Commentary on the Attainment of Success in Lineage

Saṃtānāntarasiddhiṭīkā · Sअंतानान्तरसिद्धिटीका

Commentary on the Attainment of Success in Lineage

Saṃtānāntarasiddhiṭīkā

Sअंतानान्तरसिद्धिटीका

SK
Vइनीतदेवकृता Sअन्तानान्तरसिद्धिटीका [मूलसहिता]
SK
बुद्धिपूर्वां क्रियां दृष्ट्वा स्वदेहे ऽन्यत्र तद्ग्रहात् / ज्ञायते यदि धीश्चित्तमात्रे ऽप्येष नयः समः //
SK
चित्तमात्रमिदं सर्वमुक्तवान् यो जगद्गुरुः / सन्तानान्तरसिद्धस्तं प्रणिपत्य विविच्यते //
SK
बुद्धिपूर्वां क्रियाम् इत्यादिश्लोकेनास्य प्रकरणस्याभिधेयसम्बन्धप्रयोजनानि दर्शितानि / तत्र सन्तानान्तरसत्ताभिधेयम् / सन्तानान्तरसत्तायाः सिद्धिः प्रयोजनम् / तस्य प्रयोजनस्यापि प्रकरणेनानेन साध्यमानत्वात्तेन सहास्योपायोपेयलक्षणसम्बन्धः / कार्यकारणादिसम्बन्धानामस्मिन्नेवान्तर्भावान्न पृथग्वचनम् / बाह्यार्थवादिनः किल विज्ञानमात्रतायां सन्तानान्तरसत्ता नोपपद्यत इति चोदयन्ति / तथाहि, त एवमाहुः - येषां चित्तमात्रमेव सत्, असंश्च बाह्यार्थः, न तेषां प्राण्यन्तरप्रतिपत्तये प्रत्यक्षप्रमाणमस्ति; ज्ञानमात्रस्य स्वांशमात्रालम्बनत्वात्, वस्तुतस्तु आलम्बनाभावात् / नाप्यनुमानम्, कायवाक्कर्माभावात् / अथ कायवाग्विज्ञप्तिभ्यां प्राण्यन्तरमनुमीयते चेत्; विज्ञानमात्रतापक्षे कायवाक्कर्मणोर्विज्ञप्ती न स्तः /
SK
नाप्यागमः सम्भवति, तस्य रूपस्कन्धान्तर्भावात्, एतस्य च प्रतिक्षेपात् / तथाहि, आगमः शब्दात्मको वा भवेद् व्यञ्जनस्वभावो वा / उभयमप्येतद् भवत्पक्षे नास्ति / नापि तद्विषये रूपिण आगमस्य प्रामाण्यमिष्यते / यतो ह्ययं विषयः प्रमाणद्वयविषयातीतो मतः / तथा सति, आगमादपि प्राण्यन्तरं प्रतिपत्तुं न शक्यत इति चेत्?
SK
तथा विप्रतिपन्ना बाह्यार्थावादिन एवं वक्तव्याः / वयमपि प्रत्यक्षतः प्राण्यन्तरं नैव प्रतिपद्यामहे / न हि प्रत्यक्षादर्वाग्दर्शिनः प्राण्यन्तरमवगच्छन्ति / नाप्यागमो व्यञ्जनस्वभावः / किन्तु प्रणेतृवशाद् यो वाक्यपदव्यञ्जनविशेषप्रतिभासिज्ञानोत्पादः सः / स तु प्रतिपत्तृसन्ताने सन्नप्युपचारतस्तथागतस्य वा कपिलस्य वा कणादस्य वा कर्तुर्वचनमिति व्यपदिश्यते / एवं सर्वे ऽपि बौद्धा वाचकं शब्दसामान्याकारं ज्ञानं मन्यन्ते; न चास्ति शब्दविशेषः, ऽतस्य पूर्वमदृष्टत्वाद्ऽ इत्यादिहेतुभिः विशेषाकारस्य वाचकत्वभावप्रतिषेधात् / वयमपि नागमतः प्राण्यन्तरप्रतिपत्तिमभ्युपगच्छामः, अपि त्वनुमानात् / तच्चानुमानं कायवाक्कर्मणोरभावे ऽपि यथा प्रवर्तते यद्दर्शयितुमाह - बुद्धिपूर्वामित्यादि / एष तावत् समुदायार्थः /
SK
अवयवार्थस्तूच्यते / बुद्धिः ज्ञानम् / सा चात्र गमनागमनसंलापेच्छारूपा परिगृह्यते, क्रियाहेतुत्वात् तस्याः / सास्ति पूर्वं यस्याः क्रियायाः सा बुद्धिपूर्वा / पूर्वेति शब्देनात्र कारणस्य निर्देशः, कारणस्य पूर्ववर्तित्वात् / यदि नाम बाह्यार्थवादिभिः स्वसन्ताने तां बुद्धिपूर्वां क्रियां प्रत्यक्षानुमानाभ्यामुपलभ्य पश्चात्परसन्ताने ग्रहाद् विवक्षितरूपा धीः विज्ञानं गम्यते, तदा चित्तमात्रे ऽप्येष नयः समः / अत्र क्रियेत्युपलक्षणम् / मुखकान्तिरक्तिमादीनामपि चित्तान्तरस्य गमकत्वात् / यदीति वचनेन वक्ष्यमाणबिधिना परपक्षे ऽनुमानाभावं दर्शयति
SK
अनुमानमभ्युपगम्य तुल्यतां ख्यापयन्नाह -
SK
आत्मनि चित्तस्पन्दनपूर्वौ क्रियाभिलापौ दृष्ट्वान्यत्र तयोर्दर्शनाद् यदि स्पन्दनमनुमीयेत, चित्तमात्रे ऽप्येष नयः समः / अतश्चित्तमात्रतावादी अपि परचित्तमनुमातुं शक्नोति / आत्मनीत्यादि / चित्तस्य स्पन्दनं चित्तस्पन्दनम् / अत्र स्पन्दनेति शब्दश्चिकीर्षायां वर्तते / क्रियाभिलापौ तु कायवाग्विज्ञप्त्योः / तेनायमर्थो भवति - आत्मनि जिगमिषाविवक्षापूर्वयोः क्रियाभिलापयोर्दर्शनात् परसन्ताने ऽपि तौ क्रियाभिलापौ चोपलभ्य चित्तस्पन्दनमनुमीयत इति चेत्? चित्तमात्रतावादे ऽप्येष नयः समः / तथा सति, सो ऽपि परचित्तमनुमीयात् / अत्र स्पन्दनेत्यविशेषेणोक्तम्, तथापि पूर्वं चित्तस्पन्दनमिति प्रकृतेनाभिसम्बन्धनीयम् / तस्मात् सामान्यशब्दा अपि प्रकरणसामर्थ्याद् विशेषेष्ववतिष्ठन्ते
SK
ननु बाह्यार्थवादे तु परचित्तनिमित्तके कायवाक्कर्मणी लिङ्गत्वेन स्वीक्रियेते, अन्तर्ज्ञेयवादे तयोरभावात् कथं साम्यमिति चेत्? एवमाह -
SK
तच्च कायवाग्विज्ञप्तिप्रतिभासि ज्ञानं ज्ञानान्तरस्पन्दनविशेषेण विना भवतीत्येवं न मतम् / तच्चेत्यादि / अन्तर्ज्ञेयवादिनापि कायवाग्विज्ञाप्तिप्रतिभासि कायवाग्विज्ञप्तकारकं ज्ञानं परचित्तस्य स्पन्दनविशेषेण विना भवतीति न मन्यते / स्वज्ञानादन्यद् यज्ज्ञानं तत् ज्ञानान्तरम् / तत्सम्प्रयुक्तं स्पन्दनं ज्ञानान्तरस्पन्दनम्, तस्य विशेषस्तेन / विशेषेति वचनेन चिकीर्षा, विवक्षा च परिगृह्येते
SK
बाह्यार्थवादिमतमाशङ्क्यते -
SK
अथ परज्ञानस्य क्रियाया अनुपलम्भात् परधीरनुमातुं न युज्यत इति चेत्? न; तुल्यत्वात् / अथ परज्ञानस्य क्रियायेत्यादि / न भवता कदापि परज्ञानपूर्वके क्रियावागाकारके ज्ञाने उपलभ्येते / भवता तत्कथमनुमीयेत इति पूर्वपाक्षाशङ्का / अन्तर्ज्ञेयवाद्याह - न; तुल्यत्वादिति / नैष दोषः / यतो हि, एष उपालम्भो भवतामपि तुल्यः
SK
तत्तुल्यत्वं दर्शयति -
SK
परो ऽपि परज्ञानपूर्वौ तौ कदापि न पश्यति / अतः तेनापि तन्न ज्ञायते / परो ऽपीत्यादि / बाह्यार्थवाद्यपि परचित्तस्पन्दनपूर्वकौ तौ क्रियाभिलापौ न कदापि पश्यति / तस्मात् तेनापि परचित्तं न प्रतिपद्यते / अत्यन्तासम्बद्धो ह्येष उपालम्भः / न हि समर्थनाय प्रसिद्धसम्बन्धो ऽन्वेक्षणीयः, अपि तु दोषसाम्यादेव परो निगृहीतः / तस्मान्न दोषान्तरमुच्यते
SK
अत्रास्ति परचित्तानुमानोपाय इति बाह्यार्थवादिमतमाशङ्कयाह -
SK
आत्मनश्चित्तस्य परवर्तिनोर्निमित्तत्वानुपपत्तेः परचित्तं ज्ञायत इत् चेत्? किं न युज्यते? आत्मनश्चित्तस्य परवर्तिनोरित्यादि / यस्मादात्मनश्चित्तं सन्तानान्तरवर्तिनोः क्रियाभिलापयोः कारणत्वेन न युज्यते, तस्मात्परचित्तमनुमीयत इति पूर्वपक्षाशङ्का / सिद्धन्तबाद्याह - किं न युज्यत इत् / कथमात्मनश्चित्तं परवर्तिनोर्निमित्तित्वेन नोपपद्यते? उच्यताम्
SK
परो ऽयुक्तत्वं दर्शयितुमाह -
SK
स्वसमुत्थापकचित्तस्य प्रतिसंवेदनाभावात् / स्वसमुत्थापकचित्तस्य प्रतिसंवेदनाभावादिति / परसन्तानबर्तिनौ क्रियाभिलापौ आत्मचित्तनिमित्तकौ वा स्याताम्, परचित्तनिमित्तकौ वेति द्विधा परीक्षा / न तावदात्मचित्तमिनित्तकौ, यस्मान्न स्वसन्ताने तयोर्समुत्थापकचोइत्तस्य संवेदनं भवति
SK
हेतुपसंहरन्नाह -
SK
आत्मचित्तश्रयिणोश्चात्मनि दर्शनात् / आत्मचित्तश्रयिणोश्चेत्यादि / अहं गच्छामि, अहं वदामीति ये स्वचित्तनिमित्तके कारवाक्कर्मणी ते स्वसन्ताने उपलभ्येते / आत्मनश्चित्तमाश्रयत इति विग्रहः / अत्र आश्रयीति शब्दो निमित्तके
SK
भवत्वात्मचित्तनिमित्तकयोः स्वसन्ताने दर्शनम् / तेन किम्? तस्मादाह -
SK
तावपि यदि यथा स्यातां तादृशावुपलभ्येयाताम् / तावपीत्यादि / परवर्तिक्रियाभिलापावपि यद्यात्मचित्तश्रयिणौ स्याताम्, तदा तावपि आत्मनि दृश्येयाताम्
SK
अथ तौ कथं दृश्येते? आह -
SK
अन्यथा दर्शनादन्यन्निमित्तं सिध्यतीति चेत्? अन्यथेत्यादि / अयं गच्छति, अयं वदतीत्येवं विच्छिन्नदेशे दृश्येते / स्वचित्तनिमित्तकत्वाभावे सति सामार्थ्याच्चित्तान्तरं सिध्यतीति पूर्वपक्षाशङ्का
SK
सिद्धान्तवाद्याह -
SK
अपरस्मिन्नपि समानमेव, स्वसमुत्थापकचित्तस्य संवेदनाभावात् / अपरस्मिन्नपीत्यादि / अन्तर्ज्ञेयवादे ऽपि स्वसन्ताने विच्छिन्नदेशप्रतिभासिनोः क्रियाभिलापप्रतिभासिज्ञानयोः समुत्थापकचित्तस्य प्रतिसंवेदनं न भवति
SK
हेतोरुपसंहारो ऽपि तुक्य इति दर्शयन्नाह -
SK
स्वचित्तस्पन्दननिमित्तके विज्ञाप्तिप्रतिभासिनी ज्ञाने चान्तर्मुखप्रतिभासिनी प्रतीतेः बहिर्मुखप्रतिभासिनी अन्यनिमित्तादित्पद्येते / स्वचित्तस्पन्दननिमित्तके विज्ञाप्तिप्रतिभासिनी ज्ञाने चेत्यादि / ये स्वचित्तस्पन्दननिमित्तके क्रियावाक्प्रतिभासिनी ज्ञाने ते चान्तर्मुखप्रतिभासिनी ऽअहं गच्छमि, अहं वदामिऽ इत्यात्मसम्बद्धविज्ञप्तिप्रतिभासिनी प्रतीयेते / परसन्तानवर्तिनी तु ऽअयं गच्छमि, अयं वदतिऽ इति बहिर्मुखप्रतिभासिनी प्रतीयेते / तस्मादन्यनिमित्तदुत्पद्येत इति सिद्धम् / स्वचित्तस्य स्पन्दनं स्वचित्तस्पन्दनम्, तन्निमित्तं यस्येति विग्रहः
SK
बाह्यार्थवादी बहिर्मुखज्ञानयोः स्पन्दनकारणत्वे सन्दिहति -
SK
अनिमित्ते एव बहिर्मुखप्रतिभासिनीति किन्नेष्येते चेत्?
