The Essence of Reasons

Hetubindu · Hएतुबिन्दु

The Essence of Reasons

Hetubindu

Hएतुबिन्दु

SK
Exप्लनतोर्य् Rएमर्क्स्
SK
A नुम्बेर् ओf fइवे fइगुरेस् अत् थे लेfत् सिदे इन्दिचतेस् थे लोचतिओन् ओf थे केय् wओर्द् इन् थे बसिच् तेxत्स्. Iन् थे चसे ओf थे SV, थे HB अन्द् थे VN, थे fइर्स्त् थ्रेए fइगुरेस् इन्दिचते थे पगे नुम्बेर्, अन्द् थे लस्त् त्wओ इन्दिचते थे लिने नुम्बेर् (fओर् एxअम्प्ले, SV१६०२६=SV १६०,२६; HB०२३१४=HB २३,१४; VN०६११०=VN ६१,१०). Iन् थे चसे ओf थे PV अन्द् थे NB, थे सेचोन्द् fइगुरे इन्दिचतेस् थे छप्तेर् नुम्बेर् अन्द् थे लस्त् थ्रेए fइगुरेस् इन्दिचते थे करिक ओर् सुत्र नुम्बेर् (fओर् एxअम्प्ले, PV०२२३२=PV, थे Pरमनसिद्धि-छप्तेर् व्.२३२; NB०३०१५=NB, थे Pअरर्थनुमन-छप्तेर् सुत्र १५. Iन् थे चसे ओf थे SP, थे लस्त् त्wओ fइगुरेस् इन्दिचते थे करिक नुम्बेर् (fओर् एxअम्प्ले, SP०००१५=SP, व्.१५).
SK
३. Iन् थिस् दतबसे, सेन्तेन्चेस् अरे अर्तिfइचिअल्ल्य् दिविदेद् इन्तो wओर्द्-उनित्स्, अल्थोउघ् थेय् इन्वोल्वे अ फोनेतिच् fउसिओन् ओर् उनिओन् इन् थे बसिच् तेxत्स्. Fउर्थेर्, चोम्पोउन्द् wओर्द्स् अरे दिविदेद् इन्तो थेइर् स्होर्तेस्त् चोन्स्तितुतिवे एलेमेन्त्स् (wए उसे अ ह्य्फेन् तो इन्दिचते थत् ह्य्फेनतेद् एलेमेन्त्स् ओरिगिनल्ल्य् fओर्म् अ चोम्पोउन्द् wओर्द्) wइथ् थे fओल्लोwइन्ग् एxचेप्तिओन्स्:
SK
३.१. Tहे प्रेfइxएस् अ-, दुर्-, निह्- रेमैन् उन्दिविदेद्, इर्रेस्पेच्तिवे ओf अत्तछ्मेन्त् तो wओर्द्स् ओर् चोम्पोउन्द् wओर्द्स्.
SK
३.२. Sउffइxएस् मकिन्ग् अन् अद्वेर्ब्, fओर् एxअम्प्ले -वत्, -वस, अरे दिविदेद्. Bउत् सुffइxएस् मकिन्ग् अ पोस्सेस्सिवे अद्जेच्तिवे, fओर् एxअम्प्ले -वत्, -मत्, रेमैन् उन्दिविदेद्, अन्द् तेर्म्स् सुछ् अस् अ नुमेरल्+ -ध/-विध/-प्रकर रेमैन् अल्सो उन्दिविदेद्.
SK
३.३. Cओम्पोउन्द् wओर्द्स् wइथ् थे सुffइxएस् -त/-त्व ओर् -भव/-भुत fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. Fओर् एxअम्प्ले: कर्यकरनभव/-भुत/-त.
SK
३.४. Cओम्पोउन्द् wओर्द्स् wइथ् एवम्-, तत्-, तथ-, पर-, यथ-, सु-, स्व- इन् थे wओर्धेअद् fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. Fओर् एxअम्प्ले: एवम्जतिय, तदुत्पत्ति, तथक्र्त, परतन्त्र, यथर्थ, यथस्वम्, सुज्ननत्व, स्वभव.
SK
३.५. Sओमे चोम्पोउन्द् wओर्द्स् wहिछ् अरे रेगर्देद् अस् तेर्मिनोलोग्य् रेमैन् अल्सो उन्दिविदेद्. Fओर् एxअम्प्ले: अग्निहोत्र, अयोगव्यवच्छेद, अर्थपत्ति, पदर्थ, परमर्थ, प्रसज्यप्रतिसेध, विरुद्धव्यभिचरिन्, समनन्तरप्रत्यय, सम्तनपरिनम, समन्यलक्सन, स्वभवप्रतिबन्ध.
SK
४. Tहोसे तेर्म्स् wहोसे wओर्धेअद् इस् सुब्जेच्त् तो थे Sअन्धि रुलेस् (fओर् एxअम्प्ले, -द् धेतु-) अरे चितेद् इन् थेइर् ओरिगिनल् fओर्म् (fओर् एxअम्प्ले, -द् *हेतु-) fओर् थे सके ओf उसिन्ग् थिस् दतबसे तो मके अन् KWIC इन्देx.
SK
१. Aउगुस्त्. १९९७ / Tसुकुब Mओतोइ ONO
SK
Nओते: Tहिस् दतबसे इस् qउइते अ तेन्ततिवे ओने, अन्द् I मुस्त् अद्मित् थत् थेरे अरे अ लोत् ओf एर्रोर्स् अन्द् देfएच्त्स् इन् थिस् वेर्सिओन्. I wओउल्द् अप्प्रेचिअते इत् वेर्य् मुछ् इf थे उसेर् wओउल्द् पोइन्त् ओउत् अन्य् एर्रोर्स् इन् थिस् वेर्सिओन् सो थत् wए चन् मके अ बेत्तेर् नेw वेर्सिओन् इन् थे fउतुरे.
SK
E-मैल्: ओनोलोगोस्.त्सुकुब.अच्.ज्प्
SK
००१०४ नमो बुद्धाय. ००१०५ परोक्ष-अर्थ-प्रतिपत्तेर् अनुमान-आश्रयत्वात् तद्-व्युत्पादन- ००१०६ अर्थं संक्षेपत इदम् आरभ्यते. ००१०८ पक्ष-धर्मस् तद्-अंशेन व्याप्तो हेतुस् त्रिधा एव सः / ००१०९ अविनाभाव-नियमाद् हेत्वाभासास् ततो अपरे //
SK
००११० पक्षो धर्मी, अवयवे समुदाय-उपचारात्. प्रयोजन-अभावाद् ००१११ अनुपचार इति चेत्, न, सर्व-धर्मि-धर्म-प्रतिषेध-अर्थत्वाद् ००११२ उपचारस्य. एवं हि चाक्षुषत्व-आदि-परिहृतं भवति. ००११३ धर्म-वचनेन अपि धर्मस्य पराश्रयत्वाद् धर्म्य्-आश्रय- ००११४ सिद्धौ धर्मि-ग्रहणात् प्रत्यासत्तेः साध्य-धर्मि-सिद्धिर् इति ००११५ चेत्, न, दृष्टान्त-धर्मिणो अपि प्रत्यासत्तेः. तद्-अंश-व्याप्त्या ००११६ दृष्टान्त-धर्मिणि सत्त्व-सिद्धेर् धर्मि-वचनात् साध्य-धर्मि- ००११७ परिग्रहः. सिद्धे अपि पुनर्-वचनं नियम-अर्थम् आशङ्क्येत. ००११८ सजातीय एव सत्त्वम् इति सिद्धे अपि तद्-अभावे व्यतिरेके ००११९ साध्य-अभावे असत्त्व-वचन-वत् तद्-अंश-व्याप्ति-वचनात् सिद्धे ००१२० अपि दृष्टान्त-धर्मिणि सत्त्वे धर्मि-वचनं तत्र एव भाव- ००१२१ नियम-अर्थम् आशङ्क्येत. तस्मात् सामर्थ्याद् अर्थ-गताव् अप्य् ००२०१ उपचार-मात्रात् समान-निर्देशात् प्रतिपत्ति-गौरवं च परिहृतं ००२०२ भवति. पक्षस्य धर्मत्वे तद्-विशेषण-अपेक्षस्य अन्यत्र अननुवृत्तेर् ००२०३ असाधारणता इति चेत्, न, अयोगव्यवच्छेदेन विशेषणाद् ००२०४ यथा चैत्रो धनुर्धर इति न अन्ययोगव्यवच्छेदेन यथा ००२०५ पार्थो धनुर्धर इति. ००२०६ तद्-अंशस् तद्-धर्मः. ००२०७ व्याप्तिर् व्यापकस्य तत्र भाव एव व्याप्यस्य वा ००२०८ तत्र एव भावः. ००२०९ एतेन अन्वयो व्यतिरेको वा पक्ष-धर्मश् च यथास्वं ००२१० प्रमाणेन निश्चित उक्तः, सर्वत्र हेतौ साध्य-धर्म-अभावे ००२११ व्याप्त्य्-असिद्धेर् व्यापक-निवृत्तौ वा व्यतिरेक-अभावात् अन्वय-व्यतिरेकाभ्यां ००२१२ निश्चिताभ्यां तद्-अंश-व्याप्तिर् निश्चिता. ००२१३ तत्र पक्ष-धर्मस्य साध्य-धर्मिणि प्रत्यक्षतो अनुमानतो ००२१४ वा प्रसिद्धिर् निश्चयः, यथा प्रदेशे धूमस्य शब्दे ००२१५ वा कृतकत्वस्य. सधूमं हि प्रदेशम् अर्थान्तर-विविक्त-रूपम् ००२१६ असाधारण-आत्मना दृष्टवतः प्रत्यक्षेण यथा-दृष्ट-भेद-विषयं ००२१७ स्मार्तं लिङ्ग-विज्ञानम् उत्पद्यते. ००२१८ तत्र यद् आद्यम् असाधारण-विषयं दर्शनं तद् ००२१९ एव प्रमाणम्. ००२२० तस्मिन् तथाभूते दृष्टे सति स येन येन असाधारणस् ००२२१ तद्-असाधारणतां ततो भेदम् अभिलपन्त्य् अतद्-व्यावृत्ति-विषया ००२२२ स्मृतिर् उत्पन्ना प्रत्यक्ष-बलेन यथादृष्ट-आकार-ग्रहणान् न ००२२३ प्रमाणम्, प्राग् असाधारणं दृष्ट्वा असाधारण इत्य् अभिलपतो ००२२४ अपूर्व-अर्थ-अधिगम-अभावाद् अर्थक्रिया-साधनस्य दर्शनाद् ००२२५ अदृष्टस्य पुनस् तत्-साधन-स्वभावस्य विकल्पेन अप्रतिपत्तेश् ००३०१ च अनुमान-वत्. अर्थक्रिया-अर्थी हि सर्वः प्रमाणम् अप्रमाणं ००३०२ वा अन्वेषते प्रेक्षावान्, न च सामान्यं कांचिद् अर्थक्रियाम् ००३०३ उपकल्पयति स्वलक्षण-प्रतिपत्तेर् ऊर्ध्वं तत्-सामर्थ्य-उत्पन्न- ००३०४ विकल्प-विज्ञान-ग्राह्यं यथा नीलं दृष्ट्वा नीलम् इति ००३०५ ज्ञाने. तद् एव हि नील-स्वलक्षणं तथाविध-साध्य-अर्थक्रियाकारि, ००३०६ तच् च तेन आत्मना दृष्टम् एव प्रत्यक्षेण. न च ००३०७ तत्-स्वलक्षण-ग्रहण-उत्तरकालभावि-नील-विकल्पस्य विषयेण नील- ००३०८ अर्थ-साध्य-अर्थक्रिया क्रियते. तस्माद् अनधिगत-अर्थ-विषयं ००३०९ प्रमाणम् इत्य् अप्य् अनधिगते स्वलक्षण इति विशेषनीयम्. ००३१० अधिगते तु स्वलक्षणे तत्-सामर्थ्य-जन्मा विकल्पस् तद्-अनुकारी ००३११ कार्यतस् तद्-विषयत्वात् स्मृतिर् एव न प्रमाणम्, अनधिगत- ००३१२ वस्तु-रूप-अनधिगतेः, वस्त्व्-अधिष्ठानत्वात् प्रमाण-व्यवस्थायाः, ००३१३ अर्थक्रिया-योग्य-विषयत्वात् तद्-अर्थिनां प्रवृत्तेः, ००३१४ अर्थक्रिया-योग्य-लक्षणं हि वस्तु; ततो अपि विकल्पाद् वस्तुन्य् ००३१५ एव तद्-अध्यवसायेन प्रवृत्तेः, प्रवृत्तौ विकल्पस्य प्रत्यक्षेण ००३१६ अभिन्न-योगक्षेमत्वात्. ००३१७ पूर्व-प्रत्यक्ष-क्षणेन उपयोग-अभेदाद् उत्तरेषु कस्यचिद् ००३१८ अप्रामाण्य-प्रसङ्ग इति चेत्, न, क्षण-विशेष-साध्य-अर्थ-वाञ्छायां ००३१९ नाना-योगक्षेमत्वात्. साधारणे हि कार्ये न तेषां सामर्थ्य-भेदः, ००३२० अपरापर-धूम-प्रमित-संनिकृष्ट-अग्निष्व् इव अग्नि-मात्र-साध्ये ००४०१ अर्थे. एतेन धर्म-धर्मि-लिङ्ग-आदि-विकल्पस्य प्रमाण-पृष्ठ- ००४०२ भाविनः प्रामाण्यं प्रत्युक्तम्. ००४०३ अन्वय-निश्चयो अपि स्वभावहेतौ साध्य-धर्मस्य वस्तुतस् ००४०४ तद्-भावतया साधन-धर्म-भाव-मात्र-अनुबन्ध- ००४०५ सिद्धिः. सा साध्य-विपर्यये हेतोर् बाधक-प्रमाण-वृत्तिः. ००४०६ यथा यत् सत् तत् क्षणिकम् एव, अक्षणिकत्वे अर्थक्रिया-विरोधात् ००४०७ तल्-लक्षणं वस्तुत्वं हीयते. कार्यहेतौ कार्यकारणभाव- ००४०८ सिद्धिः, यथा इदम् अस्य उपलम्भ उपलब्धि-लक्षण-प्राप्तं ००४०९ प्राग् अनुपलब्धम् उपलभ्यते, सत्स्व् अप्य् अन्येषु हेतुष्व् ००४१० अस्य अभावे न भवति इति यस् तद्-भावे भावस् तद्-अभावे ००४११ अभावश् च प्रत्यक्ष-अनुपलम्भ-साधनः कार्यकारणभावस् ००४१२ तस्य सिद्धिः. कार्यकारणभाव एव ह्य् अर्थान्तरस्य एवं ००४१३ स्यात् यत्र धूमस् तत्र अवश्यम् अग्निः, अग्नेर् भाव ००४१४ एव हि भावो धूमस्य तत्-कार्यत्वम्. अनुपलब्धाव् अप्य् ००४१५ अन्वय-निश्चयो असद्-व्यवहारस्य उपलब्धि-लक्षण-प्राप्त-अनुपलब्धि- ००४१६ मात्रे वृत्ति-साधनं निमित्त-अन्तर-अभाव-उपदर्शनात्. ००४१७ व्यतिरेक-निश्चयो अपि कार्य-स्वभावहेतोः कार्यकारण- ००४१८ व्याप्यव्यापकभाव-सिद्धौ दृश्य-विषयाभ्यां कारण-व्यापक- ००४१९ अनुपलब्धिभ्यां साध्य-अभावे हेत्व्-अभाव-सिद्धिर् उद्दिष्ट- ००४२० विषयस्य अभावस्य उपदर्शने, अन्यथा अनुपलब्धि-लक्षण-प्राप्तस्य ००४२१ क्वचिद् अभाव-असिद्धेः. अनुद्दिष्ट-विषयं साध्य-अभावे ००४२२ अभाव-ख्यापनं अप्रतिबन्ध-मात्र-सिद्धौ सिध्यति इति न तत्र ००५०१ व्यतिरेक-साधने अनुपलब्ध्योर् दृश्य-विषयता अपेक्ष्यते. व्यतिरेक- ००५०२ निश्चयो अनुपलब्धाव् उपलब्धि-लक्षण-प्राप्तात् सतो अनुपलम्भ- ००५०३ अभाव-दर्शनम्. ००५०४ एतल्-लक्षणस् त्रिधा एव सो हेतुस् त्रिप्रकार एव, स्वभावः ००५०५ कार्यम् अनुपलब्धिश् च इति यथा अनित्ये कस्मिंश्चित् साध्ये सत्त्वम् ००५०६ अग्निमति प्रदेशे धूमो अभावे च उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धिर् ००५०७ इत्य् अत्र एव त्रिविधे अविनाभाव-नियमात्. पक्ष-धर्मस्य ००५०८ यथोक्ता व्याप्तिर् अविनाभावः; स त्रिविधाद् हेतोर् ००५०९ अन्यत्र न अस्ति इत्य् अत्र एव नियत उच्यते. ००५१० तत्र साधन-धर्म-भाव-मात्र-अन्वयिनि साध्य-धर्मे ००५११ स्वभावो हेतुः. अपरापर-व्यावृत्ति-भेदेन धर्म-भेदे अपि ००५१२ वस्तुतो लिङ्गि-स्वभाव एव हेतु-स्वभावे अन्वय-व्यभिचार-अभावाल् ००५१३ लक्षणे तन्-मात्र-अन्वयेन विशेषणं पर-मत-अपेक्षम्. ००५१४ परे ह्य् अर्थान्तर-निमित्तम् अतद्-भाव-मात्र-अन्वयिनम् अपि ००५१५ धर्मं स्वभावम् इच्छन्ति. विशेषणेन तथाविधस्य अतत्- ००५१६ स्वभावतां तस्मिन् साध्ये हेतोर् व्यभिचारं च आह, यथा ००५१७ हेतुमति विनाशे कृतकत्वस्य. ००५१८ तस्य द्विधा प्रयोगः; साधर्म्येण वैधर्म्येण च, ००५१९ यथा यत् सत् तत् सर्वं क्षणिकं यथा घट-आदयः संश् ००५२० च शब्द इति, तथा क्षणिकत्व-अभावे सत्त्व-अभावः, संश् च ००५२१ शब्द इत्य् अन्वय-व्यतिरेकाभ्यां सर्व-उपसंहारेण व्याप्ति-प्रदर्शन ००५२२ लक्षणौ साधर्म्य-वैधर्म्य-प्रयोगौ. ००५२३ अत्र सामर्थ्याद् एव प्रतिज्ञा-अर्थस्य प्रतीतेर् न प्रतिज्ञायाः ००५२४ प्रयोगः. अप्रदर्शिते प्रमेये अर्थे कथं तत्-प्रतीतिर् इति चेत्. ००६०१ स्वयं प्रतिपत्तौ प्रमेयस्य क उपदर्शयिता. प्रदेश-स्थं ००६०२ धूमम् उपलब्धवतस् तस्य अग्निना व्याप्तेः स्मरणे तत्-सामर्थ्याद् ००६०३ एव अग्निर् अत्र इति प्रतीतिर् भवति. न च तत्र कश्चिद् ००६०४ अग्निर् अत्र इत्य् अस्मै निवेदयति. न अपि प्राग् एव प्रतिपद्यते ००६०५ किंचित्, प्रमाणम् अन्तरेण एवं प्रतीतेर् निमित्त-अभावात्. ००६०६ प्रतीतौ लिङ्गस्य वैयर्थ्यं. स्वयम् एव अकस्माद् ००६०७ अग्निर् अत्र इति प्रमेयं व्यवस्थाप्य पश्चात् तत्-प्रतिपत्तये ००६०८ लिङ्गम् अनुसरति इति को अयं प्रतिपत्तेः क्रमः. परेण अपि ००६०९ तद् उच्यमानं प्लवत एव, उपयोग-अभावात्. विषय-उपदर्शनम् ००६१० उपयोग इति चेत्, तेन एव तावद् दर्शितेन को अर्थः. यदि ००६११ प्रतीतिर् अन्यथा न स्यात्, सर्वं शोभेत. तस्माद् एषः स्वयं ००६१२ प्रतीतौ विना अपि केनचिद् विषय-उपस्थापकेन प्रतियन् अस्मान् ००६१३ कार्यिणो दृष्ट्वा पर्वब्राह्मण इव व्यक्तं मूल्यं मृगयते. ००६१४ अस्मद्-वचनाद् अपि स्वयं सिद्धम् एव लिङ्गम् अनुसृत्य ००६१५ प्रत्येति इति को अनयोर् अवस्थयोर् विशेषः. दृष्टा च पक्ष-धर्म- ००६१६ सम्बन्ध-वचन-मात्राद् प्रतिज्ञा-वचनम् अन्तरेण अपि प्रतीतिर् ००६१७ इति कस् तस्य उपयोगः. स्व-निश्चय-वद् अन्येषाम् अपि निश्चय-उत्पादनाय ००६१८ च साधनम् उच्यते, तत्र स्वयम् अयं प्रमेयस्य उपदर्शनम् ००६१९ अन्तरेण अपि प्रतिपद्य परं प्रतिपादयन् अपूर्वम् ००६२० अर्थ-क्रमम् आश्रयत इति किम् अत्र कारणम्. तस्मान् न प्रमेय- ००६२१ वचनेन किंचित् प्रयोजनम्, अन्यथा अपि प्रतिपत्तेर् ००६२२ उत्पत्तेः. ००६२३ एतेन उपनय-निगमन-आदिकम् अपि प्रत्युक्तम्, एतावता एव ००६२४ साध्य-प्रतीतेर् भावात्. डिण्डिक-रागं परित्यज्य-आक्षिणी- ००६२५ निमील्य चिन्तय तावत् किम् इयता प्रतीतिः स्यान् न वा. भावे ००७०१ किं प्रपञ्च-मालया, इति इयान् एव साधन-वाक्ये प्रयोगो ००७०२ ज्यायान्. ००७०३ अत्र पक्ष-धर्म-सम्बन्ध-वचनयोः क्रम-नियमो अपि न ००७०४ कश्चित्, सर्वथा गमकत्वात्. ००७०५ सम्बन्ध-वचने अपि केवलः प्रयोगो भिन्नः, उभयथा अपि ००७०६ धर्म-भेदे तथा अपि तद्-भावस्य एव ख्यापनात्. न ह्य् ००७०७ अतत्-स्वभावस्य भाव एकान्तेन अन्यभावः कृतकत्वस्य भावे ००७०८ प्रयत्नानन्तरीयकत्व-वत्, न अप्य् अतत्-स्वभावस्य निवृत्ताव् अकार्यस्य ००७०९ तस्य निवृत्तिर् यथा अनयोर् एव धर्मयोर् निवृत्तिः. तस्माद् ००७१० अन्वय-व्यतिरेकयोर् यथा-लक्षणम् एको अपि प्रयुक्तो द्वितीयम् ००७११ आक्षिपति इति न एकत्र साधन-वाक्ये द्वयोः प्रयोग इष्यते, ००७१२ वैयर्थ्यात्, तत्-स्वभावतया अन्वय-सिद्धौ तद्-अभावे अभाव-सिद्धेः, ००७१३ तद्-अभावे अभाव-सिद्धौ च अन्वयस्य अपि सिद्धेः. ००७१४ तद्-अभाव एव अभाव-ख्यातिर् यथा स्यान् न अन्यत्र विरुद्धे ००७१५ वा इति नियम-ख्यापन-अर्थो अपि व्यतिरेक-प्रयोगो न युक्तः, ००७१६ अन्य-विरुद्धयोर् अपि विपक्षत्वात्. ००७१७ कथम् इदम् अवगम्यते सद् अवश्यं नश्वर-स्वभावम् इति ००७१८ येन अन्वय-व्यतिरेक-सम्भव इति चेत्, विनाश-हेत्व्-अयोगात्. स्वभावत ००७१९ एव नश्वरा भावाः; न एषां निष्पन्नानाम् अन्यतो ००७२० विनाश-उत्पत्तिः, तस्य असामर्थ्यात्; न हि विनाश-हेतुर् भाव-स्वभावम् ००७२१ एव करोति, तस्य निवृत्तेः. न अपि भाव-अन्तरम् एव, ००७२२ भाव-अन्तर-करणे भावे तद्-अवस्थे न किंचित् करोति इति तथा-उपलब्ध्य्- ००८०१ आदि-प्रसङ्गः. न