The Crown of the Teachings
Makuṭāgama
SKॐ श्रीशिवाभ्यां नमः || || श्रीमकुटागमः || तन्त्रावतारपटलः || श्रीमन्महेन्द्रे जगतां नयनानन्दकारके | बिल्ववृक्षशमीवृक्ष वटचम्पकपिप्पलैः || १-१ || प्लक्षपुन्नागसहितैश्चन्दनैः परिवारिते | महासदसि सौवर्णे सर्ववर्णपरिष्कृते || १-२ || सिम्हासने महारत्नमण्डिते मङ्गलालये | आसीनं परमेशानमवाङ्मानसगोचरम् || १-३ || अनादिमलनिर्मुक्तं जगद्देवं दयानिधिम् | सर्वविद्या विधातारं वामे गौरिसमायुतम् || १-४ || ब्रह्मनारायणार्केन्द्रमुनिगन्धर्व सेवितम् | संस्तूयमानन्दैर्वाद्यैस्तोत्रमङ्गलवाचकैः || १-५ || चन्द्रार्यशेखरं शान्तं प्रसन्नं परमेश्वरम् | महेश्वरः प्रसन्नात्मा शिवज्ञानजिघृक्षया || १-६ || प्रणम्य सादरं भक्त्या प्राह लोकहितं वचः | महेश्वर उवाच� देवदेव जगन्नाथ भक्तानामार्तिनाशन || १-७ || प्. २) सृष्टिरक्षण सम्हारतिरोधानुग्रहोद्यत | शिवागमार्णवान्तस्थ ज्ञानरत्न प्रकाशक || १-८ || पशूनां पाशविश्लेषविशारदकृपानिधे | शक्त्या च परया युक्त परसंवित् स्वरूपया || १-९ || सर्वज्ञ सर्वकृच्चम्भो सर्वात्मन् सर्वतोमुख | साधकानां हितं पुण्यं योगिनां मोक्षसाधनम् || १-१० || शिवज्ञानं परं शुद्धं वदमे परमेश्वर | एवं पृष्टो महेशेन भगवान् परमेश्वरः || १-११ || सर्वलोकहिते क्षिण्या प्राहगम्भीरया गिरा | श्रीपरमेश्वर उवाच� वक्ष्ये सङ्क्षेपमार्गेण यथा प्रश्नं तवेप्सितम् || १-१२ || महेश्वर महाभाग समाहितमनाश्शृणु | शिवज्ञानं परङ्गुह्यं भोगमोक्षप्रदायकम् || १-१३ || सर्वपापहरं पुण्यं सर्वतन्त्रार्थ बोधकम्(बोथकम्) | युक्तं शतसहस्रेण ग्रंथं(ग्रंधं) सर्वर्थसाधकम्(-साथकम्) || १-१४ || ऊर्ध्वशैव महातन्त्रं मकुटाख्यं महेश्वर | तत् तु सङ्क्षेपतस्तुभ्यमधुनासं प्रवक्ष्यते || १-१५ || अथ शैवं नवविधं(-थं) सङ्क्षेपेण क्रमाच्छृणु | ऊर्ध्वशैवन्तु प्रथममादिशैवं द्वितीयकम् || १-१६ ||
SKमहाशैवं तृतीयन्तु अनुशैवञ्चतुर्धकम् | अवान्तरं पञ्चमञ्च मीश्रशैवञ्च षष्ठकम् || १-१७ || सप्तमं भेदशैवं स्यादष्टमङ्गुणशैवकम् | आज्ञा शैवं तु नवमं शैवभेदक्रमं शृणु || १-१८ || प्. ३) शैवं पाशुपतं सोमं लाकुलञ्च चतुर्विधम् | तेषु श्रेष्ठतमं शैवमूर्द्ध्व स्रोतसमुद्भवम् || १-१९ || ततस्तु द्विविधं शैवं सौम्यं रौद्रमिति स्मृतम् | सौम्यञ्च द्विविधं प्रोक्तं दक्षिणञ्चैवमिशृतम् || १-२० || आचारोवेदविहितो दक्षिणाचार उच्यते | विपरीतन्तु वामं स्यात् तयोर्मिशृं तु सङ्गमम् || १-२१ || वेदसारमिदं तन्त्रं तस्माद् वैदिक आचरेत् | वेदान्तार्यमिदं ज्ञानं सिद्धान्तं परमं शुभम् || १-२२ || ऊर्ध्व स्रोद्भवं श्रेष्ठमष्टाविम्शति तन्त्रकम् | वेदसारार्थदं ज्ञेयमन्वदन्यार्थ साधकम्(साथकम्) || १-२३ || तन्त्रादौ तन्त्र सद्भावो मूलभेदोपभेदयुक् | नामभिः कामिकाद्यैस्तु वक्ष्येतां क्रमशश्शृणु || १-२४ || तनोति विपुलानर्थां तत्व मन्त्र समाश्रितान् | त्राणञ्च कुरुने पुम्सान्तेन तन्त्रमिति स्मृतम् || १-२५ || कामिकं योगजं चित्यङ्कारणन्त्वजितं तथा | दिप्तं सूक्ष्मं सहस्रञ्चाम्शुमानसुप्रभेदकम्(-पृभेदकम्) || २६ || विजयञ्चैव निश्वासं स्वायम्भुवमथाऽनलम् | वीरञ्च रौरवञ्चैव मकुटं विमलं तथा(-तडा) || १-२७ || चन्द्रज्ञानञ्च बिम्बञ्च प्रोद्गीतं ललितं तथा | सिद्धं सन्तान संज्ञञ्च शर्वोक्तं पारमेश्वरम् || १-२८ || किरणं वातुलञ्चैवाऽप्यष्टा विंशति सङ्ख्यकाः | एतेषां पूर्वदशकं शिवभेदं प्रकीर्तितम् || १-२९ || तथाऽपराष्टदशकं रुद्रभेदं तु नामतः | शिवरुद्रात्मकं तन्त्रमष्टाविम्शति संख्यकम् || १-३० || प्. ४) यद्यप्येको भवेद्वक्ता श्रोत्रभेदस्त्वनेकथा | अथ सिद्धान्त तन्त्राणां श्रोतारस्तु विशेषतः || १-३१ || प्रणवाद्याः प्रकीर्त्यन्ते शृणष्वेतं महेश्वर | श्रोतारः शिवभेदानां पारम्पर्याक्त्रयस्त्रयः || १-३२ ||
SKद्वौ द्वौ तु रुद्रभेदानां प्रोक्ताः षष्टिषडुक्तर | प्रणवात् त्रिकलस्त्र्यक्षः सुधाख्योभस्मकोविभुः || १-३३ || सुदीप्ता गोपतिः पश्चादम्बिका चैव कारणः | शर्वरुद्रः व्रजेशश्च सुभ्रुश्च सुशिवोच्युतः || १-३४ || ईशः त्रिमूर्तिनामा च हुताशः सूक्ष्मसंज्ञकः | ततो वै श्रवणश्चैव प्रभंजनाभिधानकः || १-३५ || कालोभीमश्च धर्मश्च ततोग्रश्चांबुसंज्ञकः | रविर्विघ्नेश्वरश्चैव दशे शश्शशिनामकः || १-३६ || त्रिंशत्संख्याः क्रमात् प्रोक्ताः शिवभेदाधि देवताः | रुद्रश्च परमेशश्च दशार्णो गिरिजातनः || १-३७ || निधनः पद्मसम्भूनः व्योमनामाग्नि संज्ञकः | तेजः प्रजापतिश्चैव ब्रह्मा च नन्दिकेश्वरः || १-३८ || शिवश्चैव महादेवः सर्वात्मा वीरभद्रकः | अनन्तो बृहस्पतिश्चैव प्रशान्तश्च दधीचकः || १-३९ || शूली च कवचः पश्चादालयो रुद्रभैरवः | बिन्दुश्चण्डेश्वरश्चैव शिव निष्ठोम्बवायसः || १-४० || सोमदेवो नृसिह्मश्च श्रीदेवी चोशना तथा | देव पिता च संवर्तः सिवो महाकालस्तथा || १-४१ || प्. ५) एने वै तत्व सङ्ख्या च रुद्रभेदाधिदेवताः | मूलतन्त्रोपभेदाश्च वक्ष्यते नामभिः क्रमात् || १-४२ || त्रिभेदं कामिकं प्रोक्तं पञ्चभेदञ्च योगजम् | षट्भेदं चिन्त्य तन्त्रञ्च सप्तभेदन्तु कारणम् || १-४३ || अजिताख्यञ्चतुर्भेद दीप्तञ्च नवभेदकम् | सूक्ष्ममेकविधं प्रोक्तं दशभेदं सहस्रकम् (सक्षस्रकम्) || १-४४ || अम्शुमां सूर्यभेदं स्यात् सुप्रभेदमभेदकम् | अष्टभेदन्तु विजयं निश्वासञ्चाष्ट भेदकम् || १-४५ || स्वायम्भुवं द्विभेदं स्याद् आग्नेयं तद् विभेदकम् | चीरतन्त्रं विशेषेण भेदाश्चैव त्रयोदश || १-४६ || षट्भेदं रौरवं प्रोक्तं मकुटन्तु द्विभेदकम् | विमलन्तु कलाभेदं चन्दज्ञानञ्चतुर्दश || १-४७ || तिथिभेदं(तिधि-) बिंबतन्त्रं प्रोद्गीतं षोडश स्मृतम् | ललितं गुणभेदं स्यात् सिद्धञ्च युगभेदकम् || १-४८ ||
SKसन्तानं सप्तभेदं स्याच्छर्वोक्तं पञ्चधा भवेत् | पारमेशं सप्तभेदं किरणन्नवभेदकम् || १-४९ || वातुलं रविभेदं स्याद् वाक्ष्यते च पृथक् पृथक् | नारसिंहञ्च वक्त्रारम्भैरवोक्तरमेव च || १-५० || कामिकस्य त्रयोभेदास्तारं वीणाशिखोत्तरम् | आत्मयोगं सुतारञ्च सन्नतिर्योगजस्य तु || १-५१ || सुचिन्त्यं सुभगं वामं अमृतं पापनाशनम् | परोत्भवं च चिन्त्यस्य भेदाष्षट्च प्रकीर्तिताः || १-५२ || महेन्द्रं कारणन्दौर्गं पावनं भीमसंहिता | विद्वेषं मारण चैव सप्तभेदं तु कारणे || १-५३ || प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता | अजितस्य चतुर्भेदं पश्चान्नवमसंख्यकम् || १-५४ || प्. ६) अमेयमब्दमाच्छाद्यमसंख्यममितोजसम् | आनन्दं माधवोद्भूतमद्भुतञ्चाक्षयं तथा || १-५५ || सूक्ष्म तन्त्रे च सूक्ष्माख्यमेकमेव प्रकीर्तितम् | अतीतं मङ्गलं शुद्धमप्रमेयञ्च जातिभाक् || १-५६ || प्रबुद्धं विबुधं हस्तमलङ्कारं सुबोधकम् | एते सहस्र तन्त्रस्य दशभेदा उदाहृताः || १-५७ || काश्यपं वासवञ्चेन्द्रं वासिष्ठङ्गौतमं तथा | भूत तन्त्रं प्रकारणं विद्या पुराणमेव च || १-५८ || ईशानोत्तरसंज्ञञ्च नीललोहितमेव च | आत्मा लङ्कारकं ब्राह्मं द्वादशांशुमतोभिदाः || १-५९ || सुप्रभेदमभेदं स्याद् भवङ्कौबेरमुत्भवम् | महाघोरमघोरञ्च विमलं मृत्युनाशनम् || १-६० || विजयस्याष्ट भेदाः स्युर्विजयाख्यस्य कीर्तितम् | निश्वासं मन्त्रनिश्वासं निश्वासोत्तरसंज्ञकम् || १-६१ || निश्वास गुह्यं निश्वासघोरस्यां निश्वास कारिका | निश्वास नयनञ्चैवस्यां निश्वासमुखोदयम् || १-६२ || निश्वासस्याष्ट भेदञ्च महातन्त्रस्य कीर्तितम् | प्राजापत्यञ्च पद्मञ्च द्वयं स्वायंभुवस्य तु || १-६३ || अनलस्य द्वयं प्रोक्तमाग्नेयं व्योम तन्तृतम् | प्रस्तरं पुल्लममलं प्रबोधकममोहकम् || १-६४ || मोहसमयञ्च शकटं शाकटाथिकभद्रके | विलेघनञ्च वीरञ्च हलञ्च बोधबोधकम् || १-६५ ||
SKभेदास्तयोदश प्रोक्ताः वीरतन्त्रे महेश्वर | कालदाहं कलातीतं रौरवं रौरवोत्तरम् || १-६६ || महाकालमतञ्चैन्द्रं रौरवस्यापिषट्भिदाः | द्वे भेदे मकुटे प्रोक्तं मकुटं मकुटोत्तरम् || १-६७ || प्. ७) वृषभं वृषा पिङ्गाख्यमाक्रान्तं वृषभोक्तरम् | सुदन्तमितिभूतञ्च रौद्रभद्रविधन्था च || १-६८ || अनन्तमट्टाहासाख्यमर्चितं धारणन्तथा | भेदं विमल तन्त्रस्य षोडशेवं प्रकीर्तितम् || १-६९ || एक पादपुराणञ्च स्थाण्वाख्यं नन्दिकेश्वरम् | स्थिराख्यं शाङ्करं प्रोक्तं श्रीमुखं शिवभद्रकम् || १-७० || कल्पभेदमतिव्याप्तं महावारुणमेव च | देव्यामतञ्च वायव्यं शिवशासन संज्ञकम् || १-७१ || शिवशेखरमित्युक्तं चन्द्रज्ञाने चतुर्दश | चतुर्वक्त्रमयोगञ्च संस्तोभं प्रतिबिंबकम् || १-७२ || अर्थालङ्कारमैशानन्तौटिकन्तुटिनीरकम् | कुट्टिमाख्यं तुलायोगं तुलाप्रत्ययं एव च || १-७३ || महाविद्या महासौर नै-ऋतं पट्टशेखरम् | मुखबिंबस्य तन्त्रस्य भेदाः पञ्चदशोदिताः || १-७४ || वाराहं पाशबन्धञ्च पिङ्गलामतमेव च | धनुर्धरन्दण्वधरं शिवज्ञानं तथाङ्कुशम् || १-७५ || विज्ञानमायुर्वेदञ्च श्रीकालज्ञानसंज्ञकम् | धनुर्वेदन्तु कवचं सर्पदंष्ट विभेदनम् || १-७६ || भरतं गीतमातोद्यं प्र्ॐद्गीते षोडशसृताः | ललितस्य त्रयोभेदाः ललितं ललितोत्तरम् || १-७७ || कौमारञ्च ततः शालाभेदं सारोक्तराह्वयम् | औशनोत्तरसंज्ञञ्च शशिमण्डलमेव च || १-७८ || सिद्धतन्त्रस्य चत्वारो भेदास्तु परिकीर्तिताः | लिङ्गाथ्यक्षं सुराथ्यक्षं शंकरञ्चामरेश्वरम् || १-७९ || असंघ्यमनिलं द्वंद्वं सन्ताने सप्तभेदकम् | शिवयर्मोत्तरं दिव्य प्रोक्तमीशानमेव च || १-८० || वायुप्रोक्तं कुबेराख्यं शर्वोक्तपञ्चधास्त्रताः | प्. ८) हंसं पद्मञ्च मातङ्ग सामान्यं यक्षिणी मतम् || १-८१ || पुष्करं सुप्रयोगञ्च सप्तधा पारमेश्वरे | गारुडं नै-ऋतं रूक्षं नीलंबुद्धञ्च भानुकम् || १-८२ ||
SKप्रबुद्धं धेनुकंकालं किरणे नवकीर्तिताः | वातुलोत्तर संज्ञञ्च वातुलञ्च प्ररोहितम् || १-८३ || कालज्ञानञ्च शर्वं च नित्यं धर्मात्मकं तथा | विश्वं श्रेष्ठञ्च शुद्धञ्च विश्वात्मकं महाननम् || १-८४ || वातुलाख्ये मसातन्त्रे भेदा द्वादश कीर्तिताः | उपभेदाः क्रमात् प्रोक्तं सप्तोत्तरशतद्वयम् || १-८५ || कामिकाद्य जितान्तास्तु सद्यो जातमुखोद्भवाः | दीप्ताद्याः सुप्रभेदान्ताः वामदेवमुखोद्भवाः || १-८६ || विजयाद्यास्तु वीरान्ताः संहिताऽघोरवक्त्रुजाः | रेवरवान्मुख सिम्बान्ताः पुरुषानन संभवाः || १-८७ || ईशान वक्त्रसंज्ञाताः प्रोद्गीताद्यष्ट संहिताः | ग्रन्धसंख्यां प्रवक्ष्यामि क्रमाच्छुणु महेश्वर || १-८८ || परार्थं कामिकं प्रोक्तं योगजं लक्षमुच्यते | चिन्त्यन्तु शतसाहस्रं कारणं कोटिसम्मितम् || १-८९ || अजितं प्रयुतं प्रोक्तन्नियुतं दीप्तमुच्यते | सूक्ष्मञ्च पद्मसंख्याकं सहस्रं शंखसंघ्यकम् || १-९० || अशुमान् पञ्चलक्षन्तु सुप्रभेदं त्रिकोटिकम् | विजयञ्च त्रिकोटिस्यात् कोटिर्निश्वासमुच्यते || १-९१ || स्वायंभुवं त्रिकोटिश्चाप्यनलन्त्वयु तत्रयम् | वीरञ्च नीयुतं प्रोक्तं रौरवञ्चार्बुदाष्टकम् || १-९२ || मकुटं शतसाहस्रं विमलञ्च त्रिलक्षकम् | चन्द्रज्ञानं त्रिकोटिः स्यान् मुखबिंबं सहस्रकम् || १-९३ || प्रोद्गीतन्तु त्रिलक्षणं स्याल्ललिताष्ट सहस्रकम् | प्. ९) सार्धकोटिस्तु सिद्धञ्च सन्तानं षट्सहस्रकम् || १-९४ || शर्वोक्तन्तु त्रिलक्षं स्यात् पारमेशं त्रिलक्षकम् | किरणं पञ्चकोटिः स्याच्छत साहस्रवातुलम् || १-९५ || तन्त्रमूर्तिञ्च संक्षेपात् प्रवक्ष्यामि महेश्वर | कामिकं पादयुग्मं स्याद् योगजङ्गुल्पयोर्युगम् || १-९६ || चिन्त्यं पादाङ्गुलिः प्रोक्तं जंघायुग्मन्तु कारणम् | अजितं जानुदेशं स्याद् दीप्तमूरु प्रदेशकम् || १-९७ || सुक्ष्मन्तु गुह्यदेशं स्यात् सहस्रन्तु कटीतटम् | अंशुमान् पृष्ठभागं(प्रष्ठ-) स्यान् नाभिः स्यात् सुप्रभेदकम् || १-९८ ||
SKविजयङ्कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् | स्वायंभुवं स्तन द्वंद्वमनलन्नेत्रमुच्यते || १-९९ || वीरञ्च कर्णदेशन्तु रौरवं श्रवणद्वयम् | मकुटं मकुटं तन्त्रमङ्ग प्रत्यङ्गमेव च || १-१०० || बाहू तु विमलं प्रोक्तञ्चन्द्रज्ञानमुरस्थलम् | मुखबिंबन्तु वदनं जिह्वा प्रोद्गीतमुच्यते || १-१०१ || कपोलौ ललितं प्रोक्तं सिद्धञ्चैव लला.टकम् | सन्तानं कुण्डलं विद्याच्छर्वोक्तमुपवीतकम् || १-१०२ || पारमेशञ्च हारन्तु किरणं रत्नभूषणम् | कालोत्तरं तथा नाड्यो वायुर्द्वाविंशतिर्भवेत् || १-१०३ || वातुलं वसनं प्रोक्तं शिवधर्मनुलेपनम् | बिंबं पुष्पञ्चमाल्यञ्च सिद्धान्तञ्च निवेदनम् || १-१०४ || तन्त्रात्मकेन कायेन देवं दक्षिणतोमुखम् | आनन्द रूपममलं नृत्यन्तं निष्कलं शिवम् || १-१०५ || ध्यायेत् सिद्ध्यै गुरुर्नित्यं सन्ध्या काले विशेषतः | प्. १०) एवं सित्वान्त तन्त्राणामवतार उदाहृतः || १-१०६ || अन्येषां प्रोच्यते नात्र ग्रन्धविस्तारशंकया | कर्षणादि (कर्क्षणादि) प्रतिष्ठान्तं मूलेनैव समाचरेत् || १-१०७ || कृतञ्चेदुपभेदेन कर्ताभर्ता विनश्यति | केवलं यजनं प्रोक्तमुपभेदैर्विशेषतः || १-१०८ || प्रतिष्ठाद्यास्तु मूलैश्च षट्षष्ट्या कथितैः पुनः | आरब्धं येन तन्त्रेण कर्षणाद्यर्चनान्तकम् || १-१०९ || तेन सर्वं प्रकर्तव्यं न कुर्याद् अन्यतन्त्रतः | अनुक्तमन्यतन्त्रेभ्यः संग्राह्य देशिको चरेत् || १-११० || शिवसिद्धान्त तन्त्रेण प्रारब्धं कर्षणादिकम् | न कुर्याद् अन्यतन्त्रेण कुर्याच्चेत् तन्त्र संकरम् || १-१११ || तन्त्र संकर दोषेण राजराष्ट्रं विनश्यति | शैवः सर्वाधिकारी स्यात् स्वकीये च परत्र च || १-११२ || अन्येषां स्वस्वतन्त्रेषु विद्यते त्वथिकारिता || ११३अ� || इति मकुट तन्त्रे त्रिसहस्रसंहितायां क्रियापादे तन्त्रावतारोनामप्रथमः पटलः || १ || || शिवार्चनाविधिपटलः || शिवपूजा प्रशस्तिः || वक्ष्ये नित्यार्चनं पुण्यं सर्वशिद्धिकरं शुभम् | महापातक दोषघ्नं सर्वैश्वर्य प्रदायकम् || २-१ ||
SKआत्मार्थपूजा आत्मार्थञ्च परार्थञ्च पूजा द्विविधमुच्यते | गुरुदेहे शुभे लिङ्गे स्थण्डिले च निजात्मनि || २-२ || क्षणिके मण्डले ते येऽप्यात्मार्थयजनं स्मृतम् | परार्थपूजा निर्मितं विधिना पूर्वं सुरैर्वामुनिभिर्नरैः || २-३ || स्वयमुद्गूत लिङ्गञ्च प्रतिमा चेश्वरात्मिका | परार्धे समाख्याताः सर्वेषामात्मनः फलम् || २-४ || (शिव द्विजस्य चातुर्वर्ण्य गुरुत्वम् * * * * |) चातुवर्ण्यस्य दीक्षायां विशेषात् ब्राह्वणो गुरुः || २-५ || (आत्मार्थ परार्ध पूजायिकारिणः * * * * |) विप्रक्षत्रियवीट्शुद्राः दीक्षिताश्च प्रवेशकाः || २-६ || आत्मार्थ यजनं कुर्युर्न कुर्युस्ते परार्थकम् (परार्धकम्) | ऊर्ध्वशैवैस्तु कर्तव्यमात्माथर्धिञ्च परार्धिकम् || २-७ || ऊर्ध्वशैव इति प्रोक्तः सशिवब्राह्मणो गुरुः | निर्वाणदीक्षितानाञ्चाऽप्यात्मार्थञ्च परार्थकम् || २-८ || शैवागमेषु परमं यस्माच्चैवाऽभिषेनम् | मकुटन्तु परन्नाम परताण्डव कीर्तनम् || २-९ || नाममन्त्राथिकं तन्त्र नादातीतात्मकंशुभम् | प्. १२) अन्यजातेस्तु दीक्षायामाभिचाराय कल्पते || २-१० || शौचविधिः || प्रातः काले शिवं ध्यात्वा सर्वकर्म शिवाय च | ग्रामस्ये शानदिक्भागे मलादीनि विसर्जयेत् || २-११ || गोस्थानाद् देवताऽवासाद् वल्मीकाच्च जलाशयात् | ब्राह्मणानाङ्गवां नॄणां स्त्रीणाञ्चाऽन्यत्र सन्निथे || २-१२ || शिरसि वेष्टनं कृत्वा मौनीचोत्तरतोमुखः | दत्थिणं हस्तमावृत्य प्रविशेत् सलिलाशयम् || २-१३ || नद्यान्तटाके कूपे वा शौचं कुर्याद् यथाविधि(-विथि) | मनशुद्धि क्रमं शौचं पादप्रक्षालनं क्रमात् || २-१४ || दन्तधावनम् || प्लाक्षोदुंबर निंबाद्यैः कुर्याद् वै दन्तधावनम् | अस्त्रमन्त्रेण नासास्यदन्त शुद्धिं समाचरेत् || २-१५ || त्रयाक्षरं सक्रज्जप्त्वा जिह्वाशुद्धिमनन्तरम् | मलस्नानम् | मलस्नानं पुराकृत्वा मन्त्रस्नानविधिं(-विथिं) शृणु || २-१६ || स्नानानि पञ्चप्रोक्तानि दीक्षितानां विशुद्धये | वारुणन्तैजसन्दिव्यं वायव्यं रजसां गवाम् || २-१७ ||
SKवारुणं वारिणा स्नानमाग्नेयं भस्मना भवेत् | वृष्ट्या साऽतपया दिव्यं वायव्यं रजसा गवाम् || २-१८ || मन्त्रैर्मानसमित्युक्तं एवं स्नानानि पञ्चधा(-था) | नद्यां वाऽपि तटाकायां कूपे वा तीर्धराशिषु || २-१९ || तोयं शुद्धमशुद्धं वा शिवालय समीपगम् | शिवगङ्गेति विख्याता शिवपाद प्रसेचनात् || २-२० || तेषामेक तमञ्गत्वा स्नानं कुर्याद् विशेषतः | प्. १३) कुर्याद् धस्त प्रमाणेन मण्डलञ्च तु रश्रकम् || २-२१ || अस्त्रेण हुंफडन्तेन मृदं गृह्णीत साधकः | सद्येन स्थापयेत् तत्र वाममन्त्रेण शोधयेत् || २-२२ || अघोरेण मृदं स्पृष्ट्वा त्रिधाकार्यानरेण तु | ईशानेन तु मन्त्रेण चेकेकमभिमन्त्रयेत् || २-२३ || षडङ्गं ब्रह्म जप्त्वा तु पूर्वादिषु विनिक्षिपेत् | अस्त्रजप्तं मृदोभागं दशदिक्षु विनिक्षिपेत् || २-२४ || सद्य जप्तं मृदोभागं तीर्थमथ्ये विनिक्षिपेत् | हुंफट्कारेण मन्त्रेण मूलनैव सुयोजयेत् || २-२५ || षोडशाक्षर कन्न्यस्त्वा स्वनामाद्येन लेखयेत् | अस्त्रं जप्त्वा तु बद्ध्नीयां मुद्रां संसारतारकाम् || २-२६ || जले सूक्ष्माश्चये दोषास्तेषामुच्चाटनं भवेत् | शिरोवक्त्रञ्च हृदयङ्गुह्यं पादौ च दक्षिणे || २-२७ || पूर्ववत् स्थाप्य मृत्पिण्डं सर्वाङ्गञ्च विलेपयेत् | उत्तरे स्थाप्य मृत्पिण्डं तीर्थमध्ये (-मथ्ये) विनिक्षिपेत् || २-२८ || पञ्चतीर्थानि | अङ्गुष्ठमूले ब्राह्मं स्यादङ्गुलीनान्तु मध्यमे | आग्नेयं पैत्रकं पश्चात् तर्जन्युष्ठमध्यतः || २-२९ || अङ्गुलीनान्तु मूलेषु देवतीर्थमुदाहृतम् | अङ्गुल्यग्रे तीर्थमार्षं पञ्चदेवांस्तु तर्पयेत् || २-३० || प्राशनं ब्रह्मतीर्थेन प्रोक्षणं वह्नितीर्थतः | स्पर्शनं पितृतीर्थेन देव तीर्थेन मार्जनम् || २-३१ || गृहणन्त्वार्षतीर्थेन विदध्यात् पञ्चधा पुनः | विधिस्नानम्(विथि-) | प्. १४) राजोपचारसहितं सुगन्धामलकादिभिः || २-३२ || हरिद्रा कुंकुमाद्यैश्च कुर्याद् अङ्गानुलेपनम् | (जलावगाहान्ते तु दिव्य स्त्री * परिसेवितम् || २-३४ ||)
SKशिवमन्त्रेण शतधा जप्तेन ब्रह्मभिस्तथा | अङ्गैर्व्योम व्यापिना च त्र्यंबकाख्यादि मन्त्रतः || २-३५ || उदुत्यं चितृं देवानां मन्त्रेण च शिवेक्षणः | अभिषेकं शनैर्मूर्ध्नि विदध्याद् वक्त्रमुद्रया || २-३६ || शुद्धाचमनम् || प्राणयामन्ततः कृत्वा मन्त्रैराचमनं कुरु | दक्षपादं स्थले कृत्वा वामपादं जलेऽपि च || २-३७ || हस्तं संकुचितं कृत्वा पवित्रेण विभूषितम् | माषमत्र प्रमाणेन जलानां प्राशनं भवेत् || २-३८ || एवं त्रिवारं पीत्वाऽस्यमङ्गुष्ठेन द्विधा स्पृशेत् | मुखं हस्तेन संस्पृश्य पादावभ्युक्षयेत् ततः || २-३९ || अङ्गुष्ठामनामिकाभ्यान्तु चक्षुषी संस्पृशेत् बुधः | अङ्गुष्ठ तर्जन्य ग्राह्यां संस्पृशेन्नासापुटद्वयम् || २-४० || पश्चात् कनिष्ठाङ्गुष्ठाभ्यां संस्पृशेन्नेत्रयोर्द्वयम् | अङ्गुष्ठमध्यमाग्राह्यां(-मथ्य-) बाह्वोर्युग्मं पुनः स्पृशेत् || २-४१ || स्पृशेत् पर्वाङ्गुलीभिश्च नाभिञ्च हृदयं शिरः | एवं कृक्त्वा तु मन्त्रज्ञो प्रत्यङ्गमुपसंस्पृशेत् || २-४२ || मन्त्राचमनं || ॠग्यजुः साम मन्त्रैश्च पिबेद् वारित्रयं पुनः | प्. १५) अथर्वणेऽति हासेन वक्त्रसंस्पर्शनं द्विधा || २-४४ || अभ्युक्षयेच्चिरः पादा वृषिषंघस्य कृप्तये | मूर्धानञ्चक्षुषी श्रोत्रे सर्वदेवेन्द्र कृप्तये || २-४५ || बाहुनाभिञ्च हृदयमिन्द्र विष्ण्वग्नि कृप्तये | पुनराचमनञ्चैव तन्मन्त्रैरेवमाचरेत् || २-४७ || विशेषाचमनम् || सद्यस्तत् पुरुषा घोरमन्त्रैः पीत्वा क्रमात् त्रिधा | संस्पृशेद् धृदये नैव सर्वाण्यङ्गानि देशिकः || २-४८ || विशेर्षाचमनं प्रोक्तं सायं मध्याह्नमुच्यते | कामिकं पादयुग्मं स्याद् योगजङ्गुल्पमेव हि | चिन्त्यं पादाङ्गुलिः प्रोक्तं जंघायुग्मन्तु कारणम् || २-५० || अजितं जानुदेशं स्यात् दीप्तमुरुप्रदेशकम् | सूक्ष्मन्तु गुह्यदेशं स्यात् (फ्यात्) सहस्रन्तु कटीतटम् || २-५१ || अंशुमान् पृष्ठदेशन्तु नाभिः स्यात् सुप्रभेदकम् | विजयं कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् || २-५२ ||
SKस्वायंभुवं स्तन द्वंद्वमनलं नेत्रमुच्यते | वीरञ्च कण्ठ देशन्तु रौरवं श्रवणद्वयम् || २-५३ || मकुटं मकुटं तत्रमङ्ग प्रत्यङ्गमेव च | भाहू तु विमलं प्रोक्तं चन्द्रज्ञानञ्च नासिका || २-५४ || बिंबाख्यं वदनं प्रोक्तं जिह्वा प्रोद्गीतमेव च | कपोलौ ललितं प्रोक्तं ललाटं सिद्धमेव च || २-५५ || सन्तानं कुण्डलं विद्याच्छर्वोक्तमुपवीतकम् | पारमेश्वर हारञ्च किरणं रत्नकुण्डलम् || २-५६ || प्. १६) कालोत्तरं तथा नाथ्यो वायु द्वाविंशके तु ना | वातुलं वसनं प्रोक्तं शिवधर्मन्तु लेपनम् || २-५७ || गन्धं पुष्पञ्च माल्यञ्च सिद्धान्तञ्च निवेदनम् | तन्त्रात्मकशरीरेण ध्यात्वा दक्षिणतोमुखम् || २-५८ || आनन्दरूपममलं नृत्यन्तं निष्कलं शिवम् | इत्येवं पूर्ववद् ध्यात्वा नटेशं चित्ररूपकम् || २-५९ || शिवमन्त्राभिषेकन्तु पादमुद्रात्वनन्तरम् | आचामं विधिवत्(विथिवत्) कृत्वा नाममन्त्रं समुच्चरेत् | पुरुषाणाञ्च सावित्रीमष्टोत्तरशतं जपेत् || २-६१ || सौरञ्च सूर्यहृदयमुपस्थानमथाचरेत् | पञ्चब्रह्म षडङ्गैश्च व्योमव्यापिं त्र्ययंबकम् || २-६२ || उदुत्यं चित्रं देवानां हंसशुचिषदं जपेत् | सन्ध्याञ्चैव तु सावित्रीं गायत्रीं सर्वदेवताम् || २-६३ || ससंप्रदान नत्यन्ताः प्रोक्ताः काम स्वकरिषीः | साष्टाङ्गं प्रणमेद्गूमौनमोनम इति ब्रुवन् || २-६४ || पञ्चप्रदक्षिणं कुर्या तथाऽचम्य विधानतः | देवा नृषीन् पितृंश्चैव वामा घोराजशंबरैः || २-६५ || देवतीर्थेन देवानामृषीणा मृषितीर्थतः | पितृणां पितृतीर्थेन विदथ्यात् तर्पणं क्रमात् || २-६६ || आचम्यविधिवत्(-विथिवत्) स्थित्वा || २-६७ || श्रीरुद्रं पुरुष सूक्तञ्च पञ्चब्रह्मषढङ्गकम् || २-६८ || उत्तराभिमुखो मौनी जपित्वा तु सकृत् घकृत् | प्. १७) तीर्थसङ्गृहणं कुर्यादस्त्र पंजरमध्यगः || २-६९ || पवित्रधारणम् | पवित्रपाणिर्मौनी तु सर्वकर्म समाचरेत् | दर्भद्वयेन वा दर्भैस्त्रिभिर्वा पञ्चभिस्तु वा || २-७० ||
SKअथवा सप्तभिः कुर्यात् पवित्रं मङ्गलं शुभम् | अग्रं वै चतुरङ्गुल्यं ग्रन्थिश्चन्द्राङ्गुलिः(ग्रन्धि-) स्मृता || २-७१ || द्व्यङ्गुलं रज्जुवलयमनामिकायां नियोजयेत् | ग्रन्थिर्ब्रह्माथिदैवत्योरज्जुर्विष्ण्वथि(गृन्धिर्-) दैवतः || २-७२ || अग्रं रुद्राथिदैवत्यं पवित्रस्याथि देवताः | पूजधामप्रवेशनं || कुशं पुष्पञ्च संग्राह्य प्रविशेद्यागमन्दिरम् || २-७३ || प्रक्षाल्य पादा वाचम्य भस्म स्नानमथाचरेत् | भस्म स्नानम् || भस्म स्नानं प्रवक्ष्यामि सर्वदुःख निवारणम् || २-७४ || गोमातरः स्थिताः भूमौ स्नानार्थञ्च शिवस्य तु | सर्वदेवात्मकं शुद्धं पवित्रं पापनाशनम् || २-७५ || दक्तञ्चैव हुतं भुक्तङ्गोषु सर्वञ्चराचरम् | अथ गोषु विशेषासु तदुत्पत्तिविधिं शृणु || २-७६ || गोसावित्रीं सकृज्जप्त्वा गन्धं पुष्पञ्च धूपकम् | दीपं सवत्सगोः पादे प्राणम्य प्रतिपादयेत् || २-७७ || गोरोचना कृतं लेपं क्षीरान्नञ्च निवेदयेत् | तांबूलं दापयित्वा तु गोसावित्रीं शतं जपेत् || २-७८ || तीक्ष्णश्रङ्गाय विद्महे वेदपादायधीमहि || २-तन्नो प्. १८) गावः प्रचोदयात् || गां सतीमित्थ माराध्य गृह्णीयादोमयन्ततः || २-७९ || कराभ्यां पद्मपत्रस्थं बिल्वपत्रञ्च धारयेत् | गृहीत्वा सद्यमन्त्रेण भूमावपतितङ्गुरुः || २-८० || पिण्डी कुर्याच्च वामेन घोरमन्त्रेण शोधयेत् | दग्ध्वा पुरुषमन्त्रेण ईशानेन परिगृहेत् || २-८१ || केतकी मल्लिकां नागं चंपकं पाटलन्तथा | पद्मं पलाशन्तुलसीमपामार्गं कुशाग्रकम् || २-८२ || जातिञ्च तत्र निक्षिप्य सद्भाण्डेषु परिग्रहेत् | विशुत्थं भस्म सङ्गृह्णीयाद् अग्निहोत्रसमुद्भवम् || २-८३ || तत् भस्मपरिगृह्णीत शिवमन्त्रमनुस्मरन् | निबद्ध ब्रह्ममुद्राभ्यां कराभ्यां भस्मधारयेत् || २-८४ || दक्षजानुनि संस्थाप्य शिवमन्त्रशतं जपेत् | ईशमन्त्रेणमूर्धानं वक्त्रं तत् पुरुषेण तु || २-८५ || हृदयं घोरमन्त्रेण गुह्यं वै वामन्त्रतः | सर्वाङ्गं सद्य मन्त्रेण गुरुरुद्धूलयेत् क्रमात् || २-८६ ||
SKजलस्नानं परं श्रेष्ठं मन्त्रैरेभिस्तु वर्तितम् | वस्त्रधारणम् || पूर्ववासः परित्यज्य शुद्धं वस्त्रं परिगृहेत् || २-८७ || पाणीपादौ च संशोध्य कुर्यादाचमनं बुधः | प्. १९) त्रिपुंट्रधारणम् || संधारयेत् त्रिपुंट्रञ्च शुद्धये सर्वकर्मणाम् || २-८८ || सर्वतिर्थेषु यत् स्नानं सर्वयज्ञेषु यत्फलम् | तत् फलं कोटिगुणितं भस्मोद्धूलं त्रिपुंट्रकम् || २-८९ || त्रिपुंट्रं बिन्दुदीपञ्च त्रिशूलञ्चार्द्ध चंद्रकम् | सर्वाङ्गोद्धूलनञ्चैव कथ्यते शिवलांछनम् || २-९० || देहेऽपिलांछनं कुर्यात् भस्मभिर्मिश्रचन्दनैः | दीक्षितानां द्विजातीनां त्रिपुंट्रन्तु षडङ्गुलम् || २-९१ || अदीक्षितानां वर्ण्यानां लक्षञ्चं वक्ष्यते शृणु | ब्राह्माणानां षडङ्गुल्यं नृपाणाञ्चतुरङ्गुलम् || २-९२ || वैश्यानाद्व्यङ्गुलं प्रोक्तं शूद्राणामेकमङ्गुलम् | अन्येषामपिसर्वेषां त्रिपुंट्रंशूद्रवद्भवेत् || २-९३ || नृपाणामीश्वराणाञ्च भस्ममिश्रित चन्दनम् | त्रिपुंट्रं विधिवत् कुर्यात् स्थानमानं क्रमाच्छृणु || २-९४ || ललाटे बाहुयुग्मे च हृदये च त्रिपुंट्रकम् | चतुरङ्गुलमन्येषु स्थानेष्वेकाङ्गुलं भवेत् || २-९५ || सन्धार्यं करयुग्मेन विशुद्धं भस्म देशिकैः | तर्जनी मध्यमानामै स्त्रिपुंट्रस्य प्रकल्पनम् || २-९६ || ब्रह्माविष्णुश्चरुश्च त्रिपुंड्रस्याधि (-ट्रस्याथि) दैवताः | मस्तके च ललाटे च ग्रीवायां (-पायां) कर्णयोऽस्तु वा || २-९७ || उरस्थले च बाह्वोश्च नाभौ पृष्ठे तथैव च | प्. २०) ऊर्वोश्चेव तु जान्वोश्च पादयोश्च क्रमान्न्यसेत् || २-९८ || ब्रह्मरंध्रे स्वयं ब्रह्मा सुब्रह्मण्यो ललाटके | कर्णे विनायको देवो नेत्रयोस्सोमसूर्यके? || २-९९ || बाह्वो रुद्रश्च विष्णुश्च हृदये च तथेऽश्वरः | नाभौ च दुर्गादेवी स्यात् पृष्ठे च पितरस्तथा || २-१०० || ऊरुद्वये च नागाश्च नागकन्यास्तथैव च | ऋषयश्चैव पत्न्यश्च जानुयुग्मे तथा पुनः || २-१०१ || पादयोरर्णवास्सप्त सर्वतीर्थानि च स्थिताः | स्थानानि च त्रिपुंट्रस्य देवाश्च परिकीर्तिताः || २-१०२ ||
SKषोडशाक्षरमन्त्रन्तु तत् तत् स्थानेषु विन्यसेत् | भस्मस्नान विधिः प्रोक्तो योगिसाधनानि || २-१०३ || आसनं प्रथमं प्रोक्तं द्वितीयञ्चाक्षमालिका || २-१०४ || त्रितीयं वेणुदंडञ्च चतुर्थं योगपट्टिका | कमंडलुः पञ्चमं स्यात् षष्ठं स्यादुत्तरीयकम् || २-१०५ || उष्णीषं सप्तमं प्रोक्तमुपवीतं तथाऽष्टकम् | पवित्रं नवमञ्चैव दशमं भस्मकीर्तितम् || २-१०६ || एकादशन्तु कौपीनं द्वादशन्दन्तकाष्ठकम् | त्रयोदशं मृत् ग्रहणं लक्षणं वक्ष्यते पृथक् || २-१०७ || आसनं कूर्मवत् कृत्वा लोभैर्वा दारुणाऽथवा | खादिरञ्चन्दनञ्चैव चंपकं बिल्वमेव च || २-१०८ || वृक्षाश्च आगमे प्रोक्तस्ते चत्वारस्तथा मताः | द्वितालन्तस्य विस्तारं समुत्सें षडङ्गुलम् || २-१०९ || प्. २१) पादाश्च द्व्यङ्गुगलोत्सेधार्दण्डञ्च चतुरङ्गुलम् | दर्पणोदर संकाशं पृष्ठभाग समाः पदाः || २-११० || इत्थं कुर्मासनं प्रोक्तं योगिनां पूर्वसाधनम् | जपमालांत्पुरोमालां शिरोमालां तथा पुनः || २-१११ || बाहुमालां हस्तमालां कण्ठमालाञ्च क्रमाच्छृणु | पञ्चविंशति रुद्राक्षैर्मुमुक्षूणां जपे स्मृतम् || २-११२ || षड्विंशतिः शिवार्थञ्च ज्ञानार्थं शत्रुनाशनम् | सप्तविंशतिभिर्भुक्तिः पुष्ट्यर्थमष्टविंशतिः || २-११३ || त्रिंशज्जयार्धिनां पञ्चदशकञ्चाभिचारके | इत्थं वै जपमाला स्यादन्यानां लक्षणं शृणु || २-११४ || कण्ठमारभ्य नाभ्यन्तं कण्ठमालाग्रकं भवेत् | शिरोमाला तु तन्नाहा बाहुमाला च तत्समा || २-११५ || हस्तमाला तु तन्नाहा कर्णमाला च तत्समा | दर्शनं पापनाशञ्च स्पर्शनं सर्वसिद्धिदम् || २-११६ || प्रागुक्तधारणात् पुण्यं रुद्राक्षधारणात् सदा | शुचिर्वाऽप्यशुचिर्वापि रुद्राक्षं धारयेत्सदा || २-११७ || स्वाऽपि कण्ठे तु रुद्राक्षधारणान्म्रियते यदि | सरुद्र पदमाप्नोति किम्पुनर्मानुषादयः || २-११८ || तस्मात् सर्व प्रयत्नेन रुद्राक्षं धारयेत्सदा | धाराणात् स्वर्गमाप्नोति पुनर्जन्म न विद्यते || २-११९ ||
SKधारयन्म्रियते यस्तु सयातिपरमाङ्गतिम् | रुद्राक्षाणामथोत्पत्तिरूपे शृणु महेश्वर || २-१२० || दिव्यवर्ष सहस्रन्तु चक्षुरुल्मीतं मया | मुञ्चन्ति मम नेत्राणि बिन्दवः पतितो भुवि || २-१२१ || प्. २२) बिन्दवो गुरुवृक्षाश्च फलं रुत्राक्षमुच्यते | एक वक्त्रं शिवस्साक्षादनन्तं धारणाद्फलम् || २-१२२ || धारयन्म्रियते यस्तु सयाति परमं पदम् | द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रन्नादमुच्यते || २-१२३ || चतुर्वक्त्रन्तु बिन्दुः स्यात्पञ्चवक्त्रं सदा शिवः | षड्वक्त्रमीश्वरः प्रोक्तो रुद्रः सप्तमुखः स्मृतः || २-१२४ || विष्णुश्चैवाऽष्टवक्त्रस्तु नववक्त्रश्चतुर्मुखः | नववक्त्रे कवक्त्रान्तं छलं शतगुणोत्तरम् || २-१२५ || हस्तकण्ठ शिखाकर्ण यज्ञसूत्रेषु सर्वदा | सर्वपाप प्रशान्त्यर्थं भस्मना सह धारयेत् || २-१२६ || राजवार्ता वणिग्वार्ता लोकवार्ता विशेषतः | रुद्राक्ष चालना देव मन्त्रवत् फलदा भवेत् || २-१२७ || रुद्राक्षाणां सहस्रैश्च कल्पितां शिवरूपिणीम् | यारयन्तः सदामालां सयाति परमाङ्गतिम् || २-१२८ || तस्मात् सर्वप्रयत्नेन रुद्राक्षैस्तु सदाजपेत् | वेणुदंड मृजुस्निग्धं व्रणकोटरवर्जितम् || २-१२९ || विप्राणां मस्तकोत्सेधं नृपाणां वक्षसः समम् | वैश्यानां बाहुमात्रं स्याच्छूद्राणां नाभिमात्रकम् || २-१३० || दंडमेवं विधं प्रोक्तं योगपट्टमिदं शृणु | व्याघ्राजिनमयं श्रेष्ठं मध्यं कृष्णाजिनात्मकम् || २-१३१ || अथवा तन्तुभिः कार्या त्रिविधा योगपट्टिका | विस्तारं त्र्यङ्गुलं तस्य मानं स्यादुपवीतकम् || २-१३२ || योगपट्टविधिः प्रोक्ता कमण्डलुविधिं शृणु | कमंडलु लक्षणम् || प्. २३) आढका पूरितं श्रेष्ठं मध्यं त्रिप्रस्थपूरितम् || २-१३४ || द्विप्रस्थपूर्णमधमं मानमेवं कमण्डलोः | सौवर्णं राजतन्तामृमथवा मृण्मयन्तु वा || २-१३५ || यथोक्तं शिल्पशास्त्रेषु तथा कार्या कमंडलुः | उत्तरीयन्तधोष्णीषं शुद्ध वस्त्रेण कारयेत् | यज्ञोपवीतं हेमं स्यादथवा तान्तवं सितम् || २-१३७ ||
SKउपवीतञ्चोत्तरीयं हृन्मन्त्रणैव धारयेत् | पवित्रं पूर्वमेवोक्तं अर्चनाङ्गविधिः || २-१३८ || अर्चनाङ्गविधिं शृणु | आसनं प्रसवञ्चार्घ्यङ्गन्धं पुष्पञ्च धूपकम् | दीपञ्चैव निवेद्यञ्च चाष्टाङ्गं संप्रकीर्तितम् || २-१३९ || अष्टाङ्ग सहितन्नित्यं पूजयेत् दक्षिणेश्वरम् | अर्चनान्ते तु पूजाया यथोक्तं हविरन्तिकम् || २-१४० || शान्तन्तञ्चैव बल्यन्तं पूजात्रिविधमुच्यते | पाद्यद्रव्याणि || उशीरञ्चन्दनञ्चैव दूर्वा सिद्धार्थमेव च || २-१४१ || चतुर्भिरङ्गैः संयुक्तं पाद्यमेव मुदाहृतम् | आचमनद्रव्याणि || चन्दनाऽगरुकर्पूरं मुरं जातीफलं तथा || २-१४२ || तक्कोलञ्चैव कुष्ठञ्च चन्दनञ्चैव पाटली | प्. २४) इत्थन्नवाङ्गसहितं प्रोक्तमाचमनीयकम् || २-१४३ || अर्घ्यद्रव्याणि कुशाग्रं क्षीरमापश्चयवं सिद्धार्धकन्तथा (सित्थार्ध-) | बिल्वपत्रन्तिलं ब्रीहिस्तुलसीश्चैव तंडुलम् || २-१४४ || अर्घ्यन्दशाङ्गमित्युक्तं गन्धद्रव्याणि | अगरुञ्चन्दनञ्चैव कुंकुमं कोष्ठमेव च | तदर्धं पादमात्रं वा कर्पूरेण समन्वितम् || २-१४६ || गन्धद्रव्यमिति प्रोक्तं पुष्पलक्षणम् | धवलाऽरुणकृष्णा निसात्विकादिगुणत्रयम् | सात्विकं श्वेतपुष्पन्तु रक्तपुष्पन्तु राजसम् || २-१४८ || तामसं कृष्णपुष्पन्तु पीतपुष्पन्तु शोभनम् | विशेषाद् राजसं पुष्प सपत्राणाञ्च धारयेत् || २-१४९ || कालयोग्य पुष्पाणि || नन्द्यावर्तञ्च पुन्नागं श्वेतार्कमुदये ददेत् | करवीरञ्च पद्मञ्च धुर्तूरं बृहती तथा || २-१५० || द्रोणपुष्पञ्च मध्याह्ने विशेषेण निवेदयेत् | सायाह्ने चंपकं मल्लीं धुर्तूरञ्च नियोजयेत् || २-१५१ || जातीकोकनदं नियोज्यावर्द्धरात्रके | सङ्गृहेत् सर्वपुष्पाणि वर्ज्यपुष्पाणि || २-१५२ || अतिपक्वमपक्वञ्च मुकुलं कुत्सितं तथा || २-१५३ || केशकीलोपविद्धानि लूतसूत्राऽवृतानि च | स्वयं पतित पुष्पाणि पर्यूक्षितानि वर्जयेत् || २-१५४ || प्. २५) विशेषपुष्पम् || पुष्पजातिषु सर्वेषु गिरिपुष्पं विशिष्यते | पत्रजातिषु सर्वेषु विल्वपत्रं विशिष्यते || २-१५५ ||
