1 SK श्रीतत्त्वचिन्तामणिः प्रथमः प्रकाशः (मङ्गलाचरणम्, ब्रह्मस्वरूपम्, तत्त्वज्ञानप्रतिबन्धकारणानि शब्दब्रह्मस्वरूपम्, तत्त्वज्ञानस्वरूपञ्च) (मङ्गलाचरणम्) ॐ नमः परमदेवतायै | ॐ नमः परायै | दशशतदलपद्मप्रोल्लसत्पूर्णचन्द्रे हिमरुचिरुचिराङ्गो हंसपीठान्तरस्थः | अभयवरकराब्जो योगपूर्णो द्विनेत्रः कुलकमलविलासी पातु मां देवदेवः || १ || ---------------------------------------------- १| अथ तत्रभवान् पूर्णानन्दपरमहंसः श्रीविद्योपासनारहस्यप्रतिपादकं श्रीतत्त्वचिन्तामणिं चिन्तामणिमिव साधकानां प्रणिनीषुर्ग्रन्थसमाप्तिप्रतिबन्धकी- भूताशेषविघ्ननिवारणाय मङ्गलमाचरति | तत्र च � सच्चिदानन्दविभवात् सकलात् परमेश्वरात् | आसीच्छक्तिस्ततो नादो नादाद् बिन्दुसमुद्भवः || (१|७) इत्यादिशारदातिलकप्रथमपटलवचनेन, शिवशक्तिसमायोगादव्यक्तात् परमेश्वरात् | आद्या भगवती देवी सैव त्रिपुरसुन्दरी | आसीच्छक्तिस्ततो नादो नादाद् बिन्दुसमुद्भवः || इति षट्चक्रटीकाधृतपाञ्चरात्रवचनेन च ग्रन्थप्रतिपाद्यायास्त्रिपुरसुन्दरीशक्तेर्बीजरूपतया निरूपितं श्रीगुरुस्वरूपं परमशिवमादौ प्रार्थयते � दशेति | दशशतदलं सहस्रारं यत् पद्मं शिरसि स्थितं तस्मिन् प्रोल्लसन् देदीप्यमानः स्फुरज्ज्योत्स्नाजाल इत्यर्थः, यः पूर्णचन्द्रः तस्मिन् स्थित इत्यर्थः | तथाहंसपीठान्तरस्थः हंस-वर्णद्वयरूपपीठाभ्यन्तरवर्त्ती | तदुक्तं महाकालीतन्त्रे प्रथमपटले � सहस्रारान्तरे शून्ये दिव्यतोरणशोभिते | चन्द्रमण्डलमध्ये तु हंसवर्णद्वयोपरि | शुद्धस्फटिकसङ्काशं शुद्धक्षौमविराजितम् || इति | अत्र सहस्रारकमलकर्णिकान्तरालस्थ स ह ख फ्रें ह स क्ष म ल व र युम् इति गुरुमन्त्रात्मक-द्वादशवर्णविशिष्ट-द्वादशदलपद्मे परमशिवस्य स्थितिरिति मतान्तरम् | तदुक्तं पादुकापञ्चकटीकायाम् �
2 SK शिरःपद्मे सहस्रारे शुक्लवर्णे त्वधोमुखे | तरुणारुणकिञ्जल्के सर्ववर्णविभूषिते | कर्णिकान्तःपुटे तत्र द्वादशार्णसरोरुहे || इति | तथा सहस्रारं प्रकृत्यैव � कर्णिकान्तःपुटे तत्र द्वादशार्णसरोरुहे | तेजोमये कर्णिकान्तश्चन्द्रमण्डलमध्यगे || अकथादित्रिरेखीये ह ल क्ष त्रयभूषिते | हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणम् || इति | पादुकापञ्चकस्तोत्रेऽपि � ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् | कुण्डलीविवरकाण्डमण्डितं द्वादशार्णसरसीरुहं भजे || इत्यादिभिस्तद् विशेषेण प्रतिपादितम् | नैतत् पूर्णानन्दसम्मतमिति षष्ठप्रकाशे षट्चक्रविवरणे व्यक्तीकरिष्यामः | एतेन सहस्रारशिरःपद्मकर्णिकान्तरालस्थचन्द्रमण्डलाभ्यन्तरीण-हंसपीठे परमशिवस्य स्थितिरुक्तेति सुव्यक्तम् | हंसस्य पीठत्वञ्च � हंसपीठे मन्त्रमये स्वगुरुं शिवरूपिणम् | अमुकानन्दनाथान्तं स्मरेत्तन्नामपूर्वकम् || इति प्रपञ्चसारवचनेनोपपादितमेव | अथ कोऽयं हंसो नाम ? उच्यते � हंकारो बिन्दुरित्युक्तो विसर्गः स इति स्मृतः | बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृतः | पुंप्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् || इति प्रपञ्चसारवचनेन हं इति पदेन पुरुषः, सः इति पदेन च प्रकृतिर्लभ्यते, ततश्च हंस इति पदेन पुंप्रकृत्यात्मकोऽन्तरात्मेत्यवगम्यते | सहस्रदलमध्यस्थमन्तरात्मानमुत्तमम् | इत्यादिकङ्कालमालिनीतन्त्रवचनेन पुंप्रकृत्यात्मकान्तरात्मनोऽन्तः परमशिवस्य स्थितिरभिहिता | ततश्च हंसोऽन्तरात्मा स एव पीठः तस्यान्तः अभ्यन्तरे तिष्ठतीति हंसपीठान्तरस्थो देवदेव इत्यस्य विशेषणम् | हिमरुचिरुचिराङ्ग इति � हिमरुचिश्चन्द्रः तद्वद् रुचिरमङ्गं यस्य सः | महानिर्वाणतन्त्रे प्रथमपटले � सदासिवं सदानन्दं करुणामृतसागरम् | कर्पूरकुन्दधवलं शुद्धसत्त्वमयं विभुम् || (१|६)
3 SK इत्यादिना तस्य शुभ्रवर्णतायाः प्रतिपादनात् | तस्यैव च श्रीगुरुस्वरूपत्वसूचनाय अभयवरकराब्जः, योगपूर्णः, द्विनेत्र इति विशेषणत्रयम् | तथाहि � गन्धानुलेपनं शान्तं वराभयकराम्बुजम् | स्ववामस्थितया शक्त्या धृतचारुकलेवरम् | पूर्णानन्तरसोल्लासं लोचनद्वयपङ्कजम् || इति पूजाक्रमेऽभिहितेन � प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् | इति प्रातःकृत्योक्तेन च ध्यानेन तस्य वराभयकरत्वं योगपूर्णत्वं द्विनेत्रत्वञ्च प्रतिपादितानि | तत एव कुलार्णवे त्रयोदशोल्लासे � यः शिवः सर्वगः सूक्ष्मश्चोन्मना निष्कलोऽव्ययः | व्योमाकारो ह्यजोऽनन्तः स कथं पूज्यते प्रिये || (१३|५१) इति प्रश्नमुद्भाव्य तत्रैव � अत एव शिवः साक्षाद् गुरुरूपं समाश्रितः | भक्त्या संपूजितो देवि भुक्तिं मुक्तिं प्रयच्छति || शिवोऽहं नाकृतिर्देवि नरदृग्गोचरो न हि | तस्माच्छ्रीगुरुरूपेण शिष्यान् रक्षति धार्मिकान् || मनुष्यचर्मणा नद्धः साक्षात् परशिवः स्वयम् | सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ || (१३|१३-५२-५४) इत्यादिना परमशिव एव सच्छिष्याणां त्राणार्थं श्रीगुरुरूपमास्थाय धरायां गूढं विहरतीति प्रतिपाद्य, तत्रैव � सदाशिवस्य देवस्य श्रीगुरोरपि पार्वति | उभयोरन्तरं नास्ति यः करोति स पातकी || (१३|६१) इत्यादिना परमशिवस्यैव श्रीगुरुत्वमुपदिष्टम् | अस्यैवार्थस्य प्रतिपादनाय श्रीमत्पूर्णानन्दपरमहंसेन अभयवरकराब्ज इत्यादि विशेषणत्रयमुपात्तमिति निष्कर्षः | कुलकमलविलासीति | कुलशब्दार्थमाह महानिर्वाणतन्त्रे सप्तमोल्लासे � जीवः प्रकृतितत्वञ्च दिक्कालाकाशमेव च | क्षित्यप्तेजोवायवश्च कुलमित्यभिधीयते || इति (७|९७) ततः कुलाचारमप्याह तत्रैव � ब्रह्मबुद्ध्या निर्विकल्पमेतेष्वाचरणञ्च यत् | कुलाचारः स एवाद्ये धर्मकामार्थमोक्षदः || इति (७|९८)
4 SK ततश्च वचनाभ्यामाभ्यां जीवादिवाय्वन्तेषु पदार्थेषु जीवत्व-प्रकृतित्व-दिक्त्वादि- प्रकारकज्ञानपरिहारपुरःसर-ब्रह्मत्वप्रकारकज्ञानसहकृताचारविशेष एव कुलाचारः, स च धर्मार्थकाममोक्षरुपं पुरुषार्थचतुष्टयं निर्वर्तयतीत्युक्तं भवति | ततश्च � कुलं जीवादि वाय्वन्ततत्वजातमेव कमलं तत्र विलसति स्वभावेन परमार्थसत्तया क्रीडतीति कुलकमलविलासीत्यस्यार्थः | एतेनास्य पुरुषार्थचतुष्टयसाधकत्वं वर्तत इति ततः प्रार्थना समुचितैवेति सूचितम् | अत्र कुले कमलत्वारोपेण यथा सूर्यः स्वप्रभासम्पर्केण कमलानां विकाशस्वरूपतामुद्भावयति, तथा परमेश्वरोऽपि कुलशब्दप्रतिपाद्येषु जीवादिवाय्वन्तेषु ब्रह्मबुद्धिमुत्पादयतीति सूचितम् | अत एव � नराकृतिपरब्रह्मरूपायाज्ञानहारिणे | कुलधर्मप्रकाशाय तस्मै श्रीगुरवे नमः || (५|३२) इति महानिर्वाणपञ्चमोल्लासवचनेन कुलाचारप्रकाशकत्वमभिहितम् | अथवा कुलपथस्थानि कमलानि कुलकमलानि तेषु विलसतीति कुलकमलविलासी | तदुक्तं षट्चक्रविवृतौ विश्वनाथेन � तत्रैतद्दक्षिणं षट्कमाज्ञापूर्वं कुलोद्भवम् | इति | ननु नमस्योऽयमीश्वरः सकलो वा निष्कलो वेत्याशङ्कायामाह � देवदेव इति | अज्ञानां ज्ञाननेत्रं निविडनव जवारागसन्तानहासि ज्योत्स्नाजालैर्नखानां कुलकमल � वनीकान्तकान्तिप्रकाशम् | गङ्गाकाश्यादितीर्थो-ल्लसदमल-महापुण्य � पुञ्जप्रवाहं वन्दे दीक्षागुरूणां चरणसरसिजद्वन्द्वमानन्दकन्दम् || २ || ---------------------------------------------- दीव्यन्ति मायामाश्रित्य प्रपञ्चरूपेण क्रीडन्ति इति देवा हरिहरब्रह्मादयः, तेषां देवः स्वरूपशक्त्या प्रवृत्तिनिवृत्तिरूपक्रियासम्पादकः परमशिव इत्यर्थः | तदुक्तं शारदायां प्रथमपटले � निर्गुणः सगुणश्चेति शिवो ज्ञेयः सनातनः | निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृतः || इति | (१|६)
5 SK २| पूर्वश्लोकेन सहस्रारविलासिनः परशिवस्यैव गुरुत्वमुपपाद्य दीक्षागुरोस्तदभेदेन तं नमस्कुरुते � अज्ञानामित्यादि | ज्ञाननेत्रमित्यादिद्वितीयान्तपदानि चरणसरसिजद्वन्द्वमित्यस्य विशेषणानि | अज्ञानां सच्चिदानन्दस्वरूपब्रह्मज्ञानरहितानां ज्ञाननेत्रम् | यथा लोको नेत्रेण सर्वानपि लौकिकान् पदार्थानवलोकयति, तथा साधकोऽपि श्रीगुरुचरणद्वन्द्वप्रसादपरम्परालब्धदीक्षाप्रभावेणैव ब्रह्मदर्शी भवति | अत एव � अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || इत्यनेन गुरोरेव ज्ञानचक्षुरुन्मीलकत्वमुक्तम् | रुद्रयामलोत्तरखण्डे प्रथमपटलेऽभिहितेन � गुरोः प्रसादमात्रेण शक्तितोषो महान् भवेत् | शक्तिसन्तोषमात्रेण मोक्षमाप्नोति साधकः || (१|२२४) गुरुमूलं जगत् सर्वं गुरुमूलं परन्तपः | गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी || (१|२२५) इत्यादिवचनेनापि श्रीगुरुप्रसादस्यैव मोक्षदातृत्वमुक्तम् | निविडनवजवारागसन्तानहासि � निविडः सान्द्रो यो नवजवारागः सद्यःप्रस्फुटितजवाकुसुमरक्तिमा तस्य सन्तानो विस्तारस्तद्वद् हासः प्रकाशः अस्यास्तीति, सद्यो विकसितजवाकुसुमारुणमित्यर्थः | तथा नखानां ज्योत्स्नाजालैः प्रभापटलैः कुलकमलवनीकान्तकान्तिप्रकाशम् | कुलशब्दार्थः प्रथमश्लोके प्रदर्शितः | कुलं जीवादितत्त्व � अज्ञानौघमहान्धकारपटलध्वंसप्रचण्डद्युति- र्ब्रह्मानन्दपरम्परैकनिलयः पूर्णेन्दुकोटिप्रभः | पाणिभ्यामभयं वरञ्च जगतामुच्चैस्तरामादिशन् मूर्ध्नि श्वेतसरोरुहासनसमासीनः शिवः पातु नः || ३ || ------------------------------------------------------------------ जातमेव कमलवनी तत्र कान्ता कमनीया या कान्तिर्ब्रह्मस्फूर्तिरूपा तां प्रकाशयतीति तथाभूतम् | चरणनखमयुखमालया जीवादिवाय्वन्तकुलपदार्थेषु स्थितां वृत्तिज्ञानागोचरीभूतां ब्रह्मसत्तां श्रीगुरुरेव प्रकाशयति | तदुक्तं महानिर्वाणतन्त्रे सप्तमोल्लासे �
6 SK सद्गुरोः सेवया प्राप्य विद्यामेनां परात् पराम् | कुलाचाररता भूत्वा पञ्चतत्वैः कुलेश्वरीम् || इत्यादि | (७|१०१) गङ्गेत्यादि | गङ्गाकाश्यादितीर्थेषु उल्लसन् यः पुण्यपुञ्जस्तत्सदृशं पुण्यपुञ्जं प्रवाहयतीति, तथाभूतम् | गङ्गादितीर्थेषु स्नानादिना यादृशः पुण्यराशिरुत्पद्यते, श्रीगुरुचरणवन्दनादिनापि तादृश एवेत्यर्थः | तदुक्तं प्राणतोषणीधृतगुरुतन्त्रे � गङ्गाद्याः सरितः सर्वा गन्धर्वाः सर्पजातयः | स्थावरा जङ्गमाश्चान्ये पर्वताः सार्वभौतिकाः | एते चान्ये च तिष्ठन्ति नित्यं गुरुकलेवरे || इति | तथा विश्वसारतन्त्रीयगुरुगीतायाम् � काशीक्षेत्रं निवासोऽस्य जाह्नवी चरणोदकम् | इति | विशेषस्तु कुलार्णवे द्वादशोल्लासे � कोटिमन्त्रजपाद्देवि कोटितीर्थावगाहनात् | कोटिदेवार्चनाद्देवि परा श्रीपादुकास्मृतिः || (१२|५) इत्यादिभिरभिहितः | आनन्दकन्दम्, - आनन्दं ब्रह्मणो रूपम् इति श्रुतेरानन्दस्य परब्रह्मणः कन्दं तत्वज्ञानमूलभूतमित्यर्थः | तदुक्तं कुलार्णवे द्वादशोलासे � मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा | इति | (१२|१३) तथा � गुरोः प्रसादमूलोऽयं परतत्वमहाक्रमः | इति च | (१२|१७) दीक्षागुरूणां चरणसरसिजद्वन्द्वं वन्दे इत्यर्थः | ३| पूर्वश्लोकेन दीक्षागुरुं प्रणम्य तदीयकरुणालब्धोपासनक्रमाणामेव साधकानां ब्रह्मोपासनसम्भवात् तत्रापि दुर्बलाधिकारिणां दशशतदलपद्मप्रोल्लसत्पूर्णचन्द्र इत्यादि- प्रथमश्लोकप्रतिपादितस्य परमशिवस्योपासनायाः सर्वथा दुःसाध्यत्वात् सविशेषब्रह्मोपासनमभिदधानः � आदौ शिवं पूजयित्वा शक्तिपूजा ततः परम् | यत्किञ्चिदुपचारं हि तस्यः किञ्चिन्निवेदयेत् || (५|४०) अन्यथा मुत्रवत् सर्वं गङ्गातोयं भवेद् यदि | तथा- अन्यदेवं पूजयित्वा शिवं पश्चाद् यजेद् यदि | तस्य पूजाफलञ्चैव भुज्यते यक्षराक्षसैः || (५|४५)
7 SK इत्यादितोडलतन्त्रपञ्चमोल्लासवचनेन शिवोपासनाया एव प्रथमकर्तव्यत्वश्रवणाच्छिवमेवादौ प्रसादयति-अज्ञानेति | अज्ञानौघ एव महान्धकारपटलः निर्विशेषब्रह्मस्वरूपाच्छादकत्वाद् गाढान्धकारराशिस्वरूपः, तस्य ध्वंसे विनाशे प्रचण्डद्युतिः मार्तण्डस्वरूपः | यथा सूर्यो गाढान्धकारनिकरं दूरीकृत्य लौकिकं तत्त्वजातं जनानां ज्ञानगोचरतां नयति, तथा शिवोऽप्यविद्यावरणमपाकृत्य ब्रह्मस्वरूपतामात्मनः साधकानां पुरतः प्रकाशयतीत्यर्थः | ब्रह्मानन्दपरम्परैकनिलयः निरवच्छिन्नब्रहानन्दस्य आश्रयस्वरूपः | अत एव गन्धर्वतन्त्रे प्रथमपटले � स्मितपूर्वो महादेवः पूर्णानन्दमयो विभुः | इत्यनेन शिवस्य पूर्णानन्दस्वरूपत्वमुपपादितम् | पूर्णेन्दुकोटिप्रभः � कोटिपूर्णचन्द्रप्रभासदृशप्रभाविशिष्टः | पाणिभ्यां जगताम् अभयं वरञ्च उच्चैस्तराम् आदिशन् प्रचुरतरं हितं विदधान इत्यर्थः | मूर्ध्नि श्वेतसरोरुहासनसमासीनः � शिरःस्थसहस्रारकमलासनस्थित इत्यर्थः | सकलशिवस्यापिसहस्रारमेव स्थानम् | तदुक्तं षट्चक्रटीकाधृतगन्धर्वमालिकातन्त्रे � सहस्रारं शिवपुरं रम्यं दुःखविवर्जितम् | इति अत्रेदं रहस्यम्, - आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादिश्रुत्या � भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः | क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे || (९|२४) परे ब्रह्मणि विज्ञाते समस्तैर्नियमैरलम् | तालवृन्तेन किं कार्यं लब्धे मलयमारुते || (९|२८) इत्यादिकुलार्णव-नवमोल्लासवचनेन, निराकारं समासाद्य निरञ्जनपदं लभेत् | निराकारेण देवेशि कृतकृत्यश्च साधकः || इति कुब्जिकातन्त्रनवमपटलवचनेन, यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् | यज्ज्ञानान्नापरं ज्ञानं तद् ब्रह्मेत्यवधारय || यद्दृश्यान्नापरं दृश्यं यद्दृष्ट्वा न पुनर्भवः | तिर्यगूर्द्धमधःपूर्णं सच्चिदानन्दमव्ययम् | अनन्तं नित्यमेकं यत्तद् ब्रह्मेत्यवधारय ||
8 SK इति गन्धर्वतन्त्रप्रथमपटलवचनेन च परब्रह्मज्ञानं तत एव साधकानां कृतकृत्यत्वञ्चाभिहितम्, परं दुर्बलाधिकारिणां जीवानां सर्वथा तदसम्भवात् सगुणब्रह्मोपासनतः क्रमेण निर्गुणब्रह्मावाप्तिर्भवति | अत एव कुलार्णवे त्रयोदशोल्लासे � यः शिवः सर्वगः सूक्ष्म᳚चोन्मना निष्कलोऽव्ययः | व्योमाकारो ह्यजोऽनन्तः स कथं पूज्यते प्रिये || ५१ || इति शिवस्य प्रश्न उपपद्यते | अत्र साधु मीमांसितं वेदान्तपरिभाषायाम् � निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः | ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः || वशीकृते मनस्येषां सगुणब्रह्मशीलनात् | तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् || इति | अस्यैवार्थस्य प्रतिपादनाय कुब्जिकातन्त्रे नवमपटले � साकारेण महेशानि निराकारञ्च भावयेत् | साकारेण विना देवि निराकारं न पश्यति || इति | हरतत्वदीधितिधृतागस्त्यसंहितायामपि � सर्वेश्वरः सर्वमयः सर्वभूतहिते रतः | सर्वेषामुपकाराय साकारोऽभून्निराकृतिः || इत्यभिहितम् | तदेतत्पूर्वपूर्ववचनसंवादेन परमशिवः स्थूलाधिकारिणां स्वरूपग्रहणेऽसमर्थानां परमपुरुषार्थसम्पत्तये शिवशक्त्यादितत्तद्रूपेणाविर्भूय ध्यानादिगम्यतामाश्रयन् साधकाननुगृह्णातीति सर्वमवदातम् | यस्याम्भोधरकान्तिसुन्दरतरे वक्षःस्थले निर्मले भास्वत्कौस्तुभनामकेन मिलिता संशुद्धमुक्तावली | कालिन्दीसलिलैकपङ्कजलसद्गङ्गाम्बुधारोपमां शोभामातनुते स मे वितनुतां दामोदरो मङ्गलम् || ४ || भक्त्याऽनम्रविरिञ्चिमौलिविलसन्मन्दारमालावली- निर्यातैर्मकरन्दबिन्दुविसरैः स्नाताङ्घ्रिपीठान्तिका | ध्यानैरेव निषेविता गुरुतरैरिन्द्रादिवृन्दारकैः शम्भोरम्बुजलोचना भगवती देवी शिवायास्तु नः || ५ ||
9 SK --------------------------------------------------------------- ४| पूर्वश्लोकेन शिवं प्रसाद्य विष्णुरूपेणाविर्भूतं परमशिवं प्रसादयति � यस्येति | अम्भोधरकान्तिसुन्दरतरे-अत्राम्भोधरपदेन मेघस्यातिशयकृष्णवर्णत्वं सूचितम्, जलापगमे मेघस्य शुभ्रत्वान्न तेन सह दामोदरस्योपमा सम्भवति | जलमयमेघस्य या कान्तिस्ततोऽपि मनोज्ञतरकान्तिशालिनि यस्य दामोदरस्य निर्मले वक्षःस्थले विलसन्ती संशुद्धमुक्तावली संशुद्धा मालिन्यादिदोषशून्या स्वच्छा इत्यर्थः | मुक्तावली मुक्तामाला भास्वत्कौस्तुभनामकेन भास्वत् दीप्तिमत् यत् कौस्तुभं तन्नामकरत्नं तेन मिलिता सङ्गता सती, कालिन्दीसलिलैकपङ्कजलसद्गङ्गाम्बुधारोपमाम् � कालिन्द्याः यमुनायाः सलिले उत्फुल्लमिति शेषः, यदेकं पङ्कजं तत्र लसन्ती शोभमाना या गङ्गाम्बुधारा तया उपमा सादृश्यं यस्याः तथाभूतां शोभामातनुते, स दामोदरो मङ्गलं वितनुताम् | अत्र दामोदरस्य कृष्णवर्णत्वाद् यमुनाजलसादृश्यम्, कौस्तुभरत्नस्य शुभ्रत्वात् पङ्कजसादृश्यम्, मुक्तावल्याः शुभ्रत्वाल्लम्बमानत्वाच्च गङ्गाम्बुधारासादृश्यमित्यवधेयम् | तथाच-यः परमार्थतो नीरूपोऽपि साधकजनगणानुग्रहार्थमीदृशं किञ्चन कमनीयं रूपं धत्ते, यश्चापरिच्छिन्नोऽपि मातुरभीप्सितपूरणार्थमतिदुःसहं दामबन्धनमप्यङ्गीचकार, साधकजनमनोविनोदनसमुल्लसत्करुणः स भगवान् प्रार्थनया प्रसादितो नूनं मङ्गलं विदध्यादित्यभिप्रायेण वितनुतां दामोदरो मङ्गलमित्युक्तम् | ५| एवं भगवन्तं शिवं दामोदरञ्च प्रसाद्य ग्रन्थप्रतिपाद्यां परमशिवस्य स्वरूपशक्तिरूपाम् अरूपामपि साधकजनेष्वनुग्रहबुद्ध्या रूपधारिणीं श्रीमत्त्रिपुरसुन्दरीं प्रसादयति � भक्त्याऽन्म्रेति | भक्त्या श्रीमत्त्रिपुरसुन्दर्यां जगदम्बिकायामनुरागविशेषेण आनम्रो यो
10 SK विरिञ्चिर्ब्रह्मा तस्य मौलौ विलसन्ती या मन्दारमालावली तस्या निर्यातैर्निष्ठ्यूतैः मकरन्दबिन्दूनां विसरैः समूहैः स्नातम् अङ्घ्रिपीठान्तिकं पादपीठसमीपं यस्याः सा | तदुक्तं गन्धर्वतन्त्रे एकादशपटले � ब्रह्मविष्णुशिरोरत्ननिघृष्टचरणाम्बुजाम् | इति | अनेनास्या ब्रह्मादिभिराराध्यत्वमभिहितम् | इन्द्रादीनान्त्वस्याः साधनप्रकारो नैतादृश इत्याह � गुरुतरैः आधिपत्यरूपगुरुत्वविशिष्टैः इन्द्रादिवृन्दारकैस्तु ध्यानैस्तत्स्वरूपचिन्तनैरेवोपासिता | स्वर्गाद्यधीश्वरा इन्द्रादिलोकपाला अपि यस्याः स्वरूपमवलोकयितुमप्रभविष्णवो यत्स्वरूपावलोकनलालसया ध्यानयोगमाश्रित्य यां सेवन्ते सा अम्बुजलोचना भगवती षडैश्वर्यशालिनी शम्भोः परमशिवस्य देवी प्रकाशस्वरूपा श्रीमत्त्रिपुरसुन्दरी नः अस्माकं साधकानां शिवायास्तु | अत्रेदं रहस्यम् � शम्भोर्देवीत्यनेन परशक्त्याः सृष्ट्यादिकर्तृत्वं तस्य च शम्भुसम्बन्धनिर्बाह्यत्वमिति सूच्यते | अत एव कामकलाविलासे � स्फुटशिवशक्तिसमागमबीजाङ्कुररूपिणी परा शक्तिः इत्युक्तम् | तट्टीकायामप्यन्यत्र � न शिवेन विना देवी न देव्या च विना शिवः | उभयोरन्तरं नास्ति चन्द्रचन्द्रिकयोरिव || इत्यभिहितम् | तन्त्रनये प्रकाशसत्ता विमर्शसत्ता चेति द्विविधा सत्ताङ्गीकृता | तत्र स � परशक्तिकपरब्रह्मसत्ता प्रकाशसत्ता, शिवादिक्षित्यन्त-षट्त्रिंशत्तत्त्वरूपप्रपञ्चसत्ता तु विमर्शसत्ता | तत्र च स-परशक्तिकपरशिवः प्रकाशस्वरूपः स्वलीलया विमर्शात्मकमखिलं प्रपञ्चजातं सूक्ष्मतया स्वस्मिन्नवस्थितं प्रकाशयति संहरति च | तत्र च परशक्त्या एव क्रियाशक्त्यधिष्ठानतया सृष्ट्यादिकर्तृत्वम्, तच्च परशिवस्य ज्ञानशक्त्यधिष्ठानतया निर्वर्त्तते | ततश्च परशिवसम्बन्धाभावे परशक्तेरपि कर्तृत्वं नोपपद्यत इति सूचनाय शम्भोर्देवीति ग्रन्थकृद्भिरभिहितम् | चितिरूपा महामाया परंब्रह्मस्वरूपिणी | सेवकानुग्रहार्थाय नानारूपं दधार सा || इति हरतत्वदीधितिधृतदेव्यागमवचनेन,
11 SK सा एव पञ्चमी शक्तिः परंब्रह्मस्वरूपिणी | परमानन्दरूपं यज्जगतां कारणं महत् || तस्या देव्यास्तु तद्रूपमुदयास्तविवर्जितम् | स्थूलत्वे स्थूलरूपा सा सूक्ष्मत्वे सूक्ष्मरूपिणी | हृदयकमलमध्ये प्रोल्लसत्कर्णिकान्तः- प्रमुदितशिवशय्यासंस्थिता कापि मूर्तिः | सुरवरहरमौलिस्मेरमुक्ताप्रधान- प्रविलसितपदाब्जा पातु मां मोहकूपात् || ६ || ------------------------------------------------------------------------- योषौ विश्वेश्वरो देवो विश्वं व्याप्यव्यवस्थितः | सैव विश्वेश्वरी देवी व्यापकत्वेन संस्थिता || इत्यादिगन्धर्वतन्त्रतृतीयपटलवचनेन च शिवशक्त्योरभेदं साधकानामनुग्रहार्थं नानारूपपरिग्रहञ्चोपपाद्य, तस्याः पुनः पुनः सृष्टिर्जायते लीयते सदा | तस्माच्छक्तिः प्रधाना च शक्त्या व्याप्तमिदं जगत् || इति गन्धर्वतन्त्रतृतीयपटलवचनेन महेश्वरः शक्त्या एव सृष्ट्यादिकर्तृत्वमभ्यधात् | एवञ्च या ब्रह्मादिभिरिन्द्रादिभिश्चाराधिता रूपविशेषं परिगृह्य साधकाननुगृह्य तेषां भोगं मोक्षञ्च निर्वर्तयति सा प्रार्थिता नूनमस्माकं मङ्गलं विदध्यादित्यभिप्रायः | ६| एवं देवीं प्रसाद्य शास्त्रस्यास्योपासनापरतया तदुपासनानुकूलां मूर्तिं तदुपासनयोग्यस्थानञ्च निरूपयन् ग्रन्थकृत्, निर्वाणतन्त्रे सप्तमपटले द्वादशारमनाहतपद्ममुपक्रम्याभिहितेन � महर्लोकमिदं भद्रे पूजास्थानं सुरेश्वरि | अत्रैव मानसं यागं कुरुते योगवित्तमः || इति वचनेन हृत्पद्मस्यैव मानसयागस्थानत्वाभिधानादाह � हृदयेति | हृदयकमलमध्ये प्रोल्लसन्ती या कर्णिका तस्या अन्तः अभ्यन्तरे स्थिता या प्रमुदितशिवशय्या देवीचरणस्पर्शसुखानन्दितशिवरूपशय्या तत्र संस्थिता | अथवा प्रोल्लसन्तीति मूर्तिविशेषणम् | अत्र यद्यपि हृत्पद्ममध्ये बीजकोषः, ततः षटकोणमण्डलम्, ततो वायुमण्डलं महर्लोकापरपर्यायम्, इत्येवं क्रमस्तथापि सामान्यतोऽभिहितमित्यवधेयम् |
12 SK सुरवरहरमौलिस्मेरमुक्ताप्रधानप्रविलसितपदाब्जा � मुक्ताप्रधाने प्रविलसिते च पदाब्जे यस्याः सा, मुक्तामणिप्रवालैश्च पादपद्मविभूषिताम् इति वक्ष्यमाणध्यानैकदेशेन यन्मुक्ताविभूषितत्वमुक्तम्, तत्र मुक्ताशब्दस्य प्रथममभिधानान्मुक्तामणिप्रवालानां पादभूषणत्व साम्येऽपि मुक्तानामेव प्राधान्यमित्येवाह � मुक्ताप्रधानेति पदेन | स्मेरा न पीतं नापीतं नहि परिमितं नापरिमितं न रक्तं नारक्तं नहि धवलितं नाधवलितम् | निराकारं नित्यं त्रिगुणरहितं देवमजडं तमात्मानं वन्दे परमसुखसन्ताननिलयम् || ७ || ---------------------------------------------------- चासौ मुक्ताप्रधानप्रविलसितपदाब्जा चेति कर्मधारयः | वक्ष्यमाणत्रिपुरसुन्दरीध्याने ईषत्सहास्यवदनजितमाधुर्यसागराम् इत्युक्त्या, स्मेरेति देवीविशेषणम् | ततश्च सुरवरहरमौलिस्थिता चासौ स्मेरमुक्ताप्रधानप्रविलसितपदाब्जा चेति मध्यपदलोपी कर्मधारयः | ईदृशी कापि अनिर्वाच्यस्वरूपा मूर्तिर्मां मोहकूपात् पातु | ततोऽपगतमोहोऽहं ग्रन्थनिर्माणं निर्विघ्नं निर्वर्तयेयमिति ग्रन्थकृतोऽभिप्रायः | ७| अथेदानीं प्रागुक्तदेवतोपासनाविशेषेण निर्मलमनसां मुमुक्षूणां चरमज्ञानविषयं परमशिवस्वरूपं निरूपयति | तत्र � स एक एव सद्रूपः सत्योऽद्वैतः परात् परः | स्वप्रकाशः सदा पूर्णः सच्चिदानन्दलक्षणः || निर्विकारो निराधारो निर्विशेषो निराकुलः | गुणातीतः सर्वसाक्षी सर्वात्मा सर्वदृग विभुः || गूढः सर्वेषु भूतेषु सर्वव्यापी सनातनः | सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः | लोकातीतो लोकहेतुरवाङ्मनसगोचरः ||
13 SK इत्यादि महानिर्वाणतन्त्रद्वितीयपटलवचनेन परमशिवस्य सच्चिदानन्दाद्वैतनिर्विकारस्वप्रकाशनिर्गुणत्वादिस्वरूप-त्वाभिधानाद् ग्रन्थकारेण च प्रथमप्रकाशे अस्ति सत्यं परं ब्रह्मेत्यादिना तथैव वक्ष्यमाणत्वान् निर्विशेषब्रह्मरूपपरमशिवस्वरूपमाह � न पितमित्यादि | आत्मात्र निर्विशेषब्रह्म | ब्रह्म पीतमिति निरूपयितुं न शक्यते प्रकाशस्वरूपत्वांशे निर्गुणत्वात्, अपीतमित्यपि निरूपयितुं न शक्यते विमर्शांशे सगुणत्वात्, अतः पीतापीतादिविलक्षणमनिर्वाच्यस्वरूपं ब्रह्मेत्युक्तं भवति | एवमुत्तरत्रापि योज्यम् | एवञ्चेत् तत् किंस्वरूपं ब्रह्मेत्याह � निराकारमिति | यत् प्रत्यक्षेण नोपलभ्यते तस्यास्तित्वे किं मानमित्यत आह � नित्यमिति | प्रागुक्त-महानिर्वाणवचनस्थ-सनातन- (ग्रन्थोपक्रमः) अथ खलु दुरन्त-दुस्तर-घोरतरसंसारसागरान्तरुद्दाम-शोकसन्तान- प्रबलबडवानलज्वालाजाल-कवलन-विकलसकल-पशुजनव्रातात्मविज्ञानदत्तमनाः परमकारुणिको भगवान् परमशिवः परदेवताराधनरहस्यप्रतिपादनपरानेकशतकोटिविस्तारतन्त्र- --------------------------------------------------------
14 SK पदेन तस्य नित्यत्वावगमात् | अथ वयमिव सुखदुःखमोहादिभिरूपगतं कथं न स्यादित्यत आह � त्रिगुणरहितमिति | एवञ्चेत् प्रवृत्त्यनुपपत्तेः कस्यापि नोपकारायालं किं तेनास्माकमित्यत आह � देवमिति | निर्गुणोऽपि परमात्मा स्वरूपशक्तिमाश्रित्य दीव्यति जीवानां प्रीणनाय स्वान्तःस्थं प्रपञ्चजातम् उद्गीर्य निगीर्य च क्रीडतीति देवस्तमित्यर्थः | अथवा देवं द्योतनशीलं विश्वप्रकाशकमित्यर्थः | ननु देवनं चेतनगतो धर्मः, पूर्वपूर्वविशेषणैस्तु तस्य चैतन्यस्वरूपत्वं न प्रतीयत इत्यत आह � अजडमिति | चैतन्यस्वरूपमित्यर्थः | प्रागुक्त- महानिर्वाणवचनस्थ-सच्चिदानन्दलक्षण-पदेन तस्य चित्स्वरूपत्वावगमात् | एतेन देवनं तस्य लीलामात्रमित्युक्तम् | ननु भवत्वेवंस्वरूपं ब्रह्म तथापि निर्गुणत्वेन सुखस्वरूपत्वाभावात् तत्स्वरूपत्वावाप्त्या नास्माकं सुखोदयः सम्भवतीति चेत्तत्राह � परमसुखसन्ताननिलयमिति | निर्गुणत्वेऽपि सच्चिदानन्दलक्षण इति पदेन तस्यानन्दस्वरूपत्वमवगम्यते | नन्वानन्दोऽस्माकमपि वर्तते, तत् कोऽस्य विशेष इत्याशङ्कानिरासार्थं सुखस्य परमेति विशेषणम् | परमं दुःखासम्भिन्नं सुखं तत्र वर्तत इति विशेषः | तदपि सुखं निरवच्छिन्नमित्याह-सन्तानेति | अस्मदादीनां सुखं क्षणिकम्, परमशिवस्य तु सुखं धारावाहिकमित्ययमेव विशेषः, अतः सच्चिदानन्दस्वरूपतावाप्तये तमात्मानं परमशिवं वन्दे इति तात्पर्यम् | अत्रेदमवधेयम् � प्रागुक्तमहानिर्वाणवचनैः शरीरकञ्चुकितः शिवो जीवो निष्कञ्चुकः परमशिवः (१|५) इति परशुरामकल्पसूत्रेण च परमशिवस्य यत् स्वरूपमुक्तं तदेवोपनिषदुक्तं निर्विशेषब्रह्मेति | प्रथमश्लोकेन तस्य श्रीगुरुस्वरूपत्वमभिहितम्, न पीतमित्यादिना तु निर्विशेषस्वरूपत्वमिति | एतन्निर्विशेषस्वरूपत्वं ग्रन्थकारः स्वयमेव वक्ष्यति किन्तावदात्मवस्त्वित्यादिना |
15 SK सारमुपन्यस्तवान् | तत्र च निरन्तरभावनावगाह्य-दुरवगाह्य-विविधतन्त्र-स्वतन्त्रसिद्धान्त- शुद्धिबोध-विधुर-महालसव्रजोद्वेग-समुद्विग्नमनाः श्रीमत्-परमहंसपरिव्राजक- श्रीगुरुब्रह्मानन्दमुखारविन्दनिस्यन्दमान-परमरहस्यातिरहस्य-निगम-मकरन्द-सन्दोह- तुन्दिलानन्दः श्रीपूर्णानन्दपरमहंसः श्रीतत्त्वचिन्तामणिं चतुर्दशशताधिक-नवनवति- शकाब्दे वितनोति | (परमात्मजीवात्मनोः स्वरूपम्) ननु किन्तावदात्मवस्तु? परंब्रह्म विश्वायतनस्थूलसूक्ष्मरहित- नित्यशुद्धबुद्धमुक्तस्वरूपजाग्रत्-स्वप्न-सुषुप्त्यादिप्रपञ्चप्रकाशक-गुणत्रयातीत- निराकाराबाधितादिमध्यान्तरहितमेवात्मवस्तु, तदंशा जीवसंज्ञकास्त एवानाद्यविद्योपहताः शरीरमास्थाय नानाविध-सुखदुःखभोगं कुर्वन्तीति | तदाश्रया तद्विषयाऽनाद्यविद्या यथा गर्भागारमन्धकारस्य विषयाश्रयौ, तदाश्रयत्वतद्विषयत्वबलेनावरणविक्षेपरूपं प्राप्य तमात्मानमाच्छाद्य विक्षिपति | यद्यप्यवस्त्वविद्या तथाप्यात्मसत्तास्फूर्तिं प्राप्य वस्तुवद्भाति, यथा निर्मलदर्पणसन्निकर्षस्थवस्तुप्रतिविम्बमनिवारितं जायते, तद्वत् कूटस्थचिदाभासोऽपि सत्त्वादिगुणत्रयात्मिकायामविद्यायां प्रतिफलति | (तत्र सत्त्वोपहितस्येश्वरसंज्ञा) तन्मध्ये कारणभूतसत्त्वांशप्रतिविम्बितो यश्चिदाभसः सोऽहमिति स्थिराध्यासादीश्वर इत्युच्यते | तस्य सत्त्वगुणोपाधित्वात् सर्वज्ञत्वं सर्वेश्वरत्वं सर्वकार्यकर्तृत्वञ्च | (रजस्तमोभ्यामुपहितस्य जीवसंज्ञा) सत्त्वगुणप्रधान-कारणरूपमायायाः कार्यभूतरजस्तम्ॐऽशोपाधितः प्रतिबिम्बितो यश्चिदाभासः स यदा कर्मनिमित्तवशाद्देशकालवस्तुत्रिविधपरिच्छेदं गृहीत्वा स्वरूपं पूर्णं विहाय सजातीय-विजातीय-स्वगतभेदं प्राप्य अहं ममेत्यध्यासो भवति तदा जीव इत्युच्यते | अस्य कार्योपाधित्वाज्जाड्यम् | तेनाहं कर्ता अहं भोक्ता अहं सुखी अहं दुःखी मामहं न जानामीति मन्यते |
16 SK श्रुतिरपि � कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः इति | जगत्सृष्त्यादिप्रतिपादन ईश्वरः कल्पितो वेदान्ते | (ईश्वरकृतसृष्ट्यादि) ईश्वरस्तूपाधिगुणत्रयभेदेन ब्रह्मविष्णुरुद्रादिरूपेणाविद्याया आवरणविक्षेपरूपद्वयं प्राप्याब्रह्मस्तम्बपर्यन्तं नवविधसंसारं सृजत्यवति संहरतीति च | (अत्र पर्यनुयोगः) ननु केवलासङ्गोदासीन-नित्यमुक्तशुद्धबुद्ध- गुणातीताहङ्कारममकारेच्छाद्वेषप्रयत्नरहितस्य परमात्मनो नरविषाणवत् कथ- मावरण-विक्षेपौ सम्भाव्येते ? यथा गगनारविन्दं सुरभोत्युक्त गगनारविन्दमेवासत् तस्य सुरभित्वं कुतः ? (समाधानम्) सत्यं एतत् सर्वमाविद्यकं तत्कार्यमावरणविक्षेपरूपं वस्तुगत्या नास्त्येव, किन्त्वज्ञातात्मनोऽविवेकाद् भ्रममात्रसिद्धम् | यदा स्वप्नावस्थितो जनस्तदा किं तं प्रति स्वाप्नो व्यवहारः सत्यतया न प्रतिभाति, ऐन्द्रजालिकस्य वा | पुनरपि स्वप्ने निवृत्ते ऐन्द्रजालिकमायानिवृत्तौ च सर्वं मिथ्यैव जानाति, इदन्तु सर्वेषामनुभवसिद्धम् | तद्वज्ज्ञानोत्पत्तेः प्राक् सत्यमेव निश्चिनोति, तदनन्तरं मिथ्यात्वे ज्ञाते अज्ञानं तत्कार्यञ्चावरणविक्षेपरूपं सुतरां नश्यतीति | (साधनप्रकारनिरूपणप्रतिज्ञा) अथेदानीं मुमुक्षोः पुरुषार्थसिद्धावनाद्यविद्याप्रतिबन्धनिवृत्त्यर्थं साधनप्रकारा उच्यन्ते, - यतो वैदिककर्मानुष्ठानात् ---------------------------------------------------
17 SK पूर्वं नन्वित्यादिना असङ्गत्वादिहेतुभिः परमात्मन्यावरणविक्षेपादेरसम्भवमुपपाद्य यथा गगनारविन्दमित्यादिना दृष्टान्तञ्चोपदर्श्य पूर्वपक्षस्योत्तरमाह सत्यमित्यादिना | ऐन्द्रजालिकस्य वेति | ऐन्द्रजालिको यदा पिच्छिकाभ्रमणादितत्तत्क्रियानुष्ठानेन मायामुण्डादिनानाविधविचित्रनिर्माणवैदग्ध्यं प्रदर्शयति, तदा किमैन्द्रजालिकस्य स व्यवहारः सत्यतया न प्रतिभाति इति सम्बन्धः | पुनरपीति परन्त्वित्यर्थः | स्वप्ने निवृत्त इति, - स्वप्नावस्थितस्य स्वप्ने निवृत्ते स्वप्नानुभूतं सुवर्णाट्टालिकावासादिकम्, ऐन्द्रजालिकस्य च ऐन्द्रजालिकमायानिवृत्तौ ऐन्द्रजालिकप्रक्रियादशानुभूतं मायामुण्डादिकं मिथ्यैव जानातीत्यर्थः | एवं दृष्टान्तमुपदर्श्य दार्ष्टान्तिकप्रदर्शनमुखेन फलितमाह � तद्वदिति | पुण्योपचयपापक्षयाद् रजस्तमोनिवृत्तिद्वारा रागद्वेषनिराकरणम् | यथा वृक्षस्य बीजं कारणं बीजस्यापि वृक्षः कारणम्, रजस्तमसि पापबुद्धेः पापबुद्धिरपि रजस्तमसोरिति परस्परानुबन्धित्वादेकस्यापि नाशे इतरस्यापि नाश इत्येतदन्यदपि श्रुत्यागमपुराणसत्सम्प्रदायानुगत्या समासतः श्लोकबन्धेन विस्तार्यते � (परमात्मजीवात्मनोः स्वरूपम्) अस्ति सत्यं परंब्रह्मस्वरूपो निष्कलः शिवः | सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोऽद्वयः || १ || स्वयंज्योतिरनाद्यन्तो निर्विकारः परात् परः | निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः || २ || अनाद्यविद्योपहता यथाग्नौ विस्फुलिङ्गकाः | सर्वे ह्युपाधिसंभिन्नास्ते कर्मभिरनादिभिः || ३ || सुखदुःखमयैः स्वीयैः पुण्यपापैर्नियन्त्रिताः | स्थावराः पक्षिणश्चैव कीटाश्व पशवो नराः | जायन्ते च म्रियन्ते च संसारे दुःखसागरे || ४ || (देहिषु मनुष्याणामुत्कर्षः) प्रधानः सर्वजन्तूनां सुकृती मानुषो जनः | ज्ञानी भूत्वा यतो धीरो लभेन्मुक्तिं चतुर्विधाम् | मानुषं सफलं जन्म सरशास्त्रेषु गोचरम् || ५ || ------------------------------------------------------
18 SK ५| सुकृतिनो मानुषस्य प्राधान्ये हेतुमाह � ज्ञानीत्यादि | मुक्तिं चतुर्विधामिति � चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् | न मानुष्यं विनाऽन्यत्र तत्त्वज्ञानन्तु विद्यते || ६ || कदाचिल्लभ्यते जन्म मानुष्यं पुण्यसञ्चयात् | सोपानभूतं मोक्षस्य मानुष्यं जन्म दुर्लभम् || ७ || (देहसम्बन्धमन्तरेण पुरुषार्थावाप्तिर्न भवति) विना देहेन कस्यापि पुरुषार्थो न लभ्यते | तस्माच्छरीरं संरक्ष्य नित्यं कर्म प्रसाधयेत् || ८ || (आत्मनो देहसम्बन्धरक्षार्थमहितान्निवृत्त्यर्थञ्च प्रयत्नः समाश्रयणीयः ) रक्षेत् सर्वात्मनात्मानमात्मा सर्वस्य भाजनम् | रक्षार्थं यत्नमातिष्ठेज्जीवन् भद्राणि पश्यति || ९ || आत्मना यदि नात्मानमहितेभ्यो निवारयेत् | कोऽन्यो हितकरस्तस्मादात्मानं तारयिष्यति || १० || (वर्तमानजन्मन्येव पापप्रतीकार आधेयः) इहैव नरकव्याधेश्चिकित्सां न करोति यः | गत्वा निरौषधं देशं व्याधितः किं करिष्यति || ११ || यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समाश्रयेत् || १२ || ---------------------------------------------------------- ब्राह्मणो निर्वाणम्, क्षत्रियः सायुज्यम्, वैश्यः सारूप्यम्, शुद्रः सालोक्यं लभेतेत्यर्थः | तदुक्तं निर्वाणतन्त्रे द्वितीयपटले � ब्राह्मणस्य महामोक्षं सायुज्यं क्षत्रियस्य च | सारूप्यञ्चोरुजातस्य शूद्रस्य सहलौकिकम् || इति || यावन्नाश्रयते दुःखं यावन्नायान्ति चापदः | यावन्नेन्द्रियचापल्यं तावच्छ्रेयः समाश्रय || १३ || (संसारासक्तिर्हितं प्रतिबद्नाति) कालश्च जायते(?) नानाकार्यैः संसारसम्भवैः | न वेत्ति हितमात्मानं सुखदुःखविभूतिभाक् || १४ || लोको मोहसुरां पीत्वा न वेत्ति हितमात्मनः || १५ || (सम्पदादीनामस्थायित्वम्) सम्पदः स्वप्नसङ्काशा यौवनं कुसुमोपमम् | तडिच्चपलमायुश्च कस्याप्यज्ञानतो धृतिः || १६ || (देहिनां जीवनं वृथैवातिवहति) शतं जीवति मर्त्त्यश्च निद्रा स्यादर्द्धहारिणी | बाल्यरोगजरादुःखैरर्द्धं तदपि निष्फलम् || १७ || (कार्याकार्यविचारमूढा विपद्यन्ते)
19 SK प्रारब्धव्ये निरुद्योगो जागर्तव्ये सुषुप्तिमान् | विश्वासवान् भयस्थाने हा नरः को न हन्यते || १८ || जलरेखासमुद्रोर्म्मिसहोदरकलेवरः | अनित्यप्रियसंसारे कथं तिष्ठति निर्भयः || १९ || --------------------------------------------------------- १६| अज्ञानतः सम्पदामस्थायित्वज्ञानाभावाद् धृतिः सन्तोषः | मूढो नश्वरीस्वपि सम्पत्स्वतिमात्रं रमत इत्यर्थः | (जीवानां मुग्धत्वम्) पश्यन्नपि प्रस्खलति शृण्वन्नपि न बुध्यते | प्रतिबिम्बसमः कालः क्षीयमाणो न लभ्यते || २० || (कालः सर्वं हन्ति) पृथिवी दह्यतेऽनेन मेरुश्चापि विशीर्यते | शुष्यते सागरजलं शरीरे हन्त का कथा || २१ || अपत्यं मे कलत्रं मे धनं मे बान्धवाश्च मे | लपन्ति मतिहीनास्तु हन्त कालवृकेच्छया || २२ || (श्रेयः साधने कृत्ये कालहरणमनुचितम्) श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् | न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् || २३ || (सर्वेषामेव मृत्युरव्यभिचारी) बालांश्च यौवनस्थांश्च वृद्धान् गर्भगतानपि | सर्वानादिशते मृत्युरेवंभूतमिदं जगत् || २४ || ब्रह्मविष्णुमहेशादि देवता भूतजातयः | नाशमेवात्र धावन्ति तस्माच्छ्रेयः समाश्रय || २५ || (आयुःक्षयकारणम्) आत्मवर्णाश्रमाचारहीन-हीनप्रतिग्रहात् | परस्त्रीधनलोभाच्च नृणामायुःक्षयो भवेत् || २६ || वेदशास्त्राद्यनभ्यासात्तथैव गुरुवञ्चनात् | नृणामायुःक्षयो भूयादिन्द्रियाणामनिग्रहात् || २७ || (सङ्गः सर्वथा परित्याज्यः) निःसङ्ग एव मोक्षः स्याद्दोषाः सर्वे च सङ्गमात् | तस्मात् सङ्गं परित्यज्य तत्त्वनिष्ठः सुखीभव || २८ || (तदसम्भवे सत्सङ्ग एवोपादेयः) सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते | स सद्भिरेव कर्तव्यः सतां सङ्गो हि भेषजम् || २९ || (सत्सङ्गविवेकयोः प्रकर्षः) सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् | यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः || ३० || (जीवात्मनः स्वाश्रये देहेऽपि सम्बन्धः क्षणिकः का कथा स्त्रीपुत्रादिषु)
20 SK स्वदेहमपि जीवोऽयं त्यक्त्वा याति कुलेश्वरि | स्त्रीपुत्रपितृमात्रादिसम्बन्धः केन हेतुना || ३१ || (कः सुखी को वा दुःखी) दुःखमूलं हि संसारः स यस्यास्ति स दुःखितः | तस्य त्यागः कृतो येन स सुखी नात्र संशयः || ३२ || (त्यागिनः स्वरूपम्) त्यजेत् कर्मफलं यो हि स त्यागीत्यभिधीयते | आलयं सर्वपापानां संसारं वर्जयेत् सुधीः || ३३ || ----------------------------------------------------------- ३१| स्वदेहेत्यादिपादचतुष्टयात्मकं वचनं कुलार्णवप्रथमोल्लासे दृश्यते | तत्र कुलेश्वरीति देवीं प्रतीश्वरकृतं सम्बोधनम् | तदेव वचनमत्राविकलमाहृतमिति कुलेश्वरीति पदमपि न परिवर्तितं ग्रन्थकृतेति सम्भाव्यते | (संसारस्य हेयत्वं तत्त्वज्ञानस्योपादेयत्वञ्च) आदिमध्यावसानेषु सर्वदुःखमिदं जगत् | तस्मात् सन्त्यज्य संसारं तत्त्वनिष्ठः सुखी भव || ३४ || (तत्त्वनिष्ठस्य पुण्यपापकर्मभिरननुषङ्गः) अश्वमेधशतेनापि ब्रह्महत्याशतेन वा | पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् || ३५ || (इन्द्रियवृत्तिपारतन्त्र्यमेव कर्मणां हेतुस्तस्य परित्यागे न कर्मोदयः) पृथिव्यां यानि कर्माणि जिह्वोपस्थ-निमित्तकम् | जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति || ३६ || (के नरकगामिनः) हिताहितं न जानन्तो नित्यमुन्मार्गगामिनः | कुक्षिपूरणनिष्ठा ये ते जना नारकाः स्मृताः || ३७ || (ज्ञानवतां प्रकर्षो भोगमात्रसाराणां पशुतुल्यत्वञ्च) निद्राभीमैथुनाहाराः सर्वेषां प्राणिनां समाः | ज्ञानवान् मानुषः प्रोक्तो ज्ञानहीनो महापशुः || ३८ || (संसारिणः स्वस्वकृत्याकुलतया निरन्तरं पीडाविशेषमनुभवन्ति) प्रभाते मलमूत्राभ्यां मध्याह्ने क्षुत्पिपासया | रात्रौ मदननिद्राभ्यां बाध्यन्ते मानवाः किल || ३९ || (मूढा विषयिणः पुनः पुनर्जन्ममरणानुबन्धिनो भवन्ति) स्वदेहपुत्रदारादिनिर्भराः सर्वजन्तवः | जायन्ते च म्रियन्ते च हा हन्ताज्ञानमोहिताः || ४० || (न हि वर्णाश्रमाचारपरिपालनेनैवात्मलाभः)