अपि भाव-अन्तरम् अस्य आवरणम्, तद्-अवस्थे ००८०२ तस्मिन्न् आवरणस्य अप्य् अयोगात्. न अपि विनाश-हेतुना भाव-अभावः ००८०३ क्रियते, अभावस्य विधिना उपगमे व्यतिरेक-अव्यतिरेक- ००८०४ विकल्प-अनतिक्रमात्. भाव-प्रतिषेध-एकरूपत्वे भावं न ००८०५ करोति इति स्यात्, एवं च अकर्तुर् अहेतुत्वम् इति न विनाश-हेतुः ००८०६ कश्चित्. ००८०७ वैयर्थ्याच् च. यदि स्वभावतो नश्वरः स्वात्मन्य् अनवस्थायी- ००८०८ भावः, तस्य न किंचिन् नाश-कारणैः, तत्-स्वभावतया ००८०९ एव स्वयं नाशात्. यो हि यत् स्वभावः स स्व-हेतोर् ००८१० एव उत्पद्यमानस् तादृशो भवति, न पुनस् तद्-भावे हेत्व्-अन्तरम् ००८११ अपेक्षते, प्रकाश-द्रव-उष्ण-कठिन-आदि-द्रव्य-वत्. न हि प्रकाश-आदयस् ००८१२ तद्-आत्मान उत्पन्ना पुनः प्रकाश-आदि-भावे हेत्व्-अन्तरम् ००८१३ अपेक्षन्ते, तद्-आत्मनस् तादात्म्य-अभावे नैरात्म्य-प्रासङ्गात्. ००८१४ तद्वद् अस्थिति-धर्मा चेत् स्वभावतो निष्पन्नो न पुनस् ००८१५ तद्-आत्मतायां हेत्व्-अन्तरम् अपेक्षते. ००८१६ बीज-आदि-वद् अनेकान्त इति चेत्, स्याद् एतत्: बीज-आदीनाम् अङ्कुर-आदि- ००८१७ जनन-स्वभावानाम् अपि सलिल-आदि-हेत्व्-अन्तर-अपेक्षणात् केवला न ००८१८ जनयन्ति, तद्वद् भावो अपि विनाशे स्याद् इति. न तत्-स्वभावस्य ००८१९ जननाद् अजनकस्य च अतत्-स्वभावत्वात्. अत एव ००८२० तयोर् अवस्थयोर् वस्तु-भेदो निश्चेयः, भावानां स्वभाव ००८२१ अन्यथात्व-अभावात् तत्-स्वभावस्य पश्चाद् इव प्राग् अपि ००८२२ जनन-प्रसङ्गात्. तस्माद् यो अन्त्यो अवस्था-विशेषः स एव अङ्कुर-आदि- ००९०१ जनन-स्वभावः. पूर्व-भाविनस् त्व् अवस्था-विशेषाः कारणस्य ००९०२ कारणानि इति न अनेकान्तः, क्षणिकेषु भावेष्व् अपरापर-उत्पत्तेर् ००९०३ ऐक्य-अभावात्. ००९०४ ते अन्त्याः समर्थाः किं न जनयन्ति इति, जनयन्त्य् ००९०५ एव, न अत्र अन्यथाभावः स्वभावस्य अवैपरीत्यात्. तेषु सर्वेषु ००९०६ सहकारिषु समर्थ-स्वभावेषु को अपरस्य उपयोग इति चेत्, न वै ००९०७ भावानां काचित् प्रेक्षा-पूर्व-कारिता यतो अयम् एको अपि समर्थः ००९०८ किम् अस्माभिर् इत्य् अपरे निवर्तेरन्. निरभिप्राय-व्यापारा ००९०९ हि स्व-हेतु-परिणाम-उपनिधि-धर्मास् तत्-प्रकृतेस् तथाभवन्तो ००९१० न उपालम्भम् अर्हन्ति. समर्थाः किं न अपरापरं जनयन्ति ००९११ इति चेत्, न, तत्र एव सामर्थ्यात्. तस्य एव एकस्य जनने ००९१२ समर्था न अन्यस्य इति न अपरापर-जननम्. ००९१३ भिन्न-स्वभावेभ्यश् चक्षुर्-आदिभ्यः सहकारिभ्य एक- ००९१४ कार्य-उत्पत्तौ न कारण-भेदात् कार्य-भेदः स्याद् इति चेत्, ००९१५ न, यथास्वं स्वभाव-भेदेन तद्-विशेष-उपयोगतस् तद्-उपयोग- ००९१६ कार्य-स्वभाव-विशेष-असङ्करात्, यथा मृत्-पिण्ड-कुलाल ००९१७ सूत्र-आदिभ्यो भवतो घटस्य मृत्-पिण्डाद् अमृत्-स्वभावेभ्यो ००९१८ वृक्ष-आदिभ्यो भिन्नः स्वभावः कुलालात् तस्य एव मृद्-आत्मनः ००९१९ सतः संस्थान-विशेष-आत्मतया तद्-अन्येभ्यो भिन्नः सूत्रात् ००९२० तस्य एव मृत्-संस्थान-विशेष-आत्मनश् चक्र-आदेर् विभक्तः स्वभावो ००९२१ भवति; तद् एवं न कुलालान् मृत्-स्वभावता, न ०१००१ मृदः संस्थान-विशेषः; न च तयोः शक्ति-विशेष-विषय- ०१००२ भेदो अपि तज्-जनित-विशेष-भेदस्य कार्यस्य स्वभाव-भेदः, ०१००३ मृत्-संस्थानयोर् अपरस्पर-आत्मतया संस्थान-मृद्-रूपाभ्यां ०१००४ तयोर् अप्रतिभासन-प्रसङ्गात्. ०१००५ अन्यद् एव संस्थानं गुणो मृद्-द्रव्यात्, तेन भिन्न- ०१००६ स्वभावः कुलाल-मृत्-पिण्डयोर् उपयोग-विषय इति चेत्, उक्तम् ०१००७ अत्र. अपि च यदि संस्थानं भिन्नं मृदः, कुलालः किं ०१००८ न पृथक् करोति. गुणस्य द्रव्य-परतन्त्रत्वम् इति न पृथक् ०१००९ करोति. तत्-संस्थान-आधार-आत्मकं यदि स्वभावेन तद् द्रव्यं ०१०१० तत्-संस्थानं वा तद्-आधेय-आत्मकम्, किं कुलाल-अपेक्षया इति चेत्, ०१०११ न, ततः परस्पर-सम्बन्ध-योग्यता-प्रतिलम्भात्; अन्यथा ०१०१२ वस्तुन एव योग्यता धर्मता इति प्राग् अपि मृत्-पिण्डस्य संस्थान- ०१०१३ विशेष-सम्बन्ध-योग्यत्वे सति संस्थान-विशेषेण सम्बन्ध- ०१०१४ प्रसङ्गः. एवं तर्हि सा योग्यता मृद्-द्रव्यस्य कुलालाद् ०१०१५ भवति इति न अनयोः स्वभाव-भेदः, भेदे हि प्राग्-वत् प्रसज्येत. ०१०१६ अस्ति तावद् एक-स्वभावत्वे अपि कस्यचिद् अनेक-प्रत्यय-उपधेय- ०१०१७ विशेषता इति न मृत्-संस्थानयोर् एक-स्वभावत्व-साधनाय ०१०१८ निर्बन्धः. ०१०१९ तेन सहकारिणः प्रत्यया न एक-उपयोग-विषयाः कार्य- ०१०२० स्वभावस्य एकत्वे अपि वस्तुत इति यथा इह कारण-भेदो भिन्न- ०१०२१ विशेष-उपयोगान् न एक-कार्यस् तथा चक्षुर्-आदिभ्यो विज्ञान-उत्पत्ताव् ०१०२२ उन्नेयः. तथा हि समनन्तरप्रत्ययाद् विज्ञानाच् ०११०१ चक्षुर्विज्ञानस्य उपलम्भ-आत्मता तस्य एव उपलम्भ-आत्मनः ०११०२ सतश् चक्षुर्-इन्द्रियाद् रूप-ग्रहण-योग्यता-प्रतिनियमो विषयात् ०११०३ तत् तुल्य-रूपता इत्य् अभिन्नत्वे अपि वस्तुतः कार्यस्य कारणानां ०११०४ भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भवन्ति इति न ०११०५ कारण-भेदे अप्य् अभेदस् तत्-कार्य-विशेषस्य. त एव एते कारण- ०११०६ शक्ति-भेदा यथास्वं प्रतिविशिष्ट-कार्य-जनने अव्यवधेय- ०११०७ शक्तितया प्रत्युपस्थिताः क्षणिकत्वात् सामग्री-कार्यस्य स्वभाव- ०११०८ स्थित्य्-आश्रय इत्य् उच्यन्ते. तथा हि तत् तेभ्यः समस्तेभ्य ०११०९ उपलम्भ-आत्मकं रूप-ग्रहण-प्रतिनियतं विषय- ०१११० रूपं च इति प्रतिविशिष्ट-स्वभावम् एकं जातम्. ०११११ अप्रतिरोध-शक्तिकेष्व् अनन्तर-कार्येष्व् अनाधेयविशेषेषु क्षणिकेषु ०१११२ प्रत्ययेषु परस्परं कः सहकार-अर्थ इति चेत्, न वै ०१११३ सर्वत्र अतिशय-उत्पादनं सहक्रिया. किं तर्हि. बहूनां यद् ०१११४ एक-अर्थ-करणम् अपि, यथा अन्त्यस्य कारण-कलापस्य. तद् ०१११५ एव मुख्यं सहकारित्वं सहकारीणाम्, तस्य एव अन्त्यस्य ०१११६ कारणत्वात् तत्र च क्षण एकस्य स्वभावस्य अविवेकाद् विशेषस्य ०१११७ कर्तुम् अशक्यत्वात्, स्वभाव-अन्तर-उत्पत्ति-लक्षणत्वाद् विशेष- ०१११८ उत्पत्तेः. भाव-अन्तर-उत्पत्ताव् अन्त्यं न स्यात्, ततश् च न ०१११९ साक्षात् कारणं स्यात्. तस्मान् न कारणस्य सहकारिभ्यो विशेष- ०११२० उत्पत्तिः. ते समर्थाः स्वभावतो अन्त्याः प्रत्ययाः ०११२१ सह जायन्ते क्षणिका येषां प्राग्-पश्चात्-पृथग्-भावो न अस्ति ०११२२ येभ्यश् च अनन्तरं कार्यम् उत्पद्यते, तत्र एक-अर्थक्रिया ०११२३ एव सहकारित्वम्. ०१२०१ समर्थः कुतो जायत इति चेत्, स्व-कारणेभ्यः. ०१२०२ तान्य् एनम् अपर-प्रत्यय-संनिधान किं जनयन्ति, ०१२०३ कदाचिद् अन्यथा अपि स्युः, ततश् च एको अपि क्वचिद् जनयेद् इति ०१२०४ चेत्, अपरापर-प्रत्यय-योगेन प्रतिक्षणं भिन्न-शक्तयः ०१२०५ संस्काराः सन्तन्वन्तो यद्य् अपि कुतश्चित् साम्यात् सरूपाः ०१२०६ प्रतीयन्ते, तथा अपि भिन्न एव एषां स्वभावः; तेन किंचिद् ०१२०७ एव कस्यचित् कारणम्. ०१२०८ तत्र यो अव्यवधान-आदि-देशो रूप-इन्द्रिय-आदि-कलापः स विज्ञान- ०१२०९ जनने समर्थो हेतुः. यस् तेषां परस्पर-उपसर्पण- ०१२१० आद्य्-आश्रयः प्रत्यय-विशेषः स तद्-हेतु-जनने समर्थः. ०१२११ तेषां च न पूर्वं न पश्चान् न पृथग् भाव इति समर्थान् ०१२१२ अपि पूर्व-अपर-पृथग्-भाव-भाविनो दोषा न उपलीयन्ते. तेन यस् ०१२१३ तेषां परस्पर-उपसर्पण-आदि-हेतुः स समर्थस्य हेतुर् इति तत्र ०१२१४ न कदाचिद् अन्यथाभावः. अनेन