[४७५] -णोपदर्शनात् निग- -- T. [४७६] विषयेषु -- T. [४७७] एव -- T. [४७८] -धिकारात् -- T. [४७९] एव तज्ज- -- T. [४८०] अतो जनकापेक्षया -- T. [४८१] कार्यं न जायते -- T.
SK
[ सेच्तिओन्: ३३. जनकत्वम् एवाधारत्वं न तु स्थापकत्वम् |]
[४८२] साधनाधारम् -- T. [४८३] -मानम् अन्यम् एवाश्रयते -- T. [४८४] स्वभावस् -- T. [४८५] क्वचिद् अप्य् अभावात् -- T. [४८६] -न्तरम् आश्रित्य या- -- T. [४८७] प्रवृत्तित्वं -- T. [४८८] स्थापनाहेतुर् भवति -- T.
SK
[ सेच्तिओन्: ३४. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम् |]
[५७७] प्. १८.२१ [५७८] -ना प्राक् यः -- T. [५७९] शक्यः -- T. [५८०] -नार्थिना -- T. [५८१] पाण्डुत्वपार्ण -- T.
SK
[ सेच्तिओन्: २. जन्यजनकभावस्य सर्वथा सत्त्वे ऽपि गम्यगमकभावस्य न तथात्वम् |]
SK
परस्यानिष्टापादनम् आशङ्क्याह -- अंशेन इत्यादि | यदि हि कारणस्य सामान्यधर्मा एव गम्याः कार्यस्यापि विशेषधर्मा एव गमकाः तत्कार्यत्वनियमाद् इष्यन्ते, हन्त तर्ह्य् अंशेन जन्यजनकभावः प्राप्तः | कारणस्य सामान्यधर्मा एव जनका न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव जन्या न सामान्यधर्मा इति स्यात् | सर्वथा च जन्यजनकभावो ऽभिमत [T. ३१४अ.] इत्य् अभ्युपगमविरोधः | एतत् परिहरति -- नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्वथा ऽभिमतत्वात् | तद् आह -- तज्जन्य -- इत्यादि | यदि हि कार्यस्य तैः कारणगतैर् विशेषधर्मैर् जन्यो यो विशेषः स ग्रहीतुं शक्यते, तदा तज्जन्यविशेषग्रहणे ऽभिमतत्वात् [S. १४७अ.] कारणगतविशेषधर्माणां गम्यत्वस्य | तथा लिङ्गविशेषो धूमत्वादिः उपाधिर् विशेषणं येषां द्रव्यत्वादीनां सामान्यानां कार्यगतानां तेषां चाभिमतत्वाद् गमकत्वस्य | तथा हि -- अगुरुधूमग्रहणे भवत्य् एव तदग्नेर् अनुमानं धूमत्वविशेषणेन च द्रव्यत्वादिना ऽग्नेर् अनुमानम् | न हि सर्वथा जन्यजनकभावो ऽस्तीत्य् एव तथैव गम्यगमकभावो भवति, तस्य ज्ञानापेक्षत्वात् | तथा हि -- न सत्तामात्रेण लिङ्गस्य गमकत्वम्, तस्य ज्ञापकत्वात्[५८२]| ज्ञापको हि स्वनिश्चयापेक्षो ज्ञाप्यम् अर्थं ज्ञापयति, नान्यथा | कथं {प्. १५३.१} तर्ह्य् उक्तं २तदभावे बवतःतदुत्पत्तिनियम(मा)भावात्[५८३]इति? | सर्वथा जन्यजनकभावाभ्युपगमे [T. ३१४ब्.] तदभावे भावस्यैवाभावाद् इत्य् अत[ह्१३]आह -- अविशिष्त इत्यादि | यदि हि तज्जन्यविशेषग्रहणरहितम् अविशिष्टं कार्यमात्रम् उपादीयते लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा अविशिष्टसामान्यविवक्षायां कारणगतविशेषाभावे ऽपि धूममात्रस्य भावात् तदविशिष्टस्य च द्रव्यत्वादेर् अग्न्यभावे ऽपि भावाद् व्यभिचार इति सर्वथा [S. १४७ब्.] जन्यजनकभावो नेष्यते, तदभावाद् गम्यगमकभावश् च | न तु विशेषविवक्षायाम्, तत्र व्यभिचाराभावात् | तथा हि -- यदि नाम धूममात्रं तार्णपार्णादिविशेषाभावे भवति, न तु तज्जन्यो विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वम् अस्त्य् एव, निश्चितस्यैव लिङ्गत्वात् | तथा यद्य् अपि द्रव्यत्वसत्त्वमात्रम् अग्न्यभावे ऽपि भवति न तु धूमात्मकम् इति तद्विशिष्टस्याव्यभिचाराद् गमकत्वम् अपि न वार्यत इति |