SK
अनिमित्ते एव बहिर्मुखप्रतिभासिनीत्यादि / ये बहिर्मुखप्रतिभासिनी ज्ञाने ते ऽनिमित्ते इति किन्नेष्येते? न स्पन्दननिमित्तले इति वाक्यशेषः / बहिर्मुखेतिशब्दो विच्छिन्नालम्बने / बहिर्मुखं प्रतिभासितुं शीलं ययोस्ते बहिर्मुखप्रतिभासिनी / नास्ति निमित्तमनयोरिति अनिमित्ते / भवतु किल निमित्तामात्रस्य प्रतिषेधः तथापि प्रकरणवशात् स्पन्दनमात्रस्य प्रतिषेधो द्रष्टव्यः
SK
सिद्धान्तवाद्याह -
SK
अनिमित्तत्वे सर्वस्यानिमित्तत्वं प्रसज्येत / अनिमित्तत्व इत्यादि / यदि विच्छिन्नप्रतिभासिनी क्रियावागाकारके ज्ञाने स्पन्दनाभावे ऽपि विना किंचन क्रियावागाकारं भवेत्, तदा सर्वाण्यपि क्रियावागाकारकाणि ज्ञानानि स्पन्दनेन विना भवेयुः; विशेषाभावादित्यभिप्रायः
SK
तत्र यद्येवं विचिन्त्येत -
SK
विच्छिन्नाविच्छिन्नकृतो भेदस्त्वस्त्येव / तेन विच्छिन्नप्रतिभासिनोः अनिमित्तत्वम्, इतरयोस्तु सनिमित्तत्वमिति / अत आह - विच्छिन्नाविच्छिन्नप्रतिभासकृतो भेदो न ज्ञानयोः स्पन्दनत्वनिमित्तभेदविभागकृत् / विच्छिन्नविच्छिन्नप्रतिभासेत्यादि / विच्छिन्नः प्रतिभासो विच्छिन्नप्रतिभासः / तेन कृतो भेदो विशेषलक्षणः / स तु यतो न ज्ञानयोः स्पन्दनत्वनिमित्तस्य भेदकः; बहिर्मुखप्रतिभासिनी स्पन्दननिमित्तके न भवतः, इतरे तु स्पन्दननिमित्तके इति / विभागस्त्वत्र विभज्य स्थापनं निक्षेपो वा
SK
अथ निमित्तत्वभेदाभावे को दोषः स्यात्? आह -
SK
तेनाविच्छिन्नप्रतिभासिनोरप्यनिमित्तत्वं भवेत्, विशेषाभावात् / तेनाविच्छिन्नेत्यादि / यतो ह्यत्र भिन्नभूतयोः ज्ञानयोः क्रियावाक्प्रतिभासत्वे न कश्चिद् विशेषो ऽस्ति / तस्माद् विशेषाभावादुभयमपि स्पन्दनत्वनिमित्तकं न भवेत्, अथ वोभयमपि स्पन्दननिमित्तकम्
SK
तदेवं ज्ञानद्वयस्य साम्यं साधयित्वोपसंहरन्नाह -
SK
तथा सति, अविच्छिन्नत्वविशिष्टः प्रतिभासभेद एव स्पन्दनपूर्वको न भवति / किन्तर्हि? विच्छिन्नस्यापि क्रियाविशेषस्य प्रतिभास एव /
SK
तथा सति, अविच्छिन्नत्वविशिष्टः प्रतिभासभेद इत्यादि / यस्मादेवं ज्ञानद्वयस्य साम्यम्, तस्माद् यो ऽविच्छिन्नत्वविशिष्टः क्रियावाक्प्रतिभासः स केवलं स्पन्दननिमित्तको न भवति / किन्तर्हि? विच्छिन्नप्रतिभासस्यापि क्रियाविशेषस्य प्रतिभासमात्रं स्पन्दननिमित्तकम् / विच्छिन्नो विशेषो ऽस्यास्तीति पद्विग्रहः / क्रियाविशेषेत्यनेन क्रियाभिलापौ दर्शयति / एवेति शब्दो मात्रार्थे द्रष्टव्यः / तेनात्रायं समुदायार्थः - विच्छिन्नाविच्छिन्नभेदमनपेक्ष्य सामान्येन क्रियाभिलापयोः प्रतिभासमात्रं स्पन्दननिमित्तकम् / यतो हि कश्चिद् विच्छिन्नो ऽपि प्रतिभास स्पन्दनपूर्वको दृश्यते, कश्चित्तवविच्छिन्नो ऽपि नात्मस्पन्दनपूर्वक इति
SK
तस्यैव हेतोर्व्यभिचारं व्याजेन दर्शयति -
SK
शरोपलप्रक्षेपणयन्त्रनिर्माणपरप्रचालनादिक्रियाविशेषप्रतिभासिनां विच्छिन्नस्यापि प्रतिभासस्य स्पन्दनपूर्वकत्वात् /
SK
शरोपलप्रक्षेपणेतयादि / शराश्चोपलाश्च शरोपलम्, शरोपलौ च / तयोः शरोपलयोः प्रक्षेपणमिति विग्रहः / शरोपलप्रक्षेपणानि यन्त्रं च निर्माणं च परप्रचालनं चेतिविग्रहः / आदिशब्देन मायादीनां संग्रहः / तेषां क्रियाविशेषस्तु यथायोगं देशान्तरगमनादिलक्षणः / तत्र उपलयन्त्रयोः क्रियाविशेषो देशान्तरगमनलक्षणः / निर्माणस्य क्रियाविशेषः कृत्याभिधानलक्षणः / परप्रचालनस्य क्रियाविशेषः गतिलक्षणः / येषां ज्ञानानां शरप्रक्षेपणादिक्रियाविशेषप्रतिभासो ऽस्ति तानि तथा / भवतु एतेषां क्रियाविशेषाणां विच्छिन्नः प्रतिभासः, तथापि स्पन्दनपूर्वकत्वम् / एतदुक्तं भवति - विच्छिन्नप्रतिभासो ऽस्पन्दनपूर्वकत्वेन न व्याप्त इति
SK
अविच्छिन्नप्रतिभासे ऽपि व्यभिचारं दर्शयन्नाह -
SK
परकृतचालनादीनां चाविच्छिन्नस्याप्यतद्पूर्वकत्वात् / परकृतचालनादीनां चाविच्छिन्नस्यापीत्यादि / परेण कृतं चालनमिति समासः / आदिशब्देन भ्रामणादीनां संग्रहः / परकृतचालनादिनामविच्छिन्नप्रतिभासानां नात्मस्पन्दनपूर्वकत्वं दृश्यते / एतदुक्तं भवति - भवन्तु एते स्वदेहसम्बद्धाः, तथापि नात्मस्पन्दनपूर्वका इति
SK
तदेवमुभयत्रापि व्यभिचारसद्भावं साधयित्वोपसंहरन्नाह -
SK
तेन ह्यत्र क्रियाविशेषमात्रेण स्पन्दनस्य प्रतीतिरिति युज्यते / तेन ह्यत्र क्रियाविशेषमात्रेणेत्यादि / यस्मादेवमुभयत्र व्यभिचारसद्भावः साधितः, तस्मात् क्रियावाक्यप्रतिभासमात्रेण परचित्तमनुमातुं शक्यते; न तु विच्छिन्नाविच्छिन्नप्रतिभासमात्रेण / क्रियाविशेषेति शब्दः कायवाग्ज्ञिप्तिप्रतिभासं दर्शयति / मात्रेति शब्दो विच्छिन्नाविच्छिन्नयोः भेदं निराकरोति
SK
तत्र यद्येवं चिन्त्येत -
SK
शरप्रक्षेपणादिक्रियाविशेषाणां प्रतिभासास्तु विच्छिन्नप्रतिभासत्वे ऽपि स्पन्दनत्वपूर्वकाः; तदन्या विच्छिन्नप्रतिभासास्तु न तथा स्युः? तस्मादाह - तत्र यदि कस्यचिदपूर्वकत्वम्, न को ऽपि तत्पूर्वक स्यात्; विशेषाभावात् / तत्र यदि कस्यचिदपूर्वकत्वमित्यादि / यदि विच्छिन्नाविच्छिन्नज्ञानयोरन्यतरत् स्पन्दनत्वनिबन्धनं नेष्यते, तदा किमपि स्पन्दनत्वपूर्वकं न स्यात् / कथमिति चेत्? आह - विशेषाभावादिति / सुगममेतद् // २१ ////
SK
उपसंहरन्नाह -
SK
अतः क्रियाविशेषसामान्यं स्पन्दनविशेषसामान्यस्य गमकम् /
SK
अतः क्रियाविशेषसामान्यमित्यादि / यतो हि यदि कस्यचिदतत्पूर्वकत्वं भवेत् सर्वस्यातत्पूर्वकत्वं प्रसज्येत / अतः क्रियाविशेषमुत्सृज्य क्रियाविशेषसामान्येन स्पन्दनविशेषसामान्यमनुमीयते / क्रियाविशेषेतिवचनं क्रियाभिलापौ दर्शयति / सामान्यमिति शब्दः बहिरन्तर्मुखकृतं भेदं परिहरति / न ह्येवं शक्यते ऽनुमातुम् - ंरागाद् वदतीति वा द्वेषाद्वा मोहाद्वा / तस्मादेषो ऽत्र समुदायार्थः - क्रियाभिलापमात्रेण स्पन्दनमात्रमनुमेयम्, न तु स्पन्दनविशेषम्; विशेषे लिङ्गस्य व्यभिउचारदिति
SK
बाह्यार्थवादेन समानतां दर्शयितुमाह -
SK
तत्र यथा क्रियामुपलभ्य, आत्मनि स्पन्दनानुपलम्भादन्यत्र स्पन्दप्रतीतिः; तथा क्रियाप्रतिभासोपलम्भने ऽपि /
SK
तत्र यथा क्रियामुपलभ्येत्यादि / बाह्यार्थवादिना यदि क्रियामुपलभ्य, आत्मनि स्पन्दनानुपलम्भात् सामर्थ्यादन्यत्र स्पन्दनमनुमीयत इति चेत् / अन्तर्ज्ञेयवादे ऽपि तत्तुल्यम्; क्रियाप्रतिभासमुपलभ्य, आत्मनि स्पन्दनानुपलम्भात् सामर्थ्यादन्यत्र स्पन्दनमनुमीयते
SK
बाह्यार्थवादिना विच्छिन्नप्रतिभासस्यानिमित्तकत्वं यत्पूर्व चोदितम्, तदपि समानमिति दर्शयितुम् आह -
SK
समानमेतत्; परो ऽपि परक्रियाभिलापयोर्निमित्तं नास्तीति किन्नेच्छति?