SK(अनिर्माल्य पत्रपुष्पाणि) तुलसी बिल्वपत्रञ्च पलाशञ्च सुवर्णकम् | प्रक्षाल्य परमेशानमर्चयेच्च पुनः पुनः || २-१५६ || (पत्राणि) तुलसी कृष्णतुलसी सहदेवी च माथवी | कपामार्गं शमीचैव दलिका चाऽमलाकरी || २-१५७ || लक्ष्मी दूर्वाजटी चैव विशेषाद्धस्तिलक्षणी | एवं पत्राणि मुख्यानिकीर्तितानि विशेषतः || २-१५८ || सर्वपत्रेषु संग्राह्यं बिल्वञ्च तुलसी द्वयम् | पत्रं ब्रह्म प्रियं प्रोक्तं बिल्वं विष्णु प्रियन्तथा || २-१५९ || फलं रुद्र प्रियं प्रोक्तं सर्वं हिंसाविवर्जयेत् | सङ्गृहेच्छिवपूजार्थं पत्रं पुष्पं फलादिकम् || २-१६० || औषधीनां न हिंसा स्यातभवेन्न तु हिंसकः | इत्थं पुष्पविधिः प्रोक्तो (धूपद्रव्याणि) || २-१६१ || धूपद्रव्यविधिं शृणु || अगरुङ्गुग्गुलुञ्चैव निर्यासञ्चन्दनं गुलम् | मधुबिल्वफलञ्चैव गोष्ठञ्चोशीर गोघृतम् || २-१६२ || धूपद्रव्य विधिः प्रोक्ता (दीपविधिः) दीपस्यविधिरुच्यते | सुवासवर्तिका युक्तङ्गोघृतं तैलमेव च || २-१६३ || प्. २६) चतुस्त्रिद्व्यङ्गुलायामादीपज्वाला विशिष्यते | दीपप्रियो हि भगवान् दक्षिणामूर्तिनायकः || २-१६४ || पञ्चशुद्धिन्ततो वक्ष्ये शृणुष्वेवं महेश्वर | पञ्चशुद्धयः || पृथमात्वात्मशुद्धिस्तु द्वितीयं स्थानशोधनम् || २-१६५ || त्रितीया द्रव्यशुद्धिः स्याच्चतुर्थं (-र्धं) लिङ्गशोधनम् | पञ्चमा मन्त्रशुद्धिः स्याद्वक्ष्यते च पृथक् पृथक् || २-१६६ || उत्तराभिमुखो मौनीबद्धयोगासनः स्थिरः | दशदिक्बन्धनं कृत्वा शस्त्रमन्त्रं समुच्चरन् || २-१६७ || प्राणायामत्रयं कृत्वा प्रत्येकन्दशमात्रतः | प्राणयामविधिः || प्राणायामक्रमं वक्ष्ये शृणुष्वेवं महेश्वर || २-१६८ || रेचकं पूरकँचैव कुंभकञ्च त्रिधामतम् | रेचकं ब्रह्मदैवत्यं पूरकं विष्णु दैवतम् || २-१६९ || चंद्रार्कचरितं यस्य मृतकसूतकाश्रितम् | इडा चंद्रकला ज्ञेया पिङ्गला भास्करांशका || २-१७० || द्वयोश्च पूरणं वायोर्नासिका मंडलद्वयम् | रेचकं सूचकोपेतं पूरकं मृतकाश्रितम् || २-१७१ ||
SKसूतक प्रेतकं श्रुत्वा पूजा होमन्न कारयेत् | निष्घलन्न तु सान्निध्यं यथोक्तविधिनाऽधुना || २-१७२ || तस्मात् सर्वप्रत्नेन कुरु चंद्रार्क नाशनम् | चंद्रार्कनाशनं वक्ष्ये शृणुष्वेवं महेश्वर || २-१७३ || चंद्रार्कनाशनकालम् || प्. २७) कुंभक व्यापिनिरतं मौन कर्मनिरन्तरम् | दृढचित्तं सदाध्यानन् तस्य चंद्रार्कनाशनम् || २-१७४ || मृतकं सूतकं हित्वा यावन्निर्णयमुच्यते | चंद्रार्कनाशनं यावत् तावत् संपूजयेच्छिवम् || २-१७५ || आवाहनासनं तस्य मात्राद्वादशकं भवेत् | पाद्यन्तु पञ्चमातृं स्यादाचामन्तु त्रिमात्रकम् || २-१७६ || एकमात्रं भवेदर्घ्यं षण्मात्रं गन्धदापनम् | पुष्पं द्वादशमात्रं स्याद् धूपं पञ्चदशक्षणम् || २-१७७ || दीपदानन्तु षण्मात्रं हविःषोडशमात्रकम् | विदद्ध्याद्दशकार्याणि चंद्रसूर्य प्रणाशने || २-१७८ || स्नानं वस्त्रञ्चोपवीत त्रयन्दद्याद्यथा विधि | मात्रा द्वादशकोपेतं होमकर्मप्रकीर्तितम् || २-१७९ || मात्राभिरष्टाधिक्येन शतेन सहितोजपः | अर्चनाङ्गविधिः प्रोक्क्ता (अर्चनाविधि) अर्चनालक्षणं शृणु || २-१८० || आयुष्यधनधान्यादि रिपुनाशकरं शुभम् | देवप्रीति करन् तेन सर्वसाधनमुच्यते || २-१८१ || शुचिर्व्याप्यशुचिर्वापि स्वस्थो वा दुस्थितोऽपिवा | पूजयेत् सर्वकालेषु दिने रात्रौ न सा क्रिया || २-१८२ || चंद्रार्कनाशनं कृत्वा सर्वकालेषु पूजयेत् | चंद्रार्कनाशना देव पूजासिद्धिर्महेश्वर || २-१८३ || गुरुदेवन् नमस्कृत्य बध्नीयात्पादमुद्रिकाम् | जान्वादि नाभिपर्यन्तं पृथिवी स्थानमुच्यते || २-१८४ || प्. २८) अम्भस्थानन्तु नाभ्यन्तं वह्निस्थानङ्गलान्तकम् | वायुस्थानं ललाटान्तं तदूर्ध्व द्वादशाङ्गुलम् || २-१८५ || आकाशस्थानमित्युक्तमूर्वादि स्थानपञ्चकम् | स्थानं पञ्चविधं प्रोक्तं मडलानि क्रमाच्छुणु || २-१८६ || चतुरश्रञ्च चंद्रार्धन् त्रिकोणञ्च षडश्रकम् | वर्तुलञ्च पृथिव्यादिभूतानां मंडलं क्रमात् || २-१८७ ||
SKपीतं श्वेतन्तथा रक्तं धूम्रं कृष्णं यथा क्रमम् | बीजानि च यथा न्यायं लवरय हकारकाः || २-१८८ || शिखाग्रे द्वादशाङ्गुल्ये शुद्धस्फटिकसन्निभे | शिवज्ञानं नटेशाख्ये शिववस्तु स्वरूपिणि || २-१८९ || शिवतत्वे महासूक्ष्मे योजयित्वा दहेत्तनुम् | जान्वोस्तु प्रथमग्रन्धिर्द्वितीयो नाभिसंस्थितः || २-१९० || तृतीयस्तु गलग्रन्धिश्चतुर्थस्तु लर्लाके | पञ्चमस्तु शिरोग्रन्धिरस्त्रमन्त्रेण छेदनम् || २-१९१ || खबीजं प्रथमं स्मृत्वा चाग्निबीजेन योजयेत् | वायुबीजमनुस्मृत्य पञ्च ग्रंधीनि छेदयेत् || २-१९२ || हुंफडिति च मन्त्रेण वेष्टयेत् ग्रन्धिपञ्चकम् | देहं वै शुषकाष्ठञ्च ध्यात्वा चाऽग्नेय बीजकम् || २-१९३ || अग्निबीजमनुस्मृत्य ज्वालामालाभिरावृतम् | भस्मराशिमिवध्यात्वा ध्ययेन्मूर्तीं महेश्वरीम् || २-१९४ || चंद्रमंडलसंकाशं श्वेतपद्मोपरिस्थितम् | भस्मकूटाकृतिन् ध्यात्वा पादमुद्रां प्रकल्पयेत् || २-१९५ || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पृथिव्यादिनी भूतानि ब्रह्ममध्ये यथा स्मरेत् || २-१९६ || मृणालतन्तुवत्तन्वी मध्ये तु ब्रह्मनाडिका | शिव तत्वा दधस्स्थाने ध्यात्वा व्योम्नोऽथ मंडलम् || २-१९७ || प्. २९) चंद्रबीजमनुस्मृत्य सुधयाप्लावयेत् ततः | क्षीरवत्व मृताकारं पादाङ्गुल्यग्र पूर्णकम् || २-१९८ || ॐकारबीजमकलं योगाभ्यासादथोमुखम् | तेनाऽप्लाविनमात्मानमिति पूर्णं विचिन्तयेत् || २-१९९ || सम्यज्जानमयं देहं सर्वभूतालयं शुभम् | आत्मानमानयेत् पूर्वं पश्चाद् देहं विचिन्तयेत् || २-२०० || आचार्यमूर्ति ग्रहणं साधकानां भवेत् ततः | तद्भावं भावयित्वा तु ज्ञानमुद्रां प्रकल्पयेत् || २-२०१ || आधाराऽधेय योर्वर्णं शृणुष्वेवं महेश्वर | त्र्यश्रन्तदूर्ध्वे षट्कोणन् तदूध्वेवर्तुलत्रयम् || २-२०२ || परन्त्रिकोणमूर्ध्वे च प्रोक्तमाधार लक्षणम् | चतुर्वर्णन्तु पूर्वं स्यात् तत् परन्तु षडक्षरम् || २-२०३ || अक्षरं सर्ववर्णाख्यमाम्नायार्थमयं शुभम् | मृणालतन्तुवद् रूपं वृत्तं ज्योतिस्वरूपकम् || २-२०४ ||
SKपरवास्तुषडाधारमाधारमधितिष्ठतम् | मृणाल तन्तुवद् रूपं वृत्त ज्योतिस्वरूपकम् || २-२०५ || अकारादिक्षकारान्तमादीरूपं सुनिश्चितम् | अंसानामात्म मध्यस्थमविकार स्वरूपकम् || २-२०६ || आद्यन्त शून्यममलं नागाभरणभूषितम् | अनादि सिद्धमाधारं वर्तुलं बीजरूपकम् || २-२०७ || वरिष्ठां द्यादीबीजन्तु सद्यान्तञ्चतुरक्षरम् | त्रिकोणे त्वक्षरन्यस्त्वा मध्ये सद्यादिवर्णकम् || २-२०८ || प्. ३०) बन्धयेत् पूर्वबीजेन न्यसेद् उक्तविधानतः | षट्कोणाद्यादिकं न्यस्त्वा षडक्षरं क्रमान्न्यसेत् || २-२०९ || डंभाद्यादिषु यत् बीजं फणाद्यन्तद् दशाक्षरम् | वृत्त मण्डलमेवञ्च वृत्तञ्चैव क्रमान्न्यसेत् || २-२१० || एकादशाक्षरन्न्यस्त्वा वृत्तमध्ये तु तेजसम् | वृत्तमध्ये विशेषन्तु मनोवाक्का?य बीजकम् || २-२११ || अकाराक्षरमारभ्य प्रान्ते त्वाकारमालिखेत् | वृत्ते वृत्तं क्रमान्न्यस्य षोडशाक्षरमेव च || २-२१२ || हकारादीनि बीजानि क्षकारान्तानि देशिकः | त्रिकोणे त्र्यक्षरन्न्यस्त्वादूर्ध्वाश्रादि क्रमान्न्यसेत् || २-२१३ || इत्थमक्षर रूपणे ध्यात्वा दक्षिणतोमुखम् | तदन्ते पादमुद्राञ्च ज्ञानमुद्राञ्च कल्पयेत् || २-२१४ || ध्यायेद् देवन्तु मनसा कारपूजाविधिं शृणु | करन्यासं पुरा कृत्वा सर्वकर्माणि कारयेत् || २-२१५ || ब्रह्ममुद्रां पुराकृत्वा वह्निबीजेन शोधयेत् | तले पृष्ठे च करयोरस्त्र मन्त्रेण शोधयेत् || २-२१६ || अङ्गुष्ठादि कनिष्ठान्तमीशानादीन् क्रमान्न्यसेत् | कनिष्ठादि प्रधानान्तं षडङ्गानि क्रमान्न्यसेत् || २-२१७ || कराभ्यां मन्त्रमुद्राञ्च महानादन्तु बन्धयेत् | सद्यान्तकं कनिष्ठादि संहार न्यासमुच्यते || २-२१८ || अङ्गुष्ठादि कनिष्ठान्तं षडङ्गन्यासमुच्यते | ब्रह्मचारि गृहस्थानां सृष्टिन्यासमुदाहृतम् || २-२१९ || प्. ३१) वानप्रस्थ यतीनाञ्च संहार न्यासमुच्यते | मध्यादि तर्जन्यन्तं शिवाङ्गानि क्रमान्न्यसेत् || २-२२० || पानप्रस्थमिदन्न्यस्त्वा संहार न्यासमुच्यते | मध्यादितर्जन्यन्तन्तु शिवाङ्गानि क्रमान्न्यसेत् || २-२२१ ||
SKपानप्रस्थमिदन् न्यस्त्वा पूर्वोक्त विधिना ततम् | अष्टविद्येश्वरान् पश्चादङ्गुष्ठादि क्रमान्न्यसेत् || २-२२२ || प्रासादं विन्यसेत् पश्चात् करशाखासु पर्वसु | मूलप्रक्रतिकन् न्यस्त्वा यथा पूर्वन् न्यसेत् ततः || २-२२३ || चन्दनाऽलेपनं कृत्वा गन्धपुष्पैरलंकृतम् | शिवमन्त्रं स कृज्जप्त्वा बध्नीयाद्ब्रह्ममुद्रिकाम् || २-२२४ || संस्पृशेन् मन्त्रहस्ताभ्यां सर्वाङ्गं मस्तकादिकम् | मूलबीजमनुस्मृत्य लिखित्वा वर्णमाकृतिम् || २-२२५ || वर्णमन्त्रं कलामन्त्रं पिंडमन्त्रञ्च विन्यसेत् | वर्णमन्त्र विशेषन्तु शृणुष्वेवं महेश्वर || २-२२६ || वर्णमन्त्र || शकाराद्यादि सान्तञ्च पृथ्व्यन्तं सान्तमादितः | चवर्गादि तृतीयादि वपूर्वान्तं समुच्चरन् || २-२२७ || षोडशान्तादि चंद्रान्तं सर्गादि प्रथमान्तकम् | हान्तं लान्तं सकारान्तं क्रमादेव समुच्चरेत् || २-२२८ || ब्रह्मबीज विसर्गान्ता पञ्चम ब्रह्मबीजकम् | बीन्दुनादसमायुक्तं वर्णमन्त्रमिदं शुभम् || २-२२९ || प्. ३२) इत्थं वै वर्णमन्त्रन्तु वर्णन्यासं क्रमाच्छृणु | अकारं मूर्ध्नि विन्यस्याऽकारन्तु ललाटके || २-२३० || इकारं दक्षिणे नेत्रे ईकारं वामनेत्रके | उकारं दक्षनासायामूकारं वामके पुटे || २-२३१ || ऋकारं दक्षिणे कर्णे ॠकारं वामकर्णके | ऌकारं दक्षिणे गंडे ॡकारं वामगंडके || २-२३२ || एकारमोष्ठके न्यस्य ऐकारमधरे न्यसेत् | ओकारमूर्ध्वदन्ते च औकारं दशनेत्वधः || २-२३३ || अंकारं तालुमूले च अःकारन्तालुमस्तके | कवर्गं दक्षिणे हस्ते च वर्गं वामहस्तके || २-२३४ || टवर्गं दक्षिणे पादे तवर्गं वामपादके | पछौ च दक्षिणे पार्श्वे बभौ वामपाश्वके || २-२३५ || मकारं नाभिदेशे तु यकारन्त्वचि विन्यसेत् | रेफं रक्त प्रदेशे तु लकारं मांसदेशके || २-२३६ || वकारं मेदसो देशे शकारं स्नायु देशके | मज्जादेशे षकारन्तु सवारं शुक्लदेशके || २-२३७ || हकारं प्राणमित्युक्तं भ्रूमध्ये च प्रविन्यसेत् | लकारं मेढ्रदेशे च क्षकारं प्रषणे न्यसेन् || २-२३८ || कलान्यास ||
SKअथ शास्त्र क्रमादुक्त कलान्यासविधिं शृणु | द्वादशं बीजमुच्चार्य मूलमन्त्रं समुच्चरेत् || २-२३९ || कलामन्त्राः क्रमेणैव पञ्चब्रह्ममनुस्मरन् | पञ्चब्रह्माकृतयः || पञ्चब्रह्माकृतिं वक्ष्ये शृणुष्वेवं महेश्वरम् || २-२४० || प्. ३३) शुद्धस्फटिकसंकाशञ्चतुर्वक्त्रञ्चतुर्भुजम् | हारकेयूर कटक कुण्डला भरणोज्वलम् || २-२४१ || गोमेदक कीरीटञ्च श्वेतज्ञोपवीतकम् | खेटटंक समायुक्त वरदाभय पाणिकम् || २-२४२ || भास्वर प्रभबालेन्दुं सद्योजात स्वरूपकम् | वामदेवोद्भवं रक्तञ्चतुवक्त्रञ्चतुर्भुजम् || २-२४३ || मंजीरकं कणोद्भासि कटिसूत्रोदरन्तथा | प्रवालमकुटञ्चैव हेमयज्ञोपवीतकम् || २-२४४ || वरदाभय संयुक्तं पाशटंककरद्वयम् | त्रिनेत्रं त्रिविलासञ्च कर्णकुंडलमंडितम् || २-२४५ || एतद् वै वामदेवस्य मन्त्रमूर्ति स्वरूपकम् | अघोरं दक्षिणं भीमं भिन्नांजन समप्रभम् || २-२४६ || अष्टबाहुं त्रिनेत्रञ्च चतुर्वक्त्रं जटाधरम् | रक्तांबर धरञ्चैव रक्तवस्त्रोत्तरीयकम् || २-२४७ || रक्तचन्दनलिप्ताङ्गं रक्तमालाविभूषितम् (-क्षितम्) | शूलं वेताल खट्गञ्च चक्रं दक्षकरैर्धरम् || २-२४८ || नागं खेटञ्च घंटाञ्च विस्मयं वामपाणिभिः | नीलाङ्गुलीयकञ्चैव नागयज्ञोपवीतकम् || २-२४९ || एवं त्वघोरमन्त्रस्य मन्त्रमूर्ति स्वरूपकम् | पुरुषं कुकुमाकाशञ्चतुर्वक्त्रञ्चतुर्भुजम् || २-२५० || सव्ये वामे दधत्टंकं कमलंडमरुङ्गदाम् | त्रिनेत्रं सौम्यवक्त्रन्तु किंचित् प्रहसिताननम् || २-२५१ || होमाङ्गुलीयकञ्चैव हेमवस्तोत्तरीयकम् | मुक्ता फलकिरीटञ्च माणिक्कादङ्गुलीयकम् || २-२५२ || २- प्. ३४) एतत् पुरुषमन्त्रस्य मन्त्रमूर्ति स्वरूपकम् | दशबाहु त्रिनेत्रञ्च पञ्चवक्त्रं जटाधरम् || २-२५३ || वज्रं शूलं दंडखट्गमभयं दक्षिणैर्दधत् | पाशांकुशञ्च डमरुकं दधानं वामपाणिभिः || २-२५४ || माणिक्कमकुटञ्चैव माणिक्काङ्गुलि भूषणम् | सौम्यं स्फटिकवर्णाभमीशानमूर्ति रूपकम् || २-२५५ ||
SKअघोरमूर्ति रौद्रन्तु शेषाः सौम्या उदाहृता | तत् ब्रह्मरूप सौम्यं तत् परमं सृष्टिकारणम् || २-२५६ || वामन्तु वैष्णवं श्रेष्ठं स्थिति कारणमेव च | अघोरं रुद्ररूपं तु प्रोक्तं संहारकारणम् || २-२५७ || ईश्वराङ्गं तु पुरुषमैर्श्व्यस्य प्रदायकम् | सदा शिवं तथेशानं महामोक्षप्रदायकम् || २-२५८ || इत्थं ब्रह्माधिदैवत्यं कलान्यासविधिं शृणु | कलावेदमयाश्रेष्ठाः कलामन्त्रञ्च तान्त्रिकम् || २-२५९ || कलाभिस्तु कलाशक्तिं न्यसेद् दक्षिणमीश्वरम् | कलाब्रह्म वदाकाराः कन्याकारास्तु शक्तयः || २-२६० || सृणिपाशवराभीति विभूषित करांबुजाः | सर्वाभरण संपूर्णार्मकुटैरुपशोभिताः || २-२६१ || ईशानस्य कलाः पञ्चपुरुषस्य चतुष्कला | अघोरस्य कलाश्छाष्टौ वामदेवं त्रयोदश || २-२६२ || अष्टौ सद्यकलाश्चैव चाष्टस्त्रिंशत्कलास्त्विमाः | कलाभिस्तु कलाशक्ति न्यासं वक्ष्ये क्रमाच्छृणु || २-२६३ || शशिनीचाङ्गदाचैव तथेष्टा च मरीचिका | ज्वालिनीतिकलाः पञ्चक्रमादेताः प्रविन्यसेत् || २-२६४ || प्. ३५) पूर्वन्तु दक्षिणं पश्चादुत्तरं पश्चिमन्तथा | ऊर्ध्वन्तु मूर्धात्वीशान स्थान पञ्च सुविन्यसेत् || २-२६५ || शान्ति विद्या प्रतिष्ठा च निवृत्तिश्च चतुष्कलाः | एताः पुरुष शक्तीस्तु चतुर्वक्त्रेषु विन्यसेत् || २-२६६ || पूर्वञ्च दक्षिणञ्चैव सौम्यञ्चैव तु पश्चिमम् | तमा मोहाक्षयानिष्ठा मृत्युर्मायाऽभयोजान् || २-२६७ || एताः कलास्त्वघोरस्य हृदयादिषु विन्यसेत् | हृदये चैव कण्ठे च स्कन्धयोश्च तथैव च || २-२६८ || उदरे चैव नाभौ च पश्चात् भागे तथैव च | उरसीत्यष्टसु स्थाने वक्ष्यते च यथा क्रमम् || २-२६९ || रजारक्षारतिश्चैव पालीकामा च सम्यगा? | कार्याबुद्धि क्रियाधात्री भ्रामिणी च तथा पुनः || २-२७० || मोहिनी चाभया वाम त्रयोदशकलास्त्विमाः | मेढ्रे गुदे च ऊर्वोश्च जान्वोश्चैव तु जंघयोः || २-२७१ || पश्चाज्जघनयोः कट्याम्पार्श्वे योश्च क्रमान्न्यसेत् | सिद्धि ऋद्धिर्द्युतिश्चैव लक्ष्मीमेधा तथैव च || २-२७२ ||
SKकान्तिःस्वधा स्थितिस्ताश्च सद्योजात कलास्त्विमा | पादयोः करयोश्चैव स्तनयोः कक्षयोर्न्यसेत् || २-२७३ || ध्यात्वा शिवमयं रूपष्ट त्रिंशतलात्मकम् | तदन्ते पिण्डमन्त्राणि (पिंढ-) तत् तत् स्थानेषु विन्यसेत् || २-२७४ || ईशानं मूर्ध्नि विन्यस्य मुखे तत् पुरुषन्न्यसेत् | अघोरं हृदयेर्न्यस्य गुह्ये वामं प्रविन्यसेत् || २-२७५ || अजातं पादयोर्न्यस्य पुनाङ्गानि विन्यसेत् | हृदयं हृदिविन्यस्य शीरश्शिरसि विन्यसेत् || २-२७६ || प्. ३६) शिखायान्तु शिखां न्यस्य कवचं स्तनयोर्न्यसेत् | नेत्रेषु नेत्रमस्त्रेण दशदिक्बन्धनं स्मृतम् || २-२७७ || पञ्चब्रह्म षडङ्गानां क्रमात् बीजाक्षरं शृणु | आकाश बीजवर्गे तु षडक्षर विवर्जिते || २-२७८ || अजातं प्रथमं प्रोक्तं त्रितीयं वाममुच्यते | अघोरं पञ्चमं प्रोक्तं तरमेकादशं भवेत् || २-२७९ || त्रयोदशार्णमीशानं ब्रह्मबीजमुदाहृतम् | द्वितीयं हृदयं प्रोक्तञ्चतुर्थं वदनं भवेत् || २-२८० || षष्टाक्षरं शिखामन्त्रं द्वादशं कवचं मनुः | नेत्रञ्च दशमं प्रोक्तमस्त्रं षोडशकं तथा || २-२८१ || नमः स्वाहा वषडौषट् हुंफट्कारसमन्वितम् | इदमप्यङ्ग रक्षार्थं विन्यसेत् तु षडङ्गकम् || २-२८२ || षडङ्गदेवता वर्णं शृणुष्वेवं महेश्वर | श्वेतं वीतञ्च रक्तञ्च कृष्णं विद्युच्च कुंकुमम् || २-२८३ || चतुर्बाहुं त्रिनेत्रञ्च वराभय समायुतम् | कपाल शूलवरदं परशुं पाणिभिर्धृतम् || २-२८४ || अस्त्रं नेत्रञ्च रौद्रन्तु शेषाः सौम्या इति स्मृताः | गन्धं पुष्पञ्च धूपञ्च वर्णमन्त्रेण दापयेत् || २-२८५ || स्वरूपं पूजयेद्ध्यात्वा ज्ञानमुद्रन्त्वनन्तरे | पिण्डमन्त्रं जपेत् पश्चात् बीजानां कारणं शृणु || २-२८६ || वीरं बीजान्तमन्तस्थ नादं षोडशमात्रकम् | सर्वमन्त्रात्मकं मन्त्रं पिण्डमन्त्रमिदं शुभम् || २-२८७ || प्. ३७) सकृज्जप्त्वा शिवं ध्यात्वा बध्नीयात् ज्ञानमुद्रिकाम् | लिङ्गभेदानि || लिङ्गभेदक्रमं वक्ष्ये विशेषात् तु यथा क्रमम् || २-२८८ ||
SKलिङ्गं द्वयमिति प्रोक्तञ्चलञ्चैवाऽचलं तथा | चललिङ्गे सदा वासं पूजयेत् परमेश्वरम् || २-२८९ || अचलल्लिङ्गे देवन्तु मन्त्र संस्कार पूर्वकम् | मन्त्र संस्कार हीने तु लिङ्गमाकृतिमात्रकम् || २-२९० || चललिङ्गविशेषन्तु गुरुर्देवो महेश्वर | स्थावरं जङ्गमञ्चैव लिङ्गं द्विविधमुच्यते || २-२९१ || जङ्गमस्यावमानेन स्थावरे निष्फलं भवेत् | चललिङ्गं द्वयं प्रोक्तं ज्येष्ठश्चाचार्य एव च || २-२९२ || ज्येष्ठाचार्य द्वयौ देवौ सृष्टिस्थित्यन्त हेतुकौ | एतेषां जङ्गमोत् कृष्टं स्वामिनां तु महेश्वर || २-२९३ || तस्मात् सर्व प्रयत्नेन स्वामिरूपं सदार्चयेत् | कर्मस्य चोभयार्थी च सादाख्यन्तत्वमर्चयेत् || २-२९४ || सतुवस्तु स्वरूपन्तु परं सादाख्य तत्परम् | सर्वदेवा कृतिं शुद्धं सदाशिवं महेश्वर || २-२९५ || पूर्वाकृतिं परित्यज्य सादाख्या कृतिरेव च | सादाख्ये च तदुर्ध्वे च विन्यसेन्नृक्तरूपकम् || २-२९६ || नृक्तरूपं सदाध्यात्वा दक्षिणालयमादिकम् | ज्योतिरूपं नटन्नित्यं सृष्टिस्थित्यन्त कारणम् || २-२९७ || नव तत् व्यमयं स्थानं सर्वसंपत्करं परम् | चतुर्बाहुं सदा नृक्तं नादान्ताक्तस्य कारणम् || २-२९८ || प्. ३८) शुभं परमनिर्वाणं सर्वदेव सदाशिवम् | सादाख्यस्य च रूपन्तु ध्यात्वा मध्ये नटेश्वरम् || २-२९९ || हृत्पद्ममध्ये संस्थाप्य नादतन्त्रं कलामयम् | एकवक्त्रञ्चतुर्बाहु द्विपादं वृत्तमध्यकम् || २-३०० || अङ्गुष्ठामात्रमचलं शुद्ध तत्वं नवात्मकम् | वर्णमन्त्रं समुच्चार्य सादाख्या कृति चिन्तनम् || २-३०१ || आत्मानन्तु सकारस्थ मन्तरात्मा तु बिन्दुकम् | परमात्मा खबीजस्थो नादः षोडशमात्रकः || २-३०२ || सर्वं हृदयमन्त्रेण पूजयित्वा यथाक्रमम् | अष्टत्रिंशत् कलान्यासमष्ट त्रिंशात्म मन्त्रकम् || २-३०३ || अष्टत्रिंशत्परन्नृक्त न्यासकाल क्रमं शृणु | देहशुद्धिकरन्यासमन्तर्यागात्म मन्त्रकम् || २-३०४ || योगञ्च नृक्तमन्त्रञ्च पूर्वस्थाने क्रमान्न्यसेत् | आत्मशुद्धि क्रमं प्रोक्तं स्थानशुद्धिः || २-३०५ ||
SKस्थाशुद्धि क्रमं शृणु हस्तमात्रं खनेद्भुमिं तन्मृद्भिः पूरयेत् क्रमात् | सम्यक् परीक्ष्य बहुधा लोष्ठास्ध्यादीनि वर्जयेत् || २-३०६ || समंभूमितलं कृत्वा प्रोक्षयेत् पञ्चगव्यतः | वितानद्ध्वजसंयुक्तं कदलीकृमुकान्वितम् || २-३०७ || दर्भमाला समायुक्तं मुक्तादामविभूषितम् | पुष्पमाला समाकीर्णं प्रोक्षयेत् कुशवारिणा || २-३०८ || स्थानशुद्धिक्रमं प्रोक्तं द्रव्यशुद्धिक्रमं शृणु | स्नानपात्रमथाचामपात्रमर्घस्य पात्रकम् || २-३०९ || प्. ३९) सामान्यार्घ्यस्य पात्रञ्च जलभांडञ्च शोधयेत् | हृन्मन्त्रेण निरीक्ष्याथ कवचेनावकुण्ठयेत् || २-३१० || सर्वपात्रमथाप्लुत्य वारिणा च प्रपूरयेत् | आनीयजलपूरित्वा कुरुमुद्राञ्च सौरभीम् || २-३११ || उच्चार्य हृदयं मन्त्रं गन्धपुष्पं प्रदापयेत् | बद्ध्वा तु सौरभीमुद्रां मूलबीजं न्यसेत् क्रमात् || २-३१२ || ततश्चोपरिसंशोद्ध्य न्यसेत् प्रासादमन्त्रकम् | घण्टाया धूपदीपौ च दद्यादीशान मन्त्रतः || २-३१३ || सर्वद्रव्याणि संप्रोक्ष्य कुशेनैव शिवांसा | प्रोक्षयेत् स्थलपार्श्वं वै स्थापयेद् धूपभाजनम् || २-३१४ || धूपपात्रस्य पूर्वेऽपि प्रजापति वनस्पतिः | पात्राणां पश्चिमेभागे खंटास्थानं प्रकीर्तितम् || २-३१५ || घंटानामधि देवास्तु वसुस्सोमोयमस्तथा | द्रव्यशुद्धिस्समाख्याता भूमिदेव्यर्चनां शृणु || २-३१६ || पूजयेत् गन्धपुष्पाद्यैः स्वनाम्नाभूमि देवताम् | पूर्वाशाभिमुखीं शुद्धां पद्मासन समास्थिताम् || २-३१७ || त्रीणिपाद्यादि पात्राणि क्षालयेदस्त्रमन्त्रतः | शुद्धोदकेन संपूर्य सौरन्यासं समाचरेत् || २-३१८ || वह्निबीजं विसर्गान्तमस्त्राय फटिति ब्रुवन् | स्थले पीठे च संशोद्ध्य करयोर्दक्षवामयोः || २-३१९ || मूलमन्त्रं षडङ्गञ्च क्रमाद्वक्ष्ये महेश्वर | प्रणवं वायुसंयुक्तं लकारन्तकमक्षरम् || २-३२० || सद्बिन्दुमूलदीर्घञ्च पुनस्तच्छिरसायुतम् | व्योमपूर्व विसर्गान्तं सूर्यमन्त्रं नमोन्तकम् || २-३२१ ||
SKप्. ४०) सान्तबिन्दु समायुक्तं हृदयं हृदये न्यसेत् | अर्कायशिरसे न्यस्य भूर्भुवस्वः शिखान्न्यसेत् || २-३२२ || ह्रूंकारं कवचन्न्यस्त्वा त्रिवेदी नेत्रमन्त्रकम् | अग्निबीजं विसर्गान्त सौरास्त्रेण समन्वितम् || २-३२३ || कान्तबिन्दु समायुक्तमर्चयेच्छिवमव्ययम् | अबिन्दुमेकमुच्चार्य खषोल्कं सूर्यान्तमुच्चरन् || २-३२४ || मन्त्रेणानेन गन्धञ्च पुष्पञ्चैव प्रदापयेत् | दशाक्षरेण धूपान्तमर्चयेद्रक्तचन्दनैः || २-३२५ || अर्यमाणं प्रतिष्ठाप्य सौरद्ध्यान क्रमं शृणु | एकवक्त्रं द्विबाहुञ्च द्विनेत्रं ध्रतपंकजं || २-३२६ || तेजो मंडल संस्थाप्य रक्तवास समुज्वलम् | सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् || २-३२७ || रक्तवर्णं महात्मानं ममरूपं महेश्वर | चतुर्वक्त्रमष्टबाहुं ध्यायेद्दिवसनायकम् || २-३२८ || त्रिनेत्रञ्च चतुबाहुन्तमोघ्नञ्च दिवाकरम् | सप्ताश्वरथमारूढं प्रभाकरं विभाकरम् || २-३२९ || उषावरण संयुक्तं प्रभासंघ समन्वितम् | मेधाप्रज्ञा समायुक्तं सोमादि गृहसंयुतम् || २-३३० || सोमाङ्गारबुधाश्चैव जीवशुक्रशश्चैराः | राहुः केतुः क्रमादेते गृहामृत्यु विनाशनाः || २-३३१ || गोक्षीरवर्णः सोमः स्यादङ्गारो रक्तवर्णकः | स्यामवर्णो बुधः प्रोक्तो नीलवर्णो बृहस्पतिः || २-३३२ || शुक्रः कुन्देन्दुवर्णस्तु कृष्णवर्णः शनैश्शरः | कालमेघनिभोराहुः केतुर्धूम्राभ उच्यते || २-३३३ || प्. ४१) पद्मासनस्थिताः सर्वे सर्वलक्षण संयुताः | सर्वाभरण संपूर्णा द्विभुजाः परिकीर्तिताः || २-३३४ || सोममुत्तरदिक्भागे पूर्वस्यान्दिशिभार्गवः | अङ्गारकं याम्यभागे पश्चिमे तु बृहस्पतिः || २-३३५ || शनैश्चरस्तथे शान्यामाग्नेय्यां राहुमेव च | केतुञ्च नै-ऋते भागे विन्यसेत् बुधमानिले || २-३३६ || पुरस्ताद्रथमश्वञ्च अरुणं पुरतो न्यसेत् | प्रभामुषाञ्च सन्ध्याञ्च प्रज्ञाञ्चैव तु विन्यसेत् || २-३३७ || रवेश्च सूर्य चंडेशमैशान्यां दिशिपूजयेत् | अथाष्टौ लोकपालांश्च तत् तत् स्थानेषु पूजयेत् || २-३३८ ||
SKगन्धपुष्पादिकं सर्वं स्वनाम्ना प्रतिपादयेत् | षडङ्गन्यासमर्भ्यर्च्य अर्घ्यञ्चैव प्रदापयेत् || २-३३९ || सूर्यार्चनविधिः प्रोक्ता प्रकारलक्षणं शृणु | पञ्चप्रकारनामानि शृउणुष्वेवं महेश्वर || २-३४० || अन्तर्मंडलमाद्यं स्यादन्तर्हारं द्वितीयकम् | मध्यहारं त्रितीयञ्च मर्यादञ्च चतुर्थकम् || २-३४१ || महामर्यादकञ्चैव पञ्चमं तत् प्रकीर्तितम् | एतेषामथमानञ्च प्राकाराणां शृणु क्रमात् || २-३४२ || अन्तर्मंडल मानंस्यदर्धदंडप्रमाणतः | अन्तर्हारन्त्वे कदंडं मध्यहारं द्विदंडकम् || २-३४३ || चतुर्दण्डञ्च मर्यादं सप्तदंडञ्च (-दंढञ्च) पञ्चमम् | कूपस्थान द्वितीये स्यात् प्राकारे स्याद् दिशीशितुः || २-३४४ || प्. ४२) अन्तरे चेंद्रानलयोर्धन स्थानं प्रकीर्तितम् | आग्नेय यमयोर्मध्ये वस्त्रशाला समीरिता || २-३४५ || वायोश्च सोमयोर्मध्ये शयनस्थानमुच्यते | महामर्यादके शान्यां महामंटपमुच्यते || २-३४६ || यजमानेच्छया क्वापिदेशे मंटप कल्पनम् | प्राकारलक्षणं प्रोक्तं द्वारपूजा || २-३४७ || अथ संपूजयेच्छङ्खनिधिमध्य स्थितं शिवम् || २-३४८ || वसानं दक्षिणे पार्श्वे कुन्देन्दुसदृशं भवम् | पश्चात् पद्मनिधिं मध्यस्थिरमुत्तरपार्श्वगम् || २-३४९ || द्वारोर्द्ध्वे देशविघ्नेशान् पूजयेत् सर्वसिद्धिदान् | विघ्नेश्वरञ्च वीरञ्च शूरञ्चैव कपर्दिनम् || २-३५० || कंबुग्रीवञ्च वरदं हस्तिवक्त्रमनन्तरम् | क्षिप्र प्रसादनामानमविघ्नकविनायकौ || २-३५१ || वर्णञ्च दशविघ्नानां वक्ष्यते च पृथक् पृथक् | श्वेतं कृष्णं तथा रक्तं प्रवालन्नीलमेव च || २-३५२ || धूम्रवर्णं बालसूर्यं मौक्तिकं पुष्परागकम् | दक्षिणस्य कवाटस्य ब्रह्मा तत्राधि देवता || २-३५३ || उत्तरस्य कवाटस्य विष्णुस्स्यादधि देवता | मध्यस्थ फलकायास्तु रुद्रस्स्यादधि देवता || २-३५४ || कवाटयोः पदद्वंद्वं कूर्मदैवत्यमुच्यते | कवाटबन्धने देवौ शिवज्योत्स्ना च देवता || २-३५५ ||
SKकवाटोत्पाटने देवौ मूर्तिकेतन देवता | पटिकानाञ्च सर्वासां सुब्रह्मण्यो महेश्वर || २-३५६ || प्. ४३) फलकानाञ्च देवानां वायुस्तत्राधिदेवता | अस्त्रमन्त्रेण संपूज्य सुक्षीरं बन्धयेत् ततः || २-३५७ || कवाटवलयौ प्रोक्तौ सूर्यचंद्राधिदेवतौ | कवाटदंड मध्यस्थारष्ट पर्वत देवताः || २-३५८ || कवाटभूषणानां तु अष्टनागाः प्रकीर्तिताः | कवाटविधि (-विथि) देवांश्च पूजयेत् स्वस्वनामभिः || २-३५९ || वलयौ सूर्य सोमेशौ नेत्रमन्त्रं समुच्चरन् | गन्धं पुष्पञ्च धूपञ्च दीपञ्च हविषाददेत् || २-३६० || कवाटे दक्षिणे पश्चाद् वामहस्तं प्रवेशयेत् | वायुमन्त्रेण तन्त्राणाञ्चञ्चलं कारयेत् बुधः || २-३६१ || सर्वद्वारकवाटस्थ देवानित्थं प्रपूजयेत् | दक्षिणद्वार देवाश्च गन्धर्वायक्षराक्षसाः || २-३६२ || पश्चिमद्वार देवानां देवा देवर्षयस्तथा | उत्तरद्वार देवाश्च वषड्ॐकारव्याहृतिः || २-३६३ || चतुर्थप्रकृतिद्वारे अग्रे शर्वायते नमः | पार्श्वे तु दक्षिणे देवं वीरभद्रं प्रपूजयेत् || २-३६४ || उत्तरे चैव पार्श्वे तु शिवज्योति विनायकौ | दक्षिणद्वार देवाश्च मरुतोदैत्य दानवाः || २-३६५ || पश्चिमद्वार देवानां सुयशा देवविदुमाः | उत्तरद्वार देवानामद्भुता नल रुद्रकाः || २-३६६ || द्वितीय प्राकृतद्वारे चाग्रेसुन्दर देवताः | दक्षिणे पार्श्वदेवानां नीललोहित देवताः || २-३६७ || उत्तरे पार्श्व देवानां कालभैरव देवताः | दक्षिणद्वार देवानां शिवानन्दामृताय च || २-३६८ || प्. ४४) पश्चिमद्वार देवानां साक्षी सत्यप्रियाय च | उत्तरद्वार देवानां शान्ता देवगणा पुरा || २-३६९ || प्रथमं प्रकृतिद्वारं द्वारार्चनविधि | द्वारार्चनविधिं शृणु | सरस्वतीं तु द्वारोर्ध्वे तदग्रे वृषभं तथा || २-३७० || तदग्रे दशविघ्नेशां त्रिशूलञ्च प्रपूजयेत् | नन्दीशं दक्षिणपार्श्वे महाकालञ्च वामके || २-३७१ || मध्ये दन्तेश्वरायेतित्थः कमलवासिनीम् | दक्षिणद्वार देवानां दंडिमुण्डी च शोभने || २-३७२ ||
SKपश्चिमद्वारदेवानामनन्तः पशुपतिर्भवेत् | उत्तरद्वार देवानां भुकुटीजय भैरवाः || २-३७३ || श्रीदेवीमूर्ध्वभागे च भूमिदेवीं यजेदधः | ज्ञानशक्तिं क्रियाशक्तिङ्गर्भद्वारे प्रपूजयेत् || २-३७४ || एवं द्वारार्चनं कृत्वा (+ मण्डलपूजा) पश्चान्मंडलमर्चयेत् | वास्तोष्पतीति मन्त्रेण चेशान्यां वास्तुदेवताम् || २-३७५ || संपूज्य गन्धपुष्पाद्यैर्महाघंटां प्रताडयेत् | मणीनां वसवो देवस् सूर्यस्सोमाग्निदेवताः || २-३७६ || विदध्याद् अर्चनाकाले घंटानां तु महाध्वनिम् | तेन शब्देन महताराक्षसानां विनाशनम् || २-३७७ || लिङ्गं सप्तविधं ज्ञेयं स्थावरं शास्त्रचोदितम् | दैविकञ्चार्षकञ्चैव गाणवं मानुषं तथा || २-३७८ || एतेषां दैविकानां तु लिङ्गानां लक्षणं शृणु | दीर्घाकारं भवेल्लिङ्गं निम्नोन्नतसमाकुलम् || २-३७९ || प्. ४५) रेखाकोटरसंयुक्तं मुखेधारायवोन्नतम् | पर्वताग्रा कृतिं रंध्रबह्वग्रशिखयायुतम् || २-३८० || करयोःसंपुटाकार ब्रह्मसूत्रविवर्जितम् | इत्येतैर्लक्षणैर्युक्तं दैविकल्लिङ्गमुच्यते || २-३८१ || मूलस्थूलं भवेल्लिङ्गमग्रस्थूलं तथैव च | मध्यस्थूलं तु लिङ्गानां नालिकेरफलाकृति || २-३८२ || कदलीचलसंकाशं बिल्ववृक्षफलाकृति | लिङ्गमार्षकमाख्यातं ब्रह्मसूत्रविवर्जितम् || २-३८३ || कूश्मांडफलसंकाशं मातुलुङ्गफलाकृति | उर्वारुकफलाकारं कपित्थफलसन्निभम् || २-३८४ || तथा तालफलाकारङ्गाणवं लिङ्गमुच्यते | द्वारं वा गर्भमानं वा हस्तमानमथापिवा || २-३८५ || शिवशास्त्रोक्तमानं वा छत्राकार शिरोदयम् | एकवर्णं शुभं स्निग्धं ब्रह्मसूत्रसमन्वितम् || २-३८६ || इत्येतैर्लक्षणैर्युक्तं मानुषल्लिङ्गमुच्यते | प्रथमं वर्द्धमानं तु त्रैराशिकं द्वितीयकम् || २-३८७ || शिवाधिक्यं तृतीयं तु लक्षणं वक्ष्यतेऽधुना | वर्द्धमानं स्थितं लिङ्गमासीनं तु शिवाधिकम् || २-३८८ || त्रैराशिकञ्च यानं स्याच्छयनं समखंडकम् | शयनं स्थिता सनासीन * * * * * क्रमात् || २-३८९ ||
SKचतुर्विंशांशकं लिङ्गंब्रह्माभागं तु सप्तकम् | अष्टांशं विष्णुभागञ्चरुद्रभागन्नवांशकम् || २-३९० || वर्द्धमानमिदं प्रोक्तं शृणुष्वासीनलक्षणम् | त्रयोविंशतिभागे तु ब्रह्मभागन्तु सप्तकम् || २-३९१ || प्. ४६) अष्टाशं विष्णुभागं तु रुद्रभागं तथाष्टमम् | सप्तविंशतिभागन्तु ब्रह्मभागन्नवांशकम् || २-३९२ || विष्णुभागं द्वादशांशं पूजाभागं षडंशकम् | शयनं लिङ्गमित्याहुर्नामान्येषां ततः शृणु || २-३९३ || षण्णवतिलिङ्गानि || समखंडमास्थापन संस्थापनाय योगिगणवत्फणोत्कट | विकट विनिश्वासमग्नञ्चक्रं भास्वरञ्च स्थूलसुमध्यमस्थूलम् || २-३९४ || मूखनिष्कलं सकलनिष्कलार्धदविकटमाकुट स्निग्धं प्रकीर्णञ्चण्डविक्रान्त | सुभद्रलिङ्गञ्च परशिवं क्षीर विपुलशाश्वत पावनं निम्नोन्नतञ्चैव || २-३९५ || सर्गभेषजं व्याख्यात वीरञ्च सुभद्रलिङ्गं विकृतसित्ञ्च शूलबन्धनं स्तंभञ्च आसी सुसूर्युञ्च आमलीकृत्ञ्च अशेकरञ्च विविध वै कान्त कुशेकरं प्रभुप्रतिलाभ तप्तञ्च यवे सुमध्यमं पिपीलिकामधमपञ्चपञ्चपार्श्वाग्र मूलाग्र सुमध्यमाग्रमूर्ध्वाग्र लिङ्ग | चतुरश्रलिङ्गं आयताग्रमायतवृत्तलिङ्गमरविन्दञ्चैवपञ्चकुष्टं मन्दञ्च कैटञ्च स रं सुभ्रुलिङ्गविला बितं सुवर्णलिङ्गम् || २-ताम्राभवर्णञ्च महेशलिङ्गं शिवाय चंद्राय चरायशा श्वतं | षढ्यार सप्तनवधार षोडशसुधार सुभ्रुशिव रञ्च लिङ्गम् || २-माणिक्कवर्णञ्च शिलाशिखाग्रं सहस्रधारा च शताष्ट धारा | अश्वत्थमाषञ्च यवञ्च स्फाटिकमेतानि वैषण्व वतिञ्च लिङ्गम् || प्. ४७) ब्रह्मांशञ्चैव विष्ण्वं शंरुद्रांशञ्च महेश्वरम् | सदाशिवांशकञ्चैव लिङ्गं पञ्चांशमुच्यते || २-३९६ || ब्रह्मांशञ्चतुश्रञ्च वस्वश्रं वैष्णवं मतम् | रुद्रभागन्तु सुत्राथः सूत्रान्तन्तु महेश्वरम् || २-३९७ || सादाख्यांशन्तदूर्ध्वे तु पञ्चधांशाः प्रकीर्तिताः | पूजांशं षोडशाम्शन्तु तदग्रे चतुरश्रकम् || २-३९८ ||
