन एकस्योत्पत्तिरिति /
[६६] अथ मायार्थः संवृत्यर्थ इति चेत् तदा को हि नाम मायार्थ इति वक्तव्यम् / यदि सर्वमसदिति, तदा पूर्वदोष एव समापद्येत, संक्लेशव्यवदानानि च कथं स्युरिति च / अथ भ्रान्तिज्ञानेन मायेति चेत् तदा आभ्यन्तरिकज्ञेयनयेन को हि विशेषः स्यात् /
[७४] यदि यथाकथञ्चन कञ्चिदेकः परमार्थः स्यात्तदा किमर्थं स साधयते? स नैव परमार्थः कथं स ज्ञानेनावधारयितुं शक्यते, न च परमार्थशब्देनाप्यभिधातुमर्हः एवं तावन्नायं परमार्थः, न चार्थो ऽपि परमः, नापि परमस्य ज्ञानस्यायमर्थः, साधारणत्वात् / यदि यथाकथञ्चन किश्चिदेकः परमार्थः स्यात् तदा परमार्थतो ऽसद्भावस्यैकस्य यथाकथञ्चन निराकरणाद् भावसत्ताया एवाभ्युपगमः स्यात् /
SK
[७५] अपि च, यदि संवृतिपरमार्थावभिन्नाविति मन्यते, तदा सत्यद्वयव्यवस्थानां कथं स्यात्, द्वयोरेकतरस्य परित्यागात् / अथ भिन्नौ तदोभयोः पृथक्सिद्धत्वाद् भावप्रसङ्गः / अथ भिन्नभिन्नौ, तदा कथमेकस्मिन् परस्परविरुद्धत्वम् / अतः पक्षो ऽयम् ऽन भिन्नो नाप्यभिन्नःऽ इति न युज्यते, विरुद्धत्वात् / एवं भिन्नाभिन्नत्वस्य अन्यो ऽन्यपरिहारस्थितलक्षणत्वेन एकस्य प्रतिषेधे ऽपरस्य विधानं न भवेत्तदा असत्त्वमेव / स तदा प्रतिषेद्धुमपि कथं शक्तः एकस्मिन् युगपत्पर्युदासप्रसज्ययोर्विरोधात् /
SK
[७६] अन्यच्च, भवतामनुसारेण तु पुण्यज्ञानसम्भारौ दुष्परिपूरणौ स्याताम्, तदभावे च बुद्धत्वमपि दुष्प्रापं स्यात् / पूजानुग्रहकाम्यया यद् दीयते तद् दानं त्वत्यन्तं प्रसादमभिनिर्वर्तयति, तच्च नास्ति देयदायकप्रतिग्राहकानुपलम्भाश्रितत्वात् / स चानुपलम्भः किं देयाभावाद् वा विषयाभावाद् वा भवति? प्रथमे तावत् पक्षे न को ऽपि किमपि ददातीति पुण्यस्यैवाभावः प्रसज्यते, सत्त्वाभावाच्च यो हि बोधिसत्त्वानां सत्त्वार्थपरिश्रमः स निरर्थक एव स्यात्, अतो ऽसत्त्वं तु नास्त्येव / विषयाभवो ऽपि तावन्नास्ति, भगवता देयादिवस्तूनां परिदृटत्वात् / यद्येवं न स्याउत्तदा भगवता बोधिसत्त्वावस्थायां कथमर्थिभ्यः पुत्रादिदानं कृतम्? भवन्तस्त्वालम्बनाश्रितं दानादिकं ऽविशुद्धम्ऽ इति नाभ्युपगच्छन्ति, अतः सम्भारपारिपूरिस्तावदसम्भवैव / तदभावे हेत्वभावाद् बुद्धात्वमपि दूरे ऽपास्तं स्यात् /
SK
[७७] अपि च, ऽसर्वे धर्मा निःस्वभावाःऽ इत्येत्तस्य तावत् को ह्यर्थः? यदि स्वयम्भावस्य अभावान्निःस्वभावा इत्यभिधीयन्ते तदा सिद्धसाधनमेव, हेतुप्रत्ययाधीनवृत्तित्वात् सर्ववस्तूनाम्, न तान्यहेतुकानीति वयमप्यभ्युपगच्छामः / यद्येवं न स्यात्तदा निरपेक्षत्वान्नित्यं सत्त्वमसत्त्वं वा स्यात् / यद्युच्येत - विनष्टा भावाः स्वस्वभावेनानुत्पन्नत्वात् स्वस्वभावेन न सन्तीति निःस्वभावाः? इत्येतदपि सिद्धसाधनमेव, अस्माकमपि विनष्टोत्पत्तेरनभ्युपेतत्वात् / यदि चाभिधीयेत - तत्स्वभावेनैव सर्वकालानवस्थानान्निःस्वभावा मन्यन्ते, तदपि सिद्धसाधनमेव, यस्मादुत्पत्तिसमनन्तरविनाशसद्भावात् क्षणिका एव / क्षणिकस्य खलु वस्तुनो द्वितीये क्षणे ऽवस्थानं नाभ्युपेयते /
आर्यसद्धर्मपुण्डरीकादिषु यद्धि एकं हि यानमिति व्यपदिष्टम्, तदाभिप्रायिकमिति द्रष्टव्यम् समताभिप्रायादिप्रदर्शनात् / धर्मधातुलक्षणतया यानानां भेदाभावाद् एकमेव यानमिति तदभिप्रायः / अथवा यानीकृतं यानमिति यानिकुर्वतां श्रावकादिपुद्गलानां नैरात्म्ये ऽतुल्यत्वाभावाद् एकमेव यानम् / अथवा ये विमुक्तास्तेषामभिन्नत्वाद् एकमेव यानम् / अथवा अनियतगोत्रकाणां श्रावकाणां महायानेनैव निर्याणाद् एकमेव यानं देशितम् / अथवा सर्वसत्त्वेष्वात्माध्याशयेन महाकरणामया भगवन्तः, पूर्वं समुदानीतबोधिसम्भाराः श्रावकगोत्रीयाश्चापि बुद्धत्वप्राप्त्यध्याशयाः, अतो ऽभिन्नाध्याशयाद् एकमेव यानम् / अथवा भगवता स्वयमनेकधा श्रावकयानादिभिर्निर्याणद्वारैः परिनिर्वाणसन्दर्शनाद् एकमेव यानम् / अथवा नास्ति महायानाद् विशिष्टतरं यानान्तरमिति तदधिकाराद् एकमेव यानमिति, तदेवंविधाभिप्रायेण एकमेव यानमिति देशितम् / अथवा अनियतानां श्रावकगोत्रीयाणामाकर्षणार्थं बोधिसत्त्वगोत्रीयाणां च
