SKPअञ्चविंशतिसाहस्रिका Pरज्ञापारमिता
SKनमस् सर्वज्ञाय // एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं पञ्चमात्रैर् भिक्षुसहस्रैस् सर्वैर् अर्हद्भिः क्षीणास्रवैर् निष्क्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैस् सम्यगाज्ञासुविमुक्तचित्तैस् सर्वचेतोवशिपरमपारमिप्राप्तैः पञ्चमात्रैर् भिक्षुणीशतैर् उपासकैर् उपासिकाभिश् च सार्धं सर्वैर् दृष्टधर्मैर् अनेकैश् च बोधिसत्वकोटीनयुतशतसहस्रैः सार्धं सर्वैर् धारणीप्रतिलब्धैः शून्यताविहारिभिर् अनिमित्तगोचरैः प्रणिधानाकल्पितैः क्षान्तिसमताप्रतिलब्धैर् असङ्गधारणीप्रतिलब्धैर् अच्युताभिज्ञैर् आदेयवचनैर् अकुहकैर् अलपकैर् अपगतज्ञातृलाभचित्तैः निरामिषधर्मदेशकैर् गम्भीरधर्मक्षान्तिपारङ्गतैर् वैशारद्यप्राप्तैर् मारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैर् धर्मप्रविचयविभक्तिनिर्देशकुशलैर् असंख्येयकल्पप्रणिधानसुसमारब्धैः स्मितमुखैः पूर्वालापिभिः अपगतभ्रूकुटीमुखैर् गाथाभिगीतालपनकुशलैर् अपगतलीनचित्तैर् अनाच्छेद्यप्रतिभानैर् अनन्तपर्षदभिभंवनवैशारद्यसमन्वागतैर् अनन्तकल्पकोटीनिःसरणकुशलैर् मायामरीचिदकचन्द्रस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बनिर्माणोपमधर्माधिमुक्तैस् सत्वगतिचरितसूक्ष्मनानाधिमुक्त्यवतारकुशलैर् अप्रतिहतचित्तैर् अधिमात्रक्षान्तिसमन्वागतैर् यथात्म्यावतरणकुशलैस् सर्वबुद्धक्षेत्रानन्तव्यूहप्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुबुद्धानुस्मृतिसमाधिसततसमितमभिमुखीभूतैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्ट्यनुशयपर्यवस्थानक्लेशप्रशमनकुशलैस् समाधिविक्रीडितशतसहस्रनिर्हारकुशलैः // तद्यथा बध्रपालेन च बोधिसत्वेन महासत्वेन रत्नाकरेण च सुसार्थवाहेन च नरदत्तेन च वरुणदत्तेन च गुहगुप्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिण च नित्योद्युक्तेन च नित्यप्रयुक्तेन च अनिक्षिप्तधुरेण च सूर्यगर्भेण च अनुपममतिना च अवलोकितेश्वरेण च महास्थामप्राप्तेन च मञ्जुश्रिया च वज्रमतिना च रत्नमुद्राहस्तेन च नित्योत्क्षिप्तहस्तेन च मैत्रेयेण च बोधिसत्वेन महासत्वेन // एवंप्रमुखैर् अनेकैर् बोधिसत्वकोटीनयुतशतसहस्रैः // अथ खलु भगवान् स्वयम् एव सिंहासनं प्रज्ञप्य न्यषीदत् पर्यङ्कम् आभुज्य ऋजुकायं प्रणिधान्या (Pव्SPL का_अ) अभूवन्* सर्वक्षणाश् चास्तमिता अभूवन्* ये च सत्वास् ताभ्यो निरयतिर्यग्योनियमलोकगतिभ्यश् च्युतास् ते सर्वे देवमनुष्येषूपपद्यन्ते स्म ते देवमनुष्येषूपपन्ना भगवत एवानुभावेन पूर्वजन्मान्य् अनुस्मरन्ति स्म अनुस्मृत्य तेनैव प्रीतिप्रामोद्येन स्वकस्वकेषु बुद्धक्षेत्रेषु ये बुद्धा भगवन्तस् तेषाम् अन्तिकम् उपसंक्रान्ता उपसंक्रम्य तेषां बुद्धानां भगवतां पादवन्दनाङ् कृत्वा सर्वे प्राञ्जलयो भूत्वा तान् बुद्धान् भगवतो नमस्यन्ति स्म // अथ खलु तेनैव क्षणलवमुहूर्तेन ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ अन्धास् सत्वास् ते चक्षुषा रूपाणि पश्यन्ति स्म वधिराः श्रोत्रेण शब्दाञ् च्छृण्वन्ति स्म उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म विक्षिप्तचित्ता एकाग्रचित्ता भवन्ति स्म नग्नाश् चीवरप्रावृता भवन्ति स्म जिघत्सिताः पूर्णगात्रा भवन्ति स्म तृषिताः विगतपिपासा भवन्ति स्म रोगस्पृष्टाः विगतरोगा भवन्ति स्म हीनेन्द्रियाः परिपूर्णेन्द्रिया भवन्ति स्म अविरताकुशलकायवाङ्मनस्कर्मान्ताजीवाः सत्वा विरताकुशलकायावाङ्मनस्कर्मान्ताजीवा भवन्ति स्म सर्वसत्वाश् च मातापितृसमचित्ता भवन्ति स्म भ्रातृभगिनी समचित्ता मित्रामात्यज्ञातिसालोहितसमचित्ता दशकुशलकर्मपथसेविनश् च भवन्ति स्म ब्रह्मचारिणः शुचयो निरामगन्धाः सर्वसुखसमर्पिता ईदृशसुखं प्रतिलभन्ते स्म तद्यथापि नाम तृतीयध्यानसमापन्नस्य तस्मिन्न् एव च समये एवंरूपया प्रज्ञाय समन्वागता भवन्ति स्म यद् अन्यबुद्धक्षेत्रस्था बुद्धा भगवन्त एवम् उदानम् उदानयन्ति स्म साधु दमः साधु शमः साधु संयमः साधु चीर्णो ब्रह्मचर्यवासः साधु प्रणिभूतेष्व् अविहिंसेति // अथ खलु भगवांस् तस्मिन्न् एव सिहासने निषण्णः इमन् त्रिसाहस्रमहासाहस्रं लोकधातुम् अभिभूय तिष्ठति भासते तपति विरोचते स्म आभया वर्णेन श्रिया तेजसा च पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अध-ऊर्ध्वविदिक्षु