SKजगत्कर्तृत्वव्यतिरिक्तकर्तृविशेषणविशिष्टत्वे सिद्धसाध्यता | जगत्कर्तृत्वविशिष्टपुरुषपक्षीकरणे भवेदेवाश्रयासिद्धिः, धर्मिग्राहकप्रमाणबाधो वेति | न च सर्वे पुरुषाः क्षित्यादि-कर्तारो न भवन्ति, पुरुषत्वात्, कुलालादिवदिति वाच्यम्, अंशे सिद्धसाध्यताश्रयासिद्धिधर्मिग्राहकप्रमाणबाधात्मकदोष-त्रयापाताद् दृष्टान्ताभावाच्चेति | ननु विमतः पुरुषः क्षित्यादिकर्ता न भवति, पुरुषत्वादित्-यस्मिन् साध्ये न दोषत्रयावकाशः | न तावदाश्रयासिद्धिः, आत्मनः पुरुषस्य सिद्धत्वात् | नापि सिद्धसाध्यताविप्रतिपत्तिः, अन्यपुरुषव्यवच्छेदात् | नापि धर्मिग्राहकप्रमाणबाधः, तस्य जगत्कर्तृत्वानङ्गोकारेण सिद्धत्वादिति चेत्, नैवम्, पुरुषमात्रे विप्रतिपत्त्यभावात् | क्षित्यादिकार्यमधिकृत्य विप्रतिपत्तिर्न पुरुषे | अस्तु वा पुरुषे विप्रतिपत्तिः, तथापि न पुरुषमात्रे, तस्य जगत्कर्तृत्वा-नभ्युपगमात् | विशिष्टे चेत्, केन विशेषणेन | विशिष्टे यदि किञ्चिज्ज्ञत्वादिना विशिष्टे, तत्र च न विप्रतिपत्तिः | यदि सर्वज्ञत्वादि-विशेषणविशिष्टे, तत्र च न विप्रतिपत्तिः, जगत्कर्त्रनुमानप्रवृत्तेः प्राक् तस्याप्रसिद्धत्वात् | नह्यप्रतिपन्ने धर्मिणि धर्ममूला विप्रतिपत्तिर्युक्ता, जगत्कर्त्रनुमानप्रवृत्त्युत्तरतश्च न विप्रतिपत्तिः, तस्य प्रमाणासिद्धत्वात् | तस्मान्न विप्रतिपत्तेर्व्यवच्छेदकत्वमिति | तथेश्वरः शरीरादिमान् कर्तृत्वादित्यादयश्च निरसनीयाः, उक्तन्यायसाम्यादिति | अथ क्षित्यादि कर्तृशून्यम्, तद्व्यापकशरीररहितत्वात्, यद् यद् व्यापकरहितं तत् तद् व्याप्येनापि रहितम्, यथा जलं धूमव्याप-काग्निरहितं धूमेनापीत्यनुमानविरोधात्; इति चेन्न, अस्यानुमा-नस्य विशेषणासिद्धत्वेनाप्रामाण्यात्, शरीरकर्तृत्वयोर्व्याप्य- व्यापकभावेन तद्व्यापकशरीररहितत्वस्यासिद्धत्वात् | अस्मदनु-मानाप्रामाण्ये भवदनुमानासिद्धिपरिहारः, भवदनुमान-बाधयाऽस्मदनुमानाप्रामाण्यमिति इतरेतराश्रयप्रसङ्गश्च | अस्मदनुमा-नस्य भवदनुमानस्याप्रामाण्यमन्तरेणापि