Commentary on the Root of Reasons

Hetubinduṭīkā (commentary on Dharmakīrti's Hetubindu) · Hएतुबिन्दुटीका (चोम्मेन्तर्य् ओन् Dहर्मकीर्तिऽस् Hएतुबिन्दु)

Commentary on the Root of Reasons

Hetubinduṭīkā (commentary on Dharmakīrti's Hetubindu)

Hएतुबिन्दुटीका (चोम्मेन्तर्य् ओन् Dहर्मकीर्तिऽस् Hएतुबिन्दु)

SK
श्रीमदर्चटविरचिता || हेतुबिन्दुटीका || नमः सर्वज्ञाय ||
SK
[जिननमस्कारेण मङ्गलम् |] यः सञ्जातमहाकृपो व्यसनिनं त्रातुं समग्रं जनम्, पुण्यज्ञानमयं[१]प्रचित्य विपुलं हेतुं विधूतश्रमः | कृत्स्नज्ञेयविसर्प्पि[निर्मलतरप्रज्ञोद]याद्रिं श्रितो लोके हार्द्दतमोपहो जिनरविर्मूर्ध्ना नमस्यामि तम्
SK
__________NOTES__________
SK
[१] पुण्य- : प्रस्तुत-
SK
[धर्मकीर्तिवचसां सरसतमत्वख्यापनम् | ] वरं हिधार्मकीर्त्तेषु[.१]२चर्वितेष्व् अपि चर्वणम्[२]| निष्पीडिताऽपि मृद्वी[का माधुर्यं हि जहा]ति किम् ?
SK
__________NOTES__________
SK
[२] चर्चितेष्वपि चर्वनम् -- T.
SK
[स्वलाघवं प्रख्याप्य ग्रन्थविवरणप्रतिज्ञा | ] न्यायमार्ग्गतुलारूढं जगद् एकत्र यन्मतिः | जयेत् तस्य क्व गम्भीरा गिरो ऽहं जडधीः क्व च ?
SK
तथापि मन्दमतयः सन्ति मत्तो [ऽपि केचन | यानुद्दिश्य] मयाप्य् एष हेतुबिन्दुर् विभज्यते || ४ ||[आदिवाक्यस्य प्रयोजनप्रकटनम् | ] परोक्षे -- [Tत्. ३५५ब्.] त्य् आदिना प्रकरणारम्भे प्रयोजनम् आह | तच् च[३]श्रोतृजनप्रवृत्त्य् अर्थम् इतिकेचित् | तद् उक्त[म् -- सर्वस्यैव हिशा]स्त्रस्य कर्मणो वाऽपि कस्यचित् | यावत् प्रयोजनंनोक्तंतावत् तत् केन गृह्यताम् || [Śल्Sऊ १.१२.] इति | तद् अयुक्तम्[४]| यतो ऽस्य प्रकरणस्येदं प्रयोजनम् इति [प्रदर्शने प्रयो]जनविशेषं प्रति उपायतां प्रकरणस्य निश्चित्यानुपाये {प्. २.१} प्रवृत्त्यसम्भवात् प्रेक्षावतां तदर्थितया[५]प्र[करणश्रवणादौ प्रवृत्तिः] [S. २अ] स्याद् इति तदभिधानस्यार्थवत्ता[६]वर्ण्यते | न चैतद्[७]युक्तम् | यतः प्रेक्षावतां प्रवृत्तिः प्रयोजनार्थिनां तदुपाये[८]तद्भावनिश्चयात्[९]| यथा कृषीव[लादीनां सस्या]द्य् उपाये बीजादावऽबीजादिविवेकेनाऽवधृतबीजादिभावानाम् | अन्यथा ह्य् अनिश्चितोपायानाम् उपेयार्थनां [T. २०६ब्.] प्रवृत्तौ प्रेक्षावत्तैव हीयेत | उपेये तु [भाविनि प्रमा]णव्यापारासम्भवाद् अनिश्चये ऽपि विवेचितोपायाः प्रतिबन्धवैकल्ययोर् असम्भवे `योग्यम् एतद् विवक्षितं कार्यं निष्पादयितुम्ऽ इति सं[भावनया प्रवृत्तौ] प्रेक्षावत् तातो न हीयेरन् | निश्चयश् च प्रमाणाद् एव | न च प्रयोजनवाक्यस्य प्रामाण्यम् अस्ति, शब्दानां बहिरर्थे प्रतिबन्धाभावात् | विवक्षायां [तस्य प्रामाण्ये ऽपि यथा]वस्तुप्रवृत्तिनियमाभावात् न ततः प्रकरणस्य प्रयोजनविसे(शे)षं प्रति उपायतानिश्चयः समस्ति | न हि ये यथा [S. २ब्.] यम् अर्थं विवक्षन्ति ते तथैव तम् अनु[तिष्ठन्ति वि]संवादनाभिप्रायाणाम् अन्यथाऽभिधायान्यथाप्रवृत्तिदर्शनाल् लोके सर्वत्रानाश्वासात् | प्रयोजनविशेषोपन्यासात् प्रकरणस्य तदुपायता[विषयः संशयः ज]न्यते ततस्[१०]तद्भावनिर्धारणाय[११]कृषीवलादेर् इव बीजाद् अवधृतये प्रवृत्तिर् युक्तेति चेत्; न, प्रयोजनविशेषोपायतासंशयस्य तदभिधा[नात् प्राग् अपि] भावात् | तत्साधकबाधकप्रमाणाभावे तस्य[१२]न्यायप्राप्तत्वात् | अनुमानादिव्युत्पत्त्यर्थानां च प्रकरणानां दर्शनात् किम् अस्यानुमा[नव्युत्पादनं प्र]योजनम् अन्यद् वा, न वा किञ्चिद् अपीत्य् एवं रूपश् च संशयः प्राक् प्रवर्त्तमानः केन निवार्येत | अपि च किम् इदं निष्प्रयोजनम्, उत प्रयोजन[वत्, अस्मद् अभिम]तेन वा प्रयोजनेन तद्वद् इति जिज्ञासोः प्रवृत्तिसम्भवे व्यर्थ एव प्रयोजनवाक्योपन्यासः | [S. ३अ.] तस्माद् `यत् प्रयोजनरहितं वाक्यम्, तदर्थो वा, न तत् प्रेक्षावताऽऽरभ्यते कर्तुं प्रतिपादयितुं वा | तद्यथा [T. २०७अ.] {प्. ३.१} दशदाडिमादिवाक्यं काकदन्त[परीक्षा च | निष्प्रयोजनं चेदं] प्रकरणं तदर्थो वाऽ इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थम् आदौ प्रयोजनवाक्योपन्यासः |[प्रकरणतदभिधेययोः प्रयोजनचिन्ता |] तत्र तद्व्युत्पादनार्थम् इति वाक्येन स्वयम् अस्य प्रकरणस्य प्रयोजनम् आह | यथास्वम् अभिधेयप्रतीतिर् हि वाक्यस्य प्रयोजनम् | तच् चेहास्ति पदानाम् अवान्तरवाक्यानां च परस्परसंसर्गात् समासार्थप्रतीतेः | तथा हि -- अनुमानमत्र प्रकरणे व्युत्पाद्यत इति तद् अभिधेयम् | तस्यैव तच्छब्देन सम्बन्धात् | यद्य् अपि परोक्षार्थप्रतिपत्तौ गु[णीभूतम् अनु]मानं तथापि वक्तुर् अभिप्रायानुविधायितया शब्दवृत्तेः तच्छब्देन परामृश्यते | अन्यथा प्रधानसंस्पर्सो(शो)पि कथं स्यात्? | शब्दानां स्व[भावतः] सम्भद्धा(न्धा)योगात् | पक्षधर्म इत्यादिना चानुमानस्यैव व्युत्पादनात् | तस्य [S. ३ब्.] व्युत्पत्ति[र् अविपरीतस्वरू]पप्रतीतिर् अस्य प्रकरणस्य प्रयोजनम्, तस्माध्यत्वात् | अत एव चानुमानव्युत्पत्तिविषयं प्रकरण[व्यापारं दर्ष]यितुं णिचा निर्दिशति -- तद्व्युत्पादनार्थम् इति | ततश् च प्रकरणप्रयोजनयोः साध्यसाधनलक्षणः[१३]सम्बन्धो ऽप्य् उक्तो भवति | यद्य् अपि शब्दवृत्तेना[नुमानव्युत्पत्तिवि]षयस्य[१४]प्रकरणव्यापारस्य प्राधान्यं तथापि वस्तुवृत्तेन व्युत्पत्तेर् एव प्रधानता तस्यास् तत्साध्यत्वात्[१५]| इतरस्य[१६]च तदुपायत्वेनाप्रधानत्वात् | तस्माद् अनुमानव्युत्पत्तिर् [T. २०७ब्.] एव प्रयोजनतया प्रतीयते न प्रकरणव्यापार इति | परोक्षार्थप्रति[पत्तेः अनुमानाश्रय]त्वात् इत्य् अनेन तु प्रकरणार्थस्यानुमानलक्षणस्य प्रयोजनम् आह | न हि वाक्यस्य स्वार्थप्रतीतिलक्षणं फलम्[१७]अस्तीत्य् एता[व् अतैव प्रेक्षावान् प्रव]र्त्तते ऽपि तु तदभिधेयार्थस्य पुरुषार्थोपयोगित्वे सति | तच् चेहास्ति यतः परोक्षार्थस्य या प्रतिपत्तिः -- निश्चयः -- तस्या अनुमा[नं -- त्रिरूपलिङ्गम्] [S. ४अ.] कारणे कार्योपचारात् | अनन्योपायसाध्यतां दर्शयितुं {प्. ४.१} परमतनिरासार्थम् आश्रयः -- कारणम्, अनुमानम् आश्रयो यस्येति सामान्येन विगृह्य | [तदनु च] कस्यानुमानाश्रयत्वाद् इति विशेषापेक्षायाम् -- यद्य् अपि परोक्षार्थप्रतिपत्तिशब्दसम्भन्धे स्त्रीत्वं गम्यते तथापि तत्[१८]पदसंस्कारवेलायां बुद्ध्यसंनिहितत्वात् बहिरङ्गम् इति न स्त्रीप्रत्ययनिमित्तं यथाभूतम् इयं ब्राह्मणी, आवपनम् इयम् उष्ट्रिकेति |
SK
__________NOTES__________
SK
[३] प्रयोजनाभिधानम् [४] श्रोतृजनप्रवृत्त्यर्थत्वम् [५] प्रयोजनार्थितया [६] प्रयोजनाभिधानस्य [७] आदिवाक्यस्य निश्चायकत्वसंवर्णनम् [८] प्रयोजन- [९] उपाय- [१०] संशयात् [११] प्रयोजनविशेषोपायत्वस्य [१२] संशयस्य [१३] तद्व्युत्पत्ति- [१४] शाब्दन्यायेन [१५] प्रकरणव्यापार- [१६] प्रकरण- [१७] प्रयोजनम् -- T. [१८] स्त्रीत्वम्
SK
[सर्वपरोक्षप्रतीतेर् लिङ्गजत्वाद् एवानुमानत्वसूचनम् |]
SK
अनेन च सर्वा परोक्षा[र्थ]प्रतिपत्तिः प्रमाणभूता, अन्यस्मात् तत्प्रतिपत्त्य् अयोगात्, त्रिरूपलिङ्गाश्रयैवेत्य् उक्तं भवति [S. ४ब्.] अनुमानाश्रयत्वाद् एवेति अवधारणात् | [ततश् च शब्दादी]नां सति प्रामाण्ये ऽनुमानता, अन्यथा[१९]तेषाम् अपि व्युत्पाद्यताप्रसङ्गो निमित्तस्य[२०]समानत्वात् | तथा हि -- सर्वा परोक्षार्थप्रतिपत्तिः प्र[माणभूता], न स्वतन्त्रा भवति | तस्याः[२१]स्वार्थप्रतिबन्धाभावेन नियमेन तत्संवादायोगात्[२२]| अविसंवादलक्षणत्वाच् च प्रमाणस्य | अन्यतो ऽपि [असम्बद्धाद् यदि स्या]त् [T. २०८अ.] सर्वतः सर्वप्रतिपत्तिप्रसङ्गात् धर्म्यसम्बन्धे ऽपि सर्वत्र प्रतीतिं जनयेत्, प्रत्यासत्तिविप्रकर्षाभावात् | ६एवम्भूतश् च[२३]त्रिरूप[लिङ्गम् एवार्थो भव]तीति सर्वा परोक्षार्थप्रतिपत्तिस् त्रिरूपलिङ्गजत्वेनानुमानात् न भिद्यत इति | एष चार्थः पक्षधर्मस् तदंशेन व्याप्तो हेतुः, कस्य?, परोक्षा[र्थप्रतिपत्ते]र् इति [S. ५.अ] प्रकृतेन संबन्धाद् दर्शितः, पक्षधर्म एव तदंशेन व्याप्त एव च परोक्षार्थप्रतिपत्तेर् हेतुर् इत्य् अवधारणात् |
SK
__________NOTES__________
SK
[१९] अवधारणाभावे [२०] परोक्षार्थप्रतिपत्तिकारणत्वस्य [२१] स्वतन्त्रप्रतिपत्तेः [२२] स्वार्थ- [२३] प्रतिबद्धं पक्षसंबद्धं च
SK
[स्वलक्षणस्यैव वस्तुत्वं न सामान्यस्येति स्थापनम् |]
SK
अर्थग्रहणं तु परोक्षार्थप्रतिपत्तेर् इत्य् अ[नुमा]नस्यापि स्वलक्षणविषयं प्रामाण्यं दर्शयितुम् | अर्थक्रियासमर्थो ह्य् अर्थः, स्वलक्षणं चैवमात्मकम् | अत एव -- वस्त्व् अधिष्ठानत्वात् प्रमाणव्यवस्थायाः -- [इति व]क्ष्यति | अन्यथाऽनुमानात् तत्र प्रवृत्तिर् न स्याद् अर्थक्रियार्थिनः | {प्. ५.१} सामान्यस्यावस्तुत्वे ऽपि ज्ञानमात्रलक्षणत्वात् तदर्थक्रियायाः तस्याश् च तदु[त्पाद्य]त्वेन सिद्धत्वात् | न हि जातिर् दाहपाकादाव् उपयुज्यते, स्वलक्षणस्यैव तत्रोपयोगात्[२४]| तत्सम्बन्धात् तत्र प्रवृत्तिर् इति चेत्; न, नित्यस्यानुपकार[कत्वेन] केनचित् सम्भन्धाभावात् | सत्य् अपि च सम्बन्धे कथम् अन्यप्रतिपत्ताव् अन्यत्र प्रवृत्तिः, अतिप्रसङ्गात् | [S. ५ब्.] समवायस्य सूक्ष्मत्वेनानवसितविवेकस्यावसायाद् भ्रान्त्या तत्र प्रवृत्तिर् इति चेत्; [T. २०८ब्.] एवं तर्हि भ्रान्तिमात्रम् एवास्तु, किम् अन्तर्गडुना सामान्येन? | निर्ब्बीजभ्रान्त्ययोगाद् इति चेत्; ता एव व्यक्तयस् तदेकका[र्यकारिण्यो भ्रान्तेर् बीजम्] | वर्णाकृतिसमानाकारं हि सामान्यज्ञानम् | न च सामान्यं तद्रूपम्, तत् कथं तद् भ्रान्तेर् ब्बीजम् | सादृश्यनिबन्धना हि भ्रान्तिर् इष्यते परैः | व्यक्त्य एव चा[समानजा]तीयव्यावृत्ताः सामान्याकारज्ञानस्वरूपास् ततस् ता एव भ्रान्तिबीजम्, अतद्रूपव्यावृत्तेस् तासु भावात् | वस्तुभूतस्य तु सामान्यस्य सम्भन्ध्[आसंभवे]न तासु भावायोगाच् च | यैस्[२५]तु व्यक्त्यात्मकम् एव सामान्यं कल्पितं तैः स्वलक्षणविषयम् अनुमानस्य प्रामाण्यम् अभ्युपगतम् एव भवति | स्वलक्षणात्मकं तु सामान्यं कथम् अनुमाने[२६]प्रतिभासते, वैशेषिकदर्शनोपगमप्रसङ्गात् | .............................................................................................................. ................................................................................................................................[S.६अ अन्द् S. ६ब्.]................................................................................................... ............................................................................................................................................................................................................................................................... {प्. ६.१} [ १. हेतोः सामान्यनिरूपणम् |] [सेच्तिओन्: १. हेतोस् त्रित्वेन व्याप्तिः कथं फलितेति चर्चा |]
SK
__________NOTES__________
SK
[२४] वर्णाकृत्ययोगाच् च [२५] सांख्यैः [२६] स्वलक्षणाप्रतिभासे
SK
[S. ७अ.] ............ हि कथितम् | तत्र कार्यस्वभावयोर् विधिसाधनत्वान् न प्रतिषेधे साध्ये व्यापारः | अनुपलब्धितो ऽपि न हेत्वन्तराभावनिश्चयो यतः सा चतुर्द्धाऽवस्थिता स्वभाव[कारण]व्यापकानुपलब्धयो विरुद्ध[T. २०९ब्.]विद्धिश् चेति[२७]| तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिणः स्वभावानुपलब्धिर् अन्योपलब्धिरूपा अभावव्यवहारहेतुर् इष्यते | न [च हेत्वन्]तरम् अत्यन्ताभावतयोपगतम् अनुक्रान्तरूपम्[२८], यदि हि स्याद्देशादिनिषेध एवास्य स्यात् नात्यन्ताभावः | कारणव्यापकानुपलब्धी तु सिद्धे कार्य[कारण]व्याप्यव्यापकभावे भवतः | न च हेत्वन्तरे ऽत्यन्तासत्तयाङ्गीकृते प्रकारो ऽयं सम्भवति | तत् कथं ते तदभावं गमयिष्यतः | विरोधो ऽप्य् अविकल[कारणस्य] भवतो ऽन्यभावे ऽभावाद् अवगम्यत इति विरुद्धोपलब्धिर् अप्य् असम्भविनी | सम्भवे वा कारणानुपलब्ध्य् आदीनां कथम् अत्यन्तनिषेधः? इत्य् आशङ्क्याह -- हेत्वाभासास् ततो ऽपर इति | ततः त्रिविद्धाद् धेतोः अपरे अन्ये हेत्वाभासाः यतस् ततस् त्रिधैव स इति | एवं मन्यते -- इह यद्[२९]यत्र नियम्यते [तद्वि]पर्ययेण [S. ७ब्.] तद्विपक्षस्य व्याप्तौ स नियमः सिद्ध्यति | यथा यत् सत् तत् क्षणिकम् एवेति सत्त्वस्य क्षणिकेषु नियम उच्यमानः सत्त्वविपर्ययेणा[स]त्त्वेन क्षणिकविपक्षस्याक्षणिकस्य व्याप्तौ सिद्ध्यति | एवम् इहापि त्रित्वे हेतुर् नियम्यमानो हेतुविपर्ययेण हेत्वाभासत्वेन त्रिसंख्याबा[ह्यस्यार्थ]स्य व्याप्तौ त्रिसांख्यायाम् एव नियतो भवति | ततस् त्रिविधहेतुव्यतिरिक्तानाम् अर्थानां हेत्वाभासतां दर्शयति | तेन स्वभावविरुद्धोपलब्ध्या [कार्य-स्व]भावानुपलम्भव्यतिरिक्तानाम् अर्थानां हेतुत्वाभाव[T. २१०अ.]निश्चय इति | हेतुतदाभासयोश् च परस्परपरिहारस्थितलक्षणतयैव विरोधो {प्. ७.१} [हेतुल]क्षणप्रतीतिकाल एव प्रतिपन्नः | तदात्मनियतप्रतिभासज्ञानाद्[३०]एव तद्विपरीतस्यान्यतया तदाभासताप्रतीतेः, परस्परम् इतरेतररूपाभाव[निश्च]यात् | तत्र त्रिविधहेतुव्यतिरिक्तेष्व् अर्थेषु हेत्वाभासत्वम् उपलभ्यमानं स्वविरुद्धं हेतुत्वं निराकरोति | ते च हेतुत्रयबाह्या अर्था नात्यन्तासत्त[योप][S. ८अ.]गता नापि हेतुत्वं तेषु निषिध्यमानं, केवलं व्यामोहात् हेतुत्वम् अन्यत्र प्रसिद्धम् एव तत्रा ऽऽरोपितम् आशङ्कितं वा तद्विरुद्धोपलम्भाद् अपसार्यते | तत् किम् उच्यते -- [अत्यन्तासंभ]विनः कथंविरोधः इति | न च सहानवस्थानलक्षण एव विरोधो येन तन् न्यायः[३१]सर्वत्रोपवर्ण्येत | नापि यद् यत्र प्रतिषिध्यते तस्य तत्रैव विरो[धः प्रति]पत्तव्यो येन कथम् असतः केनचिद् विरोधगतिः? इति चोद्येत | न हि नात्र शीतस्पर्शो ऽग्नेर् इति साध्यधर्मिण्य् एव शीतस्पर्शस्याग्निना विरोधो ऽपि तु सर्वत्र यथा[३२]तु अस्यान्यत्र[३३]प्रतीतविरोधस्याग्निना साध्यधर्मिणि निषेधः तथा हेत्वाभासत्वोपलम्भाद् हेतुत्रयबाह्येष्व् अर्थेषु हेतुत्वनिरासः | [अत्यन्तास]तो ऽपि च लाक्षणिको विरोधः प्रतीयते यथा क्षणिकत्वेनाक्षणिकत्वस्य तस्य वस्तुनि क्वचिद् अप्य् असम्भवात्, भावेन वा यद्वदभावस्य सर्व[शक्तिविरहल]क्षणस्येत्य् अलं दुर्मतिविस्पन्दितेष्व् अत्यादरेणेति स्थितम् एतत् -- त्रित्वे हेतुत्वं नियम्यमानं [तद्विपर्ययस्या][S. ८ब्.][T. २१०ब्.] ऽपि च व्याप्तौ सत्यां तत्र[३४]नियतं भवतीत्य् अभिप्रायवता विपर्ययव्याप्तिं प्रदर्शयितुम् इदम् उक्तम् -- हेत्वाभास(सा)स्ततो ऽपर इति |
SK
__________NOTES__________
SK
[२७] -चेति | तत्र तुल्य- -- T. [२८] एकज्ञानसंसर्गिव[स्त्वन्तरम्] [२९] हेतुत्वम् [३०] हेतु- [३१] भवतो ऽन्य्भावे ऽभावलक्षणः [३२] यथाप्रतीतस्यैवास्य -- T. [३३] शीतस्पर्शस्य [३४] त्रित्वे
SK
[सेच्तिओन्: २. त्रिविधबाह्यार्थानां हेत्वाभासत्वेन व्याप्तेश् चर्चा]
SK
तत्रैतत् स्यात् -- क्षणिकविपक्ष[स्य सत्त्व]विपर्ययेण व्याप्तिर् बाधकप्रमाणवशाद् अवसिता इह तु त्रिसङ्ख्याबाह्यानाम् अर्थानां हेत्वाभासत्वेन व्याप्तिः कतरेण प्रमाणेनावसितेत्य् अ[त्राह] -- अविनाभावनियमात् इति | त्रिविधहेतुव्यतिरिक्ते लिङ्गतयोपगते शङ्ख्यमाने वा वस्तुनि पक्षधर्मतासद्भावे ऽप्य् अविनाभावाभावा[द् {प्. ८.१} इत्य् अर्थः] | तथा च वक्ष्यति -- न स त्रिविधाद् धेतोर् अन्यत्रास्तीत्य् अत्रैव नियत उच्यत इति | अविनाभाववैकल्यं च हेत्वाभासत्वेनासिद्धविरुद्धानैकान्तिकसामान्य[धर्मे]ण व्याप्तं प्रमेयत्वादौ निश्चितम् इति हेत्वाभासत्वे साध्ये ऽविनाभाववैकल्यं स्वभावहेतुः | अवीनाभाववैकल्यं च त्रिविधहेतुव्यतिरिक्तत्वाद् एव [तदन्येषां] [S. ९अ.] [व्याप]कानुपलब्धितः सिद्धम् | तथा हि -- तादात्म्यतदुत्पत्तिभ्याम् अविनाभावो व्याप्तः, तयोस् तत्रावश्यं[३५]भावात् | तस्य च तयोर् एव भावाद् अतत्स्वभावस्यातदुत्पत्तेश् च [तदनायत्तत]या तदव्यभिचारनियमाभावात् | तदुक्तम् -- कार्यकारणभावाद् वा स्वभावाद्[३६] वा नियामकात् | अविनाभाव[३७]नियमो[३८] ऽदर्शनान्[३९] न दर्शनात्[४०]||
SK
[अवश्यं भाव]नियमः कः [४१]परस्यान्यथा[४२] परैः[४३] | अन(अर्था)न्तरनिमित्ते[४४] वा धर्मे[४५] वाससि [T. २११अ.] रागवत् ||[PV I ३३-३४ XE ᳚PV I ३३-३४᳚] इति | रूपादिना ऽपि हि रसादेर् अविनाभावो न स्व[तः किन्तु स्वकार]णाव्यभिचारद्वारक इति तत्कारणोत्पत्तिर् एवाविनाभावनिबन्धनम् | अन्यथा[४६]तदनायत्तस्य[४७]तत्प्रकारणानायत्तस्य[४८]वा तेना[विनाभावकल्प]नायां सर्वस्य सर्वार्थैर् अविनाभावः स्यात्, अविशेषात् | एकार्थसमवायनिमित्तो रूपरसादेर् अविनाभाव इति चेत् | ननु समवायो ऽप्य् आधार्या[धार]भूतानाम् उपवर्ण्यते | स चाधाराधेयभावस् तदात्मानुपकारे[४९]ऽति प्रसङ्गतो न सिध्यतीत्य् एकसामग्र्यधीनतैवैकार्थसमवायो[ ऽवसे]यः | [S. ९ब्.] अन्यो वा वस्तुभूतः संबन्धो ऽसम्भवी तथासम्बन्धपरीक्षायांविस्तरतःशास्त्रकृताप्रतिपादितम् एवेति तत एवावधार्यम् | अस _ _ न वा {प्. ९.१} ज(नन्वसत्य् अपि ज)न्यजनकभावे, तादात्म्ये वा, तेनैवाविनाभावो नान्येनेत्य् अत्र वस्तुस्वभावैर् एवोत्तरं वाच्यम् ये एवं भवन्ति नास्माभिः, के[वलं वयं द्रष्टार] इति चेत्; आकस्मिकस् तर्हि स वस्तूनां स्वभाव इति न कस्यचिन् न स्यात् | न ह्य् अहेतोर् द्देशकालद्रव्यनियमो युक्तः | [तद् धि किञ्चित् क्वचिद् उप]नीयेत न वा यस्य यत्र किञ्चिद् आयत्तमनायत्तं[५०]वा | अन्यथा विशेषाभावादिष्टदेशकालद्रव्यवद् अन्यदेशादिभावः के[न वार्येत विशेषाभावात् | ततो य]द्येनाविनाभूतं दृश्यते तस्य तेनाव्यभिचारकारणं तत्त्वचिन्तकैर् अभिधानीयम्, [T. २११ब्.] न तु पादप्रसारिका ऽवलम्बनीया | तच् चाव्यभिचारकारणम् [S. १०अ.] यथोक्ताद् अन्यन् न युज्यत इति तद्विकला न हेतुलक्षणभाज इति | तथा चाह - संयोग्यादिषु येष्व् अस्ति प्रतीबन्धो न तादृशः|
SK
न ते हेतव [इत्य् उक्तं] व्यभिचारस्य संभवात् ||
SK
[PV ४.२०३] इति | अत्र प्रयोगः -- यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो न स तदविनाभावी, तथा प्रमेयत्वादिर् अनित्यत्वादिना, न स्तश् च केनचित् तादात्म्यतदुत्पत्ती स्वभावकार्यव्यतिरेकिणाम् अर्थानाम् इति व्यापकानुपलब्धिः | स्वभावानुपलब्धिस् तु स्वभावहेताव् अन्तर्भावितेति तस्याः [तादात्म्य]लक्षण एव प्रतिबन्धः | व्यापककारणानुपलब्धी तु तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवशाद् एव व्याप्यकार्योर् निवृत्तिं साध्यतः | [तदुक्तम् - तस्मा]त् तन्मात्रसंबद्धःस्वभावो[५१] भावम्[५२] एव वा| निवर्तयेत् कारणंवाकार्यम् अव्यभिचारतः || [PV ३.२२] इति | तद् एवं हेतुलक्षणं १ संख्यानियमः २ तदुपदर्श[कं च प्रमाण]म् ३ अत्र [S. १०ब्.] श्लोके निर्दिष्टम् इति |
SK
__________NOTES__________
SK
[३५] अविनाभावे [३६] तादात्म्यात् [३७] साध्येन [३८] साधनस्य [३९] विपक्षे [४०] सपक्षे [४१] साधनस्य [४२] तादात्म्यतदुत्पत्त्यभावे [४३] साध्ये [४४] मुद्गरादि- [४५] नित्यत्वादिके [४६] एकसामग्रीप्रतिबन्धाभावे [४७] साध्यानायत्तस्य [४८] साध्यकारणानायत्तस्य [४९] आधेयस्य रूपरसादेर् अनुपकारे [५०] प्रतिबद्धम् [५१] अनित्यादिकः [५२] व्याप्यं कृतकत्वादिकम्
SK
[सेच्तिओन्: ३. अविनाभावनियमादित्यस्य प्रकारान्तरेण व्याख्यानम् |]
SK
अथवा `त्रिधैव सःऽ इति स पक्षधर्मस् त्रिप्रकार एव स्वभावकार्यानुपलम्भाख्यस् तदंशेन व्याप्तो नान्यः | [स] त्रिप्रकारस् {प्. १०.१} तदंशेन व्याप्त एवेति सम्भन्धः | किं कारणम्? | अविनाभावनियमात् | अविनाभावस्य -- व्याप्तेः | त्रिविध एव पक्षधर्मे नियमात् | त्रिविधस्य च पक्षधर्मस्याविनाभावनियमात् | तेन च [स्व]भावकार्यानुपलम्भात्मकत्रिविधपक्षधर्मव्यतिरिक्ता [T. २१२अ.] न तदंशेन व्याप्ता इति | त्रिविधश् च कार्यस्वभावानुपलब्धिरूपः पक्षधर्मस् तदंशेन व्याप्त एवेति न तस्याहेतुत्वम् इत्य् उक्तं भवति | ततस् त्रिविधहेतुबाह्येष्व् अवि[नाभावाभा]वाद् धेतुव्यवहारं कुर्वन्तः, त्रिविधे च हेताव् अविनाभावस्यावश्यम् भावा[भावा]द् अहेतुत्वम् आचक्षाणा[५३]निरस्ता भवति | [S. ११अ.]
SK
__________NOTES__________
SK
[५३] चार्वाकाः
SK
[सेच्तिओन्: ४. हेत्वाभासालक्षणानभिधानेपि तत्सूचनम् |]
SK
तत्रैतत् स्यात् -- हेत्वाभासानाम् अपि [लक्षणम् अ]भिधानीयं तत्र शिष्याणां हेतुव्यवहारनिवृत्तय इत्य् आह हेत्वाभासास् ततो ऽपर इति | ततः पक्षधर्मस् तदंशेन व्याप्त इति हेतुलक्षणाद् अपरे अ[न्ये त]ल्लक्षणविकला हेत्वाभासा गम्यन्त एवेति न तल्लक्षणम् उच्यते | तथा हि -- पक्षधर्मः इत्य् उक्ते यत्र पक्षधर्मता नास्ति न स हेतुः | तदंशेन व्याप्तः इति वचने यत्र तदंशव्याप्तिविरहो विपर्ययव्याप्तेर् व्यापकस्य वा तत्रावश्यम् भावाभावात्, ते हेतुरूपविकलतया हेत्वाभासाः असिद्धविरुद्धानैकान्तिका गम्यन्त एव | तथा हि -- यल्लक्षणो[५४]यो ऽर्थः शिष्यस्य व्युत्पादितः तल्लक्षणविरहिते न तद्व्यवहारं स्वयम् एव प्रवर्तयिष्यति अ[तद्रूप]परिहारेनैव तद्रूपप्रतिपत्तोर् इति न तत्र यत्नः फलवान् भवति | [S. ११ब्.] यत् त्व् अन्यत्र हेत्वाभासव्युत्पादनं तन्मन्दबुद्धीनधिकृत्य | इदं तु प्रकरणं विपुलमतीन् उद्दिश्य प्रणीतम् संक्षेपतः इति वचनात् | [T. २१२ब्.] त एव हि संक्षेपोक्तं यथावद् अवगन्तुं क्षमाः न मन्दमतयः, तेषां विस्तराभिधानम् अन्तरेण यथावद् अर्थप्रतिपत्तेर् अभावात् | अत एवार्थाक्षिप्तोपन्यासपूर्वकम् एव हेत्वाभासलक्षणं तत्रोपवर्णितम् इति | तदत्र व्याख्याने हेतुलक्षणं १ {प्. ११.१} हेतुसाम्ख्यानियमः २ तस्य च त्रिविधस्य हेतुत्वावधारणं ३ तदुभयकारणं[५५]श्लिष्टनिर्देशा[त् ४-५] हेत्वाभासलक्षणानभिधानकारणं ६ चेति षडर्थाः श्लोके ऽत्र निर्दिष्टा इति | किञ्चिद् -- इदम् अपि साधु दृश्यते -- त्रिधैव कार्यस्वभावानुपलब्धि[भेद]भिन्नः स हेतुः | तथा, त्रिधैव पक्षधर्मान्वयव्यतिरेकरूपभेदात् त्रिप्रकार एव त्रिरूप एव | [S. १२अ.] तदंशव्याप्तिवचनेनान्वयव्यतिरेकयोर् अभिधानात् | नाबाधितविषयत्वादिरूपान्तरयोग्य् अपि स हेतुः | कुतः? यतः {१}हेत्वाभासास् ततो ऽपरे {२}ततः त्रिविधात् सवभा[वा]देः, पक्षधर्मादिरूपत्रययोगिनो वा अपरे अन्ये संयोग्यादयो ऽबाधितविषयत्वादिव्यतिरिक्तरूपवन्तो वा | कस्माद्? | अविनाभावस्य अत्रैव त्रिविध एव त्रिरूप एव च हेतौ नियमाद् अन्यत्र स्वभावादिव्यतिरिक्त(क्ते) रूपान्तरसम्भविनि वा अविनाभावाभावाद् इत्य् अर्थः | न हि स्वभावादिव्य[ति]रिक्ते प्रतिबन्धनिबन्धनस्या ऽविनाभावस्य संभवः तद्वति वा रूपान्तरस्य | तथा चा(च) सत्येवाविनाभावे रूपा[T. २१३अ.]न्तरस्य न सम्भवस् तथा षड्लक्षण इत्यादिना वक्ष्यति |
SK
__________NOTES__________
SK
[५४] यद्रूप- [५५] तस्योमयस्य हेतुसंख्यानियमस्य हेतुत्वावधारणस्य कारणं अविनाभावनियम इत्य् एत .........
SK
[ सेच्तिओन्: ५. दिङ्नागानुसारेण पक्षशब्दस्य धर्मिमात्रपरत्वम् |]
SK
पक्षधर्मः इत्य् अत्र हेतुलक्षणे ऽपि क्रियमाणे यदि समुदायः पक्षे(क्षो) गृह्यते यो ऽनुमानविषयस् तदा सर्वो हेतुर् असिद्धः, सिद्धौ वा ऽनुमानवैयर्थ्यम् इत्य् आह पक्षो धर्मी इति | कथं पुनः समुदायवचनः [S. १२ब्.] पक्षशब्दो धर्मिमात्रे वर्तत इति चेत्? अवयवे समुदायोपचारात् | पक्षाख्यस्य हि समुदायस्य द्वाव् अवयवौ धर्मी, धर्मश् च | तद् अत्र धर्मिमात्रे समुदायोपचारात् पक्षशब्दो वर्तते | तदेकदेशत्वं[५६]च समुदायोपचारनिमित्तम् इति न साध्यधर्मिणो ऽन्यत्र तत्प्रसङ्गः | तदुक्तम् -- समुदायस्य साध्यत्वात् धर्ममात्रे [च] धर्मिणि | अमुख्ये ऽप्य् एकदेशत्वात् साध्यत्वम् उपचर्यते || इति | PS III ९ (च्f. HBत्रन्स्ल् ८३५) __________NOTES__________
SK
[५६] यस्य हि य एकदेशस् तत्र ताद्रूप्योपचारः, न हि पटस्यैकदेशे दग्धे कम्बलो दग्ध इत्य् उपचारः
SK
{प्.१२.१}[सेच्तिओन्: ६. दिङ्नागव्याख्याने ईश्वरसेनाक्शेपस् तदुद्धारश् च |]
SK
तद् एतदाचार्यीयंव्याख्यानमीश्वरसेनेनाक्षिप्तं परिहर्तुं पूर्वपक्षयन्न् आह --प्रयो[जने]त्य् आदिना | न र्त्ते प्रयोजनादिष्ट्रं(ष्टं) मुख्यशब्दार्थलङ्घनम् | PS III ३९च्द् (च्f. HBत्रन्स्ल् ८४६) इत्य् असति प्रयोजने नोपचारो युक्तः | ततो धर्मिधर्म इत्य् एवास्त्व् इतिपरः| न प्रयोजनाभावः | कुतः? सर्वश् चासौ विवादाश्रयो ऽन्यो धर्मी यस् तस्य प्रतिषेधो ऽर्थः प्रयोजनं यस्योपचारस्य तद्भावस् तस्मात् सर्वधर्मिधर्मप्रतिषेधार्थत्वाद् उपचारस्य इति प्रयोजनाभावाद् इत्य् असिद्धो हेतुः | क एवं सति गुण इति चेद् आह [S. १३अ.] [T. २१३ब्.] -- एवंहि उपचारे सति चाक्षुषत्वादि आदिग्रहणात् `काकस्य कार्ष्ण्यात्ऽ इत्यादि व्यधिकरणासिद्धं परिहृतं हेतुत्वेन निरस्तं भवति | धर्मिधर्म इति तु सामान्ये[नाभि]धानात् तेषाम् अपि हेतुता स्याद्[५७]इति | असत्य् उपचारे धर्मिग्रहणाद् अप्य् एतत्[५८]सिध्यति | ततो ऽनर्थक एवोपचार इत्य् आह परः -- धर्मवचनेनापि न केवलं ध[र्मिव]चनेन | धर्म्याश्रयसिद्धौ धर्मिण आश्रयणम् आश्रयः परिग्रहस् तस्य सिद्धिस् तस्यां सत्याम् | किं पुनर् द्धर्मस्य धर्म्याक्षेपनिमित्तम् इति चेत्[५९]? परा[श्रयत्वा]त् -- धर्मिपरतन्त्रत्वात् धर्मस्य अवश्यम् असौ धर्मिणम् आक्षिपति | ततो धर्मिवचनम् अतिरिच्यमानं विशिष्टं साध्यधर्मिणम् एव प्रतिपादयति, [न धर्मिमात्रम्] | स्यान् मतम् -- धर्मिग्रहणाद् विशिष्टो ऽत्र धर्मी कश्चिद् अभिप्रेत इति गम्यते, स तु साध्यधर्मीति कुत इत्य् आह -- प्रत्यासत्तेर् न्यायात् | प्रत्यासत्तिश् चात्र धर्मि[वचनसामर्थ्याद् अ]भिप्रेतेति गम्यते | व्याप्तौ[६०]तु न्याये धर्मवचनेनापि धर्मिमात्राक्षेपात्[६१]धर्मिग्रहणवैयर्थ्यम् | [S. १३ब्.] प्रत्यासन्नता च साध्यधर्मिण एव, तत्र {प्. १३.१} प्रथमं हे[तूप]दर्शनात् | न प्रत्यासत्तेः साध्यधर्मिपरिग्रहः | कुतः? | दृष्टान्तधर्मिणो ऽपि न केवलं साध्यधर्मिणः प्रत्यासत्तेः | कदाचिद्[६२]व्याप्तिदर्शनपूर्वके प्रयोगे दृष्टान्तधर्मिण्य् अपि प्रथमं हेतुसद्भावोपदर्शनात् | यदि न प्रत्यासत्तेः साध्यधर्मिसिद्धिः पारिशेष्यात् तर्हि भविष्यति | यतः तदंशव्याप्त्या हेतुभूतया दृष्टान्तधर्मिनि धर्मस्य सत्व(त्त्व)सिद्धेः | न हि [T. २१४अ.] दृष्टान्तम् अन्तरेण हेतोः साध्येन व्याप्तिः प्रदर्शयितुं शक्यत इति मन्यते | ततो धर्मिग्रहणाद् व्यतिरिच्यमानात् साध्यधर्मिण एव परिग्रहः | तदंशेन इति च तच्छब्देन धर्मवचनाक्षिप्तो धर्मी सम्भन्त्स्यत इति तत्सम्भन्धनार्थम् अपि धर्मिग्रहणं नाशङ्कनीयम् | यत्र प्रयोजनान्तरं न सम्भवति स पारिशेष्यविषयः, धर्मिवचनस्य त्व् अन्यद् अपि प्रयोजनं सम्भाव्यते | तत् कुतः पारिशेष्यात् धर्मिवचनात् साध्यधर्मिपरिग्रहः? इति मन्यमानःसिद्धान्तवाद्य् आह -- सिद्धे तदंशव्याप्त्यादृष्टान्तधर्मिणि सत्व(त्त्वे) पुनर् द्धर्मिणो [S. १४अ.] वचनंदृष्टान्तधर्मिण एव यो धर्मःस हेतुर् इति नियमार्थमाशङ्क्येत | ततश्च चाक्षुषत्वादय एव हेतवःस्युः, न कृतकत्वादय इति अनिष्टम् एव स्यात् तस्माद् उपचारःकर्तव्यः इति | किं पुनस्तर्क्कशास्त्रे दृष्टं क्वचित् नियमार्थवचनम् इत्य् अत आह -- दृष्टं सजातीय एव इत्यादि | तत्र यः[६३] सन् सजातीये[६४] -- [NMउ ७] इत्य् अत्रा ऽऽचार्यीये हेतुलक्षणे `सजातीय ए[व] सत्व(त्त्व)म्ऽ इत्य् अवधारणेन सिद्धे ऽपि हेतोर् व्यतिरेके | कुत्र? | साध्याभावे यदेतत् असंस्तदत्यये [NMउ ७] इति असत्व(त्त्व)वचनं तन्नियमार्थमाचार्येण व्याख्यात[म् अ]सत्य्[६५]एव नास्तिता यथा स्यात् नान्यत्र न विरुद्ध इति | तथेहापि धर्मिवचनं[६६]तत्रैव भावनियमार्थम् आशङ्क्येत | कदा? सिद्धे ऽपि दृष्टान्तधर्मिणि [स]त्वे(त्त्वे) | कुतः? {प्. १४.१} तदंशव्याप्तिवचनात् | क्व भावनियमार्थम्? [त]त्रैव दृष्टान्तधर्मिणि, [T. २१४ब्.] सति चाशङ्कासम्भवे | कुतः? | पारिशेष्यात् साध्यधर्मिपरिग्रहः | [S. १४ब्.] ननु अपक्षधर्मस्याहेतुत्वात् न नियमार्थाशङ्का | तथा हि -- साध्यधर्मेण व्याप्तो ऽपि धर्मो यदि क्वचिद् धर्मिण्य् उपलभ्येत तदा तत्रैव स्वव्यापकप्रतीतिं जनयेत् नान्यत्र [प्रत्या]सत्तिविप्रकर्षाभ्यां यथाक्रमम् | अनुपलब्धस् तु क्वचिद् धर्मिणि कथं गमकः? | तथाभावे[६७]वा सर्वत्र स्वव्यापकं गमयेत् प्रत्यासत्तिविप्रकर्षाभावाद् ए[वेत्य् अत] आह -- तस्मात् सामर्थ्यात् इत्यादि | यद् इदम् अनन्तरं सामर्थ्यं समुपवर्णितम् अस्मात् सामर्थ्याद् अर्थस्य साध्यधर्मिपरिग्रहलक्षणस्य भवति प्रतीति[र् प]टुधियां श्रोतॄणाम्, किन्त्व् अशब्दकम् अर्थं स्वयम् अनुसरतां प्रतिपत्तिगौरवं स्यात् | तदुपचारमात्रात् स्वयम् अशब्दकार्थाभ्यूहरहिताद् धर्मिधर्म इत्य् अने[न प]क्षधर्म इति {१}समानिर्द्देशात् [प्रतिपत्तिगौरवंच] परिहृतंभवति | {२}प्रतिपत्तिगौरवंच इति चशब्देनैतद् आह -- ये परोपदेशम् आकाङ्क्षन्ति, तैर् अयम् अर्थो लक्षण[वच]नाद् बोद्धव्य इति.[S.१५अ.] यथालक्षणं प्रतीतेर् अपक्षधर्मो न हेतुर् इति कुतः? इयम् आशङ्का | ततस् तेषां[६८]लक्षणानुसारिणां नियमाशङ्कापरिहारार्थं चोपचारकर[णम् इ]ति |
SK
__________NOTES__________
SK
[५७] घटकाकादिधर्मिधर्मत्वाट् तेषाम् [५८] व्यधिकरणासिद्धनिरसनम् [५९] चेद् आह -- परा- -- T. [६०] यस्य कस्यचिद् धर्मिणो धर्मस्य हेतुत्वम् इति व्याप्तिन्यायः | स यद्य् अभिप्रेतः स्यात् तदा [६१] धर्मिमात्राक्षेपश् च धर्मिपरतन्त्रत्वात् धर्मस्य [६२] द्विविधो हि प्रयोगः -- व्याप्तिपुरस्सरपक्षधर्मतोपसंहारवान्, पक्षधर्मतोपसंहारपूर्वकव्याप्तिवांश् च | यत् कृतकं तद् अनित्यम् | यथा घटः | कृतकश् च शब्द इ....... | [६३] यः सन् सजातीये सपक्षे सन् विद्यमानस् तदत्यये साध्यस्याभावे विपक्षे च द्वेधाऽसन् सद् असन् यदि न भवति | किन्त्व् असन्न् एव विपक्षे यदि भवति तदैव सम्यग् घेतुर् इति भावः [६४] यःसन् सजातीये ऽसन् तदत्यय इतिदिग्नागाचार्यीयंसूत्रं व्याख्यातम् अत्र [६५] अभावरूप अन्यरूपे विरुद्धरूपे वा नास्तिता यस्य स हेतुर् इत्य् अर्थः [६६] धर्मिधर्मवच- -- T. [६७] अनुपलब्धस्यापि गमकत्वे [६८] परोपदेशाकाङ्क्षिणाम्
SK
[सेच्तिओन्: ७. पक्षधर्म इत्य् अत्र नियमव्यवस्था |]
SK
इह व्यवच्छेदफलत्वात् शब्दप्रयोगस्यावश्यम् एवावधारयितव्यम् | षष्ठीसमासाच् च पक्षधर्म इत्य् अत्र नान्यः समासः सम्भवति | तथा च पक्षस्यैव धर्म [इ]त्य् एवम् अवधारणात् तदंशव्याप्तिर् विरुध्यत इति विरुद्धलक्षणताम् उद्भावयन्न् आह -- [T. २१५अ.] पक्षस्य धर्मत्वे त्वं(तं) पक्षंविशेषणम् अन्यतो व्यवच्छेदकम् अपेक्षत इति तद्विशेषणापेक्षस्य धर्मस्य अन्यत्र पक्षीकृताद् अन्यस्मिन् सपक्षे अननुवृत्तिः | तथा हि -- यः पक्षेण विशेष्यते स पक्षस्यैव भवति नान्य[स्य] | यथा -- यो देवदत्तस्य पुत्रः स तस्यैव पुत्रो न यज्ञदत्तस्यापि | {प्. १५.१} ततो ऽन्यत्राननुवृत्तेः असाधारणता -- साधारणता न स्यात् | तदंशव्याप्तिविरोध [इ]ति यावत् | साधारणतायास्त्व(याश् च) तदंशव्याप्त्या प्रतिपादनात् | ततो यदि पक्षधर्मो न त[दंशे]न व्याप्तिः, [S. १५ब्.] अथ तदंशव्याप्तिर् न पक्षधर्म इति व्याहतं लक्षणम् इति | ननु च तदंशव्याप्तिर् नाम साध्यधर्मस्य व्यापकस्य तत्र हेतौ सति तदाधारधर्मिणि भाव एव, व्याप्यस्य वा हेतोस् तत्रैव व्यापके साध्यधर्मे सत्य् एव भाव इति स्वसाध्याविनाभावलक्षणा वक्ष्यते | न चानया ऽवश्यं पक्षीकृताद् अन्यत्र वृत्तिर् आक्षिप्यते, यतो[६९]लक्षणव्याघात आशङ्क्येत | तथा हि -- तत्रैव पक्षीकृते सत्य् एव साध्यधर्मे हेतुर् वर्त्तमानस् तदंशव्याप्तिं प्रतिपद्यत एव | यैव चास्य साध्यधर्मिणि स्वसाध्याविनाभाविता सैव गमकत्वे निबन्धनं नान्यधर्मिणि | स च स्वसाध्याविनाभावः प्रतिबन्धसाधकप्रमाणनिबन्धनः, न सपक्षे क्वचिद् बहुलं वा सहभावमात्रदर्शननिबन्धनः | न हि लोहलेख्यं वज्रम् पार्थिवत्वात् काष्ठादिवत् इति तदन्यत्र पार्थिवत्वस्य [T. २१५ब्.] लोहलेख्यता ऽविनाभावो ऽपि तथाभावो भवति [S. १६अ.] | यदि च पक्षीकृताद् अन्यत्रैव व्याप्तिर् आदर्शयितव्येति नियमस् तदा सत्वं(त्त्वं) कथं क्षणिकतां भावेषु प्रतिपादयेत्? | यो हि सकलपदार्थव्यापिनीम् अक्ष(नीं क्ष)णिकताम् इच्छति तं प्रति कस्यचित् [स]पक्षस्यैवाभावात् | यद् अपि कैश्चित् ज्वालादेः क्षणिकत्वम् अभ्युपगम्यते तद् अपि न प्रत्यक्षतः, क्षणविवेकस्यातिसूक्ष्मतया ऽनुपलक्षणात् | अन्यत्रैव च व्याप्तिर् आदर्शनीया न साध्यधर्मिण्य् अपीति को ऽयं न्यायः? | एवं हि काल्पनिकत्वं हेतुलक्षणस्य[७०]प्रतिपन्नं स्यात्, न वस्तुबलप्रवृत्तत्वम्, तस्मात् स्वसाध्यप्रतिबन्धाद् हेतुस् तेन व्याप्तः सिध्यति | स च विपर्यये बाधकप्रमाणवृत्त्या साध्यधर्मिण्य् अपि सिध्यतीति न किञ्चिद् {प्. १६.१} अन्यत्रानुवृत्त्यपेक्ष्या | अत एवान्यत्रोक्तम्[७१]-- [S. १६ब्.] यत्[७२]क्वचिद्[७३] दृष्टं[७४] तस्य[७५] यत्र[७६] प्रतिबन्धःतद्विधः[७७] तस्य[७८] तद्[७९] गमकंतत्रेति[८०] वस्तुगतिः इति |
SK
__________NOTES__________
SK
[६९] वृत्तेः [७०] अन्वयव्यतिरेकात्मकस्य [७१] विनिश्चये [७२] लिङ्गम् [७३] प्रदेशे [७४] निश्चितम् [७५] लिङ्गस्य [७६] वह्न्यादौ [७७] प्रतिबन्धविदः [७८] वह्नेः [७९] लिङ्गम् [८०] यत्र दृष्टं तत्रैव नान्यत्र
SK
यद् अपि अनुमेये ऽथ तत्तुल्ये सद्भावः-- इत्य्[८१]आदि लक्षणं तत्रापि साध्यधर्मवान्[८२]एव सपक्ष उच्यते | ततः सत्येव साध्यधर्मे वा ऽस्तीत्य् एवं परम् एतत् | ततश् च तद्धर्मणः साध्यधर्मिणो ऽपि वास्तवं सपक्षत्वं न व्यावर्त्तते | साध्यत्वेनेष्टयेच्छाव्यवस्थितलक्षणेन पक्षत्वेन तस्य निराकर्त्तुम् अशक्यत्वात् | तस्मात् तदंशव्याप्तिवचनेन स्वसाध्याविनाभावित्वस्य प्रतिबन्धनिबन्धनस्यान्यथा तदयोगाद्[८३]अभिधानान् नावश्य[T. २१६अ.]म् अन्यत्र वृत्तिर् आक्षिप्तेति, कथम् इदम् आशङ्कितम्? | सत्यम्, नैवेदम् आशङ्कनीयम्, यदि सर्वस्य हेतोः पक्षीकृते एव धर्मिणि स्वसाध्यप्रतिबन्धः प्रमाणतो निश्चेतुं शक्येत | [S. १७अ.] यथा सत्त्वलक्षणस्य स्वभावहेतोः क्षणिकतायां साध्यायां तादात्म्यं विपर्यये बाधकप्रमाणवृत्त्या | कार्यहेतोस् तु प[क्षीकृतधर्मिणा | कस्यचित् स्वभावहेतोः] प्रत्यक्षानुपलम्भसाधनः प्रतिबन्धः कथं परोक्षे साध्यधर्मे गृह्येत? | तस्मात् तस्यान्यत्रैव[८४][प्रसिद्धिर् इति तद्विशेषणापेक्षस्य तत्र अपेक्षणात् अन्य]त्राननुवृत्तेः असाधारणता सम्भवमात्रेणाशङ्किता | तदा ह्य् अन्य्त्रावर्तमानः साध्यविपरीत[व्यतिरेक] ................ ......................... तदुभयबहिर्भावायोगात् तद्धर्मिणः[८५]साध्यवृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् तत्र संशयहेतु[र् भवति | स्यान्मतम् -- क्वचिद् आश्रये सत्तायाः प्राक्प्रवृत्तपूर्वगृही]तविस्मृतप्रतिबन्धसाधकप्रमाणस्मृतये ऽन्यत्र[८६]वृत्तिर् अपेक्षणीया | [S. १७ब्.] एतत् परिहरति | न इत्यादि | [नान्यत्राननुवृत्तिः | कुतः? {प्. १७.१} अयोगो ऽसम्ब]न्धः तद्व्यवच्छेदेन विशेषणात् पक्षस्य | न ह्य् अन्ययोगव्यवच्छेदेनैव विशेषणं भवति | [किन्तु अयोगव्यवच्छेदेनापि | यत्र धर्मिणि ध]र्मस्य सद्भावः संदिह्यते तत्रा ऽयोगव्यवच्छेदस्य न्यायप्राप्तत्वात् | अत्र च दृष्टान्तः [यथाचैत्रो धनुर्धर इति | चैत्रे हि धनुर्धर]त्वं संदिह्यते किम् अस्ति नास्ति इति | ततश् चैत्रो धनुर्द्धर इति तत्सद्भावप्रतिपादिका श्रुतिः [T. २१६ब्.] [पक्षान्तरम् अधनुर्धरत्वं श्रोतुर् आशङ्कोपस्थापितं] निराकरोतीत्य् अयोगव्यवच्छेदो ऽत्र न्यायप्राप्तः | [S. १८अ.] पराभिमतव्यवच्छेदनिराचिकीर्षया ऽऽह -- [न, अन्ययोगव्यवच्छेदेन विशेषणात् अन्यत्राननुवृत्तेर्] असाधारणतेति सम्बन्धः | अत्रापि दृष्टान्तो यथापार्थो धनुर्द्धर इति | सामान्यशब्दो ऽप्य् अयं ध[नुर्धरशब्दः सामर्थ्यादिना प्रकृष्टगुणवृत्तिः | इह पार्थे] हि धनुर्द्धरत्वं सिद्धम् एवेति नायोगाशङ्का | [तादृ]शं तु सातिशयं किम् अन्यत्रास्ति नास्तीत्य् अन्ययोग[शङ्कायां श्रोतुः यदा पार्थो धनुर्धर इति उच्य]ते तदा ऽन्ययोगव्यवच्छेदो न्यायप्राप्तः, प्रतिपाद्याशङ्कोपस्थापितयोर् एव पक्षयोः पर[स्परं विरोधात् एकनिर्देशेन अन्ययोगव्यवच्छेदस्य] न्यायबलायातत्वात् | तद् इह पक्षे ऽस्त्य् अयं धर्मो न वेति संशीतौ [पक्षधर्म इत्य् उक्ते पक्षस्य धर्म एव [S. १८ब्.] नाधर्मः | धर्मश् च आश्रितत्वाद् विशेषणं तेनायोगो व्य]वच्छिद्यते नान्ययोगस् तदंशव्याप्त्या तस्य प्रतिपादित[त्वेन दृष्टान्ते संदेहाभावात् | तदंशः तद्धर्म इति] | तच्छब्देन पक्षः परामृश्यते न धर्मः, धर्मस्य धर्मासम्भवात् | अंशश् च धर्मो नैकदेशः, पक्ष[शब्देन धर्मिमात्रवचनात् | न तदंशः तस्य च एक]देशाभावाद् इति |
SK
__________NOTES__________
SK
[८१] अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तिताऽविपक्षे सति | निश्चिताऽनुपलम्भात्मकार्याख्याहेतुवस् त्रयः||
SK
[८२] स साध्यो धर्मो यस्य साध्यधर्मिणः [८३] स्वसाध्याविनाभाव- [८४] कार्यहेतोः स्वभावहेतोश् च तस्य .......... [८५] स चासौ धर्मी चेति समासः | तद्धर्मणः इति पाठान्तरम्, तत्र च सो ऽसाधारणो धर्मो यस्य तस्येति व्याख्येयम् | स चासौ धर्मी च | तस्य | साध्यधर्मिण इत्य् अर्थः [८६] प्राक् प्रवृत्तं च तत् गृहीतं तद् विस्मृतं च तत् प्रतिबन्धसाधकप्रमाणं च तस्य स्मृतय इति समासः
SK
[ सेच्तिओन्: ८. व्याप्तेर् व्याप्यव्यापकोभयधर्मत्वम् |]
SK
तस्य पक्षधर्मस्य सतो व्याप्तिः -- यो व्याप्नोति यश् च व्याप्यते [तदुभयधर्मतया[८७]प्रतीतेः | यदा व्यापकधर्मतया विवक्ष्यते त]दा व्यापकस्य गम्यस्य[८८]| तत्रेति [T. २१७अ.] सत् सप्तम्य् अर्थप्रधानम् एतत् नाधारप्रधानम्, धर्माणां धर्माधारत्वा संभवात् | {प्. १८.१} तेनायम् अर्थः -- यत्र धर्मिणि व्याप्यम् अस्ति तत्र सर्व्वत्र भाव एव[८९]व्यापकस्य स्वगतो धर्मो व्याप्तिः | तत[श् च व्यापकभावापेक्षया व्याप्यस्यैव व्याप्तताप्रतीतिः] [S. १९अ.] | न त्व् एवम् अवधार्यते | व्यापकस्यैव तत्र भाव इति | हेत्वभावप्रसङ्गाद्[९०]अव्यापकस्यापि मूर्त्तत्वादेस् तत्र भावात् | नापि `तत्रैवेऽ[९१]ति[९२]५प्रयत्नानन्तरीयकत्वादेर् अहेतुतापत्तेः[९३]| साधारणश् च हेतुः स्यात् | नित्यत्वस्य प्रमेयेष्व् एव भावात् | यदा तु व्याप्यधर्मता (र्मतया) विवक्षा व्याप्तेस् तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति | यत्र धर्मिणि व्यापको ऽस्ति तत्रैव भावो, न तदभावे ऽपि व्याप्तिर् इति | अत्रापि व्याप्यस्यैव तत्र भाव इत्य् अवधारणं हेत्वभावप्रसक्तेर्[९४]एव नाश्रितम्, अव्याप्यस्यापि[९५]तत्र भावात् | नापि व्याप्यस्य तत्र भाव एवेति सपक्षैकदेशवृत्तेर्[९६]हेतुत्वप्राप्तेः[९७]| साधारणस्य [च] हेतुत्वं स्यात् | प्रमेयत्वस्य नित्येष्व् अवश्यं भावाद् इति | व्याप्यव्यापकधर्मतासंवर्णनं तु व्याप्तेर् उभयत्र [S. १९ब्.] तुल्यधर्मतयैकाकारा प्रतीतिः संयोगिवत् मा भूद् इति प्रदर्शनार्थम् | तथा हि -- पूर्वत्रायोगव्यवच्छेदेनावधारणम् [T. २१७ब्.] उत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः? | तदुक्तम् -- लिङ्गे लिङ्गीभवत्य् एव लिङ्गिन्य् एवेतरत् पुनः| नियमस्य विपर्यासे ऽसम्बन्धो लिङ्गलिङ्गिनो || इति | [९८]एतेनाचार्येण संयोगबलात् गमकत्वे यो दोष उक्तः -- न च केनचिद् अंशेन न संयोगीहुताशनः| धूमो वासर्वथा[९९] तेन प्राप्तंधूमात् प्रकाशनम् || इति | स इह नावतरतीत्य् आख्यातं भवति | तथा हि -- संयोगस्य उभयत्राविशेषात् एष प्रसङ्गो न तु व्याप्तेः | न हि यादृशी {प्. १९.१} व्यापकधर्मे व्याप्तिः तादृश्य् एव व्याप्यधर्म इति | तथा चाह - सम्बन्धो यद्य् अपि द्विष्ठःसहभाव्यङ्गलिङ्गिनोः| आधाराधेयवद् वृत्तिस् तस्य संयोगिवन् न तु || इति | [S. २०अ.] तेन व्यापको व्याप्यो न भवति व्याप्यश् च [न] व्यापक इति | तदंशेन व्याप्तो हेतुः इति वचनात् न संयोगिपक्षोक्तो दोषः | ना ऽप्य् उभयोर् ग्गम्यगमकताप्रसङ्गः, यथोक्ताद् हेतुलक्षणाद् व्यापकस्यैव गम्यत्वप्रतीतेः, व्याप्यस्यैव गमकतासम्प्रत्ययादीति |
SK
__________NOTES__________
SK
[८७] व्याप्यव्यापक- [८८] भाव एवेति सम्बन्धः [८९] व्यापकस्येति [९०] सर्वथोच्छेद- [९१] हेतौ [९२] अवधार्यते [९३] व्यापकस्यानित्यत्वादेर् अप्रयत्नानन्तरीयेष्व् अपि विद्युदादिषु भावात् [९४] उच्छेद- [९५] अनित्यत्वादेर् व्यापकस्येत्य् अर्थः [९६] प्रयत्नानन्तरीयकत्वाद् [९७] अनित्येष्व् अपि विद्युदादिषु व्याप्यस्य प्रयत्नानन्तरीकत्वस्याभावात् [९८] कारणेन [९९] सर्वथा गम्यगमकभावः प्राप्तः | अग्नेः सामान्यधर्मवद् विशेषधर्मो अपि तार्णपार्णादयो गम्याः स्युः | धूमस्यापि धूमत्वपण्डुत्वादिविशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्माः गमका भवेयुः संयोगस्योभयत्रापि तुल्यत्वात्
SK
[ सेच्तिओन्: ९. व्याप्तेर् अन्वयव्यतिरेकरूपयोस् सूचनम् |]
SK
यदि तर्हि पक्षधर्मस् तदंशेन व्याप्तः इत्य् एतद् धेतुलक्षणं ततः पक्षधर्मत्वं तदंशव्याप्तिश् चेति द्विरूपो हेतुः स्यात्, अन्यत्र च त्रिरूप उक्तः तत् कथं न व्याघातः? इत्य् आह एतेन तदंशव्याप्तिवचनेन अन्वयो व्यतिरेको वाउक्तः वेदितव्य इति सम्बन्धः [T. २१८अ.] | अन्वयव्यतिरेकरूपत्वाद् व्याप्तेर् इति भावः | तथा हि -- य[१००]एव येनान्वितो[१०१]यन्[१०२]निवृत्तौ च निवृत्तते स[१०३]एव तेन[१०४]व्याप्त उच्यत इति तदात्मकत्वाद् व्याप्तेर् व्याप्तिवचनेनान्वयव्यतिरेकाभिधानम् | ततो व्याप्तिवचनेन रूपद्वयाभिधानात् न व्याघात इति | [S. २०ब्.]
SK
__________NOTES__________
SK
[१००] धू (धूमः) [१०१] व (वह्निना) [१०२] व (वह्निं) [१०३] धू (धूमः) [१०४] व (वह्निना)
SK
[ सेच्तिओन्: १० व्याप्तेः प्रत्यक्षेणानुमानेन वा निश्चयः |]
SK
तौ च ज्ञापकहेत्वधिकारात् निश्चितौ | निश्चयश्च तयोर् नैकेनैव प्रमाणेन अपि तु यथास्वम् | यस्य यद् आत्मीयं प्रमाणं निश्चायकं तेन | यस्य च यत् निश्चायकं प्रमाणं तद् उत्तरत्र वक्ष्यति | अन्वयो व्यतिरेको वा इति तुल्यकक्षतासूचनार्थो `वाऽशब्दः | तेन साधर्म्यवैधर्म्यवतोः प्रयोगयोर् एकेनैव द्वितीयगतेर् विधिप्रतिषेधरूपतया व्यावृत्तिभेदे ऽपि परमार्थतस् तादात्म्यात् नोभयोपदर्शनम् इति सूचितं भवति | व्यतिरेको हि साध्यनिवृत्तौ लिङ्गस्य निवृत्तिधर्मकत्वं[१०५]स्वभावभूतो धर्म इत्य् अन्वयरूपता वस्तुतो ऽस्य न विरुध्यते | पक्षधर्मश्च | किं? | यथास्वंप्रमाणेन निश्चितः {प्. २०.१} उक्त इति सम्बन्धः | निश्चयप्रसङ्गेन सो ऽप्य् अत्र प्रतिपाद्यते, निश्चितस्य गमकत्वम् आख्यातुम् | [S. २१अ. अन्द् २१ब्.] ....................................................................... ................................................................................................................................ ......................................................... ............................................................... ............................................................................................................................................................................................ [S. २२अ.] इति प्रदर्शनार्थो `वाऽशब्दः | प्रत्यक्षेण[१०६] च स्वयंस्वलक्षणाकारत्वे ऽप्य् अनन्तरसामान्यविकल्पजननात् प्रसिद्धिः उपचारतो निश्चय उच्यते -- प्रत्यक्षपृष्ठभाविनो विकल्पस्यानधिगतार्थाधिगन्तृत्वाभावं दर्शयितुं | तेन यद्य् अपि सामान्यरूपं लिङ्गम् अवस्थाप्यते तथापि स्वलक्षणप्रतीतिर् एव तद्व्यवस्थानिबन्धनम् इति प्रत्यक्षतः पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धिर् उच्यते | एतच् चानन्तरम् एव व्यक्तीकरिष्यते | अनुमानतो वासाध्यधर्मिनि पक्षधर्मस्य प्रसिद्धिर् निश्चयः | प्रमाणफलभेदाच्[१०७]च अनुमानतः अनुमानेन निश्चयः इति आह | अत्रोदाहरणे यथाक्रमं यथाप्रदेशे [Tत्. ३५६अ.] धूमस्य धूमसामान्यस्य प्रत्यक्षतो निश्चयः इति |
SK
__________NOTES__________
SK
[१०५] न तु निवृत्तिमात्रं तुच्छरूपम् [१०६] ननु निर्विकल्पकेन प्रत्यक्षेण कथं सामान्यात्मनो लिङ्गस्य ग्रहणम्? इत्य् आह [१०७] बौद्धमते न प्रमित्यात्मकं प्रमाणफलं भिन्नं किञ्चिद् अस्ति | किन्तु भेदम् अभ्युपगम्य अनुमानेन निश्चय इति उच्यते | अत्र ह्य् अयं भ्रमो ........................ | पर्यायः
SK
[ सेच्तिओन्: ११. उद्द्योतकरमतं निरस्य देशाद्यपेक्षकार्यहेतोर् गमकत्वोक्तिः |]
SK
यस् तु मन्यते -- `यः प्रदेशो ऽग्निसम्बन्धी सो ऽप्रत्यक्षो यस् तु प्रत्यक्षो नभोभगरूप आलोकाद्यात्मा[१०८]धूमवत् तया दृश्यमानो न सो ऽग्निमान् अतः कथं प्रदेशे धूमस्य प्रत्यक्षतः प्रसिद्धिः | [S. २२ब्.] तस्माद् धूम एव धर्मी युक्तः | साग्निर् अयं धूमः धूमत्वात् इत्य् एवं साध्यसाधनभावःऽ इति -- तस्यापि साग्नेः धूमावयवस्या ऽप्रत्यक्षत्वात्, परिदृश्यमानस्य चोर्द्ध्वभागवर्तिनो ऽग्निना सहावृत्तेः, कथं धूमसामान्यस्य साध्यधर्मिणि प्रत्यक्षतः प्रसिद्धिः? | धूमावयवी प्रत्यक्ष इति चेत्; न, अवयवव्यतिरेकेण [T. २१९ब्.] तस्य्[ह्२]आभावात् | लोकाध्यवसायतस् तस्यैकत्वे वा प्रदेशस्यापि {प्. २१.१} तावतः कल्पितम् एकत्वं न निवार्यते | प्रदेशे एव च लोको ऽग्निं प्रतिपद्यते, न धूमे | देशकालाद्यपेक्षयैव[१०९]च कार्यहेतुर् ग्गमकः | यद् आह - इष्टं[११०] विरुद्धकार्ये ऽपि देशकालाद्यपेक्षणम् | शब्दे वाकृतकत्वस्य प्रत्ययभेदभेदित्वादिनानुमानेनेति |
SK
__________NOTES__________
SK
[१०८] [आ] लोकतम् असी नभः [१०९] धूमकाले एव चाग्निः साध्यते न भस्मकाले [११०] न केवलं कार्यहेतौ
SK
[ सेच्तिओन्: १२. निर्विकल्पं कथं सामान्यग्राहीति कुमारिलाक्षेपस्योत्तरम् |]
SK
अत्र यथोपवर्णितं प्रत्यक्षतः [S. २३अ.] पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धाव् अभिप्रायम् अप्रतिपद्यमानःकुमारिलः-- `कथं प्रत्यक्षेण(णा)विकल्पेन सामान्यात्मनो लिङ्गस्य धूमादेः स्व्रूपग्र[हण]म् अपि तावद् युज्यते, धर्मिणो वा कुत एव तत्सम्बन्धग्रहणम्ऽ -- इति प्रत्यवतस्थे | तेन हि प्रत्यक्षपूर्वकत्वाच् चानुमानादेर् द्धर्मंप्रत्यनिमित्तत्वम् [ŚBह् १.१.४.] इत्य् एतद्भाष्यम् - कथं प्रत्यक्षपूर्वत्वम् अनुमानादिनो भवेत्? | यदा स्मृत्यसमर्थत्वान् निर्विकल्पेन्द्रियस्य धीः|| न चाविकल्प्यलिङ्गस्य धर्मिसम्बन्धयोस् तथा| गृहीतिः [ŚV प्प्. ८७, ८८] इत्य् आक्षिप्य -- प्रत्यक्षाग्रहणं यत् तु लिङ्गादेर् अविकल्पनात् | तन् नेष्टत्वाद् विकल्पस्याप्य् अर्थरूपोपकारिणः|| अस्ति ह्यालोचनाज्ञानंप्रथमंनिर्विकल्पकम् |
SK
बालमूकादिविज्ञानसदृशंशुद्धवस्तुजम् ||
SK
ततः[T. २२०अ.] परंपुनर्वस्तु धर्मैर् जात्यादिभिर् ययः|
SK
बुद्ध्यावसीयते साऽपि प्रत्यक्षत्वेन सम्मता||
SK
[ŚV प्प्. १११, ११२, १२०]
SK
{प्. २२.१}[ह्३]इति ब्रुवता -- `सौगत्[ह्४]आनाम् एवायं लिङ्गधर्मितत्सम्बन्धाग्राहणलक्षणो दोषो येषाम् अविकल्पकम् एव प्रत्यक्षं, नास्माकं सविकल्पम् अपि प्रत्यक्षम् इच्छताम्ऽ [S. २३ब्.] इत्य् उक्तं भवति | ततस् तदुपवर्णितदोषप्रतिविधानाया ऽऽह -- सधूमंहि [Tत्. ३५६अ.] इत्यादि | अयम् अत्र समुदायार्थः -- प्रत्यक्षं हि पुरोवस्थितम् औत्तराधर्येण धूमप्रदेशादिकं विधिरूपेण धूमादिस्वलक्षणं सकलसजातीयविजातीयव्यावृत्तं च स्वस्वभावव्यवस्थितेः सर्वासामर्थमात्राणां परस्परम् असंकीर्णरूपत्वात् १तत्सामर्थ्यभावि यथास्थानम्[१११]अनुकुर्वत् पाश्चात्त्यविधिप्रतिषेधविकल्पद्वयं जनयति येन धूमप्रदेषाख्यौ धर्मधर्मिणौ तयोश् चौत्तराधर्यम् `एवम् एतत् नान्यथाऽ इति विकल्पयति | यथानुभवम् अभ्यासपाटवादिप्रत्ययान्तरसहकारिणां विकल्पानाम् उदयात् | ततो धर्मधर्मिणोः स्वरूपनिश्चयः सम्बन्धनिश्चयश् च प्रत्यक्षनिबन्धनः सम्पद्यते | तथा हि -- अयम् एव धूमप्रदेशयोः सम्बन्धस्य निश्चयो यः `आत्रायम्ऽ इत्य् अध्यवसायः | स चाविकल्पेनापि प्रत्यक्षेण यथोक्तेन प्रकारेण सम्पादित एव | न चौत्तराधर्यावस्थिताद् वस्तुद्वयाद् अन्य [S. २४अ.] एव कश्चिद् आधा[राधे]यभावलक्षणः सम्बन्धः यतः तस्य [T. २२०ब्.] प्रत्यक्षेणाननुभूतत्वात् पश्चाद(द्) विकल्पनं स्यात् | वस्तुभूतस्य तस्यान्यत्र निषेधात् | तस्माद् अयं तद् एव तथावस्थितम्[११२]अर्थद्वयम्[११३]आश्रित्य कल्पनासमारोपित एव | तेन सम्बन्धः सम्बन्धीति भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मधर्मितया व्यवहारो लोके न तु पारमार्थिकः | सामान्यव्यवहारो ऽपि विजातीयव्यावृत्तानेव भावानासृ(श्रि)त्य कल्पनासमारोपित एव प्रतन्यते | तेषाम् एव भिन्नानाम् अप्य् अनुभवद्वारेण विजातीयव्यावृत्ततया प्रकृत्यैवैकाकारपरामर्शप्रत्ययहेतुत्वात् तथा चाह - एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने | भेदे ऽपि नियताःकेचित् स्वभावेनेन्द्रियादिवत् || [PV ३.७२] इति |
SK
__________NOTES__________
SK
[१११] पुरो ऽवस्थितार्थसामर्थ्यभाविप्रत्यक्ष- [११२] औत्तराधर्यावस्थितम् [११३] धूमप्रदेशलक्षण-
SK
{प्. २३.१} ततः सामान्यवि[कल्पजननद्वारा] [S.२४ब्.] तत्प्रतिभासिनो धूमाकारस्य विजातीयव्यावृ[त्तरूपस्य सामान्यरूपतया] प्रत्यक्षेणैव गृहीतत्वात् | न हि विजातीयव्यावृत्तिर् व्यावृत्ताद् अन्यैव काचिद् यस्याः प्रत्यक्षेणाग्रहणं स्यात् | तस्माद् यथापरिदृष्टं धूमादिस्वलक्षणम् एवान्यतो व्यावृ[त्तात्मना वि]कल्प्यत इति प्रतिपत्त्रध्यवसायवशात् स्मृतिर् एव | द्विविधो विकल्पः प्रत्यक्षपृष्ठभावी वस्तुतः पुनर् निर्विषय एव | ततो यद् आह -- सामान्यस्याननुभूत तथा -- स्मार्त्तम् एतद् अभेदेन विज्ञानम् इति यो वदेत् | अनुमानग्राह्यम् एव | तत्र चानवस्था लिङ्गग्राहिणो ऽप्य् अनुमानस्य तदन्यलिङ्गबलेनोत्पत्तेः | तस्य च सामान्यरूपतया [S. २५अ.] तदन्यानुमानमानविषयत्वात् तथा तदन्यस्यापीति कस्यचिद् एकस्यापि लिङ्गिनः प्रतिपत्तिः युगसहस्रैर् अपि न सम्भवति | किम् अङ्ग पुनर् एकेन पुरुषायुष्केणेति | तथा चाह - सामान्यंनानुमानेन विनायस्य प्रतीयते |
SK
न च लिङ्गविनिर्मुक्तम् अनुमानंप्रवर्त्तते ||
SK
असामान्यस्य लिङ्गत्वंन च केनचिद् इष्यते |
SK
न चानवगतंलिङ्गंकिञ्चिद् अस्ति प्रकाशकम् ||
SK
तस्यापि चानुमानेन स्याद् अन्येन गतिःपुनः|
SK
इत्य् आशङ्क्याह [S. २५ब्.] -- सधूमंहि इत्यादि | एवं मन्यते | यस्यानुमानम् अन्तरेण सामान्यं न प्रतीयते भवतु तस्यायं दोषः, {प्. २४.१} अस्माकं तु प्रत्यक्षपृष्ठभाविना ऽपि विकल्पेन प्रकृतिविभ्रमात् सामान्यं प्रतीयते | लिङ्गविकल्पस्य च स्वलक्षणदर्शनाश्रयत्वात् [T. २२१ब्.] परम्परया वस्तुप्रतिबन्धाद् अविसंवादकत्वम्, मणिप्रभायाम् इव मणिभ्रान्तेः | कार्यहेतुत्वम् अपि विकल्पावभासिनो धूमसामान्यस्य लिङ्गतया ऽवस्थाप्यमानस्य कार्यदर्शनाश्रयतया तदध्यवसायाच् च | न हि धूमस्वलक्षणस्य लिङ्गता ऽवस्थापयितुं युक्ता, तस्यासाधारणस्य सपक्षे वृत्त्यभावात्, तदंशव्याप्त्ययोगात्, साध्यसाधनसंकल्पे वस्तुदर्शनासम्भवाच् चेति | यत् तूक्तम् [S. २६अ.] `सामान्यलक्षणविषयम् अनुमानम्ऽ इति तत्र नैवम् अवधार्यते -- सामान्यलक्षणविषयम् अनुमानम् एवेति | प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयत्वात् तदन्यस्य[११४]च विकल्पस्य | किन्तु सामान्यलक्षणविषयम् एवानुमानम् इत्य् अवधार्यते स्वलक्षणविषयत्वनिषेधार्थम् इति | तत्र सह धूमेन वर्तत इति सधूमः | पक्षधर्मताप्रतिपादनार्थम् एवम् उक्तम् | विधिविकल्पस्य चैतद् एव बीजम् | तं सधूमंप्रदेशंदृष्टवतः प्रत्यक्षेणेति सम्भन्धः | कीदृशम् अर्थान्तरविविक्तरूपम् अर्थान्तरैः सजातीयविजातीयैर् विविक्तम् असङ्कीर्णं रूपम् अस्येति विग्रहः | सर्वभावानां स्वस्वभावव्यवस्थितेः स्वभावसाङ्कर्याभावात् | अन्यथा सर्वस्य सर्वत्रोपयोगाद् अतिप्रसङ्गः | [S. २६ब्.] अनेन प्रतिषेधविकल्पस्य निमित्तम् आख्यातम्, सामान्योत्प्रेक्षायाश् च बीजम् | तदुक्तम् - इतरेतरभेदो ऽन्त्य(स्य)[११५] बीजंसंज्ञायदर्थका[T. २२२अ.] [PV ३.७१] इति | तथा हि -- अर्थान्तरव्यावृत्तिं परस्परव्यावृत्तानाम् अपि समानाम् उत्पश्यतो भिन्नम् एषां रूपं तिरोधाया ऽभिन्नं स्वभावम् ३आरोपयन्ती कल्पनोत्पद्यते[११६]| अस्[ह्५]आधारणात्मना इति अर्थान्तरव्यावृत्तेन स्वभावेन | न तु यथाकुमारिलो मन्यते -- `अर्थान्तरविवेको ऽभावप्रमाणग्राह्यो न प्रत्यक्षावसेयःऽ इति | न हि वस्तुबलभाविना प्रत्यक्षेण अन्यथादर्शनसम्भवो भ्रान्तताप्रसङ्गात् | {प्. २५.१} तेनात्मना[ह्६]दृष्टवतः सतः पुंसो ऽनन्तरं स्मार्त्तंलिङ्गज्ञानम् उत्पद्यत इति सम्बन्धः | स्मृतिर् एव स्मार्त्तम् | लिङ्गप्रतिभासि ज्ञानं लिङ्गज्ञानम् | अनेन प्रत्यक्षपृष्ठभाविनि विकल्पे यत्सामान्यमाभाति तस्य लिङ्गव्यवस्थाम् आह | परमार्थतः किं विषयम्? यथादृष्टभेदपरमार्थ[विषयम्] [S. २७अ. अन्द् २७ ब्.] ........................................................................................ .................................................................................................................................................................................................................................................................................................................................................................................. [ सेच्तिओन्: १४. दर्शनविधिप्रतिषेदविकल्पेषु प्रामाण्याप्रामाण्यव्यवस्था |]
SK
__________NOTES__________
SK
[११४] स्मृत्यादेः [११५] सामान्यस्य [११६] -यन् विकल्प उत्प- -- T.