SKमुकुलाकारमेकांशमथ सूत्रं नवांशकम् | द्विसूत्रपरिलंबन्तु तद्वयोर्द्व्यंशमुच्यते || २-३९९ || ब्रह्मसूत्रक्रमं प्रोक्तं धारालिङ्गविधिं शृणु | पञ्चधारा सप्तधारानवद्वादशधारकम् || २-४०० || धाराषोडश विंशत्तु चतुर्विंशाष्टविंशतिः | अष्टाश्रादूर्ध्वपर्यन्त्ं यवांशं वा यवोन्नतं || २-४०१ || पूजाभागं त्रिधा कृत्वा चोर्ध्वभागे मुखं भवेत् | लिङ्गाग्रलक्षणं वक्ष्ये विशेषात् तु महेश्वर || २-४०२ || उद्धृतस्य स्वयंभ्वोश्च देवाद्यैः स्थापितस्य च | शास्त्रोक्त लक्षणन्नास्ति न प्रतिष्ठानकस्यचित् || २-४०३ || बालस्थानं न कर्तव्यं जीर्णदोषं न चैव हि | तस्मात् सर्वप्रयत्नेन सन्धिं सन्धिं समर्चयेत् || २-४०४ || उत्भूतलक्षणम् वक्ष्ये शृणुष्वेवं महेश्वर | फत्राकारं ब्राह्मणानां कुक्कुटांडन्नृपस्य तु || २-४०५ || वैश्यानां बुद्बुदाकारं शूद्रेखंडेन्दु सन्निभम् | इत्येतैर्लक्षणैर्युक्तल्लिङ्गं मानुषमुच्यते || २-४०६ || प्. ४८) स्वयंभुलिङ्गमित्युक्तं बाणलिङ्गं महेश्वर | पर्वताग्रं मदाकारं वल्मिकाग्रवदुन्नतम् || २-४०७ || बहुधाग्रञ्च संप्रोक्तमिममुत्भूतलक्षणम् | प्रोक्षणं पुनराह्वानं पुरश्चरणमेव च || २-४०८ || स्थापिते मानुषे लिङ्गे सर्वकर्माणि कारयेत् | यल्लिङ्गमर्चयित्वा तु तल्लिङ्गं हृदयेन तु || २-४०९ || पूजापर्युक्षितन्तत्र गन्धाद्यैरर्चयेत् क्रमात् | कनिष्ठानामिकाभ्यान्तु पुष्पं संग्राह्य देशिकः || २-४१० || पूर्वसन्ध्यर्चितं पुष्पं विसृजेदीशमन्त्रतः | अङ्गुष्ठं तर्जनीभ्यान्तु पीठपार्श्वे विसर्जयेत् || २-४११ || तत् पुष्पन्दापयेत् पश्चात् सहसालिङ्गमुर्धनि | लिङ्गमुर्धनिपुष्पेण शून्ये नश्यति साधकः || २-४१२ || लिङ्गं प्रक्षाल्य शस्त्रेण पीठं पाशुपताश्त्रतः | निर्माल्य शेषं तत् सर्वञ्चंडेशायप्रदापयेत् || २-४१३ || लिङ्गपीठस्थलञ्चैव शोधयित्वा हृदांभसा | गन्धपुष्पादिनाभ्यर्च्य लिङ्गं सद्भावकं स्मरन् || २-४१४ || लिङ्गस्य मूर्धदेशे तु स्पृशेदीशान मन्त्रतः | लिङ्गस्य मुखदेशञ्च पुरुषेण च संस्पृशेत् || २-४१५ ||
SKलिङ्ग पृष्ठदेशे तु वामदेवेन संस्पृशेत् | पीठान्तं प्रार्श्वयोः पादौ बाहुभ्यां सद्यमन्त्रतः || २-४१६ || महापट्याद्युपानान्तं देवस्याङ्गानि पूजयेत् देवस्याङ्गानिभवनं वक्ष्येतल्लक्षणं शृणु || २-४१७ || प्रासादं सदनं सद्मग्रहन्धामनिकेतनम् | प्. ४९) विमानं भवनं हर्म्यं वासोमनिरमालयम् || २-४१८ || निलयञ्चेतिविख्यातन्तस्य पर्यायवाचकम् | विमानलक्षणम् || विमान लक्षणं वक्ष्ये शृणुष्वेवं महेश्वर || २-४१९ || अथिष्ठानन्तु प्रथममुपानञ्च द्वितीयकम् | त्रितीयं जगती कचैव पद्मञ्चैव चतुर्थकम् || २-४२० || कुमुदं पञ्चमञ्चैव तथा षष्ठन्तु पट्टिका | भक्तिश्च सप्तमं प्रोक्तं स्तंभमष्टममेव च || २-४२१ || नवमं पालिका चैव दशमं कंपमेव च | एकादशं कपोतञ्च द्वादशं भूतमालिका || २-४२२ || त्रयोदशन्तु कण्ठञ्च नासिका तु चतुर्दश | पञ्चदशन्तु शिखरं स्तूप्यग्रं षोडशं भवेत् || २-४२३ || षोडशांशस्य शक्तीनान्नामानि च शृणु क्रमात् | आधारशक्तिः प्रथमा द्वितीर्यात्वादिशक्तिका || २-४२४ || तृतीया च क्रियाशक्ति ज्योतिशक्तिश्चतुर्थका | गणशक्तिः पञ्चमी तु षष्ठी च स्थानशक्तिका || २-४२५ || सप्तमी रौद्रशक्तिः स्यादष्टमी भोगशक्तिका | नवमी नन्तशक्तिस्तु दशमी च मनोन्मनी || २-४२६ || एकादशी महाशक्तिर्द्वादशी कालशक्तिका | त्रयोदशी ज्ञानशक्तिश्चतुर्दशी च शांभवी || २-४२७ || पञ्चदशी तु कल्याणी स्तूप्यग्रे तु महेश्वरि | अधिष्ठानादि स्तूप्यन्तं शक्तिरेताः क्रमान्न्यसेत् || २-४२८ || इत्थं शक्त्या कृतेर्धाम्नो लक्षणं वक्ष्यते शृणु | संचिता संचितञ्चैव उपसंचितमुच्यते || २-४२९ || संचितं प्रस्तरैयुक्तं स्थलहीनमसंचितम् | अङ्गोपाङ्गसमायुक्तमुपसंचितमुच्यते || २-४३० || प्. ५०) विमानलिङ्गशक्तीनान्नामानि च शृणु क्रमात् | नलिकाख्य विमान्यस्य समखंडन्तु लिङ्गकम् || २-४३१ || क्षान्तिशक्तिश्च प्रलिकमास्थापनं जयात्मिका | स्वस्तिकं स्थापितल्लिङ्गं प्रजाशक्तिश्चतुर्मुखम् || २-४३२ ||
SKप्रतिष्ठालिङ्गवाराही सर्वतोभद्रकं शुभम् | योनिलिङ्गं क्रियाशक्ति हस्तिपृष्ठङ्गणाभिमम् || २-४३३ || सूत्रशक्ति समुज्वाल्यं वणोत्त?टसु लिङ्गकम् | फलिनी शक्ति रित्युक्तं श्रीफन्दनं विक्रङ्गलम् || २-४३४ || गुणशक्ति वृत्तफद्रं फललिङ्गमनीयकम् | श्रीकान्त स्थापितं लिङ्गं पार्वती शक्ति संयुतम् || २-४३५ || श्रीप्रतिष्ठाख्य सदनं मूलस्थूलन्तु लिङ्गकम् | आत्मशक्तिश्चक्षीञ्च (आन्म-) मध्यस्थूलन्तु लिङ्गकम् || २-४३६ || मन्त्रशक्ति शिरच्छेदमखनिषललिङ्गकम् | रक्षाकाङ्गो पुरञ्च लिङ्गं सकलनामकम् || २-४३७ || अङ्गदाशक्तिरित्युक्तं सर्वदन्निषलार्त्थकम् | तरुणाशक्तिरित्युक्त विष्णुछन्दञ्च हर्म्यकम् || २-४३८ || क्रियाशक्तिश्च सौभद्रं टंकं लिङ्गं स्वधामयी | कैलासविकटं लिङ्गं पार्वतीशक्तिसंयुतम् || २-४३९ || चंद्रं मकुटलिङ्गञ्च शशिशक्ति समायुतम् | शुद्रछन्दञ्चसदनं स्थूललिङ्गञ्च भैरवी || २-४४० || प्रलंबितं प्रकीर्णञ्च आधारं मेरुछन्दकम् | चंडलिङ्गं विराट्शक्ति श्रीकण्टं कान्तलिङ्गकम् || २-४४१ || नादशक्तिश कुंभञ्च भद्रलिङ्गं रजायनी | जयाङ्गं पालिङ्गञ्च क्रीडाशक्ति समन्वितम् || २-४४२ || प्. ५१) विमानं शिवलिङ्गस्य क्षमाशक्त्यमलाकृतिः | कोमलं लिङ्गमित्याहुरादिशक्ति समन्वितम् || २-४४३ || हंसफन्दन्तु निलयं वीरं विपुललिङ्गकम् | पद्मांकसदनञ्चैव स्थिरलिङ्गं मनोन्मनी || २-४४४ || पद्मपत्रविमानस्य पावनं लिङ्गमुच्यते | ऋग्विशीर्यन्तु सदनं निम्नोन्नतसुलिङ्गकम् || २-४४५ || रुद्रशक्तिश्च सदनं कुक्कुटं सारलिङ्गकम् | परशक्त्यग्निकान्तञ्च विख्यातं लिङ्गपालिनी || २-४४६ || रुद्रकान्तन्तु सदनं विकृतं लिङ्गमुच्यते | योगभद्रविमानस्य भद्रलिङ्गं च कान्तिकम् || २-४४७ || भोगछन्दस्य सदनं विकृतं लिङ्गमुच्यते | विन्ध्य चक्र विमानन्तु शृङ्गलिङ्गं सुभैरवम् || २-४४८ || मेरुकूटविमानस्य बन्धलिङ्गङ्गशक्तिकम् | श्रीमहेंद्रन्तु सदनं स्तंभलिङ्गन्तु दक्षिणं || २-४४९ ||
SKकल्याणशक्तिरित्युक्तं बुद्बुदं राशिलिङ्गकम् | कामाधि शक्तिरित्युक्तं मंडलम्मार्यलिङ्गकम् || २-४५० || चिन्त्यशक्तिस्तु सादाख्यं मंडल लिक्तलिङ्गकम् | पैशाच शक्तिरित्युक्तमयञ्चालोकरं शुभम् || २-४५१ || पालिनी शक्तिरित्युक्तं मङ्गलाभिधलिङ्गकम् | विष्णुशक्तिस्तु सदनं नीलपर्वतकान्तिकम् || २-४५२ || ज्योतिशक्तिश्च निषदं कुलब्रह्मसुलिङ्गकम् | श्रेष्ठशक्तिसुसूत्कारं प्रभुलिङ्गं प्रतिष्ठितम् || २-४५३ || विजयं प्रतिलिङ्गञ्च विद्याशक्तिसमन्वितम् | प्. ५२) ललितं कान्ततप्तञ्चद्ध्वनिशक्तिसमन्वितम् || २-४५४ || अद्वयन्धर्ममध्यस्थल्लिङ्गन्ताडवशक्तिकम् | श्रीविलासाक्य सदनं पिपीलिकसुलिङ्गकम् || २-४५५ || अति प्रतिष्ठ शक्तिश्च सोमच्छन्दन्तु हर्म्यकम् | पल्लवाख्य सुलिङ्गस्य वासं विशालभद्रकम् || २-४५६ || नागञ्चदन्तपार्श्वस्थदितिक्रयसुवृत्तकम् | मूलाग्रलिङ्गं शान्तिस्स्यादींद्रमध्यममाश्रकम् || २-४५७ || सन्नधि शक्ति श्रीवर्तमूर्ध्वाङ्गं सृतिशक्तिकम् | पद्मगृहन्तु सदनं चतुरश्रं सुलिङ्गकम् || २-४५८ || विद्रुमाशक्तिसंयुक्तं प्रोक्ष्यदायंश्रलिङ्गकम् | दराशक्तिः क्रियावर्तधात्रलिङ्गं प्रतितथा || २-४५९ || तन्निकामन्तु हृल्लिङ्गं महाशक्तिलयाङ्गकम् | विलंबितसुलिङ्गस्य वासवीशालभद्रकम् || २-४६० || वैणवस्येति लिङ्गस्य कामांशंभद्रलिङ्गकम् | सुवर्णलिङ्गमित्याहुः कृष्णाशक्ति समन्वितम् || २-४६१ || गाणवं शाल सदनं ताम्रवर्णाभलिङ्गकम् | कामशक्तकण्ठस्य महेशलिङ्गरौद्रकम् || २-४६२ || भद्रलिङ्गविमानस्य शिवलिङ्गन्तु कथ्यते | रुद्रशक्तीतिशालायां चंद्रलिङ्गाङ्गशक्तिकम् || २-४६३ || पद्मावसान सदनं चरलिङ्गादिशक्तिकम् | धैर्यशाश्वतलिङ्गस्य भूतशक्तिञ्च विष्णुकम् || २-४६४ || फट्कारलिङ्गकालीक विक्रमालयगोपुरम् | सप्तधारासुलिङ्गस्य रविशक्तिस्तु सर्वकम् || २-४६५ || नवधारासुलिङ्गस्यदधानं ललितालयम् | प्. ५३) षोडशधारालिङ्गस्य (षोढ-) लक्ष्मीं रन्ताम्रहर्म्यकम् || २-४६६ ||
SKसहस्रशुभ्रलिङ्गस्य कामशक्तिविशालकम् | शिखराग्रसुलिङ्गस्य सिद्धीना वाथ शक्रकम् || २-४६७ || माणिक्कलिङ्गमित्याहुर्क्षान्ति हाराजवह्निकम् | कृष्णाशक्तीति सदनञ्चंद्रमालीकरं शुभम् || २-४६८ || शैललिङ्गस्यद्युतिन नदीशालाग्रगोपुरम् | शिखाग्रलिङ्गाज्वाली तु पृथिव्यादिनकार्मुकम् || २-४६९ || सञ्चस्रधारालिङ्गस्य वाक्शक्तिर्विजयालयम् | शताष्टधारालिङ्गस्य निवृत्तिः सर्वदालयम् || २-४७० || अद्ध्यर्धलिङ्गनिष्ठाधि दङ्गकालयमाषकम् | मोहशक्तिनि सौन्दर्यमालयं लवलिङ्गकम् || २-४७१ || धृतिशक्तिस्तु सदनं छायास्फटिकलिङ्गकम् | क्षेत्रशक्ती तु सदनन्नागरं लिङ्गमासनम् || २-४७२ || नागशक्ती तु सदनं द्राविडं वर्द्धमानकम् | क्षान्तिशक्ती तु सदनं वेसरं शयनं स्मृतम् || २-४७३ || सदनं लिङ्गशक्तीनां जीवप्राणव्यवस्थितम् | स्वरूपं जीवशर्मा च मध्य नृत्तस्वरूपकम् || २-४७४ || तस्मात् सप्तात्म मध्यस्थ ज्योतिरूपन्नटङ्गुरुम् | गुणागुण स्वरूपस्थं कृत्स्नन्दक्षमिवेश्वरम् || २-४७५ || शंखकाल झल्लर्यैर्घंटाघोषैः समंपुरैः | महानादनटैः पूज्यन्दक्षिणशमनुस्मरन् || २-४७६ || सदनल्लिङ्गमध्यस्थमर्चयेत् तु नटेश्वरम् | तस्मात् सर्वप्रयत्नेन ध्यात्वा अस्य तु मध्यमम् || २-४७७ || प्. ५४) लिङ्गमन्त्रं समुच्चार्य तन्मन्त्रोद्धारणं शृणु | तृतीयस्य चतुर्थस्य बीन्दुनादसमन्वितम् || २-४७८ || लिङ्गमन्त्रमिदं प्रोक्तं शक्तीनां स्थानकं शृणु | आधाराख्यमधिष्ठानमादिशक्ति स्वरूपकम् || २-४७९ || जगतीभूतशक्तिस्तु कुमुदं गुणशक्तिकम् | पट्टिकापालिनी शक्तिः कण्ठं कल्याणशक्तिकम् || २-४८० || अथः पट्टी तु कामेशी महापट्टीमनोन्मनी | ऊर्ध्वपट्टी महाशक्तिरथिष्ठानन्दशात्मिका || २-४८१ || स्तंभन्तु नादशक्तिश्च पद्मंभैरवशक्तिका | वल्लीमूलाङ्गशक्तिस्तु पद्मंवासवशक्तिका || २-४८२ || कर्णिकामालिनीशक्ति वसिन्यः शोषणीयका | अङ्गं कुमारशक्तिस्तु पालिकापरशक्तिका || २-४८३ ||
SKवीरकांडं विराट्शक्तिः पोतिकाग्रांनीयका | स्तंभन्तु दशशक्तिः स्याद् उत्तरं रुद्रशक्तिका || २-४८४ || वाजनं वामिनीशक्तिः रक्तमाल्याङ्गशक्तिकम् | कपोतं वै द्विशक्तिस्तु अंबुकामाधिनीयकम् || २-४८५ || प्रतिमुखं रुद्रशक्तिर्वाजनं राजशक्तिकम् | सप्तमं कपोतवर्गञ्च वेदिका वीरशक्तिकम् || २-४८६ || ज्योतिशक्तिश्च कण्ठं स्याद् उच्छ्रयं रुद्रशक्तिकम् | उपकल्याणशक्तिश्च दृतमालाभिसिन्द्वकम् || २-४८७ || शिखरं श्रेष्ठशक्तिश्च स्थूप्यमाज्ञानियामकम् | कर्णन्तु कालशक्तिश्च महानासीजयात्मिका || २-४८८ || महानासितदुत्सेधं शिखरन्नवशक्तिकम् | प्. ५५) तस्यमध्ये तु स्थूप्याधः पद्मं पार्वतिशक्तिकम् || २-४८९ || कण्ठञ्च करुणाशक्तिः कुंभं क्षीरामनीयकम् | ऊर्ध्वकुंभं शिखाशक्तिः श्रीवत्संद्ध्वनिशक्तिकम् || २-४९० || कंबुकानादशक्तिश्च मलकं मन्त्रशक्तिकम् | मुकुलं कुवलयावासीचाग्रन्ताण्डवशक्तिकम् || २-४९१ || इत्थं शक्त्यात्मकंधाम प्रोक्तं सकलरूपकम् | सकलन्निष्कलं लिङ्गं ज्योतिरूपन्तु निष्कलम् || २-४९२ || ज्योतिः प्रभासुमध्यस्थन्नटन्दक्षिणमद्भुतम् | निर्गूणन्निर्मलन्नित्यं मध्यमं परमंपदम् || २-४९३ || पराशक्तिपरन्नृत्तं वैदिकन्दक्षिणेश्वरम् | कूटस्थं वरदन्नित्यं हेतुदृष्टान्तवर्जितम् || २-४९४ || प्रसाद दक्षिणे शानं पवित्रं प्रभुमादीकम् | मध्यस्थं मूलरूपस्थं व्योमस्थं व्योमकं ध्वनिम् || २-४९५ || सदानन्दमयं सांबंसाक्षिं सादाशिवङ्गुरुम् | संकल्पातितकं सर्वं सभावासं सदोदयम् || २-४९६ || समं समरसीभावं विश्वतोमुखमूर्ध्वकम् | दक्षिणेशं महागुह्यं सदातांडवमद्भुतम् || २-४९७ || तस्य देवगृहं शान्तिनामवक्ष्ये महेश्वर | नागरं द्राविडञ्चैव वेसरञ्च त्रिधाभवेत् || २-४९८ || स्तूप्यन्तञ्चतुरश्रं यत्तन्नागरन्तु दाहृतम् | कण्ठपृभृतिवस्वश्रं प्रासादं द्राविडं भवेत् || २-४९९ || कण्ठात् प्रभृतिवृत्तं यद् वेसरन्तत् प्रशस्यते | त्रिवर्गषण्णवतीनां नामवक्ष्ये महेश्वर || २-५०० ||
SKनलिकं प्रलिकञ्चैव स्वस्तिकञ्च चतुर्मुखम् | प्. ५६) सर्वतोभद्रकञ्चैव हस्तिपृष्ठं समुज्वलम् || २-५०१ || २- श्रीचन्दवृत्तभद्रञ्च श्रीकान्तं श्रीप्रतिष्ठितम् | श्रीभद्रञ्च शिरच्छन्दं गोपुरं सर्वदाकृतिम् || २-५०२ || विष्णुच्छन्दञ्च सौभद्रं कैलासञ्चंद्रमेवच | आर्द्रछन्दञ्चललितमित्येते देविकामता || २-५०३ || सुमेरुछन्दकञ्चैव श्रीकूटं कुंभमेव च | जयाङ्गं विमलाङ्गञ्च विमलाकृतिमेव च || २-५०४ || हंसच्छन्दं वृषच्छन्दं गरुडच्छन्दमेव च | पद्मांकं पद्मभद्रञ्च शय्याकुक्कुटकान्तकम् || २-५०५ || रुद्रकान्तं योगभद्रं होमच्छन्दं सुदर्शनम् | स्कन्दकान्तं विष्णुचक्रं मेरुकूटं महेंद्रकम् || २-५०६ || बुद्बुदञ्चैव श्रीमंडं सौमुघ्यं जयमङ्गलम् | नीलपर्वतकञ्चैव निषधं सिन्धुकन्तथा || २-५०७ || विजयं ललितं कान्तं मन्दरं श्रीविलासकम् | जातीतराणि देवानां द्वात्रिंशत् भवनादिकम् || २-५०८ || सोमछन्दन्नागछन्दं काम्यावर्तमिदं शुभम् | श्रीवर्तकं पद्मगृहं प्रक्ष्यागृहमुखन्तथा || २-५०९ || कृत वर्तनं वृत्त गृहं विदुरं हानपात्मनाम् | अत्यन्तमींद्रकामादं द्वादशेते द्विजन्मनाम् || २-५१० || तन्त्रिताङ्गं विजयाङ्गं विशालपत्रकं परम् | गाणपं शालवंकर्णं भद्रकर्णन्तु शालकम् || २-५११ || पद्मावसानं धैर्यन्तु धिष्ण्यं विद्रुमगोपुरम् | सर्वं ललितभृत्यञ्च कान्तञ्चैव विशालकम् || २-५१२ || पलाशपत्र महाराजछत्रमालिकरं शुभम् | नन्दी विशालकञ्चैव पृथ्विवीजयमेव च || २-५१३ || सर्वाङ्गसुन्दरं छायागृहञ्च रतिवर्द्धनम् | प्. ५७) इत्थं जातिविमानानान्नवतिः स्यात् षडुक्तरम् || २-५१४ || प्रथमेष्टकादिस्तूप्यन्तं शक्तिरूपं महेश्वर | तस्माच्छक्तिमयं रूपं ममरूपं परं शुभम् || २-५१५ || बिन्दुरूपं महागुह्यं सर्वपीठाकृतिङ्गुरुम् | वृत्तं सर्वात्मभूतस्थं वेदरूपं सुमंडलम् || २-५१६ ||
SKपीठाकृतिं परं भूतं जगत् सृष्टि स्वरूपकम् | कुलालचक्रं यत् तस्मात् तस्मात् तस्मात् सृष्टिस्वरूपकम् || २-५१७ || जगत्सृष्ट्यात्मकं वृत्तं सूर्यमंडलरूपकम् | आकाशधा त्रियद्रूपपीठं सर्वत्रवासिनम् || २-५१८ || तस्मात् सर्वं महापीठन्दक्षिणद्वारमध्यमम् | आधारं सर्वदेवानां पद्मं कर्णिकयान्वितम् || २-५१९ || पादप्रतिष्ठितं शुद्धज्ञानमुद्रास्वरूपकम् | ममरूपं सदाध्यात्वा ममसर्वात्ममध्यगम् || २-५२० || ममरूपाकृतिं सर्वं मध्यस्थबिन्दुरूपकम् | ममवासं परं श्रेष्ठन्दक्षिणद्वारमालयम् || २-५२१ || दक्षिणद्वारमाश्रित्य षडाधार स्वरूपकम् | सर्वदेवालयस्थानि सृष्टिरूपं सुमध्यमम् || २-५२२ || पीठाकारस्य मध्यस्थनादं तांडवरूपिणम् | हृदयग्राममध्यस्थनादरूपं सुशोभनम् || २-५२३ || वेदतांडवनादायबिन्दुरूपं सुमंडलम् | सभावासं सदाज्योतिः सदानृत्तं परङ्गुरुम् || २-५२४ || नृत्ताकृतिं स्वनैर्वेद्यं पञ्चाधार स्वरूपकम् | विमानोत् सृष्टकं शुद्धं दक्षिणद्वारमालयम् || २-५२५ || सुमन्त्रकं सुमध्यस्थं पूजयेत् परमेश्वरम् | प्. ५८) लिङ्गन्नादमयं प्रोक्तं पीठं बिन्दु स्वरूपकम् || २-५२६ || लिङ्गाभावे तथा पीठे तन्मूर्तिन्तासुचिन्तयेत् | लिङ्गसुद्धिक्रमं प्रोक्तं मन्त्रशुद्धिन्ततः शृणु || २-५२७ || मन्त्राः सर्वे तु ग्रीवाद्या नमस्कारान्तिमाः स्मृताः | क्रियकाले प्रयोक्तव्यास्तेषां शुद्धिं समाचरेत् || २-५२८ || प्रोक्षण प्रणवन्तु * * * * * समाख्यया | अखिलं प्रणवं मन्त्रमादिनामसुनिश्चितम् || २-५२९ || सत्यं सत्यं ममध्यानं प्रणवन्तु सदाजपेत् | सर्वञ्च मम रूपं स्याद्ॐकारं शुद्धमव्ययम् || २-५३० || अकारञ्च उकारञ्चमकारं बिन्दुनादके (-नदके) | योगेन प्रणवं ज्ञेयं पञ्चदेवात्मकं परम् || २-५३१ || अकारोहृदयस्थः स्युन्मकारः कण्ठसंज्ञितः | मकारस्तालुमध्यस्थो बिन्दुर्भूमध्यनिष्ठितः || २-५३२ || नादोललाटकश्चैव योगपञ्चाक्षरं परम् | अकारः स्व्यु?क्त्रस्स्यादुकारो वामवक्त्रकम् || २-५३३ ||
SKमकारोघोरवक्त्रं स्यात् बिन्दुस्तत् पुरुषाननम् | नादस्त्वीशानवक्त्रं स्यान्नादातीतोनटेश्वरः || २-५३४ || सूक्ष्मपञ्चाक्षरं प्रोक्तं स्थूलपञ्चाक्षरं शृणु | नकारं सद्यवक्त्रन्तु मकारं घोरवक्त्रकम् || २-५३५ || ईशवक्त्रं शिकारन्तु वकारं वामवक्त्रकम् | यकारं पौरुषंवक्त्रं श्रीमत्पञ्चाक्षरं भवेत् || २-५३६ || सकारोवामदेवस्तु त्रितत्वात्मा व्यवस्थितः | प्. ५९) आकाशबीजार्गे तु मन्त्रं स्याद्वादशाक्षरम् || २-५३७ || हृस्वं ब्रह्मषडङ्गन्तु दीर्घन्नेत्रं सबिन्दुकम् | सर्वं बिद्वन्तमस्त्रन्तु विसर्गान्तं सबिन्दुकम् || २-५३८ || षष्ठन्त्रयोदशान्तञ्च पञ्चमं योजयेच्छुभम् | आदिलोपैर्मध्य लोपैरन्त्य लोपैश्च संयुतम् || २-५३९ || विभक्ति स्वर वर्णनां मन्त्रमेतत् प्रकीर्तितम् | हकारः शिवरूपन्तु सकारः शक्तिरूपकम् || २-५४० || हकारंबिन्दुनादाख्यं सकारं वर्गसंयुतम् | शिवं हंसप्रदानञ्च योजयेच्छिवमन्त्रकम् || २-५४१ || नादश्चतुर्दशमञ्चेव प्रलयाग्निसमायुतम् | षोडशाक्षर वर्णे तु बिन्दुनादसमन्वितम् || २-५४२ || अंबामन्त्रमिदं प्रोक्तन्नवाक्षरविधिं शृणु | सान्तहान्त समायुक्तं खत्रतीयाक्षरन्ततः || २-५४३ || षष्ठस्य पञ्चार्णञ्च यान्तान्तं वारुणानलौ | मान्तं षष्ठ स्वरोपेतं बिन्दुनादसमन्वितम् || २-५४४ || नवाक्षरविधिः प्रोक्तमष्टाक्षरविधिं (-विथिं) शृणु | अष्टमस्य चतुर्थार्णन् तत् पूर्वाक्षरमेव च || २-५४५ || नागं कूटाक्षरं कान्तं षष्ठवर्गस्य पञ्चमम् | षट्चतुर्दशसंयुक्तमष्टाक्षरमिदं शुभम् || २-५४६ || ततः शारभंन्त्रञ्च रौद्रंशृणुमहेश्वर | पञ्चमं पञ्चमन्नादं सप्तवर्गत्रितीयकम् || २-५४७ || षट्चतुर्दशत्रयोदशभूतं मध्यन्तद्वर्गषष्ठकम् | कूटदीर्घञ्च सप्तादिकूटदीर्घं वषडन्तकम् || २-५४८ || पूर्वोक्तं पूजनं कृत्वा आज्यं हुत्वा सहस्रकम् | प्. ६०) द्वादशाक्षरमन्त्रन्तु त्वयुतं होममाचरेत् || २-५४९ || ऐंद्रे तु पौष्टिकं कुर्याद् विद्वेषणमथाऽनले | आकर्क्षणं याम्यभागे नै-ऋत्यां मोहनन्तथा || २-५५० ||
SKवारुण्यां शान्तिकर्माणि चोच्चाटनमथानिले | सौम्ये वश्यं प्रयोक्तव्यमीशाने मारणन्तथा || २-५५१ || वसन्तं विद्धिपूर्वाह्नं ग्रीष्मं मध्यन्दिनन्तथा | प्रावृट्कालं पराह्नञ्च सायं शिशिरमेव च || २-५५२ || मध्यरात्रं शरत्कालं हेमन्तं स्यात् प्रभातकम् | आकर्षणं वसन्ते तु ग्रीष्मे विद्वेषणं कुरु || २-५५३ || प्रावृष्युच्चाटनं कर्मशिशिरे मारणन्तथा | शान्तिकन्तु शरत्काले हेमन्ते पौष्टिकन्तथा || २-५५४ || धर्मक्रमफलं प्राप्यपरनृत्तं विचिन्तयेत् | दक्षिणालयकेशान्ये होमकर्मसमाचरेत् || २-५५५ || चतुर्दिक्षु चतुर्वेचेदैः स्तोत्रमङ्गलवाचकैः | षण्मासमर्धमासं वा नित्यं हुत्वाऽयुतार्धकम् || २-५५६ || त्रयक्षर सकृज्जप्त्वा नाममन्त्रक्रमंशृणु | नादं नाद्यन्नादाद्यं षष्ठवर्गस्य पञ्चमम् || २-५५७ || एकादशस्वरोपेतञ्चतुर्थस्याद्यमक्षरम् | अष्टमस्यादि बीजन्तु मूलदीर्घसमन्वितम् || २-५५८ || सप्तमस्यादिबीजञ्च प्रणवादिनमोन्तकम् | नाममन्त्रमिदङ्गुह्यं परं ज्योतिव्यवस्थितम् || २-५५९ || अतिगुह्यऽमदेयञ्च मन्त्रादीनीशनामतत् | प्. ६१) ऊर्ध्वशैवात्मकं मन्त्रं मद्भक्तानां प्रदेयकम् || २-५६० || नाममन्त्रक्रमं प्रोक्तं वीरमन्त्रविधिं शृणु | द्वितीयस्य त्रितीयन्तु बिन्दुनादसमन्वितम् || २-५६१ || वीरमन्त्रमिदं प्रोक्तं रक्षामन्त्रक्रमं शृणु | पञ्चमस्यादिमं बीजं षष्ठं पञ्चमबीजकम् || २-५६२ || अष्टमस्य तृतीयञ्च चतुर्थं सप्तमस्य च | मद्वितीयार्णसंयुक्तं सप्तमस्यादिबीजकम् || २-५६३ || रक्षामन्त्रक्रमं प्रोक्तं ब्रह्ममन्त्रक्रमं शृणु | षष्ठवर्गत्रितीयन्तु प्रलयाग्निसमन्वितम् || २-५६४ || बिन्दुनादसमायुक्तं विष्णुमन्त्रविधिं शृणु | वाक्भवं विष्णुबीजन्तु बिन्दुरेखाविभूषितम् || २-५६५ || प्रणवादिनमोन्तञ्च चतुर्थ्यन्तं प्रयोजयेत् | विष्णुमन्त्रक्रमं प्रोक्तं धनमन्त्रमिदं शृणु || २-५६६ || पञ्चमस्य चतुर्थान्तं बिन्दुनादसमन्वितम् | धनमन्त्रमिदं प्रोक्तं लक्ष्मीमन्त्रक्रमं शृणु || २-५६७ ||
SKअष्टमस्यादिबीजन्तु प्रलयाग्निसमन्वितम् | चतुर्थ स्वरसंयुक्तं बिन्दुनादसमन्वितम् || २-५६८ || लक्ष्मीमन्त्रमिदं प्रोक्तं स्कन्दमन्त्रक्रमं शृणु | यवर्गसप्तमं बीजं पञ्चमस्वरसंयुतम् || २-५६९ || सप्तमस्य त्रितीयन्तु बिन्दुनादसमन्वितम् | सर्वं शिवमयं मन्त्रं स्वनामादिनमोन्तकम् || २-५७० || मन्त्रशुद्धिक्रमं प्रोक्तं शृणुष्वासनलक्षणम् | प्. ६२) खबीजस्यादिमं मन्त्रं मूलकाशक्तिसृष्टिकम् || २-५७१ || तस्य देवोद्भवं सर्वमथलच्छासुशक्तिकम् | आधारशक्तिकन्नामस्थानन्धर्मादिरुद्भवम् || २-५७२ || ध्यानपूजानिमित्तार्थमासनस्यादिकं शृणु | लोकाद्ध्यायश्च या देवी मुक्तादामसुमूलवत् || २-५७३ || चतुर्भुजामष्टबाहुं तप्तकाञ्चन सप्रभाम् | द्वादशाक्षीञ्चतुर्नासां मूर्ध्निबद्धशिरेरुहाम् || २-५७४ || पद्मासनस्थितां शक्तिं पाशांकुशवराभयम् | वज्रंटंकन्तोमरञ्च ज्ञानमुद्राञ्च बिभ्रतीम् || २-५७५ || सर्वाभरणसंयुक्तां सर्वलोकेकसंश्रयाम् | भावयेद् देशिकोधीमान् शक्तिमाधाररूपिणीम् || २-५७६ || शक्तिबीजञ्चांकुरञ्च नालधर्मादिगर्भितम् | शक्तिं कुंकुमवर्णञ्च बीजंविद्रुमसन्निभम् || २-५७७ || अंकुरं रजताभञ्च नालं वैडूर्यसन्निभम् | धर्मादिचरणैर्यूक्तमधर्माथोव्यवस्थितम् || २-५७८ || आधारशक्तिहस्तस्थं सपञ्चासनगर्भितम् | अनन्ताखमासनं पूर्वं सिंहासनमतःपरम् || २-५७९ || योगासनन्त्रितीयन्तु पद्मासन मतः परम् | पञ्चमं विमलं प्रोक्तं कल्पयेत् तूपरिक्रमात् || २-५८० || अनन्ताख्यासनं वृत्तमुपार्यर्यु परिसंस्थितम् | अष्टनागसमायुक्तमनन्तासनमुच्यते || २-५८१ || अनन्ताख्यानं प्रोक्तं सिंहासनक्रमं शृणु | प्. ६३) धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च चतुष्टयम् || २-५८२ || धर्मं भूतस्वरूपञ्च ज्ञानं वै गजरूपकम् | वैराग्यं सिह्मरूपं स्यादैश्वर्यञ्चाश्वरूपकम् || २-५८३ || कोटिभिः कोटिभिसिह्मेः प्रत्येकं परिवारितम् | राजावर्त स्वरूपेण सर्वेषां सिंहमेव च || २-५८४ ||
SKअव्यक्तोनियतिः कालो कला चैव चतुदष्टयम् | चतुर्भागे तु फलके महादिक्षु क्रमान्न्यसेत् || २-५८५ || केशवो मध्यपादं स्यादित्थं सिंहासनं भवेत् | सिंहासनक्रमं प्रोक्तं योगसनविधिं शृणु || २-५८६ || शुद्धं कूर्मवदाकारमग्निवर्णन्तदासनम् | प्रणवं पूर्वतोन्यस्यऽकारञ्चानले तथा || २-५८७ || आकारः याम्यभागे तु लकारन्नै-ऋते तथा | ईकारं पश्चिमेभागे उकारं वायुदेशके || २-५८८ || ऊकारं सौम्यदिक्भागे ऋकारमीशदेशके | ॠकारं मध्यभागे च न्यसेद्योगासनं भवेत् || २-५८९ || इत्थं योगासनं प्रोक्तं पद्मासनविधिं शृणु | वामाज्येष्ठा च रौद्री च कालीविकारणी तथा || २-५९० || बलविकरणी चैव बलप्रमथीनित्यपि | सर्वभूतदमनी च मनोन्मन्यष्टशक्तयः || २-५९१ || विन्यसेत् केसराग्रेषु कर्णिकायां यथाक्रमम् | इत्थं पद्मासनं प्रोक्तं शृणुष्व विमलासनम् || २-५९२ || प्. ६४) गणांबिकामुत्तरे तु महादेवीञ्च पूर्वके | तन्नोभौरी तु याम्ये तु वारुणे तु प्रचोदयात् || २-५९३ || एताभिश्शक्तिभिः क्रान्तं कल्पयेद् विमलासनम् | अग्निमध्ये रविस्थानं रविमध्ये तु चंद्रमाः || २-५९४ || तमोमध्ये रजोन्यस्य तन्मध्ये सत्वमेव च | आत्मानमन्तरात्मानं परमात्मानमेव च || २-५९५ || आत्मतत्वत्रयं प्रोक्तमुपर्यु परिविन्यसेत् | आत्मतत्व क्रमं प्रोक्तं विद्या तत्व क्रमं शृणु || २-५९६ || ब्रह्मविद्यां शिवविद्यां गुरुविद्यान्न्यसेत् क्रमात् | ब्रह्म तत्वमथोन्यस्य विद्या तत्वन्तदूद्ध्वितः || २-५९७ || तत्परं रुद्रतत्वञ्च तत ऊर्ध्वं महेश्वरम् | सादाख्य तत्वन्तन्मूर्ध्नि बिन्दु तत्वन्ततः परम् || २-५९८ || तदूर्ध्वे नादतत्त्वञ्च शक्तितत्वन्ततः परम् | तत् परं शिवतत्वञ्च पूजयेत् ज्ञानमूर्तिकम् || २-५९९ || तन्मध्ये नेत्रवासञ्च तन्मध्ये कुसुमासनम् | तदाधिकां शक्यमखिलमासनं स्फटिकप्रभम् || २-६०० || वृत्तं सदाशिवं रूपं व्योमरूपं परात्परम् | बिन्दुमन्त्र स्वरूपेण शिवसृष्टिक्रमं शृणु || २-६०१ ||
SKबिन्दुमध्यगतो नादोनादमध्यगतोद्ध्वनिः | ध्वनिमध्यगतश्चात्मा शन्त्यतीतं परन्तथा || २-६०२ || शिवं परात्परं ब्रह्ममप्रमेयमनिन्दितम् | अनौपम्यञ्च सूक्ष्मञ्च नित्यं सर्वगतं प्रभुम् || २-६०३ || शुद्धत्वाच्छिवमित्युक्तं परादूर्द्ध्वं परात्परम् | प्. ६५) ब्रह्मत्वात् ब्रह्मणत्वाच्च ब्रह्ममित्यभिधीयते || २-६०४ || प्रमाणव्यतिरिक्तत्वाद प्रमेयन्नटेश्वरम् | मलत्वान्निन्दितं ज्ञेयममलत्वादनिन्दितम् || २-६०५ || अनौपम्य मसादृश्यन्दक्षिणामुखमाश्रितम् | व्योमातीतं परं सूक्ष्मन्नित्यं कारणशून्यतः || २-६०६ || व्यापित्वात् सर्वगं प्रोक्तं स्वामित्वात् प्रभुरुच्यते | सृष्ट्यर्त्थं लोकरक्षार्थं लोकस्योत्पत्तिकारणम् || २-६०७ || साधकानां हितार्थाय संग्रहेत् स्वेच्छयातनुम् | पालनार्थं सभावासन्दक्षिणेश्वरमद्भुतम् || २-६०८ || सदानृत्तं महाज्योतिस्तंभालंभनमीश्वरम् | आनन्दरूपमध्यस्थं शिवं परमकारणम् || २-६०९ || तत स्तच्चत्रिधा प्रोक्तं निष्कलञ्च तथा पुनः | सकलन्निष्कलञ्चैव सकलञ्च यथा क्रमम् || २-६१० || निष्कलञ्च चतुर्भेदं सकलञ्च तथा भवेत् | सकलन्निष्कलन्त्वेकन्नवधा कीर्तितं क्रमात् || २-६११ || शिव तत्व सहस्रांशाच्छान्तिर्नामसमुद्भवा | शान्तिश्शान्तिकरं प्राहुस्तस्य पर्यायवाचकाः || २-६१२ || तस्माच्चैव सहस्रांशाच्छक्तिर्नामसमुद्भवा | शक्तेश्चैव तु विद्या च पर्यायात् तदुदाहृता || २-६१३ || तस्माच्चैव सहस्रांशान्नादमूर्ति समुद्भवः | नादस्तस्य प्रतिष्ठा च पर्याय इति कीर्तितः || २-६१४ || तस्माच्चैव सहस्रांशात् बिन्दुतत्व समुद्भवः (समुत्भवः) | बिन्दुश्चैव निवृत्तिश्च पर्यायात् तस्य वाचकः || २-६१५ || परं भावं समालंब्य सदा ताडवीरगणैः? | प्. ६६) अव्यक्तादि स्वरूपाणि तथातन्निष्क्रियास्तथा || २-६१६ || चतुर्थानिष्कलं ह्येवं शिवतत्वं समुच्यते | ध्यानपूजानिरूपस्थं निष्कलन्तु महेश्वर || २-६१७ ||
SKइत्येवं निष्कलं प्रोक्तं परं भावमितिस्मृतम् | तस्माद् दशैकभागेन सादाख्यस्य समुद्भवः || २-६१८ || लीङ्गपीठप्रकारेण सादाख्यन्तत्वलक्षणम् | लिङ्गशिवः समुद्भूतो नादात्मा च सदाशिवः || २-६१९ || पीठे शक्तिः समुद्भूतानाम्ना चैव मनोन्मनी | लिङ्गे च पीठिकायाञ्च शिवः शक्तीसमुद्भवौ || २-६२० || लिङ्गन्तु पुस्त्वमेवं स्यात् पीठं स्त्रीतत्वमेव च | निष्कलौ लिङ्गपीठौ च सकलौ शक्तिशाम्भवौ || २-६२१ || निष्कला तु कला हीना सकला तु कलान्विता | यतीनां मन्त्रिणाञ्चैव ज्ञानिनाञ्चैव योगिनाम् || २-६२२ || ध्यानपूजानिमित्तार्थं स्मृतं सकलनिष्कलम् | लिङ्गपीठप्रकारेण देवेशं पूजयेत् सदा || २-६२३ || वर्णाद्ध्वा च पदाद्ध्वा च तत्वाध्वाभुवनाद्ध्वकः | मन्त्राद्ध्वा च कलाद्ध्वा च सादाख्यस्य स्वरूपकम् || २-६२४ || अद्ध्वस्थान क्रमं वक्ष्ये विशेषात्तु महेश्वर | वर्णाध्वा तु त्वगाधारः पदाद्ध्वा च शिरस्तथा || २-६२५ || तत्वाद्ध्वा हृदयञ्चैव भुवनाद्ध्वा तु रोमकम् | मन्त्राध्वारुधिराधारः शुक्लमज्जास्थि रूपकम् || २-६२६ || कलाद्ध्वा चैव सर्वाङ्गमित्थं सादाख्यरूपकम् | प्. ६७) अष्टत्रिंशत् कलायुक्तं सकलञ्चेति विद्यते || २-६२७ || अथेशानादिसद्यान्तं कल्पयेत् तु सदाशिवम् | ईशानेन तु मन्त्रेण पञ्चमूर्ध्नः प्रकल्पयेत् || २-६२८ || पुरुषेण तु चत्वारि वक्त्राणिपरिकल्पयेत् | अघोरेण तु मन्त्रेण हृदाद्यष्टौ प्रकल्पयेत् || २-६२९ || वामदेवेन मन्त्रेण गुह्यादीनि त्रयोदश | सद्योजातेन मन्त्रेण पादाद्यष्टौ प्रकल्पयेत् || २-६३० || अष्टौ त्रयोदशाष्टौ च चत्वारश्चैव पञ्च च | अजात वामघोराख्य पुरुषेशकलाः स्मृताः || २-६३१ || एवन्तु सकलं प्रोक्तन्निष्कलन्तांडवं शुभम् | कारपादोदरादीनां कल्पनं सकलं विदुः || २-६३२ || सादाख्यं सर्वदेवेशं प्रत्यक्षं सर्वतोमुखं | सहस्रदलपद्मस्थ कर्णिकामध्यवासिनम् || २-६३३ || युवानं पञ्चमूर्धानन्दशबाहुञ्चतुर्मुखम् | द्वादशाक्षञ्चतुर्नासं चतुर्गलसमन्वितम् || २-६३४ ||
SKद्विपादं स्फटिकाकारं श्वेतयज्ञोपवीतकम् | सूर्यकोटि प्रतीकाशं ज्ञानचन्द्रकलाधरम् || २-६३५ || अभयं शूलपरशुवज्रं खट्गञ्च दक्षिणे | खेटकां अंशुपाशञ्च (कुशपाशञ्च) दंडं वरदमन्यतः || २-६३६ || बिभ्रच्चन्द्रांशुशिशिरं सौम्यं शुक्लांबरान्वितम् | सोष्णीषं सोत्तरीयञ्च सर्वाभरणभूषितम् || २-६३७ || सर्वावयवसंयुक्तं सर्वगन्धानुलेपनम् | सर्वभूतान्तरात्मानं सदा तद्वस्तुचिन्तितम् || २-६३८ || पञ्चभूताधिदैवत्यं पञ्चब्रह्म स्वरूपकम् | प्. ६८) पञ्चाक्षराभिधं शंभुं पार्वतीवल्लभं परम् || २-६३९ || इत्येतैर्लक्षणैर्युक्तं सादाख्यस्य स्वरूपकम् | तस्यैव वामपार्श्वे तु चादिशक्तिर्मनोन्मनी || २-६४० || वह्नेरुष्णत्व वच्छक्तिरविनाभाविनी विभोः | शक्तिहीनः शिवोनास्ति शिवहीना न शक्तिका || २-६४१ || तस्माच्छिवमयन्देवं जगदेतच्चराचरम् | एकवक्त्राञ्चतुर्हस्तां सर्वाभरणभूषिताम् || २-६४२ || नितंब तटविस्टीर्णां मध्ये सूक्ष्मांस्तनोन्नताम् | वामादिशक्तिकोपेतामाख्यया तु मनोन्मनीम् || २-६४३ || ब्रह्माण्यङ्गानि विद्याश्च विद्येशाश्च गणेशकाः | लोकपालास्तथास्त्राश्च क्रमशस्तत् समुद्भवाः || २-६४४ || तत् तद् गणावृताः सर्वे तत् तच्छिन्न समायुताः | सर्वावयवसंपूर्णास्त्वनन्तादित्य सप्रभाः || २-६४५ || इत्थं सादाशिवं रूपं लिङ्गपीठसमन्वितम् | तत् सादाख्य प्रभावस्तु वर्णि तुन्नैवशक्यते || २-६४६ || सकलन्निष्कलं प्रोक्तं सकलञ्च ततः शृणु | मूर्तयस्त्वी श्वराद्याश्च सकला इति कीर्तिताः || २-६४७ || यद्वत् सदाशिवः प्रोक्तस्तद्वदीश्वर उच्यते | ब्रह्माद्यावरणञ्चैव पूर्ववत् परिकल्पयेत् || २-६४८ || विद्या तत्व स्थितं संभुं सर्वलक्षण संयुतम् | लिङ्गन्तु गोलकं विद्यात् सकलन्तु महेश्वर || २-६४९ || लिङ्गपूजावसाने तु पूजयेद् ईश्वरं क्रमात् | प्. ६९) ईश्वरस्य सहस्रांशाद्रुद्रस्योद्भवमुच्यते || २-६५० || चतुर्भुज स्त्रिनेत्रस्तु चन्दार्धकृतशेखरः | विद्युत् प्रभान्वितोदेवः परश्वथमृगायुधः || २-६५१ ||
SKसर्वावयव संपूर्णः सर्वाभरणभूषितः | उमादेव्युत्तरे पार्श्वे सर्वलक्षणसंयुता || २-६५२ || ईश्वरस्य तु कोट्यंशाद्विष्णु तत्व समुद्भवः | श्यामवर्णः सुरत्तक्षकाश्शंख चक्रधरोहरिः || २-६५३ || कृतांजलिपुटश्चैव पीठपादे प्रकल्पयेत् | विष्णोस्तस्य तु कोट्यं शाद्ब्रह्मणस्तु समुद्भवः || २-६५४ || चतुर्भुजश्चतुवक्त्रो जटामकुटधारकः | कमंड्वल्वक्षमाला सृक्पीतवर्णः सुलोचनः || २-६५५ || सावित्री भारती पार्श्वे सृष्टिमूर्तिरिति स्मृतः | रुद्रः संहारमूर्तिः स्याद् विष्णुश्च स्थितिमूर्तिकः || २-६५६ || सृष्टिमूर्तिश्च विख्यातो ब्रह्मा च त्रिविधोमतः | मूर्तित्रयन्तु संप्रोक्तं ब्रह्माण्डे संव्यवस्थितम् || २-६५७ || निष्कलन्तु लयस्थान मकारं सकलनिष्कलम् | भोगस्थानन्तु सकलं लयभोगाथिकारवान् || २-६५८ || परन्निष्कलमित्युक्तन्दक्षिणेश्वर मद्भुतम् | सकलन्निष्कलञ्चैव त्वपरं परिपठ्यते || २-६५९ || परन्नृत्तं सदाथ्या तुंयः समर्थः सपाशहा | तिसृस्तु देवताः पश्चात् त्रयस्त्रिंशत्समुद्भवाः || २-६६० || रुद्रेकादशकं पूर्वं द्वादशादित्य संयुतम् | प्. ७०) वसवोऽष्टौऽश्विनौ द्वौ तु त्रयस्त्रिंशच्च देवताः || २-६६१ || सहस्रत्रिंशत् कोट्यश्च देवास्तत्र त्रिमूर्तिषु | शरीरं भूतसारेण देवानान्तु सृजन्ति वै || २-६६२ || ऐश्वर्यमलसंबन्धाद्धृत् प्रबोधन्तु नाशयेत् | सर्वकारण देवेन ध्यात्वा तांडवमीश्वरम् || २-६६३ || आवाहयेत् ततो देवं पुष्पहस्तः पुखसानः | मूलं स्मृत्वा वरं ध्यात्वा सर्वव्यापि सदाशिवम् || २-६६४ || सदाशिवं परं ध्यात्वाऽवाहयेत् सद्यमन्त्रतः | स्थापनं वाममन्त्रेणावघोरेण निरोधनं || २-६६५ || नरेण सन्निधानं स्याद् ईशानेन तु पूजनम् | यया कुंडगतश्चाग्निर्वायुना परिदीप्यते || २-६६६ || तथैव नाममन्त्रेण जायते भगवान् शिवः | आवाहिन्याख्ययावाह्य स्थापिन्या स्थाप्य मुद्रया || २-६६७ || पञ्चमुखीं धेनुमुद्रां शक्तिमुद्रां ततः परम् | निष्ठुरां लिङ्गमुद्राञ्च पद्मनेत्रास्त्रमुद्रिकाः || २-६६८ ||
