The Treatise on the Elimination of Arguments
Vigrahavyāvartanīkārikā
Vइग्रहव्यावर्तनीकारिका
SKVइग्रहव्यावर्तनी-कारिका ||
SKसर्वेषां भावानां सर्वत्र न विद्यते स्वभावश् चेत् | त्वद्वचनम् अस्वभावं न निवर्तयितुं स्वभावम् अलम् || Nअग्Vव्य्_०१
SKअथ सवभावम् एतद् वाक्यं पूर्वा हता प्रतिज्ञा ते | वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः || Nअग्Vव्य्_०२
SKमा शब्दवद् इत्य् एतत् स्यात् ते बुद्धिर् न चैतद् उपपन्नम् | शब्देन ह्य् अत्र सता भविष्यतो वारणं तस्य || Nअग्Vव्य्_०३
SKप्रतिषेधप्रतिषेधो ऽप्य् एवम् इति मतं भवेत् तद् असद् एव | एवं तव प्रतिज्ञा लक्षङतो दूष्यते न मम || Nअग्Vव्य्_०४
SKप्रत्यक्षेण हि तावद् यद्य् उपलभ्य विनिवर्तयसि भावान् | तन् नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते || Nअग्Vव्य्_०५
SKअनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च | अनुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश् च || Nअग्Vव्य्_०६
SKकुशलानां धर्मावस्थाविदश् च मन्यन्ते | कुशलं जनाः स्वभावं शेषेष्व् अप्य् एष विनियोगः || Nअग्Vव्य्_०७
SKनैर्याणिकस्वभावो धर्मा नैर्याणिकाश् च ये तेषाम् | धर्मावस्थोक्तानाम् एवं अनैर्याणिकादीनाम् || Nअग्Vव्य्_०८
SKयदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्य् एवम् | नामापि भवेन् नैवं नाम हि निर्वस्तुकं नास्ति || Nअग्Vव्य्_०९
SKअथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् | धर्मैर् विना स्वभावः स यस्य तद् युक्तम् उपदेष्टुम् || Nअग्Vव्य्_१०
SKसत एव प्रतिषेधो नास्ति घटो गेह इत्य् अयं यस्मात् | दृष्टः प्रतिषेधो ऽयं सतः स्वभावस्य ते तस्मात् || Nअग्Vव्य्_११
SKअथ नास्ति स स्वभावः किं नु प्रतिषिध्यते त्वयानेन | वचनेनर्ते वचनात् प्रतिषेधः सिध्यते ह्य् असतः || Nअग्Vव्य्_१२
SKबालानां इव मिथ्या मृगतृष्नायां यथाजलग्राहः | एवं मिथ्याग्राहः स्यात् ते प्रतिषेध्यतो ह्य् असतः || Nअग्Vव्य्_१३
SKनन्व् एवं सत्य् अस्ति ग्राहो ग्राह्यं च तद्ग्रहीता च | प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत् || Nअग्Vव्य्_१४
SKअथ नैवास्ति ग्राहो नैव ग्राह्यं न च ग्रहीतारः | प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारो ननु स सन्ति || Nअग्Vव्य्_१५
SKप्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश् च यद्युत न सन्ति |
SKसिद्धा हि सर्वभावास् तेषम् एव स्वभावश् च || Nअग्Vव्य्_१६
SKहेतोश् च ते न सिद्धिर् नैःस्वाभाव्यात् कुतो हि ते हेतुः | निर्हेतुकस्य सिद्धिर् न चोपपन्नास्य ते ऽर्थस्य || Nअग्Vव्य्_१७
SKयदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति | स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् || Nअग्Vव्य्_१८
SKअथ हेतोर् अस्तित्वं भावास्वाभाव्यम् इत्य् अनुपपन्नम् | लोकेषु निःस्वभावो न हि कश् चन विद्यते भावः || Nअग्Vव्य्_१९
SKपूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यम् इत्य् अनुपपन्नम् | पश्चाच् चानुपपन्नो युगपच् च यतः स्वभावः सन् || Nअग्Vव्य्_२०
SKहेतुप्रत्ययसामग्र्यां च पृथक् चापि मद्वचो न यदि | मनु शून्यत्वं सिद्धं भावानाम् अस्वभावत्वात् || Nअग्Vव्य्_२१
SKयश् च प्रतीत्यभावो भावानां शून्यतेति सा प्रोक्ता | यश् प्रतीत्यभावो भवति हि तस्यास्वभावत्वम् || Nअग्Vव्य्_२२
SKनिर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् | प्रतिषेधयेत यद्वत् प्रतिषेधो ऽयं तथैव स्यात् || Nअग्Vव्य्_२३
