The Bhairava of Consciousness
Vijñānabhairava
विज्ञानभैरवः
SKश्रुतं देव मया सर्वं रुद्रयामलसम्भवम् | त्रिकभेदम् अशेषेण सारात् सारविभागशः
SKअद्यापि न निवृत्तो मे संशयः परमेश्वर | किं रूपं तत्त्वतो देव शब्दराशिकलामयम्
SKकिं वा नवात्मभेदेन भैरवे भैरवाकृतौ | त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम्
SKनादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः | चक्रारूढम् अनच्कं वा किं वा शक्तिस्वरूपकम्
SKपरापरायाः सकलम् अपरायाश् च वा पुनः | पराया यदि तद्वत् स्यात् परत्वं तद् विरुध्यते
SKन हि वर्णविभेदेन देहभेदेन वा भवेत् | परत्वं निष्कलत्वेन सकलत्वे न तद् भवेत्
SKप्रसादं कुरु मे नाथ निःशेषं छिन्द्धि संशयम् |
SKसाधु साधु त्वया पृष्टं तन्त्रसारम् इदम् प्रिये
SKगूहनीयतमम् भद्रे तथापि कथयामि ते | यत्किंचित् सकलं रूपं भैरवस्य प्रकीर्तितम्
SKतद् असारतया देवि विज्ञेयं शक्रजालवत् | मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम्
SKध्यानार्थम् भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम् | केवलं वर्णितम् पुंसां विकल्पनिहतात्मनाम्
SKतत्त्वतो न नवात्मासौ शब्दराशिर् न भैरवः | न चासौ त्रिशिरा देवो न च शक्तित्रयात्मकः
SKनादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः | न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः
SKअप्रबुद्धमतीनां हि एता बलविभीषिकाः | मातृमोदकवत् सर्वं प्रवृत्त्यर्थं उदाहृतम्
SKदिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी | व्यपदेष्टुम् अशक्यासाव् अकथ्या परमार्थतः
SKअन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा | यावस्था भरिताकारा भैरवी भैरवात्मनः
SKतद् वपुस् तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् | एवंविधे परे तत्त्वे कः पूज्यः कश् च तृप्यति
SKएवंविधा भैरवस्य यावस्था परिगीयते | सा परा पररूपेण परा देवी प्रकीर्तिता
SKशक्तिशक्तिमतोर् यद्वद् अभेदः सर्वदा स्थितः | अतस् तद्धर्मधर्मित्वात् परा शक्तिः परात्मनः
SKन वह्नेर् दाहिका शक्तिर् व्यतिरिक्ता विभाव्यते | केवलं ज्ञानसत्तायाम् प्रारम्भो ऽयम् प्रवेशने
SKशक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना | तदासौ शिवरूपी स्यात् शैवी मुखम् इहोच्यते
SKयथालोकेन दीपस्य किरणैर् भास्करस्य च | ज्ञायते दिग्विभागादि तद्वच् छक्त्या शिवः प्रिये
SKदेवदेव त्रिशूलाङ्क कपालकृतभूषण | दिग्देशकालशून्या च व्यपदेशविवर्जिता
SKयावस्था भरिताकारा भैरवस्योपलभ्यते | कैर् उपायैर् मुखं तस्य परा देवि कथम् भवेत् | यथा सम्यग् अहं वेद्मि तथा मे ब्रूहि भैरव
SKऊर्ध्वे प्राणो ह्य् अधो जीवो विसर्गात्मा परोच्चरेत् | उत्पत्तिद्वितयस्थाने भरणाद् भरिता स्थितिः
SKमरुतो ऽन्तर् बहिर् वापि वियद्युग्मानिवर्तनात् | भैरव्या भैरवस्येत्थम् भैरवि व्यज्यते वपुः
SKन व्रजेन् न विशेच् छक्तिर् मरुद्रूपा विकासिते | निर्विकल्पतया मध्ये तया भैरवरूपता
SKकुम्भिता रेचिता वापि पूरिता वा यदा भवेत् | तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते
SKआमूलात् किरणाभासां सूक्ष्मात् सूक्ष्मतरात्मिकम् | चिन्तयेत् तां द्विषट्कान्ते श्याम्यन्तीम् भैरवोदयः
