Commentary on the Attainment of Success in Lineage Saṃtānāntarasiddhiṭīkā
Sअंतानान्तरसिद्धिटीका
1 SK Vइनीतदेवकृता Sअन्तानान्तरसिद्धिटीका [मूलसहिता]
2 SK बुद्धिपूर्वां क्रियां दृष्ट्वा स्वदेहे ऽन्यत्र तद्ग्रहात् / ज्ञायते यदि धीश्चित्तमात्रे ऽप्येष नयः समः //
3 SK चित्तमात्रमिदं सर्वमुक्तवान् यो जगद्गुरुः / सन्तानान्तरसिद्धस्तं प्रणिपत्य विविच्यते //
4 SK बुद्धिपूर्वां क्रियाम् इत्यादिश्लोकेनास्य प्रकरणस्याभिधेयसम्बन्धप्रयोजनानि दर्शितानि / तत्र सन्तानान्तरसत्ताभिधेयम् / सन्तानान्तरसत्तायाः सिद्धिः प्रयोजनम् / तस्य प्रयोजनस्यापि प्रकरणेनानेन साध्यमानत्वात्तेन सहास्योपायोपेयलक्षणसम्बन्धः / कार्यकारणादिसम्बन्धानामस्मिन्नेवान्तर्भावान्न पृथग्वचनम् / बाह्यार्थवादिनः किल विज्ञानमात्रतायां सन्तानान्तरसत्ता नोपपद्यत इति चोदयन्ति / तथाहि, त एवमाहुः - येषां चित्तमात्रमेव सत्, असंश्च बाह्यार्थः, न तेषां प्राण्यन्तरप्रतिपत्तये प्रत्यक्षप्रमाणमस्ति; ज्ञानमात्रस्य स्वांशमात्रालम्बनत्वात्, वस्तुतस्तु आलम्बनाभावात् / नाप्यनुमानम्, कायवाक्कर्माभावात् / अथ कायवाग्विज्ञप्तिभ्यां प्राण्यन्तरमनुमीयते चेत्; विज्ञानमात्रतापक्षे कायवाक्कर्मणोर्विज्ञप्ती न स्तः /
5 SK नाप्यागमः सम्भवति, तस्य रूपस्कन्धान्तर्भावात्, एतस्य च प्रतिक्षेपात् / तथाहि, आगमः शब्दात्मको वा भवेद् व्यञ्जनस्वभावो वा / उभयमप्येतद् भवत्पक्षे नास्ति / नापि तद्विषये रूपिण आगमस्य प्रामाण्यमिष्यते / यतो ह्ययं विषयः प्रमाणद्वयविषयातीतो मतः / तथा सति, आगमादपि प्राण्यन्तरं प्रतिपत्तुं न शक्यत इति चेत्?
6 SK तथा विप्रतिपन्ना बाह्यार्थावादिन एवं वक्तव्याः / वयमपि प्रत्यक्षतः प्राण्यन्तरं नैव प्रतिपद्यामहे / न हि प्रत्यक्षादर्वाग्दर्शिनः प्राण्यन्तरमवगच्छन्ति / नाप्यागमो व्यञ्जनस्वभावः / किन्तु प्रणेतृवशाद् यो वाक्यपदव्यञ्जनविशेषप्रतिभासिज्ञानोत्पादः सः / स तु प्रतिपत्तृसन्ताने सन्नप्युपचारतस्तथागतस्य वा कपिलस्य वा कणादस्य वा कर्तुर्वचनमिति व्यपदिश्यते / एवं सर्वे ऽपि बौद्धा वाचकं शब्दसामान्याकारं ज्ञानं मन्यन्ते; न चास्ति शब्दविशेषः, ऽतस्य पूर्वमदृष्टत्वाद्ऽ इत्यादिहेतुभिः विशेषाकारस्य वाचकत्वभावप्रतिषेधात् / वयमपि नागमतः प्राण्यन्तरप्रतिपत्तिमभ्युपगच्छामः, अपि त्वनुमानात् / तच्चानुमानं कायवाक्कर्मणोरभावे ऽपि यथा प्रवर्तते यद्दर्शयितुमाह - बुद्धिपूर्वामित्यादि / एष तावत् समुदायार्थः /