SK
समानमेतदित्यादि / बाह्यार्थवाद्यपि प्राण्यन्तरसंबद्धप्रतिभासिनौ क्रियाभिलापौ अनिमित्तकाविति नेच्छति
SK
बाह्यार्थवाद्यनिमित्तौ नाभ्युपगच्छति / तदवश्यमभ्युपगन्तव्यमिति दर्शयितुमाह - तेनावश्यं तौ स्पन्दननिमित्तकत्वात्तदभावे न भवत इति वक्तव्यम् /
SK
तेनावश्यमित्यादि / तथाविप्रतिपन्नेन बाह्यार्थवादिनावश्यमियमुपपत्तिर्वक्तव्या - तयोः क्रियाभिलापयोः स्पन्दनजन्यरूपत्वात् स्पन्दनाभावे तौ न भवत इति
SK
अथाभ्युपगतापीयमुपपत्तिः किं तयेति चेत्? आह -
SK
परो ऽपि तयोः प्रतिभासौ तथैव वदेत् / अतः नानयोः परस्परं भेदः /
SK
परो ऽपि तयोः प्रतिभासौ तथैवेत्यादि / अन्तर्ज्ञेयवाद्यपि तथैव वदेत् - विच्छिन्नप्रतिभासिज्ञाने स्पन्दनजन्यरूपत्वात्तदभावे न भवत इति / तथा सति नानयोः बाह्यार्थवादान्तर्ज्ञेयवादयोः परस्परं भेदो ऽस्ति / एतदुक्तं भवति - यथा बाह्यार्थवादी परसम्बद्धक्रियाभिलापौ स्पन्दनजन्यरूपत्वात् तदभावे न भवत इति वदति, तथैवान्तर्ज्ञेयवाद्यपि बाहिर्मुखप्रतिभासिज्ञाने स्पन्दनजन्यत्वात् तदभावे न भवत इति वदेत् / तथा सति नानयोः परस्परं कश्चिद्भेदो / ऽस्तीति
SK
बाह्यार्थवादिनामाशङ्कामुद्भावयितुमाह -
SK
यदि तत्र प्रतिभासिन्योः स्पन्दननिमित्तकत्वमुच्यते, स्वप्नावस्थायामपि किन्नोच्यते?
SK
यदि तत्र प्रतिभासिन्योरित्यादि / क्रियाभिलापप्रतिभासिज्ञानयोः स्पन्दननिमित्तकत्वं वदन् योगाचारः स्वप्नावस्थायामपि तयोः स्पन्दननिमित्तकत्वं किन्न वदतीति पूर्वपक्षाशङ्का
SK
सिद्धान्तवाद्याह -
SK
सर्वं समानम् / परो ऽपि स्वप्नोपलब्धपरक्रियावाचौ स्पन्दननिमित्तिके इति किन्न वदति?
SK
सर्वं समानमित्यादि / न केवलं पूर्वं समानम् / किं तर्हि? एतदपि पूर्वेण सह सर्वं समानमिति शेषः / तामेव समानतां दर्शयितुमाह - परो ऽपि स्वप्नोपलब्धपरक्रियावाचावित्यादि / बाह्यार्थवाद्यपि स्वप्नावस्थायां यौ परसम्बद्धौ क्रियाभिलापावुपलभ्येते तौ परचित्तनिमित्तकाविति किन्न वदति
SK
बाह्यार्थवादीनामुत्तरमाशङ्क्याह -
SK
तयोरभावादिति चेत्?
SK
तयोरभावादिति चेदिति / स्वप्ने तु क्रियाभिलापावेव न स्तः / तत्कथमभावस्य स्पन्दननिमित्तकता भवेदित्युच्येत्
SK
अन्तर्ज्ञेयवाद्याह -
SK
तथोपलब्धिसाम्यात् किन्न स्तः?
SK
तथोपलब्धिसाम्यात् किन्न स्तः इति / यथा जाग्रदवस्थायां क्रियाभिलापयोरुपलब्धिः तथा स्वप्नावस्थायामपि / तस्मात् क्रियाभिलापयोरुपलब्धसाम्यात् कस्मान्न तौ स्तः
SK
बाह्यार्थवादीनां मतमाशङ्क्याह -
SK
अथ मिद्धेनोपहतत्वात् पुरुषस्यार्थशून्यं विज्ञानं जायत इति चेत् /
SK
अथ मिद्धेनेत्यादि / पुरुषस्य मिद्धेनोपहतत्वात् भ्रान्तिर्भवति / तस्मादर्थशून्ये विज्ञाने जायेते / तेन स्वप्ने तयोरभाव इति पूर्वपक्षाशङ्का
SK
सिद्धान्तवाद्याह -
SK
परमते ऽपि तस्मादेव पराधिपत्यशून्यं विज्ञानमुपजायते /
SK
परमत इत्यादि / अन्तर्ज्ञेयवादीनां मते ऽपितस्मात् मिद्धेन भ्रान्तत्वादेव पराधिपत्यरहिते क्रियाभिलापाकारेके ज्ञाने जायेते इतीष्टम्
SK
एवं तावत् सौत्रान्तिकेन सह समानतां प्रतिपाद्य वैभाषिकमताशङ्क्याह -
SK
अथ स्वप्ने ऽपि ज्ञानस्यार्थवत्त्वात्तदोपलभ्यमानान्यपि सन्तानान्तराण्येव इति चेत् /
SK
अथ स्वप्ने ऽपि ज्ञानस्यार्थवत्त्वादित्यादि / स्वप्ने ऽपि ज्ञानस्यार्थवत्त्वात् स्वप्नावस्थायां येषां प्राणिनामुपलब्धिर्भवति ते च सत्त्वाः सन्त्येव सत्यतः / तस्मात् कथं साम्यमिति पूर्वपक्षाशङ्का
SK
सिद्धान्तवाद्याह -
SK
परं प्रतिविग्रहीतुं यदि युक्त्यागमरहितस्तथाविधो ऽसद्वादः समाश्रियेत, तदा पराभिमतं तस्य पराधिपत्यं न को ऽपि निवारयेत् /
SK
परं प्रतिविग्रहीतुं यदि युक्त्वागमरहित इत्यादि / यः युक्त्या आगमाच्च रहितः स युक्त्यागमरहितः / युक्त्यागमरहितो ऽसौ वादो ऽसाधुत्वादसदेवादः / यदि वैभाषिकाः योगाचारान् प्रतिविग्रहीतुं तमभ्युपगच्छेयुः, अनेन च मम पराजय इति / न, अयुक्तत्वात् / तदा योगाचारभिमतं सत्त्वस्य तथाविधपरधिपत्यमपि न कश्चिन्निवारयेत् / तथाहि, भवद्भिः स्वप्नावस्थायां ये सत्त्वाः अभ्युपगताः, तेषामेवाधिपत्यादस्माकं विज्ञप्तिप्रतिभासाः जायन्त इति वक्तव्यं भवेत् / तेन हि यद् विषमत्वं युक्त्यागमरहितत्वं तदेवं द्रष्टव्यम् / न कुतश्चिदागमतः स्वप्नदृष्टरूपस्य सद्भावः प्रज्ञायते / युक्त्यापि नोपपद्यते / तथा सति स्वप्नदृष्टरूपस्य सप्रतिघत्वं सनिदर्शनत्वञ्च भवेत् / तेन हि हस्त्यादीनां गवाक्षादिषु प्रवेशो नोपपद्येत, तद्देशस्थैरपि दृश्यो भवेत् / अथ सनिदर्शनं सप्रतिघं च नेष्यते, तदा रूपमेव तन्न भवेत् / नाप्यविज्ञप्तिनियमः, तदनभ्युपगमात् / यदात्मानं बहिर्गतं प्रेक्षते,तदा सन्तानस्य द्वित्वमपि प्रसज्येत / प्राण्यन्तरदर्शने ऽपूर्वसत्त्वोत्पत्तित्पत्तिरपि प्रसज्येत / स्वप्नकृताब्रह्माचर्यात् पाराजिकत्वमपि प्रसज्येत / स्वप्नदृष्टरूपस्य सद्भावाभ्युपगमे त्वेवेमादयो बहवो दोषा प्रसज्यन्ते
SK
एवं तावत् समानतां प्रसाध्य स्वपक्षे युक्त्यागमरहितत्वं परिहर्तुमाह -
SK
एतत् केषाञ्चिन्मत एव सर्वाणि तथाविधानि ज्ञानानि सन्तानान्तरायत्तानि / विशेषस्तु साक्षात्परम्परया च / एतत् केषाञ्चिन्मत इत्यादि / एतदित्यावेशेनोक्तम् / केषाzन्चिद् योगाचाराणां मत एव जाग्रदवस्थावत् स्वप्ने ऽपि तथाविधानी क्रियावागाकारज्ञानानि परसन्ताना यत्तानि भवन्ति / विशेषस्तु एतावन्मात्रम् - जाग्रदवस्थायां साक्षादायत्तानि, स्वप्नावस्थायां तु प्रायेण परम्परया
SK
स्वप्ने ऽपि साक्षाद्वृत्तेः सम्भावनां प्रतिपादयितुमाह -
SK
कदाचित् स्वप्ने ऽपि तस्य साक्षात्सन्तानान्तरायत्तता इष्टैव / कदाचित् स्वप्ने ऽपीत्यादि / सुगममेतत्
SK
साक्षाद्वृत्तित्वं दर्शन्नाह -
SK
देवाद्यधिष्ठानतः सत्यस्वप्नदर्शनात् /
SK
देवाद्यधिष्ठानत इत्यादि / देवाद्यधिष्ठानतः सुप्रियवणिजो विज्ञप्तिप्रतिभासीनि ज्ञानानि जायन्ते आदीत्यनेन योगिपिशाचादीनामधिष्ठानानि संगृहीतानि
SK
स्वपक्षमुपसंहरन्नाह -
SK
तस्मादस्य नैतदसद्वादसमाश्रयः /
SK
तस्मादस्येत्यादि / तस्मादस्यैवंवादिनो योगाचारस्य नासद्वादसमाश्रयः
SK
पुनश्चापरस्मिन् समानतां साधयितुं सौत्रान्तिकं पृच्छति -
SK
तावत्तया क्रिययापि तच्चित्तं कथं ज्ञायते?