यावद् ये सूत्रान्ता संवृतिप्रतिपत्तये निर्दिष्टास्त उच्यन्ते नेयार्थाः यावद् ये सूत्रान्ताः परमार्थप्रतिपत्तये निर्दिष्टास्त उच्यन्ते नीतार्थाः /
SK
यावद् ये सूत्रान्ता नानापदव्यञ्चनानि निर्दिशन्ति, त उच्यन्ते नेयार्थाः, यावद् ये सुत्रान्ता गम्भीरदुर्दर्शदुर्ज्ञेयानि निर्दिशन्ति, त उच्यन्ते नीतार्थाः /
SK
यावद् ये सूत्रान्ता आत्मसत्त्वजीवपुरुषपुद्गलमनुजमानवकारवेदकान् अनेकरुतैरस्वामिकान् स्वामिन इव निर्दिशन्ति, त उच्यन्ते नेयार्थाः / यावद् ये सूत्रान्ताः शून्यतानिमित्ताप्रणिहितानभिसंस्काराजानुत्पादाभावनिरात्मनिःसत्त्वनिर्जीवनिःपुद्गलास्वामिकविमोक्षमुखा निर्दिष्टास्त उच्यते नीतार्थाः - इति विस्तरः /
SK
सुत्रान्तरेषु ऽतावदनुत्पादादिनिर्देशा अभिप्रायान्तरेण नीतार्थ इत्यभिहिताःऽ - इति यदुक्तम्, तदपि न सम्यक् / एकं हि स्थितौ आत्मादिनिर्देशा अपि नीतार्थाः स्युः / अतः परमार्थाभिधायको नीतार्थस्तद्विपरीतो नेयार्थ इत्यवबोद्धव्यम् / आर्यसर्वबुद्धविषयावतारज्ञानालोकालङ्कारे ऽप्युक्तम् - ऽयो हि नीतार्थाः, स परमार्थ इति᳚ / आर्याक्षयमतिनिर्देशसूत्रे च अनुत्पादादयो नीतार्था उक्ताः / अतश्चैवमनुत्पादादय एव परमार्था इति नियतम् /
यःप्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतो ऽस्ति / यःप्रत्ययाधीनु स शून्य उक्तो यःशून्यतां जानति सो ऽप्रमत्तः //
SK
आर्यसागरराजपरिपृच्छसूत्रे ऽप्युक्तम् -
SK
यत् प्रतीत्यसमुत्पन्नं तच्च शून्यं स्वभावतः / यच्च शून्यं स्वभावेन न हि तच्चस्ति कुत्रचित् //
SK
एतदर्थमेव आर्यपितापुत्रसमागमसूत्रे ऽपि प्रतीत्यसमुत्पादप्रवृत्त्या धर्मधातुप्रवृत्तिर्निदिष्टा, यदुत - ᳚तत्र भगवन्, अविद्या तु अविद्यात्वेनैवासती / तत्कथमित्युच्येत तर्ह्येवमविद्या तु स्वभावेन विरहिता / यस्मिन् धर्मे नास्ति स्वभावः स न तावद् वस्तु / यच्च नास्ति वस्तु तदपरिनिष्पन्नम्, यदपरिनिष्पन्नं तदनुत्पन्नमनिरुद्धं च / यदनुत्पन्नमनिरुद्धं तद् ऽअतीतम्ऽ इति प्रज्ञप्तुं नैव शक्यते, न च तदनागतं प्रत्यत्पन्नमित्यपि वा प्रज्ञप्तुं शक्यते / यच्च कालत्रये ऽप्यनुपपन्नं तन्नाम लक्षणं निमित्तं प्रज्ञप्तमिति वा न भवति, यतो हि तत् सत्त्वानां ग्रहणार्थं नाममात्रसंकेतमात्रव्यवहारमात्रसंवृतिमात्राभिधेयमात्रप्रज्ञप्तिमात्रेभ्यो ऽतिरिक्तं नास्ति / अविद्या तावत् परमार्थतो ऽनुपलब्धा / यश्च धर्मः परमार्थतो ऽनुपलब्धः, न तत् प्रज्ञप्तः, न व्यवहार्यः, नाभिधेयश्च / अतो हि भगवन् यच्च नाममात्रं संकेतमात्रं न तत्तथ्यमिति᳚ विस्तरेणाभिहितम् / अत एव परतन्त्रस्वभावो न तथ्यत्वे युज्यते, अन्यथा मायादीनामपि वस्तुत्वप्रसङ्गः, तान्यपि प्रत्ययसापेक्षतायां न सन्ति भिन्नानि / अत एव मायाभिन्नत्वेन परतन्त्रस्वभावस्तावदुत्पत्तिनिःस्वभावतायां व्यवस्थाप्यते /
SK