गङ्गानदीवालिकोपमाल् लोकधातून् अभिभूय तथागतस् तिष्ठति भासते तपति विरोचते स्म आभया वर्णेन श्रिया तेजसा च // तद्यथापि नाम सुमेरुः पर्वतराजः सर्व्वपर्वतान् अभिभूय तिष्ठति भासते तपति विरोचते आभया वर्णेन श्रिया तेजसा च एवम् एव भगवान् सर्वलोकधातून् अभिभूय तिष्ठति भासते तपति विरोचते स्म आभया वर्णेन श्रिया तेजसा च // अथ खलु भगवान् पुनर् एव यादृक् त्रिसाह्सरमहासाह्स्रे लोकधातौ सत्वानाम् आत्मभावस् तत्समानम् आत्मभावं प्राकृतम् उपदर्शयामास // अथ खलु यावन्तो स्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ शुद्धावासिकायिका (Pव्SPL का_ब्) देवा ब्रह्मकायिकाश् च परनिर्मितवशवर्तिनश् च निर्माणरतयश् च तुषिताश् च यामाश् च त्रायस्त्रिंशाश् च चातुर्महाराजकायिकाश् च देवास् ते तन् तथागतस्यासेचनकम् आत्मभावं दृष्ट्वा दिव्यानि पुष्पाणि गृहीत्वा दिव्यगन्धमाल्यविलेपनचूर्णचीवरच्छत्रद्ध्वजपताकाश् च गृहीत्वा दिव्यानि चोत्पलकुमुदसौगन्धिकपुन्दरीकपद्मानि गृहीत्वा दिव्यानि च केसरतमालपत्राणि गृहीत्वा येन स तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ता ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ मनुष्यास् ते पि तन् तथागतस्यासेचनकम् आत्मभावन् दृष्ट्वा स्थलजजलजानि पुष्पाणि गृहीत्वा येन स तथागतस्यासेचनक आत्मभावस् तेनोपसंक्रान्ताः // अथ खलु ते देवास् ते च मनुष्यास् ताभिर् दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रद्ध्वजपताकाभिस् ते स्थलजजलजैः पुष्पैस् तन् तथागतकायम् अवकिरन्ति स्माभ्यवकिरन्ति स्म अभिप्रकिरन्ति स्म // अथ खलु यैस् तैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रद्ध्वजपताकावर्षैः स्थजजलजैश् च पुष्पैर् भगवान् अवकीर्णस् तानि सर्वान्य् उपर्यन्तरीक्षे भगवतो ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाण एकः कूटागारः संस्थितो भूत्* ततश् च कूटागाराद् दिव्यानि पुष्पपट्टदामानि लम्बन्ते स्म प्रलम्बन्ते स्म अभिप्रलम्बन्ते स्म तैश् च पुष्पदामभिः पट्टदामभिश् चायन् त्रिसाहस्रमहासाहस्रो लोकधातुर् अतीव शोभते स्म तेन च सुवर्णवर्णेन भगवतः प्रभावभासेन दशसु दिक्षु प्रविसृतेन एकैकस्यान् दिशि गङ्गानदीवालिकोपमा लोकधातवः स्फुटा अवभासिताश् चाभूवन्* अस्मिंश् च त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वचातुर्द्वीपिकेषु लोकधातुषु देवमनुष्यानाम्* एकैकस्यैतद् अभूत्* मम पुरतस् तथागतो निषिण्णो धर्मन् देशयति मम पुरतस् तथागतो निषिण्णो धर्मन् देशयतीति // अथ खलु भगवांस् तस्मिन्न् एव सिंहासने निषण्णः पुनर् अपि स्मितम् अकरोत्* येन स्मितावभासेनायन् त्रिसाहस्रमहासाहस्रो लोकधातुः स्फुटो भूत्* यावद् दशसु दिक्षु गङ्गानदीवालिकोपमा लोकधातवः स्फुटा अभूवन्* ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वाः ते पूर्वस्यान् दिशि गङ्गानदीवालिकोपमेषु लोकधातुषु बुद्धान् भगवतः पश्यन्ति स्म सश्रावकसंघांस् तत्र च पूर्वस्यान् दिशि
SK(Pव्SPL कि_अ) गङ्गानदीवालिकोपमेषु लोकधातुषु ये सत्वास् ते पीमां सहां लोकधातुं पश्यन्ति स्म शाक्यमुनिञ् च तथागतं सार्धं भिक्षुसंघेन एवन् दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध-ऊर्ध्वन्दिग्भागे गङ्गानदीवालिकोपमेषु लोकधातुषु बुद्धान् भगवन्तः पश्यन्ति स्म सश्रावकसंघांस् तेषु च लोकधातुषु ये सत्वास् ते पीमां सहां लोकधातुं पश्यन्ति स्म शाक्यमुनिञ् च तथागतं सार्धं भिक्षुसंघेन // अथ खलु पूर्वस्यान् दिशि गङ्गानदीवालिकोपमाल् लोकधातून् अतिक्रम्य तेभ्यो या सर्वपश्चिमा लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयति स इमाम् एव प्रज्ञापारमितां बोधिसत्वानान् देशयति अथ तत्र लोकधातौ समन्तरश्मिर् नाम बोधिसत्वो महासत्वस् तं महान्तम् अवभासन् दृष्ट्वा तञ् च महान्तं पृथिवीचालन् तञ् च भगवतो सेचनकम् अत्मभावन् दृष्ट्वा येन स भगवान् रत्नाकरस् तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तेनोपसंक्रान्त उपसंक्रम्य तस्य भगवतः पादाव् अभिवन्द्य तं भगवन्तं रत्नाकरन् तथागतम् एतद् अवोचत्* को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्यास्य चासेचनकस्य तथागतस्यात्मभावस्य सन्दर्शनाय // एवम् उक्ते स भगवान् रत्नाकरस् तथागतः समन्तरश्मिं बोधिसत्वम् एतद् अवोचत्* अस्ति