SK
[S. २८अ.] [द]र्शनविधिप्रतिषेधविकल्पानां प्रमाणाप्रमाणचिन्ताम् आरभते. तत्र तेषु दर्शनविधिप्रतिषेध[T. २२३अ.]विकल्पेषु. तद् आद्यं यद् एतत् -- अस्ति ह्य् आलोचनाज्ञानं प्रथमम् [ŚV प्रत्यक्षपरिच्छेद ११२अब्]इति आदौ विकल्पप्रवृत्तेर् भवम् इति आद्यम् आख्यातम् असाधारणविषयं स्वलक्षणविषयं दर्शनम्, तद् एव प्रमाणम्, न विधिप्रतिषेधविकल्पाव् अपि, तस्यैव प्रमाणलक्षणयोगाद् इतरयोश् च तदसम्भवात्. तथा हि -- अनधिगतविषयत्वम् अर्थक्रियासाधनविषयत्वं च प्रमाणलक्षणम्.[११७]तद् दर्शनस्यैवास्ति. तत्र आद्यम् इत्य् अपूर्वार्थविज्ञानत्वम् आख्यातम् असाधारणविषयम् इति अर्थक्रियासाधनविषयत्वम्, स्वलक्षणस्यैवार्थक्रियासाधनत्वात्.[ सेच्तिओन्: १५. प्रतिषेधविकल्पस्याप्रामाण्यस्थापनम् |]
SK
__________NOTES__________
SK
[११७] प्रथमविशेषणात् प्रतिषेधविकल्पस्याऽध्यवसेयार्थक्रियासाधनविषयत्वे ऽपि न प्रामाण्यम् | द्वितीयात् तु धिधिविकल्पस्यानधिगतसामान्यविषयत्वे ऽपि न प्रामाण्यम्
SK
तत्र प्रतिषेधविकल्पस्य तावत् प्रत्यक्षगृहीतार्थविषयतया स्मृतित्वं प्रतिपादयन्न् आह -- तस्मिन् असाधारणे तथाभूते अर्थान्तरैर् असङ्कीर्ण[S. २८ब्.]रूपे दर्शनेन असङ्कीर्णरूपसामर्थ्यभाविना दृष्टे अधिगते सति. तथा हि -- व्यतिरिक्तम् अपि भावांशाद् अभावांशम् इच्छता भावांशः स्वभावेनासङ्कीर्णरूपः कल्पनीयः, अन्यथा[११८]स एवाभावांशो न सिध्येत्. न च {प्.२६.१} स्वभावेनासङ्कीर्णरूपतायाम् असत्यां पृथग्भूताभावांशसद्भावे ऽपि सा[११९]युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्णरूपस्याकिञ्चित्कराभावांशसम्भवे ऽपि त्यागायोगात्. न[१२०]च तेनैव तद्विनाशनम्, विनाशहेत्वयोगस्य प्रतिपादयिष्यमाणत्वात्. तेन सङ्कीर्णरूपविनाशने च वरं स्वहेतोर् एव स्वभावतो ऽसङ्कीर्णरूपाणामुदयो ऽस्तु किं परिव्राङ्मो[T. २२३ब्.]दकन्यायोपगमेन? तस्मात् स्वभावत एव भावानां ३पररूपविकलत्वम् अभावांशः[१२१], नान्यः. स च तथाभूतो दर्शनेन गृहीत एव. तस्मिंस् तथाभूते [S. २९अ.] दृष्टे स पदार्थो येन वस्तुना असाधारणः समानस्वभावो न भवति तद्रूपविकलस्वभावत्वात् तदसाधारणतां तेन तेनातद्रूपेणासमानस्वभावतां एतद् एव व्यनक्ति | ततः अर्थान्तराद् भेदं वैलक्षण्यम् अन्यरूपम् इदं न भवतीति अभिलपन्ती अभिमुखयन्ती दृष्टवैलक्षण्ये प्रवर्तमानतया स्मृतिर् उत्पन्नाप्रत्यक्षबलेन | यदि तु लिङ्गबलेनोत्पद्येत व्यवच्छेदविषयापि स्मृतिर्[१२२]न स्याद् इति भावः | किं विषया? अतदव्यावृत्तिविषया. तच्छब्देन दर्शनविषयस्य वस्तुनः परामर्शः कृतः. न तत् अतत् विजातीयम् | अतस्माद् व्यावृत्तिः अतद्व्यावृत्तिः | सा विषयो यस्याः सा तथा | यथादृष्ट एवार्थान्तरेभ्यो भेदो मया ऽपि कल्प्यत इति प्रतिपत्र(त्त्र)ध्यवसायाच् चैवम् उक्तम् | परमार्थतो निर्विषयत्वात् | [S. २९ब्.] सा न प्रमाणं नाभावप्रमाणफलम्[१२३]इत्य् अर्थः | न हि स्मृतिजनकत्वेन प्रमाणता युक्ता | कस्मात् न प्रमाणम्? | यथादृष्टस्याकारो ऽभ्यासपाटवादिप्रत्यायान्तरसापेक्षो विशेषस् तस्य ग्रहणात् | न हि दृष्टम् इत्य् एव विकल्पेन गृह्यते, दर्शनाविशेषात् सर्वाकारेषु विकल्पोदयप्रसङ्गात्, अपि तु कश्चिद् एवाभ्यासादिप्रत्ययापेक्ष इत्य् आकारग्रहणेनाचष्टे | ६भवतु यथादृष्टा[T. २२४अ.]कारग्रहणम्[१२४]| प्रमाणम् तु कस्मान् न भवतीति परस्य[१२५]तदुक्तप्रमाणलक्षणविरहं दर्शयन्न् आह -- प्राग् {प्. २७.१.} आलोचनाज्ञानोदयकाले असाधारणम् असङ्कीर्णरूपं दृष्ट्वा असाधारनम् अर्थान्तररूपं न भवतीति अभिलपतः विकल्पयतः प्रतिषेधविकल्पस्यापूर्वार्थाधिगमाभावाद् अपूर्वार्थ्विज्ञानताविरहात् [S. ३०अ.] | अपूर्वार्थविज्ञानं च प्रमाणं भवतोच्यत इति भावः | {५}[सेच्तिओन्: १६. विधिविकल्पस्याप्य् अप्रामाण्यव्यव्य्स्थापनम् |]
SK
__________NOTES__________
SK
[११८] स्वभावेन संकीर्णत्वे [११९] असंकीर्न्न(ण्ण)रूपता [१२०] नाकिञ्चित्करो ऽभावांशः तेनैव संकीर्णरूपताविनाशनात् इति चेद् आह [१२१] पररूपस्य कल्पितत्वाद् अभावांशः -- T. [१२२] अपि त्व् अनुमानं स्या [१२३] परैर् वस्तुदर्शनस्यैव नास्तिताविकल्पजनकत्वेनाभावप्रमाणतयोक्त्वादित्थं व्याख्यातम् [१२४] भवतापि यथा- -- T. [१२५] आलोचनाज्ञानाद् उत्तरस्य,कुमारिलस्य वा
SK
यद्युक्तेन प्रकारेण प्रतिषेधविकल्पो न प्रमाणं, विधिविकल्पस् तर्हि प्रमाणं भविष्यति. न हि तस्यापूर्वार्थविज्ञानत्वाभावः सम्भवति | तत्प्रतिभासिनो ऽनुगतस्य सामान्याकारस्यासाधारनरूपाव् अलम्बिना दर्शनेनानधिगमात् तत् कुतो ऽस्याप्रामाण्यम् | तद् उक्तम् -- ततः परंपुनर् वस्तु[ŚV प्रत्यक्ष १२०] इत्यादि | तद् एतत्कुमारिलवचनम् आशङ्क्य विधिविकल्पस्यापि प्रामाण्यम् अनुप(म् अप)नुदन्न् आह -- अर्थक्रियासाधनस्य स्वलक्षणस्य आलोचनाज्ञानेन दर्शनाद् अदृष्टस्य पुनस् तत्साधनस्य अर्थक्रियासाधनस्य स्वभावस्य विकल्पेनाप्रतिपत्तेःविधिविकल्पो न प्रमाणम् | १यद्य् अपि[१२६]तेनानधिगतं सामान्यम् अधिगम्यत इति वर्ण्यते, तथापि तद् अर्थक्रियासाधनं न भवति इति तद् अधिगन्ता तैमिरिकादिज्ञानप्रख्यो विधिविकल्पो न प्रमाणम् | [S. ३०ब्.] ततः[१२७] परंपुनर् वस्तु धर्मैर् जात्यादिभिर् यया| अधिगमे ऽपि केशादिज्ञानस्येव न प्रामाण्यम् | अत एवार्थक्रियासामर्थ्यविरहिणा सामान्येनेन्द्रियाणां सम्प्रयोगाभावात् प्रत्यक्षता ऽप्य् असम्भविनी | चकारेण स्मृतित्वाच् चेति पूर्वोक्तकारणसमुचयः | स्मृतित्वं चास्योत्तरत्र प्रतिपादयिष्यते | अनुमानवद् {प्.२८.१} इति वैधर्म्यदृष्टान्तः. यथा प्रत्यक्षेणार्थक्रियासाधने प्रदेशाख्ये धर्मिण्य् अधिगते ऽप्य् अनधिगतस्याग्नेर् अर्थक्रियासाधनस्यासामान्याकारेण[१२८]परोक्षस्य स्वलक्षणाकारेण प्रतिपत्तुम् अशक्यत्वात् प्रतिपत्तिः[१२९], नैवं विधिविकल्पेन सामान्याकारेणानधिगतम् अर्थक्रियासाधनम् अधिगम्यते,[१३०]तस्यालोचनाज्ञानेनैवाधिगमात्. [S. ३१अ.] तस्मिं(स्मिन्) स्मृतिर् एवासाव् इति न प्रमाणम् इति | [ सेच्तिओन्: १७. अर्थक्रियासाधनविषयज्ञानस्यैव प्रामाण्यसमर्थनम् |]
SK
__________NOTES__________
SK
[१२६] सामान्यमात्रं वा विधिविकल्पेन गृह्यते तद्विशिष्टं वा स्वलक्षणम्, गत्यन्तराभावात् | तत्र पूर्वपक्षे आह यद्य् अपि इत्य् आदि [१२७] उत्तरस्मिन् पक्षे आह [१२८] -धनस्य सामा- -- T. [१२९] अनुमानेनेति शेषः [१३०] वस्तुनः
SK
अर्थक्रियासाधनविषयम् एव प्रमाणम्, नेतरद् इति कुत एतत् इति चेत् अर्थक्रियार्थीहि पुरुषो यस्मात् हिताहितप्राप्तिपरिहारार्थी सर्वो न काकतालीयन्यायेन कश्चिद् एव, पक्षावान् बुद्धिपुर्वकारी प्रमाणम् अप्रमाणंवा प्रमानाद् एव सर्वदा प्रवर्त(र्ते)य अप्रमाणात् मा कदाचित्, विप्रलम्भसम्भवाद्, उभयम् अन्वेषते न व्यसनितया | ततो ऽयम् अर्थक्रियासाधनविषयम् एव प्रमाणम् ब्रवीति, तस्यार्थक्रियासाधने प्रवृत्त्यङ्गत्वात् | नेतरत्, तद्विपरीतत्वात् | तथा हि -- प्रमाणम् अविसंवादकम् अप्रतारकम् उच्यते लोके ऽपि | [T. २२५अ.] यच् चार्थक्रियासाधनम् अनधिगच्छन् न तत्र प्रवर्तयति, कुत एव तत् प्रापयेत् तत् कथम् अविसंवादकतया प्रेक्षापूर्वकारी प्रमाणम् आचक्षीत? |
SK
[सेच्तिओन्: १८. सामान्यस्य विस्तरेणावस्तुत्वसाधनम् |]
SK
[S. ३१ब्.] यद्य् एवं सामान्यम् अप्य् अर्थक्रियासाधनम् एव ततस् तद्विषयो विधिविकल्पः प्रमाणं भविष्यतीति चेद्, आह -- न च नैव सामान्यंकाञ्चित् तत्साध्यतयोपगताम् अभिन्नज्ञानाभिधानलक्षणाम् अन्यां वा व्यक्तिसाध्याम् अर्थक्रियाम् उपकल्पयति | कीदृशम्?, स्वलक्षणप्रतिपत्तेः व्यक्तिप्रतिपत्तेर् आलोचनाज्ञानसंज्ञिताया ऊर्द्ध्वम् उत्तरकलां तत्सामर्थ्योत्पन्नविकल्पविज्ञानग्राह्यम् इति | तच्छब्देन स्वलक्षणप्रतिपत्तिः सम्बध्यते | `ततः परं पुनर् वस्तुऽ इत्य्[१३१]आदिपरैर् अभिधानाद् एवं ब्रवीति दर्शनपृष्ठभाविनो विकल्पस्य प्रत्यक्षप्रमाणतां निराकर्तुम् | सर्वम् एव तु सामान्यं न काञ्चिद् अर्थक्रियाम् उपकल्पयति. {प्.२९.१} यत् तु सामान्यम् अनुमानविकल्पग्राह्यम्, तत् कारणव्यापकसम्बद्धलिङ्गनिश्चयद्वारायातं सम्बद्धसम्बन्धाद् अनधिगतार्थक्रियासाधनविषयाम् अर्थक्रियाम् उपकल्पयतीति तद्विषयो विकल्पः प्रमाणम् | [S. ३२अ.] इदं तु नैवम्, अधिगतत्वाद् अर्थक्रियासाधनस्यालोचनाज्ञानेनेति | अत्रोदाहरणम् यथा-- नीलंदृष्ट्वानीलम् इति ज्ञाने प्रतिभासमानम् इति शेषः | न सामान्यं काञ्चिद् अर्थक्रियाम् उपकल्पयतीति प्रकृतेन सम्बन्धः | ननु च लिङ्गविकल्पप्रतिभासि [T. २२५ब्.] सामान्यं प्रकृतम् तत् किम् अन्यद् उदाह्रियते? | सर्वस्य दर्शनपृष्ठभाविनो विकल्पस्य परोपगतां प्रत्यक्षप्रमाणतां तुल्यन्यायतया निराकर्तुम् | कां पुनर् नीलम् इति विकल्पज्ञाने दर्शनपृष्ठभाविनि प्रतिभासमानं सामान्यम् अर्थक्रियां नोपकल्पयति? | यदि व्यक्तिसाध्याम्; तदा ऽन्यो ऽपि पदार्थो ऽन्यदीयाम् अर्थक्रियां नोपकल्पयतीति तस्याप्य् अनर्थक्रियासाधनत्वाद् अवस्तुत्वप्रसङ्गः | अथ स्वसाध्याम्; तद् असिद्धम्, अभिन्नज्ञानाभिधानलक्षणायाः स्वसाध्यायाः करणाद् इत्य् आशङ्क्याह -- तद् एव हि [Tत्. ३५६ब्.] यत् तदालोचनाज्ञानेनोपलब्धं [S. ३२ब्.] नीलस्वलक्षणम् नीलव्यक्तिः तथाविधसाध्यार्थक्रियाकारि | तथाविधशब्देन सामान्यम् अत्राभिप्रेतम्, तादृशपर्यायत्वाद् अस्य, साधारणरूपस्य च तादृशत्वात् | तेन तथाविधसाध्यां नीलसामान्यसाध्याम् अभिन्नज्ञानाभिधानलक्षणाम् अर्थक्रियां कर्तुं शीलम् अस्य स्वलक्षणस्येति तत् तथोक्तम् | एवं मन्यते -- यथा भिन्ना अपि व्यक्त्यः कयाचित् प्रत्यासत्त्या तदेककार्यप्रतिनियमलक्षणया तदेकम् अभिन्नं सामान्यम् उपकुर्वन्ति[१३२], तदपरसामान्ययोगम् अन्तरेणापि, अन्यथा ऽनवस्थाप्रसङ्गात्, तथा ऽभिन्नज्ञानाभिधानात्मिकाम् अप्य् अर्थक्रियां साधयिष्यन्ति | किम् अप्रमाणकेन प्रमाणबाधितेन च सामान्येनोपगतेन? | [T. २२६अ.] तथा हि -- अनुमानादिके ज्ञाने यथाविधम् अस्यास्पष्टं रूपं प्रतिभासते न तथाविधं व्यक्तिषु दृश्यमानास् उपलक्षयामः | एकम् एव हि व्यक्तिदर्शनकाले स्पष्टम् नीलादिरूपं विभावयामः | [S. ३३अ.] {प्.३०.१} तत् कथम् अदृष्टकल्पनया ऽऽत्मानं स्वयम् एव विप्रलभे महि? | व्यक्तिरूपसंसर्गाद् अयोगोलकवह्निवद् अविभावनम्[१३३]इति चेत्; न, सर्वत्र भेदाभेदव्यवस्थाया अभावप्रसङ्गात् | अस्योत्तरस्यान्यत्रापि सुलभत्वात् | न च सामान्यस्य द्वे रूपे स्तः स्पष्टम् अस्पष्टं च, येनैकेन दर्शने प्रतिभासेत अन्येनानुमानादिज्ञाने, पदार्थद्वयोपगमप्रसङ्गात्, प्रतिभासभेदस्यैव सर्वत्र भावभेदव्यवस्थानिबन्धनत्वात्, सामान्यस्यापरसामान्यप्रसक्तेर्[१३४]निःसामान्यस्य चास्योपगमात् |
SK
__________NOTES__________
SK
[१३१] क्रियाविशेषणमदः [१३२] अनुपकृतस्य तदाधेयत्वाभावात् [१३३] सामान्यस्य [१३४] दूषणान्तरम् आह
SK
[ सेच्तिओन्: १९. कुमारिलोक्तद्व्यात्मकबुद्धेर् निरसनम् |]
SK
एतेनैतद् अपि निरस्तम् यद् आह -- सर्ववस्तुषु बुद्धिश् च व्यावृत्त्यनुगमात्मिका | जायते द्व्यात्मकत्वेन विना सा च न युज्यते || [ŚV आकृति- ५] न चात्रान्यतरा भ्रान्तिरूपचारेण चेष्यते | दृढत्वात्[१३५]सर्वदा बुद्धेर् भ्रान्तिस् तद्भ्रान्तिवादिनाम् || [ŚV आकृति- ७]
SK
__________NOTES__________
SK
[१३५] अबाध्यमानत्वात्
SK
[S. ३३ब्.] इति | यतो यदीन्द्रियबुद्धिम् अभिप्रेत्योच्यते; तदासिद्धम्, अस्पष्टस्य नीलाद्य् आकारस्य स्पष्टनीलाद्याभासायां तत्रानुपलक्षणात्, स्पष्टस्यापि च द्वितीयस्यानुयायिनः | तद्भावे[१३६]च व्यक्तिद्वयान्तरालम् अप्य् आप्नुवतः कथं [T. २२६ब्.] तदनुगमः[१३७]? | व्याप्तौ(व्यक्तौ) चोपलभ्यस्य सतः तत्रानुपलक्षणं कुतः? | न हि तस्य व्यक्ताव्यक्तरूपसम्भवः, एकत्वात् | तथा चाह -- व्यक्ताव् एकत्र सा व्यक्ता ऽभेदात् सर्वत्रगा यदि | जातिदृश्येत सर्वत्र [सापि न व्यक्त्यपेक्षिणी] || [PV ३.१५४-५] इति | एकत्रापि च व्यक्ताव् उपलभ्यमानायां सकलत्रैलोक्यव्यापि रूपं सकलस्वाश्रयव्यापि वा दृश्येत? | न ह्य् एकस्याः किञ्चिद् दृष्टम् अदृष्टं वा नाम क्षणिकतादिवद् | दृष्टायाम् अप्य् एकत्रैवाश्रये दर्शनावसायो न सर्वत्रेति चेत्; न, विकल्पेन तद्दर्शनाभ्युपगमात् | न हि निश्चयविषयीकृतं चानिश्चितं चेति युक्तम् | ततः सर्वगतरूपदर्शने सर्वार्थानां दर्शनप्रसङ्गः | न हि [S. ३४अ.] तद्दर्शने[१३८] {प्.३१.१} तत्सहचारिण[१३९]उपलभ्यस्य तदभिन्नस्वभावस्य[१४०]चानुपलम्भो युक्तः | ततः कथम् इन्द्रियबुद्धेर् द्व्यात्मकता? | अथानुमानादिबुद्धिम्[१४१]; तस्याम् अपि स्वलक्षणाप्रतिभासनात् कुतो द्व्यात्मकत्वम्? | न हि नासु सामान्यग्राहिणीष्व् स्पष्टो व्यक्त्याकार इव लक्ष्यमाणः स्वलक्षणप्रतिभासः | तद्भावे ऽपि तासां भावात् | आकारान्तरेणः च स्वज्ञाने [ऽ]प्रतिभासनात् अनेकाकारायोगाद् एकस्य, अतिप्रसङ्गाच्[१४२]च | तस्मान् नेयं भिन्नार्थग्राहिण्यभिन्ना सामान्यबुद्धिः प्रतिभाति स्वलक्षणोद्भाव सती | किन्त्व् अनादिवितथ[T. २२७अ.]विकल्पाभ्यासवासनाजनिता सती तथा ऽवभासते | दृढत्वं च बुद्धेर् नाविनाशित्वम्, क्षणिकत्वाभ्युपगमात् किन्त्व् अबाध्यमानत्वम् | न चास्यास् तत् सम्भवति, लेशतो बाधकस्योक्तत्वात् | विस्तरतस् तुस्याद्वादभङ्गाद् यथावसरम् इहैव तत्र तत्र विधास्यमानाद् बाधकम् अवधार्यम् | तस्माद् यथा व्यक्त्यः सामान्यान्तरम् अन्तरेण तद् एकम् उपकुर्वन्ति तथा ऽभिन्नज्ञानाभिधाने अपि प्रवर्तयिष्यन्तीति तद् एव नीलस्वलक्षणं सामान्यसाध्यत्वोपगतार्थक्रियाकारि |[ सेच्तिओन्: २०. कुमारिलदत्तस्य दोषस्य सौगतबुद्द्यबाधकत्वदर्शनम् |] यस्[१४३]तु -- [S. ३४ब्.] सामान्यं नान्यद् इष्टं चेत् तस्य[१४४] वृत्तेर् नियामकम् | विशेषाद् अन्यद् इच्छन्ति सामान्यं तेन तद् ध्रुवम् ||
SK
ता हि तेन विनोत्पन्ना मिथ्या स्युर् विषयाद् ऋते | न त्व् अन्येन[१४५]विना वृत्तिः सामान्यस्येह दुष्यति ||[ŚV आकृति- ३७, ३८]
SK
{प्.३२.१} इति मिथ्यात्वप्रसङ्गदोष उक्तो नासौतथागतसमयनयावदातबुद्धीन् बाधते | सामान्यबुद्धीनां बाधकप्रत्ययनिबन्धनस्य मिथ्यात्वस्योपगतत्वात् | तथा हि -- कस्माट् सास्नादिमत्स्व् एव गोत्वं? यस्मात् तदात्मकम् | तादात्म्यम् अस्य कस्मात् चेत्, स्वभावादिति गम्यताम् ||[ŚV आकृति- ४७] इति वचनात् [T. २२७ब्.] `व्यक्तिस्वभावं च सामान्यम् | न चासाधारणम् व्यक्त्युदयविनाशयोर् ध्या(योश् च) नोदयव्यययोगिऽ इत्य् अयुक्तम्, विरुद्धधर्माध्यासतो भेदप्रसङ्गाद् इति | आह च - तादात्म्यंचेन् मतंजातेर् व्यक्तिजन्मन्यजातता|
SK
नाशे ऽनाशश्च केनेष्टः[१४६]? तद्वच्[१४७] चाऽनन्वयो[१४८] न किम्? ||
SK
व्यक्तिजन्मन्यजाता[१४९] [S. ३५अ.] चेदागतानाश्रयान्तरात् |
SK
प्रागासीन् न च तद्देशे सातयासङ्गताकथम्? ||
SK
व्यक्तिनाशे न चेन् नष्टागताव्यक्त्यन्तरंन च |
SK
तर्ह्य् अधिगच्छन् विकल्पः प्रमाणं भविष्यतीत्य् आह -- तच् च नीलस्वलक्षणम् | तेनात्मना नीलसाध्यार्थक्रियाकारिणा स्वभावेन दृष्टम् एव आलोचनाप्रत्ययेन | ततो निष्पादितक्रिये कर्मण्य् अविशेषाधायि विकल्पज्ञानं कथं प्रमाणं स्यात्? | अथ[१५०]मतम् -- सामान्यम् एव तर्ह्य् अधिगच्छन् नीलविकल्पः प्रमाणम् अस्तु | तच् च सामान्यम् अर्थक्रियाकारि | यतो नीलसाध्यम् एवार्थक्रियां नीलेन सह सम्भूय करिष्यति | व्यक्तिस्वभावान्य् एव हि सामन्यानीत्य् आह -- [S. ३५ब्.] न च नैव तत् स्वलक्षणग्रहणोत्तरकालभाविनो नीलव्यक्तिदर्शनोत्तरकालं भवनशीलस्य | लिङ्गग्रहणोत्तरकालभाविनस् तु पूर्वोक्तेन प्रकारेण व्यक्तिसाध्यार्थक्रिया सामान्यस्य कल्पितस्य {प्.३३.१} व्यवस्थापयितुं शक्यत इति भावः | नीलविकल्पस्य[१५१] विषयेण नीलसामान्येन [T. २२८अ.] नीलसाध्यार्थक्रिया रञ्जनादिका क्रियते | तस्य व्यक्तिस्वाभाव्यायोगे सति कल्पितरूपस्य तदसम्भवात् | न च नित्यस्वभावतामाबिभ्राणेन नीलविकल्पस्य विषयेण नीलसाध्या ऽन्या वा ऽर्थक्रिया क्रियते | क्रमयौगपद्यविरोधाद् इति मन्यते |[ सेच्तिओन्: २२. मीमांसकसमतप्रमाणलक्षणे दोषदर्शनम् |] तद् एवं नीलं दृष्ट्वा नीलम् इति ज्ञाने प्रतिभासमानं सामान्यं न काञ्चिद् अर्थक्रियाम् उपकल्पयतीति प्रसाध्य अनर्थक्रियाकारिविषयस्यापि विकल्पस्य प्रत्यक्षपृष्ठभाविनः प्रामाण्यप्रसङ्गाद् अतिव्याप्तिर् इति तत्रापूर्वार्थविज्ञानम् इति [S. ३६अ.] प्रमाणलक्सणेमीमांसकैर् विशेषणम् उपादेयम् इति दर्शयन्न् आह -- तस्मात्. यत एवम् अनर्थक्रियासाधनविषयतया दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यम् अयुक्तम्, तस्मादस्मदभिमतं प्रमाणम् अविसंवादि ज्ञानम् इति प्रमाणलक्षणं व्युदस्य, अनधिगतार्थविषयंप्रमाणम्, तत्रापूर्वार्थविज्ञानं प्रमाणम् इत्य् अपि,एतस्मिन्न् अप्य् आहोपुरुषिकया ऽन्यस्मिन् प्रमाणलक्षणे क्रियमाणे अतिव्याप्तिपरिहाराय विशेषणीयं विशेषणम् उपादेयम्. कथं विशेषणीयम् अनधिगते स्वलक्षण इति. अनेन हि विशेषणेनानुमानविकल्पस्य च प्रामाण्यं सिध्यति, आलोचनाज्ञान- पृष्ठभाविनश् च विकल्पस्य प्रामाण्यं व्युदस्यत इति सर्वं सुस्थम् | तद् एवं विधिविकल्पस्यानर्थक्रियासाधनविषयतया ऽनधिगतसामान्याधिगमे ऽपि प्रामाण्यं निराकृत्य [T. २२८ब्.] च शब्दसमुच्चितं स्मृतित्वं प्रतिषेधविकल्पेन साधारणम् प्रामाण्यकारणं [S. ३६ब्.] दर्शयन्न् आह -- अधिगते तु स्वलक्षणे आलोचनाज्ञानेन तत्सामर्थ्यजन्मा स्वलक्षणाधिगमबलभावी विकल्पस् तदनुकारी साक्षाद् अनुत्पत्तेर् दर्शनसंस्काराधेय(रावेध)वशाच् चास्पष्टनीलस्वलक्षणाकारानुकारी दृश्यविकल्प्ययोश् चैकीकरणाद् एवम् उच्यते | वस्तुतस् तु {प्. ३४} न किञ्चिद् असाव् अनुकरोति | स स्मृतिर् एव | कुतः? कार्यतस् तद्विषयत्वात् न परमार्थतः | कार्यमत्र स्वलक्षणे पुरुषस्य प्रवर्तनम्, तदध्यवसायश् च | यतश् च कार्यतः तद्विषयत्वात् स्मृतिर् एवातो न प्रमाणम् दर्शनबलोत्पन्नो विकल्पः | तथा हि -- स्मृतेर् अप्य् अनुभूतस्वलक्षणांशविषयाया न परमार्थतस् तद्विषयत्वम् | स्वलक्षणस्येन्द्रियबुद्धाव् इव स्फुटरूपतया स्मृताव् अप्रतिभासनात् | किन्तु यथोक्तात् कार्यत एव | तच् च विधिविकल्पे ऽपि समानम् इति कथम् असौ स्मृतिर् न स्याद् इति | [ सेच्तिओन्: २३. अनुमानस्य विधिविकल्पवैलक्षण्येन प्रामाण्यसमर्थनम् |] तत्रैतत् स्यात् -- नन्व् अनुमानविकल्पः स्मृतिरूपो ऽपि प्रमाणम् इष्यते | [S. ३७अ.] तथा हि -- यद् एवानग्निव्यावृत्तं वस्तुमात्रं महानसादाव् अनुभूतम् आसीत्, तद् एव प्रदेशविशेषे धूमदर्शनात् स्मर्यते. तद्वद् विधिविकल्पो ऽपि प्रमाणं भविष्यतीत्य् अत आह -- अनाधिगतस्य वस्तुनो रूपस्य अनधिगतेर् इति | एवम् मन्यते -- यत् महानसादाव् अनग्निव्यावृत्तं वस्तुमात्रं प्रागनुभूतं न तत् तद्देशादिसम्बन्धितयैवानुमानविकल्पेन [T. २२९अ.] स्मर्यते किन्तु यत्र प्रदेशे प्रागननुभूतं तत्सम्बन्धितया | ततः साध्यधर्मिदृष्टान्तधर्मिग्राहिदर्शनद्वयानधिगतस्यानग्निव्यावृत्तस्य वस्तुरूपस्यायोगव्यवच्छेदेनाधिगमाद् युक्तम् अस्य प्रामाण्यम् | न तु दर्शनपृष्ठभाविनो विकल्पस्य, तद्विपरीतत्वाद् इति | [S. ३७ब्.]
SK
__________NOTES__________
SK
[१४५]सामान्येन [१४६] हेतुना [१४७] व्यक्तिर् इव [१४८] अननुवृत्तिः [१४९] जातिः [१५०] साङ्ख्यमतम् आकुट्टयन्न् आह [१५१] `न चऽ इत्य् अनेन सम्बन्धः
SK
[ सेच्तिओन्: २४. प्रमाणव्यवस्थायाः वस्त्वधिष्ठानत्वं, स्वलक्षणस्यैव च वस्तुत्वम् |]
SK
यदि नामानधिगतं वस्तुरूपं नाधिगच्छति, प्रमाणं तु कस्मान् न भवतीति चेद् आह -- वस्त्वधिष्ठानत्वात् इत्यादि | वस्त्वधिष्ठानत्वं च प्रमाणव्यवस्थायाः प्रमाणव्यापारविषयम्[१५२]अभिप्रेत्योच्यते नालम्भनलक्षणम्[१५३], अन्यथा ऽनुमानस्य परिकल्पितसामान्यालम्भनतया वस्त्वधिष्ठानत्वाभावाद् अव्यापिनी प्रमाणव्यवस्था स्याद् | यदि वस्त्वधिष्ठाना प्रमाणव्यवस्था कथं {प्. ३५.१} विप्रकृष्टविषयाया[१५४]अनुपलब्धेः प्रामाण्यम् इति चेत्; तत्रापि प्रधानादिविकल्पस्यैव[१५५]भावानुपादानतया साध्यत्वात् तस्या अपि वस्त्वधिष्ठानता ऽस्त्य् एवेत्य् अदोषः | अथा वत्वधिष्ठानैव प्रमाणव्य्वस्थे ऽति कुत एतद्? इत्य् आह -- अर्थक्रियायां सुखदुःखलक्षणायां यद् [S. ३८अ.] योग्यं शक्तं तद्विषयत्वात् तदर्थिनाम् अर्थक्रियार्थिनां प्रवृत्तेः प्राप्तित्यागलक्षणायाः | यदि नामार्थक्रियायोग्ये तदर्थिनां प्रवृत्तिस् तथापि कथं वस्त्वधिष्ठाना प्रमाणव्यवस्था?, अर्थक्रियायोग्याधिष्ठाना हि तथा सति स्यात् इति चेत्; आह -- अर्थक्रियायां यद् योग्यं तल्लक्षणम् एव हि वस्तु | ततो ऽर्थक्रियायोग्याधिष्ठानत्वेन वस्त्वधिष्ठानत्वं कथं न स्यात् इति भावः | [T. २२९ब्.] इदं च वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनम् अनधिगते स्वलक्षण इत्य् उक्ते कदाचित् परो ब्रूयात् -- वस्तुमात्रनिबन्धना हि प्रमाणव्यवस्था न स्वलक्षणाश्रयैव | ततो यद्य् अप्य् अनधिगतं स्वलक्षणं नाधिगच्छति तथाप्य् अनधिगतवस्तुरूपम् अधिगच्छतो विकल्पस्य प्रामाण्यं भविष्यतीति तदसिद्धतोद्भावनार्थम् उक्तम् -- अनधिगतवस्तुरूपेत्य् आदि | [S. ३८ब्.] तदसिद्धतोद्भावने चानधिगतवस्तुरूपाधिगन्तुर् एव प्रामाण्यं नेतरस्येति कुतः? इति पर्यनुयोगे अर्थक्रियायोग्येत्य् आदि उक्तम् | तथा च वस्तुविषयम् अपि प्रामाण्यं ब्रुवता स्वलक्षणविषयम् एवोक्तं भवति, तस्यैवार्थक्रियासामर्थ्यलक्षणत्वात्, सामान्यस्य च तद्विपरीतत्वात् इति मन्यते | पुनर् अप्य् अनुभवोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यम् अपनेतुम् उपचयहेतुम् आह -- ततो ऽपि यथोक्ताद् विकल्पाद् न केवलं नीलस्वलक्षणानुभवाद् वस्तुन्य् एव स्वलक्षण एव तदध्यवसायेन स्वलक्षणाध्यवसायेन अन्यथा तत्र प्रवृत्त्ययोगात् पुरुषस्य प्रवृत्तेः अधिगते स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पो न प्रमाणम् इति सम्बन्धः | पूर्वम् अनधिगतवस्तुरूपानधिगतेर् अप्रामाण्यम् उक्तम् | अधुना त्व् अधिगतस्यैवाधिगमाद् इति [S. ३९अ.] {प्. ३६.१} विधिप्रतिषेधरूपतयोपपत्त्योर्[१५६]भेदः | यद् वा कार्यतस् तद् विषयत्वात् इति यद् उक्तं तद् एवोपचयहेतुव्याजेन स्फुतीकृतम् |
SK
__________NOTES__________
SK
[१५२] प्रवर्तकत्व- [१५३] ग्राह्य- [१५४] नास्ति प्रधानम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः [१५५] प्रधानविकल्पो वस्तुकारणो न भवति, तदभावे ऽपि भावात्, खरविषाणादिविकल्पवत् [१५६] युक्त्योः
SK
[ सेच्तिओन्: २५. विकल्पस्य दर्शनात् पृथक् प्रामाण्याभावः |]
SK
[T. २३०अ.] यदि नाम तदध्यवसायेन वस्तुन्य् एव पुरुषस्य प्रवृत्तिस् तथाप्य् अनधिगतसामान्यग्राहिणो ऽस्य दर्शनात् पृथक् प्रामाण्यं किम् इति नेष्यते? इति चेत्; आह -- प्रवृत्तौ स्वलक्षण एव सत्यां प्रत्यक्षेण आलोचनाज्ञानाख्येन अभिन्नयोगक्षेमत्वात् | योगः अप्राप्तस्य विषयस्य परिच्छेदलक्षणा प्राप्तिः, क्षेमः तदर्थक्रियानुष्ठानलक्षणं परिपालनम् | अभिन्नौ योगक्षेमावस्थेति स तथोक्तः | तत्र विकल्पस्य निर्विकल्पप्रत्यक्षेणाभिन्नो योगः स्वलक्षणाध्यवसायतः | अभिन्नः क्षेम आलोचनाविज्ञानाद् इव विकल्पाद् अपि स्वलक्षण एव प्रवृत्तेः | अयम् अस्याभिप्रायः -- यदि विकल्पो निर्विकल्पचेतसः प्रमेयान्तरविषयस् तदा तत्रैव पुरुषं प्रवर्तय तु तत्साध्याम् अर्थक्रियाम् अधिगन्तुम् | नैव वा प्रवर्तयेत्, तद्विषयत्वाभिमतस्य सामान्यस्याभिन्नज्ञानलक्षणाया एवार्थक्रियाया उपगमाद् [S. ३९ब्.] विकल्पोदयाद् एव च तत्सिद्धेः | न हि नीलानुभवात् प्रमेयान्तरविषयाः पीतादिप्रत्ययाः पुरुषं नीलवस्तुनि प्रवर्तयन्ति, साधितार्थक्रिया वा क्वचिद् अपीति | तस्माद् आलोचनाज्ञानान् नैवायं प्रमेयान्तरविषयः | विशेषेण यैर् एवं व्याख्यायते - निर्विकल्पकबोधेन[१५७] द्व्यात्मकस्यापि वस्तुनः| प्रहणम् [ŚV प्. ११८] इति[१५८]| ततो नीलदर्शनस्यैव निर्विकल्पस्य प्रामाण्यं युक्तम्, न तदभिन्नोपयोगस्य [T. २३०ब्.] स्मृतेर् इव विकल्पस्यापि दर्शनात् पृथग्[१५९]एव | अन्यथा निष्फलां प्रमाणान्तरकल्पनां कुर्वतः स्मृतीच्छाद्वेषप्रयत्नादि प्रमाणम् अनुषज्यत इति प्रमाणानाम् इयत्ता विशीर्येतेति |
SK
__________NOTES__________
SK
[१५७] अत्र `नऽ कारस्योपरि प्रताव् एव `३ऽ इति लिखितं वर्तते [१५८] विशेषेण तेषां मते नैवायं प्रमेयान्तरविषय इति संबेधः [१५९] प्रामाण्यं युक्तम्
SK
{प्.३७.१}[ सेच्तिओन्: २६. धारावाहिकज्ञानेषु योगितदितरापेक्षया प्रामाण्याप्रामाण्ये |]
SK
यदैकस्मिन्न् एव नीलादिवस्तुनि [S. ४०अ.] धारावाहीनीन्द्रियज्ञानान्य् उत्पद्यन्ते तदा पूर्वेणाभिन्नयोगक्षेमत्वाद् उत्तरेषाम् इन्द्रियज्ञानानाम् अप्रामाण्यप्रसङ्गः | न चैवम्, अतो ऽनेकान्त इति प्रमाणसंप्लववादी दर्शयन्न् आह -- पूर्वप्रत्यक्षक्षणेन इत्यादि | एतत् परिहरति -- न, उत्तरेषां प्रामाण्यप्रसङ्गः | कुतः? | नानायोगक्षेमत्वात्[१६०] | तथा हि -- प्रतिक्षणं विषयपरिच्छेदलक्षणो योगः, तदर्थक्रियानुष्ठानलक्षणश् च क्षेमः परिपालनरूपो भिद्यते | ततो विपक्षे वृत्त्यभावात् न हेतुर् अनैकान्तिकः | कदा नानायोगक्षेमत्वम्? | क्षणविशेषसाध्यार्थवाञ्छायाम् | यदा क्षणविशेषसाध्ये ऽर्थे हिताहितलक्षणे वाञ्छा प्राप्तिपरिहारेच् छा योगिनां परोपकारम् उद्दिश्य भवति कस्यचित्[१६१]कथञ्चित् क्वचिद् उपयोगात् तदा[१६२]| यथा दर्शनमार्ग्गे[१६३]दुःखे[१६४]धर्मज्ञानक्षान्तिर् दमा(र् दशा)नाम्[१६५]अनुशयानां वासनां[१६६]निरोधयति, तद्विरुद्धाशयोत्पादनात् | दुःखे धर्मज्ञानं[१६७]क्लेषविविक्ततालक्षणां निर्वाणप्राप्तिम् उत्पादयति, [S. ४०ब्.] अनुशयविरुद्धाशयदार्ढ्योत्पादनात् | तत एषां[१६८]ग्राहकाणि परचित्तज्ञानानि[१६९]पृथग् एव प्रमाणानि | [T. २३१अ.] परहिताधानदीक्षावतां च समस्तवस्तुविस्तरव्यापिज्ञानालोकावभासितान्तरात्मनां भगवतां कश्चिद् एवार्थक्षणः कस्यचिद् एव परार्थस्यानुग्राहको[१७०]विबन्धको वेति सर्वभावान् प्रतिक्षणं वीक्षमाणानाम् अध्यक्ष चेतसाम् तद्विषयक्षणानां भिन्नार्थक्रियासूपयोगतो नानायोगक्षेमत्वात् | तद् यदि प्रतिक्सणं[१७१]क्सणविवेकदर्शिनो ऽधिकृत्योच्यते तदा भिन्नोपयोगितया पृथक् प्रामाण्यात् नानेकान्तः | अथ सर्वपदार्थेष्व् एकत्वा ऽध्यवसायिनः सांव्यवहारिकान् पुरुषानभिप्रेत्योच्यते तदा सकलम् एव [S. ४१अ.] {प्. ३८.१} नीलसन्तानम् एकम् अर्थं स्थिररूपं तद्साध्यां चार्थक्रियाम् एकात्मिकाम् अध्यवस्यन्तीति प्रामाण्यम् अप्य् उत्तरेषाम् अनिष्टम् एवेति कुतो ऽनेकान्तः? इति दर्शयन्न् आह -- साधारणे हि इति | तत्सन्तानवर्त्तिनां सर्वक्षणानाम् एकत्वेनाध्यवसितानां व्यवहर्तृभिर् यत् साधारणं प्रतिक्षणम् अन्यान्यकारणतया विभिन्नम् अपि परमार्थतो विपर्यासाद् एकतया ऽभिनिविष्टं रञ्जनादिकं नीलादिककार्यं तत्र न तेषाम् उत्तरेषां ज्ञानक्षणानां सामर्थ्यस्यार्थप्रापणशक्तेर्भेदः | पूर्वप्रत्यक्षक्षणविषय एव तेभ्यो ऽपि प्रवृत्तेर् आद्यस्यैव तत्र[१७२]प्रामाण्यम् | तथा हि -- अर्थक्रियार्थिनां तत्साधनप्रापणसमर्थे ज्ञाने प्रमाणव्यवहारं [T. २३१ब्.] कुर्वताम् अविक्लवधियाम् अर्थक्रियासाधनभेदाद् एव प्रामाण्यभेदव्यवहारो ज्ञानेषु युक्तः [S. ४१ब्.] अन्यथा स्मृत्यादेर् अपि प्रामाण्यप्रसङ्गः कथम् अपाक्रियेत?, आद्रियेत वा निष्फला प्रमाणव्यवस्था प्रेक्षावता इति? | केषाम् इव साधारेणे कार्ये न सामर्थ्यभेदः? १२इत्य् आह[१७३]अपरापरे च ते धुमाश् च तैः प्रमिताश् च ते सन्निकृष्टाग्नयश् च तेष्व् इव तद्विषयाणाम् इव अनुमान्ज्ञानानाम् अग्निमात्रसाध्ये ऽर्थे सन्धुक्षणादिके वाञ्छिते तदर्थक्रियासाधनप्रापणव्यक्तिभेदाभावात् तथा प्रामाण्यभेदो न युक्तो विदुषां तथा ऽत्रापि | यदा तु पञ्चतपस् तप्तुकामो भवति तदा ऽपरापरधूमप्रमितसन्निकृष्टाग्निविषयाणां अप्य् अनुमानानां सामर्थ्यभेदात् प्रामाण्यम् अनिवारितम् एव |
SK
__________NOTES__________
SK
[१६०] योगिज्ञानानि क्षणविवर्तलक्षकाणीति कृत्वा न एक्योगक्षेमाणि, विवक्षितदवदत्तादेः प्रथमः क्षणो धर्मायोग्यः द्वितीयस् तु मनागयोग्यः तृतीयस् तु योग्य इति ज्ञायते योगिना | ततश् च क्षणाः भिन्नाः अर्थक्रिया च भिन्ना [१६१] ज्ञानक्षणस्य [१६२] योगिनि [१६३] बौद्धमते [१६४] अवज्ञाकारिणि म्लेच्छादौ संसारिस्कन्धे [१६५] [धर्मज्ञा] नेन क्षान्तिः | समर्थेन यत् सह्यत इत्य् अर्थः [१६६] क्लेशजननशक्तिम् [१६७] वैराग्यज्ञानम् [१६८] धर्मज्ञानक्षान्त्यादिचित्तानाम् [१६९] योगिनः सत्कानि [१७०] कञ्चित् परचित्तक्षणं दृष्ट्वा भगवान् तस्यैवानुग्रहाय प्रवर्तते | कञ्चित् तु दृष्ट्वा औदासीन्यम् आलम्बते | कञ्चित् त्व् अवबोध्य निग्रहाय [१७१] प्रत्यक्षणाम् -- T. [१७२] कार्ये [१७३] इत्य् आह -- अपरापरधूम इति | अपरापरे च -- T.
SK
[ सेच्तिओन्: २७. विकल्पप्रामाण्यनिरासस्य फलितार्थः |]
SK
तद् एवं `यथा नीलं दृष्ट्वा नीलम् इति ज्ञान(म्)ऽ इत्य् उदाहरणे नीलविकल्पस्य प्रामाण्यं निराकृत्य प्रकृते योज्यन्न् आह -- एतेन नीलस्वलक्षणदर्शनोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यनिराकरेण | तन् नेष्टत्वाद् विकल्पस्याप्य् अर्थरूपोपकारिणः| [ŚV प्. १११] इति ब्रुवताकुमारिलेन प्रदे[S. ४२अ.]शादिदर्शनोत्तरकालभाविनो {प्. ३९.१} धर्मिविकल्पस्य, तथा सम्बन्धप्रतिपत्तिकाले ऽग्निस्वलक्षणदर्शनसामर्थ्यभाविनो ऽग्निसामान्यविषयस्य साध्यधर्मविकल्पस्य, धूमालोचनाज्ञानपृष्ठभाविनो धूमसामान्यावभासिनो लिङ्गविकल्पस्य, आदिग्रहणाद् धर्म[T. २३२अ.]धर्मिसम्बन्धविकल्पस्य च प्रमाणपृष्ठभाविनो धर्म्यादिस्वरूपमात्रविषयालोचनाख्यप्रत्यक्षपूर्वकस्य न चाविकल्प्यलिङ्गस्य धर्मिसम्बन्धयोस् तथा गृहीतिः [ŚV प्. ८८] इत्य् आक्षेपभयाद् यद् अभ्युपगतं प्रामाण्यं तत् प्रत्युक्तं प्रत्याख्यातम् | पूर्वकम् एव स्वलक्षणविषयं दर्शनं यत् परेणालोचनाज्ञानम् इति व्यवहृतं तत् प्रमाणं न तु तद्बलभावी विकल्पो यथोक्तेन न्यायेनेति स्थितम् एतत् -- पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतो ऽनुमानतो वाप्रसिद्धिः निश्चय इति | तद् एवं प्रत्यक्षतः पक्षधर्मनिश्चयं ब्रुवता प्रसङ्गेन दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यनिराकरणात् | प्रत्यक्षंकल्पनापोढम् [PV २.१२३] इति प्रतिपादितम् |
SK
[ सेच्तिओन्: २८. अनुमानप्राधान्यज्ञापनम् |]
SK
यद्य् एवं कस्माद् अनुमानव्युत्पादनार्थम् इदमारभ्यते [S. ४२ब्.] इत्य् उक्तम् न सामान्येन `सम्यग्ज्ञानव्युत्पादनार्थम्ऽ इति? | सङ्ख्यादिविप्रतिपत्तिर् अप्य् अत्र तद्विषया निरस्तैव | परोक्षार्थप्रतिपत्तेर् अनुमान[म् एवाश्र]यः | कस्माद्? यतः पक्षधर्म एव तदंशेन व्याप्त एव च हेतुः कारणं तस्याः, नान्य इत्य् अभिधानात् परोक्षार्थविषयं सर्वं प्रमणम् अनुमाने ऽन्तर्भावितम् इति सङ्क्सेपतः सङ्ख्याविप्रतिपत्तिः सम्यग्ज्ञानविषया निरस्ता | तथा, व्यापकांशस्य[१७४]गम्यत्वप्रतीतेः तदंशव्याप्तिवचनेन सामान्यविषयम् अनुमानं न स्वलक्षणविषयम् इत्य् आख्यातम् [T. २३२ब्.] तस्यासाधारणत्वात्, असाधारणस्य च व्यापकत्वायोगात्, विकल्पाविषयत्वाच् च | तत्र तदाद्यमसाधारणविषयम् इत्य् आचक्षाणेन स्वलक्षणविषयम् एव प्रत्यक्षम् उक्तम् | {प्. ४०.१} दर्शनम् एव प्रमाणम् [ह्८]इत्य् आख्यानात् प्रमाणम् एव फलम् इति सूचितम्, [S. ४३अ.] तस्यार्थप्रतीतिरूपत्वात् | तथा, तस्य द्विधा प्रयोग इति वक्ष्यमाणत्वात् परार्थानुमानं कथयिष्यते, तस्य त्रिरूपलिङ्गाख्यानरूपत्वात् | सङ्क्षेपतश् चानुमानव्युत्पादनम् अप्य् अभिमतम् | तच् च सर्वत्रास्त्य्[१७५]एवेति कस्मात् अनुमानव्युत्पादनार्थम् इत्य् उक्तम्[१७६]? | सत्यम्, प्राधान्यात् तु तद्ग्रहणम् | तथा हि -- प्रधानपुरुषार्थोपयोगिनस् तत्त्वस्य चतुरार्यसत्यलक्षणस्यानुमानत[१७७]एव निश्चयात् तस्य प्राधान्यम् | तथा प्रत्यक्षे ऽपि विषये विवादसम्भवे, नानुमानाद् अन्यन् निर्णयनिबन्धनम् इत्य् अतो ऽप्य् अस्य प्राधान्यम् | प्रवर्तकत्वाच् च प्राधान्यम् अस्य | तथा हि -- यदनुभूतफलं सुखदुःखसाधनम्, अनुभूयमानफलं वा दृश्यमानं न तत्प्रवृत्तिविषयो निष्पन्नत्वात् फलस्य | तस्माद् यदनागतफलं सुखदुःखसाधनं प्रत्यक्षम् अपि तत्राप्य् अनुमानम् एव प्रवर्तकम् | न हि तस्यानागते सुखदुःखे प्रति योग्यतां प्रत्यक्षं निर्द्धारयति, फलस्य [S.४३ब्.] परोक्षत्वात् | तदुक्तम् -- न ह्य् अप्रत्यक्षे कार्ये कारणभावगतिः इति | तस्मात् पूर्वानुभूतसुखदुःखसाधन[T. २३३अ.]साधर्म्यात् प्रत्यक्षविषयस्यापि वस्तुनो ऽनागतफलयोग्यतानिश्चयः न प्रत्यक्षतः | तथा चाह -- तद्[१७८]यथादृष्टसाधर्म्यात्[१७९] तथाप्रसाधितं[१८०] नानुमेयताम् अतिपतति इति | कथं तर्हि द्वयोर् अपि प्रवर्तकत्वम्? -- न ह्याभ्याम् अर्थंपरिच्छिद्य प्रवर्तमानो ऽर्थक्रियायांविसंवाद्यत इत्य् उक्तम् | सुखदुःखसाधनस्य[१८१]जलानलादेः स्वरूपस्य प्रत्यक्षतः प्रसिद्धेः, फलम् अनागतं प्रति योग्यताया अनुमानत इत्य् उभयोर् अपि प्रवर्तकत्वम् | सम्यग्ज्ञानपूर्वकत्वं च हिताहितप्राप्तिपरिहारयोर् उक्तम् न त्व् अनागतफलं प्रति योग्यतायाः प्रत्यक्षतो ऽनिश्चयात् | [S. ४४अ.] न ह्य् अर्वाग्दर्शिनां भाविफलयोग्यतायास् ततो निश्चयः, ततः प्राधान्याद् अनुमानग्रहणम् इत्य् अलम् अतिविस्तरेणेति |
SK
__________NOTES__________
SK
[१७४] अग्नि- [१७५] प्रत्यक्षादौ [१७६] `सङ्क्षेपेणैव प्रत्यक्षव्युत्पादनं न विस्तरतःऽ इत्य् आशङ्क्याह [१७७] दुःख-समुदय-मार्ग-निरोधाः [१७८] वस्तु [१७९] अन्यत्र [१८०] सुखदुःखहेतुतया [१८१] उत्तरम्
SK
{प्. ४१.१}[ सेच्तिओन्: २९. स्वभावहेताव् अन्वयनिश्चयः स्वप्रमाणायत्तः |]
SK
तत्र स्वभावकार्यानुपलम्भानां पक्षधर्मनिश्चयस् तुल्योपायसाध्यतया ऽभेदेनैवोक्तः अन्वयव्यतिरेकनिश्चयस्य तु भिन्नोपायसाध्यतया भेदेनैव निर्द्देशः कार्य इति स्वभावहेतौ तावद् अन्वयनिश्चयं स्वप्रमाणनिबन्धनं दर्शयन्न् आह -- अन्वयनिश्चयो ऽपि न केवलं पक्षधर्मनिश्चय उक्तः किन्त्व् अन्वयनिशयो ऽपि स्वभावहेतौ उच्यत इति शेषः | साधनधर्मस्य यद् भावमात्रं सत्तामात्रं मुद्गरादिनिमित्तान्तरानपेक्षं तस्य अनुबन्धो अनुगमनं व्याप्तिः तस्य सिद्धिः या स स्वभावहेताव् अन्वयनिश्चयः | कस्य [T. २३३ब्.] साधनधर्मभावमात्रानुबन्धसिद्धिः? | साध्यधर्मस्य [S. ४४ब्.] साध्यश् चासौ असिद्धत्वात् धर्मधर्मिसमुदयैकदेशत्वात् धर्मश् चेति तथोक्तः | यत्र यत्र साधनधर्मस्य भावः तत्र तत्र साध्यधर्मस्यापि निमित्तान्तरानपेक्षो भाव इत्य् एतस्यार्थस्य सिद्धिः स्वभावहेताव् अन्वयनिश्चयः | कथं पुनः साध्यधर्मः साधनधर्मभावमात्रम् अनुबध्नाति |? तद्भावतया स साधनधर्मो भावः -- स्वभावो यस्य तस्य भावतया तद्भावतया | यो हि साधनधर्मः साध्यधर्मस्य स्वभावः स[१८२]कथं तं[१८३]नानुबध्नीयात्, नीरूपत्वप्रसङ्गात्? |
SK
__________NOTES__________
SK
[१८२] साध्यधर्मः [१८३] साधनधर्मम्
SK
[ सेच्तिओन्: ३०. स्वभावहेतावैक्येपि साध्यसाधनभावव्यवस्था |]
SK
ननु तत्स्वभावत्वे भेदाभावात् कथं साध्यसाधनभावः? इत्य् आह -- वस्तुतः परमार्थतः | साध्यसाधनसंकल्पकाले[१८४]तु परम्परया तत् तद्व्यावृत्तपदार्थनिबन्धनायां कल्पनाबुद्धौ [S. ४५अ.] भेदेन प्रतिभासनात् साध्यसाधनभावो न विहन्यते | न ह्य् असौ[१८५]पारमार्थिकं साध्यसाधनधर्मयोर् द्धर्मिणश् च कृतकत्वादौ भेदम् अवलम्भते[१८६], सम्बन्धाभावेन साध्यसाधनभावायोगात् | एकार्थसमवायः कृतकत्वानित्यत्वादेः सम्बन्धः इति चेत्; न, तस्यापि ततो[१८७]ऽर्थान्तरत्वे `अयम् अनयोर् अस्मिन्न् अर्थे समवायःऽ इति {प्. ४२.१} सम्बन्धाभावस्य तदवस्थत्वात्, सम्बन्धान्तरकल्पनायां चानवस्थाप्रसङ्गात् | समवायाद् वृत्तिकल्पनायां च कृतकत्वादयो नित्याभिमतेष्व् अप्य् आत्मादिषु वर्तेरन् | य एव हि कृतकत्वादेः शब्दे समवायो [T. २३४अ.] यद्बलात् तत्रैव तद् वर्तते स एव नित्याभिमतेष्व् अपि, तस्यैकत्वेनोपगतत्वात् इत्य् आत्मादौ वृत्तिः कृतकत्वादेः केन निवर्येत? | अथ `य एवाभूत्वा भवनधर्मा भूत्वा चाभवनधर्मा ऽस्थिररूपो भावः तत्रैव कृतकत्वादयो धर्मा वर्तन्तेऽ इति व्यवस्थाप्यते | सैव तर्ह्य् अभूत्वा भवनस्वभावता भूतस्य चास्थिरस्वभावता तद्विपरीतरूपसमारोपव्यवच्छेदविषययायाः कल्पनाबुद्धेर् निबन्धनं किं नेष्यते? | [S. ४५ब्.] तयैव[१८८]परमार्थाभेदवतोर् द्धर्मयोः साध्यधर्मिणि वृत्तेः किम् अन्तरालगडुना कृतकत्वादिना व्यतिरेकवता[१८९]उपगतेन? | तथा हि -- न सत्तामात्रेण कृतकत्वादयो धर्माः साध्यधर्मप्रतिपत्तिनिबन्धनम्, तेषां सदा सन्निहितत्वेनानवरतं तद्धर्मप्रतीतिप्रसङ्गात्, किन्तु विकल्पप्रतिभासिन एव | स च विकल्पः स्वप्रतिभासिनम्[१९०]एवाकारं बहीरूपतया ऽध्यवसितम् अनुसरन् कृतकानित्यादिरूपतां वस्तुनः प्रतिपद्यते, परमार्थतो ऽसंस्पर्शे ऽपि तद्रूपस्य[१९१], परम्परया तदुपादानत्वात् | व्यतिरिक्तास् तु धर्मास् तदुत्पत्तिनिमित्तमात्रतया[१९२]परिकल्प्यन्ते, तद् वरं यद्[१९३]एव तत्कल्पनानिबन्धनं[१९४]तद् एव तथाविधविकल्पप्रसवनिमित्तम् अस्तु, तस्यावश्यम्[१९५]अभ्युपगमनीयत्वात्, तदभ्युपगमे च चरितार्था व्यतिरेकवन्तो धर्मा इत्य् अलं तत्कल्पनया | अवश्यं च व्यतिरिक्ता ऽनित्यताद्वारेणापि वस्तुन एवानवस्थायिनम् आत्मानं प्रतिपद्यते(न्ते), [S. ४६अ.] [T. २३४ब्.] तदनुरूपार्थकृ(क्रि)य्[ह्९]आर्थितया[१९६]प्रवृत्तेः, अन्यथा[१९७]व्यतिरिक्ता ऽनित्यतया नित्यत्वात्[१९८]तदवगमार्थत्वेनायम् अनित्यसाध्यार्थक्रियार्थी[१९९]नित्यं शब्दादिकम् आशङ्कमानः ३किम् अनित्यताविचारं प्रति आहितास्थः[२००]?[२०१]| {प्. ४३.१} व्यतिरिक्तायां चानित्यतायाम् अवगतायां तत्रैव प्रवर्तताम्, किम् इति नित्ये शब्दात्मनि? | तद्वा(द्द्वा)रेण[२०२]प्रतिपत्तेः इति चेत्; तत् किम् अनेन व्यवधिना? | वरम् अव्यवहितस्यैव प्रतिपत्तिर् अस्तु, तेनैवार्थत्वाद् इति | तदेतद् अतिप्रचर्च्च्यमानम्[२०३]अतिगहनं सम्पद्यत इत्य् आस्तां तावत् | ये ऽपिजैमिनीयामन्यन्ते -- `येषाम् अत्यन्तव्यतिरेकवन्तो धर्माः तेषाम् एवायंनैयायिकादीनां दोषः, अस्माकं तु कथञ्चिद् भेदाभेदवतां धर्माणां तत्स्वभावतया नैष दोषःऽ इति; तेषाम् अपि वस्तुतः साधनधर्मरूपतोपगमे साध्यधर्मस्य, कथञ्चिद् भेदाभ्युपगमे न किञ्चित् [S. ४६ब्.] फलम् उत्पश्यामः, साध्यसाधनभावस्य कल्पितभेदद्वारेणाप्य् उपपत्तेः | न चैकात्म्ये कथञ्चिद् अपि भेदो युक्तः, एकस्मात् स्वभावाद् अभेदात् | ततो ऽपि तयोः कथञ्चिद् भेदाभेदौ स्त एवेति चेत्; न, अनवस्थाप्रसङ्गात् | तथा हि -- धर्मयोस् तदेकस्वभावाद्[२०४]अपि भेदवतोस् तेन स्वभावेन कथञ्चिद् अभेदनिमित्तम् अभिन्नो ऽपरः स्वभावो ऽभ्युपगन्तव्यः, तथा तेना ऽप्य् अपरः इत्य् अनन्तैव [T. २३५अ.] भिन्नाभिन्नस्वभावपरम्परा स्यात् | न च कल्पनाबुद्धाव् अनन्तोभयरूपस्वभावपरम्परा प्रतिभासत इति किम् इति तत्कल्पनया ऽऽत्मानं विप्रलभन्ते भवन्तः? | कथञ्चित् च भेदोपगमात् कथं भेदपक्षभाविनां दोषाणां अनवसरः? | यं चात्मानं पुरोधाय `इमौ धर्माउ, अयं धर्मीऽ इति व्यवस्थाप्यते[ह्१०]यदि तेन भेदस् तदा भेद एवेति कुतो ऽनेकान्तवादः? | अथाभेदः; तदा `अयं साधनधर्मः, अयं साध्यधर्मः, धर्मी चायम्ऽ इति कथं पारमार्थिकं तृ(त्रि)तयं सिध्येत्? | [S. ४७अ.] तस्मात् तत्तत्पररूपव्यावृत्तिसमाश्रयायां कल्पनाबुद्धौ भेदवताम् इव धर्मधर्मिणां प्रतिभासनात् साध्यसाधनभावः | तन्मात्रानुबन्धस् तु वस्तुतः तत्तत्स्वभावतयैव युक्तः इति मन्यमानेन वस्तुतस् तद्भावतया इत्य् उक्तम् |
SK
__________NOTES__________ [१८४] -धनविकल्प- -- T. [१८५] साध्यसाधनभावः [१८६] श्रयते [१८७] कृतकत्वानित्यत्वाभ्याम् [१८८] [अ] भूत्वा भवनादिस्वभावतया [१८९] भिन्नेन [१९०] परिच्छेद्यवस्तुन्य् अविद्यमानम् [१९१] वस्तु- [१९२] विकल्पोत्पत्तिनिमित्तमात्रतया [१९३] अभूत्वा भवनादिकम् | [१९४] तेषां कृतकत्वादीनां प्रतिनियते शब्दादौ वृत्तिकल्पनाया निबन्धनम् [१९५] अभूत्वा भवनादिकस्य [१९६] अनित्यस्वभावानुरूपार्थक्रियार्थितया [१९७] स्वभावभूतधर्मानभ्युप्गमे [१९८] शब्दादेः [१९९] नित्यशब्दाद्यवगमार्त्थित्वे[न] [२००] आहिता आस्था येन | कृतयत्न इत्य् अर्थः [२०१] किं अनित्यताव्यापारं प्रति अहितं करोति? -- T. [२०२] अनित्यताद्वारेण [२०३] प्रपञ्च्यमा- -- T. [२०४] न केवलं धर्मिणः
SK
{प्. ४४.१}[ सेच्तिओन्: ३१. बाधकप्रमाणाद् एव स्वभावहेतौ साध्यसाधनतादात्म्यम् |]
SK
का पुनर् असौ वस्तुतस् तद्भावता यया हेतुभूतया साध्यधर्मस्य साधनधर्मभावमात्रानुबन्धः सिध्यति? इत्य् आह -- सा वस्तुतस् तद्भावता साध्यस्य विपर्ययो विपक्षः तत्र, हेतोः यद् बाधकंप्रमाणं तद्विपरीतधर्मप्रत्यवस्थापकम्[२०५], येन[२०६]बाध्यमानो हेतुस् तत्र न प्रवर्तते, विरुद्धयोर् एकत्र सहभावासम्भवात्, तस्य या वृत्तिः प्रवृत्तिः बाधकप्रमाणवृत्तिः तत्साध्यत्वाच् च वस्तुतस् तद्भावतायाः सा बाधकप्रमाणवृत्तिर् उक्ता | तस्यां हि सत्यां [T. २३५ब्.] विपक्षाट् निवृत्तो हेतुः साध्यधर्मवत्य् एव धर्मिणि वर्तत इति साध्यधर्मस्यानर्थान्तरस्य साधनधर्मस्वभावता सिध्यति | तयाच वस्तुतस् तद्भावतया साधनधर्मभावमात्रानुबन्धः साध्यधर्मस्य सिध्यतीति [S. ४७ब्.] अन्वयनिश्चयः `यत्र यत्र साधनधर्मस् तत्र साध्यधर्मःऽ इत्य् एवं रूपो जायते | अत्रोदाहरणं यथा-- यत् सत् तत् क्षणिकम् एव | अवधारेन व्याप्तिम् आह | साधनधर्मभावमात्रानुबन्धनस्य चैतद्रूपम् आख्यातं, निमित्तान्तरम् अन्तरेण सत् इत्य् एव कृत्वा क्षणिकम् इत्य् उपदर्शनात् | स च वस्तुतस् तद्भावतया सिध्यतीति तत्सिद्ध्युपायं बाधकप्रमाणवृत्तिं दर्शयति -- अक्षणिकत्वे क्षणिकविपर्यये सति अर्थक्रियाविरोधात् अर्थस्य -- कार्यस्य क्रिया -- निष्पत्तिस् तस्या विरोधात् तल्लक्षणं सा ऽर्थक्रिया लक्षणं यस्य वस्तुत्वस्य अर्थक्रियासामर्थ्यात्मनः, तत् तथोक्तम् | अर्थक्रिया हि तत्सामर्थ्यरूपं वस्तुत्वं लक्ष्यते | तद् एवं विधं वस्तुत्वं हीयते निवर्तते, तद्विपर्ययरूपस्यासत्त्वस्या ऽऽकर्षणात् | एतच् च बाधकं प्रमाणं व्यापकानुपलब्धिरूपम् उत्तरत्रावसरप्राप्तं स्वयम् एव वक्ष्यति | तदनया बाधकप्रमाणवृत्तया साध्यधर्मस्य [S. ४८अ.] वस्तुतः साधनधर्मस्वभावता सिध्यति | तया च वस्तुतस् तद्भावतया साधनधर्मभावमात्रानुबन्ध इति |
SK
__________NOTES__________
SK
[२०५] सत्वा(त्त्वा)ख्यहेतुविपरीतासत्व(त्त्व)- [२०६] येन साध्य- -- T.
SK
{प्. ४५.१}[ सेच्तिओन्: ३२. कार्यहेताव् अन्वयनिश्चयनिरूपणम् |]
SK
एवं स्वभावहेतौ [T. २३६अ] विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धितो ऽन्वयनिश्चयं प्रतिपाद्य कार्यहेतौ प्रतिपादयन्न् आह -- कार्यहेतौ अन्वयनिश्चयः इति प्रकृतम् | कः पुनर् असौ कार्यकारणयोर् भावः? | {१}कार्यत्वं{२}कारणत्वंच | तस्य या सिद्धिः प्रतीतिः सा कार्यहेताव् अन्वयनिश्चयः | यथा च कार्यकारणभावसिद्धिर् भवति तथोपदर्शयन्न् आह -- यथा इत्यादि | यथाशब्द उपदर्शनार्थः[२०७]| इदं धूमादिकम् अस्य अग्नेः उपलम्भे सति उपलभ्यत इति सम्बन्धः | अनेन कार्यकारणभावसिद्धौ प्रत्यक्षव्यापारम् आह | न च केवलं प्रत्यक्षं कार्यकारणभावम् असन्दिग्धं साधयति, किन्तु प्राक्प्रवृत्तानुपलम्भसहायम् इति [S. ४८ब्.] दर्शायितुम् आह -- उपलब्धिलक्षणप्राप्तम् अनुपलब्धम् इति | यदि तद् धूमादिकम् उपलब्धिलक्षणप्राप्तं सत्स्व् अन्यै(न्ये)षूपलम्भप्रत्ययेषु दृश्यात्मकं सत् नोपलब्धं भवति अग्न्यादिसामग्रीसन्निधानात् प्राक् तादात्म्यादि(तदग्न्यादि)सामग्र्याम् उपलभ्यमानायाम् उपलभ्यमानं तत्कार्यं सिध्यति | न तूपलम्भप्रत्ययान्तर्वैकल्याद् अनुपजातोपलब्धियोग्यरूपं सत्, तद्देशसन्निहितम् अप्य् अनुपलब्धिलक्षणप्राप्ततयाग्न्यादिसामग्री सन्निधानात् प्रागनुपलब्धम् इति | उपलब्धिलक्षणप्राप्तस्य चानुपलम्भेनाग्न्यादिसामग्री सन्निधानात् प्रागन्यता आगमनं, तद्देशकालसंन्निहितात् कटकुट्या[T. २३६ब्.]देर् उत्पत्तिः, तद्देशे चा ऽसन्निधानम् इति, त्रितयम् अपाक्रियते | एतावद्भिश् च प्रकारैर् अतत्कार्यता भवन्ती भवेत् | ततो ऽनुपलम्भेना ऽतत्कार्यताशङ्कानिरासाद् तद्भावे भावग्राहिप्रत्यक्षनिबन्धनः कार्यकारणभावो ऽसन्दिग्धः [S. ४९अ.] सिध्यति | न चाग्नीन्धनादिभावे नियतसन्निधेर् अदृश्यात्मनः कुतश्चित् धूमस्य भावः स्यात् इत्य् आशङ्कनीयम् | अग्नीन्धनादिभेदानुविधानाद् धूमस्य | चन्दनागुरुकर्पूरकेशोर्णादीन्धनभेदे तदनुरूपभेदस्यास्य दर्शनाद् अल्पमहदिन्धनविकारकारिणश्चाग्नेस् तदनुरूपस्य[२०८]| न चाग्नीन्धनादिसन्निधाव् अदृश्यात्मनो नियतसन्निधानता युक्ता, {प्. ४६.१} प्रतिबन्धाभावात् | प्रतिबन्धे वा तत्कार्यता[२०९]तत्कारणता वा स्यात् | तत्कार्यत्वे, नाग्नीन्धनसम्पर्क्कानन्तरं धूमजन्म स्यात्, तद्भावाभावानुविधानाद् एव चास्यापि तत्कार्यत्वम् | तच् च धूमे ऽपि समानम् | नापीन्धनादिकारणत्वम् अदृश्यात्मनः, इन्धनादेः स्वहेतोर् एव वृक्षादेर् भावदर्शनात् | तत्रापि तथाभावकल्पनायां[२१०]तद् एवोत्तरं वाच्यम् | पुनश् चोद्ये स एव परिहारो ऽनवस्था च | एतेनैकसामग्र्यधीनता ऽपि प्रत्युक्ता | तदन्वयव्यतिरेकानुविधानाद् एव च धूमस्य तत्[२११]कारणं कल्पेत | तच् चाग्न्यादाव् अपि तुल्यम् | तद् अपि तत्र कारणम् अस्तु इति चेत्; न, अग्न्यादिभावे ऽवश्यम् भाविनो ऽन्यस्यापि कारणत्वकल्पनायां निमित्ताभावात्, कार्यव्यतिरेकनिबन्धनत्वात् [S. ४९ब्.] कारणभावकल्पनायाः | तथा अग्नीन्धना[T. २३७अ.]देर् एवान्यतराभावे अभवतः[२१२][ह्११]| भवतु वा ऽन्यस्यापि तद्भावे नियतसन्निधेः कारणता | न तु तावताग्न्यादेः कारणत्वहानिः, यतो धूमदर्शनात् तन्निश्चयेन प्रवृत्तौ तद्विसंवादः स्यात् | न हि सर्वसत्त्वकर्माधिपत्यजनितत्वे ऽपि जगद्वैचित्र्यस्य दृष्टकारणहानितस् तत्कार्यदर्शनाद् वा प्रवृत्तानां अतत्प्राप्तिर् इत्य् अलम् अतिप्रसङ्गेन | किं रूपः पुनर् असौ कार्यकारणभावो ऽनुपलम्भसहाय प्रत्यक्षनिबन्धन इत्य् आह -- तद्भावे भावःतदभावे ऽभावश्च इति | य[२१३]एव हि ७कारणाभिमतस्य[२१४]भावे[२१५]भाव एव | कार्यत्वेनाभिमतस्य[२१६]भावः | तदभावे कारणत्वाभिमतस्या ऽभावे अभाव[२१७] एव कार्यत्वेनाभिमतस्याभावश् च | स एव कार्यकारणभावो नान्यः | स हि ताभ्याम् अन्यो भवन् स्वभावतो ऽप्रतिपन्नकार्यकारणरूपयोर् वा भवेद्, यद्वा स्वभावेनैव कार्यकारणात्मनोः | यद्याद्यः पक्षः तदा सर्वत्रैवाकार्यक(का)रणभूते ऽपि वस्तुनि [S. ५०अ.] भवेत् तन्नियमकारणाभावात् | ततः सर्वं सर्वस्य कार्यं स्यात् | {प्. ४७.१} स्वभावेन चातद्रूपस्यान्ययोगे ऽपि न तद्रूपता | न हि भावाः प्रतिनियतरूपत्यगेनान्ययोगे ऽपि रूपान्तरमाभजन्ते, यतो नान्ययोगस् तेषां पूर्वरूपं नाशयति विनाशहेत्वयोगाद् वक्ष्यमाणकात् | ना ऽप्य् अपूर्वम् उत्पादयति तस्य ततो ऽर्थान्तरत्वप्रसङ्गात् | न हि तेषु निष्पन्नेष्व् अनिष्पन्नो भिन्नहेतुको वा तत्स्वभावो युक्तः | अयं हि भेदो [T. २३७ब्.] भेदहेतुर् वा विरुद्धधर्माध्यासः कारण भेदश् च | ततश् चेत् न भेदः, अन्यनिमित्ताभावात् एकं द्रव्यं विश्वं स्यात् इत्यादि प्रसज्येत | प्रतिभासभेदो ऽपि हि इतरेतराभावरूपतया विरुद्धधर्माध्यासतां नातिक्रामति | ततश् च पूर्वके वस्तुनी [S. ५०ब्.] तदवस्थे एवेति न तयोर् अन्ययोगे ऽपि कार्यकारणरूपतापत्तिः | अथ द्वितीयः पक्षः, तदा स्वभावत एव तयोः कार्यकारणरूपत्वाद् अन्यस् तद्भावः कथं न वैयर्थ्यम् अनुभवेत्? | कार्यकारणबुद्धी अपि तद्भावभावित्वमात्रनिबन्धने नार्थान्तरनिमित्ते, तस्योपपलब्धिलक्षणप्राप्तस्य[२१८]कार्यकारणरूपविवेकिना रूपान्तरेणाप्रतिभासनात् | तथाविधास्यापि[२१९]ग्रहणकल्पनायाम् अतिप्रसङ्गः | अनुपलब्धिलक्षणप्राप्ततायां[२२०]कथं कार्यकारणभावबुद्धी तन्निबन्धने? | न हि तद् अर्थान्तरं स्वसत्तामात्रेण तद्बुद्धी प्रवर्तयति | सदा सन्निहितत्वेनास्य तयोः सर्वदोदयप्रसङ्गात् | न च विशेषणम् अगृहीतं [S. ५१अ.] विशेष्ये स्वविशिष्टप्रत्ययनिबन्धनम् इत्य् अयुक्ता ऽस्यानुपलब्धिलक्षणप्राप्तता | न च दृष्टस्याप्य् अनुपलक्षणं युक्तम्, कार्यकारणबुद्ध्योस् तन्निबन्धनतोपगमात् | न हि यन्निमित्तो यो ऽन्यत्रातद्बुद्धिभाजि तद्व्यवसायः स तदनुपलक्षणे[२२१]युक्तः | देवदत्ते२ दण्डिव्यवसायवद् दण्डानुपलक्षणे | न चार्थान्तरस्य कार्यकारणाभ्यां सम्बन्धो घटते, सम्बन्धान्तरकल्पनायाम् अनवस्था[T. २३८अ.]प्रसक्तेः | कार्यकारणभावाभ्युपगमे कार्यकारणाभ्याम् असहभाविता सद्भावस्य | ततश् च कार्यकारणकाले तस्यासन्निधानात् कथं {प्. ४८.१} कार्यकारणबुद्धिहेतुता? | निरुद्धयोर् अध्याहृत्य[२२२]तत्प्रत्ययकल्पनायां[२२३]च कल्पितविषय एव कार्यकारणताध्यवसायः स्यात् न वस्तुविषयः | स च विशिष्टभावाभावनिबन्धनो ऽभ्युपगत एवेति किम् अर्थान्तरकल्पनया? | कल्पितविषयत्वे तद्व्यवसायस्य[२२४], तस्या[२२५]वैयर्थ्यात् कार्यकारणयोश् चायौगपद्यात् | न हि [S. ५१ब्.] ताभ्याम् असौ जन्यते, प्रत्येकजन्यश् च कथं कार्यकारणभावः? | यदा च कारणेन जन्यते तदा किं स्वकार्यसहितो जन्यते, अथ केवलः? | केवलो ऽपि किं स्वकार्यात् प्राग्, अथ पश्चात्? | यदि स्वकार्यसहितस् तदु(दो)भयोर् अन्यत एव भावात् परस्परम् असम्बन्ध इति कार्यसम्बन्धिता ऽस्य हीयेत | अथ केवलः स्वकार्यात् प्राक्; तदा क्षणिकतया कारणस्य तम्[२२६]एव जनयित्वा ध्वंसात् कथं स्वकार्यक्रिया? | तस्यां चासत्यां कथं तदपेक्षम्[२२७]अस्य कारणत्वम्? | तस्मिंश् चासति कथम् अकारणेन कार्यकारणसम्बन्धो जन्यते? | अथ स्वकार्यं कृत्वा पश्चाज् जन्येत तदा ऽपि स्वकार्यकाले एव विनष्टत्वाद् असतस्तदुत्तरकालभाविकार्यकारणभावजननं कुतः? | तद्भावश्[२२८]च सम्बन्ध उच्यते | [S. ५२अ. अन्द् S. ५२ब्.] .............................................................................................. ...................................................................................................................................................................................................................................................................................................................... ................................................................ ................................................................................................................................................................................................................................................................ [S. ५३अ.] जन्यतायां वा यदि समग्राः स्वरूपत एव तां जनयन्ति कार्ये क एषां शक्तिव्याघातः? यतो ऽन्यत्र[२२९]कल्प्यते | तत्राप्य् अपरसामग्री योगापेक्षायां चानवस्थाप्रसङ्गः | ततः समग्रा [T. २३९अ.] एव जनकाः | तेषां च कारणत्वम् एकैकापाये कार्यव्यतिरेकतः समुन्नीयत इत्य् आह -- सत्स्व् अप्य् अन्येषु तत्सामग्र्यन्तर्ग्गतेषु हेतुषु जनकेषु {प्. ४९.१} प्रत्येकं तेषां व्यञ्जनकत्वाद्[२३०]अस्याभावे जनकत्वेन निर्द्धार्यमाणतया विवक्षितस्याभावे न भवति इत्य् अनेनानुपलम्भस्य विषय उक्तः | प्रत्यक्षवृत्तिस् तु पूर्वोक्तैवा ऽनुपलम्भरहिता तद्भावे भावग्राहिणी संबन्ध्यते | तथा चायम् अपि तद्भावे भावः तदभावे ऽभावश् च कार्यकारणभावः किं साधनः? इत्य् आह -- प्रत्यक्षानुपलम्भसाधनः प्रत्यक्षपूर्वको ऽनुपलम्भः तद्विविक्तान्यपदार्थग्राहिप्रत्यक्षात्मकः साधनम् अस्येति प्रत्यक्षानुपलम्भसाधनःकार्यकारणभावः | यस् त्व् अनुपलम्भसापेक्षेण [S. ५३ब्.] प्रत्यक्षेण साध्यत इति प्रागुक्तः सो ऽनुपलम्भपूर्वकं प्रत्यक्षं साधनम् अस्येति अनुपलम्भप्रत्यक्षसाधन इति वक्तव्यः | तस्य कार्यकारणभावस्यान्वयव्यतिरेकात्मनः सिद्धिः निश्चयो यथोक्ताभ्यां प्रत्यक्षानुपलम्भाभ्यां कार्यहेताव् अन्वयनिश्चय इति सम्बध्यते | ननु चान्वयनिश्चयो नाम कार्यहेतोः सर्वत्र कार्यस्य भवतः स्वकारणसत्तया ऽनुगमनम् १इत्य् एवम् अवसायः तत्[२३१]कथं कार्यकारणभावसिद्धिर् एवा ऽसाव्[२३२]उच्यते? इत्य् आशङ्क्य कार्य[T.२३९ब्.]कारणभावसिद्धिनिबन्धनत्वाद् अन्वयनिश्चयस्य कारणे कार्योपचाराद् अनन्योपायसाध्यतां दर्शयितुम्, दर्शनमात्रनिबन्धनं ये तम् इच्छन्ति तन्मतनिषेधार्थम् असाव् एवम् उक्त इति दर्शयन्न् आह -- कार्यकारणभाव एव हि कार्यकारणभावे सत्य् एव हि यस्मात् अर्थान्तरस्य साध्याद् व्यतिरिक्तस्य, यस् त्व् अव्यतिरिक्तः [S. ५४अ.] तस्य विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यनिश्चयाद् एवान्वयनिश्चय इति पूर्वम् उक्तम् एवेत्य् अर्थान्तरग्रहणम् | तस्यार्थान्तरस्य एवंस्यात् | कथम्? | `यत्र नाम क्वचिद् धूमः तत्रावश्यम् अग्निःऽ इति नियमेन `अग्नेः तत्र भावःऽ इत्य् एवं रूपो ऽन्वयनिश्चयः | यस् त्व् अकार्यकारणभावे ऽपि रसस्यार्थान्तरस्य रूपेणान्वयनिश्चयः स एकसामग्र्यधीनतया तस्य[२३३]स्वकारणव्यभिचारद्वारक एवेत्य् अदोषः | {प्. ५०.१} अथ यदि नाम कार्यम् अग्नेर् धूमस् तथापि किम् इति यत्रासौ तत्रावश्यम् अग्निर् भवति यतः कार्यकारणभावसिद्धिनिबन्धनो ऽन्वयनिश्चय उच्यत इत्य् आह -- अग्नेःभावे एव सत्तायाम् एव हिः यस्मात् भावः सत्ता धूमस्य कार्यत्वम् इति | तस्मात् कार्यकारणभावे सत्य् एव यथोक्तो ऽन्वयनिश्चय इति | यदि हि यत्र धूमस् तत्रावश्यम् अग्निर् न स्यात् तदा ऽग्निम् अन्तरेणाप्य् अस्य भावाद् अग्निभाव [S. ५४ब्.] एव भावलक्षणं कार्यत्वं हीयेत |
SK
__________NOTES__________
SK
[२०७] उपलक्षणार्थः -- T. [२०८] अल्पमहदिन्धनरूपस्य [२०९] तेषाम् अग्न्यादीनां तददृश्यात्मकं वस्तु कार्यम् [२१०] वृक्षादिभ्यो ऽपीन्धनाद्युत्पत्तिकथने ऽदृश्यात्मन एव कस्यचित् कारणत्वकल्पनायाम् [२११] अदृश्यं [२१२] धूमस्य [२१३] अवधारणगर्ब्भम् इदं वाक्यम् इति तथैव व्याख्याति [२१४] वह्नेः [२१५] न पुनरकारणाभिमतस्य भावे [२१६] धूम- [२१७] न पुनरकारणाभिमतस्याभावे [२१८] तस्योपलब्धिलक्षणप्राप्तत्वं स्यात् तद्विपर्ययो वा | तत्राद्ये आह [२१९] रूपान्तरेणाप्रतिभासमानस्य [२२०] द्वितीये आह [२२१] युक्तः दण्डेन दण्डिव्यवसायाभावे देव- -- T. [२२२] -योर् आरोप्य -- T. [२२३] कार्यकारणबुद्धिहेतुत्वकल्पनायाम् [२२४] कार्यकारणभाव- [२२५] अर्थान्तरकल्पनायाः [२२६] सम्बन्धं [२२७] कार्य- [२२८] कार्यकारण- [२२९] सामग्र्याम् [२३०] व्यञ्जक- -- T. [२३१] इत्य् एवं साधनावसरः तत् -- T. [२३२] अन्वयनिश्चयः [२३३] रस्य (रसस्य)
SK
[ सेच्तिओन्: ३३. अनुपलब्धाव् अन्वयनिश्चयोपायकथनम् |]
SK
इदानीम् अनुपलब्धाव् अन्वयनिश्चयम् आह -- अनुपलब्धाव् अपि [T. २४०अ.] न केवलं स्वभावकार्यहेतो(त्वो)र् अन्वयनिश्चय उक्तः किन्त्व् अनुपलब्धाव् अप्य् अन्वयनिश्चय उच्यते | किं रूपो ऽसौ? इत्य् आह -- असदव्यवहारस्य साध्यधर्मस्य योग्यतायाश् च साध्यत्वात् तद्योग्यता ऽसद्व्यवहारो ऽभिप्रेतः, तस्य, उपलब्धिलक्षणप्राप्तस्य या अनुपलब्धिः तदन्योपलब्धिरूपा तन्मात्रे निमित्तान्तरानपेक्षणी, या वृत्तिः प्रवृत्तिर् असद्व्यवहारस्य तस्याः साधनं सिद्धिः अनुपलब्धाव् अन्वयनिश्चयः | कुतः पुनर् असद्व्यहारस्य तन्मात्रे वृत्तिर् भवति? इत्य् आह -- निमित्तान्तराभावोपदर्शनात् इति | यदा ह्य् असद्व्यवहारस्य यथोक्तानुपलब्धिव्यतिरिक्तं बुद्धिव्यपदेशार्थक्रियाविरहादिकं निमित्तं न भवतीति [S. ५५अ.] साध्यते तदा यथोक्तानुपलब्धिमात्रे ऽस्य वृत्तिः सिद्धा भवति | तथा(तया)[२३४]चानुपलब्धाव् अन्वयनिश्चयः | अन्यथा हि निमित्तान्तरापेक्षाशङ्कायां सत्याम् अपि यथोक्तानुपलब्धौ नावश्यम् असद्व्यवहारस्य भाव इति कुतो ऽन्वयनिश्चयः स्यात्? | निमित्तान्तराभावस् तु विस्तरतोवादन्याय उक्त इति तत एवावधार्यः | अथवा सद्व्यवहारस्य यन्निमित्तम् उपलब्धिलक्षणप्राप्तस्य सत्त्वम् तद् असद्व्यवहारनिमित्ताद् अन्यत्वात् निमित्तान्तरं तत्रानुपलब्धेर् अभाव उपदर्श्यते येन प्रमाणेन तद् एवम् उक्तम्, तेन, सति वस्तुनि तस्या [T. २४०ब्.] असम्भवनिश्चयाद् अनुपलब्धाव् अन्वयनिश्चयः | तच् च तद्व्यतिरेकचिन्तायां दर्शयिष्यामः | {प्. ५१.१} तद् एवं त्रयाणाम् अपि हेतूनां तथास्वं प्रमाणेनान्वयविनिश्चय उक्तः | स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धिनिबन्धनत्वात्, कार्यहेतौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धिनिमित्तत्वात्, [S. ५५ब्.] अनुपलब्धौ निमित्तान्तराभावप्रसाधकमाणतस्तदभावसिद्धिहेतुत्वाच् चेति |
SK
__________NOTES__________
SK
[२३४] तदा च -- T.
SK
[ सेच्तिओन्: ३४. कार्यस्वभावयोर् व्यतिरेकनिश्चयोपायकथनम् |]
SK
सम्प्रति त्रयाणाम् अपि हेतूनां स्वस्वप्रमाणनिबन्धनं व्यतिरेकनिश्चयं प्रतिपादयितुकाम आह -- व्यतिरेकनिश्चयो ऽपि न केवलम् अन्वयनिश्चयो यथास्वं प्रमाणनिबन्धनस् तयोर् उक्तः अपि तु व्यतिरेकनिश्चयो ऽपि कार्यस्वभावहेत्वोर् यथास्वं प्रमाणनिमित्त उच्यते | कः पुनर् असौ? साध्याभावे ऽभावसिद्धिः | याव् अतदात्मक[तदात्मकौ हेतू कारणव्यापकरूपसाध्यस्य साधकौ] साध्याभावे चाभावसिद्धिस् तयोः | केन प्रमाणेन? | कारणव्यापकानुपलब्धिभ्यां | कार्यहेतौ कारणानुपलब्ध्या साध्याभावे ऽभावनिश्चयः | स्वभावहेतौ व्यापकानुपलब्ध्या | कदा पुनस् ते ऽनुपलब्धी साधिके तस्य भवतः? | कार्यकारणव्याप्यव्यापकभावसिद्धौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धौ सत्यां कारणानुपलब्धिः कार्यहेतौ साध्याभावे ऽभावस्य साधिका, विपर्यये च बाधकप्रमाणवृत्त्या तद्भावतासिद्धितो | व्याप्यव्यापकभावसिद्धौ सत्यां [S. ५६अ.] [T. २४१अ.] व्यापकानुपलब्धिः स्वभावहेतौ साध्याभावे ऽभावस्य साधिकेति | तद् एवं ब्रुवता उभयत्र तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धनिश्चयाद् एव द्वयोर् अप्य् अन्वयव्यतिरेकयोः निश्चय इति उक्तं भवति | अत एवान्यत्र -- कार्यकारणभावाद् वा [PV ३.३०] इत्यादि उक्तम् | कीदृशीभ्यां? दृश्यविषयाभ्यां दृश्यो विषयो ययोस् ते तथोक्ते | यदि कारणव्यापकाव् उपलब्धिलक्षणप्राप्तौ भवतस् तदा तदनुपलब्धी साध्याभावे ऽभावं साध्यत इति यावत् | कदा पुनस् तयोः दृश्यविषयताविशेषणम् अपेक्ष्यते? इत्य् आह -- उद्दिष्टविषयस्य उद्दिष्टः -- कथितो विषयः -- आधारो वैधर्म्यदृष्टान्तलक्षणो यस्य साध्याभावे ऽभावस्य तस्योपदर्शने क्रियमाणे | {प्. ५२.१} तत्रापि कस्माद् दृश्यविषयता ऽपेक्ष्यते? इति चेत् आह -- अनुपलब्धि इत्यादि | अन्यथा यदि दृश्यविषयताविशेषणम् अनुपलब्ध्योर् नापेक्ष्यते | यदा ऽनुपलब्धिलक्षणप्राप्तं [S. ५६ब्.] विषयं वैधर्म्यदृष्टान्तरूपम् उपादत्ते तदा ऽनुपलब्धिलक्षणप्राप्तौ तत्र कारणव्यापकाव् अपि भवत इति अनुपलब्धिलक्षणप्राप्तस्य कारणस्य व्यापकस्य वा क्वचिद् विप्रकृष्टे विषये सुमेर्वादौ अभावासिद्धेह् कथमाभ्यां साध्याभावे ऽभावसिद्धिः स्यात्, कारणव्यापकानुपलब्ध्योर् एवासिद्धत्वात् इत्य् अभिप्रायः | अथानुद्दिष्टविषयस्याप्य् अभावस्योपदर्शने ऽनुपलब्ध्योर् दश्यविषयताविशेषणं किम् इति नापेक्ष्यते? इत्य् आह -- अनुद्दिष्टविषयम् [T. २४१ब्.] अनुद्दिष्टो विषयः -- वैधर्म्यदृष्टान्तरूपो यस्मिन् साध्याभावे हेत्वभावख्यापने तत् प्रतिबन्धमात्रसिद्धौ सत्यां दृश्यविषयताविशेषणम् अन्तरेणापि यस्मात् सिध्यति इति तस्मात् न तत्र अनुद्दिष्टविषये व्यतिरेकसाधने अनुपलब्ध्योर् दृश्यविषयताविशेषणम् अपेक्ष्यते अङ्गीक्रियते | [S. ५७अ.] तथा हि -- अशेषपदार्थपरिग्रहेण सामान्येनापि ब्रुवतो यो यत्र प्रतिबद्धस्वभावः तादात्म्यतदुत्पत्तिभ्यां स तदभावे ऽवश्यम् एव न भवतीति निःस्वभावत्वा ऽहेतुकत्वप्रसङ्गात् | तदुक्तम् - स्वभावे ऽप्य् अविनाभावो भावमात्रानुरोधिनि | तदभावे स्वयंभावस्याभावःस्याद् अभेदतः|| [PV ३.३८] तथा -- कार्यंधूमो हुतभुजःकार्यधर्मानुवृत्तितः| स भवंस् तदभावे ऽपि हेतुमत्तांविलङ्घयेत् || [PV ३.३३] इति | ततस् तत्र दृश्यविषयताऽपेक्ष्यमाणानुपकारिकैवेति न तया किञ्चिद् इति भावः | प्रतिबन्धमात्रसिद्धौ इत्य् अनेन ये प्रतिबन्धं हेतोर् न वर्णयन्ति किन्त्व् अदर्शनमात्राद् एव व्यतिरेकम् आहुस् तेषां तदसम्भवं च दर्शयति | तथा हि -- असति प्रतिबन्धे यदि सर्वे साध्यविरहिणो ऽर्था दृश्या भवन्ति तदा तेष्व् अनुपलब्धस्य साधनस्याभावः शिष्येत्(त) | तद् आहकुमारिलो ऽपि -- {प्. ५३.१} गत्वागत्वातु तान् देशान् यद्य् अर्थो नोपलभ्यते | तदान्यकारणाभावाद् असन्न् इत्य् अवगम्यते || [ŚVअर्था- ३८] इति | देशादिविप्रकर्षितया[२३५]त्व् अदृश्यत्वे सत्य् अपि तत्र[२३६][S. ५७ब्.] हेताव् अनुपलम्भमात्रस्य सम्भवात् सन्दिग्धो ऽसाव् ऽशेषे साध्याभावे साधनाभावलक्षणो व्यतिरेकः तथाविधस्यैव[२३७]यत्र यत्र साध्याभावः [T. २४२अ.] तत्र तत्र साधनाभाव इति वीप्सापदाभ्याम् अभिधानात् | अन्वयनिश्चयो[२३८]ऽपि प्राक् प्रतिबन्धनिबन्धन एव वर्णितः ततस् तेनापि[२३९]परेषां दर्शननिबन्धनाम्[२४०]अन्वयसिद्धिम् इच्छताम् अभावो ऽस्यापि[२४१]कथित एव, सर्वार्थानां हेतुमतां साध्यधर्मवत्तया द्रष्टुम् अशक्यत्वाद् अनुमातृभिः | अशेषदेशादिविषयस्य च साध्यानुगमस्य यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वीप्सया प्रतिपादनात् | न च कतिपयदेशादौ साधनधर्मस्य साध्यधर्मेण सहभावस्य भूयो दर्शने ऽपि व्याप्तिः सिध्यति, असति प्रतिबन्धे क्वचिद् बहुलं तथादृष्टानाम् अप्य् अन्यथा त्व् अस्यापि सम्भवात्, तदसम्भवे[२४२]बाधकप्रमाणाभावात् |
SK
__________NOTES__________
SK
[२३५] ननु यो ऽपि न दृश्यास् तेष्व् अदर्शनम् अस्ति, अतो ऽदर्शनाद् एव सर्वत्र व्यतिरेकनिश्चयः इत्य् आह [२३६] साध्ये [२३७] अशेषसाध्याभावे साधनाभावलक्षणस्य [२३८] दृश्ये ऽदृश्ये च [२३९] प्रतिबन्धनिबन्धनेनान्वयेन [२४०] दर्शनमात्रनि- -- T. [२४१] अन्वयस्य [२४२] अन्यथा त्व् -
SK
[ सेच्तिओन्: ३५. अनुपलब्धौ व्यतिरेकनिश्चयोपायकथनम् |]
SK
अनुपलब्धिम् अधिकृत्याधुना ऽऽह -- व्यतिरेकनिश्चयो ऽनुपलब्धौ उच्यत इति शेषः | [S. ५८अ.] किम् आत्मको ऽसौ? इत्य् आह -- उपलब्धिलक्षणप्राप्ताद् विद्यमानोपलम्भप्रत्ययान्तराद् १दृश्यस्वभावाच् च[२४३]सतः विद्यमानात् साध्याभावरूपाद्[२४४]अनुपलम्भस्य तद्विविक्तोपलम्भात्मनो यो ऽभावः सतो यद्ग्राहकं प्रत्यक्षं तद्भावलक्षणस् तस्य दर्शनं दर्श्यते -- प्रत्याय्यते ऽनेनेति दर्शनम् उपदर्शकं प्रमाणं तदात्मको ऽनुपलब्धौ व्यतिरेकनिश्चयः | तद्धेतुत्वाच् च तत् प्रमाणं तथोच्यते[२४५]| यदि हि सन्निहितान्योपलम्भप्रत्ययो दृश्यस्वभावो भावो विद्यमानो ऽपि नोपलभ्येत कथम् असौ {प्. ५४.१} [T. २४२ब्.] दृश्यस्वभावः स्यात्? | यो हि सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स एव दृश्यस्वभाव आख्यायते | तस्मात् तथाविधे सन्निहिते ४ऽवश्यं प्रत्यक्षवृत्त्या[२४६]भवितव्यम्, अन्यथा ऽस्य न कदाचिद् अपि प्रत्यक्षता स्यात्, विशेषाभावाद् इति | प्रयोगः -- यद् यन्मात्रनिमित्तं तत् [S. ५८ब्.] तस्मिन् सति नियमेन भवति | तद् यथा बीजादिसामग्रीमात्रनिमित्तो ऽङ्कुरः | यथोक्तोपलब्धिलक्षणप्राप्ततामात्रनिमित्तं च सति वस्तुनि तथाविधे प्रत्यक्षम् इति स्वभावहेतुः | [एते]न प्रमाणेन स्वभावानुपलब्धौ साध्याभावे ऽभावलक्षणो व्यतिरेको निश्चीयते | एतच् च प्रमाणम् अन्वयनिश्चयस्यापि निमित्तम् | अनेनैव निमित्तान्तरे ऽनुपलब्धेर् अभावोपदर्शनात् | कारणव्यापकानुपलब्ध्योस् तु वक्ष्यमाणयोः प्रतिबन्धद्वयसिद्ध्युपाय एवान्वयव्यतिरेकनिश्चयनिबन्धनम् | स च कार्यस्वभावहेत्वोर् उपदर्शित एवेति पृथग् नोक्तः | तथा हि -- कारणव्यापकयोर् अभावः कार्यव्याप्याभावाभ्याम् अवश्यम् अन्वितः कार्यव्याप्याभावव्यतिरेके च तद्भावलक्षणे ऽवश्यं[२४७]व्यतिरिच्यते[२४८]कारणव्यापकयोर् भावात् | अन्यथा कार्यव्याप्ययोर् अहेतुकत्वनिःस्वभावताप्रसङ्गाद् इति [S. ५९अ.] न किञ्चित् पृथगभिधानेनेति |
SK
__________NOTES__________
SK
[२४३] उपलब्धिलक्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यंस्वभावविशेषश्च -- [NB Pअरि- २] [२४४] अनुपलब्धो (?) साध्यम् असत्त्वम् [२४५] अनन्योपायसाध्यतां दर्शयितुम् [२४६] -वश्यं तथाविधप्र- -- T. [२४७] सति [२४८] कारणव्यापकाभावो निवर्तते
SK
[ सेच्तिओन्: ३६. हेतोः प्रकारत्रयस्य नामनिर्देशः |]
SK
तदेताव् अता ग्रन्थेन पक्षधर्मस् तदंशेन व्याप्तो हेतुः इति व्याख्यातम् | [T. २४३अ.] अधुना त्रिधैव सः इत्य् एतद् व्याख्यातुम् आह -- एतल्लक्षणः `पक्षधर्मः सन् यस् तदंशेन व्याप्तो हेतुःऽ इत्य् एतल्लक्षणं यस्य स एतल्लक्षणः | त्रिधैव सः | `सःऽ इत्य् एतस्य व्याख्यानं हेतुर् इति, | `त्रिधैवऽ इत्य् अस्य विवरणं त्रिप्रकार एवेति | तान् हेतून् स्वेन स्वेन नाम्ना कीर्त्तयति -- स्वभावःकार्यम् अनुपलब्धिश्चेति | चकारो हेतुत्वसमुच्चयार्थः | इत्य्शब्दः समाप्तिं सूचयन्न् अवधारणार्थम् एव स्फुटयति | यथा-- अनित्ये कस्मिंश्चित् शब्दादौ साध्ये सत्व(त्त्व)म् इति स्वभावहेतूपदर्शनम्, {प्. ५५.१} अग्निमति प्रदेशे साध्ये धूम इति कार्यहेतोः प्रदर्शनम्, अभावे च अभावस्य व्यवहारे च उपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् इति अनुपलब्धेर् उपन्यासः |
SK
[ सेच्तिओन्: ३७. त्रिविधहेतुबाह्यानां हेत्वाभासत्वे प्रमाणोपदर्शनम् |]
SK
कस्मात् पुनः त्रिविध एव हेतुः? इत्य् आशङ्क्य [S. ५९ब्.] त्रिविधहेतुव्यतिरिक्तानाम् अर्थानां हेत्वाभासतया हेतुविरुद्धया व्याप्तेस् त्रिष्व् एव हेतुत्वं नियतं भवतीति हेत्वाभासतां प्रमाणवतीं तद्व्यतिरेकिणां दर्शयन्न् आह -- अत्रैव स्वभावकार्या ऽनुपलब्ध्याख्ये त्रिविधहेतौ अविनाभावस्य नियमाद् इति त्रिविधहेतुव्यतिरिक्तेश्व् अर्थेष्व् अविनाभावा ऽभावाद् इत्य् अर्थः | ततश् चाविनाभावविकलत्वात् स्वभावकार्यानुपलब्धिव्यतिरेकिणो ऽर्था हेत्वाभासाः प्रमेयत्वादिवत् इत्य् उक्तं भवति | अविनाभावाभावश् च त्रिविधहेतुव्यतिरिक्तत्वाद् एव तादात्म्यतदुत्पत्त्योर् अविनाभावव्यापिकयोर् अभावाद् व्यापकानुपलब्धितो ऽवगतः |
SK
[ सेच्तिओन्: ३८. अविनाभावनिरूपणम् |]
SK
अथ को ऽयम् अविनाभावः? कस्य चासौ? कथं वा ऽत्रैव नियत उच्यते? इत्य् अत आह -- यथोक्ताव्याप्तिःव्यापकस्य -- तत्कारणतया तद्भावतया च | यत्र तद्व्याप्यं कार्यं स्वभावो वा सन्निहितस् तत्र भाव एव | व्याप्यस्य वा -- कार्यस्य स्वभावस्य वा | यत्र तत्कारणस्वभावाख्यं व्यापकं सन्निहितं तत्रैव धर्मिणि न तदभावे ऽपि भाव इति या व्यापकव्याप्यधर्मतया व्याप्तिर् उक्ता सा यथोक्ताव्याप्तिर् अविनाभावः | कस्य? | पक्षधर्मस्य साध्यधर्मिधर्मस्य | स एवं रूपो ऽविनाभावः [S. ६०अ.] तृ(त्रि)विधाद् यथोक्ताद् हेतोः अन्यत्र तद्व्यतिरेकिण्य् अर्थे नास्ति | यतो ऽत्र च तृ(त्रि)विधे ऽस्ति, तादात्म्यतदुत्पत्त्योर् अविनाभावेन व्याप्तयोर् भावात्, कृतकत्वानित्यत्ववदनयोर् व्याप्यव्यापकभावाद् इति, तस्माद् अत्रैव त्रिविधे हेतौ तदन्यत्राभावमुखेन नियतः उच्यते | तद् अनेन हेत्वाभासास् ततो ऽपर इत्य् अस्य अविनाभावनियमात् इत्य् उपपत्तिसहितस्यार्थाः प्रदर्शितः | यथा च त्रिविधाद् हेतोर् अन्यत्राविनाभावो नास्ति तथा प्राग् एवोक्तम् | {प्. ५६.१} यदि व्[ह्१२]आ स्वभावाद् अन्यो ऽर्थो ऽर्थान्तरम्, १तच् च[२४९]कार्याद् अप्य् अन्यत् -- कारणम् अनुभयं [T. २४४अ.] वा | अनुपलब्धेर् अप्य् अन्यद् यथोक्तायाः -- अनुपलब्धिमात्रम् उपलब्धिर् वा प्रतिषेध्यस्य तदन्यस्यापि विरुद्धस्याविरुद्धस्य वा | तत्रार्थान्तरम् यद्य् अनन्तरकार्यं[२५०]तस्यार्वाद्गर्शिभिः इतरविवेकेन लक्षयितुम् अशक्यत्वात् अलिङ्गत्वम् | कार्यदर्शनात् [S. ६०ब्.] विवेकावसाये ऽपि साध्यसिद्ध्युत्तरकालभावी पक्षधर्मतावसायो ऽन्वयानुगमनं च व्यर्थं | व्यवहितकार्यम् अपि कारणं न कार्यस्य लिङ्गम्, अन्तरालप्रतिबन्धवैकल्यसम्भवेन व्यभिचारात् | तदुक्तम् | सामग्रीफलशक्तीनां[२५१] परिणामानुबन्धिनि | अनैकान्तिकताकार्ये प्रतिबन्धस्य सम्भवात् || [PV ३.७] इति | योग्यतानुमाने तु नार्थान्तरं लिङ्गम् | नाप्य् अनुभयम्, अप्रतिबन्धेन गमकत्वायोगात् | कथं कृत्तिकोदयविज्ञानाद् रोहिण्यासत्तिक्लृप्तिः? इति चेत् | ननुऽ सा ऽपि नैवासति प्रतिबन्धे युक्ता विशेषाभावेन सर्वतः सर्वप्रतीतिप्रसङ्गात् इत्य् उक्तत्वात् | तस्मान् नक्षत्रचक्रस्य सङ्क्रान्तिहेतुर् एव कालव्यवधानेन कश्चित् कल्पयितव्यः, यथा भूतसंअक्षोभः पश्चात्कालभाविनो वर्षस्येति हेतुधर्मानुमानेन कार्यलिङ्गजैव कल्पयितव्या | अनुपलब्धिमात्रम् अपि साम्शयहेतुः, [S. ६१अ.] [T. २४४ब्.] प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेः | उपलब्धिर् अपि प्रतिषेध्यस्य कथम् अभावं साधयेत्?, अभ्रान्तोपलम्भस्याभावायोगात् | विरुद्धोपलब्धिस् तु प्रतियोग्यभावं साधयति | किन्तु स विरोधस् तद्भावे सत्य् अन्यानुपलम्भाद् एव सिद्ध इति तद्द्वारेणानुपलब्धिर् एव प्रयुक्ता भवति | अन्यथा ऽनिषिद्धोपलब्धेर् अभावासिद्धेः | अविरुद्धोपलब्धिः पुनः प्रतिषेधे ऽनैकान्तिकी, सहभावसम्भवाद् अविरुद्धानाम् | न चापरः प्रकारः सम्भवतीति नाविनाभावो ऽन्यत्र विद्यत इति | {प्. ५७.१} [ २. स्वभावहेतुनिरूपणम् |] [ सेच्तिओन्: १. स्वभावहेतोर् लक्षणाभिधानम् |] __________NOTES__________
SK
[२४९] कार्यहेतोर् अपि यद् अन्यद् अभ्युपगम्यते तद् अपि तच् च ...........ऽर्थान्तरम् एवेत्य् अर्थः [२५०] अनन्तरं कार्यं यस्मात् कारणात् [२५१] सामग्र्याः फलं च ताः शक्तयश् च
SK
इदानीं स्वभावहेतोस् तावल् लक्षणम् आह -- तत्र हेतुत्रये स्वभावहेतोस् तावल् लक्षणम् उच्यते | साध्यते येन तत् साधनम् | तच् चासौ धर्मश् च तस्य भावस् तद्भावः | स एव साधनधर्मभावमात्रम् | तस्य अन्वयः | स यस्यास्ति साध्यधर्मस्यावयवे समुदायोपचारात्, तस्मिन् | स्वभावो हेतुः | साध्यधर्मस्य श्रुतत्वात् तस्यैव स्वभाव इति गम्यते | कथं पुनर् असौ साध्यधर्मस्वभावो? यावता भेदेन प्रतीयत इत्य् अत १आह -- अपरस्माद्[२५२] अपरस्माद् च असतो ऽक्षणिकाच् च या व्यावृत्तिस् तस्या यो [S. ६१ब्.] भेदः अवधिभेदोपकल्पितस् तेन हेतुभूतेन साध्यधर्मात् साधनधर्मस्य यो भेदस् तस्मिन् {१}सत्य् अपि {२}वस्तुतः परमार्थतो लिङ्गस्वभाव एव साध्यधर्मस्वभाव [T. २४५अ.] एव | तथा हि -- य एवासतो व्यावृत्तः स एवाक्षणिकाद् अपि | तत एकस्माद् धर्मिणो भेदाभावात् साध्यसाधनधर्माव् अपि परमार्थतो नैव भिद्येत इति |
SK
__________NOTES__________
SK
[२५२] आह परस्परेति अप- -- T.