न्यायेन सर्वत्र हेतु-फल- ०१२१५ भाव-प्रतिनियमो बोद्धव्यः प्रतिक्षणम् अन्यान्य-स्वभाव- ०१२१६ भेद-अन्वयिनीषु भाव-शक्तिषु, न तु स्थिर-एक-स्वभावेषु भावेषु, ०१२१७ स्वभावस्य अन्यथात्व-असम्भवात् समर्थ-असमर्थ-स्वभावानां ०१२१८ क्रिया-अक्रिया-अनुपपत्तेः. ०१२१९ अन्य-सहितः करोति न केवल इति चेत्, किं केवलस्य कार्य- ०१२२० जनने समर्थः स्वभावो असमर्थो वा समर्थ इति चेत्, किं ०१२२१ न करोति, अकुर्वन् कथं समर्थः. कुविन्द-आदयः पट-आदि- ०१२२२ क्रियायां समर्था अपि न सर्वदा कुर्वन्ति इति चेत्, क्रीडन-शीलो ०१३०१ देवानांप्रियो ०१३०१ मूर्खः सुखैधितः कृतम् अपि पुनः पुनः ०१३०२ कारयति, तथा ह्य् एतद् बीज-आद्य्-उपन्यासे निर्लोठितम्. तस्मात् ०१३०३ स्वभावस्य अन्यथात्व-असम्भवात् तद्-धर्मणस् तथाभावो ०१३०४ अन्त्य-अवस्था-वद् अनिवार्यः. ०१३०५ अन्त्य-अवस्थायां प्राग् असमर्थस्य सामर्थ्य-उत्पत्तौ ०१३०६ सामर्थ्यस्य तत्-स्वभावत्वे अपूर्व-उत्पत्तिर् एव सा, अतत्-स्वभावत्वे ०१३०७ सो अकारक एव, सामर्थ्य-आख्याद् भावात् कार्य-उत्पत्तेः. ०१३०८ अपि च स एव तावत् सकल-सहकारि-सहितः कार्यं कस्मात् ०१३०९ करोति कुर्वन् दृष्टः, तेन करोति इति ब्रूमः. अहो महा-सामर्थ्यं ०१३१० महा-प्रभावस्य दर्शनम् अतत्-स्वभावान् अपि भावान् ०१३११ स्वभाव-मात्रेण नाना-व्यापारेषु नियुञ्जनम्. यदि नाम ०१३१२ कदाचित् किंचित् कथंचित् अत्र-भवन्तो दर्शन-पथम् अतिक्रामेत्, ०१३१३ हन्त-अप्रसव-धर्मकम् अपेत-सन्तानं स्याद् इति इयं ०१३१४ चिन्ता चित्तं दुनोति. न वै वयम् अतत्-स्वभावानाम् अस्मद्-दर्शन- ०१३१५ वशात् कार्य-क्रियां ब्रूमः. किं तर्हि. स्वभावेन एव ते ०१३१६ तत्-करण-धर्माः, तान् पश्यन्तः केवलं जानीमहे त एते ०१३१७ कारका इति. सत्यम्, इदम् अप्य् अस्ति, स्वभावस् तेषां कार्य-क्रिया- ०१३१८ धर्मा, तेन समस्त-प्रत्ययवताम् अकृत्वा न उपेक्षा आपत्तिर् इति. ०१३१९ सो अक्षेप-क्रिया-धर्मा स्वभावः किं तेषां तदा एव अन्त्य- ०१३२० अवस्थायाम् उत्पन्न आहोस्वित् प्राग् अप्य् आसीत्. आसीत्, अप्रच्युत-उत्पन्न- ०१३२१ स्थिर-एक-स्वभावानां कदाचन कस्यचित् स्वभावस्य अभाव- ०१४०१ विरोधात्. तत् किम् इदानीं माता च वन्ध्या च; को वा अस्य ०१४०२ भाषितस्य अर्थो अक्षेप-क्रिया-धर्मा च स्वभावो न च करोति इति. ०१४०३ सहितस् तत्-स्वभावो न केवल इति चेत्, अन्यस् तर्हि केवलो ०१४०४ अन्यश् च सहितस्, स्वभाव-भेदो हि भाव-भेदस्य लक्षणम्. ०१४०५ न हि स साहित्ये अपि पररूपेण कर्ता; स्वरूपं च अस्य प्राग् ०१४०६ अपि तद् एव इति कथं कदाचित् क्रिया-विरामः. यस्य अपि भावः ०१४०७ क्षणिकस् तस्य अपि कस्मात् केवलो न करोति, यदि भवेत्, कुर्याद् एव. ०१४०८ कथं न भवति. क्षणिकत्वात्. उक्तं यादृशस्य क्रिया. स कथम् ०१४०९ एक-क्षण-भाव्य् अन्यथा भवेत्. यश् च भवति, स एव न ०१४१० भवति इति न अयं प्रसङ्गः, कारक-अकारकयोः स्वभाव-तद्- ०१४११ हेतोर् विरोधात्. ०१४१२ यो अपि मन्यते अक्षेप-क्रिया-धर्मा एव स तस्य स्वभावः, ०१४१३ न स साहित्यम् अपेक्षते, कार्यं तु प्रत्यय-अन्तर-अपेक्षम् ०१४१४ इति सहितेभ्य एव जायते न केवलेभ्य इति, तस्य अपि ०१४१५ कथं स केवलो अपि करोत्य् एव कार्यं च तस्मान् न उत्पद्यते ०१४१६ इति तद्-अवस्थो विरोधः. न केवलः करोत्य् एव इति चेत्, कथम् ०१४१७ इदानीम् अक्षेप-क्रिया-स्वभावः. नन्व् एतद् एव परिदीपितं ०१४१८ भवति करोत्य् एव इति; कार्यं च अयं केवलो अपि समर्थः ०१४१९ सन् परम् अपेक्षमानं कथम् उपेक्षेत. परम् अनादृत्य एतद् ०१४२० प्रसह्य कुर्यात्, एवं ह्य् अनेन आत्मनः सामर्थ्यं दर्शितं ०१४२१ भवति. कार्यं परम् अपेक्षत इति ततः केवलाद् अनुत्पत्तिर् ०१५०१ उक्ता भवति, स केवलो अपि समर्थ-स्वभाव इति तत उत्पत्तिं ०१५०२ ब्रूषे, एते च एकत्र कथं स्याताम्. तद् अयम् ईर्श्या-शल्य-वितुद्यमान- ०१५०३ मर्मा विक्लवं विक्रोशति इत्य् उपेक्षाम् अर्हति. ०१५०४ तस्माद् इदम् एक-अर्थक्रिया-लक्षणं सहकारित्वं क्षणिकानां ०१५०५ एव भावानाम्, न त्व् अक्षणिकानां पृथग्भाव-सम्भवानाम्, ०१५०६ पृथक्-क्रिया-सम्भवेन सहकारित्व-नियम-अयोगात्. ०१५०७ यत्र तु सन्तान-उपकारेण भावा हेतुतां प्रतिपद्यन्ते ०१५०८ यथा तण्डुल-बीज-आदिभ्य ओदन-अङ्कुर-आदि-जन्मनि दहन-उदक- ०१५०९ पृथिव्य्-आदयः, तत्र सन्तान-आश्रयेण विशेष-उत्पादनं प्रत्ययानां ०१५१० सहक्रिया उच्यते, न द्रव्य-आश्रयेण, क्षणिके द्रव्ये विशेष- ०१५११ अनुत्पत्तेः; न हि तण्डुल-आदीनां दहन-आदौ क्रमेण स्वभाव- ०१५१२ अतिशय-अनुत्पत्ताव् ओदन-आदि-सिद्धिः प्रभास्वराद् वा अपवरक- ०१५१३ प्रविष्ट-इन्द्रियस्य स्व-उपकारिभ्यः सन्तान-विशेष-अनुत्पत्ताव् अर्थ- ०१५१४ प्रतिपत्ति-जन्म. ०१५१५ अक्षेप-कारिषु त्व् इन्द्रिय-आदिषु न विशेष-उत्पत्तिः परस्परतः. ०१५१६ तत्र यथास्वं प्रत्ययैः परस्पर-उपसर्पण-आद्य्-आश्रयैर् ये ०१५१७ योग्य-देश-आद्य्-अवस्था जाताः, ते सह स्वभाव-निष्पत्त्या ज्ञान- ०१५१८ हेतुतां प्रतिपद्यन्त इति तत्र एक-अर्थक्रिया एव सहकारित्वम्. ०१५१९ यत्र विशेष-उत्पादनेन सहकारिणः प्रत्ययास् तत्र हेतु- ०१५२० सन्तानः प्रत्ययान् अपेक्षत इति ततः स्वभाव-अन्तर-प्रतिलम्भ- ०१५२१ उच्यते. तत्र स्व-रसतो हेतु-प्रत्ययानां पूर्व-क्षण-निवृत्तौ ०१५२२ तेभ्य एव विशिष्ट-क्षण-उत्पादात् क्रमेण यावद् अतिशयवतो ०१५२३ अन्त्य-कारण-कलापात् कार्यस्य उत्पत्तिः. ०१६०१ सहकारिणः समुत्पन्न-विशेषात् कारणात् कार्य-उत्पत्तौ विशेषस्य ०१६०२ एव उत्पत्तिर् न युक्ता. अविशिष्टाद् विशेष-उत्पत्तौ कार्यस्य अपि ०१६०३ स्यात्; परस्पर-विशेष-उत्पादान् अपेक्षिणो अपि सहकारिणः कार्यं ०१६०४ कुर्वीरन्. तेन अक्षणिकानाम् अपि सहकार्य्-अनपेक्षाणां कारणता ०१६०५ स्यात्, अपेक्षणीयेभ्यः स्वभाव-अतिशय-उत्पत्तिश् च न स्यात्. अथ ०१६०६ सहकारिणा कृत-विशेष एव विशेष-उत्पादाव् अप्य् उपतिष्ठेत; एवम् ०१६०७ अनवस्था स्यात्. न च सहकारिणः परस्पर-कार्य-उत्पाद-अनुगुण ०१६०८ विशेष-उत्पादने नित्यं योग्य-अवस्था येन एषां परस्पर- ०१६०९ कृत-विशेषो नित्य-अनुषक्तः स्यात्, तद्-उपाय-अपाययोः कार्य-व्यक्ति- ०१६१० विरह-दर्शनात्. तेन आद्यो विशेषः सहकारिभ्यो निरुपकारस्य ०१६११ न उत्पद्यत इति चेत्, न अस्माकं पुनः पुनर् वचने कश्चिद् ०१६१२ उद्वेगो भवति; यद्य् एवम् अपि लोकस्य न्याय-प्रतीतिर् भवति, ०१६१३ हन्त तर्ह्य् उच्यताम्. न विशेष-उत्पादनाद् एव सहकारिणां ०१६१४ सहकारित्वां यतस् तद्-अभावाद् विशेष-जनने सहकारिणो न ०१६१५ स्युः. किं तर्हि. एक-अर्थक्रियाया अपि. स अपि भवेत् परस्परतो ०१६१६ विशेष-रहितानाम्. अथ भवेत्, पृथग् अपि भवेत्; तथा च तद् ०१६१७ विशेष-भावि कार्यम् अपि केवलाद् भवेत् इति चेत्, प्रतिक्षणम् ०१६१८ अपरापरैः प्रत्ययैर् यथा भाव-सन्ताने विशेष-उत्पत्तिर् योग्य- ०१६१९ देशता-आद्य्-अवस्था-विशेषाणां च कार्य-करणं तेषां च यत ०१६२० उत्पत्तिः प्रत्येकं च सामर्थ्ये अपि यथा केवलानाम् अक्रिया- ०१७०१ कर्तृ-विशेषस्य पृथग्भाव-अभावात् कार्य-द्वैविध्यं च सहकारि- ०१७०२ सञ्जनित-विशेष-परंपर-उत्पत्ति-धर्मकम् अन्यच् च अङ्कुर-आदि- ०१७०३ वद् अक्षेप-कारि-इन्द्रिय-विज्ञान-वच् च कार्य-कारणयोः स्वभाव- ०१७०४ भेदाद् इति सर्वम् उक्तम्. तत्र सहकारिभ्यः सन्तान-उपकार- ०१७०५ अपेक्ष-कार्य-कारण-जन्मनि सहकारिणाम् आद्यो विशेषः सहकारि- ०१७०६ कृत-विशेष-जन्मा न भवति अनन्तर-कार्य-वत्, तत्-प्रभृति ये ०१७०७ विशेषास् ते तज्-जन्मानः, तस्य तेषां च तत्-प्रकृतित्वाद् इति ०१७०८ न अनवस्था. तथा यद्य् अक्षणिको अपि भाव आद्य-विशेष-कारण-वद् ०१७०९ अजनित-अतिशयः कार्यं कुर्यात्, करोतु नाम; सो अस्य स्वभावो ०१७१० यद्य् अक्षेप-कर्तृ-धर्मा, पृथग्भावस्य सम्भवात् केवलो ०१७११ अपि तथा स्याद् इत्य् उक्तम् अतत्-स्वभावस् तु तदा अप्य् अकारक एव. ०१७१२ तस्माद् अक्षणिकानां कारणानां न एक-अर्थक्रियया कश्चित् ०१७१३ सहकारित्व-नियमो न अपि सन्तान-उपकारेण इति न तस्य कश्चित् सहकारी; ०१७१४ तस्मात् केवलो अपि कुर्यात्. प्रायस् तु संघात-स्थायी भाव- ०१७१५ सन्तानः सहकारि-प्रत्ययैर् उपजनित-विशेषः स्व-कार्यं कुर्वन् ०१७१६ दृष्टः, बीज-आदि-वत्. स्थिरहेतुवादिनो प्रत्यय-अपेक्षायां कारकस्य ०१७१७ स्वभाव-अन्तरस्य उत्पत्तिर् इति व्यक्तम्; कार्यस्य अपेक्षा इत्य् ०१७१८ उच्यते. कारकस्य स्वभावस्य प्राग् अपि भावो अक्रिया न युज्यते. ०१८०१ तस्माद् यो यद्-आत्मा स सत्ता-मात्रेण तादृशो भवति; ०१८०२ न भूत्वा तद्-भावे पर-अभिसंस्कारम् अपेक्षते. स्वभावतो ०१८०३ अस्थिति-धर्मणो भावस्य न किंचिन् नाश-कारणैः; स्थिति-धर्मणो ०१८०४ अपि भावस्य नाश-कारणैः किम्, स्वभावस्य केनचिद् अन्यथा ०१८०५ कर्तुम् अशक्यत्वात्. अन्यथात्व-प्रतिपत्तौ वा तत्-स्वभाव एव ०१८०६ न स्याद् इति पूर्व एव विकल्पः, तत्र च उक्तम्. यश् च परस्माद् ०१८०७ अन्यथाभावः सो अपरः स्वभावः यश् च अपरः स कथं ०१८०८ तस्य, स्वभाव-भेद-लक्षणत्वाद् भाव-भेदस्य. तथा च पूर्वको ०१८०९ भावो अच्युति-धर्मे स्थित इति न तस्य अन्यथाभावः. ०१८१० एतेन कठिन-आदीनां ताम्र-आदीनाम् अग्न्य्-आदिभ्यो द्रव-आदि- ०१८११ स्वभाव-अन्तर-उत्पत्तिः प्रत्युक्ता. तत्र अपि पूर्वकस्य स्व-रस-निरोधित्वाद् ०१८१२ विनाशे अग्न्य्-आदेर् उपादानाच् च अपर एव द्रव-आदि-स्वभाव- ०१८१३ उत्पन्नः. ०१८१४ स स्वयं स्थिति-धर्मा एव, विनाश-हेत्व्-असम्भवे अवस्थानात्. ०१८१५ तस्य परस्माद् विनाशः, न च विनाशो नाम अपरः स्वभावः, ०१८१६ भाव-च्युतिर् एव विनाश इति चेत्, न इदम् उत्तरं विकल्प- ०१८१७ द्वयम् अतिक्रामति. किं नित्यो भावः स्वभावेन आहोस्विद् अनित्यो इति ०१८१८ विकल्पे प्राङ् नित्यो भूत्वा पश्चाद् अनित्यो भवति इति ब्रुवाणः ०१८१९ प्राक्तनस्य नित्य-अभिमतस्य सर्वदा नित्य-अनित्य-स्वभाव-भेदं ०१८२० भाव-द्वयं च स्वयं च नाशम् अनाशं च प्राह इति ०१८२१ पूर्वस्मिन् विनाश-हेतुर् असमर्थः. न प्राङ् नित्यो भूत्वा पश्चाद् ०१८२२ अनित्यो भवति. किं तर्हि. पश्चाद् अपि नित्यो एव, एक-स्वभावत्वात्. ०१८२३ स तर्हि भावः स्वभावेन नाशम् अनाविशन् कथं नष्टो ०१९०१ नाम, तत्-स्वभाव-विनाशयोर् अपरस्पर-रूपत्वात्. ०१९०२ तस्मात् सत्य् अस्य विनाशे विनाश-स्वभावेन अनेन भवितव्यम्. ०१९०३ तथा अपि व्यर्थो विनाश-हेतुर् इत्य् उक्तम्. तेन स्वभावतो ०१९०४ नश्वरे अनश्वरे वा भावे न विनाश-हेतोर् उपयोगः. ०१९०५ तस्माद् विनाशे अनपेक्षो भावस् तद्-भाव-नियत इति यः ०१९०६ सन् स विनाशी, नाश्वरताया निवृत्तौ च सत्त्व-निवृत्तिर् इत्य् ०१९०७ अन्वय-व्यतिरेक-सिद्धिः. ०१९०८ स्वभावतो नश्वरत्वे अपि कश्चिद् अतत्-स्वभावो अपि स्यात्, न ०१९०९ हि सर्वः सर्वस्य स्वभाव इति न अन्वय-व्यतिरेक-सिद्धिर् इति चेत्, ०१९१० न, अक्षणिकत्वे अवस्तुत्व-प्रसङ्गात्. शक्तिर् हि भाव-लक्षणम्, ०१९११ सर्व-शक्ति-विरहो अभाव-लक्षणम्. न च अक्षण्य क्वचित् काचिच् ०१९१२ शक्तिः, क्रमयौगपद्याभ्याम् अर्थक्रिया-विरहात्. तस्माद् यत् ०१९१३ सत् तत् क्षणिकम् एव इति व्याप्ति-सिद्धिः. ०१९१४ अर्थान्तरे गम्ये कार्ये कार्यं हेतुः, अव्यभिचारात्. ०१९१५ कार्यकारणभावेन यदि लिङ्गस्य गमकत्वम्, सर्वथा ०१९१६ गम्यगमकभावः. सर्वथा जन्यजनकभावाद् इति चेत्, ०१९१७ न, तद्-अभावे भवतः तदुपत्ति-नियम-अभावात्. तस्मात् ०१९१८ कार्यं स्वभावैर् यावद्भिर् अविनाभावि कारणे, तेषां ०१९१९ हेतुः, तत्-कार्यत्व-नियमात्, तैर् एव च धर्मैर् ये तैर् ०१९२० विना न भवन्ति. अंशेन जन्यजनकत्व-प्रसङ्ग इति चेत्, न, ०१९२१ तज्-जन्य-विशेष-ग्रहणे अभिमतत्वाल् लिङ्ग-विशेष-उपाधीनां च सामान्यानाम्. ०२००१ अविशिष्ट-सामान्य-विवक्षायां व्यभिचारान् न इष्यते. ०२००२ कस्यचित् कदाचित् कुतश्चित् भावे अपि सर्वस् तादृशस् तथाविध- ०२००३ जन्मा इति कुतो अवसितम्. तथा च न अन्वय-व्यतिरेकाव् इति चेत्, ०२००४ न, अतद्-भाविनस् तस्य सकृद् अपि ततो अभावात्. परस्पर-अपेक्षया ०२००५ जन्य-जनक-स्वभाव-लक्षणे कार्य-कारणे. तत्र यदि ०२००६ धूमो अग्न्य्-आदि-सामग्र्या अन्यतो अपि भवेत्, तस्य तज्-जन्यः ०२००७ स्वभावो न भवति इति सकृद् अपि ततो न भवेद् अर्थान्तर-वत्, ०२००८ न अपि सामग्री तं जनयेत्, अतज्-जनन-स्वभावत्वात् सामग्र्य्-अन्तर- ०२००९ वत्. न च धूमस्य तद्-अतज्-जन्य-स्वभावो युक्तः, ०२०१० एक-स्वभावत्वात्. धूम-अधूम-जनन-स्वभावाद् भवतो धूम- ०२०११ अधूम-स्वभावः स्यात्, कार्य-स्वभावानां कारण-स्वभाव-कृतत्वाद् ०२०१२ अकारण-अपेक्षणे च अहेतुत्व-प्रसङ्गात्. तस्माद् यो ०२०१३ धूम-जननः, सो अग्न्य्-आदि-सामग्री-विशेषः यो अग्न्य्-आद्य्-सामग्री- ०२०१४ विशेष-जनितः सो धूम इति कार्य-कारणयोर् एवं स्वभाव-नियमात् ०२०१५ तद् विजातीयाद् उत्पत्तिर् न भवति. तत् कार्यं कारणं ०२०१६ न व्यभिचरति. तेन सिद्धे कार्यकारणभावे कार्यस्य ०२०१७ कारणेन व्याप्तिः सिद्धा भवति. ०२०१८ ननु विजातीयाद् अपि किंचिद् भवद् दृष्टम्, तद् यथा ०२०१९ गोमय-आदेः शालूक-आदिः. न विजातीयाद् उत्पत्तिः. तथाविधम् ०२०२० एव हि तादृशाम् आदि-निमित्तम् इति न कारण-भेदः. प्रबन्धेन ०२१०१ वृत्तौ तु शराद् भवति. अस्ति च गोमय-इतर-जन्मन्-स्वभाव- ०२१०२ भेदो रूपस्य अभेदे अपि, न ह्य् आकार-तुल्यता एव भावानां ०२१०३ तत्त्वे निमित्तम्, अभिन्न-आकाराणाम् अपि केषांचिद् अन्यतो विशेषाज् ०२१०४ जाति-भेद-दर्शनात्. अन्यथा हि विलक्षणाया अपि सामग्र्या ०२१०५ अविलक्षण-कार्य-उत्पत्तौ च कारण-भेद-अभेदाभ्यां कार्य-भेद- ०२१०६ अभेदाव् इत्य् अहेतुकौ विश्वस्य भेद-अभेदौ स्याताम्. तथा ०२१०७ हि न भेदाद् भेद इत्य् अभेदाद् अपि न अभेदः, तद्-व्यतिरिक्तश् ०२१०८ च न कश्चिद् भाव-स्वभाव इत्य् अहेतुकत्वाद् भावानां नित्यं ०२१०९ सत्त्वम् असत्त्वं वा स्यात्, अपेक्ष्यस्य अभावात्. अपेक्षया हि ०२११० भावाः कादाचित्का भवन्ति व्यवस्थावांश् च साध्येषु ०२१११ साधन-नियोगो न स्यात्. कारण-शक्ति-प्रतिनियमे हि किंचिद् एव ०२११२ कस्यचित् साधनाय उपादीयेत, न अपरम्, तस्य एव तत्र शक्तेर् ०२११३ अन्यस्य च अशक्तेः, तयोस् तज्-जनन-इतर-स्वभावत्वेन भेदात्. ०२११४ तज्-जनन-स्वभाव-विलक्षणाद् अपि तस्य उत्पत्तौ न तज्-जनन- ०२११५ शक्ति-नियमे इति यत्-यतः-कुतश्चित् स्यात्, तज्-जनन- ०२११६ शक्ति-साम्ये तु तद् एव इति न कार्यं दृष्टं कारणं व्यभिचरति. ०२११८ उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धिर् अभाव-हेतुर् अभाव- ०२११९ व्यवहार-हेतुर् वा. ०२१२० अत्र उपलब्धेर् उपलभमान-धर्मत्वे तज्-ज्ञानम् उपलब्धिः. ०२१२१ तस्माद् अन्य-उपलब्धिर् अनुपलब्धिः, विवक्षित-उपलब्धेर् ०२१२२ अन्यत्वाद् अभक्ष्य-अस्पर्शनीय-वत् पर्युदास-वृत्त्या. उपलभ्यमान- ०२१२३ धर्मत्वे स्व-विषय-विज्ञान-जनन-योग्यता-लक्षणो विषय- ०२२०१ स्वभाव उपलब्धिः, योग्यताया भाव-रूपत्वात्. तस्माद् अन्य-उपलब्धि- ०२२०२ योग्यता एव अनुपलब्धिः पूर्ववत्. यत्र यस्मिन्न् उपलभ्यमाने ०२२०३ नियमेन यस्य उपलब्धिर् भवति योग्यताया अविशेषात्, ०२२०४ स तत्-संसृष्टः, एक-ज्ञान-संसर्गात्. तयोः सतोर् न एक-रूप- ०२२०५ नियता प्रतिपत्तिः, असम्भवात्. तस्माद् अविशिष्ट-योग्यता-रूपयोर् ०२२०६ एक-ज्ञान-संसर्गिणोः परस्पर-अपेक्षम् एव अन्यत्वम् इह अभिप्रेतम्, ०२२०७ प्रत्यासत्तेर् आश्रयणात्. स केवलः तद्-अपेक्षया ०२२०८ तद्-अन्य इति तज्-ज्ञानं तत्-स्वभावो वा ज्ञातृ-ज्ञेय-धर्म- ०२२०९ लक्षण-अनुपलब्धिः. सा अभावं प्रतियोगिनो अभाव-व्यवहारं ०२२१० वा साधयति. ०२२११ कथम् अन्यभावस् तद्-अभावः, येन अभाव-रूप-अनुपलब्धिर् ०२२१२ अभाव-व्यवहारं साधयेद् इति चेत्, उक्तम् अत्र यथा पर्युदास- ०२२१३ वृत्त्या अपेक्षातो अभावो अनुपलब्धिश् च अनुपलब्धिः. न प्रतिषेध- ०२२१४ मात्रम्, तस्य साधन-असिद्धेर् अभाव-व्यवहार-असिद्धि- ०२२१५ प्रसङ्गात्. तस्य असंसृष्ट-रूपस्य भाव-सिद्धिर् एव अपरस्य अभाव- ०२२१६ सिद्धिर् इत्य् अन्यभावो अपि तद्-अभाव इति व्यपदेश्यते. ०२२१७ अन्यभाव-लक्षणो भावः स्वयं प्रमाण-सिद्धस् तद्-अभाव- ०२२१८ व्यवहारं साधयेत् तत्-सिद्धि-सिद्धो वा तद्-अभाव इति ०२२१९ न कश्चिद् विशेषः, येन अनुपलब्ध्या अभाव-व्यवहार-सिद्धेर् विरोधः ०२३०१ स्यात्. स एव अन्यभावस् तद्-विषया च उपलब्धिस् तद्-अभावस्य ०२३०२ किं न साधनम्, किं पुनर् अन्यभावस्य सिद्धिर् एव ०२३०३ तद्-अभाव-सिद्धिर् इति चेत्, अपृथक्-सिद्धिः सम्बन्ध-अभावाच् च. ०२३०४ अन्यभावस् तावन् न साधनम्. ०२३०५ यत्-सिद्धौ यस्य न सिद्धिः, तत् तस्य लिङ्गं भवति, धूम- ०२३०६ अग्नि-वत्. अन्यभाव-सिद्ध्या एव तद्-अभावः प्रसिध्यति, तस्य ०२३०७ तद्-अन्य-असंसृष्ट-रूपस्य तत्त्व-व्यवस्थापकेन प्रमाणेन एव अन्य- ०२३०८ व्यवच्छेद-सिद्धेः. ०२३०९ सम्बन्ध-अभावाच् च. तच् च तस्य लिङ्गं यदि स्यात्, तस्य ०२३१० तेन कश्चित् सम्बन्धो भवेत्, यथा कृतकत्व-अनित्यत्वयोर् एक-अर्थ- ०२३११ समवायो धूमस्य लिङ्गिनश् च एक-अर्थ-समवायो वा आधाराधेयभावो ०२३१२ वा जन्यजनकभावो वा. न एवं कश्चिद् भाव-अभावयोः ०२३१३ सम्बन्धः, येन अस्य साधनं स्यात्. ०२३१४ अस्ति विषयविषयिभावः शब्द-अर्थ-सम्बन्ध-वद् इति चेत्, शब्द- ०२३१५ अर्थयोस् तत्-प्रतिपादन-अभिप्राये सति तत्-प्रयोगात् तेन सह ०२३१६ कार्य-कारण-लक्षणो अविनाभाव-लक्षणो वा सम्बन्धः स्यात्. ०२३१७ अयं च अत्र न सम्भवति इति कथं विषयविषयिभावः स्यात्. ०२३१८ सिद्धे हि तयोः साध्यसाधनभावे तन्-मुखेन विषयविषयिभावः ०२३१९ स्यात्; स एव असति सम्बन्धे न सिध्यति; तद्-असिद्धौ ०२३२० विषयविषयिभावो अपि न. अन्यथा इतरेतर-आश्रयम् इदं स्यात्. ०२३२१ अन्यभावाच् च अभाव-सिद्धाव् असमुदायश् च साध्यः ०२३२२ स्यात्. तथा च घट-अभावस् तद्-अन्यभावाद् इति घटस्य सर्वत्र ०२३२३ सर्वदा च अभावः स्यात्. न, प्रदेश-आदि-धर्म्य्-अभाव-साधनाद् इति ०२४०१ चेत्; प्रदेश-आदि-धर्मि-विशेषण-भूतो अभावः साध्यते, न तु ०२४०२ केवलः; ततो न असमुदायस्य साध्यता. न च लिङ्ग-लिङ्गिनोर् ०२४०३ असम्बन्धो अन्यभावस्य प्रदेश-आदिना धर्मिणा सम्बन्धाद् ०२४०४ इति मन्यते. न, प्रदेश-आदेर् एव अन्यभावत्वात्. यत्र एव हि ०२४०५ प्रदेशे यन् न अस्ति इत्य् उच्यते स एव तेन असंसृष्टो अन्यभावः. ०२४०६ तद्-दर्शनाद् एव अस्य घटो न अस्ति इति विकल्प इति कथं तस्य एव ०२४०७ लिङ्गलिङ्गिभावः. ०२४०८ न च अत्र सामान्य-विशेष-भाव-कल्पना सम्भवति, येन ०२४०९ सामान्यं हेतुर् भवेत् विशेषो धर्मी इति, तद्-विशेष-प्रतिपत्तेर् एव ०२४१० तद्-अभावस्य प्रतीतेस् तस्य च अन्यत्र अन्य-अभावात्. प्रतिज्ञार्थैकदेशत्वाच् ०२४११ च न हेतुत्वम्. न च यत्र प्रदेश-मात्रं ०२४१२ तत्र घट-अभावः. तादृशे केवले प्रदेशे अभाव एव इति चेत्, ०२४१३ ननु तस्य एव केवल इति घट-विरह इति. स च लिङ्गभूत- ०२४१४ प्रदेश-प्रतिपत्ताव् एव सिद्धः. कस्य इदानीं तल् लिङ्गम्. अन्वयस्य ०२४१५ अनुगमनं च निरर्थकम्. तस्माद् अन्यभावो न साधनम् ०२४१६ अभावस्य. ०२४१७ अस्ति विरोधः सम्बन्धः, ततो अन्यभावाद् अभावस्य ०२४१८ सिद्धिर् इति चेत्, केन कस्य विरोधः. अन्यभावेन प्रतियोगिनः. ०२४१९ किं नु वै प्रतियोगी प्रमातुम् इष्टो, येन लिङ्ग-लिङ्गिनोर् विरोधः ०२४२० सम्बन्धः स्यात्. अभावस् तु प्रतियोगिनो घटस्य अन्यभावेन अविरुद्धः, ०२४२१ सह-अवस्थानात्. तस्मिन् प्रमेये लिङ्ग-लिङ्गिनोः कथं ०२४२२ विरोधः. तस्मात् सम्बन्ध-अभावः. अत्र अप्य् असमुदाय-साध्यत्वं ०२४२३ तद्-अवस्थम्. ०२४२४ नन्व् अन्यभाव-तद्भावयोर् असति सम्बन्धे अन्यभाव- ०२४२५ गत्या अपि तद्-अभाव-गतिर् न स्याद् इति चेत्, न वै कुतश्चित् सम्बन्धाद् ०२५०१ अन्यभावस् तद्-अभाव-गमक इष्टः, किं त्व् अन्यभाव- ०२५०२ एव तद्-अभावः, यथोक्तं प्राक्. तस्य अन्य-असंसृष्ट-रूपस्य केवलस्य ०२५०३ एकात्म-व्यवस्थितस्य तदात्मना परिच्छेदस्य एव अन्य-व्यवच्छेदत्वात् ०२५०४ तस्य कैवल्यम् अपरस्य वैकल्यम् इति तद्-अन्यभाव ०२५०५ एव तद्-अभावः, तद्-अन्य-प्रतिपत्तिर् एव च तद्-अप्रतिपत्तिर् ०२५०६ इति. अन्यथा तस्य परिच्छेदेन ततो अन्यस्य अव्यवच्छेदे ०२५०७ तत्-परिच्छेद एव न स्यात्, तद्-अतद्रूपयोर् अविवेकात्. य एष ०२५०८ व्यवहारः कस्यचिद् दर्शनात् क्वचित् प्राप्ति-परिहार-अर्थः, स ०२५०९ न स्यात्. न ह्य् अयम् अनलं पश्यन्न् अपि केवलम् अनलम् ०२५१० एव पश्यति, येन सलिल-अर्थी न प्रवर्तेत. ०२५११ अनुपलम्भेन सलिल-अभावः प्रतीयत इति चेत्, को अयम् अनुपलम्भो ०२५१२ नाम. यदि सलिल-उपलम्भ-अभाव इति, कथं सो अभावः ०२५१३ कस्यचित् प्रतिपत्तिः प्रतिपत्ति-हेतुर् वा; तस्य अपि कथं ०२५१४ प्रतिपत्तिः. तस्य ततो वा अन्यस्य कस्यचिद् अप्य् अप्रतिपत्ताव् ०२५१५ अप्य् अभाव-प्रतिपत्तौ सत्यां स्वाप-मद-मूर्छा-व्यवधान- ०२५१६ पृष्ठीभव-आद्य्-अवस्थास्व् अप्य् अभावः किं न प्रतीयते. भूयो अपि ०२५१७ विचारितं प्रमाणविनिश्चये. तस्माद् अयम् अनलं पश्यन्न् अप्य् ०२५१८ अनलो अयं न सलिलम् इत्य् अनध्यवस्यन् न तिष्ठेन् न अपि ०२५१९ प्रतिष्ठेत इति दुस्तरं व्यसनं प्रतिपन्नः स्यात्. ०२५२० तत एव एकस्य दर्शनाद् अन्य-अभाव-गतिर् भवति इति चेत्, ०२५२१ कथम् एकं दृष्टम् अन्यन् न अस्ति इति प्रत्याययति. केवलस्य ०२६०१ दर्शनाद् इति चेत्, इदम् एव अस्माभिर् अभिहितम्, कस्मात् तव अत्र ०२६०२ परुषम् इव आभाति. तस्मात् तीर-अदर्शिना एव शकुनिना पर्यटा ०२६०३ अपि प्रत्यागन्तव्यम् इत्य् अलम् अविद्यमान-प्रतिष्ठानया दिशः ०२६०४ प्रतिपत्त्या. ०२६०५ यद्य् एक-परिच्छेदाद् एव अन्य-व्यवच्छेदः सिध्यति, सर्वस्य ०२६०६ अन्यस्य अविशेषेण तत्र अभाव-सिद्धिर् भवेत्, न तुल्य-योग्य-अवस्थस्य ०२६०७ एव; उपलब्धि-लक्षण-प्राप्तस्य अनुपलब्धिर् अभाव-साधनी ०२६०८ इति विशेषणं च न वक्तव्यम्, अनुपलब्धि-लक्षण-प्राप्तानाम् ०२६०९ अपि तत्र व्यवच्छेदात्. एकात्म-परिच्छेदात् तद्-अन्य-आत्म- ०२६१० व्यवच्छेदः, तद्-आत्म-नियत-प्रतिभास-ज्ञानात् न हि तदात्मा ०२६११ तद्-अन्यस्य आत्मा भवति. अन्य-आत्मनो