SK
तावत्तया क्रिययेत्यादि / विज्ञप्तिप्रतिभासस्य गमकत्वमित्यभिमतं तावदवस्थाप्यम् / मुहुर्भवतैव पर्यनुयुज्यते - कस्मात् भवत्परिकल्पितया तया क्रियया परचित्तं ज्ञायते
SK
तथा पर्यनुयोगे सौत्रान्तिक आह -
SK
चित्तस्य कार्यत्वात् /
SK
चित्तस्य कार्यत्वादिति / यस्माच्चित्तस्य कार्यम्, तस्मात् सा गमिका
SK
सिद्धान्तवाद्याह -
SK
तस्य कार्यत्वं तु चित्तन्तरे ऽपि तुल्यमिति कथन्न ज्ञायते?
SK
तस्य कार्यत्वमित्यादि क्रिया चित्तस्य कार्यत्वाच्चित्तस्य गमिकेति चेत्? चित्तस्य तत्कार्यत्वं तु क्रियाप्रतिभासिज्ञाने ऽपि तुल्यत्वात्तेन क्रियाप्रतिभासेनापि कस्मात् परचित्तं न ज्ञायते
SK
सिद्धान्तवादी हेतूपसंहारव्याजेन परप्रतिभासिज्ञानमेव लिङ्गत्वेनाभ्युपगमयितुमाह -
SK
अपि च, यदि तत्क्रिया स्वसत्तामात्रेण स्वसन्तानं प्रत्यायेत्, तदानुपलभ्य मानेनापि स्यात्तथा प्रतिपत्तिः /
SK
अपि च, यदि तत्क्रियेत्यादि / किञ्चेयं क्रिया सत्तामात्रात् परचित्तमवबोधयेद् ओहोस्वित् ज्ञानात्? यदि तावद् सत्तामात्रादिति, तदा क्रियामनुपलभ्यमानेनापि प्राणिना परचित्त प्रतिपद्येत
SK
परमतमाशङ्क्याह -
SK
न; ज्ञानापेक्षत्वाल्लिङ्गस्येति चेत् /
SK
न; ज्ञानापेक्षत्वादित्यादि / न हि लिङ्गं सत्तामात्रात् गमकं भवति / किं तर्हि? ज्ञानात् / तस्मान्नायं दोषः
SK
सिद्धान्तवाद्याह -
SK
तदा तत्र किमनया परम्परया - परचित्तात् क्रिया, क्रियातः ज्ञानम्, ज्ञानात्तस्य प्रतिपत्तिरिति /
SK
तदा तत्रेत्यादि स्यान्मतम् - लिङ्ग ज्ञानमपेक्ष्य गमकमिति / हन्त, तर्हि न किञ्चित् प्रयोजनमनया परम्परया / तां परम्परां दर्शयन्नाह - परचित्तात् क्रियेत्यादि / परम्परा तु परचित्तात् क्रिया उत्पद्यते, क्रियातः ज्ञानम्, ज्ञानात्तस्य प्रतिपत्तिरिति
SK
कश्य पुनर्न्याय इति चेदाह -
SK
परचित्तप्रभवधर्मि क्रियाप्रतिभासिज्ञानमेवास्य गमकं भवति /
SK
परचित्तप्रभवधर्मीत्यादि / परचित्तप्रभवधर्मि क्रियाप्रतिभासिज्ञानमेव गमकमिति मन्वीत / परचित्तप्रभवधर्मो ऽस्यास्तीति विग्रहः
SK
क्रियेत्यपि युज्येत, क्रियाप्रतिभासिज्ञानमित्यपि युज्येत / कश्चात्र विशेषः? तस्माद् आह -
SK
तस्याधिगतिस्त्वन्तशस्तदाश्रितत्वात् /
SK
तस्याधिगतिस्त्वन्तश इत्यादि / यतो ह्यभ्युपगतायामपि क्रियायां परचित्तस्याधिगतिस्तु क्रियाप्रतिभासिज्ञानाधीनैव / तस्मात्तदेवास्तु / किमनया परिकल्पितया क्रियया
SK
एवं परं निगृह्य स्वमतमाख्यातुमाह -
SK
स्पन्दनमात्रसामान्यां क्रियाभिलापज्ञानसामान्यस्य कारणत्वात् कार्येण लारणस्य गतिः / स्पन्दनमात्रसामान्यं क्रियाभिलापज्ञानसामान्यस्येत्यादि / क्रियाभिलापज्ञानस्य सामान्यं क्रियाभिलापज्ञानसामान्यम् / तस्य कारणं त्वविशेषेण स्पन्दनमात्रमिष्टम् / तथा सति क्रियाप्रतिभासिज्ञानसामान्यं स्पन्दनमात्रसामान्यस्य गमकमिष्यते / अत एव उक्तम् - कार्येण करणस्य गति इति / ज्ञानसामान्येत्यत्र सामान्येति शब्देन विच्छिन्नाविच्छिन्नप्रतिभासकृतविशेषः निराकृतः / स्पन्दनमात्रेत्यत्र मात्रेति शब्देन रागादिकृतविशिष्टस्पन्दनं निराक्रियते
SK
एवं सामान्येन कार्यकारणभावं निर्दिश्य कार्यस्य भेदमुपदर्शयितुमाह -
SK
तत्र आत्मस्पन्दननिमित्तकस्यान्तर्मुखवृत्तिः, अन्यस्यान्यथा / प्रायेणाधिकृत्य असौ भेदः /
SK
तत्र आत्मस्पन्दननिमित्तकस्येत्यादि / आत्मस्पन्दनात्समुत्थितं यज्ज्ञानं तस्यान्तर्मुखप्रतिभासतया वृत्तिः, परस्पन्दनात्समुत्थितस्य तु बहिर्मुखप्रतिभासतया / मुखेति शब्दो ऽत्रालम्बने वर्तते / प्रायेणाधिकृत्येत्यनेन शरप्रक्षेपणादीनाअं परकृतचालनादीनां च प्रदर्शनम् / ४८ //
SK
तत्र स्यान्मतम् - भवतु जाग्रदवस्थायां कार्यकारणभावः, स्वप्नावस्थायां तु तत्कथमिति चेत्?