SK
[ सेच्तिओन्: २. परमतनिरासार्थं साध्यधर्मे साधनधर्मभावमात्रेत्यादिविशेषणम् |]
SK
यदि वस्तुतो लिङ्गिस्वभाव एव साधनधर्मः, तत् कस्मात् साधनधर्मभावमात्रान्वयिनि इति साध्यधर्मो विशेष्यते? | यो हि यस्य स्वभावः स कथं तन्मात्रान्वयी न स्यात्?, नीरूपत्वप्रसङ्गाद् अतत्स्वभावता वा इत्य् अत आह -- हेतुः स्वभावो यस्य साध्यधर्मस्य तस्मिन् {१}हेतुस्वभावे {२}साध्यधर्मे सति अन्वयव्यभिचाराभावात् साधनधर्मभावमात्रस्य यो ऽन्वयस् तस्य व्यभिचाराभावात् | [S. ६२अ.] सम्भवे व्यभिचारे च विशेषणं युक्तम् | अत्र तु सम्भव एव न व्यभिचार इति विशेषणम् अयुक्तम् एव | तथापि स्वभावहेतुलक्षणे क्रियमाणे यद् एतत् {१}साध्यधर्मस्य {२}तन्मात्रान्वयेन साधनधर्मभावमात्रानुगमनेन विशेषणं तत् परमतापेक्षंनैयायिकादीनां विप्रतिपत्तेस् तन्मतापेक्षं न तु स्वमतापेक्षम् | {प्. ५८.१} ताम् एव परविप्रतिपत्तिं दर्शयन्न् आह -- परे हिनैयायिकादयः अर्थान्तरनिमित्तं जनकाद् अर्थाद् अन्यो यो ऽर्थो वेगवद्द्रव्ययोगादिः तन्निमित्तम् | ते ह्य् एवम् आहुः -- वेगवद्द्रव्ययोगाद् अवयवेषु कर्माण्य् उत्पद्यन्ते | तेभ्यो ऽवयवविभागः | ततस् तत्संयोगविनाशस् तदारब्धं कार्यद्रव्ये ऽपि(कार्यद्रव्यम् अपि) नश्यतीति | [T. २४५ब्.] एवम् अर्थान्तरं निमित्तं | तत एव अर्थान्तरनिमित्तम् अपेक्षमाणं कृतकत्वादिभावे ऽप्य् अभावाद् अतद्भावमात्रान्वयिनं तस्य कृतकत्वादेः भावः सत्ता सैव तन्मात्रं तस्यान्वयः स यस्यास्ति [S. ६२ब्.] साध्यधर्मस्य अनित्यत्वलक्षणस्य तद्विपरीतम् अपि कृतकत्वादेः स्वभावम् इच्छन्ति यतः ततो विशेषणं कृतम् | तेन च विशेषणेन तथाविधस्यार्थान्तरनिमित्तस्य विनाशस्यातत्स्वभावताम् आह लक्षणे विशेषणकारः | स्वसत्तामात्रभाविन्य् एव स्वभावत्वं नान्यत्रेति विशेषणेन सूचनात् |
SK
[ सेच्तिओन्: ३. हेतुमति विनाशे साध्ये कृतकत्वस्य व्यभिचारित्वम् |]
SK
तथा, तस्मिन् अर्थान्तरनिमित्ते साध्ये हेतोः कृतकत्वादेः व्यभिचारम् अनैकान्तिकतां चाह | अत्रोदाहरणं यथा-- हेतुमति विनाशे साध्ये कृतकत्वास्य हेतोः अतत्स्वभावताव्यभिचारश्चेति | ननु च कृतकत्वस्वभावता अनित्यताया भेदोपगमात् नेष्टैव परैस् तत् किम् उच्यते -- अतद्भावमात्रान्वयिनम् अपि स्वभावम् इच्छन्ति इति? | एवं मन्यते -- व्यतिरिक्ताव् अपि कृतकत्वानित्यत्वाख्यौ धर्माव् अभ्युपगच्छद्भिर् अवश्यम् `अभूत्वा भवनं भूत्वा चाभवनम् अनवस्थायिस्वभावत्वम्ऽ अभ्युपगन्तव्यम्, [S. ६३अ.] अन्यथा ऽऽत्मादिष्व् अपि कृतकत्वानित्यत्वे विशेषाभावाद् भवेताम् | ततो यद् एव `अभूत्वा भवनं भूत्वा[ ऽभवनं] चानवस्थायित्वम्ऽ उपादीयते भावस्य तयोर् एव तद्दर्शनबलोत्पन्नकृतकत्वानित्यत्वभेदावभासिकल्पनाद्वारेण साध्यसाधनभावो ऽस्तु, किं व्यतिरिक्तधर्मकल्पनया? | [T. २४६अ.] कल्पयित्वा ऽपि वस्त्व् आत्मन एवार्थक्रियानिबन्धनतया तदर्थिभिः चिन्त्यत्वात् | तदुक्तम् -- {प्. ५९.१} सदसत्पक्षभेदेनशब्दार्थानपवादिभिः| वस्त्व् एव चिन्त्यते ह्य् अत्र[२५३] प्रतिबद्धःफलोदयः||
SK
अर्थक्रियाऽसमर्थस्य विका(चा)रैःकिंतदर्थिनाम्? |
SK
षण्ढस्य रूपवैरूय्पे कामिन्याःकिंपरीक्षया? ||
SK
[PV ३.२०९-२१९] इति | तस्माद् दृष्टा अपि भावाः केनचिद्[२५४]आत्मना तदन्यव्यावृत्तेन कथञ्चिन् निश्चिताः तदन्येनाप्य्[२५५]अतद्रूपव्यावृत्तेनात्मना[२५६]भ्रान्तिकारणसद्भावाद्[२५७]अनिश्चीयमानाः,[२५८]निश्चितानिश्चितयो[२५९]रूपयोः प्रमाणान्तरतः प्रतिबन्धावसायपुरोवर्त्तिनो[२६०]ऽनुमानतो निश्चीय(यं)त इति अनित्यतास्वभावभूतस्यैव कृतकत्वस्य विनाशं प्रति लिङ्गता युक्ता | तथा च विनाशस्वभाव एव कृतकत्वाख्यो हेतुः तैर् अथोक्तन्यायादिष्टो भवति | तस्या[२६१]ऽतन्मात्रान्वयित्वे ऽर्थान्तरनिमित्ततया विशेषणेनातत्स्वभावता [S. ६३अ.] कथ्यते | स्यान्मतम् -- कृतकत्वेन साक्षाद् हेतुमान् विनाशो ऽनुमीयते ततः प्राक् प्रध्वंसाभावविशेषणा सत्ता तत्समवायो वा ऽनित्यता व्यवस्थाप्यते | अत एवात्मादिष्व् अनित्यताप्रसङ्गाभावः | विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामहे | कृतकत्वं तु स्वकारणसत्तासमवायम् | तस्य[२६२]विशेषणेन विनाशो ऽस्व(शास्व)भावताख्यापने[२६३]न किञ्चिद् अनिष्टम् इति | तद् अयुक्तम्, तथाविधस्य[२६४]विनाशस्य हेतुमत्ताविरोधात्, स्वयम् एव चैतद् आचार्यो [T. २४६ब्.] वक्ष्यति | न च तेनानुमितेन किञ्चित्, तस्यार्थक्रियासामर्थ्यविकलत्वात् | सुखदुःखसाधने ज्ञात्वा यथार्हं प्रतिपित्सवो हि किञ्चित्[२६५]परीक्षन्ते न व्यसनितया | तस्माद् अनेनास्थिरस्वभावतैव भावस्यानुमातव्या | सैव च हेतुमती {प्. ६०.१} कल्पनीया | अन्यथा भावविलक्षणस्य[२६६]प्रध्वंसाभावस्य मुद्गरादेर् उदये ऽपि तस्य भावे ऽनुपयोगात् स भवस् तदवस्थ [S. ६४अ.] एवेति कथं तद्विशेषणा सत्ता तत्समवायो वा अनित्यता स्यात्? | अविचलितरूपस्य च भावस्य मुद्गरादिकृतप्रध्वंसाभावविशेषणौ सत्तासमवायौ यद्य् अनित्यता, किं नात्मादेर् अपि? इति प्रसङ्गः तदवस्थ एव | स्वकारणसमवायो ऽपि चाभूत्वा भवनम् अनिच्छतो न सिध्यति | अभूत्वा भवत एव च या सत्ता सैव कृतकत्वं वर्ण्यते | न च सत्तासमवाययोर् नित्यतयोपगतयोर् निरतिशयत्वात् प्राक् प्रध्वंसाभावौ विशेषणं युज्यते | अभूत्वा भवनोपगमे च तद् एव कृतकत्वम् अस्थिरस्वभावता च विनाशो ऽस्तु | किं निष्फलया अप्रमाणिकया प्रमाणबाधितया ऽर्थान्तरकल्पनया? | एवं कृतकत्वविनाशयोस् तादात्म्योपगमो ऽवश्यम् भावी परेषाम् अपि | ततो विनाशस्यास्थायित्वलक्षणस्यार्थान्तरनिमित्ततोपगमे कृतकत्वस्यातत्स्वभावता विशेषणेन ख्याप्यते | तन्निष्पत्ताव् अनिष्पन्नस्य भिन्नहेतुकस्य च तत्स्वभावत्वायोगात् | तथा, तस्मिन् साध्ये [S. ६४ब्.] कृतकत्वस्य व्यभिचारः | तथा हि -- ये यत्र हेत्व[T. २४७अ.]न्तरापेक्षिणो न ते तत्रावश्यम् भाविनः, यथा वाससि रागः | हेत्वन्तरापेक्षी च कृतकेष्व् अपि भावेषु प्रध्वंसाभाव इति विरुद्धव्याप्तोपलब्धिः | ननु वाससि रागस्य परिमितहेतुत्वात् तस्य च स्वकारणायत्तसन्निधानत्वात् तदाश्रयस्य च विधुरप्रत्ययोपनिपातेनास्थिरतया नावश्यम् भाविता युक्तैव | न पुनर् विनाशस्य, तद्धेतूनाम् आनन्त्याद् अवश्यं कस्यचिद् घटादिषु सन्निधेः | न च विनाशस्याश्रयं प्राक् तद्धेतुसन्निधेः केचिद् उपघ्नन्ति, यतस् तदभावाद् विनाशो नारभ्येतेति |
SK
__________NOTES__________
SK
[२५३] वस्तुनि [२५४] कृतकत्वादिना [२५५] अनित्यत्वादिना [२५६] सदृशापरापरोत्पत्ति- [२५७] -द्भावसंभवादिन -- T. [२५८] [कृत] क- [२५९] अनित्य- [२६०] निश्चितानिश्चितयोर् यः प्रतिबन्धावसायः स पुरोवर्ती यस्य तस्मात् [२६१] विनाशस्य [२६२] कृतकत्वस्य [२६३] विनाशस्व- -- T. [२६४] प्रध्वंसरूपस्य [२६५] किञ्चिद् वस्तु ज्ञात्वा यथार्हं सुखदुःखसाधनप्राप्तिपरिहारप्रतिपित्सवः सुखदुःखसाधने परीक्षन्त इत्य् अर्थः | यद् वा सुखदुःखसाधने ज्ञात्वा तत्प्राप्तिपरिहारप्रतिपित्सवः किञ्चिद् वस्तु परीक्षन्त इति सम्बन्धः [२६६] भावविविक्तलक्षण- -- T.
SK
तद् अयुक्तम्, यतो यद्य् अपि बहुलं विनाशकारणानि सन्ति तथापि तेषां स्वकारणायत्तसन्निधित्वात् तथा तत्कारणानां च सन्निहितानाम् अपि विरोधिनाम् अप्य् आनन्त्यात् तद्भावे तच्छक्तिप्रतिबन्धान् नावश्यं हेतवः फलवन्त इति कश्चिन् न विनश्येद् अपीति {प्.६१.१} व्यभिचारो न निवर्तते | नन्व् अयं वाससि रागः सापेक्षो ऽपि यदि सर्वत्रोपलभ्येत ततः किम् अवश्यम्भावी न स्यात्? | स्याद्, यदि तथोपलम्भ्येत | स त्व् अन्यथा ऽपि [S. ६५अ.] गृह्यते | यद्य् एवं[२६७]न तर्हि सर्वत्रोपलब्धस्य विनाशस्यान्यथाभावशङ्कया[२६८]मनसि खेद आधातव्यः | किं वा पुनर्भवान् समस्तवस्तुविस्तरव्यापिज्ञानालोकः?, येनैवं वदति | तथाभावे वा कथम् अनुमानवृत्तिर् दृष्टे न वैफल्यम् अश्नुवीत? | कस्यचित् तु [T. २४७ब्.] हेतुकृतविनाशदर्शने ऽपि हेत्वायत्तजन्मनाम् अन्यथा ऽपि दर्शनाद् उपजाताशङ्को देशकालस्वभावविप्रकृष्टेषु कथं तथाभावं[२६९]निश्चिन्वीत? | कृतकम् अपि चायं भावाभावलक्षणं विनाशं नित्यम् उपैति, तद्विनाशोपगमे भावस्योन्मज्जनप्रसङ्गात् | न चास्य घटादेर् इव विनाशहेतुर् उपलभ्यते कश्चिद् इति | तदुक्तम् -- घतादिषु यथादृष्टाहेतवो ध्वंसकारिणः|
SK
नैवंनाशस्य सो[२७०]ऽहेतुस् तस्य[२७१] संजायते कथम्? ||
SK
इति | ततः कृतकत्वस्य विनाशे साध्ये तेनैव व्यभिचारः किं नेष्यते? | भावानाम् अयम् ऐकान्तिक एव धर्म इति चेत्, कुतः पुनर् एतद् वसितम्? | तेषाम् अन्यथाभावस्यानुपलम्भाद् इति [S. ६५ब्.] चेत् | नन्व् अयम् अनुपलम्भो भवन्न् अप्य् आत्मादेर् अनिवर्त्तकः सत्तायाः, कथम् अन्यत्रान्यथाभावं निवर्त्तयति? |[२७२]तस्यानुमानेनोपलम्भाद् इति यद्य् उच्यते तदा तत्राप्य्[२७३]अनुमाने विपक्षे वृत्तिम् अनुपलम्भ[२७४]एव हेतोः कथं निवर्त्तयति? इति यत् किञ्चिद् एतत् | तस्मात् साधूक्तम् -- `हेतुमति विनाशे कृतकत्वस्यास्वभावतां व्यभिचारं चाहऽ इति अलम् अतिजल्पितेनेति |
SK
__________NOTES__________
SK
[२६७] परः [२६८] अवश्यम्भावित्वाशङ्कया [२६९] अवश्यम्भाविविनाशित्वम् [२७०] नाशः [२७१] नाशस्य [२७२] आत्मादेः [२७३] आत्मानुमाने ऽपि [२७४] अप्रमाणकः सन् (प्रथमं टिप्पनम्) आत्मादेः संशयापनिवर्त्तकत्वेनाभिमतो यः स एव (द्वितीयं टिप्पनम्)
SK
[ सेच्तिओन्: ४. परार्थानुमाने साधर्म्यवैधर्म्यप्रयोगोदाहरणम् |]
SK
इदानीं यद्य् अपि स्वार्थानुमानं प्रकृतं तथापि कश्चित् प्रयोगदर्शनाभ्यासात् प्रयोगभङ्ग्यैव प्रतिपद्यत इति स्वार्थानुमाने ऽपि {प्. ६२.१} तत्सम्भवात्[२७५]प्रसङ्गेन १०परार्थानुमानं च व्युत्पादयितुम्[२७६]आह -- तस्य स्वभावहेतोः द्विधा त्रैलक्षण्यप्रतिपादको [T. २४८अ.] वचनोदाहारः प्रयोगः | तम् एव दर्शयति -- समानो धर्मो यस्य तस्य भावः तेन साध्य(ध)र्म्येणैकःप्रयोगः | अपरो विसदृशो धर्मो यस्य तस्य भावः तेन वैधर्म्येण | यथाक्रममनयोर् उदाहरणम् १आह -- यथायत् सत् | यद्यत्सद् इति[२७७]वीप्साप्रधानो यच्छब्दः | तत् सर्वम् इति तच्छब्दो ऽपि वीप्साप्रधान एव | अत्र सर्वग्रहणेन चाशेषपरिग्रहाद् [S. ६६अ.] बहिर्व्याप्तेर् निरासः | यथाघटादयः इति | यस्य सत्त्वक्षणिकत्वयोः प्रतिबन्धप्रसाधकं प्रमाणं घटादौ प्रवृत्तं तं प्रति तत्र स्मृतिसमाधानार्थं दृष्टान्तवचनं न साध्यसिद्ध्यर्थम् | दृष्टान्तमात्रतः साध्यसिद्धेर् अभावात् | न ह्य् एकस्य तथा भावे सर्वस् तथा भवति, अतिप्रसङ्गात् | संश्चशब्दः इति पक्षधर्मोपसंहारः | वैधर्म्यप्रयोगस्योदाहरणम् -- तथाइत्यादि | तथाशब्दः समुच्चये | वैधर्म्येण च प्रयोग उदाह्रियते | अत्रापि सर्वग्रहणं विभक्तिविपरिणामेन सम्बन्धनीयम् क्षणिकत्वाभावे सर्वस्मिन् सत्वा(त्त्वा)भावः इति | प्रयोगद्वये ऽपि सर्वग्रहणस्य फलं दर्शयन्न् आह -- सर्वस्मिन् साधनधर्मवति धर्मिणि न दृष्टान्तधर्मिण्य् एव साध्यधर्मस्योपसंहारणं उपसंहारो ढौकनं तेन या व्याप्तिः `व्यापकस्य तत्र भाव एवऽ इत्यादि रूपा तस्याः प्रदर्शनं प्रतिपादनं तद् एव लक्षणं ययोः तौ तथोक्तौ | ततश् च ये [T. २४८ब्.] [S. ६६ब्.] साध्यधर्मिणं परिहृत्य बहिर्व्याप्तिं प्रदर्शयन्ति ते -- यद्य् अपि दृष्टान्तधर्मिणि साध्यधर्मेण साधनधर्मो व्याप्तः तावता ऽस्य सर्वत्र तथाभावाभावात् साध्यसिद्धिर् अयुक्तेति -- निरस्ता भवन्ति | सर्वत्र वा साध्यधर्मेण साधनधर्मस्य व्याप्तिः तद्भावे, सा तथाविधैव किन् न प्रदर्श्यते येनासमर्था बहिर्व्याप्तिर् आख्यायते? | न हि `स श्यामः, तत्पुत्रत्वात्, परिदृश्यमानपुत्रवद्ऽ इति तत्पुत्रत्वस्य {प्. ६३.१} श्यमत्वेन साध्याद् बहिः परिदृश्यमानपुत्रे व्याप्तिप्रदर्शने ऽपि साध्यसिद्धिर् भवति | तस्माद् यैव सर्वोपसंहारेण व्याप्तिः प्रमाणसिद्धप्रतिबन्धनिबन्धना साध्यसिद्धौ समर्था सैव तत्स्मृतये[२७८]प्रदर्शनीया | न च सर्वोपसंहारेण व्याप्तिप्रदर्शने ऽपि धर्मविशिष्टो धर्म्य् अपि तदैव प्रतीयते, यतः पक्षधर्मोपदर्शनोत्तरकालभाविनो ऽनुमानस्य स्मृतित्वं [S. ६७अ.] स्यात् | तस्याः[२७९]साध्यधर्मिणि साध्यधर्माविनाभूतसाधनधर्मप्रतीतिनिबन्धनत्वेन तदुपदर्शनात् प्राग् असम्भवात् | तत्पूर्विकायां[२८०]च व्याप्तौ अनन्तरं[२८१]विशेषविषयम् अनुमानं कथं स्मृतिः स्यात्? इति |
SK
__________NOTES__________
SK
[२७५] प्रयोग- [२७६] -मानप्रयोगं व्यु- -- T. [२७७] -म् आह यद्यत्सद् इति -- T. [२७८] प्रतिबन्ध- [२७९] साध्यधर्मविशिष्टधर्मिप्रतीतेः [२८०] पक्षधर्मोपदर्शनपूर्विकायाम् [२८१] व्याप्तिस्मरणात्
SK
[ सेच्तिओन्: ५. वैधर्म्यप्रयोगे ऽपि व्याप्तिप्रदर्शनं सांगतम् |]
SK
ननु च साधर्म्यप्रयोगस्य व्याप्तिप्रदर्शनलक्षणत्वं युक्तम्, साधनधर्मे सति साध्यधर्मस्यावश्यम् भाविताप्रदर्शनात्; वैधर्म्यप्रयोगस्य तु कथम्? | तत्र हि केवलं साध्याभावे हेत्वभावः कथ्यते, न तु हेतौ [T. २४९अ.] सति साध्यस्य भाव एवेति | नैष दोषः | न ह्य् अत्र साध्याभावे हेत्वभावस् तुच्छरूपो दर्श्यते, १तस्य[२८२]हेतुरूपताविरोधात्[२८३]| वस्तुधर्मो हि सत्त्वादिको हेतुः | तस्यात्मन[२८४]एवाभावः कथं [हेतुस्व]रूपं भविष्यति, यतस् त्रिरूपो हेतुर् भवेत् | किन्तु निवृत्तौ निवृत्तिधर्मकत्वं स्वगतो धर्म उपदर्श्यते वैधर्म्यप्रयोगेण, तथाविधे[२८५]च साधनधर्मे ऽवश्यं तया साध्यधर्मस्य भावः प्रतीयत एव, अन्यथा तन्निवृत्तौ निवृत्तिधर्मकत्वस्यैवायोगाद् इति न व्याप्तिप्रदर्शनलक्षणत्वं वैधर्म्यप्रयोगस्य न युज्यते | [S. ६७ब्.]
SK
__________NOTES__________
SK
[२८२] तुच्छरूपस्य [२८३] तस्य हेतुव्याप्तिनिर्देशलक्षणरूपसम्बन्धित्वाभावात् -- T. [२८४] सत्व(त्त्व)स्य- [२८५] विपक्षनिवर्त्तनधर्मस्वभावे
SK
[ सेच्तिओन्: ६. प्रतिज्ञाप्रयोगस्य नैरर्थक्यम् |]
SK
ननु द्विविधे ऽपि प्रयोगे प्रतिज्ञाप्रयोगो नोपदर्शितः तत् कथं तदर्थावगतिः?, तदर्थप्रत्यायनाय च साधनप्रयोगो ऽभिमतः इत्य् अत आह -- अत्र अनयोः प्रयोगयोः पक्षधर्मसम्बन्धवचनमात्रसामर्थ्याद् एव {प्. ६४.१} वक्ष्यमाणकात् प्रतिज्ञार्थस्य धर्मधर्मिसमुदायलक्षणस्य साध्यस्य प्रतीतेः हेतोः {१}न {२}प्रतिज्ञायाःप्रयोग उपदर्शितः | परः सामर्थ्यम् अनवबुद्यमान आह -- अप्रदर्शिते वचनेन प्रमेये साध्ये कथं न कथञ्चित् तत्प्रतीतिः प्रतिज्ञार्थप्रतीतिः इति एवं चेद् यदि मन्यसे तदा स्वार्थानुमानकाले स्वयं परं प्रतिपादकम् अन्तरेण प्रतिपत्तौ प्रमेयस्य क उपदर्शयिता? नैव [T. २४९ब्.] कश्चित् | स्वयम् एव तु साध्याविनाभूतसाधनधर्मदर्शनात् प्रमेयं प्रतिपद्यते तथा परार्थानुमाने ऽपि तत एव तत्प्रतीतिर् अस्तु किं प्रतिज्ञावचनेन? | यदि स्वयं प्रतिपत्तिकाले न कश्चित् प्रमेयस्योपदर्शयिता कथं [S. ६८अ.] तर्हि तत्प्रतिपत्तिः? इत्य् अत आह -- प्रदेशस्थं साध्यधर्मिणि स्थितं धूमं साधनधर्मं उपलब्धवतः प्रत्यक्षेण दृष्टवतः सतः तस्य धूमस्य अग्निना साध्यधर्मेण प्रमाणतः प्रतिबन्धनिश्चयबलात् प्राक् प्रतिपन्नायाः व्याप्तेः अविनाभावस्य स्मरणे सति तत्सामर्थ्याद् एव पक्षधर्मग्रहणव्याप्तिग्रहणसामर्थ्याद् एव प्रतिज्ञाप्रयोगरहिताद् अग्निर् अत्र इति एवंरूपा प्रतिज्ञार्थप्रतीतिर् भवति | स्यान्मतम् -- तत्राप्य् अस्य कर्णपिशाचिकादिः प्रमेयं कथयत्य् एवेत्य् अत आह -- न च नैव तत्र स्वार्थानुमानकाले कश्चित् कर्णपिशाचिकादिर् अदृश्यो `अग्निर् अत्रऽ -- इति एवम् अस्मै प्रतिपत्रे(त्त्रे) प्रमेयं निवेदयति कथयति | यदि भवान् सत्यवादी नैवं वक्तुम् अर्हति | तथा हि -- वयम् अपि प्रदेशस्थधूमदर्शनात् तस्याग्निना व्याप्तिस्मरणसापेक्षाद् अग्निं [S. ६८ब्.] प्रतिपद्यामहे | न चास्मभ्यं कश्चित् निवेदयति `अग्निर् अत्रऽ इति, भवति च तत्प्रतिपत्तिः, तथा तदन्यस्यापि सा युक्तरूपैवेति | यद्य् अपि न कश्चित् निवेदयति तथापि स्वयम् एव प्रमेयं व्यवस्थाप्य तत्प्रतिपत्तये लिङ्गम् अनु[T. २५०अ.]सरिष्यतीति चेत्, आह -- नापि न केवलं न कश्चित् निवेद्यति स्वयम् अपि प्राग् एव लिङ्गव्यापारात् न प्रतिपद्यते किञ्चिद् अग्न्यादिकम् | कस्मात्? {प्. ६५.१} इति चेत्, प्रमाणं हेतुम् अन्तरेण विना `अग्निर् अत्रऽ इत्य् एवं प्रतीतेः निमित्ताभावात् | त्रिरूपो हि हेतुः परोक्षार्थप्रतीतेर् निमित्तम्, तदभावे सा कथं भवेत्? | अथ लिङ्गम् अन्तरेणाप्य् एवं प्रतीतिर् भवतीति ब्रूयात् तदा प्रतीताविष्यमाणायां लिङ्गस्य वैयर्थ्यम्, तस्यानुमेयप्रतिपत्त्यर्थत्वात्, तेन विना तत्प्रतिपत्तौ कथम् अस्य निष्प्रयोजनता न स्यात्? | अत्यन्तमूढतां च परस्य दर्शयन्न् आह -- स्वयम् एव स्वतन्त्र एव `अग्निर् अत्रऽ -- इति व्यवस्थाप्य | कथं [S. ६९अ.] स्वतन्त्रो व्यवस्थपयति ? | अकस्मात् प्रमाणम् अन्तरेण व्यवस्थापनात्[२८६]तत्प्रतिपत्तये निर्न्निमित्तव्यवस्थापितप्रमेयप्रतिपत्त्यर्थं {१}पश्चात् {२}लिङ्गं तन्निमित्तम् अनुसरतीति को ऽयंप्रतिपत्तेःक्रमः परिपाटिः? | तथा हि -- प्रथमं लिङ्गानुसरणम्, ततः साध्यप्रतिपत्तिर् इति विपश्चितां क्रमः | अयं त्व् अपूर्वो ऽनुमाता यस् तद्विपर्ययम् आश्रयत इति उपहसति | यत्तल्लोके गीयते -- शिरो मुण्डयित्वा नक्षत्रं पृच्छतीति तत्तुल्यत्वाद् अस्य क्रमस्य | तस्मात् पक्षधर्मग्रहणव्याप्तिस्मरणसामर्थ्याद् एव स्वयं प्रतिपद्यते | तच् च प्रतिपादकं कथितम् एवेति न किञ्चित् प्रमेयनिर्द्देशेन | यदि नाम स्वार्थानुमानकाले स्वयम् एव साध्यं [T. २५० ब्.] प्रतिपद्यते तद् युक्तम् एव, लिङ्गस्यापि तत्र स्वयम् एव प्रतिपत्तेः | परार्थानुमाने तु परतो यथा लिङ्गं प्रत्येति तथा प्रमेयम् अपि परत [S. ६९ब्.] एव प्रत्येतव्यम् | अतो युक्त एव प्रतिज्ञाप्रयोग इत्य् अत आह -- परेणापि न केवलं स्वयम् एव प्राग् व्यवस्थाप्यमानं प्लवते परेणापि वादिना तत् प्रमेयम् उच्यमानंप्लवत एव तद्वचनस्य सन्दिग्धार्थाभिधायकतया साध्यनिश्चयानङ्गत्वात् प्रमेयगाम्भीर्यानवगाहिनः परम्परया ऽप्य् अतत्सम्बद्धस्य विवक्षामात्रनिबन्धनतयोपर्येवावस्थापनात् | कस्मात् प्लवते? इति चेत्, उपयोगाभावात् नास्य साध्यप्रतीतिं प्रति कश्चिद् उपयोगः, तत्प्रत्यायनसमर्थस्यानभिधानाद् इति यावत् | {प्. ६६.१} परस् तूपयोगमात्रं कदाचिद् ब्रूयाद् इत्य् आशङ्क्याह -- विषयोपदर्शनं हेतोर् यो विषयः साध्यं तदुपदर्शनं प्रतिज्ञावचनस्योपयोगः चेत् मतम् | अत्राह तेनैव विषयेण, तावच् छब्दः क्रमे | विषयस्योपदर्श्यमानस्यार्थवत्तायां तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनं भवेत् | विषयेणैव तु दर्श्यमानेन को ऽर्थः किं [S. ७०अ.] प्रयोजनम्? | ननु साध्यप्रतीतिः साधर्म्यवत्प्रयोगादिप्रतीतिश् च विषयोपदर्शनस्यार्थः | ततस् तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनम् | तथा हि असति साध्यनिर्देशे `यत् कृतकं तद् अनित्यम्ऽ इत्य् उक्ते `किम् अयं साधर्म्यवान् प्रयोगः? [T. २५१अ.] उत वैधर्म्यवान्?ऽ इति न ज्ञायेत | उभयं ह्य् अत्राशङ्ख्यते -- कृतकत्वेनानित्यत्वे साध्ये साधर्म्यवान्, नित्यत्वेनाकृतकत्वे वा वैधर्म्यवान् इति | `अनित्यः शब्दःऽ `अकृतको वाऽ इति तु प्रतिज्ञावचने सत्य् उभयम् असन्दिग्धम् अवगम्यते | हेतुविरुद्धानैकान्तिकप्रतीतिश् च न स्यात् | प्रतिज्ञापूर्वके तु प्रयोगे `अनित्यः शब्दः, कृतकत्वात्ऽ इति हेतुभावः प्रतीयते, `नित्यः, कृतकत्वात्ऽ इति विरुद्धता, `प्रयत्नानन्तरीयकः कृतकत्वात्ऽ इत्य् अनैकान्तिकत्वम् | हेतोश् च त्रैरूप्यं न गम्यते, तस्य साध्यापेक्षया व्यवस्थानात् | सति प्रतिज्ञावचने अवयवे समुदायोपचारात् साध्यधर्मी पक्ष इति तत्र [S. ७०ब्.] वृत्तस्य कृतकत्वस्य पक्षधर्मत्वं; साध्यधर्मसामान्येन च समानो ऽर्थः सपक्ष इति तत्र वर्त्तमानस्य सपक्षे सत्त्वम्; न सपक्षो ऽसपक्ष इति साध्यधर्मविरहिण्य् अवृत्तस्यासपक्षे ऽप्य् असत्त्वं प्रतीयेत इत्य् आशङ्क्याह -- यदि प्रतीतिः साध्यस्य निश्चयलक्षणा साधर्म्यवत् प्रयोगादेश् च स्वरूपावधारणात्मिका | अन्यथा प्रतिज्ञावचनम् अन्तरेण न स्यात् तदा यदुक्तं साध्यसिद्ध्यर्थं साधर्म्यवत् प्रयोगादिज्ञानार्थं च विषयोपदर्शनम् इति तत् सर्वंशोभेत यावता स्वार्थानुमानकाले प्रतिज्ञावचनम् अन्तरेणापि पक्षधर्मग्रहण[T. २५१ब्.]सम्बन्धस्मरणतः साध्यसिद्धिलक्षणा भवत्य् एव प्रतीतिः इत्य् आख्यातम् एव | तद्वत् परार्थे ऽप्य् अनुमाने {प्. ६७.१} भविष्यति | यत एवं {१}तस्मात् {२}एष प्रतिज्ञाप्रयोगवादी यदा स्वयं साध्यं प्रत्येति तदा स्वयं साध्यस्य [S. ७१अ.] प्रतीतौ विषय उपस्थाप्यते येन प्रतिज्ञावचनद्वारेण पुंसा केनचित् तेन {१}विनापि {२}प्रतियन् साध्यं निश्चिन्वन् लिङ्गसामर्थ्याद् एव | यदा ऽस्माभिः प्रतिपाद्यते तदा अस्मान् कार्यिणो दृष्ट्वाव्यक्तंप्रतिज्ञाप्रयोगलक्षणं मूल्यंमृगयते | क इव? पर्वब्राह्मण इव | यथा दक्षिणाम् अन्तरेणाप्य् अन्यदा और्द्वरथिको ब्राह्मणो भुञ्जानो ऽन्यदा श्राद्धादिपर्वण्य् अर्थिनं श्रद्धालुं ब्रवीति -- यदि मे घृतपूरं घृतपूरं प्रति रूपकं ददासि ततो ऽहं भुञ्जे नान्यथेति | तेन तुल्यो भवान् अपीति | किञ्च, यद् अपि ब्रवीषि -- परार्थानुमानकाले यथा लिङ्गं परेणानभिधीयमानं न प्रत्येति प्रतिपाद्यस् तथा साध्यम् अपीति | तदैतद् युज्यते यद्य् असौ वादिवचनमात्रेण लिङ्गम् अपि निश्चित्य तदनुसारेण साध्यम् अवगच्छेत्, परप्रतीत्यर्थिनश् च तदा वयम् अपि प्रतिज्ञां किन् न प्रयुञ्ज्महे लिङ्गवचनरहिताम्? | [S. ७१ब्.] अस्मद्वचनस्यैव तं प्रति प्रमाणतया, तत एवानुमेयप्रतीतेः, तद्वचनस्य[२८७]चरितार्थत्वात् | न चैतद् अस्ति, यतः अस्मद्वचनाद् अपि न केवलं स्वार्थानुमानकाले ऽस्मद्वचनम् अन्तरेण इत्य् अपि शब्दः | किन्तु [T. २५२अ.] यदाप्य् अस्मद्वचनं प्रवृत्तं तदापि नैव अस्मद्वचनात् लिङ्गम् अपि प्रत्येति, कुत एव साध्यसिद्धये ऽनुसरिष्यति? | अपि तु स्वयम् अस्य यदि तल्लिङ्गं कुतश्चित् प्रमाणतः सिद्धं भवति अस्मद्वचनेन तु केवलं तत्र स्मृतिसमाधानमात्र क्रियते | तदा स्वयं सिद्धम् एव लिङ्गम् अनुसृत्य साध्यं प्रत्येति | नास्मद्वचनात् पानीयम् अपि पिबतीति | {१}तस्मात् {२}को ऽनयोः प्रतिज्ञावचनावचनात्मिकयोः अवस्थयोर् विशेषः?, उभयत्र स्वयंसिद्धलिङ्गसामर्थ्याद् एव साध्यप्रतीतेर् न कश्चित् | ततः स्वपरार्थानुमानयोः स्वयंसिद्धलिङ्गानुसरणम्, ततः साध्यप्रतीतिं च प्रति विशेषाभावात् प्रतिज्ञोपन्यासः परार्थानुमाने ऽपि व्यर्थ [S. ७२अ.] एव | लिङ्गम् अपि हि तावद् अत्र नाभिधीयते यदि तत् {प्. ६८.१} पूर्वप्रसिद्धं स्वयम् अनुस्मरेत् किम् अङ्गः सन्दिग्धार्थाभिधायकं प्रतिज्ञावचनम् उपादीयते? | स्यान्मतम् -- यदि नाम साध्यसिद्धौ प्रतिज्ञावचनस्य नोपयोगस् तदर्थो ऽस्य प्रयोगो मा भूत्, साधर्म्यवत् प्रयोगादिज्ञानार्थं तु तदुपादानम् अवस्थितम् एव, तस्यान्यथा प्रतीत्य् अभावात् इत्य् अत आह -- दृष्टाच साधर्म्यवत् प्रयोगादेःप्रतिज्ञावचनम् अन्तरेणापि प्रतीतिः, ततस् तदर्थो ऽपि प्रतिज्ञोपन्यासो न शोभते | कुतः पुनः साधर्म्यवत् प्रयोगादेर् असति साध्यनिर्देशे प्रतीतिः? [T. २५२ब्.] इत्य् आह -- पक्षधर्मसम्बन्धवचनमात्राद् इति | एवं मन्यते -- नैव हि कश्चित् `यत् कृतकं तद् अनित्यम्ऽ एतावन् मात्रम् अभिधाया ऽऽस्ते, साधनन्यूनतयैवास्य पराजयात्, किन्त्व् अवश्यं हेतोर् द्धर्मिण्य् उपसंहारं करोतीति | तत्र यदि `कृतकश् च शब्दःऽ इति ब्रूयात् तदा [S. ७२ब्.] साध्य्(ध)र्म्यवत् प्रयोगप्रतीतिः, अथ `नित्यश् चऽ इत्य् अभिदध्यात् तदा वैधर्म्यवत इति सम्बन्धवचनपूर्वकात् पक्षधर्मवचनात् प्रयोगद्वयावगतिः | हेतुविरुद्धानैकान्तिका अपि पक्षधर्मवचनमात्रेण न प्रतीयन्ते | यदा तु सम्बन्धवचनम् अपि क्रियते तदा कथम् अप्रतीतिः? | तथा हि `यत् कृतकं तद् अनित्यम्ऽ इति पक्षधर्मवचने सत्य् उक्ते हेतुर् अवगम्यते, विधीयमानेनानूद्यमानस्य व्याप्तः | `यत् कृतकं तन् नित्यम्ऽ इत्य् अभिधाने विरुद्धः, विपर्ययव्याप्तेः | `यत् कृतकं तत् प्रयत्नानन्तरीयकम्ऽ इति प्रदर्शने व्यभिचाराद् अनैकान्तिकाध्यवसायः | त्रैरूप्यम् अपि हेतोर् गम्यत एव, यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्यतया ऽवगम्यते | यत्र च व्याप्यो धर्मो धर्मिण्य् उपसंह्रियते स व्यापकधर्मविशिष्टतया ऽवगम्यमानः साध्यसमुदायैकदेशतया पक्ष इत्य् उपसंहृतस्य व्याप्यधर्मस्य पक्षधर्मत्वावगतिः, [S. ७३अ.] सा च व्याप्तिर् यत्र धर्मिण्य् उपदर्श्यते स साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः प्रतीयत इति सपक्षे {प्. ६९.१} सत्त्वम् अवगम्यते, सामर्थ्याच् च [T. २५३अ.] व्यापकनिवृत्तौ व्याप्यनिवृत्तिर् यत्रावसीयते सो ऽसपक्ष इत्य् असपक्षे ऽप्य् असत्व(त्त्व)म् अपि निश्चीयत इति, यदि पक्षादिभिर् अपि ज्ञातैः किञ्चित् प्रयोजनं | न तु व्यवहर्तणां पक्षादिसङ्केतापेक्षा परोक्षार्थगतिर् भवति | तथा हि -- यत् क्वचित् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदस् तस्य तद् गमकं तत्र इति हि लोके वस्तुगतिर् भवति, न पक्षादिसङ्केतग्रहणापेक्षा | तत्र यथेष्टंशास्त्रकारागमकरूपप्रतिपत्तये स्वसङ्केतेनान्यथा वा लक्षणं प्रणयन्तु | न तु व्यवहारकाले तदनुसरणं क्वचिद् उपयुज्यते | तत्सङ्केतप्रतिपादितम् एव तु यथोक्तं गमकं रूपम् उपयोगि व्यवहर्तृऋणाम् | तच् चेत् प्रतिपन्नं तावतैव साध्यसिद्धिः सञ्जाता इति पक्षसपक्षादिसङ्केतापरिज्ञाने ऽपि [S. ७३ब्.] न किञ्चित् प्लूयते | अत एवाचार्यपादैर् `न्नान्तरीयकार्यदर्शनं तद्विदो ऽनुमानम्ऽ इति गमकरूपमात्रम् एव पक्षादिसङ्केतानपेक्षं प्रतिपादितम् | स्वप्रज्ञापराधास्तु(त्तु) तत्रापि कैश्चिद् असन्त एव दोषाः प्रकीर्त्यन्त इति किम् अत्र ब्रूमः? | तस्मात् साधर्म्यवत् प्रयोगादिज्ञानार्थम् अपि प्रतिज्ञावचनं पक्षधर्मसम्बन्धवचनमात्र [T. २५३ब्.] एव यथोक्तेन प्रकारेण प्रतीतेर् अयुक्तम् इति कस् तस्य प्रतिज्ञावचनस्य उपयोगः नैव कश्चित् | स्वयं चायं वादी येन क्रमेणानुमेयं प्रतिपन्नवाम्स् तमुल्लङ्घ्य परप्रतिपत्तये क्रमान्तरम् आश्रयन् परवञ्चकतया धूर्त्त एव प्रतीयते, न सद्धृत्त इत्य् उपदर्शयन्न् आह -- स्वनिश्चयवत् इत्यादि | यथा ऽऽत्मनो निश्चयस्योत्पादनं कृतं तथैव अन्येशाम् अपि निश्चयोत्पादा(द)नाय च परहितनिरतैः {१}साधनम् उच्यते, {२}तत्र एतस्मिं(स्मिन्) न्याये सति स्वयम् अयं वादी प्रमेयस्योपदर्शनेन उपदर्शकेन वचनेन विनाऽपि स्वार्थानुमानकाले प्रतिपद्य प्रमेयं परं संशयितादिकं प्रतिपादयन् स्वप्रतिपन्नं प्रमेयम् अवबोधयन् अपूर्वं स्वप्रतिपत्तिकाले पूर्वं [S.७४अ.] यः प्रमेयप्रतिपत्तौ क्रमः उपायो ऽनुभूतस् तस्माद् अन्यम् आश्रयत इति किम् अत्र क्रमान्तराश्रयेण कारणम्? नैव किञ्चित् परव्यामोहनं मुक्त्वा | तथा हि -- यदि स्वप्रतिपत्तिक्रमः {प्. ७०} प्रतीतिनिबन्धनं किं तत्परित्यागेन क्रमान्तराश्रयणम्?, कथं तेन स्वयं प्रतिपन्नवानसीति? | यत एवं तस्मान् न प्रमेयस्य साध्यस्य वचनेन प्रतिज्ञाख्येन किञ्चित् प्रयोजनम् | कुतः? | `अन्यथापिऽ [T. २५४अ.] विना ऽपि तेन प्रतिपत्तेः साध्यप्रतीतेः उत्पत्तेर् इत्य् उपसंहारः |
SK
__________NOTES__________
SK
[२८६] व्यवस्थापयिष्यति -- T. [२८७] लिङ्ग-
SK
[ सेच्तिओन्: ७. उपनयनिगमनादेर् अपि साधनवाक्यानङ्गत्वम् |]
SK
एवं प्रतिज्ञां साधनवाक्याद् अपनीयापरम् अप्य् उपनयनिगमनादिकं परपरिकल्पितं साधनवाक्याद् अपनेतुम् उक्तम् एव न्यायम् अतिदिशन्न् आह -- एतेन `अन्यथा ऽपि प्रतिपत्तेर् उत्पत्तेःऽ इति न्यायेन उपनयनिगमनादिकं आदिग्रहणात् संशयजिज्ञासादिकं प्रत्युक्तं प्रत्याख्यातम् | [S. ७४ब्.] तत्र उदाहरणापेक्षः`तथाऽ इत्य् उपसंहारो `न तथेऽति वासाध्यस्योपनयः [NSऊ १.१.३८], प्रतिज्ञायाःपुनर्वचनंनिगमनम् [NSऊ १.१.३९] इत्य् अनयोर् लक्षणम् | साध्यनिर्द्देशःप्रतिज्ञा [NSऊ १.१.३३] इति तु प्रतिज्ञायाः | एतेनेत्य् एतद् एव दर्शयति -- एताव् अतैव पक्षधर्मसम्बन्धवचनमात्रैव उपनयादिरहितेन साध्यप्रतीतेःभावात् उत्पत्तेर् इति | अत्रोद्यो(द्द्यो)तकरःप्राह -- प्रतिज्ञा तावद् विषयनिर्द्देशार्थम् अवश्यकर्त्तव्या, यतो लोकः प्रथमं कर्म च्छेद्यादिकं निरूपयति | ततः कुठारादिकं साधनं व्यापारयति | उपनयेनापि यावद् दृष्टान्ते दृष्टसामर्थ्यो हेतुर् द्धर्मिणि नोपसंह्रियते तावत् कुतः साध्यप्रतीतिः? | स्वार्थानुमानदृष्टश् च प्रत्यवमर्शप्रत्ययार्थो ऽनेन दर्श्यते | तथा हि -- स्वार्थानुमाने प्रथमं प्रदेशे धूमं पश्यति, ततो `यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निम् अपिऽ इति व्याप्तिं [T. २५४ब्.] स्मरति | ततो `धूमश् चात्रऽ इति पुनः प्रत्यवमृशति, स प्रत्यवमर्शार्थः परार्थानुमाने उपनयेनोच्यते | [S. ७५अ.] निगमनम् अप्य् अवश्याभिधानीयम्, यतो यद्य् अपि पूर्वं अनित्यः शब्द इत्य् उक्तम्, न तु तावता ऽस्य निश्चयो जातः | सम्प्रति तु प्रमाणबलायातो ऽर्थः तत्सम्प्रत्ययार्थम् अनेन निगम्यते | अशेषप्रमाणव्यापारश् चानेनोपसंह्रियते | तथा हि आगमः प्रतिज्ञा, हेतुर् अनुमानं, {प्. ७१.१} दृष्टान्तः प्रत्यक्षम् उपमानम् उपनयः | तदेतस्य प्रमाणचतुष्टयस्यापि व्यापारो निगमनेनोपसंह्रियते -- इति कथम् अस्य न साफल्यम्? इत्य् एतद् आशङ्क्याह -- डिण्डिकरागंपरित्यज्य डिण्डिकाः --नग्नाचार्याःते निष्फलम् उपर्य् उपरि नामलेखने प्रसक्ताः ततस् तेषाम् इव `परेणोक्ते तस्योपरि मया ऽवश्यम् अयुक्ततया निष्फलम् अप्य् अभिधानीयम्ऽ इत्य् अस्थानाभिनिवेशं त्यक्त्वा अक्षिणीनिमील्य बहिर्विक्षेपम् उपसंहृत्य {१}चिन्तय तावत् -- {२}किम् इयता पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य प्रतीतिःस्यात् न वा? इति | यावता यावान् एव [S. ७५ब्.] परार्थानुमाने ऽर्थो ऽभिधानीय इत्य् अस्माभिर् अनुज्ञायते तावान् एवान्यूनानतिरिक्तः स्वार्थानुमाने ऽपि प्रतीतिहेतुर् दृष्टः, तस्य क इह शक्तेर् व्याघात्? येनासौ परार्थानुमाने ऽपि प्रतीतिं न कुर्यात् | भावे प्रतीतेः किंप्रपञ्चमालया प्रतिज्ञोपनयनिगमनलक्षणया [T. २५५अ.], बालप्रतारकतदुपयोगोपवर्णलक्षणया[२८८]वा? | तथा हि ः प्रतिज्ञोपनयनिगमनप्रयोगे ऽपि यदि प्रमाणनिश्चिता स्वसाध्यव्याप्तिः साधनधर्मस्य न स्यात्, साध्यधर्मिणि वा सद्भावस् तदा ऽस्य[२८९]नैव प्रतीतिहेतुता | तत्सम्भवे[२९०]तु प्रतिज्ञाद्यभावे ऽपि स्वार्थानुमान इव गमकरूपावैकल्यात् सा[२९१]न निवार्यत इति किम् अस्थाननिर्बन्धेन इति? | न हि साध्यधर्माक्षेपणसामर्थ्यविरहे साधनधर्मस्य वादिवचनमात्रात् साध्यनिश्चयो युक्तः, हेतूपन्यासवैयर्थ्यप्रसङ्गात्, तस्य तदाक्षेपसामर्थ्ये वा प्रतिज्ञावचनस्येति[२९२]| यत् तूक्तम् `विषयप्रदर्शनाय प्रतिज्ञाऽ इत्य् अत्रशास्त्रकृतैव दत्तम् उत्त-रम् | यश् च साधनं प्रयुंक्ते तेन `अहम् अनेन [S. ७६अ.] साधनेनामुष्मिं(ष्मिन्) साध्ये प्रतीतिं साधयिष्यामिऽ इति कर्म निरूप्यैव तत्[२९३]प्रयुक्तम् इति न लौकिकन्यायातिक्रमः, अन्यथा यदि साधनाद् यस्य साध्यप्रतीतिर् उपजायते तेनैव कर्म निरूपणीयम् कथं तदभावे स्वार्थानुमाने [T. २५५ब्.] साध्यसिद्धिः {प्. ७२.१} साधननिबन्धना स्यात्? | यश् चाग्निधूमयोः सम्बन्धं चेतसि व्यवस्थाप्य `क्वाग्निः क्वाग्निः?ऽ इत्य् अग्निं ७पर्येषते स प्रदेशे धूमदर्शनमात्राद्[२९४]एवाग्निं प्रतिपद्यत इति कथं स्वार्थानुमाने प्रत्यवमर्शप्रत्ययः स्यात्? | अथ कदाचिद् असौ दृष्टस् तत्रेति[२९५]परार्थे ऽप्य् अस्योपादानं तदा दध्यादिकम् अपि भुक्त्वा कदाचिद् धूमाद् अग्निं प्रतिपन्नवान् इति किन् न दधिभोजनादेर् अपि कादाचित् कस्योपादानम्? | यत् पुनरुक्तम् `आगमः प्रतिज्ञाऽ इति, तत्र यदि वादिवचनम् एवागमस् तदा तत एव साध्यसिद्धेर् हेत्वाद्युपादानम् अनर्थकम् | अथ प्रतिज्ञार्थस्यागमे पाठाद् आगमः प्रतिज्ञा, तदा न क्वचिद् आगमे पठ्यते अत्र प्रदेशे ऽग्निर् इति [S. ७६ब्.] कथम् आगमत्वं प्रतिज्ञायाः? | `हेतुर् अनुमानम्ऽ इत्य् अप्य् अयुक्तम्, न हि पक्षधर्मत्वमात्रं हेतुः, तस्य त्रिरूपत्वात् | दृष्टान्तो ऽपि न सर्वः प्रत्यक्ष इति कथं `दृष्टान्तः प्रत्यक्षम्ऽ भवेत्? | उपमानं तु प्रमाणम् एव न भवति, कथं तद्व्यापार उपसंह्रियेत निगमनेन? | यदि चावश्यं दृष्टान्ते दृष्टसामर्थ्यो हेतुर् द्धर्मिण्य् उपनेयः तदोपनय एवास्तु किं `कृतकत्वाट्ऽ इति पक्षधर्मनिर्द्देशेन?, स एव दृष्टसामर्थ्यं हेतुम् उपसंहरिष्यति पक्षधर्मतां च दर्शयिष्यतीति न किञ्चित् तेन | ततो यत्र च प्रतिज्ञायाः प्रथमत एव प्रयोगो नेष्यते तत्र तस्याः पुनर्वचनं कुतो निगमनं भविष्यति? | इत्य् आह -- इति तस्माद् इयान् एव पक्षधर्मसम्भन्धवचनमात्रात्मकः [T. २५६अ.] साधनवाक्ये प्रयोगो ज्यायान् न पञ्चावयवात्मक इति स्थितम् | __________NOTES__________
SK
[२८८] प्रतिज्ञादि- [२८९] हेतोः [२९०] व्याप्त्यादिसम्भवे [२९१] [प्रती] तिहेतुता [२९२] उपन्यासवैयर्थ्यप्रसङ्गात् [२९३] साधनम् [२९४] -षते सधूमप्रदेशदर्शन- -- T. [२९५] स्वार्थानुमाने
SK
[ सेच्तिओन्: ८. न्यायवाक्ये हेतुदृष्टान्तवचनयोः क्रमस्यानियमः |]
SK
अत्र साधनवाक्ये न केवलं प्रतिज्ञादिप्रयोगो न युक्तः परोपगतः [S. ७७अ.] `पूर्वं हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्तःऽ इति क्रमनियमो ऽपि न कश्चित् | कुतः? सर्वथा यदि पूर्वं हेतुः पश्चाद् व्याप्तिः अथ पूर्वं व्याप्तिः पश्चात् पक्षधर्मः प्रयुज्यते, तथापि गमकत्वात् |
SK
{प्. ७३.१}[ सेच्तिओन्: ९. हेतोस् त्रिधाप्रयोगस्य खण्डिनम् |]
SK
ननु तस्य द्विधा प्रयोग इत्य् अयुक्तम् उक्तम् | यतस् त्रिविधो हेतुः -- अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेतिनैयायिकाः, ततस् तस्य त्रिधा प्रयोगः -- साधर्म्येण वैधर्म्येण साधर्म्यवैधर्म्याभ्यां चेति वक्तव्यम् इत्य् अत आह -- सम्बन्धवचने ऽपि न केवलं क्रमनियमो न युक्तः किन्तु अर्थ भेदो ऽपि न कश्चिद् उभयत्रापि त्रिरूपसद्भावात् | ततः सर्व एव हेतुर् अन्वयव्यतिरेकी, न त्व् अन्वयी व्यतिरेकी वा कश्चिद् धेतुर् अस्तीति भावः | तत् कुतस् त्रैविध्यं प्रयोगस्य स्यात्? इति मन्यते | कुतः पुनरर्थभेदो नास्तीति? चेत्, आह -- उभयथा साधर्म्येण वैधर्म्येण च प्रयोगे यद्य् अपि विधिप्रतिषेधरूपतया धर्मभेदः [T. २५६ब्.] प्रतीयते तथापि तद्भावस्यैव साधनधर्मस्य साध्यस्वभावतायाः एव साधर्म्यवैधर्म्यप्रयोगाभ्यां ख्यापनात् | ननु साधर्म्यप्रयोगे हेतुभावे [S. ७७ब्.] साध्यस्य भावः, वैधर्म्ये च साध्याभावे हेत्वभावः शब्दाद् अवगम्यते, न तादात्म्यम् | तत् किम् उच्यते `तद्भावस्यैव ख्यापनात्ऽ? इत्य् अत आह -- न हि इत्यादि | यदि साधर्म्यप्रयोगे तद्भावो नाक्षिप्येत तदा साधनस्य अतत्स्वभावस्य भावे किम् इति एकान्तेन अवश्यन् तया साध्यस्य भावः? | कादाचित् कस् तु भवतु नाम? | `यत् कृतकं तद् अनित्यम्ऽ इत्य् एकान्तभावश् च हेतौ सति साध्यस्य व्याप्त्या साधर्म्यप्रयोगे ऽभिधीयते | स[२९६]च तादात्म्यम् अन्तरेणानर्थान्तरस्य न सम्भवतीति सामर्थ्यात् तदाक्षिपति | कथम् इवातत्स्वभावस्य भावे न एकान्तेनान्यभाव इति आह -- कृतकत्वेत्य् आदि | यदि प्रयत्नानन्तरीयकत्वाम् अन्तरेणापि कृतकत्वस्य भावाद् अतत्स्वभावत्वम् अनित्यत्वे[२९७]ऽप्य् अयम् एव वृत्तान्तः | ततश् च तादात्म्यविरहात् प्रयत्नानन्तरीयकत्वस्यानित्यत्वेनान्वयो न स्यात्, तन्निवृत्तौ[२९८]वा निवृत्तिर्[२९९]इति कथं ततस्[३००]तत्[३०१][S. ७८अ.] {प्. ७४.१} प्रतीयते? | नैष दोषः, प्रयत्नानन्तरीयकपदार्थस्वभावस्यैवानित्यत्वस्य[३०२]तेन[३०३]साधनात्, तत्र च तादात्म्यसद्भावाद् अन्वयव्यतिरेकाव् अनिवारितौ अनित्यत्वकृतकत्वमात्रापेक्षया[३०४][T. २५७अ.] तु तादात्म्यविरहो ऽस्याभिहित[३०५]इति | नन्व् अग्निनिवृत्ताव् अतत्स्वभावस्यापि धूमस्य निवृत्तिर् दृष्टा ऽन्वयश् चेत्य् आह -- कार्यस्य इति | अन्वयव्यतिरेकयोर् हि प्रतिबन्धो निबन्धनम्, तेन तयोः व्याप्तेः, तदभावे तयोर् अप्य् अभावात् | तत्रार्थान्तरस्य धूमस्याग्नौ तदुत्पत्तिलक्षणःप्रतिबन्दो ऽन्वयव्यतिरेकनिमित्तम् अस्तीति भवेतां तौ[३०६]| यत्र त्व् अनर्थान्तरस्य ताव् उच्येते तत्रावश्यं तादात्म्येन भवितव्यम् इत्य् अभिप्रायः | अत्रोदाहरणम् यथा-- अनयोर् एव कृतकत्वप्रयत्नानन्तरीयकत्वयोर् विपर्ययेण नैकनिवृत्ताव्[३०७] अन्यनिवृत्तिः[३०८]-- `यत् प्रयत्नानन्तरीयकं न भवति [S. ७८ब्.] तत् कृतकम् अपि न भवतिऽ इत्य् एवंरूपा | यत एवं तस्माद् अन्वयव्यतिरेकयोर् यथालक्षणं हेतुभावे साध्यस्यावश्यं भावः, साध्याभावे च हेतोर् अवश्यम् अभावः इत्य् एको ऽपि साधर्म्यमुखेण वैधर्म्यमुखेण वा प्रयुक्तो द्वितीयम् आक्षिपति, स्वव्यापकप्रतिबन्धाक्षेपात्[३०९], तस्यापि[३१०]चेतरेण[३११]व्याप्तेः | तस्माद् उभयत्र त्रैरूप्यप्रतीतेर् एकस्य शब्दे(ब्द)तो ऽपरस्यार्थत इति सम्बन्धवचने ऽपि प्रयोग एव विधिमुखेन प्रतिषेधमुखेन वा भिद्यते नार्थ इति सिद्धिं ततस् तस्य द्विधा प्रयोगः साधर्म्येण वैधर्म्येण च | न तु साधर्म्यवैधर्म्याभ्याम् अपि, तदर्थस्यान्यतरेणैव [T. २५७ब्.] प्रकाशनात् | सर्वो हेतुर् अन्वयव्यतिरेक्य् एव वस्तुतो न कश्चिद् अन्वयी व्यतिरेकी वा नामेत्य् एतद् उपसंहरन्न् आह -- इति नैकत्रान्वयमुखेन व्यतिरेकमुखेण [S. ७९अ.] वा साधनवाक्ये द्वयोर् अन्वयव्यतिरेकयोः प्रयोगः साक्षाच् छब्देन प्रतिपादनम् इष्यते, वैयर्थ्यात् प्रतीतप्रत्यायने प्रयोजनाभावात् | {प्. ७५.१} ताम् एवार्थतो ऽपरस्य प्रतीतिं स्फुटयन्न् आह -- तत्स्वभावतया इत्यादि | यदि तत्स्वभावतया साध्येन हेतोर् अन्वयः सिध्यति तत एव तदभावे ऽभावो ऽपि सिध्यत्य् एव | तत्स्वभावस्य तदभावे स्वयं नैरात्म्येन भावायोगात् | तथा तत्स्वभावतया साध्याभावे साधनस्याभाव{१}सिद्धौ {२}च सत्यां तत एव साध्येन हेतोः अन्वयस्यापि सिद्धेर् इति | यैस् तु व्याख्यायते -- साधर्म्यवति[३१२]प्रयोगे तदभाव एव विपक्षे हेतोर् अभावख्यातिर् यथा स्यात् नान्यत्र विपक्षे विरुद्धे वा हेत्वभावप्रसङ्गात् विरुद्धत[३१३]एव व्यवच्छेदप्रसङाच् चेति नियमख्यापनार्थो व्यतिरेकप्रयोगः इति | स तदर्थो ऽप्य् अयुक्तः | कुतः? अन्यविरुद्धयोर् अपि न केवलं तदभावस्य विपक्षत्वात् यस्य हि -- अन्य एव विपक्षो ऽन्यधर्मयोगी वा ऽन्यो, न विवक्षितधर्मानाश्रयः[३१४], [S. ७९ब्.] विरुद्ध एव वा सहानवस्थानलक्षणेनैव[३१५][T. २५८अ.] विरोधेन, न परस्परपरिहारस्थितलक्षणतयापि विपक्षः -- तस्यानित्यत्वाद् अन्यानात्मादिधर्मवति[३१६]अर्थे, कृतकत्वादिवृत्तेः, हेत्वभावप्रसङ्गः | औष्ण्ये च साध्ये[३१७]ऽग्निलक्षणस्य हेतोर् विरुद्धाद् एव शीतात् नानुष्णशीताद् अप्य् अन्यतो व्यवच्छेदप्रसङ्गात् नैकान्तेनौष्ण्यम् अग्निर् ग्रसयेद् इति तस्यायं दोषः स्यात् | तं प्रत्याचार्येणोक्तम्[३१८]-- यद्य् एकस्य[३१९]विपक्षत्वम् इष्यते तदा तदभावस्यैवेष्यताम्[३२०], न विरुद्धस्य अन्यस्य वा, तस्यान्यत्रापि[३२१]विवक्षितधर्मानाश्रये विरुद्धे च भावात्, तदभावम्[३२२]अन्तरेण १२तयोर् अन्यविरुद्धत्वायोगात्[३२३] | न त्व् अस्माकं[३२४]त्रिविधम् अपि विपक्षम् इच्छताम्[३२५], विवक्षितधर्मानाश्रयं चा ऽन्यम् इति भावः |
SK
__________NOTES__________
SK
[२९६] एकान्तभावः [२९७] प्रयत्नानन्तरीयकत्वम् अन्तरेणापि अनित्यत्वस्य भावात् [२९८] साध्य- [२९९] हेतोः [३००] हेतोः [३०१] साध्यम् [३०२] न तु समग्रपदार्थस्वभावस्य [३०३] प्रयत्नानन्तरीयकत्वेन [३०४] प्रयत्नानन्तरीयकः शब्दः, कृतकत्वात् अनित्यत्वाच् च [३०५] प्रयत्नानन्त- [३०६] अन्वयव्यति- [३०७] प्रयत्न- [३०८] हेतु- [३०९] रूपाव्यतिरेक- (?) [३१०] प्रतिबन्धस्य [३११] अन्वयेन व्यतिरेकेण वा [३१२] वैधर्म्ये तु तदभावे ऽभावस्य प्रतीतत्वान् न शङ्का [३१३] ............र् एव सकाशाद् व्यावृत्तिः (?) [३१४] अनित्यत्वं [३१५] शीतवह्निवत् [३१६] निरवयवत्वादि [३१७] उष्णो ऽयं पदार्थः, अग्नित्वात् [३१८] दिग्नागेन [३१९] साध्याभावे तदभावान्यविरुद्धलक्षणात् त्रितयान् मध्याद् एकस्य [३२०] साध्याभावे साधनाभावस्य [३२१] तदभावस्य [३२२] साध्याभावम् [३२३] अन्य- | विरु- [३२४] दोषः [३२५] यश् च युज्यते एतन्मध्यात् स ग्रहीष्यते
SK
[ सेच्तिओन्: १०. सत्त्वस्य क्षणिकत्वस्वभावतायाः समर्थनम् |]
SK
यदि स्वभावहेताव् अन्वयव्यतिरेकयोः साधनधर्मस्य साध्यस्वभावता निबन्धनम् इत्य् अन्वयेन व्यतिरेकेण वा साधर्म्यवैधर्म्यवतोः {प्. ७६.१} प्रयोगयोर् अभिधीयमानेन तादात्म्याक्षेपद्वारेणार्थाद् इतराक्षेप उच्यते, तदा प्रमाणसिद्धैव तत्स्वभावता तयोर् निबन्धनं [S. ८०अ.] न शब्दमात्रतः प्रतीयमानेत्य् अभिप्रायवान् आह -- १५कथम् इदम्[३२६]इत्यादि | येनेति सतो नश्वरस्वभावत्वेन | सत्व(त्त्व)लक्षणस्य हेतोः क्षणिकत्वस्वभावत्वेनेति यावत् | पृच्छतश् चायम् अभिप्रायः -- इह [T. २५८ब्.] द्विविधाः सन्तः -- कृतकाश् च घटादयः अकृतकाश् चाकाशादयः | तत्र ये तावद् अकृतकास् ते सदकारणवत् नित्यम् [VऐSऊ ४.१.१.] इति नित्यलक्षणयोगाद् अनित्या एव न भवन्ति कुत एव क्षणिकाः? इति न सत्व(त्त्व)स्य क्षणिकत्वस्वभावता | ये ऽपि सन्तः कृतकास् तेषाम् अपि मुद्गराद्यन्वयव्यतिरेकानुविधायितया विनाशस्य सहेतुकत्वात् तद्धेत्वसन्निधाव् विनाशात् कृतकात्मनो ऽपि सत्व(त्त्व)स्य क्षणिकत्वस्वभावता न समस्त्य् एवेति नान्वयव्यतिरेकयोः सम्भव इति | अवश्यं च विनाशो दण्डाद्यन्वयव्यतिरेकानुविधायी, दृष्टत्वात् | तथा हि - अभिघाताग्निसंयोगनाशप्रत्ययसन्निधिम्[३२७] | विनासंसर्ग्गितांयाति न विनाशो घटादिभिः|| [S. ८०ब्.] अन्यत्रापि[३२८]चान्वयव्यतिरेकानुविधानम् एव हेतुमत्ताव्यवहारनिबन्धनम् अभ्युपेयतेसौगतैर् अपि, तद् इहाप्य्[३२९]अस्तीति किन् न तद्व्यवहारः प्रवर्त्त्यते? इति | ननु चान्वयनिश्चयं प्रतिपादयता बाधकप्रमाणवृत्तिवशात् तत्स्वभावता पूर्वम् एव प्रतिपादिता `अन्वयनिश्चयो ऽपि स्वभावहेतौऽ इत्यादि विचनात् | तत् कुतो ऽस्य पूर्वपक्षस्यावसरः? | सत्यम्, किन्तुपूर्वाचार्यैःकृतकत्वस्य क्षणिकतायां साध्यायां परैः कृतकानाम् अन्ते ऽवश्यं हेतुनिबन्धनविनाशोपगमात् तद्धेत्वयोगप्रतिपादनेनानपेक्षा विनाशं प्रति विपर्यये बाधकं प्रमाणं तादात्म्यप्रसाधकम् उक्तं तत् प्रसङ्गमुखेन[३३०]कृतकलक्षणस्यैव सत्त्वस्य तदात्मताम्[३३१]गमयति नान्यस्य [T. २५९अ.] इति दर्शयितुम् | अर्थक्रियाविरोधलक्षणं[३३२]तु सर्वस्य सत्त्वस्य इति वस्तुमात्रेण[३३३]{प्. ७७.१} प्राग् उक्तम् अपि विपञ्चयितुं पूर्वपक्षोपन्यासः | अकृतकलक्षणं तु सत्त्वं न सम्भवत्य् एव, नियामकं हेतुम् अन्तरेण देशकालस्वभावनियमायोगात् | ततःपूर्वाचार्यैर् न [S. ८१अ.] तस्यैकाङ्गवैकल्याद् एव सदकारणवत् नित्यम् [VऐSऊ ४.१.१.] इति नित्यतासम्भव इति न तदात्मतां[३३४]प्रति यत्नः कृतः |शास्त्रकारस् तु सामान्येन[३३५]सत्त्वस्य क्षणिकस्वभावतां, कृतकलक्षणस्य अपि च, देशकालस्वभावविप्रकृष्टस्यापि वस्तुस्थित्यैव तदात्मताम् अर्थक्रियाविरोधेन, न परोपगतावश्यम् भाविविनाशस्याहेतुकतया विशेषाभावात् उत्पन्नमात्रस्याभावप्रसङ्गेन[३३६]प्रतिपादयिष्यति |
SK
__________NOTES__________
SK
[३२६] परः [३२७] एव [३२८] अङ्कुरादौ [३२९] विनाशे [३३०] आपत्ति- [३३१] क्षणिक- [३३२] प्रमाणम् [३३३] सामान्येन [३३४] क्षणिकत्व- [३३५] कृतका ऽकृतकविशेषविरहेण [३३६] विनाशस्य
SK
[ सेच्तिओन्: ११. सहेतुकं विनाशं निरसितुं तस्य भावस्वभावतायाः समालोचनम् |]
SK
तत्रपूर्वाचार्योक्तं `सर्वस्य सतः कृतकस्यावश्यमन्ते हेतुकृतो विनाश इतिऽ यः परैर् इष्यते तं प्रत्यनपेक्षत्वं क्यापयितुम् उपक्रमते -- विनाशहेत्वयोगाद् इति | यदि तर्हि नाशस्य हेतुर् नास्ति, स तेषां कृतकानां सताम् अवश्यम् भावी विनाशः कुतः? | न ह्य् आकस्मिकः कश्चित् स्वभावो युक्त इत्य् आह -- स्वभावत एव | भवत्य् अस्मात् कार्यम् इति भावशब्दो हेतुवचनः | तेन स्वहेतुभ्य एव नश्वराः नशनशीलाः, सूच्यग्रे सर्षपा इवानवस्थायिनः स्वात्मनि {१}भावाजायन्ते | {२}नैषां कृतकलक्षणानां सतां भावानां {१}स्वहेतुभ्यो निष्पन्नानां{२}अन्यतः अभिघातादेर् विनाशोत्पत्तिः | कुतः? [S. ८१ब्.] [T. २५९अ.] तस्याभिघाताग्निसंयोगादेस् तद्धेतुतयोपगतस्य असामर्थ्यात् | तथा हि -- अग्निसंयोगादिकाले त्रितयं लक्षयामः | तद् एव काष्ठादिकं विनाश्यम्, अङ्गारादिकम् अवस्थान्तरम्, काष्ठादिनिवृत्तिलक्षणं चाभावं तुच्छरूपं, नापरं यत्राग्निसंयोगादेर् व्यापारः चिन्त्येत | एतावत् यां च वस्तुगतौ न क्वचिद् अत्र विनाशहेतोः सामर्थ्यं युज्यते | यतो न हि विनाशहेतुर् भावस्येन्धनादेः स्वहेतुभ्यः स्थिररूपस्योत्पन्नस्य स्वभावम् एवास्थिरात्मतालक्षणं करोति | कुतः? तस्येन्धनादेः स्वहेतुभ्य एव निर्वृत्तेः | न हि {प्. ७८.१} २स्थिरात्मनो निर्वृत्तस्यान्यथाभावः[३३७], [३३८]तदात्मा[३३९]शक्यते कर्तुम्, तस्य हेत्वन्तरात् पश्चाद् भवतो ऽर्थान्तरत्वप्रसङ्गात्, तस्यैवान्यथात्वायोगात्, तत्र हेतुव्यापारस्य कल्पयितुम् अशक्यत्वात् | अथवा त्रितये समीक्ष्यमाणे यत् तावत् विनाश्यं काष्ठादि न तत्स्वभावम्[३४०]एवाग्निसंयोगादिर् विनाशहेतुः करोति तस्य स्वहेतुभ्य एव निर्वृत्तेर् इति |
SK
__________NOTES__________
SK
[३३७] अस्थिरस्वभावता [३३८] -नो ऽनिवृत्तस्यान्यथा ऽभाव -- Tइब्. [३३९] स्थिरात्मा [३४०] काष्ठत्वम्
SK
[ सेच्तिओन्: १२. कुमारिलेष्टभावान्तरस्वभावपक्षस्य समालोचनम् |]
SK
कुमारिलस् तु मन्यते -- नाग्निसंयोगादिना भावस्वभाव एव क्रियते किन्त्व् इन्धनादेः [S. ८२अ.] प्रध्वंसाभावः | स चेन्धनादिरूपविकलम् अङ्गारादिकम् उत्तरं भावान्तरम् एव | तदुक्तम् -- नास्तितापयसो दध्नि प्रध्वंसाभावलक्षणम्[३४१] [Śल्V अभाव ३] इति | तथाविधस्य चाभावस्य हेतुमत्तोपगमो नैव विरुध्यते | तथा चाह कश्-चित् - भावान्तरविनिर्मुक्तो भावो ऽत्रानुपलम्भवत् | अभावःसम्मतस् तस्य हेतोःकिन्न समुद्भवः? || इति तद् एतत्कौमारिलं[T. २६०अ.] दर्शनम् अपनुदन्न् आह -- नापि इत्यादि | यद्य् उत्तरं कार्यात्मकं भावान्तरम् एव अभावस् तदा ऽग्निसंयोगादयो ऽङ्ग(ङ्गा)रादिजन्मनि व्यापृ(प्रि)यन्त इतीष्टम् एवास्माकम्, किन्तु भावान्तरकरणे अभ्युपगम्यमाने ऽग्न्यादीनाम् इन्धनादाव् अव्यापारात् तदवस्थम् एवेन्धनादिकम् | ततश् च यथा ऽग्निसंयोगात् प्राग् इन्धनादेर् उपलब्धिः अन्या च तत्साध्या ऽर्थक्रिया तथा ऽङ्गाराद्युत्पत्ताव् अप्य् उपलब्ध्यादेः प्रसङ्गः | ननु भावान्तरस्य प्रध्वन्सा(ध्वंसा)भावरूपतायां तदुत्पत्ताव् इन्धनादीनां [S. ८२ब्.] प्रध्वस् तत्वादसतां कथं तथोपलब्ध्यादिप्रसङ्गः? | सत्यम्, एवं मन्यते -- सर्वस्येन्धनादेर् अन्यस्य गवादेर् अपि तथाभावो मा भूत् इत्य् अङ्गारादेः ध्वंसव्यवस्थायां निबन्धनम् {प्. ७९.१} अभिधानीयम् | तस्मिं(स्मिन्) सति तन्निवृत्तिर् इति चेत्, अहो वचनकौशलम् यतो निवृत्तेस् तुच्छस्वभावतानङ्गीकरणात् तद् एव भावान्तरम् अङ्गारादिकं निवृत्तिं ब्रूषे | तद् अयम् अर्थः सम्पन्नः -- अङ्गारादिभावे ऽङ्गारादिभावाद् अङ्गारादिकं ध्वंसः काष्ठादेर् इति | न चाङ्गारादिभावे तद्भावः स्वात्मनि हेतुभावायोगात् | अग्न्यादिभ्यश् च तदुत्पादवचनाद् इन्धनाद्युपमर्द्देनाङ्गारादि[T. २६०ब्.]भावात् अस्य ध्वंसरूपतेति चेत् | को ऽयम् उपमर्द्दो नाम? | यदि निवृत्तिः सा ऽङ्गारादिलक्षणैवेति न पूर्वस्माद् विशिष्यते | तस्मात् [S. ८३अ.] स्वरसतो निवर्त्तते काष्ठादिः, अग्न्यादिभ्यस् त्व् अङ्गारादिजन्म इत्य् एव भद्रकम्, अन्यथा काष्ठादेस् तथोपलब्ध्यादिप्रसङ्गः कथं न स्यात्? अपि च -- यदि भावान्तरं प्रध्वंसाभावो य एते ऽनुपजातविकाराः प्रदीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वन्सो(ध्वंसो) व्यवस्थाप्यते? | ते ऽप्य् अव्यक्तताम्[३४२]आत्मभावं[३४३]च विकारम् एव ध्वंसं समालम्बन्त इति चेत् | न, प्रदीपादेर् भावरूपाव्यक्तताभावे प्रमाणाभावात् | यदि हि शक्तिरूपतापत्तिर् अव्यक्तता तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात् तदभावे[३४४]कथं प्रदीपादयः शक्त्यात्मना ऽवस्थिताः कल्पेरन्[३४५]? | अथोपलब्धियोग्यताविकलात्मतापत्तिर् अव्यक्तिः; अत्रापि तदात्मना ऽवस्थितौ नैव प्रमाणम् अस्ति | न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः | आत्मनश् चासत्त्वात् कथं तद्भावो[३४६]बुद्ध्यादीनां [S. ८३ब्.] विकारः परिणामश् च? | अन्यत्र विहितप्रतिक्रियत्वात् नेह प्रन्यत इत्य् अलं प्रसङ्गेन | स्यान्मतम् -- भावान्तरेणाङ्गारादिना ऽऽवृतत्वात् इन्धनादेस् तथोपलब्ध्यादयो न भवन्तीत्य् अत आह -- नापि इत्यादि | स्वभावान्तरम् अन्यस्येन्धनादेर् आवरणम् अपि न {१}युज्येत {२}तदवस्थे अविचलित[T. २६१अ.]रूपे तस्मिन्न् इन्धनादौ सत्यावरणस्यापि न केवलम् अनुपलब्ध्यादेर् अयोगात् |
SK
__________NOTES__________
SK
[३४१] -साभाव इष्यते -- Śल्V [३४२] प्रदीप- [३४३] बुद्धिः [३४४] कार्य- [३४५] कल्प्येरन् -- Tइब्. [३४६] आत्मता
SK
{प्. ८०.१}[ सेच्तिओन्: १३. भावाभावपक्षस्यापि समालोचनम् |]
SK
न केवलं भावस्वभावो भावान्तरं वा विनाशहेतुना न क्रियते भावाभावो ऽपि न क्रियत इत्य् आह -- नापि इत्यादि | कुतः? इति चेत्, अभावस्य विधिना पर्युदासेन विवक्षिताद् भावादन्यतया कार्यत्वोपगमे क्रियमाणे किम् इन्धनादिरूप एवासौ? अथार्थान्तरम्? इति व्यतिरेकाव्यतिरेकविकल्पानतिक्रमात् | तत्र चोक्त एव दोषः | ननु प्रसज्यप्रतिषेधात्मा तुच्छरूपो ऽसाव् अग्न्यादिजन्यो ऽभ्युपेयते | तद्भावे चेन्धनादीनां नैःस्वाभाव्यात् कुतः पूर्वदोषावसरः? | स चावश्यम् अग्न्यादिभावाभावानुविधायितया [S. ८४अ.] तत्कार्यस् तद्भावव्यवहारस्यान्यत्रापि तन्निबन्धनत्वात् | तदुक्तम् -- सन् बोधगोचरप्राप्तस् तद्भावे[३४७] नोपलभ्यते | नश्यन् भावःकथंतस्य[३४८] न नाशःकार्यतामियात् || प्राग् अभूत्वाभवन् भावो हेतुभ्यो जायते यथा| भूत्वाऽपि न भवंस् तद्वद्धेतुभ्यो न भवत्य् अयम्[३४९] || इति | अत आह -- भावप्रतिषेधेत्य् आदि | अयम् अभिप्रायः -- यद्य् अनपेक्षितभावान्तरसंसर्ग्गश् च्युतिमात्रम् एव तुच्छरूपं ध्वंसः तदा तत्र कारकव्यापारो नैव सम्भवति भवनधर्मिण्य् एव तत्सम्भवात् | तस्याप्य् [T. २६१ब्.] अभूत्वा भावोपगमात् कार्यता न विरुध्यत इति चेत् | न | भवनधर्मणो भावरूपताप्राप्तेर् अभावत्वहानेः | यतो भवतीति भावो मण्यते, नापरम् अङ्कुरादेर् अपि भावशब्दप्रवृत्तिनिमित्तम् | अर्थक्रियासामर्थ्यम् इति चेत् | सर्वसामर्थ्यविरहिणस्[३५०]तर्ह्य् अस्य कथं प्रतीतिविषयता? | न ह्य् अकारणं प्रतीतिविषयः, अतिप्रसङ्गात् | तदविषयस्य वा कथं हेतुमत्तावगतिः? वस्तुता वा?, येनोच्यते `तुच्छरूपम् एव तद् वस्तुऽ इति | प्रतीतिजनकत्वे वा कथं न [S. ८४ब्.] सामर्थ्यसम्बन्धिता? | सद् इति प्रत्यया ऽविषयस्य कथं भावतेति चेत् | कार्यता ऽप्य् अस्य कथम्? | स्वहेतुभावे भावात् इति चेत् | कथं तर्हि सत्प्रत्यया ऽविषयता? | {प्. ८१.१} तथा हि -- यदि स्वहेतुभावे भवतीति प्रतीयते सद् इत्यादि प्रतीयेत | यतो ऽस्तीति सद् इति वदन्ति विद्वांसः | न चास्ति, भवति, भावः, ३सन्निति शब्दानाम्[३५१]अर्थभेदः परमार्थः कश्चित् | अभावात्मकतयैव भवत्य् असाव् इति चेत् | न | व्याहतत्वात्, यतो न भवतीत्य् अभाव उच्यते स कथं भवतीति व्यपदिश्यते? | प्रतिष्ठितेन केनचिद् रूपेण स्वज्ञानात्मन्य् अप्रतिभासनात् न भाव इति चेत् | अत्यन्तपरोक्षाणां चक्षुरादीनाम् अभावताप्रसङ्गः | न | तेषां ज्ञानहेतुरूपतया प्रतिभासनात् इति चेत् | न | अस्यापि भवितृरूपतया ऽवभासनात् | [T. २६२अ.] सर्वरूपविवेकस्य च कथं भूत्या सम्बन्धः? | केनचिद् रूपेणोन्मज्जनं हि भवनम् | ज्ञानविषयतया ऽस्यापि च तद्धेतुरूपतया ऽवभासनस्य तुल्यत्वात्[३५२], अहेतोष् च विषयत्वायोगात् | अस्माकं त्व् अभावबुद्धयः स्ववासनापरिपाकान्वया निर्विषया एव | अभावस्य च भवितृत्वे कथं पर्युदासात् प्रसज्यप्रतिषेधो भिद्येत | असद्रूपस्य विधानेन पर्युदासात् [S. ८५अ.] स भिद्यत इति चेत् | न | असद्रूपस्य भवनविरोधात् | भवतीति हि भूत्या सत्तया ऽभिसम्बध्यते | तत्र कथं सद्रूपस्य विधानम्? | पर्युदास एवैको नञर्थश् च स्यात्, सर्वत्र विधेः प्राधान्यात् | सो ऽपि वा न भवेत् | यदि हि किञ्चित् कुतश्चित्[३५३]निवर्त्येत तदा तद्व्यतिरेकि[३५४]संस्पृश्येत तत्पर्युदासेन | तच् च नास्ति | सर्वत्र निवृत्तिर् भवति इत्य् उक्ते वस्त्वन्तरस्यैव कस्यचित् विधानात् | तथा ऽनेन वस्त्वन्तरम् एवोक्तं स्यात्, न तयोर् विवेकः | अविवेके च न पर्युदासः | अप्रस्तुताभिधानं च स्यात् | भावनिवृत्तौ[३५५]प्रस्तुतायां असदात्मनो वस्त्वन्तरस्यैव विधानात् | न चास्य स्वरूपेणासदात्मकत्वम्, स्वरूपेणाप्य् असतः कार्यत्वविरोधात् | पररूपेण तु सर्वम् एव वस्त्वसदात्मकम् इति नास्य घटादेः कश्चिद् विशेषः [T. २६२ब्.] भवतु वा ऽयम् अभावो ऽग्न्यादिभ्यस् तद्भावे किम् इति नोपलभ्यन्ते काष्ठादयः? | तथा हि -- अग्न्यादीनाम् अन्यक्रियायां चरितार्थत्वाद् अनिवृत्ता एव तेभ्यः {प्. ८२.१} [S. ८५ब्.] इन्धनादयः प्राग्वद् उपलभ्येरन् | तदुपमर्द्देन ध्वंसस्योत्पत्तेः इति चेत्, कथं तदुपमर्द्दः? | न तावत् प्रध्वंसाभावेन, इन्धनसत्ताकाले तस्याभावात् | नाग्न्यादिभिः, ध्वंसाविर्भाव एव तेषां व्यापारोपगमात् | न चोत्पन्नः प्रध्वंसाभाव इन्धनादीन् विहन्ति, यौगपद्यप्रसङ्गात् | ध्वंसेन विनाशने च विकल्पत्रयस्य तदवस्थत्वात् | ततश् चानवस्था | स एव ध्वंस इन्धनादेर् अग्न्यादिजन्मा निवृत्तिः, अतो ऽस्यानुपलब्धिर् इति चेत् | कथम् अन्यो ऽन्यस्य निवृत्तिः?, अतिप्रसङ्गात् | यदि चायं हेतुमांस् तद्भेदाद् आत्मभेदं किं नानुभवति? | शालियवाङ्कुरादयो ऽपि कारणभेदाद् एवात्मभेदम् अत्यन्तविलक्षणम् अनुभवन्तो ऽध्यक्षत एवावसीयन्ते | न त्व् एवम् अनपेक्षितभावान्तरसंसर्ग्गः च्युतिमात्रलक्षणो ध्वंसः | तस्याभिघाताग्निसंयोगादिकारणभेदे ऽपि तुच्छरूपतयैकरूपस्य स्वज्ञानात्मन्य् अवभासनात् | न हि भावशून्यतां विहायापरं तत्र किञ्चिद् रूपम् ईक्सामहे | विस्तरतश् चैतत्क्षणभङ्गसिद्धौ विचारितम् इत्य् आस्तां तावाद् इह | [S. ८६अ.] तस्माद् अग्न्यादिसंयोगकाले न तस्य किञ्चिद् भवति न भवत्य् एव केवलम् इत्य् एवोपगन्तुं युक्तम् | यतो नायं कस्यचिद् [T. २६३अ.] भावेन नष्टो नाम किन्तु यतः स्वयम् अस्थिररूपतया भूतस् ततो नष्टो नाम | तेन नास्या ऽभवनम् अन्यद् वा किञ्चिद् भवति | तथा च भवनधर्मणः कस्यचिद् अभावाद् भावं भवन्तं कुतश्चिन् न करोतीति क्रियाप्रतिषेध एवाग्निसंयोगादेः स्यात् | एव च सति कर्त्ता अग्निसंयोगादिः न भवति इत्य् अकर्तुर् अहेतुत्वम् इति तस्मान् न विनाशहेतुःकश्चित् |
SK
__________NOTES__________
SK
[३४७] अग्निः [३४८] अग्न्यादेः [३४९] भावः [३५०] भावशब्दप्रवृत्तिनिमित्तं अभावस्यापि यदि सामर्थ्यम् अस्ति तदा भावत्वम् अथ नास्ति तत्राह [३५१] सन्निति सामान्यशब्दानाम् -- Tइब्. [३५२] चक्षुरादीभिः [३५३] ब्राह्मणादि (प्रथमं टिप्पणम्) क्षत्रिया- (द्वि. टि.) [३५४] निवर्त्यव्यतिरेकि [३५५] तुच्छरूपायाम्
SK
[ सेच्तिओन्:१४. वैयर्थ्याद् अपि विनाशे हेत्वयोगः |]
SK
न केवलम् असामर्थ्याद् विनाशहेत्वयोगः, किन्तु वैयर्थ्याच् च, तद् एवाह -- यदि स्वभावतो नश्वरो नशनशीलः स्वात्मन्य् अनवस्थायी स्थातुम् अशक्तो यथा सूच्यग्रे सर्षपः तस्य न किञ्चिन्नाशकारणैः | किं कारणम्? | {१}स्वयंनाशात् | {२}तत्स्वभावतयैव अस्थिरस्वभावतयैव | न हि प्रकृत्य् एव स्थातुम् अशक्ते सूच्यग्रे सर्षपे तदस्थितये प्रयासः फलवान् भवेत् | {प्. ८३.१} अत्रैव व्याप्तिम् आदर्शयति -- यो हि इत्यादि | न पुनःतद्भावे तत्स्वभावत्वे जनकात् [S. ८६ब्.] हेतोर् {१}हेत्वन्तरम् अपेक्षते | {२}न हि प्रकाशादयः इत्यादिना दृष्टान्तविवरणम् | तदात्मताया हेत्वन्तरानपेक्षणेन व्याप्तिं तादात्म्यसाधकेन प्रमाणेन दर्शयति -- तदात्मनो यो यस्य स्वभावः तत्स्वभावस्य तादात्म्याभावे हेत्वन्तरम् अपेक्षमाणस्य स्वहेतोर् निष्पन्नस्यापि तत्स्वभावत्वाभावे नैरात्म्यस्य निःस्वभावतायाः प्रसङ्गात् | तद्वत् प्रकाशादिवत् न पुनः पश्चात् [T. २६३ब्.] तदात्मतायां अस्थितिधर्मात्मतायां हेत्वन्तरम् अपेक्षत इति प्रमाणफलम् | अस्थितिधर्माचेत् नश्वरस्वभावश् चेत् | स्वभावतःस्वहेतुभ्यो निष्पन्नो भाव इति पक्षधर्मोपसंहारः | विरुद्धव्याप्तोपलब्धिश् चेयम्, हेत्वन्तरापेक्षानपेक्षयोः परस्परपरिहारस्थितलक्षणतया विरोधात्, हेत्वन्तरानपेक्षया च तत्स्वाभावताया व्याप्तत्वात् |
SK
[ सेच्तिओन्: १५. स्वतो विनश्वरत्वसाधकहेताव् अनेकान्तदोषोद्धारः |]
SK
अत्र च परस्य वचनाव् अकाशम् आशङ्क्याह -- बीजादिवत्[८.१६] इत्यादि | स्याद् एतत् इत्यादिना एतद् एव विभजते केवलान जनयन्ति इति | कुतः? इति चेत्, सलिलक्षित्यादेः स्वहेतुव्यतिरिक्तस्याङ्कुरादिजननस्वभावानाम् अपि [S. ८७अ.] बीजादीनां तदात्मतायाम् अपेक्षणात् | ततश् च न पुनस् तद्भावे हेत्वन्तरम् अपेक्षन्त इत्य् अनेकान्तः | तद्वद् भावो ऽपीन्धनादिः स्वहेतोर् नश्वरात्मा निष्पन्नो ऽपि विनाशे विनश्वरात्मतायां स्याद् इति दार्ष्टान्तिकम् | न बीजादिवद् अनेकान्तः | कुतः? तत्स्वभावस्य अङ्कुरादिजननस्वभावस्य बीजादेर् अङ्कुरादिजननात्, तदात्मतायां हेत्वन्तरानपेक्षणात् | यश् च क्षित्यादिकम् अपेक्षमाणो न जनयति कुशूलाद्यवस्थः तस्य अजनकस्य च अतत्स्वभावत्वात् अङ्कुरादिजननस्वभावत्वाभावात् | तत्र तदात्मतालक्षणो हेतुः न वर्तत एवेति न तेनानेकान्तः |
SK
[ सेच्तिओन्: १६. प्रत्यक्षेण बाधात् न प्रत्यभिज्ञया स्थिरैकभावसिद्धिः |]
SK
ननु प्रत्यभिज्ञाप्रत्यक्षत एव बीजादिर् एकस्वभावो लक्ष्यते | तत्र कुतो ऽयं जननस्वभावत्वाजननस्वभावत्वलक्षणो भेदः? {प्. ८४.१} यतो ऽनेकान्तो [T. २६४ब्.] न स्यात् | न चाप्रमाणं प्रत्यभिज्ञा, तत्रापूर्वार्थविज्ञानम् इत्यादि प्रमाणलक्षणयोगात्, सत्सम्प्रयोगेणेन्द्रियाणां भावतश् च प्रत्यक्षम् एव प्रत्यभिज्ञानम् | न च प्रत्यक्षाद् गरिष्ठं प्रमाणम् अस्ति, यतस् तद्विषयस्य भेदसिद्ध्या बाधाम् अनुभवद् अप्रमाणम् एतत् [S. ८७ब्.] स्यात् इत्य् आशङ्क्याह -- `अत एवऽ जनकत्वाजनकत्वाद् एव विरुद्धधर्माध्यासात् `तयोर् अवस्थयोःऽ जनकाजनकावस्थयोः बीजादेः वस्तुभेदः स्वभावभेदो निश्चेयः अध्यवसातव्यः | यथा हि शालिबीजं तदङ्कुरजननस्वभावं तद्भावे शाल्यङ्कुरभवदर्शनात् प्रत्यक्षतो ऽवगम्यते, यवबीजं चातज्जननस्वभावम् तद्भवे शाल्यङ्कुरानुपलब्ध्या[३५६][T. २६५अ.] तद्विविक्तयवबीजग्राहिप्रत्यक्षरूपया प्रतीयते तथा ऽत्राप्य् अवस्थाद्वये शालिबीजस्य तदङ्कुरविविक्ताविविक्तावस्थाग्राहिप्रत्यक्षबलाद् एव स्वाङ्कुरजनकाजनकस्वभावता किन्न निश्चीयते? | इष्यत एवावस्थयोर् भेदो ऽवस्थावतस् त्व् अभेद इति चेत् | न | तस्यावस्थारूपविवेकिना रूपान्तरेण प्रत्यक्षे प्रतिभासनप्रसङ्गात् | न हि यदनात्मरूपविवेकेन स्वज्ञाने न प्रतिभासते तस्य प्रत्यक्षता युक्ता | अवस्थातद्वतोः स्वभावभेदाभावात् [S. ८८अ.] कथं रूपान्तरेण प्रतिभासनम्? इति चेत् | नन्व् अवस्थाभ्यो ऽनवाप्तरूपभेदस्यावस्थानाम् इवात्मनस् तद्भेदे सत्य् अभेदो न सङ्गच्छते | [T. २६५ब्.] ततश् चास्यावस्थानाम् इवात्मभेदम् अनुभवतः कथम् अवस्थातृत्वम्? | अवस्थाभेदे ऽप्य् अभिन्नरूपस्य तथा व्यवस्थानात् कथञ्चिद्भेदस्यापि भावाद् अदोष इति चेत् | यदि यम् आत्मानं पुरोधय `अयम् अवस्थाता, अवस्थाश् चेमाःऽ इति भण्यते तेनावस्थातद्वतोर् भेदस् तदा भेद एवेति `कथञ्चित्ऽ इत्य् अन्धपदम् एतत् | ततो ऽस्य प्रत्यक्षतायां अनात्मरूपविवेकिना रूपान्तरेणावभासनप्रसङ्गो न निवर्त्तते | अथ तेनात्मना ऽभेदः[३५७]| अवस्थावद् भेदप्रसङ्गो ऽवस्थातुः, तद्वद् अवस्थानाम् अभेदस्य वा | तयोर् अपि कथञ्चिद् भेदाभेदाव् इति चेत् | तयोस् तर्ह्य् अवस्थातद्वद् आत्मनोर् भेदवतोः कथञ्चिद् अभेदनिमित्तं रूपान्तरम् इष्टं स्यात् | {प्. ८५.१} तथा च तस्यापि ताभ्यां कथञ्चिद्भेदः, अन्यथा तदेकस्वभावाद् अत्यन्तम् अभेदाद् अवस्थातद्वतोः ३परस्परम् अत्यन्तं भेदाभेदौ प्रसज्येयाताम्[३५८]| रूपान्तरस्य कथञ्चिद्भेदे [S. ८८ब्.] तन्निबन्धनम् अपरं रूपम्, तथा ऽस्यापि तदन्यद् इत्य् अपरिमितरूपतैवैकैकस्य वस्तुनः समासज्येत | न चापरिमितरूपप्रतिभासि प्रत्यक्षम् अनुभवामः | अननुभवन्तश् च कथं तत्कल्पनया ऽऽत्मनैवात्मानं विप्रलभेमहि? | तस्माद् अवस्थारूपविवेकेनोपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् अपरिमितरूपताप्रसङ्गाच् च कथञ्चिद् भेदाभेदवतो ऽवस्थातुर् असत्त्वम् एव | ताश् चावस्था जनकाजनकस्वभावभेदवत्यः [T. २६६अ.] प्रत्यक्षत एवावगम्यन्त इति तदेकत्वाध्यव-सायि प्रत्यभिज्ञानं तद्बाधाम्[३५९]अनुभवत् कथं प्रमाणं स्यात्?, यतो बीजादीनां अङ्कुरादिजननस्वभावानाम् अपि तदात्मतायां हेत्वन्तरापेक्षणात् प्राक्तनस्य[३६०]हेतोर् अनैकान्तिकता भवेत् | भवतु वा ऽवस्थाता कश्चित्, तस्याप्य् एतद्[३६१]एव भेदं साधयति | तथा हि -- तयोः [T. २६४अ.] जनकाजनकावस्थयोर् इति सप्तमीद्विवचनम् एतत् तदा भवति | तद् अयम् अर्थो -- जनकावस्थायाम् अजनकावस्थायां च वस्तुनः धर्मिलक्षणस्य भेद स्वभावनानात्वम् अत एव[HBṬĀ ३५६,२४] जनकाजनकस्वभावत्वाद् एव प्रत्यक्षावसितात् निश्चेयः[८,१९] निश्चयलक्षणस् तत्र व्यवहारः कर्तव्यः, विषयस्य [S. ८९अ.] विरुद्धधर्माध्यासलक्षणस्य दर्शनाद् इति | न च शक्यते वक्तुम् -- अवस्था एवाङ्कुरादिजननस्वभावा नावस्थाता इति | तस्य सर्वसामर्थ्यविरहलक्षणस्यासत्त्वप्रसङ्गात् | [T. २६४ब्.] ततो यद् एकरूपतया प्रत्यभिज्ञानं भवेषु तत् पूर्वोत्तरकालयोर् जनकाजनकस्वभावभेदव्यवस्थापकप्रत्यक्षनिबन्धनाम् अनुभवद्बाधां कथम् इव प्रमाणं स्यात्? | तत्प्रतिभासिनश् चाभिन्नरूपस्यालीकत्वे ऽक्षसमुद्भवाम् अपि वृत्तिम् अनुभवतो ऽस्य सत्सम्प्रयोगजत्वाभावात् तैमिरिकादिधियाम् इव कुतः प्रत्यक्षता? | न {प्. ८६.१} चार्थक्रियानिबन्धनं रूपम-पास्य बीजादेर् अपरः परमार्थतः स्वभावो ऽस्ति, यस्याधिगमात् प्रत्यभिज्ञानं प्रमाणं भवेत्, अर्थक्रियासामर्थ्यलक्षणत्वात् परमार्थसतः | तस्मात् सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्व् इवाकारसाम्यतामात्रापहृतहृदयानां भ्रान्त [S. ८९ब्.] एव तत्त्वाध्यवसायो मन्तव्यः | ततः सतो ऽपि प्रतिक्षणं भेदस्यानुपलक्षणं बालानाम् | यदा तु विधुरप्रत्ययोपनिपाताद् विसदृशापरभावप्रसवः तदा ऽस्य तत्त्वाध्यवसायी प्रत्यभिज्ञाप्रत्ययो न भूतिम् अवलम्बते | न च तदेकाकारपरामर्शप्रत्ययजनकत्वाद् अपरं सादृश्यम् | भेदा ऽविशेषे ऽपि च स्वहेतुबलायात् अप्रकृतिवशात् केचिद्[३६२]एवैकाकारपरामर्शप्रत्ययलक्षणाम् अर्थज्ञानादिलक्षणां वा ऽर्थक्रियां कुर्वन्ति नापर इति विपञ्चितंप्रमाणवार्तिक एवशास्त्रकृतेति नेह प्रपञ्च्यते |
SK
__________NOTES__________
SK
[३५६] Iन् Tइब्. थिस् पस्सगे -अनुपलब्ध्या तो तयोः (प्. ८५. लिने १५) इस् रेअद् अfतेर् स्वभावः (प्. ८६. लिने २२). [३५७] तदा [३५८] परस्परयात्यन्तं भेदाभेदौ वस्त्वन्तरे प्रसज्ये- -- T. [३५९] प्रत्यक्ष [३६०] यो हि यत्स्वभावः इत्यादिना कथितस्य | [३६१] प्रत्यक्षम् [३६२] रूपालोकादयः
SK
[ सेच्तिओन्: १७. अनुमानेनापि प्रत्यभिज्ञाया बाधात् न ततः स्थिरभावसिद्धिः |]
SK
अवश्यं च बीजादेर् जनकाजनकावस्थयोर् वस्तुभेदो यथोक्तो ऽवगन्तव्य इति दर्शयितुम् अनुमानम् अभेदस्य [T. २६५अ.] बाधकम् आह -- भावानां बीजादीनां स्वकार्यजनको यः स्वभावः तस्य तेषु सत्सु अन्यथात्वाभावात्[८,२१] कदाचिद् अजनकत्वासम्भवात् [S. ९०अ.] तत्स्वभावस्य अङ्कुरादिजनकस्वभावस्य पश्चाद् इव सलिलादिकारणसन्निधान इव प्राग् अपि कुशूलाद्यवस्थितिकाले ऽपि स्वकार्यजननप्रसङ्गात् | तथ हि -- सलिलादिसन्निधाने ऽपि बीजादिः स्वरूपेणैव कार्यं करोति, न पररूपेण | यश् चास्य तदा [T. २६६अ.] कार्यजनकः स्वभावः, स चेत् प्राग् अप्य् अस्ति, `स एवायम्ऽ इति प्रत्यभिज्ञायां पुरो ऽवस्थायिनो जनकस्वभावस्य प्राच्यरूपाभेदाध्यवसायात्, ततः किम् इति प्राग् अपि तत्कार्यं न कुर्याद् इति? | प्रयोगः -- यद् यदा यज्जननस्वभावं तत् तदा तज्जनयत्य् एव | अजनकस्य जनकत्वस्वभावविरोधात् | अन्यस्यापि वा तत्स्वभावतापत्तेः | यथा -- तद् एव बीजादिकं सलिलादिसन्निधिकाले | कुशूलाद्यवस्थास्व् अपि चेदं बीजादिकं स्वकार्यजननस्वभावम् {प्. ८७.१} एव प्रत्यभिज्ञया व्यवस्थाप्यत इति स्वभावहेतुप्रसङ्गः | न च जनयति | तस्मान् न तज्जननस्वभावम् इति | विपर्ययप्रयोगः -- यद् यदा यज्जननस्वभावं(व) निर्वर्त्त्यं कार्यं न जनयति न तत् तदा तज्जननस्वभावम्, तद् यथा -- शाल्यङ्कुरजननस्वभावनिर्वर्त्यं कार्यम् अजनयत् कोद्रवबीजम् | न जनयति १च सलिलादिकारणसन्निधेः[३६३]प्राक् तत्कार्यजननस्वभावनिर्वर्त्त्यं [S. ९०ब्.] स्वकार्यं बीजादिकम् इति [T. २६६ब्.] व्यापकानुपलब्धिः | ततो ऽनुमानतो ऽपि बाधम् अनुभवत् प्रत्यभिज्ञानं कथं प्रमाणं स्यात्? | ननु चानेन[३६४]बाध्यमानस्यानुमानस्याप्रामाण्यात् कथं बाधकत्वम्? | अनिश्चितप्रमाणभावेन[३६५]कुतो बाधा? | नापि इतरेतराश्रयत्वम् | न हि प्रत्यभिज्ञानस्याप्रामाण्याद् एतदनुमानं प्रमाणम्, किन्तु स्वसाध्यप्रतिबन्धात् | स च विपर्यये बाधकप्रमाणबलान् निश्चित इति |
SK
__________NOTES__________
SK
[३६३] च शाल्यादिका- -- T. [३६४] प्रत्यभिज्ञानेन [३६५] उत्तरम्
SK
[ सेच्तिओन्: १८. प्रत्यक्षस्यानुमानात् गरीयस्त्वनिरासः |]
SK
न प्रत्यक्षाद् अन्यद् गरिष्ठं प्रमाणम् इति चेत् | न | प्रत्यभिज्ञायाः प्रत्यक्षत्वासिद्धेः | न हीयम् अनुमानेन प्रत्यक्षात्मिका सती बाध्यत इति ब्रूमहे | किं कृतं च प्रत्यक्षस्य गरीयस्त्वम्? | तद् ध्य् अर्थस्यासम्भवे ऽभावात् प्रमाणम् उच्यते तच् चानुमानस्याप्य् अर्थप्रतिबद्धलिङ्गजन्यतया समानम् इति नास्य कश्चिद् विशेषः | यदि चानुमानविरोधम् अश्नुवानापि प्रत्यभिज्ञा प्रमाणं तदा ऽऽकारस्य साम्यात् तदेकतां प्रतियती नीलेतरकुसुमादेः[३६६][प्रतीतिः] किं न प्रमाणम्? | न हि कुसुमफलादिकार्यदर्शनोन्नीयमानो भेदः प्रत्यक्षतस् तथाभावम् अनुभवति | विस्तरतश् च प्रत्यभिज्ञाप्रामाण्यनिरासः [S. ९१अ.]क्षणभङ्गसिद्धाव् एव विहित इत्य् आस्तां तावद् इह | यतः एवम् उक्तेन प्रकारेण जनकाजनकावस्थयोः बीजादेर् वस्तुभेदः तस्माद् यो ऽन्यो ऽवस्थाविशेषो यदन्तरं अङ्कुरादिकार्यप्रसवः {प्. ८८.१} स एवाङ्कुरजननस्वभावः, [T. २६७अ.] कार्यदर्शनोन्नीयमानरूपत्वात् तज्जननस्वभावतायाः | यदि तर्हि स एवाङ्कुरजननस्वभावः, पूर्वभाविनाम् अवस्थाभेदानाम् अतज्जननभावत्वात् कथं तेषु तत्कारणव्यपदेशः? अङ्कुरार्थिभिर् वा तदुपादानम्? इत्य् अत आह -- `पूर्वभाविनस् तुऽ कुशूलाद्यवस्थितिकालभाविनस् तु अवस्थाविशेषाअङ्कुरकारणस्यान्त्यस्यावस्थाविशेषस्य कारणानि प्रत्ययान्तरोपधीयमानविशेषेभ्यः परम्परया तेभ्यस् तदुत्पत्तेः | अतस् तेषूपचारतः कारणव्यपदेशो ऽङ्कुरार्थिभिश् चोपादानम् | यतस् तत्स्वभावस्य बीजादेर् जननं न हेत्वन्तरापेक्षम्, यच् चाजनकम् अपेक्षते न तस्य [S. ९१ब्.] तज्जननस्वभावत्वम् इति | तस्मान् नानेकान्तो बीजादिवत् `तत्स्वभावत्वात्ऽ इत्य् अस्य हेतोः इत्य् उपसंहारः | तद् एवं यदा तावत् प्रत्यभिज्ञानं प्रत्यक्षप्रमाणतया स्थैर्यसिद्धये परैर् उच्यते बीजादिवद् अनेकान्तं प्रतिपादयितुम्, तदा तस्योक्तेन प्रकारेण प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात् तदात्मता नास्तीति कुतस् तत एकता भावानाम्?, यतो ऽनेकान्तः स्याद् इति प्रतिपादितम् | यदा तु प्रत्यभिज्ञायमानत्वात् पूर्वापरकालयोर् एकस्वभावा बीजादय इति हेतुतयोच्यते परैः, तदा ऽयम् असिद्धो हेतुः | न च स पक्षे क्वचिद् वर्त्तत इत्य् आह -- क्षणिकेषु भावेषु अस्माभिर् इष्यमाणेषु एक्याभावाद् इति सम्बन्धः |
SK
__________NOTES__________
SK
[३६६] गिरिकान्तका (?)-कन्नि- (?)