आर्यसन्धिनिर्मोचनसूत्रे चाभिहितम् - यथा मायाकृतं तथैवोत्पत्तिनिःस्वभावतायामुपलक्षणीयम् / मायादितो ऽभिन्नो यो हि परतन्त्रस्वभावः स एव नित्यानित्यादिभिः परमार्थत उपचरितः स एव च परिकल्पितस्वभावः सो ऽपि यथा परिकल्प्यते तथा लक्षणेनासिद्धत्वाल्लक्षणनिःस्वभावतायां व्यवस्थाप्यते / सापि निःस्वभावता वस्तुतः परतन्त्रस्वभावे एव स्थिता / यतो हि तस्मिन्नेव [परिकल्पितः] स लक्षणैरुपचर्यते / अत एव यथा अनित्यादिभिः परिकल्पिताः सर्वे धर्माः परमार्थतो लक्षणशून्यत्वेन अनुत्पन्नाः, अत एव चानिरुद्धाः, अत एव आदिशान्ताः, अत एव हि प्रकृतिपरिनिर्वृताः आर्यसन्धिनिर्मोचने ऽपि यथोक्तम् -
SK
ये तावत् स्वलक्षणेनासन्तस्ते ऽनुत्पन्नाः, ये ह्यनुत्पन्नास्ते ऽनिरुद्धाः, ये चानिरुद्धास्त आदिशान्ता, आदिशान्ता, ये ह्यादिशान्तास्ते प्रकृतिपरिनिर्वृता इति /
स्वभावं परभावं च भावं चाभावमेव च / ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने //
SK
यो ऽयं भावाभावाभिनिवेशः, स तावद् भावाभिनिवेशपूर्वक इति सूत्रेषु प्रतिपादितम् / तथा हि लङ्कवतारसूत्रे प्रोक्तम् -
SK
अस्तितत्वपूर्वकं नास्ति अस्ति नास्तित्वपूर्वकम् / अतो नास्ति न गन्तव्यमस्तित्वं न च कल्पयेत् //
SK
अतो ये खलु भावाभिनिवेशपरशास्ते तावत् परतन्त्रं सनिमित्तं पश्यन्ति / ये तु व्यपगतभावग्राहास्ते तथा न कुर्वन्ति, कुत्राप्यनवस्थितत्वात् / तथा ह्युक्तम् -
SK
सिद्धिमाश्रितभावानामिच्छन्ति तत्त्वतस्तु ये / तत्र नित्यादयो दोषाः सम्भवन्ति न वा कथम् //
SK
भावानामाश्रितानां तु ह्यसत्त्वं सत्त्वमेव वा / जलेन्दुवन्न चेच्छन्ति ते दृष्ट्वा नापहारिताः //
᳚कुलपुत्र , यो बोधिसत्त्वः धर्मान् अयोनिशो मनसिकृत्य शब्दशः प्रविचिनोति, स महायानश्रद्धायतनो न भवति / यश्च अशब्दशो ऽभिसन्ध्यर्थं योनिशो मनसिकरोति, स महायानश्रद्धायतनो भवति᳚ / यदुक्तं तत्तु ये परमार्थाभिप्रायानभिज्ञाः संवृतिस्वभावमप्यपवदन्ते ते ऽयोनिशो धर्मान् प्रविचिन्वन्तीतिहेतोर्महायानश्रद्धायतना न भवन्तीत्यतस्तन्निषेधार्थमिदमित्युक्तम् /
SK
निखिलेष्वपि सूत्रेषु शब्दशो ऽर्थाभिनिवेशपरिहराय अभिप्रेतार्थावबोधाय च सम्यग् यत्नोत्पादार्थं सर्वेषु चाधिमक्त्युपादार्थमेवाभिहितम्, न तु माध्यमिकमतनिषेधार्थम्, न हि माध्यमिकाः शब्दशो ऽर्थं परिकल्पयन्तीति पूर्वमेवोक्तत्वात् / आर्यरत्नमेघसूत्रे ऽप्युक्तम्, यथा -
SK
᳚कथमिव बोधिसत्त्वः परमार्थनिपुणो न भवति? कुलपुत्र, बोधिसत्त्वः सम्यक् प्रज्ञया रूपप्रत्यवेक्षणं याव्द् विज्ञानप्रत्यवेक्षणं प्रत्यवेक्षते / यदा स रूपं प्रत्यवेक्षते, तदा न रुपोत्पादमुपलभते, न समुदयमुपलभते, न च निरोधमुपलभते यावद् विज्ञानपर्यन्तं यथावदुत्पादं नोपलभते, यतो हि सो ऽपि तावद् [अनुपलम्भः] परमार्थतो ऽनुत्पादप्रवृत्तया प्रजया भवति, न तु सांव्यावहारिकस्वभावेन᳚ इत्येवं निर्दिष्टम् /
भावा विद्यन्ति संवृत्या परमार्थे न भावकाः / निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत् //
SK
आर्यप्रज्ञापारमितायामपि -
SK
᳚सुभूते, विपर्ययमतिरिच्य बालपृथग्जनाः कुत्रावतिष्ठन्ते? कर्मार्भिसंस्कारवस्तु तावत् केशाग्रतुल्यमपि न विद्यते᳚
SK
इत्यादिका या देशाना, तयापि विरुध्यन्ते, वस्तुतः आत्मनो ऽतिसूक्ष्मस्वभावस्यापि निषिद्धत्वात् / यदि विपर्ययस्याप्रतिषेधाद् अस्ति विपर्ययं वस्तु, तत्रैव तथा प्रोक्तत्वादिति चेत्? तथा हिः
SK
निःस्वभावेषु या भ्रन्तिस्तत्सत्यं संवृतिर्भवेत् / इति / तदपि नैवोपपद्यते / विपर्यस्तं वस्तु यदि विद्येत, तदा अतिसूक्ष्मभावस्वभावनिषेधवचनं कथं नामोपपद्येत /
यदि मध्ये चित्तस्वभावतायाः को ऽप्यंशः परमार्थसन् स्यात्तदा तत्सत्तया नित्यानित्याभिनिवेशः खलु कथङ्कारमेको ऽन्तः स्याद्, यतो हि यथा वस्तुतत्त्वं तथा यथावदनुगम्य मनस्करणं पतनस्थानमिति नैव युज्यते /