SKपञ्चब्रह्मषडङ्गैश्च पूर्ववन् न्यासमेव च | गन्धपुष्पञ्च धूपञ्च दीपञ्चैव निवेदयेत् || २-६६९ || लिङ्गरूपविशेषन्तु शृणुष्वेवं महेश्वर | लिङ्गमूलन्तु चरणौ लिङ्गाग्रं मुखमुच्यते || २-६७० || सूत्रपार्श्वौ चतुर्बाहू सूत्रान्तं पृष्ठमुच्यते | ईश्वराद् दक्षिणां शेतु ब्रह्मा सृष्ट्यर्थमुद्भवः || २-६७१ || प्. ७१) ईश्वराद् वामभागे तु विष्णुश्च स्थितिकारणः | नासाद् वायुः समुत्पन्न श्रोत्रयोस्तु दिशोदश || २-६७२ || करपद्म समुत्भूतः गणेश इति कीर्तितः | हृदयात् षण्मुखो जातो भास्करोनाभिसंभवः || २-६७३ || इन्द्रस्तु पृष्ठसंभूतो वह्निर्नेत्रसमुद्भवः | वामनेत्रात् समुद्भूतो देवः सोम इति स्मृतः || २-६७४ || स्तनयोर्यक्षदेवास्तु रुद्रोदक्षिणलोचने | हस्ताग्रादायुधोत् पत्तिः सन्ध्याश्चैव नखोद्भवाः || २-६७५ || ऊर्वोस्तु पन्नगाजाताः ऋषयोजानुसंभवाः | पादयोः सर्वदेवाश्च शिवज्ञानसमुद्भवः || २-६७६ || संहारकाले यत्सर्वं लिङ्गन्तांडवमादिमम् | लिङ्गमूर्ति स्वरूपस्य मध्ये सादाख्यमर्चयेत् || २-६७७ || महासदाशिवद्द्यानक्रमं वक्ष्ये महेश्वर | पञ्चास्यं पञ्चमूर्धानं प्रतिवक्त्रं त्रिलोचनम् || २-६७८ || प्रसन्नं षोडशभुजमेकदेहञ्चतुर्गलम् | दशश्रोत्रं द्विपादञ्च किंचित् प्रहसिताननम् || २-६७९ || त्रिशूलं शरवज्रञ्च खट्गञ्चैव परश्वथम् | चक्रञ्च ज्ञानमूद्राञ्च सव्यभागेऽभयं क्रमात् || २-६८० || घंटान्नागञ्च पाशञ्च धनुरंकुशखेटकम् | पादं विस्मयञ्चैव बिभ्राणं वामपाणिभिः || २-६८१ || आदिशक्तिसमोपेतं कृष्णनागोपवीतिनम् | सद्यवामादि मन्त्रेण दद्याद् वक्त्रेषु मूर्धसु || २-६८२ || सद्यमन्त्रं समुच्चार्य दद्यात् पाद्यन्तु पादयोः | वक्त्रेषु वक्त्रमन्त्रेण दद्यादाचमनीयकम् || २-६८३ || प्. ७२) ईशानेन तु मन्त्रेण दद्यादर्स्यञ्च मूर्धसु | मुखेषु गन्धं वामेन पुष्पमीशेन मूर्धसु || २-६८४ || धूपं सद्येनमन्त्रेण दीपं घोराणुना ततः | नैवेद्यं वक्त्रमन्त्रेण क्रमात् दद्यान्महेश्वर || २-६८५ ||
SKएलाकर्पऊरसुमन चन्दनैर्मिश्रितं पयः | पञ्चब्रह्मषडङ्गैश्च कल्पयेद् धेनुमुद्रया || २-६८६ || मूलप्रकृतिबीजन्तु वर्णमन्त्रं समुच्चरन् | वारुणं बीजमूच्चार्य जलभांडे तु पूरयेत् || २-६८७ || मन्त्रैरीशादिभिः पश्चादभिषेकं शनैः शनैः | चतुर्दिक्षु चतुष्कोणेष्वा चामार्घ्यं प्रदापयेत् || २-६८८ || गोमूत्रङ्गोमयं क्षीरन्दधिसर्पिकुशोदकम् | गोमयद् विगुणं मूत्रं सर्पिदद्याच्चतुर्गुणम् || २-६८९ || दधिपञ्चगुणं प्रोक्तं क्षीरमष्टगुणं भवेत् | गोमूत्रं ब्रह्मदैवत्यङ्गोमयं विष्णुदैवतम् || २-६९० || क्षीरन्तु रुद्रदैवत्यं महेशन्दधिरुच्यते | सर्पिः सादाख्य दैवत्यं गन्धपुष्पादिभिर्यजेत् || २-६९१ || पञ्चसारे तु नैवेद्यं दर्शयेत् ज्ञानमुद्रिकाम् | देवस्यत्वाग्निमिले च आवोराजा त्र्यंबकम् || २-६९२ || पञ्चगव्यक्रमं प्रोक्तं फलोदकविधिं शृणु | बिल्वञ्चकदली चैव नारङ्गद्वयमेव च || २-६९३ || आम्रकेली फलञ्चैव तिन्त्रिणी च फलोदकम् | नाममन्त्रं समुच्चार्य गन्धपुष्पादिभिर्यजेत् || २-६९४ || फलोदकविधिः (-विथिः) प्रोक्तं बीजोदकविधिं शृणु | यवनीवारमुद्गञ्च व्रीहिसिद्धार्त्थ तंडुलम् || २-६९५ || प्. ७३) सौगन्धिकं हेमशाली बीजोदकमिदं शुभम् | अभ्यर्च्य गन्धपुष्पाद्यैर्मूलबीजं समुच्चरन् || २-६९६ || बीजोदकविधिः प्रोक्तं रत्नोदकविधिं शृणु | माणिक्कञ्चैव गोमेदं पुष्यरागञ्च गारुडम् || २-६९७ || प्रवालं स्फटिकन्नीलं मुक्तारत्नोदकं शुभम् | गन्धैः पुष्पैश्च धूपाद्यैर्वर्णमन्त्रेण पूजयेत् || २-६९८ || इत्थं रत्नोदकं प्रोक्तं गन्धोदकविधिं शृणु | चन्दनञ्चैव कुष्ठञ्च तक्कोलञ्चैव कुंकुमम् || २-६९९ || कच्चोलं पिच्छिलाचैव कस्तूरी चागरुस्तथा | उशीरञ्चलवङ्गञ्च तथा चंपक कुट्मलम् || २-७०० || गन्धादिकन्तु नैवेद्यन्नाममन्त्रेण दापयेत् | इत्थं गन्धोदकं प्रोक्तं पुष्पोदकविधिं शृणु || २-७०१ || चंपकप्रसवञ्चैव मल्लिका चैव पाटली | केतकी गिरिपुष्पञ्च पुन्नागं कुन्दमेव च || २-७०२ ||
SKनन्द्यावर्तं श्रियावर्तं मन्दारं करवीरकम् | जातीनीलोत्पलञ्चैव ह्रीबेरादि विमिश्रितम्(ः) || २-७०३ || गन्धं पुष्पञ्च धूपञ्च शिवमन्त्रेण दापयेत् | इत्थं पुष्पोदकं प्रोक्तमन्नपूजाविधिं शृणु || २-७०४ || तथान्नैरभिषेकन्तु आयुरारोग्य वर्धनम् | अन्नं प्राणात्मकं श्रेष्ठं सर्वजन्तु प्रतिष्ठितम् || २-७०५ || तस्मादन्नाभिषेकन्तु ममप्रीतिकरं शुभम् | अन्नरूपं विशेषेणममरूपं द्विधास्मृतम् || २-७०६ || अन्नपूजाविधिः श्रेष्ठं न भूतो न भविष्यति | तस्मात् सर्वप्रयत्नेन अन्नेनेवाभिषेचयेत् || २-७०७ || प्. ७४) अन्नलिङ्गाकृतिन्दत्वा गन्धंपुष्पञ्च धूपकम् | दीपञ्च पायसान्नञ्च दद्यात् तांबूलमेव च || २-७०८ || अन्नपूजाविधिर्नित्यं शुभं सर्वार्थसाधकम् | अपमृत्युजयं पूतं राजराष्ट्र विवृद्धिदम् || २-७०९ || अन्नपूजा महावश्यन्दक्षिणाराधनोत्तमम् | सर्वशान्तिकरं शुद्धं जयमन्नार्चनं कुरु || २-७१० || अंबात्मबीजं परमं तस्मादन्नमुदाहृतम् | अन्नपूजान्तु यः कुर्यात् सयाति परमाङ्गतिम् || २-७११ || तस्मात् सर्व प्रयत्नेन अन्नेनैव प्रपूजयेत् | अन्नप्रक्षालनं कृत्वामूलबीजन्न्यसेत् क्रमात् || २-७१२ || गन्धं पुष्पञ्च धूपञ्चदीपञ्चैव प्रदापयेत् | अन्नपूजाविधिः प्रोक्तं जलार्चनविधिं शृणु || २-७१३ || पूर्ववत् संस्कृतन्तोयं हेमपात्रे प्रपूरितम् | अथवाराजते वापि ताम्रे वा यज्ञवृक्षके || २-७१४ || तज्जलस्य च मध्ये तु स्थापयेद् दक्षिणेश्वरम् | दूर्वातिलाक्षतं पुष्पन्दापयेद् दक्षिणेश्वरम् || २-७१५ || गन्धं पुष्पञ्च धूपञ्च दीपञ्चैव प्रदापयेत् | जलार्चनं जपाद्गुह्यं स्थितिकारं सुशोभनम् || २-७१६ || सर्वसिद्धिकरं शुद्धं सर्वरोगविनाशनम् | अभिषेक कालजप्यानिमन्त्राणि * * * * || २-७१७ || त्रयंबकमुमारुद्रमापो हिष्ठेति शञ्चमे | ईलेशतञ्च कद्रुद्रन्नमस्ते सदसस्पतिम् || २-७१८ || जातवेदसमीशानं हंस आत्वालषेऽपि च | प्. ७५) अघोरं तत् पुरुषं वामं सद्योजातादिकन्ततः || २-७१९ ||
SKसहस्र शीर्षान्नपते पूषेमाचाग्निमीलकम् | ये देवाग्ने ममाग्ने च गौरिन्देवाहवेपि च || २-७२० || त्वमग्ने आवोराजानमृतन् तत् सवितुस्तथा | ओमित्ये तत् ब्रह्मसामविश्वेत्ता प्रणवादिकम् || २-७२१ || प्रयुक्तमभिषेकाय मन्त्राः षट्त्रिंशतः क्रमात् | पृथक् पृथक् सकृज्जप्त्वा चाभिषेकं शनैः शनैः || २-७२२ || जलार्चनविधिः प्रोक्तं पात्रलक्षणमुच्यते | सौवर्णं राजतं वापि तथा ताम्रसमुद्भवम् || २-७२३ || शंखं वा शुक्तिकां वापिगवां श्रङ्गमथापि वा | अथवामृण्मयं वापि स्नानपात्रं प्रशस्यते || २-७२४ || उत्तमन्द्रोणसंपूर्णं मध्यमं शिवपूरितम् | पञ्चब्रह्मभिरालभ्य बद्ध्नीयाद्धेनु मुद्रिकाम् || २-७२५ || समुच्चरन्नाममन्त्रमभिषिञ्चेच्छनैः शनैः | अन्नलिङ्गाकृतिं पूज्यतस्याग्रे दक्षिणेश्वरम् || २-७२६ || ध्यात्वा समुच्चरन्नामगन्धं पुष्पञ्च दापयेत् | धूपदीपान्त नैवेद्यन्दद्यान्नामसमुच्चरन् || २-७२७ || अन्नपूर्णेति मन्त्रेण सर्वत्रापि समुच्चरेत् | आढकापूर्णमधं सर्वमेवाढकं भवेत् || २-७२८ || शंखशुक्तिकश्रङ्गाणि स्वप्रमाणेन पूरयेत् | सूत्रेण वेष्टयेत् सर्वद्गवाक्षसदृशान्तरम् || २-७२९ || स्थण्डिलं विधिवत् कृत्वा शाल्यक्षततिलैरपि | प्. ७६) आढकञ्च तदर्धं वा कलशानां पृथक् पृथक् || २-७३० || शाल्यर्धन्तंडुलं ग्राह्यन्तदर्धञ्च तिलन्तथा | सकूर्चान्वस्त्र संयुक्तान् सरत्नान् स्थण्डिलोषितान् || २-७३१ || अलंकृतान्विशेषेण कलशान् पूजयेत् गुरुः | कलशस्यमुखेरुद्रो मध्ये माधव देवतम् || २-७३२ || प्राजापत्यन्तु पृष्ठं स्यात् कलशस्याधि देवताः | गन्धपुष्पञ्च धूपञ्च हृदयेन प्रदापयेत् || २-७३३ || महादर्पण मध्ये वा लिङ्गाग्रे वा नटेश्वरम् | अरूपमपिरूपस्थन्दक्षिणद्वारमीश्वरम् || २-७३४ || दर्पणे वा सुलिङ्गे वा अभिषिञ्चेत् सुलेपयेत् | पूजास्थानद्वयं गुह्यन्दक्षिणालयमद्भुतम् || २-७३५ || अभिषेक क्रमं वक्ष्ये विशेषेण महेश्वर | नाममन्त्रं समुच्चार्य त्रयाक्षरमनुं स्मरन् || २-७३६ ||
SKगोश्रङ्गाग्र प्रमाणेन स्रोवितेत कराग्रतः | शुद्धतोयेन संस्नाप्य हरिद्रालेपनन्तथा || २-७३७ || सुगन्धामलकञ्चैव धूपञ्चैव प्रदापयेत् | गन्धोदकैस्ततः शुद्धैरभिषेकं शनैः शनैः || २-७३८ || नाममन्त्रं सकृज्जप्त्वा दद्यात् पुष्पञ्चमूर्धनि | पाद्यमाचमनञ्चार्घ्यन्तत्काले तु प्रदापयेत् || २-७३९ || शुद्धवस्त्रं फमादायवस्त्रमुद्रान्तु कल्पयेत् | लिङ्गं पीठं स्थलञ्चैव वसनन्तत् प्रवेशयेत् || २-७४० || प्रवेशवस्त्रमादाय चंडेशाय प्रदापकयत् | प्. ७७) वास्तोष्पतेतिमन्त्रेण वास्तुनाथं समर्चयेत् || २-७४१ || एतान्विन्द्रस्तु वामे तु आपोहिष्ठेति प्रोक्षणम् | सूक्ष्म वस्त्रन्तु संग्राह्य बद्ध्नीयाद्धृदयाणुना || २-७४२ || आवेष्ट्य लिङ्गं वस्त्रेण चतुर्भागेकभागतः | ईशानादि च सद्यान्तं त्रिपुंट्रं विन्यसेत् क्रमात् || २-७४३ || मनोन्मन्याश्च पीठान्तमङ्गादीनां त्रिपुंट्रकम् | चन्दनं कुंकुमञ्चैव कर्पूरञ्चैवमीश्रकम् || २-७४४ || पुष्पमाल्योपवीतञ्च ईशमन्त्रेण दापयेत् | शिवमन्त्रशतं जप्त्वातद्गन्धञ्च प्रपूजयेत् || २-७४५ || हारके धूरकटकान्हृन्मन्त्रेण प्रदापयेत् | अङ्गुलीयञ्चमकुटं मूलमन्त्रेण दापयेत् || २-७४६ || जटाग्रे शुद्धगङ्गापः स्वनामाद्येन पूजयेत् | अस्त्रमन्त्रंशतं जप्त्वा खण्टां कवचमन्त्रतः || २-७४७ || धूपन्ताण्डव देवस्य पञ्चवक्त्रेषु दापयेत् | धूपदीपं प्रदातव्यं घण्टारवस समन्वितम् || २-७४८ || आचमनं पुनर्दद्याच्छिवमन्त्रं सकृज्जपन् | तत्काले ताडयेत् घण्टां पटन्तत्राऽपनीय च || २-७४९ || देवतार्चनकाले तु प्रछन्न पटमुत्तमम् | कालाग्निं जाठराग्निन्तु शिवाग्निञ्च प्रपूजयेत् || २-७५० || शिवस्य दर्शने तत्र त्रिपाद्युपरिकल्पयेत् | सौवर्णे राजते ताम्रे पात्रेकाम्स्येऽथवा पुनः || २-७५१ || शालिविष्टमयं श्रेष्ठमथवा गोमयेन वा | प्. ७८) कृत्वा नवपदैर्युक्तं पद्मकर्णिकयान्वितम् || २-७५२ || प्रोक्षयेद्धृदये नैव अस्तशस्त्रमथोफलम् | भारद्वयन्ततः कोष्ठङ्गोमुष्टि द्वयपिष्टकैः || २-७५३ ||
SKशुद्धकार्पासजैस्तूलैर्वर्तियुक्तैस्तु पञ्चभिः | कर्णिकायाञ्चतुर्दिक्षु कपिलाघृतसेचितैः || २-७५४ || सद्यादीशान पर्यन्तमन्त्रैर्ज्वलन संयुतम् | वर्णमन्त्रं समुच्चार्य देशिकेन सुधीमता || २-७५५ || सुरभिमुद्रां प्रबद्ध्वा तु दीपमुद्रान्त्वनन्तरम् | कराभ्यान्दिव्यपात्रन्तु धारयेच्च समन्त्रकम् || २-७५६ || त्रिभिरावर्तनं कृत्वा लिङ्गमूर्ध्नि विशेषतः | अर्घ्येण प्रोक्षणं कृत्वा भस्म चैव परिग्रहेत् || २-७५७ || शिवमन्त्रं सकृज्जप्त्वा मूलमन्त्रन्न्यसेत् क्रमात् | तदन्ते दर्पणन्दद्याच्छक्तिमन्त्रं समुच्चरन् || २-७५८ || अघोरं मन्त्रमुच्चार्यव्यजनन्तु प्रदापयेत् | ततश्छत्रञ्चामरञ्च हृदयेन प्रदापयेत् || २-७५९ || वायुमन्त्रं जपित्वा तु पादुके चैव दापयेत् | पुष्पांजलिन्ददेत् पश्चान्नमस्काराख्यमुद्रया || २-७६० || आलिङ्गनन्ततः कृत्वा ज्ञानमुद्रां प्रदापयेत् | ज्वालापात्राणि शिरसा हस्ताभ्याञ्च निवेदयेत् || २-७६१ || उत्तमा रुद्रगणिका ब्रह्मचारी च धारयेत् | हेमकुंभ स्थितजले दीपं पूर्वे तु निक्षिपेत् || २-७६२ || सर्ववाद्य समायुक्तं बलिपीठे प्रदापयेत् | पुष्पांजलिन्ततः कृत्वा जपलक्षणमुच्यते || २-७६३ || जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् | प्. ७९) मानसञ्चैव कण्ठोष्ठमुपांशु व्यक्तमेव च || २-७६४ || व्यक्ताद्दशगुणं पांशु तस्मात्कण्ठोष्ठकं शतम् | सहस्रं मानसन्तस्मादङ्गुल्या तु जपं शृणु || २-७६५ || अङ्गुल्या जपसंख्या तु तुल्याचेकफलन्तथा | अग्निकोष्टगुणं (अग्गि-) प्रोक्तमायुतं पुत्रदीपकम् || २-७६६ || शतसंख्या कुशग्रन्धिः प्रवालैस्तु सहस्रकम् | स्फटिकन्दशसाहस्रं रुद्राक्षैस्तु न विद्यते || २-७६७ || अङ्गुष्ठेन तु मोक्षार्थन्तर्जन्या चाभिचारकम् | मध्यमान न काम्ये च शान्तिं कुर्यादनामिकाम् || २-७६८ || कविष्ठाकर्षणञ्चैव तत्तद्देव क्रमं शृणु | अङ्गुष्ठं ब्रह्मदैवत्यन्तर्जनीरुद्रदैवतम् || २-७६९ || मध्यमाङ्गुलिदाशार्हो नामिकाधर्मदैवतम् | कनिष्ठासूर्यदैवत्यं जपदेशफलं शृणु || २-७७० ||
SKग्रहे चेकफलं कुर्याद्गोष्ठे चैव सहस्रकम् | द्विसहस्रन्नदीतीरे पर्वते त्वयुतं मतम् || २-७७१ || समुद्रे दशसासस्रन्देवालयमसंख्यकम् | देवालये विशेषात्तु दक्षिणद्वारमालयम् || २-७७२ || तत्तद्देशेस्मरन्नृत्तं सर्वसिद्धिकरं शुभम् | सहस्रं वा तदर्धं वा शतं मज्जपतोनरः || २-७७३ || नित्यमेवं समायोगात् सर्वपापविनाशनम् | सयातिजपमात्रेण शिवलोकमथाक्षयम् || २-७७४ || नैवेद्यलक्षणञ्चैव शृणुष्व च महेश्वर | श्वेतशाली महाशाली रक्तशाली यवाथवा || २-७७५ || कृष्णशालि च नीवारं वेणुं मुद्गमथाऽपि वा | प्. ८०) नैवेद्य द्रव्यमुख्याः स्युस्तण्डुलार्थं प्रगृह्यताम् || २-७७६ || चातुर्वर्ण्योद्भवस्तीभिः संक्षुद्य च पुनः पुनः | रविरश्मिनि सन्तप्त्वात्थक्षिप्यो मूखले तथा || २-७७७ || प्राङ्मुखोऽदद्मुखोवाऽथ प्रहृत्य मुसलेन तु | त्रियष्टाग्रक चैव कणकंबु च वर्जयेत् || २-७७८ || नवधामार्गमुद्दिश्य नैवेद्यन्तत्र कल्पयेत् | प्रातः साये तथाभ्यर्च्य मध्याह्ने च निवेदयेत् || २-७७९ || प्रस्थद्वयञ्च तत्काले पाचयित्वा निवेदयेत् | एकदीपं द्विकाले च रात्रौ दीपद्वयं भवेत् || २-७८० || प्रातः काले च मध्याह्ने द्विप्रस्थन्तंडुलं हवि | सायाह्ने च समभ्यर्च्य दीपञ्च द्विगुणन्ददेत् || २-७८१ || प्रस्थद्वयं द्विकालेषु प्रत्येकञ्च निवेदयेत् | दीपञ्चैव चतुः प्रोक्ताः साये तु द्विगुणन्ददेत् || २-७८२ || मध्यमस्याधमे प्रोक्तं मध्याह्ने चाढकन्ददेत् | प्रस्थद्वयं द्विकाले च दीपं विंशतिकं भवेत् || २-७८३ || मध्यत्रये तु मतिमान्वाद्यध्वनि समायुतम् | त्रिकालं बलिलिङ्गेन बलिदानन्नयेद् बुधः || २-७८४ || मध्यमान्मध्यमं विद्यात् त्रिकालेष्वाढकं हविः | अर्धरात्रौ तु या पूजा सार्धयाममिहोच्यते || २-७८५ || त्रिकालं बलिसंयुक्तं पुष्पान्नाक्षकं क्रमात् | वाद्यध्वनी समायुक्तं नृत्तगेय समन्वितम् || २-७८६ || मध्याह्ने नित्यहोमं स्याद्धूपदीपसमन्वितम् | मध्यमादुत्तमं वक्ष्ये त्रिकालञ्चाढकत्रयम् || २-७८७ ||
SKत्रिकालञ्च निवेद्यञ्च पञ्चाशद्दीपसंयुतम् | द्विकालं वाद्यसंयुक्तं विंशतिर्गणिकायुतम् || २-७८८ || प्. ८१) उत्तमादधमन्तत्र त्रिकालं द्रोणमाहरेत् | द्रोणार्धमर्धयामे तु दीपाण्यष्टोत्तरं शतम् || २-७८९ || त्रिकालमन्नलिङ्गं स्यात् त्रिकालं होमसंयुतम् | सर्ववाद्य समायुक्तं नृत्तगेयसमन्वितम् || २-७९० || अष्टोत्तर सहस्रं वा शतं वारुद्रकन्यकाः | रूपयौवनसंपन्नाः सर्वाभरणभूषिताः || २-७९१ || मध्यमान्मध्यमन्तत्र त्रिकाले तु चतुर्हविः | पायसादीन् पाचयित्वा द्रोण तंदुलसंयुतम् || २-७९२ || द्रोणेन शुद्धमन्नञ्च पाचयित्वा पृथक् पृथक् | द्रोणं स्यादर्द्धयामेपि दीपानि च शतद्वयम् || २-७९३ || त्रिकाले बलिहोमञ्च शीतारिधूपमादिशेत् | सर्ववाद्य समायुक्तं सर्वमङ्गलवाचकम् || २-७९४ || गणिकाष्टशतोपेतं स्तोत्रद्ध्वनि समाकुलम् | कालं वा द्वितयं प्रोक्तं नृत्तं कुर्याद्विसंधिषु || २-७९५ || उत्तमोत्तममुद्दिश्य हविष्यक्रममुच्यते | पायसान्नं पाचयित्वा षड्द्रोणैश्वैव तंडुलैः || २-७९६ || तदर्धमर्धरात्रौ तु दीपाः पञ्चशतं शुभम् | भारद्वयं त्रिकालेषु शुद्धान्नञ्चैव तंडुलम् || २-७९७ || त्रिकालं बलिहोमं स्यात् सर्ववाद्य समन्वितम् | द्विशतषोडशैर्युक्तं नृत्तं कुर्याद् विशेषतः || २-७९८ || एवं नवविधं प्रोक्तं पायसादीन्यनुक्रमात् | निवेदन विधानम् | पायसं कृसरद्भौल्यं शुद्धान्नञ्च चतुष्टयम् || २-७९९ || प्. ८२) तंडुलद्विगुणं क्षीरं कदलीफल संयुतम् | मुद्भभिन्नञ्चतुर्धांशं यथा शक्ति गुलान्वितम् || २-८०० || पायसान्नमिदं प्रोक्तं कृसरान्नन्ततः शृणु | तंडुलस्य चतुर्थांशं प्रक्षिप्यतिलचूर्णकम् || २-८०१ || तच्चतुर्थांशमाज्यन्तु पाचयित्वा यथाविधि | कृसारान्नमिदं प्रोक्तं गुलान्नञ्च ततः शृणु || २-८०२ || अर्धभारङ्गुलं कृत्वा भारार्धं वाथ तंडुलम् | गुलार्थं भिन्नममुद्गञ्च क्षीरं प्रस्थं विनिक्षिपेत् || २-८०३ ||
SKघृतं द्रोणार्धमर्धं वा शृणु पाचनलक्षणम् | विधिस्नानं पुराकृत्वा ब्रह्मचर्यवृतात्मकः || २-८०४ || शुक्लयज्ञोपवीतश्च शुक्लवस्त्रधरः शुचिः | पादप्रक्षालनं कृत्वा अचम्य विधिपूर्वकम् || २-८०५ || पूर्वोक्तविधिना कुर्यात् त्रिपुंट्रलांछनं शुभम् | पवित्रपाणिर्मौनी तु शिवमन्त्रं सदाजपन् || २-८०६ || प्रक्षालनन्ततः कृत्वा जलैः षट्भिस्तु तंडुलान् | बीजमुख्येन मन्त्रेण शोधयित्वा विचक्षणः || २-८०७ || पूरयेद्वारिभिः शुद्धैस्तंडुलार्थाथिकैस्तथा | शिखयाज्वालयेदग्निमस्त्रेणेतान्प्रदापयेत् || २-८०९ || पुरुषेण तु मन्त्रेण मौली चैव तु पश्चिमे | निरीक्ष्यनेत्र मन्त्रेण पक्वञ्चैव चरुन्नतः || २-८१० || घृतेन प्लावयेत् पश्चाद्वाममन्त्रमनुस्मरन् | तत्पुरुषेण मन्त्रेण सुपक्वन्तु परीक्षयेत् || २-८११ || प्. ८३) सुभाण्डपण्डि पार्श्वञ्च अघोरेणैव शोधयेत् | एकाङ्गुलं त्रिपुंट्रञ्च पात्राणां भस्मनान्यसेत् || २-८१२ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्च वप्रपूजयेत् | पात्राणि च तथा सर्वाणीत्थञ्चै प्रपूजयेत् || २-८१३ || हुंकारेणैव तु मन्त्रेण सर्वमुत्थापयेत् क्रमात् | मण्टपे पश्चिमेभागे न्यसेन्मन्त्री यथा क्रमम् || २-८१४ || हविश्चैवोपदंशेन अन्यैश्चैव च कारयेत् | निवेदनपात्राणि सौवर्णं राजतन्ताम्रमथवा कदलीदलम् || २-८१५ || आहरेच्छुद्धकांस्ये वा पात्रे पालाशकेऽपि वा | स्थलिकां वापि पात्रं वा त्रिपादिमध्यमे स्थितम् || २-८१६ || षडुत्सेधं महाभद्रं शुद्धकार्पासछादितम् | सौवर्णं पात्रमादाय सर्वलक्षणसंयुतम् || २-८१७ || तमाज्ये नाभिघार्यादौ पाकमन्नेन पूरयेत् | हविष्याद्यं समुद्गञ्चनैवेद्यं स्याच्छिवस्य तु || २-८१८ || पूर्णचन्द्रनिभाकारं मुद्गभिन्नङ्गुलान्वितम् | फलैः सर्वोपदंश्चै गव्येनाज्येन संयुतम् || २-८१९ || निरीक्षणादिकं कृत्वा हृदयेनावकुण्ठ्य च | बध्नियात् सुरभीमुद्रां हृदयाणुं समुच्चरन् || २-८२० || शिवमन्त्रं सकृज्जप्त्वा ह्रन्मन्त्रेण निवेदयेत् | चतुर्भागेकभागेन परिवार बलिर्भवेत् || २-८२१ ||
SKप्. ८४) चतुर्भागेकभागेन होमं कुर्याद्विचक्षणः | चतुर्भागेक भागेन पात्रशेषमिहोच्यते || २-८२२ || अर्द्धन्निवेदयेच्छक्त्यै पात्रशेषं तदर्धकम् | पुनराचमनन्दत्वा सुगन्ध सलिलेन च || २-८२३ || तांबूलन्दापयेत् पश्चात् सर्वालंकारसंयुतम् | फलेभ्यस्त्रिगुणं पत्रन्दापयेत्तैल संयुतम् || २-८२४ || फलोपहारं पुष्पैश्च हृदयेन प्रदापयेत् | सर्वद्रव्यविशेषन्तु दद्याच्चण्डेश्वराय च || २-८२५ || निर्माल्य विनियोगक्रमः सदाशिवस्य निर्माल्यन्नभोज्यं सर्वजन्तुभिः | पशुभिश्च गजैर्भोज्यं प्रक्षिपेत् सलिलेषु वा || २-८२६ || सकलानान्निवेद्यन्तु परिचाराः परिग्रहेत् | यथा स्वस्य गुरोच्छिष्टं भोज्यन्तत् पुत्रशिष्ययोः || २-८२७ || सर्वेषाञ्च गुरोस्त्वेव मन्नाद्यञ्च निवेदनम् | तदन्नमन्यजातिस्तु संग्रहेद्यदिदोषकृत् || २-८२८ || नैवेद्य लक्षणं प्रोक्तं शृणुष्वा वरणान्यथा | गर्भविद्या गणेशाश्च लोकेशास्त्राणि पञ्चकम् || २-८२९ || पद्ममूले प्रतिष्ठाप्य गर्भावरणमर्चयेत् | पद्मार्धे चैव विद्येशान् गणेशांश्च तदर्धतः || २-८३० || पद्माग्रे लोकपालास्तु पद्माथोऽस्त्राणि पूजयेत् | पूर्ववक्त्रन्तु पुरुषं कुंकुमारुणविग्रहम् || २-८३१ || अर्चयेद् दक्षिणेऽघोरं भिन्नांजन समप्रभम् | सद्योजातं पश्चिमे च गोक्षीर सदृशप्रभम् || २-८३२ || उत्तरे वामदेवन्तु जपाकुसुमसन्निभम् | प्. ८५) ब्रह्मदेवाश्च सर्वे तु त्रिनेत्राश्चतुर्भुजाः || २-८३३ || शूलटंकवराभीति मनोहरकरांबुजाः | हृदयं शुक्लवर्णन्तु पूजयेदीशदिग्गतम् || २-८३४ || रक्तवर्णं शिरः पश्चादाग्नेय्यान्दिशिपूजयेत् | पीतवर्णां शिखाञ्चैव नै-ऋत्यान्दिशिपूजयेत् || २-८३५ || कवचं बालसूर्याभं वायुस्थाने तु पूजयेत् | नेत्रमीशान कोणे तु चास्त्रन्दक्षिणतोत्तरे || २-८३६ || सर्वेषडङ्गदेवाश्च त्रिनेत्राश्च चतुर्भुजाः | विभ्राणाः शूलमभयं कपालं वरमेव च || २-८३७ || रौद्रमस्त्रञ्च नेत्रञ्च शेषाः सौम्या इति स्मृताः | कंबीगणांबिका चैव गङ्गागौरीह्युमास्तथा || २-८३८ ||
SKवामीनीलीच चक्रीतं शंखीखट्गीत्वसी तथा | एताश्वैवदशप्रोक्तः गर्भवरणशक्तयः || २-८३९ || विद्येशाऽवरणे चैव देवशक्तिः क्रमाच्छृणु | अनन्तादिशिखड्यन्तं प्राग्दलादिक्रमान्न्यसेत् || २-८४० || अनन्तः सूक्ष्मसंज्ञ शिवोत्तमेक नेत्रकौ | एक रूद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिनः || २-८४१ || अष्टौ विद्येश्वराश्चेते त्रिनेत्राश्च चतुर्भुजाः | टंकन्त्रिशूलमभयं वहन्तो वरमेव च || २-८४२ || रक्तं श्वेतन्तथा नीलं पीतं कृष्णञ्च कुंकुमम् | करुणञ्चांजनप्रख्यं क्रमाद्विद्येश वर्णकम् || २-८४३ || भूतिर्मेधा तथा कान्तिः प्रभा तुष्टिस्तथैव च | श्रुतिर्मेधा पराचाष्टौ विद्येशानान्तु शक्तयः || २-८४४ || विद्येशावरणं प्रोक्तं गणेशावरणं शृणु | प्. ८६) उत्तरे तु यजेद्गौरीं वृषभं पूर्वतो यजेत् (यभेत्) || २-८४५ || याम्ये गणेशं संपूज्य नन्दीशं वारुणे यजेत् | महाकालञ्च नै-ऋत्यां हृंगीशं वायुगोचरे || २-८४६ || ऐशान्यान्दिशि चण्डेशमाग्नेय्यां षण्मुखं यजेत् | द्विनेत्राद्विभुजाः श्यामाः गौरीकरधृतोत्पला || २-८४७ || वृषभ श्वेतवर्णस्तु तीक्ष्णशृङ्गो (-श्रङ्गो) महाबलः | गजाननस्त्रिनेत्रश्च कुंकुमाभश्चतुर्भुजः || २-८४८ || पाशन्दन्तन्दधत्सव्ये वामेत्वं कुशलड्डुकम् | चतुर्भुजस्त्रिनेत्रश्च जपाकुसुम सन्निभः || २-८४९ || सर्वद्वारादि देवानां श्रीनन्दी देवनायकः | कृतांजलिपुटः श्रीमान्वज्र तोमरधारकः || २-८५० || चतुर्भुजस्त्रिनेत्रञ्च कालमेघ समप्रभः | खट्गं सवज्रमभयं वहन्तं वरमेव च || २-८५१ || द्विभुजञ्च द्विनेत्रञ्च ध्वजाभय समन्वितम् | धूम्रवर्णन्तु भृंगी शंध्यायेद् दुस्वप्ननाशनम् || २-८५२ || चतुर्भुजस्त्रिणेत्रस्तु चण्डोशश्चण्डनायकः | नीलवर्णोऽभयवरो बिभ्रच्छूल परश्वधम् || २-८५३ || रक्तवर्णो महासेनः षण्मुखः शिखिवाहनः | नेत्र द्वादशकोपेतो बिभ्रद्वादशबाहुभिः || २-८५४ || शूलं वज्रमसिंबाणमभयं परशांपुनः | घण्टाञ्चशिखिनं खेटं वरन्नागन्तथाऽंकुशम् || २-८५५ ||
SKदेवसेनापतिं पूज्य गुलान्नञ्च निवेदयेत् | भद्रा च देवयानी च कान्तिः काली च मन्त्रिणी || २-८५६ || मालिनी च विरूपी च मन्दीचण्डाष्ट शक्तयः | प्. ८७) गणेशावरणं प्रोक्तं लोकेशावरणं शृणु || २-८५७ || इन्द्रं वज्रायुधं पूर्वेवह्नौ वह्निञ्च शक्तिकम् | यमन्दण्डधरं (-थरं) याम्येन्नि-ऋतिं खट्गहस्तकम् || २-८५८ || वरुणं पश्चिमेभागे पाशहस्तं जलाधिपम् (-थिपम्) | वायुमंकुशहस्तञ्च वायव्यान्दिशि पूजयेत् || २-८५९ || सोञ्चसौम्यदेशे तु गदाहस्तं प्रपूजयेत् | ईशानमीशदिक्भागे शूलहस्त प्रपूजयेत् || २-८६० || श्वेतं रक्तञ्च कृष्णञ्च निलंपीतञ्च धूम्रकम् | पीतवर्णञ्च धवलं लोकेशानां क्रमात् प्रभाः || २-८६१ || गजोऽजमहिषसिंह्मो मकरश्च मृगाश्वकौ | वृषभञ्च क्रमादष्टौ वाहनानि च दिक्भृताम् || २-८६२ || शची स्वाहा च सुदेवी च विलोभिन्याख्यया तथा | कालकण्ठी च नीली च जितकारिस्तु देविका || २-८६३ || शक्तयोष्टौ क्रमादेता लोकेशानां प्रकीर्तिताः | लोकेशावरणं प्रोक्तं सौरावरणमुच्यते || २-८६४ || सूर्यदेवो महाशास्त्रा ब्रह्माविघ्नेश्वरस्तथा | सरस्वती च ज्येष्ठा च विष्णुश्च क्षेत्रपालकः || २-८६५ || रक्तं प्रवालवर्णन्तु हेमवर्णातिरक्तकम् | स्फटिकं धूम्रवर्णन्तु श्यामं कृष्णप्रभाः क्रमात् || २-८६६ || उषा च प्रत्युषा चैव सिंहिकी तु सरस्वती | सावित्री चैव कल्याणी ज्ञानी चानन्ददायिनी || २-८६७ || प्रगुणी तु शीलाभूमी देवी चैव सुपालिनी | सौरमावरणं प्रोक्तं अथास्त्रावरणं शृणु || २-८६८ || वज्रं शक्तिञ्च दण्डञ्च खट्गंपाशन्तथांकुशम् | प्. ८८) गदात्रिशूलं चक्रञ्च पद्मञ्चैवशायुधम् || २-८६९ || शक्तिर्गदा च स्त्रीरूपा पाशं पद्मन्नपुंसकम् | शेषाश्च पुरुषकारा श्चेकवक्त्रा द्विबाहुकाः || २-८७० || पीतं विद्युज्जपामूर्तिर्विद्रुमंकाञ्चन प्रभम् | पद्मरागं प्रवालञ्च कृष्णं श्वेतञ्च रक्तकम् || २-८७१ || कालिनी च विरूपी च वारुणी विमुखी तथा | नीलिनी सम्मुखी चैव मर्दिनी भृङ्गमालिनी || २-८७२ ||
SKएताः शक्तिरायुधानां स्वनामाद्येन पूजयेत् | अस्त्रावरणमित्युक्तन्दलाधस्तात् प्रपूजयेत् || २-८७३ || गणलोकेश योर्मध्ये सप्तमातृश्च पूजयेत् | ब्राह्मी᳚वरीमाहे चैव कौमारी वैष्णवी तथा || २-८७४ || वाराही चैव माहेन्द्री चामुण्डाः सप्तमातरः | वीरभद्रञ्च विघ्नेशं पूर्वस्यान्दशि पूजयेत् || २-८७५ || यक्षेश्वरञ्च विधिवत् सौम्यायान्दिशिपूजयेत् | सर्वभूतपिशाचेभ्यो बलिपीठे बलिंक्षिपेत् || २-८७६ || बाह्यद्वारस्य बाह्ये तु बलिपीठं प्रतिष्ठितम् | अन्यदेशे प्रतिष्ठाप्य राजराष्ट्रं विनश्यति || २-८७७ || बलिपीठक्रमं वक्ष्ये विशेषात् तु महेश्वर | अन्तर्मण्डल दण्डान्ते भद्रपीठं प्रतिष्ठितम् || २-८७८ || अन्तर्हरासुमध्ये तु वाहनं पीठमुच्यते | अन्ते तु मध्यहारायाः पुष्पपीठं प्रकल्पयेत् || २-८७९ || मर्यदादि प्रतिष्ठायाङ्गणपीठं प्रतिष्ठितम् | प्. ८९) महामर्यादबाह्ये तु बलिपीठं प्रकल्पयेत् || २-८८० || गन्धपुष्पोदकैर्युक्तं धूपदीपसमन्वितम् | वृषाययक्षेशानाय महाकालगणाय च || २-८८१ || महापीठार्चनं कृत्वा सर्वदेवगणान्वितम् | देवाश्च पितरश्चैव ऋषयो दैत्यदानवाः || २-८८२ || यक्षाश्च राक्षसाश्चैव नागाभूतविशाचकाः | किन्नराप्सरसश्चैव मरुतोमात्रकास्तथा || २-८८३ || अनावृष्टि गणाश्चैव रोहिणी गण एव च | कुमारकूश्माण्ड गणाश्चाष्टादशगणास्तथा || २-८८४ || देवदानव गन्धर्वाः पीठमध्ये प्रजापतिः | सर्वभूत पिशाचेभ्यः पीठबाह्ये तु पूजयेत् || २-८८५ || वृषभं पूर्वदिक्भागे दक्षिणेशन्तु दक्षिणे | पश्चिमे तु महाकालं देवानां गणमुत्तरे || २-८८६ || गन्धाद्यैरर्चयित्वा तु बलिं सर्वत्र दापयेत् | मध्य याम्योत्तरे देशे कर्णिकायां बलित्रयम् || २-८८७ || प्रजापतेस्तु देवानामृषीणाञ्च यथाक्रमम् | नागादीशानपर्यन्तं पित्रादीनां प्रदापयेत् || २-८८८ || मार्जनप्रोक्षणं कृत्वा पुनरभ्यर्चनं शुभम् | गन्धं पुष्पञ्च धूपञ्च प्रोक्षणञ्च पृथक् पृथक् || २-८८९ ||
SKमुष्टिमात्रन्तदर्धं वा बलिं सर्वत्र दापयेत् | स्वनामाद्येन मन्त्रेण गन्धं पुष्पञ्च दापयेत् || २-८९० || बलिपीठविधिः प्रोक्तं अग्निकार्यविधिं शृणु | अग्निकार्यविधिं वक्ष्ये सर्वसिद्धि फलप्रदम् || २-८९१ || कुण्डे वा स्थण्डिले वापि होमकर्मविधीयते | प्. ९०) तिस्रोरेखाः पूर्वमुखाः ब्रह्मविष्णुहराधिपाः || २-८९२ || पूर्ववत् स्थण्डिलं कृत्वा शिवाग्निजननं कुरु | सूर्यकान्तोद्भवं श्रेष्ठं मरणेर्मध्यमं भवेत् || २-८९३ || वैदिकाग्नेर्विशेषेण जातवेदसमानयेत् | सौवर्णे राजते ताम्रे सप्तात्रे मृण्मयेऽथवा || २-८९४ || तमग्निन्तत्र निक्षिप्य शिवतन्त्रं (शिवन्त्रं) समुच्चरन् | शोधयेदस्त्रमन्त्रेण कवचेनाऽवकुण्ठयेत् || २-८९५ || बीजमुख्येन मन्त्रेण भावयेदमृतीकृतम् | कुण्डे वा स्थण्डिले वापि सपुष्पं विष्टरन्न्यसेत् || २-८९६ || पद्ममष्टदलोपेतं लिखित्वा कर्णिकान्वितम् | तस्य मध्ये समावाह्य वागीशीं यागकारिणीम् || २-८९७ || मातरं सर्वभूतानामृतुस्नातान्तु भावयेत् | पश्चान्महेश्वरन्देवन्त्रिनेत्रञ्च चतुर्भुजम् || २-८९८ || सर्वलक्षण संयुक्तं सर्वमङ्गलशोभितम् | संसृष्टं सहवागीशीदेव्यास्तत्रापि भावयेत् || २-८९९ || तत्कुण्डन्त्रिःपरिभ्राम्य हृन्मन्त्रं सकृदुच्चरन् | अग्निन्त्वभिमुखं योनौ देवस्यत्वा समुच्चरन् || २-९०० || प्रक्षेपयेत् तु हृन्मन्त्रमुच्चार्येकत्र संग्रहेत् | पश्चात् सप्ताहुतीः कुर्याद्धृन्मन्त्रं सम्यगुच्चरन् || २-९०१ || गर्भाधानविधौ कुर्यात्पुरुषाहुति सप्तकम् | पुंसवने तु शिरसा सप्तधा होममाचरेत् || २-९०२ || जातकर्मणि वामेन कुर्यादाहुति सप्तकम् | प्. ९१) नामकर्मविधाने च हृदा सप्ताहुतीर्हुनेत् || २-९०३ || शिरसा जुहुयादेव मन्नप्रशानकर्मणि | चौलकर्म वृतविधौ हृन्मन्त्रेण तु सप्तधा || २-९०४ || शिरोमन्त्रशतं हुत्वा समावर्तनमाचरेत् | विवाहाय च हृन्मन्त्रं सप्तधा होमयेद्गुरुः || २-९०५ || धूपदीप प्रदानं तु हृन्मत्रेण पृथक् पृथक् | एवं क्रमात् तु होमेन शिवाग्नेर्जातकं शुभम् || २-९०६ ||
SKसृक्सृवौ वामहस्तस्थौ कुशैर्दक्षकरस्थितैः | अग्रैरग्रन्तु संस्पृश्य मध्यैर्मध्यन्तु संस्पृशेत् || २-९०७ || मूलैर्मूलं स्पृशेदेवं भवेत् सृक्सृव शोधनम् | आज्यस्थालीञ्चरुस्थालीं प्रणीता पात्रमेव च || २-९०८ || क्षालयेच्छुद्धतोयेन शस्त्रमन्त्रं समुच्चरन् | प्रणीतां पूरयेत् तोयैस्तत्र कूर्चं विनिक्षिपेत् || २-९०९ || तज्जलैः प्रोक्षयेत् सर्वं होमद्रव्य समुच्चयम् | आज्येन पात्रमाज्यस्य पूरयित्वा सकूर्चकम् || २-९१० || त्रिधाप्रदक्षिणं वह्नेः परिभ्राम्य तथा पुनः | पश्चिमे चोत्तरे चैव चाऽज्यस्थापनमाचरेत् || २-९११ || परिषेचनञ्च हृदय सद्यमन्त्रेण तर्पणम् | निरीक्षणञ्च नेत्रेण परिधिस्थापनं कुरु || २-९१२ || पूर्वाग्रमुत्तराग्रञ्च परिधिस्थापनं शुभम् | इद्रादीशान पर्यन्तान् परिधिस्थान् प्रपूजयेत् || २-९१३ || ध्यानं शिवाग्निरूपस्य शृणुष्वेवं महेश्वर | प्. ९२) एकरूपं द्विवक्त्रञ्च चतुश्रङ्गं द्विनासिकम् || २-९१४ || त्रिमेखलं द्विपादञ्च त्रिनेत्रञ्च त्रिकोणकम् | सोपवीतं जटामौलिं सप्तजिह्वाभिरावृतम् || २-९१५ || हिरण्या कनकारक्ता कृष्णाख्या सुप्रभाह्वया | अतिरक्ता बहुरूपा च जिह्वाः सप्तप्रकीर्तिताः || २-९१६ || हिरण्यावारुणे भागे कनकामध्यमे स्थिता | रक्ता तथोत्तरे भागे कृष्णा याम्यदिशि स्थिता || २-९१७ || सुप्रभा पूर्वदिक्भागे वह्निस्थानेऽतिरक्तका | ऐशान्ये बहुरूपा च जिह्वा स्थानं प्रकीर्तितम् || २-९१८ || ध्यायेदेवं शिवाग्निन्तु सर्वशान्तिकरं शुभम् | अग्निदेवस्य मध्ये तु सादाख्यं सुप्रतिष्ठितम् || २-९१९ || सादाख्यस्य तदूर्ध्वे तु दक्षिणामुखमर्चयेत् | पाद्यमाचनञ्चार्घ्यं गन्धं पुष्पञ्च धूपकम् || २-९२० || दीपञ्चैवेद्य तांबूलन्दापयेत् तु नटेश्वरे | समिथो हृदये नैव अघोरेण चरुं हुनेत् || २-९२१ || घृतं पुरुषमन्त्रेण लाजंघोरास्त्रमन्त्रतः | वाममन्त्रेण सक्तुञ्च क्षीरं वै सद्यमन्त्रतः || २-९२२ || यवान् हृदयमन्त्रेण सिद्धार्त्थं सद्यमन्त्रतः | तिलमीशान मन्त्रेणमुद्गं माषं हृदा तथा || २-९२३ ||