SK
आह -
SK
एतयोः सः कार्यकारणभावः स्वापाद्यवस्थायामितरस्यामपि च समानः / एतयोः सः कार्यकारणभाव इत्यादि / यश्चानन्तरोक्तः कार्यकारणभावः, सः स्वापजाग्रदवस्थयोश्च समानः / आदीत्यनेन कामशोकादिभिरुपहतावस्थानां परिग्रहः
SK
ननु स्वप्ने समुत्थापकस्पन्दनमेव नास्ति / तत्कथं कार्यकारणभावस्य समानतेति / तस्मादाह -
SK
भ्रान्त्यवस्थायां यथास्वं प्रत्ययविशेषोपाश्रयात् परस्पन्दनादिनिमित्तोद्भूतविज्ञानवासनैव कदाचित्पराभोगादेः व्यवहितादपि वृत्तिं लभते, न तु अत्यन्तासदाभोगात् /
SK
भ्रान्त्यवस्थायामित्यादि / भ्रान्त्यवस्थायामिति मिद्धेनोपहताद्यवस्थायाम् / यथास्वमित्यनेन स्वप्नस्य मिद्धविशेषः, नरकादेः कर्मविपाकावस्था च परोगृह्यते / प्रत्ययविशेषो मिद्धादिः / उपाश्रयणम् उपाश्रयः / प्रत्ययविशेषस्य उपाश्रयः प्रत्ययविशेषोपाश्रयः / प्रत्ययविशेषमुपाश्रयत इति यावत् / परचित्तेन संप्रयुक्तं स्पन्दनं परस्पन्दनम् / आदीत्यनेन मुखकान्तिरक्तिमादीनां जनकचित्तस्य परोइग्रहः परस्पन्दनादि च निमित्तं चेति समासः / निमित्तत्वमत्राधिपतिप्रत्ययत्वमिति द्रष्टव्यम् / यस्य क्रियादिप्रतिभासिविज्ञानस्य तदन्यस्मात् स्पन्दनादिनिमित्तादुद्भवितुं शीलमस्ति तत् परस्पन्दादिनिमित्तोद्भूतविज्ञानम् / तस्य वासना शक्तिः / पराभोगः परमनस्कारः आदीत्यनेन तत्कालभाविनां तदन्यप्रत्ययानां परिग्रहः / व्यवहितः कालविप्रकृष्टः / अपीति शब्दो ऽव्यवहिते देवाद्यधिष्ठानात् स्वप्नदर्शने ऽपि / तस्याः वृत्तिलाभः क्रियाप्रतिभासिविज्ञानजननयोग्यात्मतया समवधानम् / एवमुक्तं भवति - भ्रान्त्यवस्थायां प्रत्ययविशेषस्य उपाश्रयात् परस्पन्दनादिनिमित्तदुद्भूतविज्ञानवासना कदाचित् व्यवहिताद् पराभोगादपि वृत्तिं लभते / यस्यास्तु पराभोगो ऽत्यन्तासन्न तस्माद् वृत्तिं लभते
SK
एवं स्वप्नावस्थायामपि क्रियाप्रतिभासिज्ञानानां स्पन्दननिमित्तकत्वं साधयित्वा उपसंहर्तुम् आह -
SK
तस्मात् सर्वावस्थासु क्रियादिविज्ञप्तेः चित्तस्पन्दनमनुमीयत एव /
SK
तस्मात् सर्वावस्थास्वित्यादि यस्मादेवमव्यभिचारित्वं साधितम्, तस्मात् स्वापजाग्रदुभयोरप्यवस्थयोः क्रियाप्रतिभासात् चित्तस्पन्दनमनुमीयत एवेति स्थितम् / आदि इत्यनेन अभिलापरक्तिमादिविज्ञप्तीनां परिग्रहः
SK
एवं स्वमतं निर्दोषीकृत्य परमते दोषमुद्भावयितुमाह -
SK
क्रियातः स्पन्दनप्रतिपत्तौ स्वाप इतरस्मिञ्च स्यात् प्रतिपत्तिरथ वा नैव कदाचन /
SK
क्रियातः स्पन्दनप्रतिपत्तावित्यादि / यम्नते क्रियातः स्पन्दनस्य प्रतिपत्तिः, तन्मते स्व्प्नादावपि क्रियातः स्पन्दनस्य प्रतिपत्तिर्भवेत् / अथ स्वप्ने क्रियातः स्पन्दनस्य प्रतिपत्तिर्नेष्येत, तदा तत् जाग्रदवस्थायामपि युज्येत न कदाचिय्त् क्रियातः स्पन्दनस्य प्रतिपत्तिर्भवेदिति वाक्यशेषः
SK
कथमिति चेत्? तस्मादाह -
SK
परस्पन्दनाभावे ऽपि क्रियालम्बनोदयात् /
SK
परस्पन्दनाभावे ऽपीत्यादि / तथाहि, स्वप्ने परचित्तस्पन्दनाभावे ऽपि क्रियालम्बनम् उदेति / यस्याभावे ऽपि यदुत्पद्यते, न तत्तस्य गमकं युक्तं
SK
प्रतिविधातुकामो बाह्यार्थवाद्याह -
SK
भवत्वालम्बनोदयः, न तु क्रिया / क्रियया स्पन्दनं गम्येते / भ्रान्त्यवस्थायां क्रियैव न भवति / अर्थशून्यज्ञानोदयान्न दोषः /
SK
भवत्वालम्बनोदयरित्यादि / आलम्बनं तु स्पन्दनाभावे ऽप्युत्पद्यते, न तु क्रिया / अस्माकं मते क्रिया स्पन्दनस्य गमकम् / सा च भ्रान्त्यवस्थायां न भवति / कथं न भवति? आह - अर्थशून्यज्ञानोदयादिति / यस्मात् भ्रान्त्यवस्थायामर्थशून्यानि ज्ञानानि उत्पध्यन्ते, तस्मान्नैष दोष इति पूर्वपक्षाशङ्का
SK
सिद्धन्तवाद्याह -
SK
सर्वप्रकारव्यपदेशसाम्यात् कदाचिज्ज्ञानमर्थशून्यम्, अन्यदान्यथेत्येषो ऽधिकारः कुतो लब्धः? सर्वप्रकारव्यपदेशसाम्यादित्यादि / यस्य व्यपदेशस्य सन्ति सर्वे प्रकाराः स सर्वप्रकारव्यपदेशः / सर्वप्रकारव्यपदेशसाम्ये स्वप्नावस्थायां ज्ञानमर्थशून्यमुत्पद्यते, जाग्रदवस्थायां तु सार्थमित्येतत् ज्ञानम्, अधिकारो वा भवता कुतो लब्धः? एवमुक्तं भवति - जाग्रदवस्थावत् स्वप्नावस्थायामपि दृश्याकारादयः सर्वे सन्ति / तत्कथं तत्र ज्ञानमर्थशून्यमिति
SK
परमतमाशङ्कितुमाह -
SK
अथ मिद्धादिनावस्थान्यथाभावश्चेत् /
SK
अथ मिद्धादिनेत्यादि / यथास्यामवस्थायां मिद्धदिनार्थशून्यज्ञानानामुत्पत्तिर्भवति, तथा अन्यथाभाव इत् पूर्वपक्षाशङ्का
SK
सिद्धान्तवाद्याह -
SK
यद्येवं सम्भवेत्, भवतु अविद्योइपप्लुतत्वात्तथोदयः /
SK
यद्येवं सम्भवेदित्यादि / यदि भ्रान्तिवशादवस्थान्यथाभावादर्थशून्यं ज्ञानं जायत इति अभ्युपागम्येत, तदा महाभ्रमराज्ञ्या अविद्यायाः सद्भावात् तद्वशाच्च सर्वाणि ज्ञानान्यर्थशून्यानि जायन्त इति मन्येरन्
SK
तथा सति को गुणः? आह -
SK
तथा सत्यर्थान्तरवादहान्या एते ऽनेकाशक्यनिगूहनावताराः महाकृच्छ्रा उत्तरेणैकेन निहता भवन्ति / तथा सत्यर्थान्तरवादेत्यादि / अर्थान्तरं वदतीति अर्थान्तरवादः / अर्थान्तरवादस्यैव हान्या अर्थान्तरवादहान्या / अस्य क्षेमधर्मेभ्यश्च्युतत्वादयुक्तो भवति / यस्मार्थान्तरवादस्य अनेके अवताराः दोषाः परिहारलक्षणेनाशक्यनिगूहनाः सन्त्यमी अनेकाशक्यनिगूहनावताराः / महान्तः कृच्छ्राः सन्त्यस्येति महाकृच्छ्राः / उत्तेरेणैकेनेति एकस्मादुत्तरात् / निहताः निराकृताः / अशक्यनिगूहनावतारत्वं तु कृते एकस्य परिहारे ऽन्यान्यदोषोद्भवात् / एवमुक्तं भवति - यदाविद्योपप्लुतत्वात् सर्वेषां ज्ञानानामर्थशून्यत्वमभ्युपगम्यते, तदार्थान्तरवादस्य ये ऽनेकाशक्यनिगूहनावतारास्त उत्तरेणैकेन निराकृता भवन्ति
SK
एवं सन्तानान्तरसिद्धिं परिसमाप्यावशिष्टान् दुरुपालम्भान् परिहर्तुकामः परमतमाशङ्कितुम् आह -
SK
ननु तयोः दर्शनात् कायवाग्विज्ञप्तिभ्यां स्वमुत्थापकचित्तस्यानुमानमिति न्याय्यम् / न तु सन्तानान्तरसम्बद्धविज्ञाप्तिप्रतिभासिज्ञाने परविज्ञप्ती भवितुमर्हतः, तयोरनुपादानोपादेयत्वादिति चेत् /
SK
ननु तयोः दर्शनात्कायवाग्विज्ञप्तिभ्यामित्यादि / नन्वित्यनेनाक्षम्यतां दर्शयति / ननु कायवाग्विज्ञप्तिप्रतिभासाभ्यां तयोः समुत्थापकचित्तस्यानुमानमिति न्याय्यम् / तत्र स्यान्मतम् - एतदपि समानमिति / अत आह - सन्तानान्तरसम्बद्धेत्यादि / ये च श्रोतृसन्तानसम्बद्धविज्ञप्तिप्रतिभासिज्ञाने स्पन्दनस्य गमके इति भवद्भिरिष्टे, कथं ते वक्तुः विज्ञप्ती स्याताम्? अत्र सन्तानेति श्रोतुः सन्तानः / तमपेक्ष्य अन्तरेति शब्देन वक्तुः परिग्रहः / कस्मान्नार्हतः? इत्याह - तयोः अनुपादानोपादेयत्वादिति / अयमभिप्रायः - श्रोतृसन्तानप्रतिबद्धविज्ञप्तिप्रतिभासस्य न वक्तुः विवक्षया सहोपादानोपादेयभावः, भिन्नसन्तानपर्याप्पन्नत्वादिति पूर्वपक्षः
SK
तत्र सिद्धान्तवाद्याह -
SK
नोच्यते परचित्तसमित्थितविज्ञप्तिरूपत्वात् तत्र प्रतिभासिज्ञानेन समुत्थापकचित्तं गम्यत इति / किं तर्हि? तस्य कार्यत्वात् /
SK
नोच्यत इत्यादि / परचित्तेन समुत्थिता परचित्तसमित्थिता / परचित्तसमित्थिता च विज्ञप्तिश्चेति परचित्तसमुत्थितविज्ञप्तिः / सा यस्य प्रतिभासिनो ज्ञानस्य रूपं स्वभावो ऽस्ति तत्तथा / तस्य भावः तत्त्वम् / तस्मात् परचित्तसमुत्थितविज्ञप्तिरूपत्वात् / तत्र विज्ञप्तेः प्रतिभासो ऽस्यास्तीति प्रतिभासि / एवमुक्तं भवति - यस्मात् तत्र प्रतिभासि ज्ञानं परचित्तसमुत्थितविज्ञप्तिरूपम्, तस्मात् समुत्थापकचित्तं गम्यत इति वयमपि नाभ्युपगच्छामः / यदि नाभ्युपगम्यते, किं तर्हि अभ्युपगम्यत इति चेत्? आह - किं तर्हि? तस्य कार्यत्वाद् इति / यस्माद् विज्ञप्तिप्रतिभासिज्ञानं परचित्तस्य कार्यम्, तस्मात् परचित्तं गम्यते / अत्र परचित्तं वक्तुश्चित्तमभिप्रेतम्
SK
यदि श्रोतृसन्तानाज्जाते क्रियावागाकारके ज्ञाने विज्ञप्तित्वेन नेष्येते, का पुनरन्या विज्ञप्तिश्चेत् / तस्मादाह -
SK