SKन स्वाभाविकम् एतद् वाक्यं तस्मान् न वादहानिर् मे | नास्ति च वैषमिकत्वं विशेषहेतुश् च न निगद्यः || Nअग्Vव्य्_२४
SKमा शब्दवद् इति नायं दृष्टान्तो यस् त्वया समारब्धः | शब्देन हि तच् छब्दस्य वारणं नैवम् एतच् च || Nअग्Vव्य्_२५
SKनैःस्वाभाव्यानां चेन् नैःस्वाभाव्येन वारणं यदि हि | नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् || Nअग्Vव्य्_२६
SKअथ वा निर्मितकायां यथा स्त्रियां स्त्रीयम् इत्य् असद्ग्राहम् | निर्मितकः प्रतिहन्यात् कस्य चिद् एवं भवेद् एतत् || Nअग्Vव्य्_२७
SKअथ वा साध्यसमो ऽयं हेतुर् न हि विद्यते ध्वनेः सत्ता | संव्यवहारं च वयं नानभ्युपगम्य कथयामः || Nअग्Vव्य्_२८
SKयदि का चन प्रतिज्ञा स्यान् मे तत एष मे भवेद् दोषः | नास्ति च मम प्रतिज्ञा तस्मान् नैवास्ति मे दोषः || Nअग्Vव्य्_२९
SKयदि किं चिद् उपलभेयं प्रवर्तयेयं निवर्तयेयं वा | प्रत्यक्षादिभिर् अर्थैस् तदभावान् मे ऽनुपालम्भः || Nअग्Vव्य्_३०
SKयदि च प्रमाणतस् ते तेषां तेषां प्रसिद्धिर् अर्थानाम् | तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम् || Nअग्Vव्य्_३१
SKअन्यैर् यदि प्रमाणैः प्रमाणसिद्धिर् भवेत् तद् अनवस्था | नादेः सिद्धिस् तत्रास्ति नैव मध्यस्य नान्तस्य || Nअग्Vव्य्_३२
SKतेषाम् अथ प्रमाणैर् विना प्रसिद्धिर् विहीयते वादः | वैषमिकत्वं तस्मिन् विशेषहेतुश् च वक्तव्यः || Nअग्Vव्य्_३३
SKविषमोपन्यासो ऽयं न ह्य् आत्मानं प्रकाशयत्य् अग्निः | न हि तस्यानुपलब्धिर् दृष्टा तमसीव कुम्भस्य || Nअग्Vव्य्_३४
SKयदि च स्वात्मानम् अयं त्वद्वचनेन प्रकाशयत्य् अग्निः | परम् इव नन्व् आत्मानं स्वं परिधक्ष्यत्य् अपि हुताशः || Nअग्Vव्य्_३५
SKयदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्य् अग्निः | प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव || Nअग्Vव्य्_३६
SKनास्ति तमश् च ज्वलने यत्र च तिष्ठति परात्मनि ज्वलनः | कुरुते कथं प्रकाशं स हि प्रकाशो ऽन्धकारवधः || Nअग्Vव्य्_३७
SKउत्पद्यमान एव प्रकाशयत्य् अग्निर् इत्य् असद्वादः | उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः || Nअग्Vव्य्_३८
SKअप्राप्तो ऽपि ज्वलनो यदि वा पुनर् अन्धकारम् उपहन्यात् | सर्वेषु लोकधातुषु तमो ऽयम् इह संस्थितो हन्यात् || Nअग्Vव्य्_३९
SKयदि स्वतश् च प्रमाणसिद्धिर् अनपेक्ष्य तव प्रमेयाणि | भवति प्रमाणसिद्धिर् न परापेक्षा स्वतःसिद्धिः || Nअग्Vव्य्_४०
SKअनपेक्ष्य हि प्रमेयान् अर्थान् यदि ते प्रमाणसिद्धिर् इति | न भवन्ति कस्य चिद् एवम् इमानि तानि प्रमाणानि || Nअग्Vव्य्_४१
SKअथ मतम् अपेक्ष्य सिद्धिस् तेषाम् इत्य् अत्र भवति को दोषः | सिद्धस्य साधनं स्यान् नासिद्धो ऽपेक्षते ह्य् अन्यत् || Nअग्Vव्य्_४२
SKसिध्यन्ति हि प्रमेयाण्य् अपेक्ष्य यदि सर्वथा प्रमाणानि | भवति प्रमेयसिद्धिर् नापेक्ष्यैव प्रमाणानि || Nअग्Vव्य्_४३
SKयदि च प्रमेयसिद्धिर् नापेक्ष्यैव भवति प्रमाणानि | किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् || Nअग्Vव्य्_४४
SKअथ तु प्रमाणसिद्धिर् भवत्य् अपेक्ष्यैव ते प्रमेयाणि | व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् || Nअग्Vव्य्_४५
SKअथ ते प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या च | भवति प्रमाणसिद्धिर् नास्त्य् उभयस्यापि ते सिद्धिः || Nअग्Vव्य्_४६
SKसिध्यन्ति हि प्रमाणैर् यदि प्रमेयाणि तानि तैर् एव | साध्यानि च प्रमेयैस् तानि कथं साधयिष्यन्ति || Nअग्Vव्य्_४७
SKसिध्यन्ति च प्रमेयैर् यदि प्रमाणानि तानि तैर् एव | साध्यानि च प्रमाणैस् तानि कथं साधयिष्यन्ति || Nअग्Vव्य्_४८