SK
नित्यादिस्वरुओपमतिरिज्य वस्तुभूतः कश्चिदन्यो वस्त्वाकारो ऽसम्भवी मध्ये हि वस्तु खलु स्वस्वभावस्यासत्त्वाद् अभूतमिति ग्रहणं नास्ति तावद् अन्त इत्येवं यदि चिन्त्येत, तदपि न युक्तम् / असदिति ग्रःअणं सत्तग्रहणाभावे ऽभाव एव / विषयाभावनिषेधस्तु न तावत् सन् भवति, अतः यस्याभावग्रहणं स्त्, नियतं तस्य सत्ताग्रहणमपि सदेव / ततो द्वावप्यन्तौ भवतः /
SK
यदि मध्ये वस्तुनः सत्त्वं तदा तत्सत्त्वग्रहणं केन तत्सत्त्वग्रहणं केन निषिद्धं स्यात्? आर्यसमाधिराजसूत्रे मध्ये सतः परमार्थस्थितस्य वस्तुनो निषेधाय यदुक्तम्, तेनापि सह विरोधः स्यात् -
᳚न हि सुविक्रान्तविक्रामिन् रूपं रागधर्मि वा विरागधर्मि वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं रागधर्मि वा विरागधर्मि वा / या च रूपवेदनासंज्ञासंकारविज्ञानानां न रागधर्मता नापि विरागधर्मता इयं प्रज्ञापारमिता / न हि सुविक्रान्तविक्रामिन् एवं द्वेषधर्म वा अद्वेषधर्मि वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं द्वेषधर्मि वा अद्वेषधर्मि वा / या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न द्वेषधर्मता नापि विगतद्वेषधर्मता इयं प्रज्ञापारमिता / न हि सुविक्रान्तविक्रामिन् रूपं मोहधर्मि वा विगतमोहधर्मि वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं मोहधर्मि वा विगतमोहधर्मि वा / या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न मोहधर्मता नापि विगतमोहधर्मता इयं प्रज्ञापारमिता / न हि सुविक्रान्तविक्रामिन् रूपं संक्लिश्यते वा व्यवदायते वा, एवं वेदना संज्ञा संस्काराः / न विज्ञानं संक्लिश्यते वा व्यवदायते वा / या च रूपवेदनासंज्ञासंस्कारविज्ञानानाम् असंक्लेशता अव्यवदानता इयमुच्यते प्रज्ञापारमिता᳚ / इत्युक्तम् /
कस्यापि कार्यक्षणस्य सत्त्वं कस्यापि करणक्षणसत्त्वाद् यदि कल्प्यते तदा तत्समकालं सर्वसत्त्वान्तर्गशेषविद्यमानक्षणानामपि सत्त्वं स्यात् / यथा तत्स्वहेतुक्षणा विद्यमानाः, यदि दृश्यन्ते, न विद्यमाना यदि न दृश्यन्ते, तथैव तद्धेतुक्षासमाकालं सर्वसत्त्वान्तर्गताशेषक्षणा विद्यमाना यदि दृश्यन्ते, न विद्यमाना यदि न दृश्यन्ते / एवं सति तेषां कथं न हेतुत्वम् /
को हि नामातीतः? किमुपहतस्वभावो ऽतीत इति / यद्येवं नास्ति तदा वर्तमान इव अनुपहतस्वभावात्मकत्वात् कथं हि स अतीत इति / यश्चोपहतस्वभावः स तावदसत्स्वभावत्वात् कथं कार्यमुत्पादयिष्यति / अर्थक्रिया हि स्वस्वभावमेवापेक्षते / यदि क्रियाविनाशेन अतीत इत्युच्यते, न तु स्वभावपरिहाण्येत्युच्यते, एवं सति विनष्टायाः क्रियातः कार्योत्पत्तिर्नैव युज्यते / एवं न भवति / कथं हि कार्योत्पत्तौ क्रियमाणायां क्रियाविनाश इति / एकस्वभावात्मके वस्तुनि क्रियावन्ति अक्रियावन्ति च कार्याणि न युज्यते, भिन्नतायाः प्रसङ्गात्, निरंशत्वाद्धि तस्य /
SK
आक्षेपमात्रा हि क्रिया, न चानाधायिका, अभिन्नत्वात् स आक्षेपकाल एवाधानं करिष्यति / अन्यथा पूर्ववत् पश्चादपि सा तथा भवितुं न शक्ता स्यात् /
SK
अपि च, क्रिया नाम सा किं समर्थस्वभावा यदुत कर्मस्वभावा? यदि तत् स्वभावद्वयं वस्तुनः सकाशाद् भिन्नं तदा कथं नाम तद् [वस्तु] विनष्टमित्यभिधातुं शक्यते / यदि तदुपहतस्वभावं तदा समस्तवस्तुनो नित्यसत्तावादस्य हानिः प्रसज्यते / अर्थान्तरविनाशे सत्यपि वस्तुनो ह्यचलस्वभावस्य विनाशो नैव सिध्यति / यथा मृते ऽपि देवदत्ते यज्ञदत्तस्य अनुपहतस्वभावात्मकत्वान्मृत स इति वक्तुं न शक्यते /
