2 SK नमः सर्वबुद्धबोधिसत्त्वेभ्यः
3 SK Aभिसमयालङ्कारान्तः पातिनां पदार्थानां संक्षेपतो विवरणम्
4 SK सर्वाकारज्ञताद्यष्टौ पदार्थाः; चित्तोत्पादादयः सप्ततिश्च पदार्था अभिसमयालङ्कारस्याभिधेया सन्ति / तेषामिह स्वरूपं संक्षेपेण प्रस्तूयते /
6 SK सर्वाकारज्ञता, मार्गज्ञता, सर्वज्ञता (वस्तुज्ञता), सर्वाकाराभिसम्बोधः, मूर्धाभिसमयः, आनुपूर्विकाभिसमयः, एकक्षणाभिसम्बोधः, धर्मकायश्चेत्यष्टौ पदार्था अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां प्रदर्शिताः / यथा -
7 SK प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता / सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः //
8 SK सर्वाकाराभिसम्बोधो मूर्धप्राप्तो ऽनुपूर्विकः / एकक्षणाभिसम्बोधो धर्मकायश्च ते ऽष्टधा //
11 SK एकस्मिन्नेव क्षणे यावत्पदार्थाकाराणां यथावत् साक्षात्कारि पर्यन्तज्ञानं सर्वाकारज्ञताया लक्षणम् /
12 SK (ख) भेदः यावज्ज्ञानं यथावज्ज्ञानमिति सर्वाकारज्ञताया द्वौ भेदौ / या प्रज्ञा अशेषाकारान् जानाति सा यावज्ज्ञानम्, या च यथा पदार्थानां स्वरूपं तथा जानातीति यथावज्ज्ञानम् /
13 SK अथवा - चित्तोत्पादादिहेतूनां अनास्रवफलानां च अशेषाकारसाक्षात्कारि सर्वाकारज्ञानमित्येको भेदः / बुद्धभूमौ जायमानानि द्वाविंशतिः अनास्रवज्ञानानीति द्वितीयो भेदः /
14 SK (ग) अवधिः बुद्धभूमावेव केवलं सर्वाकारज्ञता भवति /
16 SK (क) लक्षणम् मार्गत्रयनिःस्वभावत्वसाक्षात्कारिण्या प्रज्ञयोपात्तत्वे सति आर्यमाहायानिकाभिसमयत्वं मार्गज्ञताया लक्षणम् /
17 SK (ख) भेदः चत्वारो ऽस्या भेदा भवन्ति, यथा श्रावकमार्गज्ञता, प्रत्येकबुद्धमार्गज्ञता, महायानमार्गज्ञता, माहायानिकार्यसन्ततिस्थसर्वप्रज्ञोपायज्ञता चेति /
18 SK (ग) अवधिः महायानदर्शनमार्गमारभ्य बुद्धभूमिं यावत् मार्गज्ञतायाः सीमा भवति /
19 SK ३. सर्वज्ञता (वस्तुज्ञता)
20 SK (क) लक्षणम् समस्तधर्मगतपुद्गलनैरात्म्यसाक्षात्कारिण्या प्रज्ञयोपात्तत्वेन हैनयानिकजातीयाभिसमयस्वरूपं आर्यसन्ततिस्थं ज्ञानं मार्गज्ञताया लक्षणम् / हैनयानिकार्यसन्ततिस्थं यज्ज्ञानं तच्छून्यतायाः पुद्गलनैरात्म्यापरपर्यायाः साक्षात्कारि, तेनोपात्तत्वात् सर्वज्ञताया लक्षणे हैनयानिकजातीयेति विशेषणम् /
21 SK (ख) भेदः फलभूताया जिनजनन्या दूरत्वम् अविदूरत्वं चेति सर्वज्ञताया द्वौ भेदौ /
22 SK (ग) अवधिः श्रावकीयदर्शनमार्गमारभ्य बुद्धभूमिपर्यन्तं सर्वज्ञतायाः सीमा भवति /
23 SK ४. सर्वाकाराभिसम्बोधः
24 SK (क) लक्षणम् त्रिसर्वज्ञताकाराणां भावनामय्या प्रज्ञयोपात्तः सत्त्वयोगः सर्वाकाराभिसम्बोध इति लक्षणम् /
25 SK (ख) भेदः स्वरूपेण विंशतिः प्रयोगाः / आकारेण त्रिसर्वज्ञतासम्बद्धानां त्रिसप्तत्युत्तरशतसंख्याकानामाकाराणामभिनिर्हारकाः सत्त्वयोगाः त्रिसप्तत्युत्तरशतमस्य सर्वाकाराभिसम्बोधस्य भेदा भवन्ति /
26 SK सत्वयोगः, मार्गपारमिता, बोधिसत्त्वमार्गः, महायानपतिपत्तिः, सन्नाहप्रतिपत्तिरित्येते पर्यायवाचिनः /
27 SK (ग) अवधिः महायानसम्भारमार्गमारभ्य अन्तिमक्षणस्थितबोधिसत्त्वावस्थापर्यन्तं सर्वाकाराभिसम्बोधस्य सीमा भवति /
29 SK (क) लक्षणम् शून्यतालम्बनया भावनामय्या प्रज्ञयोपात्तानां तद्दृष्ट्या व्यवस्थापितानां च त्रिसर्वज्ञताकाराणां भावनायां प्रकर्षपर्यन्तः सत्त्वयोगः मूर्धप्रयोगः इति मूर्धाभिसमयस्य लक्षणम् / बोधिसत्त्वस्य श्रुतमय्या प्रज्ञयोपात्तानां प्रयोगाणामप्यत्रैव संगृहीतत्वाल्लक्षणे तद्दृष्ट्या व्यवस्थापितेति विशेषणम् /
30 SK (ख) भेदः संक्षेपतः प्रयोगमार्गीयो मूर्धप्रयोगः, दर्शनमार्गीयो मूर्धप्रयोगः, भावनामार्गीयो मूर्धप्रयोगः, आनन्तर्यमूर्धप्रयोगश्चेति चत्वारो भेदा भवन्ति /
31 SK अथवा ऊष्ममूर्धक्षान्त्यग्रधर्माख्याः प्रयोगमार्गस्य चत्वारः, दर्शनभावनामार्गयो आनन्तर्यमूर्धप्रयोगास्त्रय इति सप्त मूर्धप्रयोगा भवन्तीति /
32 SK विस्तरेण तु त्रिसप्तत्युत्तरशतं मूर्धप्रयोगा इति ज्ञेयम् /
33 SK (ग) अवधिः महायानप्रयोगमार्गीयोष्मप्रयोगमारभ्य अन्तिमक्षणस्थितबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति /
35 SK (क) लक्षणम् त्रिसर्वज्ञताकाराणां स्थिरीकरणाय विभावनाव्यवस्थापितः सत्त्वयोग आनुपूर्विकप्रयोग इति लक्षणम् /
36 SK (ख) भेदः त्रयोदशास्यानुपूर्विकाभिसमयस्य भेदा भवन्ति /
37 SK (ग) अवधिः महायानसम्भारमार्गमारभ्य अन्तिमक्षणस्थितबोधिसत्त्वावस्थातः पूर्वावस्थापर्यन्तमस्य सीमा भवतीति /
39 SK (क) लक्षणम् त्रिसर्वज्ञताकाराणां स्वभ्यस्तीकरणाय अनुपूर्वभावनयोत्पन्नः पार्यन्तिकः सत्त्वयोगः एकक्षणाभिसम्बोध इति लक्षणम् /
40 SK (ख) भेदः व्यावृत्या ऽस्य चत्वारो भेदा भवन्ति /
41 SK (ग) अवधिः चरमभविकबोधिसत्त्वावस्थायामेव केवलमयं प्रयोगो भवति /
43 SK (क) लक्षणम् त्रिसर्वज्ञताकाराणां भावनाप्रकर्षबलेनोत्पन्नं फलं पर्यन्तानास्रवगुणा वा धर्मकाय इति लक्षणम् /
44 SK (ख) भेदः स्वभावकायः, ज्ञानधर्मकायः, साम्भोगिककायः, नैर्माणिककायश्चेति चत्वारो ऽस्य भेदा भवन्ति /
45 SK (ग) अवधिः बुद्धभूमावेव केवलमयं धर्मकायो भवतीति /
47 SK त्रिसर्वज्ञतोपलक्षकास्त्रिंशद् धर्माः, चतुर्णां प्रयोगाणामुपलक्षकाः षट्त्रिंशद् धर्माः, धर्मकायोपलक्षकाश्चत्वार इति सप्ततिः पदार्थास्त्रिषु विभज्य पृथक् निरूप्यन्ते /
48 SK १. त्रिसर्वज्ञतोपलक्षकाः त्रिंशद् धर्माः त्रिसर्वज्ञतोपलक्षकेषु त्रिंशद्धर्मेषु सर्वाकारज्ञताबोधका दश, मार्गज्ञताबोधका एकादश, सर्वज्ञताबोधका नव चेति त्रिंशद् भवन्ति /
49 SK (अ) सर्वाकारज्ञतोपलक्षका दश धर्माः तत्र १. महायानचित्तोत्पादः, २. अववादः, ३. निर्वधाङ्गम्, ४. महायानप्रतिपत्त्याधारः, ५. महायानप्रतिपत्त्यालम्बनम्, ६. महायानप्रतिपत्तिसमुद्देशः, ७. सन्नाहप्रतिपत्तिः, ८. प्रस्थानप्रतिपत्तिः, ९. सम्भारप्रतिपत्तिः, १०. निर्याणप्रतिपत्तिरिति दश धर्माः सर्वाकारज्ञतामुपलक्षयन्तीति अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां प्रदर्शिताः / यथा -
50 SK चित्तोत्पादो ऽववादश्च निर्वेधाङ्गं चतुर्विधम् / आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः //
51 SK आलम्बनं समुद्देशं सन्नाहप्रस्थितिक्रिये / सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः //
53 SK अस्य लक्षणम्, भेदः आलम्बनम्, अवधिश्चेति चत्वारि ज्ञातव्यानि / अभिसमयालङ्कारे तिसृभिः कारिकाभिः सर्व प्रतिपादितम् / तथाहि -
54 SK चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता / समासव्यासतः सा च यथासूत्रं च चोच्यते //
55 SK भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः / वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः / नृपगञ्जमहामार्गयानप्रस्रवणोदकैः / आनन्दोक्तिनदीमेघैर्द्वाविंशतिविधः स च //
56 SK (क) लक्षणम् परार्थाय स्वहेतुकेन छन्देन समुदानीतं बोधिकामतासम्प्रयुक्तं माहायानिक विशिष्टं मनोविज्ञान चित्तोत्पाद इति लक्षणम् /
57 SK (ख) आलम्बनम् स्वार्थां बोधिं परार्थं च परसन्ततिस्थ निर्वाणमालम्ब्य चित्तोत्पादः प्रवर्तते /
58 SK (ग) भेदः बोधिप्रणिधिस्वभावः बोधिप्रस्थानस्वभावश्चेति स्वरूपतश्चित्तोत्पादस्य द्वौ भेदौ भवतः /
59 SK सम्प्रयुक्तचैतसिकदृष्ट्या चित्तोत्पादस्य द्वाविंशतिः प्रभेदा भवन्ति, यथा १. पृथिवीसमः, २. सुवर्णसमः, ३. चन्द्रसमः, ४. ज्वलनसमः, ५. महानिधिसमः, ६. रत्नाकरसमः, ७. महार्णवसमः, ८. वज्रसमः, ९. पर्वतसमः, १०. औषधिसमः, ११. कल्याणमित्रसमः, १२. चिन्तामणिसमः, १३. आदित्यसमः, १४. मधुरगीतिसमः, १५. नृपसमः, १६. कोष्ठागारसमः, १७. महामार्गसम, १८. यानसमः, १९. प्रस्रवणोदकसमः, २०. आनन्दोक्तिसमः, २१. नदीसमः, २२. मेघसमश्चेति /
60 SK (घ) अवधिः चतुर्विधो बोधिसत्त्वानां चित्तोत्पादः / तथा हि - आदिमोक्षिको ऽधिमुक्तिचर्याभूमौ, शुद्धाध्याशयिकः सप्तसुभूमिषु, वैपाकिको ऽष्टम्यादिषु, अनावरणिको बुद्धभूमौ / यथोक्तं महायानसूत्रालङ्कारे -
61 SK चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः / वैपाक्यो भूमिषु मतस्तथावरणवर्जितः //
62 SK २. अववादः अस्य लक्षणम्, भेदः. अवधि, श्रवणनियमश्चेति सर्वो विषयः अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां प्रतिपादितः / तथाहि -
63 SK प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु / असक्तावपरिश्रान्तौ प्रतिपत्सम्परिग्रहे //
64 SK चक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च / दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः //
65 SK (क) लक्षणम् मोक्षमार्गस्य अभ्रान्तोपदेशः अववाद इति लक्षणं भवति /
66 SK अथवा - महायानचित्तोत्पादद्वारेण प्रर्थितार्थप्राप्त्युपायात्मकः अभ्रान्तविशुद्धोपदेशः माहायानीयाववादलक्षणम्
67 SK (ख) भेदः प्रथमं सम्प्राप्तगुणपरिपाचनार्थेन अपरिहाणिमुपादाय शिक्षणाववादः, ततः पश्चादप्राप्तगुणप्राप्तिमुपादाय अनुशासनाववाद इति द्वौ भेदौ / विषयभेदात् पुनः अववादो दशधाः ज्ञेयः / तथाहि - प्रतिअपत्त्याकारमधिकृत्य सत्यद्वयस्वरूपमनतिक्रम्य शिक्षणं प्रतिपत्त्यववादः प्रथमः / प्रतिपत्तेर्यदालम्बनं चत्वारि आर्यसत्यानि, तद्विषयकोपदेशः सत्याववादः द्वितीयः / यश्चाश्रयस्त्रीणि शरणानि तद्विषयकोपदेशः रत्नत्रयाववादस्तृतीयः / यो विशेषगमनहेतुः असक्तिस्तद्विषये देशनाववादश्चतुर्थः / यो ऽव्यावृत्तिगमनहेतुः अपरिश्रान्तिः तद्विषयको देशनाववादः पञ्चमः / यो ऽनन्ययानगमनहेतुः प्रतिपत्सम्परिग्रहस्तद्विषयकाववादः षष्ठः / यो ऽपरप्रत्ययगामित्वहेतुः पञ्च चक्षूंषि तद्विषयकः पञ्चचक्षुरववादः सप्तमः / यः सव कारज्ञतापरिपूरिहेतुः षडभिज्ञाः तद्विषयको ऽभिज्ञाववादः अष्टमः / परिकल्पितस्वभावानां दर्शनप्रहातव्यानां क्लेशानां सबीजानां सर्वथा समुद्घातको यो दर्शनमार्गस्तद्विषयको दर्शनमार्गाववादो नवमः / भावनाप्रहातव्यानां सहजावरणानां सबीजानां सर्वथा समुद्घातको यो भावनामार्गस्तद्विषयको भावनामार्गाववादो दशमः /
68 SK (ग) अवधिः मार्गाप्रवेशमारभ्य बुद्धभूमिपर्यन्तमस्य सीमा भवति /
69 SK (घ) श्रवणनियमः मार्गे ऽप्रविष्टो ऽपि शुद्धाध्याशयिकः शुद्धकर्मिकः पुद्गलो माहायानीयाववादं श्रोतुं भव्यो भवति / यश्च मार्गप्रविष्टो बोधिसत्त्वः स कल्पानामनेकानि बुद्धेभ्यो बोधिसत्त्वेभ्यः कल्याणमित्रेभ्यः अववादं शृणोति /
70 SK ३. निर्वेधाङ्गम् चतुर्विधनिर्वेधभागीयानामूष्मादीनां लक्षण-भेद-अवध्यालम्बनाकारादयः अभिसमयालङ्कारे द्वाभ्यां कारिभ्यां प्रतिपादिताः / तथादि -
71 SK आलम्बनत आकाराद्धेतुत्वात् सम्परिग्रहात् / चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् //
72 SK श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः / मृदुमध्याधिमात्राणामुष्मादीनां विशिष्टता //
73 SK (क) लक्षणम् स्वहेतुमोक्षभागीयानन्तरमुत्पद्यमानो ऽभिसमयः प्रयोगमार्ग इति लक्षणम् / प्रयोगमार्गः, अर्थाभिसमयः, निर्वेधाङ्गमित्यनर्थान्तरम् /
74 SK (ख) भेदः श्रावकादियानत्रयस्य त्रयः प्रयोगमार्गा भवन्ति / प्रयोगमार्गेषु त्रिषु प्रतिस्वं ऊष्म-मूर्व-क्षान्त्यग्रधर्माख्याश्चत्वारो भेदा भवन्ति / इत्थं द्वादश भवन्ति प्रयोगमार्गस्य भेदाः /
75 SK महायानप्रयोगमार्गः स्वहेतोर्महायानसम्भारमार्गादुत्पद्यमानो माहायानीयो ऽर्थाभिसमयः महायानप्रयोगमार्गः /