21 SK स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः | न जानन्ति परं ब्रह्म मूर्खा नश्यन्ति निश्चितम् || ४१ || (केचिन्मूढा ब्रह्मचर्याद्याडम्बरैर्लोकान् प्रतारयन्ति, ततोऽपि नात्मलाभः) क्रियायासपराः केचिद् ब्रह्मचर्यादिसंयुताः | अज्ञानसंवृतात्मानः सञ्चरन्ति प्रतरकाः || ४२ || (न ह्युपवासादिनियमैरेवात्मलाभः) एकभुक्त्युपवासाद्यैर्नियमैः कायशोषणैः | मूढाः परोक्षमिच्छन्ति महामायासमावृताः || ४३ || देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् || ४४ || (प्रतारकाणां प्रकारः) धनदारजनासक्ता अभिका वेशधारिणः | भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि || ४५ || सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् | त्यजेत्तं सततं धीरश्चण्डालमिव दूरतः || ४६ || (न हि गृहारण्यसाम्याव्रीडत्वदिगम्बरत्वादि-ज्ञानिसाधर्म्म्यादेव ज्ञानी भवति) गृहारण्यसमा लोके गतव्रीडा दिगम्बराः | चरन्ति गर्दभाद्याश्च विविक्तास्ते भवन्ति किम् || ४७ || तृणपर्णोदकाहाराः सततं वनवासिनः | हरिणादिमृगाश्चैव तापसास्ते भवन्ति किम् || ४८ || -------------------------------------------------------- ४५ | अभिकाः कामुकाः | वेशधारिणः रक्तवस्त्रमालाकमण्डलुप्रभृतिभिः सन्न्यासिजनोचितवेशधराः | शीतवातातपसमा भक्ष्याभक्ष्यसमा अपि | तिष्ठन्ति शूकराद्याश्च व्रतिनस्ते भवन्ति किम् || ४९ || आजन्ममरणान्तन्तु गङ्गादितटिनीस्थिताः | मण्डूकमत्स्यप्रवरा व्रतिनस्ते भवन्ति किम् || ५० || (ज्ञानमेव साक्षान्मुक्तिकारणं न कर्म) तस्मादित्यादिकं कर्म लोकरञ्जनकारणम् | मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं न चान्यथा || ५१ || (न हि षड्दर्शनानुशीलनेनैवात्मलाभः) षड्दर्शनमहाकूपपतिताः पशवः सदा | परमार्थं न जानन्ति पशुपाशनियन्त्रिताः || ५२ || (न हि वेदादिविदोऽप्यतत्त्वज्ञस्य वाक्यमुपकाराय कल्पते) वेदागमपुराणज्ञः परमार्थं न वेत्ति यः | विडम्बकस्य तस्यापि तत्सर्वं काकभाषितम् || ५३ || (परतत्त्वपराङ्मुखाणां निरन्तरशास्त्रानुशीलनेनापि नात्मलाभः)
22 SK इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः | पठन्त्यहर्निशं शास्त्रं परतत्त्वपराङ्मुखाः || ५४ || (शास्त्रादिज्ञानं सुलभं तात्पर्यज्ञानं तु न तथा) शिरो वहति पुष्पाणि गन्धं जानाति नासिका | पठन्ति वेदशास्त्राणि दुर्लभो भावबोधकः || ५५ || (प्रज्ञावतः शास्त्रानुशीलनमुपकाराय भवति नेतरस्य) प्रज्ञाहीनस्य पठनमन्धस्यादर्शदर्शनम् | प्रज्ञावतो धर्मशास्त्रं तत्त्वज्ञानस्य कारणम् || ५६ || अप्रज्ञस्य धर्मशात्रं बन्धनायोपपद्यते | तत्त्वमीदृक् तादृगिति प्रवदन्ति परस्परम् || ५७ || इदं ज्ञानमिदं ज्ञेयं सर्वतः श्रोतुमिच्छति | अपि वर्षसहस्रेण शास्त्रान्तं नैव गच्छति || ५८ || (शास्त्रेभ्यः सार आदेयः) तर्काद्यनेकशास्त्राणि स्वल्पायुर्विघ्नकोटयः | तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसि || ५९ || (शास्त्राभ्यासस्य तत्त्वज्ञानाऽवधिकत्वम्) अभ्यस्य सर्वशास्त्राणि तत्त्वं ज्ञात्वा तु बुद्धिमान् | पलालमिव धान्यार्थी सर्वशास्त्राणि संत्यजेत् || ६० || ---------------------------------------------------- ५५ | भावबोधको दिव्य-वीर-पशुभावानां वेदिता | तथाच � रुद्रयामलोत्तरखण्डे प्रथमपटले � महावीरो महाधीरो दिव्यभावस्थितोऽपि वा | अथवा पशुभावस्थो मन्त्री पीठे विवासयेत् || तथा- कलौ च दिव्यवीराभ्यां नित्यं तद्गतचेतसः | महाभक्ताः प्रपश्यन्ति महाविद्यापरं पदम् || तथा- साधवो मौनशीलाश्च सदा साधनतत्पराः | दिव्यवीरस्वभावेन पश्यन्ति मत्पदाम्बुजम् || इत्यादिना दिव्यादिभावानां प्रशंसामभिधाय प्रायेणैतद्वचनसमानानुपूर्वीकं वचनमुपन्यस्तम् | यथा- वृक्षो वहति पुष्पाणि गन्धं जानाति नासिका | पठन्ति वेदशास्त्राणि दुर्लभा भावबोधकाः || इति | एतद्वचनसंवादेनात्र विशेषाभावेऽपि भावशब्देन दिव्यादिभावा एवाभिहिता एत्यवधेयम् | यथा मृतशरीरस्य नाहारेण प्रयोजनम् | तत्त्वज्ञस्य शास्त्रजालैस्तथैवेति सुनिश्चितम् || ६१ || (ज्ञानमेव मुक्तिप्रयोजकं न शास्त्रानुशीलनम्)
23 SK न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि | ज्ञानादेव हि मुक्तिः स्यादन्यथा नैव कर्हिचित् || ६२ || (मुक्तेः स्वरूपम्) अनन्तदुःखविरहो मुक्तिरित्युच्यते बुधैः | (तत्र मतान्तरम्) तृष्णानाशो भवेन्मोक्ष इति तन्त्रविदो विदुः || ६३ || (तत्र स्वमतम्) आनन्दघनसन्दोहपरमात्मनि चाव्यये | जीवात्मनिलयो मोक्ष इति मे वस्तुतो मतिः || ६४ || (ज्ञानाननुबन्धिनः कर्माद्युपाया न मुक्तिप्रयोजकाः) किं कायक्लेशनेनैव यज्ञविस्तारणेन च | किमाचारविचारेण यदि ज्ञानं न लभ्यते || ६५ || (वेदादिशास्त्राणि न मुक्तिप्रयोजकानि, ज्ञानमेव मुक्तिप्रयोजकम्) न वेदाः कारणं मुक्तेर्दर्शनानि न कारणम् | तथैव सर्वशास्त्राणि ज्ञानमेव हि कारणम् || ६६ || ------------------------------------------------------- ६६ | सर्वशास्त्राणि मुक्तेर्न कारणमिति पूर्वेणान्वयः | तर्हि मुक्तेः किं कारणमित्याह � ज्ञानमिति | ज्ञानस्यैवेति पाठे सर्वशास्त्राणि ज्ञानस्यैव कारणं न मुक्तेः, मुक्तिं प्रति ज्ञानस्यैव कारणत्वादित्यर्थः | (ज्ञानस्य द्वैविध्यम्) तदेव द्विविधं ज्ञानं विवेकागमसम्भवम् | शब्दब्रह्माऽगममयं परंब्रह्म विवेकजम् || ६७ || (शब्दब्रह्मस्वरूपम्) भिद्यमानात् पराद्बिन्दोरव्यक्तात्मा रवोऽभवत् | शब्दब्रह्मेति तं प्राहुः सर्वागमविशारदाः || ६८ || ------------------------------------------------------- ६७ | पूर्वश्लोके ज्ञानमेव हि कारणमित्युक्तम्, तस्य ज्ञानस्य भेदावाह � तदेवेति | तज्ज्ञानं द्विविधमेव | अत्रैवकारेण व्यावहारिकघटपटादिज्ञानानां मुक्त्यनुपयोगिनां व्यावृत्तिः | ज्ञानस्य द्वैविध्यं विवेकसम्भवत्त्वेनागमसम्भवत्वेन च | तदेवाह � शब्देति | शब्दब्रह्म ब्रह्मात्मकः शब्दः तज्ज्ञामित्यर्थः, आगममयम् आगमजन्यं श्रुत्यैव तत्प्रतिपादनात् | परब्रह्मज्ञानन्तु विवेकजन्यं विवेकादेव परब्रह्मज्ञानावाप्तेः |
24 SK ६८ | अत्र राघवभट्टः � शब्दब्रह्मण उत्पत्तिमाह � भिद्यमानादिति | पराद् बिन्दोरित्यनेन शक्त्यवस्थारूपो यः प्रथमो बिन्दुस्तस्मादव्यक्तात्मा वर्णादिविशेषरहितोऽखण्डो नादमात्र उत्पन्नः | तदुक्तमाचार्यैः � स रवः श्रुतिसम्पन्नैः शब्दब्रह्मेति कथ्यते | इति सृष्ट्युन्मुखपरमशिव-प्रथमोल्लासमात्रमखण्डोऽव्यक्तो नादबिन्दुमय एव व्यापको ब्रहात्मकः शब्दः शब्दब्रह्मेत्यर्थः | उक्तञ्च � क्रियाशक्तिप्रधानायाः शब्दशब्दार्थकारणम् | प्रकृतेर्बिन्दुरूपिण्याः शब्दब्रह्माऽभवत् परम् || इति | इदमवधेयम् � परमेश्वरो निष्कलः सकलश्च | कलाशब्देन प्रकृतिरुच्यते, तत्सम्बन्धशून्यो निष्कलः, तत्सम्बद्धश्च सकलः | इयमेव प्रकृतिः परशिवस्य स्वरूपशक्तिरूपा, ततश्च सच्चिदानन्दस्वरूपस्य परमशिवस्य स्वरूपशक्तिरूपतया प्रकृतेरपि सच्चिदानन्दरूपत्वम् | तत्र परशिवः प्रकाशस्वरूपः, पराशक्तिरपि तथैव लीलावशात् परमशिवस्य जातायां सिसृक्षायां पराप्रकृतिरपि विमर्शरूपेण परिस्फुरति | तदुक्तं राघवभट्टधृतवायवीयसंहितायाम् � शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता | ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव || इति | (स्फोटवादिमतद्वयम्) शब्दब्रह्मेति शब्दार्थं शब्दमित्यपरे विदुः | (तन्मतद्वयनिरासः) न हि तेषां तयोः सिद्धिर्जडत्वादुभयोरपि || ६९ || ------------------------------------------------------- राघवभट्टधृतपाञ्चरात्रेऽपि � एवमालोक्य सर्गादौ सच्चिदानन्दरूपिणीम् | समस्ततत्वसंघातस्फूर्त्यधिष्ठानरूपिणीम् | व्यक्तां करोति नित्यां तां प्रकृतिं परमः पुमान् || इति | कामकलाविलासेऽपि � सा जयति शक्तिराद्या निजसुखमयनित्यनिरुपमाकारा | भविचराचरबीजं शिवरूपविमर्शनिर्मलादर्शः || इत्यनेन परशक्तेः परशिवस्वरूपत्वं जगत्कारणत्वं परशिव स्याहन्तानिर्वाहकत्वमप्युपपादितम् | एतेन परमशिवशक्त्योः परस्परसम्बन्धजन्या प्रपञ्चसृष्टिरित्युक्तं भवति |
25 SK एवञ्च प्रकाशस्वरूपोऽपि परमेश्वरो विमर्शरूपस्वरूपशक्तिसम्बन्धवशात् पूर्णोऽहमित्येवंरूपबिन्दुस्वरूपतां धत्ते, तथा परमा प्रकृतिरपि | तदुक्तं कामकलाविलासटीकाकृता नटानन्दनाथेन � परमेश्वरः स्वाङ्गभूतनिखिलप्रपञ्चविलयात्मक- विमर्शशक्तिमनुप्रविश्य बिन्दुभावमयते | ततः सा विमर्शशक्तिरपि स्वान्तर्गतप्रकाशमय- बिन्दुमनुप्रविशति ततश्च बिन्दुरुच्छूनो भवतीत्यादि | एतेन परमशिवस्य प्रकाशस्वरूपस्य प्रथमस्फूर्तिरूपा या शक्त्यवस्था सैव प्रथमो बिन्दुरित्यापतति | भिद्यमानात् पराद् बिन्दोरित्यनेनायमेव बिन्दुरभिहितः | एतदभिप्रायेणैव राघवभट्टेन पराद् बिन्दोरित्यनेन शक्त्यवस्थारूपो यः प्रथमो बिन्दुरित्युक्तम् | ६९ | अत्र राघवभट्टः � अथान्तरस्फोटवादिमतं जातिव्यक्तिस्फोटात्मकं वा स्फोटमतं दूषयितुमुपक्रमते � शब्देति | एक आचार्याः शब्दार्थमान्तरस्फोटं शब्दब्रह्मेत्याहुः | यथाह � निरंश एवाभिन्नो नित्यो बोधस्वभावः शब्दार्थमय आन्तरस्फोट इति | अपरे वैयाकरणाः पूर्वपूर्ववर्णोच्चारणाभिव्यक्त-तत्तत्पदसंस्कारसहाय - चरमपदग्रहोद्बुद्धं (शब्दब्रह्मस्वरूपे स्वमतम्) चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतिः || ७० || (वर्णाभिव्यक्तिः) तत् प्राप्य कुण्डलीरूपं प्राणिनां देहमध्यगम् | वर्णात्मनाविर्भवति गद्यपद्यादिभेदतः || ७१ || (द्वैताद्वैतनिरूपणम्) केचिदद्वैतमिच्छन्ति द्वैतमिच्छन्ति चापरे | द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च || ७२ || --------------------------------------------------- वाक्यस्फोटलक्षणं शब्दमखण्डैकार्थप्रकाशकं शब्दब्रह्मेति वदन्ति | यदाह एक एव नित्यो वाक्याभिव्यङ्ग्योऽखण्डो व्यक्तिस्फोटो जातिस्फोटो वा बहीरूप इति | तथाचात्र मतद्वयमुपदर्श्य निराकृतम एके शब्दार्थमेव शब्दब्रह्मेति विदुः, अपरे शब्द एव शब्दब्रह्मेति विदुरिति सम्बन्धः |
26 SK एवं शब्दार्थः शब्दब्रह्मेति आन्तरस्फोटवादिमतम्, शब्द एव शब्दब्रह्मेति जातिव्यक्तिस्फोटवादिमतञ्च प्रागुक्तं दूषयति � न हीत्यादिना | अत्र राघवभट्टः � तेषां वादिनां मते तयोः शब्दार्थयोः सिद्धिः शब्दब्रह्मत्वसिद्धिर्न, उभयोस्तयोर्जडत्वात् | यदि शब्दार्थः शब्दो वा शब्दब्रह्मेत्युच्यते, तदा ब्रह्मपदवाच्यत्वं नोपपद्यते | यतः सच्चिदानन्दरूपोब्रह्मपदार्थः | तौ च जडौ | तदुक्तं � अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् | विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः || इति | ७० | स्वमतमाह � चैतन्यमिति | सर्वभूतानां चैतन्यमेव शब्दब्रह्मेत्यर्थः | तदुक्तं राघवभट्टधृतप्रयोगसारे � सोऽन्तरात्मा तदा देवि नादात्मा नदते स्वयम् || इति | एतेन भिद्यमानादित्यादिना प्रतिपादित एव सिद्धान्तश्चैतन्यमित्त्यादिनाभिहित इति प्रतिपद्यते | ७१ | एवं परां नादात्मिकां शब्दसृष्टिमभिधाय वर्णसृष्टिमाह � तदिति | अत्र राघवभट्टः � प्राणिनां देहमध्यगं कुण्डलीरूपं कुण्डलिनीस्वरूपं तच्चैतन्यं गद्यपद्यादि भेदतो वर्णात्मनाऽविर्भवतीति सम्बन्धः | किं कृत्वा, प्राप्य कण्ठादिकरणानीति शेषः | ७२ | पूर्वं शब्दब्रह्माऽगममयं परं ब्रह्म विवेकजमित्युक्त्वा शब्दब्रह्मस्वरूपमुपपाद्य अविद्याविद्ययोर्भेदात् पक्षद्वयमुदीरितम् || ७३ || (विद्याऽविद्यात्मककर्मजन्यौ बन्धमोक्षौ) तत् कर्म यच्च बन्धाय सा.विद्या परिकीर्तिता | यन्न बन्धाय तत् कर्म सा विद्या समुदाहृता || ७४ || (सङ्कल्पस्य सत्तासत्ताभ्यामेव बन्धमोक्षौ) यावत् सङ्कल्प एवास्ति तावदेव हि बन्धनम् | यावत्तदेव नैवास्ति तावदेव हि मोक्षणम् || ७५ || (कर्मणस्तत्त्वज्ञानपर्यन्तमनुष्ठेयत्वम्) जपहोमार्चनं तीर्थं वेदशास्त्रागमादिकम् | तावदेव हि सर्वञ्च यावत्तत्त्वं न विन्दति || ७६ || (तत्त्वनिष्ठैव मोक्षावाप्तिहेतुः) अत एव प्रयत्नेन सर्वावस्थासु सर्वदा | तत्त्वनिष्ठो भवेद्धीरो यदीच्छेन्मोक्षमात्मनः || ७७ || (तत्त्वज्ञानस्वरूपम्)
27 SK तत्प्रकारमहं वक्ष्ये निगमागमलक्षितम् || ७८ || एकमेव परंब्रह्म रसरूपी सनातनः | प्रकृत्या क्रियते व्यक्तस्तथा व्यक्तस्तया पुनः || ७९ || तस्मात् प्रकृतियोगेन क्षिप्रं प्रत्यक्षमाप्नुयात् | घटप्रत्यक्षसमये प्रकाशो व्यञ्जको यथा || ८० || ----------------------------------------------------------- परब्रह्मस्वरूपमाह � केचिदिति | मायावादिन इत्यर्थः | अपरे नैयायिकादयः | अत्र केचिदपरे इत्येताभ्यां मतद्वयस्याप्यस्वारस्यं सूचितम् | मम तत्त्वं न जानन्ति द्वैताद्वैतविवर्जितम् | इति कुलार्णवप्रथमोल्लासवचनेन परब्रह्मणो द्वैताद्वैतवैलक्षण्यस्योक्तत्वान्दित्यर्थः | द्वे पद इति | ममेति ज्ञानं बन्धाय निर्ममेति ज्ञानञ्च मुक्तये भवतीत्यर्थः | विना घटत्वयोगेन न प्रत्यक्षो यथा घटः | इतराद् भिद्यमानोऽपि न भेदमुपगच्छति || ८१ || पुरुषे नैवभेदोऽस्ति विना शक्तिं कथञ्चन | न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमात् || ८२ || (परा प्रकृतिरेव तत्त्वज्ञानं प्रति साक्षात् कारणम्) प्रकृत्या ज्ञायते ब्रह्म प्रकृत्या लीयते पुमान् | प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वाञ्छितं जगत् | तयोः समरसं ज्ञानं वस्तुतत्त्वं परं पदम् || ८३ || उपायाः सन्ति बहुधा ज्ञातुं ब्रह्म सनातनम् | तथापि प्रकृतेर्योगात् क्षिप्रं प्रत्यक्षतां लभेत् || ८४ || सांयात्रिकः कुदेशे तु यथा नावं प्रगृह्य च | नानादेशं समुत्तिर्य समुद्रं विशते चिरात् || ८५ || तत्तटे नावमादाय क्षणाद् याति यथा पुनः | तस्मात् परम्परायातास्ते हि कारणतां गताः || ८६ || न साक्षात् कारणं ते हि साक्षात् प्रकृतिकारणम् | तस्मात्तां प्रकृतिं वक्ष्ये दीक्षाविधिपुरःसराम् || ८७ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ तत्त्वज्ञानविवेचनं नाम प्रथमः प्रकाशः || १ || ------------------------------------------------------------ ८७ | प्रकृतीति | अत्र कारणत्वस्य विधेयतया उद्देश्यीभूतप्रकृतिपदेनानुपपन्नोऽपि समासश्छन्दोभङ्गभयादङ्गीकृतः |
28 SK द्वितीयः प्रकाशः (दीक्षाप्रकरणम्) तत्र दीक्षाशब्दार्थः, दीक्षायाः फलम्, दीक्षाभेदाः, गुरुशिष्यलक्षणम्, गुरौ शिष्यस्य व्यवहारः, अकथहादिचक्रविचारः, दीक्षायां दिनविचारः, (तत्रानुकूलप्रतिकूलमासतिथिवार- नक्षत्रलग्नादिनिरूपणम्) मन्त्रशब्दार्थः, मन्त्राणां दश संस्काराश्च) | (दीक्षानिरूपनोपयोगित्वम्) अथादीक्षितलोकानामधिकारोऽत्र नैव हि | अतो दीक्षां प्रवक्ष्यामि चतुर्वर्गप्रदायिनीम् || १ || --------------------------------------------------------------- १ | पूर्वप्रकाशे ब्रह्मज्ञानस्य परमपुरुषार्थसाधकत्वमुक्त्वा प्रकाशेऽस्मिन् ब्रह्मज्ञानस्योपासनामूलकतया उपासनायाञ्चादीक्षितानामनधिकारिताश्रवणादेतत्तन्त्र- प्रतिपाद्यश्रीमत्त्रिपुरसुन्दरीदेवताराधनाधिकारप्रतिपादिकां दीक्षामवतारयति � अथेति | उपासनाधिकारस्य दीक्षापेक्षित्वमाह गौतमीयतन्त्रे सप्तमपटले � अथ दीक्षां प्रवक्ष्यामि सर्वकामार्थसिद्धिदाम् | यां विना नैव सिद्धः स्यान्मन्त्रो वर्शशतैरपि || इति | बृहन्नीलतन्त्रे तृतीयपटले दीक्षा प्रकृत्य � तया विना महादेवि ह्यधिकारो न कर्मणि | सर्वाश्रमेषु भूतेषु सर्वदेवेषु सुव्रते || दीक्षां विना महादेवि तस्य सर्वं वृथा भवेत् | दीक्षामूलं जगत् सर्वं दीक्षामूलं परं तपः | दीक्षामूलं महासिद्धिस्तस्माद्दीक्षां समाचरेत् || इति | कुलार्णवे चतुर्दशोल्लासे च � अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः | न भवन्ति प्रिये तेषां शिलायामुप्तबीजवत् || इति | (दीक्षाशब्दव्युत्पत्तिः) दिव्यं ज्ञानं यतो दद्यात् कुर्याच्च पापसंक्षयम् | तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तन्त्रवेदिभिः || २ || (तस्याः प्रकारान्तरम्) अथवा गुरुणा सम्य्ग् दीक्षणाद्देवमन्त्रयोः | दीक्षेति कथिता सद्भिः सर्वपापप्रणाशिनी || ३ || (प्रकारान्तरञ्च) ददाति यस्मादिह दिव्यभावं मायामये कर्म च संक्षिणोति | फलं चतुर्वर्गभवञ्च यस्मात्तस्मात्तु दीक्षेत्यभिधानमस्याः || ४ || (दीक्षाफलम्)
29 SK कोटिजन्मकृतं पापं ज्ञानाज्ञानकृतञ्च यत् | दीक्षाग्रहणमात्रेण पलायेत न संशयः || ५ || ब्रह्महत्या-सुरापान-स्वर्णस्तेयादिपातकम् | उपपातकलक्षाणि हन्ति दीक्षात्रयान्नरः || ६ || (वर्णभेदेन दीक्षायाः फलभेदाः) दीक्षितो ब्राह्मणो याति ब्रह्मलोकमनामयम् | इन्द्रलोकं क्ष्त्रियोऽपि प्राजापत्यं तथा विशः || ७ || शूद्रो गन्धर्वनगरं याति दीक्षाप्रभावतः | चतुर्णामपि वर्णानामतो दीक्षा प्रशस्यते || ८ || ------------------------------------------------------ देवि दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः | तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् || इत्यादिवचनैः प्रतिपादितम् | (दीक्षायास्त्रैविध्यम्) शाम्भवी चैव शाक्तेयी मान्त्री चैव शिवागमे | दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना || ९ || (तत्र मान्त्री दीक्षा) मन्त्रमार्गानुसारेण साक्षात् कृत्वेष्टदेवताम् | गुरुः सद्भोधयेच्छिष्यं मन्त्रदीक्षेति सोच्यते || १० || (तस्या एव क्रियावतीत्याख्यं प्रकारान्तरम्) अथवा मन्त्रपूजाति-ध्यानयोगादिभिः कृता | गुरुणा योगमार्गेण तथा शास्त्रानुसारतः || ११ || मान्त्री क्रियावती सा तु कुण्डमण्डलपूर्विका | (मात्र्या एव प्रकारान्तरम्) मन्त्रोपदेशमात्रन्तु मन्त्रदीक्षेति चापरे || १२ || (मान्त्री दीक्षेयं सर्ववर्ण-सम्प्रदायसाधारणी) सामान्यभूता खलु मान्त्रिकी स्याद् दीक्षा स्मृता मन्त्रगणेषु तद्वत् | वर्णेषु चापि द्विजपूर्वकेषु स्याच्चैव शाक्तेष्वपि वैष्णवेषु || १३ || ------------------------------------------ ९-१७ | शाम्भवीति |शाम्भवी शाक्तेयी मान्त्री चेति त्रिविधा दीक्षा | त्रेधेत्यनेनान्येषामाणवादिदीक्षाभेदानाम्-अत्रैवान्तर्भावः सूचितः | नन्विह शाम्भवी शाक्तेयी मान्त्रीति क्रमेण त्रिविधां दीक्षामुद्दिश्य मन्त्रमार्गानुसारेणेत्यादि-तत्तद्विशेषलक्षणनिरूपणावसरे मान्त्री शाक्तेयी शाम्भवीति व्युत्क्रमेण निर्देशः कथम् ? कथं वा � (शाक्तेयी दीक्षा) सिद्धे स्वशक्तिमालोक्य तया केवलया शिशोः | निरुपायं कृता दीक्षा शाक्तेयी परिकीर्तिता || १४ ||
30 SK (ज्ञानवती दीक्षैव शाक्तेयी दीक्षेति मतान्तरम्) अथ ज्ञानवती दीक्षा शक्तिदीक्षेति चापरे || १५ || (शाम्भवी दीक्षा) अभिसन्धिं विनाऽचार्यशिष्ययोरुभयोरपि | देशिकानुग्रहेणैव शिवताव्यक्तिरूपिणी | सेयन्तु शाम्भवी प्रोक्ता शिवावेशनकारिणी || १६ || (तस्याः प्रकारान्तरम्) गुरोरालोकमात्रेण स्पर्शात् सम्भाषणादपि | सद्यः संज्ञा भवेज्जन्तोः शाम्भवी चेति चागमे || १७ || ------------------------------------------------------ त्रिविधा सा भवेद्दिक्षा मान्त्री शाक्ती च शाम्भवी | इति गन्धर्वतन्त्रषड्विंशपटलवचने दीक्षाणां विशिष्टक्रमनिर्देशे सत्यपि अत्र व्युत्क्रमेणोद्देशः ? उच्यते � राघवभट्टधृतषडाम्नायमहारत्ने � त्रिविधा सा भवेद्दीक्षा प्रथमा आणवी परा | शाक्तेयी शाम्भवी चान्या सद्यो मुक्तिविधायिनी || इत्यनेनाणवदीक्षायाः प्राथम्यमुपदर्श्य मन्त्रार्चनासनस्थानध्यानयोगादिभिः कृता | दीक्षा सा त्वाणवी प्रोक्ता यथाशास्त्रोक्तकारिणी || इति यदाणवदीक्षालक्षणं कृतं तेन सह अथवा मन्त्रपूजादिध्यानयोगादिभिः कृता | इत्यादिपूर्णानन्दोक्तमान्त्रदीक्षालक्षणस्याभेदात् क्रियावती मान्त्री दीक्षैवाणवी दीक्षा, तस्याश्च प्राथम्यं प्रागुक्तषडाम्नायमहारत्नवचनेनोपपादितमेव | ततश्च प्रथमा मान्त्री, द्वितीया शाक्ती, तृतीया शाम्भवीति स्थितम् | अत एव गन्धर्वतन्त्रे षड्विंशपटले मान्त्री शाक्ती शाम्भवीति क्रममुद्दिश्य � मन्त्रार्च्चनासनस्थानध्यानयोगादिभिः कृता | मान्त्री दीक्षा च सा प्रोक्ता यथाशास्त्रोक्तकारिणी || सिद्धैः स्वशक्तिमालोक्य तया केवलया शिशोः | निरुपायकृता दीक्षा शाक्तेयी परिकीर्तिता || अभिसन्धिं विनाऽचार्य-शिष्ययोरुभयोरपि | देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी | सेयन्तु शाम्भवी दीक्षा शिवावेशनकारिणी ||
31 SK यथायथं लक्षणानि कृतानि | एवञ्च प्रागुक्ततत्तद्दीक्षालक्षणैः प्रथमं विधिबोधितमान्त्रदीक्षया लब्धप्रवेशे शिष्ये मन्त्रसिद्धस्य गुरोः स्वशक्तेरुन्मीलनं द्वितीया मान्त्री दीक्षा | ततश्चाविर्भावितशक्तेः शिष्यस्य शिवतासम्पादनं तृतीया शाम्भवी दीक्षेत्यवगम्यते इति षडाम्नायमहारत्नानुसारि सिद्धान्तः | राघवभट्टधृतवायवीयसंहितायान्तु � शाम्भवी चैव शाक्ती च मान्त्री चैव शिवागमे | दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना || इत्युद्दिश्य � गुरोरालोकमात्रेण स्पर्शात् सम्भाषणादपि | सद्यः संज्ञा भवेज्जन्तोर्दीक्षा सा शाम्भवी मता || शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु | गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा | मान्त्री क्रियावती सा तु कुण्डमण्डलपूर्विका || इत्येतानि लक्षणानि कृतानि | अस्मिन् कल्पे प्रागुक्ततत्तल्लक्षणैः प्रथमं विषयविमुग्धात्मनः शिष्यस्य सद्गुरुदर्शनमात्रेण संज्ञालाभस्ततो विषयवैमुख्यम् इति शाम्भवी दीक्षा | ततोऽनया दीक्षया सम्भावितशम्भुभावस्य द्वितीया शाक्ती दीक्षा | सा च ज्ञानवतीति तया दीक्षया ज्ञानोत्पादे तृतीया मान्त्री दीक्षा | सा च प्रागुक्तदीक्षाद्वयेन सम्भावितशम्भुभावस्य समुत्पन्नज्ञानस्य च शिष्यस्य कुण्डमण्डलाद्युपायपूर्विका कर्मभूयिष्ठा च मन्त्रप्रदानरूपा क्रियावती | एतदभिप्रायेणैव � महादीक्षा तथा दीक्षा उपदेशस्ततः परम् | युगे युगे च कर्तव्य उपदेशः कलौ युगे || इति तन्त्रसारधृतविश्वसारवचनेनापि प्रतियुगं दीक्षात्रयस्य कर्तव्यतामुपपाद्योपदेशरूपमान्त्रदीक्षायाश्चरमत्वम्-अभिहितम् | अत्र ततः परमित्यभिधानाद्दीक्षात्रयस्यैव कर्तव्यत्वमवगम्यते | षटचक्रादिज्ञानापेक्षिणामन्तर्यागादिकर्मणाम्-उपदेशस्य प्रबलाज्ञानमलीमसे शिष्यमनसि सर्वथा प्रवेशासम्भवात् � (आगम�सब्दार्थः) आतगः शिववक्त्रेभ्यो गतश्च गिरिजामुखे | मतश्च वासुदेवेन तेनागम इहोच्यते || १८ || (गुरुलक्षणम्)
32 SK अथ वक्ष्ये गुरूणान्तु लक्षणं तन्त्रसूचितम् | उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः || १९ || -------------------------------------------------------- देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया | जपेदेकमनाः प्रातःकालान्मध्यन्दिनावधि || इति गन्धर्वतन्त्राष्टाविंशपटलोक्तदेवतागुरुमन्त्रैक्य-भावनानुपपत्तेश्च ज्ञानविशोधित एव शिष्यहृदये कर्मोपदेशः समीचीन इति | एतन्मतद्वयप्रदर्शनार्थमेव श्रीमत्परमहंसैः शाम्भवी शाक्ती मान्त्रीति दीक्षाक्रममुद्दिश्य व्युत्क्रमेण लक्षणानि कृतानीत्यवधेयम् | तथा चात्र श्रीमत्परमहंसैर्दीक्षाभेदानामुभयविधमेव लक्षणमथवेत्यादिना सूचितमिति निष्कर्षः | १९ | गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् | उपदेशं ददद् गृह्णन् प्राप्नुयातां पिशाचताम् | इति कुलार्णव-पञ्चमखण्डीय-चतुर्दशोल्लासवचनेन गुरुशिष्ययोः परस्परमपरीक्ष्य मन्त्रदानग्रहणनिषेधात् परीक्षायाश्च लक्षणज्ञानापेक्षित्वेन गुरुशिष्ययोर्लक्षणे वक्तव्ये क्रमप्राप्तं गुरुलक्षणमाह �अथेति | तथा बृहन्नीलतन्त्रे तृतीयपटले � अनिन्दितवेशधारी कपटेन विनाकृतः | आचारवान् महाविद्याराधनेषु च तत्परः || तत्कल्पाचारसक्तश्च गुरुरित्यभिधीयते | कौलज्ञानी महायोगी गुरुरेव च दैवतम् || कुलीनः सर्वमन्त्राणां दाता सर्वेषु सुन्दरि | दीक्षाप्रभुः स एवात्मा नापरो वेदपारगः || इति | विशिष्याह कुलार्णवे पञ्चमखण्डे त्रयोदशोल्लासे � श्रीगुरुः परमेशानि शुद्धवेशो मनोहरः | सर्वलक्षणसम्पन्नः सर्वावयवशोभितः || तत्त्वज्ञो मन्त्रयन्त्राणां मर्मवेत्ता रहस्यवित् | पुरश्चरणकृत् सिद्धो मन्त्रसिद्धिप्रयोगवित् || २० || -------------------------------------------------- सर्वागमार्थतत्त्वज्ञः सर्वमन्त्रविधानवित् | लोकसम्मोहनकरो देववत् प्रियदर्शनः || सुमुखः सुलभः स्वच्छो भ्रमसंशयनाशकः | इङ्गिताकारवित् प्राज्ञ ऊहापोहविदुज्ज्वलः ||
33 SK अन्तर्लक्ष्यो बहिर्दृष्टिः सर्वज्ञो देशकालवित् | आज्ञासिद्धिस्त्रिकालज्ञो निग्रहानुग्रहक्षमः || बेधको बोधकः शान्तः सर्वजीवदयापरः | स्वाधीनेन्द्रियसञ्चारः षड्वर्गविजयक्षमः || अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् | शिवविष्णुसमः साधुर्मन्ददर्शनदूषकः || निर्मलो नित्यसन्तुष्टः स्वतन्त्रो मन्त्रशक्तिमान् | सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्णवाक् || भक्तप्रियः सदोदारो गम्भीरः शिष्टसाधकः | स्वेष्टदेवगुरुज्येष्ठवनितापूजनोत्सुकः || नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते | रागद्वेषभयक्लेशदम्भाहङ्कारवर्जितः || स्वविद्यानुष्ठानरतो धर्मादीनामुपार्जकः | यदृच्छालाभसन्तुष्टो गुणदोषविभेदकः || स्त्रीधनादिष्वनासक्तो दुःसङ्गव्यसनादिषु | सर्वाहम्भावसंयुक्तो निर्द्वन्द्वो नियतव्रतः || अलोलुपो ह्यसङ्कल्पपक्षपाती विचक्षणः | वित्तविद्यादिभिर्मन्त्रयन्त्रतन्त्राद्यविक्रयी || निःसङ्गो निर्विकल्पश्च निर्णीतार्थोऽतिधार्मिकः | तुल्यनिन्दास्तुतिर्मौनी निरपेक्षो निरामयः || इत्यादिलक्षणोपेतः श्रीगुरुः कथितः प्रिये || इति | गन्धर्वतन्त्रे षड्विंशपटलेऽपि � गुरुः सर्वगुणोपेतो दोषैरस्पृष्टमानसः | इत्यादि | एवमन्यत्रापि ज्ञेयम् | दाता दान्तः शान्तमना नितान्तशान्तविग्रहः | अध्यात्मविद् ब्रह्मचारी कुलीनो गुरुरुच्यते || २१ || (शिष्यलक्षणम्) सुन्दरः सुमुखः स्वच्छः प्रज्ञावान् सुस्थिराशयः | अलुब्धः स्थिरगात्रश्च प्रेक्षाकारी जितेन्द्रियः || २२ || आस्तिको दृढभक्तिश्च गुरौ मन्त्रे च दैवते | एवंभूतो भवेच्छिष्यस्त्वितरो दुःखकृद् गुरोः || २३ || (दीक्षायाः पूर्वं शिष्यो गुरुं सेवेत) आदौ सेवा गुरोः कार्या शरीरवाङ्मनोधनैः || २४ || (गुरुसेवाप्रकारः) शुभेऽह्नि स्नानमाचर्य संपूज्य गणनायकम् | सूर्यं हरिं शिवं दुर्गां वाणीञ्च कमलालयाम् || २५ || -------------------------------------------------- २२ | शिष्यलक्षणमाह सुन्दर इति | गन्धर्वतन्त्रे षड्विंशपटलेऽपि �
34 SK यथायोग्यगुणैः पूर्वैर्युक्तश्चातिप्रियंवदः | विशुद्धदेहवदनः शुक्लाम्बरधरः शुचिः || विमुखः परनिन्दासु देवतादर्शनेषु च | परीयवनिताभूमिपीडासु विगतस्पृहः || दयान्वितः सर्वजने प्रेक्षाकारी जितेन्द्रियः | आस्तिको गुरुभक्तश्च शुद्धिमान् सुस्थिराशयः || अलुब्धः स्थिरमैत्रश्च गुरुवाक्यप्रमाणकः | सर्वदा दृढभक्तिश्च गुरौ मन्त्रे सदैवते || एवंविधो भवेच्छिष्यस्त्वितरो दुःखकृद् गुरोः || इति | निष्.इद्धगुरुशिष्यलक्षणन्तु ग्रन्थकृता न धृतमिति अस्माभिरप्युपेक्षितम्, तद्विस्तरस्तु कुलार्णवादौ द्रष्टव्यः | मातरं पितरं नत्वा ब्राह्मणान् परितोष्य च | फलपुष्पसुभोज्यादीन् गृहीत्वा भक्तिसंयुतः || २६ || पुरुषार्थ � समावाप्त्यै सच्छिष्यो गुरुमाश्रयेत् | शिववत् पूजयेद् भक्त्या शिवज्ञानप्रकाशकम् || २७ || त्रिधा प्रदक्षिणीकृत्य दण्डवत् प्रणमेत् क्षितौ | विज्ञापयेत् समुत्थाय जानुभ्यामवनीं गतः || २८ || कृताञ्जलिपुटो भूत्वा प्रणिपत्य पुनर्गुरुम् | गुरोराज्ञां समासाद्य विरमेद् विधिपूर्वकम् || २९ || गुरूच्यमाने वचने दद्यादित्थं वचस्तदा | प्रसीद नाथ देवेति स तथेति कृतादरः || ३० || प्रतिकूलं गुरोर्नित्यं मनसापि न कारयेत् || ३१ || नारायणधिया नित्यमेकग्रामनिवासिनम् | कर्मणा मनसा वाचा वन्दनं समुपाचरेत् || ३२ || प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् | वराभयकरं शान्तं स्मरेत्तन्नामपूर्वकम् || ३३ || गुरुं नाम्ना न भाषेत जपकालादृते क्वचित् | श्रीनाथ देव स्वामीति विवादे साधने वदेत् || ३४ || (गुरुसेवाफलम्) ब्रह्मविष्णुशिवादीनां पूजने यत् फलं लभेत् | तत् फलं समवाप्नोति प्रत्यहं वन्दने गुरोः || ३५ || गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः | भवार्णवतरिः शान्तो गुरुरेव परा गतिः || ३६ || (गुरोरग्रे मानवान्तरपूजानिषेधः) गुरौ तिष्ठति यस्त्वन्यं मानुषं पूजयेन्नरः | स दुर्गतिमवाप्नोति सत्यं सत्यं न संशयः || ३७ || (गुरुमङ्गीकृत्य तत्र वैमनस्यं दोषाय)
35 SK प्रतिपद्य गुरुं यस्तु मोहाद्विप्रतिपद्यते | युगकोटीः स नरके पच्यते नात्र संशयः || ३८ || (गुर्वाज्ञाया अपरिपालनं नरकाय भवति) ये गुर्वाज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः | न तेषां नरकक्लेशान्निस्तारोऽस्ति कथञ्चन || ३९ || (गुरोरधिक्षेपादौ दोषः) अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये | शूकरत्वं भवत्येव तेषां जन्मशतेष्वपि || ४० || (गुरुद्रोहपरिणामः) ये गुरोर्द्रोहिणो मूढाः सततं पापकारिणः | तेषान्तु यावत् सुकृतं दुष्कृतं स्यान्न संशयः || ४१ || (गुरुभक्तेर्मुक्तिप्रयोजकत्वम्) गुरौ येषां स्थिरा भक्तिर्मुक्तिस्तेषां करे स्थिता | रात्रौ दिने च तस्याज्ञां दासवत् परिपालयेत् || ४२ || (गुरौ शिष्यस्य व्यवहारः) असह्यमशुभं तद्वद्बहुवाक्यं परित्यजेत् | अभिमानं न कुर्वीत धनजात्याश्रमादिभिः || ४३ || गुरुद्रव्यं न भोक्तव्यं तेनादत्तं कदाचन | दत्तं प्रसादवद् ग्राह्यं लोभतो न कदाचन || ४४ || अद्वैतं देवपूजाञ्च जपयज्ञस्तवादिकम् | परिहासं प्रलापञ्च गुरोः साक्षाद् विवर्जयेत् || ४५ || पादुकायोगपट्टादि-गुरुचिह्नानि साधनम् | न लङ्घयेत् स्पृशेन्नैव पादाभ्यां प्रणमेत् सदा || ४६ || काष्ठासनोपवेशञ्च यानाद्यारोहणं तथा | पल्यङ्कशयनं तद्वत्तथा पादप्रसारणम् || अङ्गभङ्गञ्च लीलाञ्च न कुर्याद् गुरुसन्निधौ || ४७ || गमनागमनं कुर्यात् प्रणम्य गुरुपादुकाम् | विचार्य कार्यं कुर्वीत गुरुवाक्यप्रसादवान् || ४८ || छायां न लङ्घयेत्तद्वन्न गच्छेत् पुरतो गुरोः | पश्चात् पादेन निर्गच्छेत् प्रणम्य च गुरोर्गृहात् || ४९ || गुरोरग्रे न कुर्वीत प्रभावं शिष्यसंग्रहम् || ५० || (गुरोस्तोषस्येष्टसाधनत्वं रोषस्येष्टप्रतिबन्धकत्वञ्च) गुरौ तुष्टे शिवस्तुष्टः शिवे तुष्टे जगत्त्रयम् | शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन || ५१ || (तत्रोपसंहारः) तस्मात् सर्वप्रयत्नेन गुरोः कोपं न कारयेत् | एवंविधविधानेन सेवां कुर्यादतन्द्रितः || ५२ || (वर्णेषु कतमः कियता कालेन गुरुसेवया शिष्यत्वयोग्यतामर्हति)
36 SK अब्दैकेन भवेद् योग्यो ब्राह्मणोऽब्दद्वयान्नृपः | वैश्यो वर्षैस्त्रिभिः शूद्रश्चतुर्भिर्वत्सरैर्गुरोः || ५३ || (गुरोः कर्तव्यम्) गुरुश्चात्मविशुद्ध्यर्थं शिष्यांस्तु परितोषयेत् | चिरं विचार्य यत्नेन देयमन्त्रान् विचारयेत् || ५४ || (अ-क-थ-ह-चक्रम्, तत्र रेखापातः) पूर्वाग्राः पञ्च रेखाः स्युर्दक्षिणाग्रा लिखेत्तथा | चतुश्चतुःप्रकारेण चतुःकोष्ठं भवेदथ || ५५ || -------------------------------------------------------- ५३ | अब्दैकेनेति | तन्त्रराजे द्वितीयपटले � एकद्वित्रिचतुःपञ्चवर्षाण्यालोच्य योग्यताम् | भक्तियुक्तान् गुणांश्चापि क्रमाद् वर्णेषु सङ्करे || पश्चादुक्तक्रमेणैव वदेद्विद्यामनन्यधीः | अन्यथा चेद् वदेन्नाशं सशिष्यो गुरुराप्नुयात् || इति वचनाभ्यामुक्तक्रमेणैव ब्राह्मणादिवर्णचतुष्टयस्य परीक्षाकालमभिधाय सङ्करवर्णानां पञ्चभिर्वर्षैः परीक्षाभिहितेति विशेषो दृश्यते | ५५ | पूर्ववचने देयमन्त्रान् विचारयेदित्युक्तम्, तत्र मन्त्रविचारक्रमे चक्रस्यापेक्षितत्वात् � महाकथहचक्रार्थं सर्वचक्रोत्तमोत्तमम् | यस्य विचारमात्रेण कामरूपी भवेन्नरः || इति रुद्रजामलोत्तरखण्डीयपञ्चमपटलवचनेन, वैष्णवे च तथा शैवे देवीमन्त्रे च भैरव | अकथहं महाचक्रं विचार्य यत्नपूर्वकम् | यो गृह्णाति महामन्त्रं स शिवो नात्र संशयः || इति रुद्रजामलोत्तरखण्डीयतृतीयपटलवचनेन च अकथहचक्रस्य सर्वचक्रोत्तमोत्तमत्व- ईशानस्थ-चतुःकोष्ठमाग्नेय्याञ्च चतुस्तथा | तदधःस्थं चतुःकोष्ठं तद्वामस्थं तथैव च || ५६ || (कोष्ठानां संज्ञा) सिद्धं साध्यं सुसिद्धञ्च रिपुञ्च (?) समुदाहृतम् || ५७ || (तत्र वर्णन्यासक्रमः) एतेषामाद्यकोष्ठेषु द्वितीयेषु ततः परम् | तृतीयेषु चतुर्थेषु क्रमादावृत्तितः पुनः || ५८ || ------------------------------------------------------
37 SK प्रतिपादनात् फलविशेषप्रसवितृत्वावधारणाच्च प्रथमं तदेव निरूपयति � पूर्वेत्यादिना | तत्र पश्चिमतः पूर्वाग्राः पञ्च, उत्तरतो दक्षिणाग्राश्च पञ्च रेखाः कर्तव्याः | एवं कृते षोडश कोष्ठानि सम्पद्यन्ते | ५६ | तेषाञ्च षोडशकोष्ठानां चतुर्धा विभागः कर्तव्यः | तत्र ऐशानं कोष्ठचतुष्कम्, आग्नेयं कोष्ठचतुष्कम्, तदधःस्थम् आग्नेयकोष्ठचतुष्कादधःस्थं नैरृतकोष्ठचतुष्कम्, तद्वामस्थं नैरृतकोष्ठचतुष्कवामस्थं वायव्यं कोष्ठचतुष्कञ्च कल्पयेदित्येवाह पूर्ववचने चतुश्चतुःप्रकारेणेत्यनेन | ५७ | तत्र प्रथमचतुष्कं सिद्धाख्यम्, द्वितीयचतुष्कं साध्याख्यम्, तृतीयचतुष्कं सुसिद्धाख्यम्, चतुर्थचतुष्कञ्चारिरिति संज्ञां भजते | ५८ | एतेषामिति | एतेषां षोडशकोष्ठानाम् आद्यकोष्ठचतुष्केषु ईशानस्थेष्वित्यर्थः | द्वितीयेषु आग्नेयेषु, तृतीयेषु नैरृतेषु, चतुर्थेषु वायव्येषु च प्रागुक्तन्यासक्रमेण लभ्येषु सिद्धादिचतुश्चतुःकोष्ठेषु प्रादक्षिण्येनावृत्त्या वक्ष्यमाणान् वर्णान् लिखेदिति परेणान्वयः | अत्र यद्यपि क्रमादावृत्तित इत्यनेन दक्षिणावृत्तिर्वामावृत्तिर्वा विशेषतो नाभिहिता, तथापि � सर्वेषु गृहमध्येषु प्रादक्षिण्यक्रमेण तु | अकारादिक्षकारान्तं लिखित्वा गणयेत्ततः || ५ |५| इति रुद्रजामलपञ्चमपटलवचनेन दक्षिणावृत्तिः स्फुटमवगम्यते | अत एव तन्त्रसार- अकारादिविसर्गान्तान् कादि-मान्ताल्लिखेत् सुधीः | यादि-सान्तान् समालिख्य हलक्षांश्च लिखेत्ततः || ५९ || ---------------------------------------------------------- कृतापि दक्षिणावर्तयोगेन कोष्ठे वर्णाल्लिखेत् सुधीरित्युक्तम् | राघवभट्टेनापि शारदाटीकायां प्रादक्षिण्येनेत्यभिहितम् इति निष्कर्षः | ५९ | तान् वर्णानाह � अकारेत्यादि | अकारादिविसर्गान्तान्, ततः ककारतो मकारान्तान्, ततो यकारतः सकारान्तान् ततश्च हलक्ष इति वर्णत्रयं लिखेत् |