SK
यदि क्रियान्तरविनाशात्तस्य विनाशःस्वीक्रियते, तदैतन्नैव युज्यते, अनवस्थानात्, यतो हि क्रियायां क्रियान्तरसद्भावो नास्त्येत् / तस्यामपि तुल्य एव विरोधः परीक्षा च / फलतः कस्यापि विनाशो नैव सिध्येत् / अन्यार्थत्वे सति क्रियायाः वस्तु तावद् अहेतुकमेव स्यात्, केवलं क्रियात एव कार्यस्योत्पादात् / अतो वस्तुनस्तावदसत्त्वप्रसङ्गः / अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः / अन्यार्थक्रियान्तरोभयस्वभावात्मकत्वाद् यदि वस्तुन उत्पत्तिरभ्युपगम्यते तदा क्रिया यदा वस्तुन उत्पत्तिरभ्युपगम्यते तदा क्रिया यदा स्वभावत एवोत्पादयति तदा वस्त्वपि तथैवोत्पादकं स्यात् / फलतो ऽन्यार्थप्रतीत्या किम्? अर्थान्तरस्य पक्षत्वे अन्यार्थकल्पनायाम् अनवस्थादोषान्नैव [कदापि] हेतुत्वं सिध्येत् / वस्तूपकाराभावाद् ऽअस्येयं क्रियाऽ - इति सम्बन्ध एव न सिद्धः स्याद्, उपकारसापेक्षत्वात् सम्बन्धस्येति /
SK
उपकारकत्वमेव यदि वस्तुत्वेनाङ्गीक्रियते तदा क्रियात्मकत्वाद् वस्तुनः, क्रियामुपकरोतीति चेत्तदा कार्यमपि कथं न तथैवोपकरोति? केन तावत् कारणेन क्रियान्तरत्वेनोपकल्प्यते? यदि क्रिया हि सन्मात्रवस्तुसापेक्षैव तदा अविकलहेतुत्वात् सदा तल्समीपवर्तिनी एव, अतो विनाशो ऽपि तावन्नैव सिध्यति / यदि सा अर्थन्तरभूता तदा सम्बन्धस्तावदसिद्ध एव / क्रियाणामेव परस्परयोगाद् वस्तु ताअवद् गौणमेव स्थास्यपि / क्षणिकस्य [वस्तुनः] उत्पादसमनन्तरमेव अस्थायित्वात् [तस्य कस्यामपि] क्रियायां कर्मस्वभावत्वं नैव युज्यते ये तावदक्षणिकास्ते सदा एकस्वभावत्वेनावस्थित्वान्नैव क्रियावन्त आकाशवत् / अतः केष्वपि ऽकर्म क्रियतेऽ इति न सिध्यति / अत एव सामर्थ्यक्रियादिशब्देन वस्तुस्वभावो ऽभिधीयते, नान्यस्मिन्नर्थे /
विच्छिन्नमात्रे साध्ये तथैव च हेतोर्निदेशे न ते अभूतधर्मितो विरुद्धाः / यथा सति नैव आश्रसिद्धादिदोषाः, पूर्वमेव तन्निर्दिष्टत्वात् / साध्यसाधनयोः सपक्षे ऽनुगमान्नैव विरुद्धख्यो ऽपि हेतुदोषः / व्यवहारेन भिन्नत्वाद् उत्पत्तौ व्यापकः / फलतो व्यापकनिवृत्त्या नास्ति व्याप्यो ऽपि सम्भवी / अतो नास्त्यनैकान्तिको ऽपि हेतुः / यस्य केनापि भवति भेदः, स तस्य प्रकृतिः / अतो यस्तावदन्यः, स कथं तस्येति? यश्च स्वभावतः पूर्वमेव स्थितः, स हेतुसन्निधानात् पूर्वमपि तथैव भावात् कथं ऽहेतुभिरुत्पन्नःऽ इति कथयितुं शक्यते? अतो नास्त्यनैकान्तिकत्वमिति /
SK
भेदयोग्यत्वादुत्पत्तौ व्यापकत्वमित्यतो ऽसदुत्पद्यत इति चेद्? व्यवहारमात्रेणैवैतत् स्यात्, परमार्थतो ऽसत्त्वात् / एवमेव यदि सवभावतो ऽभाव एकप्रकृतिक एव, तदा पश्चादपि कथं स सत्स्वभावः स्यात्, सदसतोः परस्परविरुद्धात्वात् / यश्च परस्परपरिहारस्थितलक्षणो धर्मः स तद्विरुद्धधर्मिणि कथं नाम युक्तः स्यात्, यथा अमूर्तधार्मान्तर्भूतं तावदाकाशं कथं नाम मूर्तं स्यादिति / उत्पत्त्याख्यो हि प्रसिद्धः सत्स्वभावस्तावद् असत्स्वभावपरिहारस्थितलक्षणत्वात् कथं हि नाम परमार्थतो ऽभावेन सम्प्रयुक्तः स्यात् /
SK
एवं विचार्यमाणे यद्सत्, तस्य उत्पत्तिक्रियावत्यामुत्पतौ किमप्युपदेशनं नाम नास्ति / पृथक्सामर्थ्यवतः कस्यापि भावात्मकस्य हेतोरनन्तरं प्रादुर्भावस्य सम्प्रतिभासाभावात् तद्धेतोरसदुत्पद्यत इति लोके उत्पत्तिविशेषविषयिकायाः कल्पनायाः अभिधानस्य च व्यवहारः प्रवर्तते / व्यवहारमात्रेण तु वस्तुसत्त्वे बाधालेशो ऽपि नैव सम्भवति / असद्वस्तुनि सदाख्यधर्मस्य तावत् सत्तालेशो ऽप्यस्माभिर्नाभ्युपेयते / यदि तत् सत्, तदा नैव तदसत् / यो हि पश्चादपि उत्पत्तिस्वभावः, स तावदन्य एव / यश्चान्यः, स न तस्येत्यभिधातुं शक्यते / अतः ऽअसदुत्पद्यतेऽ इति यद्क्तं तदभावतो भावसिद्धिरिति नैव युज्यते / यतो ह्यत्र भावस्वभावपरीक्षाया एवावसरः / अतः क्रियानिरोधमात्रं वक्तुं नेष्टमिति /