1 SK अवयवार्थस्तूच्यते / बुद्धिः ज्ञानम् / सा चात्र गमनागमनसंलापेच्छारूपा परिगृह्यते, क्रियाहेतुत्वात् तस्याः / सास्ति पूर्वं यस्याः क्रियायाः सा बुद्धिपूर्वा / पूर्वेति शब्देनात्र कारणस्य निर्देशः, कारणस्य पूर्ववर्तित्वात् / यदि नाम बाह्यार्थवादिभिः स्वसन्ताने तां बुद्धिपूर्वां क्रियां प्रत्यक्षानुमानाभ्यामुपलभ्य पश्चात्परसन्ताने ग्रहाद् विवक्षितरूपा धीः विज्ञानं गम्यते, तदा चित्तमात्रे ऽप्येष नयः समः / अत्र क्रियेत्युपलक्षणम् / मुखकान्तिरक्तिमादीनामपि चित्तान्तरस्य गमकत्वात् / यदीति वचनेन वक्ष्यमाणबिधिना परपक्षे ऽनुमानाभावं दर्शयति
8 SK अनुमानमभ्युपगम्य तुल्यतां ख्यापयन्नाह -
2 SK आत्मनि चित्तस्पन्दनपूर्वौ क्रियाभिलापौ दृष्ट्वान्यत्र तयोर्दर्शनाद् यदि स्पन्दनमनुमीयेत, चित्तमात्रे ऽप्येष नयः समः / अतश्चित्तमात्रतावादी अपि परचित्तमनुमातुं शक्नोति / आत्मनीत्यादि / चित्तस्य स्पन्दनं चित्तस्पन्दनम् / अत्र स्पन्दनेति शब्दश्चिकीर्षायां वर्तते / क्रियाभिलापौ तु कायवाग्विज्ञप्त्योः / तेनायमर्थो भवति - आत्मनि जिगमिषाविवक्षापूर्वयोः क्रियाभिलापयोर्दर्शनात् परसन्ताने ऽपि तौ क्रियाभिलापौ चोपलभ्य चित्तस्पन्दनमनुमीयत इति चेत्? चित्तमात्रतावादे ऽप्येष नयः समः / तथा सति, सो ऽपि परचित्तमनुमीयात् / अत्र स्पन्दनेत्यविशेषेणोक्तम्, तथापि पूर्वं चित्तस्पन्दनमिति प्रकृतेनाभिसम्बन्धनीयम् / तस्मात् सामान्यशब्दा अपि प्रकरणसामर्थ्याद् विशेषेष्ववतिष्ठन्ते
10 SK ननु बाह्यार्थवादे तु परचित्तनिमित्तके कायवाक्कर्मणी लिङ्गत्वेन स्वीक्रियेते, अन्तर्ज्ञेयवादे तयोरभावात् कथं साम्यमिति चेत्? एवमाह -
3 SK तच्च कायवाग्विज्ञप्तिप्रतिभासि ज्ञानं ज्ञानान्तरस्पन्दनविशेषेण विना भवतीत्येवं न मतम् / तच्चेत्यादि / अन्तर्ज्ञेयवादिनापि कायवाग्विज्ञाप्तिप्रतिभासि कायवाग्विज्ञप्तकारकं ज्ञानं परचित्तस्य स्पन्दनविशेषेण विना भवतीति न मन्यते / स्वज्ञानादन्यद् यज्ज्ञानं तत् ज्ञानान्तरम् / तत्सम्प्रयुक्तं स्पन्दनं ज्ञानान्तरस्पन्दनम्, तस्य विशेषस्तेन / विशेषेति वचनेन चिकीर्षा, विवक्षा च परिगृह्येते
12 SK बाह्यार्थवादिमतमाशङ्क्यते -
4 SK अथ परज्ञानस्य क्रियाया अनुपलम्भात् परधीरनुमातुं न युज्यत इति चेत्? न; तुल्यत्वात् / अथ परज्ञानस्य क्रियायेत्यादि / न भवता कदापि परज्ञानपूर्वके क्रियावागाकारके ज्ञाने उपलभ्येते / भवता तत्कथमनुमीयेत इति पूर्वपाक्षाशङ्का / अन्तर्ज्ञेयवाद्याह - न; तुल्यत्वादिति / नैष दोषः / यतो हि, एष उपालम्भो भवतामपि तुल्यः
14 SK तत्तुल्यत्वं दर्शयति -
5 SK परो ऽपि परज्ञानपूर्वौ तौ कदापि न पश्यति / अतः तेनापि तन्न ज्ञायते / परो ऽपीत्यादि / बाह्यार्थवाद्यपि परचित्तस्पन्दनपूर्वकौ तौ क्रियाभिलापौ न कदापि पश्यति / तस्मात् तेनापि परचित्तं न प्रतिपद्यते / अत्यन्तासम्बद्धो ह्येष उपालम्भः / न हि समर्थनाय प्रसिद्धसम्बन्धो ऽन्वेक्षणीयः, अपि तु दोषसाम्यादेव परो निगृहीतः / तस्मान्न दोषान्तरमुच्यते