कुलपुत्रेतः पश्चिमे दिग्भागे गङ्गानदीवालिकोपमाल् लोकधातून् अतिक्रम्य सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो र्हन् सम्यक्सम्बुद्धस् तिष्ठति ध्रियते यापयते स बोधिसत्वानां प्रज्ञापारमिता संप्रकाशयति तस्याम् ईदृशो ऽनुभावः // अथ खलु समन्तरश्मिर् बोधिसत्वो रत्नाकरन् तथागतम् एतद् अवोचत्* गमिष्याम्य् अहं भगवंस् तां सहां लोकधातुन् तं भगवन्तं शाक्यमुनिन् तथागतम् अर्हन्तं सम्यक्सम्बुद्धन् दर्शनाय वन्दनाय पर्युपासनाय तांश् च बोधिसत्वान् महासत्वाण् भूयस्त्वेन कुमारभूतान् धारणीप्रतिलब्धान् समाधिनिर्हारकुशलान् सर्वसमाधिवशिपारङ्गतान् दर्शनाय स भगवान् आह गच्छ त्वं कुलपुत्र यसेदानीङ् कालं मन्यसे // अथ खलु रत्नाकरस् तथागतो नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि समन्तरश्मये बोधिसत्वाय प्रादाद् एवञ् चावादीद् एतैस् त्वं कुलपुत्र पद्मैस् सपरिवारस् तं शाक्यमुनिन् तथागतम् अभ्यवकिरेः एवञ् च वदेः रत्नाकरो भगवान्* भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातंकतां लघुसमुत्थानतां (Pव्SPL कि_ब्) यात्रां बलं सुखस्पर्शविहारतां परिपृच्छतीमानि च तेन भगवता रत्नाकरेण तथागतेनार्हता सम्यक्सम्बुद्धेन नानारत्नामयानि सुवर्णावभासानि सहस्रपत्राणि पद्मानि प्रहितानि भगवत इति संप्रजानङ्कारी च त्वं कुलपुत्र तत्र बुद्धक्षेत्रे भवेस् तङ् कस्य हेतोर् दुरासदा हि ते कुलपुत्र बोधिसत्वा ये तत्र सहायां लोकधाताव् उपपन्नाः // अथ खलु समन्तरश्मिर् बोधिसत्वस् तस्य रत्नाकरस्य तथागतस्य सकाशात् तानि नानारत्नमयानि पद्मानि गृहीत्वा सुवर्णावभासानि सहस्रपत्राण्य् अनेकैर् बोधिसत्वकोटीनयुतशतसहस्रैर् गृहस्थैः प्रव्रजितैर् दारकैर् दारिकाभिश् च परिवृतः पुरस्कृतः पूर्वस्यान् दिशि तेषु गङ्गानदीवालिकोपमेषु बुद्धान् भगवतस् सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिर् येनेयं सहा लोकधातुस् तेन संप्राप्तः येन च शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्सम्बुद्धस् तेनोपसंक्रामत् उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते ऽस्थाद् एकान्ते स्थितश् च समन्तरश्मिर् बोधिसत्वो भगवन्तं शाक्यमुनिन् तथागतम् एतद् अवोचत्* रत्नाकरो भगवान् भगवन्तम् अल्पाबाधतां परिपृच्छत्य् अल्पातंकतां लघूत्थानतां यात्रां बलं सुखस्पर्शविहारताञ् च परिपृच्छतीमानि च तेन भगवता रत्नाकरेण तथागतेन नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रहितानि भगवतः // अथ खलु भगवाञ् च्छाक्यमुनिस् तथागतस् तानि पद्मानि गृहीत्वा येन ते पूर्वस्यान् दिशि गङ्गानदीवालिकोपमा लोकधातवस् तेन प्राक्षिपत् तैश् च पद्मैस् ते लोकधातवः स्फुटा अभूवन्* तेषु च पद्मेषु बुद्धविग्रहा निषण्णकास् तेषु बुद्धक्षेत्रेषु धर्मन् देशयन्ति स्म यद् उतेमम् एव प्रज्ञापारमिताप्रतिसंयुक्तं यैश् च सत्वैस् स धर्मश् श्रुतस् ते सर्वे नियता अभूवन्न् अनुत्तरायां सम्यक्सम्बोधौ // अथ खलु ये ते बोधिसत्वा महासत्वा गृहस्थाः प्रव्रजिताश् च दारका दारिकाश् च ततो रत्नावत्या लोकधातोस् समन्तरश्मिना बोधिसत्वेन महासत्वेन सार्धम् आयातास् ते स्वकस्वकैः कुशलमूलैर् भगवन्तं शाक्यमुनिं सत्कृत्य गुरुकृत्य संमान्य संपूज्य पादौ शिरसाभिवन्द्यैकान्ते न्यसीदन्* एकान्तनिषन्नाश् च ते गृहस्थास् ते च प्रव्रजितास् ते च दारकास् ताश् च दारिका भगवन्तं शाक्यमुनिन् तथागतम् एतद् अवोचन्* रत्नाकरो भगवांस् तथागतः भगवतो ऽल्पबाधातां परिपृच्छत्य् अल्पातंकतां लघुसमुत्थानतां यात्रां बलं सुखस्पर्शविहारताञ् च परिपृच्छति इमानि च तेन भगवता रत्नाकरेण तथागतेन पद्मानि प्रेषितानि भगवतः अथ खलु भगवाञ् च्छाक्यमुनिस् तथागतस् तानि पद्मा (Pव्SPL खम्_अ) मनसिकाराद् एवं हि शारिपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायाञ् चरन् पूर्वनिवासानुस्मृत्यभिज्ञाज्ञानसाक्षात्क्रिया दानम् अभिनिर्हरति स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वान् पश्यति च्यवमानान् उपपद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतान् दुर्गतान् यथाकर्मोपगान् सत्वान् यथाभूतं प्रजानात्य् अमी भवन्तस् सत्वाः कायदुश्चरितेन समन्वागता वाग्दुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयस् ते मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातन् नरकेषूपपद्यन्ते अमी पुनर् भवन्तस् सत्वाः कायसुचरितेन समन्वागता वाक्सुचरितेन मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकास् सम्यग्दृष्टिकास् ते सम्यग्दृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं मरणात् सुगतौ स्वर्गलोक उपपद्यन्त इति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण दश दिशि लोके आकाशधातुपर्यवसाने सर्वलोकधातुषु षड्गतिकानां सत्वानाञ् च्युतोपपादं यथाभूतं प्रजानाति तेन च दिव्येन चक्षुषा न मन्यते तथा हि तच् चक्षुर् अचक्षुर् अचिन्त्यताम् उपादाय यो ऽहं पश्यामीति न मन्यते स तद् एव चक्षुर् नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावानुत्पत्तिकाम् उपादाय स दिव्यचक्षुश्चेतनाम् अपि नोत्पादयति न दिव्यचक्षुरभिनिर्हारचेतनाम् अन्यत्र सर्वाकारज्ञतामनसिकाराद् एवं हि शारिपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायाञ् चरन् दिव्यचक्षुरभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति स आस्रवक्षयाभिज्ञासाक्षात्क्रियाज्ञानम् अभिनिर्हरति न श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतति नाप्य् अन्यङ् कञ्चिद् धर्मम् आशंसमानो ऽन्यत्रानुत्तरां सम्यक्सम्बोधिम् अभिसम्भोत्स्यत इति स तया आस्रवक्षयसाक्षात्क्रियाभिज्ञाज्ञानाभिनिर्हारकुशलतया न मन्यते तथा हि तज् ज्ञानम् अज्ञानम् अचिन्त्यताम् उपादाय सो ऽहं प्रजानामीति न मन्यते स तद् एव ज्ञानन् नोपलभते स्वभावशून्यताम् उपादाय स्वभावविविक्तताम् उपादाय स्वभावोपलब्धिताम् उपादाय आस्रवक्षयज्ञानचेतनाम् अपि नोतादयति नास्रवक्षयसाक्षात्क्रियाभिज्ञाज्ञानभिनिर्हारचेतनाम् अन्यत्र सर्वाकारज्ञतामनसिकाराद् एवं हि शारिपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायाञ् चरन् नाश्रवक्षयसाक्षात्क्रियाभिज्ञाज्ञानम् अभिनिर्हरत्य् एवं पुनश् शारिपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायाञ् चरतष् षडभिज्नाः परिपूरयन्ते परिशुद्ध्यन्ति चाभिज्ञाः परिशुद्धास् सर्वाकारज्ञताम् असंयन्ति // सन्ति शारिपुत्र बोधिसत्वा महासत्वा ये प्रज्ञापारमितायाञ् चरन्तो दानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानञ् शोधन्यन्ति अत्यन्तशून्यतया (Pव्SPL खम्_ब्) अनवगृहीतताम् उपादाय // सन्ति शारिपुत्र बोधिसत्वा महासत्वा ये प्रज्ञापारमितायाञ् चरन्तश् शीलपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानञ् शोधयन्ति अत्यन्तशून्यतया अनद्ध्यापत्तिताम् उपादाय // सन्ति शारिपुत्र बोधिसत्वा महासत्वा ये प्रज्ञापारमितायाञ् चरन्तः क्षान्तिपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानञ् शोधयन्ति अत्यन्तशून्यतया अक्षोभणताम् उपादाय // सन्ति शारिपुत्र बोधिसत्वा महासत्वा ये प्रज्ञापारमितायाञ् चरन्तो वीर्यपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानञ् शोधयन्ति अत्यन्तशून्यतया कायिकचैतसिकवीर्यास्रंसनताम् उपादाय // सन्ति शारिपुत्र बोधिसत्वा महासत्वा ये प्रज्ञापारमितायाञ् चरन्तो ध्यानपारमितायां स्थित्वा सर्वाकारज्ञतापन्थानञ् शोधयन्ति अत्यन्तशून्यतया अविक्षिप्तचित्ताम् उपादाय // सन्ति शारिपुत्रा बोधिसत्वा महासत्वा ये प्रज्ञापारमितायाञ् चरन्तस् सर्वाकारज्ञतापन्थानञ् शोधयन्ति दौष्प्रज्ञ्यचित्तपरिवर्जनताम् उपादाय एवङ् खलु शारिपुत्र बोधिसत्वा महासत्वाष् षट्सु पारमितासु स्थित्वा सर्वाकारज्ञतापन्थानञ् शोधयन्ति अत्यन्तशून्यतया अगमनानागमनताम् उपादायापरिग्रहताम् उपादाय तत् कस्य हेतोर् दानम् आग्रहम् उपादाय प्रज्ञप्यते शीलन् दौःशील्यताम् उपादाय क्षान्तिर् अक्षान्तिम् उपादाय वीर्यङ् कौसीद्यम् उपादाय समाधिर् असमाहितताम् उपादाय प्रज्ञा दौष्प्रज्ञ्यम् उपादाय प्रज्ञप्यते स तीर्ण इति न मन्यते अतीर्ण इति न मन्यते दानं मात्सर्यम् इति न मन्यते शीलन् दौःशील्यम् इति क्षान्तिः क्षोभ इति वीर्यं कौसीद्यम् इति समाधिर् असमाहिततेति प्रज्ञा दुष्प्रज्ञतेति न मन्यते विन्दको ऽहम् इति न मन्यते सत्कृत इति न मन्यते असत्कृत इति न मन्यते तत् कस्य हेतोर् न हि शारिपुत्रानुत्पाद आकृष्टो ऽहम् इति मन्यते न वन्दितो ऽहम् इति न सत्कृतो ऽहम् इति नासत्कृतो ऽहम् इति मन्यते तत् कस्य हेतोस् तथा हि प्रज्ञापारमिता