SK
यद्येतद् वस्तु हेतोः सामीप्यात् पूर्वमुद्भूतं नास्ति, तदा तस्य कः स्वभाव इत्यभिधेयम् / यदि तदा किञ्चिदपि नास्ति तदा तत् कदाचिद् वस्तुत्वेनाभिधास्यत इतिचिन्ता नैव युज्यते / यदि नास्ति वस्तुनः किमपि भावात्मकमस्तित्वं तदा तस्य स्वभावो ऽसदेवेति सुस्पष्तमभिधास्यते / अन्यथा किमिति तस्यासत्त्वमित्युच्यते / एवं यो हि पूर्वमसन्, स पश्चाद्भावी कश्चन भावस्वभाव एव /
SK
सो ऽपि कथं नामापूर्वस्वभावातिरिक्तः प्रज्ञप्तुं शक्यते / पूर्वं नासीदित्यसदुत्पत्तेर्व्यवहारस्यापि हेतुप्रत्ययाभासाः कथं सम्यगित्यभिधातुं शक्याः? एवमभूतस्य भूतसिद्धिस्तावदसतः सत्सिद्धिरेव स्यात् / यतो हि यदि नास्त्यन्यस्तदा अभूतादन्यो भूतो नास्ति सत्समीपवर्त्त्यपि / असत्यप्यन्ये अभूतादन्यस्योत्पादाभिधानसम्बद्धमेव / फलतो ऽपूर्ववस्तूनां पपश्चात् सत्त्वाभिधनं तावत् तद्विरुद्धधर्मान्वितस्यैवाभ्युपगमः /
SK
विरुद्धधर्मान्वितः स्वभावो ऽपि तावदनुपपन्न एव / तथा सति सर्वस्य सर्वस्वभावताप्रसङ्गः / एकस्मिन् क्रमेण सत्त्वासत्त्वे अविरुद्धेइत्यभिधानमपि नैव युज्यते / तथा सति समकाले ऽप्यविरुद्धत्वप्रसङ्गः / यदि समकाले ते अविरुद्धे तदा क्रमेणापि कथं ते न तथा, अभिन्नत्वादिति /
SK
भिन्नधर्मिणि विरुद्धलक्षणस्याविरुद्धत्वे ऽपि एकस्मिन् धर्मिणि नैव क्रमेणापि तद् भवितुं शक्रोति / यथा युगपदनेकविरुद्धधर्मान्वितत्वाद् एकत्वहानिप्रसङ्गः, तथैव क्रमेणापि तदन्वितत्वात् तत्प्रवृत्तिरिति / अन्यथा परैरपि प्रधानादीनां क्रमशो महदादिगणे परिवर्तनम् अभिव्यक्तिम् वा उपकल्पयतां व्यक्ताव्यक्तादिधर्मविरोधः कथमभिधीयते / क्रमेण वस्तूनामुत्पादकेषु ईश्वरादिषु कथं नाम समर्थासमर्थादिविरोधोद्भावनं युज्यते / ये केचन पर्वतकायवज्रादीन् दृढस्वभावान् तेषां शीतोष्माद्यवस्थाभेदेन क्रमशो भेदं व्यवस्थापयन्ति, ते ऽपि तेषां क्षणिकत्वं सिसाधयिषवः कथं क्रमेण प्रादुर्भवत्सु तेषु शीतोष्मादिविरुद्धत्वमभिधातुं शक्नुवन्ति / यदि वस्तूनि तावद् अभूत्वा उत्पद्यन्ते, भूत्वा चाभावत्वेनावभासन्त इति विचारणाद् एकस्मिन् क्रमशः सदसत्त्वविरुद्धत्वेन व्यवस्थापयितुं शक्यत इति कथयन्तीति चेन्नेदं युज्यते / यतो हि ताम्रादिष्वेवं दाढर्यमार्दवशैत्यौष्ण्यादीनि क्रमेण दृश्यन्त एव / अतस्तत्रापि अविरुद्धत्वप्रसङ्गः स्यात् / अतस्तेन अदृढतया ये स्वभावत्वेन साधयन्ति, तन्नैवोपपद्यते /
परमार्थतो निःस्वभावत्वे ऽपि वस्तुनो यदि नियतदेशकालाद्यवभासो भवतीति कथं न शशशृङ्गादयो ऽप्यवभासन्त इति चेत्? भवद्बिरप्यस्योत्तरं दातव्यं स्यात्, यतो हि केशादिवन्मिथ्यावभासे ऽपि किमिति केशादीनामेव मिथ्यावभासः, न शशशृङ्गादीनाम् / यदि तिमिरादिहेतुप्रत्ययादीनां प्रतीनियतसामर्थ्येन तथा प्रतिनियतत्वमित्युच्येत तदा असद्वस्तुनि कथं नाम हेतुप्रत्ययादीनां प्रतिनियतसामर्थ्यमिति कथयितुं शक्यते / यदि तद्दर्शनेन तथा भवतीति चेत्? तदा तथैव अपरेष्वपि प्रतिनियतहेतुप्रत्ययत्वेन प्रतिनियतसामर्थ्ये ऽपि किमिति नैव तथा व्यवस्था स्वीक्रियते / इयन्मात्रेण वस्तुत्वे ऽपि नैव प्रसङ्गः, तथा सति तैमिरिकदृष्टकेशादीनामपि वस्तुत्वप्रसङ्गः स्यादिति पूर्वमेवावेदितम् /
SK