विज्ञप्तिरिति समुत्थापकचित्तसन्तानाज्जाते क्रियावागाकारके ज्ञाने एव / विज्ञप्तिरित्यादि / समुत्थापकचित्तसन्तानाज्जाते ये क्रियावागाकारके ज्ञाने ते विज्ञप्तित्वेन व्यपदिश्येते / एवमुक्तं भवति - वक्तुरेव ये गमनाभिलापने क्रियावागाकारके ज्ञाने ते विज्ञप्तीति उच्येते
SK
समुत्थापकचित्तं स्वपरसन्तानगतयोः क्रियावागाकारकज्ञानेयोर्यथा कारणभावो भवति तद्दर्शयितुमाह -
SK
समुत्थापकचित्तं च तयोरेवोपादानकारणम्, सन्तानान्तरज्ञानयोस्तु अधिपतिप्रत्ययः / समुत्थापकचित्तम् च तयोरित्यादि / उपादानाकारणमसाधारणकारणे वर्तते / समुत्थापकचित्तं स्वसन्तानगतयोः क्रियावागाकारकयोरेवोपादानकारणम्, परसन्तानसम्बद्धयोस्त्वधिपतिप्रत्ययः / तच्चोपादानकारणं परतमपेक्ष्य उपन्यस्तम् / स्वमते तु उपादानकारणमालयविज्ञानमिष्यते, न तु विवक्षाचित्तम्
SK
एवं तावत् स्वसन्तानागतयोः क्रियावागाकारकयोर्विज्ञप्तिवं प्रतिपादितम् / सन्तानान्तरसंबद्धयोश्च साधयितुमाह -
SK
विज्ञप्तेरूपादानात्ते जनिते / तत्सम्बन्धेनोपचाराद् विज्ञप्ती भवतः / विज्ञप्तेरूपादानात्ते जनिते इत्यादि / विज्ञप्तेर्यदुपादानकारणं तेन ते सन्तानान्तरसम्बद्धक्रियावागाकारके ज्ञाने जनिते / तज्जनिसम्बन्धेन तेन हेतुना उपचाराद् विज्ञप्तीति व्यपदिश्येते
SK
स्यान्मतम् - स्वसमुत्थापकचित्तस्य विज्ञापनाद् विज्ञप्तिः / न हि श्रोता वक्तृसन्तानाज्जाते क्रियावाक्प्रतिभासिज्ञाने उपलभते / तथा हि, वक्ता श्रोता चोभावपि स्वस्वप्रतिभासमनु भवतः / तत्कथं ते ऽनालम्बने विज्ञप्तित्वेन स्वसमुत्थापकस्य गमके इति / तस्मादाह -
SK
भवतु स्वपरयोः स्वस्वप्रतिभासस्यानुभवः, तैमिरिकद्वयदृष्टद्विचन्द्रवत् / तथाविधविज्ञानस्य हेतुः वासनोत्पादस्वभावविशेषो ऽनादिकालिकैकार्थग्राहाध्यवसायित्वात्, एकहेतुसम्भूतयोः स्वपरविज्ञप्तिज्ञानयोः विज्ञप्तित्वेन उपचारः /
SK
भवतु स्वपरयोरित्यादि / स्वपरेति वक्ता श्रोता च / स्वस्य स्वस्य प्रतिभासस्य अनुभवः स्वस्वप्रतिभासस्यानुभवः / तैमिरिकद्वयेन प्रतिभासस्यानुभवः तैमिरिकद्वयदृष्टद्विचन्द्रम् / तेन तुल्यत्वात् तद्वत् / तथाविधविज्ञानमिति एकार्थग्राहाध्यवसायि विज्ञानं मतम् / तस्य हेतुः एकार्थग्राहाध्यवसायस्यानुभवितृ पूर्वविज्ञानम् / तज्जनिता वासना शक्तिरूपा / तस्या उत्पाद उत्पादव्ययलक्षणपरम्पराया उदयः / स्वरूप उत्पादस्वभावः / तस्य विशेष एकार्थग्राहाध्यवसायिविज्ञानोपजनने समर्थात्मनि स्थितिः /
SK
अनादिश्चासौ कालश्चेति अनादिकालः / तस्मादागतो ऽनादिकालिकः / अथ वानादिकाले भवो ऽनादिकालिकः / न आदिकालिकः अनादिकालिकः / एकश्चासौ अर्थश्चेति एकार्थः / गमनवागादिस्वपरविज्ञप्त्योः बुद्ध्या एकीकरणम् / एकार्थग्राहेति एकार्थग्राहिज्ञानम् / एकार्थग्राहाध्यवसायि इति अध्यवसायिज्ञानम् / तथा हि, वक्ता चैवं चिन्तयति - यन्मया कथितं तत् श्रोत्रा ज्ञातम् / श्रोताप्येवं चिन्तयति - यदनेन कथितं तन्मया प्रतीतम् / इत्येवं एकार्थग्राहाध्यवसायः /
SK
एकहेतुना समुत्थापकेन ये सम्भूते ते एकहेतुसम्भूते / स्वपरविज्ञप्तिज्ञानयोः वक्तृश्रोतृक्रियावागाकारकज्ञानयोः विज्ञप्तित्वेनोपचारः विज्ञप्तित्वेन व्यपदेशः / एवं वक्ता श्रोता च स्वस्वप्रतिभासमनुभवतः / तथापि तयोः य एकहेतुसम्भूते क्रियावागाकारकज्ञाने त एकार्थप्रतीतिनियमाद् विज्ञप्तित्वेन व्यपदिश्येते /
SK
एकार्थग्राहाध्यवसायस्तु तथाविधविज्ञानस्य हेतुर्वासनोत्पादस्वभावविशेषो ऽनादिकालिकत्वाद् / तैमिरिकद्वयदृष्टद्विचन्द्रवदिति दृष्टान्तः / एकः तैमिरिकः द्वितीयं तैमिरिकं ऽपश्यऽ इति ᳚अपरं चन्द्रंऽ दर्शयति / तेन च ऽदृश्यते᳚ इत्युच्यते / तत्र ऽमया अस्मैदर्शितःऽ इत्येवं दर्शकस्याभिमानो भवति / श्रोतापि ऽअनेन मह्यं दर्शितः इति चिन्तयति / तथापि तौ स्वस्वप्रतिभासं प्रतिवित्तः / तद्वदत्रापि एकार्थप्रतीतिनियमात् स्वपरविज्ञप्तिज्ञानयोर्विज्ञप्तित्वेनोपचारो भवति
SK
तृणावलम्बिन इव बाह्यार्थबादिनः प्राहुः -
SK
किञ्च क्रियादिप्रतिभासिविज्ञानात् कार्यलिङ्गाज्जातं यत्परचित्तज्ञानं तत्परचित्तं विषयीक्रियत आहोस्विन्न? विषयीकरणे ऽर्थान्तरं स्यात् / अविषयत्वे तु कथं ज्ञानेन परचित्तसत्ता प्रतीयते? तत्स्वरूपाज्ञाने तत्सिद्धेरसम्भवादिति चेत्?
SK
किञ्च क्रियादिप्रतिभासीत्यादि / क्रियादिप्रतिभासो ऽस्ति यस्य विज्ञानस्य तत् क्रियादिप्रतिभासिविज्ञानम् / तदेव कार्यलिङ्गम् / तस्माज्जातं क्रियादिप्रतिभासिविज्ञानात् कार्यलिङ्गाज्जातं यत् परचित्तस्य स्वरूपं विषयीकरोति आहोस्विन्नेति द्विधा परीक्षा / प्रथमविकल्पे दोषं दर्शयोतुमाह - विषयीकरण इत्यादि / यदि नाम विषयीकरोति, तदा तस्य विषयः पृथक् स्यात् / द्वितीयविकल्पमुपदर्शयन्नाह - अविषयत्वे त्वित्यादि / अथ न विषयीकरोति, तदा कथं परचित्तसत्ता ज्ञायते? कथं न ज्ञायते? आह - तत्स्वरूपाज्ञान इत्यादि / तत्स्वरूपज्ञानाधीनो हि भावोपचारः / स तु तदभावे न भवतीति पूर्वपक्षः
SK
सिद्धान्तवादिनः - एष प्रसङ्गो ऽपि समः / एष प्रसङ्गो ऽपि सम इति
SK
समतां दर्शयितुमाह -
SK
क्रियावाग्भ्यां परचित्तप्रतिपत्तिमतामपि तत्स्वरूपविषयीकरणे स्वचित्तज्ञानवत्तदाकारस्यापि ज्ञानं प्रसज्येत / तदज्ञाने तु तेन तत्स्वरूपस्य ग्रहणं कथम् /
SK
क्रियावाग्भ्यामित्यादि / किञ्च यदा बाह्यार्थावादिभिः क्रियावाग्भ्यां लिङ्गाभ्यां परचित्तं ज्ञायते, तदा तस्य परचित्तस्य स्वरूपं विषयीक्रियत आहोस्विन्न? यदि नाम विषयीक्रियते, तदा परचित्तस्याकारो ऽपि ज्ञायेत / अथ न विषयीक्रियते, तदा तेन ज्ञानेन प्रतिपत्त्रा वा कथं ज्ञायेत?
SK
बाह्यार्थावादिनां मतमाशङ्कितुमाह -
SK
अथ लिङ्गात् सामान्याधिगतेः नाकारस्य प्रतीतिरिति चेत्? अथ लिङ्गात् सामान्याधिगते इत्यादि / यस्माल्लिङ्गं सामान्येन व्याप्तम्, न तु विशेषेण / तस्मात्सामान्यमेव ज्ञायते, न विशेष इति पूर्वपक्षाशङ्का
SK
सिद्धान्तवाद्याह -
SK
किञ्च तत्सामान्यं परचित्तमेवान्यद्वा ऽहोस्विदवाच्यम् /
SK
किञ्च तत्सामान्यमित्यादि / किञ्च तत्सामान्यं परचित्तमेव वा, अन्यद्वा, आहोस्विदवाच्यमिति त्रिधा परीक्षा
SK
विकल्पद्वयं निराकर्तुमाह -
SK
अन्यत्वावाच्यत्वयोरेकत्वे त्वनेन तत्सामान्यमेव गृह्येत, न परचित्तम् /
SK
तत्कथमनेन तद् गम्यते /
SK
अन्यत्वावाच्ययोरेकत्व इत्यादि / अन्यत्वपक्षे सामान्यमेव गृह्येत, न परचित्तम् / तस्मात् कथमनेन ज्ञानेन तत् परचित्तं ज्ञायते? अवाच्यत्वपक्षे ऽपि एष एव नयः
SK
अभेदपक्षं निराकर्तुमाह -
SK
नापि सामान्यं परचित्तमेव / तथा सति तदाकारस्तापि ज्ञानं प्रसज्येत इत्युक्तम् /
SK
नापि सामान्यं परचित्तमेवेत्यादि / नापि सामान्यं परचित्तस्य स्वरूपम् / कस्मात्? आह - अथा सतीत्यादि / यदि परचित्तादनन्यस्य सामान्यस्य ग्रहणमभ्युपगम्यते, तदा परचित्ताकारस्यापि ज्ञानं प्रसज्येत इत्युक्तं प्राक्
SK
स्यादेतत् - तथास्तु, को दोषः? उच्यते -
SK
न ह्येषा अनुमानप्रक्रिया / न ह्येषा अनुमानप्रक्रियेति
SK
तदेव विवृणोति -
SK
न ह्यनुमानमर्थस्वरूपस्य ग्राहकम् / प्रत्यक्षवत् प्रतिभासासविशिष्टत्वादेः प्रसङ्गात् / न ह्यनुमानमर्थस्वरूपस्येत्यादि / न ह्यनुमानं स्वलक्षणस्य ग्राहकत्वेनेष्यते / प्रत्यक्षेति तु वैधर्म्यदृष्टान्तः / कथन्न स्वलक्षणस्य ग्राहकत्वेनेष्यते चेत्? आह - प्रतिभासाविशिष्टत्वादेः प्रसङ्गादिति / अनुमानस्यापि प्रत्यक्षवत् स्फुटाभता स्यात् / आदिरित्यनेन प्रत्यक्षोद्भूतधर्मिणो अतीतादिविषयस्य चाग्राहकत्वमपि प्रसज्येत
SK
स्यादेतत् - प्रतिभासाविशिष्टत्वाभ्युपगम्यत एवेति / आह -
SK
तेन नास्य प्रामाण्यम् /
SK
तेन नास्य प्रामाण्यमिति / प्रतिभासाविशिष्टत्वादावभ्युपगते सति अनुमानेनार्थस्वरूपस्य ग्रहणम् / तेन भवतु प्रामाण्यमिति चेत्? नैष न्यायः
SK
यदि प्रमाणस्य स्वलक्षणग्रहणनिबन्धनत्वं नेष्यते, तत्कथमस्य प्रमाण्यमिति चेदाह -
SK
तत्स्वरूपाग्रहे ऽप्यभिप्रेतार्थाविसंवादात् प्रामाण्यम् /
SK