16 SK अत्रास्ति परचित्तानुमानोपाय इति बाह्यार्थवादिमतमाशङ्कयाह -
6 SK आत्मनश्चित्तस्य परवर्तिनोर्निमित्तत्वानुपपत्तेः परचित्तं ज्ञायत इत् चेत्? किं न युज्यते? आत्मनश्चित्तस्य परवर्तिनोरित्यादि / यस्मादात्मनश्चित्तं सन्तानान्तरवर्तिनोः क्रियाभिलापयोः कारणत्वेन न युज्यते, तस्मात्परचित्तमनुमीयत इति पूर्वपक्षाशङ्का / सिद्धन्तबाद्याह - किं न युज्यत इत् / कथमात्मनश्चित्तं परवर्तिनोर्निमित्तित्वेन नोपपद्यते? उच्यताम्
18 SK परो ऽयुक्तत्वं दर्शयितुमाह -
7 SK स्वसमुत्थापकचित्तस्य प्रतिसंवेदनाभावात् / स्वसमुत्थापकचित्तस्य प्रतिसंवेदनाभावादिति / परसन्तानबर्तिनौ क्रियाभिलापौ आत्मचित्तनिमित्तकौ वा स्याताम्, परचित्तनिमित्तकौ वेति द्विधा परीक्षा / न तावदात्मचित्तमिनित्तकौ, यस्मान्न स्वसन्ताने तयोर्समुत्थापकचोइत्तस्य संवेदनं भवति
8 SK आत्मचित्तश्रयिणोश्चात्मनि दर्शनात् / आत्मचित्तश्रयिणोश्चेत्यादि / अहं गच्छामि, अहं वदामीति ये स्वचित्तनिमित्तके कारवाक्कर्मणी ते स्वसन्ताने उपलभ्येते / आत्मनश्चित्तमाश्रयत इति विग्रहः / अत्र आश्रयीति शब्दो निमित्तके
22 SK भवत्वात्मचित्तनिमित्तकयोः स्वसन्ताने दर्शनम् / तेन किम्? तस्मादाह -
9 SK तावपि यदि यथा स्यातां तादृशावुपलभ्येयाताम् / तावपीत्यादि / परवर्तिक्रियाभिलापावपि यद्यात्मचित्तश्रयिणौ स्याताम्, तदा तावपि आत्मनि दृश्येयाताम्
24 SK अथ तौ कथं दृश्येते? आह -
10 SK अन्यथा दर्शनादन्यन्निमित्तं सिध्यतीति चेत्? अन्यथेत्यादि / अयं गच्छति, अयं वदतीत्येवं विच्छिन्नदेशे दृश्येते / स्वचित्तनिमित्तकत्वाभावे सति सामार्थ्याच्चित्तान्तरं सिध्यतीति पूर्वपक्षाशङ्का
11 SK अपरस्मिन्नपि समानमेव, स्वसमुत्थापकचित्तस्य संवेदनाभावात् / अपरस्मिन्नपीत्यादि / अन्तर्ज्ञेयवादे ऽपि स्वसन्ताने विच्छिन्नदेशप्रतिभासिनोः क्रियाभिलापप्रतिभासिज्ञानयोः समुत्थापकचित्तस्य प्रतिसंवेदनं न भवति
28 SK हेतोरुपसंहारो ऽपि तुक्य इति दर्शयन्नाह -
12 SK स्वचित्तस्पन्दननिमित्तके विज्ञाप्तिप्रतिभासिनी ज्ञाने चान्तर्मुखप्रतिभासिनी प्रतीतेः बहिर्मुखप्रतिभासिनी अन्यनिमित्तादित्पद्येते / स्वचित्तस्पन्दननिमित्तके विज्ञाप्तिप्रतिभासिनी ज्ञाने चेत्यादि / ये स्वचित्तस्पन्दननिमित्तके क्रियावाक्प्रतिभासिनी ज्ञाने ते चान्तर्मुखप्रतिभासिनी ऽअहं गच्छमि, अहं वदामिऽ इत्यात्मसम्बद्धविज्ञप्तिप्रतिभासिनी प्रतीयेते / परसन्तानवर्तिनी तु ऽअयं गच्छमि, अयं वदतिऽ इति बहिर्मुखप्रतिभासिनी प्रतीयेते / तस्मादन्यनिमित्तदुत्पद्येत इति सिद्धम् / स्वचित्तस्य स्पन्दनं स्वचित्तस्पन्दनम्, तन्निमित्तं यस्येति विग्रहः