SK
[ सेच्तिओन्: १९. तत्स्वभावत्वात् इत्य् अत्र पुनर् अपि अनेकान्तदोषोद्धारः |]
SK
अथ यस्यापि क्षनिका भावास् तस्यापि बीजादीनां [T. २६७ब्.] प्रतिक्षणम् ऐक्याभावे ऽपि विशेषानुपलक्षणाद् अन्त्यक्षणवत् सर्वेषां जनकस्वभावानाम् अपि तद्भावं प्रति सलिलाद्यपेक्षत्वात् तदवस्थम् अनैकान्तिकत्वम् इत्य् आशङ्क्याह -- अपरापरोत्पत्तेः क्षणिकैर् अपि [S. ९२अ.] नानेकान्तः, अपरेभ्यो ऽपरेभ्यश् च प्रत्ययेभ्यः प्रतिक्षणम् उत्पत्तेः क्षणिकानां भिन्नशक्तित्वाद् अन्त्यक्षणवज् जनकस्वभावताविरहात् कुतस् तैर् अप्य् अनेकान्तः स्यात्? न हि कारणभेदोपधीयमानजन्मनां विशेषानुपलक्षणे ऽप्य् अभिन्नस्वभावता युक्ता, हेतु {प्.८९.१} भेदाननुविधाने ऽहेतुकताप्रसङ्गात् | तथा च वक्ष्यति -- `अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः सन्तन्वन्तः संस्कारा यद्य् अपि कुतश्चित् साम्यात् समानरूपाः प्रतीयन्ते तथापि भिन्न एव एषां स्वभावः, तेन किञ्चिद् एव कस्यचित् कारणम्ऽ इति | यद् उक्तं `तत्स्वभावस्य जननात्ऽ इत्य् अस्यानेकान्तम् उद्भावयन्न् आह परः -- ते बीजक्षित्यादयः अन्त्याः अन्ते भवाः प्रत्येकम् अङ्कुरजनने समर्थाः खण्डशः कारणेभ्यः कार्योत्पादाभावाद् भवद्भिर् इष्यन्त इति किन्न जनयन्ति प्रत्येकम्? | ततश् चैषाम् एक एव कश्चिद् अङ्कुरं जनयति, तदन्ये तु तत्स्वभावा अपि न जनयन्तीति `तत्स्वभावस्य जननात्ऽ इत्य् अनेकान्तः | तद्वत् कुशूलाद्यवस्था अपि बीजादयो ऽङ्कुरादिजननस्वभावा अपि न जनयिष्यन्तीति तैर् अनेकान्तः [S. ९२ब्.] तदवस्थ एवेति मन्यतेपरः| अत्राह -- इति यद् एवं त्वं मन्यसे | परेण सामान्येनाभिधानात् सामान्येनैवोत्तरम् आह -- {१}जनयन्त्य् एव [T.२६८अ.] {२}नात्र स्वकार्यजनने अन्यथाभावः अजनकत्वम् आशङ्कनीयम् | कुतः? स्वभावस्यावैपरीत्यात् | यदि हि न जनयेयुर् जननस्वभावा एव न स्युः | तत्स्वभावाश् चेष्यन्त इत्य् अवश्यं जनयन्ति, तथा च कुतो ऽनैकान्तः? इति भावः |
SK
[ सेच्तिओन्: २०. एकेनैव समर्थ्येन कार्यजनने परेषाम् अनुपयोगम् आशङ्क्य तदुद्धारः |]
SK
प्रत्येकम् अन्त्यानां जनकत्वे कार्यस्यैकेन जननाद् अपरेषाम् उपयोगस्य निर्विषयत्वाद् अजननम् एवेति मन्यमान आह परः -- तेषु अन्त्येषु सहकारिषु सह -- युगपत् करणशीलेषु समर्थस्वभावेषु तत्कार्यक्रियायोग्येषु अभ्युपगम्यमानेषु सत्सु कार्यस्यैकेनैव जनितत्वात् को ऽपरस्योपयोगः? नैव कश्चित् | तत् किम् उच्यते `जनयन्त्य् एवऽ इति? | एतत् परिहरति -- `न वैऽ नैव भावानां बीजादीनां काचित् प्रेक्षापूर्वकारिता बुद्धिपूर्वकारिता, यतः प्रेक्षापूर्वकारित्वात् `अयम् अस्मास्व् अन्यतम् एको ऽपि समर्थः कार्यजनने, किम् अत्रास्माभिः कर्त्तव्यम्?ऽ इत्य् आलोच्य अपरे निवर्तेरन् [S. ९३अ.] {प्. ९०.१} औदासीन्यं[३६७]भजमानास् तत्कार्यजनने न व्याप्रियेरन् | यस्मात् ते बीजादयो भावाः निरभिप्रायव्यापाराः पर्यालोचनाशून्यव्यापारा एकत उत्पद्यमाने कार्ये सर्व एव व्याप्रियन्ते | भवनधर्मणि च कार्ये तेषां प्राग्भाव एव व्यापारः | तदन्यस्यायोगात्[३६८]| यदि हि व्यापृताद् अन्य एव व्यापारः [T. २६८ब्.] तदा तत एव कार्योत्पादाद् व्यापारवतः कारकत्वम् एव हीयते | तस्यासौ व्यापारः ततस् तस्य कारकत्वम् इति चेत् | नन्व् एवं व्यापारोपयोगस्य कार्यानुपयोगिनि तत्रोपचारात्[३६९]पारमार्थिकम् अस्य कारकत्वं हीयेत | कश् चास्य[३७०]व्यापारेण सम्बन्धः? | समवायश् चेत् | न | तस्य प्राग् एव निरस्तत्वात् | समवायाच् च व्यापारवत्त्वे अन्यस्यापि[३७१]तत्कार्यानुपयोगिनस्[३७२]तद्भावप्रसङ्गः[३७३], समवायस्येहेति बुद्धिहेतोर् एकत्वेन सर्वत्र समानत्वात् | अभिमतेनैव व्यापृतेन तद्व्यापारोत्पादनात् नातिप्रसङ्गः इति चेत् | ननु तेन[३७४]तदुत्पादनं[३७५]तत्र[३७६]समवायाद् एवोच्यते | स च [S. ९३ब्.] सर्वत्र समानः | येन च परिश्रमेण व्यापारं जनयति तेन कार्यम् एव किन् नोत्पादयति? येन व्यवधानम् आश्रीयते | यथा च स्वसन्निधिमात्रेणैवायं व्यापारं जनयति न व्यापारान्तरेण, अनवस्थाप्रसङ्गात्, तथा तत ९एव कार्यम्[३७७]अपीत्य् उक्तप्रायम् | तस्माद् भाविनि कार्ये प्राग्भाव एव कारणस्य व्यापारः | स च सर्वेषां अस्तीति सर्व एव कार्योत्पत्तौ व्याप्रियन्त इति व्यपदिश्यन्ते | तद् अपि कार्यंसर्वेभ्य एव जायते सर्वेषां भाव एव तद्भावात् | न हि कार्यस्य कारणाभिमतभाव एव भावम् अन्तरेणापरं जन्म | तथाभावे[३७८]हि तत्रैव कारणव्यापारात् कार्यक्रियैवैषां न सम्भवेत् | ततश् च सत्स्व् अपि कारणेषु कथम् अस्य भाव उपलब्धिर् वा स्यात्? | तत्सम्बन्धिनो जन्मनः करणात् इति चेत् | न | असता {प्. ९१.१} तेन[३७९]सम्बन्धायोगात् | स्वत एव सत्त्वे वा [T. २६९अ.] जन्मार्थानुपपत्तेः | जन्मकाले चोपलभ्यस्यात्मनः[३८०]प्राग्[३८१]अपि भावात् तथोपलब्धिप्रसङ्गः, रूपान्तरेण[३८२]भावे न [S. ९४अ.] तस्य भावः स्यात्[३८३]| रूपभेदलक्षणत्वाद् भावभेदस्य[३८४]| तस्माद् उपलब्ध्यात्मनो[३८५]जन्मनः प्रागनुपलम्भाद् असत्त्वम् | ततो ऽस्य[३८६]जन्मसम्बन्धिता कुतः? | तस्मात् कार्यम् एवाभूत्वा हेतुभावे भवतीति भाव एवास्य[३८७]ततो जन्मेति सर्वेभ्यस् तत् जायते | नन्व् एकस्यापि तज्जनने सामर्थ्यात् अपरेषां तत्र सन्निधिलक्षणो व्यापारो व्यर्थ एवेति न तत्रापरेषां भावः सङ्गच्छत इति चेद् आह -- स्वहेतोः क्षितिबीजसलिलादिसामग्रीलक्षणस्य परिणामः कार्योत्पादानुगुणविशेषवतः प्रतिक्षणम् उपधीयमानातिशयस्य क्षणान्तरस्य प्रसवः, ततः उपनिधिः कार्यदेशे सन्निधानं धर्मो येषां ते तथाभवन्तः कार्यदेशे सन्निधीयमानाः नोपालम्भम् अर्हन्ति -- `एकस्याप्य् एतत्कार्यकरणे समर्थत्वात् किम् अत्र भवन्तः सन्निहिताः?ऽ इति न पर्यनुयोगम् अर्हन्ति | न हि तदपरसन्निधिम्[३८८]अन्तरेण तत्रैकस्यापि[३८९]भाव उपपद्यते | कुतः? तत्प्रकृते तत्प्रकृतित्वात् इति भावप्रधानो [S. ९४ब्.] निर्द्देशः | क्षितिबीजसलिलादिसामग्रीपरिणामजन्यस्वभावत्वाद् एकैकस्य समर्थस्य तद्भावे[३९०]कुतः केवलस्य सम्भवः[३९१]?, सामग्रीशब्दवाच्यैः कारणभेदैः समर्थ- स्वस्वलक्षणान्तरारम्भात् | ततश्[३९२]च प्रतिक्षणम् उपधीयमानातिशयस्योत्पादात् केवलानां [T. २६९ब्.] च तज्जननस्वभाववैकल्यात् तदपरप्रत्यययोगजन्यस्वभावत्वात् समर्थजनकस्य हेतोः | एतच् च यथावसरं तत्र तत्र व्यक्तीकरिष्यति | तस्माद् यत्सामग्रीजन्यस्वभावो यो भावः स तत्रैकाभावे ऽपि कारणवैकल्यान् न सम्भवतीत्य् एकसामग्रीजन्मनां सहभावो नियतः | सर्वेषां तेषां भाव एव कार्यस्य भावात् सर्व एव जनयन्तीति `तत्स्वभावस्य जननात्ऽ इत्य् अत्र नानेकान्तः इति | {प्. ९२.१} येनाभिप्रायेण `ते ऽन्त्याः समर्थाः किन् न जनयन्तिऽ इत्य् उक्तं तं प्रकटयन्न् आह -- समर्थाः इत्यादि | सिद्धान्तवाद्य् अपि `जनयन्त्य् एवऽ इति यदभिप्रायवतोक्तं तम् आदर्शयति -- न, तत्रैव इत्यादि | एतद् एव व्याचष्टे -- तस्यैव इत्यादि | [S. ९५अ.] अयम् अभिप्रायः -- `इदम् अत्र समर्थम्, इदम् असमर्थम्ऽ इति प्रत्यक्षानुपलम्भसाधनाभ्याम् अन्वयव्यतिरेकाभ्यां व्यवह्रियते, अन्यनिमित्ताभावात् | तौ चान्वयव्यतिरेकाव् एकत्रैव कार्ये दृश्येते नापरापरत्रेति तस्यैवैकस्य जनने समर्था गम्यन्त इति नापरापरजननम् | ते तु यदवस्था जनयन्तो दृश्यन्ते -- किं तज्जननस्वभावास् तदैव? आहोस्वित् प्राग् अपि? इत्य् अत्र विवादः | तत्र प्राग् अपि तत्स्वभावत्वे पश्चाद् इव प्राग् अपि जननप्रसङ्ग इति प्रतिक्षणं भेद उच्यत इति |
SK
__________NOTES__________
SK
[३६७] `निवर्तेरन्ऽ इत्य् एतद् व्याख्याति [३६८] क्रियारूपस्य [३६९] व्यापारवति कारणे [३७०] व्यापृतस्य [३७१] घटादेः [३७२] अङ्कुर- [३७३] अङ्कुरजनन- [३७४] बीजा- [३७५] व्यापारोत्पाद- [३७६] बीजादौ [३७७] एव स्वसंनिधिमात्राद् एव का- -- T. [३७८] अपरजन्मसद्भावे [३७९] कार्येण [३८०] कार्यसम्बन्धिनः [३८१] कार्यजन्मनि [३८२] अव्यक्तेन [३८३] अव्यक्ताद् अव्यक्तम् एव रूपं जातं यतः [३८४] अव्यक्तरूपाद् व्यक्तरूपं भिन्नम् एव [३८५] कार्यस्य [३८६] कार्य- [३८७] कार्य- [३८८] तदन्यतर- [३८९] कार्यदेशे [३९०] अपरसन्निधानाभावे [३९१] कुतः [३९२] नोपालम्भम् अर्हन्ति
SK
[ सेच्तिओन्: २१. कारणभेदात् कार्यभेदं स्वीकुर्वद्भिः क्षपणकजैमिनीयैर् अनेकान्तस्योद्भावनम् |]
SK
पुनर् अन्यथाक्षपणकजैमिनीयाअनेकान्तम् उद्भावयन्त [T. २७०अ.] आहुः -- भिन्नः परस्परव्यावृत्तः स्वभावो येषां तेभ्यश् चक्षुरादिभ्यः सहकारिभ्यः युगपत्कर्तृभ्यः एकस्य विज्ञानलक्षणस्य कार्यस्योत्पत्तौ सत्याम्, बहूनि भिन्नस्वभावानि कारणानि कार्यं त्व् एकम् अभिन्नस्वभावम् इति न कारणभेदात् कार्यभेदःस्यात् | ततश् चक्षुरादयो न भिन्नेनात्मनैकस्य कार्यस्य जनका एष्टव्याः | किन्त्व् अभिन्नम् एषाम् एककार्यजनकं सामान्यभूतं रूपम् उपेयं येनाभिन्नं कार्यं जनयन्ति | तच् च समग्रावस्थायाम् एव तत्कार्यं जनयति न व्यग्रावस्थायाम् | न चैकैकाभावे तस्याभावः, सामान्यात्मनः [S. ९५ब्.] कदाचिद् अभावविरोधात् | न च तदा ऽस्या ऽजनकस्वभावता, जनकाजनकरूपवतः समग्रेतरावस्थायोर् भेदप्रसङ्गात् | तथा च सामान्यात्मना हानिः | ततो यद् अस्य समग्रेषु चक्षुरादिषु जनकं रूपं तद् एकैकाभावे ऽपि विद्यते न च जनयतीति `तत्स्वभावस्य जननात्ऽ इत्य् अनेकान्त इति |
SK
[ सेच्तिओन्: २२. सिद्धान्तवादिना दूषणोद्धारः |]
SK
सिद्धान्तवाद्य् आह -- न, यथास्वम् इत्यादि | एवं मन्यते -- किं पुनर् इदं कारणम् अभिमतं भवतः? | यदि प्रत्येकं चक्षुरादिकम्; {प्. ९३.१} तद् अयुक्तम् | सामग्रीजन्यस्वभावत्वात् कार्यस्य, तस्या एव कारणत्वात् | ननु तदवस्थायां प्रत्येकम् एव सामग्रीशब्दवाच्यानां जननस्वभावत्वाभ्युपगमात् प्रत्येकम् एव चक्षुरादिकं कारणम् | [T. २७०ब्.] यद्य् एवं को ऽयं नियमो यदनेकस्माद् भवता ऽनेकेन भवितव्यम् विपर्यये बाधकप्रमाणाभावात्, एकेनैव तत् कार्यं करोतीति कुतो ऽवसितम्? | तद्भावे भावात् इति चेत् | अनेकत्रापि समानम् एतत् | तद् उक्तम् -- तस्यैवैकस्य जनने समर्थाःनान्यस्य इति नापरापरजननम् इति | न चानेकस्माद् भवद् अनेकं प्राप्नोति | यतो नास्माकं भवताम् इव कारणम् एव [S. ९६अ.] कार्यात्मताम् उपैति, यतो ऽनेकपरिणतेर् अनेकरूपत्वात् कार्यस्यानेकता स्यात् | किन्तु अपूर्वम् एव केषुचित् सत्सु भवति | तच् चानेकभाव एव भावात् तत्कार्यम् उच्यते तस्य कुतो ऽनेकताप्रसङ्गः? | यत् त्व् अभिन्नं रूपं जनकम् उच्यते तस्यैकस्थिताव् अपि भावात् तत्कार्यजननस्वभावाच् च ततः कार्यप्रसवप्रसङ्गः, तदन्यसन्निधौ तस्य विशेषाभावात् तदापि वा न जनयेत् | तस्माद् येषु भावाभाववत्सु कार्यं भावाभाववद् दृश्टं त एव विशेषा जनका इति कुतो ऽनेकान्तः? | अथ सामग्रीं कारणम् आश्रित्योच्यते `न कारणभेदात् कार्यभेदः स्याद् इतिऽ, {१}तन् न, {२}यथास्वं यस्याः सामग्र्याः य आत्मीयः स्वभावस् तद्भेदेन तद्विशेषोपयोगतः तस्य -- विज्ञानलक्षणस्य कार्यस्य, विशेषाः -- सामग्रीभेदाद् भिन्नाः स्वभावाः, तेषूपयोगतः [T. २७१अ.] तदुपयोगैः भिन्नसामग्रीव्यापारैः कार्याः ये स्वभावविशेषाः -- कार्याणां विशिष्टाः स्वभावाः [S. ९६ब्.] तेषाम् असङ्करात् परस् परव्यावृत्तरूपत्वात् | सामग्रीभेदाद् भिन्नरूपतैव कार्याणाम् इति कथन् न कारणभेदाद् कार्यभेदः स्यात्? | तथा हि -- एका सामग्री मनस्कारतत्[३९३]साद्गुण्यादिलक्षणा[३९४], ततो विकल्पविज्ञानमात्रं[३९५]जायते; अपरा मनस्कारेन्द्रियमात्रलक्षणा, ततो भ्रान्तेन्द्रियविज्ञानसम्भवः[३९६]; तदन्या विषयेन्द्रियमनस्कारात्मिका, ततो ऽप्य् अभ्रान्तविज्ञानसम्भूतिर् इति भिन्नसामग्रीजन्मनां {प्. ९४.१} कार्यस्वभावविशेषाणाम् असाङ्कर्याद् अस्त्य् एव सामग्रीलक्षणकारणभेदात् कार्याणां भेद इति | ननु यदा विषयेन्द्रियमनस्कारेभ्यो विज्ञानसम्भवः तदा तेषाम् उपयोगविषयस्यैकत्वात् कथम् असाङ्कर्यम्? | तथाविधस्य साङ्कर्यस्येष्टत्वात् अदोषः | तदुक्तम् -- तत्रैवैकत्र सामर्थ्यात् इत्यादि | कथं तर्हि तेषां तज्जनकत्वम्?, यदि तद्भेदात् [S. ९७अ.] न भिद्यते कार्यम् | किं नु वै समग्राणाम् अन्यान्यकार्यजननेन जनकत्वम् यतस् तद्भावे तन् न स्यात् | जनकत्वं ह्य् एषां तद्भाव एव कस्यचिद् भावात् | तत्रैकस्यानेकस्य वा भावे तेषाम् एकानेकजनकत्वम् उच्यते |
SK
__________NOTES__________
SK
[३९३] चारुत्वम् [३९४] देशकालादयः [३९५] अर्थाभावे ऽप्य् आन्तरो विकल्पः [३९६] मरुमरीचिकासु जलज्ञानम्
SK
[ सेच्तिओन्: २३. एकसामग्रीजन्येष्व् अपि कार्येषु भेदोपपादनम् |]
SK
नन्व् एकस्याः सामग्र्या अनेकस्य भावे सामग्र्यन्तरजन्येभ्यो भवतु भेदः, परस्परतस् तु कथम्? | [T. २७१ब्.] तदतद्रूपहेतुजत्वाद् धि भावास् तदतद्रूपणि इष्यन्ते | तत्र यदा चक्षूरूपमनस्कारेभ्यो विज्ञानजन्म तदा चक्षूरूपक्षणयोर् अपि भावाद् विज्ञानेनाभिन्नहेतुजत्वात् तयोर् विज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत? | आह च -- तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः| तद्रूपादि[३९७] किम् अज्ञानंविज्ञानाभिन्नहेतुजम् || [PV २.२५१] इति | नैष दोषः | तेषां यथास्वं स्वभावभेदेन निमित्तोपादानतया तदुपयोगात् | मनस्कारो हि विज्ञानस्योपादानकारणम् | चक्षुषस् तु स्वविज्ञानजननयोग्यस्य जन्मनि सहकारिकारणम् | एवम् इतरत्रापि यथायोगम् वाच्यम् | ततो ऽन्यादृशी सामग्री चक्षुःक्षणस्य जनिका, अन्यादृशी च विज्ञानदेर् इति तद्वैलक्षण्याद् एव [S. ९७ब्.] कार्याणां वैलक्षण्यम् | स्याद् एतत् -- सर्वेषां अन्वयव्यतिरेकाव् अनुविधीयेते तदा चक्षुरादिक्षणैर् इति कुतो ऽयं भेदः -- इहोपादानभावे भेद(-भावेनेद)म् उपयुज्यते, अन्यत्र तु सहकारिभावेनेति? | बोधरूपतादेर्[३९८]{प्. ९५.१} अनुकाराननुकाराभ्यां तद्भावे[३९९]व्यभिचाराव्यभिचारतश् च | तथा हि -- विज्ञानं मनस्कारस्य बोधरूपताम् अनुकरोति, न चक्षुरादेर् जरा(डा)दिभावम् | एवम् अन्यद् अपि प्रत्येयम् | नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः | चक्षुःक्षणान्तरोदये[४००]च पूर्वभाविनश् चक्षुषो[४०१]न स्वविज्ञानयोग्यताहेतोः [T. २७२अ.] समनन्तरप्रत्ययस्य | एवंरूपस्यापि वाच्यम् | तस्माद् अवस्थाभेदे ऽपि यद् एकाकारपरामर्ष(श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तद् उपादान-कारणं | यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिबन्धनं तत् सहकारिकारणम् | स चेयं भावानां स्वहेतुपरम्परायाता प्रकृतिर् यया किञ्चित् कार्यं स्वसन्तानव्यवस्थानिबन्धनं जनयन्त्य् अपरं च सन्तानान्तरव्यपदेशनिबन्धनम् इति तस्या एव सामग्र्या अवान्तरविशेषकृतत्वाच् चक्षूरूपविज्ञानक्षणानां परस्परतो [S. ९८अ.] वैलक्षण्यं न विरुध्यते |
SK
__________NOTES__________
SK
[३९७] तत्सुखादि -- PV [३९८] उत्तरम् आह [३९९] कार्यभावे [४००] -क्षणानन्तरोदये -- T. [४०१] नियमेन व्यापार इति सम्बन्धः
SK
[ सेच्तिओन्: २४. कारणानेकत्वे ऽपि कार्यस्यैकत्वं सामग्रीभेदे च कार्यभेदः |]
SK
तस्माद् यदि `कारणभेदात्ऽ कारणानेकत्वात् कार्यस्य भेदः अनेकत्वं तदा प्रतिबन्धाभावाद् अनेकान्तः | न च तदभ्युपगम्यत इति न काचित् क्षतिः | अथ सामग्रीलक्षणस्य कारणस्य भेदः सामग्र्यन्तराद् वैलक्षण्यं कार्यस्यापि भेदो ऽतत्कारणेभ्यो भिन्नस्वभावतोच्यते | तदा[४०२]तस्येह[४०३]भावात् कथं न कारणभेदात् कार्यभेदः स्यात्? इति अभिप्रायवता `नऽ[४०४]कारणभेदात् कार्यभेदो न स्यात् | कुतः? | यथास्वम् इत्य् आद्य् अभिहितम् | उभयं[४०५]चैतत् कार्येषु प्रमाणपरिदृष्टम् इति दर्शयन्न् आह -- यथा इत्यादि | मृत्पिण्डादिभ्यो हि भवतो घटस्य न कारणानेकत्वे ऽप्य् अनेकरूपता | नाऽपि सामग्र्यन्तरजन्याद् अभिन्नस्वभावतेत्य् उदाहरणार्थः | तत्र [T. २७२ब्.] सामग्र्यन्तरजन्यात् तावद् भेदं दर्शयति -- मृत्पिण्डात् इत्यादि | इह मृत्पिण्डकुलालसूत्राणि {प्. ९६.१} व्यग्रस्वभावानि कारणान्तरसहितानि इष्टकादिलक्षणानि तदन्यजन्येभ्यो भिन्नस्वभावानि [S. ९८ब्.] यानि कार्याणि साधयन्ति तेभ्यो विलक्षणम् एव समग्राणि घटात्मकं कार्यं जनयन्ति | तथा हि -- कुलालादिनिरपेक्षो मृत्पिण्डः तदन्यजन्याद् वृक्षादेर् विलक्षणम् एवोपादानभावेन मृदात्मकं कार्यं जनयन् दृष्टः | कुलालादिसहितो ऽपि तदात्मकम् एव घटम् | तत्कारणाहितविशेषश् च केवलमृत्पिण्डाद् भिन्नस्वभावतया तत्कार्याद् अपीष्टकादेर् विलक्षणम् एव करोति | एवं कुलालादिकम् अपि तदन्योपादानसहितं सहकारिभावेन यत्कार्यम् करोति तद्विलक्षणम् एव मृत्पिण्डसहितं तत्कारनाहितविशेषं घटात्मकं कार्यं जनयतीति समुदायार्थः | तत्र मृत्पिण्डाद् भिन्नः स्वभावो घटस्य ये तदन्योपादानकारणतया मृत्स्वभावा न भवन्ति वृक्षादयस् तेभ्यो भवति | कुलालात् मृत्पिण्डोपादानाहितातिशयात् सहकारिभावेनोपयुज्यमानात् तस्यैव घटस्य मृत्पिण्डोपादानतया मृदात्मनः सतः संस्थानविशेषः पृथुबुध्नोदराद्याकारः तदात्मतया तदन्येभ्यो येषां मृत्पिण्डस् तदन्यनिमित्तसहित [S. ९९अ.] उपादानम् इष्टकादीनां तेभ्यो भिन्नः स्वभावो भवति | सूत्रात् मृत्पिण्डकुलालकारणाहितविशेषात् [T. २७३अ.] तस्यैव घटस्य मृत्संस्थानविशेषात्मनो मृत्पिण्डकुलालयोस् तज्जननस्वभावत्वात् घटस्य तद्रूपयोगात् तयोश्च[४०६]सूत्रकारणोपहितविशेषयोस् तन्निरपेक्षावस्थातो भिन्नात्मकतया चक्रादेर् विभक्तो विच्छिन्नः स्वभावो भवति तस्माद् अनु[क्रा]न्तकारणत्रयजन्यो घटः तदन्यस्माद् एकैककार्याद् द्विद्विकार्याच् च भिन्नस्वभाव एव जायत इति सामग्रीभेदाद् भिन्नान्येव कार्याणि परस्परम् असङ्कीर्णस्वभावानि भवन्तीति तदुपयोगकार्यविशेषासङ्करः[४०७]सिद्धः | तस्य[४०८]चैकैकतदवस्थाभाविकारणभेदान्वयव्यतिरेकानुविधायितया खण्डशो ऽनुत्पादाच् च | तदेकैकजन्यत्वे ऽपि[४०९]वस्तुतस् तदेकैकसजातीयकारणान्तरसन्निधावदृष्टस्य विशेषस्येतरसन्निधौ तद्दर्शनात् `तज्जन्यो ऽयम्ऽ[४१०]इति तत्त्वचिन्तकैर् विवेच्यते | यतः[४११]{प्. ९७.१} कार्यविशेषार्थिनो ऽनेककारणपरिग्रहं कुर्वन्ति परस्पराहितोपकारकार्यपरम्परया वाञ्छितकार्यजननयोग्यकारणसामग्रीभावार्थम् | यत [S. ९९ब्.] एवं सामग्रीभेदाद् भिन्नान्येवेष्टकाचक्राविभक्तघट तद्विभक्तघटलक्षणानि कार्याणि भवन्ति तत् तस्मात् एवम् उक्तेन प्रकारेण कुलालात् मृत्पिण्डरहिताद् अन्यसामग्र्यन्तर्भूतात् न मृत्स्वभावता कस्यचित् कार्यस्य, मृत्पिण्डकारणोपकृतात्मन एव तस्य तद्विशेषहेतुत्वात् | न मृदः केवलायाः, तत्सामग्रीबहिर्भूतायाः संस्थान[T. २७३ब्.]विशेषः कुलालोपादानोपकृतताया एव मृत्संस्थानविशेषात्मककार्यहेतुत्वात् |
SK
__________NOTES__________
SK
[४०२] वैलक्षण्यस्य [४०३] सामग्र्याम् [४०४] न इति सूत्रांशस्य व्याख्या `कारणऽ इत्यादि [४०५] कारणानेकत्वे कार्यस्यैकत्वम्, सामग्रीवैलक्षण्यात् कार्यवैलक्षण्यं च [४०६] मृत्पिण्डकुलालयोः [४०७] तेषां कारणानाम् उपयोगैः व्यापारैः कार्या ये स्वभावविशेषः तेषाम् [४०८] घटस्य [४०९] `तज्जन्यो ऽयम्ऽ इति तत्त्वचिन्तकैर् विवेच्यत इति सम्बन्धः [४१०] मृदादि- [४११] विवेकात्
SK
[ सेच्तिओन्: २५. सहकार्यनेकत्वे ऽपि कार्यस्य ऐक्यम् |]
SK
तद् एवं सामग्रीभेदाद् भेदं कारस्योदाहरणे प्रतिपाद्य सहकारिणाम् अनेकत्वे ऽप्य् अनेकात्मताविरहं प्रतिपादयन्न् आह -- न च तयोः मृत्कुलालयोः सहितयोः परस्परोपादानोपकृतात्मनोः यः शक्तिविशेषः प्रत्ययान्तरसहितावस्थातो विशिष्टा योग्यता तद्विषयस्य[४१२]तदन्यावस्थाविषयाद् भेदे सत्य् अपि यथा तदन्यस्माद् भेदः, एवं {१}स्वभावेन न भेदः | {२}स्वरूपतो ऽपि न नानात्वं नानेकात्मकता कार्यस्य | ताभ्यां जनितो यो विशेषो मृत्संस्थानविशेषात्मकः स एव तदन्यसामग्रीजन्याद् भिद्यत इति भेदो अस्य | कथं पुनर् एत[द्] ज्ञायते `तदन्यस्माद् इव [S. १००अ.] स्वभावतो ऽप्य् अस्य भेदो नास्तिऽ इत्य् अत आह -- मृत्संस्थानयोः इत्यादि | यदि हि मृत्कुलालयोः तदवस्थाभाविनोः शक्तिविशेषविषयो मृत्संस्थानविशेषात्मको भेदस् तदन्यस्माद् इव स्वरूपतो भिद्येत तदा मृत्संस्थानयोर् अपरस्परात्मतया परस्परात्मताविरहेण कारणेन संस्थानविशेषेण मृत् न प्रतिभासेत, न मृत्स्वभावेन च संस्थानविशेषः, यथा तदन्यरूपेण | न[४१३]हि यो यस्य स्वभावो न भवति स तेनात्मना स्वग्राहिणि ज्ञाने प्रतिभासते, रूपरसवत्; ज्ञानं वा तद्रूपविकलार्थसामर्थ्येनोत्पद्यमानं तद्रूपम् अनुकर्तुं युक्तम्, {प्. ९८.१} भ्रान्तताप्रसङ्गेन तद्वशाद् अर्थव्यवस्थानाभावप्रसक्तेः | तस्मात् मृत्संस्थानयोर् एकात्मतैवेति [T. २७४अ.] न कारणानेकत्वात् कार्यस्यानेकात्मकता ऐकान्तिकी, यतो भिन्नस्वभावेभ्यश् चक्षुरादिभ्यः सहकारिभ्यः एककार्योत्पत्तिविरोधाद् एकरूपतया तेषां साधारणैककार्यक्रिया, भिन्नरूपतया वा साधारणकार्यकरणम् इयेत | [S. १००ब्.] एतच् चैकसामग्र्यपेक्षयैककार्यकर्तृत्वम् उच्यते | परमार्थतस् तु तत्सामग्र्यन्तर्ग्गतानां सजातीयस्या ऽपि क्षणान्तरस्यारम्भात् सामग्र्यन्तरावयवत्वेन च कार्यान्तरस्यापि यथा एकप्रत्ययजनितं किञ्चिद् एकं नास्ति तथा ऽनेकप्रत्ययजनितम् अपीति कारणानेकत्वात् कार्यानेकत्वोपगमे ऽपि न काचित् क्षतिः | तत एककार्यापेक्षया ऽनेकत्वप्रसञ्जने सन्दिग्धव्यतिरेकता, सामान्येन साधने सिद्धसाध्यतेति च |
SK
__________NOTES__________
SK
[४१२] शक्तिविशेषविषयस्य [४१३] व्यतिरेकी
SK
[ सेच्तिओन्: २६. अह्रीकादिसंमतस्य द्रव्यपर्याययोः भेदाभेदपक्षस्य निरासः |]
SK
ननु च मृत्संस्थानविशेषयोर् एकस्वभावत्वे ऽप्यह्रीकादिभिः सङ्ख्यादिभेदाद् भेद इष्यते तत् कथम् अनेकप्रत्ययजनितस्यैकत्वे एतद् उदाहरनाम् स्यात्? | सर्वत्रैव हि द्रव्यपर्याययोः सङ्ख्यासंज्ञालक्षणकार्यभेदाद् भेदो देशकालस्वभावाभेदाच् चाभेद इष्यते, यथा घटस्य रूपादीनां च | तथा हि -- एको घटः रूपादयो बहव इति सङ्ख्याभेदः | घतः रूपादयः इति संज्ञाभेदः | अनुवृत्तिलक्षणं द्रव्यवन् नित्यं च, व्यावृत्तिलक्षणा [S. १०१अ.] भेदाः क्षणिकाश् च;जैमिनीयस्य तु [T. २७४ब्.] केचित् कालान्तरस्थायिनो ऽपीति लक्षणभेदः | घटेनोदकाहरणं क्रियते, रूपादिभिः पुनर्वस्तुराग इति कार्यभेदः | एवं सर्वत्र द्रव्यपर्याययोः सङ्ख्यादिभिर् भेदः देशादिभिस् त्व् अभेद इति मृत्संस्थानयोः कथञ्चित् भेदात् मृत्कुलालाभ्यां जनितस्य कार्यस्यानेकता ऽस्त्य् एव | यथा त्व् एकता[४१४]तथा ताभ्यां[४१५]तस्य अभिन्नात्मजन्यतैवेति यद् अनेककारणं तद् अनेकम् एव, यत् पुनर् एकं तत् सहकारिणाम् अभिन्नरूपजन्यतयैककारणम् एवेति न व्यभिचार इति | {प्. ९९.१} तद् अयुक्तम् | स्वभावतो भेदानभ्युपगमे अन्यथा[४१६]भेदासिद्धेः अनेकस्माद् एककार्योत्पत्तेर् अभाधनात् | स्वभावतो भेदोपगमे वा ऽपरस्परात्मतया मृत्संस्थानयोः संस्थानमृत्स्वभावविशेषाभ्यां तयोर् अप्रतिभासनं दुर्न्निवारम् | यदि हि स्वभावतो न भेदो धर्मधर्मिणोः, सङ्ख्यादिभेदाद् अपि नैव भेदः | न हि पररूपाः भिद्यमाना अपि सङ्ख्यादय आत्मभूतम् अभेदं बाधितुं समर्थाः | सङ्ख्याभेदस् तावद् असमर्थः, एकस्मिन्न् अपि द्रव्ये बहुत्वेन व्यवहारदर्शनात् | यथा गुरव इति | न च बहुवचनस्य नियमेनादर्शनाद् रूपादयो ऽत्र निमित्तम्, रूपादिनिमित्तत्वे हि गुरुः इति न कदाचित् एकवचनं स्यात् | [S. १०१ब्.] सम्भवि धर्मिरूपमात्रम् अभिधेयत्वेन विवक्षितम् इति चेत् | न | तस्यैकत्वेन विवक्षायां कार्त्स्न्यगौरवयोर् अप्रतीतिप्रसङ्गात् | व्रीहय इति च जातिवचने [T. २७५अ.] धर्मिणो रूपादीनां चानभिधानात् न किञ्चिद् उत्तरम् | उभयरूपस्य च वस्तुनो गुरुशब्दवाच्यत्वात् कथं सम्भविनो धर्मिरूपस्यैकत्वेन विवक्षा? | ततश् चैको गुरुर् इति सामानाधिकरण्य् अदर्शनात् पर्याया अप्य् एकसंख्याविषयाः | ते च पर्यायरूपेण भिद्यन्ते | तत् कथं संख्याभेदाद् भेदसिद्धिः? इति | संज्ञा ऽपि सङ्केतनिबन्धना | स चेच्छायत्तवृत्तिर् इति कुतस् ततो ऽर्थभेदः? | एकस्मिन्न् अपि संज्ञाभेददृष्टेः कथम् अस्य भेदनिमित्तता? | यथा इन्द्रः शक्रः पुरन्दरः इति | अत्रापि इन्दनात् शकनात् दारणाच् च शक्तिभेदो गम्यत इति चेत् | न | समस्तस्य कार्यकर्तृत्वात् | न हि शक्तिर् एव इन्दति शक्नोति दारयति च | किं तर्हि? | धर्मिरूपम् अपि, तयोर् एकस्वभावोपगमात्, शक्नोत्यादिपदैस् तद्वाचिनां सामानाधिकरण्य् अदर्शनाच् च | न[४१७]चास्खलद्वूत्तिप्रत्ययविषयत्वाद् उपचारकल्पना युक्तेति | येषां च पर्यायाणां न काचिद् अर्थानुगममात्रा तत्र किं वक्तव्यम्? | लक्षणभेदो ऽप्य् अहेतुः असिद्धत्वात् | न ह्य् एको भावः क्वचिद् अप्य् अन्वयी सिद्ध इति | तथा हि -- न कूटस्थनित्यतया नित्यं {प्. १००.१} द्रव्यमह्रीकैर् इष्यते, परिणाम[S. १०२अ.]नित्यतोपगमात् | सा च पूर्वोत्तरक्षणप्रबन्धवृत्त्या | न ह्य् अस्य पर्यायाणाम् इवोच्छेदः तद्रूपेण[४१८], पर्याया [T. २७५ब्.] एव पर्यायरूपेण निरुध्यन्ते न तु द्रव्यम् इति नित्यम् अभ्युपगम्यते | न ७चेयं[४१९]कूटस्थनित्यता वा द्रव्ये सम्भवति[४२०], पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकानुपलक्षणात् | पर्यायेष्व् एव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनाम् | न पुनस् तत् ततो विलक्षणम् उपलक्ष्यते | कार्यभेदस् त्व् अस्मान् प्रति असिद्ध एव | रूपादीनाम् एव केषाञ्चित् तत्कार्यकर्तृत्वात्[४२१]| तथाप्य् अभ्युपग्यम्योच्यते -- कार्यं हि द्विविधम् | भिन्नकालम् अभिन्नकालं च | तत्र पूर्वं भवति भेदनिबन्धनम् यदीह सम्भवेत् | तत् तु न सम्भवति धर्मधर्मिणोस् तुल्यकालत्वात् | अभिन्नकालस् तु कार्यभेदे ऽनैकान्तिकः, विभक्तपरिणामेषु पटादिषु सम्भवात् | पटादयो ऽपि हि विभक्तपरिणामा अनेकं कार्यं कुर्वन्तो दृष्टाः | न च धर्मिरूपेण भिद्यन्ते, एकस्यानेककियाविरोधाभावाच् च | न ह्य् अत्र कारणम् एव कार्यात्मताम् उपैति, यत एकस्य कारणात्मनः एककार्यरूपतोपगमे तदन्यरूपाभावात् तदन्यकार्यात्मतोपगतिर् न स्यात् | किन्त्व् अपूर्वम् एव कस्यचिद् भावे प्रागविद्यमानं भवत् तत्कार्यम् | तत्र विषयेन्द्रियमनस्काराणाम् इतरेतरोपादानाहितरूपभेदानां [S, १०२ब्.] सन्निधौ विशिष्टस्वेतरक्षणभावे प्रत्येकं तद्भावाभावानु[T. २७७अ.][४२२]विधानाद् अनेकक्रियोपगमो न विरुध्यते | यत एकक्रियायाम् अपि तस्य[४२३]तद्भावभावितैव निबन्धनम् | सा चानेकक्रियायाम् अपि समानेति | ननु च तत्सन्निधौ विज्ञानलक्षणकार्यसम्भवात् तज्जननस्वभावतैवैषाम् अवध्रियते, कार्यस्वभावापेक्षया कारणस्य जनकरूपतावस्थानात् | ततो विज्ञानजननस्वभावेभ्यः प्रत्येकं कतं {प्. १०१.१} तदन्यकार्यसम्भवः? | तद्भावे वा तेषां तदन्यजननस्वभावता स्यात् | ततश् च विज्ञानम् एव न कुर्युः, तदन्यजननस्वभावत्वात् | नैष दोषः, तेषाम् अनेककार्यक्रियास्वभावत्वात् | तथा हि -- ते तदवस्थायां प्रत्येकं विशिष्टसजातीयेतरक्षाणजननात्मकाः, तेषां तत्सत्तानन्तर्यदर्शनात् | तत्र विज्ञानजननस्वभावतैवेति तस्याजननस्वभावता व्यवच्छिद्यते तस्या एव प्रतियोगित्वात् नान्यजननस्वभवता | न चातस् तेषाम् अनेकात्मता स्यात्, एकस्यैवात्मातिशयस्यानेककार्यहेतुत्वात् | न हि तदन्यापेक्षया विपर्ययव्यावृत्तिम् उपादायानेकेन शब्देनाभिधीयमानं वस्तु अनेकरूपतां प्रतिपद्यते, प्रतिविशिष्टस्यैकस्यैवात्मनस् तथाभिधानात् | यथा [S. १०३अ.] रूपं सनिदर्शनं सप्रतिघम् इति | न ह्य् अत्र स्वभावभेदनिबन्धना ध्वनयः, सामानाधिकरण्याभावप्रसङ्गात् | तन्निमित्तानाम्[४२४]एकत्र[४२५]भावात् अदोष इति चेत् | न | तेषां[४२६]तदेकोपकारानपेक्षिणां तदयोगात्[४२७]| अपेक्षायां वा कथम् एकम् अनेक[T. २७७ब्.]कार्यं न स्यात्? | अनेकेनैवात्मनोपयोगात् इति चेत् | न | सामानाधिकरण्याभावदोषस्य तादवस्थ्यप्रसङ्गात् | न च नीलादीनाम् आत्मभेदम् अध्यक्षम् ईक्षामहे[४२८]| नापि कार्यभेदाद् एवात्मभेदानुमानम्, प्रतिबन्दाभावात्, तद्ग्राहकप्रमाणाभावात् | प्रत्यक्षतो ऽनेककार्याणाम् अपि भावानाम् एकात्मतयैवोपलक्षणात् प्रदीपादीनाम् | नानुमानतः[४२९], तत्रापि विपर्यये बाधकप्रमाणाभावात् | एकस्यानेकक्रिया ऽनभ्युपगमे च यो ऽयं रूपरसगन्धस्पर्शविशेषाणां क्वचित् सहभावनियमः प्रमाणपरिदृष्टः स न स्यात् | भिन्ननिमित्तानां सहभावनियमायोगात् | तन्निमित्तानाम्[४३०]अपि तदेककारणानायत्तजन्मनां [S. १०३ब्.] नियतसाहित्यासम्भवात् | तदेकधर्मिस्वभावतयैकत्र सहभावनियम इति चेत् | न | एकस्यानेकस्वभावताया एव चिन्त्यत्वात् | अनेकेनैकस्वभावतां चानुभवतः तद्वद्[४३१]अनेकताया दुर्निवारत्वात् अन्यथा धर्मधर्मिणां कथं {प्. १०२.१} नैकान्तिको भेदः? | तथा हि -- यम् आत्मानं पुरोधाया ऽयं धर्मी पर्यायाश् चैते इति व्यवस्थाप्यते, यदि तस्य भेदस् तदा भेद एवेति | अनेकस्याप्य्[४३२]एककार्यता न स्यात्[४३३]| न हि परस्परोपादानकृतोपकारानपेक्षा विषयेन्द्रियमनस्काराः सहैककार्यारम्भिणो युक्ताः | न चैकम् एव किञ्चित् क्वचित् जनयति | ततश् च सर्वत्र कार्यकारणभाव एवोत्सीदेत्, अनेकस्यैकस्य[४३४]चैकानेकक्रियाविरहात् प्रकारान्तराभावाच् च | नाप्य् अहेतुकम् एव विष्वम्, [T. २७६अ.] देशकालप्रकृतिनियमात्[४३५]| तस्माद् एकसामग्र्यधीनजन्मनामेव सहभावनियमो भावानाम् एककार्यक्रियानियमो वा | ततश् च स्वसन्तानक्षणम् इतरोपादानं[४३६]च युगपद् उपकुर्वतः कथम् एकस्यानेककार्यता न स्यात्? | ततः कथं कार्यभेदाद् भेदः कल्प्येत? | द्रव्यपर्यायाणां चैकस्वभावताम् आचक्षाण [S. १०४अ.] एकस्यानेककार्यतां प्रतिक्षिपतीति कथं नोन्मत्तः[४३७]?, स्वभावस्यैव[४३८]वस्तुत्वात्, अन्यथा तस्य निःस्वभावताप्रसङ्गात् | एकस्वभावत्वे च द्रव्यपर्यायाणां तत्कार्यभेद[४३९]एकवस्तुनिबन्धन एवेति कार्यभेदाद् भेदम् अभिदधानः स्फुटम् अह्रीक एवायम् इत्य् उपेक्षाम् अर्हति |
SK
__________NOTES__________
SK
[४१४] मृत्संस्थानयोर् देशादिभिः [४१५] मृत्कुलालाभ्याम् [४१६] संख्यादिभिः [४१७] शक्त्योर् भेदे ऽपि तदाधारस्यैक्याद् औपचारिकं सामानाधिकरण्यम् इत्य् आशङ्क्याह -- न च इत्यादि ||
SK
[४१८] द्रव्यरूपेण [४१९] परिणामनित्यता [४२०] -यं परिणामिनित्यता कूटस्थनित्यतावत् सम्भ- -- T. [४२१] द्रव्यकार्यकर्तृत्वात् [४२२] Tहे ओर्देर् ओf थे Tइब्. Fओल्. स्होउल्द् बे २७५, २७७, २७६ अन्द् २७८ अच्चोर्दिन्ग् तो थे S. Mस्स्. [४२३] द्रव्यस्य [४२४] शब्द- [४२५] अवयविनि [४२६] निमित्तानाम् [४२७] एकत्र समवायायोगात् [४२८] यथा भवति [४२९] कार्यभेदस्यात्मभेदे प्रतिबन्ध इत्य् अपेक्ष्यते [४३०] रूपादिपाश्चात्यक्षणानाम् [४३१] रूपादिवत् [४३२] प्रकृते दूषणान्तरम् आह [४३३] एकस्यानेकक्रिया ऽनभ्युपगमे चेति पूर्वेण योगः [४३४] प्रत्येकम् एकानेकक्रियाविरहः [४३५] -कृतिप्रतिनिय- -- T. [४३६] इतर उपादानं यस्य [४३७] नोत्पन्नः -- T. [४३८] स्वभावस्यैव भेदो वस्तुन इति चेद् आह [४३९] द्रव्यपर्यायकार्यभेदः
SK
[ सेच्तिओन्: २७. वैशेषिककृतो ऽप्य् एकस्यानेककार्यकारित्वाक्षेपो न युक्तः |]
SK
वैशेषिको ऽपि द्रव्यस्यैकस्य द्रव्यगुणकर्मणां समवायिकारणतां ब्रुवाणः कर्मणश् चैकस्य संयोगविभागसंस्कारनिमित्तताम्[४४०]एकस्यानेककार्यक्रियां प्रतिक्षिपन् स्वकृतान्तकोपेनैव प्रतिहतः | न चात्र शक्तिभेदो निबन्धनम्, यतस् तदेकोपकारनिरपेक्षाः कथम् एताः शक्तयो नियतार्थाधाराः?, न पुनर् अनवयवेन[४४१]व्यक्तीर् वा ऽश्नुवीरन्? | ततो यत[४४२]एवास्या[४४३]ऽऽत्मातिशायाद् अनेकशक्त्युपकार {प्.१०३.१} तत एवानेककार्यक्रिया ऽपि, इत्य् अलम् अतिविस्तारिण्या कथयेति |
SK
__________NOTES__________
SK
[४४०] -गविशेषसं- -- T. [४४१] कार्त्स्न्येन [४४२] एकस्या- -- T. [४४३] द्रव्यस्य
SK
[ सेच्तिओन्: २८. देशकालस्वभावाभेदस्याभेदसाधकत्वनिरासः |]
SK
देशकालस्वभावाभेदाद् अभेदस् तु यो ऽभ्युपगम्यते सो ऽप्य् अनुपपन्न एव | तथा हि -- देशकालयोर् अभेदे ऽपि रूपरसगन्धस्पर्शाः पर्यायरूपेण भिद्यन्ते ततः[४४४]कथम् अभेदसिद्धिः? | स्वभावो ऽपि यदि द्रव्यपर्याययोर् द्वयोर् अपि प्रत्येकम् अनुवृत्तिव्यावृत्तिरूपता; तदा पदार्थद्वयं [T. २७६ब्.] [S. १०४ब्.] स्याद् घटपटवद्, न त्व् एकं द्विरूपम् इति कथन् तस्माद् अभेदसिद्धिः? | न चानुवृत्तिव्यावृत्ती स्वभावो युक्तः, तयोर् अनुवर्त्तमानव्यावर्त्तमानाधीनत्वात् | ततश् चानुवर्त्तमानव्यावर्त्तमानयोः स्वभावो ऽन्यो वक्तव्यः, न तु तयोर् अनुवृत्तिव्यावृत्ती एव स्वभावः, भावत्वेन[४४५]भवित्रधीनत्वात् | न हि स्मृतिः स्मर्त्तुः स्वभावो भवति | अनुवृत्तिव्यावृत्त्योश् च स्वभावत्वे[४४६]लक्षणात् स्वभावस्य भेदो वक्तव्यः | मृदादिरूपता स्वभाव इति चेत् | अत्राप्य् अभेद इति यदि सादृश्यम् उच्यते; तद् भेद एव सम्भवति, सादृश्यस्य सदृशाधिकरणत्वात् | ततश् च पदार्थद्वयम् एव स्यात् न त्व् एकं द्विरूपम् इति | अथैक्यं द्वितीयरूपरहितता ऽभेदो ऽङ्गीक्रियते कथं तर्हि द्विरूपता? | रूपशब्देन ह्य् अत्र स्वभावो ऽभिधीयते | तस्य चैक्ये कथं द्विरूपता? | विप्रतिषिद्धं ह्य् एतत् एकस्वभावता द्विरूपता चेति | अथ पुनः स्वभावत ऐक्यं नोपेयते | कथं तर्हि स एक इत्य् उच्यते अनेकः सन्? | न तावद् एककारणजन्यत्वात्, सर्वत्रोपादाननिमित्तकारणभेदेन हेतुभेदसिद्धेः | नाप्य् एककार्यकर्तृत्वात्, एकस्यापि विभक्तपरिणामाविभक्तपरिणामकार्यभेदा ऽभ्युपगमात् | एकाभिधानाभिधेयत्वाद् अपि नैकत्वम्, एकस्याप्य् अनेकपर्यायसम्भवात् | योग्यत्वाच् च विश्वस्य कृताकृतानाम्[४४७]एकाभिधानाभिधेयत्वस्य क्वचिद् असम्भवात् शक्तिभेदाच् च विषयभेदं ब्रुवाणं [S. १०५अ.] प्रति अभिहितम्[४४८]| नाप्य् एकविज्ञानविषयत्वाद् एकम्, एकत्राप्य् अनेकविज्ञानप्रसूतेः | तथा हि -- शशाङ्कोदयं[४४९]बहवो निरीक्षन्ते [T. २७८अ.] तस्य कथम् {प्. १०४.१} एकत्वम् अभ्युपगतम्? | बहूनां चैकविज्ञानविषयत्वसम्भवात् नीलपीतादीनाम् एकताप्रसङ्गः | सर्वथेदं न कथञ्चिद् अपि सङ्गच्छते यदुत एकस्य द्वैरूप्यम् इति | विज्ञानं तु नीलप्रतिच्छायतयोत्पद्यमानं पीतादिप्रतिभासव्यवच्छेदेन प्रतिविशिष्टम् ख्याप्यते, न पुनर् अस्य भावतो[४५०]द्वे रूपे स्तः | अथ पुनर् द्रव्यपर्याययोः सम्मूर्च्छितत्वात् नरसिंहवद् एकं शबलरूपत्वात् द्विरूपम् उच्यते | तद् अयुक्तम्, नरसिंघ[ह]स्य शबलरूपत्वासिद्धेः | स ह्य् अनेकपरमाणुसङ्घातरूपः, ते च परमाणवः प्रत्येकं नरसिंहरूपा न भवन्ति, ऊर्ध्वभागस् तस्य सिंहरूपः, अघोभागस् तु नररूपः, जात्यन्तरं च स एव नरसिंहाभ्यां स्यात्, न शबलरूपः | विचित्रं हि रूपं शबलम् उच्यते | [S. १०५ब्.] विचित्रता च नानास्वभावता | नानास्वाभाव्ये चैकत्वं कुतः? इति केवलम् अनेकत्वे ऽपि बहुष्व् एककार्यदर्शनात् सेनादिवद्[४५१]एकव्यवहारदर्शनकृतो ऽयं विपर्यासो जडमतीनाम् | तद् एवं तावत् प्रत्येकम् अहेतुत्वं देशकालस्वभावानाम् एकत्वप्रसाधने | समुदितानाम् अपि व्यभिचारित्वं पर्यायैः | तथा हि -- पर्याया अभिन्नदेशकालस्वभावाश् च पर्यायरूपेण च भिद्यन्ते पूर्वोक्ताच् च धर्मधर्मिणोर् निषेधान्[४५२]नोभयवादसम्भव इति |
SK
__________NOTES__________
SK
[४४४] देशकालाभेदात् [४४५] क्रियात्वेन [४४६] -त्वेन ल- -- T. [४४७] संकेतितासंकेतितानाम् [४४८] संज्ञाभेदाद् भेद इत्य् अस्य दूषणावसरे [४४९] शशाङ्कादयः -- T. [४५०] भवतो -- T. [४५१] सेनावनादि- -- T. [४५२] स्वभावहेतुव्याख्यायाम्
SK
[ सेच्तिओन्: २९. द्रव्यपर्यायानेकान्तवादखण्डनम् |]
SK
आह च - द्रव्यपर्यायरूपत्वात् द्वैरूप्यंवस्तुनःकिल |
SK
तयोर् एकात्मकत्वे ऽपि भेदःसंज्ञादिभेदतः
SK
इन्द्रियज्ञाननिर्भासि वस्तुरूपंहि गोचरः|
SK
शब्दानांनैव, तत् केन संज्ञाभेदाद् विभिन्नता
SK
`परमार्थैकतानत्वऽ[४५३] [T. २७८ब्.] इत्यादिवचनात् तथा|
SK
शब्देनाव्यापृताक्षस्य बुद्धाव्[४५४] अप्रतिभासनात्
SK
अर्थस्य, दृष्टाव् इव तच्छब्दाःकल्पितगोचराः|
SK
कल्पितस्यैव तद्भेदः[४५५] संज्ञाभेदाद् भवेद् यदि
SK
{प्.१०४.१} व्यावृत्तिभेदःकाश्चित्[४५६] स्याद्, वस्तुनो न कथंचन[S. १०६अ.] |
SK
संख्याभेदो ऽपि नैवान्यो मतो वचनभेदतः
SK
ततो[४५७]ऽपि कल्पितस्यैव कथञ्चित् स्याद् विभिन्नता|
SK
`येषां[४५८] वस्तुवशावाचऽ[PV ३.६४] इत्यादेर् न तु वस्तुनः[४५९] || ६ || भेद एव विशीर्येत तदेकाव्यतिरकतः|| १९ || {प्. १०६.१}अभेदस्यापरित्यागे[४६६] भेदःस्यात् कल्पनाकृतः|
SK
तस्या[४६७]ऽवितथभावे वास्याद् अभेदे मृषार्थता
SK
अन्योन्याभावरूपाणाम् अपराभावहेतुकः|
SK
एकभावो यतस् तस्मान् नैकस्य स्याद् द्विरूपता
SK
तस्य भेदो ऽपि ताभ्यांचेद् यदि येनात्मनाच ते |
SK
धर्मीधर्मस् तदन्यश्च यदि भेदस् तदात्मना
SK
भेद एवाथ तत्रापि तेभ्यो ऽन्यःपरिकल्प्यते |
SK
तेषाम् अभेदसिद्ध्यर्थंप्रसङ्गःपूर्ववद् भवेत्
SK
धर्मित्वंतस्य चैवंस्यात् तत्तन्त्रत्वात् तदन्ययोः|
SK
अत्रवैशेषिकमतम् आशङ्क्याह -- अन्यद् एव इत्यादि | संस्थानं ह्य् अवयवसन्निवेश उच्यते | स च संयोगलक्षणत्वाद् गुणरूपः | ततो मृद्द्रव्याद् अस्यान्यत्वं [S. १०८अ.] १द्रव्यगुणयोर् असंकीर्णस्वभावत्वात्[४७३]| तेन यदि मृत्पिण्डस्य मृदात्मतायां व्यापारः कुलालस्य तत्संस्थानविशेषे कथ्यते, तदा तयोर् अत्यन्तभेदात् कारणानेकत्वात् कार्यानेकत्वं प्राप्तम् इति | सिद्धान्तवाद्य् आह -- उक्तम् अत्र इति | मृत्संस्थानयोः स्वभावभेदे दूषणम् उक्तम् {प्. १०८.१} मृत्संस्थानयोर् अपरस्परात्मतया इत्यादिकम् इति न संस्थानस्य मृद्द्रव्याद् अन्यत्वम् | ततो मृत्पिण्डोपादानाहितातिशयेन तत्कार्यक्षणसहकारिणा कुलालेन तदुपादानोपकृतात्मना तत्कार्यक्षणसहकारिणा मृत्पिण्डेन च प्रत्येकं सकलम् एव मृत्संस्थानात्मकं कार्यं क्रियत इति न कारणानेकत्वे ऽप्य् अनेकत्वम् अस्य | अत्रैवोपचयहेतुम् आह -- अपि च [T. २८०ब्.] इत्यादि | यत् तद् घटगतं संस्थानं यदि तत मृदो भिन्नंस्यात् तदा कुलालः पृथग् एव किम् इति न करोति? | न हि भिन्नानाम् आवश्यकम् अपृथक्करणम्, कुलालश् चान्वयव्यतिरेकाभ्यां तस्य संस्थानस्य गुणात्मनः कारणतया गम्यत इति स पृथग् अपि तत् कार्यात् | पर आह -- {१}गुणस्येतिआदि | {२}द्रव्याश्रय्यऽगुणवान् संयोगविभागेष्व् अकारणम् अनपेक्ष [VऐSऊ १.१.१६] इति गुणलक्षणात् सर्वदा [S. १०८ब्.] गुणो द्रव्यप्रतन्त्रः, स कथं कदाचित् पृथक् क्रियेत? |वैशेषिक एवबौद्धीयंचोद्यम् आशङ्क्याह -- तत्संस्थान इत्यादि | यदि स्वभावेनैव तस्य गुणात्मनः संस्थानस्य क्रियावद् गुणवद् [VऐSऊ १.१.१५] इत्यादिवचनाद् आधारस्वभावं तत् मृद्द्रव्यं, संस्थानं वा तथाविधं कपालाधेयात्मकं तदा किम् इति कुलालव्यापारम् अपेक्षते? | स्वत एव किं न भवति? इति चोदकाभिप्रयः | एवं चोद्यम् आशङ्क्यवैशेषिकःपरिहारम् आह -- न, ततः इत्यादि | यत् तत् मृद्द्रव्यं पृथुवुध्नोदराद्याकारं च संस्थानं तयोर् यः सम्बन्ध आधाराधेयलक्षणः तत्र या योग्यता तां द्वयम् अप्य् एतत् कुलालाद् यतः प्रतिलभते तस्मात् कुलालम् अपेक्षते कुलालानपेक्षायां दोषम् आह -- अन्यथा यदि तयोः परस्परसम्बन्धयोग्यतायां कुलालापेक्षा न स्यात् तदा स्वभावत एव मृत्पिण्डस्य [T. २८१अ.] तथाविधसंस्थानसम्बन्धयोग्यत्वं भवेत् | तस्मिंश् च सति वस्तुन एव तत्संस्थानसम्बन्धयोग्यतालक्षणा धर्मता ऽस्तीति कुलालसन्निधेः प्राग् अपि संस्थानविशेषेण सम्बन्धः स्याद् इतिवैशेषिकीयश्चोद्यपरिहारः |
SK
__________NOTES__________
SK
[४७३] द्रव्यसंस्थानयोर् यथाकार्यस्वभावत्वात् -- T.
SK
{प्. १०९.१}[ सेच्तिओन्: ३१. द्रव्यगुणयोर् अभेदस्योपपादनम् |]
SK
सिद्धान्तवाद्य् आह -- एवम् इत्यादि | यदि [S. १०९अ.] परस्परसम्बन्धयोग्यतायां कुलालम् अपेक्षते एवं तर्हि सायोग्यतामृद्द्रव्यस्य कुलालाद् भवति इति[४७४]आपन्नम् | न च अनयोः मृद्द्रव्ययोग्यतयोः स्वभावस्य भेदः नानात्वम् | यदि हि स्यात् तदा योग्यतायाः द्रव्यात् पृथक्करणं प्राग्वत् प्रसज्येत | अथ योग्यताया अपि योग्यपारतन्त्र्याद् अपृथक्सिद्धिं ब्रूयात् तदा तस्या अपि वस्तुधर्मतयैव प्राग् अपि समावेशो मा भूद् इति द्रव्येण सह सम्बन्धयोग्यताया अन्या योग्यता कुलालाद् भवतीत्य् एष्टव्या | सा ऽपि पृथक्करणप्रसङ्गा[त्] द्रव्याद् भिन्नस्वभावा नोपगन्तव्या | पृथक्करणप्रसङ्गे वा पुनः स एव परिहारः तदीयः, पुनस् तद् एवोत्तरम्, इत्य् अनवस्थाप्रसङ्गाद् अवश्यम् अभिन्नस्वभावता कपालात्मममृद्द्रव्ययोग्यतयोर् अभ्युपगन्तव्या | किम् एवं सति सिद्धं भवति? इत्य् अत आह -- अस्ति तावत् इत्यादि | मृत्पिण्डकुलालाभ्यां कपालद्रव्यस्य [S. १०९ब्.] संयोगविशेषसम्बन्धयोग्यस्यारम्भात् यदैकस्वभावत्वे ऽप्य् एकस्यानेकप्रत्ययोपाधेयविशेषता तदा सिद्धः आस्माकीनः पक्षः | ततश् च किम् अस्माकं मृत्संस्थानयोर् एकस्वभावत्वसाधनाय अतिनिर्ब्बन्धनेन? | [T. २८१ब्.] यदि योग्यताम् अप्य् आश्रित्यानेकप्रत्ययजन्यत्वे ऽप्य् एकत्वात् नानात्वप्रसङ्गाभावः सिध्यति कार्यस्य, न किञ्चिद् द्रव्यगुणवादनिराकरणेनेह प्रयोजनम्, अन्यत्रैव तन्निराकरणस्य कृतत्वाद् इत्य् अभिप्रायः | निर्बन्धग्रहणेन च मृत्संस्थानयोर् अपरस्परात्मतया संस्थानमृत्स्वभावविशेषाभ्यां तयोर् अप्रतिभासनप्रसङ्गात् इत्य् अनयोपपत्त्या साधितम् एवानयोर् एकत्वम्, युक्त्यन्तराणां सम्भवे ऽपि तदभिधानलक्षणो निर्ब्बन्धो न क्रियते, प्रकृतसिद्धेर् अन्यथा ऽपि भावाद् इत्य् आचष्टे |
SK
__________NOTES__________
SK
[४७४] इत्य् उपपन्नम् -- T.
SK
[ सेच्तिओन्: ३२. सामग्रीभेदे कार्यभेदस्य कारणभेदे ऽपि च कार्यस्यैक्यस्योपसंहारः |]
SK
तद् एवं सामग्रीभेदात् [S. ११०अ.] सामग्र्यन्तरजन्येभ्यो भेदः सहकारिणाम् अनेकत्वे ऽपि च कार्यस्यैकत्वम् अविरुद्धम् इति प्रतिपाद्य {प्. ११०.१} उपसंहरन्न् आह -- तेन सहकारिणः इत्यादि | येन -- प्रत्ययान्तरप्रचये तद्विकलसामग्र्याः सामग्र्यन्तरं सम्पद्यते, तच् च पूर्वसामग्रीजन्याद् भिन्नं कार्यान्तरम् एव जनयति; एकसामग्रीव्यपदेशविषयाणां च सह-कारिणाम् अनेकत्वे ऽप्य् अनेकस्यैकक्रियाविरोधाभावात् तदन्वयव्यतिरेकानुविधायिनश् च कार्यस्यैकस्य दर्शनात् स्वभावत एकत्वं साधितम् -- तेन कारणेन सहकरणशीला एकसामग्र्यन्तर्ग्गताः प्रत्ययाः सामग्र्य्-अन्तरैः सह नैकोपयोगविषयाः एक उपयोगस्य विषयो येषां ते न भवन्ति, सामग्र्यन्तरैर् एव सह भिन्नोपयोगाविषयत्वस्य न्यायबलात् प्रतीतेः | अनेन यत् प्राग् विकल्पितं `यदि कारणशब्देन सामग्री भण्यते तदा तद्भेदाद् अस्त्य् एवातत्सामग्रीजन्येभ्यः कार्यस्य भेद इति किम् उच्यते -- न कारणभेदाद् भेदः [T. २८२अ.] स्यात्ऽ इति एतद् १उदाहरणोपदर्शितं निगमितम्[४७५]| अथ कारणशब्देन सामग्रीव्यपदेशविषयाः सहकारिण उच्यन्ते तदा तद्भेदाद् अनेकत्वलक्षणात् कार्यस्यानेकत्वलक्षणो भेदो नेष्यत एव, अनेकस्यैकक्रियाविरोधाभावात्, एकस्यानेकत उत्पत्तिदर्शनाच् चेति मृत्संस्थानयोर् एकात्मकतोपदर्शितं [S. ११०ब्.] निगमयति -- `कार्यस्वभावस्यऽ मृत्संथानात्मन `एकत्वे ऽपिऽ नानात्वाभावे ऽपि `वस्तुतःऽ परमार्थतः कल्पनाबुद्धौ मृत्संस्थानयोर् भिन्नयोर् इव प्रतिभासने ऽपीति | एवम् उदाहरणे सामग्रीभेदात् कार्याणां भेदो नैकसामग्रीविषयप्रत्ययभेदाद् अनेकत्वं कार्यस्येति प्रतिपाद्य प्रकृते चक्षुरादौ योजयन्न् आह -- यथाइहोदाहरणे कारणभेदः सामग्रीभेदः कुलालविकलमृत्पिण्डतत्सहितसूत्राधिकसामग्रीत्रितयलक्षणो `भिन्नेषुऽ नानास्वभावेषु `विशेषेषुऽ[४७६]इष्टकादिचक्राविभक्तघट तद्विभक्तघटलक्षणेषूपयोगान् नैककार्यः किन्तु भिन्नकार्य एव, तथा तेनैव प्रकारेण चक्षुरादिभ्यो विज्ञानस्योत्पत्तौ सामग्र्यन्तरात् सामग्रीलक्षणकारणभेदो ऽनेककार्य इत्य् उन्नेयः | {प्.१११.१} एतद् एव विभजन्न् आह -- तथाहि इत्यादि | या चक्षूर् उपरहिता समनन्तरप्रत्ययाख्यविज्ञानलक्षणा प्रत्ययान्तरसापेक्षा सामग्री, ततो विज्ञानस्य [T. २८२ब्.] विकल्पकस्येतरस्य वा तदुपादेयत्वेन या बोधरूपतोपलब्धा सा चक्षुर्विज्ञानस्यापि भवति | तस्यैव चक्षुर्विज्ञानस्य | किदृशस्य? | उपलम्भात्मनःसतो भवतः जायमानस्य तदैव तदेककार्यप्रतिनियतस्य चक्षुरिन्द्रियस्य सन्निधानात् [S. १११अ.] समनन्तरप्रत्ययोपादानोपकृतात् ततो रूपग्रहणप्रतिनियमो रूपाकारताप्रतिनियमः, शब्दाद्याकारविवेकवत एवं(व)[४७७]कार्यस्य चक्षुःसहितसमनन्तरप्रत्ययसामग्र्याः जनकत्वाद् | विषयाद् विषयाधिकात्[४७८]समनन्तरप्रत्ययाद् इन्द्रियाच् च तेन विषयेण तुल्यरूपता न केवलैव रूपप्रतिभासिता भ्रान्तविज्ञानस्येवेति विषयेन्द्रियमनस्कारलक्षणसामग्रीकार्यम् एवं प्रदर्शितम् | तद् अन्यद् एकद्वयजन्यं तु कार्यं स्वयम् अभ्यूह्यम् | अत्राभिन्नत्वे ऽपि वस्तुतः कार्यस्य चक्षुर्विज्ञानलक्षणस्य कारणानां विषयेन्द्रियमनस्काराणां भिन्नेभ्यः स्वभावेभ्यः केवलानाम् एषां यः स्वभावस् ततो भिन्ना एवातज्जन्येभ्यो[४७९]विधिशे(-न्येभ्यो ऽपि विशे)षा बोधरूपतादिलक्षना भवन्ति | अतज्जन्यापेक्षया[४८०]चैकात्मका अपि बहुत्वेन निर्दिष्टाः | यत एवम् इति तस्मात् न कारणभेदे ऽपि | [S. १११ब्.] यथैकसामग्र्यन्तर्ग्गतप्रत्ययभेदे ऽप्य् अभेदो नैवं सामग्रीलक्षणकारणभेदे ऽप्य् अभेदः सामग्र्यन्तरस्जन्येभ्यः कार्यविशेषस्य विशिष्टस्य कार्यस्येति | तेन यदुच्यते -- [T. २८३अ.] `यदि सहकारिणां भेदे ऽप्य् अभिन्नं कार्यं भवति सामग्रीभेदे ऽप्य् अभिन्नम् अस्तु, अथ सामग्रीभेदाद् भिन्नं भवति सहकारिभेदाद् अपि किम् इति भिन्नं न भवति विशेषाभावात्?ऽ इति तदपास्तं भवति | तथा हि परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् एककार्योद्देशेनेतरेतरसन्तानोपकाराच् च सहकारिणां प्रतिनियतशक्तीनाम् उदयाद् एकं ७कार्यं समाजायते[४८१]| {प्. ११२.१} सामग्र्यन्तरस्य तु कार्यान्तरप्रभवशक्तिनिबन्धनेभ्यो हेत्वन्तरेभ्यः स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिर् इति कुतो विशेषाभावः? |
SK
__________NOTES__________
SK
[४७५] -णोपदर्शनात् निग- -- T. [४७६] विषयेषु -- T. [४७७] एव -- T. [४७८] -धिकारात् -- T. [४७९] एव तज्ज- -- T. [४८०] अतो जनकापेक्षया -- T. [४८१] कार्यं न जायते -- T.
SK
[ सेच्तिओन्: ३३. जनकत्वम् एवाधारत्वं न तु स्थापकत्वम् |]
SK
ननु च सर्वं कार्यं साधारं[४८२]यथा उपादायरूपम् | तद् धि भूतेभ्यो २जायमानं तान्य् एवाश्रयत[४८३]इति भवद्भिर् इष्यते | तथा ऽन्यद् अपि विज्ञानादिकं कार्यम् | अतो ऽनेनापि किञ्चित् कारणम् आश्रयणीयम् | तस्य च कारणस्य पूर्वं जनकत्वं पश्चात् [S. ११२अ.] कार्यं प्रत्याधारभाव एव, न जननम्, ततस् तत्स्वभावस्य जननाद् इत्य् अनेकान्तः तदवस्थ एवेत्य् अत आह -- त एवैते ये ऽनन्तरम् उक्ताः कारणशक्तिभेदाः कारणानां शक्तिविशेषाः | कीदृशाः? यथास्वं येषां कारणशक्तिभेदानां सहकारिलक्षणानां यदात्मीयं सामग्र्यन्तरजन्यात् प्रतिविशिष्टं कार्यं तस्य जनने ऽव्यवधेया व्यवधातुं [T. २८३ब्.] प्रतिबन्धुम् अशक्या शक्तिर् येषां तद्भावस्[४८४]तया अव्यवधेयशक्तितया अवश्यं कार्यकारिशक्तितया प्रत्युपस्थिताः उद्युक्ताः सन्तः सामग्रीकार्यस्य एकप्रत्ययजनितस्य ४कस्यचिद् अभावात्[४८५]सर्वं सामग्र्या एव कार्यम् इति कृत्वा सामग्रीकार्यस्य स्वभावस्थित्याश्रय इत्य् उच्यन्ते | कस्मात् पुनर् अव्यवधेयशक्तिता? क्षणिकत्वात् | न हि क्षणिकस्य शक्तिः प्रतिबन्धुं शक्यते, ५स्वभावान्तरोत्पादने यावत्[४८६]प्रतिबन्धको व्याप्रियते तावत् क्षणिकस्य स्वकार्यं कृत्वैव निरोधात् | कथं पुनर् असमानकालं कारणम् आधारो युज्यते?, इत्य् अत आह -- तथाहि इत्यादि | यस्मात् तत् विज्ञानलक्षणं कार्यं तेभ्यः चक्षुरादिभ्यः समस्तभ्यो बोधरूपतया तदन्यस्मात् तदजन्यात् [S. ११२ब्.] प्रतिविशिष्टस्वभावम् एकं खण्डशः कार्यस्यानुत्पादाद् एकैकस्मात् सकलस्यैव भावाद् एकं जातम्, तस्मात् ते आधारा उच्यन्ते | न हि जनकाद् अन्य एवोपकारकः | न चानुपकारक {प्. ११३.१} आधारः, अतिप्रसङ्गात् | ततो भिन्नकालस्याधारभावो न विरुध्यते | यद् अपि भूतानाम् उपादायरूपं प्रत्याश्रयत्वम्[४८७]उच्यते तद् अपि स्वदेशस्यास्य जनकत्वम् एवेति न किञ्चित् प्राग् जनकं भूत्वा पश्चात् ७स्थापकताम् उपैति[४८८], यतो ऽनेकान्तः स्याद् इति |
SK
__________NOTES__________
SK
[४८२] साधनाधारम् -- T. [४८३] -मानम् अन्यम् एवाश्रयते -- T. [४८४] स्वभावस् -- T. [४८५] क्वचिद् अप्य् अभावात् -- T. [४८६] -न्तरम् आश्रित्य या- -- T. [४८७] प्रवृत्तित्वं -- T. [४८८] स्थापनाहेतुर् भवति -- T.
SK
[ सेच्तिओन्: ३४. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम् |]
SK
पुनर् अन्यथा तत्स्वभावस्य जननाद् इत्य् अनेकान्तोद्भावनं परस्याशङ्क्याह -- अप्रतिरोधशक्तिकेषु अविद्यमानः प्रतिरोधः -- प्रतिबन्धो यस्याः शक्तेः सा येषाम् [T. २८४अ.] अप्रतिरोधशक्तिकत्वं चानन्तरकार्यत्वात् | ये ह्य् उत्पन्नाः कालक्षेपेण कार्यं कुर्वन्ति तेषां स्याद् अपि शक्तिप्रतिबन्धो, न तु य उदयानन्तरम् एव कार्यं कुर्वन्ति | अनेन क्षणक्षयिणाम् उपघातकाभावम् आह | अनुग्राहकविरहम् अप्य् आह -- अनाधेयविशेषेषु | तच् चानाधेयविशेषत्वं क्षणिकेषु इत्य् अनेनाह | न हि क्षणिकानां विशेष आधातुं शक्यते, विशेषाधायकेन तत्सहभाविना तदनन्तरं तदुत्पादनात् | तदा [S. ११३अ.] च तस्य निरोधात् | तेष्व् एवंविधेषु प्रत्ययेषु परस्परंकःसहकारार्थः येन सहकारिण उच्यन्ते? | नन्व् अनाधेयविशेषत्वेनैव सहकारित्वाभावः प्रतिपादित इति किम् अर्थम् इदम् अप्रतिरोधशक्तिकेष्व् इति? | न हि शक्तिप्रतिरोधकः सहकारी भण्यते | सत्यम् | सर्वथा तु तत्राकिञ्चित्करत्वज्ञापनार्थम् एतद् उक्तम् | शक्तिप्रतिबन्धकापनयनेन चोपकारित्वकल्पनां सहकारिणां निरस्यति | तस्माद् अतिशयाधायिनः सहकारिणो ऽसम्भवात् क्षणिकानां स्वहेतुमात्रप्रतिबद्धम् एव जनकत्वम् | तच् चैवं विधं सर्वदा ऽस्ति | न च केवला जनयन्तीति तत्स्वभावस्य जननाद् इत्य् अनेकान्त एवेति मन्यते | एतत् परिहरति -- न वै नैव अतिशयोत्पादनं[४८९]सहक्रिया यतस् तदभावात् सहकारिणो न स्युः | क्व पुनर् अतिशयोत्पादनं१ सहक्रिया प्रतिययानां न भवति? | सर्वत्र | न हि क्वचिद् अपि सहभाविनाम् अतिशयोत्पादनलक्षणा[४९०][T. २८४ब्.] सहक्रिया {प्. ११४.१} सम्भवति | का तर्हि सहक्रिया? इत्य् आह -- एकार्थकरणम् एककार्यनिष्पादनं यद् {१}बहूनाम् | {२}अपि सम्भावनायाम् | [S. ११३ब्.] न्यायबलाद् एवंविधाम् एव सर्वत्र सहक्रियां सम्भावयामः, नान्याम् इति | अत्रोदाहरणम् -- यथाअन्त्यस्य अनन्तराङ्कुरादिकार्यस्य कारणकलापस्य प्रत्ययसामग्र्या इति |
SK
__________NOTES__________
SK
[४८९] -योपादानम् -- T. [४९०] -योपादान- -- T.
SK
[ सेच्तिओन्: ३५. एककार्यकारित्वम् एव मुख्यं सहकारित्वम् इतरत् तु गौणम् |]
SK
स्याद् एतत् -- औपचारिकम् एतत् सहकारित्वम्, अतिशयोत्पादनम् एव तु मुख्यम् इत्य् अत आह -- तद् एव एककार्यकारणलक्षणं मुख्यंसहकारित्वम् नातिशयोत्पादनलक्षणम्, तस्यैव गौणत्वात् | एतच् चोत्तरत्र वक्ष्यते | कुत एतत्? इत्य् आह -- तस्यैव अन्यस्य विवक्षितकार्यं प्रति कारणत्वात् | कारणस्य च सहकारिव्यपदेशः नाकारणस्य | यतः सह -- युगपत् सर्वन्तः सहकारिण उच्यन्ते, अन्त्यश् च कारणकलाप एवंविध इति | यथा चान्त्यस्यैकार्थकारणं सहकारित्वम् एवं पूर्वस्यापि कारणकलापस्योत्तरोत्तरविशिष्टक्षणान्तरारम्भिण इत्य् अवसेयम्, अन्त्यस्योदाहरणतया निर्द्देशात् | तस्मात् सर्वं कार्यम् अङ्कुरादिकं विशेषलक्षणं वा ऽनेकप्रत्ययजन्यम् इति | सर्वत्रैकार्थक्रियैव चोपचीयमानापचीयमानकार्यकारिणः कारणकलापस्य सहकारित्वम्, न विशेषोत्पादनम् इति | स्याद् एतत् -- एकार्थकरणम् अपि तत्र [S. ११४अ.] सहकारित्वम् अस्तु अतिशयोत्पादनलक्षणम् अपीत्य् अत आह -- तत्र च क्षणे ऽन्त्ये विशेषस्य कर्त्तुम् अशक्यत्वात् नातिशयोत्पादनम् अपि सहकारित्वम् | कुतो विशेषस्य [T. २८५अ.] कर्त्तुम् अशक्यत्वम्? इत्य् अत आह -- एकस्य अनंशस्य स्वभावस्याविवेकात् | न हि तत्र `अयम् अनाहितातिशयो भागः स्वहेतुभ्यो जातः, अयं तु सहकारिभिर् आहितातिशयःऽ इति विवेको ऽस्ति | यदि नामाविवेकः, विशेषस् तु किम् इति न क्रियते? इत्य् अत आह -- स्वभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः, निर्भागे च कुतः स्वभावान्तरस्य व्यवस्था? | स्यान्मतम् -- भिन्नस्वभाव एवान्त्यस्य विशेषो ऽस्तु इत्य् अत आह -- भावान्तर- इत्यादि | यदि भावान्तरलक्षणो विशेषो {प्. ११५.१} भवेत् तदा तस्यान्त्यत्वम् एव हीयेत | हीयेनां(हीयतां) को दोषः? इति चेत्; ततश्च अनन्त्यत्वात् न साक्षात् कारणंस्यात् | यत एवं तस्मान् न कारणस्य मुख्यस्य सहकारिभ्यः सकाशाद्[४९१]विशेषस्योत्पत्तिः इत्य् एकार्थक्रियैव सहकारित्वम् इति | नन्व् असत्यां सहकारिभ्यो विशेषोत्पत्तौ कार्यजनने सामर्थ्यम् एषां न युज्यत इत्य् अत [S. ११४ब्.] आह -- ते समर्थाह् इत्यादि | यदि हि ते स्वभावेनासमर्था उत्पद्येरन् तदैषां सहकारिभ्यः सामर्थ्योत्पत्तिर् अभ्युपगम्येत | यावता ते ऽन्त्याःस्वभावेनैव समर्थाःप्रत्ययाःसहिताजायन्ते २क्षणमात्रविलम्बिनो | येषाम्[४९२]एकक्षणनियतत्वात् ततः प्राक् पश्चात् पृथक् त्व् अभावो नास्ति | येभ्यश्चानन्तरम् एव कार्यम् उत्पद्यते न कालान्तरेण तत्र तेष्व् एवंविधेषु एकार्थक्रियैव सहकारित्वम् नातिशयोत्पादनलक्षणम् | स्वभावतः सामर्थ्यस्य [T. २८५ब्.] भावविरोधात्, परस्परतश् चानभ्युपगमात् समर्थस्य जन्मैवायुक्तम् इति मन्वानः परः आह -- समर्थःकुतः इत्यादि | सिद्धान्तवाद्य् आह -- स्वकारणेभ्यः इति | परमतापेक्षया तु स्वभावत इत्य् उक्तम् | परो ३ह्य् अत्यन्तस्य (ह्य् उत्पन्नस्य)[४९३]कारणस्य सहकारिभ्यः सामर्थ्यम् इच्छतीति तन्निषेधपरं[४९४]स्वभावत इति वचनम् | न तु स्वभावतः किञ्चिज् जायते, तस्याहेतुकत्वप्रसङ्गात् |
SK
__________NOTES__________
SK
[४९१] साक्षाद् -- T. [४९२] -लम्बिनो जन्मनस् तेषां -- T. [४९३] ह्य् उत्पाद[क]स्य -- T. [४९४] तन्निषेधाय परं -- T.