यद्येवं न स्यात्तदा तैमिरिकैरध्यालम्बितानां मिथ्याकेशांदीनां हेतुप्रत्यया अपि कथं नाम नियताः स्युः / तैमिरिककेशादीनां ज्ञानस्वभावेनापि सत्यत्वं नैव युज्यत इति पूर्वमेव निर्दिष्टम् /
SK
अपि च, यदि ज्ञानस्वभावः सत्यत्वेन सिद्धं स्यात्तदा केशादयो न ततो भिन्ना इति तेषामपि सत्यत्वेनावबोधः स्यात्, किन्तु तदसिद्धमिति पूर्वमेवाभिहितम् / केशादयस्तु मिथ्यात्वेन लोकेन प्रमाणेन च सिद्धा एव / अतो ज्ञानमपि केशादिमिथ्यास्वभावेनाभिन्नत्वात् तथैव मिथ्यामात्रमिति कथं केशादीनां तत्स्वभावत्वेन सत्यत्वं स्यादिति /
SK
यथा सर्वणि वस्तूनि परमार्थतो ऽनुत्पन्नानि तथैव संवृतावप्युत्पन्नानि भवितुं न शक्नुवन्ति, तथा हि - ये तावत् परमार्थतो ऽनुत्पन्नास्तेषां संवृतावपि नोत्पादः, यथा - शशशृङ्गादय इति ये ब्रुवन्ति तेषां मायादिभिरनैकान्तिकत्वम्, साध्यवैपरीत्ये सति हेतुरपि सन्दिग्धविपक्षव्यावृत्तिकः / न हि दृष्टमात्रेणेष्टसिद्धिः, प्रमेयादीनामुभयपक्षव्याप्तिसम्भवात् / अतः परमार्थतो ऽसतो यदि संवृतावप्यसत्त्वं तदा संवृतिसत्यस्यैव विनाशप्रसङ्गः, फलतः को ऽपि विपर्ययो न स्यादिति /
हेतुभेदस्त्रावत् [फलस्य] भेदको न भविष्यतीत्येवंविधस्य प्रसङ्गस्य को ह्यर्थः? यदि खण्डशो नोत्पादयतीत्यर्थस्तदा वस्तुस्वभावस्य निरंशत्वाद् अशंतश्चोत्पादस्यास्वीकृतत्वात् कथं नाम प्रसङ्गः स्यात्, तल्लक्षणस्यानुपपन्नात्वादिति /
SK
यदि विशेषको [भेदको] न भवतीत्येवमर्थो गृह्यते तदा असिद्धमेवैतत् / हेतुभिस्तावदनेकेभ्यो विजातीयफलेभ्यो विपरीतमेव जन्तय इत्यभिधानमपि नैव युक्तम्, यतो ह्येकस्य अंशत उत्पत्तेरसम्भवादिति प्रसङ्गो नैवोच्यते, परन्तु भवन्तो ये वस्तुषु परस्परं व्यतिरेकं विशेषं वा मन्वते, स विविधैर्हेतुभिरेव क्रियते / यदि विविधहेतूनङ्गीकृत्यापि फलमेकविधमेव स्वीकृयते तदा भ्रान्तिसद्भावाद् वस्तूनां तावद् भेदो विविधहेतुभिरकृत एव स्यादित्येवं प्रसङ्गो नूनमभिधानीयः स्यात् / यश्चानेकविजातीयनिवृत्तिलक्षणस्य फलविशेषस्याभिलापः, सो ऽप्यसम्बद्ध एव, यतो हि ये विशेषात्मकत्वेन विशेषफलमुत्पादयन्ति, ते यदि विजातीयनिवृत्त्यैव सजातीयलक्षणोत्पत्तितो ऽपि निवर्तन्ते, तदा तेभ्य उत्पद्यं सजातीयं फलं विजातीयं च नैव परस्परनिवृत्तं स्याद्, भित्रनिवृत्तिहेतोरभावात् /
SK
यदि हेतवस्ते निवृत्तिस्वभावत्वात् स्वयं सजातीयफलनां भेदका अपि भविष्यन्तीत्युच्यते, तदा तथैव ते सामान्यफले ऽपि कथं न भेदकाः? यतो हि तत्र सर्वे एकैका हेतवो भवन्ति / ये तावदेकोत्पादकस्वभावा एव ते ततो विपरीतं कमप्यन्यं नोत्पादयितुं शक्ताः, यतो हि ते उत्पादकस्वभावनिवृत्त्या अन्यार्थ इव भवन्ति, नान्ये उत्पादकस्वभावा इति / पुनस्ते परस्परनिवृत्तस्वभावाः किन्तु नैव ते उत्पादकस्वभावनिवृत्ताः / नान्यस्मिन् तदुत्पादकस्वभाव इति नैवं कथ्यते, किन्तु ये एकेनोत्पाद्यस्वभावास्ते नान्येनेति कथ्यते /
SK
अपि च, ते स्वस्वभावनैवोत्पादयन्ति, न त्वन्यस्वभावेन, अतदात्मकत्वात्, ते च यथास्वं भिन्ना अपि / स्वस्वभावेनोत्पादयन्तीत्यस्मिन् कथने को विरोधः? एकस्वभावस्याभावो नैव तस्य स्वभावो भवितुं शक्नोति, अकारकत्वात्तस्य /
SK
तेनैव तत्फलं निष्पादनीयमिति यदुक्तं तत्र का युक्तिरिति चेत् सांख्यैरेव तत्समाधानं विधेयमिति शोभनं प्रतिभाति / यतो हि ते खलु भिन्नभिन्नस्वभावं जगदिति प्रतिपादयन्ति / अतस्तेषां यत्तत्र ग्रहणं तन्निवृत्यर्थमेव आचार्येण भिन्नवस्तुनिर्देशकानां कृते व्यवहारवशादुक्तम् तानि [वस्तूनि] प्रतीत्यसमुत्पन्नतया नैव परमार्थत एकार्थानि नापि च भिन्नर्थानीति मन्वानां कृते नैव किमप्युक्तमिति / तेषां तावदनुसारं तु मायासदृशत्वात् सर्वेषु तेषु न किमप्येकं वस्तु भिन्नमभिन्नं वा सिध्यति /
