1 SK Vअज् १; fओलिओ २६र्१-व्४ (Cz २७.१-१) नमो शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय / //
2 SK एवं मया श्रुतम् एकस्मिन् समये भगवान् / श्रावस्त्यां विहरति स्म / जेतवने / अनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः / अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरम् आदाय / श्रावस्तीं महानगरीं पिण्डाय प्राविशत् / अथ खलु भगवान् / श्रावस्तीं महानगरीं पिण्डाय चरित्वा पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पादौ प्रक्षाल्य न्यषीदद् भगवान् / प्रज्ञप्त एवासने पर्यंकम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य / अथ संबहुला भिक्षवः येन भगवांस् तेनोपसंक्क्रमन् उपसंक्क्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवंतं तृःप्रदक्षिणीकृत्वा एकांते न्यषीदन् /
3 SK Vअज् २; fओलिओ २६व्४-२७व्६ (Cz २७.१६-२८.१७; P १७९.१४-२४) तेन खलु पुनः समयेनायुष्मान् सुभूतिः तस्याम् एव परिषदि सन्निपतितो ऽभूत् सन्निषण्णः / अथ खल्व् आयुष्मान् सुभूतिर् उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनांजलिं प्रणाम्य भगवंतम् एतद् अवोचत् / आश्चर्यं भगवन् यावद् एव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्वा महासत्वा अनुपरिगृहीताः परमेणानुग्रहेण / यावद् एव तथागतेन बोधिसत्वाः परित्ताः परमया परिन्दनया / कथं भगवन् बोधिसत्वयानसंप्रस्थितेन स्थातव्यम् / कथं प्रतिपत्तव्यम् / कथं चित्तं प्रतिगृहीतव्यम् / एवम् उक्ते भगवान् आयुष्मंतं सुभूतिम् एतद् अवोचत् / साधु साधु सुभूते एवम् एतत् सुभूते अनुपरिगृहीतास् तथागतेन बोधिसत्वाः परमेणानुग्रहेण / परित्तास् तथागतेन बोधिसत्वाः परमयानुपरिन्दनया / तेन हि सुभूते शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये / यथा बोधिसत्वयानसंप्रस्थितेन स्थातव्यं / यथा प्रतिपत्तव्यम् / यथा चित्तं प्रतिगृहीतव्यम् / एवं भगवन्न् इत्य् आयुष्मान् सुभूतिर् भगवतः प्रत्यश्रौषीत् /
4 SK Vअज् ३M fओलिओ २७व्६-२८व्१ (Cz २८.१७-२९.७; P १७९.२४-१८०.१०) भगवांस् तान् एतद् अवोचत् / इह सुभूते बोधिसत्वयानसंप्रस्थितैर् एवं चित्तम् उत्पादयितव्यम् / यावंतः सत्वाः सत्वसंग्रहेण संगृहीतः अण्डजा वा जरायुजा वा संस्वेदजा वा उपपादुका वा रूपिणो वा अरूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैव संज्ञिनो नासंज्ञिनः यावत् सत्वधातुः प्रज्ञप्यमानः प्रज्ञप्यते ते मया सर्वे अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः / एवम् अपरिमाणांश् च सत्वान् परिनिर्वापयितव्याः न च कश्चित् सत्वः परिनिर्वापितो भवति / तत् कस्माद् धेतोः / सचेत् सुभूते बोधिसत्वस्य सत्वसंज्ञा प्रवर्तते न स बोधिसत्व इति वक्तव्यः / तत् कस्य हेतोः / न स सुभूते बोधिसत्वो वक्तव्यो यस्य सत्वसंज्ञा प्रवर्तेत जीवसंज्ञा वा पुद्गलसंज्ञा वा प्रवर्तेत /