तत्स्वरूपाग्रहे ऽपीत्यादि / न ह्यनुमानेन विषयस्वरूपस्य ग्रहणम्, अपितु अभिप्रेतार्थाविसंवादकत्वात् प्रामाण्यमिष्यते / क्वचित् ग्रन्थे ऽतेन नास्य प्रामाण्यम्ऽ इति पाठः / तत्र त्वेवं योजनीयम् - यदा प्रतिभासादयो ऽभिन्नाः, तदा प्रमाणमेव न तदिति / यदि अनुमानेन स्वलक्षणं गृह्येत, तर्हि प्रमाणमेव नेष्यते / कथम्? आह - तत्स्वरूपाग्रहे ऽपीत्यादि / स्वरूपस्याग्रहे ऽप्यभिप्रेतार्थाविसंवादित्वादस्य प्रामाण्यम्, न तु स्वलक्षणग्रहणादिति
SK
स्यादेवम् - स्वलक्षणस्याग्रहणे ऽप्यपरापरानुमानेन परचित्तमनुमीयते / कथं तद्ग्रहणं निवार्यते? अत आह -
SK
धूमादिलिङ्गाज्जातमपि न वह्न्यादिस्वरूपविषयि, दृष्टेनाविशेषप्रसङ्गात्, अनुमानस्यातीतादौ निःस्वभावतायां चाप्रवृत्तेः, अर्थक्रियाप्रसङ्गाच्च /
SK
धूमादिलिङ्गाज्जातमपीत्यादि / न हि धूमादिलिङ्गाज्जातमनुमानं वह्न्यादेः स्वरूपस्य ग्राहकत्वेनेष्यते / कथम्? आह - दृष्टेनाविशेषप्रसङ्गादिति / यद्यनुमानं स्वलक्षणविषयं गृह्णीयात्, तदा प्रत्यक्षेण तुल्यत्वं प्रसज्येत / नाप्यनुमानमतीतानागतविषयि, वस्तुनः निःस्वभावताविषयि च स्यात् / प्रत्यक्षप्रतिभासस्येवानुमानविकल्पप्रतिभासस्याप्यर्थक्रियाकारित्वं स्यात्
SK
स्यादेतत् - परचित्तानुमाने तस्याविसंवादित्वमेव नास्ति / अत आह -
SK
परचित्तानुमाने ऽप्यभिप्रेतार्थाविसंवादो ऽस्त्येव /
SK
परचित्तानुमाने ऽपीत्यादि
SK
अविसंवादित्वस्योपपत्तिं दर्शयन्नाह -
SK
तत्प्रवर्तनद्वारेण प्राण्यन्तरसत्तां प्रतिपद्य पुनः पुनर्व्यवहारप्रवृत्तौ तदाधिपत्यादागतार्थस्य प्राप्तेः /
SK
तत्प्रवर्तनद्वारेण प्राण्यन्तरमित्यादि / प्रवृत्तिव्यापारात् परचित्तस्यानुमानम् / तद्द्वारेण प्राण्यन्तरसत्तां प्रतिपद्य यदि पुनः पुनर्व्यवहारप्रवृत्तिमभिलाषव्यायामान्यत्रान्यत्रगमनादिकां कुर्यात्, तदा प्राण्यन्तरराधिपत्येनागतो ऽर्थस्संलापादिः प्राप्यते / अथ वा पुनः पुनर्व्यवहारप्रवृत्तिमभिलाषव्यायामदेशान्तरगमनादिकां कुर्यात्, तदा प्राण्यन्तराधिपत्येन अगतो ऽर्थः संलापात् / अथ वा पुनः पुनर्व्यहारे प्रवर्तनमिति संलापादनु गृहप्रवेशः, तदनु आसनदानम्, तदनु चान्नपानदानम्, तदनु च शय्यासनप्रज्ञपनम्, पादप्रक्षालनोदकदानम्, पादमर्दनमित्यादीनि
SK
किं पुनरुत्तरव्यहारसाधनाय प्रामाण्यमिष्यत इति चेत्? अत आह -
SK
तन्मात्रफलचिन्तकस्य लोकस्य प्राण्यन्तरानुमाने प्रवृत्तेश्च /
SK
तन्मात्रफलचिन्तकस्येत्यादि / तन्मात्रं फलमिति तन्मात्रफलम् / तदिति शब्दो ऽर्थक्रियायां वर्तते / मात्रेति शब्दः माने / यो लोकः तन्मात्रफलं चिन्तयति सः तन्मात्रफलचिन्तकः प्रवृत्तः / एवमुक्तं भवति - यो लौकिकप्राण्यन्तरसत्तामनुमिनोति, सः प्राण्यन्तरधिपत्यादागताम् अर्थक्रियां प्राप्नोति / चेति शब्देन तन्मात्रं लोकस्य प्रवृत्तिफलमित्यर्थो ऽवसीयते
SK
कथमेतत्? आह -
SK
उत्तरार्थविशेषप्रतिभासिज्ञानानुभवोदयमात्रेण पुरुषस्य निराकाङ्क्षत्वात् /
SK
उत्तरार्थविशेषप्रतिभासीत्यादि / उत्तारार्थविशेषो दाहपाकादिः / तथा प्रतिभासितुं शीलं यस्य ज्ञानस्य तत्तथा / तस्यानुभवः उत्तरार्थविशेषप्रतिभासिज्ञानानुभवः / तस्योदय एव उदयमात्रम् / निराकाङ्क्ष इत्याकाङ्क्षारहितः / तस्य भावः तत्त्वम् / तस्मात् निराकाङ्क्षत्वात् / एवमुक्तं भवति - यदा पुरुषस्य वह्न्युपलब्धेरनु दाहादिप्रतिभासिज्ञानानुभवोदयः, तदैवायं निराकाङ्क्षो भवति
SK
भवतु तन्मात्रेणैव पुरुषः निराकाङ्क्षः, किन्तु कथं तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यमिति चेत्? आह -
SK
पूर्वज्ञानेन व्यवहारसमाप्तेः कृतार्थत्वं प्रमाणत्वेन सिद्धत्वात् / पूर्वज्ञानेनेत्यादि / यस्माद् यथोक्तविधिना पूर्वज्ञानेन व्यवहारपरिसमाप्तिः, तस्माद् अर्थक्रियाकारित्वं प्रमाणत्वेन व्यवस्थाप्यते
SK
अत्र परो व्यभिचारं दर्शयन्नाह -
SK
ननु स्वप्ने ऽपि पूर्वज्ञानादुत्तरार्थप्रतिभासिज्ञानापुत्पद्यते / न तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यं युज्यते, तदानीं सर्वेषां ज्ञानानां भ्रान्तत्वात् /
SK
ननु स्वप्ने ऽपीत्यादि / स्वप्ने ऽपि पूर्वज्ञाननिमित्तकमुत्तरार्थक्रियाप्रतिभासिज्ञानम् उत्पद्यते / न तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यं युज्यते / कथं न युज्यते? आह - तदानीं सर्वेषां ज्ञानानामित्यादि / स्वप्ने सर्वाणि ज्ञानानि भ्रान्तान्येवेति पूर्वपक्षः
SK
सिद्धान्तवाद्याह -
SK
तत्र विज्ञप्तिज्ञानं न कदाचिच्चित्तस्पन्दनाधिपत्येन विना उद्भवतीत्यतः ताभ्यां ते अनुमीयेते / भ्रान्तिवशात् कदाचिद् व्यवहिते ऽप्युदेति, न तु तदाधिपत्यरहितत्वम् / विशेषस्त्वस्ति साक्षात्परम्परया चेत्युक्तम् /
SK
तत्र विज्ञप्तिज्ञानमित्यादि / क्रियावागाकारकं ज्ञानं स्पन्दनाधिपत्येन विना नोद्भवति / इत्यतः ताभ्यां ते अनुमीयेते / विशेषस्त्वस्येषः - ततो ऽपिओ उपप्लुतावस्थायां व्यवहिताधिपत्यात् परम्परया उदयः, जाग्रदवस्थायां तु अव्यहितत्वेन / सर्वमेतद् विवेचितं प्रागेव
SK
एवं विज्ञप्तिज्ञानानामुभयोरप्यवस्थयोः स्पन्दनायत्तत्वं साधयित्वा स्वप्नावस्थायां विज्ञप्तिज्ञानाद् उत्तरकालभाविज्ञानानि यथा स्पन्दनायत्तानि भवन्ति तथा प्रतिपादयितुमाह - तत्र यथा पूर्वविज्ञप्तिज्ञानानां परम्परया स्पन्दनाधिपत्यादुदयः तथा तदुत्तरावस्थाभाविनामपि /
SK
तत्र यथा पूर्वविज्ञप्तिज्ञानानामित्यादि / स्वप्नावस्थायां यथा पूर्वविज्ञप्तिज्ञानानां परम्परया स्पन्दनधीपत्यादुदयः, तथा तदुत्तरावस्थाभाविनामपि / तत्र परम्परा त्वेवम् - जाग्रदवस्थायां प्रथमं तावत् परस्पन्दनाधिपत्याद् विज्ञप्तिज्ञाने, ताभ्यां प्राण्यन्तरसत्ताया अनुमानम्, प्राण्यन्तरसत्तानुमानात् प्रवेशज्ञानम्, तदनु अभिवादननमस्कारज्ञाने, ताभ्यामप्यनु संलापासनदानादिज्ञानम्, तथा च पठनपाठनस्वाध्यायादिज्ञानानि, ततस्तावत् कालक्रमेण शयनज्ञानम्, ततः निद्रामुपैति / निद्रापूर्वभावनावशाच्च पुनर्विज्ञप्तिज्ञानयोरुदयः / ततः पुनः प्राण्यन्तरसत्ताया अनुमानम् / ततश्च पुनः प्रवेशसंलापादिज्ञानानामुदयः
SK
प्रवेशादिज्ञानानां पारम्पर्येणोत्पत्तिः / तामेव दर्शयन्नाह -
SK
विज्ञप्तिज्ञानाश्रयस्पन्दनोत्तरावस्थाचित्तसन्तानादेव परम्परयोत्पादः /
SK
विज्ञप्तिज्ञानाश्रयेत्यादि / जाग्रदवस्थायां विज्ञप्तिज्ञानस्याश्रयो यत्परसन्तानवर्तिस्पन्दनं तस्य उत्तरावस्था, या प्रमात्रनुमानस्योत्तरवर्तिसंलापादिव्यवहाराकारज्ञानजननसमर्था / तद्भावीनि यानि चित्तानि विज्ञप्तिज्ञानाश्रयस्पन्दनोत्तरावस्थाचित्तसन्तानः, तस्माद् यथोक्तप्रकारेण स्वप्नावस्थायां प्रवेशादिज्ञानानां परम्परयोत्पादः
SK
स्यान्मतम् - भवतु परम्परयोत्पादः, व्यभिचारस्तु तदवस्थ एव / अत एवाह -
SK
तत्रापि यादृगनुमानं तादृगविसंवादो व्यवहारश्चाप्यस्त्येवेति केनापि न गृह्येते /
SK
तत्रा यादृगनुमानमित्यादि / स्वप्नावस्थायामपि यादृक् यावत्कालं परचित्तस्य अनुमानं तादृक् तावत्कालमात्रं संलापादिरूपो ऽविसंवादो ऽस्त्येव / अन्यो ऽन्यसंबद्धो व्यवहारश्चापि तावत्कालम्रात्रमस्त्येव / इत्यतः न कश्चिद् व्यभिचारदोषः / अन्यैश्चास्यैवान्यथा व्याख्या क्रियते / त एवं व्याचक्षते - तत्र स्वप्नावस्थायामपि कार्यलिङ्गस्य कारणे ऽव्यभिचाराद् यादृक् उत्पत्तिधर्मतया परम्परया पूर्वज्ञानस्यानुमानम्, तादृक् अप्रबुद्धचित्तस्याप्यर्थक्रियाप्रतिभासोदयलक्षणो ऽविसंवादो ऽस्त्येव / कालविप्रकृष्टाकारानुमानस्याविसंवादलक्षणसद्भावादेव व्यवहारश्चापि / इत्यतः केनापि न गृह्यत इति
SK
तथा पराभूतो ऽपि बाह्यार्थवादी धृतिमत्यजन् पुनराचष्टे -
SK
परचित्तानुमानेन तत्स्वरूपाग्रहे ऽप्यविसंवादाद् भवतु तथा प्रामाण्यम् /
SK
साक्षात् परचित्तविदां तु कथम्? यदि तावत् परचित्तस्य स्वरूपं साक्षात् जानन्ति, तदा तस्यार्थान्तरग्रहणं स्यात् / अथ न जानन्ति, कथं ते साक्षाद्विदः?