38 SK एतेनैतदुक्तं भवति � आद्यकोष्ठचतुष्कस्य प्रथमे कोष्ठे अकारम्, द्वितीयचतुष्कस्य प्रथमे आकारम्, तृतीयचतुष्कस्य प्रथमे इकारम्, चतुर्थचतुष्कस्य प्रथमे ईकारम् | एवमाद्यचतुष्कस्य द्वितीये उकारम्, द्वितीयचतुष्कस्य द्वितीये ऊकारम्, तृतीयचतुष्कस्य द्वितीये ऋकारम्, चतुर्थचतुष्कस्य द्वितीये ऋकारम् | एवमाद्यचतुष्कस्य तृतीये ऌकारम्, द्वितीय-चतुष्कस्य तृतीये ॡकारम्, तृतीयचतुष्कस्य तृतीये एकारम्, चतुर्थचतुष्कस्य तृतीये ऐकारम् | एवं प्रथमचतुष्कस्य चतुर्थे ओकारम्, द्वितीयचतुष्कस्य चतुर्थे औकारम्, तृतीयश्चतुष्कस्य चतुर्थे अंकारम्, चतुर्थचतुष्कस्य चतुर्थे अःकारं लिखेत् | इति स्वरवर्णन्यासक्रमः | एवमनेनैव क्रमेण ककारादिक्षकारान्तान् वर्णान् लिखेत् | तथाच प्रथमचतुष्कस्य प्रथमे कोष्ठे ककारम्, द्वितीयचतुष्कस्य प्रथमे खकारम्, तृतीयचतुष्कस्य प्रथमे गकारम्, चतुर्थचतुष्कस्य प्रथमे घकारं लिखेत्, एवमनया रीत्या ङकारादीनां क्षकारान्तानामपरेषामपि वर्णानां प्रादक्षिण्येन पुनः पुनरावृत्त्या न्यासः कर्तव्य इति | अत्र � अकारादिहकारान्तं मूलकोष्ठादितः सुधीः | दक्षिणावर्तयोगेन कोष्ठे वर्णाल्लिखेत् सुधीः || इति तन्त्रसारधृतविश्वसारवचनेन अकारादिहकारान्तानां वर्णानां चक्रे सन्निवेश उपदिश्यते, ततश्च हलक्षांश्च लिखेत्ततः इति श्रीतत्त्वचिन्तामणिवचनेन सह तन्त्रसारवचनविरोधः स्यात् | रुद्रजामलीयपञ्चमपटले अकथहचक्रप्रकरणे � अकारादिक्षकारान्तं लिखित्वा गणयेत्ततः | इति | तन्त्रराजतन्त्रप्रथमपटले च � एवं चतुर्षु कोष्ठेषु क्षान्तावधि समालिखेत् | इत्युक्तम्, एतदपि वचनद्वयम् अकारादिक्षकारान्तवर्ण-सन्निवेशनस्यैव समर्थकम् | प्रकृते तथानङ्गीकारे लादिक्षादिनाम्नां दीक्षार्थिनां मन्त्रविचारासम्भवः | अतोऽकारादिक्षकारान्त- मित्याकारकं विश्वसारवचनं विकृतं सदकारादिहकारान्तमित्याकारेणाधुनातनेषु तन्त्रसारेषु वर्तत इति प्रतीमः | न च �
39 SK अपभ्रंशाक्षरं ल-क्षौ हित्वा षण्डचतुष्टयम् | मन्त्राक्षरैः सहैकैकं नामवर्णान् विशोधयेत् || इत्यागमतत्त्वविलास-राघवभट्टधृतपिङ्गलामतवचने लक्षयोर्वर्जनदर्शनात् प्रागुक्ततन्त्रसारवचनमविरुद्धमिति वाच्यम्, प्रागुक्तपिङ्गलामतवचनस्य स्वरव्यञ्जनभेदभिन्न- नाममन्त्रघटकप्रत्यक्षरशोधनविषयत्वात् | अत एव राघवभट्टेन � पिङ्गलामते प्रत्यक्षरं सिद्धादिगणनोक्ता | मातापितृकृतं नाम यच्चाप्यभिजनैः कृतम् | विश्लिष्य तत्र वै वर्णान् स्वरव्यञ्जनभेदतः || तथैव मन्त्रबीजानि ततः शोधनमारभेत् | बिन्दुद्विबिन्दुकोपध्मानीयजिह्वा�न्घ्रिसम्भवान् | संहतोच्चारणप्राप्तमधिकाक्षरमेव च || इत्युपक्रम्य अपभ्रंशाक्षरमित्याद्युक्त्वा व्यञ्जनैर्व्यञ्जनान्येव स्वरैः साकं स्वरांस्तथा | आद्यमाद्येन संशोध्य द्वितीयेन द्वितीयकम् || इत्यादिना तस्य प्रत्यक्षरशोधनरूपकल्पान्तरत्वमुक्तम् | अपि च अपभ्रंशेत्यादिपिङ्गलामतवचने षण्डचतुष्टयमित्यनेन ऋ ॠ ऌ ॡ संज्ञकानां नपुंसकार्णानामपि वर्जनं तस्य कल्पान्तरत्वं प्रमाणयति | ततश्च नाममन्त्राद्यक्षरशोधन-विधायके कल्पेऽस्मिन् लक्षयोरादानं युक्तमेवेति सर्वमवदातम् | तन्त्रराजन्त्रे प्रथमपटले � चतुश्चतुर्विभागेन कल्पयेत्तानि वै क्रमात् | प्रथमप्रथमे त्वाद्यं द्वितीयप्रथमे तथा || द्वितीयमन्यतश्चान्यत्तथान्यदपि कल्पयेत् | तत्तत्कोष्ठेषु विलिखेत्तत्तत्पञ्चममक्षरम् | एवं चतुर्षु कोष्ठेषु क्षान्तावधि समालिखेत् || इत्यादि-वचनैरपीयमेव वर्णस्थापनापरिपाटी निरूपिता | विशदीकृतमेतत् तन्त्रराजप्रथमपटलटीकायां सुभगानन्दनाथेन � एवं लिखिते सति प्रथमचतुष्कप्रथमकोष्ठे अ क थ ह इति चत्वार्यक्षराणि | (तत्र मन्त्रगणनाक्रमः) निजनामादिवर्णन्तु यस्मिन् कोष्ठे प्रदृश्यते | तत्कोष्ठाद् गणयेन्मन्त्री मन्त्रस्याद्यक्षरावधि || ६० || सिद्धसिद्धं सिद्धसाध्यं सिद्धसुसिद्धमेव च | सिद्धारिञ्च क्रमेणैव साध्यकोष्ठे लिखेत्ततः || ६१ ||
40 SK साध्यसिद्धं साध्यसाध्यं साध्यसुसिद्धमेव च | साध्यारिञ्च क्रमेणैव सुसिद्धे गणयेद् बुधः || ६२ || सुसिद्धसिद्धमादौ च सुसिद्धसाध्यमेव च | ततः सुसिद्धसुसिद्धं सुसिधारिमथो ततः || ६३ || अरिसिद्धमरिसाध्यमरिसुसिद्धमेव च | अर्यरिञ्चैव मन्त्रज्ञो वर्जयेच्च चतुष्टयम् || ६४ || ------------------------------------------------- तद्द्वितीयकोष्ठे उ ङ प इति त्रीणि | तत्तृतीयकोष्ठे ऌ झ म इति त्रीणि | तच्चतुर्थकोष्ठे ओ ड व इति त्रीणि | द्वितीयचतुष्कप्रथमकोष्ठे � आ ख द ल इति चत्वार्यक्षराणि | तद्द्वितीयकोष्ठे � ऊ च फ इति त्रीणि | तत्तृतीयकोष्ठे ॡ ञ य इति त्रीणि | तच्चतुर्थकोष्ठे औ ढ श इति त्रीणि | तृतीयचतुष्कप्रथमकोष्ठे इ ग ध क्ष इति चत्वारि | तद्द्वितीयकोष्ठे ऋ छ व इति त्रीणि | तत्तृतीयकोष्ठे ए ट र इति त्रीणि | तच्चतुर्थकोष्ठे अं ण ष इति त्रीणि | चतुर्थचतुष्कप्रथमकोष्ठे इ घ न इति त्रीणि | तद्द्वितीयकोष्ठे ऋ ज भ इति त्रीणि | तत्तृतीयकोष्ठे ऐ ठ ल इति त्रीणि | तच्चतुर्थकोष्ठे अः त स इति त्रीणि | एवं लिखिते प्रथमचतुष्ककोष्ठाक्षराणाम्-उपरितनाक्षराणि द्वितीयचतुष्ककोष्ठेषु यथाक्रमं दृश्यन्ते इत्यन्तेन ग्रन्थेन | ६०-६४ | एवं वर्णन्यासक्रममुक्त्वा गणनाक्रममाह � निजेति | पूर्वोक्तानां षोडशकोष्ठानां मध्ये यस्मिन् कोष्ठे निजनामदिवर्णं साधकस्य नाम्नः प्रथममक्षरं दृश्यते, तत्कोष्ठात् मन्त्रस्याद्यक्षरावधि, यस्मिन् कोष्ठे मन्त्रघटकाक्षराणां प्रथममक्षरं दृश्यते तत्कोष्ठं यावद् येनैव लिखनं कुर्यात्तेनैव गणनं स्मृतमिति तन्त्रसारधृतविश्वसारोक्तरीत्या गणयेत् वक्ष्यमाण-सिद्धसिद्ध- सिद्धसाध्यादीनीति शेषः | अरिसिद्धः सुरं हन्यादरिसाध्यस्तु कन्यकाम् | पत्नीमरिसुसिद्धस्तु अर्यरिर्मल (?) नाशयेत् || ६५ || सिद्धसिद्धो यथोक्तेन सिद्धसाध्यो गुणद्वयात् | सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान् || ६६ ||
41 SK द्विगुणात् साध्यसिद्धस्तु साध्यसाध्यो निरर्थकः | द्विगुणात् साध्यसुसिद्धः साध्यारिर्हन्ति गोत्रजान् || ६७ || ----------------------------------------------------------- तदेव गणनाक्रममुपदिशति सिद्धेत्यादिना अर्यरिञ्चैवेत्यन्तेन | एतदुक्तं भवति � यत्र चतुष्के स्वनामाद्यक्षरं तत् सिद्धसिद्धकोष्ठं ततस्तस्मिन्नेव चतुष्के प्रादक्षिण्येन कोष्ठत्रये सिद्धसाध्य-सिद्धसुसिद्ध-सिद्धारीन् गणयेत् | अस्मिन्नेव चतुष्के यदि मन्त्राद्यक्षरमपि स्यात् तदा अनयैव गणनया सिद्धम् | यद्यन्यस्मिन् स्वनामाद्यक्षरम्, प्रादक्षिण्येन द्वितीयचतुष्के मन्त्राद्यक्षरम्, तदा पूर्वचतुष्के यस्मिन् कोष्ठे नामाद्यक्षरम्, अत्र द्वितीयचतुष्केऽपि तदेव कोष्ठमारभ्य साध्यसिद्धादिगणनक्रमः इति राघवभट्टाः | एवं तृतीयचतुष्कादिष्वपि | एवञ्च स्वनामाद्यक्षरयुक्तं सिद्धसिद्धं तदपेक्षया द्वितीयं सिद्धसाध्यम्, तृतीयं सिद्धसुसिद्धम्, चतुर्थं सिद्धारि | क्रमेणैवेत्यनेनायमेवार्थः सूचितः | साध्यकोष्ठ इत्यादि | प्रागुक्तक्रमेण साध्याख्यस्य प्रथमं कोष्ठं साध्यसिद्धम्, द्वितीयं साध्यसाध्यम्, तृतीयं साधसुसिद्धम्, चतुर्थञ्च साध्यारि इति | क्रमेणैवेति इयमपि गणना प्रागुक्तगणनक्रमेणैवेत्यर्थः | तृतीयमाह � सुसिद्ध इति | प्रागुक्तरीत्या सुसिद्धाख्यस्य प्रथमं सुसिद्धसिद्धम्, द्वितीयं सुसिद्धसाध्यम्, तृतीयं सुसिद्धसिद्धम्, चतुर्थञ्च सुसिद्धारि | चतुर्थमाह � अथो इति | तदपेक्षया चतुर्थचतुष्कस्य प्रथमं कोष्ठम् अरिसिद्धाख्यम्, द्वितीयमरिसाध्याख्यम्, तृतीयमरिसुसिद्धाख्यम्, चतुर्थञ्चार्यर्याख्यमिति षोडशकोष्ठानां संज्ञाभेदा उन्नेयाः | गणनाप्राप्तस्यारिकोष्ठचतुष्कस्य वर्जनीयत्वमाह � मन्त्रज्ञो वर्जयेच चतुष्टयमिति | ६५ | वर्जने हेतुमाह � अरिसिद्ध इत्यादि | एतादृगनिष्टफलजनकत्वमेव वर्जनीयत्वे हेतुरित्यर्थः |
42 SK सुसिद्धसिद्धोऽर्द्धजपात् तत्साध्यो द्विगुणाधिकात् | तत्सुसिद्धः क्षणादेव सुसिद्धारिस्तु जातिहा | अकथहमहाचक्रं कथितं तन्त्रवर्त्मना || ६८ || अ-क-थ-ह-चक्रम् चतुष्कम् ऐशानकोष्ठ अ क थ ह सिद्ध-सिद्ध उ ङ प सिद्ध-साध्य आ ख द ल साध्य-सिद्ध ऊ च फ साध्य-साध्य आग्नेयकोष्ठ चतुष्कम् ओ ड व सिद्धारि ऌ झ म सिद्ध-सुसिद्ध औ ढ श साध्यारि ऌ ञ य साध्य- सुसिद्ध ई घ न अरिसिद्ध ऋ ज भ अरिसाध्य इ ग ध क्ष सुसिद्ध-सिद्ध ऋ छ व सुसिद्ध- साध्य तद्वामस्थवा यव्यकोष्ठ- चतुषकम् अः त स अर्यरि ऐ ठ ल अरिसुसिद्ध अं ण प सुसिद्धारि ए ट र सुसिद्ध- सुसिद्ध तदधो नैरृत- कोष्ठ- चतुष्कम् (ऋणधनचक्रम्) पूर्वजन्माराधितानां मन्त्राणां ज्ञानमुच्यते || ६९ || ----------------------------------------------------- ६९ | अकथहचक्रमुक्ता ऋणधनचक्रमाह-पूर्वजन्मेति | (तत्र रेखापातः साध्यसाधकाङ्कानां न्यासपरिपाटी च) पूर्वापरं द्वादशसंख्यसूत्रं याम्योत्तरस्थञ्च तथाच पञ्चकम् | साध्याङ्कमूर्द्ध्वे खलु मध्यतोऽर्णा- नधो लिखेत् साधकमङ्कमीशात् || ७० || (वर्णन्यासपरिपाटी) द्वौ द्वौ स्वरौ पञ्चसु कोष्ठकेषु शेषान् स्वरान् षट्सु षडेकमेकम् | कादीन् हशेषान् विलिखेत्ततोऽर्णा- नेकैकमेकादशसु स्थलेषु || ७१ || (तत्र साध्यसाधकाङ्कन्यासपूर्वको गुणनक्रमः) इन्द्रर्क्ष-नेत्र-रवि-पञ्चदशर्तुवेद- वह्न्यायुधाष्टनवभिर्गणितांस्तु साध्यान् | ------------------------------------------------------
43 SK ७० | ऋणधनचक्रं त्रिविधं भवति, तत्र प्रथमे रेखापातनक्रममाह � पूर्वेति | पूर्वतः पश्चिमान्ता द्वादश रेखाः तथा दक्षिणत उत्तरान्ताः पञ्च रेखाः कर्तव्याः | साध्याङ्कमिति | ऊर्द्ध्वे दक्षोत्तररेखापञ्चकानामूर्द्ध्वे बहिरूर्द्ध्वप्रदेशे पूर्वपश्चिमायतद्वादश-रेखासम्पादितैकादशकोष्ठानामुपरि क्रमेण एकैकशो वक्ष्यमाणान् साध्या�न्कान् लिखेत् | मध्यतञ्चतुश्-चत्वारिंशत्कोष्ठेषु वक्ष्यमाणान् वर्णान् लिखेत् | अधो दक्षोत्तररेखापञ्चकानामधः क्रमेण वक्ष्यमाणान् साधकाङ्कान् लिखेदित्यर्थः | ७१ | तत्र प्रथममेव वर्णन्यासक्रममाह � द्वौ द्वाविति | प्रागुक्तरेखासम्पादितचतुश्चत्वारिंशत्कोष्ठानां प्रथमकोष्ठपञ्चकेषु द्वौ द्वौ स्वरौ लिखेत् | एतेन अकारादय ॡकारान्ता दश स्वराः प्राथमिकपञ्चकोष्ठेषु निवेशनीया इत्युक्तं भवति | शेषानिति | प्रथमपङ्क्तेरवशिष्ठेषु षटसु कोष्ठेष्वेकैकश एकारादिविसर्गान्तान् स्वरान् लिखेदित्यर्थः | कादीनिति | अवशिष्टेषु त्रयस्त्रिंशत्कोष्ठेषु एकैकशः कादिहान्तान् वर्णान् लिखेत् | एकादशस्विति प्रतिपङ्क्त्यभिप्रायेणोक्तम् | दिग्भूगिरिश्रुतिगजाग्निमुनीषुवेद- षड्वह्निभिश्च गुणितानथ साधकार्णान् || ७२ || (मन्त्राणामृणधनत्वनिरूपणपरिपाटी, तत्फलविशेषाश्च) नामाज्झलादकठवाद् गजभुक्तशेषं ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् | मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी च तुल्यं यदा समफलः कथितो मुनीन्द्रैः || ७३ || -----------------------------------------------------
44 SK ७२-७३ | इन्द्रेति | साध्या�न्कमूर्द्ध्वे इत्युक्तक्रमेण प्रथमाद्येकादशकोष्ठानामूर्द्ध्वेषु क्रमेण १४|२७|२|१२|१५|६|४|३|५|८|९ एतैरिन्द्रादिपदगम्यैरङ्कैर्गुणितान् साध्यार्णान्, अधो लिखेत् साधकमङ्कमित्युक्तक्रमेण दिगादिपदवेद्यैः १०|१|७|४|८|३|७|५|४|६|३ एतैरङ्कैर्गुणितान् साधकार्णांश्चेत्यर्थः | नामाज्झलादक- ठ-वादिति | अ-क-ठ-वात्मकमेकादशैकादशाक्षररूपं साध्यसाधकनामघटकस्वरव्यञ्जनभेदभिन्नवर्ण-समुदायं प्राप्य इन्द्रर्क्षादिभिर्गुणितान् साध्यार्णान् दिगादिभिर्गुणितान् साधकार्णांश्च ज्ञात्वा उभयोः साध्याङ्कसाधका�न्कयोरधिकमवशिष्टमृणं धनञ्च स्यादित्यर्थः | तथाच राघवभट्टः � तत्र प्रकारः � साधकस्य, साध्यस्य मन्त्रस्य च नामाक्षराणि स्वरव्यञ्जनभेदेन पृथक्कृतानि स्थापयेत् | ततो मातृकायाः अ-क-ठ-वात्मकमेकादशैकादशाक्षरं वर्गचतुष्टयं कृत्वा मन्त्राक्षराणि स्वरव्यञ्जनरूपेण पृथक्कृतानि इन्द्रादिभिरङ्कैर्गुणयेत् | साधकनामाक्षराणि स्वरव्यञ्जन रूपेण पृथक्कृतानि दिगादिभिरङ्कैर्गुणयेत् | तत्र गुणनप्रकारः � यस्मिन् स्थाने यो वर्णस्तं वर्णं तेनाङ्केन गुणयेत्, तत्स्थानमिताङ्कं गुणयेदित्यर्थः | तद् यथा-प्रथमकोष्ठस्थो वर्णोऽकारः, तञ्च चतुर्दशभिर्गुणयेत् तत्रैकश्चतुर्दशगुणितश्चतुर्दशैव | तथा द्वितीयकोष्ठस्थो वर्ण इकारस्तं सप्तविंशत्या गुणयेत्, तेन द्वाभ्यां सप्तविंशतिर्गुणिता चतुःपञ्चाशत् | एवं तृतीयस्थानस्थो वर्ण उकारो द्विगुणितः षड् भवति | एवं साधकनामाक्षराण्यपि दिगादिभिर्गुणयेदिति ||
45 SK गजभुक्तशेषम् अष्टभिविभाजितस्यावशिष्टमित्यर्थः | तत्र भागफलञ्चेदधिकं तदृणम्, यच्च न्यूनं तद् धनमित्यवधेयम् | एतादृशप्रक्रियायाः फलमाह � मन्त्रस्त्वृणीत्यादि | मन्त्रो यदि ऋणी अधिकाङ्क स्यात्तदा स शुभफलो मङ्गलदायको भवति | यदि धनी न्यूनाङ्कः स्यात्तदा फलमशुभं प्रसूत इत्यर्थः | यदा मन्त्रसाधकयोरवसिताङ्कस्तुल्यस्तदा समफलः | न शुभदो नाप्यशुभद इत्यर्थः | इत्ययमृणधनचक्रस्य मन्त्ररत्नावलीसम्मतः क्रमः | ऋण-धन-चक्रम् पूर्व साध्या�न्काः १४ २७ २ १२ १५ ६ ४ ३ ५ ८ ९ दक्षिणा अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः उत्तरा क ख ग घ �न च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य त ल व �स ष स ह साधका�न्काः १० १ ७ ४ ८ ३ ७ ५ ४ ६ ३ प�स्चिम (एतन्मूलीभूतागमनिरूपणम्) मन्त्ररत्नावलेश्चैतन्मतं शेषमथोच्यते || ७४ || (पूर्वतोऽन्यादृशी साध्यसाधकाङ्कन्यासपरिपाटी) षट्-काल-काल-वियदग्नि-समुद्र-वेद- खाऽकाशशून्यदहनाः खलु साध्यवर्णाः | युग्म-द्वि-पञ्च-वियदम्बर-युक्-शशाङ्क- व्योमाब्धिवेदशशिनः खलु साधकार्णाः || ७५ || ---------------------------------------------------- ७५ | प्रागुक्तर्णधनचक्रस्यैव साध्यसाधकाङ्क-स्थापनायां क्रमान्तरमाह - षडिति | पूर्वापरं द्वादशसंख्यसूत्रम् इत्यादि प्रागुक्तक्रमेणैव रेखा विन्यस्य तत्र इन्द्रर्क्षनेत्ररविपञ्चदशर्तुवेदेत्यादि प्रागुक्तक्रमम्-उल्लङ्घ्य षटकालेत्यादिवचनक्रमेण साध्याङ्कान् साधकाङ्कांश्च निवेशयेदित्ययमेवास्मिन् कल्पे विशेषः | तन्त्रसारकृता तु षट् कालेत्यादि विष्णुविषयमिति केचित् | वस्तुतस्तु पूर्वस्यैव विवरणमित्युक्तम् | तथा च इन्द्रर्क्षेत्यादिना गुणितेऽष्टाभिर्विभाजिते च यदवशिष्टं तद्रपमिदमिति केषाञ्चिदाशयः |
46 SK तथाच ऊर्द्ध्वानामेकादशकोष्ठानामूर्द्ध्वे क्रमेण - षट् ६ | काल ६ | काल ६ | वियत् ० | अग्नि ३ | समुद्र ४ | वेद ४ | ख ० | आकाश ० | शून्य ० | दहनाः ३, एतानङ्कान् लिखेत्, एत एव साध्याङ्काः | प्रकारान्तरेण ऋण-धन-चक्रम् पूर्व साध्या�न्काः ६ ६ ६ ० ३ ४ ४ ० ० ० ३ दक्षिण अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः उत्तरा क ख ग ङ्ह �न च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व �स ष स ह साधका�न्काः २ २ ५ ० ० २ १ ० ४ ४ १ प�स्चिमा (अस्यैव चक्रस्य क्रमान्तरम्) अथ कादिमतेनापि वक्ष्ये तच्चक्रमुत्तमम् || ७६ || (चक्रेणानेन मन्त्रशोधनस्य प्रक्रिया) निजनामादिकं वर्णमादाय परतः सुधीः | मन्त्राद्यक्षरपर्यन्तं गणनीयन्तु सर्वतः || ७७ || रामेण गुणितं कृत्वा सप्तभिश्च हरेद् बुधः | शेषा भवति या मात्रा ऋणं तावदुदाहृतम् || ७८ || ---------------------------------------------------------- अधः स्थानामेकादशकोष्ठानामधोऽपि क्रमेण � युग्म २ | द्वि २ | पञ्च ५ | वियत् ० | अम्बर ० | युक् २ | शशाङ्क १ | व्योम ० | अब्धि ४ | वेद ४ | शशिनः १ | एतानङ्कान् लिखेत्, एत एव साधकाङ्काः | गणनया मन्त्रविचारस्य प्रक्रिया तु पूर्ववदिति नात्र पुनरुच्यते | ७६ | अथ कादिमतानुसारेण ऋणधनचक्रस्य तृतीयं क्रमं प्रतिपिपादयिषुः प्रति जानीते � अथेति | ७७ | तमेव क्रममाह � निजेति | निजनाम्नः साधकनाम्न आदिकम् आदौ भवं प्रथमवर्णं गृहीत्वा ततः प्रभृति मन्त्रस्याद्यक्षरपर्यन्तं गणयेत्, ततो यावन्तो वर्णा भवन्ति, तान् रामेण त्रिभिर्गुणितान् कृत्वा समष्ट्या जातां संख्यां सप्तभिर्हृत्वा यदवशिष्टं तदृणम् इत्यर्थः | एतदेव विलोमेन साध्यं तावद् वदाम्यहम् || ७९ || कृते भागे तु शिष्टाङ्कान् द्वयोः सम्यङ्निरूपयेत् | योऽधिकः स ऋणी ज्ञेय इति तन्त्रविदो विदुः || ८० || (अस्यैव चक्रस्य क्रमान्तरम्) अथवान्यप्रकारेण धनमृणं विशोधयेत् || ८१ || (ततो मन्त्रशोधनप्रक्रिया)
47 SK साध्यनाम द्विगुणितं स्वरव्यञ्जनभेदतः || साधकस्य च नामार्णं स्वरव्यञ्जनमण्डितम् || ८२ || एकीकृत्य हरेत् पश्चाद्वसुभिः साधकस्य च | स्वरव्यञ्जनरूपेण नामार्णं द्विगुणं चरेत् || ८३ || साध्यनामाङ्कितं कृत्वा पूर्ववद् भागमाहरेत् | योऽधिकः स ऋणी ज्ञेयः प्रकारश्चापरः स्मृतः || ८४ || ---------------------------------------------------------- ७९ | एवं साधकाङ्कान् निरूप्य साध्याङ्कान् निरूपयति � एतदेवेति | एतदेव विलोमेन गुणितम्, साध्यं साध्याङ्कं वदामीति सम्बन्धः | तथाच मन्त्राद्यवर्णतः साधकनामादिवर्ण-पर्यन्तं गणयित्वा समष्ट्या जातां संख्यां सप्तभिर्गुणितां त्रिभिर्हृत्वा यदवशिष्टं तद् धनमिति प्रक्रिया | ८० | कृत इति | एवं भागे कृते साध्या�न्कानां साधकाङ्कानाञ्चावशिष्टानङ्कान् द्वयोः साध्यसाधकयोः भागावशिष्टा एते साध्याङ्काः एते च साधकाङ्का इति निरूपयेदित्यर्थः | तत्फलमाह � य इति | भागफलस्याधिक्ये ऋणम्, न्यूनत्वे धनमित्यर्थः | ८१ | ऋणधननिरूपणे व्यवस्थान्तरं दर्शयितुमुपक्रमते � अथवेति | ८२-८४ | ततो मन्त्रशोधनस्य प्रक्रियामाह � साध्येति | साध्यनाम मन्त्रम्, तद्घटकवर्णान् स्वरव्यञ्जनभेदभिन्नान् द्विगुणीकृत्य तांश्च द्विगुणितान् वर्णान् स्वरव्यञ्जनभेदभिन्नैः साधकनामघटकवर्णैरेकीकृत्य तानेकीकृतान् वर्णानष्टभिर्हरेत् | तथा तद्वैपरीत्येन पूरोक्तरीत्या साधकनामघटकवर्णान् द्विगुणितान् साध्यनामघटकवर्णैरेकीकृत्य पूर्ववदष्टभिर्हरेत् | एवं कृते साध्यसाधकाङ्कयोर्यद् भागावशिष्टं तत्र योऽधिकाङ्कः स ऋणी, यश्च न्यूनाङ्कः स धनीत्यवधेयम् | (एतच्चक्रविशोधितस्य मन्त्रस्य फलम्) ऋणी मन्त्रः शुभफलो धनी स्यादशुभोदयः | तुल्योदयः शुभः प्रोक्त इति तन्त्रविदो विदुः || उक्तमृणधनं चक्रं सर्वसिद्धिप्रदायकम् || ८५ || (नक्षत्रचक्रं तत्र रेखापातः)
48 SK दश रेखाः प्रकर्तव्याः पूर्वपश्चिमयोगतः | रेखाचतुष्टयञ्चैव विलिखेद्दक्षिणायतम् | तन्मध्ये विलिखेद् वर्णान् वक्ष्यमाणक्रमेण तु || ८६ || (वर्णन्यासपरिपाटी) द्व्येकत्रि-वेद-शशिचन्द्रमुखेन्दुयुग्मं युग्मं कलाधरयुगद्वयजन्मभूमीः | पक्षत्रिचन्द्रहरनेत्रमहीन्दु-चन्द्र- पक्षैकपक्ष-शिवलोचन-वेदवर्णम् || ८७ || ---------------------------------------------------- ८५ | एवं ऋणधनस्वरूपमभिधाय तस्य फलमाह - ऋणीति | तुल्योदयः साध्यसाधकयोस्तुल्योऽङ्गः, शुभफलदायक इत्यर्थः | ८६ | ऋणधनचक्रमुपदिश्य नक्षत्रमाह � दशेति | पूर्वतः पश्चिमान्ता दश, उत्तरतो दक्षिणान्ताश्च चतस्रो रेखाः कर्तव्याः | एवं कृते सप्तविंशतिः कोष्ठानि सम्पद्यन्ते | तन्मध्य इति | वर्णान् एकपञ्चाशद् वर्णानित्यर्थः | ८७ | तामेव वर्णविन्यासपरिपाटीमाह � द्व्येकेत्यादिना समालिखेदित्यन्तेन | तथाच तेषु अश्विन्यादिक्रमेण प्रथमे कोष्ठे अ आ | द्वितीये इ | तृतीये ई उ ऊ | चतुर्थे ऋ ॠ ऌ ॡ | पञ्चमे ए | षष्ठे ऐ | सप्तमे ओ औ | अष्टमे क | नवमे ख ग | दशमे घ ङ | एकादशे च | द्वादशे छ ज | त्रयोदशे झ ञ | चतुर्दशे ट ठ | पञ्चदशे ड | षोडशे ढ ण | सप्तदशे त थ द | अष्टादशे ध | ऊनविंशे न प फ | विंशे ब | एकविंशे भ | द्वाविंशे म | त्रयोविंशे य र | चतुर्विंशे ल | पञ्चविंशे व श | षड्विंशे ष स ह | सप्तविंशे ल क्ष अं अः | इत्यनया रीत्या वर्णान् लिखेदित्यर्थः | बिन्दु-विसर्गौ स्वरान्त्यौ च शेषे गेहे समालिखेत् | (न्यसनीयानां वर्णानामश्विन्यादिक्रमत्वम्) अश्विन्यादिक्रमेणैव वर्णाम समीरितम् || ८८ || (एतच्चक्रकरणकमन्त्रशोधनपरिपाटी) जन्मभादाद्यनाम्नस्तु वर्णाद्वा विलिखेत् सुधीः | साध्याद्यक्षरपर्यन्तं जन्मादीनि पुनः पुनः || ८९ || -----------------------------------------------------------------
49 SK ८९ | एतच्चक्रकरणकमन्त्रशोधनपरिपाटीमाह � जन्मेति | स्वजन्मनक्षत्राश्रयकोष्ठस्थितवर्णात् साधकनामाद्यक्षर-सम्बन्धिनक्षत्राद् वा मन्त्राद्यक्षरपर्यन्तं जन्मसम्पदित्यादि-वक्ष्यमाणक्रमेण पुनः पुनर्गणयेदित्यर्थः | अत्र नाम्नो वर्णाद्वेति कल्पान्तरं स्वजन्मनक्षत्राज्ञाने मन्त्रशोधनार्थम् | तदुक्तं तन्त्रसारे � तत्र स्वनक्षत्रादेव नक्षत्रं गणनीयम् | स्वनक्षत्राज्ञाने स्वनामाद्यक्षरसम्बन्धिनक्षत्रादेव नक्षत्रं गणनीयम् | पिङ्गलातन्त्रे � प्रकटं यस्य जमर्क्षं तस्य जन्मर्क्षतो भवेत् | प्रनष्टं जन्मभं यस्य तस्य नामर्क्षतो भवेत् || इति वचनात् | प्रादक्षिण्येन गणयेत् साधकाद्यक्षरात् सुधीः || इति वचनाच्च इति | जन्मादीनि पुनः पुनरित्युक्तम्, तदेवाह � जन्मेत्यादि | नामतुल्यफलप्रदा इति सम्पदः सम्पज्जनकत्वं विपदो विपज्जनकत्वमित्यनया रीत्या फलमुन्नेयमित्यर्थः | इममर्थं स्फुटमाह राघवभट्टधृतनिबन्धतन्त्रे � रसाष्टनवभद्राणि युगयुग्मगतान्यपि | इतराणि न भद्राणि परित्याज्यानि सूरिभिः || इति | एतेन साधक-मित्र-परममित्र-क्षेमसम्पदो ग्रहणीया इतरा वर्जनीया इत्यापतति | अत एव तन्त्रसारकृतापि जन्म-तृतीय-पञ्चम-सप्तमानि नक्षत्राणि वर्जनीयानीत्युक्तम् | अत्रेदमवधेयम् � प्रागुक्तसप्तविंशतिनक्षत्राणि मानुष-राक्षस-दैवतभेदेन त्रिविधानि भवन्ति | तदुक्तं तन्त्रसारधृत-निबन्धतन्त्रे- पूर्वोत्तरत्रयञ्चैव भरण्यार्द्राथ रोहिणी | इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः || जन्म सम्पद् विपत् क्षेमः प्रत्यरिः साधको बधः | मित्रं परममित्रञ्च नामतुल्यफलप्रदाः || ९० ||
50 SK नक्षत्र-चक्रम् १ अ�स्विनी अ आ देवः २ भरणी इ मानुषः ३ कृत्तिका ई उ ऊ राक्षसः ४ रोहिणी ऋ ॠ ऌ ॡ मानुषः ५ मृग�सिराः ए देवः ६ आर्द्रा ऐ मानुषः ७ पुनर्वसुः ओ औ देवः ८ पुष्य क देवः ९ अ�स्लेषा ख ग राक्षसः १० मघा घ �न राक्षसः ११ पूर्वफाल्गुनी च मानुषः १२ उत्तरफल्गुनी छ ज मानुषः १३ हस्त झ ञ देवः १४ चित्रा ट ठ राक्षसः १५ स्वाती ड देवः १६ वि�साखा ढ ण राक्षसः १७ अनुराधा त थ द देवः १८ ज्येष्ठा ध राक्षसः १९ मूला न प फ मूला २० पूर्वाषाढा ब मानुषः २१ उत्तराषाढा भ मानुषः २२ �स्रवणा म देवः २३ धनिष्ठा य र राक्षरः २४ �सतभिषा ल राक्षसः २५ पूर्वभाद्रपद व �स मानुषः २६ उत्तरभाद्रपद ष स ह मानुषः २७ रेवती ल क्ष अं अः देवः ---------------------------------------------- ज्येष्टा-शतभिषा-मूला-धनिष्ठाश्लेष-कृत्तिकाः | चित्रा-मघा-विशाखाः स्युस्तारा राक्षसदेवताः || (नक्षत्रचक्रोपसंहारः) नक्षत्रचक्रं कथितं राशिचक्रमथोच्यते | (राशिचक्रम्) राशिचक्रं समालिख्य तत्र वर्णाल्लिखेत् क्रमात् || ९१ || (तत्र वर्णन्यासपरिपाटी) वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान् पञ्चेषुवाण-शरपञ्च-चतुष्टयार्णान् | मेषादितः प्रविलिखेदथ शादिवर्णान् | कन्यागृहेषु पुनरेव ततो लिखेच्च || ९२ || ------------------------------------------------- अश्विनी रेवती पुष्या स्वाती हस्ता पुनर्वसुः | अनुराधा-मृग्शिरःश्रवणा देवतारकाः || तथा - स्वजातौ परमा प्रीतिर्मध्यमा भिन्नजातिषु | रक्षोमानुषयोर्नाशो वैरं दानवदेवयोः || ततश्च नक्षत्रचक्रविचारे मानुषादिभेदेन तत्तत्फलभेदोऽपि विवेक्तव्य इति | ९१ | एवं नक्षत्रचक्रं निरूप्य राशिचक्रमाह � राशिचक्रं समालिख्येति | लेखनक्रममाह तन्त्रसारधृतागमकल्पद्रुमे � रेखाद्वयं पूर्वपरेण कुर्यात्तन्मध्यतो याम्यकुबेरभेदात् | एकैकमीशाननिशाचरे तु हुताशवाय्वोर्विलिखेत्ततोऽर्णान् || इति |
51 SK एतेन पूर्वतः पश्चिमान्तं रेखाद्वयं दक्षिणत उत्तरान्तञ्च रेखाद्वयं विधाय ईशानादिचतुष्कोणेष्वेकैकशो रेखाचतुष्टयं कुर्यादित्यर्थः | एवं कृते मेषादिद्वादशराशीनां द्वादश कोष्ठानि सम्पद्यन्ते | ९२ | तेषु मेषादिकोष्ठेषु वर्णन्यासपरिपाटीमाह � वेदाग्नीति | एतेन मेषकोष्ठे अ आ इ ई इति चत्वार्यक्षराणि | वृषकोष्ठे उ ऊ ऋ इति त्रीणि | मिथुनकोष्ठे ॠ ऌ ॡ इति त्रीणि | कर्कटकोष्ठे ए ऐ इति द्वे | सिंहकोष्ठे ओ औ इति द्वे | कन्याकोष्ठे अं अः इति द्वे | तुलाकोष्ठे क ख ग घ ङ इति पञ्च | वृश्चिककोष्ठे च छ ज झ ञ (राशीनां संज्ञास्तन्मूलको मन्त्रशोधनक्रमश्च) जप्तुः स्वराशितो मन्त्री यावत् साध्यादिवर्णकम् | लग्नं धनं भ्रातृबन्धु-पुत्रशत्रुकलत्रकाः || ९३ || मरणं धर्मकर्मायव्यया द्वादश राशयः | (राशीनां प्रागुक्तसंज्ञानुरूपफलदातृत्वम्) नामानुरूपमेतेषां शुभाशुभफलं दिशेत् || ९४ || ----------------------------------------------------------- इति पञ्च | धनुःकोष्ठे ट ठ ड ढ ण इति पञ्च | मकरकोष्ठे त थ द ध न इति पञ्च | कुम्भकोष्ठे प फ ब भ म इति पञ्च | मीनकोष्ठे य र ल व इति चत्वार्यक्षराणि लिखेत् | अथ शादिवर्णान् कन्यागृहेषु पुनरित्यनेन कन्यागृहे लिखितात् अं अः इति वर्णद्वयादनन्तरं श ष स ह ल क्ष इति वर्णषट्कं च लिखेदित्यवगन्तव्यम् | ९३-९४ | अनेन चक्रेण मन्त्रशोधनस्य क्रममाह-जप्तुरिति | जप्तुः साधकस्य स्वराशितः साध्यादिवर्णकं मन्त्रप्रथमाक्षरं यावन्मन्त्री देशिको गणयेदित्यर्थः | गणनफलमाह � लग्नमित्यादि | मेषादिद्वादशरा᳚ईनां लग्नादिद्वादशसंज्ञास्तत्तत्संज्ञानुरूप-शुभाशुभ- फलदातृत्वञ्चेत्यर्थः | अत एव तन्त्रसारे स्वराशीनामनुकूलं मन्त्रं भजेत् | सतारराशिकोष्ठानामनुकूलान् भजेन्मनूनिति नारदवनादित्याह | स्वराशेरज्ञने शोधनक्रममाह तत्रैव � यदा तु स्वराशेरज्ञानं तदा साधकनामाद्यक्षरसम्बन्धिनं राशिं गृहीत्वा गणयेत् | नारायणीये �
52 SK अज्ञाते राशिनक्षत्रे नामाद्यक्षरदर्शनात् | साध्यस्याक्षरराश्यन्तं गणयेत् साधकाक्षरात् || इति रामार्चनचन्द्रिकाधृतत्वादित्यन्तेन | अत्र नामानुरूपमेतेषां शुभाशुभफलं दिशेदित्युक्तम् | विशेषमाह तन्त्रसारधृततन्त्रान्तरतन्त्रे � लग्ने सिद्धिस्तथा नित्यं धने धनसमृद्धिदम् | भ्रातरि भ्रातृवृद्दिः स्याद् बान्धवे बान्धवप्रियः || पुत्रे पुत्रविवृद्धिः स्याच्छत्रौ शत्रुविवर्द्धनम् | कलत्रे मध्यमा प्रोक्ता मरणे मरणं भवेत् || धर्मे धर्मविवृद्धिः स्यात् सिद्धिदः कर्मसंस्थितः | आये च धनसम्पत्तिर्व्यये च सञ्चितव्ययः || इति राशिचक्रसङ्केतः | राशिचक्रम् (अ-क-ड-म-चक्रं तत्र वर्णन्यासक्रमश्च) राशिचक्रे लिखेद् वर्णान् क्लीवहीनान् स्वरान् बुधः | ककारादिक्षकारान्तान् दक्षावर्तक्रमेण तु | मेषादितोऽपि मीनान्तं गणयेत् क्रमशः सुधीः || ९५ || ------------------------------------------------------------ ९५ | एवं राशिचक्रसङ्केतं प्रदर्श्य अ-क-ड-म-चक्रसङ्केतमाह-राशिचक्रे लिखेद् वर्णानिति | अत्र रेखापातक्रमं स्फुटमाह रुद्रजामलतृतीयपटले � रेखाद्वयं पूर्वपरे मध्ये रेखाद्वयं लिखेत् | चतुष्कोणे चतूरेखाकडमं चक्रमण्डलम् | भ्रामयित्वा महावृत्तं निर्माय वर्णमालिखेत् || इति | (एतच्चक्रकरणकमन्त्रशोधनपरिपाटी) जप्तुः स्वनामतो मन्त्री यावन्मन्त्राद्यमक्षरम् | सिद्धसाध्यसुसिद्धारिक्रमेणैव पुनः पुनः || ९६ || (शोधितमन्त्रस्य फलविशेषप्रसवितृत्वम्) सिद्धः सिद्धिप्रदो नित्यं साध्यो जपहुतादिभिः || सुसिद्धः प्राप्तिमात्रेण साधकं भक्षयेदरिः || ९७ || ----------------------------------------------------------- वर्णान् विशेषयति � क्लीवहीनान् स्वरान्, ककारादिक्षकारान्तान् व्यञ्जनवर्णंश्चेति | स्वरेषु ऋ ॠ ऌ ॡ एते चत्वारो वर्णाः क्लीवाः | ऋ ॠ वर्णद्वयं ऌ ॡ तद्धि क्लीवं प्रचक्षते |
53 SK इति तन्त्रसारात् | तान् वर्जयित्वा स्वरान् लिखेदित्यर्थः | तच्च लेखनं दक्षावर्तेनेत्याह � दक्षावर्तक्रमेण त्विति | एतेन पुनरावृत्त्या यावच्छेषं मेषतो वृषान्तमेकैकशो वर्णानां स्थापनमुक्तं भवति, अत एव तन्त्रसारेऽक-ड-म-चक्रमुपक्रम्याभिहितेन � एकैकक्रमतो लेख्यान् मेषादिषु वृषान्तगान् | गणयेत् क्रमशो भद्रे नामादिवर्णपूर्वकान् || इति वचनेन दक्षावर्तेनैकैकवर्णस्थापनमाह | अथ गणनाक्रममाह � मेषादित इति | मेषादितो मीनान्तमित्यनेन वामावर्तेन गणनम्, अपिशब्देन मीनादितो मेषान्तमित्यर्थस्य लाभाद्दक्षावर्तेनापि गणनमुपदिष्टम् | ९६ | एतच्चक्रकरणकमन्त्रशोधनपरिपाटीमाह-जप्तुरिति | जप्तुः साधकस्य स्वनामतो नामप्रथमाक्षरत इत्यर्थः, मन्त्रप्रथमाक्षरं यावत् सिद्ध-साध्य-सुसिद्धारीन् दक्षावर्तेन वामावर्तेन च पुनः पुनर्गणयेदित्यर्थः | एवं कृतायां गणनायां यावन्ति गृहाणि सिद्धादिसंज्ञितानि स्युस्तानि विशिष्याह रुद्रजामले तृतीयपटले � नवैकपञ्चमे सिद्धः साध्यः षड्दशयुग्मके | सुसिद्धस्त्रिसप्तके रुद्रे वेदाष्टद्वाशे रिपुः || इति तथाच प्रथम-पञ्चम-नवमाः सिद्धाः | द्वितीय-षष्ठ-दशमाः साध्याः | तृतीयसप्तमैकादशाः सुसिद्धाः | चतुर्थाष्टमद्वादशा अरय इति पर्यवस्यति | अ-क-ड-म-चक्रम् (अकडमचक्रोपसंहारः, कुलाकुलचक्रविचारप्रतिज्ञा च) उक्तमकडमं चक्रं कुलाकुलं विचार्यते || ९८ || (कुलाकुलचक्रम्) (तत्र रेखापातो वर्णन्यासश्च) पूर्वापरायताः षट्करेखास्तु विलिखेत् क्रमात् | पञ्चभूतात्मका वर्णाः पञ्च पञ्च विभागतः || ९९ || ----------------------------------------------------------------- ९९ | एवमकडमचक्रं निरूप्य कुलाकूलचक्रं निरूपयति � पूर्वेति | पूर्वापरायत � पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसम्भवाः | पञ्चशः कादयः ष-क्ष-ल-स-हान्ताः समीरिताः || १०० || ---------------------------------------------------------------
54 SK षड्रेखापातेन पञ्च गृहाणि सम्पद्यन्ते | पञ्चभूतात्मका इति | वर्णानां पञ्चभूतात्मकत्वञ्च � कारणात् पञ्चभूतानामुद्भूता मातृका यतः | ततो भूतात्मका वर्णाः पञ्च पञ्च विभागतः || इति शारदातिलकद्वितीयपटलवचनादवगन्तव्यम् | तेषु च गृहेषु अकारादिवर्णान् पञ्चशो विभज्य सन्निवेशयेदित्यर्थः | १०० | तानेव वर्णानाह � पञ्च ह्रस्वा इत्यादि | ततश्च वायव्यगृहे अ आ, आग्नेयगृहे इ ई, भौमगृहे उ ऊ, वारुणगृहे ऋ ॠ, आकाशगृहे ऌ ॡ इति द्वौ द्वौ वर्णौ प्रतिगृहं निवेशनीयावित्या-पततै | अत्र सन्धिसम्भवानां पृथगुपादानान्न पारिभाषिकह्रस्वदीर्घग्रह इति राघवभट्टः | बिन्द्वन्ताः सन्धिसम्भवा इत्यत्र बिन्द्वन्ता इति सन्धिसम्भवा इत्यस्य विशेषणम् | बिन्दुरनुस्वारोऽन्तो येषां सन्धिसम्भववर्णानां ए ऐ वो औ इत्याख्यानां ते बिन्द्वन्ताः | वर्णानामेतेषां सन्धिसम्भवत्वं प्रदर्शितं राघवभट्टेन � एषां यथा सन्धिसम्भवत्वं तथोक्तमाचार्यैः � अकारेकारयोर्योगादेकारो वर्ण इष्यते | तस्यैवैकारयोगेण स्यादैकाराक्षरं तदा || उकारयोगे तस्यैव स्यादोकाराह्वयः स्वरः | तस्यैवौकारयोगेण स्यादौकाराह्वयः स्वरः | सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः || इति | विसर्गस्य षोडशस्वरान्तर्गतत्वेऽप्यत्र तस्यागणने हेतुमाह � राघवभट्टः � मूलाधारात् सञ्जातविवक्षोत्पन्नप्रयत्न-प्राणपवनप्रेरितः स्थानान्तरमप्राप्य कण्ठादेव निःसरन् प्रकृत्यात्मकः सर्गोऽत्र भूतेषु न गणितः इति | तथा कादिमतेऽपि � मायाशक्त्यभिधः सर्गः सर्वभूतात्मकः प्रभुः | तस्मात्तस्यात्र विन्यासो नैकदेशे शिवात्मनि || इति | सर्गो विसर्गः | एवं स्वरवर्णन्यासमुक्त्वा व्यञ्जनानां न्यासमाह � पञ्चश इति | कादयः (तेषां वर्णानां संज्ञा) वायु-तेजो-मही-वारि-नभांसि च क्रमेण तु || १०१ || (एतच्चक्रकरणकमन्त्रशोधनपरिपाटी) साधकस्याक्षरं पूर्वं मन्त्रस्यापि तथाक्षरम् | यद्येकभूतदैवत्यं जानीयात् स्वकुलं हि तत् || १०२ ||
55 SK ---------------------------------------------------------- पञ्चश इत्यर्थः | पञ्चश इति वीप्सार्थे शस्प्रत्ययः | कादयः पञ्च पञ्च वर्णा इत्यर्थः | एतेन क-च-ट-त-पाद्याः पञ्च वर्गा य-र-ल-व-शाश्चेति लभ्यते | ते कीदृशाः कादय इत्याह - ष-क्ष-ल-स-हान्ता इति | अत्र पञ्च ह्रस्वाः पञ्च दीर्घाः तथा बिन्द्वन्ताः सन्धिसम्भवाः तथा पञ्चशः कादयः तथा पक्षेत्यादिपञ्च पञ्च-तया निर्देशात् प्रत्येकपञ्चकानां क्रमेण वाय्वादित्वमिति सूचितम् | ततश्च अ आ ए क च ट त प य षा दश वायव्याः | इ ई ऐ ख छ ठ थ फ र क्षा दश तैजसाः | उ ऊ ओ ग ज ड द ब ल ला दश पार्थिवाः | ऋ ॠ औ घ झ ढ ध भ व सा दश वारुणाः | ऌ ॡ अं ङ ञ ण न म श हा दश नाभसाः | इत्यनया रीत्या वर्णानां वाय्वादित्वमित्यवगन्तव्यम् | यत्तु पिङ्गलामते � चत्वारिंशत्तथा पञ्च वर्णसंख्या प्रकीर्तिता | गणस्तु नवभिर्ज्ञेयः पार्थिवादिषु पञ्चसु || इति वचनेन नवनवानां वर्णानां वाय्वादिगणत्वमुक्तम्, तत्र अत्र ह्रस्वैरेव दीर्घाणां ग्रहान्नवभिरित्युक्ति रिति समाहितं राघवभट्टेन | अतस्तत्र दशभिरितितात्पर्यक एव नवभिरिति व्यवहार इति न कश्चिद्विरोधः | १०२ | अनेन मन्त्रशोधनस्य प्रकारमाह-साधकस्येत्यादिना | इदमवधेयम् � अत्र कुलाकुलशब्देन स्वकुलं परकुलञ्चाभिधीयेते, तत्प्रतिपादकत्वादेवास्य कुलाकुलचक्रमिति संज्ञा | तत् किं स्वकुलमित्याकङक्षायामाह � साधकस्येति | साधकनाम्नो मन्त्रस्य च पूर्वं प्रथमाक्षरं यदि एकभूतदैवत्यं स्यात् अनयोर्यदि वाय्वादीनामेकमेव भूतं (वर्णानां परस्परशत्रुत्वमित्रत्वादिव्यवस्था) पार्थिवे वारुणे मैत्रमाग्नेयस्यापि मारुतम् | पार्थिवानामक्षराणा शत्रुत्वे मारुतं स्थितम् || १०३ || आग्नेयस्य जलं शत्रुर्जलस्य मारुतं रिपुः | सर्वेषामेव वर्णानामविरोधि तु नाभसम् || १०४ || ----------------------------------------------
56 SK देवता भवेत् तत् स्वकुलं जानीयादित्यर्थः | एकभूतदैवत्यमिति एकं भूतं दैवत्यं देवता अस्येति विग्रहः | तथाच साधकनाम्नः प्रथमाक्षरं यद्भूतदेवताकं मन्त्राद्यक्षरमपि यदि तद्भूतदेवताकवर्णान्तर्गतं भवेत् तत् स्वकुलं विपर्यये तु परकुलमिति | अत एव मन्त्रसाधकयोराद्यो वर्णः स्यात् पार्थिवो यदि | तत् कुलं तस्य तत प्रोक्तमेवमन्येषु लक्षयेत् || इति राघवभट्टधृतपिङ्गलामतवचने अन्येषु लक्षयेदित्यनेन अन्येषामपि मन्त्रसाधकनामादिवर्णानामेकदेवताकत्वे स्वकुलत्वमुपपादितम् | १०३-१०४ | इदानीं विभिन्नभूतदेवताकवर्णानामरिमित्रादिव्यवस्थामाह � पार्थिव इत्यादिना मारुतं रिपुरित्यन्तेन | एतेन नाभसवर्णवर्जं वाय्वादिचतुष्टयदे *? ताकवर्णानां परस्परं शत्रुत्वं मित्रत्वमौदासीन्यञ्च व्यवस्थापितानि | व्यक्तमाह राघवभट्टधृततन्त्रान्तरे � वर्णांशकं वदिष्यामि चतुर्मात्रव्यवस्थितम् | स्वकुलं मित्रमध्यस्थे अमित्रञ्च चतुर्थकम् || वायव्याग्नेयवारुण्यपार्थिवञ्च प्रकीर्तितम् | उत्तरोत्तरसंसिद्धिसमताव्याधिमृत्यवः || प्राप्नुवन्ति समासाद्य मन्त्रिणोऽत्र निबोधनात् | मित्रे सिद्धिः समाख्याता उदासीने न किञ्चन || मृत्युर्व्याधिरमित्रे च स्वकुले सिद्धिरुत्तमा | नामादिवर्णाः साध्यस्य साधकस्य यथाक्रमम् | ऊर्द्ध्वाधःस्थं समालेख्या अंशकञ्च निरूपयेत् || इति | कुत्र कस्य मित्रत्वं शत्रुत्वमौदासीन्यं स्वकुलत्वं वा तदपि विशिष्य प्रदशितं तत्रैव � (फलम्) परस्परविरुद्धानां वर्णानां यत्र संस्थितिः | स मन्त्रः साधकं हन्ति सर्वथा न प्रसीदति || १०५ || ---------------------------------------------- वायव्ये तैजसं मित्रमुदासीनन्तु वारुणम् | शत्रुञ्च पार्थिवं विद्यात् स्वकुलं वायवं पुनः || तैजसे वारुणं शत्रुरुदासीनन्तु पार्थिवम् | वायव्यं मित्रमाख्यातं स्वकुलं तैजसं पुनः || वारुणे पार्थिवं मित्रमुदासीनन्तु वाव्यवम् | तैजसं तु रिपुं विद्यात् स्वकुलं वारुणं पुनः ||
57 SK पार्थिवे वारुणं मित्रं तैजसं शत्रुरीरितम् | उदासीनं वायवन्तु स्वकुलं पार्थिवं पुनः || नन्वत्र पार्थिवानामक्षराणां शत्रुत्वे मारुतं स्थितमित्यनेन पार्थिवमारुतवर्णयोः परस्परशत्रुत्वाभिधानाद् उदासीनं वायवन्तु इति प्रागुक्ततन्त्रान्तरवचनविरोधः | उच्यते- मारुतं पार्थिवानाञ्च शत्रुरित्यादि-तन्त्रसारधृतरुद्रजामलतृतीयपटलवचने पार्थिवानाञ्चेति चकाराद् आग्नेयं पार्थिवानां रिपुरिति श्रीकृष्णानन्दव्याख्यानाद् वायव्यतैजसानामुभयेषामपि वर्णानां पार्थिवैः सह शत्रुत्वमिति स्थितम् | तत्र च तेजो यथा पार्थिवान् समूलं हन्ति न तथा मरुदिति तेजस एव शत्रुत्वप्राधान्येनात्र तथा व्यपदेशः | अस्यैवार्थस्य प्रतिपादनाय तन्त्रान्तरे तैजसस्य शत्रुत्वं वायवस्य औदासीन्यमुक्तम् | रुद्रजामल-श्रीतत्त्वचिन्तामण्यादिषु औदासीन्यानभिधानाद् वायव्यवर्णानामपि तैजसवत् शत्रुपक्षनिक्षेप इति संक्षेपः | एवं चतुर्णां स्वरूपमुक्त्वा नाभसवर्णानां व्यवस्थामाह � सर्वेषामिति | नाभसं नभोदेवताकवर्णजातं सर्वेषामविरोधि मित्रमित्यर्थः | रुद्रजामलतृतीयपटले � नाभसं सर्वमित्रं स्याद्विरुद्धं नैव शीलयेत् | इत्यनेन मित्रत्वस्य व्यक्तमभिधानात् | १०५ | एवं वर्णव्यवस्थामुक्ता फलमाह-परस्परेति | परस्परविरुद्धानां पार्थिवमारुतादिरूपाणां प्रागुक्तानां वर्णानां यत्र मन्त्रे मन्त्रप्रथमाक्षरे संस्थितिः | परस्पर- कुलाकुल-चक्रम् वायुः तेजः मही वारि नभः अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ च भ म य र ल व श ष क्ष ल स ह (वर्गचक्रम्) इदानीं वर्गचक्रस्य विधानमभिधीयते | मन्त्रग्रामविशुद्ध्यर्थं नामाद्यक्षरपूर्वकम् || १०६ || ------------------------------------------------------