SKद्रव्यान्तेष्वेकहोमन्तु कुर्यात् त्र्यंबकमुच्चरन् | जप्त्वाशतं वर्णमन्त्र मोदनेन तु होमयेत् || २-९२४ || अपमृत्युजयन्नित्यमाज्याहुति सहस्रकम् | पञ्चावरण देवानामेकं होमं पृथक् पृथक् || २-९२५ || स्वनाम्नेकाहुतिं हुत्वा घंटाधूपाद्यलंकृतम् | प्. ९३) तांबूलन्दापयेत् पश्चात् गन्धं पुष्पं प्रदापयेत् || २-९२६ || त्र्यक्षरञ्च सकृज्जप्त्वा तिष्ठन्मध्ये तु होमयेत् | अग्नेरालिङ्गनन्नित्यं विदद्ध्याच्छिवरूपिणः || २-९२७ || बद्ध्नियात् ज्ञानमुद्राञ्च तद्भस्म तु परिग्रहेत् | ललाटे बाहुहृदये ष्वेकाङ्गुलन्त्रिपुंट्रकम् || २-९२८ || शेषेषु द्वादशाङ्गेषु तदर्धार्धप्रमाणकम् | मूलत्रिकोणमध्ये तु स्थापयेदग्निदैवतम् || २-९२९ || हृन्मन्त्रैः स्थापयेदग्निं ज्वालामालाभिरावृतम् | कोटिसूर्यप्रतीकाशं ध्यायेन्नादात्मकन्नटम् || २-९३० || ध्यात्वा ज्योतिस्वरूपस्थं शिवमन्त्रं सकृज्जपेत् | अग्निकार्यक्रमं प्रोक्तन्नित्योत्सवविधिं शृणु || २-९३१ || अर्चनान्ते त्रिकालेषु नित्योत्सवमथाऽचरेत् | सर्वसिद्धिकरं शुद्धं सर्वपापविशोधनम् || २-९३२ || सर्वमङ्गल माङ्गल्यं सर्वशत्रुविनाशनम् | यक्षराक्षस पैशा च भूतानागास्तथैव च || २-९३३ || श्रुत्वा तु तद्बलेः शब्दङ्गच्छन्ति च न संशयः | दक्षिणे मंटपाद्भागे चतुरश्रन्तु मंडलम् || २-९३४ || सर्वलक्षण संयुक्तं सर्वमङ्गल शोभितम् | सौवर्णं राजतन्ताम्रं कांश्यं वा पात्रमुच्यते || २-९३५ || एकहस्तं द्विहस्तं वा पात्रविस्तारमुच्यते | तत्राष्टदल पद्मञ्चकारयेद्व्यङ्गुलोन्नतम् || २-९३६ || त्रिभागं कर्णिका तत्र तदुत्सेधाङ्गुलद्वयम् | प्. ९४) एवं कृत्वा विशेषेण तत्पात्रं मंडले न्यसेत् || २-९३७ || अन्नलिङ्गन्तु मध्याह्नेत्वधमाऽधममाचरेत् | पुष्पलिङ्गन्तु पूर्वाह्ने सायाह्ने तंडुलात्मकम् || २-९३८ || उत्तमं मध्यमं पश्चादधमञ्च त्रिधा भवेत् | उत्तमं त्वाढकं प्रोक्तं मध्यमं तु तदर्धकम् || २-९३९ || अथमं पञ्चपादं स्यात् तंडुलं पाचयेच्छुभम् | नाऽपक्वन्नातिपक्वञ्च नात्युष्णन्नातिशीतलम् || २-९४० ||
SKसर्पिर्दधिपयोभिश्चाऽप्यन्नलिङ्गं प्रकल्पयेत् | उत्सेधं द्वादशङ्गुल्यं मूलन्त द्विगुणं भवेत् || २-९४१ || ऊर्ध्वन्तु द्व्यङ्गुलं प्रोक्तं द्व्यङ्गुलन्नाहमुच्यते | मध्यमं द्वादशङ्गुल्यमूर्ध्वञ्च त्र्यङ्गुलं भवेत् || २-९४२ || अथमं द्व्यङ्गुलं प्रोक्तमूर्ध्वमेकाङ्गुलं भवेत् | संपूज्य विद्यावरणन्देवध्यानक्रमं शृणु || २-९४३ || रौद्रं त्र्यक्षञ्चतुर्बाहुशिखाकोटिसमुज्वलम्? | अक्षसूत्रं त्रिशूलञ्च बिभ्राणमभयं वरम् || २-९४४ || ध्यात्वा पाशुपतन्देवं बलिलिङ्गे प्रपूजयेत् | पद्ममुद्रान्नमस्कारं शान्तमुद्रां प्रकल्पयेत् || २-९४५ || तल्लिङ्गे प्रतिमां ध्यात्वा गन्धपुष्पादिभिर्यजेत् | दशायुधानि परितः कल्पयेत् कल्पवित्तमः || २-९४६ || पद्मपीठन्तु यद्धार्य पादुकां धारयेच्छिखाम् | त्रिशूलं पूर्वतोगच्छेच्छिवदंडं त्वनन्तरे || २-९४७ || रक्तोष्णीषोत्तरीयश्च रक्तमाला विभूषितः | पवित्रपाणिर्मौनी तु हस्तमात्रेण दंडधृक् || २-९४८ || शिरसाधारयेल्लिङ्गं प्रतिमादिनिषेवितम् | प्. ९५) पूर्वाह्ने ब्रह्मणः प्रीतिर्मध्याह्ने तु शिवप्रियः || २-९४९ || विष्णुप्रीतिस्तु सायाह्ने तद्ध्यानञ्च क्रमात् शृणु | पूर्वोक्तं ब्रह्मवर्णन्तु रुद्रवर्णञ्च कथ्यते || २-९५० || शुक्लोष्णीषोत्तरीयश्च शुक्लमालाविभूषितः | मध्याह्ने धारयेल्लिङ्गं ममप्रतिकरं शुभम् || २-९५१ || पीतोष्णी षोत्तरीयश्च पीतमालाविभूषितः | सायाह्ने धारयेल्लिङ्गं विष्णुप्रीतिकरं शुभम् || २-९५२ || दक्षिणाभिमुखं शिष्यं प्रोक्षयेद्धृदयेन तु | तन्मूर्ध्नि देवं संस्थाप्य गन्धपुष्पादिभिर्यजेत् || २-९५३ || शिबिकायाङ्गजे वापि रथेवाऽरूढयन्त्रके | अथवा पादगमनं प्रदक्षिणन्तु कारयेत् || २-९५४ || पटहैर्मद्दलैश्चैव झल्लरी जयघंटकैः | काहलैस्ताल जंघैश्च वीणावेणुरवैस्तथा || २-९५५ || पींछचामरसंयुक्तं छतृद्ध्वज समायुतम् | धूपदीपसमायुक्तं वितानोपरिशोभितम् || २-९५६ || गणिकानृत्त संयुक्तन्दिव्य गेयसमन्वितम् | स्तोतृद्ध्वनि समायुक्तङ्गेयमङ्गल वाचकम् || २-९५७ ||
SKवेदद्ध्वनि समायुक्तन्दिव्यनृत्तसमन्वितम् | त्रिधा प्रदक्षिणं कृत्वा प्रासादन्तु महेश्वर || २-९५८ || आद्यप्रदक्षिणं कृत्वा भृंगिणी ताल संयुतम् | गोपुरेवाद्य निश्शब्दं शंखद्ध्वनि समायुतम् || २-९५९ || तालगेय समायुक्तं वेदद्ध्वनि निषेवितम् | प्रदक्षिण द्वितीयन्तु नृत्तवाद्य समन्वितम् || २-९६० || समस्तं भृंगीणीतालं कर्तृवाद्यन्तु डक्करी | वकुलं कुंचितां घ्रिन्तु कूटकं विषमन्तथा || २-९६१ || बाह्यपीठ क्रमावृत्य प्रसादन्त्रिः प्रदक्षिणम् | प्. ९६) बलिताल * * * * * * * * * तालकम् || २-९६२ || नवतालन्नागताल कोटिकांस्यं करिष्य च | इन्द्रादीशानपर्यन्नं बलिदानं यथाक्रमम् || २-९६३ || प्रातः काले तु गान्धारं मद्द्याह्ने तक्करागकम् | कौशिकञ्च ततः कुर्यात् सायाह्ने चेन्दलन्तथा || २-९६४ || पञ्चमञ्चार्धरात्रौ तु गानकालं महेश्वर | इत्येतैः कल्पिताश्चैव प्रासादन्त्रिःप्रदक्षिणम् || २-९६५ || पादप्रक्षालनं कृत्वा पादुकार्चनमारभेत् | पादुकार्चना | हृदयम्मन्त्रमुच्चार्य गन्धपुष्पादिभिर्यजेत् || २-९६६ || पाद्यमाच मतञ्चार्घ्यं धूपदीपञ्च दापयेत् | प्रतिमां प्रतिलिङ्गन्तु पूजयेत् पुर्ववत् क्रमात् || २-९६७ || पूर्ववच्छस्त्र मन्त्रेण पूर्वस्थाने तु विन्यसेत् | बलिलिङ्गं समभ्यर्च्य बाह्यपीठे तु विन्यसेत् || २-९६८ || देवदेवं पूजयित्वा नमस्कुर्याच्चमुद्रया | सव्याऽपसव्यमार्गेण त्रिःकृत्वा तु प्रदक्षिणम् | प्रदक्षिणन्दुःखहरं सोमसूत्रन्नलंघयेत् || २-९७० || तीर्थञ्च (तीर्धञ्च) दानं पुण्यञ्च तपोयज्ञेन्तथैव च | प्रदक्षिण समन्नास्ति प्रत्यक्षफलसिद्धिदम् || २-९७१ || द्विर्भेलक्षणं वक्ष्ये शृणुष्वेवं महेश्वर | मौनवृताचरैर्नान्य चिन्तकैश्शिवचिन्तकैः || २-९७२ || चायातस्तत् प्रकर्तव्यं विमाने तु प्रदक्षिणम् | प्. ९७) बलिकाले विशेषन्तु आचार्यं शिष्यसेवितम् || २-९७३ || नदोषमन्य कालेषु छायासूत्रन्नलंघयेत् | गोब्राह्मण नृपछायां ज्येष्ठच्छायान्नलंघयेत् || २-९७४ ||
SKशिवं प्रदक्षिणं शंभोर्जगद्रक्षार्थ कारणम् | विमानदण्डविस्तारं सोमसूत्रन्नलंघयेत् || २-९७५ || आयुर्बलन्तथा रोग्यमपमृत्युजयं भवेत् | संपन्नश्चै हिकैर्भोगैरुद्रलोकं सगच्छति || २-९७६ || प्रदक्षिणे विमानानान्दक्षिणं श्रेष्ठमुच्यते | तस्मात् सर्वप्रयत्नेन त्रिधाकुर्यात् प्रदक्षिणम् || २-९७७ || ज्ञानार्थञ्च जयार्थञ्च वश्यार्थञ्च धनार्थकम् | पावनं रोगशान्त्यर्थं रक्षार्थं योजनार्थकम् || २-९७८ || अणिमा महिमार्थञ्च प्रदक्षिणमिहोच्यते | तस्मात् प्रदक्षिणं कुर्याद्दक्षिणद्वारमालयम् || २-९७९ || दक्षिणद्वारदेवन्तु नटेश्वर मनुस्मरेत् | प्रणमेद्दण्डवद्भूमा वष्टाङ्गं सन्निवेशयेत् || २-९८० || शिरोहस्तौ च कर्णौ च चिबुकंबाहुयुग्मकम् | अष्टाङ्गञ्च नमस्कारं पञ्चाङ्गञ्च ततः शृणु || २-९८१ || शिरोहस्तौ द्विबाहू च कृत्वा जानौ च संस्थिते | इदं पञ्चाङ्गमेवन्तु नमस्कारं द्विधा स्मृतम् || २-९८२ || तदन्ते तांडवं कुर्यान्ममप्रीतिकरं शुभम् | तत् काले गानमुच्चार्यं स्तोत्रं वेदं जयन्तथा || २-९८३ || लिङ्गमालिङ्गनं कुर्यात् ज्ञानमुद्रामनन्तरम् | अथोपहार पुष्पाणि दापयेद्दक्षिणेश्वरे || २-९८४ || चलुकोदकम् || चुलुकस्योदकं शुद्धं चुलुकोदकमिष्यते | प्. ९८) आदायजलमर्घ्यस्य संपूर्णन्दक्षपाणिना || २-९८५ || चुलुकोदमिदं श्रेष्ठमात्मानं पादमूलतः | निवेदयेत् तु तत् सर्वं मम चित्तेन वै बुधः || २-९८६ || पुस्तकाराधनं कुर्यादागमद्ध्यान पूर्वकम् | उद्वासनविधि || उद्वासनविधिं वक्ष्ये शृणुष्वेवं महेश्वर || २-९८७ || पुष्पं कराभ्यां सङ्ग्राह्य मन्त्रमीशानमुच्चरन् | मूर्ध्निमध्ये तु संस्थाप्य विमुखं शिवरूपिणम् || २-९८८ || शक्तिमन्त्रं समुच्चार्य हृन्मध्ये स्थापयेत् ततः | सर्वदेवावृतं पूर्वन्देवं चैव विचिन्तयेत् || २-९८९ || ध्यात्वा हृत्पद्म मध्ये तु बिन्दुनाद स्वरूपकम् | शुभनृत्तं सदाध्यात्वा दक्षिणामुखमव्ययम् || २-९९० ||
SKपाद्यमाचमनञ्चार्घ्यङ्गन्धं पुष्पञ्च दापयेत् | वर्णमन्त्रं समुच्चार्य त्रयाक्षरमनुं स्मरन् || २-९९१ || घंटानाद स्वरूपन्तु ध्यायेन्नृत्तं सदोदितम् | पादमुद्रा प्रकर्तव्यामुखे हृदयगुह्ययोः || २-९९२ || क्षेत्रपालार्चनं वक्ष्ये शृणुष्वेवं महेश्वर | अर्द्धरात्रौ विशेषेण क्षेत्रपालार्चनं शुभम् || २-९९३ || अकारस्यान्तमध्यस्थं कूटबीजं सुपालनम् | बीजनाद समायुक्तमन्तस्थं स्थिति पालनम् || २-९९४ || एकाक्षरं परं रौद्रं पालकं शत्रुनाशनम् | क्षेत्रराजं क्षयहरं मृत्युप्रशमनं शुभम् || २-९९५ || प्. ९९) पाद्यमाचमनञ्चार्घ्यं गन्धपुष्पञ्च धूपकम् | दीपन्निवेदयेत् सर्वं कूटबीजं समुच्चरन् || २-९९६ || श्वानमारूढमेवञ्च स्वनामाद्येन पूजयेत् | ध्यानञ्च क्षेत्रपालस्य वक्ष्ये शृणु महेश्वर || २-९९७ || ऊर्द्ध्वकेशन्त्रिनेत्रञ्च सर्पकुण्डलशोभितम् | दंष्ट्राकाराल वदनं भिन्नांजन समप्रभम् || २-९९८ || दधानन्दक्षपाणिभ्यां शूलंडमरुकन्तथा | कपालं वामहस्ताभ्यां दंडञ्च क्रूरविग्रहम् || २-९९९ || भीमवेषधरन्नग्नन्नागयज्ञापवीतिनम् | अष्टभाहुञ्चतुर्बाहुं द्विभाहुं प्रोक्तमुत्तमम् || २-१००० || इत्थं वै क्षेत्रदेवन्तु ध्यात्वा मृत्युविनाशनम् | आवाहयेत् ततो देवमूर्ध्वे सिंहासनस्य तु || २-१००१ || स्नाने पद्मासनं कृत्वा वस्त्रैर्गन्धैः सुपुष्पकैः | धूपदीपैः सदाऽभ्यर्च्य योगासनं प्रकल्पयेत् || २-१००२ || निवेदयेच्च काले तु अनन्तासन संस्थिते | नृत्तं कृत्वा विशेषेण देवे सिंहासन स्थिते || २-१००३ || पद्मासनन्तु सर्वेषां सकलानां यथा क्रमम् | शिवार्चनसमं पुण्यन् न भूतो न भविष्यति || २-१००४ || इति मकुटे त्रिसहस्रसंहितायां क्रियापादे अर्चनाविधिर्द्वितीयः पटलः || २ || मकुटे दीक्षाविधि पटलः | दीक्षाफलनिरूपणम् अथ दीक्षाविधिं वक्ष्ये सर्वसिद्धिफलप्रदम् | अपमृत्युप्रशमनं आयुरारोग्यवर्द्धनम् || ३-१ || दीक्षापदार्द्धं
SKदीयते यच्छिवत्वं हि क्षीयते पापपंजरम् | दानक्षपणयोगेन दीक्षा चेत्यभिधीयते || ३-२ || दीक्षास्थानं महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये | गङ्गातीरे सरित्तीरे समुद्रे चाश्रमेऽपि च || ३-३ || पुष्पोद्यानेऽथवा शुद्धे जल्पेश्वरसमीपगे | पर्वताग्रे वने गोष्ठे श्रीपुरे क्षीरवृक्षके || ३-४ || ब्रह्मकुण्डे कदंबे च गुरोस्सद्मनि शोभने | देवालये विशेषेण दक्षिणद्वारवेश्मनि || ३-५ || कुन्दवृक्षस्य मूले च दीक्षास्थानं प्रकल्पयेत् | दीक्षास्थानक्रमं प्रोक्तं दीक्षाकालविधिं शृणु || ३-६ || उत्तरायणकाले च शुक्लपक्षे शुभे दिने | अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः || ३-७ || सर्वमासेषु कर्तव्यमाचार्येच्छायुते दिने | सुमुहुर्ते सुलग्ने च दीक्षा कर्म समाचरेत् || ३-८ || परीक्ष्यवत्सरं पूर्वं शिष्यानान्तु गुणाऽगुणान् | गुणयुक्तांस्तु सङ्ग्राह्य गुणहीनान्विवर्जयेत् || ३-९ || प्. १०१) शिष्यानुग्रहणे पूर्वन्दन्तकाष्ठं प्रदापयेत् | पूर्ववद्विधि संयुक्तं स्नानं कृत्वा विचक्षणः || ३-१० || सर्वदेवात्मकं शुद्धं मण्टपं सार्वकामिकम् | पूर्ववद् भूमिसंशुद्धिं कृत्वा मण्टपमण्डनम् || ३-११ || वर्णगन्धरसां चैव चातुवर्ण्य क्रमाच्छृणु | श्वेतवर्णं ब्राह्मणानाम्रक्तवर्णन्तु भूभृताम् || ३-१२ || पीतवर्णन्तु वैश्यानां शुद्राणां कृष्णवर्णकम् | आज्यगन्धन्तु विप्राणां नृपाणाम्रक्तगन्धकम् || ३-१३ || वैश्यानां पद्मगन्धञ्च शूद्राणां क्षारगन्धकम् | मधुरश्च कषायश्च तिक्तश्च कटुकः क्रमात् || ३-१४ || द्विजादिशूद्रपर्यन्तं यागभूमिरसा इमे | वर्णगन्धरसैरेवं संयुक्तं यागभूतलम् || ३-१५ || चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् | वितानध्वजसंयुक्तन्दर्भमालाविभूषितम् || ३-१६ || ध्वजमाला समायुक्तं पुष्पमाला परिष्कृतम् | क्रमुकैः कदलीभिश्च मुक्तादामभिरावृतम् || ३-१७ || पालिकाभिरनेकाभिर्दशदिक्षु परिष्कृतम् | सुधया भस्मना वापि कृतरेखा त्रयावृतम् || ३-१८ ||
SKपुष्पोपहार सहितैर्लाजदूर्वाक्षतैर्युतम् | सम्मितञ्च सुसूत्रञ्च कृत्वा शंकुञ्च सर्वतः || ३-१९ || प्. १०२) शंकवः खादिराः पश्चादपामार्गाश्च चंपकाः | उत्सेधं द्वादशाङ्गुल्यन्तदर्धनाह संयुतम् || ३-२० || मण्डलत्रिगुणयामं द्वात्रिंशत्सूत्रसंयुतम् | मण्डलपरिकल्पनम् || पूर्वाग्राण्युत्तराग्रणि सूत्राण्यास्फालयेत् क्रमात् || ३-२१ || नै-ऋत्यादीशपर्यन्तमाग्नेयाद्वायुकोणगम् | सूत्रं प्रसार्य कृत्वा तु वर्तुलं मण्डले शुभे || ३-२२ || सितेन रजसा चैवाऽष्टपत्रं लिखेत्पुनः | कर्णिकां पीतवर्णेन केसरञ्चाऽरुणेन च || ३-२३ || तन्मूलमगृंशुक्लेन दलानि श्वेतवर्णतः | हस्त पद्मं प्रमाणन्तु कर्णिका चतुरङ्गुला || ३-२४ || पद्ममानं लिखेद्वारं विधिना विस्तरन्तथा | प्रतिद्वारेण रेखाः स्युः पद्मबाह्ये त्रयंभवेत् || ३-२५|| पद्मबाह्यत्रयं मानं पद्मार्द्धार्द्धन्तु मानकम् | पद्मान्ते प्रतिधारे तु मध्ये वर्णक्रमम् शृणु || ३-२६ || पुरस्ताद्रक्तवर्णन्तु कृष्ण वर्णन्तु दक्षिणे | पश्चिमे श्वेतवर्णं स्यादुत्तरेकाञ्चनप्रभम् || ३-२७ || आग्नेय्यामग्निवर्णञ्च नीलवर्णञ्च नै-ऋते | वायव्यां धूम्रवर्णं स्यादेशान्यां श्वेतवर्णकम् || ३-२८ || नववृक्षं नववर्णं पद्मबाह्ये तु लेखयेत् | चतुर्द्वारादिवर्णन्तु क्रमाद्वक्ष्ये महेश्व्र || ३-२९ || रक्तेन रजसाऽलेख्य द्वाराणि पीतवर्णकैः | हरितेन तु बाह्य न त्रिवर्णञ्च क्रमान्न्यसेत् || ३-३० || प्. १०३) शोभामप्युपशोभांश्च श्वतवर्णेन लेखयेत् | शालिगोधूमपिष्टैश्च मुक्ताचूर्णैः सुमिश्रितम् || ३-३१ || पद्मरागस्य पूर्णञ्च मध्ये नीलञ्च वर्णकम् | आग्नेय्यां पीतचूर्णैश्च नीलचूर्णं यमे तथा || ३-३२ || नै-ऋत्याञ्चैव गोमेदचूर्णं कृत्वा विशेषतः | मुक्ताचूर्णं पश्चिमे च वैडूर्य चूर्णमानिले || ३-३३ || सौम्ये प्रवालवर्णं स्यादैशेमाणिक्कचूर्णकम् | धातूंश्च पुष्पयोनिञ्च ब्रह्मपुष्पन्तथोत्पलैः || ३-३४ || धुर्तूरैर्ब्रहती पुष्पैर्नन्द्यावर्तस्य पत्रकैः | हरिद्रा शालिवर्णञ्च मध्यादीशान्त वर्णकैः || ३-३५ ||
SKएतद्वर्णैश्च बाह्ये तु नववृक्षान्विलेखयेत् | कल्पं बिल्वं शमीञ्चैव वटवृक्षञ्च चंपकम् || ३-३६ || अश्वत्थं प्लक्षपुन्नागञ्चन्दनन्नव विन्यसेत् | षोडशञ्चैव द्वात्रिंशच्चतुः षष्ट्युत्तरं शतम् || ३-३७ || एतद्दल क्रमान्न्यस्त्वा महामण्डलमेव च | सहस्रं वा शताष्टौ वा षोडश द्वादशाष्ट वा || ३-३८ || इत्थन्दलान् क्रमान्न्यस्त्वा शिवमण्डलमुच्यते | पञ्चविंशद् द्वात्रिंशत्सहस्रं वा शताष्टकम् || ३-३९ || इत्थन्दल क्रमन्न्यस्त्वा ज्ञानमंडलमुच्यते | प्. १०४) मंडल त्रितयं प्रोक्तं ततो हस्तविधिं शृणु || ३-४० || रेण्वष्टौ कथितं केशंकेशाष्टौ लीक्षकन्तथा | यूकाष्टकं यवाष्टौ च अङ्गुल्यष्टौ तु तालकम् || ३-४१ || तालद्वयन्तु हस्तं स्यान्मानं वक्ष्ये महेश्वर | एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा || ३-४२ || पञ्चाष्टदशहस्तं वा तथा षोडशहस्तकम् | हस्तानां विंशतिञ्चैव पञ्चविंशति हस्तकम् || ३-४३ || द्वात्रिंशद्धस्तमेवं स्यादत ऊर्ध्वन्नकारयेत् | मण्डलन्तु कृतं पूज्यतस्य मध्ये शिवार्चनम् || ३-४४ || सर्वदेवात्ममध्यस्थन्दक्षिणामुखमव्ययम् | गन्धं पुष्पञ्च धूपञ्च दीपञ्चैव प्रदापयेत् || ३-४५ || त्र्यंबकम्मन्त्र मुच्चार्य ध्यात्वा मध्ये नटेश्वरम् | अपूपञ्चफलं क्षीरमस्त्रमन्त्रेण दापयेत् || ३-४६ || तंडुलैराढके नैव चरुकं पूर्वत्पचेत् | निवेदयेच्चरुं सम्यत्तदर्धन्तु निवेदयेत् || ३-४७ || परिचारे तदर्धन्तु तदर्धं शिष्यके ददेत् | दन्तैरस्पृस्य विधिवद् पञ्च ब्रह्ममनुस्मरन् || ३-४८ || आचामं विधिवत् कृत्वा वीरेशद्ध्यानमुच्चरन् | तदन्ते मन्त्रमुच्चार्य शिष्यकर्णे तु दक्षिणे || ३-४९ || तन्म* ?ञ्चशतं शप्त्वा बध्नीयात् कौतुकं पुनः | विश्वेत्तानेति मन्त्रेण बध्नियाद् दक्षिणे करे || ३-५० || स्तीणामपिशूद्राणाममन्त्रं वामहस्तके | बृहत्सामेति मन्त्रेण भस्म चैव प्रदापयेत् || ३-५१ || भस्मशय्या समारूढं शिवदक्षिण पार्श्वके | प्. १०५) नमश्शंभो त्रिनेत्राय पिङ्गलाय महात्मने || ३-५२ ||
SKवामाय विश्वरूपाय स्वप्नाथिपतयेनः | इमम्मन्त्रं शतं जप्त्वा वसेद्रात्रौ शिवाग्रतः || ३-५३ || तत्काले गुरुरूपन्तु ध्यात्वा दक्षिणनायकम् | प्रशमार्थन्तु विघ्नानां कलशान् पञ्चकल्पयेत् || ३-५४ || ससूत्रञ्च सवस्त्रञ्च सरत्नं पूर्ववत्कृतम् | प्रासाद मध्यकलशे चेशानेनाभि मन्त्रयेत् || ३-५५ || पुरुषाघोर वामाजान् पूर्ववच्चक्रमान्न्यसेत् | गन्धाद्यैरर्चयित्वा तु न्यस्त्वा ब्रह्मस्वरूपकम् || ३-५६ || हृदयं मन्त्रमुच्चार्य नैवेद्यादि च दापयेत् | इत्थं संकल्प्य विधिवत् (विथिवत्) प्रभाते स्नानमाचरेत् || ३-५७ || शुभं वाप्यशुभं वापि द्रष्टं स्वप्नन्निवेदयेत् | शुभेषु संग्रहेच्चैव चा शुभे होममाचरेत् || ३-५८ || प्रक्षाल्य पादौ हस्तौ च समाचम्य विधानतः | दुकुलपट्ट वस्त्रेण चित्रपट्टेन वाससा || ३-५९ || अथवा नववस्त्रेण कार्पास विहितेन वा | नेत्रमन्त्रेण दशधा जपन्शिष्यस्य लोचने || ३-६१ || उत्तराभिमुखो भूत्वा बध्नीयात्सुसमाहितः | पुरुषम्मन्त्रमुच्चार्य पुष्पञ्चैव परिग्रहेत् || ३-६२ || ईशानेन तु मन्त्रेण पुष्पांजलिमुपाहरेत् | प्रदक्षिण त्रयं कृत्वा वाममन्त्रेण दापयेत् || ३-६३ || यस्मिन् वक्त्रे (चक्त्रे) पतेत् पुष्पन्नामाद्यन्तु तदात्मकम् | प्. १०६) नामगोत्रञ्च शूत्रञ्च गोचरं रत्नवृक्षकम् || ३-६४ || शैवन्तत्वञ्च कालञ्च मूर्तिञ्चैव क्रमाच्छृणु | ईशान वक्त्रविद्येशाऽवघोर ब्रह्मशक्तिकम् || ३-६५ || रुद्रं वाम महंकारन्नवधा नामकथ्यते | ब्राह्मणानां शिवान्तञ्च शूद्राणाञ्च गणान्तकम् || ३-६६ || वैश्यादिरनुलोमस्य शक्त्यन्तन्नाम भाषयेत् | कौशिकः काश्य पश्चैव भारद्वाजोथ जैमिनिः || ३-६७ || अगस्त्यः गौतमो वसिष्ठः पराशरश्च रोमशः | शिवसूत्रन्नादसूत्रं शक्तिब्रह्मसुसूत्रकम् || ३-६८ || सोमसूत्रम्महासूत्रन्नवसूत्राण्य मूनि वै | शिवःशिखानन्द ज्योत्स्ना सावित्री या तु सद्गुणा || ३-६९ || व्योमव्यापकशैवाश्च गोचरा नवधा स्मृताः | कल्पबिल्वशमी चैव वटवृक्षञ्च चंपकम् || ३-७० ||
SKअश्वत्थ प्लक्षपुन्नागाश्चन्दनन्नव पादपाः | माणिक्कम्मौक्तिकञ्चैव पुष्परागञ्च नीलकम् || ३-७१ || वैडूर्यञ्चैव गोमेदङ्गारुडञ्च प्रवालकम् | ऊर्ध्वशैवन्तु प्रथममादिशैवं द्वितीयकम् || ३-७२ || अनादिशैवन्त्रितीयमनुशैवञ्चतुर्थकम् | अवान्तरं पञ्चमञ्चमिश्रशैवन्तु षष्ठकम् || ३-७३ || सप्तमं भेदशैवं स्यादष्टमङ्गुणशैवकम् | आज्ञाशैवन्तु नवमं शैवानि नवधा क्रमात् || ३-७४ || शिवतत्वं वह्नितत्वं शक्तिज्ञानमयन्ततः | प्. १०७) निर्गुणं भेदतत्वञ्च आत्मविद्या शिवात्मकम् || ३-७५ || प्रोक्तानि नवतत्वानि कालानि च नवशृणु | विधाता सृष्टिकाले तु स्थितिकाले तु केशवः || ३-७६ || संहारकाले रुद्रस्तु भोगकाले महेश्वरः | योगकाले तु सादाख्यो ज्ञानकाले तु बिन्दुकः || ३-७७ || ध्वनिकाले तु नादात्माचाज्ञाकाले तु शक्तयः | शिवकाले विशेषन्तु चेशानोपि ततः क्रमात् || ३-७८ || शिवमूर्तिः शक्तिमूर्तिर्नादात्मा बिन्दुमूर्तिकः | सदाशिव महेशानरुद्रकेशव वेधसाम् || ३-७९ || मूर्तयो नवधा प्रोक्ताश्शक्तिरूपन्ततः शृणु | आदिशक्तिः क्रियाशक्ति ज्ञानशक्तिर्गणात्मिका || ३-८० || ज्ञानशक्तिर्जयाशक्तिर्योगानन्दाख्यशक्तिका | भेदाधारात्मशक्तिश्च शक्तयो नवधास्मृताः || ३-८१ || नाम्नां भेदानि संप्रोक्ता द्वारवर्ण क्रमं शृणु | द्वारन्तु दक्षिणं श्रेष्ठञ्चातुर्वर्ण्यमनुक्रमात् || ३-८२ || पूर्वद्वारं प्रशस्तन्तु ब्राह्मणानां महेश्वर | क्षात्रन्तु दक्षिणद्वारं वैश्यानामुत्तरं शुभम् || ३-८३ || शूद्राणां पश्चिमद्वारं विशेषन्तु महेश्वर | सर्वेषां मपिवर्णानान्दक्षिणद्वारमुत्तमम् || ३-८४ || पञ्चब्रह्म षडङ्गैश्च पूर्ववन्न्यासमाचरेत् | पञ्चकोश स्थितन्तत् तु संहारं हृदयेन तु || ३-८५ || मूलमन्त्रं सकृज्जप्त्वा (सक्रज्जप्त्वा) शिष्यमूर्ध्नि निरीक्षयेत् | निरीक्ष्यचैव तत् स्थाने शिवहस्तं प्रदापयेत् || ३-८६ || संश्राव्य समयान् सम्यग् देवदेवस्य चाग्रतः | प्. १०८) शिवशास्त्रमनिन्द्यन्तु शिवपादसुनिश्चितम् || ३-८७ ||
SKआचार्य ज्येष्ठलिङ्गानां छायामपिनलंघयेत् | अदीक्षिता च या नारी तत् सङ्गं परिवर्जयेत् || ३-८८ || निर्माल्यन्तु नभुंजीत भस्मयुक्तान्न निन्दयेत् | शिष्यं सबांधवञ्चैव सपत्निकञ्च दीक्षयेत् || ३-८९ || एवं संश्राव्य समयान्पश्चाद्धोमं समाचरेत् | पिधाय सर्वद्वाराणि निरुद्ध्येन्द्रियमेव च || ३-९० || शब्दसंरोधन स्थानं कर्मेन्द्रियमिति स्मृतम् | अनलेन तु बीजेन चक्षुरिन्द्रियरोधनं || ३-९१ || नीरसेन्द्रिय कर्णन्तु चक्षुर्घ्राणे सुजिह्वके | त्वगिन्द्रियञ्च पायू च वागिन्द्रिय निरोधनम् || ३-९२ || समयेन्द्रियमानेनाऽहंकारोऽनलेन्द्रियम् | नवद्वारं शब्दबीजमनलं स्पर्शबीजकम् || ३-९३ || पञ्चबीजकरन्न्यस्त्वा पूर्वेन्द्रियन्न्यसेत् क्रमात् | सत्वं रजस्तमश्चैव स्वनामाद्येन पाठयेत् || ३-९४ || एवन् निरुद्ध्य विधिवत्कर्षयेच्छिवशक्तिभिः | यावदासीत्पशुपतिस्तावत् सर्वन्निरोधयेत् || ३-९५ || सुधया प्लावितन्त्र त्रवारुणेन शिवेन च | सर्वदेवमयन्देहं सर्वज्ञान समुच्चयम् || ३-९६ || सूर्यमंडल संकाशं मध्ये बीजं प्रतिष्ठितम् | आत्मतत्वांकुरञ्चैव विद्या तत्वं सुनादकम् || ३-९७ || शिवतत्वमिति प्रख्यं मन्त्रराजानमव्ययम् | प्. १०९) ओमिति प्रणवं शुद्धं योगपद्ममधोमुखम् || ३-९८ || पूर्वमेवं सुकुंभित्वा पश्चाच्छिष्ये नियोजयेत् | हृत्पुंडरीक मध्यस्थङ्गुणत्रय समन्वितम् || ३-९९ || इंद्रनील मणिप्रख्यं पञ्चविंशाख्यरूपकम् | हंसमन्त्रं स्वरूपस्थ मानन्दममृतात्मकम् || ३-१०० || ऊर्द्ध्वशैव मिदम्मन्त्रं बीजमन्त्रङ्गुरुं शुभम् | परवस्तु स्वरूपञ्च परमानन्दरूपिणम् || ३-१०१ || परतत्वप्रकाशार्थं पार्वतीवल्लभं शिवम् | अक्षराद्यादिमूर्धास्याद् पुद्गलस्य प्रतिष्ठितम् || ३-१०१ || दक्षिणामुखमाश्रित्य ज्ञानमुद्रा स्वरूपिणम् | सदाशिवं शिवात्मानं षडध्वात्मा सुलक्षितम् || ३-१०२ || पुनरुत्थाप्य विधिवदध्वषट्कन्तु विन्यसेत् | मन्त्राध्वा च पदाध्वा च तत्वाध्वा भुवनाद्ध्वकः || ३-१०३ ||
SKवर्णाध्वा च कलाध्वा च पूर्व तत्वेषु योजयेत् | पृथिव्यापस्तथा तेजोवायुराकाश एव च || ३-१०४ || कालानलाग्नितं वायु पञ्चतत्वं व्यवस्थितम् | पार्थिवन्तु निवृत्या च ब्रह्मणा चैव कथ्यते || ३-१०५ || आपः प्रतिष्ठया विद्याद्यावद् विष्णु स्वरूपतः | तेजो विद्या च तेजो वै यावद्रुद्र स्वरूपकम् || ३-१०६ || अघोरमन्त्रं विद्यायां शान्तौ पुरुषमन्त्रकम् | वायुशान्त्यादि रूपन्तु महेशात्मा व्यवस्थितः || ३-१०७ || शान्त्यतीतं खकारात्मा सादाख्य तत्वमव्ययम् | प्. ११०) जान्वधस्तान्निवृत्तिः स्यात् प्रतिष्ठानाभ्यथः स्थिता || ३-१०८ || विद्या स्थानन्तु कण्ठान्तं मुखान्तं शान्तिगोचरम् | रंध्रान्तं शान्त्यतीता तु परापरशिवात्मकम् || ३-१०९ || निवृत्तौ सद्यमन्त्रं स्यात् प्रतिष्ठायान्तु वामकम् | अघोरमन्त्रं विद्यायां शान्तौ पुरुषमन्त्रकम् || ३-११० || ईशानमन्त्रोऽतीतायान्तन्मन्त्रैर्जुहुयात् ततः | प्रत्येकन्तु शतं हुत्वा ददर्धं वा तदर्धकम् || ३-१११ || पञ्चविंशच्छतं हुत्वा पञ्चहोमं प्रशस्यते | आचार्यस्य शतं हुत्वा एते होमं विशेषतः || ३-११२ || अन्ये बन्धविनाशाय हृदयेनशतं हुनेत् | अष्टत्रिंशत्कला मन्त्रं अष्टत्रिंशत्तु होमयेत् || ३-११३ || वर्णमन्त्रं समुच्चार्य चेकहोमं प्रशस्यते | शिष्याकृतिन्त्रिधा ध्यात्वा शिष्यदेहञ्च बन्धयेत् || ३-११४ || आकर्षयेत् तु तत्सर्वं पाशबन्धविनाशनम् | अघोरमन्त्रमुच्चार्याऽघोरास्त्रेण होमयेत् || ३-११५ || चिन्नं भिन्नञ्च तन्नूनं पाशबन्धनमुच्यते | शिष्यदेहन्तु सङ्ग्राह्य मन्त्रहस्तं प्रदापयेत् || ३-११६ || प्रदापयेत् तु तत्काले शिवमन्त्रमनुस्मरन् | मन्त्रदेहमनुस्मृत्य देहमूर्ध्नि विशेषतः || ३-११७ || विद्येश्वराणां प्रत्येकमाहुत्यष्टकमिष्यते | गणेश्वराणान्तद्देहं योजयेच्छिष्यदेहके || ३-११८ || सर्वेषाल्लोकपालानां मन्त्राणाञ्चैव होमयेत् | एवं मन्त्राद्ध्व अन्यस्य तत्वाद्ध्वन्यासमुच्यते || ३-११९ || पृथिव्यापस्तथा तेजो वायुराकाश एव च | प्. १११) शब्दं स्पर्शञ्च रूपञ्च रसङ्गन्धञ्च पञ्चकम् || ३-१२० ||
SKवाक्च पाणी च पादौ च पायूपस्थञ्च पञ्चकम् | श्रोत्रञ्च त्वक्च चक्षुश्च जिह्वाघ्राणञ्च पञ्चकम् || ३-१२१ || मनोबुद्धिरहंकारः प्रकृतिः पुरुषस्तथा | रागो नियति विद्ये तु कलाकालश्च मोहिनी || ३-१२२ || शुद्धविद्या शुद्धकला तथा पश्चात् सदाशिवः | शक्तिश्च शिवतत्वञ्च शुद्धमाया स्वरूपकम् || ३-१२३ || एवन् तत्वानिष्ट्त्रिंशत् स्वस्वस्थाने नियोजयेत् | विन्यसेद्भुवनाद्ध्वानं कालाग्न्यादि शिवान्तकम् || ३-१२४ || कालाग्निरुद्रं प्रथमं पादाङ्गुष्ठे नियोजयेत् | अन्धकारञ्च प्रथमं जंघस्यार्थे नियोजयेत् || ३-१२५ || अष्टाविंशति कोटिस्तु नरकाश्चाऽतिदारुणाः | राजानो नरकाणान्तु द्वात्रिंशत्परिकीर्तिताः || ३-१२६ || रौरवं कुंभिपाकञ्च महाघोरञ्च रौरवम् | कूटञ्च बलिपूजा च महापूतिश्चदारुणम् || ३-१२७ || जन्तुपूतञ्च तप्तञ्चऽसितालवनन्तथा | क्षरका क्षुरिकाधारा धनुर्धाराशरस्तथा || ३-१२८ || स्वानसूकर व्याघ्रञ्च सिंहञ्चैव गजेन्द्रकः | महा वै तरणी चैव चासिभङ्गस्तथैव || ३-१२९ || क्रकामश्चैव कामश्च ककुदश्चैव गर्दभः | कायका कीर्णवज्रा च सर्वपांशुश्च लोहकः || ३-१३० || नीलयन्ता च यन्ता च चक्र यन्ता शुभीरुका | प्. ११२) अर्द्धजंघोर्ध्व जंघा च जानुकन्नामकाः क्रमात् || ३-१३१ || तलञ्च वितलञ्चैव नितलं सुतलन्तथा | रसातलं महातलन्तलातलञ्च सपकम् || ३-१३२ || ऊरुमध्ये न्यसेत् पश्चात् क्रमात् पाताल सप्तकम् | भूलोकञ्च भुवर्लोकं सुवर्लोकं महस्तथा || ३-१३३ || जनोलोकन् तपोलोकं सत्यलोकं यथाक्रमम् | इत्थं वै सप्तलोकांश्च मेढ्रोर्ध्वे परिकल्पयेत् || ३-१३४ || ऐन्द्रं ब्राह्मञ्च भुवनं वैष्णवं रौद्रमेव च | मेढ्रोर्ध्वे च गलाधस्तात् क्रमेणैव च विन्यसेत् || ३-१३५ || गोलोकं शिवलोकञ्च गलादूर्ध्वं प्रकल्पयेत् | अकारादि क्षकारान्तन् तत् तत् स्वानेषु विन्यसेत् || ३-१३५ || मूलप्रकृति बीजन्तु मुखमध्ये प्रविन्यसेत् | महामायाशक्तिबीजं शिवमन्त्रञ्च विन्यसेत् || ३-१३७ ||
SKनासाग्रे हृदये गुह्ये देहमध्ये तु विन्यसेत् | इत्थं वर्णाद्ध्वकन्न्यस्य कलाद्ध्वानन्ततो न्यसेत् || ३-१३८ || निवृत्तिं हृत्प्रदेशे तु प्रतिष्ठां कण्ठगोचरे | विद्यां तालु निशान्तिञ्च मुखेऽतीताञ्च मूर्धनि || ३-१३९ || इत्थन्न्यस्य कलाद्ध्वानं शिवतत्वन् ततः परम् | इत्थं कृत्वा स आचार्यो विपचानपि दीक्षयेत् || ३-१४० || रसवित्थं यथा ताम्रन्नभूयस्ता मृतां व्रजेत् | आज्ञा सिद्धस्तथा ह्येष न संसारमनुस्मरेत् || ३-१४१ || एवं सम्यक्ततः कृत्वा दीक्षयाऽनादि वर्जिताः | प्. ११३) हूते नैव विमुच्यन्ते साधकाजन्मबन्धनात् || ३-१४२ || हृदयेन समिद्धोममघोरेण चरुन्ततः | पुरुषेण घृतं पश्चादघोरास्त्रेण लाजकम् || ३-१४३ || हृदयेन गुलं पश्चात्फलानि शिवमन्त्रतः | सक्तुं वै वाममन्त्रेण क्षीरं सद्येन मन्त्रतः || ३-१४४ || तथा हृदयमन्त्रेण सिद्धार्थं सद्यमन्त्रतः | तिलमीशान मन्त्रेण मुद्गंमाषं हृदा ततः || ३-१४५ || द्रव्याभावे तु सर्वेषामाज्य होमं प्रशस्यते | आज्यहोमेन सर्वेषां द्रव्याणां फलमश्नुते || ३-१४६ || होमान्तेक्वभिषेकन्तु वक्ष्यते च शृणु क्रमात् | सहस्रकलशैर्वापि तदर्धकलशैरपि || ३-१४७ || शताष्टकलशैर्वापि सर्वद्रव्यसमन्वितैः | दरिद्राणां यथा लाभं कलशैरभिषेचयेत् || ३-१४८ || पञविंशतितः कृत्वा अथवा नवपञ्च वा | द्वौकुंभावेकमथवा गुरुहस्तमथापि वा || ३-१४९ || पूर्ववत् स्थाप्यकलशं शिवं पूर्ववदर्चयेत् | पद्मन्दक्षिणतोन्यस्य वसुपत्रं सकर्णिकम् || ३-१५० || तत्पद्ममध्ये शिष्यन्तु स्थापयेदुत्तराननम् | पुण्याहं वाचयित्वा तु ब्राह्मणैर्वेपारगैः || ३-१५१ || ऋग्वेदं पूर्वदिक्भागे यजुर्वेदं तु दक्षिणे | पश्चिमे सामवेदं तु चतुर्थं वेदमुत्तरे || ३-१५२ || विन्यस्य घोषयेत् पश्चाच्छंखकाहल निस्वनैः | तथा वाद्य निनादैश्च जयमङ्गल वाचकैः || ३-१५३ || वीणावेणुरवैश्चैव नृत्तगान समन्वितैः | प्. ११४) विशेषात् ब्राह्मणानान्तु स्वोत्रमङ्गल वाचकैः || ३-१५४ ||
SKशैवैः पाशुपतैश्चैव महावृतधरैरपि | बौद्धैरार्हतकैश्चैव सर्व पाषण्डिनाङ्गणैः || ३-१५५ || वसनोदनदण्डाद्यैर्भोजनैश्च यथोचितैः | सेवितं पद्मपीठस्थं स्नातं शिष्यं दृढवृतम् || ३-१५६ || अभ्यर्च्य पूर्ववत् कृत्वा न्यासं तस्य यथा क्रमम् | अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीप समन्वितैः || ३-१५७ || निष्कलश्च यथा चार्यस्सकलश्च तथा भवेत् | अभिषेकं ततः कुर्यादाचार्यो देशिकोत्तमः || ३-१५८ || आचामं विधिवत् कृत्वा गन्धपुष्पैरलं कृतम् | पूर्ववासः परित्यज्य दुकूलादि विभूषितम् || ३-१५९ || हारकेयूरकटक कुण्डलाभरणोज्वलम् | हेमयज्ञोपवीतेन नवरत्नां गुलीयकम् || ३-१६० || चन्दनालिप्तसर्वाङ्गं पुष्पमालाद्यलंकृतम् | श्वेतयज्ञोपवीतञ्च सोष्णीषं सोत्तरीयकम् || ३-१६१ || सपवित्रकराभ्यान्तु धारयेत् तोयपूष्पकम् | शरीरमर्थं प्राणञ्च सद्गुरुभ्यो निवेदयेत् || ३-१६२ || प्रणम्य दण्डवद्भूमौ शिरसा भक्तिसंयुतम् | अनुग्रह्य ततश्शिष्यमारोग्य परिपालनात् || ३-१६३ || शंघकाहल संयुक्तं पुष्पवृष्टि समन्वितम् | पादं प्रदापयेन् मूर्ध्नि तस्य पाशविभेदकम् || ३-१६४ || पश्चात् प्रासादमुच्चार्य वरदन्दक्षिणात्मकम् | प्. ११५) आदायशिष्य हस्तञ्च पादमुद्रां प्रकल्पयेत् || ३-१६५ || शिष्यस्य दक्षिणे कर्णे शिवमन्त्रं समुच्चरेत् | सोपि तन्मन्त्रमुच्चार्य तिष्ठन् शिष्यः कृतांजलिः || ३-१६६ || पूजा तन्त्रमिदं ज्ञानं प्रासादं परमे पदे | यदवाप्य नरास्सर्वे दुख्खभेदमिदं कथम् || ३-१६७ || कर्मात्मकञ्च शैवञ्च ममवृत्तं कथं प्रभो | ईश्वरः | साधु साधु हिमच्छिष्य तत्सर्वं वक्ष्यते शृणु || ३-१६८ || आचार्य ज्येष्ठलिङ्गानां छायामपिनलंघयेत् | अदीक्षिता च या नारी तत्सङ्गं परिवर्जयेत् || ३-१६९ || अदीक्षिता कृतिं स्पृष्वा शिवमन्त्रमनुस्मरेत् | अदीक्षितान्नं योभुङ्गे चंडालश्च न संशयः || ३-१७० || ममरूपं सदा ध्यात्वा शिवमन्त्रमनुस्मरेत् | उपवीतञ्चोत्तरीयञ्च स्त्रीशूद्राणां विवर्जयेत् || ३-१७१ ||