30 SK बाह्यार्थवादी बहिर्मुखज्ञानयोः स्पन्दनकारणत्वे सन्दिहति -
31 SK अनिमित्ते एव बहिर्मुखप्रतिभासिनीति किन्नेष्येते चेत्?
13 SK अनिमित्ते एव बहिर्मुखप्रतिभासिनीत्यादि / ये बहिर्मुखप्रतिभासिनी ज्ञाने ते ऽनिमित्ते इति किन्नेष्येते? न स्पन्दननिमित्तले इति वाक्यशेषः / बहिर्मुखेतिशब्दो विच्छिन्नालम्बने / बहिर्मुखं प्रतिभासितुं शीलं ययोस्ते बहिर्मुखप्रतिभासिनी / नास्ति निमित्तमनयोरिति अनिमित्ते / भवतु किल निमित्तामात्रस्य प्रतिषेधः तथापि प्रकरणवशात् स्पन्दनमात्रस्य प्रतिषेधो द्रष्टव्यः
14 SK अनिमित्तत्वे सर्वस्यानिमित्तत्वं प्रसज्येत / अनिमित्तत्व इत्यादि / यदि विच्छिन्नप्रतिभासिनी क्रियावागाकारके ज्ञाने स्पन्दनाभावे ऽपि विना किंचन क्रियावागाकारं भवेत्, तदा सर्वाण्यपि क्रियावागाकारकाणि ज्ञानानि स्पन्दनेन विना भवेयुः; विशेषाभावादित्यभिप्रायः
35 SK तत्र यद्येवं विचिन्त्येत -
15 SK विच्छिन्नाविच्छिन्नकृतो भेदस्त्वस्त्येव / तेन विच्छिन्नप्रतिभासिनोः अनिमित्तत्वम्, इतरयोस्तु सनिमित्तत्वमिति / अत आह - विच्छिन्नाविच्छिन्नप्रतिभासकृतो भेदो न ज्ञानयोः स्पन्दनत्वनिमित्तभेदविभागकृत् / विच्छिन्नविच्छिन्नप्रतिभासेत्यादि / विच्छिन्नः प्रतिभासो विच्छिन्नप्रतिभासः / तेन कृतो भेदो विशेषलक्षणः / स तु यतो न ज्ञानयोः स्पन्दनत्वनिमित्तस्य भेदकः; बहिर्मुखप्रतिभासिनी स्पन्दननिमित्तके न भवतः, इतरे तु स्पन्दननिमित्तके इति / विभागस्त्वत्र विभज्य स्थापनं निक्षेपो वा
37 SK अथ निमित्तत्वभेदाभावे को दोषः स्यात्? आह -
16 SK तेनाविच्छिन्नप्रतिभासिनोरप्यनिमित्तत्वं भवेत्, विशेषाभावात् / तेनाविच्छिन्नेत्यादि / यतो ह्यत्र भिन्नभूतयोः ज्ञानयोः क्रियावाक्प्रतिभासत्वे न कश्चिद् विशेषो ऽस्ति / तस्माद् विशेषाभावादुभयमपि स्पन्दनत्वनिमित्तकं न भवेत्, अथ वोभयमपि स्पन्दननिमित्तकम्
39 SK तदेवं ज्ञानद्वयस्य साम्यं साधयित्वोपसंहरन्नाह -
40 SK तथा सति, अविच्छिन्नत्वविशिष्टः प्रतिभासभेद एव स्पन्दनपूर्वको न भवति / किन्तर्हि? विच्छिन्नस्यापि क्रियाविशेषस्य प्रतिभास एव /