58 SK विरुद्धत्वञ्चैतत् साधकनामप्रथमाक्षरमपेक्ष्येति बोध्यम् | स मन्त्रः साधकं हन्तीत्यादि | अस्यैव वचनस्य सर्वथा न प्रसीदतीत्यत्र किं वा नास्य प्रसीदतीति राघवभट्टधृतः पाठः समीचीनः | यतो न हि वर्णानां परस्परविरोधेऽपि सर्वत्र हन्तृत्वम् � उत्तरोत्तरसंसिद्धिसमताव्याधिमृत्यवः | तथा उदासीने न किञ्चन मृत्युर्व्याधिरमित्रे च इत्यादिप्रागुक्तपिङ्गलामतवचनेन अनिष्टानां फलान्तराणामप्यभिधानात् | तस्माद् राघवभट्टवचनवदत्रापि सर्वथा न प्रसीदतीति फलान्तरम्, न प्रसीदति वेत्यर्थः | १०६-१०७ | एवं कुलाकुलं निरूप्य वर्गचक्रमाह-इदानीमिति | नामाद्यक्षर- (कोष्ठनिर्माणं तत्र वर्णन्यासश्च) अष्टौ कोष्ठान् समालिख्य वर्गानष्टौ क्रमाल्लिखेत् || १०७ || (वर्गाणां संज्ञाः) पक्षिमार्जारपञ्चास्यश्वानः सर्पाखुदन्तिनः | मेषः क्रमादकारादि-वसुवर्गाश्रिता इमे || १०८ || (एतच्चक्रकरणकमन्त्रशोधनफलम्) साध्यसाधकयोः प्रीतिर्ज्ञातव्या जातितः सदा || १०९ || -------------------------------------------------------- मारभ्य मन्त्रग्रामविशुद्ध्यर्थं वर्गचक्रस्य विधानमभिधीयत इत्यर्थः | तत्क्रममाह- अष्टाविति | ऊर्द्ध्वस्थांश्चतुरोऽधःस्थांश्च चतुरः कोष्ठान् समालिख्य तत्र क्रमादकाराद्यष्टवर्गान् लिखेदित्यर्थः | १०८ | तेषाञ्च संज्ञामाह-पक्षीति | पक्षि-मार्जार-सिंह-श्वान ऊर्द्ध्वतनचतुष्काणां सर्प-मूषिक-हस्ति-मेषाश्चाधस्तनचतुष्काणां संज्ञाः | एते च पक्ष्यादयः क्रमेणाकाराद्यष्टवर्गमाश्रित्य स्थिता इत्यर्थः | तथाहि, - प्रथमः पक्षी अकारादिविसर्गान्तषोडशस्वरमयप्रथम-कोष्ठाश्रयः, अतः स्वराणामेतेषां पक्षीति संज्ञा | द्वितीयो मार्जारः कवर्गाश्रयः | तृतीयः सिंहश्चवर्गाश्रयः | चतुर्थः श्वा टवर्गाश्रयः | पञ्चमः सर्पस्तवर्गाश्रयः | षष्ठो मूषिकः पवर्गाश्रयः | सप्तमो हस्ती य-र-ल- वाश्रयः | अष्टमो मेषः श-ष-स-ह-ल-क्षाश्रयः | तेनैतेषमपि तत्तत्संज्ञकत्वमिति स्थितम् |
59 SK १०९ | फलमाह-साध्येति | साध्यसाधकनामाद्यक्षरयोः साजात्ये प्रीतिर्वैजात्ये न प्रीतिर्नाप्रीतिर्वा, शाश्वतिकवैरे वैरमित्यवधेयम् | शाश्वतिकवैरन्तु पक्षिसर्पस्य, मार्जारमूषिकस्य, सिंहहस्तिनः, श्व-मेषस्य च प्रसिद्धम् | (वर्गचक्रम्) पक्षी अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः मार्जारः क ख ग घ ङ सिंहः च छ ज झ ञ श्वा ट ठ ड ढ ण सर्पः त थ द ध न मूषिकः प फ ब भ म हस्ती य र ल व मेषः श ष स ह ल क्ष (प्रागुक्तमन्त्रदोषपरिहारक्रमः) एषु दोषेषु सर्वत्र मायां काममथापि वा | क्षिप्त्वा चादौ श्रियं दद्यात्तत्तद्दोषविमुक्तये || ११० || -------------------------------------------------------- ११० | एवं चक्रपरिपाटीमभिधाय तत्र तत्र श्रुतानाम- कथहादितत्तच्चक्रविचारपरिप्राप्ततत्तन्मन्त्रगतवैरित्वादि-दोषाणां प्रतिकारशैलीमाह � एष्विति | एषु प्रागुक्ताकथहादि-चक्रविचारपरिप्राप्तमन्त्रगतवैरित्वादिदोषेषु | सर्वत्रेत्यनेन यः कोऽपि मन्त्रः प्रागुक्तदोषदुष्टोऽपि वक्ष्यमाणरीत्या कृतेन प्रतीकारेण दोषपरिहीणो भवतीति सूच्यते | अत एव तन्त्रसारधृतमुण्डमालातन्त्रे � छिन्नादिदोषदुष्टा ये मन्त्रास्तन्त्रे निरूपिताः | ते सर्वे सिद्धिमायान्ति मातृकार्णप्रभावतः || इत्यादिना सर्वेषामपि दोषदुष्टानां मन्त्राणामनया रीत्या निर्दोषत्वमुपपादितम् | तारसंपुटितो वापि दुष्टमन्त्रोऽपि सिध्यति | (प्रकारान्तरम्) यस्य यत्र भवेद् भक्तिः स मन्त्रोऽस्य प्रसिध्यति || १११ || (प्रकारान्तरम्) अनुलोमविलोमस्थकॢप्तया वर्णमालया | प्रत्येकवर्णयुङ्मन्त्रा जप्ताः स्युः सर्वसिद्धिदाः || अरिमन्त्रा अपि नृणामन्ये मन्त्राश्च किं पुनः || ११२ || (स्थानस्थत्वादिना मन्त्राणां फलभेदाः) स्थानस्था वरदा मन्त्रा ध्यानस्थाश्च फलप्रदाः | स्थानध्यानविनिर्मुक्ताः सुसिद्धा अपि वैरिणः || ११३ || (षड्विधस्थाननिरूपणम्) प्रसङ्गेनैव तत् स्थानं कथयामि विशेषतः || ११४ ||
60 SK सकलं निष्कलं सूक्ष्मं तथा सकलनिष्कलम् | कलाभिन्नं कलातीतं षोढा स्थानं शिवोऽब्रवीत् || ११५ || (षड्विधस्थानस्वरूपम्) सकलं ब्रह्मरन्ध्रस्थं तदधो विद्धि निष्कलम् | मानसं सूक्ष्मनामानं हृत्स्थं सकलनिष्कलम् || ११६ || --------------------------------------------------------------- १११ | प्रकारान्तरमाह � तारेति | तारः प्रणवः तेन संपुटितः आदावन्ते च प्रणवेन योजित इत्यर्थः | प्रकारान्तरमाह � यस्येति | भक्तिः परमानुरक्तिः | ११२ | प्रकारान्तरमाह-अन्विति | प्रत्येकवर्णयुङ्मन्त्रा मन्त्रघटकप्रत्येकवर्णान् अनुलोमेन विलोमेन च मातृकावर्णैः पुटीकृत्य | अकारादिक्षकारान्तवर्णैः क्षकाराद्यकारान्तवर्णैश्च प्रत्येकेन मन्त्रघटकवर्णान् पुटीकृत्य जपाद्दुष्टमन्त्राणामपि सर्वसिद्धिविधायकत्वम्-इत्यर्थः | बिन्दुस्थितं कलाभिन्नं कलातीतं तदूर्द्ध्वतः | कला कुण्डलिनी सैव नादशक्तिः शिवोदिता || ११७ || एतत्स्थाने स्थिता मन्त्राः स्थानस्थाः परिकीर्तिताः | (मन्त्रविशेषे सिद्धादिशोधनानपेक्षित्वम्) मन्त्रकूटविभागानां विधानमभिधीयते || ११८ || सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् || ११९ || एकाक्षरे तथा कूटे मालामन्त्रे त्रिबीजेके | स्वप्नलब्धे स्त्रिया दत्ते सिद्धादीन् न विचारयेत् || १२० || वैष्णवेषु च तन्त्रेषु केचिदिच्छन्ति तान्त्रिकाः || १२१ || काली-तारामनौ मन्त्री तथा च्छिन्नामनावपि | सुन्दरीमन्त्रवर्ये तु सिद्धादीन्नैव शोधयेत् || १२२ || (दीक्षायां मासविवेकः) एवं विचार्य मतिमान् मासादीन् परिशोधयेत् | चैत्रे दुःखाय दीक्षा स्याद् वैशाखे रत्नसञ्चयः || १२३ || ------------------------------------------------------------ ११६-११७ | सकलमित्यादि | ब्रह्मरन्ध्रस्थं सहस्रारस्थितम् | तदध इति अधोमुखप्रणवोर्द्ध्वनादस्थम् | मनःस्थम् आज्ञाचक्रस्थितम् | हृत्स्थं द्वादशारस्थितम् | बिन्दुस्थितं प्रथमनादोर्द्ध्वबिन्दुस्थितम् | तदूर्द्ध्व्हत इति बिन्दूपरिनादस्थम्-इति B-पुस्तक पादटीका |
61 SK ११९ | सपिण्डाक्षरमन्त्राणां संयुक्ताक्षरमन्त्राणाम् | १२३ | चैत्र इत्यादि | तदुक्तं राघवभट्टधृततन्त्रान्तरे � असिद्धिर्भूमिसम्पत्तिर्मरणं बन्धुनाशनम् | आयुर्वृद्धिः प्रजानाशः सम्पत्ती रत्नसञ्चयः || शुभप्राप्तिः स्थाननाशो मोहार्थञ्च वशीकृतिः | चैत्रादीनां फलं ज्ञेयं मलमासं च वर्जयेत् || इति | अत्र � मन्त्रारम्भस्तु चैत्रे स्यात् समस्तपुरुषार्थदः | इत्यादिगौतमीयतन्त्रपञ्चमपटलवचनेन दीक्षायां चैत्रस्य प्रशस्तिरभिहिता सा तु विष्णुविषया, गौतमीयतन्त्रस्य वैष्णवोपासनापरत्वात् | अत एव तन्त्रसारकारैश्चैत्र इति गोपालविषयं गौतमीयत्वात् | मधुमासे भवेद्दिक्षा दुःखाय मरणाय च इति योगिनीहृदयाच्चेत्युक्तम् | अतः शाक्ती दीक्षा चैत्रे न विधेयेति प्रतिपादनाय चैत्रे दुःखाय दीक्षा स्यादित्युक्तं पूर्णानन्देन, ग्रन्थस्यास्य शक्त्युपासनाप्रतिपादकत्वात् | राघवभट्टेनापि � वैशाखपूर्वजे मासे मन्त्रारम्भः सुदुःसहः | वैशाखे धन्दायी च ज्यैष्ठे मृत्युप्रदो भवेत् || आषाढे पुत्रलाभाय श्रावणे भुभदो मतः | भाद्रे चैव ज्ञानहानिस्तथा सद्भिः प्रकीर्तिता | आश्विने सर्वसिद्धिश्च कार्तिको ज्ञानसिद्धिदः || शुभकृन्मार्गशीर्षः स्यात् पौषो दुःखप्रदायकः | माघे मेधाविवृद्धिश्च फाल्गुने सर्ववश्यता || इत्यादिभिः श्रीतत्त्वचिन्तामण्युक्तो दीक्षाकालक्रम एव प्रतिपादितः | परन्तुश्रीतत्त्वचिन्तामणि- तन्त्रान्तरादिषु आषाढस्य बन्धुनाशकत्वरूपानिष्टफलदातृत्वमुक्तम् | अत्र राघवभट्टधृतवचने तु आषाढे पुत्रलाभायेत्यनेन तस्येष्टफलदायकत्वमभिहितमिति विशेषः | राघवभट्टधृतसिद्धन्तशेखरे तु प्रागुक्तानां प्रशस्तानामपि मासानामुत्तमाधममध्यमत्वमुपपादितम् | यथा � शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा | फाल्गुने मार्गशीर्षे च ज्यैष्ठे दीक्षा च मध्यमा || आषाढः श्रावणो माघः कनिष्ठाः सद्भिरादृताः | निन्दितश्चैत्रमासस्तु पौषो भाद्रपदस्तथा || इति |
62 SK तथा च मूले ज्यैष्ठादीनामुत्तमानन्तर्गतत्वादेव निषेध इति राघवभट्टानामाशयादवगम्यते | तथा, आषाढपूर्वमासे च आषाढे मार्गशीर्षके | दीक्षां न कारयेद्धीमानन्यमासे तु कारयेत् || इति राघवभट्टधृतवचनेऽपि मार्गशीर्षस्य निषेध उत्तमानन्तर्गतत्वादेव | मरणं भवति ज्यैष्ठेऽप्याषाढे बन्धुनाशनम् | समृद्धिः श्रावणे नूनं भवेद् भाद्रपदे क्षयः || १२४ || प्रजानामाश्विने मासि सर्वकामफलप्रदा | ज्ञानं स्यात् कार्तिके मासि मार्गशीर्षे धनं महत् || १२५ || पौषे ज्ञानक्षयो माघे भवेन्मेधाविवर्द्धनम् | फाल्गुने सर्वसिद्धिः स्यान्मलमासं विवर्जयेत् || १२६ || (विषुवादिषु दीक्षायाः प्राशस्त्यम्) विषुवेऽप्ययनद्वन्द्वे संक्रान्त्यां मदनोत्सवे | दीक्षा कार्या प्रयत्नेन पवित्रे गुरुपर्वणि || १२७ || --------------------------------------------------------------------- राघवभट्टधृतकालोत्तरे � शरद्वसन्तयोर्योगे दीक्षाकर्मविधिः स्मृतः | तयोरसम्भवे वर्षा विनान्यत्र प्रशस्यते || इत्यत्र वर्षा विनेत्यभिधानाद् आषाढश्रावणयोरप्राशस्त्ये लब्धे प्रागुक्तसिद्धान्तशेखरवचनेन च तयोः कनिष्ठत्वे निर्णीते, आषाढे बन्धुनाशः स्यादिति मूलोक्त्या आषाढस्य सर्वथा परिहेयत्वम्, समृद्धिः श्रावणे नूनमिति मूलोक्त्या श्रावणस्य विहितत्वेऽपि तस्याप्राशस्त्यमिति पूर्वपूर्वग्रन्थपर्यालोचनयावगम्यते | १२७ | दीक्षायां प्रशस्तान् दिनविशेषानाह � विषुव इति | विषुवे विषुवद्वन्द्वे जलविषुवमहाविषुवसंक्रान्त्योः, अयनद्वन्द्वे दक्षिणायनोत्तरायणसंक्रान्त्योः, संक्रान्त्यां साधारण्याम्, मदनोत्सवे कामत्रयोदश्याम्, कामचतुर्दश्यामिति केचित् | गुरुपर्वणीति वक्ष्यमाणे षष्ठीभाद्रपद इत्यादौ | अत्र संक्रान्त्यामित्यनेनैव विषुवायनयोरपि लाभे तयोः पृथगुपादानं तत्र तत्र फलविशेषसूचनार्थम् | अत एव गन्धर्वतन्त्रे षडविंशपटले � विषुवायनयोर्द्वन्द्वे आषाढे मदनोत्सवे | ग्रहणेऽर्कस्य चेन्दोर्वा दिनं तत्फलदं भवेत् ||
63 SK इत्यत्र संक्रान्तिषु विषुवायनयोरेवोपादानं चन्द्रसूर्य- ग्रहणसमानकालीनदीक्षाजन्यफलसमफलजनकत्वसूचना-यैव | तथा- (देवपर्वसु दीक्षायाः प्रशस्तिः) षष्ठी भाद्रपदे मासि इषे कृष्णा चतुर्दशी | कार्तिके नवमी शुक्ला मार्गे शुक्ला तृतीयिका || १२८ || पौषे तु नवमी शुक्ला माघे वरचतुर्थिका | फाल्गुने नवमी शुक्ला चैत्रे कामत्रयोदशी || १२९ || --------------------------------------------------------------------- ग्रहनक्षत्रयोगेषु विषुवेषूत्सवेषु च | अयनेषु च सर्वेषु योगः सर्वार्थसिद्धिदः || इति राघवभट्टधृतकालोत्तरवचने विषुवयोरयनयोश्च प्रत्येकं द्वित्वेऽपि तत्र तत्र वहुवचनोपादानं फलातिशयोपधायकत्वसूचनार्थमेव | मदनोत्सव इति कामचतुर्दश्याम् | गुरुपर्वणीति � वक्ष्यमाणदेवपर्वणीत्यर्थः | १२८-१२९ | अत्र समानानुपूर्वीके तन्त्रसारधृतरत्नावलीवचने त्रयोदशीत्यत्र चतुर्दशीति पाठो दृश्यते | तत्र श्रीमत्कृष्णानन्देन त्रयोदशीति केचिदित्युक्तम् | बृहन्नीलतन्त्रे तृतीयपटलेऽपि चैत्रे कामत्रयोदशीत्येव पाठः | ततश्चतुर्दशीत्रयोदश्योरुभयोरपि तन्त्रसारबृहन्निलतन्त्रयोर्यथासंख्यं प्रशस्ततयाभिधानादत्र चैत्रे कामत्रयोदशीत्यनेन त्रयोदश्या लाभः | संक्रान्त्यां मदनोत्सवे इति प्रागुक्तवचनेन च चतुर्दश्याः प्राप्तिः | प्रागुक्तवचने मदनोत्सव इत्यनेन विशेषतोऽनिर्देशेऽपि अत्र कामत्रयोदशीति निर्देशात् तत्र मदनोत्सवशब्देन मदनचतुर्दशीति गम्यते | तदितरत्र मदनोत्सवासम्भवादिति ध्येयम् | तन्त्रसारे � चैत्रे त्रयोदशी शुक्ला वैशाखैकादशी सिता | ज्यैष्ठे चतुर्दशी कृष्णा आषाढे नागपञ्चमी || श्रावणैकादशी भाद्रे रोहिणीसहिताऽष्टमी | आश्विने च महापुण्या महाष्टम्यप्यभीष्टदा || कार्तिके नवमी शुक्ला मार्गशीर्षे तथा सिता | षष्ठी चतुर्दशी पौषे माघेऽप्येकादशी सिता | फाल्गुने च सिता षष्ठी चेति कालविनिर्णयः || इति |
64 SK वैशाखे चाक्षया शस्ता ज्यैष्ठे दशहरा तथा | आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी || १३० || एतानि देवपर्वाणि तीर्थकोटिफलं लभेत् | (सूर्योपराग-रविसंक्रमयोर्दीक्षायाः प्राशस्त्यम्, लग्नादिविचारनैरपेक्ष्यञ्च) निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा || १३१ || सूर्यग्रहणकालस्य समानो नास्ति भूतले | तत्र यद् यत् कृतं कर्म तदनन्तफलं लभेत् || १३२ || --------------------------------------------------------------------- १३१ | चन्द्रसूर्योपरागे दीक्षायाः प्राशस्त्यमाह � निन्दितेष्वपीति | निन्दितेष्वपीत्यपिशब्देन वैशाखादिषु प्रशस्तेषु मासेषु दीक्षा शुभा भवत्येव | चैत्रादिषु निन्दितेष्वपि फलमिष्टमुत्पादयतीत्यवगन्तव्यम् | ग्रहणे शुभेति � सूर्यग्रहणे चन्द्रग्रहणे च | अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः | इति तन्त्रसारधृतयोगिनीहृदयात् | १३२ | सूर्यग्रहणकालस्येति | ननु न कुर्याच्छाक्तिकीं दीक्षामुपरागे विभावसोः | न कुर्याद् वैष्णवीं तान्तु यदि चन्द्रमसो ग्रहः || इति तन्त्रसारधृतरुद्रजामलवचनेन सूर्योपरागे शाक्तदीक्षानिषेधादत्र सूर्यग्रणकालस्येत्यादि कथमुपपद्यते ? उच्यते � प्रागुक्तरुद्रजामलवचनं श्रीविद्येतरविष्यम् विषुवायनयोर्द्वन्द्वे आषाढे मदनोत्सवे | ग्रहणेऽर्कस्य चेन्दोर्वा दिनं तत्फलदं भवेत् || इति श्रीविद्याप्रतिपादकगन्धर्वतन्त्रपञ्चविंशपटलवचनात् | श्रीपराकालिबीजानि लोपादौर्गश्च यो मनुः | सूर्यस्य ग्रहणे लब्धो नृणां मुक्तिफलप्रदः || इति तन्त्रसारपरिगृहीत-रत्नावलीधृतजामलवचनात् सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् | इति श्रीविद्याप्रतिपादयोगिनीहृदयाच्च | तस्मान्मूले विशिष्य सूर्योपरागस्योल्लेखस्तु प्राशस्त्यविशेषप्रतिपादनायेति ध्येयम् | रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा | तत्र लग्नादिकं किञ्चिन्न विचार्यं कथञ्चन || १३३ || (महाष्टम्यां कालशुद्ध्यादिनैरपेक्ष्यम्)
65 SK महाष्टम्यां विशेषेण धर्मकामार्थसिद्धये | नात्र कालविशुद्ध्यादि न च नक्षत्रशोधनम् || १३४ || (श्रीगुरौ करुणया दीक्षयितुकामे, काश्यादौ च कालाकालविचारनैरपेक्ष्यम्) श्रीगुरोः करुणाकारे तथा काश्यां प्रयागके | पुण्यतीर्थे तथा क्षेत्रे देवीपीठचतुष्टये | तथा श्रीपर्वते मन्त्री कालाकालं न शोधयेत् || १३५ || --------------------------------------------------------------------- १३४ | महाष्टम्यामिति | महाष्टमीमाह � कालिकापुराणे एकोनषष्ट्यध्याये आश्विने शुक्लपक्षय भवेद् या अष्टमी तिथिः | महाष्टमिति सा प्रोक्ता देव्याः प्रीतिकरी परा || इति | विशेषमाह तन्त्रसारधृतविष्णुजामले च � देवीबोधं समारभ्य यावत् स्यान्नवमी तिथिः | कृता तासु बुधैर्दीक्षा सर्वाभिष्टफलप्रदा || शुक्लपक्षे विशेषेण तत्रापि तिथिरष्टमी | तत्रापि शारदी दुर्गा यत्र देवी गृहे गृहे || तत्र दीक्षा प्रकर्तव्या मासर्क्षादिन् न शोधयेत् | तथा बोधने चैव दुर्गायाः कालाकालं न शोधयेत् || अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा || इति | एतेन बोधनवमीतो दुर्गानवमीं यावत् तिथिवारकालाकालादिविचारनैरपेक्ष्येण दीक्षायाः प्राशस्त्यमभिहितम् | तत्रापि महाष्टम्यां दीक्षायाः फलविशेषश्रवणान्मूले तस्या एवोल्लेखः | १३५ | श्रीगुरोरिति | करुणाकारे यदा गुरुः कृपया शिष्यमाहूय मन्त्रं दित्सति तदेत्यर्थः | तदुक्तं तन्त्रसारधृतसमयातन्त्रे � (दीक्षायां वारनियमः) रविवारे भवेद् वित्तं सोमे शान्तिप्रदा भवेत् | आयुरङ्गारके हन्ति तत्र दीक्षां विवर्जयेत् || १३६ || --------------------------------------------------------------------- शिष्यानाहूय गुरुणा कृपया दीयते यदि | तत्र लग्नादिकं किञ्चिन्न विचार्यं कदाचन || सर्वे वारा ग्रहाः सर्वे नक्षत्राणि च राशयः | यस्मिन्नहनि सन्तुष्टो गुरुः सर्वे शुभावहाः || इति | पुण्य इत्यादि | तदुक्तं गन्धर्वतन्त्रे पञ्चविंशपटले �
66 SK पुण्यक्षेत्राणि कथ्यन्ते शृणु प्राधान्यतो मम | पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् || तीर्थप्रदेशाः सिन्धूनां स�न्गमः पावनं वनम् | उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः || तुलसीकाननं गोष्ठं वृषशून्यं शिवालयम् | अश्वत्थामलकीमूलं गोशाला जलमध्यतः || देवतायतनं कूलं समुद्रस्य निजालयम् | साधने च प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् || इति | तन्त्रसारे च � अथ वक्ष्यामि दीक्षायाः स्थानं तन्त्रानुसारतः | गोशालायां गुरोर्गेहे देवागारे शिवालये | पुण्यक्षेत्रे तथोद्याने नदीतीरे च मन्त्रवित् || धात्रीविल्वसमीपे च पर्वताग्रे गुहासु च | ग�न्गायास्तु तटे वापि कोटिकोटिगुणं भवेत् || इति | देवीति | देवीपीठचतुष्टयन्तु � कामगिरिपीठम्, जालन्धरपीठम्, पूर्णगिरिपीठम्, उड्डीयानपीठञ्चेति | एतत् पञ्चदशप्रकाशे पीठन्यासनिरूपणावसरे ग्रन्थकारः स्वयमेव वक्ष्यतीति नात्र प्रपञ्च्यते | स्थानेष्वेतेषु दीक्षाग्रहणे कालाकालविचारो नास्तीत्यर्थः | तदुक्तं राघवभट्टेन � पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये | प्रयागे श्रीगिरौ काश्यां कालाकालं न शोधयेत् || इति | १३६-१३७ | दीक्षायां विहितान्निषिद्धांश्च वारान् नियमयति � रवीति | अत्र बुधे सौन्दर्यमाप्नोति ज्ञानं तु स्याद् बृहस्पतौ | शुक्रे सौभाग्यमाप्नोति यशोहानिः शनैश्चरे || १३७ || (दीक्षायां तिथिनियमः) चतुर्थी नवमी चैव चतुर्दश्यष्टमीइ तथा | पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा || १३८ || त्रयोदशी च दशमी प्रशस्ता सर्वसिद्धिदा | (पक्षनियमः) शुक्लपक्षे शुभा दीक्षा कृष्णेऽप्या पञ्चमाद्दिनात् || १३९ || (तत्रापि विशेषः) मुक्तिकामैः कृष्णपक्षे भूतिकामैः सिते सदा | कृष्णाष्टम्यां चतुर्दश्यां दीक्षाकर्म शुभप्रदम् || १४० || (नक्षत्रनियमः) अश्विन्यां सुखमाप्नोति भरण्यां मरणं ध्रुवम् | कृत्तिकायां भवेद्दुःखी रोहिण्यां वाक्पतिर्भवेत् || १४१ || ---------------------------------------------------------------------
67 SK दुःखमिति पादटिप्पनीधृतः पाठः प्रामादिकः, तन्त्रसारे रविवारे भवेद् वित्तमिति पाठदर्शनात् रवौ गुरौ सिते सोमे कर्तव्यं बुधवासरे इति गन्धर्वतन्त्रषड्विंशपटलवचनेन, रवौ गुरौ सिते सोमे कर्तव्यं बुधशुक्रयोः इति गौतमीयतन्त्रपञ्चमपटलवचनेन च रविवासरे दीक्षायाः प्राशस्त्याभिधानात् | १४० | मुक्तीति | तन्त्रसारकृता राहवभट्टेन च � शुक्लपक्षेऽथ कृष्णे वा दीक्षा सर्वत्रशोभना | इति कालोत्तरवचनमुपजीव्य यदुभयोरेव पक्षयोः प्राशस्त्यमभिहितं तत्र विशेषमाह- मूक्तीति | ततश्चोक्तकामनाभेदेन दीक्षायां पक्षव्यवस्थेत्यवधेयम् | १४१-१४५ | दीक्षायां शुभाशुभानि नक्षत्राणि निर्दिशति-अश्विन्यामिति | नीलतन्त्रे षष्ठपटले � मृगशीर्षे सुखप्राप्तिरार्द्रायां बन्धुनाशनम् | पुनर्वसौ भवेद्दुःखी पुष्यायां धनवान् भवेत् || १४२ || अश्लेषायां भवेद्रोगी मघायां मोक्षमाप्नुयात् | फल्गुनीद्वितये चैव यशोवृद्धिर्भवेत् किल || १४३ || हस्तायां धननाशः स्याच्चित्रा-स्वात्योः सुखी भवेत् | विशाखायां सुखं चानुराधायां बन्धुनाशनम् || १४४ || ज्येष्ठायं सुतवृद्दिः स्यान्मूलायां कीर्तिवर्द्धनम् | पूर्वाषाढोत्तराषाढे भवेतां कीर्तिदायिके || १४५ || --------------------------------------------------------------------- रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरत्रयम् | पुष्या शतभिषा चैव दीक्षानक्षत्रमुच्यते || इति राघवभट्टधृतकारणे � पौष्णं रोहिण्यथादित्यं श्रवणं चाश्विनी तथा | सावित्रं त्वाष्ट्रवायव्यमैन्द्रं नैर्-ऋतमेव च || तिष्यं त्रिरुत्तरार्द्रा च सौम्यं शिष्यत्रिजन्मभम् | नक्षत्राणि प्रशस्तानि दीक्षाकर्मणि सुव्रते || इति अत्र पौष्णं रेवती, आदित्यं पुनर्वसुः, सावित्रं हस्तः, सौम्यं मृग इति राघवभट्टव्याख्यानम् | त्वाष्ट्र चित्रा, पवनः स्वाती | राघवभट्टस्तु वक्ष्यमाणरत्नावलीवचनेन परस्परसंयोगे तिथिनक्षत्रयोर्दुष्टत्वमाह | यथा �
68 SK प्रतिपत् पूर्वाषाढा च पञ्चमी कृत्तिका तथा | पूर्वा भाद्रपदा षष्ठी दशमी रोहिणी तथा || द्वादशी सार्पनक्षत्रमर्यम्णा च त्रयोदशी | नक्षत्रलुप्ता इत्येते देवानामपि नाशनाः || इत्यन्यद्वारा द्विसंयोगात्तिथिनक्षत्रदुष्टत्वं ज्योतिःशास्त्रादवसेयमित्याह | एवञ्च � पूर्वाषाढोत्तराषाढे भवेतां कीर्तिदायिके | श्रवणायां भवेद्दुःखि धनिष्ठायां दरिद्रता | बुद्धिः शतभिषायां स्यात् पूर्वभाद्रे सुखी भवेत् || १४६ || सौख्यं चोत्तरभाद्रे च रेवत्यां कीर्तिवर्द्धनम् || १४७ || (लग्न-चन्द्र-तार-नियमः) वृषे सिंहे च कन्यायां धनुर्मीनाख्यलग्नके | चन्द्रतारानुकूले च कुर्याद्दीक्षाप्रवर्तनम् || १४८ || तृतीयैकादशषष्ठदशमस्थश्च चन्द्रमाः | जन्मचन्द्रः शुभः प्रोक्तो जन्मनक्षत्रवर्जितः || १४९ || शुक्लपक्षे द्वितीयस्तु पञ्चमो नवमस्तथा || १५० || गोचरे ये ग्रहाः शुद्धस्तर्युक्तोऽपि शुभः शशी | शुभमध्यस्थितो वापि चन्द्रमाः शुभदो भवेत् || १५१ || तृतीये सप्तमे चैव षोडशाष्टादशे तथा | ऊनविंशे चैकविंशे त्रयोविंशे तथैव च | पञ्चविंशतिनक्षत्रे शुभकर्म विवर्जयेत् || १५२ || --------------------------------------------------------------------- इत्यनेन पूर्वाषाढायाः प्राशस्त्येऽपि � प्रतिपदि कृता दीक्षा दुःखाय मरणाय च | इति तन्त्रसारधृतवचने प्रतिपदोऽनिष्टफलकत्वात् तत्संयोगे प्रशस्ताया अपि पूर्वाषाढाया दुष्टत्वम् | एवं पञ्चम्याः प्राशस्त्येऽपि अप्रशस्तायाः कृत्तिकायाः संयोगात्तस्या अप्राशत्यम् | यत्रोभयोरपि तिथिनक्षत्रयोः प्राशस्त्यं तत्रापि प्रागुक्तरीत्या तयोः संयोगोऽनिष्टं फलं प्रसूते � यथा दशमीरोहिण्योः स्वतः प्राशस्त्येऽपि परस्परसंयोगे तयोरुभयोरेवानिष्टफलानुबन्धित्वम् | एवमन्यत्रापि | (प्रागुक्तमासादिशुद्धेर्मन्त्रदीक्षामात्रपरत्वम्) यन्मासतिथिवारादि-शोधनं प्रोक्तमेव हि | मन्त्रदीक्षापरं तत्तु विज्ञेयं साधकोत्तमैः || १५३ || (विद्यादीक्षायान्तु तिथिवारादिशोधनापेक्षा नास्ति)
69 SK विद्यादीक्षापरं नैव तिथिवारविशोधनम् | यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः || १५४ || (अत्र प्रामाणिकागमनिर्णयः) योगिनीहृदयस्येति मतमालक्ष्य कीर्तितम् || १५५ || (मन्त्रपदव्युत्पत्तिः) मननात्त्राणनाच्चैवमद्वयस्यावबोधनात् | मन्त्र इत्युच्यते सम्यक् शिवाधिष्ठानतोऽपि च || १५६ || गुप्तोपदेशतो मन्त्रो मननात्त्रणनादपि | तेन मन्त्र इति प्रोक्तो देशिकैस्तन्त्रवेदिभिः || १५७ || --------------------------------------------------------------------- १५४ | राघवभट्टधृततत्त्वसागरसंहितायामपि � तिथिं विनाऽपि दीक्षायां विशिष्टावसरं शृणु | दुर्लभे सद्गुरूणान्तु सकृत् सङ्ग उपस्थिते || तदनुज्ञा यदा अब्धा स दीक्षावसरो महान् | ग्रामे वा यदि वाऽरण्ये क्षेत्रे वा दिवसे निशि | आगच्छति गुरुर्दैवाद् यदा दीक्षा तदा भवेत् || इति | तथ- यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः | न तिथिर्न व्रतं होमो न स्नानं न जपक्रिया | दीक्षायाः कारणं किन्तु स्वेच्छावाप्ते तु सद्गुरौ || इति | (द�सविधो मन्त्रसंस्कारः) मन्त्रस्य दश संस्काराः कथ्यन्ते तन्त्रवर्त्मना | जननं जीवनं पश्चात्तडनं बोधनं तथा || १५८ || अथाभिषेको विमलीकरणाप्यायने पुनः | तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः || १५९ || (तत्र जननाख्यः प्रथमसंस्कारः) कुङ्कुमेन विलिप्तायामथवा रोचनादिना | गोमयेन विलिप्तायां कठिन्या कमलं लिखेत् || १६० || --------------------------------------------------------------------- १५८ | कुलार्णवे पञ्चदशोल्लासे � कथ्यन्ते दश संस्कारा मन्त्रदोषहराः प्रिये | इत्यनेन वक्ष्यमाणमन्त्रसंस्कारस्य मन्त्रदोषनिवारकत्वात्, शाणोल्लिढानि शस्त्राणि यथा स्युर्निशितानि वै | मन्त्राश्च स्फर्तिमायान्ति संस्कारैर्दशभिस्तथा ||
70 SK इत्यनेन विशेषतो मन्त्रस्फूर्तिविधायकत्वाच्च मन्तस्य संस्कारानभिधातुं प्रतिजानीते � मन्त्रस्येति | ततश्च वक्ष्यामाणरीत्त्या कृतः संस्कारैश्च्छिन्नादिदोषदुष्टा अपि मन्त्राः शुभफलं प्रसुवते, ते दोषास्तु छिन्नो रुद्धः शक्तिहीन इत्यादिना शारदायां द्वितीयपटले विशिष्याभिहिताः | १६०-१६२ | कुङ्कुमेनेति | तदुक्तं तन्त्रसारधृतगौतमीये � स्वर्णादिपात्रे संलिख्य मातृकायन्त्रमुत्तमम् | काश्मीरचन्दनेनापि भस्मना वाथ सुव्रते || काश्मीरं शक्तिसंस्कारे चन्दनं वैष्णवे मनौ | शैवे भस्म समाख्यातं मातृकायन्त्रलेखने || इति | अत्र मातृकायन्त्रेत्यभिधानात्, मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् | इति तन्त्रसारोक्तेश्च प्रकृते कमलपदेन मातृकायन्त्रघटकं मकलमित्यवगन्तव्यम् | मातृकायन्त्रमाह तन्त्रसारे � द्विरष्टकेशरे वर्गं पूर्वतो युग्ममालिखेत् | कादिवरं सप्तपत्रे ल-क्षमष्टमपत्रके || १६१ || तदक्सरात्तु मन्त्राणामुद्धारो जननं स्मृतम् || १६२ || --------------------------------------------------------------------- व्योमेन्द्वौरसनार्णकर्णिकचां द्वन्द्वैः स्फुरत्केशरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संविष्टितम् | आशास्वस्त्रिषु लान्तलाङ्गलियुजा क्षौणीपुरेणावृतं यन्त्रं वर्णतनोः परं निगदितं सौभाग्यसम्पत्करम् || इति | तथा तन्त्रसारधृतगौतमीये � कादिमान्तान् पञ्च वर्गान् दिक्षु पूर्वादितो न्यसेत् | यादिवान्ताञ् शादिहान्ताल ल-क्षमीशे प्रविन्यसेत् | चतुरस्रं चतुर्द्वारं दिक्षु वं ठं विदिक्षु च || इति |
71 SK तथाचायं यन्त्रलेखनक्रमः | प्रथमं पद्मस्य कर्णिकामाह् � व्योमेन्द्वौरसनार्णकर्णिकमिति | व्योम हकारः, इन्दुः सकारः, तत औकारः, रसनार्णो वोसर्गः, व्योम इन्दुः औः रसनार्णश्च कर्णिकायां यस्येति विग्रहः | एतेन ह्सौः इति कर्णाकायां लेखनीयमित्यर्थः | केशरमाह-अचां स्वराणां द्वन्द्वैः स्फुरन्तः केशरा यस्य तत् | एतेन पूर्वादितोऽष्टसु केशरेषु द्विशः षोडशस्वरानीशानान्तान् लिखेदित्यर्थः | ततो दलान्याह- वर्गोल्लासिवसुच्छदं वर्गैरुल्लसन्तीति वर्गोल्लासिनः, वर्गोल्लासिनो वर्गविशिष्टाः वसवः अष्टौ छदा यस्य तत् | तथा च अष्टपत्राणि लिहित्वा पूर्वप्त्रे कवर्गम्, आग्नेये चवर्गम्, दक्षिणे टवर्गम्, नैर्-ऋते तवर्गम्, पश्चिमे पवर्गम्, वायव्ये य-र-ल-व-रूपं वर्णचतुष्टयम्, उत्तरे श-ष-स-ह- रूपं वर्णचतुष्टयं ईशाने ल-क्ष-वर्णद्वयें लिखेदित्यर्थः | आशासु दिक्षु अस्त्रिषु कोणेषु च यथाक्रमं लान्तो वकारः, लाङ्गली ठाकारः तद्युक्तेन वसुमतीगेहेन भूपुरेण संविष्टितम् | क्षौणीपुरेण द्वारचतुष्टयेनेति आगमतत्त्वविलासः | प्राचीनहस्तलिखिततन्त्रसारे तु क्षौणीपुरेणानुस्वारेणेति व्याख्यानं दृश्यते | तन्मते वकारठकारयोरनुस्वारयोगार्थं क्षौणीपुरेणेति पदमिति प्रतिभाति | तथाच चतुर्दिग्द्वारेषु वम, कोणेषु च ठमिति लिखेत् | इत् मातृकायन्त्रक्रमः | प्रकृते तु कठिन्या कमलं लिखेदिति कमलमात्रलेखनाभिधानं मातृकायन्त्रान्तर्गतपद्मादेव वर्णोद्धारसूचनार्थम् | अत्र कमले तन्त्रसारोक्तक्रमेणैव वर्णस्थापनमाह्- (जीवनाख्यो द्वितीयः) प्रणवान्तरितान् कृत्वा मन्त्रवर्णाञ् जपेत् सुधीः | एतज्जिवनमित्याहुः शतावृत्त्या च तान्त्रिकाः || १६३ || (ताडनाख्यस्तृतीयः) भूर्जे मन्त्राक्षरं कृत्वा वायुबीजेन ताडयेत् | एकैकं शतवारन्तु मन्त्रञ्च चन्दनाम्भसा || १६४ || (बोधनाख्यश्चतुर्थः)
72 SK मन्त्रं भूर्जे समालिख्य करवीरप्रसूनकैः | तन्मन्त्राक्षरसंख्यातैर्हन्य्द्रेफेण बोधनम् || १६५ || --------------------------------------------------------------------- द्विरष्टेत्यादिना | द्विरष्टकेशरे वर्णमिति द्विरिति वारार्थे सुच | ततश्च पूर्वादिकेशरेषु द्वौ द्वौ कृत्वा युग्मं वर्णमालिखेदित्यर्थः | तदक्षरादिति, मन्त्राणां मन्त्रघटकवर्णानां तदक्षरादुद्धारो जननाख्यः संस्कार इत्यर्थः | तथाच राघवभट्टः शुभे पीठादौ कुङ्कुमगोरोचनादिना मातृकाब्जं विलिख्य देयमन्त्रस्यैकैकमक्षरं मातृकाब्जत उद्धरणीयमिति | १६३ | प्रणवेति | प्रणवान्तरितान् प्रणवेन व्यवहितान् मन्त्रघटकवर्णान् जपेदित्यर्थः | यथा-यदा ह्रीं इति मन्त्रस्तदा ह ॐ र ॐ ईम् इति प्रणवान्तरणक्रमः | जपेदिति शतावृत्त्येत्यर्थः | तदुक्तं राघवभट्टेन � प्रणवसहितांस्तु मन्त्रजवर्णान् प्रजपेच्छतावृत्त्यै तज्जिवनमुक्तमिति | १६४ | भूर्ज इति | वायुबीजेन यम इत्यनेन | ताडनस्य वाक्यन्तु � अमुकमन्त्रस्य अमुकाक्षरं यं ताडयामि ति आगमतत्त्वविलासः | ताडनं शतधा दशधा वा | तदुक्तं तन्त्रसारधृततन्त्रान्तरे � ताडनं तारयेद् वर्णानखिलांश्चन्दनाम्भसा | शतं वा दशधा वापि बोधयेत्तु मनं ततः || इति | विश्वसारे � दशधा शृणु देवेशि ताडनं परिकीर्तितम् || इति | १६५ | मन्त्रमिति | भूर्जपत्रे देयमन्त्रं संलिख्य तन्मन्त्रघटकवर्णसमसंख्याकरक्तकरवीरपुष्पै रम् इति वह्निबीजेन हन्यात् | तदुक्तं राघवभट्टेन � एतस्मिन् लिखितमन्त्र- (अभिषेकाख्यः पञ्चमः) मालतीकलिकाभिस्तु कुशमूलेन वा सुधीः | भूर्जे मन्त्रं समालिख्य मन्त्री मन्त्रार्णसंख्यया | अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये || १६६ || (विमलीकरणाख्यः षष्ठः) सहजागन्तुमायाख्यं ज्योतिर्मन्त्रेण निर्दहेत् | मलत्रयं ततो मन्त्री मन्त्रोऽसौ विमलो भवेत् || १६७ || ---------------------------------------------------------------------
73 SK वर्णसंख्याकरवीरैस्तद्बोधनमुक्तं यद्धन्याद्वह्निबीजेनेति | अत्र तन्मन्त्राक्षरसंख्यातैरित्यभिधानादेकेन पुष्पेणैकस्य मन्त्रवर्णस्य बोधनमिति सूचितम् | बोधनवाक्यन्तु � अमुकमन्त्रस्यामुकाक्षरं हन्मि इत्यागमतत्त्वविलासः | १६६ | मालतीति | मालतीकलिकाभिः कुशमूलेन वा भूर्जपत्रे मन्त्रं लिखित्वा मन्त्रघटकवर्णसमसंख्यातैरश्वत्थपल्लवैस्तन्मन्त्रमभिषिञ्चेत्ततः स मन्त्रः शुद्धो भवतीत्यर्थः | तदुक्तं राघवभट्टधृतपिङ्गलामते � मालतीकलिकाभिस्तु न्यस्यार्णं कर्णिकोपरि | अश्वत्थपल्लवैः शुद्धैस्तन्मन्त्राक्षरसम्मितैः | अभिषेकं प्रकुर्वीत स्वतन्त्रे विहितं यथा || शारदातिलके द्वितीयपटले तु � स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसंख्यया | अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये || इत्यत्र यत् स्वतन्त्रोक्तविधानेनेत्युक्तं तद् व्याख्यातं राघवभट्टेन स्वतन्त्रोक्तविधानेन शैवमन्त्रे शिवतन्त्रानुसारात्, शक्तिमन्त्रे शक्तितन्त्रानुसारात्, विष्णुमन्त्रे वैष्णवतन्त्रानुसारादिति | राघवभट्टेनाष्टोत्तरशतसंख्यातोऽभिषेक उक्तः निजतन्त्रेरितमार्गादभिषिञ्चेत् पिप्पलप्रवालेन भूर्जे विलिखितमन्त्रं शतमष्टौ चाभिषेकोऽयमिति | अभिषेकवाक्यन्तु � अमुकमन्त्रस्यामुकाक्षरमभिषिञ्चामि नम इति राघवभट्टः | आगमतत्त्वविलासे तु अभिषिञ्चामीत्यन्तमेव | तत्र प्रत्येकं शतधा दशधा वाभिषेक उक्तः | १६७ | सहजेति | मन्त्री मन्त्ररहस्यज्ञः सहजागन्तुमायाख्यं सहजम् आगन्तुकं तारं शिवाग्नितारान्तो बिन्दुर्ज्योतिर्मनुर्मतः | (आप्यायनाख्यः सप्तमः) कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः || १६८ || अष्टोत्तरशतमिदं लिखित्वा भूर्जपत्रके | तेन मन्त्रेण विधिवदेतदाप्यायनं मतम् || १६९ || --------------------------------------------------------------------- मायिकञ्च मन्त्रमलत्रयं ज्योतिर्मन्त्रेण निर्दहेदिति सम्बन्धः | तदुक्तं राघवभट्टधृतपिङ्गलामते �
74 SK सहजागन्तुमायाख्यं ज्योतिर्मन्त्रेण निर्दहेत् | मन्त्रे मलत्र्यं मन्त्री ततोऽसौ निर्मलो भवेत् || इति | तन्त्रसारे तु � सञ्चिन्त्य मनसा मन्त्रं सुषुम्णामूलमध्यतः | ज्योतिर्मन्त्रेण विधिवद्दहेन्मलत्रयं यतिः || इति विमलीकरणस्वरूपं निरूप्य, मलत्रयमिति � मायिकं कार्मणमाणव्यञ्चेति | प्रपञ्चसारे � मायिकं नाम योषोत्थं पौरुषं कार्मणं मलम् | आणव्यं तद्द्वयं प्रोक्तं निषिद्धं तन्मलत्रयम् || इत्याह | मन्त्रीत्यनेन मूलाधारात् कुण्डलिनीमुत्थाप्य तद्द्वारा दोषदाह इति राघवभट्टः | अत एव तन्त्रसारकृतापि सुषुम्णामूलमध्यत इत्युक्तम् | ज्योतिर्मन्त्रेण निर्द्दहेदित्युक्तम्, तं ज्योतिर्मन्त्रमाह � तारमिति | तारं प्रणवः, शिवो हकारः, अग्नी रेफः, तारान्त औकारः बिन्दुरनुस्वारः तेन ह्रौं इति ज्योतिर्मन्त्रं | शारदायामपि � तारं व्योमाग्निमनुयुग दण्डी ज्योतिर्मनुर्मत इति | आगमतत्वविलासकृता तु ज्योतिर्मन्त्रोत्पन्नवह्निशिखया पञ्चविंशतिकृत्वो निर्दहनम्, अमुकमन्त्रस्यामुकं मलं निर्दहामीति तद्वाक्यञ्चाभिहितम् | १६८-१६९ | कुशेति | इदं मन्त्रं भूर्जपत्रके लिखित्वा जप्तेनाष्टोत्तरशतजप्तेन कुशोदकेन मनोर्देयमन्त्रस्य प्रत्यर्णं प्रतिवर्णं तेन देयमन्त्रेण अष्टोत्तरशतं प्रोक्षणम् एतदाप्यायनमिति सम्बन्धः | केचित्तु पूर्वं ज्योतिर्मन्त्राभिधानात् तेन ज्योतिर्मन्त्रेणेत्यर्थं (तर्पणाख्योऽष्टमः) मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं मतम् || १७० || (दीपनाख्यो नवमः) तारमायारमाबीजं मन्त्रस्यादौ नियोज्य च | सप्तधा प्रजपेन्मन्त्रमिति दीपनमीरितम् || १७१ || ---------------------------------------------------------------------
75 SK कल्पयन्ति | अत्र मीमांसितं राघवभट्टेन � केचन तेन तन्मन्त्रेणेति ज्योतिर्मन्त्रेणेति व्याचक्षते, तदसद् ग्रन्थान्तरविरोधात्, तदुक्तम् � आप्यायनं स्वजप्तैः प्रत्यर्णं कुशपयोभिः स्यात् | इति | तथाच स्वजप्तैरित्यस्य स्वं मन्त्रं तेन जप्तैः, कुशपयोभिरित्यर्थः | प्रकृते तु तेन जप्तेन तेनैवाभ्युक्षणमिति ध्येयम् | अत एव राघवभट्टेन तेनेत्युभयत्र सम्बध्यते इत्युक्त्या स्वमतसमर्थनानुकूलं पिङ्गलामतप्रमाणमुपदर्शितम् | यथा � अष्टोत्तरशतालब्धं विशुद्धं कुशवारिणा | आप्यायितो भवेन्मन्त्रः प्रत्यर्णं प्रोक्षितो यदि || इति | अत्र प्रोक्सणं सप्तधेत्युक्तं राघवभट्टेन | आप्यायनस्य वाक्यन्तु अमुकमन्त्रस्यामुकवर्णमाप्यायामि इत्युक्तमागमतत्त्वविलासे | १७० | मन्त्रेणेति | मन्त्रे लिखितमन्त्रोपरि मन्त्रेण देयमन्त्रेण वारिणा यत् तर्पणं तदेव तर्पणं तर्पणाख्यः संस्कार इत्यर्थः | इदमप्यष्टोत्तरं शतमिति राघवभट्टः | तन्त्रसारे � मधुना शक्तिमन्त्रे तु वैष्णवे चेन्दुमज्जलैः | शैवे घृतेन दुग्धेन तर्पणं सम्यगीरितम् || इन्दुमज्जलैः कर्पूरजलैरिति | १७१ | तारेति | तारः प्रणवः, माया ह्रीं, रमाबीजं श्रीं | बीजमित्यस्य प्रत्येकमभिसम्बन्धः | मन्त्रस्येति देयमन्त्रस्येत्यर्थः | अत्र तन्त्रसारे शारदायाञ्च तारमायारमायोगे मनोर्दीपनमुच्यते इति सामान्यतोऽभिहितम् | तन्त्रसारधृतविश्वसारे च � तारमायारमाबीजपुटितेन जपेन्मनुम् | शतमष्टोत्तर�न्चैव दीपयेत् साधकोत्तमः || इत्यनेन तारमायाबीजपुटितस्य देयमन्तस्याष्टोत्तरशतजपो दीपनमित्याह | प्रकृते तु (गोपनाख्यो दशमः) जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् || १७२ || (दशसंस्कारोपसंहारः) संस्कारा दश संप्रोक्ताः सर्वतन्त्रेषु गोपिताः | यान् कृत्वा मन्त्रदानेन मन्त्री वाञ्छितमाप्नुयात् || १७३ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ द्वितीयः प्रकाशः || २ || ---------------------------------------------------------------------
