Determination of Valid Knowledge - Fragment

Pramāṇaviniścaya-fragment · Pरमाणविनिश्चय-fरग्मेन्त्

Determination of Valid Knowledge - Fragment

Pramāṇaviniścaya-fragment

Pरमाणविनिश्चय-fरग्मेन्त्

SK
र्१: द् अन्वयम् आपादयति / प्रतिषेधनिषेधस्य विधानरूपत्वात्* / असतः सपक्षान् न निवृत्तिर् इत्य् असपक्ष एव नास्तीति चेत्* / नेति सैव निवृत्तेर् निर्वृत्तिः असतः कथम् इष्टा / अभावप्रतिषेधो हि भावो
SK
२: ऽसत्य् अप्य् अस्ति / भावप्रतिषेधस् तु न संभवतीत्य् अस्खलितप्रज्ञो देवानांप्रियो यस् तद्विषयं प्रतिषेधं नेच्छति / असद् अभाव इति च व्यवहरति / निर्लोठितश् चायम् अर्थो ऽसति नास्तितेत्य्
SK
३: अर्थान्तरे / तेन नेह प्रतन्यते / न चासन्न् आत्मा सत्तासाधनवृत्तेः सन्दिग्धः स्यात्* / न च परेण तथोपगत इति // अप्रमाणाद् अभ्युपगमात् तथैव भवति / अतिप्रसङ्गात्* /
SK
४: न चोपगमबलेन सपक्षासपक्षौ व्यवस्थाप्य प्रमाणप्रवर्तनं युक्तम्* / एवं ह्य् आगमसिद्ध आत्मा स्यात्* / नानुमानसिद्धः / तस्माद् अव्यतिरेके ऽप्य् असतः / सपक्षाद् व्यतिरेकः सन्दिग्धः
SK
५: स्यात्* प्राणादीनां / आत्मनः सन्देहात्* / अत एव विपक्षाद् अपि / एकत्र हि नियमे सिद्धे ऽन्यनिवर्तनं
SK
व्१: सिध्येत्* / अन्यथा क्वचिद् दृष्टे ऽभावसिधाव् अपि स्याद् एवादृष्टे संशयः / तथा ह्य् असकलव्यक्तिभेदव्यापिनो ऽप्य् अर्थाः केचित् तज्जातिसंभविनो दृष्टाः पार्थिवालोहलेख्यवत्* / विरोधस्य चादृष्टेः संदेह
SK
२: एव / नैरात्म्येन प्राणादीनां उक्तलक्षणस्य विरोधस्यासिद्धेः / सन्दिग्धो नैरात्म्याद् व्यतिरेकः / आत्मप्रतिनियमे हि तत्कार्यात्मतया प्राणादीनां नैरात्म्येन सह विरोधः
SK
३: स्यात्* / स च न सिध्यतीत्य् उक्तम्* / अस्तु नाम निरात्मकेभ्यो व्यतिरेकः प्राणादीनां तद्भावे च नैरात्म्यव्यावृत्तिः / तथापि नानैरात्म्याद् आत्मा जीवच्छरीरे सिध्यति / येनायं न व्यतिरेकस्याभावं
SK
४: भावम् इच्छति / यथा व्यतिरेकाभवे ऽपि सपक्षे प्राणादिर् नेष्टः / सपक्षाव्यतिरेकी चेद् धेतुर् हेतुर् अतो ऽन्वयी / नान्वयव्यतिरेकी चेद् अनैरात्म्यं न सात्मकं / इति संग्रहश्लोकः /
SK
५: न प्राणादिसंभवेन नैरात्म्यव्यावर्तनाद् आत्मगति / किं तर्हि विधिमुखेनैव प्राणादयः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dharmakīrti: Pramāṇaviniścaya-fragment (sa_dharmakIrti-pramANavinizcaya-fragment.htm).

Source
Pramāṇaviniścaya-fragment — Reader · Sutraya