17 SK तथा सति, अविच्छिन्नत्वविशिष्टः प्रतिभासभेद इत्यादि / यस्मादेवं ज्ञानद्वयस्य साम्यम्, तस्माद् यो ऽविच्छिन्नत्वविशिष्टः क्रियावाक्प्रतिभासः स केवलं स्पन्दननिमित्तको न भवति / किन्तर्हि? विच्छिन्नप्रतिभासस्यापि क्रियाविशेषस्य प्रतिभासमात्रं स्पन्दननिमित्तकम् / विच्छिन्नो विशेषो ऽस्यास्तीति पद्विग्रहः / क्रियाविशेषेत्यनेन क्रियाभिलापौ दर्शयति / एवेति शब्दो मात्रार्थे द्रष्टव्यः / तेनात्रायं समुदायार्थः - विच्छिन्नाविच्छिन्नभेदमनपेक्ष्य सामान्येन क्रियाभिलापयोः प्रतिभासमात्रं स्पन्दननिमित्तकम् / यतो हि कश्चिद् विच्छिन्नो ऽपि प्रतिभास स्पन्दनपूर्वको दृश्यते, कश्चित्तवविच्छिन्नो ऽपि नात्मस्पन्दनपूर्वक इति
42 SK तस्यैव हेतोर्व्यभिचारं व्याजेन दर्शयति -
43 SK शरोपलप्रक्षेपणयन्त्रनिर्माणपरप्रचालनादिक्रियाविशेषप्रतिभासिनां विच्छिन्नस्यापि प्रतिभासस्य स्पन्दनपूर्वकत्वात् /
18 SK शरोपलप्रक्षेपणेतयादि / शराश्चोपलाश्च शरोपलम्, शरोपलौ च / तयोः शरोपलयोः प्रक्षेपणमिति विग्रहः / शरोपलप्रक्षेपणानि यन्त्रं च निर्माणं च परप्रचालनं चेतिविग्रहः / आदिशब्देन मायादीनां संग्रहः / तेषां क्रियाविशेषस्तु यथायोगं देशान्तरगमनादिलक्षणः / तत्र उपलयन्त्रयोः क्रियाविशेषो देशान्तरगमनलक्षणः / निर्माणस्य क्रियाविशेषः कृत्याभिधानलक्षणः / परप्रचालनस्य क्रियाविशेषः गतिलक्षणः / येषां ज्ञानानां शरप्रक्षेपणादिक्रियाविशेषप्रतिभासो ऽस्ति तानि तथा / भवतु एतेषां क्रियाविशेषाणां विच्छिन्नः प्रतिभासः, तथापि स्पन्दनपूर्वकत्वम् / एतदुक्तं भवति - विच्छिन्नप्रतिभासो ऽस्पन्दनपूर्वकत्वेन न व्याप्त इति
45 SK अविच्छिन्नप्रतिभासे ऽपि व्यभिचारं दर्शयन्नाह -
19 SK परकृतचालनादीनां चाविच्छिन्नस्याप्यतद्पूर्वकत्वात् / परकृतचालनादीनां चाविच्छिन्नस्यापीत्यादि / परेण कृतं चालनमिति समासः / आदिशब्देन भ्रामणादीनां संग्रहः / परकृतचालनादिनामविच्छिन्नप्रतिभासानां नात्मस्पन्दनपूर्वकत्वं दृश्यते / एतदुक्तं भवति - भवन्तु एते स्वदेहसम्बद्धाः, तथापि नात्मस्पन्दनपूर्वका इति
47 SK तदेवमुभयत्रापि व्यभिचारसद्भावं साधयित्वोपसंहरन्नाह -