SK
__________NOTES__________ [५८२] ज्ञापकापेक्षत्वात् -- T. [५८३] प्. १५१.१.
SK
[ सेच्तिओन्: ३. कार्यकारणभावप्रतीतेर् अतिदुर्लभत्वाशङ्काया निरासः |]
SK
अत्र परस्य वचनावकाशम् आशङ्क्याह -- कस्यचित् धूमादेः कदाचित् कस्मिंश्चित् काले कुतश्चित् अग्न्यादेः भावे ऽपि सति सर्वो धूमादिः तादृशो यादृश एकदा ऽग्न्यादेर् भवन् दृष्टः तज्जातीयः, तथाविधजन्मा यथाविधात् स एको भवन् दृष्टः तादृशाद् एव जन्म यस्य स | तथाविधजन्मेत्य् एतत् कुतः प्रमाणाद् अवसितम्? येनोच्यते [T. ३१५अ.] `कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनाव् अन्वयव्यतिरेकौऽ इति | तथा हि -- यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिद्धूमस्याग्न्यादिसामग्रीकार्यत्वम् अवगतं किम् एतावता ऽन्यस्यापि [S. १४८अ.] तादृशस्य तादृशकार्यता सिध्यति, तत्र तन्निबन्धनयोः[५८४]प्रत्यक्षानुपलम्भयोर् अव्यापारात् | तत्रैव हि तयोर् व्यापारस् तस्यैव तत्कार्यता भवतु, तद् अन्यस्य तु किम् आयातम्? येन तथाविधाद् अस्य जन्म स्यात् | एवं हि कस्याश्चिद्धूमव्यक्तेर् अग्न्यादिजन्यता दृष्टेति किन्न घटादेर् अपि सा ऽभ्युपगम्यते? {प्. १५४.१} अन्यत्वेन विशेषाभावात् | क एवं सति दोषः? इति चेत्; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयाद् अतादृशाद् अपि जन्माशङ्कायां तादृशस्य धूमादेर् अग्न्यादिना ऽन्वयव्यतिरेकौ न निश्चिताव् इति कुतः कार्यहेतोर् ग्गमकत्वम्? | न हि यो ऽस्माव् एको देशकालावस्थानियतो ऽग्निविशेषहेतुको धूमो ऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ | तस्य देशान्तरादाव् असम्भवात् | किं तर्हि? | तादृशस्य सामान्यात्मन एव लिङ्गत्वात् तस्य चातथाविधाद् अपि जन्माशङ्कायां कुतस् तथाविधेनान्वयो व्यतिरेको वा? | तद् उक्तम् - अवस्थादेशकालानांभेदाद् भिन्नासुशक्तिषु | [T. ३१५ब्.] भावानाम् अनुमानेन प्रतीतिर्[५८५] अतिदुर्ल्लभा|| [Vआक्य- १.३२] इति[५८६]| सिद्धान्तवाद्य् आह -- न, अतद्भाविनः इत्यादि | एवं मन्यते -- इहैकदा धूमादेर् अग्न्यादिसामग्रीजन्यतया [S. १४८ब्.] प्रत्यक्षानुपलम्भाभ्यां निश्चितरूपत्वे ऽपि तादृशस्यातादृशाद् अपि भावः समाशङ्क्यते यथापरिदृष्टाद् अन्यत्वेन | तत्र यो ऽसाव् अग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस् तदपेक्षया यथा ऽन्यो धूमविशेषस् तादृशो यो ऽन्यादृशाद् अपि -- भावानां विचित्रशक्तितया -- भवेद् इति शङ्क्यते, तथा सो ऽप्य् एकदा ऽग्न्यादिसामग्रीजन्यतया निश्चितस् तदन्यापेक्षया तादृश एव | तत्र यदि तद् अन्यस्य तादृशस्यातादृशाज् जन्म स्यात् ३तदा तादृशस्य[५८७]स्वभावस्य ४नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि[५८८]धूमस्य ना