5 SK Vअज् ४; fओलिओ २८व्१-२९र्५ (Cz २९.८-३०.५; P १८०.१०-१५) अपि तु खलु पुनः सुभूते बोधिसत्वेन न वस्तुप्रतिष्ठितेन दानं दातव्यम् / न क्वचित्प्रतिष्ठितेन दानं दातव्यम् / न रूपप्रतिष्ठितेन दानं दातव्यम् न शब्दगन्धरसस्प्रष्टव्येषु न धर्मप्रतिष्ठितेन दानं दातव्यम् / एवं हि सुभूते बोधिसत्वेन दानं दातव्यम् / यथा न निमित्तसंज्ञायां प्रतितिष्ठेत् / तत् कस्य हेतोः / यः सुभूते बोधिसत्वः अप्रतिष्ठितो दानं ददाति तस्य सुभूते पुण्यस्कन्धस्य न सुकरं प्रमाणम् उद्ग्रहीतुम् / तत् किं मन्यसे सुभूते सुकरं पूर्वस्यां दिशि आकाशस्य प्रमाणम् उद्ग्रहीतुम् / सुभूतिर् आह / नो हीदं भगवन् / एवं दक्षिणपश्चिमोत्तरास्व् अध ऊर्ध्वं विदिक्षु-र्-अविदिक्षु / दशसु दिक्षु / सुकरम् आकाशस्य प्रमाणम् उद्ग्रहीतुम् / सुभूतिर् आह / न हीदं भगवन् / भगवान् आह / एवम् एतत् सुभूते / एवम् एतत् सुभूते यो बोधिसत्वो ऽप्रतिष्ठितो दानं ददाति तस्य पुण्यस्कन्धस्य न सुकरं प्रमाणम् उद्ग्रहीतुम् / अपि तु खलु पुनः सुभूते एवं बोधिसत्वेन दानमयं पुण्यकृयावस्तुं दानं दातव्यम् /
6 SK Vअज् ५; fओलिओ २९र्५-व्४ (Cz ३०.६-१४) तत् किं मन्यसे सुभूते तथागतो लक्षणसंपदा द्रष्टव्यः / भगवान् आह न लक्षणसंपदा तथागतो द्रष्टव्यः / तत् कस्य हेतोः / या सा तथागतेन लक्षणसंपद् भासिता सैवालक्षणसंपत् / एवम् उक्ते भगवान् आयुष्मंतं सुभूतिम् एतद् अवोचत् / यावत् सुभूते लक्षणं तावन् मृषा / यावद् अलक्षणं तावद् अमृषा / इति हि लक्षणालक्षणतः तथागतो द्रष्टव्यः //
7 SK Vअज् ६; fओलिओ २९व्४-३१व्६ (Cz ३०.१५-३२.५) एवम् उक्ते आयुष्मान् सुभूतिर् भगवंतम् एतद् अवोचत् / अस्ति भगवन् केचित् सत्वाः भविष्यंत्य् अनागते ऽध्वनि पश्चिमायां पंचाशत्यां वर्तमानायां ये इमेष्व् एवंरूपेषु सूत्रांतपदेषु भाष्यमाणेषु भूतसंज्ञाम् उत्पादयिष्यंति / भगवान् आह / मा त्वं सुभूते एवं वोचत् / अस्ति केचित् सत्वाः भविष्यंत्य् अनागते ऽध्वनि ये इमेष्व् एवंरूपेषु सूत्रांतपदेषु भाष्यमाणेषु भूतसंज्ञाम् उत्पादयिष्यंति / अपि तु खलु पुनः सुभूते भविष्यंत्य् अनागते ऽध्वनि बोधिसत्वा महासत्वा पश्चिमायां पंचाशत्यां सद्धर्मविप्रलोपे वर्तमाने शीलवंतो गुणवंतः प्रज्ञावंतो भविष्यंति / न खलु पुनः सुभूते बोधिसत्वा एकबुद्धपर्युपासिता भविष्यंति / नैकबुद्धावरोपितकुशलमूला भविष्यंति / अपि तु खलु पुनः सुभूते अनेकबुद्धपर्युपासिता भविष्यंति अनेकबुद्धावरोपितकुशलमूला भविष्यंति / ये इमेष्व् एवंरूपेषु सूत्रांतपदेषु भाष्यमाणेष्व् एकचित्तप्रसादमात्रम् अपि प्रतिलप्स्यंते / ज्ञातास् ते सुभूते तथागतेन दृष्टास् ते सुभूते तथागतेन सर्वे ते अप्रमेयं पुण्यस्कंधं प्रसविष्यंति प्रतिगृहीष्यंति / तत् कस्य हेतोः / न हि तेषां सुभूते बोधिसत्वानाम् आत्मसंज्ञा प्रवर्त्स्यते न सत्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा प्रवर्त्स्यते / नापि तेषां सुभूते बोधिसत्वानां