20 SK तेन ह्यत्र क्रियाविशेषमात्रेण स्पन्दनस्य प्रतीतिरिति युज्यते / तेन ह्यत्र क्रियाविशेषमात्रेणेत्यादि / यस्मादेवमुभयत्र व्यभिचारसद्भावः साधितः, तस्मात् क्रियावाक्यप्रतिभासमात्रेण परचित्तमनुमातुं शक्यते; न तु विच्छिन्नाविच्छिन्नप्रतिभासमात्रेण / क्रियाविशेषेति शब्दः कायवाग्ज्ञिप्तिप्रतिभासं दर्शयति / मात्रेति शब्दो विच्छिन्नाविच्छिन्नयोः भेदं निराकरोति
49 SK तत्र यद्येवं चिन्त्येत -
50 SK शरप्रक्षेपणादिक्रियाविशेषाणां प्रतिभासास्तु विच्छिन्नप्रतिभासत्वे ऽपि स्पन्दनत्वपूर्वकाः; तदन्या विच्छिन्नप्रतिभासास्तु न तथा स्युः? तस्मादाह - तत्र यदि कस्यचिदपूर्वकत्वम्, न को ऽपि तत्पूर्वक स्यात्; विशेषाभावात् / तत्र यदि कस्यचिदपूर्वकत्वमित्यादि / यदि विच्छिन्नाविच्छिन्नज्ञानयोरन्यतरत् स्पन्दनत्वनिबन्धनं नेष्यते, तदा किमपि स्पन्दनत्वपूर्वकं न स्यात् / कथमिति चेत्? आह - विशेषाभावादिति / सुगममेतद् // २१ ////
52 SK अतः क्रियाविशेषसामान्यं स्पन्दनविशेषसामान्यस्य गमकम् /
22 SK अतः क्रियाविशेषसामान्यमित्यादि / यतो हि यदि कस्यचिदतत्पूर्वकत्वं भवेत् सर्वस्यातत्पूर्वकत्वं प्रसज्येत / अतः क्रियाविशेषमुत्सृज्य क्रियाविशेषसामान्येन स्पन्दनविशेषसामान्यमनुमीयते / क्रियाविशेषेतिवचनं क्रियाभिलापौ दर्शयति / सामान्यमिति शब्दः बहिरन्तर्मुखकृतं भेदं परिहरति / न ह्येवं शक्यते ऽनुमातुम् - ंरागाद् वदतीति वा द्वेषाद्वा मोहाद्वा / तस्मादेषो ऽत्र समुदायार्थः - क्रियाभिलापमात्रेण स्पन्दनमात्रमनुमेयम्, न तु स्पन्दनविशेषम्; विशेषे लिङ्गस्य व्यभिउचारदिति
54 SK बाह्यार्थवादेन समानतां दर्शयितुमाह -
55 SK तत्र यथा क्रियामुपलभ्य, आत्मनि स्पन्दनानुपलम्भादन्यत्र स्पन्दप्रतीतिः; तथा क्रियाप्रतिभासोपलम्भने ऽपि /
23 SK तत्र यथा क्रियामुपलभ्येत्यादि / बाह्यार्थवादिना यदि क्रियामुपलभ्य, आत्मनि स्पन्दनानुपलम्भात् सामर्थ्यादन्यत्र स्पन्दनमनुमीयत इति चेत् / अन्तर्ज्ञेयवादे ऽपि तत्तुल्यम्; क्रियाप्रतिभासमुपलभ्य, आत्मनि स्पन्दनानुपलम्भात् सामर्थ्यादन्यत्र स्पन्दनमनुमीयते