76 SK महायानप्रयोगमार्गः, महायानार्थाभिसमयः, महायाननिर्वेधभागीय इति पर्यायाः /
77 SK महायानप्रयोगमार्गभेदाः ऊष्म-मूर्ध-क्षान्त्यग्रधर्माख्याश्चतुर्निर्वेधभागीयाः श्रावकनिर्वेधभागीयेभ्यः पञ्चभिर्विशेषैर्विशिष्टा भवन्ति / एतेषु निर्वेधभागीयेषु प्रत्येकं मृदु-मध्याधिमात्रभेदेन त्रिधा भवति / एवं महायानप्रयोगमार्गस्य द्वादश भेदा जायन्ते /
78 SK (ग) अवधिः त्रिविधनैरात्म्येषु (पुद्गलनैरात्म्य-स्थूलधर्मनैरात्म्य-सूक्ष्मधर्मनैरात्म्येषु) किमप्येकं नैरात्म्यमालम्ब्य प्रवर्तमानाया विदर्शनायाः प्राप्तिमारभ्य भूमिप्राप्तिपर्यन्तं प्रयोगमार्गस्य व्याप्तिर्भवति /
79 SK (घ) आलम्बनाकारादयः हैनयानिकप्रयोगमार्गान्माहायानिकप्रयोगमार्गः षड्भिर्विशेषेर्विशिष्टो भवति, यथा - आलम्बनविशेषात्, आकारविशेषात्, हेतुत्वविशेषात्, सम्परिग्रहविशेषात्, प्रहेयविकल्पसंयोगविशेषात्, मृदुमध्याधिमात्रभेदविशेषाच्च /
80 SK इदं च वैशिष्ट्यम् अभिसमयालङ्कारे ᳚आलम्बनमनित्यादि᳚ - इत्यतः प्रारम्य ᳚सर्वथा सम्परिग्रहः᳚ - इत्यन्तं नवभिः कारिकाभिः सुविशदं व्याख्यातम् /
81 SK ४. प्रतिपत्तेराधारः महायानप्रतिपत्तेराधारः प्रकृतिगोत्रं भवति / तस्य लक्षणादिकम् अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां वर्णितम् / तथा हि -
82 SK षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः / तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह //
83 SK शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च / ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते //
84 SK (क) लक्षणम् सामान्यतो यो धर्मधातुः परिशोधितः सन् बोधौ परिणमते, स गोत्रमिति लक्षणम् / विशेषतो यो धर्मधातुः परिशोधितः सन् अनुत्तरायां सम्यक् सम्बोधौ परिणमते, महायानप्रतिपत्तेश्चाधारो भवन्ति, स प्रकृतिगोत्रमिति /
85 SK (ख) भेदः अभिधानदृष्ट्या प्रकृतिगोत्रं परिपुष्टगोत्रं चेति द्वौ भेदौ / महायानप्रतिपत्तेराश्रयभूतं प्रकृतिस्थं गोत्रम् आश्रितधर्मदृष्ट्या त्रयोदशविध भवति / इदमेव प्रकृतिगोत्रं महायानसम्भारमार्गस्याप्याधारो भवति /
86 SK ऊष्म-मूर्ध-क्षान्त्यग्रधर्माख्यचतुर्विधलौकिकनिर्वेधभागीयानामाधाराश्चत्वारः, लोकोत्तरदर्शनमार्गमस्याधार एकः, लोकोत्तरभावनामार्गस्याधार एक इति षट् प्रकृतिगोत्राणि / ततः प्रतिपक्षप्रतिपत्तेराधारः, ततः प्रहाणप्रतिपत्तेराधारः, तदनन्तरं प्रतिपक्षप्रहेयानुपलब्ध्या तदुत्पादनिरोधयुक्तविकल्पापगमस्य विमुक्तिमार्गस्याधारः, ततः प्रज्ञाकरुणयोराधारः, श्रावकाद्यसाधारणधर्मस्याधारः, परार्थानुक्रमस्याधारः, ज्ञानस्यायत्नवृत्तेश्चाधार इति प्रकृतिस्थगोत्रस्य त्रयोदशभेदा भवन्ति /
87 SK (ग) अवधिः महायानसम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति / विशेषतश्च उपरिष्टात् साक्षान्निर्दिष्टप्रयोगमार्गीयोष्मावस्थातः प्रारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य व्याप्तिर्भवतीति ज्ञेयम् /
88 SK ५. प्रतिपत्तेरालम्बनम्
89 SK प्रतिपत्तेरालम्बनानां लक्षणं भेदः अवधिश्चेति त्रीण्यत्र प्रतिपाद्यन्ते / अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां आलम्बनस्वरूपं प्रदर्शितम् / तथा हि -
90 SK आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः / लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः / सास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये / शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः //
91 SK (क) लक्षणम् प्रतिपत्तेर्ज्ञेयत्वमेवालम्बनत्वमिति लक्षणम् /
92 SK (ख) भेदः आलम्बनमेकादशविधं भवति / तथा हि - कुशलाकुशलाव्याकृतानि कायकर्मादीनि त्रीणि, बालपृथग्जनसम्बद्धाः पञ्च स्कन्धाः, सर्वार्यजनसंगृहीतानि चत्वारि अनास्रवध्यानानि, आत्मदर्शनाप्रतिपक्षत्वेन पञ्चोपादानस्कन्धाः, आत्मदर्शनप्रतिपक्षत्वेन चत्वार्यनास्रवाणि स्मृत्युपस्थानानि, हेतुप्रत्ययाधीनकामादिधातुसंगृहीता
93 SK बोधिपक्षादयं संस्कृताः (मार्गसत्यम्), कारणानपेक्षधातुत्रयापर्यापन्नतथतादयो ऽसंस्कृताः (निरोधसत्यम्), सर्वार्यजनसन्तानप्रभवचतुर्ध्यानादयो गुणाः, सम्यक्सम्बुद्धसन्तानोदयधर्मिदशबलान्यसाधारणानीत्येकादशविधमालम्बनम् /
94 SK (ग) अवधिः अधिगमानुक्रमेण सर्वधर्मा यथावदालम्ब्यन्त इति नास्त्यालम्बनानां भूम्यवधिरिति ज्ञेयम् /
95 SK ६. प्रतिपत्तिसमुद्देशः अस्य लक्षणं भेदः अवधिरिति त्रीणि परिज्ञातव्यानि, तानि अभिसमयालङ्कारे कारिकयैकया ऽनया निर्दिष्टानि / तथा हि -
96 SK सर्वसत्त्वाग्रताचित्तप्रहाणाधिगमत्रये / त्रिभिर्महत्त्वैरुद्देशो विज्ञेयो ऽर्य स्वयम्भुवाम् //
97 SK (क) लक्षणम् प्रतिपत्तौ प्रतिष्ठितस्य बोधिसत्त्वस्य स्वलक्ष्यमेव प्रतिपत्तिसमुद्देश इति लक्षणम् /
98 SK (ख) भेदः सर्वसत्त्वाग्रताचित्तमहत्त्वम्, प्रहाणमहत्त्वम्, अधिगममहत्त्वं चेति त्रयो ऽस्यभेदा भवन्ति /
99 SK (ग) अवधिः बुद्धभूमावेव केवलमयं समुद्देशो निष्पन्नो भवति /
100 SK ७. सन्नाहप्रतिपत्तिः अस्या लक्षणादिकम् अभिसमयालङ्कारे एकया कारिकयेत्थमुपवर्णितम् / यथा
101 SK दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या / सन्नाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिताः //
102 SK प्रतिपत्तेर्लक्षणम् महायानचित्तोत्पादमाश्रित्य अनुत्तरसम्यक्संम्बोधिनिष्पत्तये या त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना, सर्वाकाराभिसम्बोधादौ चतुर्विधे ऽभिसमये प्रत्यभिसमयं षट्पारमिताधिष्ठाना च क्रिया, सा महायानप्रतिपत्तेर्लक्षणम् /
103 SK प्रतिपत्तिभेदः इयं महायानप्रतिपत्तिश्चतुर्विधा भवति, यथा - सन्नाहप्रतिपत्तिः, प्रस्थानप्रतिपत्तिः, सम्भारप्रतिपत्तिः, निर्याणप्रतिपत्तिश्चेति /
104 SK (क) सन्नाहप्रतिपत्तेर्लक्षणम् षट्पारमितासु प्रतिपारमितां षट्पारमितासंग्राहिकया प्रज्ञयोपात्तः सत्त्वयोगः सन्नाहप्रतिपत्तेर्लक्षणम् / सन्नाहप्रतिपत्तिः बोधिसत्त्वमार्ग इत्यनर्थान्तरम् /
105 SK (ख) भेदः दानपारमितासन्नाहप्रतिपत्तिमारभ्य प्रज्ञापारमितासन्नाहप्रतिपत्तिं यावत् षड् भेदा भवन्ति / दाने ऽपि दानं शीलमित्यादिषट्पारमिता भवन्ति / एवं षट्सु पारमितासु षट् षट्कानीति कृत्वा विस्तरेण षट्त्रिंशद् भेदा भवन्ति /
106 SK (ग) अवधिः सम्भारमार्गीयबोधिसत्त्वमारभ्य अन्तिमक्षणस्थबोधिसत्त्वपर्यन्तमस्याः सीमा भवति /
107 SK ८. प्रस्थानप्रतिपत्तिः अस्याः स्वरूपम् अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यामुपवर्णितम् / तथा हि
108 SK ध्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च / गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु //
109 SK उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये / प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी //
110 SK (क) लक्षणम् भावनाप्रधानया प्रतिपत्त्या महायाने हेत्वात्मके फलात्मके वा धर्मे प्रस्थितिक्रिया प्रस्थानप्रतिपत्तेर्लक्षणम् /
111 SK (ख) भेदः सेयं प्रस्थानप्रतिपत्तिर्नवविधा ज्ञेया, तथा हि - ध्यानारूप्यसमापत्तिषु प्रस्थानम्, दानादिषट्पारमितासु प्रस्थानम्, आर्यमार्गेषु प्रस्थानम्, चतुरप्रमाणेषु प्रस्थानम्, अनुपलम्भयोगे प्रस्थानम्, त्रिमण्डलविशुद्धिषु प्रस्थानम्, सर्वसत्त्वाग्रतादित्रिविधोद्देशेषु प्रस्थानम्, षड्भिज्ञासु प्रस्थानम्, सर्वाकारज्ञतायां प्रस्थानमिति /
112 SK (ग) अवधिः अधिमुक्तिचर्याभूमिकप्रयोगमार्गीयोष्मावस्थात आरभ्य अन्तिमक्षणस्थबोधिसत्त्वपर्यन्तमस्याः सीमा भवति /
113 SK ९. सम्भारप्रतिपत्तिः अस्थाः प्रतिपत्तेर्लक्षणादिकं सर्वम् अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां सम्यक् प्रतिपादितम् / तथा हि -
114 SK दया दानादिकं षट्कं शमथः सविदर्शनः / युगनद्धश्च यो मार्गं उपाये यच्च कौशलम् //
115 SK ज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश / प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः //
116 SK (क) लक्षणम् आत्मनः फलभूतां महाबोधिं या साक्षात् प्रददाति तादृशी क्रिया सम्भारप्रतिपत्तिरिति लक्षणम् /
117 SK (ख) भेदं अस्याः सम्भारप्रतिपत्तेः सप्तदश भेदा भवन्ति / यथा महाकरुणासम्भारः, दानसम्भारः, शीलसम्भारः, क्षान्तिसम्भारः, वीर्यसम्भारः, ध्यानसम्भारः, प्रज्ञासम्भारः, शमथसम्भारः, विदर्शनासम्भारः, युगनद्धसम्भारः, उपायकौशलसम्भारः, ज्ञानसम्भारः, पुण्यसम्भारः, मार्गसम्भारः, धारणीसम्भारः, भूमिसम्भारः, प्रतिपक्षसम्भारश्चेति /
118 SK (ग) अवधिः सम्भारमात्रं त्वादिकर्मिकभूमावपि भवति / किन्तु ये महाबोधिप्रापक्त्वेन साक्षान्निर्दिष्टास्ते सम्भाराः प्रयोगमार्गीयाग्रधर्मावस्थात आरभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तं भवन्ति / आदितः पञ्चदश सम्भारप्रतिपत्तयः प्रयोगमार्गीयाग्रधर्मावस्थापर्यन्तं भवन्ति / षोडशो भूमिसम्भारः सप्तदशश्च प्रतिपक्षसम्भारो दशसु भूमिषु भवतः /
119 SK १०. निर्याणप्रतिपत्तिः अस्याः स्वरूपम् अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां सम्यक् प्रदर्शितम् / तथा हि -
120 SK उद्देशे समतायां च सत्त्वार्थे यत्नवर्जंने / अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् / सर्वाकारज्ञतायां च निर्याणं मार्गगोचरम् / निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका //
121 SK (क) लक्षणम् एकान्तेन सर्वज्ञतायां निर्याणकरः शौद्धभूमिकः सत्त्वयोगः निर्याणप्रतिपत्तिरिति लक्षणम् /
122 SK (ख) भेदः निर्याणप्रतिपत्तिः सेयमष्टविधात्मिका भवति / तद्यथा - त्रिविधसमुद्देशे निर्याणम्, समतायां निर्याणम्, सत्त्वार्थे निर्याणम्, अनाभोगनिर्याणम्, अत्यन्तनिर्याणम्, प्राप्तिनिर्याणम्, सर्वाकारज्ञातानिर्याणम्, मार्गनिर्याणमिति /
123 SK (ग) अवधिः तिसृषु शुद्धभूमिष्वेवास्या व्याप्तिर्भवतीति /
124 SK // इति सर्वाकारज्ञतोपलक्षका दश धर्माः //
125 SK (आ) मार्गज्ञतोपलक्षका एकादश धर्माः
126 SK १. ध्यामीकरणतादीनि मार्गज्ञताङ्गानि, २. श्रावकमार्गः, ३. प्रत्येकबुद्धमार्गः, ४. बोधिसत्त्वमार्गः, ५. भावनामार्गकारित्रम्, ६. भावनामार्गाधिमुक्तिः, ७. भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभ प्रशंसा च, ८. परिणामना, ९. अनुमोदना, १०. अभिनिर्हारः, ११. अत्यन्तविशुद्धिश्चेति एकादश धर्मा मार्गज्ञतामुपलक्षयन्तीति अभिसमयालङ्कारे तिसृभिः कारिकाभिरुपदर्शिताः / तथा हि -
127 SK ध्यामीकरणतादीनि शिष्यखड्गपथौ च यौ / महानुशंसो दृङ्मार्गं ऐहिकामुत्रिकैर्गुणैः //
128 SK कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः / परिणामे ऽनुमोदे च मनस्कारावनुत्तमौ //
129 SK निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः / विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता //
130 SK १. ध्यामीकरणतादीनि ध्यामीकरणतादीनां मार्गज्ञताङ्गानां लक्षणादिकं सर्वम् अभिसमयालङ्कारे एकया कारिकयोपवर्णितम् / तथा हि -
131 SK ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति / विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च //