धर्मसंज्ञा प्रवर्त्स्यते नाधर्मसंज्ञा नापि तेषां संज्ञा नासंज्ञा प्रवर्त्स्यते / तत् कस्य हेतोः / सचेत् सुभूते तेषां बोधिसत्वानां धर्मसंज्ञा प्रवर्त्स्यते स एव तेषाम् आत्मग्राहो भवेत् / सत्वग्राहो जीवग्राहः पुद्गलग्राहो भवेत् / सचेद् अधर्मसंज्ञा प्रवर्तेत स एव तेषाम् आत्मग्राहो भवेत् / सत्वग्राहो जीवग्राहः पुद्गलग्राह इति / तत् कस्य हेतोः / न खलु पुनः सुभूते धर्मोद्ग्रहीतव्यो नाधर्मः / तस्माद् इदं सन्धाय तथागतेन भाषितं कोलोपमं धर्मपर्यायम् आजानद्भिः धर्माः एव प्रहातव्याः प्राग् एवाधर्माः /
8 SK Vअज् ७; fओलिओ ३१व्६-३२व्ल् (Cz ३२.६-३३.२) पुनर् अपरं भगवान् आयुष्मंतं सुभूतिम् एतद् अवोचत् / तत् किं मन्यसे सुभूते काचित् तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा / कश्चिद् वा धर्मस् तथागतेन देशितः // सुभूतिर् आह / यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि नास्ति स कश्चिद् धर्मो यस् तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा / नास्ति स कश्चिद् धर्मो यस् तथागतेन देशितः / तत् कस्य हेतोः / यो ऽसौ तथागतेन धर्मो देशितः / अग्राह्यः सो ऽनभिलप्यः / न स धर्मो नाधर्मः / तत् कस्य हेतोः / असंस्कृतप्रभाविता ह्य् आर्यपुद्गलाः /
9 SK Vअज् ८; fओलिओ ३२व्ल्-३४र्ल् (Cz ३३.३-२६) तत् किं मन्यसे सुभूते य इमां तृसाहस्रमहासाहस्रां लोकधातुं सप्तरत्नप्रतिपूर्णं कृत्वा दानं दद्यात् / तत् किं मन्यसे सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसुनुयात् / सुभूतिर् आह / बहु भगवन् बहु सुगत / स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसुनुयात् / तत् कस्य हेतोः / स एव भगवन्न् अस्कन्धः / तस्मात् तथागतो भाषते पुण्यस्कन्धः अस्कन्ध इति भगवान् आह / यश् च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा इमां तृसाहस्रामहासाहस्रां लोकधातुं सप्तरत्नप्रतिपूर्णं कृत्वा दानं दद्यात् / यश् चेतो धर्मपर्यायद् अंतशश् चतुष्पदिकाम् अपि गाथाम् उद्गृह्य परेभ्यो देशयेत् संप्रकाशयेद् अयम् एव ततोनिदानं बहुतरं पुण्यं प्रसुनुयात् / अप्रमेयम् असंख्येयं / तत् कस्य हेतोः / अतो निर्जाता हि सुभूते तथागतानाम् अनुत्तरा सम्यक्संबोधिः / अतो निर्जाताश् च बुद्धा भगवंतः / तत् कस्माद् धेतोः / बुद्धधर्माः बुद्धधन्ना इति सुभूते अबुद्धधर्माश् चैव ते /
10 SK Vअज् ९अ; fओलिओ ३४र्ल्-५ (Cz ३३.२६-३४.११) तत् किं मन्यसे सुभूते / अपि नु स्रोतापन्नस्य एवं भवति मया स्रोतापत्तिफलं प्राप्तम् इति / सुभूतिर् आह / नो हीदं भगवन् / भगवान् आह / तत् कस्य हेतोः / न हि स भगवन् किंचिद् आपन्नः / तेनोच्यते स्रोतापन्न इति / न रूपम् आपन्नो न शब्दान् न गन्धान् न रसान् न स्प्रष्टव्यान् न धर्मान् आपन्नः / तेनोच्यते स्रोतापन्न इति /