ऽग्न्यादिसामग्री कारणम् इत्य् आयातम् | तादृशस्य स्वभावस्या ऽग्न्यादिसामग्रीविलक्षणकारणजन्यस्वभावत्वात् | ततश् चाग्न्यादिसामग्र्या अकारणत्वात् यो मयैकदा ततो भवन् दृष्टो धूमः सो ऽपि न भवेत् | न हि यद् यस्य कारणं न भवति तत् ततः सकृद् अपि जायते, तस्याहेतुकत्वप्रसङ्गाद् इति | अतद्भाविनः इति तच्छब्देन विवक्षितम् अग्न्यादिकारणं परिगृह्यते, न तत् अतत्, तद्विलक्षणं अतादृशं शक्रमूर्द्धादिकम्, अतस्माद्[५८९]भवितुं [T. ३१६अ.] शीलं {प्. १५५.१} यस्य तस्यातद्भाविनस् तादृशस्य तल्लक्षणस्य धूमवस्तुनः सकृद् अपि एकदा ऽपि [S. १४९अ.] ततः अग्न्यादेः अभावाद् भावविरोधात् | भवति च तादृशो ऽग्न्यादिसामग्रीतः ततस् तादृशस्य स्वभावस्य तादृशम् एव कारणम् इत्य् अवगम्यते सकृत्प्रवृत्ताभ्याम् एव प्रत्यक्षानुपलम्भाभ्याम् इति कुतो व्यभिचाराशङ्का? | तेन यादृशो धूमो ऽग्न्यादिसामग्र्या भवन् दृष्टः सकृत् तादृशस्य तस्य तज्जन्यस्वभावतया तादृशाद् एव भावात् `यत्र धूमस् तत्राग्न्यादिसामग्रीऽ इत्य् अन्वयव्यतिरेकनिश्चयः | अथवा ऽन्यथा व्याख्यायते -- इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनाव् अन्वयव्यतिरेकौ ६प्रतिपादयितुम्, तच् चायुक्तम्[५९०]| तथा हि -- कस्यचित् धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य कदाचित् प्रथमोत्पादकाले कुतश्चिद् अग्न्यादिसामग्र्याः भावे ऽपि उत्पादे ऽपि सर्वस् ७तादृशो यादृशः[५९१]प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्व् अपि तादृशः प्रत्यक्षत एव तस्य पूर्वक्षणाविलक्षणतया प्रतीतेः | तथाविधजन्मा इति यथाविधाद् अग्नीन्धनसामग्रीलक्षणात् कारणाद् आद्यो धूमक्षण उत्पन्नस् तथाविधाज् जन्म यस्य स तथाविधजन्मेत्य् एतत् कुतः नैव तस्य धूमादेर् अभावात् [T. ३१६ब्.] | एवं च यद्यतो दृष्टं तस्यान्यतो ऽपि भावस्य दर्शनात् सर्वत्रानाश्वास [S. १४९ब्.] इति अन्यमान आह -- तथाच अनग्नितो धूमाद् अपि धूमस्य भावे शक्रमूर्द्धादेर् अपि तस्य भावाविरोधाद् अग्निना धूमस्य नान्वयव्यतिरेकाव् इति चेन् मन्यस इति पूर्वपक्षाशङ्का | तदुक्तम् - क्षणिकत्वे कथंभावाःक्वचिदायत्तवृत्तयः| प्रथमधूमक्षणजनितो धूमक्षणस् तादृशो ऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः | एवं तृतीयक्षणादिष्व् अप्य् अङ्कुरादिषु च सर्वत्र वाच्यम् | कुतः पुनर् अयं विभागः? इति चेत्, आह -- अतद्भाविनः अतस्माद् -- अनग्नीन्धनादिरूपाद् धूमाद् [T. ३१७अ.] भवनशीलस्य प्रथमक्षणाविलक्षणस्य धूमस्य सकृद् अपि [S. १५०अ.] एकदापि ततः अग्न्यादिसामग्र्याः अभावाद् अभावायोगाद् | यथा हि प्रथमक्षणापेक्षया द्वितीयस् तादृशस् तथा तदपेक्षया प्रथमो ऽपीति तादृशत्वाविशेषात् तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृद् अपि ततो न भवेत् | भवन् वा तज्जन्यस्वभावताम् आत्मनस् तादृशः ख्यापयतीति कुतो ऽन्यादृशाद् भवेत्? तस्माद् अन्यादृशाद् भवन्न् अन्यादृश एव ततो न व्यभिचारः |