SKशिवार्चनन्तथा कर्मशिवद्ध्यानञ्च कारयेत् | निर्वाणदीक्षिताये तु सर्ववर्णेषु कारयेत् || ३-१७२ || त्रैवर्णिका विशेषेण सर्वकालञ्च धारयेत् | प्रणवादि च स्वाहान्तं विप्रमात्रं प्रकीर्तितम् || ३-१७३ || नमस्कारादि स्वाहान्तं क्षत्रियाणाञ्च कीर्तितम् | नमस्कारात्मसंयुक्तं मन्त्रं वैश्यं प्रकीर्तितम् || ३-१७४ || नमोवषट्च शूद्रस्य प्रणवादि विसर्जयेत् | निर्वाणदीक्षितोयस्तु प्रणवेन तु योजयेत् || ३-१७५ || न जाति वर्णभेदानि निर्वाणं परमं पदम् | प्. ११६) सर्वजातिषु दीक्षायां विशेषाद् ब्राह्मणो गुरुः || ३-१७६ || निर्वाणदीक्षां वक्ष्येहं तवस्नेहाः शृणु क्रमात् | एक कुंभं प्रतिष्ठाप्य पूर्ववत्परिशोभितम् || ३-१७७ || अष्टदलं च पद्माख्यन्न्यस्त्वा मध्ये विनिक्षिपेत् | हेमपद्माकृतिन्न्यस्त्वा सकूर्चञ्च सवस्त्रकम् || ३-१७८ || अंकुरार्पण पूर्वन्तु सर्वलक्षणसंयुतम् | तत् तुंभे चासनन्न्यस्त्वा शिवमावाह्य पूजयेत् || ३-१७९ || गन्धैः पुष्पैश्च धूपैश्च पूर्ववत् पूजयेत् क्रमात् | मूलप्रकृतिबीजं तत् कुंभमध्ये तु विन्यसेत् || ३-१८० || अथवा नदितीरेवा कराभ्यामभिषेचयेत् | अक्षरस्तोद्गतं दृष्ट्वा दौ च प्रतिष्ठितम् || ३-१८१ || प्रदक्षिणमुपाश्रित्य सासनञ्चैव पूजयेत् | प्रथमं योगभावन्तु द्वितीयं ज्ञानमुद्रिका || ३-१८२ || त्रितीयं द्रंहणं कृत्वा चतुर्थं वरदाभयम् | पञ्चमं पञ्चवक्त्रं स्याद् ध्यात्वामध्ये तु चिन्तयेत् || ३-१८३ || दक्षिणामुखमाश्रित्य सन्मार्गञ्चैव कथ्यते | त्वम्मान् दक्षिणे वक्ष्ये विशेषन्तु महेश्वर || ३-१८४ || पुत्रवत् स्वीकृतं पूर्वं वदन्ति शिवसंयुतम् | अथवा हारिद्रजलं पीत्वा च पुत्रसंभवम् || ३-१८५ || दासमार्गं विशेषेण मम रूपन्तु तत्समम् | ममरूपं सदा ध्यात्वा तत् कृतम्मम कर्मकम् || ३-१८६ || सन्मार्गं सहमार्गं च पुत्रमार्गञ्च साधकम् | दासमार्गसमं मार्गन् न भूतो न भविष्यति || ३-१८७ || तस्माद्वेदाश्च सन्मार्गन्निर्वाणं परमं पदम् | प्. ११७) आचार्यस्यासनं कृत्वा आचार्यात्मानमानयेत् || ३-१८८ ||
SKतस्मादाचार्य रूपन्तु महादेवात्मरूपकम् | गुरुर्देवो महादेवो गुरुर्देवस्सदाशिवः || ३-१८९ || तस्माद् देवमिदङ्गुह्यं ध्याययेत् परमाङ्गतिम् | एकाक्षर प्रदातारं गुरोरन्यन्नमानयेत् || ३-१९० || श्वानयोनिशतं प्राप्य चंडालेष्वपि जायते | चर?लिङ्ग स्वरूपञ्च ज्येष्ठाचार्य स्वरूपकम् || ३-१९१ || आचार्यलिङ्गमूर्तिञ्च गुरुरात्म प्रपूजयेत् | नयनदीक्षा विधिं वक्ष्ये शृणुष्वेवं महेश्वर || ३-१९२ || केचिद्यदि च नित्यान्तन्नऋत्तान्त * * * * * * | केचिद् वै वर्गभानन्तु मम दृष्टिनिपातकम् || ३-१९३ || नयनदीक्षा तु संप्रोक्तं स्पर्शदीक्षान्ततः शृणु | मम स्नेहसुसं स्पृष्टमनाश्च परिचारयेत् || ३-१९४ || सकालमृतरूपञ्च शिवलोकमवाप्नुयात् | तस्मात् सर्वप्रयत्नेन दीक्षयेद्बुद्धिमान्नरः || ३-१९५ || स्पर्शदीक्षाविधिः प्रोक्तं वाचिकञ्च ततः शृणु | मम मन्त्रं समुच्चार्य दक्षिण श्रोत्रकन् तथा || ३-१९६ || यस्याक्षर स्वरूपन्तु दीक्षाध्यान क्रमं शृणु | दीक्षावाचमिदं प्रोक्तं मानसीञ्च ततः शृणु || ३-१९७ || अग्निकार्यादि सर्वञ्च मनसा कल्पयेच्छुभम् | प्. ११८) मानसी च तथा प्रोक्ता शास्त्रदीक्षाविधिं शृणु || ३-१९८ || मम दत्तमिदं सर्वं कामम्ममावनं विधिम् | एक ध्यानस्य मात्रेण शिवलोकं सगच्छति || ३-१९९ || दीक्षामार्ग क्रमं प्रोक्तमुत्सवं वक्ष्यते शृणु || इति मकुटे त्रिसहस्रसंहितायां क्रियापादे दीक्षाविधि पटलोनामत्रितीयः || ३ || अथ शिवोत्सवविधि पटलः अंकुरार्पणकालः | शिवोत्सवस्य पूर्वे तु चांकुरार्पणमुत्तमम् | बन्धने शोभने कार्ये युद्धारंभे पवित्रके || ४-१ || दीक्षायां स्थापने चैव स्नपने प्रोक्षणे तथा | कर्षणे प्रतिमाशुद्धौ शिलासंग्रहणेऽपि च || ४-२ || नव भोजन कल्याणे कृत्तिका दीपरोहणे | अभिषेक दिनात्पूर्वे नवमे सप्तमे तथा || ४-३ || पञ्चमे त्रिदिने चैव तद्दिने चाऽंकुरार्पणम् | पालिकालक्षणम् || पालिका घटिका चैव शरावञ्च त्रिधा भवेत् || ४-४ ||
SKसुवर्णं रजतं वापि ताम्रं वा मृण्मयन्तु वा | पालिकाष्टदशाङ्गुल्यमुच्चं मात्राङ्गुलेन तु || ४-५ || पालिका द्विमुखाश्शस्ताष्षोडशाङ्गुलमुच्यते | तदर्धं पादविस्तारं तत् षड्भागेक मोष्ठकम् || ४-६ || पालिकोच्चं त्रिधा कृत्वा पदन्दंडम्मुखं क्रमात् | विस्तारस्य त्रिभागेकं वर्तितं बिलमुच्यतो || ४-७ || एवं पादक्रमं प्रोक्तं शेषन्दंडमिहोच्यते | विस्तारस्य त्रिभागेक दंडविस्तारमुच्यते || ४-८ || पालिकालक्षणं प्रोक्तं शृणुष्वेवम्महेश्वर | घटिकालक्षणम् || घटिकाघटविस्तारम्मन्वङ्गुल सुविस्तरम् || ४-९ || तदर्धं पादविस्तारम्पालिकोक्त प्रकारतः | पञ्चवक्त्र समायुक्तं घटिकां कारयेत् ततः || ४-१० || सूत्रके प्. १२०) शरावलक्षणम् || शरावमुखविस्तारं रव्यङ्गुलमुदाहृतम् | पादविस्तारमर्धन्तु उत्सेधं बिलसंयुतम् || ४-११ || पालिकोक्त प्रकारेण कारयेत् तु महेश्वर | भिन्नञ्च सुषिरं कालं भेदंकोणञ्च मेलकम् || ४-१२ || अपूर्णं खंडरीञ्चैव वर्जयेत् साधकोत्तमः | शूलीमुकुन्दधाता च पालि आद्यधिदेवताः || ४-१३ || इत्येवं पालिका ग्राह्य दशदिक्स्थाप्यमेव च | प्रासादपूर्वेचाशान्ये दक्षिणे चोत्तरे तथा || ४-१४ || अंकुरस्थापनक्रमं गोमयोऽलेपिते शुद्धे मण्टपे वसुसूत्रके | मध्ये व्योमपदं ग्राह्य लोपयेदभितोष्टकम् || ४-१५ || त्रीणिचाभ्यन्तरे त्यक्त्वा चतुर्दिक्षु क्रमात् बुधः | पालिका द्वेन्यसेत् पूर्वं द्वाराणां पार्श्वयोर्द्वयोः || ४-१६ || विन्यसेत् घटिका द्वेतु कोणेषु च पदद्वयोः | शेषेषु वै शरापालीः स्थापयेद् धृदयेन तु || ४-१७ || कुशाग्रैश्चैव दर्भैश्च निच्छिद्रं सुषिरं कुरु | स्थण्डिलं कारयेद् धीमानष्टद्रोणैश्चालिभिः || ४-१८ || तस्य मध्ये लिखेत् पद्मं साष्टपत्रं सकर्णिकम् | स्थापयेत् कर्णिकामध्ये चंद्रकुंभमलंकृतम् || ४-१९ || पूजाक्रमम् | ससूत्रञ्च सवस्त्रं सरत्नं पूर्ववत् कृतम् | पूजयित्वा यथान्यायं ध्यानमार्गेण पूजयेत् || ४-२० ||
SKकृत्तिकां रोहिणीं पूज्यकुंभस्य पार्श्वयोर्द्वयोः | पायसान्नन्ददेत् पञ्चात्तांबूलञ्च निवेदयेत् || ४-२१ || प्. १२१) वालुकैर्गोमयैर्मृद्भिः पालिकादिन् प्रपूरयेत् | ततो नैवेद्य तांबूलं दापयेत् तु विशेषतः || ४-२२ || पयसा पूर्यतद्बीजं हेमपात्रे सुसंचितम् | तिलसर्षपमुद्गञ्च माषशिंबन्तु बृम्हिणम् || ४-२३ || कुलुत्थं सप्तबीजानां सप्तधान्याधिदेवताः | आचार्यो वापयेद्बीजान् प्राङ्मुखोऽदङ्मुखोऽपि वा || ४-२४ || सोमकुंभस्थिताद्भिश्च पालिकादिनि सेचयेत् | आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः || ४-२५ || उत्सवविथिविध्यमुत्तमादिकम् || उत्सवं त्रिविधं प्रोक्तन्नवाहं सप्तपञ्चकम् | उत्तमं तु नवाहं स्यात् सप्ताहं मध्यमन्तथा || ४-२६ || पञ्चाहमथमं ज्ञेयमुत्सवं त्रिविधं स्मृतम् | त्रयाहञ्चैव मेकाहमाचार्यस्येच्छयादिशेत् || ४-२७ || प्रातःकाले चा वभृतं सायंकाले च साधयेत् | उत्सवारंभ पूर्वे तु कुण्डलक्षणमुच्यते || ४-२८ || हस्तमात्रं खनेत् तत्र मेखलाभिस्समायुतम् | कुण्डानां यादृशं रूपन्तादृशी मेखला भवेत् || ४-२९ || मेखलाभिरलं कृत्य चेक मेखलयाऽन्वितम् | उत्सेधन्तु नवाङ्गुल्यं विस्तारस्य प्रमाणतः || ४-३० || चतुरङ्गुलमूर्ध्वे तु चेकमेखलयान्वितम् | त्रिमेखलाङ्गुलं वक्ष्ये विशेषेण महेश्वर || ४-३१ || चतुरङ्गुलमूर्ध्वे तु त्र्यङ्गुलं मध्यमं भवेत् (भभेत्) | अपरा च द्वयाङ्गुल्यं विस्तारोत्सेधमेव च || ४-३२ || अश्वत्थ पत्रवद्योनिं मेखलोपरिविन्यसेत् | एकाङ्गुलन्तदुत्सेधं विस्तारञ्चतुरङ्गुलम् || ४-३३ || प्. १२२) सप्ताङ्गुलन्तद् दीर्घं स्याद्दिनानि च तत शृणु | कृत्तिकाद्यादिमासेषु कार्तिके कृत्तिकान्तकम् || ४-३४ || मार्गमासे तु चार्द्रान्तं पुष्यमासे तु पुष्यकम् | माघमासे मघान्तञ्च फाल्गुने चोत्तरान्तकम् || ४-३५ || चैत्रे चित्रान्तमेवञ्च वैशाखे तु विशाखकम् | ज्येष्ठमासे तु मूलान्त मुत्सवान्तदिनं शुभम् || ४-३६ || आषाढे चोत्तराषाढे श्रावणे श्रवणान्तकम् | पूर्वभाद्र महामासे पूर्वभाद्रान्तमुच्यते || ४-३७ ||
SKआश्वयुज्यान्तथाश्विन्यां चोत्सवान्तदिनं शुभम् || सर्वमासेषु कर्तव्य मार्द्रान्तमस्याच्छिवोत्सवम् || ४-३८ || यजमान दिनेचैव राजजन्मदिने तथा | दिनानां लक्षणं प्रोक्तं दण्डनाहयोग्यवृक्षाणि || ४-३९ || उत्तमं मध्यमञ्चैवाऽधमञ्च त्रिधा भवेत् || ४-४० || प्रासादान्त समन्दण्डं प्रासाद शिरसान्तकम् | सभानाञ्च समन्दण्डन्त्रिविधञ्चोत्तमं क्रमम् || ४-४१ || उक्षस्थलान्तं कट्यन्तङ्गोपुरान्तन्तथैव च | मध्यमन्तु त्रिभेदञ्च अथमञ्च क्रमाच्छृणु || ४-४२ || कण्ठनाभिसु मध्यं वा भूतमालान्तकन्तथा | पञ्चहस्त विमानेन समदण्डं ततः शृणु || ४-४३ || त्रिहस्तेन विमानेन द्विगुणन्दंडमुच्यते | चतुर्हस्तं द्विहस्तार्थं दंडार्थञ्चैव योजयेत् || ४-४४ || पञ्चहस्तं तदूर्ध्वे तु मध्यमादि च दंडकम् | प्. १२३) निर्व्रणञ्च ऋजुञ्चैव क्रिमिकोटरवर्जितम् || ४-४५ || चन्दनञ्चैव दारुञ्च बिल्वञ्चंपकमेव च | क्रमुकं वेणुकञ्चैव पनसंकुलवृक्षकम् || ४-४६ || कुन्दपुन्नाग खदिरमर्जुनं केतकन्तथा | षड्विंशा᳚गुलनाहञ्च उत्तमन्तु वीधीयते || ४-४७ || चतुर्विंशाङ्गुलन्नाहं मध्यमन्तु विधीयते | द्वादशाङ्गुल नाहञ्चाऽथमं तत्र कारयेत् || ४-४८ || चतुर्विंशाङ्गुलन्नाहमग्रमेतत् प्रकीर्तितम् | दशाङ्गुलन्तु मूलं स्यादष्टादशाङ्गुलान्तकम् || ४-४९ || उत्तमं मध्यमञ्चैवात्वथमन्नाहमुच्यते | अथमाङ्गुलेन कर्तव्यं मानाङ्गुलेन कारयेत् || ४-५० || उत्तमं हस्तमात्रं तु फलकापञ्चसंयुतम् | सप्तविंशाङ्गुलायाममुत्तमन्तु विधीयते || ४-५१ || अष्टादशाङ्गुलायामन्दशाङ्गुल सुविस्मृतम् | मध्यमन्तु विधिं कृत्वा अथमन्तु प्रकल्पयेत् || ४-५२ || हस्तमात्र प्रमाणेन विस्तारञ्चतुरङ्गुलम् | दंडायामन्ततः कृत्वा त्रिभागं पन्नभागिकम् || ४-५२ || सप्तभागन्ततः कृत्वा चाष्टभागन्तु कल्पयेत् | आवाहनाधिवासेन चोत्तमन्नवहस्तकम् || ४-५३ || मध्यमं सप्तहस्तञ्च ह्यधमं पञ्चहस्तकम् | इत्येवं विधिवत् कृत्वा पट्टायास्त्रितयन्तथा || ४-५४ ||
SKध्वजपटलक्षणम् || पञ्चतालोक्तमार्गेण मध्यमञ्च चतुर्थकम् | अथमञ्च त्रितालञ्च कदलीदल संयुतम् || ४-५५ || त्रिकोणमायतं कृत्वा पुच्छद्वय समन्वितम् | प्. १२४) पिधायमध्यमाग्रञ्च पुच्छविस्तार संयुतम् || ४-५६ || पुच्छञ्च विस्तारार्थं वा द्विपुच्छं वा त्रिपुच्छकम् | इत्येतल्लक्षणैर्युक्तं ध्वजरूपं प्रकीर्तितम् || ४-५७ || वृषभस्योत्तरे पार्श्वे गोमयो लेपिते शुभे || ४-५८ || अष्टद्रोणैश्च शालीनां पटस्य स्थण्डिलन्तथा | पद्मासनस्थं वृषभं सर्वाभरणभूषितम् || ४-५९ || श्वेतं वृषभरूपं तु श्रङ्गेरक्ते प्रकीर्तिते | खुरास्सर्वे तथैवोद्यत् बालादित्य निभप्रभाः || ४-६० || आसीनं वा स्थितं वापि शुभमालेखयेद् वृषम् | अष्टानां लोकपालानां वाहनान् स्वस्वदिक्षु च || ४-६१ || नवध्वज समायुक्तमैंद्रे कूटगजाकृतिम् | कजञ्चैवाग्निदेशे तु महिषं याम्य देशके || ४-६२ || सिंहन्नै-ऋतदेशे तु मकरं वारुणे तथा | मृगं वायव्य देशे तु सौम्ये चाश्वं प्रकीर्तितम् || ४-६३ || ऐशान्यां वृषभञ्चैव तत् तद् दक्षिण पार्श्वके | लिखित्वा वाहनं तत्र स्वनाम्ना प्रतिपूजयेत् || ४-६४ || विशेषात् पञ्चगव्येन मूलदेवार्चनं शुभम् | विशेषात् पूजयेद् देवन् दक्षिणेश्वरमद्भुतम् || ४-६५ || यथा विभव विस्तारमर्चयेद् देशिकोत्तमः | अष्टद्रोणमयं शालीस्थण्डिलञ्चतुरश्रकम् || ४-६६ || द्विहस्तस्य विस्तारं शालिभिश्चतुरङ्गुलम् | अष्टपत्रं समालिख्य श्वेततंडुलरेखया || ४-६७ || आढकेन तिलैः पश्चाच्चतुष्कोणादि लेखयेत् | प्. १२५) कूर्चासनं प्रतिष्ठाप्य स्थण्डिले चाऽर्चयेच्छुभम् || ४-६८ || कूर्चोपरिन्यसेत् कुंभं स्वर्णं राजतताम्रकम् | अथवा मृण्मयं वापि सुदृढं शुभविग्रहम् || ४-६९ || सौवर्णेनाऽथरौप्येण कार्पाससहितेन वा | सूत्रेणाऽवेष्ट्य विधिवन्मंडलोपरिविन्यसेत् || ४-७० || गन्धोदकेन संपूर्णं पञ्चरत्नसमन्वितम् | माणिक्कम्मौक्तिकञ्चैव वैडूर्यन्नील विद्रुमे || ४-७१ ||
SKएतानि पञ्चरत्नानि वृषकुंभे विनिक्षिपेत् | शिवमन्त्रं घटे न्यस्य वर्णमन्त्रमनुस्मरन् || ४-७२ || कूर्चन्तु निक्षिपेत् तत्र आम्रपल्लव (आंम्र-) शोभिते | आसने कुसुमन् दद्याच्चक्रवत्परिशोभिते || ४-७३ || वस्त्रेण वेष्टयित्वा तु गन्धं पुष्पञ्च दापयेत् | घटे वृषभमभ्यर्च्य मूलमन्त्रेण मन्त्रवित् || ४-७४ || ध्वजन्दक्षिणतोन्यस्य ध्वजयष्टिन्तथोत्तरे (-धोत्तरे) | अष्टदिङ्लोकपालानां पूर्वोक्तन्तु प्रदापयेत् || ४-७५ || शनैः प्रदक्षिणं कृत्वा पालयन्तु समाश्रयेत् | पूर्वोक्तमंटपे स्थाप्य गन्धपुष्पैः प्रपूजयेत् || ४-७६ || ध्वजस्थानक्रमं वक्ष्ये शृणुष्वेवं महेश्वर | द्वारस्य बलिपीठस्य मध्ये स्थानं ध्वजस्य तु || ४-७७ || द्विहस्तं वा त्रिहस्तं वा हस्तमात्रमथापि वा | तत्र मूर्तिन्तु दंडेन स्थापयेत् तत्र दंडकम् || ४-७८ || स्निग्धन्तु वेदिकां कुर्यात् त्रिहस्तं वेदिका स्मृतम् | तदुत् सेधन्त्रितालं स्यात् मेखलोपरिविन्यसेत् || ४-७९ || उपर्युपरि संकल्प्य तालमानन्तु हीनकम् | प्. १२६) उत्सेधस्य तु विस्तारन्तदर्धं वा विशेषतः || ४-८० || सर्वास्तु मेखलाः प्रोक्ताश्चतुरश्रास्समन्ततः | इत्थं सुलक्षणं कुर्यादुत्तमोत्तम वेदिकाम् || ४-८१ || तदूर्ध्वे पद्मसंयुक्तन्ताल मात्र समुच्छ्रयम् | वृत्तं वा चतुरश्रं वा पद्माकारं प्रकल्पयेत् || ४-८२ || गोमयालेपितं शुद्धं पिष्टचूर्ण विभूषितम् | भस्मरेखा त्रयोपेतं श्वेतपुष्पैरलं कृतम् || ४-८३ || पुण्याहं वाचयेत् तत्र ब्राह्मणान् घोषयेत् ततः | ध्वजयष्ट्यग्र संयुक्तं घण्टामालाविभूषितम् || ४-८४ || अष्टदिग्लोकपालानामष्ट पुष्पं प्रदापयेत् | दशाक्षरेण मन्त्रेण रज्जुबन्धं क्रमेण तु || ४-८५ || पञ्चक्षरं समुच्चार्य ध्वजस्थापन कर्मणि | स्वनामाद्यादि भीजेन पूजयेत् तत्र वाहनम् || ४-८६ || वृक्षकुंभं समुद्धृत्य पश्चाद्दक्षेश्वराणुना | आलयन्तु तथा ग्रामन्नगरं पत्तनन्तथा || ४-८७ || अथवाराजधानीञ्च शनैः कार्यात् प्रदक्षिणम् | ध्वजस्थानं समाश्रित्य यष्टिस्थापन संयुतम् || ४-८८ ||
SKपाशन्तु बन्धयेत् तस्मिन्न्ॐ कारेणैव मन्त्रतः | प्रासादाभिमुखं कुर्यात् ध्वजानान्तु निबन्धनम् || ४-८९ || ध्वजानान् तत्र पूर्वे तु कथितं सुन्दरन्तथा | सर्वलक्षण संयुक्तस्सर्वाभरणभूषितः || ४-९० || श्वेतांबर समायुक्तः श्वेत चन्दन लेपितः | शुक्लाऽभरण मालाभिश्शुक्लयज्ञोपवीतकः || ४-९१ || नववस्त्र शिरोबन्धः कटिसूत्र समन्वितः | प्रोक्षयित्वास्त्र मन्त्रेण पूजयित्वा यथा क्रमम् || ४-९२ || प्. १२७) समुद्गभिन्नङ्गौलान्नं क्षीरान्नञ्च निवेदयेत् | तदन्नं जयपुत्रार्थं भोगार्थञ्च महेश्वर || ४-९३ || ध्वजमूले तथा मध्ये वृषकुंभन्तु विन्यसेत् | वस्त्रेण वेष्टयेत् दंडन्दर्भैस्साग्रैश्च सुन्दरैः || ४-९४ || गन्धपुष्पादिभिः पूज्य धूपदीपादि दापयेत् | त्रिसन्धिंपूजयेत् पश्चात् तीर्थान्तं पायसं ददेत् || ४-९५ || ध्वजानां देवता वक्ष्ये भृंगीशो नन्दिकेश्वरः | महाकालस्तु चंडेशो वेदिकादिक्षु पूजयेत् || ४-९६ || दंडस्तु शर्व दैवत्यं यष्टिर्देवी सरस्वती | फलकं पञ्चदैवत्यं सुषिरं पार्वतीमयम् || ४-९७ || रज्जुस्तु तक्षकाधीशो पादंमारुत दैवतम् | वृषभस्त्वीशदैवत्यो शूलं ज्योत्स्नाथिदैवतम् || ४-९८ || परशुश्शिव दैवत्यो दीपञ्च शिवदेवतम् | चामरे चंद्रसूर्ये च घंटा वृषभदेवता || ४-९९ || भृंगीशप्रभृतीन् सर्वान् पूजयेत् स्वस्वनामतः | दिक्ष्वष्टासु च संस्थाप्य ध्वजान् संपूजयेत् सुधीः || ४-१०० || ध्वजारोहण काले तु पूजयेद्दक्षिणेश्वरम् | अर्चयेत्सर्वदेवांश्च गन्धपुष्पादिभिः क्रमात् || ४-१०१ || सायंकाले शुभे लग्ने भेरीताडनमारभेत् | मंटपस्याग्रतः कुर्यान् मंडलञ्चतुरश्रकम् || ४-१०२ || स्थण्डिलं पूर्ववत् कृत्वा चाष्टद्रोणैश्च शालिभिः | दलेष्वष्टसु संयोज्य नवशक्तिर्यथा क्रमम् || ४-१०३ || पाद्यमाचमनञ्चार्घ्यं स्वस्वनाम्ना समर्चयेत् | मूलमन्त्रं समुच्चार्य प्रणवेन च संयुतम् || ४-१०४ || ततः स्थण्डिलमध्ये तु भेरीं विन्यस पूजयेत् | प्. १२८) भेरिका स्कन्ददैवत्यं स्पर्शनं वायुदैवतम् || ४-१०५ ||
SKशब्दस्तु पार्वतीयुक्तं तत्र शंभुश्चदैवतः | चर्मसूत्रं वासुकीशोवलये चंद्रभास्करौ || ४-१०६ || मातरस्सप्तकीलास्तु प्रहरं श्कन्ददैवतम् | अर्चयित्वा सुगन्धाद्यैर्हृदयेन विचक्षणः || ४-१०७ || नन्दिमत्रं समुच्चार्य भेरिकान्ताडयद्गुरुः | तत्पुरुषेण मन्त्रेण वाद्यके नैव ताडयेत् || ४-१०८ || शिवतालं जातितालं कटतालं वितालकम् | शंखकाहल संयुक्तं गीतवाद्य नटान्वितम् || ४-१०९ || ग्रामसीम्नि बलिञ्चैव ब्रह्मादीशानमेव च | कीलं हरिद्रचूर्णञ्च लाजं सक्तुदधिप्लुतम् || ४-११० || एतैर्द्रव्यैर्बलिं कुर्याद्देवानां स्वस्वनामतः | शनैः प्रदक्षिणं कृत्वा पश्चादालयमाश्रयेत् || ४-१११ || आवाहनादितीर्थान्तं त्रिसंधिन्तत्र पूजयेत् | सर्वाभरण संयुक्तं पूजयेत् ध्वजदेवतम् || ४-११२ || उत्सवन्तीर्थमुद्दिश्य वङ्गप्रत्यङ्गसाङ्गकम् | सप्ताङ्गञ्च चतुस्साङ्गं सप्तप्रत्यङ्गकीर्तिता || ४-११३ || ध्वजदंडादिकं वृक्षं बलिसर्वं प्रतिष्ठितम् | ध्वजदण्डस्थापनञ्चोत्सवाङ्गं प्रकीर्तितम् || ४-११४ || यन्त्र डोलारथञ्चैव यन्त्ररङ्गान्तथैव च | यन्त्रदेवालयञ्चेव यन्त्रमंटपिकान् तथा || ४-११५ || यन्त्र वृक्षान्यत्र नटान्न्यन्त्रगोपुरकाणि च | अश्वयन्त्रं सिंहयन्त्रं गजयन्त्रन् तथैव च || ४-११६ || वृषयन्त्रं भूतयन्त्रं देवयन्त्रन् तथैव | प्. १२९) नाना पिंछविचित्रञ्च नानाव्यजनमेव च || ४-११७ || छत्राणि नानारूपाणि चामराणि च कारयेत् | देवालयमलङ्कुर्यादुपरिष्टा दधस्तथा || ४-११८ || यागशालापूजा || आलयस्ये शदिक्भागे प्रपाङ्कृत्वाऽतिसुन्दरम् | वितानमुक्तादामाद्यैर्यथा शोभं विभूषयेत् || ४-११९ || यागशालान्ततः कुर्यादैशान्ये पावकेऽथवा | मंटपङ्कारयेत् तत्र षोडश स्तंभ संधुतम् || ४-१२० || दशहस्तन्नवहस्तं सप्तहस्तमथापि वा | चतुर्द्वारसमायुक्तञ्चतुस्तोरण भूषितम् || ४-१२१ || दर्भमाला समायुक्तं वितानद्ध्वजशोभितम् | नवभागेक भागेन मध्ये वेदीं प्रकल्पयेत् || ४-१२२ ||
SKहस्तमात्रोच्छ्रितां सौम्यान्दर्पणोदरसन्निभाम् | वेदिमध्ये ततः कुर्यात् स्थण्डिलं शुलिभिश्शुभैः || ४-१२३ || षट्भिर्द्रोणैः पञ्चभिर्वा चतुर्द्रोणैर्यथा विधि | पुण्याहं वाचयित्वाथ ब्राह्मणैरपि घोषयेत् || ४-१२४ || उत्सवस्या दिरात्रौ तु दक्षिणे शमथार्चयेत् | महाहविर्निवेद्यञ्च विदद्ध्यात् प्रतिमार्चनम् || ४-१२५ || विदद्ध्यादुत्सवारंभे पूर्ववच्चाङ्कुरार्पणम् | वेदिमध्ये प्रतिष्ठाप्य पञ्चरत्न समन्वितम् || ४-१२६ || कुंभं लक्षणसंयुक्तं सकूर्चं वस्त्रवेष्टितम् | चन्दनोदक संयुक्तन्तन्मध्ये पद्मसंस्थितम् || ४-१२७ || चतुर्भुजन्त्रिनेत्रञ्च शूलपाणिं जटाधरम् | प्. १३०) अर्द्धचंद्रधरन्देवन्नागाभरण भूषितम् || ४-१२८ || हेमयज्ञापवीतञ्च नवरत्नाङ्गुलीयकम् | उत्सवेदीक्षितं शंभुन्देवं यागेश्वरं यजेत् || ४-१२९ || वर्द्धनीङ्कूर्चसंयुक्तां वामपार्श्वे प्रतिष्ठिताम् | चतुर्भुजान्त्रिनेत्राञ्च सर्वाभरणभूषिताम् || ४-१३० || अभयं ज्ञानमुद्राञ्च दधानं पद्ममङ्कुशम् | परितोऽष्टौ न्यसेत् तत्र विद्येश्वर समन्वितम् || ४-१३१ || पाद्यमाचमनञ्चार्घ्यं रत्नोदक मतः परम् | पुष्पोदञ्च तिलोदञ्च यवोदङ्गन्धवारि च || ४-१३२ || इंद्रादीशान पर्यन्तङ्कुंभानष्टौ प्रविन्यसेत् | सर्वलक्षण संयुक्तन्तेष्विंद्राद्याः प्रपूजयेत् || ४-१३३ || लोहेन दारुणा वापि दशायुधानि कल्पयेत् | सर्वाणि देवता रूपाण्यस्त्रोपेत शिरांसि च || ४-१३४ || अर्चयेत्तानि सर्वाणि कलशानां बहिः क्रमात् | पूर्वादिदिक्षु वज्रादीन्यायुधानि प्रदक्षिणम् || ४-१३५ || उत्तरे चक्र देवन्तु दक्षिणे पद्मदेवताम् | अष्टमङ्गलरूपाणि वेदिबाह्ये तु पूजयेत् || ४-१३६ || त्रिशूलं वायुदिक्भागे त्रिसंधिं पूजयेच्छुभम् | अग्निकार्यम् || शिवाग्निं जनयेत् पूर्वं पूर्ववत्पूजयेच्छुभम् || ४-१३७ || त्र्यक्षञ्चतुर्भुजन्देवञ्चन्द्रार्द्धकृत शेखरम् | यज्ञमूर्तिं हुताहव्यं सप्तजिह्वासु होमयेत् || ४-१३८ || हृन्मन्त्रेण समित्संघं घृतं पुरुषमन्त्रतः | अघोरेण चरुंल्लाजा न घोरात्रेण होमयेत् || ४-१३९ ||
SKसक्तु वामेन मन्त्रेण क्षीरं वै सद्यमन्त्रतः | प्. १३१) यवान् हृदय मन्त्रेण सिद्धार्थं सद्यमन्त्रतः || ४-१४० || शिवगायत्रिमन्त्रेण गुलं हुत्वा महेश्वर | तिलमीशान मन्त्रेण माषमुद्बणमन्त्रतः || ४-१४१ || द्रव्यान्ते व्याहृतिं हुत्वा रुद्राणान्नाम वक्ष्यते | धूमयानञ्च भूतञ्च वसुधा तरुणः कला || ४-१४२ || रक्षोनेत्रमविच्छेद सारञ्चैव तथादिकम् | ज्ञानपुष्पादि गीत्यादि शर्वरुद्राश्चतुर्दश || ४-१४३ || प्रत्येकमष्टधाऽते च द्वादशोत्तरकं शतम् | चतुर्दशाष्टरुद्रांश्च स्वनामाद्येन होमयेत् || ४-१४४ || रुद्रान्ते व्याहृतिं हुत्वा वर्णमन्त्रं समुच्चरन् | सर्वद्रव्याणिमिश्राणि चाग्निकार्योक्तमाचरेत् || ४-१४५ || सायं प्रातर्बलिन्दद्याद् धोमान्ते च महेश्वर | त्रिनेत्रञ्चतुर्भुजं शान्तं रक्तवर्णं स्मिताननम् || ४-१४६ || करोटिंबकपुष्पञ्च धुर्तूरञ्चार्कपुष्पकम् | बालचंद्र कलायुक्त सुविकीर्णजटाधरम् || ४-१४७ || सर्पक्रीडा समायुक्तमपस्कारोपरि स्थितम् | दक्षिणं कुंचितं पादं वामपादन्तथोद्धृतम् || ४-१४८ || सव्येतु पूर्वमभयमन्यं डमरुकं परम् | वामे तु पूर्व डोलान्तमपरञ्चाग्नि पात्रकम् || ४-१४९ || वामकर्णे तु पत्रञ्च दक्षिणेन कृकुण्डलम् | अभये फणिसंयुक्तं वामांसेऽभय पाणिनम् || ४-१५० || एवन्नटेश रूपञ्च ध्यात्वा मन्त्रेण पूजयेत् | एकाहस्य तु शैवस्य शुद्धमन्नन्ततः परम् || ४-१५१ || शुद्धान्नन्दधि सम्मिश्रं लड्डुका पूपसंयुतम् | फलञ्च गुलसम्मिश्रं गणानान्तुष्टिदं स्मृतम् || ४-१५२ || फलञ्च रजनीचूर्णं हरिद्रान्नं ससक्तुकम् | दधिमिश्रं सपुष्पाढ्यं भूतसं प्रीतिकारकम् || ४-१५३ || प्. १३२) बिल्वपत्रकुशाग्रैश्च शाल्यन्नेन विमिश्रितम् | कदलीफलसंयुक्तमृषीणां प्रीतिकारणम् || ४-१५४ || इंद्रवल्लीहरिद्रान्नं प्रियङ्गु घृतसंयुतम् | चतुर्थेऽहनि दातव्यं शक्रस्य बलिरूच्यते || ४-१५५ || पद्मपुष्पञ्च रजनीलाजयुक्तन्तु पायसम् | पञ्चमेऽहनिदातव्यं ब्रह्मप्रीतिकरं शुभम् || ४-१५६ ||
SKशुद्धादनं घृतोपेतं ब्रहती फलसंयुतम् | षष्ठेऽहनि प्रदातव्यं वैष्णवं बलिरुच्यते || ४-१५७ || साज्यन्तु कृसरान्नं वै नालिकेरफलैर्युतम् | नालिकेरजलैर्युक्तं रुद्रप्रीतिकरं शुभम् || ४-१५८ || क्षीरान्नन्दधिसंयुक्तं कदलीफलसंयुतम् | अष्टमेऽहनि दातव्यं शिवप्रीतिकरं शुभम् || ४-१५९ || पायसापूपसंयुक्तमाज्येन च परिप्लुतम् | नवमेऽहनि दातव्यं सादाख्यप्रीतिदं शुभम् || ४-१६० || गुलान्नं पायसान्नञ्च शुद्धान्नं घृतमिश्रितम् | दशमेऽहनि दातव्यमीशप्रीतिकरं शुभम् || ४-१६१ || शुद्धान्नङ्गुल सम्मिश्रं क्षीरेणैव तु पूरितम् | एकादशमेऽह्निदातव्यं गौरी प्रीतिकरं शुभम् || ४-१६२ || शाल्यन्नन्दधिसंयुक्तङ्गुल खण्डसमन्वितम् | द्वादशेऽहनि दातव्यं शिवप्रीतिकरं शुभम् || ४-१६३ || अथवा गुलदध्याज्यसम्मिश्रं शुद्धमोदनम् | सर्वेषामेव देवानां महाप्रीतिकरं शुभम् || ४-१६४ || पूजयित्वा विशेषेण तत्तन्मन्त्रेण दापयेत् | द्रोणं वापि तदर्धं वा तदर्धं वा तदर्धकम् || ४-१६५ || प्. १३३) कुक्कुटांड प्रमाणेन बलिन्दद्यात् पृथक् पृथक् | अलंकुर्याद्विशेषेण ग्रामन्नगरमेव वा || ४-१६६ || विथ्यलंकारम् || वीधीञ्चोद्धृत शष्पादीन्निम्नोन्नत विवर्जिताम् | कृतसम्मार्जनां शुद्धां सेवितां जलबिन्दुभिः || ४-१६७ || वर्णमन्त्रं समुच्चार्य प्रोक्षयेच्छुद्धवारिभिः | पताकाभिरनेका भिस्तथाऽकाशद्ध्वजैरपि || ४-१६८ || क्रमुकैः कदलीभिश्च प्रदीपैः पालिकागणैः | पूर्णकुंभैरनेकैश्च चितृवस्त्रादि भूषितैः || ४-१६९ || वस्त्रैस्सुगन्धमालाभिर्ग्रहान् सर्वान्विभूषयेत् | तत्ॐकुरार्पणं कुर्यादुत्सवार्थं यथा पुरा || ४-१७० || ताल काहल झल्लाद्यैर्दीपधूप समाकुलैः | ध्वजपिंछ समायुक्तेः स्त्रोत्रमङ्गल वाचकैः || ४-१७१ || स्वर्णरङ्गस्य मध्ये तु त्रिशूलं लिङ्गमेव च | दशायुधानि परितस्स्थापयेत् काञ्चनालये || ४-१७२ || यन्त्राभावे तथा सर्वे वृजेयुश्च धरातले | सर्वालंकार संयुक्तस्सोष्णीषस्सोत्तरीयकः || ४-१७३ ||
SKआचार्यश्शिष्य संयुक्तो ब्राह्मणैः परिवारितः | ब्रह्मादीशानपर्यन्तं बलिन्दद्या (द्यथाक्रमं) पृथक् पृथक् || ४-१७४ || शूलस्याग्रं कलारूपन्तन्मूलं रुद्ररूपकम् | सकलनिष्कलञ्चैव न्यासमाराधनं क्रमात् || ४-१७५ || बलिद्रव्यैश्च सहितं वज्रादिपद्मकान्तकम् | गन्धपुष्पैरथाभ्यर्च्य रुद्ररूपन्तु धारयेत् || ४-१७६ || प्. १३४) मस्तकाद्रढमध्ये तु स्थाप्य पुष्पोपशोभितम् | वृजेयुरुत्सव स्याग्रे नानालंकार संयुतम् || ४-१७७ || नानाप्रहरणो पेतास्सद्भक्ताश्चग्रतोऽगमन् | तदन्ते गजमारूढास्तदन्ते वाजिवाहनाः || ४-१७८ || यन्त्रारूढास्तदन्तेनुदिव्यस्त्री परिसेविताः | अश्वयन्त्रास्तदन्ते तु तदन्ते गजयन्त्रकाः || ४-१७९ || यन्त्र देवलयान् मध्ये नृत्तगेय समन्विताः | सुखासनस्तु प्रथमः द्वितीयो वृषवाहनः || ४-१८० || त्रितीयस्त्रिपुरघ्नश्च चतुर्थश्चंद्रशेखरः | पञ्चमस्त्वर्द्धनारीशो षष्ठो हरिहरस्तथा || ४-१८१ || सप्तमो भैक्षमूर्तिस्स्यादष्टमः कालनाशनः | नवमः कामदहनोऽपरः कल्याणसुन्दरः || ४-१८२ || एकादशस्तु लिङ्गस्थो द्वादशस्तु सदाशिवः | त्रयोदशस्तु नृत्तेशो सर्वालंकार संयुतः || ४-१८३ || रङ्गेवा शिबिकायां वा रङ्गेवा द्विरदेऽपिवा | तदग्रे स्यात् पाशुपताः तदग्रे तु महावृताः || ४-१८४ || महाशैवास्तदग्रे तु तदग्रे ब्राह्मणाः क्रमात् | तदग्रे भैरवास्सर्वे तदग्रे सिद्धसेवकाः || ४-१८५ || तदग्रे गायकास्सर्वे तदग्रे नर्तकाः स्त्रियः | ईश्वरश्शक्ति सहितस्तदन्ते च शनैर्व्रजेत् || ४-१८६ || योषिद्गणैः परिवृतो सर्वालंकार संयुतैः | नानापिंछद्ध्वजैश्चत्रैर्नानाचामर संयुतैः || ४-१८७ || नानाभूत समायुक्तैर्नानाकाहल धारकैः | त्रिशूलदीपिकाभिश्च यन्त्र दीपैर्विशेषतः || ४-१८८ || प्. १३५) हस्तदीपैर्यष्टिदीपैस्सर्वत्र परिशोभितैः | सर्वतः पृष्ठतो गच्छेच्चंडनाथो विभूषितः || ४-१८९ || तदन्ते घोषयेत् तत्र सर्ववाद्य समायुतः | पटहैर्मद्दलैस्तालैर्भेरीदुन्दुभि झल्लकैः || ४-१९० ||
SKपणवैर्झल्लरैश्चैव घोषयेत् तु विशेषतः | तदन्ते वैश्य शूद्राश्च गच्छेयुर्जय संयुताः || ४-१९१ || सर्ववर्णास्तदन्ते तु तदन्ते गजरूपकाः | वृद्धा बाला युवानश्च क्लीबा भोगभुजस्ततः || ४-१९२ || तदन्ते भक्तदासास्तु वृजेयु क्रमशश्शनैः | यो देवमनुगच्छन्ति तद्गतेनाऽन्तरात्मना || ४-१९३ || पदे पदेऽश्वमेधस्य प्राप्नुवन्ति फलन्नरः | सर्वपापैः प्रमुच्याथ शैवं पदमवाप्नुयात् || ४-१९४ || एवं प्रदक्षिणं कुर्याद् ग्रामं वा नगरन्तु वा | इंद्रादीशानपर्यन्त पीठं कल्प्य विशेषतः || ४-१९५ || धान्यशाला सरस्वत्याः क्षेत्रपालबलिं क्षिपेत् | मंटपे तु प्रजापत्यङ्गोपुरे नन्दिदैवतम् || ४-१९६ || प्राकारे वासुकिश्चैव वक्ष्यतेऽग्रादिदैवता | राजद्वारे च श्रीदेवी सभा स्थाने नटेश्वरी || ४-१९७ || आदित्यस्य महेंद्रस्य एते पूर्वाधि दैवताः | उद्याने तु मसादेवी गोष्ठे चैव तु गोमुखी || ४-१९८ || दुर्गास्थाने विशेषन्तु (अनाद्यस्काण्यदेचता) | रुद्ररूपां शिवस्थाने विष्णुस्थाने तु वैष्णवी || ४-१९९ || ब्रह्मस्थाने च वाग्दवीगुरुस्थाने मनोन्मनी | ललाटे चंद्रदेवस्तु कूपेचैव शिवस्तथा || ४-२०० || वल्मीके नागराजश्च पर्वते परमेश्वरी | यन्त्रस्थाने तु गन्धर्वान्नदीनां करुणालया || ४- २०१ || प्. १३६) गजस्थाने तु विघ्नेशोत्वश्वस्थाने तु चाश्विनी | गोस्थाने पार्वती चैव श्मशाने तु पिशाचिका || ४-२०२ || इत्येतेषान्तु देवानां स्वस्वनाम्ना ददेद् बलिम् | सर्वेषां द्रव्यसहितं स्वनाम्ना विनिवेदयेत् | आम्रञ्च नालिकेरञ्च कदलीफलमेव च || ४-२०४ || लाजापूपङ्गुलान्नञ्च तांबूलञ्च प्रदापयेत् | दारिद्र्यदुख्खशमनं सर्वकाम समृद्धिदम् || ४-२०५ || बलिमात्र प्रदानेन शिवलोके महीयते | शनैर्देवालयं गत्वा बलिपीठे बलिं क्षिपेत् || ४-२०६ || पादप्रक्षालनं कृत्वा प्रविशेदालयं प्रति | मंटपे तु स्थिते देवे सर्वदेव गणैस्सह || ४-२०७ || मृदङ्गादिमहाशब्दाः पूर्वस्यान्दिशि संस्थिताः | नर्तको मर्दकश्चैव दक्षिणे तु व्यवस्थितः || ४-२०८ ||
SKगायको वंशकश्चैव चोत्तरे च व्यवस्थितः | आचार्यः पूर्वदिक्भागे नृपश्चैव तु पश्चिमे || ४-२०९ || पार्श्वयोरुभयोश्चैव देवस्य गणिकास्स्थिताः | देवस्याग्रे विचशषेण नृत्तगेयं सतालकम् || ४-२१० || नीराजनं प्रकुर्वीत दिव्यस्त्रीभिश्च यारयेत् | भस्मपुष्पञ्च दीपञ्चाऽच्युतत्छत्र चामरौ || ४-२११ || दर्पणं हेमकुंभञ्च त्रिपाद्युपरिविन्यसेत् | पाद्यमाचमनञ्चार्घ्यं दद्यात् पुष्पन्तु मूर्धनि || ४-२१२ || अक्षतान् शिरसि न्यस्त्वा गन्धन्दद्याद्विशेषतः | आचामन्तु पुरादत्वा धूपदीपं प्रदापयेत् || ४-२१३ || दद्यात् प्रदीपवेष्टञ्च मस्तकोर्ध्वे प्रदक्षिणम् | तदन्ते दापयेत् भस्मदर्पणन्दर्शये ततः (त्तः) || ४-२१४ || प्. १३७) तदन्ते व्यजनन्दद्यात् तदन्ते च्छत्र चामरे | गणिकाभिर्धारयित्वा प्रदीपान्वाद्य संयुतम् || ४-२१५ || पीठाग्रे वा विनिक्षिप्य प्राकाराणां बहिःक्षिपेत् | क्रियां सर्वासु चैवन्तु एवमेवन्दिने दिने || ४-२१६ || अवभृतस्य पूर्वे तु मृगयात्रां समाचरेत् | युद्धारंभ प्रभावेण ग्रामङ्कुर्यात् प्रदक्षिणम् || ४-२१७ || बध्नीयात् कौतुकं धीमान्तस्यां रात्रौ विशेषतः | सौवर्णं राजतन्तामृमथ कार्पास तन्तुकम् || ४-२१८ || हृदयम्मन्त्रमुच्चार्य पुण्याहन्तत्र वाचयेत् | उत्सवस्यादिरात्रौ तु सर्वेषाङ्कौतुकन् ददेत् || ४-२१९ || उत्सवस्यादिरात्रौ तु पूजयेत् परमेश्वरम् | पञ्चवर्णहविः पश्चात् पञ्चवक्त्रेषु दापयेत् || ४-२२० || पूर्वे तु पायसान्नञ्च दक्षिणे तु घृतोदनम् | पश्चिमे तु गुलान्नञ्च हरिद्रान्नन्तथोत्तरे || ४-२२१ || शुद्धान्नमुर्ध्ववक्त्रे च नैवेद्यम्पञ्चवर्णकम् | त्रिसंध्यमर्चनङ्कुर्यात् परिवारसमन्वितम् || ४-२२२ || प्रतिमाङ्गोलकाञ्चैव त्रिशूलं यागदेवताम् | त्रिसंध्यमर्चयेद्धीमान्द्राजराष्ट्र समृद्धिदम् || ४-२२३ || पूजाहोमन्तदन्ते च बलिञ्चैव प्रदक्षिणम् | पूर्णोत्सव विधिं वक्ष्ये शृणुष्वेवम्महेश्वर || ४-२२४ || प्रासाद पश्चिमे भागे शालिभिश्चतुरश्रकम् | स्थण्डिलङ्कारयेत् तत्र पद्ममष्टदलान्वितम् || ४-२२५ ||
SKप्. १३८) लूखलम्मुसलञ्चैव क्षालयेदस्त्रं ततः | स्थण्डिलस्य तु मध्ये तु लूखलं प्रणवासने || ४-२२६ || विन्यस्य वस्त्रेणावेष्ट्य गन्धपुष्पादिनाऽर्चयेत् | अङ्कुरैश्शोभितङ्कुर्यादर्चयित्वा यथाक्रमम् || ४-२२७ || हरिद्रोशीरकुष्ठञ्च कर्पूरञ्च सपिंछलम् | लूखलस्य च मध्ये तु सर्वन्निक्षिप्य पूर्णितम् || ४-२२८ || सद्यमन्त्रं समुच्चार्यपूजयेच्च महेश्वरम् | आचार्यः प्रथमङ्कुर्याच्चूर्ण कर्म ततो नृपः || ४-२२९ || तदन्ते ब्राह्मणाश्शिष्टास्तदन्ते भक्तिमज्जनाः | रुद्रदास्यश्च गणिकाः नववस्त्राद्यलङ्कृताः || ४-२३० || अङ्कुरैश्शोभितङ्कृत्वा चार्चयित्वा यथाक्रमम् | सनृत्तगेय वाद्यञ्च चूर्णकर्ममुहुर्मुहुः || ४-२३१ || लिङ्गदर्पण शुलेषु प्रतिमा परिवारके | तैलेन लेपनङ्कृत्वा दक्षिणेश्वरमर्चयेत् || ४-२३२ || आचार्यो नृपतेश्चूर्णम्भक्तानाञ्च प्रदापयेत् | ततस्तु सर्वजातिभ्यश्चूर्णन्तैलेन दापयेत् || ४-२३३ || शंखकाहल नादैश्च भेर्यादिद्ध्वनि संयुतैः | ब्राह्मणान् घोषयित्वा च स्वस्तिमङ्गल वाचकैः || ४-२३४ || ग्रामं वा नगरं वापिशीघ्रङ्गत्वा प्रदक्षिणम् | सिंधुन्नदीन्तटाकं वा पश्चाच्छूलं प्रवेशयेत् || ४-२३५ || स्थण्डिलन्तत्र संकल्प्य वसुपत्रांबुजान्वितम् | त्रिशूलन्तत्र संस्थाप्य तदग्रे कलशान्न्यसेत् || ४-२३६ || शूलादुत्तरतस्स्थाप्य यागदेवं महेश्वर | गन्धपुष्पादिभिः पूज्यतांबूलन्तु निवेदयेत् || ४-२३७ || प्. १३९) प्रतिमाभिमुखं कुर्यात् स्थण्डिलं वालुकामयम् | नवपात्राणि संस्थाप्य सुदृढानि शुभानि च || ४-२३८ || स्थण्डिलस्योत्तरे देशे पात्राणां शुद्धिदं पुनः | पुण्याहं वाचयेत् तत्र ब्राह्मणैः प्रोक्षयेत् ततः ||| २३९ || वज्रम्मरकतञ्चैव पद्मरागञ्च नीलकम् | मौक्तिकञ्चैव तन्मध्ये पञ्चरत्नानि विन्यसेत् || ४-२४० || पाद्यन्तु पूर्वदिक्भागे दक्षेत्वा चमनीयकम् | अर्घ्यन्तु पश्चिमे पश्चादुत्तरेणाऽक्षतन्न्यसेत् || ४-२४१ || आग्नेय्यान्तीर्थपात्रन्तु नै-ऋत्याङ्गन्धतोयकम् | वायव्यां लेपनद्रव्यमैशान्यं पुष्पवारि च || ४-२४२ ||