11 SK Vअज् ९ब्; fओलिओ ३४व्ल्-३५र्ल् (Cz ३४.१२-१८) भगवान् आह / तत् किं मन्यसे सुभूते अपि नु सकृदागामिनः एवं भवेन् मया सकृदागामिफलं प्राप्तम् इति / सुभूतिर् आह / नो हीदं भगवन् / भगवान् आह / तत् कस्य हेतोः / न सकृदागामिनो एवं भवति मया सकृदागामिफलं प्राप्तम् इति / तत् कस्माद् धेतोः / न हि स कश्चिद् धर्मः यः सकृदागामित्वम् आपन्नः / तेनोच्यते सकृदागामीति /
12 SK Vअज् ९च्; fओलिओ ३५र्ल्-४ (Cz ३४.१९-२५) भगवान् आह / तत् किं मन्यसे सुभूते अपि न्व् अनागामिन एवं भवति मया अनागामिफलं प्राप्तम् इति / तत् कस्य हेतोः / न स कश्चिद् धर्मः यो ऽनागामीति / समनुपश्यति / तेनोच्यते अनागामीति /
13 SK Vअज् ९द्; fओलिओ ३५र्४-व्२ (Cz ३४.२६-३५.६) भगवान् आह / तत् किं मन्यसे सुभूते / अपि न्व् अर्हतो एवं भवति मयार्हत्वं प्राप्तम् इति / सुभूतिर् आह / नो हीदं भगवन् / तत् कस्य हेतोः / न हि भगवन् स कश्चिद् धर्मो यो ऽर्हन् नामः / सचेद् भगवन्न् अर्हत एवं भवेन् मयार्हत्वं प्राप्तम् इति / स एव तस्यात्मग्राहो भवेत् / सत्वग्राहो जीवग्राहः पुद्गलग्राहो भवेत् /
14 SK Vअज् ९ए; fओलिओ ३५व्२-३६र्ल् (Cz ३५.६-१४) अहम् अस्मि भगवन् / // तथागतेनार्हता सम्यक्संबुद्धेनारणविहारिणाम् अग्र्यो निर्दिष्टः / अहम् अस्मि भगवन्न् अर्हन् विगतरागः / न च मे भगवन्न् एवं भवति अहम् अस्मि अर्हन्न् इति / सचेन् मम भगवन्न् एवं भवेन् मयार्हत्वं प्राप्तम् इति / न मे तथागतो व्याकरिष्यति / अरणाविहारिनाम् अग्र्य इति सुभूतिः / कुलपुत्रो न क्वचिद् विहरति / तेनोच्यते / अरणाविहारीति अरणाविहारीति /
15 SK Vअज् १०अ; fओलिओ ३६र्ल्-४ (Cz ३५.१५-२०) भगवान् आह / तत् किं मन्यसे सुभूते / कश्चिद् धर्मस् तथागतेन दीपंकरात् तथागताद् अर्हतः सम्यक्संबुद्धाद् उद्गृहीतः / सुभूतिर् आह / नो हीदं भगवन् / भगवान् आह / न स कश्चिद् धर्मः तथागतेन दीपंकरात् तथागताद् अर्हतः सम्यक्संबुद्धाद् उद्गृहीतः /
16 SK Vअज् १०ब्; fओलिओ ३६र्४-व्२ (Cz ३५.२१-२५; P १८०.१७) भगवान् आह / यः कश्चित् सुभूते बोधिसत्वो एवं वदेद् अहं क्षेत्रव्यूहान् निष्पादयिष्यामीति स वितथं वदेत् / तत् कस्य हेतोः / क्षेत्रव्यूहाः क्षेत्रव्यूहा इति सुभूते अव्यूहा ह्य् एते तथागतेन भाषिताः / तेनोच्यंते क्षेत्रव्यूहा इति /
17 SK Vअज् १०च्; fओलिओ ३६व्२-३७र्३ (Cz ३५.२५-३६.१२; P १८०.१७-१८१.१) तस्मात् तर्हि सुभूते बोधिसत्वेन एवं चित्तम् उत्पादयितव्यं अप्रतिष्ठितं / न रूपप्रतिष्ठितं चित्तम् उत्पादयितव्यं / न शब्दगन्धरसस्प्रष्टव्यधर्मप्रतिष्ठितं चित्तम् उत्पादयितव्यम् / न क्वचित्प्रतिष्ठितं चित्तम् उत्पादयितव्यम् / तद् यथापि नाम सुभूते पुरुषो भवेत् / यस्यैवंरूप आत्मभावः स्यात् तद् यथापि नाम सुमेरुः पर्वतराजा / तत् किं मन्यसे सुभूते महान् स आत्मभावो भवेत् / सुभूतिर् आह / महान् भगवङ् महान् सुगत / स आत्मभावो भवेत् / भगवन् / तत् कस्य हेतोः / अभावः स तथागतेन भाषितः / तेनोच्यते आत्मभाव इति / न हि स भावः / तेनोच्यते आत्मभाव इति / //