सर्वमन्यनास् समुच्छिनत्तीह शारिपुत्र प्रज्ञापारमितायाञ् चरतो बोधिसत्वस्य महासत्वस्य ये गुणा भवन्ति न ते श्रावकप्रत्येकबुद्धानां संविद्यन्ते // इमान् गुणान् परिपूरयन् सत्वान्श् च परिभावयति बुद्धक्षेत्राञ् च परिशोधयति सर्वाकारज्ञताञ् चानुप्राप्नोति // पुनर् अपरञ् शारिपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायाञ् चरन् सर्वसत्वानाम् अन्तिके समचित्तताम् उत्पादयति सर्वसत्वानाम् अन्तिके समचित्तताम् उत्पाद्य सर्वधर्मसमतां प्रतिलभते सर्वधर्मसमतां प्रतिलभ्य तस्यां सर्वधर्मसमतायां सर्वसत्वान् प्रतिष्ठापयति स दृष्ट एव धर्मे बुद्धानां भगवतां प्रियो भवति मनआपश् च सर्वबोधिसत्वानां सर्वश्रावकाणां सर्वप्रत्येकबुद्धानाञ् च प्रियो भवति मनआपश् च स यत्र (Pव्SPL खः_अ) यत्रोपपद्यते तत्र तत्र न जातु चक्षुषामनआपानि रूपाणि पश्यति न श्रोत्रेणामनआपाञ् च्छब्दाञ् च्छृणोति न घ्राणेनामनआपान् गन्धाञ् जिघ्रति न जिह्वयामनआपान् रसान् आस्वादयति न कायेनामनआपान् स्पर्शान् स्पृशति न मनसामनआपान् धर्मान् विजानाति न च परिहीयते सर्वकारज्ञतायाः // अस्मिन् खलु पुनः प्रज्ञापारमितानिर्देशे निर्दिश्यमाने ततः पर्षदस् त्रीणि भिक्षुशतानि भगवन्तं यथाप्रावृतैश् चीवरैर् अभिच्छादयामासुर् अनुत्तरायाञ् च सम्यक्सम्बोधौ चित्तान्य् उत्पादयामासुः // अथ खलु भगवान् स्मितम् अकरोत्* // अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणञ् जानुमण्डलं पृथिव्यां प्रतिस्थाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत् को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्राविष्करणाय नाहेतुकान् नाप्रत्ययं बुद्धा भगवन्त स्मितं प्राविष्कुर्वन्ति // भगवान् आह एतान्य् आनन्द त्रीणि भिक्षुशतान्य् एकषष्टितमे कल्पे महाकेतुनामानस् तथागता अर्हन्तस् सम्यक्सम्बुद्धा लोक उत्पत्स्यन्ते तारकोपमे कल्पे इतश् च्युतास् सन्तः अक्षोब्ःयस्य तथागतस्यार्हतस् सम्यक्सम्बुद्धस्य बुद्धक्षेत्र उपपत्स्यन्ते अभिरत्यां लोकधातौ षष्टिश् च देवपुत्रसहस्राश् चास्यां पर्षद्य् अनया धर्मदेशनया परिपाचितानि मैत्रेयस्य तथागतस्यार्हतस् सम्यक्सम्बुद्धस्यान्तिके परिनिर्वास्यन्ति // अथ खलु तस्यां वेलायां भगवतश् शाक्यमुनेः पर्षन्मण्डलाच् चतस्रः पर्षदो भगवतो ऽनुभावेन पूर्वस्यान् दिशि बुद्धसहस्रं पश्यन्ति स्म महता बुद्धक्षेत्रगुणव्यूहान् एवन् दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वायां पूर्वदक्षिणायान् दक्षिणपश्चिमायां पश्चिमोत्तरायाम् अध-ऊर्ध्वम् एकैकस्यान् दिशि बुद्धसहस्रं बुद्धसहस्रं पश्यन्ति स्म महता बुद्धक्षेत्रगुणव्यूहेन न चेह सहायां लोकधातौ तान् बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति यान् दशसु दिक्षु तेषां बुद्धानां भगवताम् // अथ खलु भगवतश् शाक्यमुनेः पर्षन्मण्डलाद् दशभिः प्राणिसहस्रैः प्रणिधानानि कृतानि वयं भगवंस् तानि पुण्यानि करिष्यामो यैः पुण्यैर् एतेषु बुद्धक्षेत्रेषूपपत्स्यामहं इति // अथ खलु भगवांस् तेषां कुलपुत्राणाम् आशयं विदित्वा तस्यां वेलायां स्मितम् अकरोत्* आनन्द आह को भगवन् हेतुः कः प्रत्ययस् स्मितस्य प्राविष्करणाय नाहेतुकन् नाप्रत्ययं बुद्धा भगवन्तः स्मितम् आविष्कुर्वन्ति // भगवान् आह पश्यसि त्वम् आनन्देमानि दश प्राणिसहस्राणि आनन्द आह पश्यामि भगवन् भगवान् आह एतान्य् आनन्द दश प्राणिसहस्राणीतश् च्युतानि दशसु दिक्ष्व् एतेषु बुद्धक्षेत्रेषूपपत्स्यन्ते न च कदाचित् तथागतविरहिता भविष्यन्ति ततः पश्चाद् व्यूहराजनामानस् तथागता अर्हन्तस् सम्यक्संबुद्धा लोक उत्पत्स्यन्ते // अथ खलु आयुष्माञ् च्छारिपुत्र (Pव्SPL खः_ब्) आयुष्माञ् च महामौद्गल्यायन आयुष्माञ् च सुभूतिर् आयुष्माञ् च पूर्णो मैत्रायणीपुत्र आयुष्माञ् च महाकाश्यप एते चान्ये च सम्बहुला अभिज्ञाताभिज्ञाता भिक्षवो बोधिसत्वाश् च महासत्वा भिक्षुभिक्षुण्युपासकोपासिकाश् च भगवन्तम् एतद् अवोचन् महापारमितेयं भगवन्न् उदारपारमितेयं बोधिसत्वानां महासत्वानान् यद् उत प्रज्ञापारमिता अग्रपारमितेयं विशिष्टपारमितेयं परपारमितेयं प्रवरपारमितेयं प्रणीतपारमितेयम् अनुत्तरपारमितेयन् निरुत्तरपारमितेयम् असमपारमितेयम् असमसमपारमितेयम् आकाशपारमितेयं स्वलक्षनशून्यतापारमितेयं सर्वगुणसमन्वागतपारमितेयं