SK
__________NOTES__________
SK
[५८४] कार्यकारणभावनि- [५८५] प्रसिद्धि- -- Vआक्य- [५८६] इति चेत् -- T. [५८७] तदा ऽतादृ- -- T. [५८८] -तेत्य् अप- -- T. [५८९] तस्मात् -- T. [५९०] -तुम् इष्टौ त- -- T. [५९१] -शो न यादृ- -- T. [५९२] कारणशक्तिभेदेन स्वयं -- T.
SK
[ सेच्तिओन्: ४. भिन्नकारणजन्यानां धूमानां अतादृशत्वे ऽपि सादृश्यात् तादृशत्वाभिमानः |]
[५९८] धूमो ऽधूम- -- T. [५९९] -माद् धूमज- -- T. [६००] -व न स्यात् -- T. [६०१] -पेक्षणम् अभिमतम् इत्य् अत -- T. [६०२] उत्पत्तौ [६०३] -कं अतादृ- -- T. [६०४] धूमव्यतिरिक्तसामग्र्यभावे [६०५] नियमदर्शनात् यस्य -- T. [६०६] दृष्टान्तः -- T. [६०७] तत्र -- T. [६०८] उत्पला- -- T. [६०९] शरोद्भवः -- T. [६१०] शृङ्गादेर् अन्यादृशस्य भाव इति -- T. [६११] सजात्यनुबन्धना -- T.
यदि पुनर् गोमयेतरादिजन्मनः शालूकादेर् अग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद् विलक्षणसामग्रीनिबन्धनत्वे ऽपि समानस्वभावतैव स्यात् को दोषः स्यात्? इत्य् अत आह -- अन्यथा हि इत्यादि | यदि [S. १५५ब्.] हि या स्वजाति[लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा या ऽग्नीन्धनादिलक्षणा [T. ३२१ब्.] या च शक्रमूर्द्धादिस्वभावा धूमाद्यात्मिका अवि(-का तस्याः वि)लक्षणाया अपि सामग्र्या अविलक्षणम् तादृशम् एव कार्यं धूमशालूकादिकम् उत्पद्येत तदा न `कारणस्यऽ सामग्रीरूपस्य भेदाभेदाभ्यां वैलक्षण्यावैलक्षण्याभ्यां कार्यस्य भेदाभेदौ वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्याताम् इति कृत्वा विश्वस्य सकलस्य पदार्थराशेः अहेतुकौ भेदाभेदौ सजातीयविजातीयत्वे स्याताम् | तस्माद् यत्र विलक्षणा सामग्री तत्र कुतश्चित् साम्यात् सरूपत्वे ऽपि विजातीयतैव कार्यस्येति | ननु धूमेन्धनादिसामग्रीभेदे ऽपि धूमस्य न जातिभेदमामन्ति विद्वांसः, अतद्रूपपरावृत्तेर् उभयत्र समान्तत्वात्, नैष दोषः, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदे ऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात् | शाबलेयाद्यवान्तरजातिभेदेप्य् अगोव्यावृत्तिनिबन्धनगोजातिवद् गवां [S. १५६अ.] सर्वधूमानाम् एकसन्तानव्यवस्थाव्यु(प्य् उ)पादानकारणक्षणभेदे[६१२]ऽप्य् एकाकारप्रत्ययनिबन्धनतया समानत्वात् | आद्यस्येन्धनप्रभवस्य कथम्? इति चेत् | न | इन्धनजात्यनुविधानात्[६१३]सर्वधूमानाम् | तथा हि -- अगुरुकर्पूरचन्दनादिजातिभेदम् अनुकुर्वन्त्य् एव [T. ३२२अ.] तद्धूमाः, कास् अश्वासादिहरद्रव्यनिर्मितवर्त्तिभेदं च तद्धूमाः, तद्रसवीर्यविपाकानुविधानात्[६१४]| न चाकारान्यतया[६१५]विजातीयत्वम्, यतो नाकारा ऽभेदभेदनिबन्धने सजातीयविजातीयत्वे | न हि {प्. १६३.