SKसर्वबुद्धबोधिसत्त्वेभ्यो नमः
SKप्रथमं प्रामाणिक आचार्यः शिष्ये प्रसाद-सम्प्रत्ययाभिलाषात्मिकां श्रद्धां जनयेत् / ततो बोधिचित्तानुशंसाम् उक्त्वा उत्साहं जनयेत् / ततः परं विशिष्टविहारे विशिष्टपूजोपकरणं स्थापयेत् / आर्यसंघान् आमन्त्र्य, प्रणम्य, पादौ प्रक्षाल्य, आसनं प्रदाय, उत्तरानुत्तरपूजोपकरणैः सम्पूज्य पूजामेघमन्त्रानपि त्रिरुच्चरेत् /
SKस्तोता सुगतविशिष्टगुणस्मरणद्वारा सादरं स्तुत्वा तत्तद्वृद्धिकराण्यपि पदानि उच्चरेत् / ततश्च देशना-अनुमोदना-अध्येषणा-प्रार्थना-परिणामनादयः करणीयाः / ततः श्रद्धावान् शिष्य आचार्य प्रणमेत् / अध्येषणादिभिर्द्विविधं बोधिचित्तं समुत्पाद्य तेषां स्वस्वभावं भेदं वैशिष्ट्यञ्चापि ख्यापयेत् /
SKततः बोधिचर्या (णां_) षट्पारमितानां, चतुःसंग्रहवस्तूनां चतुरप्रमाणादीनां च लक्षणं, हेतुं, फलं, शिक्षाक्रमं, च्युत्यच्युतिदोषगुणान् यथाविधिशिक्षादिकमपि विस्तरेण निर्दिशेत् / सा च अप्रमादेन सम्प्रजन्येन स्मृत्या च ग्रहणीयेति शिक्षेत /
SKतेषां लक्षणं क्रमं च्युत्यच्युतिदोषगुणादीनपि शिक्षेत / तदनुष्ठानायापि तीव्रवीर्यमुत्पाद्य निध्यानदुःखाधिवासनाक्षान्तिम् अविक्षिप्त-समाधिं प्रज्ञानिःस्वभावतां च ज्ञात्वा त्रिशिक्षां त्रिविधप्रज्ञां वा समाधाय चर्यापथविधिना शिक्षेत इति निर्दिशेत् / अन्ते प्रणिधानेन परिसमापयेद् इत्यपि वदेत् /
SKअयं हि आचार्यदेशनाक्रियाक्रमः / शिष्यो ऽपि यथाविधिरुपदिष्टः तथा शिक्षेत / अयं तु लाक्षणिकमहायानचित्तोत्पाद-शिक्षा-देशना-विधिः क्रमो वा औदारिकतया दर्शितः / विस्तरेण तु परतो ज्ञातव्यम् /
SKसंक्षिप्तगुरुक्रियाक्रमः महापण्डिताचार्यदीपङ्करश्रीज्ञानविरचितः समाप्तः //