सर्वशून्यतासमन्वागतपारमितेयम् अनमृद्यपारमितेयं भगवन् बोधिसत्वानां महासत्वानां यद् उत प्रज्ञापारमिता अत्र हि भगवन् प्रज्ञापारमितायाञ् चरद्भिर् बोधिसत्वैर् महासत्वैर् असमसमन् दानन् दत्तन् तैर् असमसमा दानपारमिता परिपूरिता तैर् असमसम आत्मभावप्रतिलब्धये समसमस्य धर्मस्य लाभिनो भविष्यन्ति यद् उतानुत्तरायास् सम्यक्सम्बोधेः // एवम् असमसमं शीलं क्षान्तिर् वीर्यन् ध्यानम् असमसमा प्रज्ञा भाविता तैर् असमसमा प्रज्ञापारमिता परिपूरिता तैर् असमसम आत्मभावः प्रतिलब्धस् ते समसमस्य धर्मस्य लाभिनो भविष्यन्ति यदुतानुत्तरायास् सम्यक्सम्बोधेर् अत्रैवे च त्वं भगवन् प्रज्ञापारमितायाञ् चरन्न् असमसमस्य रूपस्य लाभी जातः असमसमाया वेदनायास् संज्ञायास् संस्काराणाम् असमसमस्य विज्ञानस्य लाभी जातः असमसमां बोधिम् अभिसम्बुद्धो समसमन् धर्मचक्रं प्रवर्तितवान् एवम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽत्रैव प्रज्ञापारमितायाञ् चरन्तो ऽनुत्तरां सम्यक्सम्बोधिम् अभिसम्बुद्धा अभिसम्बुद्ध्यन्ते अभिसंभोत्स्यन्ते च तस्मात् तर्हि भगवन् सर्वधर्माणां पारङ्गन्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां योगङ्करणीयो नमस्करणीयास् ते भगवं बोधिसत्वा महासत्वास् सदेवमानुषासुरेण लोकेन ये ऽस्यां प्रज्ञापारमितायाञ् चरन्ति // एवम् उक्ते भगवांस् तान् सम्बहुलान् महाश्रावकांस् तांश् च बोधिसत्वान् महासत्वान् एतद् अवोचद् एवम् एतत् कुलपुत्रा एवम् एतन् नमस्करनीयास् ते बोधिसत्वा महासत्वास् सदेवमानुषासुरेण लोकेन ये ऽस्यां प्रज्ञापारमितायाञ् चरन्ति // तत् कस्य हेतोर् बोधिसत्वम्* कुलपुत्रा महासत्वम् आगम्य मनुष्यलोकस्य लोके प्रादुर्भावो भवत्य् एवन् देवलोकस्य क्षत्रियमहासालकुलानां ब्राह्मणमहासालकुलानान् गृहपतिमहासालकुलानां राज्ञाञ् चक्रवर्तिनाञ् चातुर्महाराजिकानान् देवानान् त्रायस्त्रिङ्शानां यामानान् तुषितानान् निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मकायिकानां ब्रह्मपुरोहितानां ब्रह्मपार्षद्यानां महाब्रह्मणां परीत्ताभानाम् अप्रमाणाभानाम् आभास्वराणां परीत्तशुभानाम् (Pव्SPL ग_अ) अप्रमाणशुभानां शुभकृत्स्नानां बृहत्फलानाम् असंज्ञिसत्वानां शुद्धावासानां सुदृशानां सुदर्शनानाम् अस्पृहाणाम् अतपानाम् अकनिष्ठानाञ् चाकाशानन्त्यायतनोपगानां विज्ञानानन्त्यायतनोपगानाम् आकिञ्चन्यायतनोपगानान् नैवसंज्ञानासंज्ञायतनोपगानान् देवानां लोके प्रादुर्भावो भवति स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतं प्रत्येकबुद्धानां बोधिसत्वानां महासत्वानान् तथागतानाम् अर्हतां सम्यक्सम्बुद्धानां लोके प्रादुर्भावो भवति बोधिसत्वं महासत्वम् आगम्य त्रयाणां रत्नानां यद् इदं बुद्धरत्नस्य धर्मरत्नस्य संघरत्नस्य लोके प्रादुर्भावो भवति बोधिसत्वं महासत्वम् आगम्य सर्वेषां लौकिकानाञ् जीवितोपकरणानाम् अन्नपानवस्त्रयानशय्यासनग्लानप्रत्ययभैषज्यपरिस्काराणां मणिमुक्तावैडूर्यशंखशिलाप्रवाऌअजातरूपरजतानां लोके प्रादुर्भावो भवति यावत् कुलपुत्रास् सर्वसुखोपधानानान् दिव्यानां मानुष्यकाणाञ् च भवसुखानान् निर्वाणसुखानाञ् च लोके प्रादुर्भावो भवति सर्वस् स कुलपुत्रा बोधिसत्वं महासत्वम् आगम्य तत् कस्य हेतोस् तथा हि कुलपुत्रा बोधिसत्वो महासत्वः प्रज्ञापारमितायाञ् चरन् सत्वान्* षट्सु पारमितासु नियोजयति दानन् दापयति शीले नियुङ्क्ते क्षान्तौ प्रतिष्ठापयति वीर्ये नियोजयति ध्याने प्रतिष्ठापयति प्रज्ञायां नियोजयति बोधिसत्वं महासत्वम् आगम्य सत्वा दानपारमितायां यावत् प्रज्ञापारमितायाञ् चरन्ति ते दानपारमितायां यावत् प्रज्ञापारमितायाञ् चरन्तस् सर्वलौकिकलोकोत्तरास् संपत्तीर् अनुप्राप्नुवन्ति तस्मात् तर्हि कुलपुत्रा बोधिसत्वो महासत्वस् सर्वसत्वानां हितसुखाय प्रतिपन्नो भवति // अथ खलु भगवांस् तस्यां वेलायाञ् जिह्वेन्द्रियं मूखान् निर्णाम्येमान् त्रिसाहस्रमहासाहस्रं लोकधातुञ् जिह्वेन्द्रियेणाच्छादयामास अथ खलु ततो जिह्वेन्द्रियाद् अनेकवर्णा नानान्वर्णा अर्चिसो निश्चार्य पूर्वस्यान् दिशि गङ्गानदीवालिकोपमाल् लोकधातून् अवभासयमासुः एवन् दक्षिणस्यां पश्चिमायाम् उत्तरस्यां पि दिक्ष्व् अध-ऊर्ध्वायान् दिशि गङ्गानदीवालिकोपमाल् लोकधातून् अवभासयामासुः // अथ खलु पूर्वस्यान् दिशि गङ्गानदीवालिकोपमेषु