१} शाल्यङ्कुरादयः तद्वीजाद्याकारम् अनुकुर्वते | न च तज्जातीयतामशाल्यादि- व्यावृत्तिनिबन्धनां नानुभवन्ति | तस्माद् इन्धनम् एव तस्योपादानकारणम् अग्न्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जन्यतीत्य् अलम् अतिप्रसङ्गेन | ननु च यदि नाम सामग्रीभेदे ऽपि कार्यस्य भेदो न जातः तदा कारणभेदे सत्य् अपि तस्याभावात् तस्याहेतुकता ऽस्तु, अभेदस्य तु किम् आयातम्? येनोभयोर् अहेतुकत्वम् उच्यत इत्य् अत आह -- तथाहि इत्यादि | यदा हि सामग्रीभेदे [S. १५६ब्.] सत्य् अपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम् -- न हि हेतौ सत्य् अभवतः कथञ्चिद् अपि हेतुमत्तोपपद्यते -- तदा यो ऽप्य् असाव् ५अभेदः कार्यस्य[६१६]सो ६ऽपि सामग्र्योः[६१७]७भिन्नत्वाद् असत्य् अभेदे[६१८]जात इति कुतस् तस्यापि हेतुमत्ता? | यथा हि हेतौ सत्य् अभवतो न हेतुमत्ता तथा हेताव् असत्य् अपि भवतो हेतुमत्ता कुतः स्यात्? | हेतुभेदस्यैवा ऽभेदनिबन्धनत्वात् न इति चेत्; न तर्ह्य् अयं भेदः क्वचित् पदम् आबध्नीयात्, शालीकोद्रवादेर् अपि [T. ३२२ब्.] हेतुभेदस्याभेदहेतुत्वान् निमित्तम् अन्तरेण कल्पनायां विशेषाभावात् | प्रतिभासाभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो भेदे ऽप्य् उपलक्षणात् | स्याद् एतत् -- यो ह्य् अतादृशाद् अपि तादृशोद्भवम् इच्छति तस्य भेदाभेदयोर् अहेतुकत्वम् इष्टम् एव भावा एव केवलं हेतुमन्त इत्य् अत आह -- तद्व्यतिरिक्तश्च इत्यादि | न हि भेदाभेदव्यतिरिक्तः कश्चिद् भावानां स्वभावो ऽस्ति यस् तयोर् अहेतुकत्वे ऽपि हेतुमान् स्यात् | तस्य ताभ्याम् अन्यत्वे `अस्येमौ भेदाभेदौऽ इति[६१९][S. १५७अ.] सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायाम् अनवस्थादोषात्, अनन्यत्वे ऽपि भेदाभेदयोर् भावस्वभावस्य च स्वात्मन्येवावस्थानात् अनुपकाराच् च कुतः सम्बन्धिता? | उपकारकल्पनायां च यदि भावस्वभावः स्वहेतुभ्य[६२०]एव न कुतश्चिद् भिन्नो ऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तद्भावे[६२१]ऽपि स्वभावान्यथात्वाभावात् कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात्? | अथा {प्. १६४.