SKBओधिसत्त्वप्रातिमोक्षसूत्रम्
SKओम् नमः सर्व्वबुद्धबोधिसत्त्वेभ्यः / ये च ते बोधिसत्त्वानां त्रयः शीलस्कन्धा उक्ताः / संवर शीलं कुशलधर्म्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलं च तेषु शिक्षितुकामेन गृहिणा वा प्रव्रजितेन वा ऽनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानेन सहधार्म्मिकस्य बोधिसत्त्वस्य महापुण्यनिधानस्य वाग् विज्ञप्त्यर्थ ग्रहणावबोधसमर्थस्य पादयोर्न्निपत्याध्येषणा कार्या / तवाहं कुलपुत्रायुष्मन् भदन्तेति वा ऽन्तिकात् बोधिसत्त्वशीलसंवरसमादानमाकाङ्क्षाभ्यादातुम् / तदर्हस्यनुपरोधेन मुहूर्त्तमदनुकम्पया दातुं श्रोतुञ्चेति // त्रिरेवमध्येष्य एकांसमुत्तराङ्गं कृत्वादशसु दिक्ष्वतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां महाभूमिप्रविष्टानां च बोधिसत्त्वानां सामीचीं कृत्त्वा तेषां गुणानामुखीकृत्य घनरसं चेतःप्रसादं संजनय्य नीचैर्जानुमण्डलेनोत्कुटुकेन वा स्थित्वा तथागतप्रतिमां पुरतः संस्थाप्य संपूज्य पुरस्कृत्यैवं स्याद्वचनीयः /
SKअनुप्रयच्छ मे कुलपुत्रायुष्मान् भदन्तेति वा बोधिसत्त्वशीलसंवरसमादानमिति /
SKतत् एकाग्रां स्मृतिमुपस्थाप्य चित्त प्रसादमेवानुवृंहयत / न चिरस्येदानी मे ऽक्षयस्याप्रमेयस्य निरुत्तरस्य महापुण्यनिधानस्य प्राप्तिर्भविष्यतीति / एवमेवार्थमनुविचिन्तयता तूष्णीं भवितव्यम् / तेन पुनर्व्विज्ञेन बोधिसत्त्वेन स तथा प्रतिपन्नो बोधिसत्त्वो ऽविक्षिप्तेन चेतसा स्थितेन वा निषण्णेन वा एवं स्याद्वचनीयः / शृणु त्वमेवन्नामन् कुलपुत्रायुष्मन् भदन्तेति वा बोधिसत्त्वो ऽसि बोधौ च कृतप्रणिधानः / तेन ओमिति प्रतिज्ञातव्यं / स पुनरुत्तरि एवंस्याद्वचनीयः / प्रतीच्छसि त्वमेवन्नामन् कुलपुत्रायुष्मान् भदन्तेति वा बोधिसत्त्वो ऽसि बोधौ कृतप्रणिधानो ममान्तिकात् सर्व्वाणि बोधिसत्त्वशिक्षापदानि सर्व्वञ्च बोधिसत्त्वशीलं संवरशीलं कुशलधर्म्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलं च यच्छीलमतीतानां बोधिसत्त्वनामभूत् यानि च शिक्षापदानि / यच्छीलमनागतानाम् बोधिसत्त्वानां भविष्यति यानि च शिक्षापदानि / यच्छीलमेतर्हि दशसु दिक्षु प्रत्युत्पन्नानां बोधिसत्त्वानां भवति यानि च शिक्षापदानि / येषु च शिक्षापदेषु येषु शीलेष्वतीताः सर्व्वबोधिसत्त्वाः शिक्षितवन्तः / अनागताः सर्व्वबोधिसत्त्वाः शिक्षिष्यन्ते / प्रत्युत्पन्नाः सर्व्वबोधिसत्त्वाः शिक्षन्ते / तेन प्रतिगृण्हामीति प्रतिज्ञातव्यं // त्रिरेवम् //
SKसमन्वाहरन्तु मां दशदिग्लोकधानुसन्निपतिता बुद्धा भगवन्तो बोधिसत्त्वाः / समन्वाहरत्वाचार्य्यो ऽहमेवन्नामा यत्किञ्चित्कायवाङ्मनोभिर्बुद्ध बोधिसत्त्वान् मातापितरौ तदन्यान् वा सत्त्वान् समागम्येहजन्मन्यन्येषु वा जन्मां तरेषु मयापायं कृतं कारितमनुमोदितम् वा तत् सर्व्वमैकध्यमभिसंक्षिप्य पिण्डयित्वा तुलयित्वा सर्व्वबुद्धबोधिसत्त्वानामाचार्य्यस्य चान्तिके ऽग्रया प्रवरया प्रतिदेशनया प्रतिदेशयामि जानन् स्मरन् न प्रतिच्छादयामि // त्रिरेवम् //
SKसोहमेवंनामा एवंदेशितात्यय इमं दिवसमुपादाय आवोधिमण्डनिषदनात् बुद्धं भगवन्तं महाकारूणिकं सर्व्वज्ञं सर्व्वदर्शिनं सर्व्ववैरभयातीतं महापुरुषमभेद्यकायमनुत्तरकायं धर्म्मकायं शरणं गच्छामि द्विपदानामग्र्यम् // सो ऽहमेवंनामा एवंदेशितात्यय इमं दिवसमुपादाय आबोधिमण्डदिषदनाद्धर्म शरणं गच्छामि शान्तं विरागाणां प्रवरम् / सो ऽहमेवंनामा एवंदेशितात्यय इमं दिवसमुपादाय आबोधिमण्डनिषदनादवैवर्त्तिकबोधिसत्त्वसंघं शरणं गच्छामि गणाणां श्रेष्ठम् // त्रिरेवम् //