132 SK (क) लक्षणम् मार्गज्ञतापरिपूरका अवयवीभूता गुणा एव मार्गज्ञताङ्गानीति लक्षणम् / अथवा - मार्गज्ञतापरिपूरकाः अस्यामवस्थायां साक्षान्निर्दिष्टाः सत्त्वसन्ततिस्थगुणा मार्गज्ञताङ्गानीति लक्षणम् /
133 SK (ख) भेदः पञ्च मार्गज्ञताङ्गानि ध्यामीकरणतादीनि भवन्ति, तद्यथा - आधारः अपरोक्षाहङ्कारराहित्यम्, सहकारिप्रत्ययश्चित्तोत्पादः, सहेतुका व्याप्तिः, संसारात्यजनं स्वभावः, अपरिगृहीतसत्त्वपरिग्रहणमिति /
134 SK (ग) अवधिः सामान्यतो मार्गाप्रवेशमादाय बुद्धभूमिपर्यन्तं सीमा भवति / साक्षान्निर्दिष्टाङ्गानां दृष्ट्या सम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तं सीमा भवति /
135 SK २. श्रावकमार्गः श्रावकमार्गाधिगमस्य लक्षणादिकम् अभिसमयालङ्कारे अघोलिखितयैकया कारिकया सम्यगुपदर्शितम् / तथा हि -
136 SK चतुर्णामार्यसत्यानामाकारानुपलम्भतः / श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये //
137 SK (क) लक्षणम् श्रावकजातीयविनेयजनानुग्रहार्थं दुःखादिचतुरार्यसत्येषु किमप्येकमालम्ब्य अनित्यादिषोडशाकारेष्वन्यतमस्य साक्षात्कारदृष्ट्या व्यवस्थापितः श्रावकाधिगमजातीयो माहायानिकार्याभिसमयः श्रावकमार्गज्ञ मार्गज्ञानमिति /
138 SK (ख) भेदः आकारदृष्ट्या षोडशविधः, मार्गदृष्ट्या तु दर्शनभावना ऽशैक्षमार्गभेदेन त्रिविधः /
139 SK (ग) अवधिः दर्शनमार्गमारभ्य बुद्धभूमिपर्यन्तमस्य सीमा भवति / केषांचन मतेन महायानसम्भारमार्गमारभ्य बुद्धभूमिपर्यन्तमवधिरिति /
140 SK ३. प्रत्येकबुद्धमार्गः प्रत्येकबुद्धाधिगमस्य लक्षणादिकं सर्वमभिसमयालङ्कारे तिसृभिः कारिकाभिः प्रतिपादितम् / तथा हि -
141 SK परोपदेशवैयर्थ्य स्वयम्बोधात् स्वयम्भुवाम् / गम्भीरता च ज्ञानस्य खड्गानामभिधीयते //
142 SK सुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा / स सो ऽर्थः ख्यात्यशब्दो ऽपि तत्र तत्र तथा तथा //
143 SK ग्राह्यार्थकल्पनाहानाद् ग्राहकस्याप्रहाणतः / आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः //
144 SK (क) लक्षणम् प्रत्येकबुद्धगोत्रीयविनेयजनानुग्रहार्थं द्वादशायतनान्यालम्ब्य बाह्यग्राह्यार्थशून्यतासाक्षात्कारिज्ञानदृष्ट्या व्यवस्थापितः प्रत्येकबुद्धाधिगमजातीयो माहायानिकार्याभिसमयः प्रत्येकबुद्धमार्गमार्गज्ञं मार्गज्ञानमिति /
145 SK (ख) भेदः दर्शनमार्गः, भावनामार्गः, अशैक्षमार्ग इति त्रयो ऽस्य भेदा भवन्ति /
146 SK (ग) अवधिः महायानदर्शनमार्गमारस्य बुद्धभूमिपर्यन्तमस्य सीमा भवति /
147 SK ४. महायानदर्शनमार्गः महानुशंसस्य दर्शनामार्गस्य लक्षणम्, भेदः, अवधिश्चेति त्रीणि परिज्ञातव्यान्यत्र संक्षेपतो निरूप्यन्ते / अभिसमयालङ्कारे तत्स्वरूपं पञ्चभिः कारिकाभिरुपदर्शितम् /
148 SK (क) लक्षणम् भवशमान्तद्वयनिरोधलक्षणः सत्याभिसमयो महायानदर्शनमार्ग इति लक्षणम् /
149 SK (ख) भेदः समाहितज्ञानं पृष्ठलब्धज्ञानं चेति द्वौ दर्शनमार्गस्य भेदौ /
150 SK ज्ञानदृष्ट्या त्रीणि ज्ञानानि दर्शनमार्गः / प्रथमं यद् दर्शनमार्गभूतं श्रावकमार्गं जानाति, द्वितीयं यत् प्रत्येकबुद्धमार्गं जानाति / तृतीयं यन्महायानमार्गं जानातीति त्रयो भेदा भवन्ति /
151 SK आलम्बनदृष्ट्या व्यावृत्तिदृष्ट्या चाष्टौ क्षान्तयः, अष्टौ च ज्ञानानीति षोडश भेदा अवसातव्याः /
152 SK (ग) अवधिः प्रथमायामेव बोधिसत्त्वभूमावस्य व्याप्तिर्भवतीति /
153 SK ५. भावनामार्गकारित्रम् भावनामार्गकारित्राणां लक्षणादिकम् अभिसमयालङ्कारे एकया कारिकया स्पष्टमुपदर्शितम् / तथा हि -
154 SK सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः / उपक्रमाविषह्यत्वं बोधिराधारपूज्यता //
155 SK (क) लक्षणम् दृष्टतत्त्वभावनाबलेन प्राप्तानुशंसा भावनामार्गकारित्रस्य लक्षणम् /
156 SK (ख) भेदः अस्य षड् भेदा भवन्ति, यथा - आत्मोत्कर्षनिषेधात् दमनकारित्रम्, सर्वजननमनकारित्रम्, रागादिक्लेशाभिभवकारित्रम्, परकृताघातविरोधोपनिपाताद् उपक्रमाविषह्यत्वकारित्रम्, सम्यक् संबोधिप्रतिपत्तिकारित्रम्, प्रज्ञापारमिताधारविषयपूज्यताकारित्रमिति /
157 SK (ग) अवधिः प्रथमां भूमिमारभ्य दशमीं भूमिं यावदस्य सीमा भवति /
158 SK भावनामार्गंः अस्य लक्षणम्, भेदः अवधिश्चेति त्रीण्यत्रोच्यन्ते /
159 SK (क) लक्षणम् माहायानिको ऽन्वभिसमयः महायानभावनामर्ग इति लक्षणम् / अन्वभिसमयः भावनामार्ग इति पर्यायवाचिनौ /
160 SK (ख) भेदः सास्रवो भावनामार्गः, अनास्रवो भावनामार्गश्चेति द्वौ भेदौ / तत्र सास्रवः सविकल्पभावनामार्गः अनास्रवश्च निर्विकल्प इति /
161 SK तत्र सास्रवो ऽधिमुक्तिपरिणामनानुमोदनामनस्कारलक्षणस्त्रिविधः / अनास्रवः पुनरभिनिर्हारः अत्यन्तविशुद्धिस्वभावश्चेति द्विविधः /
162 SK ६. भावनामार्गाधिमुक्तिः अधिमुक्तिभावनामार्गस्य लक्षणादिकं सर्वम् अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां स्पष्टमादर्शितम् / तथा हि -
163 SK अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका / परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते //
164 SK मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः / सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता //
165 SK (क) लक्षणम् स्वार्थ-स्वपरार्थ-परार्थाकरभूतायां जिनजनन्याम् अभिसम्प्रत्ययवशेन व्यवस्थापितो माहायानिको ऽन्वभिसमयो ऽधिमुक्त्याख्यभावनामार्गः सविकल्प इति लक्षणम् /
166 SK (ख) भेदः अधिमुक्तिः स्वार्था स्वपरार्था परार्था चेति मूलभेदेन त्रिविधा / त्रिविधा ऽपि सती मृदुमध्याधिमात्रभेदेन प्रत्येकं मेदात् त्रिकत्रिभिर्नवधा भवति / तद्यथा मृद्वी मध्या ऽधिमात्रा च स्वार्थाधिमुक्तिः; एवं स्वपरार्थाधिमुक्तिः परार्थाधिमुक्तिश्चेति / एवमेषा ऽपि नवप्रकारा ऽधिमुक्तिः मृदुमृद्वादिप्रकारभेदेन प्रत्येकं विभिद्यमाना नवभिस्त्रिभिः सप्तविंशतिप्रकारा भवति / तद्यथा - मृदुमृदुः, मृदुमध्यः, मृद्वधिमात्रः, मध्यमृदुः, मध्यमध्यः, मध्याधिमात्रः; अधिमात्रमृदुः, अधिमात्रमध्यः, अधिमात्राधिमात्र इति स्वार्थाधिमुक्तेर्नवप्रकाराः / तथा स्वपरार्थाधिमुक्तेः परार्थाधिमुक्तेश्च वेदितव्याः /
167 SK (ग) अवधिः प्रथमां भूमिमारभ्य दशमीं भूमिं यावद् अस्याः सीमा भवति / द्वितीयां भूमिमारभ्यं दशमभूमिपर्यन्तमिति केचित् /
168 SK ७. भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च भावनामार्गाधिमुक्तस्य बोधिसत्त्वस्य स्तुत्यादीनां लक्षणादिकम् अभिसमयालङ्कारे एकया कारिकयोपवर्णितम् / तथा हि -
169 SK स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति / अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते //
170 SK (क) लक्षणम् पुर्वोक्तत्रिविधाधिमुक्तिप्रज्ञापारमितां प्रति प्रवृत्तस्य तद्भावकबोधिसत्त्वस्योत्साहवर्धनार्थं तदधिमोक्षस्य क्रियमाणाः स्तुत्यादयो यथाभूतार्थाधिगमलक्षणा नार्थवादरूपा इति लक्षणम् /
171 SK (ख) भेदः पूर्ववत् सप्तविंशतिरेव प्रभेदाः /
172 SK (ग) अवधिः अधिमुक्तिभावनामार्गवत् /
173 SK ८. भावनामार्गपरिणामना अस्याः परिणामनायाः लक्षणभेदादिसर्वं स्वरूपम् अभिसमयालङ्कारे तिसृभिः कारिकाभिः स्पष्टमुपदर्शितम् / तथा हि -
174 SK विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् / नोपलम्भाकृतिश्चासावविपर्यासलक्षणः //
175 SK विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः / सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः //
176 SK त्रैधातुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा / मृदुर्मध्यो ऽधिमात्रश्च महापुण्योदयात्मकः //
177 SK (क) लक्षणम् यो माहायानिकः सविकल्पो ऽन्वभिसमयः स्वपरकुशलपुण्यक्रियावस्तु अनुत्तरायां सम्यक्सम्बोधौ परिणामयति, स परिणामनाख्यो महायानभावनामार्ग इति लक्षणम् /
178 SK (ख) भेदः अयं भावनामार्गो द्वादशविधो भवति, तद्यथा - विशेषपरिणामनामनस्कारः, अनुपलम्भाकारपरिणामनामनस्कारः, अविपर्यासलक्षणः परिणामनामनस्कारः, विविक्तपरिणामनामनस्कारः, बुद्धपुण्यौघस्वभावानुस्मृतिपरिणामनामनस्कारः, उपायकौशलपरिणामनामनस्कारः, अमिमित्तपरिणामनामनस्कारः, बुद्धानुज्ञात (अनुमोदित)-परिणामनामनस्कारः, त्रैधातुकापर्यापन्नपरिणामनामनस्कारः, महापुण्योदयात्मको मृदुपरिणामनामनस्कारः, महापुण्योदयात्मको मध्यपरिणामनामनस्कारः, महापुण्योदयात्मको ऽधिमात्रपरिणामनामनस्कार इति द्वादश भेदा भवन्ति /
179 SK (ग) अवधिः प्रथमां प्रमुदिता भूमिमारभ्य यावद् दशमीं भूमिमस्य परिणामनामनस्कारस्य सीमा भवति /
180 SK ९. भावनामार्गीयानुमोदना अनुमोदनामनस्कारस्य लक्षणभेदादयो ऽभिसमयालङ्कारे एकयैव कारिकयेत्थमुपवर्णितम् / तथा हि -
181 SK उपायानुपलम्भाभ्यां शुभमूलानुमोदना / अनुमोदे मनस्कारभावनेह विधीयते //
182 SK (क) लक्षणम् यो माहायानिकः सविकल्पो ऽन्वभिसमयः स्व-परकुशलपुण्यक्रियावस्तूनि अनुमोदते, स अनुमोदनाख्यो महायानभावनामार्ग इति लक्षणम् /
183 SK (ख) भेदः अनुमोदनामनस्कारस्य द्वौ भेदौ भवतः, यथा-स्वकुशलपुण्यक्रियावस्त्वनुमोदनम्, परकुशलपुण्यक्रियावस्त्वनुमोदनं इति /
184 SK अथवा - संवृतिविषयी अनुमोदनामनस्कारः परमार्थविषयी अनुमोदनामनस्कारश्चेति /
185 SK (ग) अवधिः अधिमुक्तिपरिणामनानुमोदनामनस्काराणां त्रयाणां भूम्यवधिः समान एव /
186 SK १०. अभिनिर्हारः अनास्रवस्य अभिनिर्हारभावनामार्गस्य लक्षणादिकम् अभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् / तथा हि -
187 SK स्वभाव-श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः / नोपलम्भेन धर्माणामर्पणा च महार्थता //
188 SK (क) लक्षणम् माहायानिको ऽनास्रवो ऽन्वभिसमयः, यः पर्यंन्ताधिगमकृत्यं व्यवस्थापयति, स अभिनिर्हाराख्यो महायानभावनामार्ग इति लक्षणम् /
189 SK (ख) भेदः अस्य पञ्च भेदा भवन्ति, तद्यथा - रूपादिसर्वधर्माविपरीतदर्शनं स्वभावः, नान्यथा बुद्धत्वसम्प्राप्तिरिति भावनामार्गस्य श्रेष्ठता, सर्वधर्मविशेषानुत्पादनेन अधिगमप्रयोगो ऽनभिसंस्कारः, सर्वधर्माणां परमार्थतो ऽनुपलम्भतया अर्पणा, बुद्धत्वमहार्थसाधनान्महार्थतेति /
190 SK (ग) अवधिः प्रथमां भूमिमारभ्य दशमीं भूमिं यावदस्याभिनिर्हारस्य सीमा भवति /
191 SK ११. अत्यन्तविशुद्धिः अत्यन्तविशुद्ध्याख्यस्य अनास्रवभावनामार्गस्य लक्षणादिकं सर्वम् अभिसमयालङ्कारे तिसृभिः कारिकाभिः सुस्पष्टं प्रतिपादितम् / तथा हि -
192 SK फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः / अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता //
193 SK क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् / हानाद् विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वदा //
194 SK मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु / अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः //
195 SK (क) लक्षणम् माहायानिको ऽनास्रवो ऽन्वभिसमयः, यो ऽन्तिमप्रहाणस्य कृत्यं व्यवस्थापयति, स अत्यन्तविशुद्ध्याख्यो महायानभावनामार्ग इति लक्षणम् /
196 SK (ख) भेदः भावनामार्गप्रहातव्यानां नवानां विपक्षाणां प्रतिपक्षभूता मृदुमृद्वादयो नव भावनामार्गा एवास्य अत्यन्तविशुद्धिभावनामार्गस्य भेदा भवन्ति /
197 SK (ग) अवधिः प्रथमां भूमिमारभ्य दशमभूमिपर्यन्तमस्य भावनामार्गस्य सीमा भवतीति /
198 SK // इति मार्गज्ञतोपलक्षका एकादश धर्माः //