76 SK मन्त्रस्यादावेव तारमायारमाबीजनियोगः सप्तधा जपश्चेति प्रागुक्तविश्वसार- शारदावचनविरोधः | तदेवं मीमांस्यते-तारमायेत्यादिमूलवचने नियोज्य चेति चकारस्य आदावित्यनेनाभिसम्बन्धान्मन्त्रस्यादौ च नियोज्येत्यर्थे अन्ते च तारादिबीजानां नियोगोऽवगम्यते, ततश्च मन्त्रस्यादावन्ते च तारमायारमाबीजानां नियोगो ग्रन्थकृतोऽप्यभिमत इति न विश्वसारादिवचनविरोधः | अष्टोत्तरशतजपसप्तधाजपयोर्व्यवस्था तु शक्ताशक्तभेदेनेति निष्कर्षः | तृतीयः प्रकाशः (दीक्षाप्रकरणम्) (तत्र विहितस्थानानि, दीपस्थाननिरूपणप्रयोजनम्, कूर्मचक्रम्, वास्तुयागस्तदङ्गचतुःषष्टिपदवास्तुमण्डलं वलिमन्त्राश्च) (दीक्षायां प्रशस्तस्थानानि) अथ वक्ष्यामि दीक्षायाः स्थानं तन्त्रानुसारतः || १ || गोशालायां गुरोर्गेहे देवागारे च कानने | पुण्यक्षेत्रे तथोद्याने नदीतीरे च मन्त्रवित् || २ || धात्रीविल्वसमीपे च पर्वताग्रे गुहासु च | गङ्गायां तत्तटे वाऽपि कोटिकोटिगुणं भवेत् || ३ || (दीपस्थाने जपादिविधिः) दीपस्थानं समाश्रित्य जपयागादिकं चरेत् | (कूर्मचक्रनिरूपणप्रतिज्ञा) अत एव कूर्मचक्रं वक्ष्यामि सिद्धिकारणम् || ४ || --------------------------------------------------------------------- ४ | गोशालायामित्यादिना दीक्षायां यानि प्रशस्तस्थानानि निरूपितानि तेष्वपि दीपस्थानमेवाश्रित्य जपयागादिकं विधेयमित्यर्थस्य ज्ञापनाय दीक्षास्थाननिरूपणात् परमेव दीपस्थानं निरूपयति � दीपस्थानमित्यादिना | वक्ष्यमाणकूर्मस्य मुखस्थानमेव दीपस्थानमित्यग्रे वक्ष्यते | तद्दीपस्थानं कूर्मचक्रज्ञानाधीनमिति कूर्मचक्रं वक्तुं प्रतिजानीते � अत इति | (तत्र रेखापातक्रमो वर्णन्यासश्च) आदौ च वर्तुलं कृत्वा नव कोष्ठानि कारयेत् | नवभागं मध्यकोष्ठं तथैव पूर्वतो लिखेत् || ५ || कवर्गादिसप्तवर्गं ल-क्षावीशे तदन्तरम् | मध्येषु वसुकोष्ठेषु स्वरांश्च युग्मशो लिखेत् || ६ || ---------------------------------------------------------------------
77 SK ५ | तत्रायं कूर्मचक्रनिर्माणक्रमः � प्रथमं कूर्माकृति वर्तुलं तन्मध्ये चतुरस्रम्, तन्मध्ये द्वे पूर्वायते, द्वे चोत्तरायते, एवं वर्तुलमध्ये नव कोष्ठानि सम्पद्यन्ते | एतेषां नवकोष्ठानं मध्यकोष्ठसंज्ञा तद्वहिःस्थानान्तु बहिःकोष्ठत्वम इति प्रतिपादयितुमाह � नवभागमिति | तत्र चक्रे वर्णन्यासमाह � तथैवेति | अन्तर्नवकोष्टवद् बहिःकोष्ठेषु व्यञ्जनानां स्थापनं विधेयमिति सूचनायैतत् | ६ | कवर्गादीति | तथाच बहिः पूर्वकोष्ठे-कवर्गम्, आग्य्नेयकोष्ठे-चवर्गम्, दक्षिणकोष्ठे-टवर्गम्, नैर्-ऋतकोष्ठे-तवर्गम्, पश्चिमकोष्ठे-पवर्गम्, वायव्यकोष्ठे यादिचतुष्क, उत्तरकोष्ठे- शादिचतुष्कम्, इशानकोष्ठे-ल-क्षवर्णद्वयमिति बहिःकोष्ठेपूरणक्रमः | एतदेव स्फुटमाह राघवभट्टधृतवचनम् � पूर्वकोष्ठे कवर्गस्य पञ्चकं मध्यतः क्रमात् | मध्यतोऽन्यत्र चान्नेये चवर्गं चैवमेव हि || इति | अन्तःकोष्ठप्रक्रियामाह्-मध्येष्विति | तथाच पूर्वदिङ्मध्यकोष्ठतः प्रादक्षिण्येन प्रतिकोष्ठं द्वौ द्वाविति क्रमेण षोडश स्वरान् लिखेदित्यर्थः | तदाह राघवभट्टः � मध्यकोष्ठपुरोभागे अकारद्वयमालिखेत् | आग्नेय्यामिद्वयं विद्याद् याम्ये तूद्वयमालिखेत् || इत्यादिना | तन्त्रसारेऽपि � चतुरस्रां भुवं भित्त्वा कोष्ठानां नवकं लिखेत् | पूर्वकोष्ठादि विलिखेत् सप्तवर्गाननुक्रमात् | ल-क्षमीशे मध्यकोष्ठे स्वरान् युग्मक्रमाल्लिखेत् || मध्यकोष्ठे क्षेत्रनाम चक्रं कूर्माख्यमुत्तमम् | (मुखादिनिर्णयः) यस्मिन् कोष्ठे क्षेत्रनामपूर्ववर्णं मुखं स्मृतम् || ७ || --------------------------------------------------------------------- इत्यनेनेयमेव वर्णस्थापनापरिपाटी निरूपिता | रुद्रजामलोत्तरखण्डतृतीयपटले तु� मुण्डे स्वरा दक्ष्पादे कवर्गं वामपादके | चवर्गं कीर्तितं पश्चादधःपादे टवर्गकम् || ७३ || इत्यादिना | लाङ्गुले शक्रबीजञ्च क्षकारं लिङ्गमध्यके | लिखित्वा गणयेन्मन्त्री चक्रं कलिमलापहम् || ७४ ||
78 SK इत्यन्तेन कूर्मचक्रे वर्णानां न्यासोऽन्यथा निरूपितः | ७ | मध्यकोष्ठ इति | प्रागुक्ताष्टकोष्ठान्तर्वर्ति यन्नवमं कोष्ठं तत्र क्षेत्रनाम लिखेदित्यर्थः | क्षेत्रन्तु यतोपविश्य साधको जपति तदेव | तत्र प्रशस्तक्षेत्राणि गोशालायां गुरोर्गेहे इत्यादिना प्रकाशप्रारम्भ एवाभिहितानि | शारदायां द्वितीयपटलेऽपि � पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् | तीर्थप्रदेशाः सिन्धूनां सङ्गमाः पावनं महत् || उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः | साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् || इति | एवमन्यत्रापि | अथ मुखस्यैव दीपस्थानत्वात् कूर्मस्य किं मुखं यज्ज्ञानाधीनं दीपस्थानज्ञानमित्याशङ्क्य मुखं निरूपयति � यस्मिन्निति | प्रागुक्तानां कूर्मान्तःकोष्ठानां मध्ये यस्मिन् कोष्ठे क्षेत्रनामपूर्ववर्णं साधनयोग्यस्थाननामप्रथमाक्षरं तन्मुखं स्मृतमित्यर्थः | तदुक्तं शारदायां द्वितीयपटले � दिक्षु पूर्वादितो यत्र क्षेत्राख्याद्यक्षरं स्थितम् | मुखं तत्तस्य जानीयात् * * * इति || एवञ्च कूर्मस्य मुखं साधनक्षेत्रप्रथमाक्षरानुसारेण निर्देश्यमिति स्थितम् | मुखस्य पार्श्वयोः पाणियुगं पार्श्वद्वयं भवेत् | कुक्षिस्थानं पादयुगं तदन्ते पुच्छमीरितम् || ८ || (कूर्मस्य तत्तदङ्गमाश्रित्य जपादौ फलभेदाः) मुखे कार्याणि सिध्यन्ति करे क्लेशमवाप्नुयात् | उदरे दुःखमधिकं पादयोर्हानिरुच्यते | पुच्छे तु धनहानिः स्याद्दीपस्थानं मुखं स्मृतम् || ९ || (दीपस्थानेतरत्र दीक्षादौ दोषः) दीपस्थानं विना यो हि दीक्षाहोमादिकञ्चरेत् | तदेव निष्फलं विद्यादभिचाराय कल्पते || १० || ---------------------------------------------------------------------
79 SK ८-९ | एवं मुखं निर्दिश्य कूर्मस्य हस्तादिकं निरूपयति � मुखस्येत्यादिना | मुखोभयपार्श्वस्थं कोष्ठद्वयं हस्तयुगलम्, उभयपार्श्वस्थं कोष्ठद्वयं कुक्षिस्थानम्, तदध उभयतः कोष्ठद्वयं पादयुगलम्, तदधः कोष्ठं पुच्छमित्यर्थः | मुखादिभेदेन जपयागादीनामिष्टानिष्टफलजनकत्वमाह-मुख इत्यादिना | १० | दीपस्थानमिति | अत्र राघवभट्टेन दीपशब्दार्थोऽन्यत्रोक्त इत्यभिधाय � दीपोऽद्य (?) संप्रवक्ष्यामि यदुक्तं ब्रह्मजामले | प्रासादग्रामगेहाद्या ज्ञेया येन शुभाशुभाः || ककारादिक्षकारान्ता वर्णाः स्युर्दीपसंज्ञकाः | स्वराः षोडश पीठाख्या ज्ञातव्या मत्त्रिणां वरैः || इति | तथा � पीठसंज्ञा स्वराणाञ्च दीपाः स्युर्व्यञ्जनानि हि | स्थानं दीपाक्षरं यस्मिन् कोष्ठे तिष्ठति तद् भवेत् | दीपस्थानं तदेतत् स्यात् कूर्मचक्रे न संशयः || इति चोक्तम् | एतेन दिककोष्ठानि व्यञ्जनवर्णमयानि दीपस्थानानि | अन्तःस्थानि स्वरमयाण्यष्टकोष्ठानि तु पीठसंज्ञकानीत्यवगम्यते | एवञ्चानेन स्वराणां पीठरूपतया तेषां वर्जनमुक्तम्, प्रकृतेऽपि श्रीमत्पूर्णानन्देन उदरे दुःखमधिकम् इति वदता उदरस्थानां स्वरवर्णानां वर्जनीयत्वमभिहितमिति न कश्चिदु विरोधः | (दीक्षायां वास्तुयागस्य कर्तव्यता) अथ वक्ष्यामि दीक्षा�न्गं वास्तुयागपुरःसरम् | कृतेन येन विधिवद्दीक्षायाः फलमाप्नुयात् || ११ || (वास्त्वङ्गाधिष्ठितत्रिपञ्चाशद्देवताकवलिनिर्णयः) राक्षसं वास्तुनामानं हत्वाधिष्ठाय तत्तनुम् | स्थिताः सुरास्त्रिपञ्चाशत्तेभ्यः पूर्वं बलिं हरेत् || १२ || --------------------------------------------------------------------- लक्षणाचार्यैस्तु शारदायां द्वितीयपटले � मुखं तत्तस्य जानीयाद्धस्तावुभवतः स्थितौ | कोष्ठे कुक्षी उभे पादौ द्वे शिष्टं पुच्छमीरितम् || इत्यनेन क्षेत्रनामाद्यक्षरानुसारेण मुखादिनिर्णयमुपदिश्य क्रमेणानेन विभजेन्मध्यस्थमपि भागतः |
80 SK इत्यनेन मध्येष्वष्टसु कोष्ठेषु स्थितानां स्वरवर्णानामपि प्रागुक्तरीत्या मुखादिकल्पनमभिहितमिति प्रतीयते | अत्र साधक-क्षेत्रनामाद्यक्षरयोर्वैरमित्रत्वभावनादि विस्तरतोऽभिहितं राघवभट्टेन | प्रकृतेऽनभिधानात्तन्न प्रदर्श्यते | ११ | एवं दीपस्थानं निरूप्य वास्तुयागं निरूपयितुमुपक्रमते � अथेति | दीक्षाङ्गमिति | वास्तुयागस्य दीक्षाङ्गत्वमाह राघवभट्टधृतमयमते � शुभकर्मणि दीक्षायां मण्डपकरणे गृहादिविधिषु तथा | विहितो वास्तुवलिः स्याद् रक्षोविघ्नोपशान्तिसम्पद्भ्यः || इति | वास्तुयागपुरःसरम् इत्यस्य वास्तुयागः पुरःसरो यस्य दीक्षाङ्गस्य दीक्षाङ्गसमुदायस्येत्यर्थः | ततश्च दीक्षाङ्गपदेन मण्डपाधिवासनकुण्डमण्डलादीनां परिग्रहः | १२ | राक्षसमिति | वास्तुदेवतोत्पत्तिमाह राघवभट्टः � कश्यपस्य गृहिणी तु सिंहिका राहुवास्तुतनयावजीजनत् | पूर्वजो हरिनिकृत्तकन्धरो दैवतैरवरजो निपातितः || तन्त्रराजे त्रिंशपटले � चतुरस्राकृतिः कश्चिदसुरः सर्वनाशकृत् | पुआ (?) तरस्य वधायैव सर्वे देवाः समुद्यमम् || कृत्वा निहन्तुमुद्युक्तास्तैरवध्योऽभवद् वरात् | आवयोस्तन्निरासाय मामेत्याकथयत्तदा || कथयास्माकमधुना तद्वास्तुपुरुषस्य तु | दर्पशान्तिं न एत्तेन विश्वमासीदुपद्रुतम् || इत्युक्ते तैर्मया प्रोक्तं निधनं तस्य दुःशकम् | खात्वा तमवनौ तस्य शरीरे स्थापयेत्तथा || नित्यशश्च त्रिपञ्चाशन्निस्पन्दाक्रमणाय वै | नियोज्य तेषां ये पूजाविमुखास्तैः कृतानि तु || सुकृतानि समादद्युर्दुष्कृतानि च कुर्वते | तस्मात्तेषामर्चनन्तु प्रत्यहं कुर्वतां सदा || शुभान्येवाशु जायन्ते नैवाशुभकथापि च | इति | राघवभट्टधृतमहाकपिलपञ्चरात्रे च � पूर्वमासीन्महानुग्रः सर्वभूतभयङ्करः | स देवैर्निहतो भूमौ स वास्तुपुरुषः स्मृतः || यावद् भूमिः स्थिरा लोके तावद् वास्त्वसुरः स्थितः | संहारे तु लयं याति देवैः सर्वग्रहादिभिः ||
81 SK विस्तारोऽप्यासमन्ताच्च शतकोटिस्तु यो जनः | संस्थितोऽसौ धरां व्याप्य प्रोत्तानः कृष्णवर्णकः || जानू कूर्परकौ वास्तोर्वह्निवायुप्रकोष्ःअगौ | पितृपादपुटश्चायमीशमूर्द्धा हृदञ्जलिः | ऊर्द्ध्वकेशः सुपीनश्च वर्तुलाक्षोऽसुराकृतिः || इति | अत्र वास्तोरूर्द्द्वमुखतोक्ता | अधोमुखतापि दृश्यते, तदाह राघवभट्टः � वास्त्वीशनामा ह्यसुरोऽतिकायो देवैः पुरा दत्तवरोऽभिपूज्यः | शेते स भूम्यां प्रविसार्य पादौ हस्तौ तथाधोवदनः सदैव || इति | एवं स्थितेऽप्यूर्द्ध्वाधोवदनत्वरूपविरोधे तत्परीहार उपपादितो राघवभट्टधृतसोमशम्भुना � आकुञ्चितकरं वास्तुमुत्तानमसुराकृतिम् | स्मरेत् पूजासु कुड्यादिनिविशे त्वधराननम् | (वलिकर्मणि वास्तुमण्डलम्) वलिमण्डलमेतेषां वक्ष्यामि विघ्ननाशनम् || १३ || (मण्डलस्यास्य चतुरस्रत्वं हस्तप्रमाणत्वञ्च) चतुरस्रां भुवं कुर्यान्मन्त्री हस्तप्रमाणतः | (हस्तप्रमाणम्) चतुर्विंशत्यङ्गुलाढ्यं हस्तं तन्त्रविदो विदुः || १४ || (मानाङ्गुलप्रमाणम्) कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः | मध्यस्य दैर्घ्यमानेन मानाङ्गुलमुदीरितम् || १५ || (तस्यैव क्रमान्तरम्) कर्मकर्तुर्निजाङ्गुष्ठतिर्यङ्मानेन मध्यमम् | प्रमाणाङ्गुलमेतत्तु सर्वकर्मणि चापरे || १६ || --------------------------------------------------------------------- इत्यनेन | एवञ्च गृहादिकरण एव वास्तोरधोमुखत्वं प्रकृते तु तस्योर्द्धमुखत्वमेव | स्थिता इति | त्रिपञ्चाशत् सुराः तत्तनुमधिष्ठाय स्थिताः | हत्वापि तत्तनुं परिहाय न गता इत्यर्थः | उपपादितमेतद्राघवभट्टधृतमहाकपिलपञ्चरात्रे � सर्वान् देवांस्तु कार्येषु पूजयेद्वास्तुसंस्थितान् | तेनासौ वर्तते नो चेदुत्तिष्ठेन्माधवाज्ञया || इति | एवञ्च प्रागुक्तरीत्या वास्तुनामानं राक्षसं हत्वा तत्तनुम् अधिष्ठाय त्रिपञ्चाशत् सुरा वक्ष्यमाणलक्षणाः स्थितास्तेभ्यः पूर्वं दीक्षाया इति शेषः बलिं हरेद् वक्ष्यमाणक्रमेणेति शेषः |
82 SK १३ | अथेदानीं वास्तुवलिमण्डलं वक्तुमुपक्रमते � वलीत्यादिना | १४ | तदाह � चतुरस्रामिति | हस्तप्रमाणतश्चतुरस्रां भुवं कुर्यादिर्यर्थः | किं हस्तप्रमाणमित्यत आह � चतुर्विंशेति | १६ | हस्तपरिमाणज्ञानमङ्गुलपरिमाणज्ञानसापेक्षमित्यतोऽङ्गुलपरिमाणभेदानाह � कर्मकर्तुरित्यादिना | (तस्यैव क्रमान्तरम्) जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः | प्रथमं तत् प्र्माणानां त्रसरेणुः प्रचक्ष्यते || १७ || त्रसरेणुस्तु विज्ञेयो ह्यष्टौ ते परमाणवः | त्रसरेणव एते स्युरष्टौ रेणुस्तु स स्मृतः || १८ || ते रेणवस्तथा ह्यष्टौ बालाग्रं तत् स्मृतं बुधैः | बालाग्रैरष्टभिर्लिख्या यूका लिख्याष्टकं स्मृतम् || १९ || --------------------------------------------------------------------- १७ | अथ किं स्वरूपं माना�न्गुलस्य येन हस्तप्रमाणं निश्चीयेतेत्यत आह � जालेत्यादि | तथाच-अष्टौ परमाणवस्त्रसरेणुरष्टौ त्रसरेणवो रेणुरष्टौ रेणवो बालाग्रमष्टौ बालाग्राणि लिख्याष्टौ लिख्या यूका अष्टौ यूका यवोऽष्टौ यवा अङ्गुलमित्यङ्गुलपरिमाणमित्यर्थः | अत्र परमाणेरेव प्रथमपरिमाणत्वस्य सर्ववादिसिद्धत्वेऽपि प्रथमं तत्परमाणानामित्यादिना त्रस्रेणोर्यत् प्रथमपरिमाणत्वाभिधानं तदिन्द्रियग्राह्यप्रथमपरिमाणपरमित्यवधेयम | हयशीर्षपञ्चरात्रे सप्तमपटले तु � परमाण्वष्टकेनैव रथरेणुः प्रकीर्तितः | रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते || २ || तैरष्टभिस्तु बालाग्रं लिख्या तैरष्टभिः स्मृता | ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यकम् | यवाष्टकैरङ्गुलं स्याच्चतुर्विशाङ्गुलः करः || इत्यादि | (२-४) एतन्मते चतुःषष्ट्या परमाणुभिरेकस्त्रसरेणुर्भवति | एवमन्यत्रान्यथापि परिमाणनिरूपणप्रकारभेदा दृश्यन्ते | अष्टौ यूका यवं प्राहुरङ्गलन्तु यवाष्टकम् | मानाङ्गलप्रमाणन्तु प्रोक्तमित्यपरं बुधैः || २० || (अस्यैव प्रकारान्तरम्)
83 SK तिर्यग्यवोदराण्यष्टावृज्वग्रा व्रीहयस्त्रयः | मानाङ्गुलप्रमाणन्तु केचिदिच्छन्ति तान्त्रिकाः || २१ || (प्रागुक्तहस्तमानस्य विषयः) स्रुक्स्रुवे मण्डले कुण्डे हस्तमानं समीरितम् || २२ || (वास्तुमण्डलपदविभागपरिपाटी) अथ तद् विभजेन्मन्त्री चतुःषष्टिपदं यथा || २३ || --------------------------------------------------------------------- २२ | स्र क्-स्रुव इत्यादि | हयशीर्षे सप्तमपटलेऽपि एवंक्रमेण हस्तपरिमाणं निरूप्य � एतैर्हस्तैस्तु कुर्वीत प्रासादं यागमण्डपम् | प्रतिमां पिण्डिकां वाऽपि कुण्डं मण्डलमेव च || तोरणञ्च ध्वजञ्चैव गुणाढ्यं पात्रमेव च | मानहीनं न कर्तव्यं फलप्राप्त्यर्थिभिः सदा || इत्यभिहितम् | राघवभट्टधृतमहाकपिलपञ्चरात्रे तु � गृहप्रासादकूपानां मण्डपस्य जलस्य च | वास्तुमण्डलकं कार्यमष्टहस्तन्तु नापरम् || इत्यनेन मण्डलस्याष्टहस्तपरिमाणत्वमाह | प्रकृते तु हस्तप्रमाणत इत्यभिधानाद्दीक्षा�न्गवास्तुयागे वास्तुमण्डलस्यैकहस्तप्रमाणत्वमिति स्थितम् | २३ | एवं हस्तपरिमाणं निरूप्य वास्तुमण्डलपदविभागपरिपातीं प्रदर्शयति � अथेति | तन्मण्डलं चतुःषष्टिपदं यथा स्यात्तथा विभजेदिति सम्बन्धः | ननु हयशीर्षपञ्चरात्रस्यादिकाण्डेऽष्टमपटले � चतुःषष्टिन्तु प्रासादे एकाशीतिं गृहे सदा | श्री-१३ वास्तुयागतत्वधृतदेवीपुराणे � प्रासादे च चतुःष्ऽष्टिरेकाशीतिपदं गृहे | तथा राघवभट्टधृतसोमशम्भौ � कुर्यात् कोष्ठचतुःषष्टि प्रासादे वास्तुमण्डलम् | गृहेऽपि वर्तयेद्वास्तुं किन्त्वेकाशीतिकोष्ठकैः || इत्यादिवचनैश्चतुःषष्टिपदवास्तुमण्डलस्य प्रासादमात्रपरत्वाभिधानदिहा दीक्षाङ्गमण्डपनिर्माणाङ्गभूतवास्तुमण्डलस्य चतुःषष्टिपदत्वं कथमुपपद्यते ? उच्यते � राघवभट्ऽधृतमहाकपिलपञ्चरात्रे � एकाशीतिपदं कृत्वा वास्तुञ्चैव गृहादिषु | चतुःषष्टिपदो वास्तु प्रासादे ब्रह्मणा स्मृतः || इत्याभिधाय, मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः |
84 SK इत्युक्तम् | एवञ्च प्रासादे वास्तुमण्डलस्य चतुऽषष्टिपदतया तदानुरूप्येण मण्डपेऽपि मण्डलस्यास्य चतुःषष्टिपदत्वं युक्तमित्यतः सुष्ठूक्तं चतुःषष्टिपदं यथेति | अत्र चतुःषष्टिपदविभागस्य क्रमं स्फुटमाह हयशीर्षपञ्चरात्रे आदिकाण्डेऽष्टमपटले � चतुरस्रीकृते क्षेत्रे ह्यष्टधोभयभाजिते | कोणरेखां ततो दत्त्वा सुरभागांस्तु कल्पयेत् || इति | एवञ्च भूमिं प्रथमं चतुरस्रां विधाय तामुभयतोऽष्टधा विभजेत् | तत्र च विभजने नव पूर्वायता नव चोत्तरायता रेखाः कर्तव्याः | एवं कृते चतुःषष्टिः पदानि सम्पद्यन्ते | मूले चतुःषष्टिपदं यथेत्यनेनायमेव पदविभागक्रमो दर्शितः | आसाञ्च पूर्वोत्तरायतानां रेखाणां संज्ञाः प्रदर्शिता विश्वकर्मणा | तत्र पूर्वायतानामुत्तरादिक्रमेण � श्रिया यशोमती कान्ता सुप्रियाऽपि परा शिवा | सुशोभा सघना ज्ञेया तथेभा नवमी स्मृता || (विश्व० ५|२२|२३) इत्येताः संज्ञाः | उत्तरायतानां पश्चिमादिक्रमेण संज्ञास्तु- धन्या धरा विशाला च स्थिरा रूपा गदा निशा | विभवा प्रभवा चान्या सौम्यासौम्याश्रिताः शिराः || इत्येताः | (विश्व-५|२३|२४) तथाच वास्तुराक्षसस्य चतुरस्राकृतेरेताः पूर्वोत्तरायता रेखाः शिरास्ताश्च मण्डलस्वरूपवास्तुशरीरेऽवश्यमेव स्थापनीया इत्युक्तं भवति | ईशानाद्राक्षसं यावद् यावदग्नेः प्रभञ्जनम् | कर्णसूत्रद्वयं दद्यात्ततो ब्रह्माणमर्चयेत् || २४ || मध्यकोष्ठचतुष्के तु पूर्वादिदिक्चतुष्टये | चतुश्चतुःप्रकोष्ठेषु यजेदर्यमणन्तथा || २५ || विवस्वन्तं ततो मित्रं महीधरमतः परम् | कोणार्द्धद्वन्द्वकोष्ठेषु वह्न्यादिपदतः पुनः || २६ || उपर्यधःक्रमेणैव पूजयेन्मन्त्रवित्तमः | सावित्रं सवितारञ्च शक्रमिन्द्रजयं पुनः || २७ || रुद्रं रुद्रजयं विद्वानापञ्चाप्यापवत्सकम् | कर्णसूत्रादुभयतः कोष्ठद्वन्द्वेषु साधकः || २८ ||
85 SK शर्वं गुहन्त्वर्यमणं जम्भकं पिलिपिञ्जकम् | चरकीञ्च विदारीञ्च पूतनामर्चयेत्ततः || २९ || --------------------------------------------------------------------- २४-२९ | ईशानादिति | प्रागुक्तचतुःषष्टिपदमण्डले ईशानान्निरृत्यन्तमग्नेर्वाय्वन्तञ्च कर्णसूत्रद्वयं दद्यादेकैकश इति शेषः | कर्णशब्दः कोणवाचितया शिल्पशास्त्रे प्रसिद्धः | एवं कर्णसूत्रपातं निरूप्य मण्डलमध्यतः क्रमेण ब्रह्मादीनामर्चनमुपदिशति � तत इति | मध्यकोष्ठचतुष्के ब्रह्माणमर्चयेत् | ततो दिग्देवस्थानमाह � पूर्वादीति | तथाच मध्यस्थब्रह्मकोष्ठचतुष्कस्य पूर्वकोष्ठचतुष्के � अर्यमणम्, दक्षिणकोष्ठचतुष्के � विवस्वन्तम्, पश्चिमकोष्ठचतुष्के � मित्रम्, उत्तरकोष्ठचतुष्के � महीधरं पूजयेदित्यर्थः | कोणार्द्धेति | वह्न्यादिपदतः कोणार्द्धद्वन्द्वकोष्ठेषु उपर्यधःक्रमेणैव सावित्रादीन् पूजयेत् | एवञ्च ब्रह्मपदचतुष्काद्बहिः प्रथमकोणकोष्ठचतुष्केषु पूर्वकृतकोणरेखाविभाजितेषु उपर्यधःक्रमेण सावित्रादीनां पूजनमनेन विधीयते | तथाच अग्निकोणार्द्धद्वन्द्वस्य ऊद्ध्वार्द्धे सावित्रमधोऽर्द्धे सवितारम्, एवं नैर्- ऋतकोष्ठार्द्धयोरूर्द्धे पूर्वादिदिक्चतुष्केषु सार्द्धाद्यन्तपदेष्विमान् | अष्टावष्टौ विभागेन क्रमादीशावधिं सुधीः || ३० || यजेदीशानपर्जन्यौ जयन्तं शक्रभास्करौ | सत्यो वृषान्तरीक्षौ तत्तदग्निपूषणावथ || ३१ || वितथाश्रमसंज्ञश्च गृहरक्षकसंज्ञकः | गन्धर्वो भृङ्गराजश्च मृगश्च निर्-ऋतिस्तथा || ३२ || दौवारिकाख्यः सुग्रीवो वरुणः पुष्पदन्तकः | असुरः शोषरोगौ च वायुनागाख्यमुख्यकाः || ३३ || सोमभल्लाटकावर्गलाख्योदित्यदितीति च || ३४ || --------------------------------------------------------------------- इन्द्रम्, अध इन्द्रजयम्, वायव्यकोष्ठार्द्धयोरूर्द्ध्वे रुद्रम्, अधो रुद्रजयम्, एवमीशानकोष्ठार्द्धयोरूर्द्ध्वे आपम् अध आपवत्सं पूजयेदित्यर्थः |
86 SK अथ तदूर्द्ध्वस्थकोणकोष्ठचतुष्कप्रक्रियामाह � कर्णेति | एतदपि पूर्वोक्तरीत्या कोणरेखाविभाजितेष्वष्टसु कोष्ठेषु विधेयम् | एवञ्च आग्नेये-ऊर्द्ध्वे शर्वम्, तदधो गुह्यम् | नैर्-ऋते-ऊर्द्ध्वे अर्यमणमधो जम्भकम् | वायव्ये �ऊर्द्धे पिलिपिञ्जमधश्चरकीम | ऐशाने- ऊर्द्ध्वे विदारीमधः पूतनामर्चयेदिति पर्यवस्यति | अत्र विशेषानभिधानेऽपि पूर्वं वह्न्यादिपदत इत्यभिधानात् शर्वादीनां पूजनमपि वह्न्यादिक्रमेणैव कर्तव्यम् | ३०-३४ | अथ पूर्वादिदिक्कोष्ठप्रक्रियामाह-पूर्वादीति | सार्द्धाद्यन्तपदेषु � आदि च अन्तञ्च आद्यन्ते अर्द्धे च ते आद्यन्ते चेति अर्द्धाद्यन्ते ताभ्यां सह वर्तमानानि यानि पदानि तेषु इति समासः | एवञ्च प्रागुक्तकोणरेखाविभाजिताद्यन्तकोणार्धपदेषु पदान्तरेषु च पूर्वादिक्रमैणेशानपर्यन्तं प्रतिदिशमष्टाविति क्रमेण वक्ष्यमाणान् ईशानादिदेवानर्चयेदित्यर्थः | तथाच पूर्वस्यामीशानकोणार्द्धे ईशम्, ततः पर्जन्यम्, ततो जयन्तम्, ततः शक्रम्, ततो भास्करम्, ततः सत्यम्, ततोऽग्निकोणपूर्वार्द्धेऽन्तरीक्षम् इत्येतान्, पूजयेत् | तदुक्तं शारदायां तृतीयपटले- क्रमादीशानपर्जन्यजयन्ताः शक्रभास्करौ | सत्यो वृषान्तरीक्षौ च दिशि प्राच्यामवस्थिताः || इति | (रजोभिर्मण्डलपदानामापूरणं वलिदानोपक्रमश्च) उक्तानामपि देवानां पदान्यापूर्य पञ्चभिः | रजोभिस्तेष्वथो तेभ्यो दद्यादेभिर्वलीनथ || ३५ || --------------------------------------------------------------------- एवं दक्षिणस्याम् अग्निकोणार्द्धे � अग्निं ततश्च क्रमेण पूषणं वितथम अश्रमं (यमं) गृहरक्षकं गन्धर्वं भृङ्गराजं मृगञ्च पूजयेत् | तदुक्तं तत्रैव � अग्निः पूषा च वितथो यमश्च गृहरक्षकः | गन्धर्वो भृङ्गराजश्च मृगो दक्षिणदिगगताः || एवं प्रतीच्याम- नैर्-ऋतकोणार्धतो वायुकोणार्धं यावत् क्रमेण निर्-ऋतिः, दौवारिकः, सुग्रीवः, वरुणः, पुष्पदन्तः, असुरः, शोषः (शेषः), रोगः (रागः) इत्यते पूजनीयाः | तदुक्तं तत्रैव �
87 SK निर्-ऋतिर्दौवारिकश्च सुग्रीववरुणौ ततः | पुष्पदन्तासुरौ शेषरोगौ प्रत्यगदिशि स्थिताः || इति | एवमुत्तरस्याम् � वायुकोणार्द्धत इशानकोणार्धं यावत् क्रमेण � वायुः नागः, मुख्यः, सोमः, भल्लाटः, अर्गलः, दितिः, अदितिश्चेत्येते पूजनीयाः | तदुक्तं तत्रैव � वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च | अर्गलाख्यो दित्यदिती कुबेरस्य दिशि स्थिताः || इति | अयं चतुःषष्टिमण्डलदेवतास्थापनक्रमो दर्शितः | हयशीर्षपञ्चरात्रे तु ब्रह्मस्थानादूर्द्ध्वकोणकोष्ठद्वये ईशानादिक्रमेणापापवत्सादीनां पूजनमभिधाय पूर्वादिक्रमेणैशानीं यावन्मण्डलाद् बहिः स्कन्दादीनां चरक्यन्तानां पूजनमभिहितम | अत्र विशेषानभिधानेऽपि पूर्वस्यां जयन्तसत्ययोर्दक्षिणस्यां वितथगन्धःर्वयोः प्रतीच्यां सुग्रीवासुरयोरुत्तरस्याञ्च मुख्यार्गलयोरुर्द्ध्वाधो द्विपदस्थत्वमवगन्तव्यम् | स्फुटमभिहितमेतद्धयशीर्षपञ्चरात्रेऽष्टमपटले � द्विपदस्थो जयो ज्�नेयः तथा द्विपदः सत्य उच्यते इत्यादिभिः | ३५ | उक्तानामिति | पञ्चमी रजोभिरित्यनेन � पीतं हरिद्राचूर्णं स्यात् सितं तण्डलसम्भवम् | कुसुम्भवर्णमरुणं कृष्णं दग्धपुलाकजम् | विल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् || १२३-१२४ || इति शारदातिलकतृतीयपटलोक्तरूपैः पञ्चविधरजोभिः पदानामापूरणमुपदिष्टम् | तत्रापि मण्डलपदस्थदेवानां यो यद्वर्णस्तत्तद्देवताधिष्ठितानां तत्तत्पदानामापूरणमपि तेन तेनैव वर्णेन विधेयम् | मण्डलपदस्थानां देवानां वर्णानाह � राघवभट्टधृततन्त्रान्तरे �
88 SK मरीचिः श्वेतवर्णः स्याद् विवस्वानुक्तवर्णकः | शातकुम्भसमो मित्रः कृष्णवर्णस्तु भूधरः | सविता नीलवर्णाभः सावित्रो धूमविग्रहः | इन्द्रश्चारुणवर्णाभः शुक्लश्चेन्द्रजयस्तथा | रुद्रः प्रवालसदृशः पीतो रुद्रजयस्तथा | आपो गोक्षीरधवल आपवत्सो जपाद्युतिः | ईशानः क्षीरधवलः पर्जन्योऽञ्जनसन्निभः | जयन्तोऽञ्जनसङ्काशो महेन्द्रश्चामलद्युतिः | आदित्यो रक्तवर्णः स्यात् सत्यकश्चित्रवर्णकः | वृषो बन्धूकपुष्पाभः कुन्दाभश्चान्तरीक्षकः || उद्यद्दिनकराभोऽग्निः पूषा रक्ताब्जसन्निभः | वितथश्चेन्द्रचापाभो विद्युद्वर्णो गृहक्षतः || यमश्चाञ्जनसङ्काशो गन्धर्वः पद्मरागवत् | भृङ्गराजस्तु भृङ्गाभो मृगो जीमुतसन्निभः || निर्-ऋतिः पावकाभश्च पीतो दौवारिकः स्मृतः | सुग्रीवो नीलकण्ठाभश्चन्द्राभः पुष्पदन्तकः || वरुणः स्फटिकाभाङ्गो भृङ्गाभश्चासुरो मतः | शेषश्चोत्पलसङ्काशः पापयक्ष्मेन्द्रनीलवत् || वायुः कृष्णाभवर्णः स्यान्नागः शङ्केन्दुसन्निभः | मुख्यो मौक्तिकसङ्काशो भल्लाटः श्वेतपद्मवत् || सोमः स्फटिकस�न्काशोऽर्गलो रक्तोत्पलद्युतिः | दितिः कुन्देन्दुधवला कपिला चादितिः स्मृता || चरकी शङ्खसदृशी विदारी पावकद्युतिः | पूतना हिमस�न्काशा मेघाभा पिलपिच्छिका | तथा- सितो रक्तश्च पीतश्च कृष्णः स्कन्दादिका ग्रहाः || इति | (तत्र ब्रह्मणो बलिमन्त्रः) पायसौदनलाजैश्च युक्तं धूपप्रसूनकैः | अक्षतं तिलसंयुक्तं माषभक्तादिमण्डितम् | गृहाणेमं वलिं ब्रह्म्न् वास्तुदोषं प्रणाशय (१) || ३६ || (अर्यम्णः) गन्धादिशर्करापूपं पायसोपरि संस्थितम् | अर्यमन् वै गृहाणेमं सर्वदोषं प्रणाशय (२) || ३७ || (विवस्वतः) चन्दनाद्यर्चितं नाथ कर्पूरागुरुमण्डितम् | विवस्वन् वै गृहाणेमं सर्वदोषं प्रणाशय (३) || ३८ || (मित्रस्य) सगुडं पायसं नाथ पुष्पादिसुसमन्वितम् | गृहाणेमं बलिं हृद्यं मित्र शान्तिं प्रयच्छ मे (४) || ३९ || ---------------------------------------------------------------------
89 SK अत्र तन्त्रान्तरवचने व्युत्क्रमेण निर्देशेऽपि पददेवतानां वर्णभेदा एभ्यो ज्ञातव्याः | तन्त्रान्तरे ब्रह्मणो वर्णो न निरूपितः, स तु � सर्वमध्ये यजेत् सम्यग् ब्रह्माणं कमलोद्भवम् | हेमाभञ्च चतुर्वक्त्रं वेदाध्ययनशीलिनम् || १५ || इति तन्त्रराजत्रिंशपटलवचनादवगन्तव्यः | हयशीर्षपञ्चरात्रादौ बहिरारभ्य क्रमेण ब्रह्मान्तानां देवानां पूजनमभिहितम् | अत्र तु प्रथममेव मध्यचतुष्कस्थस्य ब्रह्मणस्ततः क्रमेण तत्तद्बहिर्देवानां पूजनमुपदिष्टमिति विशेषः | तन्त्रराजशारदातिलकादावप्येवमेव | (महीधरस्य) माषौदनं समांशञ्च गन्धादिक्षीरसंयुतम् | गृहाणेमं महीभृत् त्वं सर्वदोषं प्रणाशय (५) || ४० || (बाह्यदेवतानां बलिः) एवमन्तर्वलीन् दत्त्वाचान्येषामीशतो हरेत् | दक्षावर्तक्रमेणैव वलिः सामान्यभाषितः || ४१ || सर्वेषां खलु वास्तूनां विशेषः पदनिर्णयः || ४२ || (तत्रापस्य) क्षीरखण्डसमायुक्तं पुष्पादिभिः सुशोभितम् | गृहाणेमं बलिं हृद्यमाप शान्तिं प्रयच्छ मे (६) || ४३ || (आपवत्सस्य) दधीदं गुडसंमिश्रं गन्धादिस्रक्सुमण्डितम् | गृहाणेमं बलिं वत्स विघ्नमत्र प्रणाशय (७) || ४४ || --------------------------------------------------------------------- ४२ | एवमन्तर्देवतापञ्चकानां पूजनक्रमेणैव वलिर्विधेयः | आपादीनां बहिर्देवानां प्रागुक्तरीत्या केषाञ्चिदग्न्यादिक्रमेण, केषाञ्चन वा ईशादीनाम ईशानादिक्रमेणैव पूजनं विहितम् | वलिस्तु सर्वेषामेव ईशानादिक्रमेण प्रादक्षिण्येन कर्तव्य इत्येवाह अन्येषामीशतो हरेदित्यादिना | राघवभट्टेनापि महीधरान्तानाम् ईशानादिक्रमेण पूजनं बलिञ्चाभिधाय, एवमन्तर्वलिं दत्त्वा अन्येषां सर्वेषां यद्यप्यर्चा आग्नेयादिक्रमेण तथापीशानादिक्रमेण वलिं दद्याद् वचनानुरोधात् | वचनं यथा � ईशादिदक्षिणावर्तो वलिः सामान्यभाषितः | सर्वेषां खलु वास्तूनां विशेषः पदनिर्णयः || इति | अनेन बाह्यदेवतानामीशानादिक्रमेणैव वलिरभिहितः | (सावित्रस्य)
90 SK पुष्पादिकुशपानीयं कर्पूरागुरुवासितम् | सावित्र वै गृहाणेमं शान्तिमत्र प्रयच्छ मे (८) || ४५ || (सवितुः) पिष्टकं सगुडं नाथ रक्तगन्धादिशोभितम् | गृहाणेमं बलिं सूर्य विघ्नमत्र प्रणाशय (९) || ४६ || (इन्द्रस्य) सितमन्नं तथा पुष्पं कुङ्कुमादिसमन्वितम् | गृहाणेमं वलिं हृद्यं शक्रदेव नमोऽस्तु ते (१०) || ४७ || (इन्द्रजयस्य) ओदनं घृतसंयुक्तं वस्त्रगन्धादिमण्डितम् | गृहाणेमं वलिं हृद्यमिन्द्रजय नमोऽस्तु ते (११) || ४८ || (रुद्रस्य) पक्वापक्वमिदं मांसं वस्त्रपुष्पादिसंयुतम् | गृहाणेमं बलिं हृद्यं रुद्रदेव नमोऽस्तु ते (१२) || ४९ || (रुद्रजयस्य) हृन्मांसं सघृतं पक्वं गन्धपुष्पादिवासितम् | गृहाणेमं वलिं रुद्रजय स्वस्ति नमोऽस्तु ते (१३) || ५० || (विदार्याः) रक्तपुष्पं समांसं वै रक्तवस्त्रादिसंयुतम् | विदारि वै गृहाणेमं रक्षोविघ्नं विनाशय (१४) || ५१ || (पूतनायाः) पित्तरक्तास्थिसंयुक्तं रक्तगन्धादिमण्डितम् | गृहाणेमं पूतने त्वं रक्षोविघ्नं विनाशय (१५) || ५२ || (शर्वस्य) सघृतं माषभक्तञ्च गन्धवस्त्राद्यलङ्कृतम् | वलिं गृहाण सर्वेमं रक्षोविघ्नं विनाशय (१६) || ५३ || (स्कन्दस्य) मांसपुष्पादिसंयुक्तं माषभक्तोपरि स्थितम् | गृहाणेमं वलिं स्कन्द रक्षोविघ्नं विनाशय (१७) || ५४ || (अर्यम्णः) समांसं पिष्टकैर्युक्तं पक्वमांसोदकान्वितम् | अर्यमन् वै गृहाणेमं रक्षोविघ्नं विनाशय (१८) || ५५ || (जम्भकस्य) रक्तमांसौदनं मत्स्य-गन्धधूपसमन्वितम् | जम्भक त्वं गृहाणेमं रक्षोविघ्नं विनाशय (१९) || ५९ || (पिलिपिञ्जस्य) छागकर्णान्वितं मांसं वस्तगन्धादिसंयुतम् | पिलिपिञ्ज गृहाणेमं रक्षोविघ्नं प्रणाशय (२०) || ५७ || (चरक्याः) घृतेन साधितं मांसं वस्त्रगन्धादिसंयुतम् | चरकि वै गृहाणेमं रक्षोविघ्नं प्रणाशय (२१) || ५८ || (ईशानस्य) सघृतञ्चाक्षतान्नञ्च रक्तवस्त्राद्यलङ्कृतम् | गृहाणेमं वलिं त्वीश वास्तुदोषापहारकम् (२२) || ५९ || (पर्जन्यस्य)
91 SK उत्पलं पायसैर्युक्तं रक्तवस्त्रादिसंयुतम् | गृहाणेमं वलिं हृद्यं देवराज नमोऽस्तु ते (२३) || ६० || (जयन्तस्य) पञ्चहस्तं सुपीतञ्च ध्वजं भक्तादिमण्डितम् | गृहाणेमं वलिं हृद्यं विष्णुसुत नमोऽस्तु ते (२४) || ६१ || (इन्द्रस्य) ओदनं घृतसंयुक्तं पञ्चरत्नादिमण्डितम् | गृहाणेमं वलिं हृद्यं देवराज नमोऽस्तु ते (२५) || ६२ || (सूर्यस्य) रक्तपुष्पयुतं भक्तं रक्तगन्धादिभिर्युतम् | गृहाणेमं वलिं हृद्यं भास्कर त्वं नमोऽस्तु ते (२६) || ६३ || (सत्यस्य) वितानं धूम्रवर्णाभं गन्धादिकसुशोभितम् | रक्तयुक्तं गृहाणेमं वलिं सत्य नमोऽस्तु ते (२७) || ६४ || (वृषस्य) इदन्तु मांसभक्तं वै गन्धपुष्पादिपूजितम् | गृहाणेमं वृष वलिं वास्तुदोषं प्रणाशय (२८) || ६५ || (अन्तरीक्षस्य) इदन्तु शाकुलं मांसं नैवेद्यादिसुसंयुतम् | गृहाणेमं वलिं हृद्यं व्योम शान्तिं प्रयच्छ मे (२९) || ६६ || (हुताशनस्य) सुवर्णं पिष्टकञ्चाथ वस्त्रगन्धादिभिर्युतम् | घृतान्वितं गृहाणेमं सप्तजिह्व नमोऽस्तु ते (३०) || ६७ || (पूष्णः) क्षीरं लाजादिसंयुक्तं रक्तपुष्पादिमण्डितम् | गृहाणेमं वलिं हृद्यं पूषदेव नमोऽस्तु ते (३१) || ६८ || (वितथस्य) दधिगन्धादिभिर्युक्तं पीतपुष्पैः समन्वितम् | वलिं वितथ गृह्णेमं विघ्नमत्र प्रणाशय (३२) || ६९ || (यमराजस्य) आरक्तं मधुसंप्लुतं वस्त्रादिपरिमण्डितम् | गृहाणेमं वलिं हृद्यं यमराज नमोऽस्तु ते (३३) || ७० || (गृहरक्षस्य) पक्वमांसौदनं चर्व्यं पीतवस्तादिमण्डितम् | प्रीतिकरं गृहाणेमं गृहरक्ष नमोऽस्तु ते (३४) || ७१ || (गन्धर्वस्य) नानागन्धसमायुक्तं रक्तधूपादिभिर्युतम् | बलिं गृहाण गन्धर्व सर्वदोषं प्रणाशय (३५) || ७२ || (भृङ्गराजस्य) इमान्तु शाकुनीं जिह्वां माषभक्तोपरि स्थिताम् | गृहाणेमं वलिं भृङ्गराज शान्तिं प्रयच्छ मे (३६) || ७३ || (मृगस्य) यवं घृततिलोपेतं गन्धपुष्पादिभिर्युतम् | गृहाणेमं वलिं हृद्यं मृगदेव नमोऽस्तु ते (३७) || ७४ || (निर्-ऋतेः)
92 SK शर्करासंयुतं खण्डं रक्तगन्धादिमण्डितम् | प्रीतो वलिं गृहाणेमं सर्वदोषं प्रणाशय (३८) || ७५ || (दौवारिकस्य) चन्दनागुरुकाष्ठञ्च गन्धपुष्पादिभिर्युतम् | गृहाणेमं वलिं हृद्यं दौवारिक नमोऽस्तु ते (३९) || ७६ || (सुग्रीवस्य) इदन्तु पायसं नाथ गन्धपुष्पादिमण्डितम् | सुग्रीव वै गृहाणेमं वलिं शान्तिं प्रयच्छ मे (४०) || ७७ || (वरुणस्य) यवाग्राणि च गोदुग्धं भक्तोपरि सुशोभितम् | गृहाणेमं वलिं हृद्यं जलराज नमोऽस्तु ते (४१) || ७८ || (पुष्पदन्तस्य) कुशान्तःस्थं माषभक्तं घृतगन्धादिसंयुतम् | पुष्पदन्त गृहाणेमं सर्वदोषं प्रणाशय (४२) || ७९ || (असुरस्य) मधुना सहितं पिष्टं गन्धाद्यैरुपशोभितम् | वलिं गृहाणासुरेन्द्र सर्वदोषं प्रणाशय (४३) || ८० || (शेषस्य) घृतमन्नसमायुक्तं कर्परादिसमन्वितम् | गृहाणेमं वलिं शेष सर्वशान्तिं प्रयच्छ मे (४४) || ८१ || (रोगस्य) यवजं तण्डुलं नाथ गन्धपुष्पादिशोभितम् | गृहाणेमं वलिं रोग सर्वदोषं प्रणाशय (४५) || ८२ || (वायोः) सघृतं मण्डकञ्चेदमन्नाद्यैरुपशोभितम् | गृहाणेमं वलिं हृद्यं मृगवाह नमोऽस्तु ते (४६) || ८३ || (नागराजस्य) इदन्तु कृशरञ्चान्नं गन्धपुष्पादिमण्डिताम् | नागराज गृहाणेमं विघ्नमत्र प्रणाशय (४७) || ८४ || (मुख्यस्य) नारिकेलोदकं भक्तं पीतवस्त्रादिसंयुतम् | गृहाणेमं वलिं मुख्य वास्तुदोषं प्रणाशय (४८) || ८५ || (सोमस्य) ओदनं मधुना मिश्रं नानापूजोपशोभितम् | गृहाणेमं वलिं सोम सर्वदोषं प्रणाशय (४९) || ८६ || (भल्लाटस्य) ओदनं घृतसंमिश्रं गन्धपुष्पसमन्वितम् | गृहाणेमं वलिं हृद्यं भल्लाट त्वं नमोऽस्तु ते (५०) || ८७ || ---------------------------------------------- ८३ | मृगवाहो वायुस्तस्य सम्बुद्धिः | (अर्गलस्य) माषान्नन्तु घृताभ्यक्तं गन्धपुष्पादिमण्डितम् | गृहाणेमं वलिं हृद्यमर्गलाख्य नमोऽस्तु ते (५१) || ८८ || (अदितेः)
93 SK पूलिकां मधुसंमिश्रां वस्त्रगन्धादिसंयुताम् | गृहाणेमं वलिं हृद्यं देवमातर्नमोऽस्तु ते (५२) || ८९ || (दितेः) क्षीरखण्डसमायुक्तं नानापूजोपशोभितम् | दैत्यमातर्गृहाणेमं सर्वदोषं प्रणाशय (५३) || ९० || (वलिदाने साधारणं क्र्मान्तरम्) अथवा पायसान्नैस्तु सर्वेषां वलिमाहरेत् | नामादौ प्रणवं दत्त्वा नमोऽन्तेन च मन्त्रवित् || ९१ || (उपसंहारः) अयं वास्तुवलिः प्रोक्तः सर्वविघ्नविनाशकः || ९२ || ---------------------------------------------- ८९ | पूलिका पिष्टकविशेषः, पूली इति वङ्गेषु यस्याः प्रसिद्धिः | ९१ | अथवेति | एतत्तु कल्पान्तरम् | पूर्वं दद्यादेभिर्वलीनथेत्यनेन प्रागुक्तवलिमन्त्रैर्वलिमन्त्रोक्तैरुपचारैश्च वलिरुपदिष्टः | तदलाभे तु पायसान्नैर्वलिः कर्तव्य इति | तदुक्तं गौतमीयतन्त्रे प�न्चमपटले � पायसैर्मधुरैः सर्वान् संयजेन्मधुरान्वितान् | तत्तद्द्रव्यैर्वा मतिमान् पूजयेद्दोषशान्तये || इति | अत्र कल्पे वलिमन्त्रं निरूपयति � नामादाविति | नाम्न आदौ प्रणवः अन्ते च नम इति | एवञ्च नमःशब्दयोगान्नाम्नश्चतुर्थ्यन्ततापि लभ्यते, तेन-एषः पायसवलिः ॐ ब्रह्मणे नमः इति वलिक्रमः | (तत्र तत्र वलेरननुष्ठाने दोषश्रवणात्तस्य कर्तव्यता) गृहादिकरणे यैस्तु नार्चितं वास्तुदैवतम् | तत्र शून्यं भवेत् सर्वं रक्षोविघ्नादिभिर्युतम् | तस्माद् वास्त्वर्चनं कार्यं सर्वसम्पदभीप्सुभिः || ९३ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ तृतीयः प्रकाशः || ३ || ---------------------------------------------- ९३ | अत्रादिपदेन मण्डपादीनां परिग्रहः | चतुर्थः प्रकाशः (मण्डपनिर्माणम्, तोरणध्वजपताकादिनिरूपणम्, अङ्कुरार्पणमङ्कुरपरीक्षा च) (मण्डपयोग्यदिनस्थानादिनिरूपणम्) अथ लग्ने शुभे स्थाने तुषाङ्गारविवजिते | निःशर्करे शल्यहीने तृणादिरहिते समे || १ || ----------------------------------------------
94 SK १ | पूर्वप्रकाशे वास्तुवलिप्रक्रियान्तमभिधाय प्रकाशेऽस्मिन् मण्डपनिर्माणक्रमे वाच्ये तदनुगुणं लग्नादिकं स्थानादिकञ्च निरूपयति � अथेति | अथ वास्तुदेवतावलिसमापनानन्तरम् | शुभे लग्न इति | अत्र लग्न इति वारादीनामुपलक्षणम् | तदुक्तं शारदायां तृतीयपटले � नक्षत्रराशिवाराणामनुकूले शुभेऽहनि | ततो भूमितले शुद्धे तुषाङ्गारविवजिते | पुण्याहं वाचयित्वा तु म्ण्डपं रचयेच्छुभम् || इति | राघवभट्टेनापि तद्व्याख्यानवसरे ज्योतिःशास्त्रसमुक्तप्रकारेण नक्षत्रवारराशीनां मध्ये साध्यानुकूले नक्षत्रे साध्यानुकूलराशौ अनुकूलवारे शुभेऽहनि ज्योतिःशास्त्रसमुक्तशुभतिथौ ततो मण्डपं रचयेत् इत्यभिहितम् | तदुक्तं राजमार्तण्डे � आदित्यद्वयरोहिणीमृगशिरो हस्तो धनिष्ठोत्तरा पूषा विष्णुमघानुराधपवनैः शुद्धैः सुतारान्वितैः | सौम्यानां दिवसेषु पापरहिते योगे विरिक्ते तिथौ विष्टित्यक्तदिने वदन्ति मुनयो वेश्मादिकार्यं शुभम् || इति | सर्वमन्य्ज्ज्योतिःशास्त्रादवगन्तव्यम् | शुभे स्थान इति | अनेन दीक्षाङ्गमण्डपयोग्यभूमिपरीक्षायाः कर्तव्यतोपदिश्यते, परीक्षामन्तरेण भूमेः शुभत्वाशुभत्वनिर्णयासम्भवात् | तन्मण्डपनिर्माणोपयोगिस्थाननिरूपणाय किञ्चिदुच्यते हयशीर्षपञ्चरात्रे आदिकाण्डे पञ्चमपटले � एवं ज्ञात्वा विशेषेण ततो भूमिं परीक्षयेत् | लक्षणैर्देशिकश्रेष्ठो यथा तदधुनोच्यते || सुरभीणां रतिर्यत्र पुरुषैः सह सत्तम | राज्ञां पूर्वं गृहं यस्यामग्नीनां यज्वनां तथा || काश्मीरचन्दनामोदा कर्पूरागुरुगन्धिनी | कमलोत्पलगन्धा च जातीचम्पकगन्धिनी || पाटलामल्लिकागन्धा नागकेशरगन्धिनी | दधिक्षीराज्यगन्धा च मदिरासवगन्धिनी || सुगन्धिर्व्रीहिगन्धा च शुभद्रव्यस्वना च या | सर्वेषां वर्णिनां भूमिः सर्वसाधारणा मता || (१९-२४) इति | एवं वर्णनिर्विशेषेण प्रशस्तां भूमिं निरूप्य वर्जनीयभूमिरपि तत्रैव निरूपिता | यथा �
95 SK दुर्गन्धा दुःस्वना या च नानावर्णा च दुःपुरा | वृत्तार्द्धचन्द्रसदृशा विस्ताराद् द्विगुणायता || विकर्णा कर्णहीना च वक्रा सूचीमुखी तथा | द्विकर्णा सूप्रसदृशी गोमुखी च त्रिकोणिका | षडस्रा शूलसदृशी दन्तिपृष्ठोपमा च या | सरीसृपसमा या च दिङ्मूढा शकटाकृतिः | एवं प्रकारा या भूमिर्वर्या यत्नेन देशिकैः || (२५-२८) इति | पूर्वं सुरमीणां रतिर्त्रेत्यादिवचनैर्या प्रशस्ता भूमिरभिहिता, तस्या एव सुपद्मा भद्रिका पूर्णा धूम्राऽवेगिन्यथापरा | इत्यनेन सुपद्मा, भद्रा, पूर्णा, धूम्रा चेति चातुर्विध्यमुद्दिश्य तासां लक्षणानि निरूपितानि तत्रैव षष्ठपटले � तत्र सुपद्मामाह- चन्दनागुरुकर्पूरगन्धा शुभस्वनाज्जुनैः | तिलकैर्नारिकेलैश्च बर्हिःकाशैश्च शोभिता | पद्मेन्दीवरसंयुक्ता सा सुपद्मेति विश्रुता || नदीसमुद्रायतनतीर्थपर्यन्तशोभिता | पुष्पवृक्षसमाकीर्णा क्षीरिवृक्षोपशोभिता || वनोद्यानलतागुल्मफुल्लस्तम्बसमावृता | यज्ञीयवृक्षसुक्षेत्रयुक्ता भद्रेति कीर्तिता || पूर्णामाह् � वकुलशोकबहुला तथा प्लाक्षाम्रलोहितैः | माधवीवेष्टिता या च मुद्गनिष्पावकोद्रवैः || शूकधान्यैश्च पुन्नागैर्रिपार्श्वगता च या | तोयञ्च स्वल्पकं यस्यां पूर्णा सा परिकीर्तिता || धूम्रामाह � विल्वार्कस्नुहिपीलूनां वनैर्या परितो वृता | सशर्करा च कठिना युक्ता कण्टकिभिर्द्रुमैः || गृध्रगोमायुकाकानां श्येनानां याऽकुला कुलैः | धूम्रेति कीर्तिता सा तु तां यत्नात् परिवर्जयेत् (१-९) || इति | एवञ्च प्रागुक्तासु चतसृषु भूमिषु सुपद्मा-भद्रा-पूर्णाख्यानां तिसृणामुपादेयत्वम्, अन्त्यायास्तु धूम्राया वर्जनीयत्वमित्युक्तं भवति | एतदर्थमेव धूम्राया आवेगिनीति विशेषणम् | आवेगिनी शर्करा-कण्टक-गृध्रादिकृतसम्भ्रमेत्यर्थः | एवं भूमिं निरूप्य तस्याः परीक्षणमाह तत्रैव षष्ठपटले � ततो भूमिं परीक्षेत पूर्वोदक्प्लवनां शुभाम् | असङ्कटां तथाच्छन्दामल्पतोयां परिप्लुताम् ||
96 SK संपूर्यमाणे खाते तु त्थाधिकमृदं शुभाम् || कुसुम्भसदृशं वर्णं यस्यां न ग्लानिमृच्छति | न निर्वाति तथा दीपं तोयं शीघ्रं न जीर्यति || अत्र संपूर्यमाण इत्यादिना प्रतिपादितः क्रमो विशदीकृतो विश्वकर्मप्रकाशे प्रथमाध्याये � निखनेद्धस्तमात्रन्तु पुनस्तेनैव पूरयेत् | पांशुनाधिकमध्योना श्रेष्ठा मध्याधमा स्मृता || इति | मयमते चतुर्थाध्यायेऽपि � पूरिते तन्मृदा खाते समता मध्यमा मता | उत्तमा भूर्मृदाधिक्या हीना हीनमृदा मही || इति | कुसुम्भसदृशमित्यादिपरीक्षायाः क्रमस्तु विशदीकृतो हयशीर्षे सौरकाण्डे � श्वभ्रे वा वर्णसदृशान्, कुसुमान् सन्निवेशयेत् | प्रदोषे पूर्ववत् सूर उद्यमे तान् निरीक्षयेत् | अम्लानं यस्य वर्णस्य तस्यासौ शुभदा भवेत् || इति | तदिदमत्रावधेयम् = श्वेतारुणा पीतकृष्णा विप्रादीनां प्रशस्यते | इति हयशीर्षपञ्चरात्रीयषष्ठपटलद्वादशश्लोकेन श्वेता ब्राह्मणानाम्, रक्ता क्षत्रियाणाम्, पीता वैश्यानाम्, कृष्णा शूद्राणां प्रशस्ताभूमिरिति निरूपितम्, एवञ्च श्वेतरक्तपीतकृष्णकुसुमानि प्रदोषकाले श्वभ्रे सन्निवेश्य प्रातर्यद्वर्णकुसुमस्य म्लानिर्न दृश्यते, तद्वर्णस्य सा भूमिः प्रशस्तेति | न निर्वाति तथा दीपमिति सामान्यतो यः परीक्षाक्रम उक्तस्तत्र विशेषमाह हयशीर्षे सौरकाण्डे � श्वभ्रान्तःकुम्भवक्त्रेषु आमपात्रं निवेशयेत् | गव्येन हविषाऽपूर्य पूर्ववद् वत्तिकल्पना || पूर्वादिक्रमयोगेण ज्वलनं वीक्षयेत्ततः | यद्देशे भिद्यते पात्रं या च वर्तिर्विनश्यति || तस्य सा शस्यते नैव शस्यते यस्य दीप्यते | सर्व ज्वलति वै यत्र सर्वकामप्रदा तु सा || इति |
97 SK तथाच श्वभ्रमेकं विधाय तत्र चतुर्दिक्षु चतुरः कुम्भान् संस्थाप्य तन्मुखेष्वेकैकमामपात्रं निधाय तत् पात्रं घृतेनापूर्य तत्र प्रत्येकं वर्तिं प्रज्वाल्य ज्वलनं वीक्षेत | प्राच्यां दीपशिखाया उज्ज्वलत्वे तत्र मण्डपादिनिर्माणं ब्राह्मणस्य प्रशस्तम्, दक्षिणादिषु दिक्षु तथात्वे यथाक्रमं क्ष्त्रियादेः, सर्वासां शिखानां समत्वे सर्वेषाम् | अत्र सर्वकामप्रदेति सर्वेषां कामप्रदेत्यर्थः | यत्र तु पात्रभेदो दीपशिखाविनाशा वा जायते सा भूमिस्तद्वर्णस्य न प्रशस्तेति फलितम् | तोयं शीघ्रं न जीर्यतीत्यस्य परीक्षाक्रमं स्फुटमाह तत्रैव � प्रदोषे वारिणा गर्तं पूर्य सूर्योदये गुरुः | वीक्षेद् यत्नेन मतिमानुत्तमाधममध्यमाम् || तोये तिष्ठति श्रेष्ठा स्यात् सषङ्का मध्यमा भवेत् | शुष्का विस्फुटिता हीना वर्ज्या यत्नेन वै मही || इति पुण्याहं वाचयित्वा तु मण्डपं रचयेत् सुधीः | (मण्डपरिमाणनिरूपणार्थं हस्तस्वरूपम्) पद्महस्तेन विधिवत् पूर्वोक्तेन करेण वा || २ || (तत्र पद्महस्तस्वरूपम्) मानहस्तो यदि भवेद् वेदाङ्गुलसमन्वितः | स एव पद्महस्तः स्यादिति तन्त्रविदो विदुः || ३ || (मण्डपस्य परिमाणभेदाः) हस्तषोडशको वाऽपि मण्डपोऽर्ककरोऽपि वा | (मण्डपस्वरूपम्, स्थम्भानां संख्यापरिमाणस्थानानि च) चतुरस्र-चतुर्द्वार-वेदिकादिसमन्वितः || ४ || ---------------------------------------------- २ | हस्तषोडशको वा.पीत्यादि-वक्ष्यमाणमण्डपपरिमाणनिरूपणाय हस्तपरिमाणमाह-पद्मेति | पद्महस्तेन पूर्वोक्तेन चतुर्विंशत्यङ्गुलाढ्यमित्यादिना तृतीयप्रकाशेऽभिहितेन वा करेण मण्डपं रचयेदिति सम्बन्धः | ३ | तत्र किं पद्महस्तस्वरूपमित्याह-मानेति | कर्तुर्दक्षिणहस्तस्येत्यादिमानाङ्गुलपरिमाण-परिमितचतुर्विंशत्यङ्गुलात्मको मानहस्तः, स यदि चतुरङ्गुलसमन्वितो भवेत् तदा स पद्महस्त इति तन्त्रविदो विदुः | एतेन तान्त्रिकोपासनाङ्गमण्डपादिनिर्माणमुक्तलक्षणहस्त-परिमाणानुसारेणैव कर्तव्यमिति सूच्यते |
98 SK ४ | मण्डपस्वरूपमाह � हस्तेति | मण्डपः षोडशहस्तो द्वादशहस्तो वा | एतेन मण्डपस्योत्तममधमञ्च परिमाणं प्रदर्शितम् | तत्र षोडशहस्तो मण्डप उत्तमपरिमाणः, द्वादशहस्तोऽधमपरिमाण इति | अत्रापिशब्देन चतुर्दशहस्तात्मको मध्यमपरिमाणोऽपि मण्डपः समुच्चीयते | अत एव राघवभट्टेन � स्वल्पो द्वादशहस्तोऽयं द्विद्विवृद्ध्या ततः क्रमात् | इति प्रतिष्ठासारसंग्रहवचनमभिधाय, एतेन चतुर्दशहस्तस्य मध्यमतोक्ता षोडशहस्तस्योत्तमता च | इत्यनेन द्वादशचतुर्दशषोडशहस्तानां मण्डपानां प्रथमपरिमाणतो द्विद्विवृद्द्या क्रमेणाधममध्यमोत्तमपरिमाणत्वमुपपादितम् | तथा तेनैवान्यत्रापीत्यभिधाय � षोडशस्तम्भसंयुक्तश्चत्वारस्तेषु मध्यगाः | अष्टहस्तसमुच्छ्राया वेदिकापरितः स्थिताः || ५ || पञ्चहस्तप्रमाणास्त ऋजवो द्वादशाभितः | (स्तम्भनिखननक्रमः) तत्पञ्चमांशं निखनेन्मेदिन्यां देशिकोत्तमः || ६ || ---------------------------------------------- गृहस्येशानकोणे तु मण्डपं कारयेद् बुधः | द्वादशैरष्टषढस्तैः षोडशैर्वा समन्ततः || इत्युक्तम् | अत्राष्टषढस्तैश्चतुर्दशहस्तैरित्यर्थः | एवञ्च प्रकृतेऽपि षोडशहस्त उत्तमपरिमाणः द्वादशहस्तोऽधमपरिमाणः | अपिशब्देन समुच्चीयमानश्चतुर्दशहस्तो मध्यमपरिमाण इति त्रिविधो मण्डपः श्रीमत्पूर्णानन्दपरमहंसानामप्यभिमत इत्यवधेयम् | यत्तु शारदायां तृतीयपटले � पञ्चभिः सप्तभिर्हस्तैर्नवभिर्वा मितान्तरम् | षोडशस्तम्भसंयुक्तं चत्वारस्तेषु मध्यगाः ||
99 SK इत्यादिमण्डपलक्षणमुक्तं तेनपि प्रागुक्तपरिमाणत्रयमेव सूचितमाचार्यैः | तथाहि तत्र पञ्चभिः सप्तभिरिति समुच्चयेन द्वादशसंख्या लभ्यते एवं पञ्चभिर्नवभिरित्येतयोः समुच्चयेन चतुर्दशसंख्या लभ्यते | तथा सप्तभिर्नवभिरित्येतयोः समुच्चयेन षोडशसंख्यावगम्यते | ततश्च पञ्चभिः सप्तभिर्नवभिर्वा मितमन्त्ररं यस्येत्यर्थे श्रीमल्लक्ष्मणाचार्यमतेऽपि मण्डपानां प्रागुक्तरीत्याधममध्यमोत्तमपरिमाणत्वमुक्तं भवति | एतदभिप्रायेणैव राहवभट्टेन पञ्चभिः सप्तभिरिति समुच्चितम् तथा पञ्चभिर्नवभिरित्यन्वेति तथा सप्तभिर्नवभिरित्यन्वेतीति चोक्तम् | वेदिकादीत्यादिपदेन ध्वजादीनां परिग्रहः | द्वारवेदिकादिलक्षणन्त्वग्रे वक्ष्यते | ५ | षोडशेति | स मण्डपः षोडशस्तम्भसंयुक्तो भवतीत्यर्थः | तेषां स्तम्भानां स्थानविभागमाह � चत्वर इत्यादिना | तेषु षोडशस्तम्भेषु मध्ये चत्वारो मध्यगाः मण्डपमध्यप्रदेशगा वेदिकायाश्चतुष्कोणेषु स्थितास्ते चाष्टहस्तसमुच्छ्राया भवन्ति | अष्टहस्तमौन्नत्यं चतुर्णां वेदिकाकोणस्थस्तम्भानामित्यर्थः | ६ | पञ्चेति | बहिर्द्वादशस्तम्भास्तु पञ्चहस्तप्रमाणा भवन्ति | ऋजव इति | ते षोडशस्तम्भा एव ऋजवः अवक्रा ग्राह्या इत्यर्थः | शारदायां तृतीयपटलेऽपि � (बहिर्द्वादशस्तम्भस्थानं द्वारपरिमाणँच) द्वारस्य पार्श्वयोर्द्वौ द्वौ कोणे चत्वार एव च | हस्तद्वयप्रमाणेन द्वारं कुर्याद् विचक्षणः || ७ || ---------------------------------------------- .....................................चत्वारस्तेषु मध्यगाः | अष्टहस्तसमुच्छ्रायाः संस्थाप्या द्वादशाभितः | पञ्चहस्तप्रमाणास्ते विच्छिद्रा ऋजवः शुभाः || इति | अत्र मूले स्तम्भनिर्माणे विहितो वृक्षादिर्नोपदिष्ट इत्यन्यतः प्रदर्श्यते | तथाच राघवभट्टधृतपञ्चरात्रे- सारदारुभवान् स्तम्भान् दृढान् कुर्यादृजून् समान् | इति | विशिष्याह राघवभट्टधृतक्रियासारे �
100 SK यज्ञीयवृक्षो वेणुर्वा क्रमुकः स्तम्भकर्मणि | अन्ये विशुद्धवृक्षा वा भवेयुर्नान्यभूरुहाः || इति | स्तम्भे निषिद्धोऽपि वृक्ष उपदिष्टस्तत्रैव यथा � गृहशल्यः स्वयं शुष्कः कुटिलश्च पुरातनः | असौम्यभूमिजनितः सन्त्याज्यः स्तम्भकर्मणि || इति | तत्र स्तम्भानां बाह्याभ्यन्तरभेदेन यदष्टहस्तपञ्चहस्तपरिमाणत्वमुक्तं तदुत्तमपरिमाणमण्डपविषयं मध्यमाधमयोस्तु तदनुसारेण परिमाणं निर्णेयम् | एतदभिप्रायेणैव राघवभट्टेनापि मध्यमाधमयोर्द्धादशस्तम्भप्रामाणं त्रैराशिकेनानेयम् इत्युक्तम् | अत्र बहिरन्तश्च स्तम्भन्यास आग्नेयादिक्रमेणैव कर्तव्यः | तथाच राघवभट्टधृतं वचनम् � वेदिकोणेषु विन्यस्येत् स्तम्भान् वेदस्वरूउपकान् | आग्नेयादिक्रमेणैव ...................................... इति || तेन वेदिबहिर्द्वादशसम्भस्थापनमपि आग्नेयादिक्रमेणैवेति बोध्यम् | तत्पञ्चमांशमिति | तत्पञ्चमांशं तेषां प्रागुक्ततत्तत्परिमाणपरिमितानां स्तम्भानां पञ्चमांशमित्यर्थः | तथाच स्तम्भोच्छ्रायं पञ्चधा विभज्य पञ्चमांशं मेदिन्यां निखनेदिति राघवभट्टः | ७ | द्वादशाभित इत्युक्तम्, तस्यैव क्रमं दर्शयति � द्वारस्येति | प्रतिदिशं द्वौ द्वाविति (स्थलान्मण्डपभूमेरुच्छ्रायः) स्थलादर्काङ्गुलोच्छ्रायं मण्डपस्थलमीरितम् | (मण्डपवेष्टनम्) नारिकेलदलैर्वंशैर्वेष्टयेद् द्वारपार्श्वतः || ८ || (द्वारनिर्णयः) समसूत्रं चतुर्द्वारं चतुस्तोरणभूषितम् | (दिग्भेदेन तोरणभेदाः) न्यग्रोधतोरणं पूर्वे याम्ये चौदुम्बरं मतम् || ९ || पश्चिमेऽश्वत्थसंभूतमुत्तरे प्लक्षतोरणम् | (प्रागुक्तन्यग्रोधादीनामभावे कर्तव्यम्) पूर्वे वा प्लक्षसंभूतं न्यग्रोधश्चोत्तरे तथा || १० || (तोरणस्तम्भानामुच्छ्रायपरिणाहौ) एतेषामेव वृक्षाणामभावे तु शमीद्रुमः | जम्बूखदिरसाराश्च शाला वा तोरणे स्मृताः || ११ || ----------------------------------------------
101 SK चतुर्दिक्षु अष्टौ स्तम्भा आग्नेयादिचतुष्कोणेषु चत्वार इति मिलित्वा द्वादश स्तम्भा भवन्तीत्यर्थः | हस्तद्वयेति | अत्र � कनीयसि स्याद् द्विकरं चतुरङ्गुलवृद्धितः | मध्यमोत्तमयोर्द्वारम् ................................. || इति राघवभट्टधृतपाञ्चरात्रप्रमाणानुसारेण द्वारस्य द्विहस्तत्वमधमपरिमाणमण्डपे, मध्यमोत्तमयोस्तु चतुश्चतुरङ्गुलवृद्ध्या परिमाणान्तरत्वमवगम्यते | तदत्र विशेषाभावेऽपि प्रागुक्तपाञ्चरात्रवचनैकवाक्यतया हस्तद्वयप्रमाणेनेत्यस्याधमपरिमाणमण्डपद्वार- परत्वं मध्यमोत्तमयोस्तु चतुश्चतुरङ्गुलवृद्ध्या द्वारपरिमाणनिर्णयः कर्तव्यः | इत्येव विचक्षणपदेन सूचितमिति प्रतिभाति | ८ | स्थलादिति | स्थलान्मण्डपस्थलस्यौन्नत्यं द्वादशाङ्गुलमित्यर्थः | ९-११ | समसूत्रमित्यादि मण्डपं कुर्यादिति सम्बन्धः | तत्र दिग्भेदेन तोरण- व्यवस्थामाह � न्यग्रोधेत्यादि | न्यग्रोधो वटवृक्षः | प्लक्षः पर्कटीवृक्षः | स्पष्टमन्यत् | कल्पान्तरमाह-पूर्वे वेति | कल्पद्वयमेवैतत् प्रदर्शितं वैदिकसर्वस्वधृतसोमशम्भुना � प्लक्षमौडुम्बराश्वत्थवटं वै तोरणं न्यसेत् | पूर्वादितो विधातव्यो यद्वाद्यन्तविपर्ययः || इति | अत्राद्यन्तविपर्यय इत्यनेन पूर्वे वटतोरणमुत्तरे प्लक्षतोरणमिति श्रीतत्त्वचिन्तामण्युक्तः प्रथमः कल्पो दर्शितः | अन्यच्च वैदिकसर्वस्वधृतं वचनम् � न्यसेन्न्यग्रोधमैन्द्र्यान्तु याम्यामौडुम्बरं तथा | वारुण्यां पिप्पलञ्चैव कौवेर्यां प्लक्षकं न्यसेत् || इति | शारदायां तृतीयपटले � द्वारे द्वारे तोरणाः स्युः क्रमात् क्षीरिमहीरुहाम् | इत्येक एव कल्पोऽभिहितः | तत्र क्षीरिमहीरुहामित्यस्य व्याख्याने राघवभट्टेन क्षीरिमहीरुहामिति वटोडुम्बराश्वत्थप्लक्षाणाम् न्यग्रोधोदुम्बराश्वत्थप्लक्षाः क्षीरिमहीरुहाः | इति परिभाषणादित्युक्तम् |
102 SK एतेषामिति | एतेषां प्रागुक्तन्यग्रोधादीनामभावे शमीद्रुम एव सर्वत्र तोरणे विनियोज्य इत्यर्थः | अत्र सर्वेषामिति बहुवचननिर्देशेन प्रागुक्तानां चतुर्णामेवालाभे शमीद्रुमविनियोगव्यवस्था सूचिता | एकस्यापि लाभे तेनैव सर्वे तोरणाः कर्तव्या इति बोध्यम् | अत एव राघवभट्टधृतसोमशम्भुना- अलाभादेकमेवेषां सर्वाशासु निवेशयेत् | इत्युक्तम् | अत्र सोमशम्भुवचने एकमेवेति सावधारणनिर्देशेन द्वयोस्त्रयाणां वा लाभेऽपि तेषां विनियोगमकृत्वा एकतमेनैव सर्वे तोरणा निष्पादनीया इति सूचितम् | राघवभट्टधृतसिद्धान्तशेखरे � एकमेषामलाभे स्यात्तदभावे शमीद्रुमः | जम्बूखदिरसाराश्च तालो वा तोरणे स्मृताः | इत्यनेन शमीद्रुमस्याप्यलाभे क्रमेण जम्बूखदिरादीनां तोरणे विनियोग उक्तः | तोरणलक्षणं विशिष्याह हयशीर्षपञ्चरात्रे आदिकाण्डे � अश्वत्थोडुम्बरश्चैव न्यग्रोधः प्लक्ष एव च | तोरणार्थे च कथिताः पूर्वादिषु यथाक्रमम् || एकहस्तं न्यसेद् भूमौ चतुर्हस्तं तथोच्छ्रयेत् | तिर्यक्फलकमानं स्यात् स्तम्भनामर्द्धमानतः | श्री-१६ (तोरणस्तम्भानामुच्छ्रायपरिणाहौ) स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैः पृथक् पृथक् | दशाङ्गुलप्रमाणेन तत्परिणाह ईरितः || १२ || ---------------------------------------------- द्विहस्तान्तरमन्योऽन्यं तोरणं संप्रकल्पयेत् | शुक्लवस्त्रयुगाच्छन्नान् दर्भपिञ्जलसंयुतान् || पुष्पमालापरिक्षिप्तांस्तोरणान् परिकल्पयेत् | वृत्तं वा चतुरस्रं वा द्विषट्काष्टाङ्गुलन्तु वा || षट्-चतुर्द्व्यङ्गुलं कार्यं तोरणं निर्व्रणं समम् | तोरणस्तम्भमूलेषु कलसान् मङ्गलाङ्कुरान् || प्रदद्यादुपरिष्टात्तु दद्याच्चक्रं सुदर्शनम् | कलसं वर्द्धमानं वा वसुभागेन कल्पयेत् || स्योना पृथीति मन्त्रेण स्थाप्याः पूज्याश्च तोरणाः || इति | अत्र हयशीर्षवचने दद्याच्चक्रं सुदर्शनमिति वैष्णवमण्डपपरम् | तत एषां तोरणानां नामान्यपि निर्दिष्टानि �
103 SK सुशोभनं भवेत् पूर्वे सुभद्रं दक्षिणे तथा | सुकर्मा पश्चिमे भागे सुहोत्रन्तु तथोत्तरे || इति | अत्र सुशोभन-सुभद्र-सुकर्म-सुहोत्राख्या देवताः पूर्वादितोरणचतुष्करूपेण यज्ञविघ्ननिवारणार्थमवस्थिता इति तत्तद्देवताधिष्ठितत्त्वात् तोरणानामपि तत्तन्नाम्ना व्यपदेशः | तदुक्तं राघवभट्टधृतमहाकपिलपञ्चरात्रे � देवास्तोरणरूपेण संस्थिता यज्ञमण्डपे | विघ्नविध्वंसनार्थाय रक्षार्थं त्वध्वरस्य च || इति | अत एव देवानाममीषां तोरणेषु पूजनमुपदिष्टं तत्रैव � सुशोभनं तं पूर्वस्यामृग्वेदादिसुमन्त्रितम् | ईषे त्वेति च मन्त्रेण सुभद्राख्यन्तु दक्षिणे || सुकर्माख्यन्तु वारुण्यां सामवेदादिकेन तु | शन्नो देवीति मन्त्रेण सुहोत्रं तूत्तरे न्यसेत् || इति | १२ | तोरणस्तम्भानामुच्छ्रायं निर्दिशति � स्तम्भेति | सप्तहस्तैरित्युत्तमपरिमाणमण्डपतोरणविषयम्, पृथक्पृथगित्यनेन मध्यमाधमपरिमाणमण्डपयोस्तोरणस्तम्भानां (तोरणस्तम्भशिरसि फलकन्यासस्तत्र शूलारोपणञ्च) तिर्यक्फलकमानं स्याद्दैर्घ्ये सार्द्धकरद्वयम् | शूलान्याकल्पयेन्मध्ये तोरणे हस्तमानतः || १३ || ---------------------------------------------- क्रमेण षट्-पञ्चहस्तरूपभिन्नपरिमाणता सूचिता | स्फुटमाह वास्तुशास्त्रे � पञ्चहस्तप्रमाणास्ते विस्तारेण द्विहस्तकाः | षड्ढस्ता मध्यमाः प्रोक्ताः सप्तहस्तास्तथोत्तमाः || इति | अत्र विस्तारेण द्विहस्तका इति तिर्यक्फलकमानमुक्तम् | एवञ्च षोडशहस्तात्मकोत्तमपरिमाणमण्डपे सप्तहस्तप्रमाणाः, चतुर्दशहस्तात्मकमध्यमपरिमाणमण्डपे षड्ढस्तप्रमाणाः, द्वादशहस्तात्मकाधमपरिमाणमण्डपे तु तोरणस्तम्भाः पञ्चहस्तप्रमाणा भवन्तीति बोध्यम् | स्तम्भानां व्यासमाह � दशेति | परीणाहो विस्तारः | वृत्तं वा चतुरस्रं वा द्विषट्काष्टा�न्गुलन्तु वा | इत्यादिप्रागुल्लिखितहयशीर्षवचनेन स्तम्भानां वृत्तत्वं चरतुस्रत्वं वेति कल्पद्वयं द्वादशाङ्गुलादिविस्तारपरिमाणभेदाश्च दृश्यन्ते |
104 SK १३ | तिर्यगिति | तोरणस्तम्भयोरुपरि देहलीरूपं यत् तिर्यक्फलकं तस्य परिमाणं दैर्घ्ये दीर्घतायां सार्द्धकरद्वयं स्यादित्यर्थः | एतच्च परिमाणं स्तम्भोच्छ्रायः स्मृतस्तेषां सप्तहस्तैरित्युक्तोत्तमपरिमाणतोरणफलकविषयम् | मध्यमाधमपरिमाणतोरणफलकपरिमाणन्तु क्रमेण षट्षडङ्गुलन्यूनतया कल्पनीयम् | एतदर्थप्रतिपादनायैव � तिर्यक्फलकमानं स्यात् स्तम्भानामर्द्धमानतः | इति शारदातिलकतृतीयपटलवचनव्याख्याने राघवभट्टेन इदं तिर्यक्फलकमानमुत्तमस्यैव | अन्ययोः षट्षडङ्गुलन्यूनता ज्ञेया | इत्युक्तम् | एवञ्च उत्तमपरिमाणतोरणे सार्द्धकरद्वयम्, मध्यमपरिमाणे ततः षड्ङ्गुलन्यूनम्, अधमपरिमाणेऽङ्गुले ततोऽपि चतुरङ्गुलन्यूनतया करद्वयमात्रं फलकं कल्पनीयमिति पर्यवस्यति | यत्तु हयशीर्षपञ्चरात्रे आदिकाण्डे चतुर्विंशपटले � पञ्चहस्तपरिमाणतोरणस्तम्भं प्रकृत्य � सरलं मध्यशृङ्गं स्यात् किञ्चिद्वक्रञ्च पक्षयोः | उभयं तत्समाख्यातं द्व्यङ्गुलं रोपयेत्तदा || १४ || ---------------------------------------------- एकहस्तं न्यसेद् भूमौ चतुर्हस्तं तथोच्छ्रयेत् | तिर्यक्फलकमानं स्यात् स्तम्भानामर्द्धमानतः | इति स्तम्भार्द्धपरिमाणत्वं फलकस्याभिहितं तन्निखननावशिष्टचतुर्हस्तार्द्धमानपरमित्यवधेयम् | ततश्च तत्रापि पञ्चहस्तस्तम्भकल्पे फलकस्य द्विहस्तत्वमेव पर्यवस्यतीति सर्वं निर्विवादम् | शूलानीति | मध्ये निरुक्तफलकमध्यप्रदेशे शूलानि आकल्पयेन्निवेशयेदित्यर्थः | अयं शूलरोपः प्रतितोरणमेकैकशः कर्तव्यः | तदुक्तं राघवभट्टेन शारदातिलकटीकायाम् � शूलानीति बहुवचनं चतुःसंख्यापरम्, तोरण इत्येकवचनं जातौ, तेन प्रतितोरणमेकमेकं शूलं कार्यम् इति | अत्र � तोरणं घटयित्वैव मूर्द्ध्नि शूलत्रयं न्यसेत् || अग्रयोर्मध्यभागे च पट्टिकायां त्रिशूलकान् ||
105 SK इति राघवभट्टधृत-क्रियासार-मन्त्रमुक्तावलीवचनैकदेशाभ्यां प्रतितोरणफलकं शूलत्रयनिवेशनमित्यपि कल्पान्तरमस्ति | अत्र परिणाहः षड्भागः एतच्च मण्डपत्रये समानमिति राघवभट्टाः | १४ | शूलस्वरूपमाह � सरलमिति | शूलास्त्रिशृङ्गा भवन्ति, तत्र मध्यशृङ्गं सरलमवक्रं पक्षयोः मध्यशृङ्गपार्वयोः उभयं तच्छृङ्गं किञ्चिद् वक्रं स्यात् | तेषाञ्च शूलानां द्व्यङ्गुलं रोपयेत् तोरणफलक इति शेषः | तदुक्तं राघवभट्टेन मध्यकीलस्तीक्ष्नाग्र ऋजुस्तमभितो द्वौ तीक्ष्नाग्रौ वक्रौ मध्यकीलदेशगतवक्रभागाविति | राघवभट्टधृतपिङ्गलामतेऽपि � शूलेन चिह्निताः कार्या द्वारदेशाः स्वमस्तके | ऋजु वै मध्यशृङ्गं स्यात् किञ्चिद्वक्रन्तु पक्षयोः | उभयं तत् समाख्यातं द्व्यङ्गुलं रोपयेत्तदा || इति | अत्र यस्यां दिशि यद् यत्तोरणकाष्ठं विहितं शूलान्यपि तत्र तत्र तेन तेनैव कर्तव्यानीत्यवधेयम्, एवमेव राघवभट्टाः | (अत्र वैष्णवानां विशेषः) वैष्णवेषु च तन्त्रेषु विशेषोऽत्र निगद्यते || १५ || मस्तके द्वादशांशेन शङ्ख-चक्र-गदाम्बुजम् | प्रागादिक्रमयोगेण न्यसेत्तेषां स्वदारुजम् || १६ || गन्धपुष्पाम्बरोपेतान् कुम्भांस्तेषु विनिक्षिपेत् | ध्रुवं धरां वाक्पतिञ्च विघ्नेशं तत्र पूजयेत् | मण्डपस्य च कोणस्थ-कलसेषु क्रमादमी || १७ || गलितोदकसंपूर्णा वाम्रपत्रोपशोभितौ | स्वर्णादिकलसौ द्वौ द्वौ द्वारे द्वारे निवेशयेत् || १८ || अमृतो दुर्जयश्चैव सिद्धार्थो मङ्गलस्तथा | गन्धपुष्पादिभिर्मन्त्रैः क्रमादेतान् प्रपूजयेत् || १९ || पूज्या द्वारस्थकुम्भेषु शक्राद्यास्तन्मनूतमैः | दिक्षु ध्वजान् निबध्नीयाल्लोकपालसमप्रभान् || २० || ----------------------------------------------
106 SK १५-१९ | एवं शूलन्यासे शैवागमप्रक्रियामभिधाय वैष्णवागमप्रक्रियामाह � वैष्णवेष्विति | अत्र प्रागुक्तशूलस्थाने पूर्वादिक्रमेण फलकानां मस्तके स्वदारुजं तोरणदारुमयं शङ्ख-चक्र-गदाम्बुजं न्यसेदित्यर्थः | तथाच पूर्वतोरणे शङ्खम्, दक्षिणतोरणे चक्रम्, पश्चिमतोरणे गदाम्, उत्तरतोरणे च पद्मं न्यसेदिति | द्वादशांशेनेति तोरणस्तम्भद्वादशांशेनेत्यर्थः | अत्र वैष्णवानामयं विशेषः शारदायां नोक्तः | राघवभट्टेन तु � वैष्णवे द्वादशांशेन शङ्खचक्रगदाम्बुजम् | प्रागादिक्रमयोगेण न्यसेत्तेषां स्वदारुजम् || इति वास्तुशास्त्रीयवचनमुल्लिख्य एषां स्वदारुजत्वोक्तेः शैवे एतत्स्थानीयानां शूलानां न्यासादेव स्वदारुजत्वं प्राप्तमित्यभिहितम् | तच्छैवे वैष्णवे च तोरणे दारुमयाण्येव शूलशङ्खादीनि कर्तव्यानीति निष्कर्षः | २०-२२ | ध्वजारोपणमाह � दिक्ष्वित्यादिना सुलक्षणानित्यन्तेन | पूर्वादिदिक्षु पञ्चहस्ता ध्वजाः कार्या व्यायामेन द्विहस्तकाः | सप्तहस्ता ध्वजा वा स्युर्विस्ताराद्द्वादशाङ्गुलाः || २१ || दण्डश्च वंशजस्तेषां दशहस्तप्रमाणतः | दिग्गजान् विलिखेन्मन्त्री ध्वजमध्ये सुलक्षणान् || २२ || ---------------------------------------------- मण्डपतोरणयोर्मध्यभागे क्रमेण लोकपालसमप्रभान् अष्टौ ध्वजान् निबध्नीयादित्यर्थः | तदुक्तं वैदिकसर्वस्वधृतहयशीर्षे � बाह्यदेशे तोरणस्य मण्डपाभ्यन्तरे तथा | अष्टौ ध्वजाः स्थापनीयाः पूर्वादिक्रमयोगतः || इति | लोकपालसमप्रभनिति लोकपालानां वर्णानाह शारदायां चतुर्थपटले � पीतो रक्तोऽसितो धूम्रः शुक्लो धूम्रः सितावुभौ | गौरोऽरुणः क्रमादेते वर्णतः परिकीर्तिताः || इति |
107 SK एते लोकपाला इत्यर्थः | अत्र वचने गौरोऽरुण इत्येताभ्यामनन्तस्य ब्रह्मणश्च वर्णो निरूपितः, सोऽत्राप्राकरणिकः | अत्र तु इन्द्रादीनामीशानान्तानां वर्णाः सितावुभावित्यन्तेन निरूपणीयाः | तथा च पूर्वस्यां ध्वजः पीतः, आग्नेय्यां रक्तः, याम्यां कृष्णः, नैर्-ऋत्यां धूम्रः, वारुण्यां शुक्लः, वायव्यां धूम्रः, कौवेर्यामैशान्याञ्च श्वेत इति फलितम् | हयशीर्षपञ्चरात्रे तु � अरुणोऽग्निनिभश्चैव कृष्णः शुक्लोऽथ पीतकः | रक्तवर्णस्तथा श्वेतः सर्ववर्णस्तथैव च || इति वचनेन दिक्पालेषु केषाञ्चित् पूर्वतोऽन्यादृशा वर्णा निरूपिताः | तदेवं स्थिते मतभेदे सत्सम्प्रदायानुसारेणैकतरः पक्ष आश्रयणीय इति हृदयम् | २१-२२ | ध्वजानां परिमाणमाह � पञ्चेति | व्यायामेन विस्तारेण | परिमाणान्तरमाह � सप्तेति | ध्वजदण्डपरिमाणमाह � दण्डश्चेति | दशहस्तपरिमितो वंशजो ध्वजदण्डः कर्तव्यः इत्यर्थः | राघवभट्टेनापि � द्विपञ्चहस्तैर्दण्डैस्ते वंशजैः संयुता मताः | इति वचनमेतदनुकूलमाहृतम् | तत्र द्विपञ्चहस्तैरिति दशहस्तैरित्यर्थः | पूजाहोमादिकं सर्वंयागाद्यं यत् कृतं बुधैः || २३ || रक्षणेन विना यद्वत् क्षेत्रं नश्यति क्षेत्रिणाम् | ध्वजं विना देवगृहं तथा नश्यति सर्वदा || २४ || ततः कार्याः पताका हि ध्वजेनैव समन्विताः | सप्तहस्ताः पताकाः स्युः सप्तमांशेन विस्तृताः || २५ || ---------------------------------------------- दिग्गजानिति | दिग्गजानाहामरसिंहः � ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः | पुष्पदन्तः सार्वभौमः सुप्रतीकाश्च दिग्गजाः || इति | तथाच पूर्वाद्यष्टध्वजेषु क्रमेणैरावतादीनष्टौ सुलक्षणान् दिग्गजान् लिखेदित्यर्थः | राघवभट्टेन तु � मातङ्गवस्तहरिणसिंहमत्स्यैनवाजिनः | वृषभञ्च यथान्यायं ध्वजमध्ये क्रमाल्लिखेत् | अथवा दिग्गजानष्टावैरावतपुरःसरान् || इति क्रियासारवचनेन मातङ्गादीन् दिग्गजान् वा ध्वजमध्ये लिखेदिति कल्पद्वयमुपदर्शितम् |
108 SK २३ | पूजेति | अत्र पूजाहोमादिकं यत् कृतं तत्रैव पूजादिस्थले दिक्षु ध्वजान् निबध्नीयादिति पूर्वेण सम्भन्धः | २४ | ध्वजारोपणस्याकरणे यो दोषस्तत्र दृष्टान्तमाह-रक्षणेति | २५ | पताकारोपणमाह � तत इति | ततो ध्वजारोपणानन्तरम् | ध्वजेनैव समन्विताः समनुगताः पताकाः कार्याः | एतेन ध्वजे यादृशो दण्डादीनां वर्णानाञ्च विधिः प्रदर्शितः पताकारोपणेऽपि स एव विधिरादरणीय इति सूचितम् | अत एव (मण्डपशोभासम्पादनक्रमः) चूतपल्लवमालाढ्यं वितानैरुपशोभितम् | विचित्रवस्त्रसंयुक्तं चित्रकुम्भसमन्वितम् || २६ || कलसैर्घटिकाभिश्च दर्पणैश्चामरैस्तथा | फलैर्नानाविधैर्भोज्यैरङ्कूरैर्धूपदीपकैः | भूषितं मण्डपं कुर्याद्रत्नपुष्पसमुज्ज्वलम् || २७ || ---------------------------------------------- सप्तहस्ताः पताकाः स्युरित्यादिना पताकावस्त्रपरिमाणमात्रमभिहितम् | अत्र परिमाणेऽपि विशेषमाह हयशीर्षे आदिकाण्डे � सप्तहस्तास्ततो दीर्घा विस्ताराद्द्वादशाङ्गुलाः | द्विपञ्चहस्तदण्डेषु पताकास्तु निवेशयेत् || इति | पताकानां वर्णभेदान् विशिष्याह वैदिकसर्वस्वधृतकापिले � अथातो लक्षणं वक्ष्ये पताकानां यथाविधि | पताकां पीतवर्णाभामैन्द्र्यां दिशि विनिक्षिपेत् || आग्न्येय्यां रक्तवर्णाभां कृष्णाभां याम्यगोचरे | नैर्-ऋत्यां नीलवर्णाभां वारुण्यां वै सितान्तथा || वायव्यां धूम्रवर्णाभां कौवेर्यां पीतवर्णिकाम् | पताकां सर्ववर्णाभामैशान्यां दिशि विनसेत् | आनन्त्यां श्वेतवर्णाभां ब्राह्म्यां रक्तञ्च विन्यसेत् || इति | अत्र कपिलवचने दशानामेव वर्णनिर्णयाद्दशलोकपालदेवताका दश पताकाः स्थापनीया इति स्फुटं प्रतीयते | वैदिकसर्वस्वधृतभविष्यपुराणे तु तोरणफलकचतुष्टये एकहस्तद्विहस्तान्यतरपरिमाणपताकाचतुष्टयस्थापनमप्याह | यथा � एकहस्तप्रमाणास्तास्तोरणार्था द्विहस्तिकाः | नानावर्णविचित्रास्ता न्यसेद् वै प्रतितोरणे || इति | अत्र तोरणपदेन तोरणैकदेशतिर्यक्काष्ठमुच्यत इति वैदिकसर्वस्वम् |
109 SK (वेदीलक्षणम्) तत्त्रिभागमिते क्षेते मध्यभागे तु वेदिकाम् | हस्तमात्रं तदुत्सेधं चतुरस्रं समं तथा || २८ || इष्टकाभिर्मृदा वापि वेदी दर्पणसन्निभा || २९ || ---------------------------------------------- २८ | राघवभट्टधृतक्रियासारे � वक्रपार्श्वक्लिन्नमध्या परुषा दृगशोभना | मानहीनाधिका या सा कर्तुः कर्मविनाशिनी | इत्यनेन वक्रपार्श्वत्वादिदोषदुष्टवेदिकाया अनिष्टफलकत्वश्रवणादिष्टफलसाधनानुकूलवेदिकानिर्माणमाह-तदिति | तस्य मण्डपस्य त्रिभागस्तृतीयो भागस्तन्मिते क्षेते मध्यभागे वेदिकां कुर्यादित्यर्थः | तृतीयो भागो दिक्संस्थोऽपि भवितुमर्हति तन्निरासायाह � मध्यभाग इति | एवञ्च मण्डपसूत्रं त्रिगुणीकृत्य पूर्वतः पश्चिमतो दक्षिणत उत्तरतश्चैकमेकमंशं परित्यज्य अवशिष्टे मध्यभागे वेदिका-निर्माणमनेनोपदिश्यते | तदुत्सेधं तस्या वेदिकाया उच्छ्रायं हस्तमात्रं चतुरस्रं चतुष्कोणं समञ्च कुर्यात्, न तु उत्सेधस्य तारतम्यं कर्तव्यमित्यर्थः | २९ | इष्टकाभिरिति प्रथमः कल्पस्तदभावे मृदा वा दर्पणसन्निभा दन्तुरत्वादिदोषहीना वेदी कर्तव्येत्यर्थः | तदुक्तं राघवभट्टधृतक्रियासारे � त्रिभागं मण्डपं कृत्वा मध्यभागस्तु वेदिका | हस्तमानं तदुत्सेधं चतुरस्रं समं यथा || पक्वाभिर्वाऽप्यपक्वाभिरिष्टकाभिर्दृढं यथा | कर्तव्या वेदिका श्रेष्ठा तदभावे मृदाऽपि वा | अवक्रपार्श्वा सुस्निग्धा दर्पणोदरसन्निभा || इति | तन्त्रराजे एकोनत्रिंशपटलेऽपि मण्डपलक्षणानन्तरं � ... ... ... तत्त्रैभागप्रमाणतः | विदध्यान्मध्यतो वेदीं करमात्रसमुन्नताम् | दर्पणादरसङ्काशमध्याम् ............................... | इति वेदिलक्षणमुक्तम् | (अङ्कुरार्पणम्) प्रतिष्ठायाञ्च दीक्षायां स्थापने चोत्सवे तथा | संप्रोक्षणे च शान्त्यर्थं विवाहे मौञ्जिबन्धने || ३० || नववेश्मप्रवेशे च तथाभिषेककर्मणि | सर्वलक्षणकार्येषु विदध्यादङ्कुरार्पणम् || ३१ || (अङ्कुरार्पणकालः)
110 SK प्रतिष्ठादिदिनात् पूर्वं नवमे सप्तमे दिने | पञ्चमे वा तृतीये वा सद्यो वा चाङ्कुरार्पणम् || ३२ || ---------------------------------------------- ३०-३१ | अथ कर्मणः शुभाशुभपरीक्षार्थमङ्कुरार्पणे वक्तव्ये प्रथमं तस्य विषयानाह-प्रतिष्ठायामित्यादिना | प्रतिष्ठायां तडागादीनाम्, स्थापने देवादीनाम्, उत्सवे दैवतयात्रोत्सवे, संप्रोक्षणे अभिषेकादौ, शान्त्यर्थं शान्तिकयागादिषु, मौञजवघने उपनयने, अभिषेकर्मणि राज्ञामभिषेके, सर्वलक्षणकार्येषु सर्वेषु शुभकर्मसु च अङ्कुरार्पणं विदध्याद् वक्ष्यमाणक्रमेणेति शेषः | शारदायां तृतीयपटलेऽपि � दीक्षायामभिषेकेषु नववेश्मप्रवेशने | उत्सवेषु च सम्पत्तौ विदध्यादङ्कुरार्पणम् || इति | ३२ | प्रतिष्ठादित्यादिपदेन प्रागुक्तानां दीक्षास्थापनोत्सवादीनां परिग्रहः | प्रकृते तु दीक्षाया एवाभिधास्यमानत्वात् निरुक्तदीक्षादिनतः पूर्वं नवमे सप्तमे पञ्चमे तृतीये वा दिवसे सद्यो वा अङ्कुरार्पणं कर्तव्यमित्यर्थः | एषु च कल्पपञ्चकेषु पूर्वपूर्वासम्भवे परः परः कल्पो ग्राह्यः | तत्र प्रथमकल्पे दीक्षादिनं दशमं यथा भवति तथाऽङ्कुरार्पणं कर्तव्यमित्येवाह � पूर्वमित्यनेन | शारदायां तृतीयपटलेऽपि - प्रागेव दीक्षादिवसात् सप्तभिर्विधिवद्दिनैः | इत्यत्र दीक्षादिवसात् प्रागित्यनेन दीक्षादिवसस्याष्टमत्वमभिहितम् | तद्व्याख्यानेऽपि राघवभट्टेन � एतेन दीक्षादिनमष्टमं यथा भवति तथा कर्तव्यमित्युक्तम् | ततश्च दीक्षादिनपूर्वदिनतो नवमे वा सप्तमे वेत्येवंक्रमेणाङ्कुरार्पणदिवसा निरूपणीयाः | इत्युक्तम् | (अङ्कुरार्पणे शालानिर्माणम्) मण्डपस्योत्तरे भागे शालां पूर्वापरायताम् | दशहस्तसुविस्तारां पञ्चहस्तसुविस्तृताम् | गूढां कुर्यात्ततस्तस्यां मण्डलं रचयेत् सुधीः || ३३ || (मण्डलनिर्माणक्रमः) पञ्चहस्तप्रमाणानि पञ्च सूत्राणि पातयेत् | पूर्वापरायतान्येषामन्तरं द्वादशाङ्गुलम् || ३४ || दक्षिणोत्तरसूत्राणि तद्वदेकादशाऽर्पयेत् | पदानि तत्र जायन्ते चत्वारिंशत् प्रमार्जयेत् || ३५ ||
111 SK ---------------------------------------------- ३३ | अङ्कुरार्पणकर्माङ्गभूतशालानिर्माणमाह-मण्डपस्येति | मण्डपस्य पूर्वममिहितस्य उत्तरे भागे पूर्वापरायतां दागहस्तसुविस्तारां दैर्घ्येण दशहस्ताम्, पञ्चहस्तसुविस्तृताम् आयामेन पञ्चहसपरिमिताम्, मूढां कटादिभिरावृतां वातप्रवेशायोग्यामित्यथः, शालां कुर्यात् | राघवभट्टेन शारदातिलकतृतीयपटलटीकायाम् � मण्डपस्योत्तरे भागे शालां पूर्वापरायताम् | गूढां कुर्यात्ततस्तस्यां मण्डपं रचयेत् सुधीः || इति वचनमुल्लिख्य तद्व्याख्यानावसरे � दीर्घचतुरस्ररूपां गूढां परितः कटादिपरिवृतां दक्षिणैकद्वारवतीं निवाताञ्च कुर्यादित्युक्तम् | तत्र मण्डलनिर्माणमाह � तत इति | ३४-३५ | अङ्कुरमण्डलनिर्माणपरिपाटीमाह � पञ्चहस्तेत्यादिना सम्प्रदायविधानत इत्यन्तेन | पूर्वापरायतानि पञ्चहस्तप्रमाणानि द्वादशाङ्गुलान्तरितानि पञ्च सूत्राणि पातयेत् | एवं पूर्वापरायतसूत्रपातनान्तरं दक्षिणोत्तरायतान्येकादश सूत्राणि पातयेत् | तद्वदिति द्वादशाङ्गुलान्तरितानीत्यर्थः | एवं द्वादशाङ्गुलान्तरितैकादशसूत्रपातेन पूर्वापरायताः पञ्च हस्ताः संगृहीताः स्युः | पदानीति | एवं पूर्वापरायतदक्षिणोत्तरायतसूत्रपातेन तत्र मण्डले चत्वारिंशत् पदानि भवन्ति | प्रमार्जयेदित्युत्तरत्राभिसम्भध्यते | एवञ्चायं क्रमः पर्यवस्यति � प्रागुक्तशालाइस्तारमध्यभागे पञ्चहस्तप्रमाणं पूर्वपश्चिमायतमेकं (?) सूत्रं दत्त्वा तद्दक्षिणोत्तरभागयोर्द्वादशाङ्गुलान्तरिते (तत्र पदविभागः) पङ्क्त्या वीथीश्चतस्रोन्तश्चतुष्कोभयपार्श्वयोः | वीथ्यौ द्वे च चतुःकोष्ठत्रयमेवावशिष्यते || ३६ || (रजसां न्यासः) पदानि रञ्जयेत् तानि श्वेतपीतारुणासितैः || ३७ || ईशानादिक्रमेणैव रजोभिः श्यामलेन च | वीथीरापूरयेन्मन्त्री सम्प्रदायविधानतः || ३८ || ---------------------------------------------- द्वे द्वे सूत्रे पातयेत् ततस्तत्सूत्रव्यतिभेदीनि दक्षिणोत्तरायतान्येकादश सूत्राणि पातयेदिति | राघवभट्टधृतप्रयोगसारे तु �
112 SK प्रसार्यास्फोटयेत् सूत्रं यथा याम्योत्तरायतम् | पञ्चहस्तप्रमाणेन द्वे द्वे पार्श्वे च पातयेत् || तद्वत् पूर्वोक्तमानेन द्वादशद्वादशाङ्गुले | प्राक् प्रयक् च समं पश्चात् सूत्राण्येकादश क्र्मात् | पातयेत्तासु रेखासु पूर्वसूत्रान्तरान्तरम् || इति | अत्र याम्योत्तरायताः पञ्च रेखाः पूर्वपश्चिमायताश्चैकादशेति मूलोक्तक्रमाद्रेखापाते विशेषो दृश्यते | तदेवमत्र रेखापाते विशेषदर्शनात् स्वस्वसम्प्रदायानुसारेणैकतरं मतमाश्रयणीयमिति सिद्धन्तः | अत एव सम्प्रदायविधानत इति वक्ष्यति | ३६ | तेषु पदेषु वीथ्यादिनिर्माणमाह � पङ्क्त्येति | पङ्क्त्या चतस्रो वीथीः प्रमार्जयेत् इति पूर्वेणान्वयः | अन्तरिति वक्ष्यमाणत्वादेता वहिर्वीथ्य इत्यवधेयम् | तथाच पूर्वे चतुःकोष्ठामेकां वीथीम्, दक्षिणेऽष्टकोष्ठामपराम्, पश्चिमे चतुःकोष्ठामन्याम्, उत्तरे चाष्टकोष्थामितरां कूर्वीतेत्युक्तं भवति | अथान्तर्वीथिद्वयमाह � अन्तरिति | अन्तश्चतुष्काणां चतुष्कत्रयस्येत्यर्थः, उभयपार्श्वयोर्द्वे वीथ्यौ द्विद्विकोष्ठरूपे मार्जयेदित्यर्थः | एवं क्र्ते फलितमाह � चतुःकोष्ठत्रयमेवावशिष्यत इति | ३७-३८ | अथान्तश्चतुष्कत्रयस्य रजसाऽपूरणमाह-पदानीति | ईशानादिक्रमेणैव तानि पदानि अन्तःप्रतिचतुष्कस्थचतुश्चतुःपदानि क्रमेण श्वेतपीतारुणासितै रजोभिः आपूरयेदित्यर्थः | एवञ्च प्रतिचतुष्कम् ईशानकोष्ठं श्वेतम्, आग्नेयं पीतम्, नैर्-ऋतं रक्तम्, वायव्यञ्च कृष्णम् इत्युक्तं भवति | शारदायां तृतीयपटले � पदानि रञ्जयेत्तानि श्वेतपीतारुणासितैः | रजोभिः श्यामलेनाथ वीथीरापूरयेत्ततः || इति वचनेन पदानां रजोभिः पूरणमात्रमभिहितम् न तु रजोन्यासस्य क्रमोऽभिहित इति | एतद्व्याख्याने राघवभट्टेन � पीतारक्तसितासितं प्रतिपदं वह्न्यादिशर्वान्तकम् | इति प्रपञ्चसारवचनैकदेशमुलिख्य वह्न्यादिक्रमेण पीतादिरजसां न्यासः प्रमाणीकृतः | एतन्मते आग्नेयपदं पीतम्, नै-ऋतपदं रक्तम्, वायव्यपदं श्वेतम्, ऐशानपदञ्च कृष्णमित्यवगम्यते |
113 SK न च, प्रसार्यास्फालयेत् सूत्रमित्यादिप्रागुक्तप्रयोगसारवचनप्राप्त- याभ्योत्तरायतपञ्चरेखापातकल्पे वह्न्यादिक्रमेण पीतादिवर्णानां न्यासः कल्प्यतां, श्रीतत्त्वचिन्तामणौ पूर्वापरायतपञ्चरेखापातकल्पे ईशानादिक्रमेण पीतादिरजसां न्यासस्य विशिष्याभिधानासत्रैव ईशानादिक्रमोऽस्त्विति वाच्यम्, पीतारक्तसितासितमित्यादिप्रागुक्तप्रपञ्चसारवचनैकदेशस्य याम्योदीच्यसमायतं प्रणिगदन्त्यन्येऽपि तन्मन्त्रिणः | इति परपादपर्यालोचनया रेखापतस्य द्विविधेऽपि कल्पे श्रीमदाचार्यपादैर्वह्न्यादिक्रमेणैव रजोन्यासभिधानात् | तस्मात् प्रागुक्तश्रीतत्त्वच्न्तामणि- प्रप�न्चसारवचनपर्यालोचनया सम्प्रदायानुसारेणीभयविधेऽपि मण्डले ईशानादिक्रमता वा वह्न्यादिक्रमतो वा पीतादिरजसां न्यासः कर्तव्य इत्युभयसम्प्रदायज्ञापनार्थमेव मूले सम्प्रदायविधानत इत्युक्तमिति सर्वमवदातम् | श्यामलेन चेति | श्यामलवर्णेन वीथीः बहिश्चतुर्दिक्संस्था अन्तश्च पूर्वापरसंस्था द्विद्विपदा अप्पुरयेदित्यर्थः | हयशीर्षपञ्चरात्रे तु- पञ्चहस्तप्रमाणानि दश सूत्राणि पातयेत् | नवधा भेदिते क्षेत्र एकाशीतिपदं भवेत् || वीथ्यौ मध्ये द्वे च षट्कं मार्जयेत् कोणपार्श्वयोः | शोभार्थं रचयेन्मध्ये पद्मं नवभिरेव च || (तत्राङ्करार्पणपात्राणि) पात्राणि त्रिविधान्याहुरङ्कुरार्पणकर्मणि | पालिकाः पञ्चमुख्यश्च शरावाश्च चतुःक्रमात् | प्रोक्ताः स्युः सर्वतन्त्रज्ञैर्हरिब्रह्मशिवात्मकाः || ३९ || (तत्र पालिका) पालिकावक्त्रविस्तारः षोडशाङ्गुल उच्यते | भवेत् कण्ठविलञ्चास्यास्तदष्टाङ्गुलविस्तृतम् || ४० || ---------------------------------------------- पदानि रञ्जयेत् पश्चाच् श्वेतपीतारुणासितैः | रजोभिः श्यामलेनाथ वीथीरापूरयेत्ततः || इत्यनेनैकाशीतिपदात्मकमण्डलमभिहितम् | एवञ्चायमप्यपरः सम्प्रदाय इत्यवधेयम् |