SK
[ सेच्तिओन्: ३६. क्षणिकेष्व् एकार्थक्रियानियमस्य यवस्थापनम् |]
SK
एकार्थक्रियानियम एव क्षणिकानाम् अयुक्तः, केवलानाम् अप्य् अंत्यक्षणसरूपाणां दर्शनात् | तथा हि -- `इदम् एवंरूपं नैवं चऽ इति दर्शनादर्शनाभ्यां [S. ११५अ.] विभज्यते | तत्र यादृशाः क्षित्यादयस् तदन्यप्रत्ययसन्निधाव् उपलभ्यन्ते तादृशा एव केवला अपि | ततस् तदन्यसहिता इव केवला अपि समर्थम् अङ्कुरजनने स्वं स्वं क्षणान्तरम् आरभेरन् | ततः केवलस्याप्य् अङ्कुरादिजननस्वाभाव्याद् अजननाच् च `तत्स्वभावस्य जननात्ऽ इत्य् अनेकान्त एवेति मन्यमानः पर {प्. ११६.१} आह -- तानि स्वकारणानि क्षितिबीजादीनि एनं समर्थम् अपरस्य अन्यस्य प्रत्ययस्य सन्निधान एव किं कस्मात् अनयन्ति? न केवलानि?, सहितानाम् एव सर्वदा सम्भवात् इति चेत् आह -- कदाचित् कस्मिंश्चित् काले अन्यथाऽपि केवला अपि स्युः भवेयुः | तथा हि -- दृश्यन्त एवाध्यातिकबाह्याः क्वचित् कार्ये यादृशा यत्सहिताः तादृशा एव तद्रहिता अपीति | [T. २८६अ.] जनयन् तु केवला अपि सम्भवन्तः समर्थम्, को दोषः? इति चेद् आह -- ततश्च केवलानाम् अपि समर्थजनकानां सम्भवात् एको ऽपि न केवलम् अनेकः क्वचिद् देशादौ [S. ११५ब्.] समर्थः उत्पन्नः क्षितिबीजादिर् अङ्कुरादिकार्यं जनयेत् यदि तत्स्वभावस्यावश्यं जनकत्वम् | न च केवलो जनयति तत्स्वभावसम्भवे ऽपि ततो ऽनेकान्त इति परः | एतत् परिहरन्न् आह -- अपरापर- इत्यादि | अपरैश् चापरैश् च कुशूल तदपनेतृपुरुषप्रयत्नपिटकादिप्रक्षेपक्षेत्रनयनप्रकिरणादिभिः प्रत्ययैर् यो योगःतेन कारणेन प्रतिक्षणंभिन्नशक्तयो न कदाचित् पूर्वापरकालभाविन एकशक्तयः ५अपरापरप्रत्यययोगलक्षणहेतुभेदे ऽप्य् अभिन्नशक्तितायाम्[४९५]अहेतुकत्वप्रसङ्गात् | अन्यत्रापि च शालियवबीजादौ शक्तिभेदस्य हेतुभेदनिबन्धनत्वात् | संस्काराः समेत्य सम्भूय च प्रत्ययैः क्रियमाणाः सन्तन्वन्तः सन्तानेन भवन्तो यद्य् अपि कुतश्चित् साम्याद् वर्णेन संस्थानेन अन्येन वा केनचित्प्रकारेण सादृश्याद् एकाकारपरामर्शप्रत्ययजननलक्षणात् समानं रूपम् एषाम् इति सरूपाः सदृशाः प्रतीयन्ते प्रत्यभिज्ञायन्ते तथापि कृत्रिमकृत्रिमाणां इव मणिमुक्तादीनाम् अपरापरप्रत्यययोगलक्षणसामग्रीभेदाद् भिन्न एव विसदृश एव न प्रत्यभिज्ञानवशाद् अभिन्नः तुल्यरूप एषां बीजादीनां स्वभावः [T. २८६ब्.] यत एवं तेन भिन्नस्वभावत्वेन भिन्नशक्तितया वा ऽपरापरसामग्रीजन्यत्वेन क्षणानां सिद्धया किञ्चिद् एव क्षितिबीजादिकं कस्यचिद् एव कार्यस्याङ्कुरादेस् {प्. ११७.१} तज्जननसमर्थस्य वा कारणम् | न सर्वं सर्वस्य | तथा च व्यग्राणां क्षितिबीजादिनाम् अङ्कुरजननस्वभावता समर्थक्षणजननस्वभावता वा नास्त्य् एवेति तत्स्वभावस्य जननाद् अजनकस्य चातत्स्वभावत्वाद् इत्य् अत्र नानेकान्तः यतो यो यत्स्वभावः स स्वहेतोर् एवोत्पद्यमानः तादृशो भवति न पुनस् तद्भवे हेत्वन्तरम् अपेक्षत इत्य् अत्रानेकान्तः स्याद् इति | प्रत्यभिज्ञानस्य च सरूपताविषयस्य सामग्रीभेदाद् अनुमितभिन्नशक्तिस्वभावत्वेन बाध्यमानतया प्रामाण्याभावात् न ततः सरूपतासिद्धिः क्षणक्षयिणाम् इति | पूर्वं च `अत एवान(एव त)योर् अवस्थयोर् वस्तुभेदो निश्चेयःऽ इत्य्[४९६]आदिना [S. ११६ब्.] एकत्वाविषयं प्रत्यभिज्ञानं निरस्तम् | अधुना तु तुल्यस्वभावताविषयम् इति भेदः | एतद् अपि तत्र `अपरापरोत्पत्तेःऽ इत्य्[४९७]अनेनोक्तम् एव | विपञ्चनार्थं[४९८]तु पुनः इह उपन्यस्तम् |
SK
__________NOTES__________ [४९५] -भेदेपि भिन्न- -- T. [४९६] प्. ८४, ५ [४९७] प्. ८८, २४ [४९८] विषयनिवेदनार्थम् -- T.
SK
[ सेच्तिओन्: ३७. क्षणिकेषु हेतुफलभावव्यवस्थायाः कथनम् |]
SK
किञ्चिद् एव कस्यचित् कारणम् इत्य् उक्तम् तत्र किं कस्य कारणम् इति शक्यपरिच्छेदम् अप्य् आध्यात्मिकेषु तावद् दर्शयन्न् आह -- तत्र -- इत्यादि | तत्र तेषु प्रतिक्षणं शक्तिस्वभावेषु क्षणिकेषु भावेषु | व्यवधानं -- व्यवधीयते येन, तदादिर् येषां अतिदूरात्यासन्नत्वादीनां ते ऽविद्यमाना[४९९]यस्मिन् देशे सो ऽव्यवधानादिः देशो यस्य सो ऽव्यवधानादिदेशः, [T. २८७अ.] रूपम् इन्द्रियं चादी यस्य मनस्कारादेः ५स रूपेन्द्रियादिः[५००]स चासौ कारणकलापश् च सामग्रीलक्षणस् तथोक्तः, अव्यवधानादिदेशश् चासौ रूपेन्द्रियादिकारणकलापश् च स विज्ञानजनने समर्थो हेतुः नान्यः, तद्भाव एव तस्य भावात्, अन्यभावे ऽपि चाभावात्, एतन्मात्रनिबन्धनत्वाच् च समर्थासमर्थव्यवस्थायाः | यस् तेषाम् इन्द्रियादीनां परस्परोपसर्प्पणस्य अन्योन्यढौकनस्य | आदिग्रहणाद् व्यवधानापनयना ............ [S. ११७अ.] ............................................................................................................... [S. ११७ब्.] ............................................................................................................... [सा]मग्र्यधीनत्वेनासंभवाद् इति | {प्. ११८.१} इमम् एवंविधं [S. ११८अ.] हेतुफलभावप्रतिनियमं निरवद्यमाध्यात्मकेषु दर्शितम् [T. २८८अ.] अन्यत्राप्य् अतिदिशन्न् आह -- अनेन न्यायेन इत्यादि | यो ऽयम् अनन्तरं हेतुफलभावप्रतिनियमे न्याय उक्तः सो ऽअन्यत्रा ऽपि सर्वत्र द्रष्टव्यः | सर्वत्रेति वचनात् अक्षणिकेष्व् अपि प्रतीतिर् म्मा भूत् इत्य् आह -- प्रतिक्षणम् इत्यादि | याः क्षणे क्षणे ऽन्याश् चान्याश् च स्वभावभेदान्वयिन्यः शक्तयो भवन्ति तत्रायम् एकार्थक्रियाप्रतिनियमः सहकारिणां द्रष्टव्यः | न तु ये स्थिरैकस्वभावा भावाः परैः कल्प्यन्ते तेष्व् अपि | स्थैर्यं सन्तानाश्रयेणापि व्यपदिश्येतेत्य् एकग्रहणम् | क्षणे ऽप्य् एकत्वम् अस्तीति स्थिरग्रहणम् |
SK
__________NOTES__________
SK
[४९९] अव्यवधीयमाना -- T. [५००] सत्पे- -- T.
SK
[ सेच्तिओन्: ३८. अक्षणिके एकार्थक्रियाकारित्वस्याभावः |]
SK
कस्मात् पुनः स्थिरैकस्वभावेषु नेष्यते? इत्य् आह -- स्वभाव- इत्यादि | कामं भावः स्वयं न भवेत् | न तु स्वत एव स्वभावस्यान्यथात्वं सम्भवति | ततश् च स्थिरः पदार्थो यदि कार्योत्पादनसमर्थस्वभावः ततो ऽस्याक्रिया नोपपद्यत इति सर्वदैव कुर्यात् | अथासमर्थस्वभावः, तदापि क्रिया ऽनुपपन्ना, सर्वदैव न कुर्याद् इति भावः | यत् तु कदाचित् करोति कदाचिन् न [S. ११८ब्.] इत्य् एतन् न लभ्यते | ततश् चाक्षणिकानां तत्कार्यक्रियासमर्थस्वभावत्वे सहितासहितावस्थयोर् एकरूपत्वात् केवलानाम् अपि तत्कार्यक्रियाप्रसङ्गेन कुत एकार्थक्रियाप्रतिनियमलक्षणं [T. २८८ब्.] सहकारित्वं सम्भवेत्? | अत्र पर आह -- अन्यसहितः इत्यादि | यद्य् अपि केवलस्याप्य् अक्षणिकस्य समर्थः स्वभावः तथापि अन्यसहितः करोति न केवलः | अयम् अपि ह्य् अस्य स्वभावः यद् -- `अन्यसहितेन स्वकार्यं कर्त्तव्यम् न समर्थस्वभावेनापि सता केवलेनऽ इति | सिद्धान्तवाद्य् आह -- किंकेवलस्य इत्यादि | अन्यसहितेनैव स्वकार्यं कर्त्तव्यं न केवलेन इत्य् एतत् केवलस्यासमर्थस्वभावत्वे युज्यते नान्यथेति मन्यमानस्य प्रश्नः | परस् त्व् अनवगताभिप्राय आह -- समर्थ इति | केवलस्याप्य् अक्षणिकस्य समर्थ एव {प्. ११९.१} स्वभावः अन्यथा ऽस्याक्षणिकतैव हीयेतेति | सिद्धान्तवाद्य् आह -- किन् न करोति इति | न हि समर्थस्याक्रिया, सहितस्यावस्थायाम् इव युज्यत इति सहितस्यैव क्रियाम् इच्छता केवलस्यासमर्थस्वभावतैवोपगन्तव्या | अथ मतम् -- केवलस्य यदि शिरश् छिद्यते तथापि न करोतीत्य् अत आह -- अकुर्वन् इत्यादि | कार्यानुमेयं हि सामर्थ्यं न च केवलस्य कदाचिद् अपि कार्यक्रिया ऽस्तीति कथं सामर्थ्यं कल्प्यते? | नायं नियमः यत् समर्थस्वभावेनावश्यम् एव कार्यं कर्त्तव्यम्, अन्यथा ऽपि दर्शनात् इति मन्यमान [S. ११९अ.] आह परः -- कुविन्दादयः इत्यादि | सिद्धान्तवाद्यपसन्न् आह -- क्रीडनशीलः इत्यादि | देवानांप्रियः ऋजुः मूर्खो वा [T. २८९अ.] सुखसंवर्धितत्वात् रमणस्वभावः, क्रीडनं बालधर्मः, तत्साधर्म्येण प्रज्ञावैकल्यं दर्शयति, सुखैधितत्वेन शास्त्रेष्व् अनभियोगम् | यो ह्य् अनभियुक्तो दुर्वुद्धिश् च स कृतम् अपि वस्तु विस्मरणप्रकृतित्वात् पुनः पुनः कारयतीति पुनः प्रतिविधापयति | क्व पुनर् एतत् प्रतिविहितम्? इत्य् आह -- तथाहि -- इत्यादि | `बीजादिवद् अनेकान्तःऽ इत्य्[५०१]अनेन प्रस्तावेन निर्ल्लोठितम् एवैतत् | तद् एवम् अक्षणिकस्य समर्थस्वभावत्वे २सहितस्यैव कार्यक्रियास्वभावत्वविरोधात्[५०२]केवलस्याक्रिया[५०३]ऽनुपपन्नेति प्रतिपाद्योपसंहरन्न् आह -- तस्मात् तत्स्वभावस्य कार्यक्रियासमर्थस्य अन्यथात्वासम्भा(म्भ)वात् ४कदाचिद् असमर्थत्वाभावात्[५०४]तद्धर्मणः कार्यक्रियाधर्मणः तथाभावः कार्यक्रिया अन्त्यावस्थावत् सहितावस्थायाम् इव अनिवार्यः |{१२०}
SK
__________NOTES__________
SK
[५०१] प्. ८३, १५ [५०२] -स्यैवैककार्य- -- T. [५०३] -स्य क्रिया- -- T. [५०४] -चिद् अप्य् असम्- -- T.
SK
[ सेच्तिओन्: ३९. मीमांसकसंमतस्य भावस्वभावरूपसामर्थ्यस्य निरासः |]
SK
स्यान्मतम् -- केवलो ऽयम् अक्षणिको ऽसमर्थ एव | ततः केवलो न [S. ११९ब्.] करोति, सहितावस्थायां त्व् अस्य सामर्थ्यं सहकारिभ्यो जायते | ततः सहित एव करोतीत्य् अत आह -- अन्त्यावस्थायांसामर्थ्योत्पत्तौ कीदृशस्य प्राग् असमर्थस्य सतः तस्य सामर्थ्यस्य यस्य तदुपजायते तत्स्वभावत्वेमीमांसकादिभिर् {१२०} इष्यमाणे | न हि ५तेषां समर्थ्यस्य सामर्थ्यस्य[५०५]च स्वभावभेदो ऽभिमतः | कथञ्चित् तद्भेदे ऽपि तत्स्वभावतयैव प्रतीयमानत्वाद् इति ते मन्यन्ते | अपूर्वोत्पत्तिर् एव सा [T. २८९ब्.] अपूर्वस्यैव वस्तुनः सा उत्पत्तिर् या तत्स्वभावस्य सामर्थ्यस्य | न ह्य् एकस्वभावत्वे सामर्थ्यम् एवापूर्वम् उपजातं न समर्थः इति युक्तम्, तयोः स्वभावभेदप्रसङ्गात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् | ननु प्रतीयमाने एव सामर्थ्यतद्वतोर् उत्पत्त्यनुपत्ती एकस्वभावता च कथं निह्नोतुं शक्यते? इति चेत् | न | अप्रमाणेन प्रतीतेः, अन्यथा प्रतीत्यनुसारिणा भवता द्विचन्द्रादयो ऽपि न निह्नोतव्याः | बाधकप्रमाणसम्भवात् ते ऽपह्नूयन्त इति चेत् | इहापि वस्तुन एकस्वभावस्योत्पत्त्यनुपत्ती परस्परविरुद्धे बाधिके किं नेष्येते? | व्यवस्थितस्यैव वज्रोपलादेर् द्धर्मिणः [S. १२०अ.] तत्स्वभावं सामर्थ्यम् उत्पन्नम् इति च पूर्वापरकालयोर् अप्रतिभासमानविवेकः कथं प्रतीयात्? | विज्ञानादिकार्यस्यानुत्पत्तियौगपद्योदयप्रसङ्गात् चक्षुरादिसान्निध्ये प्राग् असत् तत् सामर्थ्यम् उत्पन्नं क्रमवच् चेति निश्चय इति चेत् | यद्य् एवम् एकाकारतया पूर्वापरकालयोर् अधि(वि)कृतं प्रत्यभिज्ञानम् उपजायमानम् अपूर्वसामर्थ्यप्रतिभासविविक्तोपलादिग्राह्य्[५०६]अप्य् अनुमानाद् अर्थापत्तितो वा बाधाम् अनुभवन् न प्रमाणम् इत्य् उपगतं स्यात् | तथा, उत्पत्त्यनुत्पत्त्योर् एकस्वभावतायां विरोधात् समर्थस्यैवापूर्वस्योत्पत्तिः[५०७]सदृशापभावग्रहकृतश् चार्वाग्दर्शनानाम् एकत्वविभ्रमो लूनपुनर्ज्जातेष्व् इव केशनखादिष्व् इति किं नेष्यते? |
SK
__________NOTES__________
SK
[५०५] तेषां सामर्थ्यस्यासाम- -- T. [५०६] -रहित- [५०७] -स्यैवाननुभूतपूर्व- -- T.
SK
[ सेच्तिओन्: ४०. नैयायिकाभिमतस्य भावास्वभावरूपसामर्थ्यस्य निरासः |]
SK
अथ सामर्थ्यं सहकारिप्रत्ययसान्निध्यलक्षणम् एवेत्य् अतत्स्वभावम् इति नापूर्वोत्पत्तिप्रसङ्ग [T. २९०अ.] इतिनैयायिकादयो मन्येरन् अत्राह -- अतत्स्वभावत्वे सामर्थ्यस्येष्यमाणे स ३बीजादिः पदार्थः[५०८]प्राग् इव तद्रूपापरित्यागात् पश्चाद् अप्य् अकारक एव | {प्. १२१.१} कुतः? | सामर्थ्यम् इत्य् आख्या यस्य पदार्थान्तरस्य सहकारिप्रत्ययसान्निध्यलक्षणस्य स एवातिशय[शब्द]वाच्य इतिनैयायिकैर् अभ्युपगमात् | तत एव तद्भावभावित्वेन कार्योत्पत्तेः | ते ऽपि सहकारिणः प्रत्ययाः यद्य् अक्षणिकाः तेष्व् अप्य् एवं [S. १२०ब्.] प्रसङ्गो ऽनिवारित एवेति क्षणिकतैवैकार्थ[क्रिया]प्रतिनियमलक्षणं सहकारित्वम् इच्छतो ऽभ्युपेया | पुनर् अप्य् अक्षणिकानाम् एकार्थक्रियाप्रतिनियमं निराकर्तुम् उपचयहेतुम् आह -- अपि च इत्यादि | यो ऽसाव् अक्षणिको भावः सकलेषु सहकारिषु स्वकार्यं करोतीतीष्यते, स तदैव तावत् कस्मात् करोति? | येन हि कारणेन तत्कार्यक्रियास्वभावत्वेन तदा करोति तेने(नै)व स्थिरस्वभावत्वात् प्राग् अपि कुर्यात्, ततः कुतो ऽस्यैकार्थक्रियाप्रतिनियमः? इति भावः | काचान्यामृग्यते युक्तिःयथातद् दृश्यते तथा इति सर्वत्रेयम् अप्रतिहता युक्तिर् इति मन्यमानःकुमारिलःप्राह -- कुर्वन् दृष्टः इत्यादि | यतस् ४तदैव कार्यं कुर्वम्(न्)[५०९]दृष्टो मया तेन दर्शनबलेन करोतीति ब्रूमः, ५किम् अत्रान्ययोपपत्त्या [T. २९०ब्.] ऽभिहितया[५१०]?, प्राक् तत् कुर्वन् न दृष्टः तेन न करोतीत्य् एकार्थ[क्रिया]प्रतिनियमः सिध्यति अक्षणिकानाम् अपीति | भावो हि कार्यं करोति तज्जननस्वभावतया न दर्शनबलेनादृष्टस्यापि स्वकार्यकरणात् अतो नेदम् उत्तरं सम्बध्यत इत्य् उपहसन्न् आह -- अहो महासामर्थ्यम् इत्यादि | महाप्रभावस्य भवतो महासामर्थ्यं दर्शनम्, यस्माद् एतद् भावान् कार्यकरणस्वभावविकलान् अपि -- यदि कार्यकरणस्वभावत्वाद् भावाः कार्यं कुर्युः तदैतद् एवोत्तरं किं नोक्तम्?, यतः [S. १२१अ.] कार्यकरणे दर्शनम् उत्तरीकृतम् इति कृत्वा -- स्वभावमात्रेण आत्मसत्तामात्रेण नानाप्राकारेषु व्यापारेषु नियुङ्क्ते तत् कथं महासामर्थ्यं न स्यात्? | न चात्र मे काचिद् अक्षमा[५११]किन्तु यदि नाम किञ्चित् कारनं कथञ्चिद् अनादृतस्य वा व्याक्षिप्तस्य वा अत्रभवत इति पूजावचनम् {प्. १२२.१} दर्शनस्य विषयताम् अतिक्रामेत् तदा हन्त इति दैन्योद्भावनम् एतत्, अप्रसवो धर्मो ऽस्य तद् इदम् -- अप्रसवधर्मकं ततो ऽपेतसन्तानं स्याद् इति इयम् अस्माकं चिन्ता चित्तं दुनोति | पर आह -- न वै वयम् इत्यादि | नैव वयं कार्यकरणस्वभावरहितानां भावानाम् अस्मद् दर्शनवशात् काऋयक्रियांब्रूमः, किन्तु स्वभावेनैव ते भावाः तत्कार्यकरणस्वभावाः, ततः स्वकार्यं कुर्वन्ति | तान् पश्यन्तः१केवलंजानीमहे त[५१२]एते कारकस्वभावा इति | दर्शनस्य हि यथावस्थितवस्तुविज्ञाने व्यापारः, नाविद्या(द्य)मानस्वभावक्रियायाम् इति| सिद्धान्तवाद्य् आह -- सत्यम्, इदम् अप्य् अस्ति | किं वयं न्यायानुरागितया न्याय्यं [T. २९१अ.] वचनम् उपलक्षयामः, उत भवान् एव सर्वदा न्याय्यवचनरहितो ऽपि कथञ्चिन् न्याय्यम् उक्तवान् इति सञ्जातपरितोषः पृच्छति -- किं तद्? इत्य् आह -- स्वभावस् तेषां भावानां कार्यक्रियाधर्मा कार्यकरणधर्मा तेन कारणेन समस्ताह् समग्राः प्रत्ययाः सहकारिणो येषां तेषाम् अकृत्वा कार्यं नोपेक्षापत्तिः नौदासीन्य् अप्रतिपत्तिः इति सत्यम् -- इदम् अप्य् अस्ति भवतो न्याय्यं वचनम् इति, किन्तु इदम् असि प्रष्टव्यः -- [S. १२१ब्.] सो [ऽक्षेप]क्रियाधर्मास्वभावःकिंतेषांतदैवान्त्यावसथायां समग्रावस्थायां यदनन्तरं कार्यम् उत्पद्यते तदैव उत्पन्नः? आहोस्वित् प्राग् अपि परस्परविरहावस्थायाम् अपि आसीत्? | तत्र तदैवोत्पन्ने तत्स्वभावत्वे ऽपूर्वोत्पत्तिर् एव, अतत्स्वभावत्वे सो ऽकारक एवेति प्रागुक्तदोषभयात् पर आह -- आसीत् | कुतः? प्रच्युतश् च उत्पन्नश् च प्रच्युतोत्पन्नः[५१३], तस्य प्रतिषेधः अप्रच्युतो ऽनुत्पन्नः स्थिर एकः स्वभावो येषां भावानां तेषां कस्मिंश्चित् काले कस्यचित् स्वभावस्य तत्रोपलब्धस्य अभावविरोधात् | क्षणिकेष्व् एव ह्य् एकदा दृष्टः स्वभावो ऽन्यदा न भवेत् तदा तस्यान्यत्वात् | नाप्रच्युतानुत्पन्नपूर्वापररूपेषु स्थिरेषु भावेष्व् इति | {प्. १२३.१} अत्राह -- तत् किम् इदानीम् इत्यादि | स्यान्मतम् -- नैवेदम् अनेन वाक्येन सदृशम् अस्मद् वाक्यम् इत्य् आह -- को वाऽस्य इत्यादि | यद्य् एतद् अनेन तुल्यं [T. २९१ब्.] न भवति तदा सकलसहकार्यवस्थायाः[५१४]प्राग् अपि अयम् अक्षेपक्रियास्वभावः अविलम्वितकार्यकरणस्वभावः कार्यंच न करोतीत्य् अस्य भाषितस्यार्थो वक्तव्य इति | नैयायिकास् तु मन्यन्ते -- भावानां सहकारिसन्निधानासन्निधानापेक्षया कारकाकारकस्वभावव्यवस्था, न स्वभावतः, तेनायम् अप्रच्युतोत्पन्नस्थिरैकस्वभावत्वे ऽपि [S. १२२अ.] न प्राग् अपि स्वकार्यजननस्वभावः, किन्तु सन्निहितसकलसहकारिप्रत्यय एवेति | तन्मतम् आशङ्कमान आह -- सहितः इत्यादि | एतन् निरस्यति -- अन्यस् तर्हि इत्यादि | यदि नाम सहितस्य स्वकार्यजननस्वभावता, केवलस्य च तद्विपरीतरूपता, अन्यत्वं तु कस्माद् भवति? इत्य् अत आह -- स्वभावभेद इत्यादि | स्वभावभेद एव हि भावभेदस्य लक्षणम् | स चेत् तत्कार्यजनकाजनकरूपतया भिद्यते, शालियवबीजादीनाम् इव कथं इव भावभेदो न स्यात्? | न हि स्वभावाद् अन्यो भावः यतस् तद्भेदे ऽपि न भिद्येत, निःस्वभावताप्रसङ्गात् | ननु चोक्तं स्वतो जनकाजनकस्वभावताविरहात् प्रत्ययान्तरभावाद्यपेक्षत्वात् जनकाजनकरूपतायास् तद्भेदे ऽपि कुतो भावभेदप्रसङ्गः?,[५१५]तस्यापरापेक्षस्वभावभेदलक्षणत्वात्[५१६]इत्य् अत आह -- न हि स साहित्ये ऽपि इत्यादि | तदैतद् उत्तरं भावत्कं सम्बध्येत[५१७]यदि भावो यो ऽसौ परः सहकारित्वाभिमतः [T. २९२अ.] सन्निधीयते तद्रूपेण कर्त्ता स्यात् न स्वरूपेण | न चैतद् अस्ति, तथाभावे हि परमार्थतः स एव परः[५१८]कर्त्ता स्यात् | तत्र तु कर्तृत्वव्यपदेशः [S. १२२ब्.] कल्पनानिर्मित एव भवेत् | न च कल्पनानुविधायिन् यो ऽर्थक्रियाः | न हि माणवको दहनोपचाराद् आधीयते पाके | ततश् च नास्यानुपकारिणो भावम् अपेक्षेत कार्यम् इति तद्रहितेभ्य एव {प्. १२४.१} सहकारिभ्यो भवेत् | यद् वा तेभ्यो ऽपि न भवेत् | तेषाम् अपि पररूपेण कर्तृत्वे स्वयम् अकारकत्वात् | ततः सर्वेषाम् एवं स्वयम् अकारकत्वे पररूपेणाप्य् अकारकत्वात् सर्वथा कारकोछेद एवेति न किञ्चित् कुतश्चित् जायेत | तस्मात् स्वरूपेणैव भावः स्वकार्यस्य कर्त्ता न पररूपेणेति नास्योत्तरस्यावकाशः | ततो ऽन्यः सहितो ऽन्यश् च केवलः इत्य् एतद् अविचलम् एवेति | अथ येन स्वरूपेणायं जनकस् तद् अस्य सहितासहितावस्थयोः सर्वदा ऽस्ति तदा स्वरूपं च स्वकार्यजनकम् अस्य स्थिरस्वभावस्य प्राग् अपि सहितावस्थायास् तद् एव यत्सहितावस्थायाम् अक्षेपक्रियास्वभावम् इति तस्मात् न कथंचित् कार्यक्रियाविरामः | अथवा कदाचित् परो ब्रूयात् स्वहेतुभिर् एवायं प्रत्ययान्तरापेक्षः [T. २९२ब्.] स्वकार्यजननस्वभावो जनित इति केवलो न करोति | न चास्य सहितासहितावस्थयोः स्वभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः [S. १२३अ.] सर्वदा भावात् इत्य् अत आह -- न हि स साहित्ये ऽपि इत्यादि | स्वरूपेणैवास्य कर्तृत्वात् तस्य च प्राग् अपि भावात् प्रत्ययान्तरापेक्षायाश् च ततो लभ्यस्यात्मातिशयस्याभावेनायोगात् उपकारलक्षणत्वाद् अस्य, अन्यथा ऽतिप्रसङ्गात्, केवलस्य कार्यकरणम् अनिवार्यम् इति अकुर्वतः कथं सहितावस्थाया न भेदः स्यात्? इति भावः | प्रत्ययान्तरापेक्षस्वकार्यकरणस्वभाव इत्य् अपि पररूपेणाकारस्य प्रत्ययान्तरसन्निधानोपलक्षितकाले कारकत्वं न प्राग् इत्य् अयम् अर्थः | ततश् च कदाचित् कार्यक्रियास्वभावो न सर्वदा इति ब्रुवता कथं सर्वदा कार्यजननस्वभावता ऽस्योक्ता भवति? | नन्व् एवं स्वभावभेद एवास्य तदतत्कालयोः समर्थितः स्यात् | तस्मान् नाक्षणिकानाम् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वम् इति स्थितम् | परः २समानदोषताम् आपादयन्न् आह[५१९]-- यस्यापि इत्यादि सुबोधम् | यदि नाम क्षणिकस् तथापि किन्न भवति? इत्य् आह -- उक्तंयादृशस्य सहकारिभिर् अपृथग्भाविनः क्रिया | `ते[५२०]{प्. १२५.१} समर्था [S. १२३ब्.] एव स्वभावतो ऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां [T. २९३अ.] प्राक्पश्चात्पृथग्भावो नास्तिऽ इत्य् अत्र | स कथम् एकक्षणभावी एकस्मिन्न् एवान्त्ये क्षणे भवनशिलः अन्यथाभवेत् अन्त्यक्षणात् प्राक् पश्चात् पृथग् वा भवेत्? यश्चा अन्यथा भवति स एवान्त्यक्षणभावी ४सहकारिसन्तानोपकृतस्वभावो ऽक्षेपक्रियाधर्मा[५२१]न भवतीति नायम् अक्षणिकपक्षोदितः प्रसङ्गः[५२२]क्षणिकपक्षे | कुतः? | कारकाकारकयोः इत्यादि | कारको ऽन्त्यः अकारकस् तदन्यः तयोर् यः स्वभावः स भिन्नो ऽपि भेदाविवक्षयैकत्वेनोक्तः | तथा कारकस्य यो हेतुर् उपान्त्यः, अकारकस्यापि यो हेतुस् तदन्यः स भिन्नो ऽप्य् अभेदविवक्षयैवैकत्वेनोक्तः | तेन कारकाकारकयोर् यौ स्वभावौ तयोर् एकत्र धर्मिणि विरोधात् | तथा तयोः स्वभावयोर् जनकौ यौ हेतू -- एकः कारकस्वभावजनको ऽन्यश् चाकारकस्वभावजनकः -- तयोर् अप्य् एकत्र धर्मिणि विरोधात्, अन्यत्वे सति | अकारकस्वभावजनकहेतोर् उत्पन्नस्याकारकस्य स्वभावस्यान्यत्वात् यश्च भवति स एव न भवतीति नायंप्रसङ्ग इति | __________NOTES__________
SK
[५०८] -दिः समर्थः पदा- -- T. [५०९] तद् एवैकम् अर्थं कुर्वन् -- T. [५१०] किम् अत्र न्यायोपपत्त्या दृष्टया -- T. [५११] अक्षमता -- T. [५१२] केवलं न जनयन्ति | त -- T. [५१३] कर्मधारयो ज्ञेयः | [५१४] -कारिकार्याव- -- T. [५१५] भावभेदस्य [५१६] भावभेदस्य अपरापेक्ष[स्वभावत्वे] यः स्वभावभेदः तन्निमित्तत्वात् | [५१७] संवाद्यते -- T. [५१८] परस्य -- T. [५१९] तां विवक्षन्न् आह -- T. [५२०] प्. ११५.६ [५२१] -भावापेक्षक्रि- -- T. [५२२] दोषः -- T.
SK
[ सेच्तिओन्: ४१. कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः |]
SK
अपरस् त्व् अन्यथा स्थिररूपेष्व् एकार्थाक्रियाप्रतिनियमं [S. १२४अ.] कल्पितवान् तम् उपन्यस्यति यो ऽपि मन्यत इत्यादि | भावस्य १ह्य् अक्षेपक्रियाधर्मैव[५२३]सर्वदा स्वभावः[५२४], न तु [T. २९३ब्.] यथा केचिद् ब्रू(ब्रु)वते -- सहकारिसन्निधानापेक्षा वस्तूनां कारकस्वभावव्यवस्था, न स्वत इति | स्वतो ऽकारकात्वे पररूपेण कारकत्वायोगात् कारकव्यवस्थोच्छेदप्रसङ्गात् | स एवंविधस्वभावो न कदाचित् साहित्यं स्वकार्यकरणे ऽपेक्षते यतो ऽन्यः सहितो ऽन्यश् च केवलः कारकाकारकस्वभावभेदात् स्यात् | स तर्हि सर्वदा तत्स्वभावः कार्यं किन्न करोति? इति चेत् | कार्यस्य प्रत्ययान्तरापेक्षस्वभावतया तस्मिं(स्मिन्) सर्वदा जनकत्वेनावस्थिते ऽपि केवलाद् अभावात्, तेनात्र कार्यम् एवापराध्यति, यत् तस्मिं(स्मिन्) केवले जनकतया ऽवस्थिते ऽपि प्रत्ययान्तराण्य् अपेक्षत इति | ततः {प्. १२६.१} तदात्मनः कार्यस्य सहितेभ्य एव भावाद् एकार्थक्रियालक्षणं सहकारित्वम् अक्षणिकानाम् अप्य् उपपद्यत इति | सिद्धान्तवादी पूर्वदोषानतिक्रमम् अस्य दर्शयन्न् आह -- तस्यापि एवंवादिनाः कथंस नित्याभिमतो भावः केवलःकरोत्य् एव `अक्षेपक्रियाधर्मैव स तस्य स्वभावःऽ इति [S.१२४ब्.] वचनात् | कार्यं च सहितेभ्य एव भवति, `सामग्रीजन्यस्वभावत्वात् तस्यऽ इति वचनात् | तस्मात् केवलान् न भवतीति तदवस्थो विरोधो यः पूर्वम् उक्तः. तथा हि -- यद्य् अक्षेपक्रियाधर्मा तदा ऽवश्यम् अनेन कार्यं कर्तव्यम् न चेद् अवश्यं करोति कथम् अक्षेपक्रियास्वभावः | अक्षेपेण कार्यदर्शनाद् अक्षेपक्रियास्वभावता ऽवगम्यते [T. २९४अ.] नान्यथा इति पराभिप्रायाशङ्कया ऽऽह -- न केवलः इत्यादि | नैवं मयोक्तं केवलः करोत्य् एवेति किन्त्व् अक्षेपक्रियास्वभाव इति | अत्राह -- कथम् इदानीम् इत्यादि | यदि करोत्य् एवेति नेष्यते कथम् अक्षेपक्रियास्वभाव इति कथ्यते? | अथ तथोच्यते तदा नन्व् एतद् एवानेन वचसापरिदीपितम् अभिहितं भवति | किं तत्? | करोत्य् एवेति | स एव ह्य् अक्षेपक्रियास्वभावो यः करोत्य् एव, यस् तु नावश्यं करोति स कथं तद्रूपः स्यात्? | यद् अप्य् उक्तं `कार्यस्यैवायम् अपराधो यत् तस्मिं(स्मिन्) जनकतया ऽवस्थिते प्रत्ययान्तराण्य् अपेक्षतेऽ इति तद् अप्य् अयुक्तम्, यतः कार्यं चायम् अक्षणिको भावः केवलो ऽपि समर्थःसन् परं प्रत्ययान्तरम् अपेक्षमाणंकथम् उपेक्षेत? नैव | अनुपेक्षमाणेन किं कर्त्तव्यम्? | आह -- परं प्रत्ययान्तरम् अनादृत्य तिरस्कृत्य एतत् [S. १२५अ.] कार्यं प्रसह्य हठात् कुर्यात् | क एवं सत्य् अस्य गुणो भवति? इति चेत्, आह -- एवंहि परम् अनादृत्य हठात् स्वकार्यं कुर्वताऽनेन केवलेनापि समर्थेन सता यत् तदात्मनः केवलस्यापि सामर्थ्यं तद् दर्शितं प्रकाशितं भवति | अन्यथा ऽन्यसहितस्यैव करणात् केवलस्य च कदाचिद् अप्य् अकरणात् न `अयं केवलो ऽपि समर्थःऽ इति परेषां बुद्धिः स्यात् | ततो ऽयं तिरस्कृतप्रभाव[५२५]इव कथं भ्राजेत[५२६]? | तस्माद् अयुक्तम् उच्यते कार्यं [T. २९४ब्.] प्रत्ययान्तरापेक्षम् इति | {प्. १२७.१} कार्यापेक्षया ऽपि विरोधस्य तादवस्थ्यं दर्शयन्न् आह -- कार्यंपरम् इत्यादि | कार्यस्य परापेक्षां ब्रुवन् केवलात् कारणाद् अनुत्पत्तिम् अस्य[५२७]कथयसि, `स केवलो ऽपि समर्थःऽ इतीदं वदंस् ततः केवलाद् उत्पत्तिं कार्यस्य ब्रूषे | एते चैकस्यैव कार्यस्य | तत एवैकस्मात् कारणाद् उत्पत्त्यनुत्पत्ती परस्परविरुद्धे कथम् एकत्र कार्याख्ये धर्मिणि स्याताम्? विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् | एकत्र ते ब्रुवाणो `माता च वन्ध्या चऽ इत्य् अनेन सदृशं ब्रूष इति न [S. १२५ब्.] पूर्वोक्तदोषान् मुच्यसे, यत एवम् अपि ब्रुवाणो विरुद्धम् एव ब्रूते न च लक्षयति तत् तस्मात् अयम् अक्षणिकवादी क्षणिकपक्षस्यानवद्यतया तद्वादिनां निर्द्दोषतासम्पत्सु अमर्षलक्षणेर्ष्या एव शल्यं अन्तर्दुःखहेतुत्वात् तेन वितुद्यमानानि व्यथ्यमानानि मर्माणि यस्य सो यमीर्ष्याशल्यवितुद्यमानमर्मा वराको ऽस्वस्थचित्ततया विरुद्धाभिधानम् अप्य् अलक्षयन् विक्लवम् आकुलं पूर्वापरासम्बद्धं विक्रोशति विरोदिति इति कृत्वा अस्वस्थचित्तवचनेष्व् अनादरात् तद्दोषोद्भावनस्य सुतरां दुःखोत्पादनेन क्षतक्षारनिषेकतुल्यत्वात् उपेक्षाम् एव विपश्चितानां(-श्चितां) कृपाधनानाम् अर्हतीति | तद् एवम् अक्षणिकेषु न कथञ्चिद् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं [T. २९५अ.] सम्भवतीति प्रतिपाद्योपसंहारन्न् आह -- तस्माद् इदम् इत्यादि | येषां हि स्थिररूपतया पृथग् अपि भावः सम्भवति तेषाम् अक्षणिकानां पृथक् केवलानां कार्यकरणसम्भवेन हेतुना सहैव कुर्वन्तीति सहकारित्वनियमायोगाद् इदम् एकार्थक्रियालक्षणं सहकारित्वं [S. १२६अ.] क्षणिकानाम् एव | तेषां स्वहेतुपरिणामोपनिधिधर्माणां परस्परोपादानसहकारिप्रत्ययैकसामग्रीजन्यानां पृथग् असम्भवात् |
SK
__________NOTES__________
SK
[५२३] अपेक्षक्रिया- -- T. [५२४] धर्मः -- T. [५२५] -प्रसाव -- T. [५२६] भजेत -- T. [५२७] अवश्यं -- T.
SK
[ सेच्तिओन्: ४२. क्षणिकपक्षे एव एकार्थक्रियारूपसहकारित्वस्य व्यवस्था |]
SK
ननु अतिशयोत्पादनलक्षणम् अपि सहकारित्वं भावेषु दृश्यते तत् कथम् उक्तं प्राक्[५२८]`सर्वत्र नैवातिशयोत्पादनं सहक्रिया, किं तर्हि बहूनाम् एकार्थकरणम् एवऽ इत्य् अत आह -- यत्र तु सन्तानोपकारेण {प्. १२८.१} इत्यादि | एकार्थक्रियालक्षणम् एव सहकारित्वं सर्वत्र न क्वचिद् अतिशयोत्पादनं सम्भवति | यत्र तु सन्तानोपकारेण पूर्वपूर्वप्रत्ययेभ्यो विशिष्टविशिष्टतरोत्तरोत्तरक्षणजननेन भावाः सहकारिणो विवक्षितकार्यस्य हेतुतां प्रतिपद्यन्ते- यथा तण्डुलादिभ्य ओदनादिजन्मनि दहनोदकादयः, बीजादिभ्यश् चाङ्कुरादिजन्मनि पृथिव्यादयः -- तत्र विशेषोत्पादने प्रत्ययानां सहक्रियोच्यते लोके | सन्तानाश्रयेण पूर्वक्षणेभ्यो[५२९]द्वितीयादिविशिष्टक्षणलक्षणं सन्तानाख्यं कार्यम् आशृ(श्रि)त्य [T. २९५ब्.] पूर्वोत्तरक्षणयोर् एकत्वाध्यवसायेन तस्यैवायम् अतिशय इति न द्रव्याश्रयेण | औपचारिकम् एव न तु पारमार्थिकम् | पूर्वपूर्वक्षणेभ्यस् तु [S. १२६ब्.] स्वहेतुपरिणामोपनिधिधर्मभ्य उत्तरोत्तरविशेषोत्पत्तौ पूर्वकारणकलापस्यैकार्थक्रियालक्षणम् एव तत्र परमार्थतः सहकारित्वम् इति न काचित् क्षतिर् इति | कस्माद् द्रव्याश्रयेणातिशयोत्पादनं नेष्यते? | क्षणिके द्रव्ये वस्तुनि विशेषस्यानुत्पत्तेः तस्यानन्तरक्षणभावरूपत्वाद् | यदि तर्हि क्षणिके तण्डुलादिद्रव्ये विशेषो नोत्पद्यते, अनन्तरम् अप्य् असौ मा भूत् | ततो यथा परस्परतो विशेषमनासादयन्तो ऽपि क्षणिकाः सहिता एव कुर्वन्ति न केवलाः, एवम् अक्षणिका अपि | तेनैषाम् एकार्थक्रियालक्षणम् एव सहकारित्वं भविष्यति | न च शक्यं वक्तुम् -- यो यस्य प्राग् अकारकः स्वभावः स पश्चाद् अपीति | तथा हि -- प्रभास्वराद् अपवरकं प्रविष्टस्येन्द्रियम् अर्थप्रतिपत्तिम् अकुर्वद् अपि पश्चात् कुर्वाणम् उपलभ्यते | तद् उक्तम् -- न हि प्रविष्टमात्राणाम् उष्णाद् गर्भगृहादिषु |
SK
अर्थान प्रतिभान्तीति गृह्यन्ते नेन्द्रियैःपुनः||
SK
[Śल्V प्रत्यक्ष- १२६] इति | अत आह -- न हि तण्डुलादीनाम् इत्यादि | विशेषानुत्पत्तौ सन्निधानस्याप्य् असन्निधानतुल्यत्वात् [S. १२७अ.] दहनादिभावे ऽपि तण्डुलादिभ्यो नौदनजन्म स्यात् | [T. २९६अ.] तथा प्रभास्वराद् अपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्यो ऽतिशयं क्रमेण न प्रतिपद्यते तदा प्राग् इव पश्चाद् अप्य् अर्थप्रतिपत्तिं नैव जनयेत् | {प्. १२९.१} तस्माद् यद् असम्भवि कार्यं यत्र दृश्यते तस्य ततो ऽन्यत्वम् एव, शालिबीजाद् इव कोद्रवबीजस्येति निरतिशयाद् अन्यत्वम् एव सातिशयतया तत्कार्यकारिण इति | एवं तावद् यत्र सहकारिभ्यः क्रमेण कार्यं भवति तत्रातिशयोत्पादनलक्षणम् औपचारिकं सहकारित्वम् एकार्थक्रियालक्षणम् एव तु मुख्यं तत्रापीति प्रतिपादितम् | यत्र त्व् अक्षेपेणैवार्थसन्निधिमात्रेण सहकारिणः कार्यं कुर्वन्ति किं तत्रापि सन्तानाश्रयम् अतिशयोत्पादनम् अस्ति? इत्य् अत आह -- अक्षेपकारिषु इत्यादि | `ये ह्य् अव्यवधानादिदेशा इन्द्रियादयः स्वहेतुभ्यो जातास् तेष्व् अविलम्बितकारिषु न विशेषोत्पत्तिः परस्परतः सम्भवति, क्षणिकत्वात्ऽ इत्य् उक्तं [S. १२७ब्.] प्राक् | यदि न विशेषोत्पत्तिः तदा कथं निर्विशेषा ज्ञानस्य कारणी भवन्ति? इत्य् अत आह -- तत्र यथास्वं यस्य ये आत्मीयाः प्रत्ययाः तैः, परस्परोपसर्प्पणव्यवधानादिविरहादेराश्रयभूतैर् ये जाताः योग्यश् चासाव् अत्यासन्नत्वातिविप्रकर्षविरहाद् देशश् च स आदिर् यस्याव्यवहितदेशादेः तत्रावस्थानम् अवस्था येषां ते सह स्वभावनिष्पत्त्या [T. २९६ब्.] स्वभावनिष्पत्तिर् विद्यत[५३०]इत्य् एव कृत्वा ज्णानहेतुतांप्रतिपद्यन्ते तत्र किं परस्परतो विशेषोत्पत्त्या प्रार्थितया? | यदि हि स्वहेतुभ्य एव परस्परोपसर्प्पणाद्याश्रेभ्यः स्वकार्यजननक्षमा योग्यदेशाद्यवस्थानलक्षणविशेषयोगिनो नोत्पद्येरन्, तदैषां परस्परतो विशेषोत्पत्तिः प्रार्थ्येत, न तु स्वहेतुभ्य एव तथाविधानाम् उत्पत्तौ | यत एवम् इति तस्मात् तत्र तेषु अक्षेपकारिष्व् इन्द्रियादिषु एकार्थक्रियैव मुख्यं सहकारित्वं न सन्तानाश्रयेण [S. १२८अ.] व्यवस्थाप्यमानम् अतिशयोत्पादनलक्षणं गौणम् इति | अथ विशेषोत्पादनलक्षणं सहकारित्वं कथं न व्यवस्थाप्यते? | तद् अपि हि लोके प्रतीतत्वाद् व्यवस्थापनीयम् एवेत्य् अत आह -- यत्र तु कार्ये नाव्यवधानादिदेशोपनिपातमात्रेणैवेन्द्रियादय इव सहकारिणः प्रत्ययतां प्रतिपद्यन्ते, किन्तु {प्. २३०.१} विवक्षितकार्योत्पादानुगुणं प्रतिक्षणं प्रकृष्यमाणं विशेषम् उत्पादयन्तः तत्र कालक्षेपभाविनि कार्ये कर्त्तव्ये हेतुसन्तानो ऽपरापरक्षणभावलक्षण आत्मातिशयासादनार्थं सहकारीणि प्रत्ययान्तराण्य् अपेक्षते, न तु तत्समानकालः कारणक्षण इति | ततस् तेभ्यः कारणान्तरेभ्यः स्वभावान्तरस्य कार्योत्पादानुगुणविशेषपरम्परालक्षणस्य प्रतिलभ्यः सन्तानस्यैकत्वेनाधिमुक्तस्योच्यते लोके | परमार्थस् तु तत्रापि पूर्वः पूर्वः प्रत्ययकलाप उत्तरोत्तरकार्योत्पादानुगुणे [T. २९७अ.] विशिष्टक्षणे प्रतिनियत इत्य् एकार्थक्रियालक्षणम् एव सहकारित्वम् अनुभवति | कथाम् पुनः स्वभावान्तरप्रतिलम्भस् तेषाम्?, यतः क्रमेण कार्यं निर्वर्त्तयन्तीत्य् अत आह -- तत्र स्वरसतः इत्यादि | तत्र तस्मिन् हेतुसन्ताने ये हेतव उपादानकारणाख्याः ये च प्रत्ययाः सहकारिसंज्ञितास् तेषां ये पूर्वे [S. १२८ब्.] प्रथम उपनिपातक्षणाः तेषां विनाशहेत्वनपेक्षितया स्वरसतो निवृत्तौ सत्यां तेभ्य एव स्वरसतो निवर्त्तमानेभ्यः प्रथमक्षणेभ्यः कार्योत्पादानुगुणेन विशेषेण विशिष्टस्य क्षणस्योत्पत्तिः तेभ्यो ऽनुगुणतरविशेषवतां तृतीयक्षणानां तेभ्योनुगुणतमविशेषवतां चतुर्थक्षणानाम्; एवं यावद् अत्यन्तातिशयवानन्त्यः कारणकलापो जातः ततः कार्यस्योत्पत्तिः इत्य् एवं सहकारिभ्यः स्वभावान्तरप्रतिलम्भः, क्षेपवती च कार्योत्पत्तिर् इति | अत्र परश् चोदयन्न् आह -- सहकारिणः सह करणशीलात् कारणात्, जाताव् एकवचनम्, यत् समुत्पन्नविशेषम् अनन्तरोक्तेन प्रकारेण कारणं अन्त्यसामग्रीक्षणलक्षणं ततो ऽङ्कुरादिकार्योत्पत्तौ इष्यमाणायां तस्यैव विशेषस्याद्यस्य कार्योत्पादनानुगुणस्य यः क्रमेणाभिवर्द्धमानः कार्यस्य जनक इष्यते तस्यैव उत्पत्तिर् न स्यात् प्रथमक्षणोपनिपातिनां [T. २९७ब्.] परस्परतो विशेषानासादनात् क्षणानाम् अविवेकात् अनभ्युपगमाच् च | परस्परतो ऽनवाप्तविशेषा एव कार्योत्पादनानुगुणं विशेषम् आरप्स्यन्त इति चेद् आह -- अविशिष्टाद् अविशिष्टेभ्यः परस्परतो {प्. १३१.१} विशेषस्य कार्योत्पादानुगुणस्योत्पत्ताव् इष्यमाणायां कार्यस्य अङ्कुरादेः स्यात्, विशेषाभावाद् इत्य् अभिप्रायः | ततश् च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः [S. १२९अ.] कार्यं कुर्वीरन् | किम् एवं सति सिद्धं भवति? इति चेत्, आह -- तेन येन क्षणिका अपि परस्परतो विशेषोत्पादा ऽनपेक्षा एव स्वकार्यं कुर्वन्ति एककार्यप्रतिनियमलक्षणं च सहकारित्वं प्रतिपद्यन्ते तेन कारणेन अक्षणिकानाम् अपि कारणतास्यात्, अपेक्षणीयेभ्यःस्वभावातिशयोत्पत्तिश्च न स्यात् इत्य् अक्षणिकवादी क्षणिकपक्षेण[५३१]स्वपक्षस्य साम्यमापादयति | यद् आह -
SK
__________NOTES__________
SK
[५२८] प्. ११३.२७ [५२९] पूर्वपूर्वक्ष- -- T. [५३०] मिद्यते -- T. [५३१] क्षणिकापेक्षणात् -- T.
SK
कःशोभेत वदन्नेवंयदि न स्याद् अह्नीकता|
SK
अज्ञतावायतःसर्वंक्षणिकेष्व् अपि तत्समम् ||
SK
विशेषहेतवस् तेषांप्रत्ययान कथञ्चन |
SK
नित्यानाम् इव युज्यन्ते क्षणानाम् अविवेकतः||
SK
इति | तत्रैतत् स्यात् प्रथमक्षणे ऽपि क्षितिबीजादयः परस्परतः समुत्पन्नविशेषा एव सन्निधीयन्ते -- येन यस्याभिसम्भन्धो दूरस्थस्यापि तेन सः| इति न्यायाद् धि दूरदेशवर्त्तिनाम् अपि हेतुफलभावात् इत्य् आशङ्क्याह -- अथ सहकारिणा इत्यादि | सहकारिणः [T. २९८अ.] परस्परसम्पर्क्कविकला अपि वस्तुधर्मतयैवान्योन्यम् उपकुर्वन्तीति सहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव सम्पर्क्ककाल उपतिष्ठेत, एवं [S. १२९ब्.] सत्य् अनवस्था स्यात् | तथा हि -- तद्विशेषोत्पत्ताव् अप्य् अपरः सहकारिकृतो विशेषो ऽभ्युपगन्तव्यः, तथा तदुत्पत्ताव् अप्य् अन्य इति | अथ नैवं सहकारिणः परस्परस्य कार्योत्पादानुगुणविशेषनिमित्तम् अपरं विशेषं कुर्वन्ति, स्वभावत एव तत्र तेषां योग्यत्वात् इत्य् अत आह -- न च इत्यादि | नैव हि सहकारिणः क्षितिबीजादयः परस्परस्य कार्योत्पादानुगुणो यो विशेषः तदुत्पादने नित्यं सर्वकालं योग्यावस्था येन योग्यावस्थत्वेन नित्यानुशक्तः नित्यानुबद्धः एषां क्षितिबीजादीनां {प्. १३२.१} कार्योत्पादानुगुणविशेषजनको विशेषः स्यात् यतः `अविशिष्ताद् विशेषोत्पत्तौ कार्यस्यापि स्यात्ऽ इत्य् एतद् अपि परिह्रियेत | कुत एतद्? इत्य् आह -- तदुपाय इत्यादि | तेषां क्षितिबीजादीनाम् उपाये -- योग्यदेशोपनिपाते कार्यव्यक्तिदर्शनात्[५३२]अपाये च -- परस्परसम्पर्क्कविरामे कार्यानुत्पत्तिदर्शनात् | यदि हि कार्योत्पादानुगुणविशेषोत्पादने सर्वदा योग्यावस्थाः स्युः तदा सो ऽपि विशेषः सर्वदा [T. २९८ब्.] स्यात् | ततस् तत्परम्पराभावि कार्यम् इति तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्ती न स्याताम् | [S. १३०अ.] तस्मान् न सहकारिणः कार्योत्पादानुगुणविशेषोत्पादने योग्यावस्थाः सर्वदेति | यतः सहकारिणा पृथगवस्थितेनानवस्थाभयात् कृतविशेषो नोपतिष्ठते परस्परतश् च प्रथमसम्पर्क्कक्षणभाविनां नोपेयते[५३३]युज्यते वा | तेन कारणेनाद्यो विशेषः कार्योत्पादानुगुणः सहकारिभ्यः समानकालतया निरुपकारस्य क्षितिबीजादेः नोत्पद्यते[५३४], उत्पद्यते चासौ इतीष्यते | तेन समग्रावस्थावत् सर्वेषां व्यग्रावस्थाभाविनाम् अपि क्षणानाम् अविशेषात् तज्जननस्वभावत्वे ऽप्य् अजननात् समग्रावस्थायाम् एव जननाद् | यथा क्षणिकानाम् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं तथा स्थिरस्वभावानाम् अपि भविष्यतीति क्षीणसर्वोपायो ऽक्षणिकवादी साम्यम् एवातुर इव बहुमन्यमानस् तत्रैव भरं[५३५]कृतवान् | सिद्धान्तवादी भङ्ग्या परम् उपहसन्न् आह -- नास्माकंपुनःपुनः इत्यादि | यदि पुनः पुनर् वचने ऽपि लोकस्य न्यायप्रतीतिर् भवति शतशो ऽपि ब्रूमः | किम् अङ्ग पुनर् द्वौ त्रीन् वा वारान्? | न हि परार्थप्रवृत्तानाम् अस्माकं पुनः पुनर् अभिधाने कश्चिद् उद्वेगो भवति | एवं वादिनश् च शास्त्रकृतः क्वचित् प्रकारान्तरेण[५३६]तम् एवार्थं [T. २९९अ.] स्फुटीकुर्वतो ये पुनरुक्तापरिहाराय यत् अन्ते स तेषाम् अस्थानपरिश्रम एव | यदि नोद्वेगो हन्त तर्ह्य् उच्यताम् इत्य् अत आह -- न विशेषोत्पादनाद् एव इत्यादि | नैव विशेषोत्पादनात् {प्. १३३.१} सहकारिणां सहकारित्वं परमार्थतः क्वचित् [S. १३०ब्.] सम्भवति, यतः प्रथमक्षणभाविनां बीजादीनां तदभावात् कार्योत्पादानुगुणे विशेषे कर्त्तव्ये सहकारिताविरहः स्यात् | किन्त्व् एकार्थक्रियैव सहकारिणां पारमार्थिकं सहकारित्वं पूर्वोक्ताभिर् युक्तिभिः सम्भाव्यते | सा च प्रथमसम्पर्क्कभाजाम् अस्त्य् एवेति किं न सहकारिणः स्युः? | पर आह -- सा ऽप्य् एकार्थक्रिया न भवेत् परस्परतो विशेषरहितानाम् | यदि पुनः परस्परतो विशेषरहितानाम् अपि तदेकार्थक्रिया ऽङ्गीक्रियते तदा प्रत्येकं तदवस्थायां तदुत्पादनसामर्थ्याभ्युपगमात् तदवस्थायाम् इव पृथग् अपि सा भवेत् | तथा हि -- ते तदवस्थायाम् अपि परस्परतो निर्विशेषा एव कुर्वन्ति | तेषां पृथग् अपि तद्विशेषक्रिया कथम् इव न प्रसज्येत? | न ह्य् एषां संहतासंहतावस्थयोः कश्चिद् विशेषो ऽस्तीति | भवतु, को दोषः? इति चेत्; तथाच कार्योत्पादानुगुणविशेषस्य पृथक्करणप्रसङ्गे सति तस्माद् विशेषाद् भवनशीलम् अङ्कुरादि कार्यम् अपि विशेषवत् केवलात् सहकारिणः स्यात् इति चेन् मन्यसे, अत्रापि सर्वम् उक्तम् उत्तरम् | तथा हि -- संहतासंहतावस्थयोर् निर्विशेषा एव क्षणक्षयिणो भावा इति तदुच्यते तत् किं तावद् विशेषमात्रापेक्षया? आहोस्वित् [T. २९९ब्.] कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया? | यदि प्राच्यो विकल्पः तद् अयुक्तम् | न हि काचिद् विशेषमात्ररहिता ऽवस्था [S. १३१अ.] सम्भवति, सर्वदा ऽपरापरप्रत्यययोगनिबन्धनस्यापरापरविशेषस्य भावात् | न हि कदाचित् किंचिद् एकम् एव, आधारच्छायातपवातशीतादेर् यथासम्भवं भावात् | न च तभावे ऽपि तत् तादृशम् एव, कारणभेदात् | एतावत् तु स्यात् -- कश्चिद् विशेषः क्वचित् कार्ये ऽनुगुणो न सर्वः सर्वत्रेति | एतच् च प्राग् एवोक्तम् इति दर्शयन्न् आह -- प्रतिक्षणम् अपरापरैःप्रत्ययैः इति | `अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्य् अपि कुतश्चित् साम्यात् सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः, तेन किञ्चिद् एव कस्यचित् कारणम्ऽ[५३७]इति, `क्षणिकेषु {प्.१३४.१} भावेष्व् अपरापरोत्पत्तेर् ऐक्याभावात्ऽ[५३८]इति चात्र संक्षिप्ततरम् उक्तम् | एवं च `नास्माकं पुनः पुनर् वचनऽ इत्य् अत्र द्विः पुनर्ग्रहणं युज्यते | यथा येन प्रकारेण भावसन्ताने विशेषस्योत्पत्तिः [त]द् अप्य् उक्तम् -- `तत्र स्वरसतः पूर्वक्षणनिरोधे तेभ्य एव विशिष्टक्षणोत्पादाद् विशेषोत्पत्तिःऽ[५३९]इति | अथ कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया प्राग्वत् प्रथमसम्पर्क्कभाजः परस्परतो निर्विशेषा इत्य् अभिमतं तद् अप्य् अयुक्तम् | यतः कार्योत्पादानुगुणस्य विशेषस्य जनकाः [S. १३१ब्.] क्षितिबीजादयः कीदृशाः ये [T. ३००अ.] व्यवधानादिरहितत्वेनोपनिपातिनः | तद्भाव एव तस्य भावात् एतावन्मात्रनिबन्धनत्वाच् च ४जनकं व्य(-कव्य)वस्थायाः[५४०]| ते च तथाविधाः सर्वदा न भवन्ती कथं पृथग् अपि कार्योत्पादानुगुणविशेषारम्भ एषां स्यात्?, यतः केवलानाम् अपि कार्यक्रिया प्रसज्येत तद् दर्शयति -- योग्यो देशो येषां ते योग्यदेशाः, तद्भावो योग्यदेशता, सा आदिर् येषां अव्यवहितदेशत्वादीनाम् अवस्थाभेदानां ते तथोक्ताः, ते च ते अवस्थाभेदाश् च तथोक्ताः | योग्यदेशताअ(-ताद्य)व्यवहितदेशतादयो ये अवस्थाविशेषाः क्षितिबीजादीनाम् उपजायन्ते ते कार्योत्पादानुगुणविशेषलक्षणकार्यकरणशीलाः, नैवंविधाः सर्वदा बीजादय इति कथम् एषां पृथग् अपि तथाविधविशेषारम्भः स्यात्? | एतद् अपि प्राग् एवोक्तम् `तत्र यो ऽव्यवधानादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुःऽ[५४१]इति वचनात् | तस्य चोदाहरणमात्रत्वात् | इहापि तत्र यो ऽव्यवधानादिदेशः क्षितिबीजादिकलापः स कार्योत्पादानुगुणविशेषजनने समर्थो हेतुर् इति प्रतीयत एव | स च [S. १३२अ.] तथाविधो विशेषः सर्वदा न भवति, तज्जनकस्य हेतोर् अभावात् | परस्परोपसर्प्पणाद्याश्रयस्यैव [T. ३००ब्.] प्रत्ययविशेषस्य तद्धेतुत्वात् | एतद् अपि पूर्वम् एवोक्तम् इत्य् आह -- तेषां च कार्योत्पादानुगुणविशेष[जनने] विशेषवतां यत उत्पत्तिस् तद् अप्य् उक्तम् असकृद् एव `यस् तेषां परस्परोपसर्प्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थो हेतुःऽ[५४२]इति | तथा `यथास्वं प्रत्ययैः परस्परोपसर्प्पणाश्रयैर् ये {प्. १३५.१} योग्यदेशाद्यवस्था जातास् ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्तऽ[५४३]इत्य् अनेन, इहापि गम्यमानत्वात् | ततो यद्य् अप्य् एषां परस्परतो ऽनुपपत्तेर्[५४४]विशेषो न भवति, स्वहेतुकृतस् तु केन वार्यते? | न च स्वहेतुत एव सञ्जातविशेषाणां भावे परस्परतस् तदाशंसा, यतः परस्परतो विशेषायोगः[५४५]प्रतिपाद्यमानः शोभेत | तेषां च कार्योत्पादानुगुणविशेषजनकानां प्रत्ययानां प्रत्येकं सामर्थ्ये ऽपि खण्डशः कार्योत्पादायोगात् सकलस्यैव प्रत्येकं करणात् | यथा केवलानाम् अक्रिया कर्तृविशेषस्याव्यवधानादिदेशक्षितिबीजादिकलापस्य पृथग् एकैकस्य समर्थस्य भावस्याभावाद् इत्य् एतद् अप्य् असकृद् एवोक्तम् `तेषां च न पूर्वं न पश्चात् न पृथग्भाव इति समर्थानापि [S. १३२ब्.] पूर्वापरपृथग्भावभाविनो दोषा नोपलीयन्तेऽ इत्यादिवचनात् | ततस् तथाविधविशेषस्य स्वोपादानमात्रनिबन्धनस्यानभ्युपगमेन [T. ३०१अ.] केवलानाम् अप्रसङ्गात् कुतः कार्योत्पादानुगुणविशेषारम्भद्वारकं कार्यम् अपि स्याद् इति? | कुतः पुनर् अयं कामचारो लभ्यते यदङ्कुरादिकार्यं सहकारिणः परस्परस्य कार्योत्पादानुगुणां विशेषपरम्परां जनयन्तः कुर्वन्ति, कार्योत्पादानुगुणं तु विशेषं व्यवधानादिरहितदेशोपनिपातमात्रेणेत्य्[५४६]अत आह -- कार्यद्वैविध्यंच यस्मात् तस्माद् एवंविभज्यते | कथं द्वैविध्यं कार्याणाम् इति? अत आह -- सहकारिभिर् अव्यवधानादिदेशैर् अनन्तरं सञ्जनिताः परस्परस्य प्रागवस्थापेक्षविशिष्टक्षणभावलक्षणा ये विशेषास् तत्परम्परया उत्तरोत्तरविशिष्टविशिष्टतरादिक्षणभावरूपया उत्पत्तिर् द्धर्मो यस्य तदात्मकम् एकं कार्यम् | अन्यच् च तद्विपरीतं यत् सहकारिसन्निधिमात्रेण भवति न परस्परकृतां विशेषपरम्पराम् अपेक्षते | अत्रोदाहरणम् -- अङ्कुरादिवत्, आदिग्रहणाद् ५ओदनादिवत् | तथा ऽक्षेपेण[५४७]करणशीलं यदिन्द्रियं [S. १३३अ.] तद्विज्ञानादिवच् च | प्रभास्वराद् अपवरकप्रविष्टेन्द्रियनिरासार्थं चैतद् विशेषणम् | कुत एतद्? इति चेत् {प्. १३६.१} कार्यकारणयोः स्वभावभेदात् | किंचिद् धि कार्यं कारणसामग्रीसन्निधिमात्रजन्यस्वभावम्, तद् अन्यत् तु तत्परिणामापेक्षम् इति | कारणम् अपि किञ्चित् [T. ३०१ब्.] स्वसन्निधिमात्रेण कार्यजननस्वभावं स्वकारणेभ्य एव भवति, येन परस्परकृतां विशेषपरम्परां स्वकार्यकरणे नापेक्षते | अन्यत् तु तद्विपरीतस्वभावम् | यथा किञ्चिद् एव शाल्यङ्कुरजननस्वभावम्, तद्विपरीतं चापरम् | शाल्यङ्कुरश् च तद्बीजजन्यस्वभावो न यवादिबीजजन्यस्वभाव इति न भावानां स्वहेतुबलायाताः प्रमाणाधिगताः स्वाभावाः पर्यनुयोज्याः | ये तु यज्जननस्वभावाः प्रमाणतो ऽधिगताः ते किं सर्वदैव तत्स्वभावाः? आहोस्वित् तदैव? इत्य् अत्र चिन्ता प्रवर्त्तते | तत्र सर्वदा तत्स्वभावत्वे पश्चाद् इव प्राग् अपि तत्कार्यक्रियाप्रसङ्गेन पररूपेणाकारकस्य [S. १३३ब्.] भिन्नस्वभावता कारकाकारकावस्थायोः शालियवबीजादीनाम् इव तत्त्वचिन्तकैर् उच्यते | सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्व् इव केशनखादिषु ६इत्य् अत्र[५४८]विरोधाभावाद् इति | यदा च तत्कार्यकारणस्वभावभेदात् कार्यद्वैविध्यम्, तत्रैतस्मिं(स्मिन्) सति सहकारिभ्यः क्षितिबीजादिभ्यस् तेषां परस्परसन्तानोपकारम् अपेक्षते यत् कारणम् अन्त्यवस्थाप्राप्तं तस्य यत् कार्यम् अङ्कुरादिकं तज्जन्मनिमित्तं सहकारिणां प्रथमक्षणानन्तरं विशिष्टद्वितीयक्षणभावरूपो यो [T. ३०२अ.] विशेषः कार्योत्पादानुगुणः आद्यो भवति स तेषां सहकारिणां प्रथमसम्पर्क्कभाजां परस्परकृतो यो विशेषस् तज्जन्मा न भवति परस्परोपसर्प्पणाद्याश्रयाद् एव प्रत्ययविशेषात् तस्य भावात् | ततः कार्योत्पादानुगुणाद् आद्याद् विशेषात् प्रथमक्षणोपनिपातिभिः सहकारिभिर् अन्यतः [S. १३४अ.] समासादितविशेषैः जनितात् तत्प्रभृति ये विशेषाः प्रकृष्यमाणतदुत्तरोत्तरक्षणभावलक्षणा जायन्ते ते तज्जन्मानः सहकारिकृतविशेषजन्मानः | कुतः? तत्प्रकृतित्वात् तस्याद्यस्य विशेषस्य परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् आसादिततदनुकूलविशेषैः सहकारिभिः परस्परोपकारनिरपेक्षैर् जन्यस्वभावत्वात्, तदुत्तरेषां च विशेषाणां {१३७.१} सहकारिकृतकार्योत्पादानुगुणविशेषजन्यस्वभावत्वात् | यत एवम् इति तस्मात् १नानवस्था प्राग्[५४९]उक्ता | अथ सहकारिणा क्षित्यादिना कुशूलाद्यवस्थो ऽपि बीजादिः तेनापि क्षित्यादिः कृतविशेष एवोपतिष्थेतानवस्थैवं स्यात् इति | तस्य प्रकारस्यानभ्युपब्गमात् पुरुषप्रयत्नादेर् एव [T. ३०१ब्.] क्षेत्रप्रकिरणहेतोर् अव्यवहितस्निग्धपृथिवीबीजसम्पर्क्कलक्षणस्य कार्योपादानुगुणविशेषजनकस्य विशेषे ऽस्योपगमात् | तत्र यद् उक्तं परेण `यथा प्रथमसम्पर्त्तभाजः क्षितिबीजादयः परस्परस्य विशेषमनाद् अधानाह् कार्योत्पादानुगुणं विशेषं जनयन्ति, तथा [S. १३४ब्.] स्थिररूपा अपि भावाः तदेककार्यप्रतिनियताः परस्परकृतविशेषनिरपेक्षा एव भाविष्यन्तिऽ इति, तदभ्युपगच्छन्न् आह -- तथायद्य् अक्षणिको ऽपि इत्यादि | क्षणिकवद् अक्षणिको ऽपि यदि कार्यं करोति करोतु नाम | न कश्चिद् वारयति | किन्तु येन स्वभावेन कार्यं करोति स यदि अविलम्बितकार्यकर्तृधर्मा अपेक्षेण करोतीत्य् एवंशीलो धर्मो यस्य स तथोक्तः, तदा पृथग्भावस्य सम्भवात् केवलो ऽपि न केवलं सहितः तथास्यात् तत्कार्यकारकः स्याद् इत्य् उक्तं बहुशः | अतत्स्वभावस् तु अक्षेपकर्तृस्वभावविकलस् तु तदाऽपि सहितावस्थायाम् अपि प्राग्वत् अकारक एव पररूपेण कर्तृत्वस्य पूर्वम् एव निषेधात् | तद् एवम् एकार्थक्रियया विशेषोत्पादनेन चाक्षणिकानां सहकारित्वं निषिध्योपसंहरन्न् आह -- तस्मात् इत्यादि | द्विविधस्यापि सहकारित्वस्यायोगान् नैवाक्षणिकस्य कश्चित् [T. ३०३अ.] सहकारीति केवलो ऽपि स्वकार्यं कुर्याद् इति सहकारिप्रत्ययापेक्षस्याक्षणिकस्य हेतुतां ब्रुवाणस्य किं युक्तम् इति [S. १३५अ.] दर्शयन्न् आह -- प्रायस् तु इत्यादि | यो हि स्थिरहेतुवादी तस्य यदि स हेतुः प्रत्ययान्तराण्य् अपेक्ष्य कार्यं करोति तदा व्यक्तम् अवश्यं तस्य स्थिरस्य हेतोः प्रत्ययान्तरापेक्षकारकस्य स्वभावान्तरस्योत्पत्तिर् इति | नाकार्यस्य कार्यताम् अननुभवतो ऽपेक्षेत्य् उच्यते | यतः सहकारिणां यः संघातः सन्निपातः तत्स्थायी तत्र वर्त्तमानो भावसन्तानः प्रायः बाहुल्येन सहकारिप्रत्ययैर् उपजनितविशेषः सन् स्वकार्यंकुर्वन् दृष्टो {प्. १३८.१} बीजादिवत् तस्माद् एवं विभज्यते | प्रायोग्रहणं चाक्षेपकारीन्द्रियादिसङ्घातव्यवच्छेदार्थम् | तत्सम्भविनो न्यायस्याक्षणिकेषु पृथग्भावसम्भवेन कथञ्चिद् अपि कल्पयितुम् अशक्यत्वात् | प्रागकारकस्य पश्चात् कारकस्वभावान्तरोत्पत्तिस् तु न विरुध्यते | तस्यैव ह्य् अकारकस्य तदात्मा कारकः स्वभावो न युज्यते न त्व् अतदात्मा | अत एव स्वभावान्तरग्रहणम् | तत्र केवलम् अकारकस्वभावस्य स्वरसनिरोधितामात्रम् उपेयम् | [T. ३०३ब्.] ततः सर्वं सुस्थम् इति | अथ मतम् -- कारकस्वभावान्तरोत्पत्तिर् इष्यते यदि स्थिरस्य हेतोः प्राग् अपि कारकस्वभावो [S. १३५ब्.] न स्यात् | तस्य तु प्राग् अपि भावात् प्रत्ययान्तरापेक्षा तदुत्पत्तिर् अप्य् उक्तेति अत आह -- कारकस्य इत्यादि | यदि हि समग्रावस्थायाः प्राग् अपि कारकस्वभावो भवेत् तदा ऽस्याक्रिया न युज्यते, संहतावस्थायाम् अपि तत्स्वभावतयैव करणात्, पररूपेण कर्तृत्वस्य प्राग् एव निषिद्धत्वात् | न च करोति | तस्मात् सो ऽस्य स्वभावः प्राङ् नैवासीत् | यदि च प्रत्ययान्तरैर् अप्य् असौ न क्रियेत तत् २किम् इति मुधैव तान्य् अपेक्षते?[५५०]इति |
SK
__________NOTES__________
SK
[५३२] कार्योत्पाददर्शनात् -- T. [५३३] नोपायता -- T. [५३४] नोपपद्यते -- T. [५३५] परं -- T. [५३६] पर्यायान्तरेण -- T. [५३७] प्. ११६.१३ [५३८] प्. ८८.१९ [५३९] प्. १३०.११ [५४०] जनकव्यव- -- T. [५४१] प्. ११७.१५ [५४२] प्. ११७.२४ [५४३] प्. १२९.१२ [५४४] ऽनुत्पत्तेर् -- T. [५४५] विशेषयोग -- T. [५४६] -देशक्रममात्रे- -- T. [५४७] -दि गृह्यते | अक्षे- -- T. [५४८] अत्रापि -- T. [५४९] न घटाभाव इति नानावस्था प्राग् -- T [५५०] किम् इति तथा ऽन्यान्यपेक्षते -- T.
SK
[ सेच्तिओन्: ४३. निर्हेतुकविनाशचर्चाया उप्संहारः |]
SK
तद् एवं `तत्स्वभावस्य जननात्ऽ[५५१]इत्य् अस्य `यो यत्स्वभावः स स्वहेतोर् एवोत्पद्यमानः तादृशो भवति न पुनस् तद्भावे हेत्वन्तरम् अपेक्षतेऽ[५५२]इत्य् अस्यानेकान्तपरिहारायोक्तस्य प्रकारान्तरेणानेकान्ते उद्भाविते तत्परिजिहीर्षया अपरापरप्रत्यययोगेन[५५३]इत्य् आद्य् अभिहितम् | तत्र येन न्यायेन क्षणिकानां हेतुफलस्वभावः तस्याक्षणिकेष्व् असम्भवं प्रतिपादयितुं प्रासङ्गिकं यद् उपक्रान्तं तत् परिसमापय्य प्रकृतम् अनुबध्नन्न् आह -- तस्माद् यो यदात्मा इत्यादि | यदि स्वभावेनास्थितिधर्मणो भावस्य [S. १३६अ.] न नाशकारणैः प्रयोजनं स्वभावेन स्थितिधर्मणो भविष्यतीत्य् अत आह -- स्थितिधर्मणो ऽपि इत्यादि | स्थितिधर्मणो ऽपि हि नैव नाशकारणैः किञ्चित् प्रयोजनम् | तस्य स्वहेतुभ्यः समुपजातो यः स्थिरः स्वभावः {प्. १३९.१} तदन्यथात्वस्यास्थिरात्मतापत्तेः केनचित् कर्त्तुम् अशक्यत्वात् | कामं हि भावाः स्वयं न भवेयुः | न तु सन्त एव स्वं स्वभावं परित्यजन्ति | अथ स्थितिधर्मणो ऽप्य् अन्यथात्वप्रतिपत्तिर् इष्यते तदा ऽन्यथात्वप्रतिपत्तौ वा तत्स्वभाव एव स्थितिधर्मैव न स्यात्, आत्मभूतस्यास्थितिधर्मणः स्वभावस्य पश्चात् सम्भवे प्राग् अप्य् अभावआयोगात् | न हि तदातमनस् तस्मिं(स्मिन्) सन्निहिते कदाचिदभावो युक्तः, अतत्स्वभावताप्रसङ्गात् `विरुद्धधर्माध्यासस्य भेदलक्षणत्वात्ऽ इत्य् उक्तम् | तथा च सति पूर्व एव विकल्पः स्वभावेनास्थितिधर्मा भाव इति | तत्र च पूर्वविकल्पे प्राग् एवोक्तं दूषणं विनाशहेतोर् वैयर्थ्यम् इति | अथासौ स्थिरस्वभाव एव, केवलम् अस्यास्थिरस्वभावता प्राग् असति विनाशहेतोर् उपजायते, अन्यथा निवृत्त्ययोगाद् इत्य् अत आह -- यश्च परस्मात् नाशहेतोः स्थितिधर्मणः [S. १३६ब्.] सतः अन्यथाभावः अस्थितिधर्मतालक्षणो भवति, स पूर्वकात् स्थितिधर्मणः स्वहेतुसमुद्भूतात् स्वभावात् अपरः अन्यः स्वभावस् तस्मिन् निष्पन्ने पश्चा[ज् जन्य]त्वाद् भिन्नहेतुकत्वाच् च कथंतस्य स्वभावः स्यात्? | तदात्मतया प्रतिभासनाद् इति चेत् | सारूप्याद् अलक्षितविवेकस्य तथा प्रतिभासनं स्यात् यद्य् असौ [T. ३०४ब्.] पूर्वस्वभावे सत्य् एवान्यतो भवेत् | अन्यथा विरोधः कथं परिह्रियेत? | भवत्व् अपरः स्वभाव इति चेत् | यश् चापरः स्वभावः स कथं तस्य? | न ह्य् अन्यो ऽन्यस्य स्वभावो युक्तः, अतिप्रसङ्गात् | यो ऽपरः स्वभावः स किम् इति तस्य न भवति? इत्य् अत आह -- स्वभावभेद- इत्यादि | भवतु वस्त्वन्तरम् एव तदपरस्वभावतया को दोषः? इत्य् अत आह -- तथाच वस्त्वन्तरत्वे सति विनाशहेतोर् उपजायमानस्य स्वभावस्य पूर्वको भावः स्वहेतुभ्यो यः स्थितिधर्मा [S. १३७अ.] जातः सो ऽच्युतिधर्मे स्थितो निवृत्तिभाङ् न भवति, विनाशहेतोर् वस्त्वन्तरोत्पत्तौ व्यापृतत्वाद् इति न तस्य स्थितिधर्मणो ऽन्यथाभावो निवृत्तिः | न हि मुद्गरादेर् वस्त्वन्तरस्य भावे ऽपरस्य निवृत्तिर् युक्ता, अतिप्रसङ्गात् | तदुपमर्द्देन तदुत्पत्तौ च प्राग् एव प्रोक्तम् | {प्. १४०.१} ननु च दृश्यत एव कठिनादिरूपस्य ताम्रादेर् अग्न्यादेर् विनाशहेतोर् द्रवादिस्वभावान्तरोत्पत्तिः | न च पूर्वकस्य प्रच्युतिधर्मता इत्य् अत आह -- एतेन अनन्तरोक्तेन कठिनादीनाम् आदिशब्दाद् २द्रवादीनां ताम्रसुवर्णादीनाम्[५५४]अग्निशीतवातादिभ्यो द्रवत्वकठिनत्वादिस्वभावान्तरोत्पत्तिर् व्यवस्थितरूपस्य ताम्रादेः प्रत्युक्ता प्रत्याख्याता, तुल्यदूषणत्वात् | कथं तर्हि स्वभावान्तरोत्पत्तिः पूर्वस्य चाप्रच्युतिधर्मे स्थितस्याभावो [T. ३०५अ.] युक्तः? इत्य् आह -- तत्रापि कठिनादिरूपे ताम्रादौ पूर्वकस्य कठिनद्रवादिरूपस्य स्वरसनिरोधित्वात् विनाशहेत्वयोगेन | विनाशे सति अग्न्यादेः आदिग्रहणाज् जलनिषेकशीतवातादेः | सहकारिणः परस्परोपसर्प्पणाद्याश्रय प्रत्ययविशेषोपजातातिशयाद् उपादानाच् च यत् तत् कठिनादिरूपं ताम्रादि स्वरसतो विरुध्यते | तत एव उपादानकारणाद् अग्न्यादिसहकारिकारणोपादानप्रत्ययोपजातविशेषाद् अपर एव अन्य एव द्रवकठिनादिस्वभावो द्रवग्रहणस्योपलक्षणत्वात्, [S. १३७ब्.] उत्पन्नो न तु पूर्वकम् एव कठिनद्रवादिरूपं ताम्रादि व्यवस्थितात्मकं द्रवकठिनादिस्वभावेन परिणतम् इति | अत्र पर आह -- केनोक्तं यथा `स्थितिधर्मणः सतो ३विनाशहेतोर् अस्थितिस्वभावोत्पत्तिस्[५५५]ततो विनाशःऽ इति, येन `यश् च परस्माद् अन्यथाभावः सो ऽपरः स्वभावःऽ इत्याद्य् उच्यते | किन्तु स स्वयं स्थितिधर्मैव स्वहेतुभिर् जनितो नास्यास्थिरस्वभावता विनाशहेतोर् उपजायते | कथं ज्ञायते यथा `स्वहेतुभिः [T. ३०५ब्.] स्वभावेन स्थितिधर्मैव जनितःऽ इति? | विनाशहेतोर् अग्न्यादेर् असम्भवे अवस्थानात् | यदि स्वभावेनास्थितिधर्मा स्वहेतोर् जातः स्यात् तदा तदसम्भवे ऽपि नावतिष्ठेत | तस्य स्वभावेन स्थितिधर्मणः स्वहेतुभिर् एवायम् अपरः स्वभावो नियमितो यदुत परस्मात् विरोधिनो ऽग्न्यादेर् विनाशःस्वयंभवतीति | परस्माद् इति कर्मणि ल्यप्लोपे पञ्चमी परमपेक्ष्य इत्य् अर्थः | स्वहेतुभिर् एवायं {१४१.१} नियमितस्वभावो जातो यथा त्वया विरोधिनम् अपेक्ष्य स्वयं निर्व(व)र्त्तितव्यम् इति | तद् उक्तम् - स्वभावो ऽपि स तस्येत्थंयेनापेक्ष्य निवर्त्तते | विरोधिनंयथाऽन्येषांप्रवाहो मुद्गरादिकम् || इति | ननु यद्य् अस्य विनाशो विरोधिसन्निधाने स्वयम् एव भवत्य् अहेतुकः प्राप्नोति, अहेतोश् च देशकालस्वभावनियमो न युक्त इत्य् अत आह -- न च नैव विनाशो नाम विनंष्टुर् अपरः स्वभावः, यतो ऽयं दोषः स्यात्, किन्तु भावच्युतिर् एव विनाशः | [S. १३८अ.] तस्याश् च निःस्वभावत्वाद् धेतुमत्ता नैव युज्यते | न हि सा तस्य भवति | केवलम् असौ स्वयम् एव न भवति | ततो भवितुर् अभावात् कस्य हेतुमत्तोपगम्यते ? | सिद्धान्तवाद्य् आह -- नेदम् अनतरोक्तंविकल्पद्वयम् अतिक्रामति | कीदृशं विकल्पद्वयम्? | `किं नित्यो भावः?ऽ इत्यादि | [T. ३०६अ.] ननु च कालान्तरस्थितिधर्मताम् उपगच्छतो नैव नित्यविकल्पस्यावकाशः | न | तदुपगमे ऽपि नित्यतैवोपगता भवति | तथा हि -- यद्य् अयं संवत्सरस्थितिधर्मा स्वहेतुभिर् जनितस् तदा संवत्सरपरिसमाप्तौ यो ऽस्यादाव् उदयकाले संवत्सरस्थितिधर्मा स्वभावो यतो ऽयं संवत्सरं स्थितः स एव तदन्ते ऽपि | ततो ऽपरं संवत्सरम् अवतिष्ठेत | तदन्ते ऽपि प्रथमोत्पन्नसंवत्सरस्थितिधर्मस्वभावापरित्यागाद् अपरापरसंवत्सरस्थितिप्रसङ्गात् कालान्तरस्थितिधर्मतोपगमे ऽपि नित्यतैवोपगता भवतीति नित्यविकल्पो दुर्न्निवारः | विनाशहेतुसन्निधौ स्वयं निवर्त्तत इति चोपगमाद् अनित्यविकल्पो नश्वरात्मताविकल्पः | तथा हि -- विनाशहेत्वभिमतसन्निधौ स्वयं विनश्यतो यो ऽस्य स्वभाव स एव भावस्यैकरूपत्वाद् उत्पन्नमात्रस्येति तदैव विनाशप्रसङ्गात् कथम् अस्य कालान्तरस्थितिधर्मता सम्भवति? | एवं विकल्पे कृते पाश्चात्यविकल्पोपगमे कालान्तरस्थितिर् एवास्य त्रुट्यतीति नित्यविकल्प एवानेनोपगन्तव्यः | तत्र [S. १३८ब्.] विनाशहेतुसन्निधौ स्वयं नाशोपगमे प्राङ् नित्यो भूत्वा पश्चाद् अनित्यो [T. ३०६ब्.] विनश्वरस्वभावो भवतीति ब्रूते | एवंच ब्रुवाणो भावद्वयंचाह | वक्ष्यमाणापेक्षश् चकारः | {प्. १४२.१} कीदृशं भावद्वयम्? | नित्यानित्यौ स्वभावौ भेदौ यस्य तथा | यो ऽसौ नित्यः स्वभावः प्राक्तनः तस्य नित्याभिमतस्य स्वयं पश्चान् नाशं ब्रुवाणः सर्वदा प्रतिक्षणम् एव नाशं प्राह | अन्यथा पूर्वोक्तेन न्यायेन पश्चाद् अपि नाशासम्भवात् | अथ प्रतिक्षणम् अस्य नाशो न भवति तदा पश्चाद् अपि तदयोगात् सर्वदैवानाशं प्राहेति कृत्वा पूर्वस्मिन्न् इत्य् आभिमते स्वभावे विनाशहेतुर् असमर्थो ऽकिञ्चित्कर एव | ननु च विनाशहेतोर् नैव सामर्थ्यम् उपगतं परेण विरोधिसन्निधिम् अपेक्ष्य स्वयं नाशोपगमात् | न | अत एव तन्निबन्धनत्वप्रसङ्गात् नाशस्य | अन्यथा ह्य् अकिञ्चित्करः किम् इत्य् असाव् अपेक्ष्यते?, हेतुभावस्यापेक्षालक्षणत्वात् | स्वहेतव एवात्रापराध्यन्ति यदकिञ्चित्करे ऽपि तत्रापेक्षायां नियुञ्जत इति चेत् | कः पुनर् अयम् अस्थानाभिनिवेशः तेषां यत् तत्र तथा नियुञ्जते | [S. १३९अ.] तस्माद् उपकार्यपेक्षायाम् १एव हेतवो[५५६]नियुञ्जानाः शोभन्ते | अन्यथा ते ऽपि कार्यात्मानो[५५७]नैव तन्नियोगमाद्रियेरन्[५५८]| कथं चाकिञ्चित्करो विरोधी नाम? | न ह्य् अस्याविरोधित्वाभिमताद्[५५९]विशेषः कश्चिद् इति यत्किञ्चिद् एतत् | यद् अप्य् उक्तं `यथा ऽन्येषां क्षणिकवादिनाम् अकिञ्चित्करम् अपि मुद्गरादिकम् अपेक्ष्य [S. ३०७अ.] घटादिप्रवाहो निवर्त्तते तथा ऽस्माकम् अपि कालान्तरस्थायी भावःऽ इति तद् अपि परसमयानभिज्ञतयोच्यते | यतो नास्माकं प्रवाहो नाम क्षणव्यतिरिक्तो ऽस्ति यो ऽकिञ्चित्करमुद्गरादिसन्निधौ निवर्त्तेत | क्षणा एव हि केवलं सन्ति | ते च स्वनिवृत्तौ न मुद्गरादिकम् अपेक्षन्ते, स्वरसत एव निरोधात् | या तु तेषां कपालादिवृत्तिलक्षणा पर्युदासवृत्त्या निवृत्तिः यस्यां सत्याम् एकत्वाभिनिवेशिनो लोकस्य सदृशापरभावरूपस्य विभ्रमनिमित्तस्यापगमात् `निवृत्ता घतादयःऽ इति व्यवहारः, तत्राकिञ्चित्करत्वं मुद्गरादीनां नैवास्ति, तद्भाव एव तेषां भावात् | वेगवन् मुद्गरादिसहकारिणो घटक्षणात् परस्परोपसर्प्पणाद्याश्रयात् {प्. १४३.१} प्रत्ययविशेषात् [S. १३९ब्.] सञ्जातातिशयात् कपालादेर् भवनधर्मत्वात् तस्य तज्जननस्वभावाद् इति | स्वभावद्वयोपगमप्रसङ्गाद् इति परिजिहीर्षया पर आह -- न प्राग् इत्यादि | कुत एतत्? | एकस्वभावत्वात् | सर्वदैकस्वभावस्य सर्वदा नित्यतैव न पश्चाद् अनित्यस्वभावतासम्भव इति | सिद्धान्तवाद्य् आह -- स तर्हि भावः [T. ३०७ब्.] सर्वदा नित्यस्वभावः स्वभावेन नाशमनाविशन् अप्रतिपद्यमानः १कथं नैव नष्टो (कथं नष्टो) नाम[५६०]? | कुतः? तत्स्वभावविनाशयोः नित्यस्वभावताया, विनाशस्य चानित्यरूपतायाश् च अपरस्पररूपत्वात् परस्परपरिहाररूपत्वात् | उपसंहरन्न् आह -- यत एवं स्थितिधर्मणां विनाशो नैव युज्यते तस्मात् सति अस्य विनाशे यद्य् अवश्यम्भावी कृतकरूपस्य सतो विनाश इष्यते परैस् तदा विनाशस्वभावेन विनश्यति नावतिष्ठत इति विनाशः | कर्त्तरि बहुलवचनाद् घञ् | स स्वभावो यस्य तेन विनाशस्वभावेनास्थितिधर्मणा | तेन कृतकरूपेण सता वस्तुना स्वहेतुभ्यो भवितव्यम् अन्यथा ऽवश्यम्भावितयोपगतस्य कृतकात्मनां सतां विनाशस्यैवायोगात् | भवत्व् एवम् इति चेत् | आह -- तथापि स्वयं विनाशस्वभावत्वे ऽपि [S. १४०अ.] न केवलम् अविनश्वरस्वभावत्वे स्वभावान्यथात्वासम्भवाद् व्यर्थो विनाशहेतुर् इति प्रथमविकल्पोपन्यास एवोक्तम् न पुनर् उच्यते | यत एवं तेन इत्यादि सुगमम् | तद् एवं विनाशं प्रत्यनपेक्षाम् असामर्थ्य-वैयर्थ्याभ्यां तद्धेत्वयोगेन कृतकलक्षणस्य सत्त्वस्यपूर्वाचार्यदर्शतां प्रतिपाद्य यथा ऽसौ विपर्यये बाधकप्रमाणताम् अनुभवति तद् दर्शयन्न् आह -- तस्माद् विनाश इत्यादि | प्रयोगस् त्व् एवम् -- ये यद्भावं प्रत्यनपेक्षास् ते तद्भावनियताः | [T. ३०८अ.] तद् यथा -- अन्त्या कारणसामग्री स्वकार्योत्पादने | अनपेक्षश् च कृतकरूपः सन् भावो विनाशे {प्. १४४.१} ऽवश्यम्भाविविनाशतयोगतः परैर् इति स्वभावहेतुप्रसङ्गप्रयोगो विपर्यये बाधकं प्रमाणंपूर्वाचार्यप्रदर्शितम् | ततः तद्भावनियतत्वे, नाशस्याकादाचित्कत्वाद् उदयानन्तरं नाश इति यःसन् कृतकलक्षणो भावः स विनाशी विनश्वरस्वभावो नश्वरतायाः साध्यधर्मस्य निवृत्तौ च कृतकलक्षणसत्त्वनिवृत्तिर् इति कृत्वा कृतकलक्षणस्य सत्त्वस्य क्षणिकतायाम् अन्वयव्यतिरेकसिद्धिः सम्पद्यते ऽनपेक्षया ऽन्यक्रान्तसत्त्वक्षणिकत्वयोस् तादात्म्यसिद्धेः तन्निबन्धनयोर् अन्वयव्यतिरेकयोर् अपि निश्चयात् | तद् एवंपूर्वाचार्यान् प्रति अकृतकस्य सतो ऽभावात् सदकारणवन् नित्यम् [VऐSऊ ४.१.१.] इति नित्यलक्षणविरहाद् एव न तन्नित्यत्वम् | यत् तु [S. १४०ब्.] सद् उत्पत्तिमत् तद् उक्तेन न्यायेनावश्यं नाशितयोपगतं परैः कालान्तरस्थायि न भवतीति प्रति पादितम् |
SK
__________NOTES__________
SK
[५५१] प्. ८३.२२ [५५२] प्. ८३.१ [५५३] प्. ११६.१३ [५५४] -नां संग्रहः | ता- -- T. [५५५] विनाशहेतोर् अस्थिरस्वभावत्वात् विनाशहेतोर् अस्थिति- -- T. [५५६] एव स्वहे- -- T. [५५७] कार्याणि | [५५८] हेतु- | [५५९] विरोधिनः | [५६०] कथं नष्टो नाम -- Tब्.