199 SK (इ) सर्वज्ञतोपलक्षका नव धर्माः
200 SK १. प्रज्ञया न भवे स्थानम्, २. कृपया न शमे स्थितिः, ३. अनुपायेन जिनजनन्या दूरत्वम्, ४. उपायेन अविदूरता, ५. विपक्षः, ६. प्रतिपक्षः, प्रयोगः, ८. समता, ९. दर्शनमार्गश्चेति नव धर्माः सर्वज्ञतोपलक्षका इति अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां सम्यगुक्ताः / तथा हि -
201 SK प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः / अनुपायेन दूरत्वम् उपायेनाविदूरता //
202 SK विपक्षप्रतिपक्षौ च प्रयोगः समता ऽस्य च / दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते //
203 SK १. प्रज्ञता न भवे स्थानम् २. कृपया न शमे स्थितिः
204 SK उभयोर्लक्षणादिकम् अभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् / तथा हि -
205 SK नापरे न परे तीरे नान्तराले तयोः स्थिता / अध्वनां समताज्ञानात् प्रज्ञापारमिता मता //
206 SK तत्र उभयोः लक्षणादीनि पृथक् पृथगत्राभिधीयन्ते /
207 SK प्रज्ञया न भवे स्थानम्
208 SK (क) लक्षणम् अनित्यादिषोडशाकाराणां साक्षात्कारिणी हीनयानजातीया महाकरुणागर्भा माहायानिकर्यसन्ततिस्था प्रज्ञा अस्याः सर्वज्ञताया लक्षणम् / इयं च बोधिसत्त्वानां प्रज्ञापारमिता प्रज्ञया संसारादीनवदर्शनात् न संसारे भवान्ते स्थिता /
209 SK (ख) भेदः दर्शनमार्गः भावनामार्गः अशैक्षमार्गश्चेति त्रयो भेदा भवन्ति /
210 SK दुःखादिचतुरार्यसत्यसम्बद्धानित्यादिषोडशाकाराणां साक्षात्कारी महायानभावनामार्गो ऽस्याः सर्वज्ञतायाः प्रज्ञता न भवे स्थानमितिलक्षणात्मिकाया उपलक्षकः /
212 SK (क) लक्षणम् महाकरुणया संवृत्यपेक्षशमान्तव्यावर्तको माहायानिको ऽभिसमयो ऽस्याः सर्वज्ञताया लक्षणम् / इयं च प्रज्ञापारमिता कृपया सत्त्वार्थकरणात् न निर्वाणे शमान्ते स्थिता / माहायानिकभावनामार्गीयार्यपुद्गलसन्ततिस्था महाकरुणा अस्याः कृपया न शमे स्थितिरितिमार्गज्ञताया उपलक्षिका /
213 SK (ख) भेदः माहायानिकस्यार्यस्य सत्त्वालम्बना धर्मालम्बना निरालम्बना चेति तिस्रो महाकरुणाः, बोधिचित्तोत्पादादयश्च भेदा भवन्ति /
214 SK त्रैयध्विकधर्माणामनुत्पादाकारेण तुल्यतावबोधात् या श्रावकाद्यगोचरत्वेन विप्रकृष्टा बोधिसत्त्वानां प्रज्ञापारमिता, सा पुनर्नापरे तीरे संसारे, न परे तीरे निर्वाणे व्यवस्थिता / नापि संसारनिर्वाणमुभयमन्तरेण वस्तुनो ऽसत्त्वात् मध्ये ऽपि स्थिता, प्रज्ञाकरुणयोः सम्यक् प्रतिवेधेन संसारनिर्वाणोभयोपलम्भवियोगात् /
215 SK (ग) अवधिः प्रथमां प्रमुदिताभूमिमारभ्य बुद्धभूमिपर्यन्तमुभयोः सीमा भवति /
216 SK ३. अनुपायेन दूरत्वम् अस्य लक्षणादिकं सर्वम् अभिसमयालङ्कारे कारिकार्धेन स्पष्टमुल्लिखितम् तथा हि -
217 SK अनुपायेन दूरं सा सनिमित्तोपलभ्भतः /
218 SK (क) लक्षणम् श्रावकादीनाम् अध्वसमताज्ञानाभावात् अनित्याद्याकाराणां साक्षात्कारि ज्ञानं सनिमित्तोपलम्भयोगेन कृपाप्रज्ञावैकल्यात् दूरीभूतं जिनजनन्या इति लक्षणम् /
219 SK (ख) भेदः श्रावकसन्ततिस्थं अनित्याद्याकारज्ञानं प्रत्येकबुद्धसन्ततिस्थं चानित्याद्याकारज्ञानमिति भेदद्वयम् /
220 SK (ग) अवधिः दर्शनमार्गमारभ्य अर्हत्त्वावस्थापर्यन्तमस्य सीमा भवति /
221 SK ४. उपायेन अविदूरता अस्य लक्षणादीनां प्रतिपादनम् अभिसमयालङ्कारे कारिकार्धेन सम्यक् कृतम् / तथा हि -
222 SK उपायकौशलेनास्याः सम्यगासन्नतोदिता //
223 SK (क) लक्षणम् महाकरुणया शून्यतासाक्षात्कारिण्या प्रज्ञया चोपात्तं माहायानिकर्याणां हीनयानजातीयम् अनित्याद्याकारज्ञानम् अस्य लक्षणम् /
224 SK ᳚बोधिसत्त्वादीनां तु उत्सारितभावाभिनिवेशभ्रान्तिनिमित्तानां रूपादिसर्वधर्मपरिज्ञानमेव तत्समतापरिज्ञानमित्यतः सम्यगासन्नीभावो मातुरिति ज्ञेयम् /᳚
225 SK (ख) भेदः माहायानिको दर्शनमार्गः, भावनामार्गः, अशैक्षमार्गश्चेति त्रयो भेदा भवन्ति /
226 SK (ग) अवधिः महायानदर्शनमार्गमारभ्य बुद्धभूमिपर्यन्तं सीमा भवति /
227 SK ५. विपक्षः अस्य लक्षणादिकम् अभिसमयालङ्कारे एकयां कारिकया सुस्पष्टं प्रतिपादितम् / तथा हि -
228 SK रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च / दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता //
229 SK (क) लक्षणम् महाकरुणा शून्यताप्रज्ञाभ्यां वियुक्ता भावोलम्भस्वभावा हैनयानिकी वस्तुज्ञतेति लक्षणम् /
230 SK ᳚सर्वेषां रूपादीनां त्रैयध्विकानां च धर्माणां सास्रवानास्रवोभयस्थानीयानामनुपलम्भस्वरूपाणां सर्वत्र भावोपलम्भतया ते परपरिकल्पितात्मादिशून्यत्वेन दृष्टाः / अनुष्ठानसंज्ञा तु एतेषां प्रतिपक्षभूतापि विपर्यासप्रवृत्तत्वेन हेयत्वात् विपक्षो भवति /᳚
231 SK (ख) भेदः (ग) अवधिः अस्य भेदो ऽवधिश्चेत्युभौ ऽअनुपायेन दूरत्वम् ऽ इत्यस्मिन् प्रकरेण यथा प्रदर्शितौ, तद्वत् ज्ञेयादिति /
232 SK ६. प्रतिपक्षः अस्य लक्षणभेदादिकं सर्वम् अभिसमयालङ्कारे तिसृभिः कारिकाभिः सविस्तरमुपदर्शितम् / तथा हि -
233 SK दानादिष्वनहंकारः परषां तन्नियोजनम् / सङ्गकोटीनिषेधो ऽयं सूक्ष्मः सङ्गो जिनादिषु //
234 SK तद्गाम्भीर्यं प्रकृत्यैव विवेकाद् धर्मपद्धतेः / एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् //
235 SK दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता / रूपादिभिरविज्ञानात् तदचिन्त्यत्वमिष्यते //
236 SK (क) लक्षणम् महाकरुणोपायेन शून्यतासाक्षात्कारिण्या प्रज्ञया चोपात्ता माहायानिकार्यसन्ततिस्था वस्तुज्ञता प्रतिपक्षलक्षणात्मिका /
237 SK (ख) भेदो ऽवधिश्च उभावपि पूर्व ऽउपायेन अविदूरता ऽ इत्यस्मिन् प्रसङ्गे यथावर्णितौ तथा ज्ञातव्यौ /
238 SK विशेषः जिनजनन्या दूरत्वम् अविदूरत्वमिति वस्तुज्ञतायाः (सर्वज्ञतायाः) द्वौ भेदौ / हीनयानापुरःसरायाः फलभूतजिनजनन्याः अविदूरता, उपायकौशलेन अविदूरता, प्रतिपक्षः, माहायानीयवस्तुज्ञता चेति चत्वारः पर्यायाः /
239 SK फलभूतजिनजनन्या दूरत्वम, अनुपायेन दूरत्वम्, निमित्तोपलम्भग्राहप्रतिबद्धता, विपक्षः, हीनयानवस्तुज्ञता चेति पर्यायवाचिनः.
240 SK यथानिर्दिष्ट एव श्रावकबोधिसत्वादीनां विपक्षप्रतिपक्षयोरयं विभागो ऽवसातव्यः / तथा चोक्तम् -
241 SK एवं कृत्वा यथोक्तौ वै ज्ञेयः सर्वज्ञतानये / अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः //
242 SK अपि च - ᳚श्रावकादीनामेवं मातुर्दूरीभावेनानुष्ठानं प्रतिपक्षो ऽपि सन् वस्तूपलम्भविपर्यासप्रवृत्तत्वेन बोधिसत्त्वानां त्याज्यत्वाद् विपक्ष इति᳚ /
243 SK ७. प्रयोगः अस्य लक्षणभेदादिकं सर्वम् अभिसमयालङ्कारे सार्धद्वयेन कारिकाग्रन्थेन सविस्तरं प्रतिपादितम् / तथा हि -
244 SK रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः / तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः //
245 SK अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा / यथाभव्यं फलप्राप्तेरवन्ध्यो ऽभिमतश्च सः //
246 SK अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः /
247 SK (क) लक्षणम् सांवृतिके वस्तुस्वरूपे तद्विशेषे च विपर्यासप्रवृत्तस्य उपलम्भाभिनिवेशस्य प्रतिपक्षभूतो हीनयानजातीयः सत्त्वयोगः प्रयोग इति लक्षणम् /
248 SK (ख) भेदः प्रयोगः दशविधो भवति / तद्यथा - रूपादिषु सत्याभिनिवेशप्रतिषेधः, तद्विशेषेष्वनित्यादिषु सत्याभिनिवेशप्रतिषेधः, कल्पितरूपेषु अपरिपूरिः, धर्मतारूपेषु प्रपूरिः, पारमितासु परमार्थतो ऽपरिहाणिवृद्धी (अविकारत्वम्), परमार्थतो ऽकर्तृत्वम्, त्रिसर्वज्ञात्मकानां यथाक्रममुद्देशप्रयोगकारित्राणां दुष्करता, यथाभव्यफलप्राप्त्या अवन्ध्यता, महानुशंसायां बोधौ अपरप्रत्ययत्वम्, स्वप्नोपमपरिणामादिसप्तविधख्यातिज्ञानमिति दश भेदा भवन्ति /
249 SK (ग) अवधिः सम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति /
250 SK ८. समता अस्याः स्वरूपम् अभिसमयालङ्कारे कारिकार्धेन समादर्शितम् / तथा हि -
251 SK चतुर्धा ऽमनना तस्य रूपादौ समता मता /
252 SK (क) लक्षणम् उपर्युक्तदशविधवस्तुज्ञताप्रयोगाकाराणां ज्ञातृज्ञेयधर्माणाम् अमनना समताया लक्षणम् /
253 SK (ख) भेदः पूर्वोक्तेषु दशविधप्रयोगेषु प्रतिस्वं चतस्रः अमनना भवन्तीति चत्वारिंशदस्याः समतायाः प्रभेदा भवन्ति / उक्तं चालोकटीकायाम् -
254 SK ᳚तदेवं रूपादिपदार्थमनना-नीलादिनिमित्तमनना-ऽरूपं द्विधा विंशतिधे ऽ-त्यादिप्रपञ्चमनना-निर्वेधभागीयाद्यधिगममननानां प्रतिषेधेन ज्ञातृज्ञेयधर्मानुपलब्धिश्चतुर्विधोक्ता विज्ञेया /᳚
255 SK (ग) अवधिः सम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्याः समतायाः सीमा भवति /
256 SK ९. दर्शनमार्गः अस्य लक्षणादिकं सर्वम् अभिसमयालङ्कारे पञ्चभिः कारिकाभिः प्रतिपादितम् /
257 SK (क) लक्षणम् द्वात्रिंशत्समारोपशून्यः सत्याभिसमयो दर्शनमार्ग इति लक्षणम् /
258 SK (ख) भेदः त्रयाणां यानानां त्रयाणां दर्शमार्गाणां व्यावृत्तिभेदेन षोडश क्षणा एवास्य षोडश भेदा भवन्तीति /
259 SK // इति सर्वज्ञतोपलक्षका नव धर्माः //
260 SK २. Cअतुःप्रयोगोपलक्षकाः षट्त्रिंशद् धर्माः
261 SK तत्र सर्वाकाराभिसम्बोधोपलक्षका एकादश धर्माः, मूर्धाभिसमयोपलक्षका अष्टौ धर्माः, आनुपूर्विकाभिसमयोपक्षकास्त्रयोदश धर्माः, एकक्षणाभिसम्बोधोपलक्षकाश्चत्वार इति षट्त्रिंशद् भवन्ति /
262 SK (अ) सर्वाकाराभिसम्बोधोपलक्षका एकादश धर्माः
263 SK १. आकाराः, २. प्रयोगाः, ३. गुणाः, ४. दोषाः, ५. लक्षणानि, ६. मोक्षभागीयम्, ७. निर्वेधभागीयम्, ८. अवैवर्तिको गणः, ९. भवशान्त्योः समता, १०. अनुत्तरा क्षेत्रशुद्धिः, ११. उपायकौशलमित्येकादश धर्माः सर्वाकाराभिसम्बोधमुपलक्षयन्तीति अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यामुपदर्शितम् / तथा हि -
264 SK आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः / मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः //
265 SK समता भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा / सर्वाकाराभिसम्बोध एष सोपायकौशलः //
266 SK (क) लक्षणम् त्रिसर्वज्ञतासम्बद्धानां त्रिसप्तत्युत्तरैकशताकाराणां भावनामय्या प्रज्ञयोपात्तत्वेन व्यवस्थापितः सत्वयोगः सर्वाकाराभिसम्बोध इति लक्षणम् /
267 SK (ख) पर्यायाः बोधिसत्त्वमार्गः, पारमितामार्गः, सत्त्वयोगः, आकारज्ञताप्रयोगः, मार्गज्ञताप्रयोगः, सन्नाहप्रतिपत्तिरित्यनर्थान्तरम् /
268 SK (ग) भेदः आकारदृष्ट्या त्रिसप्तत्युत्तरशतम्, प्रयोगदृष्ट्या विंशतिः भेदा भवन्ति /
269 SK (घ) अवधिः महायानसम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति /
270 SK १. आकाराः आकाराणां लक्षणादिकं सर्वम् अभिसमयालङ्कारे पञ्चभिः कारिकाभिः सविस्तरं सम्यगुपवर्णितम् /
271 SK (क) लक्षणम् सर्वाकारमार्गवस्तुज्ञानसंग्रहेण त्रिसर्वज्ञताकाराणां भावनामयं प्रयोगवैशिष्ट्यम् आकाराणां लक्षणमिति /
272 SK (ख) भेदः त्रिसप्तत्युत्तरशतमाकाराणां भेदा भवन्ति / तथा हि - सर्वज्ञतायाः सप्तविंशतिः, मार्गज्ञतायाः षट्त्रिंशत्, सर्वाकारज्ञताया दशोत्तरशतमिति त्रिसप्तत्युत्तरशतं भेदाः /
273 SK चतुरार्यसत्येषु प्रथमतः त्रयाणां सत्यानां प्रत्येकं चत्वार इति द्वादश, मार्गसत्यस्य चतुर्थस्य पञ्चदश चेति सर्वज्ञतायाः (वस्तुज्ञतायाः) सप्तविंशतिराकाराः / तथा चोक्तम् अभिसमयालङ्कारे -