114 SK ३९ | अथाङ्कुरपात्राण्युपदिशति � पात्राणीति | पालिकाः पञ्चमुख्यः शरावाश्चेति त्रिविधानि पात्राणि अङ्कुरार्पणकर्मणि विहितान्याहुरिति सम्बन्धः | तत्र पालिकादीनामर्थाः प्रदर्शिता राघवभट्टेन � स्थूलान्युच्चानि शरावाण्येन पालिकाशब्देनोच्यन्ते | पालिका एव किञ्चिन्निचाः पञ्चमुखयुक्ताः पञ्चमुख्य उच्यन्ते | शरावाः प्रसिद्धः इति | एतत्समानानुपूर्वीकशारदातिलकवचनव्याख्याने � सर्वतन्त्रज्ञैरित्यनेन पञ्चदेवतादीक्षादिकर्मसु पात्रभेदो नास्तीति राघवभट्टाः | चतुःक्रमादित्यनेन मधचतुष्कत्रये प्रतिचतुष्कं चत्वारि चत्वारि पालिकादीनि स्थापनीयानित्युक्तम् | स्थापनञ्चेदं पश्चिमादिक्रमेणेति स्वयमेव वक्ष्यति | हरिब्रह्मशिवात्मका इति पालिका हरिरूपाः, पञ्चमुख्यो ब्रह्मरूपाः, शरावाश्च शिवरूपा इत्यर्थः, एतेनैतेषु पात्रेषु क्रमेण हरिब्रह्मशिवाः पूजनीया इत्युक्तम् | तदुक्तं वैदिकसर्वस्वधृतकापिले � वैष्णवी पालिका ज्ञेया ब्राह्मी तु घटिकोच्यते | शाङ्करन्तु शरावं स्यात् त्रयमेतत् त्रिदैवतम् || इति ४०-४१ | इदानीं क्रमप्राप्तं पालिकालक्षणमाह-पालिकेति | पालिका शराव- पादपीठस्य विस्तारः षडङ्गुल उदीरितः | चतुरङ्गुल उत्सेधस्तत्सन्धिश्चाङ्गुलं भवेत् | तत्सन्धिश्च भवेद् द्वौ वा पादपीठार्द्धमेव च || ४१ || (पञ्चमुखी) भवेत् पञ्चमुखी चैव घटिका सर्वकामदा | चतुरङ्गुलविस्ताराण्याहुर्वक्त्राणि पञ्च वै || ४२ || चत्वारि च चतुर्दिक्षु ऊर्द्ध्वमेकं यथाविधि | घटिकाऽयामविस्तारो द्वादशाङ्गुल उच्यते || ४३ || आचार्याः कथयन्त्येके षोडशाङ्गुलमेव वा || ४४ || ----------------------------------------------
115 SK विशेषः, तस्य मुखस्य विस्तारण् षोडशाङ्गुलः | कण्ठस्थविलस्य विस्तारोऽष्टाङ्गुलः | पादपीठस्य अधःप्रदेशस्य विस्तारः षडङ्गुल इति | उत्सेधश्चतुरङ्गुलः | तत्सन्धिरिति | तस्य पादपीठस्य सन्धिः शरावपादपीठयोः संयोगस्थलमित्यर्त्थः | इदं सन्धिपरिमाणं द्व्यङ्गुलं वा त्र्यङ्गुअं वापि भवितुमर्हति इत्येवाह � तत्सन्धिश्चेत्यादिना | अत्र पादपीठस्यात्सेधार्द्धेन द्व्यङ्गुलम्, विस्तारार्द्धेन त्र्यङ्गुलं वेत्यवधेयम् | ४२-४४ | पञ्चमुखीलक्षणमाह � भवेदिति | अस्याः पञ्चमुख्याः पञ्च मुखानि तानि च सर्वाण्येव चतुश्चतुरङ्गुलविस्ताराणि + तेषाञ्च मुखानां स्थानमाह � चत्वारीति | चतुर्दिक्षु चत्वारि मध्ये चैकमिति पञ्च | अस्या घटिकेति नामान्तरम् | घटिकैव पञ्चमुखयुक्ता पञ्चमुखीत्यर्थः | अत एव घटिकायामविस्तार इत्यादिना पञ्चमुख्या एवायामविस्तारौ प्रतिपादितौ | घटिकाया आयामो दैर्घ्यम् औन्नत्यमित्यर्थः, विस्तारो व्यासश्च द्वादशाङ्गुलपरिमाणः | न च विस्तार इत्येकवचनाद् आयामस्य विस्तार इति षष्ठीसमास इति वाच्यं वचनान्तरेणौन्नत्यस्याप्रतिपादनात्, आयामविस्तराभ्यान्तु घटिका द्वादशाङ्गुला | इति हयशीर्षपञ्चरात्रीयसङ्कर्षकाण्डवचनसंवादाच्च आयामविस्तारयोरुभयोरेव द्वादशाङ्गुलपरिमाणत्वप्रतिपादनात् | तस्मादायामेन सहितो विस्तार इत्येवार्थः (शरावः) द्वादशाङ्गुलविस्तारं शरावस्य मुखं स्मृतम् | चतुरङ्गुलविस्तारमधस्ता * न्मूलमुच्यते || ४५ || (पालिकादीनां परिमाणे विशेषः) यथासम्भवमानं वा केनापीत्यभिधीयते || ४६ || ---------------------------------------------- सम्यक् | आचार्या इति केचिदाचार्या घटिकाया विस्ताराऽयामौ षोडशाङ्गुलाविति वदन्तीत्यर्थः | ४५ | क्रमप्राप्तं शरावस्वरूपमाह � द्वादशेति | शरावस्य मुखं द्वादशाङ्गुलपरिमाणं मूलं चतुरङ्गुलमिति | एषामुच्छ्राय उपदिष्ठः शारदायां तृतीयपटले �
116 SK पात्राणि त्रिविधान्याहुरङ्कुरार्पणकर्मणि | पालिकाः पञ्चमुख्यश्च शरावाश्च चतुःक्रमात् || प्रोक्ताः स्युः सर्वतन्त्रैशर्हरि-ब्रह्म-शिवात्मकाः | एषामुच्छ्राय उन्नेयः षोडश-द्वादशाष्टभिः || इति | एवञ्च पालिकाया उच्छ्रायः षोडशाङ्गुलः, पञ्चमुख्या द्वादशाङ्गुलः शरावस्याष्टाङ्गुल इति | ४६ | यथासम्भवमिति | प्रागुक्तानां पालिकादीनां प्रागुक्ततत्तत्परिमाणसम्पादनासम्भवे यथासम्भवं पप्रिमाणं कर्तव्यमित्यर्थः | तदुक्तं राघवभट्टधृतसिद्धान्तशेखरे � यथासम्भवमानं वा पालिकादि समाचरेत् || इति | हयशीर्षपञ्चरात्रे सङ्कर्षकाण्डेऽङ्कुरपात्राण्येवमभिहितानि | यथा � पात्रं त्रिविधमुद्दिष्टं मङ्गलाङ्कुरकर्मणि | शरावो घटिका पाली तेषां लक्षणमुच्यते || द्वादशाङ्गुलविस्तारं शरावस्य मुखं भवेत् | षोडशाङ्गुलकस्यापि मूलं स्याच्चतुरङ्गुलम् || पञ्चवक्त्रा घटी ज्ञेया सर्वकामफलप्रदा | ऊर्द्ध्वमेकं भवेद्वक्त्रं शेषान् दिक्षु प्रकल्पयेत् || (पालिकादीनामुपादानानि) सुवर्णरूप्यताम्रैर्वा मृदा वा रचयेत् सुधीः | (पात्रन्यासक्रमः) त्रिगुणीकृतसूत्रेण शुभान्यावेष्टयेत् त्रिधा || ४७ || प्रक्षाल्य देशिकस्तेषु पदेष्वाहितशालिषु | सगन्धदर्भकूर्चेषु पश्चिमादि निवेशयेत् || ४८ || ---------------------------------------------- चतुरङ्गुलमात्राणि मुखानि परिकल्पयेत् | आयामविस्तराभ्यान्तु घटिका द्वादशाङ्गुला || षोडशाङ्गुलमात्रा वा घटिकाऽयामविस्तरा | पालिकाविस्तराः प्रोक्ताः षोडशाङ्गुलसम्मिताः || स्मृतं वक्त्रं तथा चास्या अर्द्धमात्रं सुसंवृतम् | षडङ्गुलमधोभागे तावदेव तु विस्तृतम् || तन्मानं पादपीठन्तु चतुरङ्गुलमुच्छ्रितम् | तत्सन्धिश्चाङ्गुली ज्ञेय उन्नाहस्त्र्यङ्गुली भवेत् || अत्र चतुरङ्गुलमुच्छ्रितं तत्सन्धिश्चाङ्गुलो ज्ञेयः इत्युक्त्या चतुरङ्गुलोच्छ्रितस्य पादपीठस्यैकाङ्गुलसन्धौ कृते पादपीठस्योच्छ्रायस्त्र्यङ्गुल इति हृदयम् |
117 SK सुवर्णेति | सुवर्णेनेति प्रथमः कल्पः, तदसम्भवे रौप्येण वा ताम्रेण वा मृत्तिकया वा पात्राणि रचयेद् इति क्रमेणोत्तरोत्तरोपादानानामपक्र्ष इति प्रतिपादितम् | सुधीरित्यनेन च पूर्वपूर्वसम्भवे क्वचिदप्युत्तरोत्तरोपादानानामादानं न कर्तव्यमिति सूचितम् | तथाच राघवभट्टधृतवचनम् � सम्भवे कनकरूप्यताम्रता मार्तिकान्यभिनवान्यथवा स्युः | इति | ४७-४८ | त्रिगुणीकृतेति | तानि च शुभानि कृष्णवर्ण-व्रणादिरहितानीत्यर्थः | पात्राणि प्रक्षाल्य त्रिगुणीकृतसूत्रेण त्रिधा वेष्टयेत् | न चादौ वेष्टनं पश्चात् प्रक्षालनमिति वाच्यम्, राघवभट्टेन पूर्वं प्रक्षालनं पश्चात्तन्तुवेष्टनमित्यनेन तन्तुवेष्टनात् पूर्वमेव प्रक्षालनाभिधानात् | ततश्च आहितशालिषु धान्ययुक्तेषु पदेषु प्रागुक्ताङ्कुरमण्डलान्तर्वर्तिद्वादशपदेषु गन्ध-दर्भकूर्चयुक्तेषु पश्चिमादिक्रमेण पात्राणि निवेशयेदित्यर्थः, दर्भकूर्चलक्षणन्तु-सप्तविंशतिदर्भाणां वेण्या ग्रन्थिविभूषितमित्यादिना स्वयमेव पञ्चमप्रकाशे वक्ष्यते | करीषवालुकामृद्भिस्तानि पात्राणि पूरयेत् | प्रोक्तेषु तेषु पात्रेषु हरिब्रह्मशिवान् यजेत् || ४९ || ---------------------------------------------- एतदुक्तं भवति � प्रागुक्तद्वादशपदेषु प्रथमं धान्यानि गन्धदर्भकूर्चानि च निधाय पश्चिमचतुष्के एकैकशः पालिकाचतुष्कम्, मध्यमकोष्ठचतुष्के पञ्चमुखीचतुष्कम्, पूर्वकोष्ठचतुष्के शरावचतुष्कं निवेशयेदिति | अत्र प्रतिचतुष्कं पालिकादीनां न्यास आग्नेयादिक्रमेण | तदुक्तं प्राणतोषणीधृतप्रयोगसारे � एवं कृत्वा साधकस्तु तत्र पात्राणि विन्यसेत् | वह्न्यादीशानपर्यन्तं चतुष्केषु पृथक् पृथक् || इति | ४९ | तेषां पात्राणामापूरणमाह-करीषेति | करीषं शुष्कगोमयं, वालुकामृदः प्रसिद्धः | अनेन प्रतिपात्रं प्रथमं करीषं तदुपरि वालुका, तदुपरि च मृद इत्यनया रीत्या पूरणमुपदिश्यते | तदुक्तं हयशीर्षपञ्चरात्रे आदिकाण्डे � करीषबालुकामृद्भिः पूरयेदुत्तरोत्तरम् | इति | राघवभट्टधृतप्रयोगसारेऽपि �
118 SK मृद्बालुकाकरीषैश्चोर्द्ध्वतः पात्राणि पूरयेत् | इति | राघवभट्टेनापि एतरुत्तरोत्तरं सर्वाण्यपि पात्राण् पूरयेदित्युक्तम् | एतदपि पात्रस्थापनवदाग्नेयादिक्रमेणैव कर्तव्यम् | प्रोक्तेष्विति � पश्चिमपात्रचतुष्के हरिम्, मध्यमचतुष्के ब्रह्माणम्, पूर्वचतुष्के च शिवं यजेदित्यर्थः | अत्र मृत्तिकाहरणे विशेषमाह राघवभट्टधृतसिद्धन्तशेखरे � गन्धादिभिश्च कुद्दालं पूजयित्वा दिनान्तरे | गीतनृत्यसमायुक्तं गजवाजिसमन्वितम् || गुर्वादयो रथारूढा गजारूढास्तथाऽपरे | गत्वा तीरं तडागस्य नद्याः पुष्पवनस्य वा || तत्र शुद्धं भुवो भागं दर्भैः संमृज्य चास्त्रतः | अभ्युक्ष्य चार्घ्यातोयेन तत्तन्मन्त्रमनुस्मरन् || हृदा भूमिं समावाह्य गन्धपुष्पैः समर्चयेत् | कुद्दालीमस्त्रमन्त्रेण खात्वा भूमिमथो मृदम् || प्. १३९) (प्रागुक्तकर्मणां दिवैव कर्तव्यत्वम्) एतत् कर्म दिवाकाले कुर्याद्रात्रौ न बुद्धिमान् || ५० || (बीजारोपणस्य रात्रिकर्तव्यत्वम्) बीजारोपणकार्यन्तु निशायां तन्त्रवित्तमैः | बीजानामधिपो यस्मान्नित्यं कुमुदबान्धवः || ५१ || (बीजनिर्वपणम्) जलबीजेन बीजानि दुग्धैः प्रक्षाल्य मन्त्रवित् | मूलमन्त्राभिजप्तानि पञ्चघोषपुरःसरम् || ५२ || आशीर्वाग्भिद्विजातीनां मङ्गलाचारपूर्वकम् | निर्वपेत्तेषु पात्रेषु पाङ्मुखो वाप्युदङ्मुखः || ५३ || ---------------------------------------------- गृहीत्वा वामदेवेन पूरयेत् कांस्यपात्रके | हृदा मृदञ्च संमृज्य वस्त्रेणाच्छाद्य धारयेत् || पुरं वा नगरं वापि सर्वमङ्ग्लनिस्वनैः | गुरुं प्रदक्षिणं कृत्वा मण्डपं त्वानयेत्ततः || इति | ५० | एतदिति | एतदङ्कुरार्पणाङ्गमण्डलादि-हरिहरशिवपूजान्तं कर्म दिवैव कुर्यान्न रात्रावित्यर्थः | ५१ | बीजारोपणकर्मणो निशायां कर्तव्यत्वमाह � बीजेति | अत्र कारणमाह � बीजानामिति | एवञ्च चन्द्रस्यैव निशाया अधीश्वरत्वेन तदधिपतिकानां बीजानां तत्रैव वपनं शुभाय कल्पत इत्याशयः |
119 SK ५२-५३ | बीजवपनमाह-जलेति | जलबीजेन वमिति वरुणबीजेन | प्रक्षल्येति वक्ष्यमाणानि बीजानीति शेषः | मूलमन्त्रैः देयतत्तद्देवता-तत्तन्मन्त्रैरभिजप्तानि | जपश्चाष्टोत्तरशतमष्टोत्तरसहस्रं वा | संख्यानुक्तौ शतं साष्टं सहस्रं वा जपादिषु | इति राघवभट्टधृतमहाकपिलपञ्चरात्रवचनात् | पञ्चघोषपुरःसरमिति | पञ्चघोषास्तु (वपनीयानि बीजानि) शालीश्यामाढकीमुद्गनिष्पावतिलसर्षपाः | कुलत्थ-कङ्गु-माषाश्च बीजान्यङ्कुरकर्मणि || ५४ || (तेषु स्कन्दादिदशदेवतापूजा) स्कन्दं कङ्गौ च निष्पावे वायुमग्निं कुलत्थके | आढक्यां निरृतिं सोमं मुद्गे वैवस्वतं तिले || ५५ || प्रजापतिं शालिबीजे चानन्तं सर्षपेऽर्चयेत् | श्यामायामच्चयेदिन्द्रं माषे तु वरुणं यजेत् || ५६ || सोमं संपूजयेन्नित्यमधिवासदिनावधि || ५७ || ---------------------------------------------- पटह-कांस्य-मृदङ्ग-मुखवाद्य-शङ्खा इति राघवभट्टः | मङ्गलेति, मङ्गलाचारास्तु हुलहुलध्वनिप्रभृतयः | निर्वपेदिति | प्रा�न्मुख उदङ्मुखो वा तेषु पात्रेषु पालिकादिषु बीजानि निर्वपेदित्यर्थः | तदुक्तं राघवभट्टधृतसिद्धान्तशेखरे � बीजमुख्येन मूलेन प्राङ्मुखो वाप्युदङ्मुखः | वापयेत् सर्वबीजानि पालिकादिष्वनुक्रमात् | बीजानामधिपः सोमस्तस्माद्रात्रौ तु निर्वपेत् || इति | ५४ | शालीति | शालयः हंमन्तिकधान्यानि, श्यामाकः शामा इति वङ्गेषु प्रसिद्धं धान्यम् | आढकी अडहर इति वङ्गेषु प्रसिद्धो द्विदलविशेषः | निष्पावा राजमाषाः | कङ्गुः का उनी, का अन् इति च यस्य वङ्गेषु प्रसिद्धिः | ५५-५६ | एतेषु दशसु बीजेषु स्कन्ददीनां वरुणान्तानां दशदेवतानां क्रमेण पूजनमुपदिशति � स्कन्दमित्यादिना वरुणं यजेदित्यन्तेन | ५७ | सोममिति | नित्यमिति अङ्कुरार्पणादिवसात् प्रभृत्यधिवासदिनपर्यन्तं सोममर्चयेदित्यर्थः | तदुक्तं राघवभट्टधृतसिद्धन्तशेखरे � सोमं संपूजयेन्नित्यमधिवासदिनावधि | अधिवासदिने प्राप्ते सोममुद्वासयेद् गुरुः || इति | (बलिविधानम्)
120 SK हरिद्राद्भिः समभ्युक्ष्य वस्त्रैराछाद्य देशिकः | बलिं त्रिविधपात्राणां दिक्षु पूर्वादितः क्षिपेत् | प्रणवाद्यैर्नमोऽन्तैश्च रात्रौ रात्रीशनामभिः || ५८ || (सप्तानां रात्रीणामधिपतयः) भूतानि पितरो यक्षा नागा ब्रह्मा शिवो हरिः | सप्तानामपि रात्रीणां देवताः समुदाहृताः || ५९ || ---------------------------------------------- ५८ | हरिद्राद्भिरिति | हरिद्राद्भिः हरिद्राचूर्णमिश्रितजलैः समभ्युक्ष्य बीजानीति शेषः | तदुक्तं राघवभट्टधृतप्रयोगसारे � त्रियम्बकाय शर्वाय शङ्कराय शिवाय च | सर्वलोकप्रधानाय शाश्वताय नमो नमः || विकीर्यानेन मन्त्रेण हरिद्राचूर्णमिश्रितम् | तोयं प्रवर्षयेत्तेषु सिञ्चेत्तावेर्दिनं प्रति || अत्र दिनं प्रतीति प्रतिदिनमित्यर्थः | वस्त्रेरिति | नूतनवस्त्रेराच्छाद्य | अत्र वस्त्रेरिति बहुवचनेन वस्त्राणां त्रिसंख्याकत्वं सूचितम् | तथा च प्रत्येकचतुष्टयमेकैकेनाच्छाद्य इत्यर्थः | एतदेव देशिक इत्यनेन सूचितम् | बलिमिति | त्रिविधपात्राणां प्रागुक्तपालिकापञ्चसुखीशरावाणाम्, बलिं वक्ष्यमाणभूतादीनामित्यर्थः | पूर्वादित इति पात्रन्यासम्य पश्चिमादित्वेऽपि बलिं पूर्वादिक्रमेणैव कुर्यादित्यर्थः | प्रण्वाद्येरिति | प्रणवाद्येर्नवाऽन्तेश्च (?) मन्त्रं रात्रीशानां भूतानि पितरावित्यादिवक्ष्यमाणलक्षणानां नामभिर्वलिं क्षिपेर्वृति (?) सम्बन्धः | ततश्च एष बलिः ॐ भूतेभ्यो नमः इत्यादयो बलिक्रमः | ५९ | रात्रीशनामभिरित्युक्तम्, के ते रात्रीशा इत्याकाङ्क्ष्यामाह � भूतानीति | एवञ्च भूतानि प्रथमाया रात्रर्देवताः, पितरो द्वितीयाया रात्रेरित्येवंक्रमेण सप्त देवताः सप्तरात्रेश्वरा इति | तासां वलिरपि प्रथमाया रात्रेः सप्तमीं रात्रिं यावत् क्रमेण विधेय इत्यर्थः | (बलिद्रव्यभेदाः) भूतेभ्यः स्युर्लाजतिलहरिद्रादधिशक्तवः | सानाः पितृभ्यः सतिलास्तण्डुलाः परिकीर्तिताः || ६० || करम्भलाजा यक्षेभ्यो नारिकेलोदकान्विताः | शक्तुः पिष्टञ्च नागेभ्यो ब्रह्मणे पङ्कजाक्षतम् || ६१ ||
121 SK सापूपमन्नं शर्वाय विष्णवे स्याद् गुडौदनम् || ६२ || (तत्र विशेषः) नवरात्रविधौ मन्त्री दुग्धान्नं कृशरं पुनः || ६३ || प्रदद्याद् विष्णवे चैवं सर्वेभ्यः पायसैश्च वा | (दिक्पालबलिः) ततश्च लोकपालेभ्यः पायसान्नैर्बलिं हरेत् || ६४ || ---------------------------------------------- ६०-६१ | अथ देवताभेदेन बलिद्रव्यभेदानाह � भूतेभ्य इत्यादिना | करम्भेति करम्भो दधिशक्तवं इत्यमरः | तेन मिश्रिता लाजाः | सापूपमिति पिष्टकसहितम्, पूपोऽपूपः पिष्टकः स्यादित्यमरः | ६३-६४ | पूर्वं नवमे सप्तमेऽपि वा (४|३२) इत्यनेन नवरात्र्यात्मको यः कल्प उक्तस्तत्र वलेर्विशेषमाह-नवरात्रविधाविति | तत्र सप्तमीं रात्रिं यावत् प्रागुक्तक्रमेण बलिं विधाय अष्टम्यां रात्रौ विष्णवे दुग्धान्नम्, नवम्यां रात्रौ च विष्णव एव कृशरं प्रदद्यादिति | तदुक्तं राघवभट्टेन � यदा नवरात्रेषु बलिदानं तदा रात्रिद्वये बलिद्रव्यं देवता चोक्ताचार्यै :- वैष्णवञ्च दौग्धान्नं कृशरञ्च वैष्णवेयं यदि नवरात्रक्रमेन वलिरुक्त इति | सर्वेभ्य इति | प्रागुक्तवलिद्रव्याणामलाभे भूतादिभ्यः सर्वेभ्य एव पायसैः एवं पूर्वोक्तक्रमेण बलिं प्रदद्यादित्यर्थः | ततश्चेति | ततो भूतादिवलिदानानन्तरं पायसान्नैर्लोकपालेभ्यो बलिं हरेत् इति | अयं बलिः पूर्वादिक्रमेणैव | तत्रानन्तस्य वलिर्नि-ऋतिवरुणयोर्मध्ये, ब्रह्मणस्त्विशानन्द्रेयोर्मध्ये इति विशेषः | (अङ्कुरपरीक्षा) अथाङ्कुरं परीक्षेत यजमानः शुभाशुभम् || ६५ || (तत्र शुभान्यङ्कुराणि) सम्यगूर्द्ध्वप्ररूढानि कोमलानि सितानि च | अङ्कुराणि शुभान्याहुरिति मन्त्रविदो जनाः || ६६ || (अशुभान्यङ्कुराणि) धूम्रवर्णान्यपूर्णानि तथा तिर्यग्गतानि च | श्यामलानि च कुब्जानि वर्जयेदशुभानि च || ६७ || ---------------------------------------------- ६६ | अथाङ्कुरपरीक्षायां शुभान्यङ्कुराण्याह � सम्यगिति | सितानि शुभ्राणि | मितानीति पाठे मितानि समपरिमाणाग्राणीत्यर्थः |
122 SK ६७ | अशुभान्यङ्कुराण्याह � धूम्रेत्यादिना | अपूर्णानि विरलसन्निवेशानि | तिर्यग्गतानि वक्राणि | कुब्जानि मध्यतो भङ्गुराणि | अत्र शुभाशुभाङ्कुरपरीक्षामाह राघवभट्टधृतसिद्धन्तशेखरे � यजमानाभिवृद्ध्यर्थमङ्कुराणि परीक्षयेत् | सम्यगूर्द्ध्व प्ररूढानि कोमलानि सितानि च || धूम्रवर्णान्यपूर्णानि तथा तिर्यग्गतानि च | श्यामलानि च कुब्जानि वर्जयेदशुभानि तु || अवृष्टिं कुरुते कृष्णं धूम्राभं कलहं तथा | अपूर्णं जननाशञ्च दुर्भिक्षं श्यामलाङ्कुरम् | तिर्यग गते भवेद् व्याधिः कुब्जे शत्रुभयं तथा || इति | (अशुभाङ्कुरोद्गमे शान्तिः) तद्दोषशमनार्थञ्च शान्तिहोमं समाचरेत् | गुरुर्मूलेन जुहुयाच्छतं वापि सहस्रकम् || ६८ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ चतुर्थः प्रकाशः | ---------------------------------------------- ६८ | अशुभाङ्कुरोद्गमे प्रतीकारमाह-तद्दोषेति | मूलेनेति देयमन्त्रेणेत्यर्थः | शतं वापीति | दोषस्याल्पत्वे शतं प्राचुर्ये सहस्रमित्यर्थः | सिद्धन्तशेखरेऽपि � अशुभे चाङ्कुरे जाते शान्तिहोमं समाचरेत् | मूलमन्त्रेण जुहुयाद् गुरुर्मूर्तिधरैः सह | अघोरास्त्रेण चास्त्रेण शतं वाथ सहस्रकम् || इति | पञ्चमः प्रकाशः (दीक्षाङ्गाधिवासनविधिर्दीक्षाविधिश्च) (अधिवासस्य दीक्षापूर्वदिनकर्तव्यत्वम्) अथ दीक्षादिनात् पूर्वमधिवासं चरेद् गुरुः | (गणेशादिपञ्चदेवतापूजनम्) गणेशं सवितारञ्च शङ्करं शङ्करप्रियाम् || १ || पूजयेत् कमलानाथं षोडशैरुपचारकैः | (तत्र पञ्चायतनदीक्षायां शिवस्य पूजाक्रमः) यदा तु शङ्करं मध्य ऐशान्यां श्रीपतिं यजेत् || २ || आग्नेय्यां च तथा हंसं नैरृत्यां पार्वतीसुतम् | वायव्याञ्च समापूज्या भवानी भक्तवत्सला || ३ || ---------------------------------------------- १ | एवं चतुर्थेऽङ्कुरार्पणान्तं कर्माभिधाय पञ्चमे दीक्षाक्रमं विवक्षः प्रथमं तदङ्गमधिवासमाह � अथेति | तत्र च गणेशादिदेवतापञ्चकमादौ पूजयेत् |
123 SK २-३ | पञ्चायतनदीक्षायां प्रागुक्तानां पूजने विशेषमाह � यदा त्विति | अत्र उपास्यत्वेन मुख्यं देवं मध्ये यजेदितरांस्तु चतुरः कोणचतुष्टये | एवञ्च शङ्करोपासकः मुख्यतया यदा शङ्करं मध्ये यजेत्तदा ऐशान्यां श्रीपतिम्, आग्नेय्यां सूर्यम्, नैर्-ऋत्यां गणेशम्, वायव्याञ्च अम्बिकां यजेदिति | एवं वक्ष्यमाणविष्णुसूर्याम्बिकाहेरम्बपूजनेऽपि ईशानादिक्रमेण पूजनं परं परं वक्ष्यते | अत्र चतुर्दिक्षु कलसचतुर्ष्टयं मध्ये च कलसमेकं संस्थाप्य तेषु पूजनमनुष्ठेयम् | एकदेवताकदीक्षास्थले तु एकमेव कलसमारोप्य तत्र देवतां पूजयेत् | अत एव प्रपञ्चसारे � (विष्णोः) यदा तु मध्ये गोविन्दमैशान्यां शङ्करं यजेत् | आग्नेय्यां गणनाथञ्च नैर्.-ऋत्यां तपनं तथा | वायव्यामम्बिकाञ्चैव यजेन्मन्त्री समाहितः || ४ || (सूर्यस्य) सहस्रांशुं यदा मध्य ऐशान्यां पार्वतीप्रियम् | आग्नेय्यामेकदन्तञ्च नैर्-ऋत्यामच्युतं यजेत् | वायव्यां पूजयेद्देवीं भोगमोक्षैकभूमिकाम् || ५ || ---------------------------------------------- प्रोक्तेनैवं कलसविधिनैकेन वाऽनेककुम्भैः | इत्यनेनाचार्यैरेकानेककुम्भस्थापनं व्यवस्थापितम् || तन्त्रसारधृतगणेशविमर्षिणीवचने एकत्रैव सर्वेषां संग्रहो दृश्यते | यथा � शम्भौ मध्यग्ते हरीन-हरभू-देव्यो हरौ शङ्करे � भास्येनागसुता रवौ हरगणेशाऽजाऽम्बिकाः स्थापिताः | देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरे- नार्याः शङ्करभागतोऽतिसुखदा व्यस्तास्तु ते हानिदाः || इति | अत्र ऐशान्यां श्रीपतिं यजेदित्यादिना ईशानादिक्रमेणैव सर्वासामङ्गदेवतानां पूजनमभिहितम् | तन्त्रसारधृतरामार्चनचन्द्रिका-गौतमीययोस्तु � यदा तु मध्ये गोविन्दमाग्नेय्यां गणनायकम् | नैर्-ऋत्यां हंसमभ्यर्च्य वायव्यामर्चयेच्छिवाम् | ऐशान्यां शन्करञ्चैव भोगमोक्षफलाप्तये ||
124 SK इत्यादिना आग्नेयादिक्रमेणाङ्गदेवतानां पूजनमुक्तम्, एवं स्थिते प्रस्थानद्वये स्वस्वसम्प्रदायानुगत्यैकतरदाश्रयणीयम् | अत एव वस्तुतो वैकल्पिकमिति साम्प्रदायिका इतितन्त्रसारकृतः | (भवान्याः) भवानीन्तु यदा मध्य ऐशान्यां माधवं यजेत् | आग्नेय्यां पार्वतीनाथं नैर्-ऋत्यं गणानायकम् | प्रद्योतनन्तु वाव्यव्यामाचार्यस्तत्र पूजयेत् || ६ || (गणेशस्य) हेरम्बन्तु यदा मध्य ऐशान्यामच्युतं यजेत् | आग्नेय्यां पञ्चवक्त्रञ्च नैर्-ऋत्यां जगदम्बिकाम् | वायव्यां द्युमणिञ्चैव यजेन्मन्त्री समाहितः || ७ || (एषां निरुक्तस्थानादन्यत्र पूजने दोषः) स्वस्थानवर्जिता देवाः शोकमोहभयप्रदाः | मन्त्ररत्नावलेश्चैतत् प्रसङ्गान्मतमीरितम् || ८ || ---------------------------------------------- ८ | मन्त्रेति | प्रसङ्गादिति | प्रागुक्तपूजनक्रमः पञ्चायतनदीक्षायामेव विहितः, परन्तु � श्यामायां भैरवीताराच्छिन्नमस्तासु भैरवि | मञ्जुघोषे तथा रौद्रे पञ्चाङ्गं नेष्यते बुधैः || इति तन्त्रसारधृतरुद्रजामलवचनेनात्र पञ्चायतनदीक्षाया अनुपयोगात् प्रसङ्गादित्युक्तम् | एवञ्चात्रानुपयोगित्वेऽपि अन्यत्रान्यत्रोपयोगित्वाद् दीक्षास्वरूपनिरूपणे पञ्चायतनदीक्षायां यो विशेषस्तस्याप्यभिधानमुचितमेवेति ग्रन्थकृतामाशयः | समाहितेन मनसा ध्यायन्मन्त्रस्य देवताम् | प्राणप्रतिष्ठां कुर्वीत तन्त्रमन्त्रविचक्षणः || इति शारदातिलकचतुर्थपटलवचनव्याख्याने राघवभट्टेन मन्त्रस्य देवतामित्येकमन्त्रदीक्षायाम्, पञ्चायतनदीक्षापक्षे पञ्च कलसान् संस्थाप्य तत्तत्कलसे तत्तद्देवतामावाहयेद् इत्युक्तम् | एवञ्चैकदेवतादीक्षाविषये पञ्चाङ्गप्रक्रियाया उपयोगो नास्तीति राघवभट्टमतेनापि प्रसङ्गादिति साधु संगच्छते | (एषु गौणमुख्यभेदेनार्चनक्रमभेदः) मुख्ये पुष्पाञ्जलिं दत्त्वा गणेशाद्यर्चनं चरेत् | गणेश एव मुख्यश्चेत्तत्र सूर्य क्रमाद् भवेत् || ९ || (एतेषामपूजने दोषः) अनभ्यर्च्य नरो याति नरकं नात्र संशयः || १० || (दिक्पालवलिः)
125 SK अथ दिक्पालदेवेभ्यो वलिं दद्याद् गुरूत्तमः || ११ || ---------------------------------------------- ९ | मुख्य इति | मुख्ये उपास्यतया प्रधाने पुष्पाञ्जलिं दत्त्वा तत्तत्कल्पविहितं गणेशादीनामर्चनं कुर्यादित्यर्थः | अत्र मुख्यदेवतायै प्रथमं पुष्पाञ्जलिं दत्त्वा गणेशादीनां पूजनं निर्वर्त्त्य मुख्यदेवतापूजनं कुर्यादिति केचित् | अपरे तु अत्र पुष्पाञ्जलिशब्देन पूजासमाप्तौ देयं पुष्पाञ्जलिमाचक्षते | तथाच प्रधानदेवतायाः पूजनं समाप्य तस्यै पुष्पाञ्जलिं दत्त्वा गणेशादीनामर्चनं चरेदिति वदन्ति | तदेवं स्थिते वचनस्योभयथा व्याख्याने स्वस्वसम्प्रदायानुसारेणैकतरः पक्षः समाश्रयणीय इति बोध्यम् | अत एव राघवभट्टेन � एतच्च स्वस्वगुरुसम्प्रदायानुसारेण ज्ञेयम् इत्युक्तम् | तन्त्रसारकृता तु अङ्गदेवतापूजाकास्तु पीठदेवतापूजानन्तरम्, तथाच सन्त्कुमारतन्त्रे � पीठस्यार्चनमङ्गदेअयजनं प्राणप्रतिष्ठा तत आह्वानं निजमुद्रिकाविरचनं ध्यानं प्रभोः पूजनम् | इत्यनेन प्रधानदेवतापीठपूजानन्तरं गणेशादीनामर्चनमभिहितम् | मुख्ये पुष्पाञ्जलिं दत्त्वा इत्यादिवचनानान्तु स्थापितप्रतिमायन्त्रादिपरत्वमुपपादितम् यत्तूक्तम् � मुख्ये पुष्पाञ्जलिं दत्त्वा अङ्गदेवान् समर्चयेत् | तत्तु स्थापितप्रतिमायन्त्रादिपरमित्यन्तेन ग्रन्थेन | ११ | अथेति | पूउजादिकं समाप्य | दिक्पालवलिक्रमस्तु नवमपटले वक्ष्यते | (अथ शिष्ये गुरोः कृत्यम्) अथ शिष्यं समानीय सुस्नातं समलङ्कृतम् | तद्गात्रे मातृकान्यासं तथा ऋष्यादिकं न्यसेत् || १२ || देयमन्त्रं तस्य मूर्ध्नि जपेदष्टोत्तरं शतम् | शङ्खतोयेन तन्मन्त्रैस्ततः संप्रोक्षयेच्छिशुम् || १३ || (शिष्यकृत्यम्) ततः पुष्पादिकं दत्त्वा बालकः प्रणमेद् गुरुम् || १४ || (ततः शिष्यं प्रति गुरोः कृत्यम्) आशीर्वादं गुरुर्दत्त्वा ब्राह्मणैः सह साधकैः | दर्भशय्यां परिष्क्ट्य शिष्यं तत्र निवेशयेत् | स्वापमन्त्रेण मन्त्रज्ञः शिशोः शिखां प्रबन्धयेत् || १५ ||
126 SK (शिष्यस्य शयनकाले श्रीगुरुदत्तस्वप्नमानवमन्त्रपाठः) तन्मन्त्रं स्वापसमये पठेद् वारत्रयं शिशुः | श्रीगुरोः पादुकां ध्यात्वा उपवासी जितेन्द्रियः || १६ || ---------------------------------------------- १२ | अनन्तरकरणीयमाह-अथ शिष्यमिति | एतच्च सर्वमात्मसमर्पणान्तं कर्म समाप्य कर्तव्यमित्यवधेयम् | ऋष्यादिकमिति | एतत्कल्पोक्त ऋष्यादिन्यासस्तु पूजाक्रमे वक्ष्यते | १५ | स्वापमन्त्रेणेति वक्ष्यमाणस्वप्नमानवमन्त्रेण | अत्र शिखाबन्धनं स्वप्नमानवमन्त्रेणाभिहितम् | गन्धर्वतन्त्रे षड्विंशपटले तु � मूलेनैव शिखां बद्ध्वा ततः शय्यागतं शिशुम् | स्वप्नमानवमाश्रित्य स्वापयेत् पूर्वमस्तकम् || इत्यनेन मूलमन्त्रेण शिखाबन्धनम्, स्वप्नमानवमन्त्रेण स्वापनमुपदिश्यते | एवं स्थिते क्रमभेदे स्वस्वगुरुसम्प्रदायानुसारेणैकतरः क्रमः समाश्रयणीय इत्यवधेयम् | (स्वप्नमानवमन्त्रः) तारो हिलिद्वयं शूलपाणये द्विठ ईरितः | स्वप्नमानवमन्त्रोऽयं शम्भुना परिकीर्तितः || १७ || (प्रार्थनामन्त्रः) नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने | वामाय विश्वरूपाय स्वप्नाधिपतये नमः || १८ || स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः | क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर || १९ || (शिष्यस्य प्रार्थनापूर्वकं शयनम्) इति मन्त्रेण सच्छिष्यो देवं प्रार्थ्य स्वपेच्च वा | (प्रतः शिष्यं प्रति स्वप्नदर्शनप्रश्नः) स्वप्ने शुभाशुभं दृष्टं पृच्छेत् प्रातः शिशुं गुरुः || २० || (स्वप्ने वक्ष्यमाणानां दर्शनं सिद्धिकरम्) कन्यां छत्रं रथं दीपं प्रासादं काननं नदीम् | कुञ्जरं वृषभं माल्यं समुद्रं फणिनं द्रुमम् || २१ || पर्वतं तुरगं मेध्यमाममांसं सुरालयम् | एवमादीनि सर्वाणि दृष्ट्वा सिद्धिमवाप्नुयात् || २२ || ----------------------------------------------
127 SK १७ | स्वप्नमानवमन्त्रमाह � तार इत्यादि | तारः प्रणवः द्विठ स्वाहा | एवञ्च ॐ हिलि हिलि शूलपाणये स्वाहा इति स्वप्नमानवमन्त्रः | इमं मन्त्रं स्वापकाले वारत्रयं पठेत् इत्याह पूर्ववचने वारत्रयमित्यनेन | १८-२० | एतन्मन्त्रपाठानन्तरप्रार्थनामन्त्रमाह � नम इति | गन्धर्वतन्त्रे षड्विंशपटलेऽपि इतः प्रभृति सिद्धिमवाप्नुयादित्यन्तानि वचनानि तुल्यान्येव दृश्यन्ते | २२ | अत्र कन्यां छत्रं रथमित्यादिना सिद्धिमाप्नुयादित्यन्तेन स्वप्ने शुभसूच- (अशुभस्वप्नदर्शने तच्छान्त्यर्थं होमः) शुभाशुभं गुरुर्ज्ञात्वा जुहुयादशुभे शतम् | अस्त्रेणेति क्रमात् प्रोक्तो विधिः शिष्याधिवासने || २३ || ---------------------------------------------- कानामेव निर्देशः कृतः | शुभाशुभं गुरुर्ज्ञात्वेति वक्ष्यमाणग्रन्थेनाशुभानामप्यपेक्षितत्वात् तानि प्रदर्श्यन्ते यथाह गन्धर्वतन्त्रे षड्विंशपटले � चाण्डालं गर्दभं काकं रुजाऽशून्यममङ्गलम् | तैलाभ्य्क्तं नरं नग्नं शुष्कवृक्षं सकण्टकम् | प्रासादमतलं दृष्ट्वा नरो रोगमवाप्नुयात् || इति | राघवभट्टधृतमहाकपिलपञ्चरात्रेऽपि कन्यां छत्रं रथमित्यादिमूलसंवादिशुभशकुनान्यभिधाय � चाण्डालं करभं कारुं गर्तं शून्यममङ्गलम् | तैलाभ्यक्तं नरं नग्नं शुष्कवृक्षं सकण्टकम् | प्रासादमतलं दृष्ट्वा नरो रोगमवाप्नुयात् || इत्यनेनाशुभान्यपि प्रदर्शितानि | २३ | अस्त्रेणेति | फट् स्वाहेति मन्त्रेण शतं जुहुयादित्यर्थः | एतदधिवासनं मन्त्रग्रहणपूर्वरात्रौ कर्तव्यम् | राघवभट्टधृतपिङ्गलामते तु सद्योऽधिवासनमप्यभिहितम् | यथा- सद्योऽधिवासमथवा प्रकुर्वीत यथाविधि | राघवभट्टधृतमन्त्रतन्त्रप्रकाशेऽपि � दिनद्वयेनैव कुर्याद्दीक्षाकर्म विचक्षणः | सद्योऽधिवासनं वा स्यादेकस्मिन् दिवसे यदि || इति | अधिवासशब्दार्थमाह राघवभट्टधृतमहाकपिलपञ्चरात्रे �
128 SK वसतेरधिपूर्वस्य भावे घञ्प्रत्यये कृते | अधिवास इति ह्येष प्रयोगः सिद्धिमेति च || गुर्वादिसहितो वासो रात्रौ नियमपूर्वकः | सोऽस्यार्थो हि निपातानामनेकार्थतया मतः || इति | (दीक्षादिनकृत्यम्) अथ दीक्षादिने मन्त्री स्नात्वा तन्त्रानुसारतः | जलशङ्खकरो मन्त्री यागस्थानं समाश्रयेत् || २४ || क्षालयेद्धस्तपादौ च आचामेद् विधिपूर्वकम् | (सामान्यार्घ्यस्थापनम्) पूर्वद्वारे तोरणस्य समीपेऽर्घ्यं प्रकल्पयेत् || २५ || ---------------------------------------------- २४ | अथेति अधिवासानन्तरम् | स्नात्वा तन्त्रानुसारत इति | तान्त्रिकस्नानन्तु ग्रन्थकारः स्वयमेव पञ्चदशप्रकाशे वक्ष्यति | जलशङ्खकर इति अर्घ्यस्थापनार्थम् | २५ | क्षालयेदिति | एतदाचमनाङ्गहस्तपादप्रक्षालनम् | तदुक्तम् � प्रक्षाल्य पाणी पादौच गोकर्णाकृतिहस्ततः | माषमज्जनमात्रन्तु त्रिः पिबेदम्बु वीक्षितम् || इत्यादि | आचामेद् विधिपूर्वकमिति | अत्र विधिपूर्वकमित्यनेन श्रीविद्योक्तविधिनाचमनमुपदिश्यते | तदुक्तं हरतत्त्वदीधितिधृतभैरवतन्त्रे- बालाबीजैस्त्रिभिः पीत्वा द्वाभ्यामोष्ठौ प्रमार्जयेत् | दुर्गाद्वाभ्यां द्विरुन्मृज्य मायया क्षालयेत् करम् || श्रीमायावाकपरा-काम-त्रिपुटायोनिवर्तुलैः | कामकलाङ्कुशाभ्याञ्च मुखनासाक्षिकर्णकान् || नाभ्युरस्कं भुजौ स्पृष्ट्वाप्यधिकारी जपादिषु || इति | अत्र बालाबीजैरिति ऐ/ क्लीं सौ/ः | दुर्गाद्वाभ्यामिति दू/ दू/ | माययेति ह्री/ | श्रीबीजं श्री/ | वाग्बीजं ऐ/ | पराबीजं ह्री/ | कामबीजं क्लिं | त्रिपुटेति श्री/ ह्र्/ क्लि/ | योनिः ऐ/ | वर्तुलं बिन्दुः | वर्तुलैरित्यनेन पूर्वोक्तानि बीजानि विशेषितानि | कामकला ई/ | अङ्कुशः क्रो/ इति |
129 SK तथाचायं प्रयोगः � ऐ/ ह्री/ सौ/ः इति बीजत्रयेण त्रिर्जलं पीत्वा दू/ दू/ इत्योष्ठौ प्रमार्ज्य ह्री/ इति करु प्रक्षालयेत् | श्री/ इति मुखे, ह्री/ इति दक्षिणनसि, ऐ/ इति वामनसि, ह्री/ इति दक्षिणचक्षुषि, क्ली/ इति वामचक्षुषि, श्री/ इति दक्षकर्णे, ह्री/ इति वामकर्णे, क्ली/ इति नाभौ, ए/ इति वक्षसि, ई/ इति दक्षिणभुजे, क्रो/ इति वामभुजे इति हरतत्त्वदीधितिः | (सामान्यार्घ्यक्रमः) अस्त्रेण पात्रं प्रक्षाल्य हृन्मन्त्रेण प्रपूरयेत् | निक्षिपेत्तीर्थमावाह्य गन्धादीन् प्रणवेन तु || २६ || दर्शयेद्धेनुमुद्रां वै सामान्यार्घ्यमिदं स्मृतम् | (द्वारपूजायाः कर्तव्यता) स्वकल्पोक्तविधानेन द्वारपूजां समाचरेत् || २७ || (गोरोर्यागमण्डपप्रवेशः) किञ्चित् स्पृशन् वामशाखां देहलीं लङ्घयेद् गुरुः | अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा || २८ || (पूजा) नैर्-ऋत्यां दिशि वास्त्वीशान् ब्रह्माणञ्च प्रपूजयेत् | (मण्डपप्रोक्षणम्) पञ्चगव्यार्घ्यतोयाभ्यां प्रोक्षयेद् यागमण्डपम् || २९ || (पञ्चगव्यपरिमाणम्) मूत्रं प्रस्थं गोमयं स्यात् क्षीरतोऽप्यर्द्धमेव वा | ---------------------------------------------- २६ | अस्त्रेण फट् इत्यनेन | हृन्मन्त्रेण नमः इत्यनेन | २७-२८ | द्वारपूजा मूलदेवतपूजाक्रमे वक्ष्यते | किञ्चिदिति | मण्डपद्वारस्य वामशाखां किञ्चित् स्पृशन् | ततो दक्षिणशाखायां विघ्नं क्षेत्रेशमन्ततः | इति शारदातिलकपञ्चमपटलवचनेन दक्षिणशाखायां सामान्यतो विघ्नेशक्षेत्र- आज्यं दध्नोऽप्यर्द्धमानं प्रमाणं तत् प्रकीर्तितम् | स्वैः स्वैर्मन्त्रैश्च मन्त्रज्ञो योजयेत् पञ्चगव्यकम् || ३० || ---------------------------------------------- पालपूजनाभिधानात् तत्स्पर्शपरिहाराय वामशाखास्पर्शपूर्वकगमनमुपदिश्यते | देहलीलङ्घनमपि तथैव � देहल्यामर्चयेदस्त्रं प्रतिद्वारमितिक्रमात् |
130 SK इति शारदावचनात् | अत एव राघवभट्टेनापि किञ्चित् स्पृशन्नित्यादिशारदावचनव्याख्याने अतः स्पृशन्नित्यादित्रयं दृष्टार्थं देहल्यामपि देवस्य पूजितत्वादित्युक्तम् | अङ्गमिति | वामाङ्गसङ्कोचयन्नित्यर्थः | अङ्गसङ्कोचनन्तु निःसरतां विघ्नानामवकाशदानार्थम् | उत्सार्तितानां विघानां ददद् वर्त्म तु वामतः | तथा- निर्गच्छतां विघ्नकृतामथैषां वामाङ्गसङ्कोचनचेष्टितेन | प्रदाय मार्गम् ... ... ... ... ... || इत्यादिराघवभट्टधृतवचनेन तथाभिधानात् | दक्षिणाङ्घ्रिणेति | दक्षिणपादं पुरस्कृत्य यागमण्डपं प्रविशेदित्यर्थः | तन्त्रसारादावप्येवमेव | यत्तु हरतत्त्वदीधितिकृता � किञ्चित् स्पृशन् वामशाखां वामपादपुरःसरम् | स्मरन् देव्याः पदाम्भोजं मण्डपं प्रविशेत् सुधीः || इति तन्त्रान्तरवचनम्, वामपादं पुरस्कृत्य प्रविशेद् यागमण्डपम् | इति शिवार्चनचन्द्रिकाधृतत्रिपुरार्णववचनम्, दक्षपादं पुरस्कृत्य प्रविशेद्देवमन्दिरम् | शाक्तस्तु वामपादम् ... ... ... ... || इति मेरुतन्त्रपञ्चमप्रकाशवचनञ्च स्वमतसमर्थनानुकूलमुल्लिख्य पुंदेवतामन्दिरप्रवेशे दक्षपादपुरःसरत्वं शक्तिमन्दिरप्रवेशे वामपादपुरःसरत्वञ्चोपपाद्य, यत्तु तन्त्रसारकारेण दक्षपादपुरःसरं वामशाखां स्पृशन् दक्षिणा�न्गं सङ्कोचयन् मण्डपान्तः (प्रस्थस्वरूपम्) चतुःपलः स्यात् कुडवस्तच्चतुःप्रस्थ उच्यते | (मण्डपशोधनम्) चतुःपथान्तां तच्छुद्धिं विदध्याद्वीक्षणादिभिः || ३१ || वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं मतम् | तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं मतम् || ३२ || ---------------------------------------------- प्रविश्येति सामान्येनिक्तं तदेतद्वचनमनालोच्यैवेत्यादिना तन्त्रसारकारशिरसि दण्डं पातयितुमुद्युक्तम्, तदपि गन्धर्वतन्त्रवचनमनालोच्यैवेति प्रतिमः | अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङघ्रिणा | यागमन्दिरगांस्तत्र विघ्नानुत्सारयेत्ततः ||
131 SK इति गन्धर्वतन्त्रसप्तमपटलवचनेन शक्तिविषये दक्षिणपादपुरःसरमण्डपान्तः प्रवेशस्याप्यभिधानात् | न च तर्हि प्रागुक्ततन्त्रान्तरादिवचनानां विरोध इति वाच्यम्, गन्धर्वतन्त्रस्य श्रीविद्यामात्रप्रतिपादकतया श्रीविद्येतरशक्तिविषये तन्त्रान्तरादिवचनानां चरितार्थत्वात् | एवञ्च श्रीविद्येतरशक्तिमण्डपप्रवेशो वामपादपुरःसरः, श्रीविद्यायान्तु दक्षपादपुरःसर एव मण्डपप्रवेशो विहित इति स्थितम् | अत एव तत्रभवता पूर्णानन्देन प्रविशेद्दक्षिणाङ्घ्रिणेत्युक्तम् | यत्तु तन्त्रसारकारेण दक्षपादपुरःसरमित्युक्तं तत् प्रागुक्तगन्धर्वतन्त्रवचनस्याविशेषेण शक्तिमात्रपरत्वमभिप्रेत्य स्त्रीपुरुषदेवतासाधारण्येन | न तु तेन स्त्रीदेवतामण्डपे वामपादपुरःसरः प्रवेशः क्वापि प्रतिषिद्धः | शक्तिमण्डपप्रवेशे क्वचिद् वामपादपुरःसरत्वस्य क्वचन वा दक्षपादपुरःसरत्वस्य दर्शनाद् दक्षपादस्य स्त्रीपुरुषदेवतासाधारण्यात् तन्त्रसारस्य च स्त्रीपुरुषसाधारणदेवताप्रतिपादकत्वात् तत्र दक्षपादपुरःसरत्वं सामान्येनाभिहितमिति संक्षेपः | ३१ | मण्डपशोधनमाह � चतुःपथान्तामिति | अत्र चतुःपथशब्देन चतुर्दिक्षु मण्डपाद् बहिस्तोरणस्तम्भपर्यन्तो हस्तमात्रपरिमितः प्रदेश उच्यते | तथाच वीक्षणादिभिर्वक्ष्यमाणैश्चतुःपथान्तां तच्छुद्धिं मण्डपशुद्धिं कुर्यादित्यर्थः | ३२ | वीक्षणमिति | मूलमन्त्रेण देयमन्त्रेण | शरेण अस्त्रमन्त्रेण फट् इत्यनेनेत्यर्थः | वर्मणा कवचेन हु/ इत्यनेन | चन्दनागुरुकर्पूरैर्धैपदन्तरं सुधीः | विकिरान् विकिरेत्तत्र सप्तजप्ताञ्छराणुना || ३३ || (विकिरलक्षणम्) लाज-चन्दन-सिद्धर्थभस्मदूर्वाक्षतः कुशाः | विकिरा इति निर्दिष्टाः सर्वविघ्नौघनाशनाः || ३४ || (मार्जनम्) अस्त्रजप्तेन दर्भाणां मुष्टिना मार्जयेच्च तान् | (गुरुपूजादि) गुरुपूजादिकं कार्यं सम्प्रदायविधानतः || ३५ || (पुण्याहवाचनादि) पुण्याहं वाचयित्वा तु ब्राह्मणान् परितोष्य च | (चक्रराजनिर्माणम्)