SK
[ सेच्तिओन्: ४४. सामान्येन सत्त्वक्षणिकत्वयोस् तादात्म्यव्याप्तिप्रदर्शनम् |]
SK
यदा तु यत् सत् तत् क्षणिकम् एवेति सामान्येनोच्यते कृतकाकृतकलक्षणं सतो भेदम् अनपेक्ष्य प्रौढवादितया कृतकस्यापि चावश्यम्भावी विनाश इति परोपगमो [T. ३०८ब्.] नापेक्ष्यते, तदा विनाशं प्रत्यनपेक्षत्वम् एव सर्वस्य न सिध्यति | येषां हि विनाशो भवं(वन्) दृष्टो घटादीनां तेषाम् एव तद्धेत्वयोगात् तत्रानपेक्षा युज्यते | ये तु देशादिव्यवहिताः पर्वतादयो वा विनाशम् आविशन्तो न दृष्टाः तेषाम् अवश्यं विनाशित्वोपगमनिबन्धनाभावाद् अन्त्ये ऽप्य् अयं विनाशं प्रत्यनपेक्ष एव विनश्यन्न् ऽविशेषाद् आदाव् अपि तद्भावनियत इति वक्तुम् अशक्यत्वात् तत्स्वभावसापेक्षत्वात्[५६१]| विनाशं प्रत्यनपेक्षत्वासिद्धेर् अकृतकानां चाकाशादीनां विनाशिस्वभावसापेक्षाणाम् इत्य् अनपेक्षया सतो नश्वरस्वभावता ऽसिद्धेः अन्वयव्यतिरेकयोस् तन्निबन्धनयोर् अयोगम् उत्पश्यन्न् अर्थक्रियाविरोधलक्षणम् एव तदा बाधकं प्रमाणं तादात्म्यप्रसाधकम् अभिधानीयम् इति मन्यमानः पूर्वपक्षम् उत्थापयन्न् आह -- स्वभावतो नश्वरत्वे ऽप्य् उक्तेन {प्. १४४.१} न्यायेन परिदृश्यमानविनाशानां घटादीनां कश्चिद् देशादिव्यवहितः[५६२]पर्वतादिर् वा ऽनुपलब्धविनाशः कृतको ऽपि सद्रूप आकाशादिर् वा ऽकृतकः [S. १४१अ.] सन् न ऽतत्स्वभावो ऽपि अविनाशिस्वभावो ऽपि स्यात् | अपिशब्दः सम्भावनायाम् | तस्य[५६३]विनाशिस्वभावसंसाधकप्रमाणाभावाद् आशङ्क्यत एतत् | ततश् च विनाशिस्वभावसापेक्षत्वात् तदनपेक्षत्वम् असिद्धम् इति तद्वशात्[५६४]साध्यस्य [T ३०९अ.] क्षणिकत्वस्य सत्त्वस्वभावत्वासिद्धेः तन्निबन्धना नान्वयव्यतिरेकसिद्धिर् इति | किं पुनर् अत्राशङ्कानिमित्तं येन कश्चिद् अतत्स्वभावो ऽप्य् आशङ्क्यत इत्य् आह -- न हि सर्वःसर्वस्य स्वभावः इति | विचित्रस्वभावा हि भावा दृश्यन्ते -- केचित्[५६५]सप्रतिघाः केचिद्[५६६]अप्रतिघाः, तथा नीलानीलादिस्वभावाः, तथा केचिद् विनाशिनः अन्ये त्व् अविनाशिस्वभावाः शङ्क्यन्त इति पूर्वपक्षाशङ्का | न -- `कश्चिद् अतत्स्वभावो ऽपि स्यात्ऽ -- इति आशङ्कनीयम्, तथाभावे ह्य् अक्षणिकत्वं तस्य स्यात् | तस्मिंश् च सत्य् अवस्तुत्वप्रसङ्गात् कुतो ऽतत्स्वभावताशङ्का? | कथं पुनर् अक्षणिकत्वे ऽवस्तुत्वप्रसङ्गः? | यतः[५६७]सत्त्वस्य क्षणिकत्वस्वभावतया ऽन्वयव्यतिरेकसिद्धिर् इत्य् अत आह -- शक्तिर् हि इत्यादि |
SK
__________NOTES__________
SK
[५६१] अनित्य- [५६२] विप्रकृष्टः -- T. [५६३] आकाश- [५६४] अनपेक्षत्ववशात् [५६५] घटपटादयः [५६६] विज्ञानादयः [५६७] अवस्तुत्वप्रसङ्गत्वात्
SK
[ सेच्तिओन्: ४५. अर्थक्रियाकारित्वम् एव सत्त्वं, तच् च क्षणिकानाम् एवेति |]
SK
एवं मन्यते -- इह तावद् इदम् एव विचारणीयम् [S. १४१ब्.] किं लक्षणम् एतद् भावानां सत्त्वं युक्तम् इति | तत्र न सत्तायोगलक्षणम् अव्याप्तेः, सामान्यादिष्व् अभावात् | वन्ध्यासुतादिष्व् अपि भावाद् अतिव्याप्तेर् वा | वन्ध्यासुतादीनाम् असत्त्वात् कथं सत्तायोगः? इति चेत् | न | इतरेतराश्रयात् | यतस् तेषाम् असत्त्वं सत्तायोगविरहाद् एव [T. ३०९ब्.] तद्विरहश् चासत्त्वाद् इति | यदि च सताम् एव सत्तायोगः एवं तर्ह्य् अन्यत् सत्त्वलक्षणम् अभिधानीयम् सत्तायोगस्य च वैयर्थ्यम्, तत एव वस्तुनः सत्त्वात् | सर्वार्थक्रियासामर्थ्यविरहात् {प्. १४६.१} सत्तायोगाभावस् तेषाम् इति चेत् | एवं सति यद् एवार्थक्रियासामर्थ्ययुक्तं तस्यैव सत्तायोग इत्य् अर्थक्रियासामर्थ्यम् एव भावलक्षणमायातम् इत्य् अपार्थकः सत्तायोगः | इत्थंच एवम् | अन्यथा सामान्यादीनां कथं स्वरूपं सत्त्वं स्यात्? | अर्थक्रियासामर्थ्यं तु सर्वेषाम् अस्तीति तद् एव भावलक्षणम् | उत्पादव्ययध्रौव्ययुक्तंसत् [Tअत्त्वार्थ- ५.२९.] इत्य् एतद् अप्य् अयुक्तम्, ध्रौव्येणोत्पादव्यययोर् विरोधात् एकस्मिं(स्मिन्) धर्मिण्य् अयोगात् | कथञ्चिदुत्पादव्ययौ कथञ्चित् ध्रौव्यम् इति चेत् | यथोत्पादव्ययौ न तथा ध्रौव्यम्, यथा च ध्रौव्यं न तथोत्पादव्ययाव् इति नैकं वस्तु यथोक्तलक्षणं [S. १४२अ.] स्यात् | ततो ऽन्यस्य भावलक्षणस्यायोगात् शक्तेश् चान्तशः स्वज्ञानजनने ऽप्य् उपगमात् परैः, अन्यथा षट्पदार्थादिव्यवस्थानायोगात् सैव भावलक्षणम्, सर्वशक्तिविरहः पुनर्भावलक्षणम् | सर्वग्रहणं च सर्वस्य वस्तुनो वस्त्वन्तरशक्तिविरहरूपत्वाद् अभावतानिरासार्थम् | यस्य तु न क्वचिच्छक्तिः स एवैकान्तेनाभाव उच्यते | शक्तिलक्षणम् एव सत्त्वम् अक्षणिके स्यात् ततः क्षणिकात्मता [T. ३१०अ.] सत्त्वस्य न सिध्यतीति कुतो ऽन्वयव्यतिरेकौ? इति चेत्, आह -- न चैवाक्षणिकस्य क्वचित् कार्ये ऽन्तशो ज्ञानलक्षणे ऽपि शक्तिर् अस्ति तत् कुतस् तस्य तल्लक्षणं सत्त्वम् अतीतादेर् इव भविष्यति?, यतः सत्त्वस्य क्षणिकात्मता न सिध्येत् | ननु च शक्तेर् अतीन्द्रियत्वात् कारणानां कार्यारम्भनियमाभावाच् च कथं तद्विरहो ऽक्षणिकस्य भवेत् यतो ऽस्य सर्वशक्तिविरहलक्षणेनासत्त्वेन विरोधिना निराक्रियमाणं सत्त्वं क्षणिकात्मताम् एवानुभवेत् यतो ऽन्वयव्यतिरेकौ स्याताम् इत्य् अत आह -- क्रमयौगपद्याभ्याम् इत्यादि | नैव प्रत्यक्षतः [S. १४२ब्.] कार्यविरहाद् वा सर्वशक्तिविरहो ऽक्षणिकत्वे उच्यते, किन्तु तद्व्यापकविरहात् | तथा हि -- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् | ततः कार्यक्रियाशक्तिव्यापकयोस् तयोर् अक्षणिकत्वे {प्. १४७.} विरोधात् निवृत्तेस् तद्व्याप्तायाः कार्यक्रियाशक्तेर् अपि निवृत्तिर् इति सर्वशक्तिविरहलक्षणम् असत्त्वम् अक्षणिकत्वे व्यापकानुपलब्धिर् आकर्षति, विरुद्धयोर् एकत्रायोगात् | ततो निवृत्तं सत्त्वं क्षणिकेष्व् एवावतिष्ठमानं तदात्मताम् अनुभवतीति -- `यत् सत् तत् क्षणिकम् एवऽ इत्य् अन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर् निश्चयो भवति | ननु च प्रकारान्तराभावात् कार्यम् अङ्कुरादिकं बीजादिना क्रमयौगपद्याभ्याम् एव क्रियत इत्य् उच्यते स एव तु प्रकारान्तरविरहः [T. ३१०ब्.] कार्यात्मनः कुतः सिद्धः? | प्रकारान्तरस्योपलब्धिलक्षणप्राप्तत्वे कथम् अत्यन्तासम्भवः? | केवलं देशादिनिषेधमात्रम् एव स्यात् | १अनुपलब्धिलक्षणप्राप्तत्वे ना ऽसत्तानिश्चयो विप्रकर्षिणाम्[५६८]इति कुतस् तदभावसिद्धिः? | ततः प्रकारान्तरेणार्थक्रियासम्भवात् क्रमयौगपद्यनिवृत्ताव् अपि नार्थक्रियासामर्त्थ्यनिवृत्तिर् इति कुतो ऽक्षणिकत्वे सति सर्वसामर्थ्यविरहलक्षणम् असत्त्वम्?, यतः सत्त्वस्य क्षणिकात्मतया ऽन्वयव्यतिरेकौ स्याताम्? | न | उभयथा ऽप्य् अदोषात् | [S. १४३अ.] तथा हि -- क्रमो नाम परिपाटिः कार्यान्तरासाहित्यं कैवल्यम् अङ्कुरादेः, यौगपद्यम् अपि तस्यापरैर् ब्बीजादिकार्यैः साहित्यं | प्रकारान्तरं चाङ्कुरादेः तदुभयावस्थाविरहे ऽप्य् अन्यथाभवनम् | तस्य चाङ्कुरादिस्वभावस्यान्यसहितस्य केवलस्य वा ऽभावे प्रत्यक्षबोधगम्यमाने सत्य् उपलब्धिलक्षणप्राप्त एव स्वभावः क्रमयौगपद्यभावबहिर्भूतो नोपलभ्यते | वस्तुनः उपलभ्यस्यान्यसाहित्ये कैवल्ये चापनीते तद्विविक्तदेशादिप्रतिभासिनः[५६९]प्रत्यक्षस्योदयात् स्वभावानुपलम्भत एवाभावनिश्चयादिलक्षणव्यवहारवृत्तेः | तस्य चाङ्कुरादिभावस्यावस्थाद्वयबहिर्भावनिषेधे कयोश्चिद्देशकालयोः देशान्तरादौ क्रमेणाङ्कुरादिभाववतीतरस्मिन् वा भावे ऽपि न काचित् क्षतिः | ततः प्रत्यक्षत एव [T. ३११अ.] प्रकारान्तराभावसिद्धेः कथं क्रमयौगपद्याभ्याम् अर्थक्रियाशक्तिर् अव्याप्ता स्यात्? |शास्त्रकारस् तु यथा प्रत्यक्षता एव प्रकारान्तराभावसिद्धिः तथा स्वयम् एतेन क्रमाक्रमादयो ऽपीति अतिदिशन् वक्ष्यति | {प्. १४८.१} अनुपलब्धिलक्षणप्राप्तत्वे ऽपि प्रकारान्तरस्य क्रमयौगपद्ययोर् अन्यो ऽन्यव्य[S.१४३ब्.]वच्छेदरूपत्वाद् एवाश्रयसि(-द् एवाभावसि)द्धिः तथा हि -- अन्योन्यव्यवच्छेदरूपाणाम् एकनिषेधेनापरविधानात् तस्या[५७०]ऽप्रतिषेधे विधिप्रतिषेधयोर् विरोधाद् उभयप्रतिषेधात्मनः प्रकारान्तरस्य कुतः सम्भवः? | अत्र प्रयोगः -- यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसम्भवः, तद् यथा -- नीलप्रकारव्यवच्छेदेनानीलप्रकारान्तरव्यवस्थायां पीते | अस्ति च क्रमयौगपद्ययोर् अन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थानम् व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणरूपे[५७१]वस्तुनीति विरुद्धोपलब्धिः व्यवच्छिद्यमानप्रकारेतरव्यवस्थानं च, प्रकारान्तरसम्भवश्[५७२], [५७३] च ततो बहिर्भावलक्षण इत्य् अनयोस् तत्त्वा ऽन्यत्वरूपयोर् अन्योन्यपरिहारस्थितलक्षणत्वात् | न चात्रापि बाधकान्तराशङ्कया ऽनवस्थानम् आशङ्कनीयम्, पूर्वप्रसिद्धस्य [T. ३११ब्.] [S. १४४अ.] विरोधस्य स्मरणमात्रत्वात् | विरुद्धोपलब्धिषु बहिर्द्धर्मिणि हेतोः सद्भावम् उपदर्श्य विरोधसाधनम् एव बाधकम्, तच् चेहास्ति | ततो विरुद्धयोर् एकत्रासम्भवात् प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोर् इव भावाभावयोर् इव वेति कुतो ऽनवस्था? | तत्र न क्रमेणाक्षणिकः कार्याणि करोत्य् अविशेषाद् अकारकावस्थायाम् इव | सहकार्यपेक्षा च द्विविधस्यापि सहकारित्वस्यायोगाद् अनुपन्यसनीया | सर्वेषां चैकक्रियाकाल एव क्रियाप्रसक्तेः, तत्कारकस्य स्वभावस्य तदैव भावात् | नापि युगपत्, प्रत्यक्षादिविरोधात्[५७४]पुनस् तत्क्रियाप्रसङ्गाच् च | कृतत्वान् नेति चेत्, न, सामर्थ्यानपायात् | अन्यथा प्राग् अप्य् अकारकरूपाविशेषाद् क्रिया स्यात् | कृतस्य कर्त्तुम् अशक्यत्वाद् इति चेत् | शक्ताशक्ततया तर्ह्य् एकत्रैव कार्ये भेदप्रसङ्गः शालिकोद्रवबीजादेर् इव | नित्यश् च यदा युगपत् करोति ततः प्राग् अपि भावात् तदैव तत्क्रियाप्रसङ्गः पुनस् ततो ऽपि पूर्वतरम् इत्य् एवं [S. १४४ब्.] न कदाचिद् युगपत् क्रिया स्यात् | पूर्वोत्तरकालयोश् चैकदा युगपत् कारिणो ऽन्यदा {प्. १४९.१} सर्वार्थक्रियासामर्थ्यविरहलक्षणम् असत्त्वं स्याद् इति कथं न क्षणिकता? | क्रियोपगमे वा क्रमपक्ष एव | तत्र चोक्तो दोषः | एवम् अक्षणिकत्वे [T. ३१२अ.] सति चक्षुराद्याय- तनानामसत्त्वप्रसङ्गात्[५७५]क्षणिकतायाम् एव सत्त्वम् इति यत् सत् तत् क्षणिकम् एवेति सतो नश्वरात्मतासिद्धेः अन्वयव्यतिरेकरूपव्याप्तिसिद्धिर् इति ||[५७६] {प्. १५०.१} [ ३. कार्यहेतुनिरूपणम् |]
SK
__________NOTES__________
SK
[५६८] -त्वेन सत्तानिश्चयो न, वि- -- T. [५६९] प्रकारान्तर- | [५७०] विहितस्य | [५७१] -णभूते -- T. [५७२] व्यवच्छिद्यमानप्रकारेणेतरव्यवस्थानात् | [५७३] -रान्तरास- -- T. [५७४] प्रत्यक्षविरोधात् -- T. [५७५] -द्यायत्तानाम- -- T. [५७६] T. अद्द्स् हेरे ब्राह्मणाचतविरचिते विवरणे स्वभावहेत्वधिकारः प्रथमः |
SK
[ सेच्तिओन्: १. कार्यकारणभावव्यवस्था |]
SK
तद् एवं स्वभावहेतौ तादात्म्यसिद्धिनिबन्धनम् अन्वयव्यतिरेकनिश्चयं प्रतिपाद्य कार्यहेतौ कार्यकारणभावसिद्धिनिमित्तत्वात् तयोस् तस्याश् च प्रत्यक्षानुपलम्भनिबन्धनायाः प्राग् एव दर्शितत्वात् तद्गतम् अपरम् अपि परेषां भ्रान्तिकारणम् अपनेतुं तद्विषयं दर्शयन्न् आह -- अर्थान्तरे हेतोर् व्यतिरिक्ते वस्तुनि गम्ये कार्यंहेतुः | अनर्थान्तरे तु स्वभावो हेतुर् इत्य् उक्तम् | कस्मात् [S. १४५अ.] पुनर् अर्थान्तरे कार्यम् एव हेतुर् इत्य् आह -- अव्यभिचारात् इति कार्यम् एव ह्य् अर्थान्तरं न व्यभिचरति नान्यत् यथोक्तं प्राक् ततः कार्यम् एवार्थान्तरे गम्ये हेतुर् उच्यते संयोगवशाद् गमकत्वे | न च केनचित् इत्य्[५७७]७आदिना यः[५७८]सर्वथा गम्यगमकभावप्रसङ्गआचार्येणोक्तः परस्य, तम् इहापि कार्यहेतौ परः कदाचित् प्रसञ्जयेद् इत्य् आशङ्कमान आह -- कार्यकारण- इत्यादि [T. ३१२ब्.] यदि हि कार्यं हेतुर् उच्यते तदा कार्यकारणभावेन कारणेनास्य गमकत्वम् | तथा च सति सर्वथा गम्यगमकभावः प्राप्नोति | अग्नेः सामान्यधर्मवद् विशेषधर्मा अपि तार्णपार्णादयो गम्याः स्युः | धूमस्यापि विशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्मा गमका भवेयुः | कुतः? सर्वथाजन्यजनकभावात् | जन्यजनकभावो हि कार्यकारणभाव उच्यते | स च नाग्निधूमयोर् अंशेन अपि तु सर्वेण प्रकारेण | तथा हि -- यथा अग्निर् अग्नित्वद्रव्यत्वसत्वादिभिः सामान्यधर्मैर् जनकः तथा तार्णपार्णत्वादिभिर् विशेषधर्मैर् अपि, यथा च धूमो धूमत्वपाण्डुत्वादिभिः स्वनियतैर् विशेषधर्मैर् जन्यः तथा [S. १४५ब्.] सामान्यधर्मैर् अपि सत्त्वद्रव्यत्वादिभिः | ततश् च यथा तयोः कार्यकारणभावः तथैव गम्यगमकभावः प्राप्नोति, तस्यैव तन्निबन्धनत्वाद् इति पूर्वपक्षाशङ्का | अत्राह -- न सर्वथाजन्यजनकभावः ततश् च कुतस् तथा गम्यगमकभावः स्यात्? | कस्मात्? इति चेत्, {प्. १५१.१} तद्भावे तेषां तार्णपार्णत्वादीनां विशेषधर्माणाम् अभावे भवतो धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीति एवम् आत्मनः तदुत्पत्तिनियमस्याभावात् | तथा तदभावे अग्न्यभावे भवतो द्रव्यत्वादेः [T. ३१३अ.] सामान्यधर्मस्याग्नेर् एवायं भवतीत्य् एवंरूपस्य तदुत्पत्तिनियमस्याभावात् कुतः सर्वथा जन्यजनकभावः?, यतः सर्वथा गम्यगमकभावः स्यात् | न ह्य् असति तदुत्पत्तिनियमे जन्यजनकभावो व्यवस्थापयितुं युक्तः[५७९]| यत एवं तस्मात् कार्यं धूमादिकं स्वभावैर् यावद्भिर् धूमत्वादिभिः स्वगतैः | इत्थम्भूतलक्षणा च तृतीया | अविनाभावि विना न भवति | कैर् विना न भवति? | `कारणे यावद्भिः स्वभावैःऽ इत्य् अत्रापि सम्बध्यते | कारणाश्रितैर् यावद्भिः [S. १४६अ.] स्वभावैर् विना ते कार्यगताः स्वभावा न भवन्ति हेतुः तैस् तेषाम् इति गम्यते | क्व अविनाभावि? | कारणे कारणविषये अपरो ऽर्थः कारणे आधारसप्तमी | इदानीं कारणस्थैः स्वभावैर् यावद्भिर् अग्नित्वद्रव्यत्वादिभिर् अविनाभावि तेषां कारणगतानां सामान्यधर्माणां हेतुः कार्यं गमकम् | कस्मात्? इत्य् आह -- तत्कार्यत्वनियमात् तेषाम् एव कारणगतानां सामान्यधर्माणां तत् कार्यम् इत्य् एवंरूपस्य नियमस्य सद्भावात् | न हि तान् सामान्यधर्मान् कदाचिद् अपि कार्यं व्यभिचरति | एवंकारणगतम् अंशं पाश्चात्येनार्थेन[५८०]निरूप्य प्राक्तनेनार्थेन२ कार्यगतम् अंशं निरूपयन्न् आह -- तैर् एव च इत्यादि | कार्यम् अपि तैर् एव धर्मैः [T. ३१३ब्.] स्वगतैः कारणगतानां धर्माणां गमकम् यथा ऽन्तरा सम्भविनो धूमत्वपाण्डुपार्णत्वादयो[५८१]विशेषरूपास्तैः कारणगतैः सामान्यधर्मैर् विना न भवन्ति | अत्रापि `तत्कार्यत्वनियमात्ऽ इत्य् अपेक्ष्यते | तेषाम् एव कार्यगतानां विशेषधर्माणां कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात् | न हि ते विशेषधर्माः कार्यगताः [S. १४६ब्.] कारणस्थसामान्यधर्मैर् विना कदाचिद् अपि भवन्ति | ततस् तेषाम् एव कार्यत्वनियमः, नान्येषां {प्. १५२.१} द्रव्यत्वादीनां कारणस्थसामान्यधर्मैर् विना भवताम् | तद् एवं कारणस्य सामान्यधर्मा एव गम्या न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव गमका न सामान्यधर्माः, तत्कार्यत्वनियमात् | ये तु कारणस्य विशेषधर्मा यैस् तत्कार्यत्वनियमः कार्यमात्रस्य नास्तीति न ते गम्याः | ये च कार्यस्य सामान्यधर्मा द्रव्यत्वादयस् तेषाम् अपि तत्कार्यत्वनियमाभावाद् एव गमकत्वं नास्तीति कार्यकारणभावेन गमकत्वे कुतः सर्वथा गम्यगमकभावः परेषाम् इव प्रसज्येत? |
SK
__________NOTES__________
SK
[५७७] प्. १८.२१ [५७८] -ना प्राक् यः -- T. [५७९] शक्यः -- T. [५८०] -नार्थिना -- T. [५८१] पाण्डुत्वपार्ण -- T.
SK
[ सेच्तिओन्: २. जन्यजनकभावस्य सर्वथा सत्त्वे ऽपि गम्यगमकभावस्य न तथात्वम् |]
SK
परस्यानिष्टापादनम् आशङ्क्याह -- अंशेन इत्यादि | यदि हि कारणस्य सामान्यधर्मा एव गम्याः कार्यस्यापि विशेषधर्मा एव गमकाः तत्कार्यत्वनियमाद् इष्यन्ते, हन्त तर्ह्य् अंशेन जन्यजनकभावः प्राप्तः | कारणस्य सामान्यधर्मा एव जनका न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव जन्या न सामान्यधर्मा इति स्यात् | सर्वथा च जन्यजनकभावो ऽभिमत [T. ३१४अ.] इत्य् अभ्युपगमविरोधः | एतत् परिहरति -- नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्वथा ऽभिमतत्वात् | तद् आह -- तज्जन्य -- इत्यादि | यदि हि कार्यस्य तैः कारणगतैर् विशेषधर्मैर् जन्यो यो विशेषः स ग्रहीतुं शक्यते, तदा तज्जन्यविशेषग्रहणे ऽभिमतत्वात् [S. १४७अ.] कारणगतविशेषधर्माणां गम्यत्वस्य | तथा लिङ्गविशेषो धूमत्वादिः उपाधिर् विशेषणं येषां द्रव्यत्वादीनां सामान्यानां कार्यगतानां तेषां चाभिमतत्वाद् गमकत्वस्य | तथा हि -- अगुरुधूमग्रहणे भवत्य् एव तदग्नेर् अनुमानं धूमत्वविशेषणेन च द्रव्यत्वादिना ऽग्नेर् अनुमानम् | न हि सर्वथा जन्यजनकभावो ऽस्तीत्य् एव तथैव गम्यगमकभावो भवति, तस्य ज्ञानापेक्षत्वात् | तथा हि -- न सत्तामात्रेण लिङ्गस्य गमकत्वम्, तस्य ज्ञापकत्वात्[५८२]| ज्ञापको हि स्वनिश्चयापेक्षो ज्ञाप्यम् अर्थं ज्ञापयति, नान्यथा | कथं {प्. १५३.१} तर्ह्य् उक्तं २तदभावे बवतःतदुत्पत्तिनियम(मा)भावात्[५८३]इति? | सर्वथा जन्यजनकभावाभ्युपगमे [T. ३१४ब्.] तदभावे भावस्यैवाभावाद् इत्य् अत[ह्१३]आह -- अविशिष्त इत्यादि | यदि हि तज्जन्यविशेषग्रहणरहितम् अविशिष्टं कार्यमात्रम् उपादीयते लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा अविशिष्टसामान्यविवक्षायां कारणगतविशेषाभावे ऽपि धूममात्रस्य भावात् तदविशिष्टस्य च द्रव्यत्वादेर् अग्न्यभावे ऽपि भावाद् व्यभिचार इति सर्वथा [S. १४७ब्.] जन्यजनकभावो नेष्यते, तदभावाद् गम्यगमकभावश् च | न तु विशेषविवक्षायाम्, तत्र व्यभिचाराभावात् | तथा हि -- यदि नाम धूममात्रं तार्णपार्णादिविशेषाभावे भवति, न तु तज्जन्यो विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वम् अस्त्य् एव, निश्चितस्यैव लिङ्गत्वात् | तथा यद्य् अपि द्रव्यत्वसत्त्वमात्रम् अग्न्यभावे ऽपि भवति न तु धूमात्मकम् इति तद्विशिष्टस्याव्यभिचाराद् गमकत्वम् अपि न वार्यत इति |
SK
__________NOTES__________ [५८२] ज्ञापकापेक्षत्वात् -- T. [५८३] प्. १५१.१.
SK
[ सेच्तिओन्: ३. कार्यकारणभावप्रतीतेर् अतिदुर्लभत्वाशङ्काया निरासः |]
SK
अत्र परस्य वचनावकाशम् आशङ्क्याह -- कस्यचित् धूमादेः कदाचित् कस्मिंश्चित् काले कुतश्चित् अग्न्यादेः भावे ऽपि सति सर्वो धूमादिः तादृशो यादृश एकदा ऽग्न्यादेर् भवन् दृष्टः तज्जातीयः, तथाविधजन्मा यथाविधात् स एको भवन् दृष्टः तादृशाद् एव जन्म यस्य स | तथाविधजन्मेत्य् एतत् कुतः प्रमाणाद् अवसितम्? येनोच्यते [T. ३१५अ.] `कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनाव् अन्वयव्यतिरेकौऽ इति | तथा हि -- यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिद्धूमस्याग्न्यादिसामग्रीकार्यत्वम् अवगतं किम् एतावता ऽन्यस्यापि [S. १४८अ.] तादृशस्य तादृशकार्यता सिध्यति, तत्र तन्निबन्धनयोः[५८४]प्रत्यक्षानुपलम्भयोर् अव्यापारात् | तत्रैव हि तयोर् व्यापारस् तस्यैव तत्कार्यता भवतु, तद् अन्यस्य तु किम् आयातम्? येन तथाविधाद् अस्य जन्म स्यात् | एवं हि कस्याश्चिद्धूमव्यक्तेर् अग्न्यादिजन्यता दृष्टेति किन्न घटादेर् अपि सा ऽभ्युपगम्यते? {प्. १५४.१} अन्यत्वेन विशेषाभावात् | क एवं सति दोषः? इति चेत्; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयाद् अतादृशाद् अपि जन्माशङ्कायां तादृशस्य धूमादेर् अग्न्यादिना ऽन्वयव्यतिरेकौ न निश्चिताव् इति कुतः कार्यहेतोर् ग्गमकत्वम्? | न हि यो ऽस्माव् एको देशकालावस्थानियतो ऽग्निविशेषहेतुको धूमो ऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ | तस्य देशान्तरादाव् असम्भवात् | किं तर्हि? | तादृशस्य सामान्यात्मन एव लिङ्गत्वात् तस्य चातथाविधाद् अपि जन्माशङ्कायां कुतस् तथाविधेनान्वयो व्यतिरेको वा? | तद् उक्तम् - अवस्थादेशकालानांभेदाद् भिन्नासुशक्तिषु | [T. ३१५ब्.] भावानाम् अनुमानेन प्रतीतिर्[५८५] अतिदुर्ल्लभा|| [Vआक्य- १.३२] इति[५८६]| सिद्धान्तवाद्य् आह -- न, अतद्भाविनः इत्यादि | एवं मन्यते -- इहैकदा धूमादेर् अग्न्यादिसामग्रीजन्यतया [S. १४८ब्.] प्रत्यक्षानुपलम्भाभ्यां निश्चितरूपत्वे ऽपि तादृशस्यातादृशाद् अपि भावः समाशङ्क्यते यथापरिदृष्टाद् अन्यत्वेन | तत्र यो ऽसाव् अग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस् तदपेक्षया यथा ऽन्यो धूमविशेषस् तादृशो यो ऽन्यादृशाद् अपि -- भावानां विचित्रशक्तितया -- भवेद् इति शङ्क्यते, तथा सो ऽप्य् एकदा ऽग्न्यादिसामग्रीजन्यतया निश्चितस् तदन्यापेक्षया तादृश एव | तत्र यदि तद् अन्यस्य तादृशस्यातादृशाज् जन्म स्यात् ३तदा तादृशस्य[५८७]स्वभावस्य ४नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि[५८८]धूमस्य ना ऽग्न्यादिसामग्री कारणम् इत्य् आयातम् | तादृशस्य स्वभावस्या ऽग्न्यादिसामग्रीविलक्षणकारणजन्यस्वभावत्वात् | ततश् चाग्न्यादिसामग्र्या अकारणत्वात् यो मयैकदा ततो भवन् दृष्टो धूमः सो ऽपि न भवेत् | न हि यद् यस्य कारणं न भवति तत् ततः सकृद् अपि जायते, तस्याहेतुकत्वप्रसङ्गाद् इति | अतद्भाविनः इति तच्छब्देन विवक्षितम् अग्न्यादिकारणं परिगृह्यते, न तत् अतत्, तद्विलक्षणं अतादृशं शक्रमूर्द्धादिकम्, अतस्माद्[५८९]भवितुं [T. ३१६अ.] शीलं {प्. १५५.१} यस्य तस्यातद्भाविनस् तादृशस्य तल्लक्षणस्य धूमवस्तुनः सकृद् अपि एकदा ऽपि [S. १४९अ.] ततः अग्न्यादेः अभावाद् भावविरोधात् | भवति च तादृशो ऽग्न्यादिसामग्रीतः ततस् तादृशस्य स्वभावस्य तादृशम् एव कारणम् इत्य् अवगम्यते सकृत्प्रवृत्ताभ्याम् एव प्रत्यक्षानुपलम्भाभ्याम् इति कुतो व्यभिचाराशङ्का? | तेन यादृशो धूमो ऽग्न्यादिसामग्र्या भवन् दृष्टः सकृत् तादृशस्य तस्य तज्जन्यस्वभावतया तादृशाद् एव भावात् `यत्र धूमस् तत्राग्न्यादिसामग्रीऽ इत्य् अन्वयव्यतिरेकनिश्चयः | अथवा ऽन्यथा व्याख्यायते -- इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनाव् अन्वयव्यतिरेकौ ६प्रतिपादयितुम्, तच् चायुक्तम्[५९०]| तथा हि -- कस्यचित् धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य कदाचित् प्रथमोत्पादकाले कुतश्चिद् अग्न्यादिसामग्र्याः भावे ऽपि उत्पादे ऽपि सर्वस् ७तादृशो यादृशः[५९१]प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्व् अपि तादृशः प्रत्यक्षत एव तस्य पूर्वक्षणाविलक्षणतया प्रतीतेः | तथाविधजन्मा इति यथाविधाद् अग्नीन्धनसामग्रीलक्षणात् कारणाद् आद्यो धूमक्षण उत्पन्नस् तथाविधाज् जन्म यस्य स तथाविधजन्मेत्य् एतत् कुतः नैव तस्य धूमादेर् अभावात् [T. ३१६ब्.] | एवं च यद्यतो दृष्टं तस्यान्यतो ऽपि भावस्य दर्शनात् सर्वत्रानाश्वास [S. १४९ब्.] इति अन्यमान आह -- तथाच अनग्नितो धूमाद् अपि धूमस्य भावे शक्रमूर्द्धादेर् अपि तस्य भावाविरोधाद् अग्निना धूमस्य नान्वयव्यतिरेकाव् इति चेन् मन्यस इति पूर्वपक्षाशङ्का | तदुक्तम् - क्षणिकत्वे कथंभावाःक्वचिदायत्तवृत्तयः| प्रथमधूमक्षणजनितो धूमक्षणस् तादृशो ऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः | एवं तृतीयक्षणादिष्व् अप्य् अङ्कुरादिषु च सर्वत्र वाच्यम् | कुतः पुनर् अयं विभागः? इति चेत्, आह -- अतद्भाविनः अतस्माद् -- अनग्नीन्धनादिरूपाद् धूमाद् [T. ३१७अ.] भवनशीलस्य प्रथमक्षणाविलक्षणस्य धूमस्य सकृद् अपि [S. १५०अ.] एकदापि ततः अग्न्यादिसामग्र्याः अभावाद् अभावायोगाद् | यथा हि प्रथमक्षणापेक्षया द्वितीयस् तादृशस् तथा तदपेक्षया प्रथमो ऽपीति तादृशत्वाविशेषात् तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृद् अपि ततो न भवेत् | भवन् वा तज्जन्यस्वभावताम् आत्मनस् तादृशः ख्यापयतीति कुतो ऽन्यादृशाद् भवेत्? तस्माद् अन्यादृशाद् भवन्न् अन्यादृश एव ततो न व्यभिचारः |
SK
__________NOTES__________
SK
[५८४] कार्यकारणभावनि- [५८५] प्रसिद्धि- -- Vआक्य- [५८६] इति चेत् -- T. [५८७] तदा ऽतादृ- -- T. [५८८] -तेत्य् अप- -- T. [५८९] तस्मात् -- T. [५९०] -तुम् इष्टौ त- -- T. [५९१] -शो न यादृ- -- T. [५९२] कारणशक्तिभेदेन स्वयं -- T.
SK
[ सेच्तिओन्: ४. भिन्नकारणजन्यानां धूमानां अतादृशत्वे ऽपि सादृश्यात् तादृशत्वाभिमानः |]
SK
ननु सर्वेषां २धूमक्षणानां कण्ठक्षणनाक्षिस्रुतिकालीकरणादिकायाम्[५९३]अर्थक्रियायाम् उपयोगात् कथं तादृशस्वभावता न स्यात्? | न, तस्या अप्य् अर्थक्रियायाः क्षणभेदोपधीयमानरूपायाः तादृशत्वाभावात् तत्रापि तुल्यदोषत्वात् | कथं तर्हि लोके सर्वत्र धूमव्यवहारः इति चेत्; सदृशापरभावनिबन्धनैकत्वाध्यवसायवशात् क्षणैर् व्यवहारायोगाच्[५९४]च | सादृश्ये सति कथं न तादृशता? इति चेत् | तादृशाद् अन्यत्वात् सदृशस्य | तथा हि -- गोसदृशो भवति गवयः न तु तादृशः, गोर् एवापरस्य तादृशत्वात् | परमार्थेनातादृशे ऽपि तादृशाभिमानो [S. १५०ब्.] मन्दमतीनां भवन् कथं निवार्येत? | तथा हि -- तत्त्वाध्यवसायो ऽपि तावद् -- अतस्मिन्न् अर्वाग्दृशां [T. ३१७ब्.] विनिवारयितुं न पार्यते, किम् अङ्ग पुनस् तादृशत्वाध्यवसायः? यथोक्तम् - {प्. १५७.१.} समानवर्णसंस्थाने सन्ताने ऽन्यत्र जायते | अतस्मिंस् तन्मतिःपुंसांकिम् उतैकत्र संततौ || इति | तत्त्वचिन्तकास् तु तादृशातादृशकारणभेदात् तादृशातादृशतां भावानां अनुमन्यन्ते न तादृशताम् | तद् यद्य् अतादृशाद् अपि तादृशो भवेत् तदा तस्य तज्जन्यः स्वभाव इत्य् अतद्भाविनः सकृद् अपि ततो भावो न स्यात् | अमुम् एवार्थं समर्थयमान आह -- परस्परापेक्षया इत्यादि | कारणापेक्षया हि जन्यस्वभावं कार्यम्, कार्यापेक्षया च जनकस्वभावं कारणम् | यतो हि कारणाद् यद् भवद् दृष्टम् तस्य तज्जन्यस्वभावः, इतरस्य च तज्जनक इति प्रतीयते | अन्यथा तस्य ततो भावायोगात्, इतरस्य च तज्जननायोगात् | यदि नामैवं ततः प्रकृते किं सिद्धम्? इत्य् अत आह तत्र एवस्मिन् न्याये सति यदि धूमो यादृश आद्यो ऽग्न्यादिसामग्रीजनितस् तादृशो द्वितीयादिक्षणभावी अग्न्यादिसामग्र्या [S. १५१अ.] अग्नीन्धनादिकारणकलापात् तज्जनकस्वभावतया निर्द्धारिताद्[५९५]अन्यतो ऽग्नीन्धनादिसामग्रीजनिताद् आद्याद् धूमक्षणाद् भ-वेत् | तदा तस्य तादृशस्य धूमस्वभावस्य तज्जन्यो ऽग्न्यादिसामग्रीजन्यः स्वभावो न भवति किन्तु धूमजन्य एवेति कृत्वा सकृद् अपि ततो ऽग्न्यादिसामग्रीतो न भवेत् | तादृशस्य हि [T. ३१८अ.] स्वभावस्यान्यतो भावे तज्जन्यस्वभावता, नाग्न्यादिजन्यस्वभावतेति कुतः सकृद् अपि ततो १भावो युज्यते[५९६]| अत्र दृष्टान्तः अर्थान्तरवद् इति | यथा ह्य् अर्थान्तरम्[५९७]अतज्जन्याभिमतम् अन्यतो भवत् न तज्जन्यस्वभावं नाग्न्यादिसामग्रीजन्यस्वभावम् इति सकृद् अपि ततो न भवति तद्वत् तादृशो धूमो ऽपीति ततो भवन्न् अन्यादृश एवासाव् इति गम्यते | स्यान्मतम् -- अग्न्यादिसामग्र्या ऽसाव् अतज्जन्यस्वभावो ऽपि तादृशो बलाज् जन्यते कस् तस्य तपस्विनो ऽपराधः? इत्य् अत आह -- नापि न केवलं स्वयम् अतज्जन्यस्वभावतया ततो न भवेत्, किन्त्व् अग्न्यादिसामग्र्य् अपि तं तादृशं धूमं -- यादृशो द्वितीयादिक्षणभावी {प्. १५८.१} -- न जनयेत् | कुतः ? | अतज्जननस्वभावत्वात् | तादृशस्य ह्य् अन्यतो भावे स एव तज्जननस्वभावो नाग्न्यादिसामग्रीति तज्जननस्वभावविकला कथं तं जनयेत् ? | अत्राप्य् उदाहरणम् -- सामग्र्यन्तरवद् इति | यथा सामग्र्यन्तरम् अतज्जननस्वभावाभिमतं [S. १५१ब्.] न जनयति तद्वद् अग्न्यादिसामग्र्य् अपि | तथा हि -- सा आत्मीयं स्वभावम् अनुसृत्यैव प्रवर्त्तते, ततः कुतो ऽसौ सामग्रीबलाज् जायेत ? |
SK
__________NOTES__________
SK
[५९३] -नां वर्णकालीकरणादि- -- T. [५९४] -हारयो- -- T. [५९५] निवारिता- -- T. [५९६] भावो न यु- -- T. [५९७] अङ्कुराद्यर्था- -- T.
SK
[ सेच्तिओन्: ५. त्[ह्१४]आदृशातादृशजन्यत्वे कार्यस्यापि तादृशातादृशत्वम् |]
SK
स्यान्मतम् -- अग्न्यादिसामग्रीजन्यस्वभावो ऽपि तादृशो ३धूमो धूमजन्यस्वभावो[५९८]ऽपि यथा स एव धूम इन्धनजन्यस्वभावो ऽग्निजन्यस्वभावश् चोभयतो [T. ३१८ब्.] भवति | तथा तादृशो ऽपि धूम उभयसामग्रीजन्यस्वभावतयोभयतो भविष्यतीत्य् अत आह -- न च नैव धूमस्य तादृशस्य तदतज्जन्यः अग्न्यादिसामग्रीजन्यो धूमजन्यश् च स्वभावो युक्तः युक्त्या सङ्गताः | कुतः ? एकस्वभावत्वात् | तादृशस्य धूमरूपस्य भेदाभावात् | न हि तस्य कालभेदे ऽपि तादृग्रूपता भिद्यते |भेदे ह्य् अन्यादृशस्यान्यादृशाद् भावे विवादायोगात् | तस्य यदि तादृशातादृशकारणजन्यता स्यात् ततस् तादृशातादृशस्वभावतैव स्यात् | तद् एव दर्शयन्न् आह -- धूमाऽधूम इत्यादि | धूमशब्देन यादृशो ऽग्न्यादिसामग्रीजन्यस् तादृशः स्वभावो ऽभिप्रेतः, अधूमशब्देनान्यादृशकारणजन्यो धूमजनितो ऽन्यदृशः | तयोश् च तादृशातादृशकारणजन्यतयैव तादृशातादृशस्वभावता ऽवगन्तव्या वक्ष्यमाणनीत्या | तेनाग्निधूमलक्षणात् धूमाधूमजननस्वभावात्[५९९]तादृशातादृशजननस्वभावात् [S. १५२अ.] तादृशातादृशतया ऽस्य भवतो धूमाधूम[स्वभाव]स् तादृशातादृशस्वभावः स्यात् कुतस् तादृश एव? | कुत एतत्? इत्य् आह -- कार्यस्वभावानाम् इत्यादि | कार्याणां हि ये स्वभावाः परस्परासंभविनः ते परस्परविलक्षणकारणसामग्रीस्वभावकृता न स्वाभाविका अहेतुकत्वप्रसङ्गात् | [T. ३१९अ.] ततस् तादृशातादृशाद् भवतो धूमस्य ५तादृशातादृशस्वभावतैव स्यात्[६००]| {प्. १५९.१.} स्यान्मतम् -- नैव तादृशातादृशस्वभावतायां तादृशातादृशकारणापेक्षा, कार्याणाम् उत्पत्तिमात्र एव ६कारणापेक्षणाद् इत्य् अत[६०१]आह -- अकारणापेक्षणे च तादृशातादृशरूपतायां तादृशातादृशकारणानपेक्षणे च तादृशातादृशतायाः अहेतुकत्वप्रसङ्गात् | न हि तादृशातादृशस्वभावयोर् अभूत्वा भावव्यतिरेकेणान्या काचिदुत्पत्तिः यत्र[६०२]तादृशातादृशस्वभावकारणनिरपेक्षाणाम् अपि तदपेक्षा स्यात् | तस्माद् उत्पत्तिशब्देन तादृशातादृशस्वभावतैवोच्यत इति | [S. १५२ब्.] तत्र कारणापेक्षोपगमे कथं तादृशातादृशतायां कारणापेक्षा न स्यात् | तस्मात् सामग्रीणां तादृशातादृशत्वाद् एव कार्याणां तादृशातादृशस्वभावविभाग इति कुतो ऽन्यादृशात् तादृशसम्भवः? इति | यत् तूक्तं `यथैको धूमो ऽग्नीन्धनाभ्यां विलक्षणाभ्यां जन्यते तथैकलक्षणम् अपि कार्यं विलक्षणाद् अपि सामग्र्यन्तराद् भविष्यतिऽ इति | तद् अयुक्तम् | यतो नास्माभिर् विलक्षणानां जनकत्वं वार्यते जनयन्त्य् एव परस्परविलक्षणा अपि स्वहेतुपरिणामोपनिधिधर्माणस् तदवस्थानियताः तद् एकं कार्यं, तस्य तु तेषां च परस्परापेक्षया [T. ३१९ब्.] जन्यजनकस्वभावतानियमात् तादृशस्य तादृशाद् एव जन्मोच्यते नान्यादृशात्, तस्यातज्जननस्वभावत्वात्, तदभावे ऽप्य् अन्यतो भवतस् तदुत्पत्तिनियमाभावात् | अनियमे च [S. १५३अ.] कार्यकारणभावायोगात् | यदि त्व् अग्निर् इवेन्धनोपादानोपकृतस् तदुपादानोपाकृतं चेन्धनम् इव तदवस्थानियतम् अतादृशम् अपि २धूमादिकं तादृशं[६०३]धूमं जनयेत् प्रत्यक्षानुपलम्भाभ्यां च तथा ऽवगम्येत तदा ऽग्न्यादिवत् सो ऽपि तज्जननस्वभावतानियमात् तादृशजनकः केन नानुमन्येत | तदभावे[६०४]ऽपि तु तादृशस्य भावे तयोर् जन्यजनकस्वभावतानियमाभावात् कुतः कार्यकारणतेत्य् अहेतुतैव तादृशस्यान्यादृशाद् भवतः स्यात् | यत एवं तस्मात् सो ऽग्नीन्धनादिसामग्रीविशेषो मन्तव्यो यः आद्यधूमजननो नान्यः स धूम आद्यो यः अग्न्यादिसामग्रीविशेषेण जनितो नान्य {प्. १६०.१} इति कृत्वा कार्यकारणयोर् एवं यथोक्तेन न्यायेन जन्यजनकरूपस्य स्वभावस्य ४नियमाद् यादृशं यस्य[६०५]करणम् एकदा प्रत्यक्षानुपलम्भाभ्याम् एवावधारितं तद्विजातीयात् ततो ऽन्यादृशात् कारणात् उत्पत्तिः तादृशस्य [S. १५३ब्.] कार्यस्य न भवति अन्यादृशस्य एव न वार्यत इति | तद् एवं तादृशातादृशकारणकृतकत्वं तादृशातादृशकार्यस्वभावस्य प्रतिपाद्योपसंहरन्न् आह -- तत् तस्मात् यादृशं [T. ३२०अ.] कार्यं यादृशात् कारणात् दृष्टं प्रत्यक्षानुपलम्भाभ्यां निश्चितम् एकदा तत् तन् न व्यभिचरति तादृशम् अन्यादृशान् न भवति | यनैवं तेन कारणेन सिद्धे कार्यकारणभावे तादृशस्य कार्यस्य तादृशम् एव कारणम् इति निश्चये सति यथोदितेन न्यायेन कार्यस्य कारणेन व्याप्तिर् अन्वयव्यतिरेकरूपा सिद्धाभवति | न विजातीयाद् उत्पत्तिर् इति दृष्टकारणविजातीयात् कारणाद् अन्यादृशान् नोत्पत्तिर् इत्य् अमुम् अर्थम् अप्रतिपद्यमानः कार्यस्य {न (? स्. प्. xxxव्)} विजातीयात् कारणान् नोत्पत्तिर् इत्य् अयम् अत्रार्थो ऽभिमत इति मन्वानः परश् चोदयन्न् आह -- ननु स्वतो विजातीयाद् अपि कारणात् किञ्चित् कार्यं भवद् दृष्टंतत् [S. १५४अ.] कथं न विजातीयाद् उत्पत्तिर् इत्य् अस्य न दृष्टविरोधः स्यात् | कथं यथा[६०६]इत्य् आह -- तद् यथागोमयादेः आदिग्रहणात् शृङ्गचन्द्रकान्तादेः शालूकादि आदिग्रहणाच् छरोदकादि | तथा हि -- गोमयाच् छालूकस्य भावः शृङ्गाच् छरस्य चन्द्रकान्तादपाम् | न च गोमयादिकं शालूकादेर् न विजातीयम् तत् किम् उच्यते न विजातीयाद् उत्पत्तिः इति | सिद्धान्तवादी परस्य भ्रांततां दर्शयन्न् आह -- न विजातीयाद् उत्पत्तिः इति | यतो हि कारणाद् यद् भवद् दृष्टं तत् ततो ऽन्यादृश्यान् न भवति इत्य् अयम् अत्रार्थो विवक्षितः, न तु कार्यविजातीयाद् इति | न च तस्य[६०७]व्यभिचारः | तद् आह -- तथाविधम् एव हि गोमयादिरूपं तादृशां शाल{ऊ}कादीनाम्[६०८]आदिनिमित्तं शालूकादिप्रबन्धस्य७ य आदिः प्रथम आरम्भक्षणः तस्य कारणम् इति कृत्वा शालूकादिपबन्धस्यादेर्७ न {प्. १६१अ.} कारणभेदो ऽन्यादृशाद् उत्पत्तिः [T. ३२०ब्.] सर्वस्य तदा ऽऽदेर् ग्गोमयादिनिमित्तत्वात् | यदा तु प्रबन्धेन पूर्वक्षणनिमित्तानाम् उत्तरोत्तरक्षणानां सन्तानेनोत्पत्तिलक्षणा वृत्तिर् भवति शरस्य तदा १शराद् भावः[६०९]| तद् एवं यस्य प्रबन्धादेः शृङ्गादिभ्यो भावो न तादृशस्य शरादेः यस्य च [S. १५४ब्.] शरादेस् तदुत्तरोत्तरस्य भावो न तादृशस्य २शृङ्गादेर् इति[६१०]न दृष्टकारणविजातीयात् कारणात् तादृशस्य सम्भव इति कार्यहेतोर् अन्वयव्यतिरेकनिश्चयः | यदा ऽपि शालूकादयः पूर्वपूर्वस्वजातिनिबन्धना[६११]अनादिसन्तानप्रवृत्ता इष्यन्ते तदा ऽपि गोमयादिभ्यः केषाञ्चिद्भावे ऽपि तादृशत्वाभावान् न व्यभिचार इति दर्शयन्न् आह -- अस्ति च इत्यादि | यस्य शालूकसन्तानस्य गोमयादि कारणं यस्य च सर्वदा स्वजातिनिमित्तत्वं तयोर् गोमयेतरजन्मनोः शालूकयोर् अस्त्य् एव स्वभावभेदः परस्परम् अन्यादृशत्वं रूपस्याभेदे ऽपि सति | तुल्याकारत्वे सति कथम् अन्यादृशत्वम्? इति चेत्,[ह्१५]आह -- न हि इत्यादि | यस्मान् नाकारतुल्यतैव भावानां तत्त्वे तादृशत्वे निमित्तम् यतो गोमयेतरजन्मनोः शालूकयोर् आकारसाम्यात् तादृशत्वम् एव स्यान् न जातिभेदः | कुत एतत् ? इत्य् आह -- अभिन्नाकाराणाम् अपि इत्यादि | येषाम् अपि हि समानाकारता [S. १५५अ.] केषाञ्चिद् भावानां तेषाम् अपि यत आकाराद् अन्यतो [T. ३२१अ.] विशेषाज् जातिभेदो दृश्यते ततो नाकारसाम्यम् एव जात्य् एकत्वे निबन्धनम् | तथा हि -- आकारसाम्ये ऽपि क्वचित् पुष्पाद् भेदो दृश्यते नीलेतरकुसुमयोर् इव सूर्ययोः, क्वचित् फलात् वन्ध्येतरयोर् इव कर्क्कोटक्योः, क्वचिद् रसाद् वन्{ध्}येतरयोर् इव त्रपुषयोः, क्वचिद् गन्धाद् वृक्षेतरप्रभवयोर् इव चम्पकयोः, क्वचित् प्रभावात् स्पर्शोपयोगस्रंसिन्योर् इव हरितक्योर् इति | तस्माद् आकारसाम्यनिबन्धनं यद्य् अपि `तद् एवेदम्ऽ इति प्रत्यभिज्ञानं सजातीयतां गोमयेतरजन्मनोः शालूकयोर् उपकल्पयति तथापि विलक्षणसामग्रीजन्यतया तयोर् जातिभेद एवावगन्तव्यः, नैकजातिता | तत एव प्रत्यभिज्ञानस्य भ्रान्ततया तत्कल्पितस्य तादृशत्वस्यालीकत्वात् |
SK
__________NOTES__________
SK
[५९८] धूमो ऽधूम- -- T. [५९९] -माद् धूमज- -- T. [६००] -व न स्यात् -- T. [६०१] -पेक्षणम् अभिमतम् इत्य् अत -- T. [६०२] उत्पत्तौ [६०३] -कं अतादृ- -- T. [६०४] धूमव्यतिरिक्तसामग्र्यभावे [६०५] नियमदर्शनात् यस्य -- T. [६०६] दृष्टान्तः -- T. [६०७] तत्र -- T. [६०८] उत्पला- -- T. [६०९] शरोद्भवः -- T. [६१०] शृङ्गादेर् अन्यादृशस्य भाव इति -- T. [६११] सजात्यनुबन्धना -- T.
SK
{प्. १६२.१}[ सेच्तिओन्: ६. विलक्षणसामग्र्या अविलक्षणकार्यजनकत्वे दोषाः |]
SK
यदि पुनर् गोमयेतरादिजन्मनः शालूकादेर् अग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद् विलक्षणसामग्रीनिबन्धनत्वे ऽपि समानस्वभावतैव स्यात् को दोषः स्यात्? इत्य् अत आह -- अन्यथा हि इत्यादि | यदि [S. १५५ब्.] हि या स्वजाति[लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा या ऽग्नीन्धनादिलक्षणा [T. ३२१ब्.] या च शक्रमूर्द्धादिस्वभावा धूमाद्यात्मिका अवि(-का तस्याः वि)लक्षणाया अपि सामग्र्या अविलक्षणम् तादृशम् एव कार्यं धूमशालूकादिकम् उत्पद्येत तदा न `कारणस्यऽ सामग्रीरूपस्य भेदाभेदाभ्यां वैलक्षण्यावैलक्षण्याभ्यां कार्यस्य भेदाभेदौ वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्याताम् इति कृत्वा विश्वस्य सकलस्य पदार्थराशेः अहेतुकौ भेदाभेदौ सजातीयविजातीयत्वे स्याताम् | तस्माद् यत्र विलक्षणा सामग्री तत्र कुतश्चित् साम्यात् सरूपत्वे ऽपि विजातीयतैव कार्यस्येति | ननु धूमेन्धनादिसामग्रीभेदे ऽपि धूमस्य न जातिभेदमामन्ति विद्वांसः, अतद्रूपपरावृत्तेर् उभयत्र समान्तत्वात्, नैष दोषः, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदे ऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात् | शाबलेयाद्यवान्तरजातिभेदेप्य् अगोव्यावृत्तिनिबन्धनगोजातिवद् गवां [S. १५६अ.] सर्वधूमानाम् एकसन्तानव्यवस्थाव्यु(प्य् उ)पादानकारणक्षणभेदे[६१२]ऽप्य् एकाकारप्रत्ययनिबन्धनतया समानत्वात् | आद्यस्येन्धनप्रभवस्य कथम्? इति चेत् | न | इन्धनजात्यनुविधानात्[६१३]सर्वधूमानाम् | तथा हि -- अगुरुकर्पूरचन्दनादिजातिभेदम् अनुकुर्वन्त्य् एव [T. ३२२अ.] तद्धूमाः, कास् अश्वासादिहरद्रव्यनिर्मितवर्त्तिभेदं च तद्धूमाः, तद्रसवीर्यविपाकानुविधानात्[६१४]| न चाकारान्यतया[६१५]विजातीयत्वम्, यतो नाकारा ऽभेदभेदनिबन्धने सजातीयविजातीयत्वे | न हि {प्. १६३.१} शाल्यङ्कुरादयः तद्वीजाद्याकारम् अनुकुर्वते | न च तज्जातीयतामशाल्यादि- व्यावृत्तिनिबन्धनां नानुभवन्ति | तस्माद् इन्धनम् एव तस्योपादानकारणम् अग्न्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जन्यतीत्य् अलम् अतिप्रसङ्गेन | ननु च यदि नाम सामग्रीभेदे ऽपि कार्यस्य भेदो न जातः तदा कारणभेदे सत्य् अपि तस्याभावात् तस्याहेतुकता ऽस्तु, अभेदस्य तु किम् आयातम्? येनोभयोर् अहेतुकत्वम् उच्यत इत्य् अत आह -- तथाहि इत्यादि | यदा हि सामग्रीभेदे [S. १५६ब्.] सत्य् अपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम् -- न हि हेतौ सत्य् अभवतः कथञ्चिद् अपि हेतुमत्तोपपद्यते -- तदा यो ऽप्य् असाव् ५अभेदः कार्यस्य[६१६]सो ६ऽपि सामग्र्योः[६१७]७भिन्नत्वाद् असत्य् अभेदे[६१८]जात इति कुतस् तस्यापि हेतुमत्ता? | यथा हि हेतौ सत्य् अभवतो न हेतुमत्ता तथा हेताव् असत्य् अपि भवतो हेतुमत्ता कुतः स्यात्? | हेतुभेदस्यैवा ऽभेदनिबन्धनत्वात् न इति चेत्; न तर्ह्य् अयं भेदः क्वचित् पदम् आबध्नीयात्, शालीकोद्रवादेर् अपि [T. ३२२ब्.] हेतुभेदस्याभेदहेतुत्वान् निमित्तम् अन्तरेण कल्पनायां विशेषाभावात् | प्रतिभासाभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो भेदे ऽप्य् उपलक्षणात् | स्याद् एतत् -- यो ह्य् अतादृशाद् अपि तादृशोद्भवम् इच्छति तस्य भेदाभेदयोर् अहेतुकत्वम् इष्टम् एव भावा एव केवलं हेतुमन्त इत्य् अत आह -- तद्व्यतिरिक्तश्च इत्यादि | न हि भेदाभेदव्यतिरिक्तः कश्चिद् भावानां स्वभावो ऽस्ति यस् तयोर् अहेतुकत्वे ऽपि हेतुमान् स्यात् | तस्य ताभ्याम् अन्यत्वे `अस्येमौ भेदाभेदौऽ इति[६१९][S. १५७अ.] सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायाम् अनवस्थादोषात्, अनन्यत्वे ऽपि भेदाभेदयोर् भावस्वभावस्य च स्वात्मन्येवावस्थानात् अनुपकाराच् च कुतः सम्बन्धिता? | उपकारकल्पनायां च यदि भावस्वभावः स्वहेतुभ्य[६२०]एव न कुतश्चिद् भिन्नो ऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तद्भावे[६२१]ऽपि स्वभावान्यथात्वाभावात् कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात्? | अथा {प्. १६४.१} व्यतिरिक्तभेदाभेदवशाद् भेदाभेदौ स्वभावः प्रतिपद्येत, ताव् अपि यदि भिन्नौ तदा भावस्वभावस् तदवस्थ एवेति न तस्य कुतश्चित् स्वरूपतो भेदो ऽभेदो वा स्यात् | पुनस् तद्वशाद् भेदाभेदकल्पनायां भावस्वभावस्य तदवस्थं तादवस्थ्यम् अनवस्था [T. ३२३अ.] च भेदाभेदयोः | अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां क्रियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(भ)वात्; तस्य च हेत्वन्तरात् पश्चाद् भवतस् ततो ऽन्यत्वापत्तेः | न च भावस्वभावः क्रियते, तस्य स्वहेतोर् एव निर्वृत्तेः | स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद् भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भेदाभेदयोर् व्यतिरेकवतोः वयर्थ्यम्; [S. १५७ब्.] भेदाभेदबुद्धेर् अपि तत एव सिद्धेः | तस्माद्वैशेषिकादिकल्पितयोर् भेदाभेदयोर् विशेषसामान्यात्मनोर्[६२२]अयोगात् भावस्वभाव एव भेदाभेदशब्दवाच्यः तयोर्[६२३]अहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वम् आपतितम् | ततो भावानाम् अहेतुकत्वान् नित्यं सत्त्वम् असत्त्वं वा स्यात् | अहेतुकत्वे हि भावानां यदि कदाचित् सत्त्वं सर्वदैव स्यात् | अथ कदाचिद् असत्त्वं तद् अपि सर्वदा स्यात् | कादाचित्कत्वं तु सत्त्वस्यायुक्तम् | किं कारणम्? | अपेक्ष्यस्याहेतुकत्वे सति कस्यचिद्[६२४]अभावात् | यस्माद् अपेक्षयाहि तस्यापेक्षणीयस्य हेतोर् भावे भवन्तो ऽभावे च न भवन्तः कादाचित्काः कदाचिद् भवा युज्यन्ते, नान्यथेति | तस्मान् न विलक्षणात् कारणात् अविलक्षणस्य कार्यस्योत्पत्तिर् अभ्युपगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात् | पुनर् अपि विलक्षणायाः सामग्र्याः [T. ३२३ब्.] अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरम् आह -- व्यवस्थावांश्च प्रतिनियतः साध्येषु घटपटादिषु साधनानां मृत्तन्त्वादीनां लोके यो नियोगो घटार्थी मृत्पिण्डम् एव तत्र नियुङ्क्ते न तन्तून्, पटार्थी च तन्तून् एव न मृत्पिण्डम् इत्यादिकः स न [S. १५८अ.] स्यात् | कस्मात्? इत्य् आह -- कारणानां -- सामग्रीणां याः शक्तयः -- आत्मातिशयलक्षणास् तासां प्रतिनियमे काचिद् एव सामग्री {प्. १६५.१} क्वचिद् एव कार्ये उपयुज्यते नान्या ऽन्यत्रेत्य् एवंरूपे हि यस्मात् किञ्चिद् एव मृदादिकं कस्यचिद् एव घटादेः साधनायोपादीयते नापरं तद्विलक्षणं तन्त्वादिकम् कस्माद् एवम्? इति चेत्? तस्यैव मृदादेः तत्र घटादौ शक्तेर् योग्यत्वात् अन्यस्य तन्त्वादेस् तत्राशक्तेः | कस्मात् तस्यैव तत्र शक्तिर् नान्यस्य इत्य् अत आह तयोः मृदादेस् तन्त्वादेश् च तज्जननस्वभावत्वेन घटादिजननस्वभावत्वेन इतरस्वभावत्वेन च घटाद्यजननस्वभावेन च भेदात् अन्यत्वभावात् | न हि मृत्तन्त्वादिरूपतातो ऽन्यद् एव तज्जननेतरस्वभावत्वं नाम | यदा तु सामग्रीणां परस्परविलक्षणानाम् अपि शक्तिप्रतिनियमो नेष्यते विलक्षणाद् अपि अविलक्षणकार्योपगमात् [T. ३२४अ.] तदा तज्जननस्वभावविलक्षणाद् अपि धूमादिजननस्वभावं यत् कारणम् अग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणाद् अपि शक्रमूर्द्धादेः क्षणाश्रयेण वा धूमादेस् तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्लक्षणस्य चोत्पत्ताव् इष्यमाणायां न तज्जननशक्तेःप्रतिनियमो विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः | इति तस्माद् यत् किञ्चित् कार्यं यतःकुतश्चित् कारणात् स्यात् उत्पद्येत, न ४यथादृष्टम् एव यथादृष्टात्[६२५]| सर्वं [S. १५८ब्.] सर्वतो जायेतेति यावत् | तस्माच् छक्तिप्रतिनियमः कारणानाम् अभ्युपगन्तव्यः | ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित् साम्यात् सरूपस्योपलक्षणे ऽप्य् अन्यादृशतैवेति सर्वस् तादृशस् तथाविधजन्मेति सिद्धम् | स्यान्मतम् -- विलक्षणाया अपि सामग्र्यास् तल्लक्षणकार्यजननशक्तिः समानेति तल्लक्षणं कार्यं भविष्यति कस्याश्चिद् एव च तथाभावान् न यथोदितदोषावसर इत्य् अत आह तज्जननशक्तिसाम्ये तु इत्यादि | उक्तम् एव तावद् अत्र पूर्वपक्षे `न च धूमस्य तदतज्जन्यस्वभावःऽ इत्यादिकं दूषणम् | अभ्युपगम्यापीदम् आह -- यादृशीह्य् अग्निसहकारिणः तदाधीयमानविकारस्येन्धनस्य ५स्वभेदेन धूमभेदहेतोः[६२६][T. ३२४ब्.] शक्तिः आत्मातिशयस् तादृश्येव शक्रमूर्द्ध्नो[६२७]{प्. १६६.१} धूमस्य वा यदि तत्सामग्रीजन्यधूमाविलक्षणकार्यजननशक्तिर् आत्मातिशयलक्षणा तदा तच्छक्तिसाम्ये तदेवाग्नीन्धनादिकम् एवार्थान् नामान्तरेणोक्तं स्यात्, तद्विलक्षणस्य तद्विलक्षणात्मातिशयासम्भवात् | स एव ह्य् अग्निर् य इन्धनविकारमादधानो धूमं जनयति, तच् चेन्धनं यदग्निना ऽऽधीयमानविकारं धूमं स्वजातिम् अनुकारयति | यदि [S. १५९अ.] च शक्रमूर्द्धादेर् अपि एवं भवता ऽभ्युपगम्यते तदा केवलं नाम्नि विवादः स्यात्, अर्थाभेदम् अभ्युपगम्य तथाभिधानात् यत एवम् इति तस्मात् कार्यं धूमादिकं दृष्टम् एकदा प्रत्यक्षानुपलम्भाभ्यां निश्चितम् अतद्रूपव्यावृत्तेनात्मना कारणम् इन्धनादिकं सन्तानापेक्षया क्षणापेक्षया वा न व्यभिचरति तद्विलक्षणाद् अन्यतो न भवतीति कार्यहेताव् अन्वयव्यतिरेकनिश्चयः सिध्यतीति |[६२८] {प्. १६७.१} [ ४. अनुपलब्धिहेतुनिरूपणम् |] [ सेच्तिओन्: १. विप्रतिपत्तिप्रदर्शनपूर्वकम् अनुपलब्धेस् स्वरूपनम् |]
SK
__________NOTES__________
SK
[६१२] एकजातिव्य- -- T. [६१३] एकसन्तानरा(-नव्य)वस्थेति सम्बन्धः [६१४] तद्रसकार्यवि- -- T. [६१५] च कारणजन्यतया -- T. [६१६] -दः सर्वस्य -- T. [६१७] ऽपि कारणस्य -- T. [६१८] -द् अभेदे -- T. [६१९] इत्य् आकार -- T. [६२०] स्वात्मना -- T. [६२१] भेदाभेद- [६२२] भेदाभेद- [६२३] भेदाभेदयोः [६२४] कदाचिद् -- T. [६२५] यथादृष्टायथादृष्टयोः -- T. [६२६] स्वभावभेदहे- -- T. [६२७] शक्रमूर्ध्नादेर् वा -- T. [६२८] T. अद्द्स् ब्राह्मणाचतेन विरचिते हेतुबिन्दुप्रकरणे कार्यहेत्वधिकारो द्वितीयः |
SK
तद् एवं कार्यहेतौ यतो यद्भवदृऋष्टंसकृत् प्रत्यक्षानुपलम्भाभ्यांतादृशस्य सर्वस्य तथाविधाद् एव जन्म न तद्विजातीयाद् इत्य् एकस्या [T. ३२५अ.] अपि कार्यव्यक्तेः कुतश्चिद् भावदर्शने व्याप्त्याऽन्वयव्यतिरेकसिद्धिर् इति प्रतिपादितम् | अनुपलब्धौ तु यथोक्तायां निमित्तान्तराभावोपदर्शननिबन्धनयोर् नान्वयव्यतिरेकयोर् विप्रतिपत्तिः | स्वरूप एव तु परे विप्रतिपद्यन्ते | तथाहि केचिद् उपलब्ध्यभावमात्रम् अनुपलब्धिम् अभावस्य [S. १५९ब्.] प्रसज्यप्रतिषेधात्मनः प्रमाणान्तरत्वेन गमिकाम् इच्छन्तिईश्वरसेनप्रभृतयः, अपरे तु प्रतिषेध्यविषयज्ञानरूपेणापरिणामम्[: प्रतिषेध्यविषयज्ञानविषयरूपेणापरिणामस् HBṬĀ ३८०.२८f.] आत्मनः तदन्यवस्तुविषयं विज्ञानम् एव वा ऽभावस्य गमकं प्रत्यक्षानुमानाभ्यं प्रमाणान्तरम् आहुर्म्मीमांसकाः| न ह्य् अन्यवस्तुविषयं ज्ञानं प्रत्यक्षानुमानात्मकम् अभावं प्रतिपद्यते, तस्य भावांशविषयत्वात्, अभावांशस्य च ततो ऽन्यत्वात् | अभावांशे[: भावांश (अभावांशे) जनयद् इति HBṬĀ ३८१.३] तु नास्तीति ज्ञानं जनयत् तदभावप्रमाणाख्यं लभते, यथेन्द्रियं स्वविषयप्रतिपत्तिजनकत्वेन प्रत्यक्षाख्याम् | तथाऽन्ये अन्यभावलक्षणां तज्ज्ञानलक्षणाम्[६२९]वा ऽनुपलब्धिम् अभावस्यैव साधनम् आहुर् नाभावव्यवहारस्य, अनुपलब्धेर् लिङ्गाद् अभावसिद्धौ स्वयम् एव तद्व्यवहारप्रवृत्तेः |नैयायिकास् तु नास्तीति ज्ञानम् एव केवलप्रदेशादिग्राहिज्ञानानन्तरभाविप्रत्यक्षं न प्रमाणान्तरम् अभावस्य तुच्छरूपस्य परिच्छेदात्मकम् आचक्षते तद् एवास्य [T. ३२५ब्.] घटादेः प्रतिषेध्यस्यानुपलब्धिशब्देन यद्य् उच्यते न कश्चिद् विरोधः इति | तद् एवम् अनुपलब्धौ भेदं गता बुद्धयः प्रतिवादिनाम् इति [S. १६०अ.] तन्निरासार्थम् अनुपलब्धिस्वरूपं तावद् उपदर्शयन्न् आह उपलब्धिलक्षणप्राप्तस्य इत्यादि | `उपलब्धिलक्षणप्राप्तिःऽ -- `उपलम्भप्रत्ययान्तराणां[६३०]समनन्तराधिपतिप्रत्ययसंज्ञितानां साकल्यम्, आलम्बनप्रत्ययस्य स्वभावविशेषश् च | यः स्वभावः सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवतीऽत्य् एवंरूपाशास्त्रकृताऽन्यत्र {प्. १६८.१} व्याख्यातानैयायिकविप्रतिपत्तिनिरासार्थम् | ते ह्य् अनुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वानेकद्रव्यवत्त्वरूपाणि द्रव्याणाम् आहुः | महत्त्वाद्[: महतीति HBṬĀ ३८२.७] अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः [VऐSऊ IV.१.६.] इति वचनात्[: एवं वचनाद् इत्य् HBṬĀ ३८२.८] | एवंचोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सत्य् अपि वस्तुनि सम्भवतीत्य् असद्व्यवहारसिद्धाव् अनैकान्तिकीत्य् आचक्षते | न हि चाक्षुषस्यापि रश्मेर् महत्त्वानेकद्रव्यवत्त्वरूपाण्य् उपलम्भकानि भवन्ति | न च तावता ऽनुपलम्भ ऽप्य् असद्व्यवहारस् तत्र शक्यते कर्त्तुम् | यद् आहभाष्यकारः[६३१]`नानुमानत उपलभ्यमानस्य प्रत्यक्षतो ऽनुपलब्धिर् अभावे हेतुःऽ[६३२][ Dउर्वेक: भाष्यकार इस् न्यायभाष्यकार पक्षिलस्वामी (HBṬĀ ३८२.२३)]इति | इन्द्रियत्वात् त्वगादिवत् किल प्राप्यकारि चक्षुर् इत्य् अनुमानतश् चाक्षुषो रश्मिर् उपलभ्यते तस्य [S. १६०ब्.] प्रत्यक्षतो ऽनुपलब्धिः कथम् अभावव्यवहारं साधयेत्? इति | तद् एवम् उपलब्धिलक्षणप्राप्तस्यानुपलब्धिम् असद्व्यवहारे ऽनैकान्तिकीम् आहुर्नैयायिकाः[T. ३२६अ.] तन्निरासम्[: तन्निरासार्थम् HBṬĀ ३८३.३] उपलब्धिलक्षणप्राप्तेर् अविपरीतरूपोपदर्शनेनशास्त्रकारो ऽभ्यधात् | यदाह्य् उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश् च यथोक्त उपलब्धिलक्षणप्राप्तिर् उच्यते न महत्त्वादिकं तदा कुतो व्यभिचारावकाशः?, सति वस्तुनि तस्याअसम्भवात् | महत्त्वादिकंत्व् असम्भवाद् एव नोपलब्धिलक्षणप्राप्तिशब्देन वाच्यम् | न हि रूपादिव्यतिरिक्तं द्रव्यं तत्प्रतिभासविवेकिना ऽऽकारान्तरेण स्वज्ञाने प्रतिभासते | न चाप्रतिभासमानम् अनात्मरूपविवेकिना रूपेण प्रत्यक्षताम् अनुभवत्य् अतिप्रसङ्गात् | तत् कुतो ऽस्या ऽसतो महत्त्वादिसम्भवः? | न च स्वरूपेणामहतः तत्सम्बन्धे ऽप्य् अस्य महत्तासम्भवः | अपररूपेण[६३३]वा ग्रहणे कथंतद्ग्राहिज्ञानम्[६३४]अभ्रान्तम्? | ततो न महत्त्वं द्रव्यस्योपलम्भकंरूपं वा | तस्यापि स्वरूपेण ग्रहणे द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् | द्रव्यरूपस्य च [S. १६१अ.] तद्विवेकेनानुपलक्षणान् न तथाग्राहकत्वम् | न च महत्त्वं रूपं वा द्रव्योदयकाले ऽभ्युपगम्यते, यतो द्रव्यं गुणस्य समवायिकारणम् इष्यते | तच् च प्रतिलब्धात्मकम् एव तथाताम् अनुभवतीति प्रथमे क्षणे द्रव्यं निर्गुणम् एव | न चास्य[अस्य : स्वस्य HBṬĀ ३८२.१३] द्वितीये क्षणे प्राक्तनरूपत्यागो ऽस्ति रूपान्तरं वा ऽऽविर्भवति यतः{प्. १६९.१} प्रागप्रतिपन्नाधारभावं महत्त्वादिगुणप्रतिबन्धाद् आधारतां यायात् | न चाजनक आधारः | जनकत्वे च [T. ३२६ब्.] क्षणिकता, अर्थक्रियाविरोधाद् अक्षणिकस्य | ततः कुतः समवायिकारणस्य सम्भवः?, यतःस्वोत्कलितंकार्यं जनयत् तथा व्यपदिश्यते | न चैतत् क्षणिकत्वे सम्भवति अक्षणिकत्वे वा प्राग् ऽनाधारस्य पश्चादाधाराभावः| समवायिकारणासम्भवाद् एवानेकद्रव्यवत्त्वम् अप्य् असम्भवि यस्माद् अनेकं द्रव्यम् आरम्भकं समवायिकारणात्मना यस्य विद्यते तद् एवंव्यपदिश्यते | द्रव्याभावाच् च नानेकद्रव्यवत्त्वं | सत्त्वे ऽपि महत्त्वादेर् नेयम् उपलब्धिलक्षणप्राप्तिर् अस्माकम् अभिमता | ४या त्व् अभिमा(म)ता[६३५]न तयोपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् असद्व्यवहारसिद्धाव् अनैकान्तिकीति शास्त्रकारो दर्शयाम् बभूव [S. १६१ब्.] उपलब्धिलक्षणप्राप्तस्य या अनुपलब्धिः कारणस्य व्यापकस्य वा प्रतिषेध्याद् अन्यस्य सा अभावहेतुः कार्यस्य व्याप्यस्य च अभावव्यवहारहेतुश्च | यातु प्रतिषेध्यस्यैवोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सा ऽभावव्यवहारहेतुर् एवेति वाशब्देन दर्शयति | या त्व् अनुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा सा संशयहेतुः प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेः, निमित्ताभावात् तु सद्व्यवहारप्रतिषेधहेतुर् इत्य् अवगन्तव्यम् |
SK
__________NOTES__________
SK
[६२९] तदज्ञा- -- T. [६३०] आलोक-मनस्कार-चक्षुषाम् [६३१] न्यायसूत्रभाष्यकृच् चान्वयः [६३२] अत्र न्यायसूत्रम् -- नानुमीयमानस्य प्रत्यक्षतो ऽनुपलब्धिर् अभावहेतुः|| [NSऊ ३.१.३६] इत्य् एवरूपं भाष्यकारवचनत्वेनोद्धृतम् -- सम्पादकः | लभ्यते [६३३] महत्त्वेन [६३४] प्रच्य- [६३५] -भिमता भवताम् अप्य् अभिमता -- T.