SK
परचित्तानुमानेनेत्यादि / परचित्तानुमानेन तत्स्वरूपाग्रहे ऽप्यविसंवादाद् भवतु तस्य प्रामाण्यम्, ये तु साक्षात् परचित्तविदः तेषां तु कथम्? यदि तावत् परचित्तस्य स्वरूपं साक्षाज्जानन्ति, तदास्य प्रत्यक्षस्य ग्राह्यमर्थान्तरं स्यात् / अथ न जानन्ति, तदा कथं ते योगिनः साक्षाद्विद इति मतम्
SK
हेतुमुपसंहरन्नाह -
SK
कथं नाम प्रत्यक्षेणार्थस्वरूपस्याग्रहणं च भवति / अथ न गृह्यते, कथं तर्हि प्रमणमिति चेत्?
SK
कथं नाम प्रत्यक्षेणेत्यादि / प्रत्यक्षमर्थस्वरूपस्य ग्राहकमितीष्यते / यदि अर्थस्वरूपं न गृह्यते, कीदृक् तत्प्रत्यक्षम्? अर्थस्वरूपाग्रहणे प्रमाणत्वं निराकर्तुमाह - अथ न गृह्यते कथं तर्हि प्रमाणमिति / स्वरूपग्रहणनिबन्धनं ह्यस्य प्रमाणत्वम् / इति पूर्वपक्षाशङ्का
SK
सिद्धान्तवादिनः -
SK
अप्रहीणग्राह्यग्राहकविकल्पयोगिनां परचित्तज्ञानमपि व्यवहारे ऽविसंवादादेव प्रमाणम्, रूपादिदर्शनवत्; आश्रयापरावृत्तेः /
SK
अप्रहीणग्राह्यग्राहकविकल्पयोगिनामित्यादि / अप्रहीणः ग्राह्यग्राहकविकल्पो येषां योगिनां तेषां तथा / तेषां यत् परचित्तज्ञानं तद् व्यवहारे ऽविसंवादादेव प्रमाणम्, अस्मदादिसम्बद्धरूपादिदर्शनवत् / न तु स्वरूपग्रहणात् / अप्रहीणग्राह्यग्राहकविकल्पस्य हेतुम् आह - आश्रयापरावृत्तेरिति / तथा हि, तेषामालयविज्ञानलक्षणमपरावृत्तम् / तस्य परावृत्तिः ग्राह्यग्राहकविकल्पवासनायाः प्रहाणम्
SK
यदि परचित्तज्ञानं न स्वरूपस्य ग्राहकम्, कथं तर्हि तत् स्फुटाकारकं भवतीति चेत्? आह -
SK
योगबलाद्धि तेषां ज्ञानं परचित्तकारविशेषानुकारि स्फुटाभमुपजायते, कर्मदेवाद्यधिष्ठानबलात् सत्यस्वप्नदर्शनवत् / योगबलाद्धीत्यादि / भावनाबलाद्धि योगिनां परचित्तज्ञानं परचित्ताकारविशेषानुकारि स्फुटमुपजायते, यथा कर्मबलाद् देवाद्यधिष्ठानबलाच्च सत्यस्वप्नदर्शिनां ज्ञानं स्फुटमर्थाकारमुदेति
SK
यद्येवं चिन्त्येत - भवतु भावनाबलादेव योगिनां परचित्तज्ञानम्, तेन चित्तस्वरूपस्याग्रहणं तु कथमिति / आह -
SK
तेषामपि न परचित्ताविषयित्वेन ज्ञानमुदेति / ते ऽपि तदाकारसदृशस्वचित्तप्रतिभासमेव जानन्तीत्येवमवधारणाद् परचित्तविद इति व्यवहारः / तेषामपि न परचित्तविषयित्वेनेत्यादि / तत् भावनाबलाज्जातमपि परचित्तस्य स्वरूपं विषयीकर्तुं न समर्थम् / तथाविधानां योगिनां ग्राह्यग्राहकविक्ल्पस्याप्रहीणत्वात् / यदि योगिनः परचित्तस्य स्वरूपं न जानन्ति, कथं परचित्तविद इत्यवधार्यते चेत्? आह - ते ऽपि स्वचित्तप्रतिभासम् इत्यादि / योगिनो ऽपि परचित्ताकारसदृशेन स्वचित्तप्रतिभासेनैव परचित्तं जानन्ति [इति परचित्तविदः] इत्येवमवधारणं कृत्वा व्यवहारः प्रवर्तते
SK
यदि तत् स्वरूपं न गृह्णाति, कथं तर्हि प्रत्यक्षम्? कथं च प्रामाण्यमिति चेदाह -
SK
तदाकारानुकारिस्फुटाभत्वात् तत्प्रत्यक्षम्, अविसंवाअदित्वाच्च प्रामाणमिति मतम् / तदाकारानुकारिस्फुटाभत्वात् तत्प्रत्यक्षमित्यादि / यस्मात् परचित्तस्याकारं स्फुटमनुकरोति, तस्मात् प्रत्यक्षमिति मतम् / यस्माच्चाविसंवादि तस्मात् प्रमाणम्
SK
प्रहीणग्राह्यग्राहकविकल्पानां तथागतानां यत् परचित्तज्ञानम्, तत् परचित्तस्य स्वरूपं विषयीकरोति, आहोस्विन्न / यदि करोति, तस्यार्थो ऽर्थान्तरं स्यात् / अथ न करोति, तदा भगवतः ज्ञानमप्ययथार्थ स्यादिति चेत्? आह -
SK
अचिन्त्यो हि भगवतः सर्वार्थाधिगमः, सर्वथा ज्ञानभिधानविषयातीतत्वात् / अचिन्त्यो हि भगवतः सर्वार्थाधिगम इत्यादि / अचिन्त्यो हि योगिवर्याणां तथा गतानां बुद्धगोचरः / तेषां तु न केवलं परचित्तज्ञानमचिन्त्यम्, अपि त्वविशेषेण सर्वार्थसर्वाकारज्ञानमपि अचिन्त्यम् / कस्मात्? आह - तदवस्थायाः सर्वथा ज्ञानभिधानविषयातीतत्वादिति /
SK
तथागतः ज्ञानादन्यज्ञानेनावधारयितुमशक्यत्वात् ज्ञानविषयातीतः / तस्माद् स्वरूपस्य यथावदनधिगमादेव अभिधानविषयातीतः /
SK
तथागतानां पुनः द्विविधं सर्वार्थज्ञानम् / आदर्शज्ञानेन सर्वधर्मस्वभावतथताज्ञानम्, प्रत्यवेक्षणज्ञानेन च सर्ववस्तुज्ञानम् / तत्र आदर्शज्ञानं ग्राह्यग्राहकविकल्पेनासम्प्रयुक्तं भवति / सर्वधर्मस्वभावतथतायाः वेदनात् सर्वार्थज्ञानम्, लोकोत्तरज्ञानस्वभावत्वात् / प्रत्यवेक्षणज्ञानं लोकोत्तरज्ञानपृष्ठलब्धग्राह्यग्राहकविकल्पसंप्रयुक्तात् सर्वसूक्ष्मावृतव्यवहितवस्तूनां सर्वाकारं जानातीत्यतः लौकिकसर्वाकारज्ञानम्, लोकोत्तरज्ञानपृष्ठलब्धलौकिकज्ञानस्वभावत्वात् / तस्मात् प्रत्यवेक्षणज्ञानं सर्वार्थज्ञाननयेन न विरुध्यते / नापि वितथम्, तस्य ग्राह्यग्राहकविकल्पसद्भावाभ्युपगमात्, तस्य चावितथत्वेन दर्शनात् /
SK
समताज्ञानमादर्शज्ञानमालम्बते,प्रतीत्यसमुत्पन्नवस्तुमात्रविषयित्वात् / कृत्यानुष्ठानज्ञानं तु स्वसामान्यलक्षणविषयि / एवं सति चतुर्ज्ञानस्वभावः तथागतः / तत्र आदर्शज्ञानं लोकोत्तरम् / तत्पृष्ठलब्धान्यन्यानि च लौकिकानि / तदेवं भगवतः सर्वार्थज्ञानम् एतेषु चतुर्षु यथायोगं योजनीयम्
SK
सन्तानान्तरसिद्धेर्हि व्याख्यानाद् पदविग्रहैः / कुशलं यन्मयावाप्तं सिद्धिं तेनाप्नुयाज्जनः //
SK
सन्तानान्तरसंसिद्धेर्वाङ्मात्रविवृतिः कृता / टीका विनीतदेवेन संबुद्धत्वाभिलाषिणा //
SK
आचार्यविनीतदेवकृता सन्तानान्तरसिद्धिटीका समाप्ता //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vinītadeva: Saṃtānāntarasiddhiṭīkā (sa_vinItadeva-saMtAnAntarasiddhiTIkA.htm).

Source