SKउद्गच्छन्तीं तडित्रूपाम् प्रतिचक्रं क्रमात् क्रमम् | ऊर्ध्वं मुष्टित्रयं यावत् तावद् अन्ते महोदयः
SKक्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम् | स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः
SKतयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना | निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः
SKशिखिपक्षैश् चित्ररूपैर् म.ङ्दलैः शून्यपञ्चकम् | ध्यायतो ऽनुत्तरे शून्ये प्रवेशो हृदये भवेत्
SKईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना | शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा
SKकपालान्तर् मनो न्यस्य तिष्ठन् मीलितलोचनः | क्रमेण मनसो दार्ढ्यात् लक्षयेत् लष्यम् उत्तमम्
SKमध्यनाडी मध्यसंस्था बिससूत्राभरूपया | ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते
SKकररुद्धदृगस्त्रेण भ्रूभेदाद् द्वाररोधनात् | दृष्टे बिन्दौ क्रमाल् लीने तन्मध्ये परमा स्थितिः
SKधामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम् | बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः
SKअनाहते पात्रकर्णे ऽभग्नशब्दे सरिद्द्रुते | शब्दब्रह्मणि निष्णातः परम् ब्रह्माधिगच्छति
SKप्रणवादिसमुच्चारात् प्लुतान्ते शून्यभावानात् | शून्यया परया शक्त्या शून्यताम् एति भैरवि
SKयस्य कस्यापि वर्णस्य पूर्वान्ताव् अनुभावयेत् | शून्यया शून्यभूतो ऽसौ शून्याकारः पुमान् भवेत्
SKतन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः | अनन्यचेताः प्रत्यन्ते परव्योमवपुर् भवेत्
SKपि.ङ्दमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु | अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद् भवेच् छिवः
SKनिजदेहे सर्वदिक्कं युगपद् भावयेद् वियत् | निर्विकल्पमनास् तस्य वियत् सर्वम् प्रवर्तते
SKपृष्टशून्यं मूलशून्यं युगपद् भावयेच् च यः | शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत्
SKपृष्टशून्यं मूलशून्यं हृच्छून्यम् भावयेत् स्थिरम् | युगपन् निर्विकल्पत्वान् निर्विकल्पोदयस् ततः
SKतनूदेशे शून्यतैव क्षणमात्रं विभावयेत् | निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक्
SKसर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे | विभावयेत् ततस् तस्य भावना सा स्थिरा भवेत्
SKदेहान्तरे त्वग्विभागम् भित्तिभूतं विचिन्तयेत् | न किंचिद् अन्तरे तस्य ध्यायन्न् अध्येयभाग् भवेत्
SKहृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः | अनन्यचेताः सुभगे परं सौभाग्यम् आप्नुयात्
SKसर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात् | दृढबुद्धेर् दृढीभूतं तत्त्वलक्ष्यम् प्रवर्तते
SKयथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् ||
SKप्रतिक्षणं क्षीणवृत्तेर् वैलक्षण्यं दिनैर् भवेत्
SKकालाग्निना कालपदाद् उत्थितेन स्वकम् पुरम् | प्लुष्टम् विचिन्तयेद् अन्ते शान्ताभासस् तदा भवेत्
SKएवम् एव जगत् सर्वं दग्धं ध्यात्वा विकल्पतः | अनन्यचेतसः पुंसः पुम्भावः परमो भवेत्