यदि स सम्बन्धिभ्यो ऽर्थान्तर इति तदा स्वस्वभावव्यवस्थितत्वात् कथं नाम सम्बद्धस्वभावः स्यात् / यदि नास्त्यर्थान्तर इति तदा केवलं सम्बन्धिनावेव स्याताम् / अतः सम्बन्धस्तावत् कल्पनामात्रात्मक एव, न तु वस्त्वात्मक इति / यानि हि सम्बन्धोद्भूतानि लक्षणानि तान्यपि कल्पनात्मकान्येव, कार्यकारणेयोर्युगपत्सम्भवा भावात् / ये तावदसन्निहितास्तेषु न सम्भवति सम्बन्धः /
येन खलु कारणेन सत्त्वेषु गोत्रभेदानुमानस्य नियता सिद्धिः नियतश्च श्रद्धभेदाबोधः प्रतीयते, ते ऽप्यकल्याणमित्रसंसर्गेण अकारणमेव परदुःखमभिनन्दन्तो दृश्यन्ते / एवमेव ये ऽकारणमेव परदुःखमभिनन्दनार्थामालम्बन्ते, ते ऽपि कल्याणमित्रसम्पर्कादिना केवलं परहितचिन्तने प्रवर्तमाना अवलोक्यन्ते / ये कल्याणमित्रसम्पर्कादिना केवलं परहितचिन्तने प्रवर्तमाना अवलोक्यन्ते / ये खल्वल्पमात्रके स्वसुखे हिते चासज्यमानाः परेषु दौर्मनस्यं धारयन्ति, ते ऽपि परेषु दौर्मनस्यविपरीतत्वेनाप्यवलोक्यन्ते / ये तावत् भवसुखभिलाषेण पुण्यानि सम्पादयन्ति, ते ऽपि भवसुखेच्छविपरीत्त्वेन सम्यक्कार्याण्यनुतिष्ठमाना अपि दृश्यन्ते / इत्थं साधनानामनियतत्वावबोधात् श्रद्धाया अनैयत्यमनुमीयते / फलततस्तत्रानुमानेन गोत्रभेदस्याप्यनियतस्वभावो ऽवबुध्यते / अतो गोत्रभेदस्याप्यनियततया कथं तावद् यानत्रयनिश्चयः साधयितुं शक्यः /
SK
सत्त्वनां विवुइधाशयवशेनापि गोत्रभेदो निश्चेतुं न शक्यते / यानि तावत् पञ्चाभिसमयगोत्राणि तान्यपि एकनिश्चयाभिप्रायेणैव निर्दिष्टानि, न त्वात्यन्तिकताया / तस्मिन्नेव हि सूत्रे गोत्राण्यनात्यन्तिकतयैव निर्दिष्टानि / तथा हि -
SK
ऽसर्वकुशलमूलोत्सर्गेच्छन्तिको हि महामते, पुनरपि तथागताधिष्ठानात् कदाचित् कर्हिचित् कुशलमूलान् व्युत्थापयति / तत्कस्य हेतोः? यदुत अपरित्यक्ता हि महामते, तथागतानां सर्वसत्त्वाः᳚ इति /
आर्यलङ्कावतारसूत्रे चापि निर्दिष्टं यद् धातुत्रयातिक्रान्त अपि ते ऽनास्त्रवधातौ अवस्थिता भवन्ति / अतस्तथागताधिष्ठानेन जातिवशितां प्राप्य सम्भारद्वयं च परिपूर्य ते बुद्धत्वमवाप्नुवन्तीति / तथा हि -
᳚सर्वेषु लोकधातुषु सर्वबुद्धानां धर्मोपदेशस्तावदवैवर्तचक्रसमानतया समान इति / मर्त्यलोकधातुसत्त्वास्तु पञ्चकषायकाले समुत्पद्यमाना हीनाधिमुक्ता एव / अतस्ते एकयानोद्देश्यं नैव परिपालयन्ति, न च तस्मिन्नधिमुच्यन्ते / अतो ऽनया युक्त्या ते सत्त्वा बुद्धत्वं प्रत्यभिमुखीक्रियन्त इति /᳚
SK
आस्त्रवाणां क्षयादर्हन्तो यदि न प्रतिसन्दधते, अतो ऽनेकजन्मपरमपरासाध्यं बुद्धत्वं न प्रतिलभन्त इति तदा बोधिपरिणामितानामप्यर्हतां न प्रतिसन्धिर्न च तेषु बुद्धात्वाधिगम इति / यदि प्रणिधानबलेन तथागताधिष्ठानेन च तेषां प्रतिसन्धिरभ्युपगम्यते, तदा कथं नापरेष्वपि तथा? यथोक्तमार्यप्रज्ञापारमितायाम् -
SK
᳚अपि च, यदि ते ऽनुत्तरसम्यक्संबोधौ चित्तमुत्पादयन्ति, तदा अनुमोदयिष्यामि, नाहं तेषां कुशलमूलनां विघ्नं करिष्यामि / शुद्धधर्मविशेषैः शुद्धधर्मविशेषाध्युपालम्भः करणीय इति /᳚
SK
यदि ते सर्वेण सर्वमनुत्तरसम्यक्संबोधेये अभव्या इति तदा कथं नाहं तेषां कुशलमूलानां विघ्नं न करिष्यामीत्युक्तम् / अत्यन्ताभावेषु नैव विध्नसम्भवः / अवस्थाविशेषाभिप्रायेणैव शान्तस्यैकायनस्य कथनं नियतम्, न तु सर्वदैव नियताभिप्रायेणेति ज्ञेयम् / आर्यसद्धर्मपुण्डरीकसूत्रे ऽयुक्तम् -