१} व्यतिरिक्तभेदाभेदवशाद् भेदाभेदौ स्वभावः प्रतिपद्येत, ताव् अपि यदि भिन्नौ तदा भावस्वभावस् तदवस्थ एवेति न तस्य कुतश्चित् स्वरूपतो भेदो ऽभेदो वा स्यात् | पुनस् तद्वशाद् भेदाभेदकल्पनायां भावस्वभावस्य तदवस्थं तादवस्थ्यम् अनवस्था [T. ३२३अ.] च भेदाभेदयोः | अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां क्रियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(भ)वात्; तस्य च हेत्वन्तरात् पश्चाद् भवतस् ततो ऽन्यत्वापत्तेः | न च भावस्वभावः क्रियते, तस्य स्वहेतोर् एव निर्वृत्तेः | स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद् भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भेदाभेदयोर् व्यतिरेकवतोः वयर्थ्यम्; [S. १५७ब्.] भेदाभेदबुद्धेर् अपि तत एव सिद्धेः | तस्माद्वैशेषिकादिकल्पितयोर् भेदाभेदयोर् विशेषसामान्यात्मनोर्[६२२]अयोगात् भावस्वभाव एव भेदाभेदशब्दवाच्यः तयोर्[६२३]अहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वम् आपतितम् | ततो भावानाम् अहेतुकत्वान् नित्यं सत्त्वम् असत्त्वं वा स्यात् | अहेतुकत्वे हि भावानां यदि कदाचित् सत्त्वं सर्वदैव स्यात् | अथ कदाचिद् असत्त्वं तद् अपि सर्वदा स्यात् | कादाचित्कत्वं तु सत्त्वस्यायुक्तम् | किं कारणम्? | अपेक्ष्यस्याहेतुकत्वे सति कस्यचिद्[६२४]अभावात् | यस्माद् अपेक्षयाहि तस्यापेक्षणीयस्य हेतोर् भावे भवन्तो ऽभावे च न भवन्तः कादाचित्काः कदाचिद् भवा युज्यन्ते, नान्यथेति | तस्मान् न विलक्षणात् कारणात् अविलक्षणस्य कार्यस्योत्पत्तिर् अभ्युपगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात् | पुनर् अपि विलक्षणायाः सामग्र्याः [T. ३२३ब्.] अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरम् आह -- व्यवस्थावांश्च प्रतिनियतः साध्येषु घटपटादिषु साधनानां मृत्तन्त्वादीनां लोके यो नियोगो घटार्थी मृत्पिण्डम् एव तत्र नियुङ्क्ते न तन्तून्, पटार्थी च तन्तून् एव न मृत्पिण्डम् इत्यादिकः स न [S. १५८अ.] स्यात् | कस्मात्? इत्य् आह -- कारणानां -- सामग्रीणां याः शक्तयः -- आत्मातिशयलक्षणास् तासां प्रतिनियमे काचिद् एव सामग्री {प्. १६५.१} क्वचिद् एव कार्ये उपयुज्यते नान्या ऽन्यत्रेत्य् एवंरूपे हि यस्मात् किञ्चिद् एव मृदादिकं कस्यचिद् एव घटादेः साधनायोपादीयते नापरं तद्विलक्षणं तन्त्वादिकम् कस्माद् एवम्? इति चेत्? तस्यैव मृदादेः तत्र घटादौ शक्तेर् योग्यत्वात् अन्यस्य तन्त्वादेस् तत्राशक्तेः | कस्मात् तस्यैव तत्र शक्तिर् नान्यस्य इत्य् अत आह तयोः मृदादेस् तन्त्वादेश् च तज्जननस्वभावत्वेन घटादिजननस्वभावत्वेन इतरस्वभावत्वेन च घटाद्यजननस्वभावेन च भेदात् अन्यत्वभावात् | न हि मृत्तन्त्वादिरूपतातो ऽन्यद् एव तज्जननेतरस्वभावत्वं नाम | यदा तु सामग्रीणां परस्परविलक्षणानाम् अपि शक्तिप्रतिनियमो नेष्यते विलक्षणाद् अपि अविलक्षणकार्योपगमात् [T. ३२४अ.] तदा तज्जननस्वभावविलक्षणाद् अपि धूमादिजननस्वभावं यत् कारणम् अग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणाद् अपि शक्रमूर्द्धादेः क्षणाश्रयेण