SKगङ्गाञ्च यमुनाञ्चैव नर्मदाञ्च सरस्वतीम् | सिन्धुङ्गोदावरीञ्चैव कावेरीन्तीर्थसप्तकम् || ४-२४३ || बिन्दुमध्यात् समाकृष्य स्थापयेद् गन्धवारिषु | अनन्तादि शिखण्ड्यन्तान् कलशेष्वर्चयेत् क्रमात् || ४-२४४ || कूर्चन्तु निक्षिपेत्नत्र अङ्गप्रत्यङ्गमेव च | समावेष्ट्य च वस्त्रेण तुलसीन्तत्र निक्षिपेत् || ४-२४५ || गन्धपुष्पादिभिर्धूपैरर्चयित्वा यथा क्रमम् | स्नपनान्तैः प्रकुर्वित पाद्यं सद्येन दापयेत् || ४-२४६ || आचामं पुरुषेणैव चार्घ्यमीशानमन्त्रतः | ब्रह्मभिः पञ्चभिः पश्चात् पञ्चगव्यं प्रदापयेत् || ४-२४७ || घृतमीक्षे घृतस्नानं दधिक्राविण्णोदथिस्तथा | क्षीरमाप्यायमन्त्रेण मधु वा ता मधूनि च || ४-२४८ || इत्थं तत्र तदीमध्ये प्रतिमा स्नानमाचरेत् | शूलस्नानन्ततः कुर्यात् (र्कर्यात्) कौतुकन्तीर्थकद्वयम् || ४-२४९ || महातीर्थं महावश्यं पालनं शत्रुनाशनम् | सर्वरोगहरं पूतं श्रीकरं सर्वसिद्धिदम् || ४-२५० || प्. १४०) देवालयं समागत्य पुण्याहन्तत्र कारयेत् | लिङ्गञ्च प्रतिमां शूलं सकलाराधनं क्रमात् || ४-२५१ || पूर्वं विद्याङ्गसंयुक्तं पुष्पयागन्नवाहके | मौनयागन्ततः कुर्याद्देवयागमनन्तरम् || ४-२५२ || मृगयागन्ततः कुर्याद्गन्धयागमनन्तरम् | पूर्वोक्तयागमेवन्तु चरेत्सर्वफलं भवेत् || ४-२५३ || चण्डेश्वरस्य यागञ्च यथोक्तं कारयेच्छुभम् | यागशुलास्थितान् कुंभान् मूललिङ्गेऽभिषेचयेत् || ४-२५४ || चण्डप्रचण्डविक्रान्त चाण्डेशानस्तु देवताः | सर्वशत्रु हरं शुद्धं पूजयेच्चण्डदेवताम् || ४-२५५ || ध्वजावसानं कृत्वा तु ध्वजस्थानन्तु वर्जयेत् | ब्रह्मादीशान पर्यन्तं बलिदानञ्च कारयेत् || ४-२५६ || पीठोद्वासनकं कुर्यादस्त्र मन्त्रेण शक्तिकम् | बलिपीठे तु विन्यस्य पूजयेत्तु विशेषतः || ४-२५७ || पाद प्रक्षालनं कृत्वा पश्चादाचार्यमर्चयेत् | हारकेयूरमकुट हेमयज्ञोपवीतकैः || ४-२५८ || गन्धैः पुष्पैश्च धूपाद्यैर्यजमानोऽर्चयेद्गुरुम् | आचार्यस्योत्सवान्ते च कुर्यद् भक्तोत्सवं शुभम् || ४-२५९ ||
SKभक्तानां प्रतिमानाञ्च बाध्नीयात् कौतुकं क्रमात् | पूर्ववन्नृत्तगानाद्यैरलं कारैस्समावृतम् || ४-२६० || अग्रतः पृष्ठतश्चैव वेदद्ध्वनि समायुतम् | ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयन्ततः || ४-२६१ || पश्चाद्भागे स्थितां देव गृहे भक्ताननुक्रमात् | वस्त्राभरणमालाद्यैरर्चयेत् पूर्ववद्गुरुम् || ४-२६२ || प्. १४१) प्रदक्षिणत्रयं कृत्वा संधिदेवान्विसर्जयेत् | एवं परमया भक्त्यायः प्रकुर्याच्छिवोत्सवम् || ४-२६३ || कुलेकविंशसंयुक्तश्शिवलोके समोदते | तस्मात् सर्वप्रयत्नेन शिवस्येवं महोत्सवम् || ४-२६४ || राजराष्ट्राभिवृध्यार्थं कारयेद् विधिपूर्वकम् | शिवोत्सवविधिः प्रोक्तः प्रायश्चित्तविधिं शृणु || ४-२६५ || इति मकुटतन्त्रे त्रिसहस्रसंहितायां क्रियापादे शिवोत्सवविधि पटलश्चतुर्थः || ४ || अथ प्रायश्चित्तविधि पटलः प्रायोविनाश इत्युक्तश्चित्तं संधानमुच्यते | विनाशस्य तु संधानं प्रायश्चित्तमितिस्मृतम् || ५-१ || कर्षणाद्यर्चनान्तन्तु प्रायश्चित्तं वदाम्यहम् | पूजाकालपरिभृंशेतत् संध्याद्विगुणा भवेत् || ५-२ || एक संध्यर्चनाहीने हृन्मत्रेण शताहुतिः | निवेद्यं पायसान्नन्तु पुनः कुर्याच्छिवार्चनम् || ५-३ || एका हेत्वर्चनाहीने स्नपनन्नवकुंभकैः | द्व्यहे त्र्यहेऽर्चनाहीने पञ्चविंशति कुंभकैः || ५-४ || निवेद्यञ्च गुलान्नं तु पूर्ववत् पूजयेच्छुभम् | विशेषादर्चनं कृत्वा शिवमन्त्रशताहुतिः || ५-५ || चतुर्थाहे पञ्चमाहे पूजाहानि समन्विते | पञ्चाशदेकहिनाख्य कलश स्नपनं क्रमात् || ५-६ || प्. १४२) षट्दिनादि दशाहान्तं कृत्वेकाशीति कुंभकम् | एकादशादि पक्षान्तं पूजाहीनन्तु संभवेत् || ५-७ || कृत्वा तत्र शिवाग्निन्नु स्नपनञ्च शताष्टकैः | पूर्ववत्पूजनं कृत्वा नैवेद्यं द्विगुणं भवेत् || ५-८ || शिखामन्त्रशतं हुत्वा पायसान्नन्निवेदयेत् | पूजाहानौ तु मासान्तं कलाशानां शतत्रयम् || ५-९ || हृन्मन्त्रेण शतं हुत्वा क्षीरान्नञ्च निवेदयेत् | द्विमासमर्चनाहीने सहस्र कलशैः क्रमात् || ५-१० ||
SKषण्मासमर्चनाहीने तत्र संप्रोक्षणञ्चरेत् | बलिहानौ तु संध्यायामन्यत्र द्विगुणञ्चरेत् || ५-११ || द्विसन्धौ बलिहानौ तु द्विगुणञ्चान्य संधिके | त्रिसंधि बलिहानौ तु तत्र स्नपनमाचरेत् || ५-१२ || द्व्यहादारभ्यमासान्त बलिविच्छेदनं यदि | शिवाग्निं पूर्ववत् कृत्वा स्नपनञ्च शताष्टकैः || ५-१३ || मासोर्द्ध्वबलिहानौ तु शिवाग्निं पूजयेत् क्रमात् | सहस्राज्याहुतिं हुत्वा शिवमन्त्रेण देशिकः || ५-१४ || अष्टोत्तरशतैश्चैव कलशैस्स्नपनञ्चरेत् | भारद्वयन्तु नैवेद्य मेकाहोत्सवमाचरेत् || ५-१५ || स्त्रीशूद्र स्पर्शने चैव चण्डाल स्पर्शनेपि वा | स्नपनं पञ्चविंशद्भिश्शिवमन्त्रशतं हुनेत् || ५-१६ || पुण्याहं वाचयेत् तत्र भक्त्या चैव प्रपूजयेत् | बलिभ्रमणकाले च प्रतिमालिङ्गमेव च || ५-१७ || स्फुटितञ्चलितं भिन्नम्भग्नं च्छिन्नं भवेद्यदि | तत्रैव कल्पयेद्धोममथवाऽलयमध्यमे || ५-१८ || पूर्ववद्बलिलिङ्गन्तु कृत्वा तत्र प्रदक्षिणम् | अथवा पूर्ववत् कृत्वा शिवमन्त्रशतं हुनेत् || ५-१९ || प्. १४३) अष्टोत्तरशतं पश्चान्मूलमन्त्रं जपेद्गुरुः | अगम्यगमनं कृत्वा शिवमन्त्रशतं हुनेत् || ५-२० || पुण्याहं वाचयेत् तत्र मूलेनैव शतं हुनेत् | अष्टोत्तरशतं पश्चान्मूलमन्त्रं जपेद्गुरुः || ५-२१ || तत्काले (तत्ताले) दीपहीने तु हित्वा बलिन्ततः कुरु | पुनर्दीपं समादाय कृत्वा शेषप्रदक्षिणम् || ५-२२ || नैवेद्य च विहीने तु द्विगुणञ्च * * * *| नित्याग्नि कार्यहीने तु हृन्मन्त्रेण शताहुतिः | उत्सवस्य विशेषेण प्रायश्चित्तविधिं शृणु || ५-२४ || उत्सवप्रायश्चित्तविधिः प्रागेवनिश्चित द्रव्यं यत्काले तु विहीनके | ततस्तत् त्रिगुणीकृत्य शिवायविनिवेदयेत् || ५-२५ || अदृष्टन्तथार्द्धोष्टा नखरोमादि दर्शने | तद्राष्ट्रे दृषणोत्पत्तिस्तद्द्रव्यन्तु व्यपोह्य च || ५-२६ || पञ्चगव्येन संप्रोक्ष्य पञ्चब्रह्ममनुस्मरन् | शान्तिहोमन्ततः कृत्वा जपेत्पाशुपतादिकम् || ५-२७ ||
SKव्यति क्रमेण मन्त्राणान्तत्सर्वस्य प्रभावतः | तत्तन्मन्त्रमनुस्मृत्य हुत्वा जप्त्वा शतं शतम् || ५-२८ || नैवेद्य स्थापने काले लघनेपि नरैस्तथा | दुर्भिक्षं जायते भूमौ शेषन्निर्माल्यमुच्यते || ५-२९ || तद्द्रव्यं वर्जयित्वा तु पश्चात् पक्वन्निवेदयेत् | लिङ्गप्रतिमयोमूर्ध्नि * * * * * संभवेत् || ५-३० || मायते तु * * * * * * * * * * * * | प्. १४४) तत्तदर्चा क्रमेणैव पुष्पं शिरसि वर्जयेत् || ५-३१ || स्नपनाङ्गविहीने तु महामारी प्रवर्तते | अस्त्रेणैव शतं जप्त्वा पश्चात् पूतञ्च सङ्ग्रहेत् || ५-३२ || स्थापितैः कलशैर्भिन्ने स्फुटिते पतिते तथा | नवमन्यं परिग्राह्य स्थापयेत् पूरयेत् सुधीः || ५-३३ || उत्सवप्रायश्चित्तविधि उत्सवस्य विशेषेण प्रायश्चित्तविधिं शृणु | वृषयाग विहीने तु ध्वजारोहण हीनके || ५-३४ || ध्वजयष्टि विहीने च दण्डवेदि विहीनके | ध्वजघंटाविहीने तु परितोङ्गविहीनके || ५-३५ || दर्भमाला विहीने तु * * * * * * * * | अंकुरार्पण हीने चास्त्रयागविहीनके | मन्त्रहीने क्रियाहीने दर्भापरिधि हीनके || ५-३७ || कलशस्थापने हीने कुंभहीने च निर्जले | रत्नहेम विहीने तु कूर्चसूत्र विहीनके || ५-३८ || विष्टरपरिधिहीने वस्त्रहीने तथैव च | नैवेद्यादि * * * * * * * * * * * * * || ५-३९ || पूर्वपर्युषित द्रव्यैस्संकरे लिङ्गबिंबयोः || ५-४० || प्रतिमा यानकाले च पतिने चाङ्गहीनके | उत्सवे चैव तद्ग्रामे मृते च वास्तुमध्यमे || ५-४१ || परिवेषे रजन्याञ्चामग्निदग्धे भयंकरे | प्. १४५) रक्षासूत्रविहीने च * * * * * * * * * || ५-४२ || मन्त्राणां संकरे चैव हीनेत्वचार्य दक्षिणा || ५-४३ || एवमादि समुत्पन्ने ग्रामादिनान्तु दोषकृत् | वृषयागविहीने तु गावोनश्यत्य? संशयः || ५-४४ || वृषभस्नपनं कृत्वा गन्धपुष्पेन योजयेत् | निवेदयेत् तु मुद्गान्नं * * * * * * * * || ५-४५ || शान्तिहोमन् ततः कृत्वा विधिना रोपयेत् ततः || ५-४६ ||
SKध्वजवेदि विहीने तु मन्त्रिणान्तु भयंकरम् | शान्तिहोमन्ततः कृत्वा पुनस्संधानमाचरेत् || ५-४७ || रज्जुहीने ध्वजेच्छिन्नेनष्टे च पतिनोतऽथवा | ध्वजयष्टिविहीने च * * * * * * * * || ५-४८ || शान्ति होमन्ततः कृत्वा भक्ताञ्चैव प्रपूजयेत् || ५-४९ || घंटाहीने तु पतिते बालानाञ्च क्षयं भवेत् | पुण्याहं वाचयेत् तत्र मूलन्त्रशतं जपेत् || ५-५० || घंटामस्त्रेण संप्रोक्ष्य पुनसन्धानमाचरेत् | भेरी ताडनहीने च परचक्राद्भयं भवेत् || ५-५१ || स्नपनं कारयेच्छंभोर्भेरीमपि च ताडयेत् | घोषकाले च पटहेछिन्ने वा पतितेऽपिवा || ५-५२ || चर्मणो भेदने चैव सस्यनाशं विनिर्दिशेत् | वर्णमन्त्रमनुस्मृत्य हुत्वा तच्चरतं जपेत् || ५-५३ || पश्चादन्यं परिग्राह्य विधिना ताडयेच्छुभम् | प्. १४६) यागशाला विहीने तु कुंडवेदि विहीनके || ५-५४ || एतैर्विलक्षणैर्युक्तन् तद्ग्रामस्य क्षयं भवेत् | प्रमाणहीनं यः कुर्यान् तत् प्रामाण्य प्रवेशके || ५-५५ || शान्तिहोमन्ततः कृत्वा तत् तत् कर्म समाचरेत् | वेद्यां स्थण्डिलहीने तु सस्यनाशं न संशयः || ५-५६ || पञ्चगव्येन संशोद्ध्य मूलमन्त्रशतं भवेत् | विधिना स्थण्डिलं कृत्वा तत्रैव स्थापयेत् क्रमात् || ५-५७ || मध्ये तु यागशालायास्स्थापयेन्नघटान्यदि | परचक्राद्भयं राज्ये राजादुर्जयमाप्नुयात् || ५-५८ || पूर्वा?द्यागशालायां यथाविधि घटान्तरैः | तद्दिनन्तु समारभ्य पुनरुत्सवमाचरेत् || ५-५९ || प्रमादादग्निदग्धे च पूर्ववत् कल्पयेत् क्रमात् | पुण्याहं वचयित्वा च हृन्मन्त्रञ्च शतं जपेत् || ५-६० || सृक्सृवस्य विहीने तु जनानां ज्वरमारणम् | प्रवर्तते महाव्याधिनिर्तन्तद्ग्रामनिवासिनाम् || ५-६१ || त्रयंबकेन मन्त्रेण शतमष्टोत्तरं हुनेत् | दर्भमाला विहीने चाऽनावृष्टिं प्रवर्तते || ५-६२ || मूलमन्त्रशतं जप्त्वा दर्भमालाञ्च योजयेत् | होमद्रव्य विहीने चात्वना वृष्टिर्न संशयः (संबयः) || ५-६३ ||
SKअस्त्रेणैव शतं हुत्वा महाव्याहृतिमेव च | तत्रैव होमये द्विद्वान् पूर्वोत्तविधिना सह || ५-६४ || आयुधानां विहीने च तस्करेभ्यो भयं भवेत् | त्र्यक्षरेण तु मन्त्रेण होमयेच्छतसंख्यया || ५-६५ || कृत्वा सलक्षणञ्चैव प्रोक्षयेत् तु शिवांभसा | प्. १४७) अष्टमङ्गलहीने तु जनानाञ्चैव नाशनम् || ५-६६ || ईशनादि क्रमेणैव स्थापयेत् तानि पूर्ववत् | अंकुरार्पण हीने च पालिकाभिर्विवर्जिते || ५-६७ || महाव्याधि समुद्भूत्या सस्यानाशन्न संशयः | सहस्रं मूलमन्त्रेण हुत्वा भक्तांस्तु पूजयेत् || ५-६८ || ततोङ्कुरार्पणं कुर्यात्पालिकासु सा लक्षणम् | अस्त्रयागविहीने च सूत्र वे?ष्टन वर्जिते || ५-६९ || पिधानकूर्चहीने च वस्त्रहीने तथैव च | नैवेद्यादि विहीने च दुर्भक्षं जयते धृवम् || ५-७० || मूर्तिहोमन्ततः कृत्वा मूलमन्त्रशतं हुनेत् | यागाधिवासनन् तत्र कुर्यात् पूर्वोक्तमार्गतः || ५-७१ || कुंभस्थापन हीने च दार्भिक्ष जायते धृवम् | मूर्तिहोमन्ततः कृत्वा मूलमन्त्रशतं हुनेत् || ५-७२ || रत्नहेम विहीने च सूत्रवेष्टन वर्जिते | पिधान कूर्चहीने च वस्त्रहीने तथैव च || ५-७३ || नैवेद्यादि विहीने च दुर्भिक्षं जायते धृवम् | मूर्तिहोमन्ततः कृत्वा मूलमन्त्रशतं हुनेत् || ५-७४ || यागे प्रदीपहीने च प्रमादे च विशेषतः | सस्यानान्नाशनञ्चैव उन्मादो जायते धृवम् || ५-७५ || घोरमन्त्रं शतं जप्त्वादीपमारोपयेत् पुनः | दुर्भिक्षं जायते कुण्डे वह्निविछेदनेऽपि च || ५-७६ || उद्वास्य भस्मान्यङ्गारानग्निमाधाय पूर्ववत् | समिद्भिश्चरुलाजाभ्यां जुहुयान्मूलमन्त्रतः || ५-७७ || प्रत्येकञ्च शतं हुत्वा द्रव्यान्ते व्याहृतिं हुनेत् | प्. १४८) प्रणीता चलिते हीने ज्वरव्याधिस्तु जायते || ५-७८ || जुहुयादस्त्रमन्त्रेण शतं वाथ तदर्थकम् | मन्त्रहीने क्रियाहीने मनोन्मादस्तु जायते || ५-७९ || मूलमन्त्रशतं हुत्वा पुनस्सन्धानमाचरेत् | उक्तद्रव्यैश्च मन्त्रैश्च विधिना होमाचरेत् || ५-८० ||
SKदर्भापरिधिहीने च जायते दुख्खसंभवः | ईशमन्त्रशतं हुत्वा पुनस्संधानमाचरेत् || ५-८१ || बलिद्रव्यविहीने च पतिते च विशेषतः | सस्यानाञ्च गताञ्चैव प्रणाशं जायते धृवम् || ५-८२ || तद्द्रव्यं वर्जयित्वा च नवद्रव्यं परिगृहेत् | बलिलिङ्गविहीने च विभिन्ने पतितेऽपि च || ५-८३ || भग्ने चैव तदा कर्तुर्विनाशो भवति धृवम् | विधाय शान्ति होमन्तु मूलेनैव शतं हुनेत् || ५-८४ || विधाय बलिलिङ्गन्तु बलिं पश्चात् समाचरेत् | शूलास्त्रे पतिते चैव छिन्ने नष्टे तथैव च || ५-८५ || तद्ग्रामस्य च राष्ट्रस्य शत्रुभिः पीडनं भवेत् | कृत्वाऽभिषेकं पतिते शान्तिहोमन्तु कारयेत् || ५-८६ || अस्त्रमन्त्रेण जुहुयाज्जपेत्तु शिवमन्त्रकम् | शेषस्थान बलिन्दत्वा प्रविशेद्यागमंटपम् || ५-८७ || शूलस्य दंडे विच्छिन्ने क्षिपेत् तु सलिलाकरे | अन्य दंडं परिग्राह्य यागशेषं समापयेत् || ५-८८ || शूलास्त्रन्तु पुनर्ग्राह्य स्थापयेद् विधिपूर्वकम् | इतराङ्गविभेदे च पुनस्सन्धानमाचरेत् || ५-८९ || जलाधिवासनञ्चैव प्रतिष्ठाकाल भेदनम् | प्. १४९) आयुधानां विभेदे च प्रणाशे पतनेऽपि च || ५-९० || प्रवर्तते महामारी गवान्नाशन्न संशयः | उद्बुध्येन तु मन्त्रेण जपन्नष्टशतं हुनेत् || ५-९१ || नष्टं भिन्नञ्च कर्तव्यन्तत पूर्वं लक्षणान्वितम् | बलिपात्रविहीने च धनधान्यं विनश्यति || ५-९२ || घोरमन्त्रशतं हुत्वा नवपात्रं परिगृहेत् | बलि तालविहीने च सर्वथाप्य (सर्वधाप्य) प्रियं भवेत् || ५-९३ || मूर्तिमन्त्रञ्च मूलञ्च होमयेत् तु शतं शतम् | बलिदीप विहीने तु लक्षीनाशोभवे धृवम् || ५-९४ || पञ्चब्रह्मषडङ्गानि प्रत्येकन्तु शतं शतम् | द्विगुणन् दीपमारोप्य बलिशेषं समाचरेत् || ५-९५ || कालाऽतिक्रमणे प्राप्ते बलिदाने च यानके | तद्ग्रामस्य क्षयं प्रोक्तं वर्णमन्त्रशतं जपेत् || ५-९६ || पुण्याहं वाचयित्वा च बलिदानञ्च पूर्ववत् | उत्सवे यानहीने च राजामरणमाप्नुयात् || ५-९७ ||
SKवर्णमन्त्रं शतं कृत्वा कौतुक स्थापनं शुभम् | पुनः प्रक्रमणे नैव कुर्याद्ग्राम प्रदक्षिणम् || ५-९८ || तत्काले कलहो यत्र तस्करैश्च भयं यदि | मूलबीजं शतं हुत्वा प्रविशेदालयं परम् || ५-९९ || पूजापर्युक्षित द्रव्यैस्संकरे लिङ्गबिंबयोः | परचक्राद्भयञ्चैव राज्ञोव्याधिः प्रवर्तते || ५-१०० || आघोरास्त्रशतं हुत्वा स्नपनं पञ्चविंशतिः | पुण्याहं वाचयित्वा तु जपेत् पाशुपतं शुभम् || ५-१०१ || प्रतिमायान काले च पतिते चाङ्गहीनके | वास्तु राजाधि देवानान्नाशनं संभवेत् क्षणात् || ५-१०२ || स्नपनन्तत्र कुर्वीत पुण्याहं वाचयेत् ततः | प्. १५०) शान्तिहोमं ततः कृत्वा पुनर्यानं समाचरेत् || ५-१०३ || शिरोबाहू च पादौ च चिन्नानि यदितन्त्यजेत् | नखानामङ्गुलीनाञ्च भूषणानि च भेदिते || ५-१०४ || पद्मबन्ध विभेदे च जटाभङ्गे महेश्वर | पुनस्संधानकं कृत्वा तत्र संप्रोक्षणं कुरु || ५-१०५ || दीक्षान्तरैस्तथा शूद्रैर्गुरु वाक्यादि लंघने | तद् ग्रामवासिनाञ्चैव स्थानभृंशन्न संशयः || ५-१०६ || पञ्चगव्येन संप्रोक्ष्य पुण्याहं वाचयेत् ततः | (शान्ति होमं ततः कृत्वा) स्नपनं कारयेद् बिंबे शिवमन्त्रशतं हुनेत् || ५-१०७ || उत्सवस्यान्तरे ग्रामेमृतोमर्त्यो भवेद्यदि | राष्ट्रस्य दूषणोत् पत्तिश्शीघ्रं सन्त्यज्य तच्छवम् || ५-१०८ || वर्णमन्त्रन् तथाऽस्त्रञ्च होमयेत् तु शतं शतम् | परिवेष क्रमे हीने लोकस्याज्ञानमादिशेत् || ५-१०९ || शिवमन्त्रशतं हुत्वा व्योमव्यापिशतं जपेत् | नीराजन विहीने तु पावकेन भयं भवेत् || ५-११० || मूलप्रकृति बीजन्तु शतं जप्त्वा विशेषतः | निराजनन्ततः कुर्यात् पूर्वोक्त विधिनाबुधः || ५-१११ || प्रासादे वह्निदग्धे च क्षुद्भयं ग्रामवासिनाम् | सद्यमन्त्रशतं हुत्वा बिंलन्तं स्नापयेच्छुभम् || ५-११२ || युद्धारं भविहीने तु सस्यनाशो न संशयः | ऊर्द्ध्ववक्त्रशतं हुत्वा युद्धारंभं समाचरेत् || ५-११३ ||
SKशक्षासूत्रविहीने च सर्वस्त्रीणां विनाशनम् | मूलप्रकृति बीजेन शतमष्टोत्तरं हुनेत् || ५-११४ || चूर्णोत्सव विहीने तु देवताः कोपमाप्नुयुः | प्. १५१) मूलमन्त्रं शतं जप्त्वा कुर्याच्चूर्णोत्सवन् ततः || ५-११५ || स्नपनं कारयेत् पश्चात् प्रकुर्यादभिषेचनम् | ध्वजावरोहणे हीने तन्महापातकोपमम् || ५-११६ || प्रणवन्तु शतं जप्त्वा पश्चात् तमवरोहयेत् | शुद्धस्नान विहीने तु अनावृष्टिर्न संशयः || ५-११७ || दिनाधिक्ये महद्दुख्खं कर्ताभर्ता विनश्यति | पुरुषन्तु शतं जप्त्वा स्नपनन्तत्र कारयेत् || ५-११८ || वर्णमन्त्रशतं हुत्वा स्नपनं कारयेत् ततः | अपरे दिवसे चैव पूर्ववत् तीर्थमाचरेत् || ५-१२० || न्यूनञ्चैव तथा राष्ट्र ग्रामाणान्नाशनं भवेत् | दिशाहोमन्ततः कृत्वा शान्तिहोमं समाचरेत् || ५-१२१ || पूर्वोक्त * * * * * * * * * * * * * | बन्ध्युद्वासनहीने तु त्वप्रीतास्सर्वदेवताः || ५-१२२ || मूलमन्त्रशतं हुत्वा पश्चादुद्वासनञ्चरेत् | चंडयाग विहीने च परचक्राद् भयं भवेत् || ५-१२३ || स्नपनं कारयेच्छंभोश्चंडयागं समाचरेत् | तन्त्र सांकर्यदोषेणमारी व्याधिस्तु जायते || ५-१२४ || समिद्द * * * * * * * * * * * * * | वर्णमन्त्रं शतं हुत्वा तत् संख्या जपमाचरेत् || ५-१२५ || सर्वशान्ति करञ्चैव दक्षिणेश्वरमर्चयेत् | अतत्वे प्रतिपत्तिस्तु प्रायश्चित्तविधिं शृणु || ५-१२६ || स्वजात्यदीक्षितं स्पृष्ट्वा भस्मस्नानं समाचरेत् | अवान्तरेषु जातिषु स्पर्शने स्नान अद्वयम् || ५-१२७ || चण्डाल स * * * * * * * * * * * * | स्नानद्वयन्तथा प्रोक्तं मूलमन्त्रशतं जपेत् | प्. १५२) दुर्गन्धं वायुनागच्छेन्नासाग्रेऽपि विवर्तयेत् || ५-१२९ || गोमयन्तु तथा स्पृष्ट्वा शीघ्रं पञ्चाक्षरं जपेत् | स्वजात्यदीक्षीतान्नञ्च भुक्त्वा कामेन वै बुधः || ५-१३० || व्योमव्यापिं जपे * * * * * * * * जपेत् | नृपान्न भोजने विद्वान्सिवमन्त्रशतं जपेत् || ५-१३१ || भुक्त्वा वैश्यान्नवेन्तु सहस्रञ्च जपेत् क्रमात् | भुक्त्वा कामात् तु शूद्रान्नङ्क्रच्छ्रञ्चान्द्रयणञ्चरेत् || ५-१३२ ||
SKमासन्निरन्तरं भुङ्ते ततश्शूद्रोऽपजायते | शूद्रेणैव तु संयुक्तो नित्यं शुद्रवदाचरेत् || ५-१३३ || शूद्रस्त्रीसङ्गमे जाते त्वघोरास्त्रशतं हुनेत् | रजस्वलाङ्गना स्पर्शे स्नात्वा हुत्वा शतं जपेत् || ५-१३४ || वर्णमन्त्रंशतं जप्त्वा पूजयेद् दक्षिणेश्वरम् | अदीपभोजने काले शिवमन्त्रशतं जपेत् || ५-१३५ || भुक्त्वा तु दर्शने काले शक्त्या हृन्मन्त्रमुच्चरेत् | संस्मृत्वा देवदेवेशं भसस्नाना द्विशुद्ध्यति || ५-१३६ || लशुतं मत्स्य?मांसञ्च चान्योच्छिष्टं विवर्जयेत् | प्रमादाद्भक्षयित्वा तु वर्णमन्त्रशतं जपेत् || ५-१३७ || जेष्ठाचर्यस्य योछिष्ट भोजनं सर्वसिद्धिदम् | प्रत्यक्ष लवणं मध्ये जलपाने वशन्तके || ५-१३८ || जपित्वा हृदयं मन्त्रं सर्वदोषं विनश्यति | उच्छब्दं भोजने त्यक्त्वा हृन्मन्त्रञ्च समुच्चरन् || ५-१३९ || अदीक्षितानां भक्तिञ्च श्रुत्वा हृन्मन्त्रमुच्चरेत् | पातकप्रायश्शित्तविधिः पातकादि महापाप प्रायश्शित्तविधिं शृणु || ५-१४० || ब्रह्महत्तिस्सुरापानं सुवर्णस्तेयमेव च | प्. १५३) लंघनं गुरुवाक्यस्य गोवधं पञ्चपातकम् || ५-१४१ || तदाचार्य गृहेशुद्धे ध्यात्वा दक्षिणमीश्वरम् | चरुभुङ्मासमर्धं वा मौनव्रतथाचरेत् || ५-१४२ || परमेश जलं पीत्वा त्रिसन्धिं स्नानमाचरेत् | वर्णमन्त्रशतं जप्त्वा सर्वस्वन्दानमाचरेत् || ५-१४३ || त्र्यक्षरञ्च जपेन्नित्यं कण्ठमात्रोदके स्थितः | त्रिरात्रं वासयेद् ध्यात्वा गुरुदेवं समर्चयेत् || ५-१४४ || नाममन्त्रं सदा जप्त्वा भावयेत् ज्ञानमुद्रिकाम् | मुच्यते सर्वपापेभ्यो दक्षिणामुखमाप्नुयात् || ५-१४५ || आशेवचविधिः सूतक प्रेतकासौचं क्रमाद्वक्ष्ये महेश्वर | विप्र शुद्धिर्दशा हेन द्वादशेन तु क्षत्रियः || ५-१४६ || वैश्यस्य पक्षत शुद्धिश्शूद्रश्शुद्ध्यति मासतः | सत्यज्जानी स्वधमस्थो जयेदज्ञानिनन्नरः || ५-१४७ || शुद्ध्यते तद्क्षणात् ज्ञानी अज्ञानी चोदितेऽहनि | ऊर्द्ध्वतन्त्रे तु संस्कारस्सूतक प्रेतकं न हि || ५-१४८ ||
SKतस्मात् सर्व प्रयत्नेन ऊर्ध्वशैवे तु दीक्षयेत् | दीक्षितानां नु?पाणाञ्च सूतक प्रेतकन्न हि || ५-१४९ || सर्वदोषापनोदायमुच्यते ज्ञानमूद्रिका | ध्यात्वा जप्त्वा च पूज्या च नाममन्त्रं सदाजपेत् || ५-१५० || नाममन्त्रं सदा जप्त्वा सर्वदोषंस्तु नाशयेत् | जीर्णादिशाखि विधिः लिङ्गे दोषादिकं वक्ष्ये प्रायश्चित्तविधि क्रमात् || ५-१५१ || लिङ्गन्तु स्फुटितं भिन्न छिन्नं भग्नन्तथैव च | प्. १५४) दग्धं जीर्णं परित्यज्य स्थापयेत्तु नवीकृतम् || ५-१५१ || सर्वदोष प्रशान्त्यर्धन्नामन्त्रशतं जपेत् | स्नपनन्तत्र कुर्वीते यथा विभव विस्तरम् || ५-१५२ || चलितं पतितं वापि नदीस्रोतो विभेदितम् | गजेन्द्रोत्पाटितं? वापि चोरैरुन्मत्तंकेरपि || ५-१५३ || तल्लिङ्गन्तत्र संस्थाप्य पूर्ववत् पुजयेच्छुभम् | सहस्र कलशैस्स्नाप्य संप्रोक्षणमधाऽचरेत् || ५-१५४ || घिन्नं भिन्नन्नदीस्रोतैश्चतुर्दंडानुयोजयेत् | मूललिङ्गमदृश्यञ्च नवलिङ्गन्तु पूर्ववत् || ५-१५५ || तद्देशे स्थापयेच्छीघ्र सर्वसंपत्करं शुभम् | हृन्मन्त्रेणशतं जप्त्वा पञ्चगव्येन प्रोक्षयेत् || ५-१५६ || परिवार विनाशे तु पादयन्नध पूर्ववत् | शिवमन्त्रशतं हुत्वा पयसान्नं निवेशयेत् || ५-१५७ || पूर्वमेव कृतं लिङ्गन्तस्य प्रकारलिङ्गकम् | अलिङ्गमिति विज्ञेयं रांज्ञादुर्जयवर्द्धनम् || ५-१५८ || खडन्तु डमिति प्रोक्तं तवो?त्पाटन दोषकम् | महामर्यादपार्श्वे तु स्थापयेत् पूर्ववत् कृतम् || ५-१५९ || वर्णमन्त्रंशतं हुत्वा शिवमन्त्रं शतं जपेत् | अदेशस्थापिते लिङ्गेराजादुर्जयमाप्नयान् || ५-१६० || तस्मात्सर्व (तस्मातर्व) प्रयत्नेन पार्श्वस्थं लिङ्गपूर्वकम् | प्राकारे चैव मध्यस्थं लिङ्गं शत्रुप्रतिष्ठितम् || ५-१६१ || राजराष्ट्र हुरन्दुख्खं राक्षसानान्तु वर्धनम् | तत्पार्श्वे तु स्थितं लिङ्गं पूर्वोक्तन्तु महेश्वर || ५-१६२ || दुस्थितं? सुस्थितं वापि शिवलिङ्गन्नचालयेत् | प्. १५५) मूललिङ्गस्ययवा?क्यमचलनं भवेत् || ५-१६३ ||
SKअन्यलिङ्गस्य चलनं राजराष्ट्राभ वृद्धिदम् | तत्काले स्थापयेल्लिङ्गं पूर्वोक्तन्तु महेश्वर || ५-१६४ || अद्भुतशान्तिः अथाऽद्भुतानां शान्तिन्तु वक्ष्ये दोष निवृत्तये | लिङ्गे विवर्णं संप्राप्ते प्रतिमारोदनेऽपि च || ५-१६५ || स्नपनं पञ्चविंशत्या पश्चिम होममाचरेत् | अपामार्गसमिद्भि?श्च वर्णन्त्रशतं हुनेत् || ५-१६६ || उत्सवञ्च त्र्यहं कुर्याद्वर्णदोषो विनश्यति | प्रतिमारोदने चैव तत्पूर्वे होममाचरेत् || ५-१६७ || समिद्भिरौदं बरीभिर्जुहुयात् त्रिसहस्रकम् | पञ्चमेन च मन्त्रेण एका होत्सवमारैत् || ५-१६८ || सहस्र कलशस्नानं प्रकुर्याद्विगुणं हवि | प्रासादे पतिते भिन्ने चैत्यवृक्षे फलैर्युते || ५-१६९ || दीपमाला तु विवशेदुर्गन्धादि प्रवेशके | एवमादि समुत्पन्ने राजराष्ट्रभयं भवेत् || ५-१७० || तद्देषशमनार्थाय चेशान्यां होममाचरेत् | अश्वत्थस्य वमिद्भिश्च वर्णमन्त्रं शतं हुनेत् || ५-१७१ || उत्सवं त्रहं कुर्याद्भक्तानाञ्चैव पूजनम् | भूमिकम्पे दिशान्दा?हे प्रतिभासरदर्शने || ५-१७२ || द्विनक्षत्रे समुत्पन्ने रात्रा विन्द्रशरासने | पुच्छमत्स्य समायोगे जनानान्नाशनं भवेत् || ५-१७३ || तद्दोषशमनार्थय चाग्नेय्यां मण्टपे कृते | प्. १५६) त्र्यम्बकेन मन्त्रेण त्वयुतं होममाचरेत् || ५-१७४ || होमद्रव्यन्तु पूर्वोक्तं समिधः प्लक्षसंभवाः | आनुपूर्वकृमाच्छान्तिङ्कुर्याद्दोषनिवृत्तये || ५-१७५ || प्रासाद मण्टपाद्येषु वल्मीके यत्रमृश्यते | रक्तकन्या समुत्पन्ने प्रासादे मधुसंश्रिते || ५-१७६ || प्रविष्टे पुंश्छली पुत्गौ प्रासादाभ्यन्तरे तथा | तत्प्रदेशं बहिर्नीत्वा पूरयेच्छुद्धवालुकैः || ५-१७७ || पञ्चग?व्येन संप्रोक्ष्य शान्ति होमन्तु कारयेत् | देवस्याग्रते ऐशान्यां मण्टपङ्कल्पयेच्छुभम् || ५-१७८ || तत्रापामार्गसमिधस्सहस्रं प्रतिवासरम् | सप्ताहं वा त्रयाहं वा त्रिसन्धिं होममाचरेत् || ५-१७९ || नमो नमो यदस्येति सक्षिणामन्त्रमुच्चरन् | सर्वदोष प्रशमनं शिवमन्त्रशतं हुनेत् || ५-१८० ||
SKहविर्द्विगुणका पूपैः पूजयेद् दक्षिणेश्वरम् | घृत्क्षीराभिषेकञ्च यथा शक्ति विशेषतः || ५-१८१ || शीतकुंभञ्च विधिना शिरसोर्द्ध्वे विनिक्षिपेत् | पञ्चगव्याभिषेकञ्च कुर्यात्पूर्वोक्त वर्त्मना || ५-१८२ || ईशमन्त्रशतं हुत्वा मूलमत्रं शतं जपेत् | दर्पणञ्चलितं वापि जीर्णं वा पतितन्तु वा || ५-१८३ || भिन्नं वा दीप्तिरून्यं वा जले भूमाविनिक्षिपेत् | स्थापयेद् वर्णमन्त्रेण गृहीत्वा दर्पणन्नवम् || ५-१८४ || पूर्ववत् पूजयेच्छम्भुं राजराष्ट्राभि वृर्द्धय | पूर्वादिषु चतुर्दिक्षु चतुर्वेदैर्निषेवितम् || ५-१८५ || यथा विभव विस्तारं स्नपनम्परिकल्पयेत् | प्. १५७) पञ्चगव्येन सिद्धेन तथा पञ्चामृतेन च || ५-१८६ || सलिलैर्नारिकलानां पनसादिफलैरपि | हरिद्रामलकाद्यैश्च शुद्धान्नैश्चाभिषेचयेत् || ५-१८७ || संशोद्ध्य भस्मना पश्चच्छुद्धोदैर्दक्षिणेश्वरम् | प्रभूतहविषन्नित्यन्तदन्ते द्विगुणं स्मृतम् || ५-१८८ || एवं शान्तिकरं प्रोक्तं सर्वारिष्टविनाशनम् | यत्र शान्तिः कृता तत्र धनधान्यं विवर्द्धते || ५-१८९ || आयुरारोग्य सौभग्यं जयं संपत्प्रवर्द्धते | राजराष्ट्राभिवृद्ध्यर्त्थं प्रायश्चित्तं मयोदितम् || ५-१९० || प्रायश्चित्तमिति प्रोक्तं फलपाकविधिं शृणु || इति मकुट तन्त्रे क्रियापादे प्रायश्चित्तविधिर्नाम पञ्चमः पटलः || ५ || फलपाकविधिपटलः दूरतश्शिखरन्दृष्ट्वा नमस्कुर्या तु योनरः | विमुक्तस्सर्व पावेभ्यो रुद्रलोके महीयते || ६-१ || दूराङ्वशमविक्लान्तोयः कुर्यात् तु प्रदक्षिणम् | तत् क्लेशञ्च कृतार्थाय सयातिपरमाङ्गतिम् || ६-२ || यथा देव नमस्कारन्तथा(नमसारन्तथा) देवेशु पूज्यवान् | उत्सवे बलिकाले च यस्तुकुर्यात् प्रदक्षिणम् || ६-३ || प्. १५८) पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः | स्थलपुष्पं जलपुष्पं पुष्पयाने समोदते || ६-४ || आरामन्देव देवस्य योनरः कुरुते यदि | स एव धनवाच्छ्रीमानिहामुत्र च पूज्यते || ६-५ ||
SKअयुतं योगवां दद्याच्छ्रोति या या हिताग्नये | मम पादजले स्नात्वा तत्फलं समाप्नुयात् || ६-६ || यः कोपि पञ्चगव्येन कुशवारियुतेन च | स्नापयेद् देवदेवेशं कोटियज्ञफलं लभेत् || ६-७ || त्रिरात्रङ्गुरुदेशे तु योसै?द्भक्ति संयुतः | नानाभागे समोपेतश्शिवलोके महीयते || ६-८ || धूपघण्टान्तु योदद्याद् ख्यातिर्भूमौ प्रवर्तते | योदद्यात् तु विशेषेण वस्त्रण्याभरणानि च || ६-९ || नानावसन संयुक्तो नानाभरण भूषितः | इहलोके पूज्यमानस्सशैवं पदमाप्नुयात् || ६-१० || योदद्यात् ज्येष्ठ गुरवे भूमिङ्गोकर्णमात्रतः | ग्रामानामधीपस्सोपि पृथिव्यामेक राट्भवेत् || ६-११ || आचार्यस्य हृहेदीपं सकृताले तु यो ददेत् | इहलोके ज्ञानपूर्णस्सुरूप्यञ्च संच्छति || ६-१२ || आरंभं शिवमुद्दिश्य यस्य भूमौ प्रवर्तते | सर्वदान ततो यज्ञफलं प्राप्नोत्य संशयः || ६-१३ || प्. १६०) लोहेष्टक शिलाद्यैस्तु प्रासादङ्कारयेत् तु यः | सकाञ्चन विमानस्थश्शिवलोके महीयते || ६-१४ || संसिद्धो गुरुदेशे तु विधिना विधिमार्गतः | शिवलोकमवाप्नोति पूज्यमानस्सदासुरै || ६-१५ || देवालय समीपे तु वसनारूप्यमाप्नुयात् | शिवलोकन्तथो गत्वा सामिप्यं पदमाप्नुयात् || ६-१६ || आगमोक्तन्तु संपूज्य देवेशं दक्षिणेश्वरम् | रूपयौवन संपन्नस्सर्वभोग समन्वितः || ६-१७ || भुक्त्वा शिवपूरे भोगान्पृथिव्यामेकराट्भवेत् | माषापा?त्रन्तु ये दद्यात् स्वर्णं रजतमेव वा || ६-१८ || त्रिसप्तकालमुद्धृत्य शिवलोके महीयते | शुश्रषोगुरुभक्तानामाचार्य पुरवासिनम् || ६-१९ || भक्त्वा तु विपुलान्भोगान्सर्वकाम समन्वितान् | पुण्यक्षया * * * * पृथिव्यामेकराट्भवेत् || ६-२० || प्रतिमायां हेम दत्वादाक्षिणं पदाप्नुयात् | यतो वा चेति मन्त्रेण जप्त्वा स्मृत्वा सदाशिवम् || ६-२१ || गत्वा शिव पुरो?भागां शिवलोके महीयते | मौलिका मण्टपं शालाङ्दृत्वा भोगालयन्तथा || ६-२२ || बहुपुत्र समाकीर्णो भोगन्भाङ्तो स्वस्वा?मितान् | आसनानि सद्भावं ज्ञात्वा दक्षिणमीश्वरम् || ६-२३ ||
SKपूजयेत् सर्वसिद्ध्यर्थं मम लोके सदा वसेत् | यस्तु प्राणपरित्यागङ्कुर्याच्छिवनिमित्तकम् || ६-२४ || सालोकञ्चैव सामीप्यं सारूप्यञ्चैव सिद्ध्यति | दक्षिणाराधनङ्कृत्वं सयाति परमाङ्गतम् || ६-२५ || प्. १६०) तस्मात् सर्व प्रयत्नेन शिवमाराधयेत् सदा | फलपाकविधिः प्रोक्तो कृत्तिकादीपकं शृणु || ६-२६ || इति मकुट तन्त्रे क्रियापादे फलपाक विधिर्नाम षष्ठः पटलः || ६ || अथ मकुटे कृत्तिकादीपविधि पटलः || कार्तिके कृत्तिकामासे दीपारोहणमाचरेत् | त्वमध्यस्थं सदालोके तदा दीपं सुमध्यमम् || ७-१ || तस्मात् सर्वस्य मध्यस्थं दीपं ध्यात्वा महेश्वरम् | देवालय मलङ्कृत्य तोरणैस्सहचार्चयेत् || ७-२ || कृत्वाङ्कुरार्पणं पुर्वं पूजयेद् दक्षिणेश्वरम् | अग्ने तत् त्रिषुमन्त्रेण होमयेच्छूलतोरणम् || ७-३ || स्नपनङ्कारयेत् तत्र यजमनेच्छयान्वितम् | प्रासाद दक्षिणे पार्श्वे दीपदण्डन्तु पूर्ववत् || ७-४ || खादिरञ्चम्पकञ्चैव तालिकेरमथापि वा | तालम्बिल्वञ्च वेणुञ्च यज्ञवृषभवन्तु वा || ७-५ || प्रासादस्य सान्दण्डमर्चं वा पादमेव च | तदूर्ध्वे विन्यसेत् पात्रं द्वात्रिंशत्पृस्थपूरितम् || ७-६ || तदर्धं वा तदर्धं वा घृतं वा तैलमेव वा | कार्पासबीजसंयुक्तन्नव वासश्च निक्षिपेत् || ७-७ || प्रासाद बाह्ये सर्वत्र दीपमाला परिष्कृतम् | प्रासादस्योर्द्ध्वदेशे तु मण्टपे गोपुरेऽथवा || ७-८ || प्. १६१) प्राकारेषु च सर्वेषु दीपं सर्वत्रयोजयेत् | वर्णमन्त्रं समुच्चार्यदीपदण्डेऽधिरोपयेत् || ७-९ || सर्वमारोपयेद्दीपं दीपयेत् तु समन्ततः | ग्रामं वा नगरं वापि आलयं वा प्रदक्षिणम् || ७-१० || दीपेन भूषयेत् सर्वं भक्तियोगाऽनुरूपतः | ईदृग्गुणविशेषेण ग्रामङ्कुर्यात् प्रदक्षिणम् || ७-११ || आलयं प्रविशेत् पश्चात् सर्वालङ्कारसंयुतम् | प्रभूतञ्च हविर्दद्यादपूपञ्च प्रदापयेत् || ७-१२ || फलोपहार पूष्पैश्च (कदलीफल संयुतम् | सहकारफलैर्युक्त)म्भक्तांश्चैव प्रपूजयेत् || ७-१३ ||