274 SK असदाकारमारभ्य यावन्निश्चलताकृतिः / चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः //
275 SK समुदयसत्यस्य अष्टौ, मार्गसत्यस्य सप्त, दुःखसत्यस्य पञ्च, निरोधसत्यस्य षोडश चेति मार्गज्ञतायाः षट्त्रिंशद् आकारा भवन्ति / तथा चोक्तम् अभिसमयालङ्कारे -
276 SK हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् / अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः //
277 SK शैक्षश्रावकाणां सप्तत्रिंशद् बोधिपक्ष्या वस्तुज्ञताया आकाराः, बोधिसत्त्वानां मार्गज्ञतायाः चतुस्त्रिंशत्, बुद्धानां सर्वाकारज्ञताया असाधारणा एकोनचत्वारिंशच्चेति सर्वाकारज्ञताया दशोत्तरशतम् आकारा भवन्ति / तथा चोक्तम् अभिसमयालङ्कारे -
278 SK स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः / शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् //
279 SK सप्तत्रिंशच्चतुस्त्रिंशत्त्रिशन्नव च ते मताः / त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः //
280 SK ज्ञानाकारेभ्यः पूर्वम् अर्थाकाराः परिज्ञातव्या इति प्रथमतः त्रिसप्तत्युत्तरशतम् अर्थाकारा उपदर्शिताः /
281 SK २. प्रयोगाः प्रयोगाणां लक्षणादिकम् अभिसमयालङ्कारे चतसृभिः कारिकाभिः सविस्तरं सुस्पष्टमुपवर्णितम् /
282 SK (क) लक्षणम् ज्ञातृज्ञेययोः वस्तुमार्गाकाराणां च शमथविपश्यनायुगनद्धभावनास्वरूपं निःस्वभावतानिष्प्रपञ्चात्मकं ज्ञानमेवात्र साक्षान्निर्दिष्टस्य प्रयोगस्य लक्षणमिति /
283 SK अथवा - त्रिसर्वज्ञतानां यावदाकाराणां शमथविपश्यनायुगनद्धभावनामय्या प्रज्ञयोपात्तः सत्त्वयोग एवात्र निर्दिष्टप्रयोगस्य लक्षणम् / यतो हि ऽकृच्छ्राच्चिरेण प्रतिवोधतः ऽ इत्यनेन निर्दिष्टः सम्भारमार्गीयः प्रयोगो ऽत्र संगृहीतो भवति /
284 SK (ख) भेदः विंशतिः प्रयोगाणां भेदा भवन्ति / तत्र स्वरूपतः पञ्च प्रमेदाः, यथा - रूपादिषु निःस्वभावतया अनवस्थानप्रयोगः, अयोग एव तेषु प्रयोगो भवतीत्ययोगप्रयोगः, रूपादितथतागम्भीरतया प्रतिष्ठानानुपलब्ध्यर्थेन सर्वज्ञताधिकारे गम्भीरप्रयोगः, रूपादिदुरवगाहतया प्रकृत्यनाविलार्थेन मार्गज्ञताधिकारे दुरवगाहप्रयोगः, रूपाद्यप्रमाणतया पर्यन्तानुपलम्भार्थेन सर्वाकारज्ञताधिकारे अप्रमाणप्रयोग इति /
285 SK पुद्गलाश्रयदृष्ट्या अष्टौ प्रयोगाः / तथा हि - गम्भीरशून्यतायामुत्त्रसनजातीयस्यादिकर्मिकस्य कृच्छचिराभिसम्बोधप्रयोगः, प्रयोगमार्गीयोष्माभिसमयादारभ्य गम्भीरधर्मतायामुत्त्रासो न भवति, न च स्वप्ने ऽपि षट्पारमिताचर्यासु दूरीभाव इति व्याकरणलाभप्रयोगः, मूर्धाभिसमयादारभ्य धर्मताधिगमविषयकेण चिराभ्यासेन अविनिवर्तनीयप्रयोगः, क्षान्तिमारभ्य उपायकौशलेन धर्मताधिगमदृढतया श्रावकप्रत्येकबुद्धन्तरायिकधर्मवर्जनात् निर्याणप्रयोगः, अग्रधर्माभिसमयमारभ्य स्तम्बाद्यनुपलम्भात् महासमुद्रस्याभ्यासन्नत्वमिव सततभावनादिप्रतिपत्त्या निरन्तरप्रयोगबलेन धर्मंधातोः साक्षाद्दर्शनस्याभ्यासन्नत्वनिश्चय इति निरन्तरप्रयोगः, सर्वज्ञताहेतूनां अभिनवानास्रवधर्माणामाधारत्वप्रतिपत्तेरासन्नाभिसम्बोधप्रयोगः, क्षिप्रं धर्मंकायफलाभिनिर्वर्तनात् क्षिप्राभिसम्बोधप्रयोगः, धर्मचक्रप्रवर्तनादिकं परार्थप्रयोग इति /
286 SK प्रज्ञापारमिताभावनापारिपूर्युपायदृष्ट्या चत्वारः प्रयोगाः / तद्यथा परमार्थतो गुणदोषाणां वृद्धिपरिहाण्यदर्शनेन प्रज्ञापारमितायां चरणानुज्ञानात् अवृद्ध्यपरिहाणिप्रयोगः, परमार्थतो धर्माधर्मादेरनुपलम्भप्रतिपत्त्या धर्माधर्माद्यनुपलम्भप्रयोगः, धर्मधातुरूपत्वेन रूपाद्यचिन्त्यमिति अचिन्त्यप्रयोगः, धर्मधातुरूपत्वात् रूपादितन्निमित्ततत्स्वभावादिषु विकल्पाभावाद् अविकल्पप्रयोग इति /
287 SK प्रयोगफलदृष्ट्या द्वौ प्रयोगौ / तथा हि - स्रोत-आपत्त्याद्यनुत्तरसम्यक्सम्बोधिफलरत्नप्रदायकत्वात् फलरत्नदानप्रयोगः, क्लेशज्ञेयावरणप्रहाणहेतुत्वेन विशुद्धिप्रयोग इति द्वौ /
288 SK क्षिप्रभावनादृष्ट्या एकः प्रयोगः, यथा धर्मतैषा यस्मान्महारत्नानां बहवो ऽन्तरायाः सम्भवन्ति, तस्मात् परमरत्नस्वभावाया मातुः संवत्सरेण बह्वन्तरायत्वे ऽपि लिखनं शीघ्रमेवेति अवधिप्रयोगः /
289 SK ३. गुणाः गुणानां लक्षणादिकं सर्वम् अभिसमयालङ्कारे कारिकार्धेनोपदर्शितम् / तथा हि -
290 SK माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः /
291 SK (क) लक्षणम् प्रयोगाणां भावनाबलेन अधिगतप्राशस्त्यं गुणानां लक्षणम् /
292 SK (ख) भेदः गुणानां चतुर्दश भेदा भवन्ति / तथा हि - पारमितायां उद्गृह्यमाणायां मारकृतविघ्नाः तथागतानुभावेन व्याहन्यन्त इति मारशक्तिव्याघातगुणः, प्रयोगमौलपृष्ठावस्थासु तथागतसमन्वाहरणलाभात् बुद्धसमन्वाहारज्ञातत्वगुणः, तथागतज्ञानदर्शनलाभात् बुद्धप्रत्यक्षीकरणगुणः, तथागतानां समीपीभवनलाभेन सम्यक्सम्बोध्यासन्नीभावगुणः, महानुशंसलाभात् महार्थतादिगुणः, तथागतकृत्यकरणाद् देशनिरूपणागुणलाभेन देशनिरूपणगुणः, प्रतिपक्षधर्मपरिपूरणलाभात् सर्वानास्रवधर्मपरिपूरिगुणः, सर्वाकारज्ञताकथाकथनलाभेन कथापुरुषतागुणः, तथागतसानाथ्यकरणलाभेन अभेद्यतागुणः, महोदारप्रीतिसम्पादनात् असाधारणकुशलमूलोत्पत्तिगुणः, प्रतिज्ञानुमोदनलाभे क्रमण प्रयोगाभ्यासात् प्रतिज्ञायाथार्थ्यसम्पादनगुणः, गम्भीरोदारार्थाधिमोक्षेण उदारफलपरिग्रहणगुणः, सत्वार्थकरणसामर्थ्यलाभेन सत्त्वार्थप्रतिपत्तिगुणः, अविकलप्रज्ञापारमिताप्रापककुशलमूलसमन्वागमे प्रयोगाभ्यासेन नियतिलाभगुणश्चेति चतुर्दश गुणाः /
293 SK ४. दोषाः प्रयोगाणां दोषा अभिसमयालङ्कारे कारिकार्धेन उपदर्शिताः / तथा हि -
294 SK दोषाश्च षड् विबोद्धव्याश्चतुर्भिर्दशकैः सह //
295 SK (क) लक्षणम् प्रयोगोत्पत्तिस्थितिप्रकर्षगतीनामन्तरायकरा विघ्ना एव दोषा इति लक्षणम् /
296 SK (ख) भेदः षट्चत्वारिंशद् दोषाणां भेदा भवन्ति /
298 SK कृच्छ्रप्राप्तिः (चिरेण मातरि प्रतिभानम्), अत्याशुप्रतिभानता, कायदौष्ठुल्यम्, चित्तदौष्ठुल्यम्, अयोगविहितस्वाध्यायादिता, वैमुख्यनिमित्तग्राहिता, हेतुभ्रंशः, प्रणीतास्वादभ्रंशः, उत्तमयानभ्रंशः, उद्देशभ्रंशश्चेति दश /
299 SK द्वितीय दशकम् हेतुफलसम्बन्धभ्रंशः, निरुत्तरस्थानभ्रशः, बहुविधविषयविकल्पप्रतिभानोत्पादः, अक्षरलिखनाभिनिवेशः, अभावाभिनिवेशः, अक्षराभिनिवेशः, अनक्षराभिनिवेशः, जनपदादिमनस्कारः, लाभसत्कारश्लोकास्वादनम्, अमार्गोपायकौशलमार्गणञ्चेति दश /
300 SK अमी विशतिः दोषाः पारमितायां प्रवृत्तस्य योगिनो ऽन्तरायकराः प्रतिपादिताः / सम्प्रति पुनः प्रवृत्तिपूर्विका विसामग्री निरुच्यते /
301 SK तृतीयं दशकम् छन्दकिलासवैधुर्यम् (अयं हि श्रोतावक्त्रोः दोषः), छन्दविषयभेदवैधुर्यम् (अयमपि तथा), अल्पेच्छतानल्पेच्छतावैधुर्यम्, धूतगुणयोगायोगौ, कल्याणाकल्याणधर्मत्वम्, त्यागमात्सर्यम्, दानाग्रहणम्, उद्धटितज्ञविपञ्चितज्ञत्वम्, सूत्रादिधर्माभिज्ञानभिज्ञत्वम्, षट्पारमितासमन्वागमासमन्वागमाविति दश /
302 SK चतुर्थं दशकम् उपायकौशलानुपायकौशले, धारणीप्रतिलम्भाप्रतिलम्भौ, लिखितुकामता ऽलिखितुकामते, विगताविगतकामादिछन्दत्त्वे चेति चत्वारि; उपायगतिवैमुख्यम्, सुगतिगमनसौमनस्यमिति द्वे: श्रोतावक्त्रोः कस्यचिद् एकाकिपर्षदभिरतिः, अनुबन्धकामानवकाशदानत्वम्, आमिषकिञ्चित्काभिलाषतददातुकामता, जीवितान्तरायानन्तरायदिग्गमनमिति चत्वारि चेति दश /
303 SK अवशिष्टदोषषट्कम् दुर्भिक्षदिग्गमनागमनम्, चौराद्याकुलितदिग्गमनागमनम्, कुलावलोकनदौर्मनस्यमिति त्रीणि, मारभेदप्रयोगः, प्रतिवर्णिकोपसंहारः (कृत्रिमप्रतिपादनम्), अयथाविषयस्पृहोत्पादनमित्यपराणि त्रीणि चेति षट् / इत्येवं षट्चत्वारिंशद् दोषा भवन्ति /
304 SK ५. लक्षणानि संक्षेपेण लक्षणस्य प्रतिपादनम् अभिसमयालङ्कारे एकया कारिकया कृतम् / तथा हि -
305 SK लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् / ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते //
306 SK विस्तरेण तु लक्षणानां प्रतिपादनम् अभिसमयालङ्कारे अष्टादशभिः कारिकभिः सम्यग् विहितम् /
307 SK (क) लक्षणम् स्वशक्त्या प्रयोगस्वरूपस्योपलक्षकः सत्त्वयोगो मार्गंपारमिताप्रयोगलक्षणम् /
308 SK (ख) भेदः प्रयोगाणां लक्षणं करणसाधनपरिग्रहेण ज्ञान-विशेष-कारित्रस्वरूपम्, कर्मसाधनपरिग्रहेण स्वभावात्मकमिति लक्षणं चतुर्विधं बोद्धव्यम् /
309 SK तत्र ज्ञानलक्षणानि अष्टचत्वारिंशत्, विशेषलक्षणानि षोडश, कारित्रलक्षणानि एकादश स्वभावलक्षणानि षोडश चेति लक्षणानां भेदा विस्तरेण एकनवतिः भवन्ति /
310 SK (अ) ज्ञानलक्षणानि अष्टचत्वारिंशद् ज्ञनलक्षणानां सर्वेषां विस्तरेण प्रतिपादनम् अभिसमयालङ्कारे नवभिः कारिकाभिः सुस्पष्टं विहितम् /
311 SK (क) लक्षणम् महाकरुणाशून्यतावलम्बितप्रज्ञाविशिष्टेनोपायकौशलेनोपात्तः सत्त्वयोगो लक्षणम् /
312 SK क्लेशलिङ्गादयो वक्ष्यमाणाः स्वभावा एव एतेषां उपलक्षकाः /
313 SK (ख) भेदः अष्टचत्वारिंशद् ज्ञानलक्षणान्यपि त्रिषु व्याख्यातानि / तथा हि - सर्वज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश, मार्गज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश, सर्वाकारज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश चेति त्रिधा भेदः /
314 SK सर्वज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश
315 SK तथागतनिर्वृत्तिज्ञानम्, लोकालुज्यताज्ञानम्, सर्वसत्त्वचित्तचरितज्ञानम्, चिअत्तसंक्षेपज्ञानम्, चित्तविक्षेपज्ञानम्, चित्ताक्षयाकारज्ञानम्, सरागादिचित्तज्ञानम्, विगतरागादिचित्तज्ञानम्, विपुलचित्तज्ञानम्, महद्गतचित्तज्ञानम् अप्रमाणचित्तज्ञानम्, अनिदर्शनचित्तज्ञानम् अदृश्यचित्तज्ञानम्, चित्तोन्मिञ्जितादिज्ञानम्, उन्मिञ्जितादितथताकारज्ञानम्, तथागततथतावबोधतत्परसमाख्यानप्रज्ञपनज्ञानं चेति षोडश / तथोक्तम् अभिसमयालङ्कारे -
316 SK तथागतस्य निर्वृतौ लोके चालुज्यनात्मके / सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ //
317 SK अक्षयाकारतायां च सरागादौ प्रविस्तृते / महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने //
318 SK अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् / पुनस्तथत्ताकारेण ते षां ज्ञानमत्तः परम् //
319 SK तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् / सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः //
320 SK मार्गज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश
321 SK शून्यताज्ञानम्, अनिमित्तज्ञानम्, अप्रणिहितज्ञानम्, परमार्थतो ऽनुत्पादज्ञानम्, अनिरोधज्ञानम्, आदिशब्देनासंक्लेशज्ञानम्, अव्यवदानज्ञानम्, अभावज्ञानम्, स्वभावज्ञानम्, अनिश्रितज्ञानम्, आकाशलक्षणज्ञानमिति षट् संगृहीत्तानि; धर्मता ऽविकोपनज्ञानम्, असंस्कारज्ञानम्, अविकल्पज्ञानम्, प्रभेदज्ञानम्, अलक्षणज्ञानमिति षोडश / तथा चोक्तम् अभिसमयालङ्कारे -
322 SK शून्यत्वे सानिमित्ते च प्रणिधानविवर्जिते / अनुत्पादानिरोधादौ धर्मताया अकोपने //
323 SK असंस्कारे ऽविकल्पे च प्रभेदालक्षणत्वयोः / मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते //
324 SK सर्वाकारज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश
325 SK तथागतस्वधर्मोपनिश्रयविहारज्ञानम्, सत्कारज्ञानम्, गुरुकारज्ञानम्, माननाज्ञानम्, पूजनाज्ञानम्, परमार्थतो ऽकृतकज्ञानम्, सर्वत्रगज्ञानम्, अदृष्टार्थदर्शकज्ञानम्, लोकशून्यताकारज्ञानम्, लोकशून्यतासूचकज्ञानम्, लोकशून्यताज्ञापकज्ञानम्, लोकशून्यतादर्शकज्ञानम्, परमार्थतो ऽचिन्त्यतादेशनाज्ञानम्, परमार्थतप्रपञ्चशान्तताज्ञानम्, स्वभावसिद्धलोकनिरोधज्ञानम्, लोकसंज्ञानिरोधज्ञानमिति षोडश / तथा चोक्तम् अभिसमयालङ्कारे -
326 SK स्वधर्ममुपनिश्रित्य विहारे तस्य सकृतौ / गुरुत्वे माननायां च तत्पूजा ऽकृतकत्वयोः //
327 SK सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् / लोकस्य शून्यताकारसूचकज्ञापकाक्षगम् //
328 SK अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च / ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञातानये //
329 SK (आ) विशेषलक्षणानि षोडश
330 SK विशेषलक्षणानां षोडशानां लक्षणादिकं सर्वम् अभिसमयालङ्कारे सम्यगुपदर्शितम् / तथा हि -
331 SK अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः / विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः //
332 SK (क) लक्षणम् अचिन्त्यादिविशेषणैर्विशिष्टं सत्त्वज्ञानं प्रयोगाणां विशेषलक्षणम् /
333 SK अथवा - हैनयानिकप्रयोगेभ्यो बोधिसत्त्वप्रयोगाणां वैशिष्ट्यमुपलक्षयन्तीति विशेषलक्षणानि / क्लेशलिङ्गादयः षोडश स्वभावा एतेषां विशेषलक्षणानामुपलक्षकाः /
334 SK (ख) भेदः माहायानीयदर्शनमार्गीयक्षान्तिज्ञानक्षणानि षोढश श्रावकप्रत्येकबुद्धदर्शनमार्गसम्बद्धक्षान्तिज्ञानक्षणेभ्यो विशिष्टतराणीति षोडश भेदा भवन्ति / तथा हि -
335 SK दुःखसत्यालम्बनानि चतुःक्षणसंगृहीतानि क्षान्तिज्ञानानि क्रमशः अचिन्त्यविशेषः अतुल्यविशेषः, अप्रमेयविशेषः, असंख्येयविशेषश्चेति चत्वारो भेदाः /
336 SK समुदयसत्यालम्बनानि चतुःक्षणसंगृहीतानि क्षान्तिज्ञानानि यथाक्रमं सर्वार्यपुद्गलसंग्रहविशेषः, पुरुषविशेषवेदनीयताविशेषः श्रावकाद्यसाधारताविशेषः, श्रावकादिभ्यः क्षिप्राभिज्ञताविशेषश्चेति चत्वारो भेदाः /
337 SK निरोधसत्यालम्बनानि चतुःक्षणसंगृहीतानि क्षान्तिज्ञानानि यथाक्रमं अन्यूनापूर्णताविशेषः, तीव्रप्रतिपत्तिविशेषः, समुदागमविशेषः, आलम्बनविशेषश्चेति चत्वारो भेदाः /
338 SK मार्गसत्यालम्बनानि चतुःक्षणसंगृहीतानि क्षान्तिज्ञानानि यथाक्रमं आधारविशेषः, साकल्यविशेषः, सम्परिग्रहविशेषः, अनास्वादविशेषश्चेति चत्वारो भेदाः /
339 SK इति षोडशात्मकः दुःखादिसत्यक्षणानां विशेषः, येन श्रावकादिमार्गेभ्यो बोधिसत्त्वादीनां मार्गज्ञतादिद्वये विशेषमार्गो विशिष्यते / तथा चोक्तम् अभिसमयालङ्कारे -
340 SK अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ / सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते //
341 SK क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ / आलम्बनं च साधारं साकल्यं सम्परिग्रहः //
342 SK अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः / विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते //
343 SK (इ) कारित्रलक्षणानि एकादश
344 SK कारित्राणां लक्षणादिकं अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां सम्यगावेदितम् / तथा हि -
345 SK हितं सुखं च त्राणं च शरणं लयनं नृणाम् / परायणं च द्वीपं च परिणायकसंज्ञकम् //
346 SK अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् / पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् //
347 SK (क) लक्षणम् हितसुखत्राणादिप्रतिविशिष्टज्ञानैः सत्त्वप्रयोगाः परार्थसम्पादनसाधनैः योज्यन्त इति तानि कारित्रलक्षणान्युच्यन्ते / क्लेशलिङ्गादयः षोडश स्वभावाः कारित्राणामुपलक्षका भवन्ति /
348 SK (ख) भेदः कारित्राणां एकादश भेदा भवन्ति / तत्र सर्वज्ञतायाः त्रीणि, मार्गज्ञतायाः सप्त, सर्वाकारज्ञताया एकमिति एकादश कारित्राणि भवन्ति /
349 SK सर्वज्ञताकारित्राणि त्रीणि
350 SK सर्वसत्त्वानां अनागतमोक्षसुखोपसंहारार्थेन हितकारित्रम्, लोकस्य दुःखदौर्मनस्यादीनि प्रहाय ऐहिकसुखोपसंहारेण सुखकारित्रम्, दुःखरहिताविपाकधर्मतायां स्थापनात् त्राणकारित्रमिति त्रीणि /
351 SK मार्गज्ञताकारित्राणि सप्त
352 SK आत्यन्तिकहितोपसंहारार्थेन शरणकारित्रम्, दुःखहेतुनिवर्तनार्थेन लयनकारित्रम्, संसारनिर्वाणसमतोपसम्पादनार्थेन परायणकारित्रम्, स्वपरार्थाधिगमाधारभावोपसंहारात् द्वीपकारित्रम्, परार्थप्रतिपत्त्युपसंहारात् परिणायककारित्रम्, अनाभोगप्रवृत्तसत्त्वार्थोपसंहारात् अनाभोगकारित्रम्, यानत्रयनिर्याणत्तत्फलासाक्षात्करणकारित्रमिति सप्त /
353 SK सर्वाकारज्ञताकारित्रम् एकम्
354 SK सर्वाकारज्ञतया सर्वधर्मदैशिकत्वेन सर्वाकारज्ञताया एकमेव गतिकारित्रम् /
355 SK कारित्राकारैरेवं यथावत् सर्वज्ञतात्रयस्य प्रयोगा लक्ष्यन्त इति कारित्रलक्षणम् /
356 SK (उ) स्वभावलक्षणानि षोडश एतेषां स्वभावलक्षणानां स्वरूपप्रतिपादनम् अभिसमयालङ्कारे तिसृभिः कारिकाभिः सम्यग् विहितम् /
357 SK (क) लक्षणम् उपरिनिर्दिष्टं प्रयोगलक्षणमेव एतेषामपि लक्षणं भवति /
358 SK (ख) भेदः स्वभावानां षोडश भेदा भवन्ति / तत्र सर्वज्ञतायाः स्वभावाः चत्वारः, मार्गज्ञतायाः, स्वभावाः पञ्च, सर्वाकारज्ञतायाः स्वभावाः सप्तेति षोडश भवन्ति /
359 SK सर्वज्ञतास्वभावाश्चत्वारः रागादिविविक्तस्वभावत्वेन क्लेशविवेकस्वभावः, रागादिलिङ्गकायादिदौष्ठुल्यविविक्तस्वभावत्वेन क्लेशलिङ्गविवेकस्वभावः रागादिनिमित्तायोनिशोमनसिकारविविक्तस्वभावत्वेन क्लेशनिमित्तविविक्तस्वभावः रागारागद्वेषाद्वेषमोहामोहविविक्तस्वभावत्वेन विपक्षप्रतिपक्षविवेकस्वभाव इति चत्वारः /
360 SK मार्गज्ञतास्वभावाः पञ्च परमार्थासत्सर्वसत्त्वपरिनिर्वापणदुष्करसंनाहत्वेन दुष्करस्वभावः, अन्य (श्रावकादि-) यानापातलक्षण ऐकान्तिकस्वभावः, उत्तमश्चिरसाध्य उद्देशस्वभावः, भाव्यभावकभावनानुपलम्भात् अनुपलम्भस्वभावः, समस्तभावाभिनिवेशनिषेधाद् अनभिनिवेशस्वभाव इति पञ्च /
361 SK सर्वाकारज्ञतास्वभावाः सप्त सर्वज्ञतामार्गज्ञतासंगृहीतवस्तुविशेषालम्बनस्वभावः, लोकप्रतिपत्तिग्रहणादिविपरीतनिर्देशात् सर्वलोकविप्रत्यनीकस्वभावः, सर्वत्र रूपादौ ज्ञानधर्मस्याप्रतिघातित्वाद् अप्रतिघातस्वभावः, ज्ञानज्ञेयसमतया सर्वप्रतिष्ठानुपलम्भार्थेन अपदस्वभावः, तथतया अगतिस्वभावः, रूपादिसर्वधर्माणां तत्त्वेनानुत्पन्नत्वात् अजातिस्वभावः, भावाभावादिस्वभावत्रयानुपलम्भात् तथतानुपलम्भस्वभाव इति सप्त /
362 SK इत्येवं षोडशभिः स्वभावैर्यथावत् त्रिसर्वज्ञताप्रयोगा लक्ष्यन्त इति स्वभावलक्षणानि / तथा चोक्तम् अभिसमयालङ्कारे -
363 SK क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः / विवेको दुष्करैकान्तावुद्देशो ऽनुपलम्भकः //
364 SK निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः / विप्रत्ययो ऽविधाती च सो ऽपदागत्यजातिकः //
365 SK तथता ऽनुपलम्भश्च स्वभावः षोडशात्मकः / लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम् //
366 SK इत्येवं सामान्येन एकत्र कृतानि एकनवतिः लक्षणानि भवन्ति /
367 SK ६. मोक्षभागीयम् अस्य सर्वं लक्षणादिकम् अभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् / तथा हि -
368 SK अनिमित्तप्रदानादिसमुदागमकौशलम् / सर्वाकारावबोधे ऽस्मिन् मोक्षभागीयमिष्यते //
369 SK (क) लक्षणम् अनिमित्तालम्बनज्ञानाकारेण दानाद्यारभ्य सर्वाकारज्ञतापर्यन्तं स्वसन्ताने समुदागमे कौशललक्षणो धर्माभिसमय एवात्र मोक्षभागीयमिति लक्षणम् /
370 SK (ख) पर्यायः माहायानिको धर्माभिसमयः, माहायानिकं मोक्षभागीयम्, माहायानिकः सम्भारमार्ग इति पर्यायाः /
371 SK (ग) निर्वचनम् मोक्षो ऽत्र क्लेशविसंयोगविशेषः, तद्भागे (पक्षे) पातित्वात् मोक्षभागीयम् / अथवा - तद्भागे हितत्वात् मोक्षभागीयम् /
372 SK (घ) भेदः अवस्थातः मृदुर्मध्यो ऽधिमात्रश्चेतो त्रयो ऽस्य भेदाः / स्वरूपतः श्रुतमयं चिन्तामयं भावनामयमिति त्रिविधं मोक्षभागीयमिष्टम् /
373 SK (ङ) अवधिः सम्भारमार्गें केवलमिदं भवतीति ज्ञेयम् / चित्तोत्पादसमकालमेवोत्पद्य स्वसन्ताने यावन्न श्रद्धादिपञ्चेन्द्रियोत्पादस्तावदस्य व्याप्तिर्भवति /
374 SK (च) लिङ्गानि संसारादीनवान् मोक्षगुणांश श्रावं श्रावं रोमहर्षोद्गमाश्रुपातादयो भवन्ति, चित्तादीनत्वं निर्भयत्वमित्यादीनि लिङ्गानि /
375 SK ७. निर्वेधभागीयम् अस्य लक्षणादिकं सर्वम् अभिसमयालङ्कारे सविस्तरं प्रतिपादितम् /
376 SK (क) लक्षणम् उपायविशिष्टसत्त्वस्य अर्थाभिसमयो माहायानिकनिर्वेधभागीयस्य लक्षणम् /
377 SK (ख) परिभाषा दर्शनहेयानां सवासनक्लेशानां निर्वेधकत्वेन दर्शनमार्गपक्षे पातित्वात्, तद्भागहितत्वाद् वा निर्वेधभागीयम् /
378 SK (ग) भेदः निर्वेधभागीयस्य द्वादश भेदा भवन्ति / प्रथमं ऊष्मा, मूर्धा, क्षान्तिः, अग्रधर्मश्चेति चत्वारो भेदाः / एषु चतुर्षु प्रत्येकं मृदुमध्याधिमात्रभेदेन त्रिविध इति द्वादश भेदा भवति / तथा चोक्तम् अभिसमयालङ्कारे -
379 SK आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते / समचित्तादिराकारस्तेष्वेव दशधोदितः //
380 SK स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च / तयोर्नियोजनान्येषां वर्णवादानुकूलते //
381 SK मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा / तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः //
382 SK (घ) अवधिः शून्यतालम्बनात्मिकां विदर्शनाप्राप्तिमारभ्य यावन्न दर्शनमार्गप्राप्तिस्तावदस्यावधिर्भवतीति /
383 SK ८. अवैवर्तिको गणः अवैवर्तिकबोधिसत्त्वसंघस्य स्वरूपं एकया कारिकया अभिसमयालङ्कारे प्रोक्तम् / तथा हि -
384 SK निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः / ये बोधिसत्त्वा वर्तन्ते सो ऽत्रावैवर्तिको गणः //
385 SK (क) लक्षणम् रूपादिनिवृत्तिनिर्विचिकित्साद्याकारैः विंशतिप्रकारैः निर्वेधभागीयस्थानाम् अवैवर्तिकलक्षणं ज्ञेयम् /
386 SK (ख) भेदः निर्वेधभागीयप्रयोगमार्गस्थः, क्षान्तिज्ञानसंगृहीतदर्शनमार्गस्थः, परश्च प्राबन्धिकभावनामार्गस्थ इति त्रिविधो भवति अवैवर्तिकबोधिसत्त्वसंघ इति त्रयो ऽस्य भेदा भवन्ति /
387 SK (ग) अवधिः प्रयोगमार्गीयोष्माभिसमयमारभ्य अन्तिमक्षणावस्थितबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवतीति /
388 SK ९. भवशान्त्योः समता अस्य समताप्रयोगस्य लक्षणादिम् अभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् / तथा हि - स्वप्नोपमत्वाद् धर्माणां भवशान्त्योरकल्पना / कर्माभावादिचोद्यानां परिहारा यथोदिताः //
389 SK (क) लक्षणम् पृष्ठलब्धावस्थायामपि सत्ताग्राहकविकल्पपरिक्षयात् शौद्धभूमिकं ज्ञानं भवशमसमताप्रयोगस्य लक्षणम् /
390 SK (ख) भेदः तिसृणां शुद्धभूमीनां त्रीणि ज्ञानान्येवास्य त्रयो भेदाः /
391 SK (ग) अवधिः अष्टमीं भूमिमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति /
392 SK १०. क्षेत्रशुद्धिप्रयोगः प्रयोगस्तास्य लक्षणादिकं सर्वम् अभिसमयालङ्कारे एकया कारिकया ऽभिहितम् / तथा हि -
393 SK सत्त्वलोकस्य या ऽशुद्धिस्तस्याः शुद्ध्युपहारतः / तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता //
394 SK (क) लक्षणम् प्रणिधानादिकुशलमूलबलेन स्वबुद्धक्षेत्रं सत्त्वभाजनलोकात्मकं परिशोधितुकामस्य शौद्धभूमिकानि ज्ञानान्येव क्षेत्रशुद्धिप्रयोगस्य लक्षणानि /
395 SK (ख) भेदः स्वबुद्धक्षेत्रस्य भाजनलोकशुद्धिप्रयोगः सत्त्वलोकशुद्धिप्रयोगश्चेति द्वौ भेदौ /