57 SK बाह्यार्थवादिना विच्छिन्नप्रतिभासस्यानिमित्तकत्वं यत्पूर्व चोदितम्, तदपि समानमिति दर्शयितुम् आह -
58 SK समानमेतत्; परो ऽपि परक्रियाभिलापयोर्निमित्तं नास्तीति किन्नेच्छति?
24 SK समानमेतदित्यादि / बाह्यार्थवाद्यपि प्राण्यन्तरसंबद्धप्रतिभासिनौ क्रियाभिलापौ अनिमित्तकाविति नेच्छति
60 SK बाह्यार्थवाद्यनिमित्तौ नाभ्युपगच्छति / तदवश्यमभ्युपगन्तव्यमिति दर्शयितुमाह - तेनावश्यं तौ स्पन्दननिमित्तकत्वात्तदभावे न भवत इति वक्तव्यम् /
25 SK तेनावश्यमित्यादि / तथाविप्रतिपन्नेन बाह्यार्थवादिनावश्यमियमुपपत्तिर्वक्तव्या - तयोः क्रियाभिलापयोः स्पन्दनजन्यरूपत्वात् स्पन्दनाभावे तौ न भवत इति
62 SK अथाभ्युपगतापीयमुपपत्तिः किं तयेति चेत्? आह -
63 SK परो ऽपि तयोः प्रतिभासौ तथैव वदेत् / अतः नानयोः परस्परं भेदः /
26 SK परो ऽपि तयोः प्रतिभासौ तथैवेत्यादि / अन्तर्ज्ञेयवाद्यपि तथैव वदेत् - विच्छिन्नप्रतिभासिज्ञाने स्पन्दनजन्यरूपत्वात्तदभावे न भवत इति / तथा सति नानयोः बाह्यार्थवादान्तर्ज्ञेयवादयोः परस्परं भेदो ऽस्ति / एतदुक्तं भवति - यथा बाह्यार्थवादी परसम्बद्धक्रियाभिलापौ स्पन्दनजन्यरूपत्वात् तदभावे न भवत इति वदति, तथैवान्तर्ज्ञेयवाद्यपि बाहिर्मुखप्रतिभासिज्ञाने स्पन्दनजन्यत्वात् तदभावे न भवत इति वदेत् / तथा सति नानयोः परस्परं कश्चिद्भेदो / ऽस्तीति
65 SK बाह्यार्थवादिनामाशङ्कामुद्भावयितुमाह -
66 SK यदि तत्र प्रतिभासिन्योः स्पन्दननिमित्तकत्वमुच्यते, स्वप्नावस्थायामपि किन्नोच्यते?
27 SK यदि तत्र प्रतिभासिन्योरित्यादि / क्रियाभिलापप्रतिभासिज्ञानयोः स्पन्दननिमित्तकत्वं वदन् योगाचारः स्वप्नावस्थायामपि तयोः स्पन्दननिमित्तकत्वं किन्न वदतीति पूर्वपक्षाशङ्का
69 SK सर्वं समानम् / परो ऽपि स्वप्नोपलब्धपरक्रियावाचौ स्पन्दननिमित्तिके इति किन्न वदति?
28 SK सर्वं समानमित्यादि / न केवलं पूर्वं समानम् / किं तर्हि? एतदपि पूर्वेण सह सर्वं समानमिति शेषः / तामेव समानतां दर्शयितुमाह - परो ऽपि स्वप्नोपलब्धपरक्रियावाचावित्यादि / बाह्यार्थवाद्यपि स्वप्नावस्थायां यौ परसम्बद्धौ क्रियाभिलापावुपलभ्येते तौ परचित्तनिमित्तकाविति किन्न वदति
71 SK बाह्यार्थवादीनामुत्तरमाशङ्क्याह -
29 SK तयोरभावादिति चेदिति / स्वप्ने तु क्रियाभिलापावेव न स्तः / तत्कथमभावस्य स्पन्दननिमित्तकता भवेदित्युच्येत्
75 SK तथोपलब्धिसाम्यात् किन्न स्तः?
30 SK तथोपलब्धिसाम्यात् किन्न स्तः इति / यथा जाग्रदवस्थायां क्रियाभिलापयोरुपलब्धिः तथा स्वप्नावस्थायामपि / तस्मात् क्रियाभिलापयोरुपलब्धसाम्यात् कस्मान्न तौ स्तः
77 SK बाह्यार्थवादीनां मतमाशङ्क्याह -
78 SK अथ मिद्धेनोपहतत्वात् पुरुषस्यार्थशून्यं विज्ञानं जायत इति चेत् /
31 SK अथ मिद्धेनेत्यादि / पुरुषस्य मिद्धेनोपहतत्वात् भ्रान्तिर्भवति / तस्मादर्थशून्ये विज्ञाने जायेते / तेन स्वप्ने तयोरभाव इति पूर्वपक्षाशङ्का