SKस्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च | तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा
SKपिनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे | प्रविश्य हृदये ध्यायन् मुक्तः स्वातन्त्र्यम् आप्नुयात्
SKभुवनाध्वादिरूपेण चिन्तयेत् क्रमशो ऽखिलम् | स्थूलसूक्ष्मपरस्थित्या यावद् अन्ते मनोलयः
SKअस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः | अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा महोदयः
SKविश्वम् एतन् महादेवि शून्यभूतं विचिन्तयेत् | तत्रैव च मनो लीनं ततस् तल्लयभाजनम्
SKघतादिभाजने दृष्टिम् भित्तिस् त्यक्त्वा विनिक्षिपेत् | तल्लयं तत्क्षणाद् गत्वा तल्लयात् तन्मयो भवेत्
SKनिर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत् | विलीने मानसे भावे वृत्तिक्षिणः प्रजायते
SKउभयोर् भावयोर् ज्ञाने ध्यात्वा मध्यं समाश्रयेत् | युगपच् च द्वयं त्यक्त्वा मध्ये तत्त्वम् प्रकाशते
SKभावे त्यक्ते निरुद्धा चिन् नैव भावान्तरं व्रजेत् | तदा तन्मध्यभावेन विकसत्यति भावना
SKसर्वं देहं चिन्मयं हि जगद् वा परिभावयेत् | युगपन् निर्विकल्पेन मनसा परमोदयः
SKवायुद्वयस्य संघट्टाद् अन्तर् वा बहिर् अन्ततः | योगी समत्वविज्ञानसमुद्गमनभाजनम्
SKसर्वं जगत् स्वदेहं वा स्वानन्दभरितं स्मरेत् | युगपत् स्वामृतेनैव परानन्दमयो भवेत्
SKकुहनेन प्रयोगेण सद्य एव मृगेक्षणे | समुदेति महानन्दो येन तत्त्वं प्रकाशते
SKसर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः | पिपीलस्पर्शवेलायाम् प्रथते परमं सुखम्
SKवह्नेर् विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत् | केवलं वायुपूर्णं वा स्मरानन्देन युज्यते
SKशक्तिसंगमसंक्षुब्धशक्त्यावेशावसानिकम् | यत् सुखम् ब्रह्मतत्त्वस्य तत् सुखं स्वाक्यम् उच्यते
SKलेहनामन्थनाकोटैः स्त्रीसुखस्य भरात् स्मृतेः | शक्त्यभावे ऽपि देवेशि भवेद् आनन्दसम्प्लवः
SKआनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् | आनन्दम् उद्गतं ध्यात्वा तल्लयस् तन्मना भवेत्
SKजग्धिपानकृतोल्लासरसानन्दविजृम्भणात् | भावयेद् भरितावस्थां महानन्दस् ततो भवेत्
SKगितादिविषयास्वादासमसौख्यैकतात्मनः | योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता
SKयत्र यत्र मनस् तुष्टिर् मनस् तत्रैव धारयेत् | तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तते
SKअनागतायां निद्रायाम् प्रणष्टे बाह्यगोचरे | सावस्था मनसा गम्या परा देवी प्रकाशते
SKतेजसा सूर्यदीपादेर् आकाशे शबलीकृते | दृष्टिर् निवेश्या तत्रैव स्वात्मरूपम् प्रकाशते
SKकरङ्किण्या क्रोधनया भैरव्या लेलिहानया | खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते
SKमृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम् | निधाय तत्प्रसङ्गेन परा पूर्णा मतिर् भवेत्
SKउपविश्यासने सम्यग् बाहू कृत्वार्धकुञ्चितौ | कक्षव्योम्नि मनः कुर्वन् शमम् आयाति तल्लयात्
SKस्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च | अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत्
SKमध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् | होच्चारं मनसा कुर्वंस् ततः शान्ते प्रलीयते