18 SK Vअज् ११; fओलिओ ३७र्३-३८र्२ (Cz ३६.१३-३७.१०; P १८१.१-१३) भगवान् आह / तत् किं मन्यसे सुभूते यावंत्यो गंगानद्यां वालुकास् तावंत्य एव गंगानद्यो भवेयुः / अपि नु तासु बह्व्यो वालुका भवेयुः / सुभूतिर् आह / ता एव तावद् भगवन् बह्व्यो गंगानद्यो भवेयुः प्राग् एव यास् तासु वालुकाः / भगवान् आह / आरोचयामि ते सुभूते प्रतिवेदयामि ते यावंत्यस् तासु गंगानदीषु वालुका भवेयुः / तावंत्यो लोकधातवः कश्चिद् एव स्त्री वा पुरुषो वा सप्तरत्नप्रतिपूर्णं कृत्वा तथागतेभ्यो ऽर्हद्भ्यः सम्यक्संबुद्धेभ्यो दानं दद्यात् / तत् किं मन्यसे सुभूते / अपि नु सा स्त्री वा पुरुषो वा ततोनिदानं बहु पुण्यं प्रसुनुयात् / सुभूतिर् आह / बहु भगवन् बहु सुगत / सा स्त्री वा पुरुसो वा ततोनिदानं बहु पुण्यं प्रसुनुयात् / भगवान् आह / यश् च खलु पुनः सुभूते तावंत्यो लोकधातवः सप्तरत्नप्रतिपूर्णं कृत्वा दानं दद्यात् / यश् चेतो धर्मपर्यायाद् अंतशश् चतुष्पदिकाम् अपि गाथाम् उद्गृह्य परेभ्यो देशयेत् / अयं ततो बहुतरं पुण्यं प्रसुनुयाद् अप्रमेयम् असंख्येयम् /
19 SK Vअज् १२; fओलिओ ३८र्२-व्ल् (Cz ३७.१०-१९; P १८१.१३-१८२.३) अपि तु खलु सुभूते यस्मिन् पृथिवीप्रदेशे इतो धर्मपर्यायाद् अंतशश् चतुष्पदिकाम् अपि गाथां भाष्येत वा देश्येत वा स पृथिवीप्रदेशश् चैत्यभूतो भवेत् / सदेवमानुषासुरस्य लोकस्य कः पुनर् वादः सुभूते य इमं धर्मपर्यायं धारयिष्यंति परमेण ते आश्चर्येण समन्वागता भविष्यंति / तस्मिंश् च पृथिवीप्रदेशे शास्ता विहरत्य् अन्यतरान्यतरो वा गुरुस्थानीयः /
20 SK Vअज् १३अ; fओलिओ ३८व्ल्-५ (Cz ३७.२०-३८.२; P १८२.३-८) एवम् उक्ते आयुष्मान् सुभूतिर् भगवंतम् एतद् अवोचत् / को नामायं भगवन् धर्मपर्यायः कथं चैनं धारयामि / एवम् उक्ते भगवान् आयुष्मंतं सुभूतिम् एतद् अवोचत् / प्रज्ञापारमिता नामायं सुभूते धर्मपर्यायः / एवम् चैनं धारय / तत् कस्य हेतोः / यैव सुभूते प्रज्ञापारमिता तथागतेन भाषिता / सैवापारमिता /
21 SK Vअज् १३ब्; fओलिओ ३८व्५-३९र्ल् (Cz ३८.३-६; Pल्८२.८-१०) तत् किं मन्यसे सुभूते अपि नु स कश्चिद् धर्मो तथागतेन भाषितः / सुभूतिर् आह / नो हीदं भगवन् / न स कश्चिद् भगवं धर्मो यः तथागतेन भाषितः /
22 SK Vअज् १३च्; fओलिओ ३९र्ल्-६ (Cz ३८.७-१५; G ५अल्-२; P१८२.१०-१५) यावतः सुभूते तृसाहस्रमहासाहस्र्यां लोकधातौ पृथिवीरजः कच्चित् तद् बहु भवेत् / सुभूतिर् आह / बहु भगवन्स् तत् पृथिवीरजो भवेत् / यत् तद् भगवन् / पृथिवीरजः तथागतेन भाषितः अरजः स तथागतेन भाषितः / तद् उच्यते पृथिवीरज इति / या सा लोकधातुर् अधातुः सा तथागतेन भाषितः / तद् उच्यते लोकधातुर् इति / //
23 SK Vअज् १३द्; fओलिओ ३९र्६-व्४ (Cz ३८.१६-२४; G ५अ२-३; P १८२.१५-२०) भगवान् आह / तत् किं मन्यसे सुभूते द्वातृंशद्भिर् महापुरुषलक्षणैः तथागतो ऽर्हन् सम्यक्संबुद्धो द्रष्टव्यः / सुभूतिर् आह / नो हीदं भगवन् / तत् कस्य हेतोः / यानि तानि भगवन् द्वातृंशन्महापुरषलक्षणानि तथागतेन भाषितान्य् अलक्षणानि तथागतेन भाषितानि तस्माद् उच्यंते द्वातृंशन्महापुरुषलक्षणानीति /