लोकधातुष्व् अप्रमेयासंख्येया बोधिसत्वा महासत्वास् तं प्रभाव्यूहन् दृष्ट्वा स्वकस्वस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः परिपृच्छन्ति स्म कस्यायं भगवन्न् अनुभावो येनायम् एवंरूपः प्रभावभासस् सन्दृश्यन्ते ते बुद्धा भगवन्तस् तान् बोधिसत्वान् महासत्वान् एवम् आहुः एष कुलपुत्राः पश्चिमे दिग्भागे सहायां लोकधातौ शाक्यमुनिर् नाम तहागतो ऽर्हन् सम्यक्सम्बुद्धस् तेन जिह्वेन्द्रियं मुखान् निर्णाम्य दशसु दिक्षु गङ्गानदीवालिकोपमा लोकधातवो महतावभासेन (Pव्SPL ग_ब्) स्फुटीकृता यद् उत बोधिसत्वानां महासत्वानां प्रज्ञापारमितादेशनाय संप्रकाशनाय ते बोधिसत्वा महासत्वास् तांस् तथागतान् एवम् आहुर् गमिष्यामो वयं भगवंस् तां सहां लोकधातुन् तं भगवन्तं शाक्यमुनिन् तथागतम् अर्हन्तं सम्यक्सम्बुद्धन् दर्शनाय वन्दनाय पर्युपासनाय तांश् च दशदिक्सन्निपतितान् बोधिसत्वान् महासत्वान् दर्शनाय ताञ् च प्रज्ञापारमितां श्रवणाय ते बुद्धा भगवन्त एवम् आहुर् यस्येदानीं कुलपुत्राः कालं मन्यद्ध्व एवन् दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्यां विदिक्ष्व् अध-ऊर्ध्वायान् दिशि गङ्गानदीवालिकोपमेषु लोकधातुष्व् अप्रमेयासंख्येया बोधिसत्वा महासत्वास् तं प्रभाव्यूहन् दृष्ट्वा स्वकस्वकेषु बुद्धक्षेत्रेषु बुद्धान् भगवन्तः परिपृच्छन्ति स्म कस्यायं भगवन्न् अनुभावो येनायम् एवंरूपः प्रभावभासस् सन्दृश्यते ते बुद्धा भगवन्तस् तान् बोधिसत्वान् माहासत्वान् एवम् आहुः एष कुलपुत्रा अधोदिग्भागे सहांयां लोकधातौ शाक्यमुनिर् नाम ताथागतो ऽर्हन् सम्यक्सम्बुद्धस् तेन जिह्वेन्द्रियन् निर्णाम्य दशसु दिक्षु गङ्गानदीवालिकोपमा लोकधातवो महतावभासेन स्फुटीकृता यद् उत बोधिसत्वानां महासत्वानां प्रज्ञापारमितान् देशनाय संप्रकाशनाय ते बोधिसत्वा महासत्वास् तांस् तथागतान् एवम् आहुर् गमिष्यामो वयं भगवंस् तां सहां लोकधातुन् तञ् च भगवन्तं शाक्यमुनिन् तथागतम् अर्हन्तं सम्यक्सम्बुद्धन् दर्शनाय वन्दनाय पर्युपासनाय तांश् च दशदिक्सन्निपतितान् बोधिसत्वान् महासत्वान् दर्शनाय वन्दनाय ताञ् च प्रज्ञापारमितां श्रवणाय ते बुद्धा भगवन्त एवम् आहुर् यस्येदानीं कुलपुत्राः कालं मन्यध्वे // अथ खलु दशभ्यो दिग्भ्यस् ते बोधिसत्वाः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताका गृहीत्वा नानारत्नसुवर्णरूप्यपुष्पपुटं परिगृहीत्वा महत्या तूर्यताण्डावचरसंगीत्या भगवन्तं शाक्यमुनिन् तथागतम् उपसंक्रान्ता अभूवन्* // अथ खलु चातुर्महाराजिका देवा यावद् अकनिष्ठा देवा दिव्यानि पुष्पधूपगन्धमाल्यविलेपनचूर्णोत्पलपद्मकुमुदपुण्डरीकमण्डारवकेसरतमालपत्राणि गृहीत्वा येन भगवांस् तेनोपसंक्रामन्* अथ खलु ते बोधिसत्वा महासत्वास् ते च देवास् तैः पुष्पधूपगन्धमाल्यविलेपनैस् तथागतम् अर्हन्तं सम्यक्सम्बुद्धम् अवकिरन्ति स्म अथ खलु तानि पुष्पाणि वियद् अभ्युद्गम्यास्य त्रिसाहस्रमहासाहस्रस्य लोकधातोर् उपरिष्ठात् पुष्पवितानां संस्थितञ् चतुरश्रञ् च चतुस्थूणं समम्भागशस् सुविभक्तं रमणीयं मनोरमं यत् पुष्पवितानन् दृष्ट्वा ततो बोधिसत्वमहासत्वपर्षदो देवपर्षदश् च प्राणिकोटिनयुतशतसहस्रेणानुत्पत्तकेषु धर्मेषु क्षान्तिः प्रतिलब्धा त उत्थायासनेभ्य एकांसम् उत्तरासङ्गान् कृत्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् एतद् अवोचन् वयं भगवन्न् अनागते (Pव्SPL गा_अ) ऽध्वन्य् एवंरूपाणान् धर्माणां लाभिनो भवेम यथा तथागतो ऽर्हन् सम्यक्सम्बुद्धः एवञ् च श्रावकसंघं परिहरेम एवञ् च पर्षदि धर्मन् देशयेम यथैतर्हि तथागतो धर्मन् देशयति // अथ खलु भगवांस् तेषान् दशदिगभ्यागतानां बोधिसत्वानां महासत्वानान् तेषाञ् च देवानाम् आशयं विदित्वा सर्वधर्माणाम् अनुत्पादायानिरोधायानभिसंस्कारायाप्रादुर्भावाय क्षान्तिञ् च विदित्वा स्मितम् अकरोत्* // अथ खल्व् आयुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासङ्गङ् कृत्वा दक्षिणञ् जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् एतद् अवोचत् को भगवन् हेतुः कः प्रतयः स्मितस्य प्रादुर्भावाय नाहेतुकन् नाप्रत्ययं बुद्धा भगवन्त स्मितम् आविष्कुर्वन्ति एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचद् एतेनानन्द प्राणिकोटीनयुतशतसहस्रेणानुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा एते चानागते ऽध्वन्य् अष्टाषष्ट्या कल्पकोटिभिर् बोध्यङ्गपुष्पनामानस् तथागता अर्हन्तस् सम्यक्सम्बुद्धा लोक उत्पत्स्यन्ते पुष्पाकरे कल्पे // अथ खलु भगवांस् तस्यां वेलायाम् अयुष्मन्तं सुभूतिम् आमन्त्रयामास प्रतिभातु ते सुभूते बोधिसत्वानां महासत्वानां प्रज्ञापारमिताम् आरभ्य धार्मिकीङ् कथाङ् कर्तुं यथा बोधिसत्वा महासत्वा प्रज्ञापारमितायाञ् चरन्तो निर्यायुर् इति // अथ खलु तेषां बोधिसत्वानां महासत्वानान् तेषाञ् च महाश्रावकाणान् तेषाञ् च देवपुत्राणाम् एतद् अभवत्* // किन् नु खल्व् आयुष्मान् सुभूतिस् स्वकेन प्रज्ञाप्रतिभानबलाधानेन बोधिसत्वानां महासत्वानां प्रज्ञापारमिताम् उपदेक्ष्यत्य् उत बुद्धानुभावेन // अथ खल्व् आयुष्मान् सुभूतिर् बुद्धानुभावेन तेषां बोधिसत्वानां महासत्वानान् तेषाञ् च महाश्रावकाणान् तेषाञ् च देवपुत्राणाञ् चेतसैव चेतःपरिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रम् एतद् अवोचत् तत् किञ्चिद् आयुष्मञ् च्छारिपुत्र भगवतश् श्रावका भाषन्ते देशयन्त्य् उदीरयन्ति सर्वस् स तथागतस्य पुरुषाकारो वेदितव्यस् तङ् कस्य हेतोर् यो हि तथागतेन धर्मो देशितस् तस्यान् धर्मदेशनायां शिक्षमाणो भगवतश् श्रावकास् तान् धर्मतां साक्षात्कुर्वन्ति तान् धर्मतां साक्षात्कृत्य यद् यद् एव भाषन्ते देशयन्त्य् उपदिशन्ति सर्वन् तद् धर्मतया न विरुद्ध्यते तथागत एवैष शारिपुत्रोपायकौशल्ययोगेन बोधिसत्वानां महासत्वानां प्रज्ञापारमिताम् उपदेक्ष्यत्य् अविषयो ऽत्रायुष्माञ् च्छारिपुत्र सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्वानां महासत्वानां प्रज्ञापारमिताम् उपदेशम् // अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्* बोधिसत्वो महासत्व इति भगवन्न् उच्यते कस्यैतद् भगवन् धर्मस्याधिवचनं यद् उत बोधिसत्व इति प्रज्ञापारमितेति वा नाहं भगवंस् तन् धर्मं समनुपश्यामि (Pव्SPL गा_ब्) यद् उत बोधिसत्व इति प्रज्ञापारमितेति वा सो ऽहं भगवन् बोधिसत्वम् असमनुपश्यन् प्रज्ञापारमिताम् अप्य् अनुपलभमानः कतमं बोधिसत्वं कतमस्यां प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि // एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचन् नाममात्रम् इदं सुभूते यद् उत प्रज्ञापारमितेति बोधिसत्व इति बोधिसत्वनामेति तद् अपि नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते तद्यथा पि नाम सुभूते सत्वस् सत्व इति नाम्नोच्यते न च कदाचित् सत्वोपलब्धिर् यच् च नाम तद् धर्मप्रज्ञप्तिमात्रन् तस्याश् च धर्मप्रज्ञप्तिर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते एवम् आत्मसत्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवकारकवेदकजनकपश्यका इति सुभूते सर्वम् एतद् धर्मप्रज्ञप्तिमात्रन् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतनमात्रेण व्यवह्रियते तच् च नाम नाध्यात्मान् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्व इति बोधिसत्वनामेति सर्वम् एतद् धर्मप्रज्ञप्तिमात्रन् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते तच् च नाम नाध्यात्मान् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते तद्यथापि नाम सुभूते इदम् आध्यात्मकं रूपम् इति सर्वम् एतद् धर्मप्रज्ञप्तिमात्रन् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते एवं वेदनासंज्ञासंस्काराविज्ञानम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतद् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते एवम् एव सुभूते यद् उच्यते प्रज्ञापारमितेति बोधिसत्व इति बोधिसत्वनामेति सर्वम् एतन् धर्मप्रज्ञप्तिमात्रन् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते चक्षुर् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते // एवं श्रोत्रं घ्राणं जिह्वा कायो मन इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र धर्मसंकेतमात्रेण व्यवह्रियते तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते रूपम् इति सुभूते धर्मप्रज्ञप्तिमात्रम् एतत् तस्याश् च धर्मप्रज्ञप्तेर् नोत्पादो न निरोधो ऽन्यत्र नामसंकेतमात्रेण व्यवह्रियते तच् च नाम नाध्यात्मन् न बहिर्धा नोभयम् अन्तरेणोपलभ्यते. एवं शब्दो गन्धो रसः स्प्रष्टव्यन् धर्म इति सुभूते धर्मप्र