SKआसने शयने स्थित्वा निराधारं विभावयन् | स्वदेहं मनसि क्षिणे क्षणात् क्षीणाशयो भवेत्
SKचलासने स्थितस्याथ शनैर् वा देहचालनात् | प्रशान्ते मानसे भावे देवि दिव्यौघम् आप्नुयात्
SKआकाशं विमलम् पश्यन् कृत्वा दृष्टिं निरन्तराम् | स्तब्धात्मा तत्क्षणाद् देवि भैरवं वपुर् आप्नुयात्
SKलीनं मूर्ध्नि वियत् सर्वम् भैरवत्वेन भावयेत् | तत् सर्वम् भैरवाकारतेजस्तत्त्वं समाविशेत्
SKकिञ्चिज् ज्ञातं द्वैतदायि बाह्यालोकस् तमः पुनः | विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत्
SKएवम् एव दुर्निशायां कृष्णपक्षागमे चिरम् | तैमिरम् भावयन् रूपम् भैरवं रूपम् एष्यति
SKएवम् एव निमील्यादौ नेत्रे कृष्णाभम् अग्रतः | प्रसार्य भैरवं रूपम् भावयंस् तन्मयो भवेत्
SKयस्य कस्येन्द्रियस्यापि व्याघाताच् च निरोधतः | प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते
SKअबिन्दुम् अविसर्गं च अकारं जपतो महान् | उदेति देवि सहसा ज्ञानौघः परमेश्वरः
SKवर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु | निराधारेण चित्तेन स्पृशेद् ब्रह्म सनातनम्
SKव्योमाकारं स्वम् आत्मानं ध्यायेद् दिग्भिर् अनावृतम् | निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत् तदा
SKकिंचिद् अङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः | तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः
SKचित्ताद्यन्तःकृतिर् नास्ति ममान्तर् भावयेद् इति | विकल्पानाम् अभावेन विकल्पैर् उज्झितो भवेत्
SKमाया विमोहिनी नाम कलायाः कलनं स्थितम् | इत्यादिधर्मं तत्त्वानां कलयन् न पृथग् भवेत्
SKझगितीच्छां समुत्पन्नाम् अवलोक्य शमं नयेत् | यत एव समुद्भूता ततस् तत्रैव लीयते
SKयदा ममेच्छा नोत्पन्ना ज्ञानं वा कस् तदास्मि वै | तत्त्वतो =B९हं तथाभूतस् तल्लीनस् तन्मना भवेत्
SKइच्छायाम् अथवा ज्ञाने जाते चित्तं निवेशयेत् | आत्मबुद्ध्यानन्यचेतास् ततस् तत्त्वार्थदर्शनम्
SKनिर्निमित्तम् भवेज् ज्ञानं निराधारम् भ्रमात्मकम् | तत्त्वतः कस्यचिन् नैतद् एवम्भावी शिवः प्रिये
SKचिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् | अतश् च तन्मयं सर्वम् भावयन् भवजिज् जनः
SKकामक्रोधलोभमोहमदमात्सर्यगोचरे | बुद्धिं निस्तिमितां कृत्वा तत् तत्त्वम् अवशिष्यते
SKइन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत् | भ्रमद् वा ध्यायतः सर्वम् पश्यतश् च सुखोद्गमः
SKन चित्तं निक्षिपेद् दुःखे न सुखे वा परिक्षिपेत् | भैरवि ज्ञायतां मध्ये किं तत्त्वम् अवशिष्यते
SKविहाय निजदेहस्थं सर्वत्रास्मीति भावयन् | दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत्
SKघटादौ यच् च विज्ञानम् इच्छाद्यं वा ममान्तरे | नैव सर्वगतं जातम् भावयन् इति सर्वगः
SKग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् | योगिनां तु विशेषो =B९स्ति सम्बन्धे सावधानता
SKस्ववद् अन्यशरीरे =B९पि संवित्तिम् अनुभावयेत् | अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर् भवेत्
SKनिराधारं मनः कृत्वा विकल्पान् न विकल्पयेत् | तदात्मपरमात्मत्वे भैरवो मृगलोचने