24 SK Vअज् १३ए; fओलिओ ३९व्४-४०र्ल् (Cz ३९.१-८; G ५अ३-५; P १८२.२०-१८३.३) भगवान् आह / यश् च खलु पुनः सुभूते स्त्री वा पुरुषो वा गंगानदीवालुकोपमान् आत्मभावान् परित्यजेत् / यश् चेतो धर्मपर्यायाच् चतुष्पदिकाम् अपि गाथाम् उद्गृह्य परेभ्यो देशयेत् / अयं ततोनिदानं बहुतरं पुण्यं प्रसुनुयाद् अप्रमेयम् असंख्येयम् /
25 SK Vअज् १४अ; fओलिओ ४०र्ल्-व्ल् (Cz ३९.९-२१; G ५अ५-५ब्ल्; P १८३.३-१० ) अथ खल्व् आयुष्मान् सुभूतिः धर्मप्रवेगेनाश्रूणि प्रामुंचत् / प्रवर्तयं सो ऽश्रूणि परिमार्ज्य भगवंतम् एतद् अवोचत् / आश्चर्यं भगवन् / परमाश्चर्यं सुगत / यावद् अयं धर्मपर्यायः तथागतेन भाषितः / यतो मे भगवन् / ज्ञानम् उत्पन्नं न मया जात्व् एव धर्मपर्यायः श्रुतपूर्वः / परमेण ते भगवन् / आश्चर्येण समन्वागता भविष्यंति य इह सूत्रे भाष्यमाणे भूतसंज्ञाम् उत्पादयिष्यंति / या चैषा भगवन् / भूतसंज्ञा सैवासंज्ञा तस्मात् तथागतो भाषते भूतसंज्ञा भूतसंज्ञेति /
26 SK Vअज् १४ब्; fओलिओ ४०व्ल्-४ (Cz ४०.१-८; G ५ब्ल्-२; P १८३.१०-१६) न मम भगवन्न् आश्चर्यं यद् अहं धर्मपर्यायं भाष्यमाणम् अवकल्पयाम्य् अधिमुच्यामि / ये ते भगवन्न् इमं धर्मपर्यायम् उद्गृहीष्यंति पर्यवाप्स्यंति धारयिष्यंति / ते परमाश्चर्यसमन्वागता भविष्यंति / //
27 SK Vअज् १४च्; fओलिओ ४०व्४-४१र्ल् (Cz ४०.९-१५; G ५ब्२-३; P १८३.१६-१८४.३) अपि तु खलु पुनः भगवन् न तेषाम् आत्मसंज्ञा प्रवर्त्स्यते / न सत्वसंज्ञा न जीवसंज्ञा / न पुद्गलसंज्ञा प्रवर्त्स्यते / तत् कस्य हेतोः यासाव् आत्मसंज्ञा सैवासंज्ञा / या सत्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञा सैवासंज्ञा / तत् कस्य हेतोः / सर्वसंज्ञापगता हि बुद्धा भगवंतः //
28 SK Vअज् १४द्; fओलिओ ४१र्ल्-व्ल् (Cz ४०.१६-४१.४; G ५ब्३-५; P १८४.४-९) एवम् उक्ते भगवान् आयुष्मंतं सुभूतिम् एतद् अवोचत् / एवम् एतत् सुभूते एवम् एतत् सुभूते परमाश्चर्यसमन्वागतास् ते सत्वा भविष्यंति / य इह सूत्रे भाष्यमाणे श्रुत्वा नोत्त्रसिष्यंति / न संत्रसिष्यंति / न संत्रासम् आपत्स्यंते / तत् कस्य हेतोः / परमपारमितेयं सुभूते तथागतेन भाषिता / यां च तथागतः परमपारमितां भाषते ताम् अपरिमाणा बुद्धा भगवंतो भाषंते / तेनोच्यते परमपारमितेति /
29 SK Vअज् १४ए; fओलिओ ४१व्ल्-४२व्३ (Cz ४१.५-४२.५; G ५ब्५-७; P १८४.१०-१८५.