SKसोहमेवंनामा एवंदेशितात्ययस्त्रिशरणगतो ऽनन्तसत्त्वधातूत्तारणायाभ्युद्धरणाय संसारदुःखात् परित्राणाय सर्व्वज्ञज्ञाने अनुत्तरे प्रतिष्ठापनाय / यथा ते अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वा बोधिचित्तमुत्पाद्य बुद्धत्वमधिगतवन्तो ऽधिगमिष्यन्ति अधिगच्छन्ति च / यथा सर्व्वबुद्धा ऽनावरणेन बुद्धज्ञानेन बुद्ध् चक्षुषा जानन्ति पश्यन्ति यथा धर्म्माणां निःस्वभावताम(?) नुजानन्ति / तेन विधिना अहमेवंनामा एवंनाम्न आचार्य्यस्यान्तिकात् सर्व्वबुद्धबोधिसत्त्वानां च पुरतो ऽनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयामि // त्रिरेवम् //
SKइदं चाहमत्ययदेशनात्रिशरणगमनबोधिचित्तोत्पादजनितं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयामि यदहं लोके अशरणे अलयने अपरायणे ऽद्विपे त्राणं शरणं लयणं परायणं द्वीपो भवेयम् / सर्व्वसत्त्वांश्च भवार्णवादुतीर्णस्तारयेयम् / अपरिनिर्वृताननावरणेन धर्म्मधातुपरिनिर्वाणेन परिनिर्व्वापयेयम् / अनाश्वस्तानाश्वाशयेयम् // त्रिरपि //
SKसोहमेवंनामा एवमुत्पादितबोधिचित्तो ऽनन्तसत्त्वधातुं यथा मातापितृभगिनीभ्रातृपुत्रदुहित्रन्यतमान्यतमज्ञातिसालोहितस्थानीयांस्तथा प्रतिगृण्हामि / प्रतिगृह्य च यथाशक्ति यथाबलम् यथाज्ञानं कुशलमूलं समारोपयामि / इतः प्रभृति यत्किञ्चित् दानं दास्यामि शीलं रक्षिष्यामि क्षांति संपादयिष्यामि वीर्यमारभ्य ध्यानं समापत्स्ये प्रज्ञया व्यवचार्य्य उपायकौशल्यं वा शिक्षिष्ये तत् सर्व्वसत्त्वानामर्थाय हिताय सुखाय //
SKउत्तरां च सम्यक्संबोधिमारभ्य तेषां महाभूमिप्रविष्टानां बोधिसत्त्वानां महाकारुणिकाणां महायाने सामिचीमनुप्रव्रजामि / अनुप्रव्रज्य बोधिसत्त्वो ऽहं बोधिसत्त्व इति मामितः प्रभृत्याचार्य्यो धारयतु // त्रिरेवम् //
SKततस्तेनाचार्य्येण तस्याः प्रतिमायाः पुरतो दशसु दिक्षु बुद्धबोधिसत्त्वानां तिष्ठतां ध्रियतां यापयतां पादयोर्न्निपत्य सामिचीं कृत्वा एवमारोचयितव्यम् / गृहीतमनेनैवंनाम्ना बोधिसत्त्वेन ममैवंनाम्नो बोधिसत्त्वस्यान्तिकात् यावत् त्रिरपि बोधिसत्वशीलसंवरसमादानम् / सोहमेवंनामा बोधिसत्त्व आत्मानं साक्षिभूतं प्रजानन् अस्यैवंनाम्नो बोधिसत्त्वस्य परमार्य्याणां विपरोक्षाणामपि सर्वत्र सर्व्वसत्त्वानां विपरोक्षबुद्धीनां दशदिक्ष्वनन्तापर्य्यन्तेषु लोकधातुष्वारोचयामि / अस्मिन् बोधिसत्त्वशीलसंवरसमादानम् // त्रिरेवम् //
SKएवं पुनः शीलसंवरसमादानकर्म्मसमाप्त्यनन्तरं धर्म्मता खल्वेषा यद् दशसु दिक्ष्वनन्तापर्य्यन्तेसु लोकधातुषु तथागतानां तिष्ठतां ध्रियतां यापयतां महाभूमिप्रविष्टानां च बोधिसत्त्वानां तद्रुपं निमित्तम् प्रादुर्भवति येन तेषामेवं भवति / एवंनाम्ना बोधिसत्त्वेन एवंनाम्नो बोधिसत्त्वस्यान्तिकात् बोधिसत्त्वशीलसंवर समादानं समात्तमिति // एवं तावत् परतः समादानविधिरुक्तः //
SKयदि तैर्गुणैर्युक्तः पुद्गलो न सन्निहितः स्यात् ततो बोधिसत्त्वेन तथागतप्रतिमायाः पुरतः स्वयमपि बोधिसत्त्वशीलसंवरसमादाने वचनीयम् / एवं च करणीयम् / एकांसमुत्तरासङ्गं कृत्वा दशसु दिक्ष्वतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां महाभूमिप्रविष्टानां च बोधिसत्त्वानां सामीचीं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य उत्कुटुकेन वा इदम् स्याद्वचनीयम् / अहमेवंनामा दशसु दिक्षु सर्वतथागतान् महाभूमिप्रविष्टांश्च बोधिसत्त्वान् विज्ञापयामि / तेषां पुरतः सर्व्वाणि बोधिसत्वशिक्षापदानि सर्व्वं च बोधिसत्त्वशीलं समाददे / यच्छीलमित्यादि पूर्व्ववत् यावत् बोधिसत्त्वो बोधिसत्त्व इति / मामितः प्रभृति बुद्ध भगवन्तो बोधिसत्त्वाश्च धारयन्त्विति विज्ञप्तिः