वा धूमादेस् तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्लक्षणस्य चोत्पत्ताव् इष्यमाणायां न तज्जननशक्तेःप्रतिनियमो विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः | इति तस्माद् यत् किञ्चित् कार्यं यतःकुतश्चित् कारणात् स्यात् उत्पद्येत, न ४यथादृष्टम् एव यथादृष्टात्[६२५]| सर्वं [S. १५८ब्.] सर्वतो जायेतेति यावत् | तस्माच् छक्तिप्रतिनियमः कारणानाम् अभ्युपगन्तव्यः | ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित् साम्यात् सरूपस्योपलक्षणे ऽप्य् अन्यादृशतैवेति सर्वस् तादृशस् तथाविधजन्मेति सिद्धम् | स्यान्मतम् -- विलक्षणाया अपि सामग्र्यास् तल्लक्षणकार्यजननशक्तिः समानेति तल्लक्षणं कार्यं भविष्यति कस्याश्चिद् एव च तथाभावान् न यथोदितदोषावसर इत्य् अत आह तज्जननशक्तिसाम्ये तु इत्यादि | उक्तम् एव तावद् अत्र पूर्वपक्षे `न च धूमस्य तदतज्जन्यस्वभावःऽ इत्यादिकं दूषणम् | अभ्युपगम्यापीदम् आह -- यादृशीह्य् अग्निसहकारिणः तदाधीयमानविकारस्येन्धनस्य ५स्वभेदेन धूमभेदहेतोः[६२६][T. ३२४ब्.] शक्तिः आत्मातिशयस् तादृश्येव शक्रमूर्द्ध्नो[६२७]{प्. १६६.१} धूमस्य वा यदि तत्सामग्रीजन्यधूमाविलक्षणकार्यजननशक्तिर् आत्मातिशयलक्षणा तदा तच्छक्तिसाम्ये तदेवाग्नीन्धनादिकम् एवार्थान् नामान्तरेणोक्तं स्यात्, तद्विलक्षणस्य तद्विलक्षणात्मातिशयासम्भवात् | स एव ह्य् अग्निर् य इन्धनविकारमादधानो धूमं जनयति, तच् चेन्धनं यदग्निना ऽऽधीयमानविकारं धूमं स्वजातिम् अनुकारयति | यदि [S. १५९अ.] च शक्रमूर्द्धादेर् अपि एवं भवता ऽभ्युपगम्यते तदा केवलं नाम्नि विवादः स्यात्, अर्थाभेदम् अभ्युपगम्य तथाभिधानात् यत एवम् इति तस्मात् कार्यं धूमादिकं दृष्टम् एकदा प्रत्यक्षानुपलम्भाभ्यां निश्चितम् अतद्रूपव्यावृत्तेनात्मना कारणम् इन्धनादिकं सन्तानापेक्षया क्षणापेक्षया वा न व्यभिचरति तद्विलक्षणाद् अन्यतो न भवतीति कार्यहेताव् अन्वयव्यतिरेकनिश्चयः सिध्यतीति |[६२८] {प्. १६७.१} [ ४. अनुपलब्धिहेतुनिरूपणम् |] [ सेच्तिओन्: १. विप्रतिपत्तिप्रदर्शनपूर्वकम् अनुपलब्धेस् स्वरूपनम् |]
SK
__________NOTES__________
SK
[६१२] एकजातिव्य- -- T. [६१३] एकसन्तानरा(-नव्य)वस्थेति सम्बन्धः [६१४] तद्रसकार्यवि- -- T. [६१५] च कारणजन्यतया -- T. [६१६] -दः सर्वस्य -- T. [६१७] ऽपि कारणस्य -- T. [६१८] -द् अभेदे -- T. [६१९] इत्य् आकार -- T. [६२०] स्वात्मना -- T. [६२१] भेदाभेद- [६२२] भेदाभेद- [६२३] भेदाभेदयोः [६२४] कदाचिद् -- T. [६२५] यथादृष्टायथादृष्टयोः -- T. [६२६] स्वभावभेदहे- -- T. [६२७] शक्रमूर्ध्नादेर् वा -- T. [६२८] T. अद्द्स् ब्राह्मणाचतेन विरचिते हेतुबिन्दुप्रकरणे कार्यहेत्वधिकारो द्वितीयः |