४) अपि तु खलु पुनः सुभूते या तथागतस्य क्षांतिपारमिता सैवापारमिता / तत् कस्य हेतोः / यदा मे सुभूते कलिंगराजा अंगप्रत्यंगान्य् अच्छेत्सीन् नासीन् मे तस्मिन् समये आत्मसंज्ञा वा सत्वसंज्ञा वा जीवसंज्ञा वा पुद्गलसंज्ञा वा न मे काचित् संज्ञा नासंज्ञा बभूव / तत् कस्य हेतोः / सचेत् सुभूते मम तस्मिन् समये आत्मसम्ज्ञाभविष्यत् / व्यापादसंज्ञापि मे ऽभविष्यत् तस्मिन् समये / अभिजानाम्य् अहं सुभूते अतीते ऽध्वनि पंच जातिशतानि यद् अहं क्षांतिवादी रिषिर् अभू तदापि मे नात्मसंज्ञा बभूव / न सत्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा / तस्मात् तर्हि सुभूते बोधिसत्वेन महासत्वेन सर्वसंज्ञा विवर्जयित्वानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयितव्यम् / न रूपप्रतिष्ठितं चित्तम् उत्पादयितव्यम् / न शब्दगन्धरसस्प्रष्टव्यप्रतिष्ठितं चित्तम् उत्पादयितव्यम् / न धर्मप्रतिष्ठितं चित्तम् उत्पादयितव्यम् / नाधर्मप्रतिष्ठितं चित्तम् उत्पादयितव्यम् / न क्वचित्प्रतिष्ठितं चित्तम् उत्पादयितव्यम् / तत् कस्माद् धेतोः / यत् प्रतिष्ठितं तद् एवाप्रतिष्ठितं / तस्माद् एव तथागतो भाषते रूपाप्रतिष्ठितेन दानं दातव्यम् /
30 SK Vअज् १४f; fओलिओ ४२व्३-४३र्ल् (Cz ४२.५-१२; P १८५.४-८) अपि तु खलु पुनः सुभूते बोधिसत्वेनैवं दानपरित्यागः परित्यज्यः सर्वसत्वानाम् अर्थाय / यैव च सत्वसंज्ञा स एवासंज्ञा / य एव ते सर्वसत्वाः तथागतेन भाषिताः त एवासत्वाः / भूतवादी सुभूते तथागतः सत्यवादी तथावादी तथागतो न वितथावादी तथागतो /
31 SK Vअज् १४ग्; fओलिओ ४३र्ल्-६ (Cz ४२.१२-२०; P १८५.८-१४) अपि तु खलु पुनः सुभूते यः तथागतेन धर्मो ऽभिसंबुद्धो देशितो वा न तत्र सत्यं न मृषा / तद् यथापि नाम सुभूते पुरुषो ऽन्धकारप्रविष्टः / एवं वस्तुपतितो बोधिसत्वो द्रष्टव्यो यो वस्तुपतितं दानं परित्यजति / तद् यथापि नाम सुभूते चक्षुष्मान् पुरुषो विभातायां रात्र्यां सूर्ये ऽभ्युद्गते नानाविधानि रूपाणि पश्येत् / एवं बोधिसत्वो द्रष्टव्यो यो वस्त्वपतितं दानं परित्यजति /
32 SK Vअज् १४ह्; fओलिओ ४३र्६-व्३ (Cz ४२.२०-४३.७; P १८५.१४-१८) अपि तु खलु पुनः सुभूते ये कुलपुत्रा वा कुलदुहितरो वा इमं धर्मपर्यायम् उद्ग्रहीष्यंति / धारयिष्यंति / वाचयिष्यंति / पर्यवाप्स्यंति / ज्ञातास् ते सुभूते तथागतेन दृष्टास् ते सुभूते तथागतेन बुद्धास् ते तथागतेन / सर्वे ते सत्वाः अप्रमेयं पुण्यस्कन्धं प्रसविष्यंति /
33 SK Vअज् १५अ; fओलिओ ४३व्३-४४र्५ (Cz ४३.८-१९; P १८५.१८-१८६.४) यश् च खलु पुनः सुभूते स्त्री वा पुरुषो वा पूर्वाह्णकालसमये गंगानदीवालुकोपमान् आत्मभावान् परित्यजेत् / मध्याह्णकालसमये सायाह्णकालसमये गंगानदीवालुकोपमान् आत्मभावान् परित्यजेत् / अनेन पर्यायेण कल्पकोटीनयुतशतसहस्राण्य् आत्मभावान् परित्यजेत् / यश् चेमं धर्मपर्यायं श्रुत्वा / न प्रतिक्षिपेद् अयम् एव ततोनिदानं बहुतरं पुण्यस्कन्धं प्रसुनुयात् / अप्रमेयम् असंख्येयम् / कः पुनर् वादः यो Iइखित्वोद्गृह्णीयात् / धारयेत् / वाचयेत् / पर्यवाप्नुयात् / परेभ्यश् च विस्तरेण संप्रकाशयेत् /