396 SK (ग) अवधिः तिसृषु शुद्धभूमिष्वयं प्रयोगो भवतीति /
397 SK ११. उपायकौशलम् अस्योपायकौशलप्रयोगस्य स्वरूपादिकम् अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यामुपदर्शितम् / तथा हि -
398 SK विषयो ऽस्य प्रयोगश्च शात्रवाणामतिक्रमः / अप्रतिष्ठो यथावेधसाधारणलक्षणः //
399 SK असक्तो ऽनुपलम्भश्च निमित्तप्रणिधिक्षतः / तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् //
400 SK (क) लक्षणम् मनसिकारपरिवर्जनेन निराभोगकर्मसम्पादनसमर्थानि ज्ञानानि उपायकौशलात्मकानीति लक्षणम् /
401 SK (ख) भेदः उपायकौशलस्य दश भेदा भवन्ति / यथा - आन्तरायिकधर्मसमतिक्रमणेन देवादिमारातिक्रमः, विभावितसर्वधर्मसमत्वेन अप्रतिष्ठितविहारः, प्रणिधानसमृद्ध्या यथावेधं परार्थकरणम्, स्वभ्यस्तसर्वदुष्करत्वेन असाधारणः, शुक्लधर्मविशुद्ध्या सर्वधर्मस्याग्रहणम्, शून्यताविमोक्षमुखत्वेन अनुपलम्भः, अनिमित्तविमोक्षमुखत्वेन अनिमित्तः, अप्रणिहितविमोक्षमुखत्वेन अप्रणिधानम्, प्रश्नपूर्वकावैवर्तिकधर्मकथनेन अवैवर्तिकलिङ्गम्, सर्वविषयज्ञानत्वेन अप्रमाणमिति दश उपायकौशलप्रयोगा इति /
402 SK (ग) अवधिः अष्टमीं भूमिमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्म सीमा भवति /
403 SK // इति सर्वाकाराभिसम्बोधोपलक्षका एकादश धर्माः //
404 SK (आ) Mऊर्धाभिसमयोपलक्षका अष्टौ धर्माः
405 SK १. लिङ्गम् (ऊष्मा मूर्धप्रयोगः), २. विवृद्धिः (मूर्धा मूर्धप्रयोगः), ३. निरूढिः (क्षान्तिः मूर्धप्रयोगः) , ४. चित्तसंस्थितिः (अग्रधर्मः मूर्धप्रयोगः) , ५. दर्शनमार्गः (मूर्धप्रयोग), ६. भावनामार्गः (मूर्धप्रयोगः), ७. आनन्तर्यसमाधिः (मूर्धप्रयोगः), ८. विप्रतिपत्तिः (मूर्धप्रयोगः) , इत्यष्टौ धर्मा मूर्धाभिसमयमुपलक्षयन्तीति अभिसमयालङ्कारे प्रतिपादितम् / तथा हि -
406 SK लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः / चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः //
407 SK प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि / आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः //
409 SK १. लिङ्गम् (ऊष्मा मूर्धप्रयोगः) अस्योष्मणो मूर्धप्रयोगस्य स्वरूपम् अभिसमयालङ्कारे एकया कारिकयोपदर्शितम् / तथा हि -
410 SK स्वप्नान्तरे ऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् / मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् //
411 SK (क) लक्षणम् स्वप्ने ऽपि सर्वधर्माणां स्वप्नाभत्वदर्शनादिषु द्वादशलिङ्गेषु अन्यतमस्य प्राप्त्या व्यवस्थापितः प्रथमो निर्वेधभागीय ऊष्मा मूर्धप्रयोग इति लक्षणम् /
412 SK (ख) मृदु-मध्याधिमात्रभेदेन त्रयो ऽस्य भेदा भवन्ति /
413 SK (ग) अवधिः नैरात्म्यालम्बनाया विदर्शनायाः प्राप्तिमारभ्य भूमिप्राप्तिपर्यन्तमस्य सीमा भवति /
414 SK २. विवृद्धिः (मूर्धा मूर्धप्रयोगः) अस्य मूर्धाख्यस्य मूर्धप्रयोगस्य लक्षणादिकम् अभिसमयालङ्कारे एकया कारिकया परिदीपितम् / तथा हि -
415 SK जम्बुद्वोपजनेयत्ताबुद्धपूजाशुभादिकाम् / उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका //
416 SK (क) लक्षणम् पुण्यविवृद्ध्यादिषोडशविवृद्धीनां पूर्णतया माहायानिको द्वितीयो निर्वेधभागीयो मूर्धा मूर्धप्रयोग इति लक्षणम् /
417 SK अयं मूर्धा मूर्धप्रयोगः महायानप्रयोगमार्गीयो मूर्धप्रयोगश्चेति समानार्थकौ /
418 SK (ख) भेदः मृदुमध्याधिमात्रभेदेन त्रयो ऽस्य भेदा भवन्ति /
419 SK (ग) अवधिः माहायानिकस्य प्रयोगमार्गीयमूर्धप्रयोगस्य यथावधिस्तथैवास्यापि ज्ञातव्यः /
420 SK ३. निरूढिः (क्षान्तिः मूर्धप्रयोगः) अस्य निरूढ्याख्यमूर्धप्रयोगस्य सर्वं लक्षणादिकम् अभिसमयालङ्कारे एकया कारिकयोपवर्णितम् / तथा हि -
421 SK त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा / अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते //
422 SK (क) लक्षणम् सम्यगुपायकौशलबलेन निर्विकल्पाधिगमावस्थायां महाकरुणादिसम्मुखीभावेन यथोक्तसर्वाकारज्ञतादित्रिसर्वज्ञताधर्माणां (चित्तोत्पादादीनां) / अनुत्तरा परिपूरिः निरूढ्याख्यस्तृतीयो निर्वेधभागीयः क्षान्तिमूर्धप्रयोग इति लक्षणम् /
423 SK अयं क्षान्त्याख्यो मूर्धप्रयोगः माहायानिकः प्रयोगमार्गीयक्षान्तिप्रयोगश्चेति द्वौ समानार्थकौ /
424 SK (ख) भेदः मृमुमध्याधिमात्रभेदेनास्य क्षान्त्याख्यमूर्धप्रयोगस्य त्रयो भेदा भवन्ति /
425 SK (ग) अवधिः यथा माहायानिकायाः प्रयोगमार्गीयायाः क्षान्तेरवधिस्तथा अस्यापि प्रयोगस्यावधिर्ज्ञातव्यः /
426 SK ४. चित्तसंस्थितिः (अग्रधर्मः मूर्धप्रयोगः) अस्य अग्रधर्माख्यस्य मूर्धप्रयोगस्य लक्षणादिकम् अभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् / तथा हि -
427 SK चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः / कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः //
428 SK (क) लक्षणम् दर्शनमार्गोत्पादसमर्था प्रमाणातिक्रान्तपुण्यबहुत्वेन समाधिलक्षणा (स्थिरीभावलक्षणा) चित्तसंस्थितिश्चतुर्थनिर्वेधभागीयो ऽग्रधर्मो मूर्धप्रयोग इति लक्षणम्
429 SK (ख) भेदः मृदुमध्याधिमात्रभेदेन त्रयो ऽस्य प्रयोगस्य भेदा भवन्ति /
430 SK (ग) अवधिः माहायानिकस्य प्रयोगमार्गीयाग्रधर्मस्य यथा अवधिस्तथैवास्यापि ज्ञातव्यः / एतानि च लिङ्गादीनि यथाक्रममूष्मादिचतुर्निर्वेधभागीयस्वरूपाणि वेदितव्यानि /
431 SK ५. दर्शनमार्गः (मूर्धप्रयोगः) अस्य दर्शनमार्गाख्यस्य मूर्धप्रयोगस्य लक्षणादिकम् अभिसमयालङ्कारे सविस्तरं अष्टादशभिः कारिकाभिः प्रतिपादितम् /
432 SK (क) लक्षणम् दर्शनहेयायाः सत्ताग्राहिकाया दृष्टेः प्रतिपक्षभावेन व्यवस्थापितो माहायानिकः सत्याभिसमयो दर्शनमार्गाख्यो मूर्धप्रयोग इति लक्षणम् /
433 SK अयं दर्शनमार्गाख्यो मूर्धप्रयोगः माहायानिको दर्शनमार्गश्च पर्यायौ /
434 SK (ख) भेदः हेयदृष्ट्या दर्शनप्रहातव्यानां चतुर्णां विकल्पानां चत्वारः प्रतिपक्षा इति चत्वारो ऽस्य प्रभेदा भवन्ति / समाहितः पृष्ठलब्धश्चेति द्वावपि भेदौ /
435 SK (ग) अवधिः माहायानिकस्य दर्शनमार्गस्य अवधिवत् अस्याप्यवधिर्भवतीति /
436 SK ६. भावनामार्गः (मूर्धप्रयोगः) अस्य भावनामार्गाख्यस्य मूर्धप्रयोगस्य सर्वं लक्षणादिकम् अभिसमयालङ्कारे नवभिः कारिकाभिः सविस्तरमभिहितम् /
437 SK (क) लक्षणम् त्रिसर्वज्ञतापरिगृहीतया प्रकर्षप्राप्तप्रज्ञयोपात्तानां भावनाप्रहातव्यविकल्पप्रतिपक्षाणां दृष्ट्या व्यवस्थापितो माहायानिको ऽन्वभिसमयः भावनामार्गाख्यो मूर्धप्रयोग इति लक्षणम् /
438 SK (ख) भेदः भावनाहेयानां नवानां विकल्पानां साक्षात् प्रतिपक्षभूता नवानन्तर्यमार्गाः, नव च विमुक्तिमार्गा इति अष्टादश अस्य भावनामार्गाख्यस्य मूर्धप्रयोगस्य भेदा भवन्ति /
439 SK (ग) अवधिः प्रथमां भूमिमारभ्य दशमीं भूमिं यावदस्य सीमा भवतीति /
440 SK ७. आनन्तर्यंसमाधिः (मूर्धप्रयोगः) बुद्धत्वप्राप्तेरव्यवहितो यः पूर्वसमनन्तरः समाधिः, सो ऽत्र आनन्तर्यसमाधिः / अस्य लक्षणादिकं सर्वं स्वरूपम् अभिसमयालङ्कारे तिसृभिः कारिकाभिः सम्यक् प्रतिपादितम् / तथा हि -
441 SK त्रिसाहस्रजनं शिष्यखड्गाधिगमसम्पदि / बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः //
442 SK कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः / आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् //
443 SK आलम्बनमभावो ऽस्य स्मृतिश्चाधिपतिर्मतः / आकारः शान्तता चात्र //
444 SK (क) लक्षणम् त्रिसर्वज्ञतासंगृहीतप्रकर्षप्राप्तप्रज्ञापारमिताभावनायाः फलभूतस्य सर्वाकारज्ञताविपाकस्य अव्यवहितत्वेन साक्षादुत्पादकः पर्यन्तयोगः आनन्तर्यसमाध्याख्यो मूर्धप्रयोग इति लक्षणम् /
445 SK अयं आनन्तर्यसमाधिः मूर्धप्रयोगः, अन्तिमक्षणस्थबोधिसत्त्वस्य ज्ञानमित्यनर्थान्तरम् /
446 SK (ख) भेदः एकक्षणिकाश्चत्वारः प्रयोग एवास्य चत्वारो भेदा भवन्ति /
447 SK (ग) अवधिः अयं प्रयोगः केवलं अन्तिमक्षणस्थबोधिसत्त्वावस्थायामेव भवतीति /
448 SK ८. विप्रतिपत्तिः (मूर्धप्रयोगः) अविदितोपायकौशलानां प्रवादिनां नानाचोद्यमुखपरम्पराप्रसर्पिप्यो विप्रतिपत्तिअयो ऽत्र निराकर्त्तव्या भवन्तीति तासां विप्रतिपत्तीनां सर्वं लक्षणादिकं स्वरूपम् अभिसमयालङ्कारे तिसृभिः कारिकाभिः सविस्तरं सम्यक् प्रतिपादितम् / तथा हि -
449 SK आलम्बनोपपत्तौ च तत्स्वभावावधारणे / सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ //
450 SK प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः / विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः //
451 SK लक्षणे भावनायां च मता विप्रतित्तयः / सर्वाकारज्ञताधारा षोढा दश च वादिनाम् //
452 SK (क) लक्षणम् संवृतिपरमार्थसत्ययोर्द्वयोः स्वभावत एकत्वलक्षणयोः अग्रहणरूपाः सम्मुखीभूतविकल्पाः तद्बीजानि वा निराकर्त्तव्या विप्रतिपत्तय इति लक्षणम् /
453 SK (ख) भेदः विप्रतिपत्तीनां षोडश भेदा भवन्ति / तथा हि - संस्कृतासंस्कृतधात्वोरभावत्वेन आलम्बनोपपत्तौः सर्वथा नीरूपत्वाद् आलम्बनस्वभावधारणे, भावाभावानुपलम्भेन सर्वाकारज्ञताज्ञाने, तथतास्वभावत्वेन संवृत्तिपरमार्थसत्यद्वये, दानाद्यनुपलम्भेन प्रयोगे, बोद्धव्याभावाद् बुद्धरत्ने, नामधेयमात्रत्वाद् धर्मरत्ने, रूपाद्यालम्बनप्रतिषेधात् संघरत्ने, दानाद्यनुलम्भेन उपायकौशले, भावाभावोभ्यरूपाधिगमप्रतिषेघात् तथागताभिसमये, प्रपञ्चव्यवस्थापितानित्यादित्वेन नित्यादिविपर्यासे, विभावितमार्गफलासाक्षात्करणेन मार्गे, हानोपादानाभावेन विपक्षे प्रतिपक्षे च, धर्म्यभावाद् धर्मलक्षणे, स्वसामान्यलक्षणानुपपत्त्या भावनायां चेति सर्वाकारज्ञताधिष्ठानाः संशयरूपाः षोडश विप्रतिपत्तयो भवन्ति / ताः यथासम्भवमुभयसत्याश्रितोपायकौशलेन निराकृत्य सम्यक् सर्वथा निश्चयमुत्पाद्य कल्याणकामैः बोधिसत्त्वैरानन्तर्यसमाधिरधिगन्तव्यः /
454 SK एतासु कल्पनात्मिका विप्रतिपत्तयो मुख्याः, याश्च प्रसङ्गमुखेनोक्तास्ता गौणा इति मन्तव्याः /
455 SK एताः षोडशापि विप्रतिपत्तयो कल्पनात्मिका शब्दात्मिका चेति द्वयोरन्तर्भवन्ति /
456 SK द्वयोः सत्ययोरेकमालम्ब्य यदपरं निराकरोति तद् अभिनिवेशात्मकं ज्ञानमेव कल्पनात्मिका विप्रतिपत्तिः /
457 SK द्वयोः सत्ययोरेकं निमित्तीकृत्य या अपरं निराकरोति सा वाक् शब्दात्मिका विप्रतिपत्तिअरवसेया /
458 SK (ग) अवधिः मार्गे ऽप्रवेशादारभ्य अशुद्धसप्तभूमिपर्यन्तमासां विप्रतिपत्तीनां सीमा भवतीति /
459 SK // इति मूर्धाभिसमयोपलक्षका अष्टौ धर्माः //
460 SK (इ) आनुपूर्विकाभिसमयोपलक्षकाः त्रयोदश धर्माः
461 SK आनुपूर्विकाभिसमयस्य स्वरूपनिर्देशः अभिसमयालङ्कारे संक्षेपतः कारिकाशेन कृतः / तथा हि -
462 SK त्रेधा दशधा चानुपूर्विकः
463 SK विस्तरतस्तु तस्य लक्षणादिकमनया एकया कारिकयोपन्यस्तम् / तथा हि -
464 SK दानेन प्रज्ञया यावद् बुद्धादौ स्मृतिभिश्च सा / धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता //
465 SK (क) लक्षणम् सर्वाकारज्ञतादित्रिसर्वज्ञताकारान् अधिगतान् अनुपूर्वीकृत्य प्रज्ञाभावनयोपात्तः सत्त्वयोगः आनुपूर्विकप्रयोग इति लक्षणम् /