अव्यवच्छेदे प्रवृत्ति- ०२६१२ निवृत्त्योर् अभाव इति पूर्वः प्रसङ्गः. तं च देश-काल-स्वभाव- ०२६१३ अवस्था-नियतं तदात्मना उपलम्भमाना बुद्धिस् तथात्व- ०२६१४ प्रच्युतिम् अस्य व्यवच्छिनत्ति. एवं हि स तया परिच्छिन्नो ०२६१५ यद्य् अन्यथाभावो व्यवच्छिन्नो भवति तथात्वं च ०२६१६ तस्य एव भवति न अन्यस्य इत्य् अन्यथाभूताद् व्यवच्छिन्दत्य् ०२६१७ एव तत् परिच्छिनत्ति. एवम् एकस्य प्रमाणस्य वृत्तिः सर्व- ०२६१८ भावान् द्वैराश्ये व्यवस्थापयति, तस्य अन्वय-व्यतिरेक-बुद्धि- ०२६१९ हेतुत्वेन एव साफल्यात्. ०२६२० तद्-व्यतिरिक्तस्य अशेषस्य व्यवच्छेदेन व्याप्ति-साधनाद् एव ०२६२१ प्रकार-अन्तर-अभावः सिध्यति, तस्य तद्-अन्यतया व्याप्त्य्-अभावे ०२६२२ तेन तद्-अर्थ-अव्यवच्छेदात् पुनर् भावस्य अपरिच्छेद-प्रसङ्गात्. ०२६२३ तस्मात् क्वचित् प्रमाणं प्रवृत्तं तत् परिच्छिनत्ति ०२६२४ तद्-अन्यद् व्यवच्छिनत्ति तृतीय-प्रकार-अन्तर-अभावं च ०२७०१ सूचयति इति एक-प्रमाण-व्यापार एषः. तथा हि क्वचित् प्रमाणं ०२७०२ प्रवृत्तं तद् एव तद्-अन्यस्माद् व्यवच्छिनत्ति, ०२७०३ तस्य एव परिच्छेदात्, तद्-अन्यद् एव च तस्माद् व्यवच्छिनत्ति, ०२७०४ तत्र अपरिच्छेदात्. अतस् तद् एव प्रमाणं प्रकार-अन्तर-अभावं ०२७०५ साधयति, तस्मिन् दृश्यमाने अदृष्टस्य तद्-अन्यत्वेन सर्वस्य ०२७०६ व्यवस्थापनाद् अतद्-अन्यस्य एव च तत्त्वेन व्यवस्थापनात्. ०२७०७ एतेन क्रम-अक्रम-आदयो अप्य् अन्योन्य-व्यवच्छेद-रूपा व्याख्याताः. ०२७०९ तद् एवं एकस्य उपलम्भात् तस्य तद्-अन्य-आत्मनो व्यवच्छेदः, ०२७१० न तद्-देश-कालयोः सर्वस्य अन्यस्य भावस्य व्यवच्छेदः. ०२७११ तस्माद् अतदात्मा च स्यात् तद्-देश-कालश् च, रस-रूप-आदि- ०२७१२ वत्. तस्माद् यथोक्ताद् एव अनुपलम्भात् क्वचित् कदाचित् ०२७१३ कस्यचिद् अभाव-सिद्धिः. ०२७१४ अन्यभाव-विषय-उपलब्धिर् अपि तद्-अभावस्य साधिका इष्टा एव, ०२७१५ न तु लिङ्गत्वेन, तत्र अप्य् अभावस्य पृथक् साध्यत्वे ०२७१६ सम्बन्ध-अभावस्य तुल्यत्वात्. लिङ्ग-आविर्भाव-काल एव तद्-अभाव- ०२७१७ सिद्धेः. न ह्य् अन्यभावं प्रतिपद्य तत्-प्रतिपत्तेर् अन्वय- ०२७१८ व्यतिरेकौ प्रसाध्य तद्-अभावं प्रतिपद्यते. किं तर्हि. ०२७१९ तद्-अन्यं प्रतिपद्यमान एव तद्-अभावं प्रतिपद्यते, ०२७२० दर्शन-अनन्तरं व्यवधानेन विना इदम् अस्ति इदं तु न अस्ति इति ०२७२१ व्यवस्थापनात्, दृष्टान्त-असिद्धेः. तच् च तस्य लिङ्गं यद् ०२७२२ यस्य अन्वयि व्यतिरेकि च. न ह्य् एवं शक्यं दर्शयितुं यत्र अन्य- ०२७२३ भाव-उपलब्धिस् तत्र तद्-अभाव इति, तद्-एक-उपलब्धेः क्वचिद् अप्य् ०२७२४ अभावात्. सामान्येन प्रदर्शने दृष्टान्ते अपि प्रमाण-अन्तर-अभावात् ०२७२५ सा एव तद्-अन्यभाव-उपलब्धिः साध्य-धर्मस्य साधिका इति ०२७२६ दृष्टान्त-अनवस्थित्वाद् अप्रतिपत्तिः. ०२८०१ तस्मान् न कुतश्चिल् लिङ्गाद् अभाव-सिद्धिः. सो अन्यभावः ०२८०२ प्रत्यक्ष-लक्षणेन अनुपलम्भेन सिद्धो मूढ-प्रतिपत्ताव् ०२८०३ अभाव-व्यवहारं साधयेद् इत्य् अलं प्रसङ्गेन. ०२८०४ सा इयं त्रिधा अनुपलब्धिः. सिद्धे कार्यकारणभावे ०२८०५ भावस्य कारणस्य अनुपलब्धिर् व्याप्यव्यापकभाव-सिद्धौ ०२८०६ सिद्ध-अभावस्य व्यापकस्य अनुपलब्धिः स्वभाव-अनुपलब्धिश् च. ०२८०७ तत्र कारण-व्यापकयोर् अपि स्वभावस्य असद्-व्यवहार-सिद्धिर् ०२८०८ अन्यभाव-सिद्धेर् एव. स तत्र असिद्धः कार्य-व्याप्ययोर् अभावम् ०२८०९ अभाव-व्यवहारं वा साधयति. स्वभाव-अनुपलब्धौ त्व् अनुपलब्ध्या ०२८१० लिङ्गभूतया अभाव-व्यवहार एव साध्यते. ०२८११ यदि कारण-व्यापकौ तद्-अन्यभाव-सिद्धि-रूपया अनुपलब्ध्या ०२८१२ सिद्ध-असद्-व्यवहाराव् अन्यस्य अभावम् अभाव-व्यवहारं ०२८१३ च साधयतः सा च अनुपलब्धिस् तयोर् उपलब्धि-लक्षण- ०२८१४ प्राप्ताव् एव असद्-व्यवहारस्य साधिका, कथं तयोः परोक्षे ०२८१५ अर्थे प्रयोगः. न एव प्रयोगः प्रमाणतया, लिङ्गस्य अनिश्चयात्. ०२८१६ केवलं कारण-व्यापकयोः सिद्ध-सम्बन्धयोर् यद्य् अभावः ०२८१७ परस्य अवश्यम् अभाव-निश्चय इति दर्शन-अर्थम् एते प्रयुज्येते. ०२८१८ इत्य् एष पक्ष-धर्मो अन्वय-व्यतिरेकवान् इति तद्-अंशेन ०२८१९ व्याप्तस् त्रि-लक्षणस् त्रिरूप एव हेतुर् गमकः, स्व-साध्य- ०२८२० धर्म-अव्यभिचारात्. ०२८२१ षड्-लक्षणो हेतुर् इत्य् अपरे. त्रीणि च एतान्य् अबाधित-विषयत्वम् ०२९०१ विवक्षित-एक-संख्यत्वं ज्ञातत्वं च इति. ०२९०२ तत्र अबाधित-विषयत्वं तावत् पृथग् लक्षणं न भवति, ०२९०३ बाध-अविनाभावयोर् विरोधात्. अविनाभावो हि सत्य् एव साध्य- ०२९०४ धर्मे भावो हेतोः. स हेतुस् तल्-लक्षणो धर्मिणि स्यात्, अत्र ०२९०५ च साध्य-धर्मः कथं न भवेत्. प्रत्यक्ष-अनुमाने हि ०२९०६ साध्य-धर्मः बाधमाने तं धर्मिणो निष्कासयतः, ०२९०७ तस्मिन् सत्य् एव हेतुर् भवंस् तं तत्र एव धर्मिण्य् अवस्थापयति ०२९०८ इति परं बत भावानाम् अस्वास्थ्यम्. अन्यत्र ०२९०९ साध्य-धर्मेण अविनाभावी हेतुर् न धर्मिण्य् एव इति चेत्, तत् ०२९१० किम् अयं तपस्वी षण्ढम् उद्वाह्य पुत्रं मृग्यते. यस्य ०२९११ धर्मिण्य् असत्य् अपि साध्य-धर्मे भावस् तम् उपदर्श्य ०२९१२ कथं स धर्मी साध्य-धर्मवान् इत्य् उच्यते. अत एव बाधा ०२९१३ भाव उक्तः; स्याद् एतत्: यत एव हेतुर् अन्यथा अपि भवेत्, अत ०२९१४ एव प्रमाणाभ्याम् अबाधित-धर्मा धर्मी इत्य् उच्यते इति तत् ०२९१५ किम् इदानीं हेतोः सामर्थ्यम् अबाधया एव साध्य-सिद्धेः. ०२९१६ यदि साध्य-अभावो बाधक-प्रमाण-वृत्तौ नियतः. अबाधायां ०२९१७ साध्य-सिद्धिर् इति व्यर्थो हेतुः; बाधायाम् अपि, साधन-सामर्थ्य ०२९१८ अभावात्. अनियमे न च बाधकं प्रमाणं स्यात् साध्य-अभावस्य ०२९१९ च सम्भव इति न सामर्थ्यम् अबाधायाः. ०२९२० न बाधाया अभावो अबाधा. किं तर्हि. बाधाया अनुपलब्धिः. ०२९२१ सा च पुरुषस्य क्वचिद् बाध-असम्भवे अपि स्याद् इति स ०२९२२ हेतु-प्रयोगस्य विषयः. किं नु वै हेतुर् बाध-उपलब्धेर् अपि ०२९२३ बिभेति, न पुनर् बाधायाः, येन बाधाम् अनादृत्य अप्य् अनुपलब्धौ ०२९२४ प्रयोक्तव्य इष्टः. स तर्हि हेतुः परमार्थेन ०३००१ बाधा किम् अस्ति न अस्ति इत्य् अनपेक्ष्य बाधा-अनुपलब्धौ प्रयोक्तव्यः ०३००२ किम् अर्थं प्रयुज्यते. साध्य-सिद्ध्य्-अर्थम्. स किं ०३००३ क्वचित् सत्याम् अपि बाधायां साध्यं साधयेत्, येन अस्या अभाव ०३००४ निश्चयं प्रति यत्नो न क्रियते हेतुश् च प्रयुज्यते. तथा ०३००५ च अबाधित-विषयत्वं हेतु-लक्षणं न भवति, बाधायाम् ०३००६ अपि सत्याम् अस्य सामर्थ्यात्; तथा च अनभ्युपगम्ये संशयितस्य ०३००७ प्रवृत्त्य्-अयोगाद् यथा अनुपलब्धौ बाधा-सद्भाव-सम्भवे ०३००८ अप्य् अभ्युपगम्य प्रयुज्यते, तथा बाध-उपलब्धाव् अपि ०३००९ प्रयुज्यताम्, अभ्युपगमे विशेष-अभावात्. ०३०१० न बाधायां सत्यां सामर्थ्यम् इति चेत्, यद्य् एवं ०३०११ प्रयुक्तस्य अप्य् असामर्थ्य-प्राप्तिर् इत्य् अनिर्णीत-बाधा-सम्भवः ०३०१२ प्रयोगं न अर्हति. बाधा-अनुपलम्भे सामर्थ्यम् इति चेत्, किम् ०३०१३ उपलम्भो बाधां व्याप्नोति, यत एवं हेतोर् बाधा-सम्भव- ०३०१४ कृतम् असामर्थ्यं न सम्भवेत्. अथ तन्-निवृत्तौ बाधा ०३०१५ निवर्तते, तथा अपि बाधा-अनुपलम्भाद् एव साध्य-सिद्धेर् व्यर्थो ०३०१६ हेतुः, अनुपलम्भे बाधाया असम्भवात्. उपलम्भस्य निवृत्ताव् ०३०१७ अपि बाधाया अनिवृत्तौ तद्-अवस्थं हेतोर् असामर्थ्यम् ०३०१८ इत्य् अप्रयोगः. तस्मात् स्व-साध्य-भाव-अभावाभ्याम् अन्यथा अपि ०३०१९ भवन् हेतुर् धर्मिणि किंचिन् न भावयति न विभावयति इत्य् ०३०२० उपक्षेपो न समर्थः. तन् न बाधा-अविनाभावौ सहावस्थितौ; ०३०२१ तेन अबाधा रूप-अन्तरं न भवति. ०३०२२ तन् नाम तस्माद् विशेषण-अन्तरं लक्षण-अन्तर-उपादान-अर्थं ०३०२३ वा भवेत्, यस्य भावे अपि यस्य अन्यस्य अभावः. तद् यथा ०३०२४ पक्षधर्मत्वं सपक्षे च भाव इति. न च एतद् बाधाया अविनाभावे ०३१०१ सति सम्भवति इति न साध्य-विपर्यय-अविभाविनोर् हेतु-विरुद्धयोर् ०३१०२ विषये बाधा सम्भवति इति न तद्-अभावः पृथग् ०३१०३ अनयोर् लक्षण-अन्तरत्वेन वाच्यः. तस्माद् हेतोः प्रयोगे ०३१०४ प्रतिज्ञाया दोषाणां सम्भवो न अस्ति. न अपि केवला प्रतिज्ञा ०३१०५ प्रयुज्यत इति न प्रतिज्ञा-दोषा वाच्याः. ०३१०६ एतेन एक-संख्या-विवक्षा अपि प्रत्युक्ता. कथम्. एको हि स्व- ०३१०७ साध्य-भाव एव भावात् तद्-अव्यभिचारी. तत्र एव तस्माद् अन्यस् ०३१०८ तद्-बाधकस्य एव भावात् तद्-विरुद्ध इत्य् अत्र बाधया ०३१०९ समानम्. ०३११० अपि च किं वस्तुतो असम्भवत्-प्रतिहेतुः स सम्यग्-ज्ञान- ०३१११ विपर्यय-हेतुर् आहोस्विद् अप्रदर्शित-प्रतिहेतुः किं च अतः. ०३११२ यद्य् असम्भवत्-प्रतिहेतुः, अशक्य-निश्चयत्वाद् अलक्षणम् ०३११३ एतत्. हेत्व्-अभावो वा. न ह्य् अनिश्चित-आत्मनः प्रतिपादक-धर्मस्य ०३११४ तल्-लक्षणत्वं भवति यथा सन्दिग्ध-पक्षधर्मत्वस्य, ०३११५ न अपि सन्दिग्ध-लक्षणो हेतुर् भवति इति न कश्चिद् हेतुर् ०३११६ भवेत्. तुल्य-लक्षणे हि दृष्टः प्रतियोगि-सम्भवो अदृष्ट- ०३११७ प्रतियोगिष्व् अपि शङ्काम् उत्पादयति, विशेष-अभावात्; सति वा ०३११८ विशेषे हेतोर् लक्षणम्; ततो हि हेतुर् एकान्तेन निरस्त-प्रतिपक्षः ०३११९ स्व-साध्यं निश्चाययति इत्य् अतल्-लक्षणो न हेतुः स्यात्. तथा च ०३१२० व्यर्थ-एक-संख्या-विवक्षा. अतो विरुद्धाव्यभिचारिणो लक्षणं ०३१२१ हीयेत स्वलक्षण-युक्तयोर् हेत्वोर् एकत्र धर्मिणि विरोधेन उपनिपाते ०३१२२ विरुद्धाव्यभिचारी इति. न च तस्य विशेषस्य स्वरूपं ०३१२३ निर्दिश्यते, यत् प्रतीत्य प्रतियोगिनः सम्भव-असम्भवाव् ०३१२४ उत्पश्यामः. तस्मान् न अस्त्य् एव विशेष इति सर्वत्र शङ्कया ०३२०१ भवितव्यम्; दृष्ट-प्रतिहेतोर् अपि हेतोः प्राग् इतरेण न कश्चिद् ०३२०२ विशेषो लक्ष्यते. न च सम्भवत्-प्रतिहेतूनाम् अपि सर्वदा ०३२०३ तस्य उपलब्धिः; अतिशयवती तु प्रज्ञा-उत्प्रेक्षिणी दृष्टा. तेन अनिश्चयः ०३२०४ सम्भव-असम्भवयोर् इति लक्षणस्य अनिश्चितत्वान् न ०३२०५ कश्चिद् हेतुः स्यात्. ०३२०६ अथ अप्रदर्शित-प्रतिहेतुः, यथा आह: यदा तर्हि शब्दत्वं ०३२०७ नित्यम् अभ्युपगच्छति, तदा अयं हेतुर् एव स्यात्, यद्य् अत्र अनित्यत्व ०३२०८ हेतुं कृतकत्व-आदि कश्चिन् न दर्शयेद् इति. इदम् अप्रकाश्यम् ०३२०९ अप्य् असंवरणीयम् अपि इति कष्ठतरं व्यसनम् आयातं ०३२१० कथं निर्वोढुं शक्येत. स तावद् अयं हेतुर् वस्तूनि ०३२११ स्व-साध्य-तत्त्व-प्रकृतीनि कृत्वा तत्-प्रमाणकान् पुरुषान् अभ्युदय ०३२१२ निःश्रेयसाभ्यां संयोजयित्वा पुनः प्रतिभावता ०३२१३ पुरुषेण हेत्व्-अन्तर-निदर्शनेन उत्कीलित-साधन-सामर्थ्यस् तानि ०३२१४ वस्तूनि तांश् च पुरुषान् तद्भाव-सम्पदः प्रच्याव्य- ०३२१५ भ्रष्ट-राज्य इव राजा तपोवनं गच्छति इति किं अत्र ब्रूमः. ०३२१६ पुरुष-प्रतिभाकृतं च साधनत्वम्. तत् किं वस्तुतः ०३२१७ साधनम् असाधनं वा. स च हेतुः स्वभावतस् तद्-धर्म-भावी ०३२१८ यदि कथम् अन्यथा क्रियेत, वस्तूनां स्वभाव-अन्यथाभावस्य ०३२१९ उभयोश् च विरुद्ध-स्वभावयोर् अभावात्. अतद्-धर्म-भावी ०३२२० च कथम् अन्यदा अपि साधनं कस्यचित्. ०३२२१ तस्मात् स्वभावतः स्व-साध्य-अविनाभाविनोर् उक्त-लक्षणयोः ०३२२२ कार्य-स्वभावयोस् तल्-लक्षणस्य प्रतिहेतोर् असम्भवाद् अलक्षणम् ०३३०१ एक-संख्या-विवक्षा, व्यवच्छेद्य-अभावात्. ०३३०२ ज्ञानं पुनर् अलिङ्ग-धर्मत्वे कथं लिङ्ग-लक्षणं ०३३०३ भविष्यति. किं-रूपाल् लिङ्गाद् अर्थो ज्ञातव्य इति चिन्तायां प्रतिपत्तुर् ०३३०४ अविसंवादकस्य रूपम् अभिधीयते, यस्य दर्शनाद् ०३३०५ अयं साधन-असाधने प्रविभज्य तस्य इष्ट-अर्थ-संनिधान ०३३०६ प्रत्ययात् प्रवृत्तिम् अवलम्बते. तथा यद् अस्य आत्म-रूपं तल् ०३३०७ लक्षणम्, न तु पररूपम्. प्रतिपत्ति-जन्मन्य् उपयोग-मात्रात् ०३३०८ तल्-लक्षणत्वे अतिप्रसङ्गः. एवं प्रमेय-पुरुष-आदीनाम् अपि ०३३०९ तल्-लक्षणत्वं भवेत्, न हि तेष्व् असत्सु लिङ्गिनि ज्ञानं भवति. ०३३१० निश्चित-ग्रहणं तर्हि न कर्तव्यम्. न न कर्तव्यम्, ०३३११ तस्य अन्य-अर्थत्वात्. सपक्ष-विपक्षयोर् दर्शन-अदर्शनाभ्यां गमकं ०३३१२ हेतुम् इच्छतां न एव समर्थो हेतुर् भवति, सतोर् अपि ०३३१३ दर्शन-अदर्शनयोर् अगमकत्व-दर्शनात्. तेन भाव-अभावाभ्यां ०३३१४ गमक इति ज्ञापन-अर्थं निश्चित-ग्रहणम्. तेन पररूपं ०३३१५ लक्षणं न भवति, तेन लिङ्गस्य रूप-विशेष-अनभिधानात्, तौ ०३३१६ हि भाव-अभावौ तद्-भाव-साधक-वृत्त्या बोद्धव्यौ, उपाय-अन्तर- ०३३१७ अभावात्. तेन, यद्य् अपि भाव-अभाव-वचन-मात्रेण तत्-साधन- ०३३१८ प्रमाणम् आक्षिप्यते, तयोः प्रतिपादनाय निश्चित-शब्दः ०३३१९ प्रयुक्तो लक्षणे, अन्यथा ज्ञान-सत्ता-निबन्धनत्वाज् ज्ञेय- ०३३२० सत्ता-व्यवस्थायास् तयोर् एव सत्ता-प्रसिद्धेर् इति सर्वत्र ०३४०१ सत्ता-व्यवस्था एव तत्-साधनं प्रमाणम् आकर्षति. परार्थत्वाच् ०३४०२ च शास्त्र-प्रणयनस्य. त्रिरूपं लिङ्गं संवादकम् ०३४०३ अर्थस्य इति तद् रूपं ये न विदन्ति, न तेषां ततः प्रवृत्तिर् इति ०३४०४ पर-उपलक्षणत्वाद् यद्य् अपि ज्ञानं सिद्धम्, तथा अपि ताव् एव ०३४०५ भाव-अभावौ केचिद् दर्शन-अदर्शन-मात्रेण व्यवस्थापयन्ति इति ०३४०६ तन्-निषेध-अर्थो निश्चित-शब्द उक्तः, सतोर् अपि भाव-अभावयोर् ०३४०७ अन्वय-व्यतिरेकयोः सत्तायां संशयात्. तस्माद् यतः सत्ता- ०३४०८ प्रसाधक-प्रमाणाद् अनयोर् निश्चयस् तद्-अधीना इति ज्ञापन-अर्थम् ०३४०९ अस्माभिर् ग्रहणं कृतम्. ०३४१० यतो अपि भाव-अभाव-वचन-मात्रेण तत्-साधन-प्रमाण-आक्षेप-सिद्धिः, ०३४११ पृथग् अतो ज्ञानं लक्षणं न भवति, तेन एव अर्थस्य अवगतत्वाद् ०३४१२ उपनय-अर्थ-वत् पक्षधर्मत्वात्. अन्वय-व्यतिरेकयोर् ०३४१३ अपि तर्हि न पृथक्त्वम्, एकस्य प्रयोगाद् उभय-गतेर् ०३४१४ इति चेत्, न, हेतोः सपक्ष-असपक्षयोर् भाव-अभावयोर् अपरस्पर- ०३४१५ आक्षेपात्; एकं वाक्यम् उभयं गमयति इत्य् उच्यते, ०३४१६ न एको अर्थो द्वितीयस्य. ननु तत्र एव भावो तद्-अभावे ०३४१७ च अभाव इति वाक्ये परस्पर-आक्षेप इति चेत्, वचनम् एतद् एकस्य ०३४१८ अपि नियम-ख्यापकस्य द्वितीय-आक्षेप-नान्तरीयकत्वात् सामर्थ्याद् ०३४१९ उभयम् आक्षिपति न पुनः केवलौ भाव-अभावाव् आक्षिपतः; ०३४२० नियमवन्तौ च न केवलौ, नियमस्य उभय-रूपत्वात्. ०३४२१ तस्मात् तत्र एव भाव इति न भाव एव उच्यते, इतरेण अपि न अभाव ०३५०१ एव, येन भावो अभावो वा द्वितीयम् आक्षिपेत्. न एवं ज्ञानं ०३५०२ पर-उपलक्षणात् त्रैलक्षण्याद् व्यतिरेकितम् इति न लक्षण-अन्तरम्. ०३५०३ तस्मान् न हेतुः षड्-लक्षणः. ०३५०४ हेतुबिन्दुर् आचार्य-धर्मकीर्ति-कृतः समाप्तः.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dharmakīrti: Hetubindu (sa_dharmakIrti-hetubindu-edsteinkellner.htm).

Source