34 SK Vअज् १५ब्; fओलिओ ४४र्५-४५र्४ (Cz ४३.१९-४४.१३; G ७अल्-२; P १८६.५-१७) अपि तु सुभूते अचिंत्यो ऽतुल्यो ऽयं धर्मपर्यायः / अयं च धर्मपर्यायः तथागतेन भाषितः अग्रयानसंप्रस्थितानां सत्वानाम् अर्थाय / श्रेष्ठयानसंप्रस्थितानां सत्वानाम् अर्थाय / ये इमं धर्मपर्यायम् उद्ग्रहीष्यंति / धारयिष्यंति / वाचयिष्यंति / पर्यवाप्स्यंति / ज्ञातास् ते सुभूते तथागतेन दृष्टास् ते सुभूते तथागतेन / सर्वे ते सत्वाः अप्रमेयेण पुण्यस्कन्धेन समन्वागता भविष्यंति / अचिंत्येनातुल्येनामाप्येनापरिमाणेन पुण्यस्कन्धेन समन्वागता भविष्यंति / तत् कस्य हेतोः / न हि शक्यं सुभूते अयं धर्मो हीनाधिमुक्तिकैः श्रोतुम् / नात्मदृष्टिकैः न सत्वदृष्टिकैः न जीवदृष्टिकैः न पुद्गलदृष्टिकैः शक्यं श्रोतुम् उद्ग्रहीतुं वा धारयितुं वा वाचयितुं वा पर्यवाप्तुं वा नेदं स्थानं विद्यते /
35 SK Vअज् १५च्; fओलिओ ४५र्४-व्२ (Cz ४४.१३-१८; G ७अ२-३; P १८६.१७-२०) अपि तु सुभूते यत्र पृथिवीप्रदेशे इदं सूत्रं प्रकाशयिष्यति / पूजनीयः स पृथिवीप्रदेशो भविष्यति / सदेवमानुषासुरस्य लोकस्य वन्दनीयः प्रदक्षिणीकरणीयश् च स पृथिवीप्रदेशो भविष्यति / चैत्य स पृथिवीप्रदेशो भविष्यति /
36 SK Vअज् १६अ; fओलिओ ४५व्२-४६र्ल् (Cz ४४.१८-४५.६; G ७अ३-५; P १८६.२०-१८७.३) ये ते सुभूते कुलपुत्रा वा कुलदुहितरो वा इमान् एवंरूपां सूत्रांतान् उद्ग्रहीस्यंति धारयिष्यंति पर्यवाप्स्यंति / ते परिभूता भविष्यंति सुपरिभूताश् च भविष्यंति / // यानि तेषां सत्वानां पौर्वजन्मिकानि कर्माणि कृतान्य् अपायसंवर्तनीयानि दृष्ट एव धर्मे परिभूततया पूर्वजन्मिकान्य् अशुभानि कर्माणि क्षपयिष्यंति / बुद्धबोधिं च प्राप्स्यंति /
37 SK Vअज् १६ब्; fओलिओ ४६र्ल्-व्४ (Cz ४५.६-४६.६; G ७अ५-७ब्३; P १८७.३-१८७.१३) अभिजानाम्य् अहं सुभूते अतीते ऽध्वनि असंख्येये कल्पे असंख्येयतरे दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परेण परतरं चतुरशीतिबुद्धकोटीनयुतशतसहस्राण्य् अभूवन् ये मया आराधिता आराधयेत्वा न विराधिता / यच् च मया सुभूते बुद्धा भगवंतः आरागिता आरागयेत्वा न विरागिता यच् च चरिमे काले पश्चिमिकायं पंचाशत्यां वर्तमानायाम् इमं सूत्रांतम् उद्ग्रहीष्यंति धारयिष्यंति वाचयिष्यंति पर्यवाप्स्यंति / अस्य सुभूते पुण्यस्कन्धस्यांतिकाद् एष पूर्वकः पुण्यस्कन्धः शततमीम् अपि कलां नोपैति साहसृतमाम् अपि / शतसाहसृतमाम् अपि / कोटीशतसाहसृतमाम् अपि / संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि उपनिशाम् अपि न क्षमते /
38 SK Vअज् १६च्; fओलिओ ४६व्४-६ (Cz ४६.६-११; G ७ब्३-४; P १८७.१३-१४) सचेत् सुभूते तेषां कुलपुत्राणां कुलदुहितॄणां वा पुण्यस्कन्धं भाषेत् / यावंतः ते कुलपुत्रा वा कुलदुहितरो वा तस्मिन् समये पुण्यस्कन्धं प्रतिगृह्णंति / उन्मादं ते सत्वाः प्राप्नुयुः चित्तविक्षेपं वा गच्छेयुः /
39 SK [Hएरे थे मनुस्च्रिप्त् ब्रेअक्स् ओff.]
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vajracchedika Prajñāpāramitā (sa_vajracchedikA-prajJApAramitA-frag.htm).
Source