132 SK सिन्दूररजसा वापि कुङ्कमेनाथवा ततः || ३६ || वेदिकायां लिखेन्मन्त्री चक्रराजं मनोहरम् || ३७ || षट्कोणं विलिखेदादौ त्रिकोणं मध्यदेशतः | वृत्तं वसुदलञ्चैव द्वादशारं वसुद्वयम् || ३८ || ---------------------------------------------- ३३ | शराणुना फट् इत्यस्त्रमन्त्रेण सतधा जप्तानित्यर्थः | ३६ | दीक्षायां पूजार्थं चक्रे व्याख्येये प्रथमं चक्रनिर्माणोपकरणद्रव्यमाह � सिन्दूरेति | वेदिकायामिति मण्डपान्तर्वेदिकोपरि | ३८ | चक्रराजनिर्माणमाह - षडिति प्रथमं षट्कोणं तदन्तस्त्रिकोणम्, षट्कोणात् बहिर्वृत्तम् ततोऽष्टदलपद्मम्, ततो वृत्तं द्वादशदलपद्मञ्च, ततो वृत्तं षोडशदल- द्विर्दशारं समालिख्य ततोऽष्तदलमालिखेत् | चतुरस्रं लिखेद्बाह्ये चतुर्द्वारसमन्वितम् || ३९ || (तत्र प्रकारान्तरम्) अथवा नवकोणन्तु चतुरस्रयुतं लिखेत् || ४० || (पूजाद्रव्यस्थापनम्) बद्धपद्मासनो मन्त्री देवतापूजने रतः | स्थापयेद्दक्षिणे भागे पूजाद्रव्यं मनोहरम् || ४१ || सुवासिताम्बुसंपूर्णं सव्ये कुम्भं सुशोभनम् | प्रक्षालनाय करयोः पात्रं पश्चान्निवेशयेत् || ४२ || घृतप्रज्वालितान् दीपान् स्थापयेत् परितः शुभान् | दर्पणं चामरं छत्रं तालवृन्तं मनोहरम् | मङ्गलाङ्कुरपात्राणि स्थापयेद्दिक्षु देशिकः || ४३ || ---------------------------------------------- पद्मञ्च, तद्बहिर्वृत्तं विंशतिदलपद्मञ्च, तद्बहिर्वृत्तमष्टदलपद्मञ्च, तदहिश्चतुर्द्वारसमन्वितं चतुरस्रमिति | अत्र वृत्तत् परं दलनिर्माणनियमनात् प्रतिदलमूले सीमासम्पादनार्थमेकैकं वृत्तं कर्तव्यमित्यवधेयम् | ४० | प्रागुक्तचर्ककरणाशक्तु क्रमान्तरमाह � अथवेति | कल्पेऽस्मिन् प्रथमं नवकोणं ततश्चतुरस्रं तदपि द्वारसहितमेव कार्यं चतुरस्रस्य भूगृहरूपतया तस्य सद्वारकत्वौचित्यात् प्रागुक्तचक्रराजे तथा दर्शनाच्च | ४१-४३ | बद्धपद्मासन इति | पद्मासनमाह राघवभट्टधृततन्त्रान्तरे �
133 SK सव्यं पादमुपादाय दक्षिणोपरि विन्यसेत् | तथैव दक्षिणं सव्यस्योपरिष्टान्निधापयेत् || विष्टभ्य कट्योः पार्ष्णी तु नासाग्रन्यस्तलोचनः | पद्मासनं भवेदेतत् सर्वेषामपि पूजितम् || (शिष्यस्यानयनमुपवेशनञ्च) ततः शिष्यं समानीय दक्षिणे सन्निवेशयेत् | नानालङ्कारसंश्लिष्टं धौतवस्त्रयुगान्वितम् || ४४ || (तिल-काञ्चनोत्सर्गः) तत आचमनं कृत्वा शिष्योऽपि विजितेन्द्रियः | आजन्मकृतपापार्थमुत्सृजेत्तिलकाञ्चनम् || ४५ || (स्वस्तिवाचनादिपूर्वकगुरुवरणम्) उपविश्यगुरोर्वामे सङ्कल्प्यस्वस्तिपूर्वकम् | गुरुञ्च वरयेद् विद्वान् विधिवद् भक्तिसंयुतः || ४६ || (गुरोरर्चनम्) गोभूहिरण्यवस्त्राद्यैः कुण्डलादिभिरुज्ज्वलैः | अन्यैराभरणैश्चैव तथा वित्तमवञ्चयन् || ४७ || गुरुं संपूजयेद् भक्त्या कृताञ्जलिपुरःसरम् | गुरुं प्रदक्षिणीकृत्य स्वात्मानञ्च समर्पयेत् || ४८ || (गुरोः पुरतः प्रार्थनम्) अथातो भगवन् परमात्मस्वरूप परमकारुणिक गुरो सकलपुरुषार्थसाधनविद्यादीक्षाभिषेकपूर्वकं मां प्रसाधय | ---------------------------------------------- इति | पूजाद्रव्यं पुष्पादिकम् | अर्घ्यपात्राचमनीयादिकन्तु वामत एव स्थापनीयम् | दीपदर्पणचामरादिकन्तु यथेच्छं दिक्षु स्थापयेदित्यर्थः | मङ्गलाङ्कुरपात्राणि प्रागङ्कुरार्पणे विनियुक्तानि | ४६ | उपविश्येति | प्रथमं गुरोर्दक्षिणे उपविश्य तिलकाञ्चनमुत्सृज्य तत उत्थाय वामे समुपविश्य स्वस्तिवाचनादिकं कुर्यादित्यर्थः | इत्युक्त्वा सुचिरं तिष्ठेद् विनयी दक्षिणे गुरोः | (गायत्रीजपस्तत्संख्या च) सहस्रं प्रजपेच्छिष्यो गायत्रीं देवनाम वा || ४९ || (भूतशुद्ध्याद्यनुष्ठानम्) भूतशुद्ध्यादिकं कृत्वा कल्पोक्तन्यासमाचरेत् | (मन्त्रसंस्कारः) अथवा पूर्वमार्गेण संस्कुर्यान्मन्त्रमुत्तमम् || ५० || (पीठन्यासः) पीठन्यासं ततः कुर्यात् स्वदेहे साधकोत्तमः || ५१ || धर्मं ज्ञानञ्च वैराग्यमैश्वर्यञ्च क्रमेण तु | प्रादक्षिण्येन चांसोरुयुगयोरथ विन्यसेत् || ५२ ||
134 SK ---------------------------------------------- ४९ | गायत्रीं देवनाम वेत्यधिकारिभेदेन | द्विजो गायत्रीं जपेत् स्त्रीशूद्रादयस्तु तत्रानधिकारादुपास्यदेवनाम जेपेयुरित्यर्थः | अथवा देवनाम वेत्यनेन द्विजो गायत्रीं जपेत् तत्रासामर्थ्ये स्वोपास्यदेवनाम जपेदित्युक्तम् | ५० | कल्पेति | अत्र भूतशुद्धि-त्रिपुराकल्पोक्तन्यासादिकन्तु पूजाक्रमे वक्ष्यते | अथवेति | अथ पूर्वमार्गेण द्वितीयप्रकाशोक्तक्रमेण मन्त्रं संस्कुर्यात् देयमन्त्रस्य जननजीवनादिरूपसंस्कारं विदधीतेत्यर्थः | यत्र दीक्षापूर्वदिने मन्त्रसंस्कारो न विहितस्तत्रैवायं मन्त्रसंस्कारविधिः | न तु पूर्वं कृतेऽपि मन्त्रसंस्कारे पुनर्मन्त्रसंस्कारापेक्षा | अत एव B-पुस्तकपादटिपन्यां � यदि दीक्षादिनात् प्राङ्मन्त्रसंस्कारो न कृतस्तदास्मिन् समये कुर्यादिति वाशब्द इत्युक्तम् | ५१-५२ | पीठन्यासमिति | अनेन स्वकल्पोक्तपीठन्यासं विधाय वक्ष्यमाणान् धर्मादीन् न्यसेत् इत्यवधेयम् | स्फुटमुक्तं राघवभट्टेन � मुखपार्श्वनाभिपार्श्वेष्वधर्मादीन् क्रमेण तु | धर्मादयः स्मृताः पादाः पीठगात्राणि चापरे || ५३ || अनन्तं हृदयाम्भोजे पद्मं सूर्येन्दुपावकान् | एषां स्वस्वकला न्यस्य स्वमन्त्राक्षरपूर्विकाः || ५४ || सत्त्वादींस्त्रिगुणान् न्यस्य तथैवात्र गुरूत्तमः | आत्मान्तरात्म-परमज्ञानात्मनः प्रविन्यसेत् || ५५ || (देहमयपीठे इष्टदेवताचिन्तनम्) पीठमन्त्रं प्रविन्यस्य चिन्तयेदिष्टदेवताम् | (मुद्राप्रदर्शनमर्घ्यादिस्थापनञ्च) मुद्रां प्रदर्श्य विधिवदर्घ्यस्थापनमारभेत् || ५६ || ---------------------------------------------- कल्पयेदात्मनो देहे पीठं धर्मादिभिः क्रमात् |
135 SK इति शारदातिलकचतुर्थपटलवचनव्याख्याने मण्डूकाय नमः इत्याधारे, कालाग्निरुद्राय नमः इति स्वाधिष्थाने, कूर्माय नमः इति नाभौ, ततो हृदि आधारशक्त्यादिन्यासं कृत्वा पश्चाद्धर्मादिन्यास इत्यनेन ग्रन्थेन | प्रादक्षिण्येनेति | तथाच दक्षस्कन्धे धर्मम्, वामस्कन्धे ज्ञानम्, वामोरौ वैराग्यम्, दक्षीरौ अवैराग्यं न्यसेदित्यर्थः | मुखेति | तथाच मुखे अधर्मम्, वामपार्श्वे अज्ञानम्, नाभौ अवैराग्यम्, दक्षपार्श्वे अनैश्वर्यं न्यसेत् | धर्मादय इति | धर्मादयश्चत्वारः पीठस्य पादाः अपरेऽधर्मादयश्चत्वारः पीठगात्राणि इति सम्बन्धः | ५६ | पीठमन्त्रमिति | पीठमन्त्रं प्रविन्यस्य स्वदेह इति शेषः | देहे पीठकल्पनमेतन्मानसयागार्थम् | एतदभिप्रायेणैव शारदायां चतुर्थपटले पीठन्यासनिरूपणानन्तरम् � एवं देहमये पीठे चिन्तयेदिष्टदेवताम् | इत्युक्तम् | सामान्यार्घ्यं स्ववामे तु विशेषार्घ्यं स्वसंमुखे | अर्घ्यस्योत्तरतः कार्यं पाद्यमाचमनं मधु || ५७ || (देव्या अष्टाङ्गार्घ्यम्) कुशाग्राण्यक्षतञ्चैव यवव्रीहितिलानपि | आज्यसिद्धार्थपुष्पैश्च देव्यर्घ्यमपरं तथा || ५८ || (सर्वदेवसाधारणमष्टाङ्गार्घ्यम्) पुष्पगन्धाक्षतयवकुशाग्रतिलसर्षपैः | सदूर्वैः सर्वदेवानामेतदर्घ्यमुदीरितम् || ५९ || (पाद्यम्) उशीरं चन्दनञ्चैव पयः पाद्ये परं तथा | पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम् || ६० || (आचमनीयम्) जातीकरुपूरकक्कोलमन्दुमूलतमालकान् | चूर्णयित्वा क्षिपेदाचमनीये त्वपरं यथा || ६१ || जातीलवङ्गकक्कोलजलैराचमनीयकम् || ६२ || (मधुपर्कः) माक्षिकं शर्करासर्पिर्दधिक्षीराक्षतं तथा | अथवा माक्षिकं सर्पिर्जलं दधियुतं मधु | मधुपर्कं कल्पयित्वा प्रदद्याद् विधिपूर्वकम् || ६३ || ---------------------------------------------- ५७ | सामान्यार्घ्यमिति | एतद्द्वारपूजायामुक्तमेव | ५८ | कुशाग्राणीति | अर्घ्यस्थापने विशेषस्त्वष्टादशपटले स्वयमेव वक्ष्यते |
136 SK सर्वतः क्षद्रमधिकं मधु सर्पिः सिता समम् | जलन्तु सर्वतः स्वल्पं मधुपर्क उदाहृतः || ६४ || (पुनराचमनीयम्) पुनराचमनीयन्तु केवलेन जलेन च | (उपचारदाने पात्रनियमः) एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् || ६५ || (गन्धः) घृष्टो मलयजो गन्धः शवलश्च नमेरुणा | अगुरुप्रभृतिश्चापि तथा मृगमदेन तु || ६६ || ---------------------------------------------- ६५ | एकस्मिन्निति | अत्र पूर्वं पात्रभेदस्यानुक्तेरथवेति कल्पान्तरबोधकपदं कथमुपपन्नमिति चेदुच्यते, सम्मोहनतन्त्रे पञ्चमपटले � अर्घ्यपाद्यप्रदानार्थं मधुपर्कार्थमप्यथ | तथैवाचमनार्थञ्च न्यस्येत् पात्रचतुष्टयम् || इत्यनेन प्रत्येकमेकैकपात्रविधानमुक्तं तदशक्तौ एकस्मिन्नेव पात्रे सर्वे उपचाराः कल्पनीयाः, तथाच राघवभट्टधृतवचनम् � एकस्मिन्नथवा पात्रे पाद्यार्घ्यादीनि कल्पयेत् | इति | श्रीमत्पूर्णानन्देनापि प्रागुक्तसम्मोहनतन्त्रोक्तक्रमं मनसिकृत्य तमपेक्ष्यैव अथवेत्युक्तम् | एवञ्च शक्तौ विभिन्नान्युपचारपात्राणि कल्पनीयानि | अशक्तावेकस्मिन्नेव सर्वे उपचारा देयाः | यत्तु � सम्भवे त्रीणि पात्राणि चान्यथा द्वे सकृच्चरेत् | पाद्यादिषु महेशानि नैकपात्रं कदाचन || इति श्यामार्चनचन्द्रिकाधृतस्वतन्त्रतन्त्रवचनेनैकपात्र-निषेधः ससजातीयपात्रपरः � पाद्यपात्रमर्घ्यपातं तथाचमनपूर्वकम् | ताम्रं शङ्खं कांस्यपात्रं क्रमेण विनिवेदयेत् || इति महानीलतन्त्रदशमपटलवचनेन पाद्यादौ पात्रभेदाभ्युपगमात् | कुङ्कुमागुरुकस्तूरी-चन्द्रभागैः समाहृतः | त्रिपुराप्रीतिदो गन्धस्तथा न चान्यवस्तुना || ६७ || (स्वदेहे पीठपूजा) न्यासक्रमेण देहेषु धर्मादीन् पूजयेत्ततः | पुष्पादैः पीठमन्वन्तं तस्मिंश्च परदेवताम् || ६८ || (पञ्चपुष्पाञ्जलिदानम्) पञ्चकृत्वः पुनर्दद्यात् पुष्पाञ्जलिमनन्यधीः | उत्तमाङ्गहृदाधारपादसर्वाङ्गके क्रमात् || ६९ || (मण्डलपूजा मण्डले पीठपूजा च) पूर्वोक्तमण्डलं मन्त्री गन्धाद्यैः परिपूजयेत् || ७० ||
137 SK कूर्चमक्षतसंयुक्तं दर्भानास्तीर्य तत्र वै | पीठपूजां तत्र कुर्यात् स्वकल्पोक्तक्रमेण तु || ७१ || (कूर्चलक्सणम्) सप्तविंशतिदर्भाणां वेण्या ग्रन्थिविभूषितम् | वेष्टयेत् सर्वयज्ञेषु तत् कूर्चं परिकीर्तितम् || ७२ || (यन्त्रे देवतापूजाक्रमः तत्र मध्ये त्रिपुरार्चनम्) यन्त्रमध्ये यजेदादौ त्रिपुरां कुलभूषणाम् | (षट्कोणे पूजनस्य क्रमः) षट्कोणे च षडङ्गानि (तदन्तस्त्रिकोणे) त्रिकोणे पूजयेत्ततः || ७३ || ---------------------------------------------- ७३-७४ | अथेदानीं प्रागुक्तचक्रराजे देवतपूजामवतारयति यन्त्रेति | यन्त्र- रतिं सम्मुखकोणे च प्रीतिमुत्तरकोणके | मनोभवां दक्षकोणे (षट्कोणाद् बहिरष्टदले -) मातॄरष्टदले ततः || ७४ || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी चामुण्डा तदनन्तरम् | महालक्ष्मीः क्रमादेताः पूजयेत् साधकोत्तमः || ७५ || (तद्बहिर्द्वादशदले-) द्वादशारे तथा वामां ज्येष्ठां रौद्रीं तथैव च | अम्बिकेच्छे तथा ज्ञानां क्रियाञ्च कुब्जिकामथ || ७६ || विचित्राञ्च ततो मन्त्री विषघ्निकाञ्च भूचरीम् | आनन्दाञ्च क्रमेणैव (तद्बहिः षोडशदले-) कलापत्ने यजेदथ || ७७ || नित्या निरञ्जना क्लिन्ना क्लेदिनी मदनातुरा | मदद्रावा द्राविणी च रुचिरा रागवत्यथ || ७८ || ---------------------------------------------- मध्य इति त्रिकोणमध्ये मूलदेवतां त्रिपुरामादौ पूजयेत् | ततस्त्रिपुरापूनानन्तरं षट्कोणे क्रमेण मूलदेवताषडङ्गानि पूजयेत् | ततः षट्कोणाभ्यन्तरीणत्रिकोणे क्रमेण रतिं प्रीतिं मनोभवाञ्च पूजयेत् | तत्र च त्रिकोणस्य सम्मुखकोणे रतिमुत्तरकोणे प्रीतिं दक्षकोणे च मनोभवामित्याह सम्मुखेत्यादिना | मातॄरिति | वृत्तोर्द्ध्वाष्टदले पूर्वादिक्रमेण वक्ष्यमाणा मातॄ पूजयेदित्यर्थः | ७५ | मातरष्टौ निर्दिशति � ब्राह्मीत्यादिना | ७६-७९ | एवमष्टदलप्रक्रियामभिधाय द्वादशदले पूर्वादिक्रमेण पूज्या देवता निर्दिशति-द्वादशार इत्यादिना आनन्दाञ्च क्रमेणैवेत्यन्तेन |
138 SK कामेश्वरी तथा कामदीपनी वामकेश्वरी | ललिता क्षोभणी क्षुद्रा स्वच्छन्दललिता क्रमा || ७९ || (तद्बहिर्विंशतिदले) ततो विंशतिपत्रेषु पूर्वादिक्रमतो यजेत् | मायावती महाक्षी च ततः सर्ववशङ्करी || ८० || झङ्कारा त्वीशभावा च कमला कमलेश्वरी | नीलग्रीवा विशालाक्षी भेरुण्डा डामरेश्वरी || ८१ || समया समयेशानी नित्यानन्दा महोदरी | सर्वसौभाग्यदाऽनन्दा चन्द्रिका चन्द्रशेखरा || ८२ || सर्वेश्वरी च संपूज्याः (तद्बहिरष्टदले-) पीठानि वसुपत्रके | (पीठाष्टकम्) कामरूपञ्च मलयं कोलगिरिं कुलान्तकम् || ८३ || चौहारञ्च ततो मन्त्री जालन्धरमतः परम् | उड्डीयानं देविकोट्टं पीठाष्टकमिदं स्मृतम् || ८४ || ---------------------------------------------- अथ षोडशारे नित्यादीनां षोडशानां पूजनमाह � कलापत्रे इत्यादिना क्रमादित्यन्तेन | कलापत्रे षोडशपत्रेषु | ८०-८४ | अथ षोडशदलाद् वहिर्विंशतिदलेषु पूर्वादिक्रमेण मायावत्यादीनां विंशतिदेवतानां पूजनमुपदिशति-मायावतीत्यादिना सर्वेश्वरी च संपूज्या इत्यन्तेन | पीठानीति | विंशतिदलाद् बहिरष्टदले पूर्वादिक्रमेण कामरूपादिपीठाष्टकं पूजयेत् | पीठाष्टकं निरूपयति � कामरूपञ्चेत्यादिना | (विंशतिदलाद् बहिर्भूगृहे-) भूगृहे त्रिपुरेशानीं पूजयेत् साधकोत्तमः || ८५ || (यन्त्रान्तरं तत्रार्चनव्यवस्था च) शेषमण्डलपक्षे तु षडङ्गमग्नितो यजेत् | रत्यादिकं त्रिकोणेषु मध्ये सर्वं प्रपूजयेत् | पीठाष्टकं भूमिगृहे त्रिपुरेशीञ्च मध्यमे || ८६ || (स्थापनीयकलसलक्षणम्) सौवर्णं राजतं ताम्रं मृत्तिकारचितञ्च यत् | कलसं क्षालयेन्मन्त्री शरमन्त्रपुरःसरम् | चन्दनागुरुकर्पूरधूपेन धूपितं शुभम् || ८७ || ---------------------------------------------- ८५ | अष्टदलाद् बहिर्भूगृहे त्रिपुरेश्वरीपूजनमाह � भूगृह इति |
139 SK ८६ | पूर्वं षट्कोणं विलिखेदादौ इत्यादिन यन्मण्डलमुक्तं तत्र पूजायाः क्रममभिधाय, अथवा नवकोणन्तु इत्युक्तनवकोणात्मकमण्डले पूजायाः क्रममुपदिशतिशेषेत्यादिना | अग्नितः अग्निकोणादारभ्य मूलदेवताषडङ्गानि यजेदित्यर्थः | तदाभ्यन्तरत्रिकोणे स्वसम्मुखदक्षोत्तरकोणेषु क्रमेण रत्यादिकं रतिं प्रीतिं मनोभवाञ्च पूजयेत् | मध्ये सर्वमिति ब्राह्म्याद्यष्टमातृतः सर्वेश्वर्यन्तं प्रागुक्तम् | भूमिगृह इति षट्कोणाद् बहिर्भूमिगृहे, पीठाष्टकं प्रागुक्तम् | मध्यम इति त्रिकोणमध्ये त्रिपुरेशीं यजेदित्यर्थः | ८७ | सौवर्णमिति | अत्र पूर्वपूर्वासम्भवे तदुत्तरोत्तरपरिग्रहः | शरमन्त्रपुरःसरं फट् इत्युच्चारणपूर्वकम् | अत्र शिवमन्त्रेति पाठः प्रामादिकः शारदायां चतुर्थपटले � हेमादिरचितं कुम्भमस्त्राद्भिः क्षालितान्तरम् | इत्यनेनास्त्रमन्त्रेणैव क्षालनाभिधानात् | शुभं शोभनाकृतिम् | पञ्चदशाङ्गुलव्यास उत्सेधः षोडशाङ्गुलः | कलसानां प्रमाणन्तु मुखमष्टाङ्गुलं भवेत् || ८८ || (सूत्रवेष्टनम्) कन्याकर्तितसूत्रेण कलसं परिवेष्टयेत् | गुणत्रयात्मकेनैव वेष्टयेदभितः समम् || ८९ || वारत्रयं वेष्टयित्वा केनापीत्यभिधीयते || ९० || (कलसस्थापनम्) अर्चितं गन्धपुष्पादयिः कूर्चाक्षतसमन्वितम् | स्वर्णरत्नोदरं मध्ये स्थापयेत्तारमुच्चरन् || ९१ || साधारंकलसं मन्त्री पीठबुद्ध्या ततः परम् | ऐक्यं सम्भावयेन्मन्त्री पीठकलसयोरपि || ९२ || (नवरत्नप्रमाणम्) मुक्तावैदूर्यमाणिक्यगोमेदवज्रविद्रुमाः | पद्मरागं मरकतं नीलरत्नं नवेति च || ९३ || ---------------------------------------------- ८७-९० | कन्या अजातोपयमा बालिका | गुणत्रयात्मकेनेति त्रिगुणीकृत्यैकधा वेष्टनम् | वारत्रयमिति कल्पे एकेनैव गुणेन वारत्रयं वेष्टयित्वा त्रिगुणीकरणम् |
140 SK ९१ | कूर्चाक्षतेति | कूर्चमिदं पारिभाषिकं प्रागुक्तम् | स्वर्णरत्नोदरं साधारकलसं पीठबुद्ध्या मध्ये प्रागुक्तयन्त्रमध्ये स्थापयेदिति सम्बन्धः | स्वर्णरत्नोदरमिति अत्र रत्नशब्देन नवरत्नान्युच्यन्ते, नवरत्नोदरं मन्त्री स्थापयेत्तरमुच्चरन् | इति शारदातिलकचतुर्थपटलसंवादात् | ९२ | कलसे देवीपीठत्वसम्भावनमन्तरेण तत्र देव्याः स्थितेरयोगादित्यर्थः | (कलसापूरणम्) क्षीरिवृक्षकषायेण पाशत्वग्भवेन च | विशेषैरुदकैर्वापि कर्पूरगन्धवासितैः || ९४ || पूरयेत् कलसं मन्त्री मातृकां प्रतिलोमतः | जपन्मूलमनुं तदवत् साधको देवताधिया || ९५ || (कलसे श्रीचक्रनिक्षेपः) श्रीमत्त्रिपुरसुन्दर्याश्चक्रं तत्र विनिक्षिपेत् || ९६ || (अत्र षोडशकामकलापूजा) श्रद्धा प्रीती रतिश्चैव भूतिः कान्तिर्मनोभवा | विमला मोदिनी घोरा मदनोत्पादिनी मदा || ९७ || ---------------------------------------------- ९४ | क्षीरिवृक्षकषायेणेति | अत्र अश्वत्थोडुम्बरप्लक्षवटत्वक्कषायेणेत्यर्थः | आयुर्वेदोक्तरीत्या चतुर्थांशावशेषः कषायो ग्राह्य इति राघवभट्टः | इह पलाशत्वग्भवेन चेति चकारात् क्षीरिद्रुमचतुष्टयपलाशत्वग्भवकषायैः समुदितैः पूरणमिति प्रतीयते | क्षीरद्रुमकषायेण पलाशत्वग्भवेन वा | इति शारदातिलकचतुर्थपटलवचने तु वाशब्देन क्षीरद्रुमकषायालाभे पालाशकषायेणापूरणमुपदिष्टम् | तन्त्रसारकृतापि क्षीरिद्रुमकषायेण पलाशत्वग्भवेन वा तीर्थोदकैर्वा गन्धपुष्पसुवासितजलैर्वेत्युक्तम्, एवञ्च प्रामाणिकशारदातिलकतन्त्रसारयोः कल्पान्तरबोधकवाशब्ददर्शनादत्र चकारो वार्थे इत्यवधेयम् | विशेषैरुदकैस्तीर्थोदकैः | तदुक्तं शारदायां चतुर्थपटले � तीर्थोदकैर्वा कर्पूरगन्धपुष्पसुवासितैः || इति | मातृकां प्रतिलोमत इति, विलोममातृकां जपन् तद्वदिति मूलमन्त्रञ्च जपन् इत्यर्थः |
141 SK ९६-९८ | श्रीमत्रिपुरसुन्दरीचक्रन्तु सप्तदशपटले वक्ष्यते | तत्र षोडशमदनकलापूजनमुपदिशति-श्रद्धेत्यादिना साधक इत्यन्तेन | षोडशस्वरसंयुक्ता एताः श्रद्धादयो मोहनी दीपनी चैव शोधनी चैव शाङ्करी | रञ्जनी चैव मदनकला एताः प्रपूजयेत् | षोडशस्वरसंयुक्ता गन्धपुष्पेण साधकः || ९८ || वह्निसूर्यविधूनान्तु तन्मन्त्रैः पूजयेत् कलाः | प्रणवस्य कलाः पञ्च पञ्चाशद्वर्णभेदतः || ९९ || कलात्मकं शङ्खतोयं कुम्भे किञ्चिद्विनिक्षिपेत् || १०० || (कलसे पल्लवादिनिवेशनप्रक्रिया) तथाऽम्रपनसाश्वत्थवटोदुम्बरपल्लवैः | किन्नाशपनसाश्वत्थचूतपल्लवकोमलैः | इन्द्रवल्लीसमाबद्धैः सुरद्रुमधिया गुरुः || १०१ || कुम्भवक्त्रं पिधायास्मिंश्चषकं सफलीकृतम् | संस्थापयेत् फलधिया विधिवत् कल्पशाखिनाम् || १०२ || ततः शुद्धदुकूलाभ्यां कलसं वेष्टयेत् सुध्हिः | दध्यक्षतं गन्धपुष्पं सिन्दूरं बाह्यतः क्षिपेत् || १०३ || (कोणकलसस्थापनम्) वेदिकायाश्चतुष्कोणे शालितण्डुलकोपरि | जलपल्लवसंयुक्तं चतुःकुम्भं विनिर्दिशेत् || १०४ || (द्वितीयमण्डलकल्पे कलसस्थापने विशेषः) शेषमण्डलपक्षे तु नवकुम्भं सुशोभनम् | स्वर्णरत्नादिसंयुक्तं नवयोनौ विनिक्षिपेत् || १०५ || ---------------------------------------------- मदनकलाः पूजयेदित्यर्थः | तथाच � अं श्रद्धायै नमः | आं प्रीत्यै नमः | इं रत्यै नमः इति पूजाक्रमः पर्यवस्यति | १०१-१०२ | तथेति | अत्र पल्लवैः कोमलैरिति पृथङ्ग्निर्देशात् तथेत्यादिना किन्नाशेत्यादिना च कल्पद्वयमुक्तमित्यवधेयम् | इन्द्रबली इन्द्रवारुणीलताविशेषः | चषकं कलससजातीयं शरावादि | (मूलशक्तिपूजनम्) अथ कल्पोक्तमासाद्य पूजयेत् साधकोत्तमः | आवाह्यास्मिन् कल्पतरोच्छायायां परमेश्वरीम् || १०६ || षोडशाद्युपचारैश्च नानाद्रव्यैर्मनोहरैः | परिवारसमेताञ्च नैवेद्यादीन् पृथक् पृथक् || १०७ || (नवकुम्भस्थापनकल्पे विशेषः)
142 SK नवकुम्भप्रकारे तु वशिन्याद्यष्टकं पुनः | पाद्यादिभिस्तु मन्त्रज्ञो वसुकुम्भे प्रपूजयेत् || १०८ || (होमः) ततः स्वदक्षिणे मन्त्री कुण्डं विरचयेत् सुधीः | हस्तमानं स्थण्डिलं वा रचयेद् विधिपूर्वकम् || १०९ || विधिवदग्निमारोप्य तत्र देवीं प्रपूजयेत् | तिलाज्यैर्जुहुयान्मन्त्री शतमष्टोत्तरं क्रमात् || ११० || (शिष्यानयनम्) ततो होमसमीपे तु शिष्यं समानयेद् बुधः || १११ || (शिष्यदेहे षडध्वचिन्तनम्) विलोक्य दिव्यदृष्ट्या तं षडध्वनोऽत्र चिन्तयेत् | पादान्धुनाभिहृद्भालमस्तकेषु क्रमात् सुधीः || ११२ || ---------------------------------------------- ११२ | अथाऽध्वशोधने निरूपणीये प्रथमं शिष्यदेहे षडध्वचिनतनमाह � विलोक्य दिव्यदृष्ट्येति | दिव्यदृष्टिरनिमेषदृष्टिः | तदुक्तं विश्वसारे द्वितीयपटले � अनिमेषचक्षुषा दृष्टिर्दिव्यदृष्टिः प्रकीर्तिता | इति | षडध्वानस्त्वग्रे वक्ष्यन्ते | अधवचिन्तनस्थानमाह � पादेति | अन्धुः कूपः (षडध्वानः) कलाध्वा चैव तत्त्वाध्वा भुवनाध्वेति तत्त्रयम् | वर्णाध्वा च पदाध्वा च मन्त्राध्वेत्यपरं त्रयम् || ११३ || (तत्र कलाध्वा) निवृत्तिः सुप्रतिष्ठा स्याद् विद्या शान्तिरनन्तरम् | शान्त्यतीतेति विज्ञेया कलाध्वेति प्रचक्षते || ११४ || (तत्त्वाध्वा) निवृत्त्याद्याः कलाः पञ्च बिन्दुः कला च नादकः | शक्तिः सदाशिवश्चैव तत्त्वाध्वा प्रकृतेरयम् || ११५ || ---------------------------------------------- पायुरित्यर्थः | एवञ्च शिष्यस्य पादयोः कलाध्वानम्, पायौ तत्त्वाध्वानम्, नाभौ भुवनाध्वानम्, हृदि वर्णाध्वानम्, भाले पदाध्वानम्, मस्तके मन्त्राध्वानं चिन्तयेदित्यर्थः | ११३-११४ | अध्वषट्कमाह � कलेति | अत्र षण्णामध्वनां त्रयं त्रयमित्येताभ्यां पृथक् त्रित्वेन विभजनात् कलातत्त्वभुवनरूपाः प्रथमास्त्रयोऽध्वानोऽर्थरूपाः, वर्णपदमन्त्ररूपास्त्रयोऽपरे शब्दरूपा इति सूचितम् | व्यक्तमाह राघवभट्टधृतवायवीयसंहितायाम् � तेऽत्र शब्दास्त्रयो धातस्त्रस्त्वर्थाः समीरिताः | इति |
143 SK एतदर्थप्रतिपादकं वचनान्तरमपि प्रदर्शितं राघवभट्टेन � मन्त्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः | भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् || इति | अत्रेदं रहस्यम् � सृष्टेरादौ परमशिवस्य बहु स्यां प्रजायेयेति इच्छायां समुत्पन्नायां तत इच्छाशक्तेर्ज्ञानाशक्तिस्ततश्च क्रियाशक्तिरुद्भवति | एतच्छक्तित्रयसंयोगेनार्थसृष्टिः शब्दसृष्टिश्च सम्पद्येते | अत्र मूले कलाध्वेत्यादित्रयेणार्थसृष्टिर्वर्णाध्वेत्यादित्रयेण च शब्दसृष्टिर्दर्शित | एवञ्च कलाध्वनस्तत्त्वाध्वा, तत्त्वाध्वनो भुवनाध्वा, भुवनाध्वनो वर्णाध्वा, वर्णाध्वनः पदाध्वा, पदाध्वनो मन्त्राध्वेति सृष्टिक्रमः | मन्त्राध्वनः पदाध्वा, पदाध्वनो वर्णाध्वा, वर्णाध्वनो भुवनाध्वा, भुवनाध्वनस्तत्त्वाध्वा, तत्त्वाध्वनः कलाध्वेति संहारक्रमः | तत्त्वानामेतेषां शोधनन्तु संहार क्रमेण परमशिवे विलयं कृत्वा पुनः सृष्टिक्रमेण जननम् | तदुक्तं शारदायां पञ्चमपटले � आचार्यकुण्डे संशुद्धैस्तिलैराज्यपरिप्लुतैः | शोधयाम्यमुमध्वानं स्वाहेति पृथगध्वनः || ताराद्यमाहुतीरष्टौ क्रमात्तान् विलयं नयेत् | शिवे शिवान्तसंलीनाञ्जनयेत् सृष्टिमार्गतः || एवञ्चाध्वविशोधनशब्दस्य सृष्टिमार्गविशोधनमित्येवार्थः | षडध्वमयमिदं शरीरम्, अध्वनां शोधनमन्तरेण शरीरशुद्धेरसम्भवादशुद्धशरीरे च शिष्ये दत्तोऽपि मन्त्रो नोपकाराय कल्पत इति गुरुमन्त्रदानात् पूर्वमध्वशोधनं विदधीत | तत्र प्रथमं कलाद्व्हशोधनम्, कलाध्वानस्तु निवृत्त्याद्याः पञ्च | तासां शोधनमाह राघवभट्टःपादे कलाध्वानं स्मृत्वा पद्गुह्यहृद्वक्त्रशिरःसु स्वबीजादिकाः कला विन्यस्य पश्चात् कलाध्वविशोधनमिति | प्रकारन्तु शोधयाभ्यमुमध्वानमित्यादिना स्वयमेव वक्ष्यति | अथ तत्त्वाध्वशोधनम् | तत्त्वान्याह शारदायां पञ्चमपटले � तत्त्वाध्वा बहुधा भिन्नः शिवाद्यागमभेदतः | षट्त्रिंशच्छिवतत्त्वानि द्वाविंशद् वैष्णवानि तु ||
144 SK चतुर्विंशतितत्वानि मैत्राणि प्रकृतेः पुनः | उक्तानि दश तत्वानि सप्त च त्रिपदात्मनः || इत्यनेन शैववैष्णवादिभेदेन तत्त्वानां बहवो भेदाः प्रदर्शिताः | तत्र शिवतत्त्वानि शुद्धत्वेन शुद्धाशुद्धत्वेनाशुद्धत्वेन च त्रिविधानि | तत्र शुद्धानि � तत्वानि शैवान्युच्यन्ते शिवः शक्तिः सदाशिवः | ईश्वरो विद्यया सार्द्धं पञ्च शुद्धान्यमूनि हि || शुद्धाशुद्धनि यथा � माया कालश्च नियतिः कलाविद्या पुनः स्मृताः | रागः पुरुष एतानि शुद्धाशुद्धानि सप्त च || अशुद्धानि तु � प्रकृतिर्बुद्ध्यहङ्कारो मनो ज्ञानेन्द्रियाण्यथ | कर्मेन्द्रियाणि तन्मात्रा पञ्चभूतानि देशिकाः || एतान्याहुरशुद्धानि चतुर्विंशतिरागमे | शैवानामिति तत्त्वानां विभागोऽत्र प्रदर्शितः || इति | एवं वैष्णवादितत्त्वान्यपि ज्ञेयानि | (भुवनाध्वा) ईरितो भुवनाध्वेति भुवनानि चतुर्दश || ११६ || (वर्णाध्वा) अकारादिक्षकारान्ता वर्णाध्वा परिकीर्तितः | (पदाध्वा) विभक्त्यन्ता वर्णसङ्घाः पदाध्वेति प्रचक्षते || ११७ || (मन्त्राध्वा) मन्त्राध्वा मन्त्रराशिस्तु षडध्वानः प्रकीर्तिताः || ११८ || ---------------------------------------------- शैवामगेष्वपि त्रिपुरायास्तत्त्वे विशेषः � निवृत्याद्याः कलाः पञ्च ततो बिन्दुः कला पुनः | नादः शक्तिः सदापूर्वशिवश्च प्रकृतिर्विदुः || आत्मविद्याशिवः पश्चाच्छिवो विद्या स्वयं पुनः | सर्वतत्त्वञ्च तत्वानि प्रोक्तानि त्रिपदात्मनः | तत्त्वाध्वा कथितो ह्येष तत्तदागमवेदिभिः || इति |
145 SK मूले तु त्रिपुराया एव प्रकृतत्वात्त्रैपुराण्येव तत्त्वानि प्रदशितानि � निवृत्त्याद्या इत्यादिना | तत्रापि सप्तैव नामतो निर्दिष्टानि शारदोक्तानामपरेषामपि तत्त्वानामत्र ग्रहणमुन्नेयम् | अत्रेदमवधेयम् � प्रागुक्तेषु तत्वेषु च केचिज्जडाः स्वभावत एव मायिकत्वादशुद्धाः शिवशक्तिसदाशिवादीनान्तु स्वतो विशुद्धत्वेऽपि शरीरसम्पर्केण आणव-कार्मण- मायिकमलत्रयवत्त्वादशुद्धत्वम् | आणवादिमलत्रयस्वरूपमुक्तं राघवभट्टेन-आणवो नाम सदाद्शिवस्य स्वस्यानवमर्शः,कार्मो नाम पुण्यपापवानहमिति प्रतीतिः, मायीयो नामाहङ्कारादावात्मबुद्धिरिति | एवञ्चाशुद्धानां तत्त्वानां शोधनेन शरीरात्मादीनां शुद्धिः सम्पद्यत इति तदर्थमध्वशोधनमावश्यकमिति संक्षेपः | ११६-११८ | ईरित इति | चतुर्दशभुवनानि भुवनाध्वेत्यर्थः | राघवभट्टधृतवायवीयसंहितायाम् � आधाराद्युन्मन्यन्तञ्च भुवनाध्वा प्रकीर्तितः | इत्यनेन भुवनाध्वनः स्थानं निरूपितम् | व्यक्तमाह निर्वाणतन्त्रे दशमपटले � (अध्वशोधनक्रमः) अथ कूर्चेन शिष्यन्तु स्पृशन्नाज्यतिलैर्हुनेत् | शोधयाम्यमुमध्वानममुष्याष्टाहुतीर्गुरुः | स्वाहान्तं तारपूर्वन्तु क्रमेण पृथगध्वनः || ११९ || (शिष्यदेहे चैतन्ययुक्तिः) शिष्यं विलोक्य चैतन्यं तस्य देहे नियोजयेत् || १२० || (पूर्णाहुतिदानपूर्विका पञ्चोपचारपूज) ततः पूर्णाहुतिं दत्त्वा कुम्भे देवीं प्रपूजयेत् | पञ्चोपचारैः संपूज्य प्रदद्याच्छत्रचामरम् || १२१ || ---------------------------------------------- पातालसप्तकं तत्र तत्रैव सप्तस्वर्गकम् | एवं क्रमात् सर्वदेहे भुवनानि चतुर्दश || इति | अकारेति | अकारादिक्षकारान्ता मातृकावर्णा देहे तत्तत्स्थानस्थिता इत्यर्थः | विभक्त्यन्तेति | मन्त्रघटको वर्णसमूहो विभक्त्यन्त एव पदाध्वा | तदुक्तं राघवभट्टधृतवायवीयसंहितायाम् � अनेकभेदसंभिन्नः पदाध्वा पदसंहतिः | महामन्त्रोपमन्त्राणां वर्ततेऽवयवात्मना | प्रधानावयवत्वेन सोऽद्व्हाऽयं पदवाचकः | इति |
146 SK राघवभट्टस्तु वर्णसङ्घः सबिन्दुवर्णा इत्याह | मन्त्राध्वेति अ-क-च-ट-त-प-याः सप्त मन्त्रा ब्रह्मरन्ध्रे इति | ११९ | अथाऽध्वशोधनक्रमाह � अथेति | कूर्चेन प्राक्परिभाषितेनेत्यर्थः | शोधयामीति | तथाच - ॐ अमुष्य कलाध्वानं शोधयामि स्वाहेत्यष्टाहुतीर्जुहुयादित्यर्थः | विलयसृष्ट्यादिक्रमेण शोधनस्य क्रमस्तु आचार्यकुण्डे संशुद्धैरित्यादिना पूर्वमेव प्रदर्शितः | १२० | शिष्यमिति | व्यक्तमाह शारदायां पञ्चमपटले � विलोकयन् दिव्यदृष्ट्या तं शिशुं देशिकोत्तमः | आत्मस्थितं तच्चैतन्यं पुनः शिष्ये नियोजयेत् || इति | (देव्यै कर्पूरादिदानम्) ततः कर्पूरताम्बूलं देव्यै तस्यै निवेदयेत् || १२२ || (जपः) अष्टोत्तरसहस्रन्तु जप्त्वा देव्यै समर्पयेत् || १२३ || (व्याहृतिभिर्देव्या होम आत्मसमर्पणादिकञ्च) देव्या व्याहृतिभिर्हुत्वा शेषमन्यत् समापयेत् || १२४ || नेत्रमन्त्रेण शिष्यस्य नेत्रं वस्त्रेण बन्धयेत् | (मन्त्रोपदेशाय शिष्यस्यानयनम्) करे गृहीत्वा तं शिष्यं पूजास्थाने समानयेत् || १२५ || (पुष्पाञ्जलिदापनम्) पुष्पाञ्जलिं तस्य करे दत्त्वा मूलं समुच्चरन् | कलसे क्षेपयेन्मन्त्री देवताप्रीतिहेतवे || १२६ || (पुष्पपातेन शुभाशुभनिरूपणमशुभे तत्प्रतिकारश्च) पश्चिमोत्तररुद्रेन्द्रे पुष्पपातः शुभो भवेत् | अस्त्रमन्त्रेण जुहुयादशुभेऽष्तशतं गुरुः || १२७ || ---------------------------------------------- १२३ | अष्टोत्तरेति | अयं जपः स्वशक्तिरक्षार्थं विहितः | तदुक्तं राघवभट्टेन � अष्टोत्तरसहस्रं स्वशक्तिहानानवाप्तये जप्यात् | इति | राघवभट्टधृतमहाकपिलपञ्चरात्रेऽपि � मन्त्रं दत्त्वा सहस्रं वै स्वसिद्ध्यै देशिको जपेत् | इति | १२५ | नेत्रमन्त्रेण वौषट् इत्यनेन | १२६ | पुष्पाञ्जलिमिति | दीक्षयिष्यमाणस्य शिष्यस्य तदानीं मन्त्राज्ञानान्मूलमन्त्रजपो गुरुणा कर्तव्यस्तदनुज्ञातेन शिष्येणामन्त्रकं पुष्पाञ्जलिर्देय इत्यर्थः | १२७ | पश्चिमेति | पश्चिमे उत्तरे ईशाने पूर्वे वा अञ्जलिपुष्पाणां पातः शुभकरः (नेत्रबन्धापनयनम्)
147 SK नेत्रबन्धं परित्यज्य कुशासने विशेच्छुचिः | (पुष्पाञ्जलिदानानन्तरप्रक्रिया) पुष्पाञ्जलित्रयं दत्त्वा पुनः संपूजयेद् गुरुः || १२८ || यथाविधिविधानेन हृदि देवीं समानयेत् || १२९ || कुशान्तरे शम्भुदेशे गर्गरीं नालसंयुताम् | संस्थाप्य जलसंपूर्णां वस्त्रयुग्मेण वेष्टिताम् || १३० || तन्मध्ये निक्षिपेन्मन्त्री त्रिकटु त्रिफलां तथा | भस्मदूर्वामृत्तिकाश्व करुपूरोचनान्तथा || १३१ || चन्दनं कुङ्कमञ्चैव चक्रराजं तथैव च | अस्त्रमन्त्रेण संरक्ष्य धेनुयोन्यौ च दर्शयेत् || १३२ || (अस्त्रदेवतापूजादिप्रक्रिया) सिंहसंस्थां महारौद्रीं खड्गखेटकधारिणीम् | घोररूपां पश्चिमास्यां पूजयेदस्त्रदेवताम् || १३३ || तस्या उपरि मन्त्रज्ञो दशधा मूलमाजपेत् || १३४ || ---------------------------------------------- वायुनैर्-ऋतयाम्याग्निषु पुष्पपातस्त्वशुभकर इत्यर्थः | एवमशुभे पुष्पपातेऽष्टशतं जुहुयात् | अष्टशतम् अष्टाधिकं शतमित्यर्थः | व्यक्तमाह राघवभट्टधृतपिङ्गलामते � पुष्पैरञ्जलिमापूर्य योगपीठे प्रदापयेत् | पश्चिमोत्तररुद्रेन्द्रे पुष्पपातः शुभोऽशुभे | अष्टोत्तरशतं शान्त्यै जुहुयादस्त्रमन्त्रतः || इति | १३० | कुशान्तर इति | शम्भुदेशे ईशानभागे | अथवा शङ्खपात्रन्तु जलेनापूर्य साधकः | वह्निसूर्यविधूनान्तु कलास्तत्र प्रपूजयेत् || १३५ || अथ मन्त्रं विनिक्षिप्य षडङ्गेनार्चयेत्ततः | अस्त्रमन्त्रेण संपूज्य मूलञ्च दशधा जपेत् || १३६ || (यन्त्रे शिष्यस्योपवेशनम्) ततः पद्मं लिखेद्वामे केशरेषु स्वराल्लि/खेत् | युग्मयुग्मक्रमेणैव, कादिवर्णाल्लि/खेत्ततः || १३७ || सप्तपत्रे चाष्टमे च लक्षवर्णं लिखेत् सुधीः | तन्मध्ये कर्णिकायान्तु शिष्यं संस्थापयेद् गुरुः || १३८ || (शिष्यशिरसि श्रीचक्रन्यासः) षडध्वरूपं श्रीचक्रं तस्य मूर्ध्नि विचिन्तयेत् || १३९ || (शिष्यस्नपनम्) शिष्यस्य मुखमावेष्ट्य वस्त्रेणोत्थाय गर्गरीम् | मूलं पठन् नालमुक्तजलैः स्नायाच्च बालकम् || १४० || (शिष्याभिषेकः)
148 SK कुम्भमुद्धृत्य विधिवत्तन्मुखस्थान् सुरद्रुमान् | मातुर्वर्णं विलोमेन जपन्मूर्द्ध्नि शिशोस्तरेत् || १४१ || ---------------------------------------------- १३७-१३८ | ततः पद्ममिति | मातृकायन्त्रोक्तपद्मानुरूपमिदं पद्मम् | प्रथमं वृत्तरूपा कर्णिका, ततो वृत्तं तत्संसक्तान्यष्टौ दलानि | प्रथमवृत्ताद्दलमूलेषु केशराणि, केशर्रेषु युगशः षोडश स्वराः, पूर्वादितः प्रादक्षिण्येन पञ्चसु दलेषु पञ्च वर्गाः, षष्ठे यरलवाश्चत्वारो वर्णाः सप्तमे शषसहाः, अष्टमे ल-क्षवर्णद्वयम् | इति पद्मनिर्माणक्रमः | तत्पद्मकर्णिकायां शिष्यमुपवेशयेत् | १४० | गर्गरीं गृहीत्वेत्यर्थः | १४१ | मातुरिति | विलोमेन मातुर्वर्णं जपन्निति क्षकारादकारान्तं मातृकावर्णमुच्चरन्नित्यर्थः | ततस्तत्पल्लवेनैव घटस्थतार्थवारिणा | मूलमन्त्रेण मन्त्रज्ञस्त्रिवारं प्रोक्षयेच्छिशुम् || १४२ || एवमेवाभिषेकेण भवेच्च देशिकाग्रणीः | शुद्धेन वाससा गात्रं सम्मार्ज्यालङ्कृतो भवेत् || १४३ || (गुरोरनन्तरकरणीयम्) स्ववामभागे तं शिष्यं शुद्धासने निवेशयेत् | करे पुष्पफलं कृत्वा ब्रह्मरन्ध्रे फलं क्षिपेत् || १४४ || ततो ब्रह्म त्वमेवासि वाक्यमेवं वदेद् गुरुः | (षट्चक्रविज्ञानोपदेशः) पश्चात् षट्चक्रविज्ञानं शिष्याय प्रतिबोधयेत् || १४५ || (शिष्यदेहे ऋष्यादिन्यासः) ऋष्यादिमातृकान्यासं तस्य देहे न्यसेद् गुरुः | (तान्त्रिकाद्वैतोपदेशः) शिवोक्ताद्वैतकाण्डन्तु शिष्यस्थाने प्रकाशयेत् || १४६ || (कौलदीक्षायां विशेषः) यदि प्राणाधिकः शिष्यो भवेत् कौलक्रमे रतः | तत्तन्मन्त्रैस्तत्त्वशुद्धिं कारयित्वा विधानतः || १४७ || (मन्त्रोपदेशः) ततो बालामनुं दक्षे कर्णे वारत्रयं वदेत् | ---------------------------------------------- १४५ | पश्चादिति | षट्चक्रविज्ञानन्तु षष्ठे प्रकाशे स्वयमेव वक्ष्यति | (गण्डूषदानम्) गण्डूषतीर्थं शिष्यस्य हस्ते दद्याद् यथाविधि || १४८ || आवयोः सफलञ्चास्तु वदेदेवं गुरूत्तमः | विभावयंस्ततः सोऽहं गृह्णीयाच्छिष्यसत्तमः || १४९ ||
149 SK गण्डूषदाने शिष्यस्य विकल्पो यदि जायते | न सिद्धिस्तस्य कुत्रापि श्रीविद्या च पराङ्मुखी || १५० || (पुनर्मूलदेवतार्चा) ततो भूमौ लिखित्वा तु विद्यां पुष्पादिभिर्यजेत् || १५१ || (गुरोरनन्तरकरणीयम्) दक्षिणं चरणाम्भोजं शिष्यमूर्ध्नि निवेश्य च | शिष्याय् दर्शयेद् विद्यां तज्जपेत् साधकोत्तमः || १५२ || यदि स्यान्महती प्रीतिः शिष्यस्य प्राणदस्य च | तदोच्चारणमात्रेण दक्षकर्णे जपेत् पराम् || श्रीविद्यां ब्रह्मरूपान्तु सुखमोक्षप्रदायिनीम् || १५३ || ऋषिच्छन्दोदेवतानां विभागञ्च प्रकाशयेत् | ततो मन्त्ररहस्यन्तु सच्छिष्याय प्रबोधयेत् || १५४ || ---------------------------------------------- १४८ | गण्डुषेति | दद्याद् विद्यां ततस्तस्मै विनीतायाम्बुपूर्वकम् | इति शारदातिलकपञ्चमपटलवचनव्याख्याने राघवभट्टेनाम्बुपूर्वकमिति ब्राह्मणविष्यमित्युक्तम् | एवञ्च गण्डूषतीर्थं जलमित्यर्थः | पूर्व कौलक्रमे रत इत्यभिधानात् कौलिकानां कारणगण्डूषदानमुक्तमिति प्रतिभाति | तच्च न दद्याद् ब्राह्मणो मद्यं महादेव्यै कदाचन इति वक्ष्यमाणत्वाद् ब्राह्मणेतरविषयम् | अत एव राघवभट्टेन अम्बुपूर्वकमिति ब्राह्मणविष्यमित्युक्तम् | १५४ | मन्त्ररहस्यं मन्त्रप्रकरणे वक्ष्यते | (गुरुनामकल्पनक्रमः) किमप्यङ्ग ततः शिष्यः स्पर्शयेच्छ्रीगुरोस्ततः | तदङ्गे मातृकावर्णं कल्पयित्वा गुरूत्तमः || १५५ || द्व्यक्षरं त्र्यक्षरं वापि चतुरक्षरमेव वा | आनन्दनाथशब्दानतं तस्य नाम प्रकल्पयेत् || १५६ || (गुरोः प्रदक्षिणादि) ततः प्रदक्षिणीकृत्य गुरुं वारत्रयं शिशुः | अष्टाङ्गनमनं कृत्वा स्वात्मानञ्च समर्पयेत् || १५७ || (दक्षिणादानम्) ततश्च दक्षिणां दद्यात् संपूज्य गुरुपादुकाम् | सर्वस्वं वा तदर्द्धं वा चतुर्थांशमथापि वा || १५८ || (गुरोरात्मविशोधनप्रकारः) ततः स्वात्मविशुद्ध्यर्थं लक्षमेकं जपेद् गुरुः | सहस्रं प्रजपेद् वापि देशिको विजितेन्द्रियः || १५९ || (दीक्षादिवसे गुरुशिष्ययोरुपवासनिषेधः)
150 SK मन्त्रं दत्त्वा गुरुश्चैव उपवासं चरेद् यदि | मोहाद्वा कामतो वापि कृमिर्भवति नान्यथा || १६० || दीक्षां कृत्वा तु यो मन्त्री उपवासं चरेद् यदि | तस्य देवः सदा रुष्टः शापं दत्त्वा व्रजेत् पुरम् || १६१ || ---------------------------------------------- १५७ | अष्टाङ्गप्रणामक्रममाह � बृहन्निलतन्त्रे द्वितीयपटले � पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा | मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः || इति | (संक्षेपदीक्षा) अथ दीक्षां प्रवक्ष्यामि संक्षिप्तां सिद्धिदायिनीम् | यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः || १६२ || न तिथिर्न व्रतं होमो न स्नानं न जपक्रिया | दीक्षायाः कारणं किन्तु स्वेछाप्राप्ते तु सद्गुरोः || १६३ || तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव | विद्याबलं दैवबलं तदेव तदेव मासादिबलं यथार्थम् || १६४ || (ग्रहणादौ विशेषः) अथवा ग्रहणे तीर्थे सिद्धक्षेत्रे शिवालये | मन्त्रमात्रप्रकथनमुपदेशः स उच्यते || १६५ || इति श्रीपूर्णानन्दपरमहंसविरचिते श्रीतत्त्वचिन्तामणौ पञ्चमः प्रकाशः || ५ || ---------------------------------------------- १६३ | अत्र स्वेच्छाप्राप्तिस्तु सद्गुरोः इत्येवं पाठः समीचीन इति प्रतिभाति | स्वेच्छाप्राप्ते तु सद्गुरोः इति पाठे प्राप्ते इति भावक्तप्रत्ययेन सद्गुरोः स्वेच्छाप्राप्तौ दीक्षा प्रशस्तेति कथञ्चित् समाधेयम् |
Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. tattvacintāmaṇi chapters 01 thru 05 [M00085].
Source