SKसर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः | स एवाहं शैवधर्मा इति दार्ढ्याच् छिवो भवेत्
SKजलस्येवोर्मयो वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः | ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः
SKभ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितम् भुवि पातनात् | क्षोभशक्तिविरामेण परा संजायते दशा
SKआधारेष्व् अथवा ऽशक्त्या ऽज्ञानाच् चित्तलयेन वा | जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः
SKसम्प्रदायम् इमम् देवि शृणु सम्यग् वदाम्य् अहम् | कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः
SKसंकोचं कर्णयोः कृत्वा ह्य् अधोद्वारे तथैव च | अनच्कम् अहलं ध्यायन् विशेद् ब्रह्म सनातनम्
SKकूपादिके महागर्ते स्थित्वोपरि निरीक्षणात् | अविकल्पमतेः सम्यक् सद्यस् चित्तलयः स्फुटम्
SKयत्र यत्र मनो याति बाह्ये वाभ्यन्तरे ऽपि वा | तत्र तत्र शिवावास्था व्यापकत्वात् क्व यास्यति
SKयत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः | तस्य तन्मात्रधर्मित्वाच् चिल्लयाद् भरितात्मता
SKक्षुताद्यन्ते भये शोके गह्वरे वा रणाद् द्रुते | कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी दशा
SKवस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस् त्यजेत् | स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः
SKक्वचिद् वस्तुनि विन्यस्य शनैर् दृष्टिं निवर्तयेत् | तज् ज्ञानं चित्तसहितं देवि शून्यालायो भवेत्
SKभक्त्युद्रेकाद् विरक्तस्य यादृशी जायते मतिः | सा शक्तिः शाङ्करी नित्यम् भवयेत् तां ततः शिवः
SKवस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता | ताम् एव मनसा ध्यात्वा विदितो ऽपि प्रशाम्यति
SKकिंचिज्ज्ञैर् या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने | न शुचिर् ह्य् अशुचिस् तस्मान् निर्विकल्पः सुखी भवेत्
SKसर्वत्र भैरवो भावः सामान्येष्व् अपि गोचरः | न च तद्व्यतिरेक्तेण परो ऽस्तीत्य् अद्वया गतिः
SKसमः शत्रौ च मित्रे च समो मानावमानयोः ||
SKब्रह्मणः परिपूर्णत्वात् इति ज्ञात्वा सुखी भवेत्
SKन द्वेषम् भावयेत् क्वापि न रागम् भावयेत् क्वचित् | रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति
SKयद् अवेद्यं यद् अग्राह्यं यच् छून्यं यद् अभावगम् | तत् सर्वम् भैरवम् भाव्यं तदन्ते बोधसम्भवः
SKनित्ये निराश्रये शून्ये व्यापके कलनोज्झिते | बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत्
SKयत्र यत्र मनो याति तत् तत् तेनैव तत्क्षणम् | परित्यज्यानवस्थित्या निस्तरङ्गस् ततो भवेत्
SKभया सर्वं रवयति सर्वदो व्यापको ऽखिले | इति भैरवशब्दस्य सन्ततोच्चारणाच् छिवः
SKअहं ममेदम् इत्यादि प्रतिपत्तिप्रसङ्गतः | निराधारे मनो याति तद्ध्यानप्रेरणाच् छमी
SKनित्यो विभुर् निराधारो व्यापकश् चाखिलाधिपः | शब्दान् प्रतिक्षणं ध्यायन् कृतार्थो ऽर्थानुरूपतः
SKअतत्त्वम् इन्द्रजालाभम् इदं सर्वम् अवस्थितम् | किं तत्त्वम् इन्द्रजालस्य इति दार्ढ्याच् छमं व्रजेत्
SKआत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया | ज्ञानायत्ता बहिर्भावा अतः शून्यम् इदं जगत्