SK
[ सेच्तिओन्: २. स्वेष्टाम् अनुपलब्धिं स्पष्टयितुम् ईश्वरसेनकुमारिलादीनां निरासः |]
SK
तत्र ये तावद् उपलब्ध्यभावमात्रम् अनुपलब्धिम् इच्छन्ति, विज्ञानंवाऽन्यवस्तुनि [Śल्V अभावपरिच्छेद ११द्.] इति वचनात् तदन्यवस्तुविज्ञानम् एव वा, तन्निरासार्थं [T. ३२७अ.] ज्ञातृ-ज्ञेयधर्मलक्षणाम् अनुपलब्धिं दर्शयितुम् उपलब्धिम् एव तावद् द्विविधाम् दर्शयन्न् आह -- अत्र अनुपलब्धिवाक्ये योपलब्धिः श्रूयते क्रियारूपा सा यदा कर्तृस्थतया ऽपेक्ष्यते तदा तस्या उपलभमानस्य कर्तुः धर्मत्वे अपेक्ष्यमाणे तज्ज्ञानम् उपलभमानस्य यज्ज्ञानं तद् उपलब्धिर् उच्यते | उपलभमानश् च बुद्धीन्द्रियदेहकलाप एव च पूर्वक्षणसङ्गृहीत[६३६]उपलब्धिजनक उच्यते | तथा हि -- उपलब्धेर् जनक आश्रयो वा कर्त्ता परैर् उच्यते | न {प्. १७०.१} चेन्द्रियादेर् अन्यस्य जनकत्वं [S. १६२अ.] सम्भवति यतो ऽन्वयव्यतिरेकनिबन्धनः कार्यकारणभावव्यवहारः, तौ चान्वयव्यतिरेकौ नेन्द्रियादेर् अन्यस्य सम्भवतः सत्स्व् इन्द्रियादिषु नियमेनोपलब्धेर् भावात् | यदि हीन्द्रियादिषु सत्स्व् अपि कदाचिद् उपलब्धिर् नोपजायते तदा सत्स्व् अप्य् अन्येषु सकलेषु हेतुषु कार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयतीति तद्व्यतिरिक्तकारणान्तरं परिकल्प्येत | न चैतद् अस्ति, तत् कथम् आत्मनस् तदुत्पत्तौ निमित्तभावो[६३७]ऽभ्युपगम्येत? अतिप्रसङ्गात् | यद् आह - ३यस्मिन् सति भवत्य् एव यत् ततो ऽन्यस्य कल्पने | तद्धेतुत्वेन सर्वत्र हेतूनाम् अनवस्थितिः[६३८]|| [PV I २६] इति | आश्रयत्वम् अपि जनकस्यैवेति तद् अप्य् आत्मनो न सम्भवति | स्थापकत्वाद् आश्रय इति चेत्; न, क्षाणिकत्वे स्थितेर् अभावाद् उपलब्धेर् अक्षणिकत्वे ऽपि स्वयम् एवाविनाशाद् अवस्थानात् | तथा हि -- उपलब्धेर् अविनाश एव स्थितिर् उच्यते न पाताभावः [T. ३२७ब्.] तस्या गुरुत्वाभावात् संयोगाभावेन गुरुत्वात् पतनम् [VSऊ V.१.७.] इति चपरेषांकृतान्तः | समवायाद्[६३९]आश्रय इति चेत्; ननु सो ऽपि आधार्याधारभूतानाम् एवेष्यते | न चापतनधर्मिकाया उपलब्धेर् आधारेण किंचित्, [S. १६२ब्.] समवायाच् चाश्रयत्वे ऽन्यस्यापि तद्भावप्रसङ्गः, तस्य सर्वात्मसु समानत्वात्, एकत्वेनास्योपगमात् | क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाच् च नास्यात्मनः सत्त्वम्, ततो ऽस्य कुतो जनकत्वम्? आश्रयत्वं वा? इत्य् अलं क्षुण्णक्षोदीकरणेनेति | एवम् उपलब्धिम् आदर्श्यानुपलब्धिम् आदर्शयन्न् आह -- तस्माद् उपलब्धिज्ञानाद् अन्या वस्त्वन्तरविषया उपलब्धिः ज्ञानात्मिका अनुपलब्धिः | कथं पुनर् उपलब्धिर् एवानुपलभ्दिर् उच्यते? इत्य् आह -- विवक्षितेत्यादि | यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद् भक्ष्याद् अन्यत्वाद् `अभक्ष्यो ग्राम्यकुक्कुटःऽ -- भक्ष्यो ऽपि सन् तदन्यस्य -- उच्यते | यथा च स्पर्शनीयास्पर्शनीयाधिकारे विवक्षितात् स्पर्शनीयाद् अन्यत्वाद् `अस्पर्शनीयश् चाण्डालादिःऽ -- तदन्यस्य स्पर्शनीयो ऽपि सन् -- उच्यते | {प्. १७१.१} तद्वद् उपलब्धिर् एवानुपलब्धिर् म्मन्तव्या | नञः प्रतिषेधविषयत्वात् कथं भावविषयता? इति चेत्, आह -- पर्युदासवृत्त्येति | पर्युदासेन प्रतिषेध्यस्यार्थस्य वर्जनेन या विशिष्टे ऽर्थे वृत्तिस् तया, नञः आगृहीतप्रतिषेधस्य[६४०]भावविषयता | यत्र विधेः [S. १६३अ.] प्राधान्यं प्रतिषेधो ऽर्थगृहीतः विधिभाक् स्वपदेन नोच्यते एकवाक्यता च तत्र पर्युदासवृत्तिता | विधेश् च प्राधान्यं `विवक्षितोपलब्धेर् अन्योपलब्धिर् भवतिऽ इत्य् एवं वाक्येनान्योपलब्धेर् विधानात् [T. ३२८अ.] अन्योपलब्धिसामर्थ्याद् एव विवक्षितोपलब्धेः प्रतिषेधः प्रतीयते | विवक्षितोपलब्धेर् अनिवर्त्तने तदपेक्षया ऽन्यस्या विधानायोगात् स्वपदेन नञा विधिभाङ् नोच्यते | किं तर्हि? | अन्यशब्देन पर्युदासाश्रयेणा ऽन्यशब्दस्यैव वाक्ये प्रयोगात् अन्या उपलब्धिर् अनुपलब्धिर् इति | नञश् च सुबन्तेन सामर्थ्यं न तिङन्तेन इत्य् एकवाक्यत्वं `न उपलब्धिर् अनुपलब्धिःऽ इति | प्रसज्यप्रतिषेधः पुनर् एतद्विपरीतो मन्तव्यः | तत्र हि प्रतिषेधस्य प्राधान्यं विधिर् अर्थाद् गम्यते वाक्यभेदः स्वपदेन नञा प्रतिषेधभाक् सम्बध्यते | तद् एवं ज्ञातृधर्मलक्षणाम् अनुपलब्धिं व्याख्याय ज्ञेयधर्मलक्षणां प्रतिपादयन्न् आह -- उपलभ्यमानधर्मत्व इत्यादि | यदा कर्मस्थक्रियापेक्षयोपलभ्यमानस्य वस्तुनो धर्म उपलब्धिर् विवक्ष्यते तदा विषयस्वभाव उपलब्धिर् मन्तव्या | कीदृशो [S. १६३ब्.] विषयस्वभावः? इत्य् आह -- स्वविषयेत्यादि | प्रतिषेध्यस्य घटादेर् यदात्मविषयं विज्ञानं तज्जनने या योग्यता तल्लक्षणो विषयस्वभाव उपलब्धिशब्देनोच्यते | यदि विषयस्वभाव उपलब्धिः कथं योग्यतालक्षणः? | तथा हि योग्यता धर्मः, धर्मधर्मिणोश् च भेद एव इत्य् अत आह -- योग्यतायाः इत्यादि | योग्यता हि परमार्थतो [T. ३२८ब्.] भावरूपैव न वस्तुस्वरूपाद् भिद्यते, अन्यथा भावो योग्य एव न स्यात् | योग्यता ऽस्येति च सम्बन्धो भावतो न स्यात् | सम्बन्धकल्पनायाम् अनवस्थेत्य् उक्तप्रायम् | तद् एवम् उपलब्धेर् विषयधर्मतां प्रतिपाद्यानुपलब्धेर् अपि प्रतिपादयन्न् आह तस्माद् अन्यः इत्यादि | तस्मात् प्रतिषेध्याद् घटादेः {प्. १७२.१} स्वविषयज्ञानजननयोग्याद्[६४१]यो ऽन्य उपलम्भजननयोग्य एव न तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्रानुपलब्धिशब्देनोच्यते | प्राक्तनम् एव न्यायम् अत्रादिशन्न्[६४२]आह पूर्ववद् इति | विवक्षितोपलब्धेर् अन्यत्वाद् अभक्ष्यास्पर्शनीयवत् पर्युदासवृत्त्येति | कथं पुनर् अयं नञ् अन्यार्थवृत्तिः सामान्यशब्दः सन् घटविविक्तप्रदेशस्य [S. १६४अ.] तज्ज्ञानस्यैव ३वा घटविविक्तस्यानुपलब्धित्वं[६४३]पर्युदासवृत्त्या प्रकल्पयति, न पुनर् अविशेषेण सर्वेषाम् एवान्यशब्दवाच्यानाम्? इत्य् अत आह -- यत्र यस्मिन् इत्यादि | यत्र देशे काल ऽवस्थायां वा ऽव्यवधानादिलक्षणायाम्, यस्मिन् प्रदेशरूपादौ उपलभ्यमाने नियमेन अवश्यंतया यस्यान्यस्य पदार्थस्य घट्ररूपादेर् उपलब्धिर् भवति स घटरूपादिः पदार्थः तत्संसृष्टः तेन प्रदेशरूपादिना संसृष्टः | कथम् एकस्मिन्न् उपलभ्यमाने परस्यापि नियमोपलब्धिः? इति चेत्, योग्यताया अविशेषात् | [T. ३२९अ.] प्रदेशघटयोर् हि स्वविषयविज्ञानजनने योग्यता तुल्या | यदा हि प्रदेशरूपं व्यवधानविप्रकर्षादिरहितं विज्ञाने स्वाकारं समर्प्पयति तदा घटरूपम् अपि तत्र[६४४]तथाविधं स्वाकारं समर्प्पयत्य् एव | यदि नाम योग्यता तस्य तेन तुल्या स्वस्वभावव्यवस्थितेस् तु कथं तत्संसृष्टता? इत्य् अत आह -- एकज्ञानसंसर्ग्गाद् इति | एकत्र हि ज्ञाने द्वाव् अपि तौ स्वाकारद्वारेण संसृष्टौ न साक्षात्, तद्विज्ञानं पदार्थद्वयाकारम् आजायमानं तयोर् आत्मनि संसर्ग्गं दर्शयति | किम् इति पुनस् तत् ज्ञानं पदार्थद्वयाकारम् अवश्यं [S. १६४ब्.] भवति यतस् तयोर् ज्ञानद्वारकः संसर्ग्गः? इत्य् अत आह -- तयोःसतोः इत्यादि | याव् एतौ तुल्ययोग्यतारूपौ तौ यदि सन्तौ भवतस् तदा नैवैकाकारनियता प्रतिपत्तिर् भवति | कस्मात्? असम्भवात् | न ह्य् एष सम्भवो ऽस्ति -- यत् तुल्ययोग्यतारूपयोर् एक एव प्रतिभासेत नापर इति | तथा हि -- अविशिष्टत्वाद् योग्यतायाः कस् तत्र स्वाकारं न समर्प्पयेत्? | अनुभवसिद्धिं च युगपद् अनेकप्रतिभासनम् | न चानुभवविरुद्धम् आचक्षणा विदुषाम् अवधेयवचसो भवन्ति | लघुवृत्तित्वाद् यौगपद्याभिमान इति चेत्; न, {प्. १७३.१} बाधकप्रत्ययविरहेण भ्रान्तिकल्पनानुपपत्तेः [T. ३२९ब्.] सर्वत्र तथाभावप्रसङ्गात् | करणधर्म एवायं यद् एकस्मिन्न् एव कर्मणि क्रियां निष्पादयति नानेकत्र, करणं चेन्द्रियं ततो नानेकप्रतिपत्तिहेतुर् इति चेत्, कथं प्रदीपादिर् अनेकत्र बहूनां प्रतिपत्तिजनकः? | कर्तृभेदाद् अदोष इति चेत्; कर्त्त्रेकत्वात् तर्हि क्रियैकत्र कर्माणीति कथं `करणधर्मःऽ इत्यादि वचो न प्लवते? | न च प्रतिक्षणविशरारुषु भावेषु परमार्थतः कर्तृकरणादिभावो [S. १६५अ.] युक्तः क्रिया वा काचित् | न च सर्र्वकारकान्वयव्यतिरेकानुविधायिनि कार्ये कस्यचिद् अतिशयो ऽस्ति येनायं कर्त्ता का(क)रणं चेदम् इत्यादि परिकल्प्येत | तस्माद् अविशिष्टयोग्यतयोः कुत एकरूपनियतायाः प्रतिपत्तेः सम्भवः? इति सिद्ध एकज्ञानसंसर्ग्गः | तुल्ययोग्यतारूपत्वस्य चैतद्[६४५]एव लिङ्गम् | न ह्य् असति तुल्ययोग्यतारूपत्वे युगपद् एकेन्द्रियजनितज्ञानप्रतिभासिता रूपरसवत् सम्भवतीति | तत्र येषांसौगतानाम् इदं दर्शनं `एकायतनसङ्गृहीते ऽनेकत्राप्य् एकम् एवेन्द्रियज्ञानम् आजायतेऽ इति तेषां मुख्य एवैकज्ञानसंसर्ग्गः | ये तु `तत्रापि प्रत्यर्थं भिन्नान्य् एवैकेन्द्रियनिमित्तान्य् एककालानि तद्विषयाणां युगपत् सन्निहितानां स्वज्ञानेषु सामर्थ्याविशेषात्, अत[६४६]एवैकतया लोके ऽध्यवसीयमानानि ज्ञानान्य् उपजायन्ते` इति वर्णयन्ति [T. ३३०अ.] तेषाम् एकेन्द्रियजत्वेनैकायतनविषयत्वेन चैककालेष्व् ३एकत्वव्यपदेशो लोके[६४७]तथाध्यवसायाद् औपचारिकः | यदि नामैकज्ञानसंसर्ग्गात् तत्संसृष्टस्यापि [S. १६५ब्.] सामान्येन सर्वम् अन्यम् अयं नञ् किन् न प्रतिपादयति? इति अत आह -- तस्मात् इत्यादि | यस्माद् अविशिष्टत्वाद् योग्यताया यथोक्तेन प्रकारेणैकत्र ज्ञाने द्वयोर् अपि संसर्ग्गः तस्माद् अविशिष्टं योग्यतारूपं ययोः तत एवैकज्ञानसंसर्ग्गिणौ तौ तस्मात् तयोर् एवंरूपयोः परस्परापेक्षम् एव न सर्वान्यपदार्थापेक्षम् अन्यत्वम् इह अनुपलब्ध्यधिकारे अभिप्रेतम् | लोके तु यद्य् अविशेषपदार्थान्तरापेक्षम् अन्यत्वं नञा क्वचिद् उच्यते व्याप्तिन्यायसमाश्रयात्, तथापि तद् इह न गृह्यते, {प्. १७४.१} प्रत्यासत्तेराश्रयणात् एकज्ञानसंसर्ग्गलक्षणा प्रत्त्यासत्तिर् आश्रीयते ना ऽन्या प्रमाणचिन्ताधिकारात् अन्यथा ऽनुपलब्धिर् अनैकान्तिक्येव स्यात् | तस्मात् तत्त्वचिन्तकैस् तथाविधम् अन्यत्वम् आश्रयणीयम् यद् अनुपलब्धेर् अव्यभिचारनिबन्धनम् | तच् च यथोक्तम् एवेत्य् अभिप्रायः | तद् एवम् एकज्ञानसंसर्ग्गापेक्षया ऽन्यत्वं प्रतिपाद्यानुपलब्धिं दर्शयन्न् आह -- स केवलः इत्यादि | स एव यदा केवलः प्रदेशो यथोक्तघटापेक्षया तस्माद् अन्य उच्यते [S. १६६अ.] तदा घटविविक्तप्रदेशज्ञानं [T. ३३०ब्.] वा ऽनुपलब्धिः, न तु यथेश्वरसेनो मन्यते उपलब्ध्यभावमात्रम् अनुपलब्धिर् इति, वक्ष्यमाणदोषात्; घटविविक्तप्रदेशस्वभावो वा; न तु तद्विविक्तज्ञानम् एव यथाहकुमारिलःविज्ञानंवान्यवस्तुनि [Śल्V अभावपरिच्छेद ११द्.] इति | यथा ह्य् अन्यवस्तुविषयं ज्ञानम् अनुभूयमानं प्रतियोगिस्मरणापेक्षं तदभावव्यवहारनिबन्धनं तथा तद्विविक्तः प्रदेशो ऽपि | तथा हि -- कस्यचित् प्रतिपत्तुः `यतः केवलप्रदेशाकारम् एव ज्ञानं मया संवेद्यते न तु घटाकारम् अपि तस्माद् अत्र घटो नास्ति` इति एवं नास्तिताज्ञानम् उत्पद्यते; कस्यचित् तु `यतः केवलः प्रदेशो ऽयं दृश्यते न तु घटसहितः तस्मान् नास्त्य् अत्र घटः` इत्य् एवम् | तस्माद् उभयोर् नास्तिताज्ञानजन्मनि तुल्यं सामर्थ्यम् इति द्वयोर् अपि अनुपलब्धिव्यवस्था युक्तेति | तत्र यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणा ऽनुपलब्धिः कर्तृस्थक्रिया ऽपेक्षया यदा तत्स्वभावस् तदा ज्ञेयधर्मलक्षणा कर्मस्थक्रियापेक्षयेति | एवम् अनुपलब्धिं [S. १६६ब्.] पर्युदासवृत्त्या व्यवस्थाप्य साध्यम् अस्या दर्शयन्न् आह -- साअभावम् इत्यादि | सर्वान्योपलब्धिलक्षणप्राप्तविविक्ते ऽपि [T. ३३१अ.] प्रदेशादौ दृश्यमाने यत्र घटादौ प्रतियोगिन्य् अर्थित्वादिभिः स्मृतिर् अस्य भवति तस्याभावं साधयति, अभावव्यवहारं वा | कारणव्यापकानुपलब्धी अभावम् अभावव्यवहारं च साधयतः | स्वभावानुपलब्धिस् तु अभावव्यवहारम् एव | अभावव्यवहारश् च ज्ञानभिधानप्रवृत्तिलक्षणः | तत्र `नास्त्य् अत्र घटः` इत्य् एवम् आकारं ज्ञानम्, एवंविधवस्त्वभिधायकं चाभिधानं निःशङ्कस्य च तत्र प्रदेशे गमनागमनलक्षणा प्रवृत्तिर् इति | {प्. १७५.१} अत्रेश्वरसेनकुमारिलयोर् वचनावकाशम् आशङ्क्य सिद्धान्तव्यवस्थाम् एव कुर्वता तन्मते निरस्ते ऽप्याहत्य तन्मतनिरासार्थम् आह -- कथम् अन्यभाव इत्यादि |ईश्वरसेनो हि मन्यते -- कार्य-स्वभावहेतुभ्यां भावरूपाभ्यां अनुपलब्धेः पृथक्करणाद् अवश्यम् अभावरूपत्वम् अस्याः, अन्यथा पृथक्करणम् अनर्थकम् एव स्यात् | त्वया [S. १६७अ.] चान्यस्य प्रतिषेध्यविविक्तस्य प्रदेशादेस् तज्ज्ञानस्य वा भावरूपानुपलब्धिर् आख्यायते तन्नूनम् अन्यभावस् तदभावो येनैवम् अभिधीयते | न चैतद् युज्यते, भावाभावयोर् विरोधाद् एकात्मतानुपपत्तेर् इति | कुमारिलो ऽप्य् एवं मन्यते -- येयं ज्ञातृ-ज्ञेयधर्मलक्षणा द्विधा ऽनुपलब्धिर् अभावरूपा त्वयोच्यते तस्या भवतु नास्तिताज्ञानं प्रति साधनभावः | किन्तु स एवान्यस्य प्रतिषेध्यविविक्तस्य वस्तुनः [T. ३३१ब्.] प्रतिषेध्यज्ञानाद् अन्यस्य वा तज्ज्ञानस्य यो भावो भावांशः स कथम् अभावः? प्रतिषेध्यस्य तज्ज्ञानस्य वा कथम् अभावांशः? | नैव युज्यते, धर्मरूपतया भावाभावांशयोर् भेदात् | सत्य् अपि धर्मिरूपेणाभेदे तयोश् चोद्भवाभिभवाभ्यां ग्रहणाग्रहणव्यवस्थेति | यद् आह -- धर्मयोर् भेद इष्टो हि धर्म्यभेदे ऽपि नःस्थिते | उद्भवाभिभवात्मत्वाद् ग्रहणंचावतिष्ठते[६४८]|| [Śल्V अभाव २०.] इति | उक्तोत्तरताम् अस्य दर्शयन्न् आह -- उक्तम् उत्तरम् अत्र चोद्ये यथा पर्युदासवृत्त्याअपेक्षातः | `प्रतिषेध्यं तज्ज्ञानं वा अपेक्ष्य तद्विविक्तो ऽर्थस् तज्ज्ञानं [S. १६७ब्.] वा ऽभावो ऽनुपलब्धिश् चोच्यते` इतिईश्वरसेनस्य प्रतिवचनम् | न हि प्रसज्यप्रतिषेध एवैको नञर्थः किन् तु पर्युदासो ऽपि | ततो ऽन्यभावस्याभावरूपता न विरुध्यते, प्रसज्यप्रतिषेधरूपता ऽप्य् अन्यभावस्य यथा तथोत्तरत्र वक्ष्यते | स्वभावहेतोस् त्व् अनुपलब्धेः पृथक्करणं प्रतिपत्त्रभिप्रायवशात् | प्रतिपत्ता हि स्वभावहेतौ वस्तुप्रतिपत्त्यध्यवसायी | अनुपलब्धौ त्व् अभावप्रतिपत्त्य् अध्यवसायी | परमार्थतस् तु प्रतिषेध्याभावव्यवहारयोग्यता {प्. १७६.१} वस्तुभूतैव प्रदेशस्य साध्यत इति न स्वभावहेतोः स्वभावानुपलब्धिर् भिद्यत[६४९]इति | यत् तु `अनपेक्षितार्थान्तरसंसर्ग्गं प्रतिषेधमात्रम् अनुपलब्धिः` इतीश्वरसेनो मन्यते तन्निराकुर्वन्न् आह -- न प्रतिषेधमात्रम् इत्यादि | कस्मात्? इत्य् आह -- तस्य साधनासिद्धेः इत्यादि | [T. ३३२अ.] न ह्य् अभावस्य सर्वसामर्थ्यविरहलक्षणस्य साधनत्वं सिद्धिहेतुत्वं सिध्यति, सर्वसामर्थ्यविरहरूपस्य तदयोगात्[६५०]| हेतुत्वे वा कथं न सामर्थ्ययोगिता? भावरूपता वा?, सामर्थ्यलक्षणत्वाद् वस्तुनः | अभावस्य [S. १६८अ.] चानपेक्षितसहकारिणो अनाधेयातिशयतया नास्तीति ज्ञानजनने नित्यं तज्जननप्रसङ्गः | ततश् च साधकत्वायोगाद् अभावव्यवहार एव न सिध्येत् | अथवा तस्य प्रसज्यप्रतिषेधात्मन उपलब्ध्यभावस्य साधनम् एव किञ्चिन् न सिध्यतीति | स ह्य् अभावत्वाद् अपरेणोपलब्ध्यभावेन साध्यः स्यात्, सो ऽप्य् अपरेणेत्य् अनवस्थानम् | न चेन्द्रियवद् अज्ञातस्य प्रतिषेधज्ञानहेतुता, सदा सन्निहितत्वेनानपेक्षितसहकारिणो नित्यं तदुदयप्रसङ्गात् | इदं चार्थद्वयं `कथम् अभावः कस्यचित्, प्रतिपत्तिः प्रतिपत्तिहेतुर् वा? | तस्यापि कथं प्रतिपत्तिः` इत्य् ४अत्रान्तरे स्वयम् एव विपञ्चयिष्यति[६५१]| कुमारिलस्याप्य् उत्तरम् आह -- तस्य अन्यस्य प्रतियोगिना वस्त्वन्तरेणासंसृष्टरूपस्य | न ह्य् असौ वस्त्वन्तरैः संसृष्टस्वभाव एकरूपः | तथात्वे ह्य् अभावांशो ऽपि न क्वचित् सिध्येत् | तस्यैवंविधस्य भावसिद्धिर् एव भावांशसिद्धिर् एव अपरस्य प्रतियोगिनो वस्त्वन्तरस्याभावसिद्धिर् अभावांशस्य त्वदभिमतस्य सिद्धिर् अस्तु भावांशस्यैवाभावांशरूपतोपपत्तेर् इति मन्यते | तथा हि -- अभावांशो ऽपि पररूपासंसृष्टतयैवाभाव इति व्यपदिश्यते, अन्यथा [S. १६८ब्.] तदयोगात् | सा च भावांशस्यापि समानेति स एवाभावो ऽस्तु तन्निमित्तस्य समानत्वात् किम् अन्येनाभावांशोपगतेन? | अत [T. ३३२ब्.] एवासंसृष्टरूपस्येति विशेषणम् | यत {प्. १७७.१} एवम् इति तस्माद् अन्यभावो ऽपि अन्यस्य वस्तुनो भावो ऽपि त्वदभिमतो भावांशो ऽपि न केवलम् अभावांशस् त्वन्मत्या ऽभाव इति व्यपदिश्यते ऽस्माभिः | ततो भावांशस्याभावरूपता सङ्गतैवेति न किञ्चिद् विरुध्यत इति | यद् उक्तं `ज्ञातृ-ज्ञेयधर्मलक्षणया स्वभावानुपलब्ध्या अभावव्यवहार एव साध्यते नाभावः`[६५२]इति तत् परो विघटयितुं, यच् चोक्तं `न प्रतिषेधमात्रम् अनुपलब्धिः, तस्य साधनासिद्धेः`[६५३]इति द्वितीये व्याख्याने[६५४]प्रतिषेधमात्रस्यानुपलब्धि[र् इ]त्य् ४एतस्य साधनं[६५५]दर्शयितुम् आह -- अन्यभावलक्षण इत्यादि | एवं मन्यते -- लोको हि केवलप्रदेशदर्शनात् घटाभावम् एव प्रथमं प्रतिपद्यते केवलप्रदेशज्ञानसंवेदनद्वारेण घटज्ञानाभावप्रतिपत्त्या वा ततो घटाभावस्य व्यवहारम् | तेन लोकप्रतीत्यनुसारेण प्रतिषेध्याद् अन्यस्य प्रदेशस्य प्रतिषेध्यज्ञानाद् वा तज्ज्ञानस्य यो भावस् तल्लक्षणो ऽभावः स्वयं प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धो ऽलं [S. १६९अ.] घटाभावं साक्षात् पारम्पर्येण च यथाक्रमं साधयितुम्, स च घटाभावव्यवहारम् इत्य् एवं व्यवस्थापयितुं युक्तम् | न चैवम् अपि व्यवस्थापने [अस्म]त्पक्षस्य काचित् क्षतिः | तथा हि -- पारम्पर्येणापि यद् अनुपलब्धेः त्वदभ्युपगतायाः सिद्धं तत् तत् एव सिद्धं भवतीति [T. ३३३अ.] प्रतिषेधमात्रस्यानुपलब्धित्वे तत्साधनप्रतिपादने ऽपि | अयम् अभिप्रायः -- यथा भवतो ज्ञातृ-ज्ञेयधर्मलक्षणा भावरूपा द्विविधा ऽनुपलब्धिस् तथा ममापि ज्ञातृ-ज्ञेयधर्मलक्षणोपलब्ध्यभावो ऽप्य् अनुपलब्धिसंज्ञितो द्विविधो भविष्यति | तत्र ज्ञेयधर्मलक्षणेनान्यभावेन प्रत्यक्षसिद्धेन प्रतिषेध्याभावो ज्ञेयधर्मलक्षणोपलब्ध्यभावरूप ऽनुपलब्धिसंज्ञितः सेत्स्यति | ज्ञातृधर्मलक्षणेन चान्यभावेन केवलप्रदेशज्ञानात्मना स्वसंवेदनसिद्धेन ज्ञातृधर्मः प्रतिषेध्यज्ञानाभावरूपो ऽनुपलब्धिसमाख्यातः सेत्स्यति | ततश् च कुतो ऽनवस्था येन साधनासिद्धिः स्याद् इति | तत्र[६५६]अन्यभावलक्षण इति प्रतिषेध्यात् तज्ज्ञानाच् च यो ऽन्यो भावः प्रतिषेध्यविविक्तः प्रदेशः तज्ज्ञानं च तदात्मको ऽभावः विवक्षिताद् भावात् प्रतिषेध्याद् भावात् तज्ज्ञानाच् चान्यत्वाद् {प्. १७८.१} अनुपलब्धित्वेन भवतो ऽभिमतः स्वयं स्वरूपेण प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धः संस् तस्य [S. १६९ब्.] प्रतिषेध्यस्याभावव्यवहारं ज्ञानाभिधानप्रवृत्तिलक्षणं साधयेत् तत्सिद्धिसिद्धो वा तस्यान्यभावलक्षणस्याभावस्य यथोक्तस्य सिद्ध्या सिद्धो वा तदभावस् तस्य प्रतिषेध्यस्य तज्ज्ञानस्य[६५७]वा ऽभाव इति एवम् अपीष्यमाणे न कश्चिद् विशेषः त्वदभिमतानुपलब्धितो ऽस्मदभिमतानुपलब्धेः [T. ३३३ब्.] ततो ऽस्मद् दर्शनं किम् इति प्रतिक्षिप्यते? | नन्व् अस्त्य् एवैवम् इष्यमाणे विशेषो ऽन्यभावलक्षणानुपलब्धिर् इतरया[६५८]व्यवहिता तदभावव्यवहारं साधयेद् इतरा तु साक्षाद् इत्य् आह -- स विशेषो नास्ति येन विशेषेणानुपलब्ध्या ऽभावरूपया वस्तुसंस्पर्शरहितया ऽस्मदभिमतया ऽभावव्यवहारसिद्धेः विरोधः स्यात् | अन्यस्य तु विशेषस्य सतो ऽप्य् अबाधकत्वाद् असत्समत्वम् एव | यद् अप्य् उक्तं -- `तस्य साधनाभावद् अभावव्यवहारासिद्धिप्रसङ्गः`[६५९]इति, तद् अप्य् असत्, यतः स एव त्वदभिमतो ऽन्यभावः प्रतिषेध्यविविक्तभूतलात्मकस् तद्विषया चोपलब्धिर् अनुपलब्धित्वेनेष्टा भवतस् तदभावस्यानुपलब्धित्वेनास्मन्मतस्य प्रतिषेध्याभावस्य तदुपलब्ध्यभावस्य च किं कस्मात् न साधनं लिङ्गम् इष्यते? | तथा हि सति लोकप्रतीतिर् अनुसृता भवति | किंपुनःकस्मात् पुनः अभावस्य द्विविधस्य सिद्धिर् एव तदभावसिद्धिः न तत्साध्या काचिद् अन्या [S. १७०अ] विद्यत इत्य् अस्मन्मतनिषेधार्थं लोकातिक्रान्तम् इष्यत इति पूर्वपक्षः | अत्राह -- अपृथक्सिद्धेर् अन्यभावात् तदभावस्य पृथक्सिद्धेर् अभावात् कुतो लिङ्गलिङ्गिता | तथा सम्बन्धाभावाच् च अन्यभावतदभावयोर् न लिङ्गलिङ्गितेति | प्रथमं तावत् कारणं [T. ३३४अ.] विवृण्वन्न् आह अन्यभावस् तद्विविक्तप्रदेशात्मकस् तावन् न साधनंलिङ्गं प्रतिषेध्याभावस्य, `तदुपलब्धिर् अपि तदभावस्य न साधनम्` इति पश्चाद् वक्ष्यते | तदर्थम् एव तावच्छब्दः | कस्माद् अन्यभावो न साधनम्? इत्य् आह -- यत्सिद्धौ यस्य वस्तुनः सिद्धौ प्रतीतौ यस्य अपरस्य {प्. १७९.१} वस्तुनो न सिद्धिर् न प्रतीतिः तद् वस्तु तस्य वस्तुनो लिङ्गं भवतीत्य् अयं लिङ्गलिङ्गिनोर् न्यायः | तत्रोदाहरणम् -- धूमाग्निवद् इति | यथा -- यदा धूमप्रतीतौ नाग्निः प्रतीयते तदा तयोर् ल्लिङ्गलिङ्गिभावो भवति, न तु धूमप्रतीतिकाल एव प्रतीयमाने ऽग्नौ | यदि नामैवं ततः किम्? इत्य् अत आह -- अन्यस्य वस्तुनो यो भावःस्वभावः तत्सिद्ध्यैव तत्प्रतीत्यैव तदभावः तस्य [S. १७०ब्.] प्रतिषेध्यस्याभावः प्रसिध्यति प्रतीयते अन्यभावस्यैव तदभावात्मकत्वात् तत्सिद्धेर् एव तत्सिद्धिलक्षणत्वात् | नैयायिकास् तु मन्यन्ते -- प्रतिषेध्याभावो हि प्रसज्यप्रतिषेधात्मकस् तुच्छरूपस् तस्य कथं तदन्यभावरूपता?, भावाभावयोर् विरोधात् | ततः कथं तदन्यभावसिद्ध्यैव तदभावसिद्धिः स्यात्? इत्य् अत आह -- तस्य तदन्यभावस्य प्रदेशलक्षणस्य तस्माद् अन्येन प्रतिषेध्येन घटादिना असंसृष्टरूपस्य रहितात्मनः केवलस्य प्रतिषेध्येन शून्यात्मनः | अनेन केवलप्रदेशस्यापि प्रसज्यप्रतिषेधात्मकताम् आह | कथं भावस्य तुच्छरूपता स्वभावः, विरोधात्?, इति चेत्; न, पररूपेण तस्यापि तुच्छरूपत्वात् | [T. ३३४ब्.] यथा ह्य् अनपेक्षितभावान्तरसंसर्गः प्रसज्यप्रतिषेधः शून्यविकल्पप्रतिभासी प्रतिषेध्येन तुच्छरूपः तद्रूपविरहात्, तथा तदन्यभावो ऽपि प्रतिषेध्यासंसृष्टरूपः | ततः कथम् अस्य प्रतिषेध्येन तुच्छरूपता [S. १७१अ.] विरुध्येत? | स्वरूपेण २ह्य् अयम् अतुच्छरूपः[६६०]स्यान् न पररूपेण, अन्यथा कथम् अस्यान्यभावत्वं परस्य वा तत्राभावः स्यात्? | यो हि यदभावरूपो न भवति स एवासौ भवति, तत्स्वरूपवत् | ततः सर्वस्य जगतः परस्परात्मताप्रसङ्गः | तस्मात् सर्वभावाः पररूपेण निःस्वभावः स्वरूपेण रूपवत्त्वे ऽपीत्य् अनवद्यम् | कस् तर्हि प्रसज्यप्रतिषेधात् पर्युदासस्य भेदः? | न कश्चित्, केवलम् अनपेक्षितरूपान्तरम् अभावमात्रं प्रसज्यप्रतिषेध इति लोके कथ्यते | रूपान्तरं तु पररूपशून्यं पर्युदास इति | न तु रूपान्तरं पररूपतुच्छात्मकं न भवति | अनुभूयत एव च रूपान्तरं {प्. १८०.१} तद्रूपशून्यतया, कथं तस्य प्रसज्यप्रतिषेधात्मता न स्यात् पररूपेण? | सामर्थ्यात् ततस्[६६१]तत्प्रतीतिर्[६६२]इति चेत्; न अकारणप्रतीतौ[६६३]सामर्थ्यासम्भवात्[६६४]| तादात्म्याभावे हि प्रसज्यप्रतिषेधस्य पर्युदस्तात् [S. १७१ब्.] प्रतीतौ तत्कारणत्वे सति स्यात् प्रतिपत्तिः नान्यथा | तस्य तदन्यासंसृष्टरूपस्य यत् तत्त्वं तस्य प्रतिषेध्यतुच्छरूपताया व्यवस्थापकं प्रमाणं प्रत्यक्षरूपम् तत् एव -- न तदुत्तरकालभाविनो [T. ३३५अ.] `नास्तीह घटः` इति विकल्पात्, तस्य गृहीतग्राहितया स्मृतित्वेनाप्रमाणत्वात् -- अन्यस्य घटादेस् तत्रासतो व्यवच्छेदस्याभावस्य सिद्धेस् तदभावात्मकस्यैव प्रदेशस्य तेन ग्रहणात् | द्विविधो ह्य् अयं प्रदेशो घटासंसृष्टरूपस् तद्व्यावृत्तरूपतया ततो ऽन्यो घटवान् अपि, केवलश् च घटं प्रति अप्रतिपन्नाधारभावः[६६५]| ४तस्य तद्विवेकेन[६६६]प्रत्यक्षेण ग्रहणे घटाद् अन्यत्वं घटविरहश् च गृहीत एव भवतीति न वस्त्वसंकरसिद्ध्यर्थं, `इहेदं नास्ति` इत्य् एवम् अर्थं च प्रमाणान्तरम् अन्वेषणीयम् | विस्तरश् चैतद् उत्तरत्र वक्ष्यत इति आस्तां तावत् | यतश् चान्यभावसिद्ध्यैव तदभाव उक्तेन न्यायेन सिद्ध्यति ततो नान्यभावः प्रतिषेध्याभावस्य लिङ्गम् | द्वितीयं कारणं व्याचक्षाण आह -- सम्बन्धाभावाच् च इति | अन्यभावतदभावयोर् न [S. १७२अ.] कश्चित् सम्बन्धो ऽस्ति ततः कुतो लिङ्गलिङ्गिभावः इति | एतच् च कदोच्यते? | यदा तदभावरूपता ५ऽन्यभावस्य परानभ्युपगता[६६७]ऽपेक्ष्यते | तदन्यभावात्[६६८]पृथग् एव तदभावस् तुच्छरूप इष्यते परैः | अन्यथोक्तेन न्यायेनान्यभावस्यैव तदभावरूपत्वे तादात्म्यात् कथं सम्बन्धाभावः? | प्रत्यक्षसिद्धता च[६६९]तदैव[६७०], न पक्षान्तरेण[६७१]अभिहिता | तच् च तस्य इत्याद्यस्यैव विवरणं व्यतिरेकमुखेन एकार्थसमवाय इति[६७२][T. ३३५ब्.] परदर्शनेनोक्तं | परेषां हिनैयायिकादीनांव्यतिरिक्ताव् एव कृतकानित्यत्वाख्यौ धर्माव् एकस्मिन्न् एव धर्मिणि समवेताव् इति कृतकस्यानित्यत्वेनैकस्मिन्न् अर्थे धर्मिणि समवायः सम्बन्धः धूमस्य वेति {प्. १८१.१} सम्बन्ध एवोदाहरणान्तरम् | अत्रैकर्थसमवाय इति संयोगः स एव समवायशब्देनोक्तः | संयोगसमवाययोः कल्पितत्वाद् भेदेन व्यपदेशे ऽनादरात् | परेषां त्व् अग्निधूमौ स्वावयवेष्व् एव समवेताव् इति न तयोर् एकार्थसमवाय आधाराधेयभावो वेति धूमस्याग्नेर् उपरि दर्शनाल् लौकिकः सम्बन्ध उक्तः | जन्यजनकभावो वा इति पारमार्थिकः सम्बन्धो ऽभिहितः, परमार्थतो ऽग्नेर् जनकत्वात् इतरस्य च जन्यत्वाद् इति | ननु चेश्वरसेनेन सह विचारः प्रक्रान्तः तत् किम् इतिनैयायिकाभिमतस्यापि सम्बन्धस्यान्यभावतदभावयोर् अभाव उच्यते | सत्यम्, [S. १७२ब्.] प्रसङ्गेन तु तन्मतस्यापि निषेधार्थम् उक्तम् | पूर्वं ह्य् अन्यभावग्राहिप्रत्यक्षसिद्धत्वात् प्रतिषेध्याभावस्य न तदर्थं प्रत्यक्षान्तरं `नास्तीह घटः` इत्य् एवमाकारं कल्पनीयम् इति प्रसङ्गतः कथितम् | अधुना तु प्रसङ्गाद् इदम् उच्यते -- यदान्यभावग्राहिप्रत्यक्षसिद्धो ऽयं तदभावो न भवति तदा प्रत्यक्षान्तरं `नास्ति इह घटः` इत्य् एवम् आकरं विशेषणविशेष्यभावलक्षणात् ११सन्निकर्षाद् इष्टं भवता[६७३]| न चासति सम्बन्धे ऽन्यभावतदभावयोर् विशेषणविशेष्यभावो युक्तः, अतिप्रसङ्गात् | ततः [T. ३३६अ.] कुतस् तल्लक्षणात् सन्निकर्षात् तदभावे[६७४]प्रत्यक्षं भवेद् इति | एवं सम्बन्धस्वरूपम् आख्याय तस्येहासम्भवम् आह -- नैवम्, यथा कृतकत्वानित्यत्वयोर् अग्निधूमयोर् वैकार्थसमवायादिलक्षणः सम्बन्धो नैवं कश्चिद् भावाभावयोः सम्बन्धो येन अस्य तदभावस्यान्यभावः साधनं स्यात् | याव् एकत्रार्थे धर्मिरूपे प्रवर्त्तेते तयोर् एकार्थसमवायो भवति | अन्यभावश् च प्रदेशाख्यः स्वावयवेषु येषु वर्त्तते न तत्र घटाभावः | एवं हि प्रदेशावयवेषु घटो नास्तीति स्यात् न प्रदेशे | न चास्य प्रदेशवयवैर् आरम्भः | ते हि द्रव्यात्मानो द्रव्यान्तरम् एवारम्भन्ते | न च घटाभावो द्रव्यम् | नवैव हि द्रव्याणीष्यन्ते | न च क्रियावदादिकं द्रव्यलक्षणं [S. १७३अ.] तत्रास्ति | न च गुणरूपतया तत्र वर्त्तते | चतुर्विशतिर् एव हि {प्. १८२.१} गुणा इष्यन्ते | न चायं तेषाम् अन्यतमः | नापि कर्मरूपतयपञ्चसु कर्मस्वनन्तर्भावात्[६७५]तल्लक्षणविरहाच् च | एकद्रव्यम् [VऐSऊ I.१.१५.] इत्य् आदिकं हि तल्लक्षणम् | न चैतद् अभावे सम्भवतीति | नापि सामान्यादिरूपतया, तद्रूपविरहाद् एव | नाप्य् अन्यभावतदभावयोः संयोगो ऽग्निधूमयोर् इव, द्रव्ययोर् एव तदभ्युपगमात् | न च तदभावो द्रव्यम् इत्य् उक्तम् | नाप्य् आधार(रा)धेयभावो, यतः सो ऽपि संयोगनिमित्त उच्यते `इह कुण्डे बदराणि` इति | समवायनिमित्तो वा, `इह तन्तुषु [T. ३३६ब्.] पटः` इति | न चाभावस्याद्रव्यात्मनः संयोगः समस्ति[६७६]| नापि समवायः, पञ्चानाम् एव हि द्रव्यादीनां पदार्थानां समवायित्वम् इष्यते; न चाभावः पञ्चस्व् अन्तर्भवतीति | न च तदात्मानुपकारे सत्य् आधारव्यपदेशः सम्भवति | उपकारे वा जन्यजनकभावः | न च तदभावो जन्यः; कार्यताप्रसङ्गात् | कार्यता चास्यासम्भविनी[६७७], [S. १७३ब्.] यतः स्वकारणसमवायः, सत्तासमवायो वा कार्यतोच्यते भवद्भिः | अन्यभावस् तु प्रदेशाख्यो ऽस्य न कारणम्, त्रयाणाम् एव हि द्रव्यगुणकर्मणां द्रव्यं कारणम् इष्टम् | न चाभावो द्रव्यादिलक्षणः इति | सत्तासमवाये ऽपि सत्प्रत्ययविषयता तदभावस्य स्यात्, नाभावप्रत्ययविषयता | प्रदेशाभावे ऽपि च घटाभावसम्भवात् कुतस् तत्कार्यता | न चास्य प्रतिविषयं भेदः, एकाकारज्ञानविषयत्वात् | सम्बन्धिभेदाद् भेदे वा सामान्यादिष्व् अपि तत्प्रसङ्गः | समवायोप्य् अस्यानन्तरम् एव निरस्त इति कुतः स्वकारणसत्तासमवायरूपा कार्यता तदभावस्य स्यात्? | एतेन जन्यजनकभावः प्रत्युक्तः | ततः सर्वथा सम्बन्धाभावान् नान्यभावः तदभावस्य साधनम् इति | परः सम्बन्धान्तरं दर्शयन्न् आह -- अस्ति विषयेत्य् आदि | यथा हि अर्थो विषयः शब्दो विषयीति तयोर् विषयविषयिभावः सम्बन्धः, [S. १७४अ.] एवम् अन्यभावतदभावयोर् विषयविषयिभावः सम्बन्धो भविष्यति [T. ३३७अ.] प्रदेशाख्येनान्यभावेन घटाभावस्य प्रत्यायनाद् इति पूर्वपक्षाशङ्का | शब्दार्थयोः सम्बन्धः {प्. १८३.१} स्याद् इत्य् अभिसम्बन्धः | किं रूपः? | कार्यकारणलक्षणः | कथं पुनर् अर्थकार्यता शब्दस्य? | तत्प्रतिपादनाभिप्राये सति अर्थप्रतिपादनविवक्षायां सत्यां तत्प्रयोगाच् छब्दोच्चारणात् | तेनार्थेन विवक्षाविपरिवर्त्तिना शब्दस्य कार्यकारणलक्षणः सम्बन्धः स्यात् | यद्य् अपि च शब्दार्थयोः बुद्धिपरिकल्पितसामान्यरूपता तथाप्य् अर्थप्रतिभासिन्या विवक्षया शब्दसामान्योत्प्रेक्षानिबन्धनस्य शब्दस्वलक्षणस्योत्थापनात् तन्मुखेन कार्यकारणभाव उच्यते | अविनाभावलक्षणो वा इति परप्रसिद्ध्योच्यते | परो ह्य् अविनाभावलक्षणः शब्दार्थयोः सम्बन्ध इति व्यवहरति | ततः सम्बन्धनिबन्धनः प्रतिपाद्यप्रतिपादकरूपो[६७८]विषयविषयिभावो युक्तः | तदभावान्यभावयोर् अप्य् एवं भविष्यतीति चेत्, आह -- अयंच अनन्तरोक्तप्रकारः अत्र तदभावान्यभावयोः न सम्भवति | न हि घटाभावप्रतिपादनाभिप्राये [S. १७४ब्.] सति अन्यभावस्य प्रदेशलक्षणस्य प्रयोगो[६७९]निष्पत्तिर् भवति, घटाभावप्रतिपादनाभिप्रायात् प्राग् अपि प्रदेशस्य स्वहेतुभ्य एव निष्पत्तेः | सत्य् अपि तदभिप्राये ऽन्यभावस्याभावाच् च | ततश् च कथं तयोः कार्यकारणभावः? तद्द्वारको ऽविनाभावो वा स्यात्? यतो [T. ३३७ब्.] विषयविषयिभावः कल्प्येत | स्यान् मतम् -- यथा शब्दार्थयोः साध्यसाधनभावनिमित्तो विषयविषयिभावः तथा अन्यभावतदभावयोर् अपि इत्य् एतावन्मात्रेण शब्दार्थयोर् दृष्टान्ततेत्य् अत आह -- सिद्धे हि इत्यादि | शब्दार्थयोर् हि कार्यकारणभावनिबन्धनः साध्यसाधनभावः अन्यथा ऽर्थान्तरत्वे तदयोगात् तथेहापि यदि तदभावान्यभावयोः साध्यसाधनभावः सिध्येत् तदा तन्मुखेन साध्यसाधनभावद्वारेण विषयविषयिभावः स्यात् | यावता स एव साध्यसाधनभावो ऽसति सम्बन्धे ३कार्यकारणभावादिके न सिध्यति[६८०], सर्वस्य साध्यसाधनाप्रसक्तेः | कथम् इन्द्रियं स्वविषयसिद्धिनिबन्धनम् इति चेत्; परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् इन्द्रियविषययोर् एकविज्ञानोत्पादनयोर् {प्. १८४.१} उदयात् तथा व्यपदेशः, नैवम् इह, अन्यभावतदभावयोस् तदयोगात् | लिङ्गलिङ्गिभावलक्षणस्य [S. १७५अ.] च साध्यसाधनभावस्य प्रकृतत्वात्, तस्य च सम्बन्धम् अन्तरेणायोगात् | नैव सम्बन्धान्तरनिबन्धनो ऽन्यभावतदभावयोः साध्यसाधनभावो ऽपि तु विषयविषयिभावनिमित्त एवेति चेत्; आह -- अन्यथा यदि [T. ३३८अ.] सम्बन्धान्तरं नेष्यते किन् तु विषयविषयिभावात् साध्यसाधनभावः तस्माच् च विषयविषयिभावः, तत इतरेतराश्रयम् इदं स्यात् | तथा चैकासिद्धौ द्वयोर् अप्य् असिद्धिर् भवेद् इति | किञ्चान्यभावाच् च लिङ्गभूताद् अभावस्य लिङ्गिनः सिद्धाव् अनुमिताव् ४इष्यमाणायां असमुदायश्[६८१]च साध्यः स्यात्, अन्यभावेन तदभावस्य केवलस्यैव साधनात् न केवलसम्बन्धाभावात् साध्यसाधनभावायोगः | समुदायश् च विशेषणविशेष्यभावापन्नो धर्मधर्मिलक्षणः साध्यो य इष्टस् तदभावदोषश् चेति `च` शब्दः | सर्वत्र समुदायस्य साध्यता नैवेष्टेति चेत्, आह -- तथा च धर्ममात्रस्यापि स्वतन्त्रस्य साध्यतोपगमे `घटाभावस् तदन्यभावात्` इत्य् एवंरूपे प्रयोगे घटस्य सर्वत्र देशे सर्वदा चाभावः प्रसज्येत | धर्मिणि हि क्वचिद्धर्मस्य गुणभूतस्य साधने तत्रैव तत्काल एव च भावो युक्तो नान्यदेति सर्वत्र समुदाय एव साध्यो ऽभ्युपगन्तव्यः न केवलो धर्म इति | अत्राह परः -- नासमुदायस्य [S. १७५ब्.] साध्यता ५अन्यभावतदभावयोर् असम्बन्धो[६८२]वा | कुतः? | प्रदेशादि इत्यादि | `इह प्रदेशे घटो नास्ति` इत्य् एवं घटाभावेन प्रदेशादिर् धर्मी विशेष्यते सघटात् [T. ३३८.ब्.] प्रदेशादेर् भेदेनावस्थाप्यत इति तद्विशेषणत्वं प्राप्तः साध्यते न तु घटो नास्तीत्य् एवं केवलो धर्मिणः कस्यचिद्गुणभावमनापन्नः | ततो नासमुदायस्य साध्यतेति कुतस् तद्भावी दोषः? | न च नैवास्मिन्पक्षे लिङ्गस्यान्यभावात्मनो लिङ्गिनश्च प्रदेशादिधर्मिलक्षणस्य असम्बन्धदोषःप्रसज्यते | कुत? | अन्यभावस्य घटविविक्तप्रदेशादिलक्षणस्य प्रदेशादिना {प्. १८५.१} धर्मिणा सम्बन्धात् तादात्म्यसद्भावाद् इति | तथा हि -- शब्दादिधर्मिणा कृतकत्वादेस् तादात्म्यलक्षण एव सम्बन्ध इष्यते भवता | स इहास्तीत्य् अभिप्रायः | ततश् च `सम्बन्धाभावाच् च` इत्य् अयुक्तम् इति मन्यते | सिद्धान्तवादी तु साध्यधर्मलक्षणस्य लिङ्गिनो घटाभावाख्यस्यान्यभावेन लिङ्गेन सम्बन्धाभावः प्राग् उक्तो न धर्मिणा ततः क्वदम् उत्तरं संबध्यत इति मन्यमानो धर्मिणा ऽप्य् अन्यभावाख्यस्य लिङ्गस्य सम्बन्धाभावं दर्शयन्न् आह -- न लिङ्गलिङ्गिनोर् असम्बन्धो न चेति सम्बध्यते | तथा नासमुदायसाधनम् इति | किन् तु लिङ्गलिङ्गिनोर् असम्बन्ध एवासमुदायसाधनम् एव च एवम् अपि ब्रुवतः | कुतः? | प्रदेशादेर् एव धर्मितया ऽवस्थाप्यमानस्यान्यभावत्वाद् अन्यभावलक्षणलिङ्गत्वात् | एतद् एव [S. १७६ब्.] दर्शयति -- यत्रैव हि प्रदेशादौ धर्मितया त्वया कल्प्यमाने यद् [T. ३३९अ.] घटादिकं नास्तीत्य् उच्यते लोकेन स एव प्रदेशादिस् तेन घटादिना ऽसंसृष्टस् संसर्गरहितः अन्यभावो लिङ्गतयेष्टो नापरः कश्चित् यतः तद्दर्शनाद् एव घटासंसृष्टप्रदेशादिदर्शनाद् एवास्य प्रतिपत्तुः `घटो नास्ति` इति विकल्पो लिङ्गिज्ञानतयोपगतो भवति | ततः स एवान्यभावः | यद् एव हि दृश्यमानं लिङ्गिज्ञानं जनयति तद् एव लिङ्गम् उच्यते | घटासंसृष्टश् च प्रदेशादिर् एवम् | तस्मात् तदेवान्यभावलक्षणं लिङ्गम् उपेयम् | ततः कथं तस्यैवान्यभावस्य व्यावृत्तितो ऽपि भेदम् अननुभवतो लिङ्गलिङ्गिभावो लिङ्गत्वं लिङ्गित्वं वा? | न हि लिङ्गम् एव धर्मी भवितुम् अर्हति, धर्मिप्रतिपत्ताव् एव साध्यप्रतिपत्तेर् अन्वयाद्यनुसरणायोगात् | ततश् चान्यस्य धर्मिणो ऽभावात् कथम् अन्यभावात्मनो लिङ्गस्य तत्सम्बन्धः, समुदायसाध्यता वा? | शब्दकृतकत्वयोस् तु परमार्थतस् तादात्म्ये ऽपि व्यावृत्तिभेदनिबन्धनो ऽस्त्य् एव भेदः | ततः शब्दादिधर्मिप्रतिपत्ताव् अप्य् अनित्यत्वाद्यप्रतीतौ कृतकत्वादिना तत् साध्यत इति युक्तम् | स्यान् मतम् -- सामान्यविशेषकल्पनया [S. १७६ब्.] लिङ्गलिङ्गितैकस्यापि भविष्यतीत्य् अत आह -- न चात्र प्रकृते ऽन्यभावे सामान्यविशेषभावकल्पनासम्भवति, येन [T. ३३९ब्.] सामान्यविशेषविकल्पेन सामान्यं हेतुर् भवेद् विशेषो धर्मी, यतः {प्. १८६.१} समुदायसाध्यता लिङ्गलिङ्गिनोः सम्बन्धो वा स्यात् | कुतो न सम्भवतीत्य् आह -- तद्विशेषप्रतिपत्तेर् एव घटविविक्तप्रदेशविशेषप्रतिपत्तेर् एव तदभावस्य घटाभावस्य प्रतीतेः | यतश् च विशेष एव घटाभावप्रतीतिनिबन्धनं ततः किं तत्र सामान्यकल्पनया क्रियत इति | स एव विशेषो ऽन्यत्र वर्त्तमानः सामान्यरूपतां प्रतिपत्स्यत इति चेत्, आह -- तस्य घटविविक्तप्रदेशविशेषस्य अन्यत्र सजातीये अन्वयस्य अनुवृत्तेर् अभावात् कुतः सामान्यात्मता? | न ह्य् असौ देशकालावस्थानियतो विशेषो ऽन्यम् अन्वेतीति | अत्रैवोपचयहेतुम् आह -- प्रतिज्ञार्थेत्यादि | यदि हि घटविविक्त एव प्रदेशविशेषो धर्मी, तस्यैव च हेतुतेष्यते, तदा प्रतिज्ञाया यो ऽर्थो धर्मधर्मिसमुदायस् तदेकदेश एव धर्मिलक्षणो हेतुः स्यात्, प्रतिज्ञार्थैकदेशस्य च व्यावृत्तितो ऽपि भेदम् अनु(न)नुभवतो हेतुत्वम् असिद्धम् इति | अथ मा भूत् [S. १७७अ.] एष दोष इति न घटविविक्त एव प्रदेशविशेषो हेतुर् इष्यते, किन् तु प्रदेशमात्रं घटविविक्तताविशेषरहितम् इत्य् अत आह -- न च यत्र प्रदेशमात्रंतत्र घटाभावः | सघटे ऽपि प्रदेशे प्रदेशमात्रस्य भावाद् अनैकान्तिको हेतुः स्यात् | परो ऽन्यथा सामान्यविशेषभावं [T. ३४०अ.] दर्शयन्न् आह -- तादृशौ(शे) यादृशो घटविविक्तः केवलः प्रदेशो ऽग्रतः स्थितस् तादृशे सर्वत्र प्रदेशे घटस्याभाव इति कुतो ऽनेकान्तः? | तथाविधप्रदेशविशेषप्रतीतिर् एव घटाभावप्रतीतिस् ततो ऽन्यभावतदभावयोः लिङ्गलिङ्गिता ऽनुपपन्नेत्य् उपदर्शयन्न् आह -- ननु तस्यैव इत्यादि | यो ऽसौ केवलः प्रदेशविशेषो धर्मितया ऽवस्थापितस् तस्यैव यत् कैवल्यं केवल इत्य् अनेन विशेषणेनोच्यते भवता, तद् एव घटविरहो घटाभाव इति कथ्यते | स च घटविरहो लिङ्गभूतस्य केवलस्य प्रदेशस्य १प्रतिपत्ताव् एव[६८३]सिद्धो न तूत्तरकालं ततो ऽन्य एव आकारान्तरेण धूमादिवाग्निः[६८४]सिध्यति | ततः कस्येदानीं तत्प्रतिपत्ताव् एव साध्यप्रतीतौ सत्यां तल्लिङ्गम्[६८५]? | न {प्. १८७.१} कस्यचित् | जिज्ञासितस्य घटाभावस्य सिद्धेर् अन्यस्य कस्यचिद् अजिज्ञासितत्वात् | केवलप्रदेशप्रतिपत्ताव् एव घटविरहप्रतीतौ च यद् एतद् उत्तरकालं `यत्र यत्र केवलः प्रदेशस् तत्र तत्र घटविरहः` इति [S. १७७ब्.] अन्वयस्यानुगमामनु(गमनम् अनु)सरणम्, तच् च निरर्थकम् आदाव् एव साध्यप्रतीतेः | यत एवं तस्माद् अन्यभावः केवलप्रदेशलक्षणः साध्यसाधनयोर् भेदाभावान् न साधनम् अभावस्येति स्थितम् | तद् एवं [T. ३४०ब्.] समुदायसाध्यतां ३लिङ्गस्य च धर्मिणा सम्बन्धं[६८६]प्रतिपादयितुं यद् उक्तं परेण -- `प्रदेशादिधर्मिविशेषणस्याभावस्य साधनात्`[६८७]इति तदपृथक्सिद्धिदूषणेनैव निराकृतम् | विषयविषयिभावेन तु सम्बन्धप्रतिपादने निरस्ते परो ऽन्यथा सम्बन्धं साध्यसाधनयोर् दर्शयन्न् आह -- अस्त्य् अन्यभावतदभावयोः सम्बन्धो विरोधाख्यः | ततः सम्बन्धसद्भावाद् अन्यभावाद् अभावस्य सिद्धिर् भविष्यतीति | सिद्धान्तवादी तु साध्यसाधनयोर् विरोधम् एवासम्भावयन् पृच्छति -- केन कस्य विरोधः इति | न ह्य् अत्र साध्यसाधनयोर् विरोधः संभवतीत्य् अभिप्रायः | परो विरोधम् अभिप्रायानभिज्ञातया दर्शयति -- अन्यभावेन केवलप्रदेशात्मना प्रतियोगिनो यस्याभावः प्रमातुम् इष्टो घटादेस् तस्येति | परस्यैवंवादिनो असम्बन्धाभिधायिताम् आदर्शयन्न् आह -- किंनु वै प्रतियोगी घटादिः प्रमातुम् इष्टो येन प्रतियोगिनाः प्रमेयत्वेन लिङ्गलिङ्गिनोर् विरोधः सम्बन्धो ऽभिधीयते? | नैव प्रतियोगी प्रमातुम् इष्टः किन् तु तदभाव इति चेत्, आह -- अभावस् तु प्रतियोगिनो यः साध्यः [S. १७८अ.] ................................................................................................................ [S. १७८ब्.] ........................................................................................................................ [कुमारिलस् तु मन्यते भावांशाद् भिन्नो ऽ] [S. १७९अ.] यम् अभावांशस् ततो नान्यभाव एव तदभाव इति कथं तत्प्रतिपत्तिर् एव तदभावप्रतिपत्तिर् इति | तथा ह्य् अयम् अभावः {प्. १८८.१} प्रागभावादिभेदभिन्नः, न चावस्तुनो भेदः सम्भवति अतो ऽयं वस्तुरूप एव | यद् आह -- न चावस्तुन एते स्युर् भेदास् तेनास्य वस्तुता|| [Śल्V अभाव ८अब्.] इति | न च भावांश एवाभावांशो युक्तः, तस्येन्द्रियसंयोगबलेन प्रतीतेः, इतरप्रतीतेश् च तदसंयोगहेतुकत्वात् | यद् आह -- तत्संयोगे सद् इत्य् एवंसद्रूपत्वंप्रतीयते | नास्त्य् अत्रेदम् इतीत्थंतु तदसंयोगहेतुकम् || [Śल्V अभाव २६.] इति | तत् कथं तत्प्रतिपत्तिर् एवापरस्य व्यवच्छेदनम् इति तन्निरासार्थम् आह | तस्यान्यस्य प्रदेशस्य [T. ३४२अ.] केवलस्य यत् तत् कैवल्यम् एकाकित्वम् असहायता तद् एव अपरस्य प्रतियोगिनो घटादेः वैकल्यम् अभाव इति तस्मात् तदन्यभाव एव भावांश एव त्वद् अभिमतः तदभावःप्रतियोग्यभावांशो न ततः पृथग्भूतं धर्मान्तरम् इत्य् उच्यतेसुगतसुतैः| ततश् च तत्प्रतिपत्तिर् एव च तस्यान्यभावस्य प्रतिपत्तिर् एव ५च तदप्रतिपत्तिः[६८८] तस्य प्रतियोगिनो ऽप्रतिपत्तिर् अभावप्रतिपत्तिर् इति यावत् | एवं मन्यते -- यो ऽयम् अभावांशो भावांशात् पृथग्भूतो वस्तुनो धर्मः परिकल्प्यते स घटाद्यभावात्मकतां [S. १७९अ.] तद्रूपवैकल्याद् एवानुभवति नान्यथा | तच् च तद्रूपवैकल्यम् अन्यवस्तुनो भावांशस्यापि विद्यत एव | तदभावे हि तस्यान्यवस्तुतैव हीयेत | न हि यद् यद्रूपविकलं न भवति तत् ततो ऽन्यत्वम् अनुभवति, यथा तस्यैव स्वरूपम्, तथा चाभावांशो ऽपि तस्य न सिध्येत्, सर्वं च विश्वम् एकं द्रव्यं प्रसज्येत, ततश् च सहोत्पत्त्यादिप्रसङ्गः, सर्वस्य च सर्वत्रोपयोगः स्याद् इत्य् अवश्यम् अन्यवस्तुनो भावरूपता तदन्याभावात्मिकैव | तथा च तत्प्रतिपत्तिर् एव तदन्याभावप्रतिपत्तिः[६८९]| तत्संयोग एव चेन्द्रियस्य तदन्यभावाभावसंयोग [T. ३४२ब्.] इति किम् उच्यते -- नास्त्य् अत्रेदम् इतीत्थंतु तदसंयोगहेतुकम् | [Śल्V अभाव २६च्द्] इति? | विकल्पापेक्षयोक्तम् इति चेत्, तदेतदबाधकम् एव | प्रत्यक्षेण तदाकारोत्पत्त्या तदन्याभावात्मके[६९०]एव वस्तुरूपे प्रतिपन्ने पाश्चात् यस्य {प्. १८९.१} यथागृहीताभिलापिनो विकल्पस्योपगमात् | विस्तरतश् चायम् अभावविचारःप्रमाणद्वित्वसिद्धाव् अभावं प्रमेयं प्रमाणं च विचारयता विहित इति तत एवावधार्य इति | अवश्यं च तदन्यभावप्रतिपत्तिर् एव तदभावप्रतिपत्तिः | ततो न वस्त्वसङ्करसिध्यर्थं, `नास्त्य् अत्रेदम्` इत्य् अभावव्यवहारार्थं [S. १८०अ.] चाभावप्रमाणपरिकल्पना युक्तेति दर्शयन्न् आह -- अन्यथा यदि तत्प्रतिपत्तिर् एव तदभावप्रतिपत्तिर् इति नेष्यते[६९१]तदा तस्य अन्यवस्तुनः स्वरूपपरिच्छेदेन ततो ऽन्यस्यातद्रूपस्य अव्यवच्छेदे अनिराकरणे तदभावाप्रतिपत्तौ तत्परिच्छेद एव न स्यात् -- तस्य तदन्यवस्तुनः स्वरूपप्रतिपत्तिर् एव न स्यात् | किं कारणम्? तदतद्रूपयोः तस्य तदन्यवस्तुनो यद्रूपं प्रतिनियतं सकलत्रैलोक्यविलक्षणं यच् चातद्रूपं तद्रूपं न भवति पररूपं तयोः अविवेकाद् अविवेचनाद् विवेकेनाव्यवस्थापनाद् असाङ्कर्येणाप्रसाधनात् | सकलपररूपासङ्कीर्णं हि तद्रूपम् तच् चेत् [T. ३४३अ.] तत्सामर्थ्यभाविना प्रत्यक्षेण तथा नानुकृतं केवलं सम्मुग्धाकारम्[६९२]एव तदुत्पन्नं तदा कथन् तेन तत्परिच्छेदः स्यात्? | न हि यद्रूपं यद्वस्तु तद्रूपाननुकारिणा ज्ञानेन तत्परिच्छेदो युक्तो यथा -- शुक्लशङ्खरूपाननुकारिणा कामलिनः पीतशङ्खावभासिना ज्ञानेनेति | प्रतिनियतरूपानुकारे वा तत्परिच्छेदस्य कथम् अन्या ऽव्यवच्छेदो नाम? | ततः प्रतिनियतरूपाननुकाराद् एव तदन्याव्यवच्छेदः | तथा च तत्परिच्छेदाभाव इति | भवत्व् एवं ततः को दोषः? इत्य् अत आह -- य एष व्यवहारः सर्वजनप्रतीतः कस्यचिद् अग्न्यादेर् वस्तुनो दर्शनात् क्वचिद्देशे तत्सम्बन्धिनि [S. १८०ब्.] प्राप्त्यर्थो दृष्टस्यादृष्टस्य च परिहारार्थःप्रवृत्तिनिवृत्तिलक्षणः स न स्यात् | किं कारणम्? | न हि यस्माद् अयंप्रतिपत्ता अनलंपश्यन्न् अपि सङ्कीर्णतदतद्रूपप्रतिभासिना प्रत्यक्षेण, अन्यथा ऽस्य दर्शनरूपताहानेः, तथा हि -- असङ्कीर्णस्यादर्शने सङ्कीर्णम् अपि यदि न पश्येत् तदा लोष्टादिप्रख्यं कथं कस्यचिद् एतद्दर्शनं स्यात्? | स एवंभूतः सङ्कीर्णदर्शनवान् {प्. १९०.१} प्रतिपत्ता कथम् अनलम् एव पश्यति न सलिलादिकम्? | किन् तु सङ्कीर्णरूपवस्तुप्रतिभासिज्ञानतया सलिलादिकम् अपि पश्यति | ततः कथं सलिलार्थीतत्र अग्निमति प्रदेशे न प्रवर्तेत? | परस्य वचनावकाशम् आशङ्क्याह -- [T. ३४३ब्.] अनुपलम्भेन इत्यादि | अनलप्रतिभासिना हि ज्ञानेनानलस्वरूपन् एव प्रतीयते | यस् तु सलिलाभावः स तत्र सलिलस्यानुपलम्भेन | ततो ज्ञानद्वयेन तदतद्रूपयोर् विवेकाल् लोके प्रवृत्तिनिवृत्तिलक्षणः प्रतिनियतो व्यवहारः सिध्यतीति | सिद्धान्तवाद्य् आह -- को ऽयम् अनुपलम्भो नाम इति | कदाचित् परो ब्रूयात् सलिलोपलम्भविरहमात्रम् इत्य् अत आह -- यदि सलिल इत्य् आदि |कुमारिलस्य तु सलिलोपलम्भनिवृत्तिमात्रं तुच्छरूपम् अभावप्रमाणतया नाभिमतम् एव | प्रत्यक्षादेर् अनुत्पत्तिःप्रमाणाभाव उच्यते | [S. १८१अ.] सात्मनो ऽपरिणामो वाविज्ञानंवाऽन्यवस्तुनि || [Śल्V अभाव ११] इति वचनात् | किन् तु यो ऽभावात्मनः प्रतिषेध्यवस्तुप्रतिभासिज्ञानात्मना ऽपरिणामः स तदन्यवस्तुप्रतिभासिज्ञानसहचरितो ऽभ्युपगन्तव्यो न केवल इति परम् अभ्युपगमयितुम् अस्योपन्यासः | तथा चान्यवस्तुविज्ञानम् एवाभावप्रमाणम् अस्तु, किम् अप्रमाणकस्यात्मनो ऽपरिणामाख्येन धर्मेण परिकल्पितेन? | न च तदन्यवस्तुविज्ञानपरिणामाद् अन्य एव तस्यापरिणामो नाम भवतो ऽभिमतो भावान्तरस्यैवाभावत्वेनोपगतत्वात् | तुल्ययोग्यतारूपस्यैकज्ञानसंसर्ग्गिण एव चान्यवस्तुनो विज्ञानं तथोपेयं नान्यस्य, तज्ज्ञानात् प्रतियोग्यभावसिद्धेः | न हि रूपज्ञानाद् रसाद्यभावप्रतीतिर् युक्तमती [T. ३४४अ.] देशादिविप्रकर्षवतो वा | अन्यवस्तुविज्ञानं च प्रतिनियतरूपप्रतिभास्येव | रूपान्तरावभासित्वे हि तस्य सलिलोपलम्भाभाव एव न सिध्येत् | एवं च प्रतियोग्यभावः प्रत्यक्षावभासित[६९३]एव | तदभावव्यवहारे त्व् अस्मदभिमतैवानुपलब्धिर् आयातेति प्रतिपादयितुम् अस्योपन्यासः | तत्र यदि सलिलोपलम्भाभावः [S. १८१ब्.] तुच्छरूपो ऽनुपलम्भस् तदा कथम् {प्. १९१.१} अभावः कस्यचित् प्रतिपत्तिः परिच्छेद इति यावत्, परिच्छेदस्य ज्ञानधर्मत्वात् | अथ न तस्य प्रतिपत्तिरूपतेष्यते किन् तु तद्धेतुभाव इत्य् आह -- प्रतिपत्तिहेतुर् वा इति | न हि सर्वसामर्थ्यविरहलक्षणस्याभावस्य प्रतिपत्तिं प्रति हेतुभावो युक्तः | हेतुभावे वा तस्यानपेक्षितसहकारिणो नित्यं तज्ज्ञानजननाद् अभावज्ञानम् एवैकं प्रतिपत्तुः स्यात्, ज्ञानान्तरस्यावकाश एव न भवेत् | न चाज्ञातस्यास्य नास्तिताज्ञानजननं युक्तम् इत्य् आह -- तस्यापि सलिलोपलम्भाभावस्य कथं प्रतिपत्तिः? | अथायं सलिलोपलम्भाभावः स्वयम् अप्रतीत एव सलिलाभावप्रतीतिं जनयति तदा कस्यचिद् अपि | तद् एवाह -- तस्य सलिलोपलम्भाभावस्य ततो वा सलिलाद् अन्यस्यानलादेः `विज्ञानं वा ऽन्यवस्तुनि` इत्य् अत आत्मनो ऽपरिणामस्य पृथग् अवस्थापनात्, तत्रापि तदङ्गीकरणे चात्मनो ऽपरिणामस्य [T. ३४४ब्.] तदात्मकत्वान् न ततो भेदेन व्यवस्थाप्येत | ततश् च कस्यचिद् अपि [S. १८२अ.] तस्य तदन्यस्य वा ऽप्रतिपत्ताव् अपि यद्य् अभावः सलिलादेः प्रतीयते तदा स्वापाद्यवस्थास्व् अपि सलिलाद्यभावः किं न प्रतीयते? | तदापि तदभावः प्रतीयेतेत्य् एतद्विचारितम्प्रमाणविनिश्चये, तत एवावधारणीयम् | व्यवधानादिग्रहणेन चैतद्दर्शयत्य् अन्यवस्तुनो ऽपि अन्यत्वं तत्तुल्ययोग्यतारूपापेक्षम् एव, न तदनपेक्षम् उपेयम् | तथा चास्मद् उपवर्णितानुपलब्धिसिद्धिर् इति | यदा चैवम् उक्तेन प्रकारेणानुपलम्भेन सलिलाभावप्रतीतिर् न युज्यते ऽनलप्रतिभासिनश् च ज्ञानस्य प्रतिनियताकारता नाभ्युपगम्यते तस्माद् अयम् अनलदर्शी प्रतिपत्ता ऽनलं पश्यन्न् अपि सङ्कीर्णरूपप्रतिभासिना ज्ञानेन `अनलो ऽयं न सलिलम्` इति नाध्यवस्यति अनध्यवस्यंश् च सलिलरूपस्यापि प्रतिभासनात् तदर्थी न तिष्ठेत् प्रवर्तेत नापि प्रतिष्ठेत सलिलार्थी न प्रवर्तेत | तथा हि -- सलिलं नाम तद् उच्यते यत् सर्वोदन्यासन्तापाद्यपनयनक्षमं[६९४]सकलतदन्यरूपासङ्कीर्णप्रतिनियताकारज्ञानावभासि | इदं त्व् अन्यद् एव शबलरूपं किम् अप्य् अवभासत इति | {प्. १९२.१} ततश्च प्रवृत्तिनिवृत्तियोर् विरुद्धयोर् युगपद् अनुष्ठातुम् अशक्यत्वात् दुस्तरंव्यसनंप्रतिपत्तुःस्यात् | अत्र परस्य [S. १८२ब्.] वचनावकाशम् आशङ्क्याह -- तत एव इत्यादि | न मया [T. ३४५अ.] सलिलोपलम्भनिवृत्तिमात्रात् तुच्छरूपात् तदभावगतिर् उच्यते, यथोक्तदोषप्रसङ्गात् | किन् तु यद् एतद् एकस्य केवलस्यानलस्य दर्शनं तत एवान्यस्य तत्राप्रतिभासमानस्य सलिलस्याभावगतिर् भवति `विज्ञानं वा ऽन्यवस्तुनि` इति वचनात् | सिद्धान्तवाद्य् आह -- कथम् एकम् इत्यादि | केन पुनः सामर्थ्येन तदेकदर्शनम् अन्याभावंप्रत्याययति? | तथा हि -- तस्मिन् दृश्यमाने तदेवास्तीत्य् अवगच्छतु, तदन्यत् तु नास्तीति किम् इति प्रत्येतीति | तस्यैव परिदृश्यमानस्यानलादेः केवलस्य सलिलासंसृष्टरूपस्य दर्शनाद् अनलज्ञाने प्रतिभासनात् `सलिलं नास्ति` इति निश्चयः सञ्जायते | तथा हि -- अनल इव सलिलम् अपि यदि तत्राभाविष्यत् तदप्य् अनलवद् दर्शने प्रत्यभासिष्यत तयोः स्वज्ञानं प्रत्यविशिष्टत्वाद् योग्यताया नैकस्य प्रतिभासो युक्तः | तस्माद् एकप्रतिभासनम् अन्याभावनान्तरीयकं इत्य् अन्याभावे ततो ज्ञानम् उत्पद्यते अन्यवस्तुनि च विज्ञानं नास्तीति ज्ञानं जनयति | तथा ऽन्यद् वस्तु पररूपासंकीर्णस्वभावतयैव तथोच्यते | तद्रूपतयैव[६९५]च तज्ज्ञानम् अन्यत्[६९६]प्रतियद् एवं व्यपदिश्यते ऽन्यथा[६९७]तदयोगाद्[६९८]इत्य् अन्यप्रतिपत्तिर् एव तदभावविकल्पहेतुर् इति सिद्धान्तवाद्य् आह -- इदम् एव इत्यादि | नन्व् अस्माभिर् इदम् एव प्राग् अभिहितं तयोःसतोःनैकरूपनियताप्रतिपत्तिः असम्भवात्[६९९] इत्य् आदिभिर् वचनैः | ततो यद् एवान्यासंसर्ग्गिणः केवलस्य [T. ३४५ब्.] प्रतिभासनं तद् एव तदन्याभावस्यापि, तस्यैव केवलस्य तदन्याभावात्मकत्वाद् अन्यस्य चाभावांशस्य निरस्तत्वात् | ततः प्रत्यक्षावभासितत्वात् तदभावस्य तद्बलात् पाश्चात्यं व्यवहारप्रवर्तनरूपं नास्तिताज्ञानं {प्. १९३.१} विकल्पकम् आजायते | न तु तेनाप्रतिपन्नं किञ्चिद् अवगम्यते, यतस् तदन्यवस्तुनि विज्ञानं प्रत्यक्षात्मकम् अप्य् अनवगते तदन्याभावे ज्ञानं जनयत् पृथग् अभावप्रमाणतया व्यवस्थाप्येत | तथा हि -- तदन्याकारशून्य एव तदेकज्ञानाकारः संवेद्यते | ततस् तत्संवेदनम् एव तदभावसंवेदनम् | न हि विकल्पज्ञानस्यापि तदाकारशून्यरूपसंवेदनाद् अन्यत् तदभावसंवेदनं नाम | केवलम् अस्य विकल्परूपतैवातिरिच्यते | ततो यथा निर्विकल्पज्ञानावसिते क्वचिद् अनले `अनलो ऽत्रास्ति` इति पाश्चात्यो विकल्पो व्यवहारप्रवर्तनमात्रं न ततः पृथक् प्रमाणं यथोक्तं प्राक्, तथा नास्तिताज्ञानम् अपि विकल्पकं तत्फलद्वारेण वा ऽन्यवस्तुविज्ञानं न प्रत्यक्षात् पृथग् अभावाख्यं [S. १८३ब्.] प्रमाणम् इति | तस्माद् यद् एवास्माभिर् अभिहितं तदन्याभावप्रतीतिं प्रति, तद् एव त्वया ऽप्य् अभिधीयत इति कस्मात् पुरुषम् इवाभाति यतस् तदनभ्युपगमेन पृथगभावाख्यं प्रमाणम् अभ्युपगतम् इत्य् उपहसति | तथा ह्य् अगत्य् एदानीं त्वयोच्यते न मध्यस्थतया अन्यथेदम् एव किं न पूर्वम् एवाभिहितम्?, यत आलजालाभिधानेन ऽऽत्मा परिक्लेशित [T. ३४६अ.] इत्य् उपसंहरन्न् आह -- तस्मात् तीरादर्शिनेव इत्यादि | यथा किल वहनारूढैर् वणिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति | स यदा सर्वतः पर्यटंस्तीरं नासादयति तदा वहनम् एवागच्छति तद्वद् एतद् अपि द्रष्टव्यम् | यतश् चावश्याभ्युपगमनीयो ऽयं पक्षस् तस्मान् न किञ्चिद् अनया ऽविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या प्रयोजनम् | तद् एवं परस्यान्यभावतदभावयोर् लिङ्गलिङ्गिभावम् इच्छतः सम्बन्धाभावाद्[७००]असाव् अयुक्तः इति प्रतिपादिते परेण `असति सम्बन्धे ऽन्यभावगत्या ऽपि तदभावगतिर् न स्यात्` इति चोदिते `न वै कुतश्चित् सम्बन्धाद्` इत्य् आद्य् अभिहितम् | ततः `अन्यभाव एव तदभावो ऽन्यभावगतिर् एव च तदभावगतिः` इति प्रसाधयताकुमारिलपरिकल्पितः कस्यचिद् अभावनिश्चयार्थम् अभावप्रमाणवादः प्रसङ्गतो निरस्तः सम्प्रति तु -- {प्. १९४.१} वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता [Śल्V अभाव २च्द्.] इत्य् एतद् आहत्य निराकर्तुं [S. १८४अ.] पूर्वपक्षम् उत्थापयन्न् आह -- यद्य् एकपरिच्छेदाद् एव इत्यादि | यदि हि एकस्य केवलस्य परिच्छेदाद् अन्यस्य व्यवच्छेदःप्रतिषेधः सिध्यति तदा सर्वस्या अ(-स्या)न्यस्या ऽविशेषेणैव तत्र देशे यत्रासाव् एकः परिदृश्यते तत्राभावसिद्धिर् भवेत्, न तु विशेषपरिग्रहेण [T. ३४६ब्.] तुल्या स्वज्ञानजननं प्रति योग्यावस्था यस्य तस्यैवेति | तथा हि -- असौ यथा तुल्ययोग्यतारूपपदार्थविविक्तरूप उपलभ्यते, तदेकाकारप्रतिनियमात् तज्ज्ञानस्य, तथा तदतुल्ययोग्यतारूपपदार्थविविक्तात्मको ऽपि | ततश् च तद्विविक्ताकारतया तदन्याभावसाधने विशेषाभावात् प्रदेशरूपज्ञानं घटाभावम् इव रसाद्यभावम् अपि साधयेत्, न वा घटाभावम् अपीति | किञ् च, यद् एतद् `उपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् अभावसाधनी` इति विशेषणम् उक्तं तच् च न वक्तव्यम् | किं कारणम्? यतो ये ऽप्य् अनुपलब्धिलक्षणप्राप्तास् तेषाम् अपि तत्र देशे तदेकाकारतया ज्ञानस्य व्यवच्छेदो भवत्य् एव | तथा हि -- यथोपलब्धिलक्षणप्राप्तास् तदेकाकारवति ज्ञाने न प्रतिभासन्ते ततश् च व्यवच्छिद्यन्ते [S. १८४ब्.] तथा ऽनुपलब्धिलक्षणप्राप्ता अपीति किम् उपलब्धिलक्षणप्राप्तस्य इत्य् अनेन विशेषणेनेति | एवं पूर्वपक्षे व्यवस्थिते यदि तदन्यव्यवच्छेदः -- ततः पृथक्करणम् अन्यत्वेन व्यवस्थापनम् अभिमतं तदभ्युपगम्यत एव | अथ तद्देशकालयोर् अभावः, तद् अयुक्तम्, येन हि सामर्थ्येन तुल्ययोग्यतारूपस्योपलब्धिलक्षणप्राप्तस्य चाभावं साधयति न तत्सामर्थ्यम् अतुल्ययोग्यतारूपे ऽनुपलब्धिलक्षणप्राप्ते वा सम्भवति | `तयोः सतोर् नैकरूपनियता प्रतिपत्तिः असम्भवात्`[७०१]इत्य् एवं हि तदभावसाधनम् | न [T. ३४७अ.] चैतद् अन्यत्र सम्भवतीति प्रतिपादयितुम् एकात्मपरिच्छेदात् इत्य् आदिनोपक्रमते | यत् पुरो ऽवस्थितं प्रत्यक्षे ऽवभासते तस्यैकस्यात्मनः प्रतिनियतस्य रूपस्य परिच्छेदात् तदाकारोत्पत्त्या विधिविकल्पोत्पादनेन च यः तदन्यःततो ऽन्यस् तद्व्यतिरिक्तस् तस्य सर्वस्य य आत्मा {प्. १९५.१} स्वभावस् ततो व्यवच्छेदो भेदनं पृथक्करणम् अन्यत्वसाधनम् असङ्कीर्णरूपताप्रत्यायनं भवति | कथं पुनर् एकात्मपरिच्छेदाद् एव तस्य[७०२]तदन्यात्मनो व्यवच्छेदः प्रत्यक्षेण क्रियते?, यावता प्रत्यक्षं पुरो ऽव्स्थितपदार्थसामर्थ्यभावि [S. १८५अ.] तद्रूपम् एव प्रतिपद्यताम् | यत् तु तद्व्यतिरिक्तम् अशेषपदार्थजातं तदात्मनस् तस्य पुरो ऽवस्थितस्य कथं तद्व्यवच्छेदकम्? अतः तद्व्यवच्छेदार्थम् अभावप्रमाणम् अभ्युपेयम्, यतो -- वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता [Śल्V अभाव २च्द्.] इति | अत आह -- तदात्मनियतप्रतिभासज्ञानाद् इति | यतः पुरो ऽवस्थितस्यैकस्य वस्तुनः पररूपासङ्कीर्ण आत्मा, सर्वभावानां स्वभावत एव स्वस्वभावव्यवस्थितेः पररूपेणासङ्कीर्णस्वभावत्वात् | अन्यथा कथम् अभावप्रमाणतो ऽप्य् असांकर्यम् एषां सिध्येत्? | संकीर्णरूपाणाम् असाङ्कर्यसाधने तस्य [T. ३४७ब्.] भ्रान्तताप्रसङ्गात् | तस्मिन् पररूपासंकीर्णे स्वभावत एव तदात्मनियतो यः प्रतिभासः पररूपप्रतिभासासंकीर्णः तदेकपदार्थसामर्थ्यभाविनि प्रत्यक्षे पररूपप्रतिभासायोगात् तस्य भ्रान्ततापत्त्या प्रत्यक्षताहानेः | तद् उक्तम् -- तद् ध्य् अर्थसामर्थ्येनोत्पद्यमानंतद्रूपम् एवानुकुर्यात् [PVइन् I ४०.१२f.: गङ् गि फ्यिर् दे दोन् ग्यि नुस् प लस् स्क्येस् प न दे ऽइ रङ् ब्ःzइन् खो नऽइ र्जेस् सु ब्येद् पऽइ फ्यिर् रो ||] इति | तस्य तदात्मनियतप्रतिभासस्य ज्ञानात् प्रत्यक्षेण स्वसंवित्त्या संवेदनात् | तत्संवेदनम् एव [S. १८५ब्.] हि प्रत्यक्षस्यातद्रूपाद् व्यवच्छेदनंपृथक्करणं तद्बलेनैव च पाश्चात्यः `अन्यात्मकम् एतन् न भवति` इत्य् असांकर्यव्यवस्थाप्रत्ययो विकल्पकः संजायते गृहीतग्राही | न तेनापूर्वं किञ्चित् प्रतीयते, पररूपासंकीर्णस्यात्मनः प्रत्यक्षेणैव तदाकारानुकारिणा परिच्छेदाद् इति | यदि नाम तदात्मनियतप्रतिभासज्ञानं तथापि कथम् अन्यात्मनः तस्य पृथक्करणम्? इत्य् अत आह -- न हि तदात्म इत्यादि | यस्मात् तस्य वस्तुनो य आत्मा पररूपासंकीऋण्नः स तदन्यस्य शेषस्य वस्तुन आत्मा न भवति, सर्वस्य ततो ऽन्यस्वभावत्वात्, अन्यथा तदन्यत्वहानेर् इति | तस्मात् {प्. १९६.१} तदात्मनियतप्रतिभासज्ञानम् एव तदन्येभ्यो निवर्त्तनम् | न हि ज्ञानेनार्थो हस्ते गृहीत्वा ऽन्यतो निवर्त्तनीयः | केवलम् अन्यरूपासंकीर्णस्यैकसात्मनो ऽनुकरणम् एवास्यान्यतो [T. २४८अ.] निवर्त्तनम् उच्यत इति | अथान्यात्मनः स्वविषयं न निवर्त्तयेत्, तदा ऽस्य विषयस्यान्यात्मनः सकाशाद् अव्यवच्छेदे पृथग् अव्यवस्थापने परात्मनो ऽपि तत्र परिच्छेदः स्यात्, अन्यथा[७०३]तदपरिच्छेदस्यैवैकात्म[७०४]परिच्छेदात्मनस् तन्निवर्त्तनरूपता[७०५][S. १८६अ.] स्यात् | ततश् चाव्यवच्छेदे ऽन्यात्मनस् तत्परिच्छेदप्रसङ्गात् प्रवृत्तिनिवृत्त्योर् अभाव इति पूर्वः प्रसङ्गो `न ह्य् अयम् अनलं पश्यन्न् अपि`[७०६]इत्य् आदिकः | न केवलम् अन्यात्मनस् तन्निवर्त्तयति तदात्मनो ऽप्य् अशेषम् अन्यद् इति दर्शयन्न् आह -- तंच अग्रतः स्थितं देशाकालस्वभावावस्थानियतं तदन्यदेशादिभ्यो व्यावृत्तात्मनः स्वहेतुभ्यः एवास्य भावात्, तदात्मना देशादिनियतेनात्मना तथाविधस्वभावस्यैवानुकाराद् उपलभमाना बुद्धिः तथात्वप्रच्युतिम्[७०७] अन्यदेशकालस्वभावावस्थताम् अस्य स्वविषयस्य व्यवच्छिनत्ति ततः पृथक्करोति | कस्मात् पुनर् अन्यदेशादितां ततः पृथगवस्थापयति इत्य् अत आह -- एवंहि यस्माद् अन्यदेशतादेस् ततः पृथक्करणे सति तद्देशादिनियतः पदार्थः [T. ३४८ब्.] परिच्छिन्नो भवति, तद्रूपस्यैवानुकाराद् | यद्य् अन्यथाभावो ऽन्यदेशादिता तद्रूपाननुकाराद् व्यवच्छिन्नः -- भवति तथात्वं च तद्देशादिनियतत्वं च, तदा तस्यैव दृश्यमानस्य भवति नान्यस्यान्यदेशादिमतः | यत एवम् इति तस्माद् अन्यथाभूताद् अन्यदेशादिमतस् तथाभूतं तद्देशादिमंतं व्यवच्छिन्दत्य् एव [S. १८६ब्.] निवर्त्तयन्त्य् एव तत् परिच्छिनत्तीति पूर्वकस्योपसंहारः | तथा तथाभूताद् अन्यथाभूतंव्यवच्छिन्दत्य् एव इति द्वितीयस्योपसंहारः कार्य इति | एवम् उक्तेन न्यायेन एकस्य प्रमाणस्य प्रत्यक्षस्यानुमानस्य वा तस्याप्य् एवम् एव स्वविषयपरिच्छेदाद् वृत्तिः प्रवृत्तिः सर्वभावान् द्वैराश्ये तत्त्वे ऽन्यत्वे च व्यवस्थापयति | ततस् तत्परिच्छेदकप्रमाणबलेनैवासाङ्कर्यसिद्धिः | किं तदर्थिकया ऽप्य् अभावकल्पनयेति? | {प्. १९७.१} ननु च विकल्पव्यापार एष `इदम् अन्यात्मकं न भवति अन्यथैतद् आत्मकम्` इति | प्रत्यक्षं च निर्विकल्पकम् इष्यते तत् कथम् असांकर्यसिद्धिस् ततः? इत्य् अत आह -- तस्यान्वयेत्यादि | तद् धि प्रत्यक्षं विधिप्रतिषेधविकल्पौ यदा स्वविषये जनयति तदैवास्य साफल्यम्, तदैव च प्रमाणम् इष्यते [T. ३४९.अ] नान्यदा | अत एवैकस्यार्थस्वभावस्याप्रतिपन्नांशाभावात्[७०८]सर्वात्मना परिच्छेदे ऽपि भ्रान्तिकारणसद्भावात् क्षाणिकतादावन्वयव्यतिरेकबुद्धी जनयितुम् असामर्थ्यात् तत्रास्य प्रामाण्यं नेष्यत इति | स्यान् मतम् -- द्वैराश्यसाधने ऽप्य् असांकर्यसिद्ध्यर्था मा भूद् अभावप्रमाणकल्पना किन् तु प्रकारान्तराभावसिद्ध्यर्था भविष्यति | न हि तदभावसिद्धौ प्रत्यक्षस्य कश्चिद् व्यापारः [S. १८७अ.] प्रतिपादित इति अत आह -- तद्व्यतिरिक्तेत्यादि | तस्मात् परिदृश्यमानाद् व्यतिरिक्तस्याशेषस्य वस्तुनो व्यवच्छेदेन ततः पृथक्करणेनान्यत्वेन या व्याप्तिस् तत्साधनाद् एव प्रकारान्तरस्य तत्त्वान्यत्वबहिर्भूतस्याभावः सिध्यति | ततस् तदर्थम् अपि नाभावप्रमाणकल्पना युक्तेति | अथ मतम् -- सर्वस्यापरिदृष्टस्य दृश्यमानाद् अन्यतया व्याप्तिं नैव प्रत्यक्षं साधयति तत् कुतस् तृतीयराश्यभावः प्रत्यक्षत एव स्यात्, यतो ऽभावप्रामाण्यकल्पना व्यर्था भवेद् इत्य् अत आह -- तस्य तृतीयराशितया कल्प्यमानस्य ततो दृष्टाद् अन्यतया व्यप्त्यभावे तेन प्रत्यक्षेण ततो[७०९] ऽर्थात् स्वविषयस्य अव्यवच्छेदाद् अपृथक्करणात्, तदर्थस्य च राश्यन्तरत्वेन कल्प्यमानस्य स्वविषयाद् अव्यवच्छेदात् अपृथक्करणात् पुनर् अपि भावस्य स्वविषयस्यापरिच्छेदप्रसङ्गात् | [T. ३४९ब्.] स हि तद्विषयः सकलपररूपासंकीर्णात्मा यदि तेनात्मना न परिच्छिन्नः कथं तेन तस्य परिच्छेदः? | तेनात्मना परिच्छेदे वा कथं सर्वस्य तदन्यतया व्याप्त्यसाधनम्? अन्यथाइकस्यापि तदन्यत्वं न स्यात्, निमित्तस्य समानत्वाद् इति | यत एवं तस्मात् क्वचिद् वस्तुनि प्रमाणं {प्. १९८.१} प्रत्यक्षादिकं [S. १८७ब्.] प्रवृत्तं तद्वस्तु प्रतिनियतेनात्मना परिच्छिनत्ति, ततो ऽन्यत् तद्रूपविकलं व्यवच्छिनत्ति, तदन्यत्वेन व्यवस्थापनात् | तृतीयस्य च तत्त्वान्यत्वबहिर्भूतस्य प्रकारस्याभावं सूचयति, सर्वस्यान्यतया व्याप्तिसाधनात्, तद्विरुद्धस्य[७१०]वा सर्ववस्तुनो द्वैविध्यस्य साधनाद् इति | एवम् एकस्य प्रमाणस्य व्यापार एषो ऽनन्तरोक्त इति तम् एवोपसंहृत्य सुखप्रतिपत्तये दर्शयन्नाह -- तथाहि क्वचिद् वस्तुनि प्रमाणं प्रत्यक्षादि प्रवृत्तं तद् एव वस्तु तदन्यस्मात् पररूपाद् व्यवच्छिनत्ति ततः पृथक्करोति तदसंकीर्णरूपतया प्रतिपद्यते, परमार्थतस् तस्य तद्रूपत्वात् यथावस्तु च प्रत्यक्षेण रूपानुकारात् | किम् इति पररूपाद् व्यवच्छिनत्ति? | तस्यैव पररूपविकलस्यैकरूपस्य परिच्छेदात् | तथा तद् अन्यद् एव च तस्माद् दृश्यमानाद् अन्यद् एव च व्यवच्छिनत्ति | कुतः? | तस्मात् [T. ३५०अ.] स्वविषयात् | न केवलं स्वविषयं परतो व्यवच्छिनत्ति, परम् अपि स्वविषयाद् इति | कुत एतद्? | अन्यस्य पररूपस्य तत्र स्वालम्बने ऽपरिच्छेदाद् अवश्यम् एवापरिच्छिन्नस्य [S. १८८अ.] परिच्छिन्नाद् अन्यत्वं भवति | यत एवम् अतः तद् एव प्रमाणम् एकवस्तुपरिच्छेदकं प्रकारान्तराभावं साधयति, नाभावाख्यम् | कुत एतत्? | तस्मिं दृश्यमाने वस्तुनि दृष्टतदन्यत्वेन तस्यान्यस्य तत्रापरिच्छिद्यमानस्यान्यत्वं तदन्यत्वं दृष्टात् तदन्यत्वं दृष्टतदन्यत्वं तेन सर्वस्य तद्व्यतिरिक्तस्य व्यवस्थापनान् न अ(-पनेन अ)तद् अन्यस्यैव च यद् अन्यन् न भवति पुरो ऽवस्थितं सकलपरभावव्यावृत्तं तस्यैव तत्त्वेन दृश्यमानप्रकारतया व्यवस्थापनाद् इति | अमुम् एव न्यायम् अन्यत्राप्य् अतिदिशन्न् आह -- एतेन क्रमाक्रमादयः इत्यादि | एतेन अनन्तरोक्तेन न्यायेन प्रतिनियतैकपदार्थरूपानुकारिणी बुद्धिर् उपजायमाना तद्विपरीतरूपं सर्वं स्वविषयाद् व्यवच्छिन्दती द्वैराश्यं तृतीयप्रकाराभावं च साधयतीति[७११]ये केचिद् अन्योन्यव्यवच्छेदरूपाः क्रमाक्रमनित्यानित्यादयः ते व्याख्याताः | {प्. १९९.१} तथा हि -- कार्यस्य क्रममनन्यसहायतां प्रतियत्य् एव बुद्धिस् तस्याक्रमं कार्यान्तरसाहित्यं [T. ३५०ब्.] ततः पृथक्करोति | ततः क्रमाक्रमतया द्वैतसिद्धेः तृतीयस्य प्रकारस्य सम्भवो निरस्तो भवति | क्रमभावव्यतिरेकिणः सर्वस्य कार्यजन्मनः तदन्यतया द्वितीयप्रकारतया ऽवस्थानात् | एवम् उदयानन्तरध्वंसिता [S. १८८ब्.] क्षणिकतोच्यत इति प्रतीयती व्यवस्थापनाकाल एव बुद्धिस् तद्विपरीतरूपतायाः स्वविषयाद् अपाकरणात् ततो ऽन्यत्वेन प्रकारान्तरे ऽवस्थापनाद् राश्यन्तराभाव[७१२]इति | तद् एवम् एकप्रमाणनिबन्धनाम् असाङ्कर्यसिद्धिं प्रतिपाद्योपसंहरयन्न् आह -- तद् एवम् उक्तेन न्यायेन एकस्य प्रतिनियतात्मन उपलम्भात् तस्योपलभ्यमानस्य यस् ततो ऽन्यस् तत्तुल्ययोग्यतारूपस् तद्विपरीतो वा तद्रूपविकलस् तदात्मनो व्यवच्छेदः पृथक्करणं तस्योपलभ्यमानस्यानुपलभ्यमानस्वभावाद् रूपान्तरेण प्रतिभासनात् | तथा तस्य स्वविषयस्य तदन्यात्मताया भावप्रधानत्वान् निर्देशस्य व्यवच्छेदो भवति असाङ्कर्यं सिध्यति | तद् यद्य् एतद् अविशेषणान्यस्य सर्वस्य तत्राभावसिद्धिः स्याद् इत्य् अत्राभिमतं तदा सिद्धसाधनम्, यतः सर्वम् अविशेषेणैव तद् एकाकारया बुध्या तद्रूपविकलं स्वविषयाद् अवच्छिद्यते, सर्वस्यान्यरूपस्य तत्राप्रति-भासनात् | अथ तद्देशकालयोर् अभावः सर्वस्य [T. ३५१अ.][S. १८९अ.] तद्विपरीतरूपस्य व्यवच्छेदो ऽभिमतः स न युक्त इति दर्शयति -- न तद्देशकालयोः यत्रासौ प्रतिनियतात्मा सकलत्रैलोक्यविलक्षणः पदार्थ उपलभ्यते तत्र सर्वस्यान्यस्य भावस्य तत्तुल्ययोग्यतारूपस्येतरस्य वा व्यवच्छेदः प्रतिषेधः | येन हि कारणेन तत्तुल्ययोग्यतारूपस्य तत्राप्रतिभासमानस्य प्रतिषेधस् तस्मिन् सति तद् एकरूपनियतायाः प्रतिपत्तेर् असंभवात् तद्[७१३]अभावनान्तरीयिका ३सा भवन्ती तत्प्रतिषेधं[७१४]गमयतीति तत्कारणम् अनुपलब्धिलक्षणप्राप्ते तदतुल्ययोग्यतारूपे च न सम्भवतीति कथं तदभावः सिध्येत् | {प्. २००.१} एतद् एवोपसंहरन्न् आह -- तस्माद् अतदात्मा च सर्वस् तद्विपरीतरूपस् तदेकाकारया बुद्ध्या प्रसाधितः स्यात् तद्देशकालश्च तस्य प्रतिभासमानस्य यौ देशकालौ तौ यस्य, स च स्यात् | किंवत्? | रसरूपादिवद् इति | न हि रूपप्रतिभासिना ज्ञानेन तद्रूपविकलस्य रसस्य स्वविषयात् पृथक्करणे ऽपि तद् असांकर्यसाधने ऽपि तद्देशकालयोर् अभावः [S. १८९ब्.] सिध्यति | ततश् च कथं सर्वस्यातुल्ययोग्यावस्थस्यापि तत्राभावः स्यात्?, उपलब्धिलक्षणप्राप्तस्येति विशेषणं वा नोच्येत | यत एवं तस्मात् क्वचित् कदाचित् कस्यचिद् अभावसिद्धिर् यथोक्ताद् एवानुपलम्भाद् उपलब्धिलक्षणप्राप्तस्य [T. ३५१ब्.] तत्तुल्ययोग्यतारूपोपलम्भात्मनश् चेत्य् एवंरूपात्, न तु सामान्येन यथा ऽऽहुःपरे -- प्रमाणपञ्चकंयत्र वस्तुरूपे न जायते | वस्तुसत्तावबोधार्थे तत्राभावप्रमाणता|| [Śल्V अभाव १; TS १६४७.] इति | न ह्य् अनुपलब्धिलक्षणप्राप्ते प्रमाणपञ्चकाप्रवृत्ताव् अपि तदभावः सिध्यति, सत्य् अपि तस्मिन् स्वभावादिविप्रकर्षेण प्रमाणपञ्चकाप्रवृत्तिसम्भवाद् इति | तद् एवं प्रासङ्गिकं परिसमापय्य यद् उक्तंपरेण `स एवान्यभावस् तद्विषया चोपलब्धिः तदभावस्य किं न साधनम्`[७१५]इति तत्रान्यभावस्य तदभावं प्रति लिङ्गत्वे निरस्ते तद्विषयाया उपलब्धेर् निराकुर्वन्न् आह -- अन्यभावविषयेत्यादि | यत् पुनर् उक्तम् -- अन्यभावविषयोपलब्धिस् तदभावस्य किन्न साधनम्`[७१६]इति सा तदभावस्य साधिकेष्टैवास्माकम्, [S. १९०अ.] न तु लिङ्गत्वेन यथोक्तवानसि | किं कारणम्? | यतः तत्राप्य् अन्यभावविषयायाम्[७१७]उपलब्धाव् ऽभावस्य पृथग् अन्यभावात् साध्यत्वे कल्प्यमाने सम्बन्धाभावस्य तदभावेन तुल्यत्वात् | न हि तस्या अपि अन्यभावरूपायाः तदभावेन कश्चिद् एकार्थसमवायादिरूपः सम्बन्धो ऽस्तीति | अपृथक् सिद्धेर् इत्य् अस्यापि तुल्यतां दर्शयन्न् -- आह लिङ्गाविर्भावेत्यादि | येयम् अन्यभावविषया उपलब्धिर् ल्लिङ्गतयोच्यते तस्यास् {प्. २०१.१} तद्विविक्तप्रदेशाकाराया [T. ३५२अ.] आविर्भावकाल एव २जन्मकाले प्रतीतिकाल एव[७१८]वा तदभावसिद्धेश् च | तथा हि -- तत्प्रतिभासविविक्तान्यभावप्रतिभासबुद्धिसंवेदनम् एव तदभावसंवेदनम् इति | तद् एव साधयति -- न ह्य् अन्यस्य तद्विविक्तस्य भावं प्रतिपद्य प्रतिपत्ता पुनर् उत्तरकालं तत्प्रतिपत्तेर् अन्यभावप्रतिपत्तेस् तदभावेनान्यव्यतिरेकौ प्रसाध्य प्रतिबिन्धसाधकेन प्रमाणेन तदभावं प्रतिपद्यते | किं तर्हि? | तदन्यं तद्विविक्तरूपं प्रतिपद्यमान एव तस्य ३प्रतियोगिनो ऽभावं[७१९]प्रतिपद्यते, तस्यैव तदभावात्मकत्वात् | तथा हि -- सघटप्रदेशासंकीर्णरूपस्य [S. १९०ब्.] केवलप्रदेशस्य दर्शनम् एव घटाभावदर्शनम् | न हि `घटो ऽत्र नास्ति` `घटवानयं न भवति` `सघटाद् अन्यः` इत्य् अर्थभेदः कश्चित् | ततः सघटाद् अन्यतया केवलप्रदेशस्य दर्शनम् एव घटाभावदर्शनम् इति | `घटो ऽत्र नास्ती`ति ज्ञानं गृहीतग्राहितया स्मृतिर् एवेति | कथं ज्ञायत इति चेत् | दर्शनानन्तरम् अन्वयव्यतिरेकसाधनलक्षणेन व्यवधानेन विना `इदम् घटविविक्तं प्रदेशवस्त्व् अस्ति` `इदं तु घटवस्तु नास्ति` इति पाश्चात्येन विकल्पद्वयेन व्यवस्थापनात्[७२०]| ततो नान्वयव्यतिरेकानुसरणम् अत्रास्तीति [T. ३५२ब्.] | किञ् च -- दृष्टान्तरासिद्धे स्वात्मन्यभावविषयोपलब्धिस् ५तदभावस्य साधनं[७२१]| तद् एव व्यतिरेकमुखेन दर्शयति -- तच् च तस्य इत्यादि | इहाप्य् अस्त्य् एवान्वय इति चेत्, आह -- न ह्य् एवंशक्यम् इत्यादि | कस्मान् न शक्यं दर्शयितुम्? | तद् एकोपलब्धेः तस्यैकस्यानन्यसंसर्ग्गिणो योपलब्धिर् विशेषरूपा तस्याः क्वचिद् अप्य् अन्यत्राभावात् | अथ तद्विविक्तोपलब्धिसामान्यं हेतुर् उच्यते -- यत्र यत्र घटविविक्तभूतलोपलब्धिस् तत्र [S. १९१अ.] तत्र घटाभावो यथा पूर्वानुभूते घटविविक्ते प्रदेश इत्य् आह -- सामान्येन प्रदर्शने क्रियमाणे दृष्टान्ते ऽपि पूर्वानुभूतघटविविक्ते प्रदेशे घटाभावस्य प्रसाधकं प्रत्यक्षादिकं प्रमाणान्तरम् अन्यभावविषयोपलब्धेर् नास्ति, किं तु सैव तदन्यभावोपलब्धिः साध्यधर्मस्य तदभावलक्षणस्य {प्. २०२.१} साधिका | सा च यथा साध्यधर्मिणि तदभावसिद्धये दृष्टान्तम् अपेक्षते तथा दृष्टान्ते ऽपि | तथा, तत्रापि तदन्यत्रापीत्यनवस्था दृष्टान्तानाम् इति | अनवस्थायां चाप्रतिपत्तिः सर्वत्र तदभावस्य | यत एवं तस्मान् न कुतश्चिल् ल्लिङ्गात् तदन्यभावात् तदुपलब्धेर् वा तदभावसिद्धिर् इति | यदि तदन्यभावस् तदभावं न साधयति, किं ६पुनर् ल्लिङ्गतया [T. ३५३अ.] साधयति[७२२]?, इत्य् अत आह -- सो ऽन्यभावः प्रत्यक्षलक्षणेन -- प्रत्यक्षस्यैव विवक्षितोपलम्भाद् अन्यत्वेनानुपलम्भत्वात् | तल्लक्षणेनानुपलम्भेन सिद्धः सन्न् अभावव्यवहारं साधयेत्,[७२३]कर्मस्थक्रियापेक्षायां[७२४]तदन्यभावस्यानुपलब्धिरूपत्वात् | क्व पुनर् असाव् अभावव्यवहारं साधयेत्? | मूढप्रतिपत्तौ साध्यायां | यस् त्व् अमूढो [S. १९१ब्.] विषयप्रतिपत्तौ विषयिणं स्मरत्य् एव तस्याभावव्यवहारः प्रत्यक्षनिबन्धन एवेति न तत्रानुपलब्धेर् लिङ्गतेति सुचर्च्चितम् एवान्यत्रेतीहालं प्रसङ्गेनेति |
SK
__________NOTES__________
SK
[६३६] पूर्वक्षणेनैवयेनाध्यवसीयमानः [६३७] निमित्ताभावो -- T. [६३८] येषु सत्सु भवत्य् एव यत् तेभ्यो अन्यस्य कल्पने || तद्धेतुत्वेन सर्वत्र हेतूनाम् अनवस्थितिः || [PV II २४] [६३९] संयोगाद् -- T. [६४०] अगृहीत- -- T. [६४१] स्वविषयविज्ञाने जननयोगाद् -- T. [६४२] अत्रातिदिशन् -- T. [६४३] वा प्रदेशस्य घटविविक्तस्यानुपलब्धित्वं -- T. [६४४] ज्ञाने [६४५] एकज्ञानसंसर्ग्गित्वम् [६४६] एककालत्वाद् एव [६४७] व्यवहार लोके -- T. [६४८] चकाराद् अग्रहणं च [६४९] वेद्यते -- T. [६५०] हेतुत्वा- [६५१] अत्रान्तरे ग्रन्थे स्वयम् एवाचार्यो विप- -- T. [६५२] प्. १७४,२७ [६५३] प्. १७६,४ [६५४] प्. १७६,११ [६५५] एतस्यासा- -- T. [६५६] अतो ग्रन्थव्याख्या [६५७] प्रत्यभिज्ञानस्य -- T. [६५८] घटाभावरूपया घटाज्ञानभावाख्याया वा (प्रथमं टिप्पनं) उपलब्ध्य् ऽभावरूपया (द्वि. टि.) [६५९] प्. १७६,११ [६६०] हि यस् तुच्छ- -- T. [६६१] अन्यभावात् [६६२] प्रसज्यप्रतीतिः [६६३] प्रसज्यप्रतीतौ [६६४] अन्य्भावस्य [६६५] प्रति प्रति- -- T. [६६६] तस्य द्विविधेन -- T. [६६७] -स्य रूपानभ्यु- -- T. [६६८] तदान्य- -- T. [६६९] तादात्म्यपक्षे [६७०] तदेव -- T. [६७१] तादात्म्याभावेन [६७२] -मुखेन संबन्धः एकार्थसमवायसंबन्ध इति -- T. [६७३] सन्निकर्षादीष्टं भवति -- T. [६७४] विशेषणविशेष्याभावे [६७५] स्वकर्मस्वानन्तर्भावात् -- T. [६७६] समस्त -- T. [६७७] चात्रसम्- -- T. [६७८] -दकभावरूपो -- T. [६७९] प्रयोगात् -- T. [६८०] -दिके कुतः सि- -- T. [६८१] -यां अयं (ओर् स) समुदायः -- T. [६८२] -योस् सं- -- T. [६८३] प्रतिपत्तिकाल एव -- T. [६८४] धूमादेर् अग्निः -- T. [६८५] लिङ्गलिङ्गिनौ -- T. [६८६] लिङ्गलिङ्गिनोश् च लिङ्गिना स- -- T. [६८७] प्. १८४,२९ [६८८] च तदभावप्रतिपत्तिः तदप्र- -- T. [६८९] तदन्यभा- -- T. [६९०] -न्याभावः तदात्मके -- T. [६९१] न युज्यते --T. [६९२] संयुक्त- -- T. [६९३] -क्षावसितः -- T. [६९४] तृषा- [६९५] असंकिर्न्न(ण्ण)वस्तुप्रतिभासितया [६९६] अन्यज्टानम् [६९७] असंकीर्णत्वाभावे [६९८] अन्यत्वायोगात् [६९९] प्. १७२,२२ xx नास्तीताज्ञान- [७००] प्. १७८,२३; प्. १८०,१७ [७०१] प्. १७२,२२ [७०२] प्रमातुः [७०३] घट- [७०४] भूतल- [७०५] घट- [७०६] प्. १८९,२४f. [७०७] तथात्वाप्र- -- T. [७०८] -स्वभावस्य प्रत्यक्षांशां -- T. [७०९] तदर्थाव्यवच्छेदाद् इति समासद्वयेन चा(व्या)चष्टे [७१०] प्रकारा(र)- [७११] अनेनेति शेषः [७१२] द्रव्यान्त- -- T. xx इति सूचयति [७१३] घ- [७१४] सा तन्निबन्धनात् प्रति- -- T. [७१५] प्. १७८,१४ [७१६] प्. १७८,१५ [७१७] -भावविषयायाः -- T. [७१८] प्रतीतिजन्मकाल एव -- T. [७१९] रूपस्या ऽभावं -- T [७२०] ज्ञापनात् -- T. [७२१] -स्य न साधनम् -- T. [७२२] -तया न सा- -- T. [७२३] भूतल- [७२४] अन्यभावो ऽनुपलम्भेन सिद्धो यः स कथम् अनुपलब्धिः? इत्य् आह
SK
[सेच्तिओन्: ३. अनुपलब्धिं त्रिधा विभज्य तद्विवेचनम् |]
SK
तद् एवम् अनुपलब्धेर् अशेषविप्रतिपत्तिनिराकरणेन स्वरूपम् अवस्थाप्य प्रभेदनिर्द्देशार्थम् आह -- सेयंयतोक्तात्रिधाऽनुपलब्धिः | कथम्? | सिद्धे तत्प्रसाधकेन प्रमाणेन कार्यकारणभावे सति कारणस्यानुपलब्धिः | कीदृशस्य? | सिद्धाभावस्य | तथा, व्याप्यव्यापकभावसिद्धौ सत्यां तत्प्रसाधनप्रमाणबलेनैव सिद्धाभावस्यैव व्यापकस्य नान्यस्य व्यापकानुपलब्धेर् एवासिद्धताप्रसङ्गाद् | यथोक्ता स्वभावानुपलब्धिश् चेति | एवं त्रिविधा ऽनुपलब्धिः | कथं पुनः कारणव्यापकयोर् अभावव्यवहारः सिध्यति यतस् तयोः सिद्धाभावतोच्यत [T. ३५३ब्.] इत्य् आह -- तत्र कारणव्यापकयोर् अपि न केवलं यस्य साक्षाद् अभावव्यवहारः साध्यते | स्वभावानुपलब्धौ स्वभावस्यासद्व्यवहारस्य सिद्धिर् अन्यस्य तद्विविक्तस्य भावसिद्धिर् या सैवासद्व्यवहारसिद्धिहेतुत्वाद् एवम् उच्यते | [S. १९२अ.] स कारणव्यापकाभावः तथासिद्धो ऽन्यभावसिद्ध्या प्रत्यक्षरूपया सिद्धो ऽभावव्यवहारः कार्यव्याप्ययोः प्रतिषेध्ययोः | यदा ऽनयोर् विरूपविषयतया {प्. २०३.१} सविशेषाणाम् उपलब्धिर् न सिध्यति तदाऽभावम् अभावव्यवहारंवासाधयति | समुच्चयार्थो वाशब्दः | अथ किं स्वभावानुपलब्धाव् अप्य् अभावो लिङ्गतया साध्यत इत्य् आह -- स्वभावानुपलब्धौ तु इत्यादि | अभावव्यवहार एव, नाभावो ऽपि तस्य प्रत्यक्षसिद्धत्वात् | अत्र परस्य वचनावकाशम् आशङ्क्याह -- यदि तर्हि कारणव्यापकौ सिद्धो ऽसद्व्यवहारो ययोः तौ सन्तौ | केन? | तदन्यस्य करणव्यापकविविक्तस्य भावस्य सिद्धिर् या प्रत्यक्षात्मिका तद्रूपया ऽनुपलब्ध्या, अन्यस्य कार्यस्य व्याप्यस्य वा ऽभावम् अभावव्यवहारं च साधयतः | सा चान्यभावोपलब्धिस् तयोः कारणव्यापकयोर् उपलब्धिलक्षणप्राप्ताव् एव सत्याम् असद्व्यवहारस्य साधिका नान्यथा इत्य् एवम् इष्यमाणे [T. ३५४अ.][S. १९२ब्.] सति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षे ऽर्थे विषये प्रयोगः | यदा कार्यस्वभावहेत्वोर् व्यतिरेकप्रयोगः क्रियते -- यत्र यत्राग्निर् नास्ति तत्र तत्र धूमो ऽपि नास्ति, तथा यत्र यत्र वृक्षो नास्ति क्षणिकता वा तत्र तत्र शिंशपा नास्ति सत्त्वं वा इत्य् अशेषपदार्थपरिग्रहेण व्यतिरेकप्रयोगे सति | न हि तदाग्निवृक्षव्यतिरिक्ताः सर्वे ऽर्थाः प्रत्यक्षता(क्षा) अक्षणिकता वा | ततश् च कथं तद्विविक्तोपलब्धिलक्षणानुपलब्धिः[७२५]प्रतियोगिनो नोपलब्धिलक्षणप्राप्तता सिद्धा? | तथा च कथम् अशेषोपसंहारेण व्याप्त्या कार्यस्वभावहेत्वोर् व्यतिरेकः सिध्येत्? | तदसिद्धौ वा कथम् अनयोर् ग्गमकत्वम्? | तस्मात् क्वचिद् अदर्शनमात्राद् एव व्यतिरेक एष्टव्यः, क्वचिच् च दर्शनमात्राद् अन्वयः | तथा च प्रतिबन्धघोषणा ऽनर्थिकेति मन्यते परः | सिद्धान्तवाद्य् आह -- नैव परोक्षे ऽर्थे कारणव्यापकानुपलब्ध्योः प्रयोगो [S. १९३.अ] व्यतिरेकोपदर्शनकाले प्रमाणतया कारणस्य व्यापकस्य वा ऽनुपलब्धिः प्रमाणभूता नैव प्रयुज्यते | कस्मात्? | लिङ्गस्य कारणव्यापकानुपलब्धिलक्षणस्य तदभावलक्षणस्य वा अनिश्चयात् तदनुपलब्ध्योः सन्देहरूपत्वात् तदभावस्य च [T. ३५४ब्.] सन्दिग्धत्वात् | कथं तर्हि तदा ऽनयोः प्रयोग इष्यते? इत्य् आह -- केवलम् इत्यादि | कारणव्यापकयोर् हि {प्. २०४.१} कार्यकारणभावप्रसाधकेन पूर्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे च सम्बन्धे साधिते सिद्धसम्बन्धयोर् यद्य् अभावो यत्र यत्राभावः स्यात् परस्यापि कार्यस्य व्याप्यस्य वा ऽवश्यं नियमेनाभावो ऽन्यथा ऽहेतुकत्वप्रसङ्गात्, निःस्वभावताप्रसङ्गाच् च | तद्द्वारेण प्रतिबन्धप्रसाधके प्रमाणे स्मृतिः कथं नाम स्याद् इत्य् एतस्यार्थस्य दर्शनार्थम् एते कारणव्यापकानुपलब्धी प्रयुज्येत इति | दर्शनादर्शनबलेन तु साधने यत्रैवैकदर्शने परो दृष्टो ऽदर्शने वा न दृष्टः तत्रैव तस्य भावो ऽभावो वा भवतु सर्वत्र तु कस्माद् भवति? | न ह्य् अप्रतिबद्धात्मनां गवाश्वादीनां क्वचित् तथाभावदर्शने ऽपि सर्वत्र तथाभावो भवति, पुरुषस्य तु सर्वदा क्वचिद् एकभावाभावयोर् अपरस्य [S. १९३ब्.] भावाभावदर्शनं यदृच्छासंवादः सम्भाव्येत असति प्रतिबन्धे | तथा चाह -- देशादिभेदादृऋष्यन्ते भिन्नाद्रव्येषुशक्तयः| प्रमाणसिद्धे सत्य् अवश्यम् एव यत्र यत्र कार्यं तत्र तत्र कारणम्, यत्र यत्र तदभावः तत्र तत्र च कार्यस्याप्य् अभावो ऽन्यथा कारणम् अन्तरेण कार्यस्य भावे तस्याहेतुतैव स्यात् | ततश् च नित्यं सत्त्वादिप्रसङ्गः | तथा यत्र यत्र यत्स्वभावस् तत्र तत्र तद्भावः[७२६]अन्यथा तस्य नैरात्म्यम् एव स्याद् इति व्याप्त्यैवान्वयव्यतिरेकोपदर्शने प्रतिबन्धः ख्यापयितुं शक्यते नान्यथेति प्राग् एव विस्तरतो विपञ्चितम् |
SK
__________NOTES__________
SK
[७२५] अग्निवृक्ष- [७२६] तत्स्वभावः -- T.