SKरात्रौ पूजां प्रकूर्वीत बलिन्तत्रैव निक्षिपेत् | रात्रौ प्रतिसरंबध्वा भक्तानाञ्च प्रपूजयेत् || ७-१४ || प्रभाते पूजयेद्विद्वान्देवं दक्षिणमव्ययम् | महादर्पण मध्यस्थमर्चं यत्पूर्ववच्छुभम् || ७-१५ || त्र्यंबकं महारुद्रं वर्णमन्त्रं समुच्चरन् | त्र्यक्षरं सकृज्जप्त्वा नृत्तगेयैस्सुपूजयेत् || ७-१६ || ब्रह्मादीशान पर्यन्तं ग्रामस्थाने बलिं क्षिपेत् | हृदयेन तु मन्त्रेण चूर्णकर्म समाचरेत् || ७-१७ || नद्यां वापि तटाके वा समुद्रे वा विशेषतः | नवोदकेन तन्मध्ये त्रिशूल स्नानमाचरेत् || ७-१८ || तदालयं पुनर्गत्वा पश्चात् स्नपनमाचरेत् | तस्य पार्श्वे स्थितं देवङ्गेय नृत्तादि संयुतम् || ७-१९ || प्. १६२) लाजचूर्ण समायुक्तङ्गुलसार विमिश्रितम् | कदलीफलसंयुक्तं सहकारफलान्वितम् || ७-२० || मातुलुङ्गफलैर्युक्तन्नालिकेर फलान्वितम् | भक्त्या निवेदयेत् सर्वं वर्णमन्त्रं समुच्चरन् || ७-२१ || प्रभूतञ्च हविर्दत्वा प्रतिमादींश्च पूजयेत् | भक्तानां परिचाराणां वस्त्रादीनि प्रदापयेत् || ७-२२ || एवं समासतः प्रोक्तं स्नपनञ्च ततश्शृणु || इति मकुटतन्त्रे क्रियापादे कृत्तिकादीपविधिर्नाम सप्तमः पटलः || ७ || अथ मकुटे स्नपनविधि पटलः || अष्टम्याञ्च नवम्याञ्च चतुर्दश्याञ्च पर्वणोः | संक्रान्तौ विषुवे चैव ग्रहणे चायन द्वये || ८-१ || दीक्षादिके प्रतिष्ठान्ते प्रोक्षणे चोत्सवे तथा | यागान्ते च सुनक्षत्रे मङ्गले मन्त्रसाधने || ८-२ || राजाभिषेक काले च राजजन्मदिनत्रये | अतिवृष्टावनावृष्टौ दुर्भिक्षे दुर्निमित्तके || ८-३ || भूमिकंपे महारोगे शत्रुभिः पीडनेऽपि च | आर्द्रायां सौरवारे च राज्ञा पुत्रदिनेषु च || ८-४ || राजपत्नी त्रिजन्मर्क्षे राज्ञां मरणकालके | एवमादिषु कालेषु स्नपनं कारयेच्छुभम् || ८-५ || प्. १६३) पञ्चकन्नवकञ्चैव पञ्चविंशतिकं तथा | अथमत्रितयं प्रोक्तं मध्यमत्रितयं शृणु || ८-६ || पूर्वमेकोन पञ्चशदेकाशीतिः ततः परम् | अष्टोत्तरशतं पश्चान्मध्यमत्रयमुच्यते || ८-७ ||
SKद्विशतं षोडशोपेतं ततः पञ्चशतं तथा | सहस्रमष्ट संयुक्तमुत्तम त्रितयं भवेत् || ८-८ || देवस्याग्रे तु सर्वाणि स्थण्डिले स्थापयेत् क्रमात् | मध्यमेकपदं कृत्वा पद्माकारं सकर्णिकम् || ८-९ || चतुस्सूत्रेण मार्गेण कर्षयेन्नवकं तथा | षट्सूत्रञ्च लिखित्वा तु प्राद्मुखोऽदङ्मुखं क्रमात् || ८-१० || पञ्चविंशत्पदं कृत्वा स्थापयेदथमत्रिकम् | विस्तारं तालमात्रं स्यात् सूत्रद्वादश कल्पितम् || ८-११ || मध्यमं पञ्चविंशत् तु द्विपदमावृतन्न्यसेत् || ८-१२ || पीठके नाथवा पञ्चपदा संगृह्य यत्ततः | इदमेकोन पञ्चाशदेकाशीति पदं शृणु || ८-१३ || पदमेकं समावृत्य चेकाशीति पदं क्रमात् | प्रागग्रं षोडशं सूत्रमुदगग्रं तथैव च || ८-१४ || पूर्ववत् स्थापयेद् वारं तथा गोमयवारिणा | मध्यमे पञ्चविंशत् तु दिशिद्वादशकं तथा || ८-१५ || कोणे नवपदं कृत्वा शिवाथिक्यं शताष्टकम् | दिशश्च विदिशश्चैव पञ्चविंशत् पदं क्रमात् || ८-१६ || प्. १६४) मध्यमे व्यूहमध्ये तु नवपदं पद्ममालिखेत् | एवं कुर्याद् विधानज्ञो षोडश द्विशतं भवेत् || ८-१७ || स्नपन स्थापनं प्रोक्तं तेषां द्रव्यं ततश्शृणु | वज्रं मरकतञ्चैव वैडूर्यञ्च प्रवालकम् || ८-१८ || मौक्तिकं पञ्चरत्नन्तु एवं कुंभे तु विन्यसेत् | रत्नानामप्य लाभे तु वज्रं विद्रुममेव च || ८-१९ || रत्नालाभे तथा हेमं वर्द्धन्यां हेममेव च | पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं ततश्शृणु || ८-२० || पूर्वोक्त पञ्चगव्यन्तु पाद्यार्घ्यं पूर्ववत् क्रमात् | क्षीरं दधिघृतञ्चैव स्थापयेत् स्थापकोत्तमः || ८-२१ || मधुचेक्षुरसञ्चैव पनसामृफलं तथा | कदलीनालिकेरञ्च सर्षपञ्च तिलन्तथा || ८-२२ || बिल्वञ्च मातुलुङ्गञ्च नारङ्गद्वयमेव च | यवनी वारलाजानिलाजचूर्णञ्च भस्म च || ८-२३ || चन्दनं लघुकोष्ठञ्च कच्चोलं पुष्पपत्रकम् | कर्पूरं हरिबेरञ्च दान्तमौंजीमुरन्त्रणम् || ८-२४ ||
SKशमीदूर्वा च श्वेतार्कं बिल्वमर्जुन चंपकम् | शंखपुष्पमपामार्गं विष्णुक्रान्ती च धुर्क्तुरम् || ८-२५ || नन्द्यावर्तं श्वेतपद्मं पुन्नागं जातिपाटलि | सहदेवी शतपत्री लक्ष्मी स्थलारविन्दकम् || ८-२६ || धातकी तुलसी चैव करवीरञ्चमल्लिका | कृष्णवल्ली शतावेरी गोक्षूरा च कृतांजली || ८-२७ || महाद्रोणञ्च द्रोणञ्च महाभद्री चनेमधु | धात्री हरीतकी चैव रुद्रपर्णीन्द्रवल्लिका || ८-२८ || प्. १६५) व्याघ्रनखी च मंजीष्टी सकलं वा?र्द्रकाष्ठकम् | नवनीतं द्राविडञ्चैव तक्कोलञ्च सुपिप्पली || ८-२९ || अतिबला बलाचैव सहाप्रियङ्गुलोद्ध्रकम् | नागकेसर जंबुकं कपित्था श्वत्थ गुग्गुलुम् || ८-३० || एलञ्च जीरकञ्चैव कृष्णजीरकमेव च | सतैलं कुंकुमञ्चैवाऽगरुञ्चैव रोचनम् || ८-३१ || श्रीवेष्टकङ्गंधरसं पिप्पली हस्तिपिप्पली | अगरुन्तरञ्चैव मनश्शिलारक्तचन्दनम् || ८-३२ || लंवङ्गं रजनी चूर्णं काषायम्मार्जनान्तकम् | उदुंबरञ्च प्लक्षञ्च वटजंबु कषायकम् || ८-३३ || तिलदूर्वावपामार्गं मार्जन द्रव्यमेव च | एतच्चतुर्विधं द्रव्यं स्नानमेतत् प्रकीर्तितम् || ८-३४ || फलचूर्णोषधीत्यादि स्नान द्रव्यन्तु मार्जनम् | रसचूर्णं तथा चान्यतोय चूर्णन्तु कारयेत् || ८-३५ || रत्नादिपञ्चगव्यान्तं पञ्चानां कलशे स्थितम् | आज्यान्त नवकं पश्चात् पञ्चविंशद्गुलान्तकम् || ८-३६ || चन्दनादि तृणान्तञ्च द्वेद्वे कलशके न्यसेत् | इदमेकोन पञ्चाशदेकाशीतिस्तथा भवेत् || ८-३७ || एतानि रुद्रपर्ण्यन्तं मार्जनान्तं शताष्टकम् | मध्यमे तु शिव व्यूहेऽधर्मादीनि महादिशि || ८-३८ || धर्मादीनि च कोणे स्यात् स्थापयेत् तु महेश्वर | गन्धपुष्पाभिः पूज्यदर्भैश्चैव परिस्तरेत् || ८-३९ || मध्यमे शिवकुंभन्तु शिवमन्त्रेण संयुतम् | गन्धपुष्पादिभिः पूज्यं वर्णमन्त्रं समुच्चरन् || ८-४० || प्. १६६) द्वात्रिंशत्प्रस्थ संयुक्तमथवा षोडशं तु वा | शिवकुंभमति प्रोक्तं तदर्धं वर्द्धनी भवेत् || ८-४१ ||
SKपञ्चरत्नसमायुक्तं सकूर्चं वस्त्रवेष्टितम् | शिवकुंभादुत्तरे च वर्द्धनीं विन्यसेत् क्रमात् || ८-४२ || कूर्चवस्त्रसमायुक्तं वर्द्धनीं हेमसंयुताम् | प्रशान्तमुद्रया स्थाप्य ज्ञानमुद्रां प्रबन्धयेत् || ८-४३ || गन्धपुष्पादिनाऽभ्यर्च्य वर्णमन्त्रं समुच्चरन् | पाद्यादिषु प्रतिष्ठाप्य चाष्टविद्येश्वरान्तकम् || ८-४४ || आज्यादिमार्जनान्तस्य तथा रुद्रांस्तु पूजयेत् | एकैकमर्चयेत् सर्वमेकैकं वस्त्रवेष्टितम् || ८-४५ || स्वनामादीन्समुच्चार्य गन्धपुष्पादिभिर्यजेत् | षोडश द्विशतं स्थाप्य पूर्वत्पूजयेत् क्रमात् || ८-४६ || उक्तानि सर्वद्रव्याणि स्थापनं पूर्ववत् कृतम् | तत् संख्या तदुप स्नानं सप्ततीर्थमिति स्मृतम् || ८-४७ || अथमाथममारभ्य चोत्तमादथमत्रिकम् | उक्तद्रव्यसमोपेतमुत्तमञ्च सहैव तु || ८-४८ || षोडश द्विशतोपेतमुत्तमे मध्यमं शृणु | उत्तमे मध्यमञ्चैव उत्तमोत्तममेव च || ८-४९ || स्थापनेषु तथा द्रव्येष्वयं भेदो महेश्वर | षट्सूत्रन्दक्षिणे कृत्वा प्राङ्मुखं षट्क्रमात् भवेत् || ८-५० || पञ्चतालप्रमाणेन पदविस्तार विस्मृतम् | अन्तः पद्मं समावृत्य पदान्यष्टौ तु संग्रहेत् || ८-५१ || चतस्रो वीधयः प्रोक्ताश्चतुर्द्वारञ्चतुष्पदम् | द्वादशानि पदं कृत्वा चैकैकं पञ्चविंशतिः || ८-५२ || मध्ये नवपदं कृत्वा स्थापयेत् पूर्ववत् क्रमात् | पञ्चपङ्तिक्रमं वक्ष्ये पञ्चावरणकेषु च || ८-५३ || प्. १६७) प्रथमे चैव बीजानि लोहानि च द्वितीयके | त्रितीये चैव रत्नानिधातूनि चतुरीयके || ८-५४ || पञ्चमे पञ्चगव्यानि शताष्टकमिदं शुभम् | यवनीवारमुद्गञ्च तिलसर्षपमेव च || ८-५५ || श्वेतशाली महाशाली रक्तशाली तथैव च | सुगन्धिहेमशाली च दशबीजमिति स्मृतम् || ८-५६ || द्वात्रिंशत्कलशेष्वेवं प्रथमावरणे न्यसेत् | यावत् संख्या भवेत् तानि उपस्नानं समाचरेत् || ८-५७ || चत्वारिंशच्च चत्वारिकलशानि प्रपूजयेत् | आपः प्रदापयेच्चैव मूलमन्त्रमनुस्मरन् || ८-५८ ||
SKप्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु | चामीकरं तथा हेमं शातकुंभमतः परम् || ८-५९ || जांबुनदञ्च तप्तञ्च जातितप्तादिमिश्रितम् | षड्विंशत्काल शेषूक्ता उदकेनैव विन्यसेत् || ८-६० || तावत्संख्या भवेत्तानि कलशेष्वन्तरोद?कम् | पञ्चाशत्कलशे * * तेषञ्चैवोत्तरे द्वयोः || ८-६१ || द्वितीयावरणे ध्यात्वा वर्णमन्त्रेण देशिकः | द्वितीया वरणं प्रोक्तन्त्रितीयावरणं शृणु || ८-६२ || पूर्वोक्त नवरत्नन्तु त्रिंशत्कलशकेषु च | यावत् संख्या च रत्नानि कलशेष्वन्तरोदकम् || ८-६३ || कलशानि भवेत् षष्टिञ्चार्चयेद् ब्रह्मन्त्रकैः | त्रितीयावरणं प्रोक्तं चतुर्थावरणं शृणु || ८-६४ || हरिताल * * मंजनञ्च मनश्शिला * * | सौराष्ट्रं सिक्तवञ्चैव गैरिकञ्च तथैव च || ८-६५ || प्. १६८) चतुस्त्रिंशत्कलशेषु स्प्तधात्वं बुनसह | यावत् संख्या भवेत्ताअनि कलशेष्वन्तरोदकम् || ८-६६ || अष्टोत्तरं तथा षष्टिकलशानि प्रपूजयेत् | प्रत्येकमर्चयेत्तानि प्रणवादिनमोन्तकम् || ८-६७ || पञ्चगव्यं कुशाग्रञ्च पञ्चावरणकं शृणु | पूर्वोक्तपञ्चगव्यन्तु कुशांभः पदपञ्चकम् || ८-६८ || पञ्चगव्यादिभिर्युक्तञ्चाष्ट त्रिंशद्भवेदिह | विन्यसेत् पंचगव्यानां ब्रह्माङ्गं च तलैः क्रमात् || ८-६९ || यावत् समोभवेत्तानि प्रत्येकं चान्तरोदकम् | द्रव्येषु स्थापितं योज्यशतरुद्रान्विशेषतः || ८-७० || कलशान्पूजयेत् सर्वान् हृन्मन्त्रेण तु देशिकः | त्रिशतं साष्टकं प्रोक्तमुत्तमोत्तममुच्यते || ८-७१ || प्रावग्रं द्वादशं सूत्रमुदक्सूत्रन्तथैव च | एकविंशच्छतं कृत्वा पदन्तत्र महेश्वर || ८-७२ || पदसूत्रसमायुक्तं सूत्रस्थं प्रत्यकं त्यजेत् | षट्त्रिंशत्सूत्रसमायुक्तं सूत्रान्समावृतां न्यसेत् || ८-७३ || चतुर्द्वारं न्यसेद्धीमाञ्चत्वारिंशपद स्थितम् | मध्ये शिवपदं ग्राह्य नवपदन्तत्र कारयेत् || ८-७४ || एकैकपदमध्ये तु पंचविंशतिसंख्यया | कलशानि तथोक्तानि सहस्राणि दशावृतौ || ८-७५ ||
SKशिवाथिकं चाष्टसाहस्रं क्रमाद्वक्ष्ये महेश्वर || प्रथमे चैव बीजानि लोहानि च द्वितीयके || ८-७६ || त्रितीये चैव रत्नानि चतुर्धे धातव क्रमात् | पंचमे पंचगव्यानि षष्ठे चैव फलोदकम् || ८-७७ || प्. १६९) गन्धाद्योषधयस्सर्वे सप्तमे च प्रकीर्तिताः | मृदं भश्चाष्टमे चैव काषायां भस्ततः परम् || ८-७८ || दशमे चैव पुष्पांभश्चेकैकन्तु शृणु क्रमात् | रत्नानि पञ्चगव्यान्तं पूर्ववत् स्थापयेच्छुभम् || ८-७९ || पञ्चावरणमेवोक्त्रं षष्ठमावरणं शृणु | कदलीबिल्व पूतञ्च मातुलुङ्गञ्च दाडिमम् || ८-८० || नालिकेरञ्च नारङ्गं तथा पनसमेव च | फलोदकानि चेतानि तच्चाष्टावभिधीयते || ८-८१ || प्रत्येकं विन्यसेत् तानि कलशेष्वन्तरोदकम् | कलशानि तथा चैव चतुर्विंशच्चतोरणम् || ८-८२ || प्रत्येकमर्चयेत् तानि पवमानेति मन्त्रतः | गन्धाद्योषधिभिश्चैव सप्तावरणकं शृणु || ८-८३ || उशीरं चन्दनञ्चैव कर्पूरं जातिरेव च | शतपत्रन्तु श्रीदेवी विष्णुक्रान्तिः शतावरी || ८-८४ || गन्धाद्योषध यश्चाष्टौ चाष्टोत्तरशतानि च | तावत् संख्या तु विज्ञेयाश्चोपस्नानं विशेषतः || ८-८५ || द्वात्रिंशत् कलशं प्रोक्तं शतमेकं समाचरेत् | ओषधीनां लतानाञ्च वृक्षाणाञ्च फलानि च || ८-८६ || उक्तानाञ्चैव सर्वेषां मूलञ्चापि प्रगृह्यताम् | सप्तमावरणं प्रोक्तमष्टमावरणं शृणु || ८-८७ || दर्भमूले पर्वताग्रे सूकरस्य तु कर्षणे | वल्मीके वृषश्रङ्गाग्रे नद्यां पर्वतमस्तके || ८-८८ || समुद्रे च विशेषेण सङ्गृह्य च मृदष्टकम् | प्रत्येकं कलशेष्वेव सप्तत्रिपरिसंख्यया || ८-८९ || प्. १७०) ददकेन समापूर्य कुंभं बहूं रोदकम् | चत्वारिंशत् समायुक्त शतमेकं प्रकीर्तितम् || ८-९० || अर्चयेत् पञ्चमन्त्रेण नवमावरणं शृणु | चूतं वटञ्च पनसं न्यग्रोधो दुंबरे तथा || ८-९१ || अश्वत्थं चित्रकञ्चैव पनसं मथुकन्तथा | नवचूर्णञ्चैव वृक्षं विन्यसेद् वारिणा सह || ८-९२ ||
SKप्रत्येकं पूरयित्वा च सप्ततिं चतुरुक्तरम् | यावत् संख्या भवेत् तानि कलशेष्वन्तरोदकम् || ८-९३ || चत्वारिंशद्भवेच्चाष्टौ पदमेकं समावृतम् | अर्चयेत् पूर्ववत् तानि गन्धपुष्पादिभिः क्रमात् || ८-९४ || दशमावरणे पश्चात् पुष्पाणि क्रमशः शृणु | अर्कं पद्मञ्च बिल्वञ्च नद्यावर्तञ्च पाटली || ८-९५ || करवीरञ्चंपकञ्च नीलोत्पलमथाष्टकम् | इत्यष्टोत्तर सप्तत्यां कलशेषु यथाक्रमम् || ८-९६ || अष्टपुष्पाणि निक्षीप्य पूरयेच्छुद्धवारिभिः | तावत् संख्या भवेत् तानि गन्धपुष्पादिभि क्रमात् || ८-९७ || प्रत्येकं कलशानर्वान्वेष्टयेच्छुद्धवाससा | द्रव्येषु शतरुद्राश्च जलेतीर्थानि कल्पयेत् || ८-९८ || संस्थापयेन्नवविधं नेत्रमुद्रां प्रदर्शयेत् | मूर्ध्नोन्ते च नमस्कारं नमोन्तं बीजमध्यमम् || ८-९९ || नवधा स्नपने नैवमभिषेकं समाचरेत् | पूर्वोक्ते दक्षिणे पश्चाल्लिङ्गे वा वाहनादिके || ८-१०० || कुंभस्थं दक्षिणेशानं स्थापयेत् तु त्रिपादिके | कुंभमुद्वास्य शिरसा स्कन्धे वा धारयेत् पुनः || ८-१०१ || प्. १७१) ततो गत्वा गर्भगृहमुत्तराभिमुखः स्थितः | स्नापयेद् देव देवेशं मूलमन्त्रेण मन्त्रवित् || ८-१०२ || गणांबिकेति मन्त्रेण वर्द्धनीं पिण्डिकोपरि | तत् तत् स्थाने प्रतिष्ठाप्य पूर्ववच्च यथाक्रमम् || ८-१०३ || स्नान द्रव्यैर्यथा न्यायमुपस्नानन्तथैव च | स्थाप्य मन्त्रेण संस्नाप्य देवं दक्षिणमव्ययम् || ८-१०४ || कलशं वामहस्तेन धृत्वा दक्षिणपाणिना | गोश्रङ्गाग्र प्रमाणेन वारिधारां निपातयेत् || ८-१०५ || कलशैर भिषेकन्तु पृथक् पुष्पं प्रदापयेत् | स्नपनानाञ्च सर्वेषा मन्त्रे हारिद्रचूर्णकम् || ८-१०६ || पूर्ववत् सूजयेद् देवं शुद्धतोयाभिषेचनम् | कलशस्थापितां देवाः स्वस्वस्थानेषु पूजयेत् || ८-१०७ || बीजानामप्यलाभे तु यवनीवारसंग्रहम् | उक्तलोहानामभावे तप्तकाञ्चन कैर्युनम् || ८-१०८ || रत्नानामप्यलाभे तु मौक्तिकं ग्राह्यमेव च | धातूनामप्यलाभे तु हरितालं विशेषतः || ८-१०९ ||
SKतृणानामप्यलाभे तु दर्भमूलं परिग्रहेत् | वृक्षाणामप्यलाभे तु अश्वत्थचर्म संग्रहेत् || ८-११० || पुष्पाणामप्यलाभे तु गिरिपुष्पन्तु संग्रहेत् | एवं यः कुरुते मर्त्यो देवस्य स्नपनं महत् || ८-१११ || शिववत्*?डते नित्यं शिवलोके महीयते | स्नपनं नवधा प्रोक्तं प्रतिष्ठालक्षणं शृणु || ८-११२ || इति मकुटतन्त्रे क्रियापादे स्नपनविधिर्नाम अष्टमः पटलः || ८ || अथ मकुटे गर्भप्रतिष्ठाविधि पटलः || नवतालं तथा यामं सप्तताल समाश्रयम् | पञ्चतालं तथायामं त्रितालं वा महेश्वर || ९-१ || नवतालं ब्राह्मणानां सप्ततालं नृपात्मनाम् | वैश्यानां पञ्चतालञ्च त्रितालं शूद्रमेव च || ९-२ || लिङ्गं वा प्रतिमां वापि भित्तिचित्त्रमथापि वा | आयु श्रीपूष्टिवर्द्धिन्यो प्रतिमास्तु शिलामयाः || ९-३ || लोहजात् सर्वकामार्थाश्चेष्टकात् तेजसंभवेत् | सर्वदेव प्रतिष्ठां तु क्रमाद् वक्ष्ये महेश्वर || ९-४ || अङ्कुरार्पण पूर्वोक्तं मण्टपं पूर्ववत् कृतम् | चतुस्तोरण संयुक्तं तन्मूले कलशां न्यसेत् || ९-५ || पूर्वे तु तोरणे स्थाप्य रत्नत्रयं प्रपूजयेत् | राजतं याम्यदिक्संस्थं पश्चिमे मौक्तिकं तथा || ९-६ || प्रवालमुत्तरे स्थाप्य तोरणेषु प्रपूजयेत् | पूरुषादि च सद्यान्तं अर्चयेत् तु विशेषतः || ९-७ || पूर्वमेव तु यत् कुण्डं तस्य मध्ये तु यच्छिवम् | अर्चनं पूर्ववत् कृत्वा पूर्वोक्ते नैव होमयेत् || ९-८ || प्. १७३) सर्वद्रव्याणि होतव्यं प्रत्येवञ्च हृदाशतम् | पूर्णहुतिं तदन्ते तु यदस्येति च मन्त्रतः || ९-९ || नवाग्निषु तथा सम्यक् समिद्भिर्होममाचरेत् | पलाशञ्चशमीञ्चैव प्लक्षोदुंबरमेव च || ९-१० || अश्वत्थञ्च कपामार्गं बिल्वमर्कञ्च कुन्दकम् | इन्द्रादिशानपर्यन्तं नत्तद्देशे तु होमयेत् || ९-११ || होमान्ते पूजयेत् सम्यगाचार्यन्तु यथागुरुम् | प्रभाते स्थापनं कुर्यात् स्नानं कृत्वा तु देशिकः || ९-१२ || महाजालस्य मध्ये तु प्रतिष्ठामूर्तिमर्चयेत् | जलाधिवासकाले तु वर्णमन्त्रं समुच्चरेत् || ९-१३ ||
SKआचार्यं ब्राह्मकाले तु पूजयित्वा विशेषतः | पुण्याहं स्वस्तिवाक्यञ्च सर्वमङ्गलवाचकम् || ९-१४ || वीणा वेणु मृदङ्गैश्च शंखकाहल वाद्यकेः | गन्धं धूपविधिश्चैव मयूरच्छत्रचामरैः || ९-१५ || सुमुहूर्तेसु नक्षत्रे आचार्येच्छाऽथकालके | वर्णमन्त्रं संच्चार्य ध्यात्वा दक्षिणमव्ययम् || ९-१६ || प्रभाते स्थापनं कुर्यादवतीर्य शनैः शनैः | तदन्ते स्नपनं कृत्वा तत् तद् देवां समर्चयेत् || ९-१७ || शयनञ्चासनं यानं त्रिविधं कारयेत् पुनः | अर्चयेत् सर्वदेवांस्तु तत् काले ज्ञानमुद्रया || ९-१८ || तत् तद् देवा कृतिध्यानं तत् तन्मन्त्रं समुच्चरन् | मन्त्रन्यासं ततः कृत्वा पूर्ववत् पूजयेच्छुभम् || ९-१९ || प्रासादस्यार्द्ध भागन्तु सप्तधा परिकल्पयेत् | मध्यमं ब्रह्मभागन्तु दैविकन्तु द्वितीयकम् || ९-२० || प्. १७४) तदन्ते मानुषं ज्ञेयं पैशाचं महिमाश्रितम् | तत्र मध्ये स्थितं सद्भिः पादशैलं न्यसेत् ततः || ९-२१ || रत्न न्यास क्रमेणैव स्थापयेन्नवकोष्ठके | प्रथमे नवबीजञ्च नवरत्नं द्वितीयके || ९-२२ || धातु संघं त्रितीये च लोहानि च चतुर्थके | सर्वद्रव्व्याणि संशोद्ध्य ब्रह्मस्थाने निधापयेत् || ९-२३ || संग्राह्य बीजं पूर्वोक्तं सर्वदेवस्य मध्यमे | अंजनं माक्षिकञ्चैव आतपञ्चमनश्शिला || ९-२४ || हरितालञ्च लिङ्गञ्च श्यामङ्गैरिक सर्जकम् | ब्रह्मादीशान पर्यन्तं न्यसेत् सम्यग् द्यथाविधि || ९-२५ || सौवर्णं राजतं ताम्र मायसं तृपुसीसकम् | काम्स्यञ्च पित्तलञ्चैवाऽष्टलोहां न्यसेत् क्रमात् || ९-२६ || बीजानामप्यलाभे तु व्रीहिस्तत्र प्रशस्यते | धातूनामप्य लाभे तु हरितालं प्रशस्यते || ९-२७ || लोहानामप्य लाभे तु स्वर्णं तत्र प्रशस्यते | तत् तद् देवसुमन्त्रेण स्थापयेन्नवकोष्ठके || ९-२८ || गन्धं पुष्पञ्च धूपञ्च दीपञ्चैव प्रदापयेत् | पूण्याहं वाचयेत् तत्र प्रोक्षयेच्चैव मन्त्रकैः || ९-२९ || वज्र चक्रञ्च पूर्वे स्यादूर्ध्वचकं तु दक्षिणे | पश्चिमे कालचक्रञ्च उत्तरेमुक्ति चक्रकम् || ९-३० ||
SKआग्नेय्यां विद्रुमाख्यं तु नै-ऋत्यां भूतचक्रकम् | वायव्यान्नील चक्रं स्यादैशान्यां शूलचक्रकम् || ९-३१ || पृथक् पृथग् यजेद्देवञ्चक्रावरणमर्चयेत् | आकृतिः सकलायां तु सा शक्तिरिति तन्मता || ९-३२ || प्. १७५) तदाकार स्थितं यत् तु निष्कलं सकलात्मकम् | निष्कलं सकलं सर्वं मिश्रमेवं प्रकीर्तितम् || ९-३३ || प्रतिष्ठापित देवानां तत् तद् देवी प्रतिष्ठिता | प्रतिष्ठा लक्षणं प्रोक्तं पवित्रारोहणं शृणु || ९-३४ || इति मकुटे तन्त्रे क्रियापादे गर्भप्रतिष्ठाविधिर्नाम नवमः पटलः || ९ || अथ मकुटे पवित्रारोपणविधि पटलः || पूर्वपूजा सृद्ध्यर्धं * * * पूरर्णार्थर्कणाम् | सर्वकर्मसुहिनेषु पूर्णार्धं कारयेद् बुधः || १०-१ || प्रभाते देवमावाह्य सर्वसंपतराय च | शिवपूर्णन्ततः कुर्यात् पवित्रारोहण क्रियाम् || १०-२ || आषाढे शुक्लपक्षे तु श्रावणे वा विशेषतः | नभस्ये चाश्वयुद्मासि कृष्णपक्षेऽथवा पुनः || १०-३ || द्वितीयादिश्चतुर्ध्यादिस्तधा षष्ट्यादि वा पुनः | द्वितीयादि चतुर्ध्यन्तं षष्ट्यादिर्वा विशेषतः || १०-४ || अष्टम्यादि दश्यम्यन्तं द्वादश्यन्तमतः परम् | चतुर्दशम्यन्तकं कुर्यात् पवित्रारोहण क्रियाम् || १०-५ || सप्ताहञ्चैव पञ्चाहं त्यहं वापिप्रकारयेत् | सप्तम्याञ्च त्रयोदश्यां रेवत्यां कार्तिकाह्वये || १०-६ || मृगशीर्षे च रोहिण्यां कारयेच्च पवित्रकम् | प्. १७६) शुद्धतोयेन पूतेन पूरयेन्नवकं घटम् || १०-७ || द्वादश प्रस्थ संपूर्णं तदर्धं पादमेव वा | सूत्रैः संवेष्ट्य सुद्धेन वाससा परिवेष्टयेत् || १०-८ || पञ्चरत्नानि निक्षिप्य रत्नाभावे हिरण्यकम् | सूत्रं प्रागेव सङ्ग्राह्यं निर्मितं द्विजकन्यया || १०-९ || अथवा निर्मितं नान्यैः क्षालयेद् भस्मावरिणा | त्रिसूत्रं कारयेत् पूर्वं तदपि त्रिगुणी कृतम् || १०-१० || एवं तु नवसूत्रेण पवित्रं कारयेच्छुभम् | वामादिशक्तयस्तत्र नवसूत्राथि देवताः || १०-११ || लिङ्गोत्सेध समायामं प्रासादस्य पवित्रकम् | हस्तमात्र समायामं पवित्रमिह शोभनम् || १०-१२ ||
SKसूत्रैर्विवर्द्धयेद् विद्वां नवधा तु पवित्रकम् | अथमत्रयमित्युक्तं नव षोडश विंशतिः || १०-१३ || पञ्चविंशद् द्वात्रिंशत् षट्त्रिंशं मध्यमत्रयम् | पञ्चाशत् सप्ततिश्चैव नवतिश्चोत्तमत्रयम् || १०-१४ || एतेष्वेवकं पवित्रन्ते संग्रहेत् तु महेश्वर | युवासु वासमन्त्रेण कारयेत् तत् पवित्रकम् || १०-१५ || तेषां मध्ये दशग्रन्धिर्दशानामथि देवताः | (तत् पवित्र विशुद्ध्यर्थं) नवसप्ताष्टपूर्वोक्तैर्ग्रन्धिं कुर्याद् विचक्षणः || १०-१६ || लोकपालाश्च ग्रंथी नामथि देवताः | तत् पवित्र विशुद्ध्यर्धं तद्रात्रावथि वासयेत् || १०-१७ || शालि तंडुल पुष्पाद्यैः स्थण्डिलञ्चतुरश्रकम् | संस्तीर्योपरि वस्त्रेण गन्धपुष्पादिभिः सह || १०-१८ || तस्योपरि चदर्भाणि संस्थाप्य शिवमन्त्रतः | वस्त्रोणाच्छाद्य शिरसा धूपयेद् धृदयेन तु || १०-१९ || प्. १७७) पवित्रं स्थापयेन्मध्ये सर्वगन्धानुलेपितम् | भस्मचन्दन मृच्चूर्णान्वारुण्यां दिशिविन्यसेत् || १०-२० || उदकञ्चोत्तरे भागे दन्तकाष्ठादिकं तथा | एतानि गन्धपुष्पाद्यैरर्चयेद् धृदयेन तु || १०-२१ || उत्तराच्छादनं कृत्वा दर्भैरुपरिदेशिकः | अङ्कुरार्पण पूर्वन्तु कर्तव्यमधिवासनम् || १०-२२ || स्नपनन्तु यथा शक्तिशिवाग्नौ तु विशेषतः | विशेषपूजनं कृत्वा नमस्कृत्वा शिवाग्रतः || १०-२३ || धूपदिपादिकं कृत्वा पायसान्नं निवेदयेत् | तत्र संपूज्य देवेशं ध्यात्वा तण्डव देवताम् || १०-२४ || गन्धैराच्छाद्य विधिवत् पुष्पैराच्छाद्य यत्नतः | दर्भैराच्छाद्य देवांश्च शूत्रैरावेष्ट्य बुद्धिमान् || १०-२५ || धूपदीपसमायुक्तं पूजयेद् वर्णमन्त्रतः | मयाकृतानि दानानि धर्माणि च व्रतानि च || १०-२६ || मन्त्राश्चैव क्रियास्तत्र बुद्ध्यादिकरणानि च | अनया पूजया सर्वाः संपूर्णाः सन्तु मे प्रभो || १०-२७ || देवायतं नमस्कृत्वा भक्तिप्रणयपूर्वकम् | मृद्भस्म दन्तकाष्ठादि त्रिचतुः सूत्रमाहरेत् || १०-२८ ||
SKमृदंपूर्वोक्त देशेषु संग्रहेत् तु महेश्वर | संग्रहेत् पूर्ववद् भस्म पालाशं दन्तकाष्ठकम् || १०-२९ || अथवा यज्ञवृक्षोत्थन्नवसप्त च संख्यया | कनिष्ठाङ्गुल नाहं तु द्वादशाङ्गुल दैर्घ्यकम् || १०-३० || हुत्वान्तेग्निं समारोप्य पवित्रं लिङ्गमन्त्रतः | प्. १७८) प्रभूतञ्चैव नैवेद्यं पञ्चवर्णैर्विशेषतः || १०-३१ || शिवग्नौ वर्णमन्त्रेण हुत्वान्तेऽग्निं समर्चयेत् | द्रव्याणि हृदये नैव होतव्यं व्याहृतीस्ततः || १०-३२ || होतव्यन्तु हृदाशक्तिर्ज्योतिः शक्तिगुणातिका | ज्ञानशक्तिर्जयाशक्तिर्योगानन्दाख्य शक्तिका || १०-३३ || भेदाधारात्म * * * * नवधास्मृताः | नामादिभेदाः संप्रोक्ताः द्वाराणाञ्च क्रमाच्छृणु || १०-३४ || सर्वेषां दक्षिणं प्रोक्तं श्रेष्ठवर्णमनुक्रमात् | पूर्वद्वारं प्रशस्तं च ब्राह्मणानां महेश्वर || १०-३५ || क्षात्रं तु दक्षिणद्वारं वैश्यानामुत्तरं तथा | शूद्रणां पश्चिमद्वारं विशेषं तु महेश्वर || १०-३६ || सर्वेषामपि वर्णनां दक्षिणद्वारमुत्तमम् | पञ्चब्रह्म षडङ्गैश्च पूर्ववन्न्य समाचरेत् || १०-३७ || नृत्तगेय समायुक्त रात्रौ निद्रां विवर्जयेत् | प्रभाते विधिवत् स्नात्वा सकलीकृत विग्रहः || १०-३८ || पर्यूक्षितानि पुष्पाणि पवित्राणि विसर्जयेत् | पूजनं पूर्ववत् कृत्वा देवेशं पिण्डिकान्वितम् || १०-३९ || त्रियंबकेन मन्त्रेण हुत्वान्तेऽग्निं समर्चयेत् | वह्नौ पवित्रमारोप्य परिषेकमथाचरेत् || १०-४० || सर्वावरण देवानां पवित्रं हृदयेन तु | अन्येषाञ्चैव देवानां दापयेच्च पवित्रकम् || १०-४१ || तर्त्रभ्यो देशिकेभ्यश्च तद्भक्तेभ्यश्च देशिकः | प्. १७९) शिष्येभ्यः परिचारेभ्यः दापयेत् तत् पवित्रकम् || १०-४१ || गन्धाद्यैश्चैव संपूज्य धूपदीपैर्विशेषत | प्रभूतञ्च हविर्दत्वा पायसान्नं प्रदापयेत् || १०-४२ || होमान्ते चैव कर्तव्यमाद्यन्तं मुनिभोजनम् | यथार्हं सर्वदानानि जनानां कारयेत् ततः || १०-४३ || वस्त्रैराभरणाद्यैश्चाऽचार्यं पूजयेत् ततः | ऊर्ध्वशैवादि शैवानामितरेषाञ्च भक्तितः || १०-४४ ||
SKविशेषाद्योगिनां दानं कुर्यात् तत्र स्वशक्तितः | संग्राह्य स्नपनं पश्चाद् देव देवस्य चाग्रतः || १०-४५ || एतानि वृतदानानि संपूर्णानि भवन्तु मे | एवं विज्ञाप्य देवाय समाप्य नियमं ततः || १०-४६ || पाशजलानि संछिद्यमोक्षं मेदा तु मर्हथ | इति विज्ञाप्य देवाय प्रणमेद् दण्डवत् क्षितौ || १०-४७ || नियमवृतस्य प्रान्ते तदासूत्राऽवरोहणम् | अवरोप्य पवित्राणि पुष्पाणि च विसर्जयेत् || १०-४८ || पूर्ववत् पूजनं कृत्वा प्रभूत हविषं ददेत् | दक्षिणामुखमासाद्य पूजयेत् तु नटेश्वरम् || १०-४९ || भक्तानां परिचाराणां वस्त्रादीनि प्रदापयेत् | यागोपयुक्त द्रव्याणि संग्रहेद् गुरुदेवतः || १०-५० || वर्णमन्त्रेण जुहुयादाज्याहुति सहस्रकम् | यदस्येति च मन्त्रेण कुर्यादेकाहुतिं शुभम् || १०-५१ || अग्नेरालिङ्गनं कृत्वा नृत्तरूपं विचिन्तयेत् | पवित्रारोपणं प्रोक्तं योगध्यानक्रमं शृणु || १०-५२ || इति मकुटतन्त्रे क्रियापादे पवित्रारोपणविधिर्नाम दशमः पटलः || १० || अथ मकुटे योगध्यानविधिपटलः || यमनियमासनञ्च प्राणायामन्ततः परम् | प्रत्याहारञ्च ध्यानञ्च धारणाथ समाधिकम् (-थिकम्) || ११-१ || प्रथमं तु यमं प्रोक्तं द्वितीयं नियमं तथा | त्रितीयमासनं प्रोक्तं प्राणायामं ततः परम् || ११-२ || प्रत्याहारं पञ्चमञ्चद्ध्यानं वै षष्ठमुच्यते | सप्तमं धारणा प्रोक्तं समाधिश्चाष्टमं स्मृतम् || ११-३ || अष्टाङ्गमिति विज्ञेयं योगिनां योगसाधनम् | अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिगृहे || ११-४ || यमन्तु पञ्चधा प्रोक्तं नियमञ्च तत शृणु | शौचं सन्तोषकं तत्र (त्रत्र) तपस्वाध्यायमेव च || ११-५ || ईश्वर प्रणिधानञ्च नियमं पञ्चधा स्मृतम् | गोमुखं स्वस्तिकञ्चैव पद्मञ्चैवार्द्ध चन्द्रकम् || ११-६ || वीरं योगासनं प्रोक्तं षड्विधञ्चासनं क्रमात् | प्राणायामञ्च पूर्वोक्तं प्रत्याहार क्रमं शृणु || ११-७ || इन्द्रियार्थेषु यत् कर्म प्रतिस्थानं व्यवस्थितम् | यावत् तावत् स्थिरीभूतं प्रत्याहारस्स उच्यते || ११-८ ||
SKआधारेषु च संकल्प्यं यथा ध्यान स्वरूपकम् | ध्यानमेवं विजातीयाद् धारणाञ्च ततः शृणु || ११-९ || आधारन्धारणं प्रोक्तमाधेयस्तु समाधिकम् | धारणा द्विविधा प्रोक्ता ध्यानस्यैव क्रमं शृणु || ११-१० || प्. १८१) आधाराधे संकल्पं धारं ध्यान स्वरूपकम् | ऊर्ध्वाधमधमं शून्यमधः शून्यं निरामयम् || ११-११ || सर्वशून्यं निराकारं समाधिश्चित्तकारणम् | योगाधार क्रमं वक्ष्ये विशेषेण महेश्वर || ११-१२ || नाभेस्तु चतुरङ्गुल्यमथस्तादग्निमण्डलम् | कदंब पुष्पवद् वर्णं चाष्ट पत्रं त्रिकोणकम् || ११-१३ || मूलधारमिदं प्रोक्तं द्वितीयं नाभिमूलकम् | भुजङ्गवलयाकारमष्टवर्तुलमेव च || ११-१४ || कुण्डल्याख्या महानाडी भानुमण्डलमुच्यते | हृदये कण्ठमूले वा तालुमूले ललाटके || ११-१५ || मूर्धस्थानेषु संकल्प्य ध्यायेत् पद्मानि पूर्ववत् | हृत्पद्मलक्षणं वक्ष्ये विशेषेण महेश्वर || ११-१६ || नाभौ तन्नालमेवं चाप्यूर्ध्व नालमथोमुखम् | कदलीपूष्पवत् पत्रमष्टपत्रं सकर्णिकम् || ११-१७ || आधार लक्षणं प्रोक्तमाधेयञ्च ततः शृणु | आधेयं यत्प्रयुक्तञ्च समाधीत्येव मन्त्रितः || ११-१८ || इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः | सुषुम्ना मध्यगा तत्र तन्मध्ये सुक्षिरं तथा || ११-१९ || जीवः प्राणसमायुक्तः तन्मध्येषु च सञ्चरेत् | ससञ्चरति तत्काले ह्याधारेषु व्यवस्थितः || ११-२० || संयुक्तं योगमाख्यातं संयोगञ्च समाश्रयेत् | मूलाधारेऽग्नि संयुक्तं संयुक्तो योगमभ्यसेत् || ११-२१ || योगाभ्यासेन तद्योगी चाग्निलोकमवाप्नुयात् | तदूर्ध्वे भास्करं ध्यात्वा रविलोकमवाप्नुयात् || ११-२२ || प्. १८२) चन्द्रं ध्यात्वा तदूर्ध्वे तु चन्द्रलोकमवाप्नुयात् | सदा नृत्तन्तु हृदये शिवलोके महीयते || ११-२३ || नादं ध्यात्वा तदूर्ध्वे तु कण्ठमूले व्यवस्थितः | तालुमूले स्मरेन् रुद्रं (न्रुद्रं) रुद्रमूले परेच्छया || ११-२४ || पादादिमूर्धपर्यन्तं व्यापकत्वेन तेजसा | भ्रुवोर्मध्ये परावारमीश्वरन्तं विचिन्तयेत् || ११-२५ ||
SKशिरोपरि भवेन्नृत्तं ध्यात्वा मध्ये महेश्वर | हृत्पद्ममध्यमे ध्यात्वा बिन्दुनादमनुस्मरन् || ११-२६ || चतुरङ्गुलमात्रेण दीपाकारन्तु चिन्तयेत् | शिरोपरि भवेन्नृत्तं ध्यात्वा मध्ये महेश्वर || ११-२७ || अणिमा महिमा चैव गरिमा लघिमा तथा | प्राप्तिः प्राकाम्यमीशित्वं वशित्वञ्चाष्ट सिद्धयः || ११-२८ || अणिमानं लभेद् यस्मादणिमेत्यभिधीयते || ११-२९ || सहस्रे वा तथा गत्वा मूलवर्णप्रभेदकम् | स्वच्छायां लभते यस्मात् तस्मात् तत्र प्रवेशयेत् || ११-३० || मानं मनोजवं कृत्वा पूज्यते स्थानवासिभिः | सम्यक् प्रपूजितो यस्मात् तस्मात् तमभिभावयेत् || ११-३१ || सर्वद्रव्यमनुप्राप्य प्राप्तिरेषा प्रकीर्तिता | प्राकाम्येषु शरीरेषु प्राणानां तु प्रवेशनात् || ११-३२ || सूर्यादि भवन प्राप्तिस्तदीशित्वमुदाहृतम् | यद् वशित्वं तु तत्रैव तद्वशिवं विधीयते || ११-३३ || शिवसायुज्य सामर्ध्यात् तच्छिवत्वमिति स्मृतम् | अणिमाद्यष्ट सिद्धीश्च लभेद् योगी विशेषतः || ११-३४ || प्. १८३) सालोक्यादिचतुष्कञ्च क्रमाद् वक्ष्ये महेश्वर | सालोकेन च संप्राप्तिः सालोक्यं तु विधीयते | तद् देवस्य समीपस्थं सामीप्यमिति चोदितम् || ११-३६ || तत् तद्रूपस्य संप्राप्तिः सारूप्यमिति विश्रुतम् | ज्ञानात् सायुज्यमेवोक्तं तोयेतोयं यथा तथा || ११-३७ || एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः | तस्माद् योगं समादाय सर्वदुख्खबहिष्कृतम् || ११-३८ || योगाद् ध्यानं सदा कृत्वा ज्ञानात् तन्मयतां व्रजेत् | ज्ञानात् स्वरूपं परमं हंसमन्त्रं समुच्चरन् || ११-३९ || प्राणिनां देहमध्ये तु स्थितोहंसः सदाशिवः | हंस एव परं नृत्तं हंस एव तु शक्तिकम् || ११-४० || हंस एव परं वाक्यं हंस एव तु वैदिकम् | हंस एव परोरुद्रो हंस एव परात् परम् || ११-४१ || सर्वदेवस्य मध्यस्थो हंस एव महेश्वर | कूटस्थो हंस एव स्यान्नात्रकेति व्यवस्थिता || ११-४२ || पृथिव्यादि शिवान्तन्तु अकाराद्याश्चवर्णकाः | मात्रकारहितामन्त्रार्दृश्यन्तेन तु कुत्रचित् || ११-४३ ||
SKहंसो ज्यातिरनौपद्यं मध्ये देहं व्यवस्थितम् | दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् || ११-४४ || सदा समाधीं कुर्वित हंसमन्त्रमनुस्मरन् | निर्मलं स्फटिकाकारं दिव्यरूपमनौपमम् || ११-४५ || मथ्यदेशे परं हंसं ज्ञानमुद्रा स्वरूपकम् || इति मकुटे तन्त्रे योगपादेधोग लक्षणविधिर्नाम एकादशः पटलः || ११ || अथ मकुटे आचार्यलक्षणविधिपटलः आचार्यलक्षणं वक्ष्ये शृणुष्वेवं महेश्वर | ऊर्ध्वशैवकुले जातः समर्धः सगुरुः स्मृतः || १२-१ || शिवशास्त्रार्थ तत्वज्ञो ज्ञानशास्त्र विशारदः | सर्वावयव संपूर्णः सर्वलक्षणलक्षितः || १२-२ || शिखीवा मुण्डितो वाऽपिजटिलोवा विशेषतः | गृहस्थो ब्रह्मचारी वा भौतिकब्रह्मचारिणः || १२-३ || क्रियादि ज्ञानपर्यन्तमेक तन्त्ररतः शुचिः | क्रिया वां निपूणः सत्य सर्वादाय समन्वितः || १२-४ || आचार्यो यो महाशास्त्रे निपुणोऽत्र न संशयः | तदणु प्रायतत्वज्ञमाचार्यं परिकल्पयेत् || १२-५ || अशास्त्रानङ्गहीनांश्च अयोग्यान् प्रच्युतानपि | नास्तिकानन्त स्वारङ्गविशाक्षान् ज्ञानहीनकान् || १२-६ || विषमान्नृण कर्माणो बालांश्च परदारगान् | सन्न्यासिनस्तथा तद्वच्चित्तां श्चान्नवृते स्थितान् || १२-७ || परापवादशीलांश्च निर्दयांश्चाति तर्ककान् | अतिदीर्घानति हृस्वांश्चाति स्थूलान् कृशां तथा || १२-८ || विकटदन्तान् कुनखान्विकटपादांश्च चापलान् | विशिष्ट * * * * * * * जरठान् म * * || १२-९ || बलहीनात्मकां दुष्टान्वैदिकाचार हीनकान् | अत्याचारान्नङ्ग हीनां वर्जनीयास्तु ते सदा || १२-१० || अतिमोहन कुर्वन्ति सन्त्यज्य तु कदाचन | आचार्य लक्षणं प्रोक्तमूर्ध्वचक्र विधिं शृणु || १२-११ || इति मकुटे क्रियापादे आचार्यलक्षणविधिर्नाम द्वादशः पटलः || १२ ||