SKन मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः | प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः
SKइन्द्रियद्वारकं सर्वं सुखदुःखादिसंगमम् | इतीन्द्रियाणि संत्यज्य स्वस्थः स्वात्मनि वर्तते
SKज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः | एकम् एकस्वभावत्वात् ज्ञानं ज्ञेयं विभाव्यते
SKमानसं चेतना शक्तिर् आत्मा चेति चतुष्टयम् | यदा प्रिये परिक्षीणं तदा तद् भैरवं वपुः
SKनिस्तरङ्गोपदेशानां शतम् उक्तं समासतः | द्वादशाभ्यधिकं देवि यज् ज्ञात्वा ज्ञानविज् जनः
SKअत्र चैकतमे युक्तो जायते भैरवः स्वयम् | वाचा करोति कर्माणि शापानुग्रहकारकः
SKअजरामरताम् एति सो ऽणिमादिगुणान्वितः | योगिनीनाम् प्रियो देवि सर्वमेलापकाधिपः
SKजीवन्न् अपि विमुक्तो ऽसौ कुर्वन्न् अपि न लिप्यते |
SKइदं यदि वपुर् देव परायाश् च महेश्वर
SKएवमुक्तव्यवस्थायां जप्यते को जपश् च कः | ध्यायते को महानाथ पूज्यते कश् च तृप्यति
SKहूयते कस्य वा होमो यागः कस्य च किं कथम् |
SKएषात्र प्रक्रिया बाह्या स्थूलेष्व् एव मृगेक्षणे
SKभूयो भूयः परे भावे भावना भाव्यते हि या | जपः सो ऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः
SKध्यानं हि निश्चला बुद्धिर् निराकारा निराश्रया | न तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना
SKपूजा नाम न पुष्पाद्यैर् या मतिः क्रियते दृढा | निर्विकल्पे महाव्योम्नि सा पूजा ह्य् आदराल् लयः
SKअत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद् दिनम् | भरिताकारता सात्र तृप्तिर् अत्यन्तपूर्णता
SKमहाशून्यालये वह्नौ भूताक्षविषयादिकम् | हूयते मनसा सार्धं स होमश् चेतनास्रुचा
SKयागो ऽत्र परमेशानि तुष्टिर् आनन्दलक्षणा | क्षपणात् सर्वपापानां त्राणात् सर्वस्य पार्वति
SKरुद्रशक्तिसमावेशस् तत् क्षेत्रम् भावना परा | अन्यथा तस्य तत्त्वस्य का पूजा काश् च तृप्यति
SKस्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः | आवेशनं तत्स्वरूपे स्वात्मनः स्नानम् ईरितम्
SKयैर् एव पूज्यते द्रव्यैस् तर्प्यते वा परापरः | यश् चैव पूजकः सर्वः स एवैकः क्व पूजनम्
SKव्रजेत् प्राणो विशेज् जीव इच्छया कुटिलाकृतिः | दीर्घात्मा सा महादेवी परक्षेत्रम् परापरा
SKअस्याम् अनुचरन् तिष्ठन् महानन्दमये ऽध्वरे | तया देव्या समाविष्टः परम् भैरवम् आप्नुयात्
SKषट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः | जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः
SKइत्य् एतत् कथितं देवि परमामृतम् उत्तमम् | एतच् च नैव कस्यापि प्रकाश्यं तु कदाचन
SKपरशिष्ये खले क्रूरे अभक्ते गुरुपादयोः | निर्विकल्पमतीनां तु वीराणाम् उन्नतात्मनाम्
SKभक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया | ग्रामो राज्यम् पुरं देशः पुत्रदारकुटुम्बकम्
SKसर्वम् एतत् परित्यज्य ग्राह्यम् एतन् मृगेक्षणे | किम् एभिर् अस्थिरैर् देवि स्थिरम् परम् इदं धनम् | प्राणा अपि प्रदातव्या न देयं परमामृतम्
SKदेवदेव माहदेव परितृप्तास्मि शङ्कर | रुद्रयामलतन्त्रस्य सारम् अद्यावधारितम्
SKसर्वशक्तिप्रभेदानां हृदयं ज्ञातम् अद्य च | इत्य् उक्त्वानन्दिता देवि क.ङ्थे लग्ना शिवस्य तु