466 SK (ख) भेदः दानादिषट्पारमितापरिपूरणेन (षट्), बुद्ध-धर्म-संघ-शील-त्याग-देवता-नामनुस्मरणेन (षट्) , रूपादिसर्वधर्माभावे स्वभावावबोधेन (एकः) यो ऽधिगमः स आनुपूर्विकाभिसमयस्त्रयोदशविध इत्यस्य त्रयोदश भेदा भवन्ति /
467 SK (ग) अवधिः सम्भारमार्गमारभ्य एकक्षणाभिसम्बोधात् समनन्तरपूर्वक्षणपर्यन्तमस्य सीमा भवतीति /
468 SK // इति आनुपूर्विकाभिसमयोपलक्षकाः त्रयोदशः धर्माः //
469 SK (ई) एकक्षणाभिसम्बोधाभिसमयोपलक्षकाः चत्वारो धर्माः
470 SK एकक्षणाभिसम्बोधस्य स्वरूपनिर्देशः अभिसमयालङ्कारे कारिकार्धेन संक्षेपतः कृतः / तथा हि -
471 SK एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः //
472 SK विस्तरतस्तु सप्तमाधिकारे द्रष्टव्यः /
473 SK (क) लक्षणम् अधिगतत्रिसर्वज्ञताकारेषु स्वभ्यस्तस्तेषामेव क्षणेनैकेनाधिगमरूपः पर्यन्तयोगः एकक्षणाभिसम्बोध इति लक्षणम् /
474 SK एकक्षणप्रयोगः, अन्तिमक्षणबोधिसत्त्वीयज्ञानम्, आनन्तर्यमूर्धप्रयोगः इत्यनर्थान्तरम् /
475 SK (ख) भेदः स्वरूपतः एकविध एव एकक्षणाभिसम्बोधो लक्षणेन (व्यावृत्या) चतुर्विधो भवति, यथा - अविपाकलक्षणः, विपाकलक्षणः अलक्षणलक्षणः, अद्वयलक्षणश्चेति /
476 SK (य) अविपाकलक्षणः अस्य सर्वं स्वरूपम् अभिसमयालङ्कारे एकया कारिकया परीदीपितम् / तथा हि -
477 SK अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् / एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः //
478 SK (क) लक्षणम् एकक्षणदानादिज्ञानेन अनास्रवदानाद्यशीत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण बोधिसत्त्वस्य अवबोधरूपः पर्यन्तयोगः अविपाकानास्रवसर्वधर्मैकक्षणलक्षणो भवतीति लक्षणम् /
480 SK अस्य सर्वं स्वरूपम् अभिसमयालङ्कारे एकया कारिकया सम्यगभिहितम् / तथा हि -
481 SK विपाकधर्मतावस्था सर्वशुक्लमयी यदा / प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा //
482 SK (क) लक्षणम् यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षकलङ्कापगमेन सकलव्यवदानपक्षविपाकधर्मतावस्था शुक्लस्वभावा जाता, तदा एकस्मिन्नेव क्षणे विपाकावस्थाप्राप्तानाम् अनास्रवधर्माणां बोधात् ज्ञानं (प्रज्ञापारमिता) विपाकधर्मतावस्थानास्रवधर्मैकक्षणलक्षणो भवति, इत्येवक्षणाभिसम्बोधो द्वितीयः / अयं विपाकः अष्टमभूमेरूर्ध्वं भवतीति ज्ञेयम् / (ल) अलक्षणलक्षणः अस्य स्वरूपादिकं सर्वम् अभिसमयालङ्कारे एकया कारिकया सुस्पष्टमुपवर्णितम् / तथा हि - स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया / अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति /
483 SK (क) लक्षणम् पूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्वयमनुभूय अधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषु उपादानस्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेण अलक्षणाः सर्वधर्मा इति संक्लेशव्यवदानरूपाणां सर्वधर्माणामेकेनैव क्षणेन अलक्षणत्वं जानाति, इत्येवम् अलक्षण सर्वधर्मैकक्षणलक्षणो भवतीति एकक्षणाभिसम्बोधस्तृतीयः /
484 SK (व) अद्वयलक्षणः अस्याद्वयलक्षणस्य स्वरूपम् अभिसमयालङ्कारे एकया कारिकया स्पष्टमुपदर्शितम् / तथा हि -
485 SK स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते / धर्माणामद्वयै तत्त्वं क्षणेनैकेन पश्यति //
486 SK (क) लक्षणम् निरन्तरदीर्घकालद्वयप्रतिभासप्रहाणाभ्याससात्मीभावाद् उन्मीलितद्वयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहकयोगेन स्वप्नं ग्राह्यं स्वप्नदर्शिनं ग्राहकं नेक्षते, तदा सर्वे ऽप्येवंधर्माणो धर्मा इति धर्माणामद्वयं तत्त्वमेकेनैव क्षणेन पश्यति, इत्येवम् अद्वयलक्षणसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधश्चतुर्थः /
487 SK (ख) निर्वचनम् एक इत्यन्तिमः, क्षणमिति समयः, अभिरित्याभिमुख्यम्, समिति सम्यक्, अय इत्यधिगम इत्येवं अन्तिमकाले दानादिसर्वानास्रवधर्माणामविपरीतः सम्यक् प्रतिवेधः एकक्षणाभिसम्बोध इत्युच्यते /
488 SK (ग) अवधिः समस्तानां चतुर्लक्षणानामवधिः अन्तिमक्षणस्थबोधिसत्त्वीयावस्थायामेव भवति /
489 SK // इति एकक्षणाभिसम्बोधाभिसमयस्य अष्टौ धर्माः //
490 SK ३. Dहर्मकायोपलक्षकाश्चत्वारो धर्माः
491 SK विपाकभूतस्य धर्मकायस्य संक्षिप्तनिर्देशः अभिसमयालङ्कारे एकया कारिकया परिदीपितः / तथा हि -
492 SK स्वाभाविकः ससाम्भोगो नैर्माणिको ऽपरस्तथाः / धर्मकायः सकारित्रश्चतुर्धा समुदीरितः //
493 SK विस्तृतनिर्देशस्तु अष्टमाधिकारे चत्वारिंशत्कारिकाभिर्विहितः / तत्र धर्मकायस्य लक्षणादिकं सर्वं स्वरूपमुपवर्णितम् /
494 SK (क) लक्षणम् सम्भारद्वयसंचयबलेन प्राप्ताः पर्यन्तगुणा एव फलभूतो धर्मकाय इति लक्षणम् /
495 SK (ख) भेदः चत्वारो ऽस्य भेदा भवन्ति, यथा - स्वभावकायः, ज्ञानधर्मकायः, सम्भोगकायः, निर्माणकायश्चेति चत्वारः /
496 SK १. स्वभावकायः अस्य स्वाभाविककायस्योपपादनम् अभिसमयालङ्कारे एकया कारिकया कृतम् / तथा हि -
497 SK सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः / स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः //
498 SK (क) लक्षणम् प्रकृत्यागन्तुकमलविशुद्धिद्वयलक्षणः पर्यन्तधातुरनुत्पादरूपः स्वभावकाय इति लक्षणम् /
499 SK (ख) भेदः प्रकृतिविशुद्धः आगन्तुकविशुद्धश्चेति द्वौ भेदौ /
500 SK (ग) अवधिः स्वभावकायः केवलं बुद्धभूमावेव भवति /
501 SK २. ज्ञानधर्मकायः अस्य ज्ञानकायस्य स्वरूपम् अभिसमयालङ्कारे पञ्चभिः कारिकाभिरुपदर्शितम् /
502 SK (क) लक्षणम् यावज्ज्ञानं यथावज्ज्ञानं चापेक्ष्य साक्षात्कारि पर्यन्तज्ञान ज्ञानधर्मकाय इति लक्षणम् / ज्ञानधर्मकायः सर्वज्ञज्ञानं चेत्यनर्थान्तरम् /
503 SK (ख) भेदः बुद्धभूमौ अनास्रवज्ञानानामेकविंशतिः ज्ञानवर्गा एवास्य एकविंशतिः प्रभेदाः / तथा हि -
504 SK (१) स्मृत्युपस्थानाद्यारभ्य आर्याष्टाङ्गमार्गपर्यन्ता सप्तत्रिंशद् बोधिपक्षाः, (२) चत्वार्यप्रमाणानि मैत्र्यादिचतुर्ब्रह्मविहाराः, (३) अष्टौ विमोक्षाः, (४) नवसमापत्तयः, (५) कृत्स्नायतनानि दश (६) अष्टौ अभिभ्वायतनानि, (७) अरणासमाधिः, (८) प्रणिधिज्ञानम्, (९) षडभिज्ञाः, (१०)चतस्रः प्रतिसंविदः, (११) आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतश्रः शुद्धयः, (१२) दश वशिताः, (१३) दश बलानि, (१४) चत्वारि वैशारद्यानि, (१५) त्रीणि अरक्षणानि, (१६) त्रीणि स्मृत्युपस्थानानि, (१७) असम्मोषधर्मता, (१८) क्लेशज्ञेयावरणानुशयरूपबीजप्रहाणात् वासनासमुद्घातः, (१९) सकलजनहिताशयता महाकरुणा, (२०) अष्टादशावेणिका बुद्धधर्माः, (२१) सर्वाकारज्ञतादित्रिसर्वज्ञता / तथा चोक्तम् अभिसमयालङ्कारे -
505 SK बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः / नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम् //
506 SK अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः / अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः //
507 SK सर्वाकाराश्चतस्रो ऽथ शुद्धयो वशिता दश / बलानि दश चत्वारि वैशारद्यान्यरक्षणम् //
508 SK त्रिविधं स्मृत्युपस्थानं त्रिधा ऽसंमोषधर्मता / वासनायाः समुद्घातो महती करुणा जने //
509 SK आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः / सर्वाकारज्ञता चेति धर्माकायो ऽभिधीयते //
510 SK (ग) अवधिः बुद्धभूमावेव ज्ञानधर्मकायो भवति /
511 SK ३. सम्भोगकायः सम्भोगकायस्य स्वरूपवर्णनम् अभिसमयालङ्कारे एकया कारिकया कृतम् / तथा हि -
512 SK द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् / साम्भोगिको मतः कायो महायानोपभोगतः //
513 SK (क) लक्षणम् स्थानकायपरिवारधर्मकालाख्यैः पञ्चभिर्विनियतैर्विर्शिष्टः कायः सम्भोगकाय इति लक्षणम् /
514 SK (ख) भेदः महासम्भोगकायः कनिष्ठसम्भोगकायश्चेति भेदद्वयमभिधानदृष्ट्या कर्तुं शक्यते / तत्र महासम्भोगकायः अकनिष्ठभौमिकः सम्भोगकाय इत्यनर्थान्तरम् / तथैव कनिष्ठसम्भोगकायः अकनिष्ठभौमिकौ निर्माणकायश्चेत्यनर्थान्तरम् /
515 SK (ग) अवधिः अयं सम्भोगकायो बुद्धभूमौ अकनिष्ठघनव्यूहक्षेत्रे एव केवलं भवति /
516 SK ४. निर्माणकायः कायस्यास्य नैर्माणिकस्य स्वरूपम् अभिसमयालङ्कारे कारिकया एकया सम्यगुपवर्णितम् / तथा हि -
517 SK करोति येन चित्राणि हितानि जगतः समम् / आ भवात् सो ऽनुपच्छिन्नः कायो नैर्माणिको मुनेः //
518 SK (क) लक्षणम् पञ्चभिर्विनियतैर्विरहितः पर्यन्तरूपकायो निर्माणकाय इति लक्षणम् /
519 SK येन शाक्यमुनितथागतादिरूपेण आसंसारं सर्वलोकधातुषु सत्त्वानां समीहितमर्थं समं करोति, असौ कायः प्रबन्धतया अनुपरतो नैर्माणिको बुद्धस्य भगवतः सर्वबालजनसाधारणश्चतुर्थो ऽवसातव्यः /
520 SK (ख) भेदः निर्माणकायस्य त्रयो भेदा भवन्ति, यथा - उत्तमनिर्माणकायः, शैल्पिकनिर्माणकायः, नैर्याणिकनिर्माणकायश्चेति /
522 SK इमानि भगवतो विचित्राणि कारित्राणि अभिसमयालङ्कारे सप्तभिः कारिकाभिर्विस्तरशो निर्दिष्टानि /
523 SK (क) लक्षणम् स्वसन्ततिस्थसर्वाकारज्ञताधिपत्येनोदयमासादिताः शुक्ला गुणा एव बुद्धकारित्राणीति लक्षणम् /
524 SK (ख) भेदः गतिप्रशमनकारित्रत आरभ्य निर्वाणनिवेशनपर्यन्तं सप्तविंशतिः कर्माण्येवास्य सप्तविंशतिः प्रभेदा भवन्ति / यथोक्तमभिसमयालङ्कारे सप्तविंशतिः करित्राणि -
525 SK तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते / गतीनां शमनं कर्मं संग्रहे च चतुर्विधे //
526 SK निवेशनं ससंक्लेशे व्यवदानावबोधने / सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च //
527 SK बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये / संकेते ऽनुपलम्भे च परिपाके च देहिनाम् //
528 SK बोधिसत्त्वस्य मार्गो ऽभिनिवेशस्य निवारणे / बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति //
529 SK अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे / बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने //
530 SK विपर्यासप्रहाणे च तदवस्तुकतानये / व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति //
531 SK व्यतिभेदापरिज्ञाने निर्वाणे व निवेशनम् / धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् //
532 SK (ग) अवधिः मार्गे ऽप्रवेशादारभ्य बुद्धभूमिपर्यन्तमस्यावधिर्भवति /
533 SK (घ) वैशिष्ट्यम् विनेयजनकर्मानुसारं भगवतः कायवाङ्मनःकारित्राणि आकाशवद् अत्युदाराणि, नदीधारावद् अविच्छिन्नानि, समुद्रतरङ्गवत् कालानतिक्रमणलक्षणानि, चिन्तामणिकल्पवृक्षादिवद् अनाभोगरूपाणि भवन्ति /
534 SK (ङ) अवधिः विनेयजनप्रतिभासभाक् सप्तविंशतिप्रकारं कर्म अविच्छिन्नतया आसंसारं प्रवर्तते /
535 SK // इति धर्मकायोपक्षकाश्चत्वारो धर्माः //
537 SK प्रज्ञापारमितोपलक्षकाणां सर्वाकारज्ञाताद्यष्टानाम्, अष्टपदार्थोपलक्षकाणां च सप्ततेः पदार्थानां प्रकाशकमिदं सुभाषितं जगद्गुरोः मैत्रेयनाथस्य मुखान्निः-सृतस्यागमस्य चतुर्दिक्षुः प्रसाराय लोकस्य च सन्मार्गारोहणाय प्रभवेदिति परिणामना / आचार्यहरिभद्रवचनेन तु -
538 SK तथ्यातथ्यविभागयुक्तिविकलज्ञानोदयात्संवृतौ संसारार्णवपङ्कमग्नमनसी जाताः सदा देहिनः / सर्वे ऽमी जननीनिबन्धनकृताद् बीजान्मयाप्ताच्छुभात् सर्वाकारवरा भवन्तु नियतं कायत्रयप्रापिणः //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Abhisamayālaṃkāravivaraṇa (sa_abhisamayAlaMkAravivaraNa.htm).
Source