SKपित्रा यद्य् उत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण | उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् || Nअग्Vव्य्_४९
SKकश् च पिता कः पुत्रस् तत्र त्वं ब्रूहि ताव् उभाव् अपि च | पितृपुत्रलक्षणधरौ यतो भवति नो ऽत्र संदेहः || Nअग्Vव्य्_५०
SKनैव स्वतः प्रसिद्धिर् न परस्परतः परप्रमाणैर् वा | न भवति न च प्रमेयैर् न चाप्य् अकस्मात् प्रमाणानां || Nअग्Vव्य्_५१
SKकुशलानां धर्माणां धर्मावस्थाविदो ब्रुवीरन् यत् | कुशलं स्वभावम् एवं प्रविभागेनाभिधेयः स्यात् || Nअग्Vव्य्_५२
SKयदि च प्रतीय कुशलः स्वभाव उत्पद्यते स कुशलानाम् | धर्माणां परभावः स्वभाव एवं कथं भवति || Nअग्Vव्य्_५३
SKअथ न प्रतीत्य किं चित् स्वभाव उत्पद्यते स कुशलानाम् | धर्माणम् एवं स्याद् वासो न ब्रह्मचर्यस्य || Nअग्Vव्य्_५४
SKनाधर्मो धर्मो वा संव्यवहाराश् च लौकिका न स्युः | नित्याश् च सस्वभावाः स्युर् नित्यत्वाद् अहेतुमतः || Nअग्Vव्य्_५५
SKएवम् अकुशलेष्व् अव्याकृतेषु नैर्याणिकादिषु च दोषः | तस्मात् सर्वं संस्कृतम् असंस्कृतं ते भवत्य् एव || Nअग्Vव्य्_५६
SKयः सद्भूतं नामात्र ब्रूयात् सस्वभाव इत्य् एवम् | भवता प्रतिवक्तव्यो नाम ब्रूमश् च न वयं सत् || Nअग्Vव्य्_५७
SKनामासद् इति च यद् इदं तत् किं नु सतो भवत्य् उताप्य् असतः | यदि हि सतो यद्य् असतो द्विधापि ते हीयते वादः || Nअग्Vव्य्_५८
SKसर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् | स उपालम्भस् तस्माद् भवत्य् अयं चाप्रतिज्ञायाः || Nअग्Vव्य्_५९
SKअथ विद्यते स्वभावः स च धर्माणां न विद्यत इतीदम् | आशङ्कितं यद् उक्तं भवत्य् अनाशङ्कितं तच् च || Nअग्Vव्य्_६०
SKसत एव प्रतिषेधो यदि शून्यत्वं ननु प्रसिद्धम् इदम् | प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् || Nअग्Vव्य्_६१
SKप्रतिषेधयसे ऽथ त्वं शून्यत्वं तच् च नास्ति शून्यत्वम् | प्रतिषेधः सत इति ते नन्व् एष विहीयते वादः || Nअग्Vव्य्_६२
SKप्रतिषेधयामि नाहं किं चित् प्रतिषेध्यम् अस्ति न च किं चित् | तस्मात् प्रतिषेधयसीत्य् अधिलय एष त्वया क्रियते || Nअग्Vव्य्_६३
SKयच् चाहर्ते वचनाद् असतः प्रतिषेधवचनसिद्धिर् इति | अत्र ज्ञापयते वाग् असद् इति तन् न प्रतिनिहन्ति || Nअग्Vव्य्_६४
SKमृगतृष्णादृष्टान्ते यः पुनर् उक्तस् त्वया महांश् चर्चः | तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः || Nअग्Vव्य्_६५
SKस यदि स्वभावतः स्याद् ग्राहो न स्यात् प्रतीत्य संभूतः | यश् च प्रतीत्य भवति ग्राहो ननु शून्यता सैव || Nअग्Vव्य्_६६
SKयदि च स्वभावतः स्याद् ग्राहः कस् तं निवर्तयेद् ग्राहम् | शेषेष्व् अप्य् एष विद्धिस् तस्माद् एषो ऽनुपालम्भः || Nअग्Vव्य्_६७
SKएतेन हेत्वभावः प्रत्युक्तः पूर्वम् एव स समत्वात् | मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राक् || Nअग्Vव्य्_६८
SKयस् त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वम् एव स समत्वात् | त्रैकाल्यप्रतिहेतुश् च शून्यतावादिनां प्राप्तः || Nअग्Vव्य्_६९
SKप्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः | प्रभवति न तस्य किं चिन् न प्रभवति शून्यता यस्य || Nअग्Vव्य्_७०
SKयः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदं च | एकार्थां निजगाद प्रणमामि तम् अप्रतिमबुद्धम् || Nअग्Vव्य्_७१
SK%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
SKCओप्य्रिघ्त् (C) २००३ ब्य् Cह्र्. Lइन्द्त्नेर् - Dएन्मर्क्
SK%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%