SK
[ सेच्तिओन्: ४. हेतोस् त्रैरूप्यत्रैविध्ययोर् हेत्वाभासत्वस्य चोपसंहारः |]
SK
एवं कारय्स्वभावानुपलब्धिलक्षणे एव पक्षधर्मे तत्साधकप्रमाणसद्भावाद् अन्वयव्यतिरेकसद्भावो नान्यत्रेति प्रतिपाद्योपसंहरन्न् {प्. २०५.१} आह -- इति एष एव [S. १९४अ.] स्वभावकार्यानुपलब्धिलक्षणः पक्षधर्मो ऽन्वयव्यतिरेकवान् प्रतिबन्धसद्भावात्[७२७]| यतश् चान्वयव्यतिरेकवान् प्रतिबन्धप्रसाधकप्रमाणसद्भावाद् उक्तेन न्यायेन इति तस्मात् तदंशेन व्याप्तो ऽन्वयव्यतिरेकनिश्चयेनैव तदंशव्याप्तेर् निश्चयाद् यथोक्तं प्राक्, [T. ३५५ब्.] ततश् च तदंशव्याप्तिवचनात् त्रिलक्षण एव त्रिरूप एव त्रिविध एव हेतुर् ग्गमको नान्यलक्षणो ऽन्यो वा यथोक्तत्रैरूप्यसद्भावे रूपान्तरस्य वैयर्थ्यात् यथोक्तत्रैरूप्याभावे च रूपान्तरकल्पनायाम् अप्य् अव्यभिचाराभावेनागमकत्वात् | कस्मात् त्रिलक्षाण एव त्रिविध एव हेतुर् ग्गमको नान्यलक्षणो ऽन्यो वेति दर्शयति स्वसाध्यधर्माव्यभिचाराद् इति त्रिलक्षणस्यैव स्वसाध्यधर्माव्यभिचारात् | स्वसाध्यधर्माव्यभिचार एव च गमकत्वम् इति रूपान्तरकल्पना व्यर्था | प्रतिबन्धनिबन्धनान्वयव्यतिरेकापगमे च रूपान्तरकल्पनायाम् अपि स्वसाध्यधर्माव्यभिचाराभावात् | तद् अनेन `त्रिधैव स` इत्य् अस्य त्रिलक्षण एव स हेतुर् अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य नियमाद् अवश्यन् तया सद्भावात् [S. १९४ब्.] प्रतिबन्धनिमित्ततदंशव्याप्त्यनभ्युपगे(गमे) च रूपान्तरकल्पनायाम् अपि हेत्वाभासास् ततो ऽपरे यथोक्तत्रिलक्षणाद् अपरे रूपान्तरयोगितया विकल्प्यमाना हेत्वाभासा [T. ३५६अ.] अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य तेष्व् अभावाद् इत्य् अपरो ऽर्थो दर्शित इति | __________NOTES__________
SK
[७२७] -सद्भावात् अस्यैव स्वभावकार्यानुपलब्धिलक्षणाश्रय(णास् पद)त्वात् -- T.
SK
[ सेच्तिओन्: ५. हेतुलक्षणे ऽधिकरूपवादिनां निरासः |]
SK
यदुक्तं `त्रिलक्षण एव हेतुर् नान्यलक्षणः` इति तत्र परेषां विप्रतिपत्तिं दर्शयन्न् आह -- षड्लक्षणो हेतुर् इत्य् अपरेनैयायिक-मीमांसकादयो मन्यन्ते | कानि पुनः षड्रूपाणि हेतोस् तैर् इष्यंते? इत्य् आह -- त्रीणि चैतानि पक्षधर्मान्वयव्यतिरेकाख्यानि | तथा ऽबाधितविषयत्वं चतुर्थं रूपम् | अबाधितः प्रमाणेनानिराकृतो विषयः साध्यधर्मलक्षणो यस्य स तथोक्तः तस्य भावः तत्त्वम् अपरं रूपम् | तथा विवक्षितैकसंख्यत्वं रूपान्तरं, एका संख्या यस्य {प्. २०६.१} हेतुद्रव्यस्य तदेकसंख्यं विवक्षितम् एकसंख्यं हेतुद्रव्यम् आश्रयत्वेन यस्य हेतुसामान्यस्य तद्विवक्षितैकसंख्यं तद्भावो ऽपरं रूपम् | यद्य् एकसंख्याव्यवच्छिन्नायां प्रतिहेतुरहितायां हेतुव्यक्तौ हेतुत्वं भवति तदा गमकत्वं न तु प्रतिहेतुसहितायाम् अपि १द्विसंख्यायुक्तायाम् इति[७२८]| [S. १९५अ.] यदि विरुद्धाव्यभिचार्यपरं हेत्वन्तरं नोपदर्श्यत इति यावत् | तथा ज्ञानत्वं च ज्ञानविषयत्वं च | न ह्य् अज्ञातो हेतुः स्वसत्तामात्रेण गमको युक्तः [T. ३५६ब्.] इति | तत्रैतेषु रूपान्तरेषु यद् एतद् अबाधितविषयत्वं नाम तत् तावत् प्रतिबन्धनिबन्धनान्वयव्यतिरेकात्मका ऽविनाभावसम्भवे सति ततः पृथग् अन्यल्लक्षणं न भवति | तदात्मकं तु तद्वचनेनैवोक्तम् इति न वक्तव्यम् इति | कस्मात् पृथग् लक्षणं न भवति? बाधाया अविनाभावस्य च विरोधाद् इति | तथा हि -- सत्य् अप्य् अविनाभावे यथोक्ते बाधासम्भवं मन्यमानैर् अबाधितविषयत्वं रूपान्तरम् उच्यते | सा चेयं तत्सम्भावना न सम्भवति, बाधाया अविनाभावेन विरोधात् सहानवस्थानलक्षणात् | तम् एव विरोधं साधयन्न् आह -- अविनाभावो हि इत्यादि | सत्य् एव हि साध्यधर्मे भावो हेतोर् अविनाभाव उच्यते | प्रमाणबाधा तु तस्मिन्नसति | यदि हि सत्य् एव तस्मिंस् तदभावविषयं प्रमाणं प्रवर्त्तेत तदा ऽस्य भ्रान्तत्वाद् अप्रमाणतैव स्यात् इति कुतो बाधा? | ततः स हेतुः तल्लक्षणः साध्याविनाभावी धर्मिणि स्यात् | अत्र च साध्यधर्मःकथंन भवेत्? यतो [S. १९५ब्.] बाधावकाशः स्यात् | तस्माद् अविनाभावस्य प्रमाणबाधायाश् च सहानवस्थानम् अविनाभावेनोपस्थापितस्य धर्मिणि साध्यधर्मभावस्य प्रमाणबाधोपस्थापितस्य च तदभावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेनैकत्र धर्मिण्य् असम्भवाद् इति | तम् एव विरोधं सष्टीकर्तुं परोपहासव्याजेनाह -- प्रत्यक्षानुमाने हि इत्यादि | साध्यधर्मं हि बाधमाने प्रत्यक्षानुमाने, तंग्रीवायांगृहीत्वा [T. ३५७अ.] धर्मिणः स्वाश्रयात् निष्कासयतः[७२९]| तस्मिंश् च साध्यधर्मे सत्य् एव तदविनाभावित्वाद् धेतुर् भवंस् तं {प्. २०७.१} साध्यधर्मं निष्कास्यमानं गले गृहीत्वा हठात् तत्रैव धर्मिण्यवस्थापयतीति परं प्रकृष्टं वत भावानां साध्यधर्मलक्षणानामस्वास्थ्यं वर्तते | तथा हि -- यन्त्रद्वयनियन्त्रितानां निरुच्छ्वासितया मरणम् एव प्राप्तम् इति | परो बाधा ऽविनाभावयोर् विषयभेदाद् अविरोधं दर्शयन्न् आह -- अन्यत्र साध्यधर्मिणं परिहृत्य दृष्टान्तधर्मिणि साध्यधर्मेणाविनाभावी हेतुर् न पुनः साध्यधर्मिण्य् एव | ततः [S. १९६-७अ.] कुतो बाधा ऽविनाभावयोर् विरोधो ऽन्यत्र बाधया साध्यधर्माभावसाधनाद् अन्यत्र च हेतुना तद्भावसाधनात् | तथा चैवंविधे सत्य् अपि अविनाभावे बाधासम्भवाद् अबाधितविषयत्वस्य रूपान्तरस्य सम्भव इति | एवंविधाविनाभावोपगमे सत्य् अप्य् अबाधितविषयत्वादिके रूपन्तरे हेत्वाभासास् ततो ऽपरे रूपान्तरसम्भविन इत्य् आपादितां हेत्वाभासतां विवरीतुं परोपहासपूर्वकम् आह -- तत् किम् अयं साध्यधर्मी तपस्वी वराकः शड्ढ्(ण्ढ)म् उद्वाह्य तस्मिन् साध्यधर्मसाधनशाक्तिविकलं [T. ३५७ब्.] हेतुं परिणाय्य साध्यधर्मलक्षणं पुत्रंमृगयते? | एतद् एव व्यनक्ति -- यस्य हेतोर् द्धर्मिण्य् असत्य् अपि साध्यधर्मे भाव इष्यते, साध्यधर्मिणो ऽन्यत्राविनाभावोपगमात् | तं तथाविधं साध्यधर्मिण्य् उपदर्श्य कथं धर्मी साध्यधर्मवान् इत्य् उच्यते? | न ह्य् ऽम्भस्त्वस्य[७३०]समुद्रे[७३१]लवणत्वेनाविनाभवे ऽपि तद्व्यतिरिक्ते ऽम्भसि लवणतया साध्यत्वेनेष्टे ऽम्भस्त्वभावे ऽपि लवणत्वसिद्धिर् इति | परस्य वचनावकाशम् आशङ्ख्याह -- अत एव इत्यादि | एतद् एव विवृनोति -- स्याद् एतद् भवतो मतम् | यत एव हेतुर् अन्यथा ऽपि साध्यधर्मम् अन्तरेणापि धर्मिणि भवेद् अम्भस्त्वादिषु तथादर्शनात्, साध्यधर्मिपरिहारेण चाविनाभाओपगमात् अत एव कारणात् प्रमाणाभ्याम् अबाधितधर्मा धर्मीत्य् उच्यते | यदि {प्. १०८.१} प्रत्यक्षानुमानाभ्यां साध्यधर्मिणि [स्. १९६-७ब्.] हेतोर् विषयः साध्यधर्मो न बाध्यते यथा ऽम्भस्त्वस्य लवणत्वम्, तदा तस्य गमकत्वम्, नान्यथेति | ततो ऽन्यत्राविनाभावमात्रेण साध्यसिद्धेर् अनभ्युपगमात् न यथोक्तो दोष इति | सिद्धान्तवाद्य् आह -- तत् किम् इदानीं [T. ३५८अ.] यदा हेतोर् धर्मिण्य् अविनाभावितानभ्युपगमात् साध्यसिद्धेर् अभावात् तत्सिद्धये रूपान्तरम् अबाधितविषयत्वम् उच्यते तदा हेतोर् न किञ्चित् सामर्थ्यम् | कस्मात्? अबाधयैव हेतुम् अन्तरेणापि साध्यसिद्धेः अकिञ्चित्कर एव हेतुः | तथा ह्य् अत्र कल्पनाद्वैयम् -- बाधकप्रमाणवृत्तौ साध्याभावो नियतो वा स्याद्? अनियतो वा? | तत्र यदि पूर्वो विकल्पस् तदा साध्याभावो हि बाधकप्रमाणस्य वृत्तौ नियतः, तदैव भावात् तदभावे चाभावाद् इति | तस्माद् अबाधायां बाधकप्रमाणवृत्त्यभावे तन्नियतस्य साध्याभावस्याप्य् अभावात् साध्यसिद्धेः भवत्य् एवेति व्यर्थ एव हेतुर् इति नोपन्यसनीय एव | ततः कस्याबाधितविषयत्वं रूपान्तरण् भवेत्? | स्यान् मतम् -- मा भूद् बाधकप्रमाणवृत्त्यभावे हेतोः सामर्थ्यम्, यदा तु साध्यस्य बाधकं प्रमाणं धर्मिणि वर्त्तते तदा हेतोः साध्यसाधने सामर्थ्यं भविष्यतीत्य् अत [S. १९८अ.] आह -- बाधायाम् अपि इति | यदि बाधकं प्रमाणं वर्त्तते तदा तेन साध्याभावस्य धर्मिणि साधनात् पुनर् ब्रह्नणापि तद्भावस्य कर्त्तुम् अशक्यत्वात् किम् अङ्ग ३पुनः शष्ठेन हेतुनेति[७३२]कुतः साधनस्य हेतोः सामर्थ्यम्? | अत [T. ३५८ब्.] एव हि भवद्भिर् अबाधितविषयत्वं रूपान्तरम् उच्यत इति | अथ बाधकप्रमाणवृत्तौ साध्याभावो न नियतः तदभावे ऽपिभावाद् इति द्वितीयः पक्ष इष्यते तद् अप्य् अबाधायाः सामर्थ्यविरह इति दर्शयन्न् आह -- अनियमे बाधकप्रमाणवृत्तौ साध्याभावस्येष्यमाणे सतीदम् आपतितम् | न च -- बाधकं प्रमाणं स्यात् साध्याभावस्य च सम्भवः इति न साध्यसाधने सामर्थ्यम् अबाधायाः सत्याम् अपि साध्याभावस्य स्म्भवाद् इति तद्योगिनो ऽपि हेत्वाभासतैवेति | यद् उक्तम् -- अबाधयैव साध्यसिद्धेर् व्यर्थो हेतुः इति तत्रान्यथार्थम् अबाधाया दर्शयन् हेतुसामर्थ्यं प्रतिपादयन्न् आहपरः-- न बाधाया अभावो समाबाधा ऽभिमता | किं तर्हि? | बाधाया अनुपलब्धिः | सा च तदनुपलब्धिः पुरुषस्य शक्तिवैकल्यात् क्वचिद् देशादौ बाधाया सम्भवे ऽपि स्यात् | ततो बाधा ऽनुपलब्धिमात्रेण सध्यसिद्धेर् अभावात् तत्सिद्ध्ये ऽवश्यं [S. १९८ब्.] हेतुर् अभिधानीय इति स हेतुप्रयोगस्य विषयः. तदा हि हेतुः स्वसाध्यं साधयन् कथम् असमर्थः स्याद् इति. सिद्धान्तवाद्य् आह -- किं नु वै हेतुर् बाधाया या उपलब्धिस् तस्याः बिभेति न पुनर् ब्बाधाया येन बाधां सम्भवन्तीम् अप्य् अनादृत्य तदनुपलब्धौ सत्यां प्रयोक्तव्य इष्टो भवतः | कदाचित्परो ब्रूयात् -- किं करिष्यति विद्यमानाऽपि बाधा तपस्विनी, [T. ३५९अ.] तदुपलब्धिर् एव राक्षसी | तस्मात् तत एव हेतोर् भयं तदभावे हेतुः प्रयोक्तव्य एवेत्य् अत आह -- स तर्हि इत्यादि | एवं तर्हि परमार्थेन बाधा किम् अस्ति नास्तीत्य् एतदनपेक्ष्य बाधाया अनुपलब्धौ सत्यां प्रयोक्तव्य इति काक्वा पृच्छति | कदाचित् परो ब्रूयात् -- उक्तम् एवैतत् किम् अर्थं पृच्च्यते? इत्य् आह -- किम् अर्थंप्रयुज्यत इति | बाधा ऽनुपलम्भे ऽपि तत्सम्भवे साध्यस्धनायोगाद् इत्य् अभिप्रायः | परो ऽनवगताभिप्राय आह -- साध्यसिद्ध्यर्थम् इति बाधकप्रत्ययाभावे प्रामाण्यस्येष्टत्वात् ततः साध्यसिद्धिर् अविरूद्धैवेति मन्यते | सिद्धान्तवादी सत्यां बाधायां तदनुपलम्भे ऽपि साध्यसिद्धिम् असम्भावयन् पृच्छति स किंक्वचिद् इत्यादि | किं [S. १९९अ.] पुनर् असौ हेतुः सत्याम् अपि बाधायां साध्यं साधयेद् इति सम्भव्यते भवता येनास्या बाधाया अभाव विनिश्चयं प्रति यत्नो न क्रियते हेतुश् च प्रयुज्यत इति | एवम् एतत् इति चेत्; तथा सत्याम् अपि बाधायां साध्यसाधनसामर्थ्योपगमे सत्य् अबाधितविषयत्वं न भवति | किं कारणम्? | बाधायाम् अपि सत्याम् अस्य हेतोः सामर्थ्यात् सामर्थ्योपगमात् | तद् धि हेतोर् लक्षणम् उच्यते येन विना साध्यं न साधयेद् इति | {प्. २१०.१} स्यन् मतम् -- अनुपलभ्यमानबाधत्वं हेतुलक्षणं [T. ३५९ब्.] परमार्थेन, नाबाधितविषयत्वम् इत्य् अत आह -- तथाच इत्यादि | एवं सति बाधायाः सद्भावसम्भवे ऽपि ताम् अभ्युपगम्य तदनुपलम्भमात्रेण हेतोः प्रयोगः प्राप्तः | यदि हि बाधाम् अभ्युपगम्य हेतुप्रयोगो नाभिमतः स्यात् तदा ऽनुपलम्भमात्रेण बाधायां संशयात् -- सताम् अपि केशाञ्चित् कथञ्चिदनुपलम्भसम्भवात् -- संशयितस्य हेतुप्रयोगे प्रवृत्तिर् एव न युज्येत | तस्माद् यो यत्संशये ऽपि प्रवर्तते स तस्य भावपक्षम् अभ्युपेत्यैव प्रवर्त्तते | तथा च यथा बाधानुपलब्धौ ताम् अभ्युपगम्य हेतुः प्रयुज्यते तथा तदुपलब्धाव् अपि प्रयुज्यताम्, बाधायाः सद्भावाभ्युपगमे सति तदुपलम्भानुपलम्भयोर् विशेषाभावाद् इति नानुपलभ्यमानबाधत्वम् अपि [S. १९९ब्.] हेतुलक्षणं युज्यत इति कुतो बाधकप्रत्ययविरहे ऽप्य् असति प्रतिबन्धे प्रामाण्यस्य सम्भव इति | परस्य वचनावकाशम् आशङ्ख्याह -- न बाधायाम् इत्यादि | नैव हि बाधायां सत्यां हेतोः सामर्थ्यम् इष्यते तत् कथं तदुपलम्भे ऽपि प्रयोगः स्यात्? | सिद्धान्तवाद्य् आह -- यद्य् एवं बाधायां सत्यां हेतुर् असमर्थो यदीष्यते तदा ऽनिर्णीतो अधाया असंभवो यस्य हेतोः स तथाविधः प्रयोगंबाधा ऽनुपलम्भमात्रेण नार्हति | किं कारणम्? | मा भूद् बाधायाः सम्भस्वपक्षे प्रयुक्तस्यापि हेतोः साध्यसिद्धौ १असामर्थ्यम् इति[७३३]| [T. ३६०अ.] पूर्वपक्षवाद्य् आह -- बाधानुपलम्भे सति बाधाया आभावात्[७३४]सदुपलम्भकप्रत्ययाभावे[७३५]सत्य् अवश्यम् अर्थानाम् असत्त्वाद् धेतोः सामथ्यम् इति चेन् मन्यसे सिद्धान्तवाद्य् आह -- किम् उपलम्भो बाधाम् इत्यादि | उपलम्भो ह्य् अर्थानां कार्यं, न च कार्यं कारणं व्याप्नोति | न ह्य् ऽवश्यं कारणानि कार्यवन्ति भवन्ति, प्रतिबन्धवैकल्यसम्भवात्[७३६]| तत् कथम् अव्यापकस्योपलम्भस्य निवृत्तौ बाधाया निवृत्तिः?, यतो हेतोर् ब्बाधायाः सम्भवकृतम् असामर्थ्यं न सम्भवेद् इति | एतच् च परैर् अपीष्यत एव; [S. २००अ.] प्रमाणतयोपगतस्याप्य् उदयकाले ऽनुपलब्धबाधस्य {प्. २११.१} कालान्तरेण बाधकप्रत्ययोत्पादे सत्य् अप्रामाण्योपगमात् | अथाव्यापकस्याप्य् उपलम्भस्य इवृत्तौ बाधा निवर्त्तते -- निवर्त्तते हि मिथ्यात्वंदोशाजानादयत्नतः|| [Śल्V Sऊ २.५२] इति अनेनैव न्यायेन ज्ञाननिवृत्त्या बाधानिवृत्तेर् इत्य् आह -- तथापि व्यर्थो हेतुः | कुतः? | बाधानुपलम्भाद् एव हेतुपयोगरहितात् साध्यसिद्धेः | किं कारणम्? | अनुपलम्भे बाधाया असम्भवात् | तथा हि -- यत्र बाधाया अनुपलम्भस् तत्र परमार्थत एव सा न विद्यत इति मन्यसे | यत्र चासौ परमार्थतो नास्ति, तत्र साध्यधर्मस्याभावो ऽपि परमार्थेनैव [T. ३६०ब्.] नास्ति, अन्यथा परमार्थेन बाधाया अभावायोगात्. ततश् च साध्यधर्मस्याभावाभावे सति भाव इति भवन्मत्य साध्यप्रतीतेर् व्यर्थता हेतोर् इति. अथ मा भूद् युक्तिविरोध इति नोपलम्भनिवृत्तौ बाधानिवृत्तिर् इष्यते, तत्राह -- उपलम्भस्य निवृत्ताव् अपि सत्यां बाधाया अनिवृत्ताव् इष्यमाणायां तदवस्थं हेतोर् असामर्थ्यम् यदवस्थं बाधोपलम्भ इति हेतोर् अप्रयोग इति कस्याबाधितविषयत्वं [S. २००ब्.] रूपान्तरं स्यात्? | एतद् एवोपसंहरन्न् आह -- तस्मात् स्वसाध्य इत्यादि. यत एवं व्याप्त्य हेतोः सर्वत्र साध्येनाविनाभावाभ्युपगमे बहिर्व्याप्तविषयमाणायां वैयर्थ्यं हेतुप्रयोगस्यापद्यते तस्मात् स्वसाध्यभावाभावाभ्यांअन्यथाऽपि स्वसाध्यभावे ऽप्य् अभवन् न ऽभावे ऽपि च भवन् हेतुर् धर्मिणि किञ्चित् साध्यं न भावयति न साधयति न विभावयति तद्विपरीतं न निषेधयति इति तस्य विधिप्रतिषेधावकुर्वत उपक्षेपः प्रयोगो न समर्थः इत्य् अवश्यं हेतुप्रयोगम् इच्छता स्वसाध्याविनाभावः सर्वत्र हेतोर् अभ्युपगन्तव्यः | स च प्रतिबन्धनिबन्धनः | एष च दर्शनादर्शनमात्रायत्तो यथोक्तं प्रक् | तस्मिंश् चाभ्युपगते बाधाविनाभावयोर् विरोधः [T. ३६१अ.] सिद्ध इत्य् उपसंहरन्न् आह -- तन् न इत्यादि | यत एवं तेन कारणेनाबाधा रूपान्तरं न भवति | यदि नाम बाधाविनाभावयोः सहावस्थानाभावाद् अविनाभावे {प्. २१२.१} सत्य् अबाधा गम्यते रूपान्तरं तु किम् इति न भवति? इति, अत आह -- तन् नाम इत्यादि | तद् धि तस्माद् विशेषणान्तरं भवेद् वस्तुस्थितया | [S. २०१अ.] लक्षणकारैश् च रूपान्तरत्वेनोपादानम् अर्हति यस्य विशेषणस्य भवे ऽपि यस्यापरस्याभावः स्यात् | यतः स्वभावे व्यभिचारे च विशेषणविशेश्यभावो न सम्भव एव केवले | उदाहरणम् आह -- तद् यथा इत्यादि | सत्य् अपि हि श्रावणत्वादेः सपक्षे भावो नास्ति | सत्य् अपि च चाक्शुषत्वादेः सपक्षे भावे साध्यधर्मिणि शब्दे सम्बन्धो नास्ति | ततो ऽन्योः सम्बवव्यभिचारयोर् भावाद् विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम्[७३७]| इहा ऽप्य् एवं भविष्यतीति चेद् आह -- न चैतद् अनन्तरोदितम् अबाधाया अविनाभावे सति सम्भवति | सत्य् अविनाभावे नियमेनाबाधायाः सम्भवाद् व्यभिचाराभावात् कुतो विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम्[७३८]अर्हति? इति न हेतोः साध्याविनाभाविनो विरुद्धस्य च साध्यविपर्ययाविनाभाविनो विषये बाधा सम्भवति | उक्तेन प्रकारेण विपर्यये सम्यग्घेतुर् एवाविषये तु प्रयोगाद् धेत्वाभास उच्यते | यत एवम् इति तस्मान् न तदभावो बाधाविरहः [T. ३६१ब्.] पृथगविनाभावाद् अन्वयव्यतिरेकात्मनो ऽनयोर् हेतुविरुद्धयोर् लक्षणान्तरत्वेन वाच्यः, [S. २०१ब्.] व्यभिचाराभावेन रूपान्तरत्वायोगात् | यतश् चाविनाभावे सति बाधा न सम्भवति विरोधात्, तस्माद् धेतोर् यथोक्तलक्षणस्य प्रयोगे सति गम्यार्थाया अपि प्रतिज्ञाया दोषाणां प्रत्यक्षविरुद्धादीनां सम्भवो नास्ति, हेतुलक्षणेनैव तेषां निरस्तत्वात् | तत् कथं बाधाविरहो हेतो रूपान्तरम् उच्यते? असम्भविनां च तेषां उपवर्णनं निष्फलम् ३इत्य् आकूतम्[७३९]| केवलायाः प्रयोगे ऽस्ति सम्भव इति चेत्, आह -- नापि इत्यादि | हेतुप्रयोगे ह्य् असति केवला प्रतिज्ञैव न प्रयुज्यते, हेतुविषयत्वेन तदभ्युपगमात् | ततश् चशास्त्रकारैर् न प्रतिज्ञादोषाः प्रत्यक्षविरुद्धादयो वाच्या इति |दिङ्नागपादैस् तु {प्. २१३.१} साध्यासाध्यविपर्ययेण[७४०]विप्रतिपत्तिदर्शनाद् अप्रयोगार्हस्यापि पक्षस्य लक्षणविधाने न्यायप्राप्तम् एवापक्षत्व न नि(-त्वं नि)राकृतपदेन प्रमाणविरुद्धस्याख्यानम्, न त्व् अतिप्रसक्तं पक्षलक्षणम् व्यवच्छिन्नम्, सन्दिग्धस्यैव साध्यत्वात्, प्रमाणबाधिते साधकप्रमाणावृत्तेर् इति | तद् एवम् अबाधितविषयत्वं निराकृत्य रूपान्तरं निराकुर्वन्न् आह -- एतेन अविनाभावे सति बाधाया [T. ३६२अ.] असम्भवदर्शनेन एकसंख्याविवक्षाऽपि विरुद्धाव्यभिचारिदोषविपक्षेणोच्यमाना प्रत्युक्ता प्रत्याख्याता | परःपृच्छति -- कथम् इति केन प्रकारेण -- यथा बाधाविनाभावयोः सहानवस्थानं तथा प्रतिहेत्वविनाभावयोर् अपि?, येनैकसंख्याविवक्षा तद्वद् एव प्रत्याख्यायेत इति | सिद्धान्तवादी साम्यं दर्शयन्न्[७४१]आह -- एक इत्यादि | एको हि हेतुर् लक्षणयुक्तः | स्वसाध्याव्यभिचारी कथं भवति? | यदि स्वसाध्यभाव एव भवेत्, अन्यथा तल्लक्षणम् अविनाभावो नाम हीयेत | अत्रैव धर्मिणि स तल्लक्षण एको भवति तत्रैव धर्मिणि तस्माद् अन्यो ऽपि प्रतिहेतुर् विरुद्धस्तेन हेतुलक्षणयुक्तः कथं भवति? | एकस्य ३हेतोर् यत् साध्यं[७४२]तद्बाधकस्य तद्विरुद्धस्यापरस्य धर्मस्य भाव एव नाभावे भावाद् अविनाभावाद् इति बाधया समानं बाधासम्भवेन समानः प्रतिहेतुर् इति [S. २०२ब्.] निरस्त इति | अत्रैव दूषणान्तरम् अभिधातुं विकल्पयन्न् आह -- अपि च इत्यादि | `वस्तुतः` परमार्थतो यस्य प्रतिहेतुर् न सम्भवति -- किम् असौ सम्यग्ज्ञानस्य विपर्ययस्य वोपन्यस्तसाध्यविपरीतज्ञानस्य वा हेतुर् इष्टो [T. ३६२ब्.] यतो विवक्षितैकसंख्यत्वं तल्लक्षणम् उच्यते, आहोस्विद् यस्य प्रतिहेतुस् तत्साध्यविपरीतसाधको न प्रदर्शितः परमार्थतः सन्न् अपीति | परो दोषम् अपश्यन्न् आह -- किञ्चतः इत्यादि | यदि नाम पूर्वो विकल्प उत्तरो वा ततः को दोषः? इति[७४३]| {प्. २१४.१} सिद्धान्तवाद्य् आह -- यद्य् असम्भवन् प्रतिहेतुर् यस्य स सम्यग्ज्ञानादिहेतुर् इष्यते, तदा ऽलक्षणम् एतद् विवक्षितैकसंख्यत्वम् | कस्मात्? अशक्यो निश्चयो यस्य वस्तुतो ऽसम्भवत् प्रतिहेतुत्वस्य स तथोक्तः | परमतापेक्षया चैतद् उच्यते | परो हि दर्शनादर्शनाभ्याम् असत्य् अपि प्रतिबन्धे ऽविनाभावम् इच्छति | परो हि दर्शनादर्शनाभ्याम् असत्य् अपि प्रतिबन्धे ऽविनाभावम् इच्छति | ततस् तस्य प्रतिहेतोर् एवंविधस्य सम्भवो ऽस्ति | स चानुपलभ्यमानो ऽपि कदाचित् स्याद् इति वस्तुतस् तदभावो निश्चीयते | प्रतिबन्धनिबन्धनाविनाभाववादिनां त्व् अस्माकं [S. २०३अ.] प्रतिहेत्वसम्भवः सुनिश्चित एव | न हि तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे प्रमाणतः सिद्धे तन्निमित्ताविनाभावितया एकेन हेतुन स्वसाध्ये साधिते पुनस् तत्रैव धर्मिणि तल्लक्षणस्य [T. ३६३अ.] तद्विरुद्धार्थसाधकस्य प्रतिहेतोः सम्भवः शङ्ख्यते, भावानां विरुद्धस्वभावद्वयायोगाद्, विरुद्धधर्मसाधकसम्भवे च तस्यैव स्वसाध्याविनाभाविनः प्रथमस्य तत्र प्रमाणतो भावसिद्ध्ययोगाद् इति | स्यान् मतम् -- यदि नाम प्रस्तुतः प्रतिहेत्वसम्भवो ऽस्माभिर् निश्चेतुम् अशक्यस् तथाप्य् असम्भवत् प्रतिहेतुत्वं विवक्षित्तैकसंख्यत्वप्रतिपादितं हेतुलक्षणं कस्मान् न भवति? इत्य् आह -- न ह्य् अनिश्चितात्मनः इत्यादि | प्रतिपादको यो धर्मो हेतोस् तस्यानिश्चितस्वभावस्य यस्मात् तल्लक्षणत्वं प्रतिपादकधर्मता न भवति | यथा संदिग्धस्य पक्षधर्मत्वस्येति पूर्वकस्य साधनम् | नापि सन्दिग्धं लक्षणं यस्य स हेतुर् भवतीति न कश्चिद्धेतुर् भवेद् इति हेत्वभावो [S. २०३ब्.] वा इत्य् अस्य समर्थनम् | ततश् च हेत्वाभासास् ततो ऽपि इत्य् अत्रापि योजितम् इति | स्यान् मतम् -- यस्य प्रतियोगी दृश्यते तस्यैव प्रतिहेतुभावात् अहेतुत्वं भवतु, यस्य तु प्रतियोगी हेतुर् न दृश्यते स वस्तुत एवासम्भवत् प्रतिहेतुः | न हि तत्र वस्तुतः प्रतिहेतुसम्भवः शङ्क्यते, बाधकप्रत्ययम् अन्तरेण बाधाशङ्काया अयोगात् | तद् उक्तम् -- बाधाज्ञाने त्व् अनुत्पन्ने नाशङ्कानिष्प्रमाणिका इति | {प्. २१५.१} अत आह -- तुल्ये लक्षणे हि इत्यादि | शङ्यमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन् दृष्टः प्रतियोगिनः [T. ३६३ब्.] प्रतिहेतोर् ब्बाधकस्य सम्भव स येशाम् अपि तत्तुल्यलक्षणानां प्रतियोगी न दृश्यते तेष्व् अपि शङ्कां प्रतिहेतुसम्भवविषयाम् उत्पादयति | किं कारणम्? | अदृष्टप्रतियोगिनो दृष्टप्रतियोगिनो विशेषाभावात् | न हि तस्येतरेण कश्चिद्विशेषो ऽस्ति, यतस् तत्सम्भवो न शङ्क्येत | पुरुषशक्तिवैकल्यादिना तु तददर्शनं[७४४]सम्भाव्येतेति किम् उच्यते `नाशङ्का निःप्र(ष्प्र)माणिका` इति | अथ विशेषः प्रतिबन्धलक्षणो ऽविनाभावनिश्चायको दृष्टप्रतिहेतोर् अदृष्टप्रतियोगिन इष्यते यतः प्रतियोगिसम्भवाशङ्का ऽस्तम् उपैति | [S. २०४अ.] तदा सति वा विशेषे स विशेषो हेतोर् लक्षणम् | किं कारणम्? | यतस् ततो विशेषाद् धेतुर् एकान्तेन निश्चयेन निरस्तप्रतिपक्षस् तथाविधे धर्मिणि प्रतिहेत्वसम्भवात् स्वसाध्यं निश्चाययतीति | यस् तथाविधो न भवति तद्विशेषविरहात् दृष्टप्रतिहेतुः सो ऽतल्लक्षणो न हेतुः स्यात् | तथा च यदि नामा ऽहेतौ प्रतिहेतुर् दृष्टो, हेतोः किम् आयातम्, येन तन्निवृत्तये तत्रैकसंख्याविवक्शा क्रियते, यथोक्ताविनाभाववचनेनैव तन्निवृत्तेर् इत्य् आह -- तथाच हेतौ तद्विशेषयोगिनि प्रतिहेत्वसम्भवे सति व्यर्था निष्प्रयोजनम् एकसंख्याविवक्षेति | [T. ३६४अ.] यथोक्तविशेषाङ्गीकरणे तल्लक्षणस्य प्रतिहेतोर् असम्भवात् कस्यैकसंख्याविवक्षया व्यवच्छेदः क्रियते? यतो ऽस्य कार्यकत्वं स्याद् इति | विरुद्धाव्यभिचारिणश् च हेत्वाभासस्य व्यवच्छेदार्थम् एकसंख्याविवक्षा हेतुलक्षणे क्रियते | वस्तुतो ऽसम्भवत् प्रतिहेतुत्वसिद्ध्ये च प्रतिबन्धलक्षणे विशेषे हेताव् इष्यमाणे विरुद्धाव्यभिचार्य् अपि हेत्वाभासो न [S. २०४ब्.] भवति | ततो व्यवच्छेद्याभावात् किम् एकसंख्याविवक्षया? इति दर्शयन्न् आह -- अतः प्रतिबन्धलक्षणविशेषोपगमात् विरुद्धाव्यभिचारिणो हेत्वाभासस्य यल्लक्षणंतद् धीयेत न सम्भवेत् | किं पुनस् तद्विरुद्धाव्यभिचारिणो लक्षणम्? इत्य् आह -- स्वलक्षण इत्यादि | हेतोर् यदात्मीयं लक्षणं तद्युक्तयोर् हेत्वोर् {प्. २१६.१}एकत्र धर्मिणि विरोधेन परस्परविरुद्धसाध्यसाधकत्वेनोपनिपाते सति विरुद्धाव्यभिचारीति विरुद्धाव्यभिचारिणो लक्षणम् | न च तत् प्रतिबन्धाङ्गीकरणे सति सम्भवति | न हि तादात्म्यतदुत्पत्तिभ्यां स्वसाध्यप्रतिबन्धवत्य् एकत्र हेतौ क्वचिद्धर्मिणि संभवति द्वितीयस् तल्लक्षणस् तत्रैव हेतुः सम्भवेत्, [T. ३६४ब्.] भावानां विरुद्धस्वभावद्वयासम्भवात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् | तदव्यभिचारिणो हेतोर् द्वितीयस्य तत्र कुतः सम्भवावकाश इति | ननु यदि तथाविधविशेषसम्भवे [S. २०५अ.] सति विरुद्धाव्यभिचारिलक्षणं हीयते, एकसंख्याविवक्षा वा व्यार्था, तथापि नैव हेत्वभावप्रसङ्गः, तत् किम् उक्तं हेत्वभावो वेत्य् अत आह -- न च नैव तस्य विशेषस्य प्रतिबन्धलक्षणस्य, यतो वस्तुतो ऽसम्भवत् प्रतिहेतुत्वं निश्चीयते | स्वरूपं तादात्म्यतदुत्पत्तिलक्षणं निर्द्देश्यते भवद्भिः यथा ऽस्माभिर् निर्दिष्टं य्द्रूपं प्रतीत्य प्रतिपद्य प्रतियोगिनः सम्भवासम्भवाउ उत्पश्यामः | यत्र स विशेषो नास्ति तत्र प्रतियोगिनः सम्भवः कल्पित आगमाश्रये ऽनुमाने | यत्र त्व् अस्ति स विशेषो वस्तुबलप्रवृत्ते ऽनुमाने तत्र प्रतियोगिनो ऽसम्भव इति यत एवं तस्मान् नास्त्य् एव भवतां स विशेषः -- भवद्भिर् न ज्ञायत एव स विशेष १इति -- तस्मात्[७४५]सर्वत्र यत्रापि प्रतियोगी न दृश्यते तत्रापि षाङ्क्या प्रतियोगिविषयया भवितव्यम् | ताम् एव शङ्खां द्रढ्यन्न् आह -- दृष्टप्रतिहेतोर् अपि इत्यादि | यस्यापि [S. २०५ब्.] हि प्रतिहेतुर् दृष्टस् तस्यापि प्राक् प्रतियोगिदर्शनाद् इतरेण सर्वकालम् अदृष्टप्रतियोगिना कश्चिद् विशेषो लक्ष्यते [T. ३६५अ.] यद्दर्शनाज् ज्ञायेत `अत्र प्रतियोगी सम्भवति न्यान्यत्र` इति दर्शनादर्शनमात्रनिबन्धनयोर् अन्वयव्यतिरेकयोः सर्वत्र समानत्वात् | तथापि पश्चात् तत्र प्रतियोगी दृष्ट इति सर्वत्र तत्तुल्यलक्षणे प्रतियोगिसद्भावशङ्का न विवर्त्तत इति | स्यान् मतम् -- येषु प्रतियोगी सम्भवति तेष्वश्यम् एव कदाचिद् असाव् उपलभ्यते | येषु तु पुरुषायुषेणापि नोपलभ्यते त्र्ष्व् असौ {प्. २१७.१} नास्त्य् एव | ततः स तथाविधो हेतुर् भविष्यति, तत् कथं हेत्वभावो ऽस्माकम्? इत्य् अत आह -- न च इत्यादि | येषाम् अपि हि प्रतिहेतुः सम्भवति तेषाम् अपि नैव सर्वदा तस्य प्रतिहेतोर् उपलब्धिः प्रतिपत्तृऋणाम् | न ह्य् असर्वदर्शिनाम् उपलब्धिः सर्वभावसत्तां व्याप्नोति, प्रतिबन्धवैकल्यसद्भावात् | ननु च यत्र सर्वदैव प्रतिपत्रा(त्त्रा) प्रतियोगी न दृश्यते तत्र तदाशङ्का [S. २०६अ.] कथं क्रियते? | तथा चाह -- बाध(धा)ज्ञाने त्व् अनुत्पन्ने नाशङ्कानिष्प्रमाणिका इति | तथा ऽपरम् -- शिष्यपरम्परयाकुमारिलोत्पादात् प्राग्दृष्टप्रतियोगिषूपन्यस्तेषु, तेनैव प्रज्ञातिशयशाक्तिना प्रतिहेतव उत्प्रेक्षिताः ततस् तद्दर्शनात् यावज् जीवं अदृष्टप्रतिहेतुष्व् अपि तदाशङ्का निवर्त्तते |ततः कथम् आशङ्का निष्प्रमाणिकोच्यते? | तुल्यलक्षणे हि इत्यादिकम् अपि प्रतियोगिसम्भवाशङ्काकारणम् उक्तम् एव | न च प्रतियोगिसम्भवम् आशङ्कमानस् तन्निमित्तसंभवात् `उत्प्रेक्षेत हि` इत्याद्याक्रोशमात्रेअ निवर्त्तयितुं शक्यते | तेनास्य[७४७]प्रतियोग्याशङ्कापनोदक्षं किञ्चित् कारणम् अभिधानीयम् यथा ऽस्माभिर् अभिहितं `स्वभावहेतोर् विपर्यये बाधकप्रमाणवशाद् आत्म्यनिश्चये सत्य् अन्वयव्यतिरेकयोस् तत्र निर्णय; [S. २०६ब्.] कार्यहेतौ च यथोक्तप्रत्यक्षानुपलम्भतः कार्यकारणसिद्धेस् तन्निश्चय` इति | यत एवं सर्वत्र प्रतियोग्याशङ्का न निवर्त्तते भवद् दर्शने तेन कारणानिश्चयः प्रतियोगिनः सम्भवयोः `इह प्रतियोगी सम्भवति इह तु न सम्भवति` इत्य् एवंरूप ४इति -- तस्माद्[७४८]वस्तुतो ऽसम्भवत् प्रतिहेतुत्वं {प्. २१८.१} यल्लक्षणम् हेतोः [T. ३६६अ.] तस्यानिश्चितत्वाद् एकसंख्याविवक्शाव् आदिनां न कश्चिद्धेतुः स्यात् | न ह्य् अनिश्चितलक्षणो हेतुर् भवतीत्य् उपसंहार इति | तद् एवं `किं यो वस्तुतो ऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानविपर्ययहेतुर् इष्टः` इति अमुं विकल्पं निराकृत्य द्वितीयं विकल्पं निराचिकीर्षुर् आह -- अथाप्रदर्शितप्रतिहेतुः सम्यग्ज्ञानविविपर्ययहेतुर् इष्ट इति सम्बन्धः | अयं च पक्षः किलदिङ्नागाचार्यस्याप्य् अभिमत इति पर उपदर्शयन्न् आह -- यथाह दिङ्नागाचार्यः | किम् आह? यदातर्हि इत्यादि | श्रावणत्वस्य हि न कथञ्चिद्व्यवच्छेदहेतुत्वम् इति दिङ्नागाचार्येणोक्ते परेणाभिहितम् -- यदातर्हिवैयाकारणःशब्दत्वंसामान्यविशेषंनित्यम् अभ्युपगच्छति तदाऽयंश्रावणत्वलक्षणःपक्षधर्मःहेतुर् एव स्यात् | नित्यःशब्दःश्रावणत्वात्शब्दत्ववत् इत्य् एवं परेणोक्ते सत्याचार्येणोक्तम् -- यद्य् अत्रशब्दाख्ये धर्मिण्य् अनित्यत्वहेतुंकृतकत्वप्रयत्नानन्तरीयकत्वादिलक्षणं कश्चिद्वैशेषिकादिर् न दर्शयेत्[७४९] तदाऽयम् प्रदर्शितप्रतिहेतुर् हेतुर् एव भवेत् इति | तद् एवमाचार्यापदैः[७५०]साक्षित्वे दत्ते मुजम् उत्क्षिप्य शास्त्रकारः पूत्कुर्वन्न्[७५१]आह -- ४इदम् इदानीम्[७५२]इत्यादि | ५यदा ह्याचार्यस्याप्य्[७५३]एतद् अभिमतम् इति [T. ३६६ब्.] कैश्चिद्व्याख्यायते तदिदं[७५४]सुमहद्व्यसनम् आयतम् -- गुरुभिर् अभिहितत्वाद् अप्रकाश्यम्, न हि गुरूणां दोषः प्रकाशयितुं युक्तः, न्यायम् अनुपालयद्भिः असंवरणीयम् अप्रच्छादनीयम् | तत् किं गुरून्[७५५]दूषयाम उत ८न्यायम् अप्य् उपेक्षामहे[७५६]इत्य् ९उभयम् अप्य् अशक्यम्[७५७]इति कष्टतरंव्यसनंकथम् निर्वोढुंशक्येत? | न कथंचिद् इति | कः पुनर् अत्र दोषो येनेदं कष्टतरम् इत्य् आह -- स तावद् अयं श्रावणत्वलक्षणो हेतुर् वस्तुनि शब्दादीनि १०स्वसाध्यं तत्त्वम्[७५८]नित्यत्वं तत्प्रकृतीनि तदात्मकानि कृत्वा [S. २०७ब्.] तच्छ्रावणत्वं प्रमाणं येषां पुरुषाणांमीमांसकवैयाकरणदीनां तान् {प्. २१९.१} अभ्युदयेन स्वर्ग्गेण निःश्रेयसेन चापवर्ग्गेण योजयित्वा | तथा हि -- वस्तुतत्त्वं यावन् क्लेशान् न प्रजहाति तावत् स्वर्गमासादयति, क्लेशांस् तु प्रजहन् निर्वाणपरायणो भवति | अथवा शब्दनित्यत्वप्रतीतौ वेदप्रामाण्यात् तद्वहिताग्निहोत्रानुष्ठानात्[७५९]स्वर्ग्गो वेदान्तनिषेवणाद् अपवर्ग्गः | पुनर् उत्तरकालं प्रतिभावता[७६०] प्रज्ञाजातीयेनवैशेषिकादिना पुरुषेण हेत्वन्तरस्य[७६१] [T. ३६७अ.] प्रतिहेतोः निदर्शनेन यद् अस्य नित्यत्वसाधनसामर्थ्य प्रतिहेत्वनुपदर्शने[७६२]सत्यासीत् १५तत् तदुपदर्शनेन[७६३]उत्कीलितम् अपनीतम् इति | तानि वस्तूनि नित्यत्वसम्पदः प्रच्याव्य, तांश् च तत्प्रमाणकान्[७६४]पुरुषान् स्वर्ग्गापवर्ग्गसम्पदः प्रच्याव्य श्रावणत्वलक्षणो हेतुः शक्तिवैकल्यात् परित्रातुम् अशक्तो भ्रष्टराज्य इव राजा तपोवनं गच्छति स्वैर् एव दुश्चरितैर्[७६५]इति किम् अत्र वयं ब्रूमः? | तद् एवम् उपहस्यैतस्मिन् पक्षे [S. २०८अ.] दोषम् उपदर्शयन्न् आह -- पुरुषप्रतिभा इत्यादि | यदा ह्य् अप्रदर्शितप्रतिहेतुर् हेतुर् इष्यते तदा पुरुषप्रतिभाकृतं साधनत्वम् अभ्युपगतं भवति | ततश् च वस्तुतो न किञ्चित् साधनम् असाधनं वा प्राप्तम् | तथा हि -- यदा प्रतिहेतुर् नोपदर्श्यते तदा साधनम्, यदा तूपदर्श्यते तदा न साधनम् इति पुरुषप्रतिभाकृतं साधनत्वम् आयातम् इति | अपि च -- अप्रदर्शितप्रतिहेतोर् हेतोर् हेतुत्वे ऽङ्गीक्रियमाणे विकल्पद्वयम् -- किं परमार्थतो हेतुस् तद्धर्मभावी, उता ऽतद्धर्मभावीति? | तत्राद्यं विकल्पम् अधिकृत्याह -- स च हेतुर् यो ऽसौ प्रथमं उपादीयते | स यदि स्वभावतः एव तस्मिन् साध्यधर्मे सत्येव भवति इत्य् एवंशीलो ऽस्मद् उपवर्णितप्रतिबन्धोपगमात् [T. ३६७ब्.] यदीष्यते तदाकथम् अन्यथाक्रियेत हेत्वन्तरेणातद्धर्मभावी कथं क्रियते? | न कथञ्चित् | किं कारणम्? | वस्तूनां [S. २०८ब्.] हेतुलक्षणानां यः स्वभावः -- `सत्य् एव साध्यधर्मे भवनात्मकः` -- तदन्यथाभावस्य तद्विपर्ययस्य अभावाद् उभयोश् च स्वसाध्यधर्माविनाभावित्वे {प्. २२०.१} स्वभावत एव धर्मिण्य् एकत्र तयोर् भावे विरुद्दाव् उभौ स्वभावाव् एकस्य स्याताम् | न चैकस्य विरुद्धौ स्वभावौ सम्भवतः, विरुद्धधर्माध्यासेन तस्यैकत्वहानिप्रसङ्गात् | अथ द्वितीयो विकल्पस् तदा अतद्धर्मभावीच असत्य् अपि साध्यधर्मे भवनशीलः प्रतिबन्धानभ्युपगमात् कथम् अन्यदाऽपि अप्रदर्शितप्रतिहेत्ववस्थायाम् अपि साधनंकस्यचित्? | नैव तदापि साधनम्, न केवलं प्रदर्शितप्रतिहेत्ववस्थायाम् इति | उपसंहरन्न् आह -- तस्मात् सवभावतः इत्यादि | यत एवं भावानां स्वभावो ऽन्यथा कर्तुं न शक्यते, विरुद्धोभयस्वभावश् चैको न सम्भवति तस्मात् परमार्थतः स्वेन स्वेन [S. २०९.१अ.] साध्येनाविनाभाविनोर् यथोक्तलक्षणयोः [T. ३६८अ.] कार्यस्वभावहेत्वोः तल्लक्षणस्य कार्यस्वभावलक्षणस्य प्रतिहेतोर् असम्भवाद् अलक्षणम् एकसंख्याविवक्षा विवक्षितैकसंख्यत्वं लक्षणम् न भवति | किं कारणम्? इत्य् आह -- व्यवच्छेद्याभावाद् इति | प्रतिहेतुर् हि विवक्षितैकसंख्यत्वस्य व्यवच्छेद्यो वर्ण्यते | स च प्रतिहेतुः स्वलक्षणयुक्तयोः कार्यस्वभावयोर् न भवत्य् एवेति कथं तद्धेतुलक्षणं स्याद् इति | तद् एवम् अनयोर् द्वयो रूपयोर् यः सम्भवो यथोक्ताविनाभावा ऽसम्भवे सतीति रूपान्तरोपगमे ऽपि हेत्वाभासतैवेति हेत्वाभासास् ततो ऽपर इति इत्य् अस्यार्थो विवृत इति | ज्ञातत्वनिराकरणायाह -- ज्ञानंपुनः इत्यादि | अबाधितविषयत्वं विवक्षितैकसंख्यत्वं च कार्यस्वभावहेत्वोर् एवाविनाभावे सति बाधाप्रतिहेत्वोर् असम्भवात् व्यवच्छेद्याभावत्वेन सत्य् अपि लिङ्गधर्मत्वे तल्लक्षणं न भवतीत्य् उक्तम् | ज्ञानं तु ज्ञातत्वम्, तस्यैव [S. २०९.१ब्.] भावप्रत्ययेनाभिधानात् | तथा हि -- ज्ञानशब्दप्रवृत्तिनिमित्तं ज्ञातत्वम् उच्यते, तच् च ज्ञानम् एव, तदुत्पादे सति ज्ञात इति व्यवहारात् | न च तत् लिङ्गस्यात्मरूपम् इति [T. ३६८ब्.] कथं लिङ्गलक्षणं भविष्यति? | यद्य् अपि विकल्पप्रतिभासी सामन्याकारो लिङ्गतया ऽवस्थाप्यते तथापि न ज्ञानस्य लिङ्गधर्मता | न ह्य् असौ स्वतन्त्र एव लिङ्गम् | यद् आह -- विकल्पभेदान {प्. २२१.१} स्वतन्त्राणाम् अन्वर्थाश्रयणात् तत्कल्पितविषयाद[७६६]ऽर्थप्रतिपत्ताव्[७६७] अनर्थप्रतिलम्भ एव स्यात् इति | तमाद् बाह्यवस्तूपादानस्यैवास्य लिङ्गता ऽवस्थाप्यते | साध्यसाधनसंकल्पे वस्तुदर्शनहानेः[७६८]स्वलक्षणस्य क्वचिदनन्वयाच् च तद्धर्मताम् एव त्व् अनुस्मरन्तो विकल्पा नानैकव्यतिरेकान्[७६९]संदर्शयन्तो वस्तुनि परम्परया प्रतिबन्धाद् अविसंवादकाः कार्यादिलिङ्गव्यपदेशनिबन्धनं चेत्य् उक्तप्रायम् | न च तस्य कार्यादेर् आत्मरूपं [S. २०९.२अ.] ज्ञातम् | विकल्पावभासी च सामान्याकारो नैव विकल्पस्यात्मभूतः, तस्य नीरूपस्य वस्तुरूपविरोधात् | तद्रूपस्य च विकल्पप्रतिबिम्बचक्रस्य सामान्यात्मताविरहात् | यस्माद् अबाह्यास्यापि बाह्यतया व्यवसितस्याननुयायिनो ऽप्य् अनुयायितया सामान्यामकत्वं तथात्वे चास्य विकल्परूपतया कुतः? यदा ऽऽह -- ज्ञानाद् अव्यतिरिक्तंच कथम् अर्थान्तरंव्रजेत्? || तस्मान् मिथ्यावभासो ऽयम् अर्थेष्व् एकात्मताग्रहः| [PV ३.७०f.] इति | न ज्ञानस्य लिङ्गधर्मता | एतद् एव साधयन्न् आह -- किंरूपाद् इत्यादि | किम् आत्मकात् हेतोर् अनुमेयो ऽर्थो ज्ञातव्यः इति चिन्तायां प्रकृतायां प्रतिपत्तुः पुंसो यद् अविसंवादकं लिङ्गं तस्य स्वरूपम् अभिधीयते शास्त्रकारैः [T. ३६९अ.] यस्य रूपस्य दर्शनादयं प्रतिपत्ता ôयत्र तद्रूपसम्भवः तत् साधनम् तद्रूपविकलम् असाधनम्ô इति प्रविभागेन व्यवस्थाप्य यत् तत्र साधनत्वेन व्यवस्थापितं तस्येष्टार्थसन्निधानसम्प्रत्ययात् प्रवृत्तिम् अवलम्बते | तथा, एतस्मिंश् च न्याये [S. २०९.२ब्.] व्यवस्थिते यद् अस्य लिङ्गस्यात्मरूपं तल् लक्षणं भवितुम् अर्हति पक्षधर्मादिवत् न तु यत् पररूपम् | स्याद् एतद् -- ज्ञातस्य लिङ्गस्य साधकत्वाद् युक्तैव साध्यसिद्ध्युपयोगिनो ज्ञानस्य लिङ्गलक्षणतेत्य् अत आह -- प्रतिपत्तिजन्मनि इत्यादि | यद्य् अनुमेयप्रतीतिजन्मन्य् उपयुज्यते ज्ञानम् इति तन्मात्रेण लिङ्गस्य लक्षणम् इष्यते तदा ऽतिप्रसङ्गः प्राप्नोति | तम् एवाह -- एवंप्रतिपत्तिजन्मन्य् उपयोगमात्राल् लिङ्गलक्षणत्वे प्रमेयस्य अर्थस्य पुरुषस्य {प्. २२२.१} प्रमातुः अदि शब्दात् संयोगसमवायादीनाम् आलोकमनस्कारादीनां लिङ्गलक्षणत्वं भवेत् | अत्र कारणम् आह -- न हि तेष्व् अपि प्रमेयादिषु असत्सु लिङ्गिनि ज्ञानं भवतीति कृत्वा | अत्र परो ऽनिष्टम् आपादयन्न् आह -- निश्चितग्रहणंतर्हि इत्यादि | यदि पररूपत्वाज् ज्ञानं लिङ्गलक्षणं न भवति तदा च यद् एतदाचार्येण -- अनुमेये ऽर्थ तत्तुल्ये सद्भावो नास्तिताऽसति | निश्चितेति -- निश्चितग्रहणं कृतं भवतश् चाभिमतं [T. ३६९ब्.] तन् न कर्त्तव्यम् | तथा हि -- निश्चयो हि लिङ्गस्य पररूपम् एव | स चेत् तल्लक्षणम्, ज्ञानं किम् इति नेश्यते यतो निश्चयो विज्ञानम् एव तद्विशेषत्वाद् अस्येति | सिद्धान्तवाय् आह -- न न कर्त्तव्यं किन्तु कर्तव्यम् एव तस्य [S. २१०अ.] निश्चितग्रहणस्य लिङ्गरूपप्रतिपादनाद् अन्यार्थत्वात् | ताम् एवान्यार्थतां दर्शयन्न् आह -- सपक्षविपक्षयोः इत्यादि | परे हि सपक्षे दर्शनमात्रेणासपक्षे चादर्शनमात्रतो गमकं हेतुम् इच्छन्ति | तेषां नैव दर्शनमात्रेण साध्यसिद्धौ समर्थो हेतुर् भवतीति ज्ञापनार्थं निश्चितग्रहणं कृतम् | यतः सतोर् विद्यमानयोर् अपि दर्शनादर्शनयोर् अगमकत्वं हेतोर् दृश्यते `स श्यमः, तत्पुत्रत्वात्` इत्यादौ | यत एवं तेन कारणेन सपक्षे भावेन विपक्षे सर्वत्राभावविशिष्टेना ऽसपक्षे च सर्वत्राभावेन सपक्षे तादात्म्यतदुत्पत्तिलक्षणभावविशिष्टेन गमको हेतुर् इत्य् अस्यार्थस्य ज्ञापनार्थं लक्षणवाक्ये निश्चितग्रहणं कृतं बोद्धव्यम् | एतद् उक्तं भवति -- याव् एव सपक्षविपक्षयोः भावाभावौ प्रतिबन्धसाधकप्रमाणवृत्त्या निश्चितौ ताभ्याम् एव हेतुर् गमको भवति, न तु यथाकथञ्चिद्दर्शनमात्रेणेत्य् अस्यार्थस्य [S. २१०ब्.] ज्ञापनाय निश्चितग्रहणं कृतम् इति | प्रकृतम् उपसंहरन्न् आह -- तेन इत्यादि | येन विशिष्टयोर् भावाभावयोर् एव ख्यापनाय निश्चितग्रहणं कृतम्, न रूपान्तराभिधानाय, अनात्मरूपस्य [T. ३७०अ.] च लक्षणता न युज्यते, तेन पररूपं लिङ्गस्य लक्षणं न भवति | यतः तेन ज्ञानादिना पररूपेण लिङ्गस्य न किञ्चिद् रूपविशेषो ऽभिधीयत इति | {प्. २२३.१} ननु च परे ऽपि सपक्षविपक्षयोर् भावाभावाभ्यां गमकं हेतुम् इच्छन्ति, दर्शनादर्शने तु तयोर् एव साधके, तत् किम् अर्थं निश्चितग्रहणम्? इति, अत आह -- तौ हि इत्यादि | यद्य् अपि परे भावाभावाभ्याम् एव गमकं हेतुम् इच्छन्ति तथापि सपक्ष एव भावो ऽसपक्षे चाभाव एवेति भावाभावौ दर्शनादर्शनमात्रतो व्यवस्थापयन्ति | न च ततस् तौ तथाविधाउ सिध्यतः, प्रतिबन्धविकलानाम् अप्य् अथानां क्वचिद् भावाभावयोः कथञ्चिद्दर्शनादर्शनसम्भवात् | तस्माद् [S. २११अ.] यौ `हेतोः सपक्षे एव भावो ऽसपक्षे चाभाव एव` इत्य् एवम् आत्मकौ भावाभावौ तौ तद्भावस्य साधकं यत् प्रमाणण् तादात्म्यतदुत्पत्तिसाधनविषयं तद्वृत्त्या बोद्धव्यौ | कुतः? उपायान्तरस्याभावात् | तदनभ्युपगमे हि हेतोः सपक्ष एव भावः सर्वेशां हेतुमतां भावानां साध्येनानुगमदर्शने सति विपक्षे चाभाव एव साध्यविकलानां सर्वार्थानां हेतुविविक्तानां उपलम्भे सति स्यात् | न चैतद् असर्वदर्शिनः सम्भवतीति | यत उपयान्तरं नास्ति तेन कारणेन तयोर् विशिष्टयोर् भावाभावयोः प्रतिपादनाय निश्चितशब्दः प्रयुक्तो लक्षाणे लक्षणकाएणेति | ननु च भावाभाववचनमात्राद् एव प्रमाणतो निश्चयो लभ्यते अन्यथा तयोर् एव सत्ता न प्रसिध्येद् इति, अत आह -- यद्य् अपि इत्यादि | अनुमेये ऽर्थ तत् तुल्य सद्भावो नास्तिताऽसति | इत्य् अनेनैव सपक्षासपक्षयोः [T. ३७०ब्.] भावाभाववचनमात्रेण निश्चितग्रहणनिरपेक्षेण तयोर् भावाभावयोर् यत् साधनं प्रमाणं तस्य वृत्तिर् यद्य् अप्य् आक्षिप्यते | कथं पुनर् निश्चितग्रहणम् अन्तरेण भावाभाववचनमात्रतस् तद्वृत्तेः आक्षेपः? इत्य् आह -- अन्यथा यदि तत्साधनप्रमाणवृत्तिर् नाक्षिप्येत, [S. २११ब्.] तदा तयोर् एव सपक्षविपक्षयोर् एव भावाभावयोर् या सत्ता स्वरूपव्यवस्था तस्या अप्रसिद्धेः | कस्माद् अप्रसिद्धिः? इत्य् आह -- ज्ञानस्य उपलब्धेर् या सत्ता उत्पत्तिः तन्निबन्धनत्वाज् ज्ञेयस्य भावाभावलक्षणस्य सत्ताव्यवस्थायाः स्वरूपव्यवस्थितेः | न ह्य् उपलम्भम् अन्तरेण स्वत एवार्थाः {प्. २२४.१} सिध्यन्ति, सर्वस्य सर्वसिद्धिप्रसङ्गात् | तस्माद् इदम् एवंरूपं नैवंरूपम् इति तदाकारज्ञानोदयाद् एव व्यवस्थाप्यते | यत एवं तस्मात् सर्वत्र शास्त्रे लोके वा ज्ञेयसत्ताव्यवस्थैव निश्चितग्रहणं विना ऽपि तत्साधनं तत्सत्तासाधनं प्रमाणम् आकर्शति आक्षिपतीति | किञ् च, परार्थत्वाच् च शास्त्रप्रणयनस्य तत्साधनप्रमाणवृत्तिर् आक्षिप्यत इति सम्बन्धः | कीदृशं पुनस् तच्छास्त्रप्रणयनं यत् परार्थरूपतया स्वव्यवस्थापितज्ञेयसत्तासाधनं प्रमाणम् आक्षिपति? इत्य् आह -- त्रिरूपंलिङ्गंवःसंवादकंप्रापकं [T. ३७१अ.] वाञ्चितस्यार्थस्येति | यदि नामैवंरूपं परार्थं शास्त्रप्रणयनं तथापि कथं तत् साधनप्रमाणवृत्तिम् आक्षिपतीत्य् आह -- तद्रूपं तस्य लिङ्गस्य त्रिरूपस्य रूपं स्वभावं शास्त्रोक्तं ये प्रतिपत्तारो न विदन्ति, न तेशां ततस् त्रिरूपाल् लिङ्गाच् छास्त्रोक्ताद् वाञ्चिते ऽर्थे प्रवृत्तिर् भवति, अज्ञातस्यार्थस्य [S. २१२अ.] ज्ञापकस्य स्वसत्तामात्रेण प्रवर्तकत्वाभावात् | यत एवम् इति तस्मात् परोपलक्षणत्वाद् एव परेषां ज्ञापकत्वाद् एव प्रवर्त्तके त्रिरूपलिङ्गे ज्ञानं सिद्धम् इति यद्य् अपि निश्चितग्रहणम् अतिरिच्यते तथापि ताव् एव लिङ्गस्य सपक्षासपक्षयोर् भावाभावौ विशिष्टौ शस्त्रोक्तौ `सपक्ष एव भावो ऽसपक्षे चाभाव एव` इत्य् एवंरूपौ केचिन्नैयायिक प्रभृतयः, परे दर्शनादर्शनमात्रेण -- ये दर्शनादर्शने प्रतिबन्धसाधके न भवतः -- तन्मात्रेण व्यवस्थापयन्ति यत एव[७७०] इति तस्मात् तेषां वादिनां निशेधार्थो ऽयं लक्षणे निश्चितशब्दः प्रयुक्तआचार्येणास्माभिश् चाभ्युपगत इति | यदि तु परविप्रतिपत्तिः न स्यात् तदा नैवासौ प्रयुज्येतेति | किम् इति पुनर् दर्शनादर्शनाभ्यां भावाभावविशयाभ्यां सपक्षा[स]पक्शयोः विशिष्टौ भावाभावाव् अन्वयव्यतिरेकात्मकौ [T. ३७१ब्.] नेष्येत इत्य् आह -- सतोर् अपि इत्यादि सत्य् अपि क्वचित् सपक्षे भावदर्शने हेतोः क्वचिच् चासपक्षे ऽभावदर्शने `स श्यमः, तत्पुत्रत्वात्` इत्यादाव् अन्वयव्यतिरेकयोः संशयात् | तथा हि -- अन्वयो नाम सर्वत्र सत्य् एव साध्ये हेतोर् {प्. २२५.१} भावो व्याप्त्या चासति साध्ये हेतोर् अभावो व्यतिरेकः | न च क्वचित् सति साध्ये [S. २१२ब्.] हेतोर् भावदर्शने ऽपि तन्मात्रेण तथाभावः सर्वत्र भवति, अप्रतिबद्धस्वभावानां सहभावनियमा ऽभावात् | तथा क्वचित् साध्याभिमतस्याभावे सत्य् अभावदर्शने ऽपि हेतोः सर्वत्र तदभावे ऽवश्यम् अभावः, तदनायत् तस्य तन्निवृत्तौ नियमेन निवृत्त्यभावात् | तस्मात् प्रतिबन्धप्रसाधकप्रमाणवृत्त्यैव यथोक्तौ सपक्षासपक्षयोः भावाभावौ सिध्यतः नान्यथेति विप्रतिपत्तिनिरासार्थम् एव निश्चितग्रहणं कृतम् इत्य् उपदर्शयन्न् आह -- तस्मात् इत्यादि | अस्माभिः इत्याचार्यकृते निश्चितग्रहणे ऽन्यत्रास्माकम् अभिमतत्वात् अस्माभिः इत्य् आह | तद् एवं विप्रतिपत्तिनिरासार्थं निश्चितग्रहणम्, असत्यां तु विप्रतिपत्तौ तन् न कर्तव्यम् एवेति प्रतिपाद्य अत एव न्यायात् ज्ञातत्वं रूपान्तरं न भावतीति [T. ३७२अ.] दर्शयन्न् आह -- यतो ऽपि इत्यादि | पृथग् अतः इति पक्षधर्मत्वादेस् त्रैरूप्यात् | कुतः? | तेनैव त्रैरूप्यवचनेनैव तत्साधनप्रमाणाक्षेपतः अवगतत्वात् प्रतिपन्नत्वाद् इति | किंवत्? उपनयार्थवत् पक्षधर्मत्वात् इति | यथा पक्षधर्मत्ववचनेनैव हेतोर् उपनयस्यार्थो ऽवगतस् तस्य धर्मिणि हेतोः सद्भावप्रदर्शनात्मकत्वात्, पक्षधर्मवचनस्य च तद्रूपत्वात् ततः पृथगुपनयो [S. २१३अ.] रूपान्तरं न भवति; तथा त्रैरूप्यात् ज्ञानं, तद्वचनेनैवावगतत्वाद् इति | अत्र परो ऽनिष्टम् आपादयन्न् आह -- अन्वयव्यतिरेकयोर् अपि इत्यादि | यदि त्रैरूप्यवचनेनैव सामर्थ्याज् ज्ञानं लभ्यत इति तत् ततः पृथग् न वक्तव्यम् हन्त तर्हि अन्वयात् पृथग् व्यतिरेको न वक्तव्यः व्यतिरेकाच् च पृथगन्वयः | किं कारणम्? | एकस्यान्वयस्य व्यतिरेकस्य वा प्रयोगाद् उभयस्य गतेः | कृतं च तयोः पृथग्वचनं, तथा ज्ञातत्वस्यापि त्रैरूप्याद् गम्यमानस्यापि पृथग्वचनं कर्त्तव्यम् इति | सिद्धान्तवाद्य् आह -- न, हेतोः इत्यादि | नान्वयव्यतिरेकयोर् न पृथक्त्वं किन्तु भिन्नरूपतैव | तथा हि -- अन्वयो हेतोः {प्. २२६.१} सपक्षे भाव उच्यते, व्यतिरेकः पुनर् अभावो ऽसपक्षे | न च तौ परस्परम् आक्षिपतः [T. ३७२ब्.] परस्परम् अन्तर्भवतो विधिप्रतिषेधरूपयोर् भिन्नस्वभावत्वात् | न च यो यतो भिन्नस्वभावः स तत्रान्तर्भूतो युक्तः | ननु च यद्य् अन्वयव्यतिरेकयोर् भिन्नरूपता कथं तर्हि त्रैरूपं लिङ्गम् उच्यते? | न हि परस्परभिन्नाव् आत्मानाव् एवास्य युज्यते, स्वभावभेदलक्षणत्वाद् वस्तुभेदस्य | नैष दोषः, यतो यथा ऽन्वयव्यतिरेकौ [S. २१३ब्.] व्यवस्थाप्येते न वा नयो(-प्येते तथा तयो)र् अनन्तर्भाव उच्यते नान्यथा | कथं चैतौ ववस्थाप्येते? | व्यावृत्तिकृतं भेदम् उपादाय | तथा चानयोर् भिन्नरूपतैव | व्यावृत्तिभेदे ऽपि च परमार्थतो भेदो नास्तीत्य् एकं लिङ्गं त्रिरूपम् इत्य् उच्यत इति | कथं तर्हि प्रागुक्तम्[७७१]`नानयोर् अर्थः कश्चिद् भेदः, अन्यत्र प्रयोगभेदाद्` इति? अत आह -- एकंवाक्यम् इत्यादि | अन्वयमुखेन व्यतिरेकमुखेण वा प्रयुक्तम् एकं वाक्यम् उभयम् अन्वयं व्यतिरेकं च भिन्नलक्षणम् एव गमयतीत्य् उच्यते ऽस्माभिर् नैको ऽर्थः स्वभावो द्वितीयस्योच्यते, परस्परभिन्नयोर् एवैकवाक्यार्थरूपत्वात् | अत्र पर आह -- नतु(नु) तत्रैव इत्यादि | अयम् अभिप्रायः -- लक्षणवाक्यप्रतिपादिताव् अन्वयव्यतिरेकाव् आश्रित्य परस्परान्तर्भावश्चोद्यते | स च विद्यत[७७२]एव | तथा हि -- `तत्रैव भावः` इत्य् अत्र लक्षणवाक्ये तदर्थतया[७७३]तदभावे ऽभावो गम्यते; `अतदभावे ऽवश्यम् अभावः` इति [T. ३७३अ.] चात्र `तद्भावे भावः` | न ह्य् असति प्रतिबन्ध एकाभावे ऽपरस्याभावः | प्रतिबन्धश् च तादात्म्यतदुत्पत्तिभ्यां तद्भावे भावरूप एव | ततश् चैकेनैव सपक्षासपक्ष्योर् भावाभावप्रतिपादकेन [S. २१४अ.] प्रतिविशिष्टेन लक्षणवाक्येनोभयगतेर् द्वितीयवचनं न कर्त्तव्यम् इति | तथा चैकवाक्यार्थान्तर्भावाद् भिन्नस्वभावता ऽप्य् अनयोर् दुर्ल्लभा | ततश् च यदुक्तम् `अन्वयव्यतिरेकयोर् अपि तर्हि न पृथक्त्वम् इति` तत् तदवस्थम् एवेति | {प्. २२७.१} सिद्धान्तवाद्य् आह -- वचनम् एतद् `तत्रैव भावः` इत्यादिरूपम् उभयमाक्षिपति प्रतिपादयति | कुतः? | सामर्थ्याद् उभयप्रतिपादनशक्तस्य? | नियमस् व्यापकस्य `सपक्ष एव भावो ऽसपक्षे चाभाव एव` इति सावधारणस्य द्वितीयाक्षेपनान्तरीयकत्वात् द्वितीयप्रतिपादननान्तरीयकत्वात् | न च तावतैकवाक्यप्रतिपादनमात्रेणोभयोर् एकस्वभावता भिन्नस्वभावानाम् अप्य् अथानाम् एकवाक्येन प्रतिपादनात् | एकेनैव च लक्षणवाक्येनोभयगताव् अपि यत् पृथअभिधानं तत् प्रयोगनियमार्थम् | साधर्म्यप्रयोगे [T. ३७३ब्.] वैधर्म(र्म्य)वचनं न कर्त्तव्यम्, वैधर्म्यप्रयोगे च साधर्म्यवचनम् इति न पुनर् एकाभिधानेनानवगतस्य रूपान्तरस्य प्रतिपादनार्थम् | न च तथा त्रैरूप्यवचनेन ज्ञाननिबन्धनेन ज्ञेयसत्ताव्यवस्थायाः परोपलक्षणाथेन च शास्त्रप्रणयनेनाश्रितज्ञानस्यैव त्रैरूप्यस्य [S. २१४ब्.] प्रतिपादनाल् लब्धस्य ज्ञानस्य पुनर्वचने न किञ्चित् प्रयोजनम् अस्तीति नास्य पृथग्वचनं युक्तम् इति | स्यान्मतम् -- केवलाव् अपि तर्ह्य् एकवाक्यार्थानन्तर्भूतौ परस्परमऽभिन्नस्वभावौ भविष्यतः तत एवैकवाक्यार्थान्तर्भावाद् इत्य् अत आह -- न पुनःकेवलौ एकवाक्यार्थानपेक्षौ तदन्तर्भावमात्रेण सपक्षासपक्षयोः भावाभावौ परस्परम् आक्षिपतो ऽन्तर्भवतः भिन्नरूपाणाम् अप्य् अर्थानाम् एकवाक्यान्तर्भावदर्शनात् | ननु च नियमवन्ताव् अपि भावाभावौ केवलाव् एव, तयोः परस्पराक्षेपे केवलयोर् अपि तत्प्रसङ्ग इत्य् अत आह -- नियमवन्तौ च सावधारणवाक्यप्रतिपादितौ न केवलौ किन्तु सहिताव् एव | कुतः? | नियमस्य सावधारणस्य वाक्यस्य उभयरूपत्वात् भावाभावप्रतिपादनात्मकत्वात् | तद् एवं सावधरणेन [T. ३७४अ.] वाक्येन नैव केवलो ऽन्वयो व्यतिरेको वा ऽभिधीयते | तदन्तर्भावात् तु द्वितीयगतिः किन्तु परस्परानन्तर्भूताव् एव सहिताव् एकेन वाक्येनाभिधीयेत इति प्रतिपाद्योपसंहरन्न् आह -- तस्मात् तत्रैव [S. २१५अ.] सपक्ष एव भाव {प्. २२८.१} इत्य् अनेन वाक्येन न सपक्षे भाव एवोच्यते | किं तर्हि? | असपक्षे ऽभावो ऽपि, तथा चेतरेणाप्य् असपक्षे ऽभाव एवेति वचनेन नाभाव एव केवल उच्यते किन्तु सपक्षे भावो ऽपि, येन केवलवचनेन भावो ऽभावो वा तदात्मकतया द्वितीयम् आक्षिपेद् यतो ऽनयोः पृथग्वचनं न स्यात् | तस्माद् यदा ऽन्वयव्यतिरेकौ भावाभावाव् अभिप्रेतौ तदा तौ भिन्नरूपाव् एवेति कथं तयोः न पृथक्त्वम्? | अथ नियमवता वाक्येनाभिहितौ तदैकवाक्याद् एवोभयगतेः पृथग्वचनं न कर्त्तव्यम् एव | तत् तु कृतं नाप्रतिपन्नप्रतिपत्तये किन्तु प्रयोगनियमार्थम् इत्य् उक्तम् एतद् इति | स्यान्मतम् -- यथा ऽन्वयव्यतिरेकौ भावाभावलक्षणौ न परस्परात्मकौ ततश् च तयोः परस्परतो रूपान्तरत्वम्, एवं परोपलक्षणशस्त्रप्रतिपादितात् त्रैलक्षण्याद् भिद्यत एव ज्ञानम्, न तत्रान्तर्भूतम्, ततो रूपान्तरं भविष्यतीत्य् अत [T. ३७४ब्.] आह -- नैवम्, यथा ऽन्वयव्यतिरेकौ भावाभावलक्षणौ परस्परम् अनन्तर्भूतौ, न तथा ज्ञानं परोपलक्षणशास्त्रप्रतिपादिते त्रैलक्षण्ये ऽनन्तर्भूतम् | कुतः? | परोपलक्षणात् -- परे उपलक्ष्यन्ते [S. २१५ब्.] उपलक्षण(णं) त्रैरूप्यविषयां प्रतीतिं कार्यन्ते येन शास्त्रेण ततो यत् त्रैलक्षण्यं प्रतीयते आगृहीतज्ञानं तस्माद् अव्यतिरेकाद् आगृहीतज्ञाने त्रैलक्षण्ये ऽन्तर्भावाद् इति यावत्, इति तस्मान् न लक्षणान्तरं त्रैरूप्याद् इति | तद् अयम् अत्र समुदायार्थः -- यदि ज्ञातत्वं ज्ञानशब्दप्रवृत्तिनिमित्तं उक्तेन प्रकारेण ज्ञानम् एवोच्यते तदा तल्लिंगस्यानात्मभूतम् इति न तल्लक्षणम् | अथावि(पि )ज्ञानापेक्षः कर्मभावो ज्ञातत्वम् उच्यते तदा ऽपि ज्ञेयसत्ताव्यवस्थाया ज्ञानसत्तानिबन्धनत्वात् त्रैरूप्यव्यवस्थैव तत्सत्ताव्यवस्थापकं ज्ञानम् आक्षिपति | ततस् तदपेक्षो ऽपि कर्मभावो ऽनुक्तसिद्ध इति न तद्वचनं पृथक्कर्त्तव्यम् | तथा परोपलक्षणार्थशास्त्रप्रतिपादितागृहीतज्ञानात् त्रैलक्षण्याद् अव्यतिरेकाद् इति | तद् एवम् अबाधितविषयत्वादिकं रूपत्रयं निराकृत्य निगमयन्न् आह -- तस्मान् न हेतुःषड्लक्षणः| [T. ३७५अ.] किं तर्हि? | त्रैलक्षण्य एवेति | {प्. २२९.१} इमं क्षताशेषकुतर्कमार्गं, मुनीशराद् धान्तन्नयप्रदीपम् | वितत्य पुण्यं यदुपार्जितं तत्, परां विशुद्धिं जगतो विधेयात् ||
SK
[S. २१६अ.] हेतुबिन्दुटीका[७७४]समाप्ता | .................................................................................................................................................................................................................................................................. मा यतत इमा या तद्रूपा बल (?) त्रिभुवनस्य हिताय शश्वत् | नरस्य सेतोः दो... ...तथागतमतस्य निबोधयित्री
SK
....... ७४ मार्ग(र्ग्ग)सिर वदि ७ रवौ | मंगलं महाश्रीः ||
SK
न गुरोर् उपदेशम् अग्रहीत् बुबुधे वस्तु ततो ... ... धीः | यततो स्म न तस्य वृद्धये न परिस्पन्दितुम् अप्य् अपारयत् || [१ ||] जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य तै ...त् | तद् एव शक्ता ...था परत्र चित्रा हि विश्वप्रकृति...नाः
SK
हे! रोहिणीरमण! सर्वकलानिकेत! तारापते! रजनिनाथ! सुधानिधान! कादम्बरीरसगुणेषु नि... ... व -- मात्मानम् अर्पितशरीरम् अनुस्मरेन्दोः
SK
श्रीब्रह्माणगच्छे पं- अभयकुमारस्य हेतुबिन्दुतर्कः ||
SK
__________NOTES__________
SK
[७२८] -याम् अपि अनुपलम्भात् -- T. [७२९] निष्कास्य यतः -- T. [७३०] हेतोः [७३१] साध्य- [७३२] पुनः तदृशेन हे- -- T. [७३३] असामर्थ्यप्राप्तिर् इति -- T. [७३४] अनुपलम्भात् -- T. [७३५] -प्रत्ययसद्भावे -- T. [७३६] प्रतिबन्धात् वै- -- T. [७३७] नोपादनम् -- T. [७३८] नोपा- -- T. [७३९] इति कुतः -- T. [७४०] साध्यम् अप्य् असाध्यं असाध्यम् अपि साध्यं परे प्राहुः [७४१] -दी सन्दर्श- -- T. [७४२] हेतोर् आत्मनो सा- -- T. [७४३] इति मन्यते -- T. [७४४] तद्दर्शनम् -- T. [७४५] {? -- स्. प्. xxव्, Śउद्धिपत्रकम्: इति | त- : इति -- त} [७४६] Tहिस् वेर्से इस् ओमित्तेद् इन् थे T. [७४७] प्रतिपत्तुः [७४८] {? -- स्. प्. xxव्, Śउद्धिपत्रकम्: इति | त- : इति -- त} [७४९] नि- -- Nअ. T. [७५०] -चार्य पूज्यपादैः -- Pउ. [७५१] पृथक्कुर्वन् -- Nअ. [७५२] इदम् इत्यादि- -- Pउ. [७५३] यदाचार्य- -- Pउ. [७५४] तदैवं -- Pउ. [७५५] गुरूं -- Pउ. [७५६] -यम् उपे- -- Pउ. [७५७] -यम् अश- -- Pउ. [७५८] -ध्यत- -- Nअ. T. [७५९] -त्राद्यनु- -- Nअ. T. [७६०] प्रति-भवता -- T. [७६१] -षेण अकृतकत्वाद् हे- -- T. [७६२] कृतकत्वादि- [७६३] तदु- -- Pउ. T. [७६४] -कात् -- Pउ. [७६५] दुश्चेष्टितैः -- Nअ. [७६६] तैर् विकल्पैः कल्पितो यो ऽसौ विषयो ऽवग्रु(?)रूपो न धूमत्वादिः [७६७] वह्नित्वादि [७६८] वस्तुदर्शनाप्रवृत्ता (?) [७६९] नानाभूतानां यो वास्तवव्यतिरेक एकस्य च व्यावृत्तिपरिकल्पितस् तं दर्शयन्तः [७७०] एवं -- T. [७७१] प्. ७४,१८-२१ [७७२] विद्यते -- T. [७७३] तत्रैवेत्य् अवधारणस्य तदथितया [७७४] -टीका ब्राह्मणार्चतेन विवृता समा- -- T.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Arcaṭa: Hetubinduṭīkā (commentary on Dharmakīrti's Hetubindu) (sa_arcaTa-hetubinduTIkA-edsanghavi.htm).

Source