81 SK परमते ऽपि तस्मादेव पराधिपत्यशून्यं विज्ञानमुपजायते /
32 SK परमत इत्यादि / अन्तर्ज्ञेयवादीनां मते ऽपितस्मात् मिद्धेन भ्रान्तत्वादेव पराधिपत्यरहिते क्रियाभिलापाकारेके ज्ञाने जायेते इतीष्टम्
83 SK एवं तावत् सौत्रान्तिकेन सह समानतां प्रतिपाद्य वैभाषिकमताशङ्क्याह -
84 SK अथ स्वप्ने ऽपि ज्ञानस्यार्थवत्त्वात्तदोपलभ्यमानान्यपि सन्तानान्तराण्येव इति चेत् /
33 SK अथ स्वप्ने ऽपि ज्ञानस्यार्थवत्त्वादित्यादि / स्वप्ने ऽपि ज्ञानस्यार्थवत्त्वात् स्वप्नावस्थायां येषां प्राणिनामुपलब्धिर्भवति ते च सत्त्वाः सन्त्येव सत्यतः / तस्मात् कथं साम्यमिति पूर्वपक्षाशङ्का
87 SK परं प्रतिविग्रहीतुं यदि युक्त्यागमरहितस्तथाविधो ऽसद्वादः समाश्रियेत, तदा पराभिमतं तस्य पराधिपत्यं न को ऽपि निवारयेत् /
34 SK परं प्रतिविग्रहीतुं यदि युक्त्वागमरहित इत्यादि / यः युक्त्या आगमाच्च रहितः स युक्त्यागमरहितः / युक्त्यागमरहितो ऽसौ वादो ऽसाधुत्वादसदेवादः / यदि वैभाषिकाः योगाचारान् प्रतिविग्रहीतुं तमभ्युपगच्छेयुः, अनेन च मम पराजय इति / न, अयुक्तत्वात् / तदा योगाचारभिमतं सत्त्वस्य तथाविधपरधिपत्यमपि न कश्चिन्निवारयेत् / तथाहि, भवद्भिः स्वप्नावस्थायां ये सत्त्वाः अभ्युपगताः, तेषामेवाधिपत्यादस्माकं विज्ञप्तिप्रतिभासाः जायन्त इति वक्तव्यं भवेत् / तेन हि यद् विषमत्वं युक्त्यागमरहितत्वं तदेवं द्रष्टव्यम् / न कुतश्चिदागमतः स्वप्नदृष्टरूपस्य सद्भावः प्रज्ञायते / युक्त्यापि नोपपद्यते / तथा सति स्वप्नदृष्टरूपस्य सप्रतिघत्वं सनिदर्शनत्वञ्च भवेत् / तेन हि हस्त्यादीनां गवाक्षादिषु प्रवेशो नोपपद्येत, तद्देशस्थैरपि दृश्यो भवेत् / अथ सनिदर्शनं सप्रतिघं च नेष्यते, तदा रूपमेव तन्न भवेत् / नाप्यविज्ञप्तिनियमः, तदनभ्युपगमात् / यदात्मानं बहिर्गतं प्रेक्षते,तदा सन्तानस्य द्वित्वमपि प्रसज्येत / प्राण्यन्तरदर्शने ऽपूर्वसत्त्वोत्पत्तित्पत्तिरपि प्रसज्येत / स्वप्नकृताब्रह्माचर्यात् पाराजिकत्वमपि प्रसज्येत / स्वप्नदृष्टरूपस्य सद्भावाभ्युपगमे त्वेवेमादयो बहवो दोषा प्रसज्यन्ते
89 SK एवं तावत् समानतां प्रसाध्य स्वपक्षे युक्त्यागमरहितत्वं परिहर्तुमाह -
35 SK एतत् केषाञ्चिन्मत एव सर्वाणि तथाविधानि ज्ञानानि सन्तानान्तरायत्तानि / विशेषस्तु साक्षात्परम्परया च / एतत् केषाञ्चिन्मत इत्यादि / एतदित्यावेशेनोक्तम् / केषाzन्चिद् योगाचाराणां मत एव जाग्रदवस्थावत् स्वप्ने ऽपि तथाविधानी क्रियावागाकारज्ञानानि परसन्ताना यत्तानि भवन्ति / विशेषस्तु एतावन्मात्रम् - जाग्रदवस्थायां साक्षादायत्तानि, स्वप्नावस्थायां तु प्रायेण परम्परया
91 SK स्वप्ने ऽपि साक्षाद्वृत्तेः सम्भावनां प्रतिपादयितुमाह -
36 SK कदाचित् स्वप्ने ऽपि तस्य साक्षात्सन्तानान्तरायत्तता इष्टैव / कदाचित् स्वप्ने ऽपीत्यादि / सुगममेतत्
93 SK साक्षाद्वृत्तित्वं दर्शन्नाह -
94 SK देवाद्यधिष्ठानतः सत्यस्वप्नदर्शनात् /
37 SK देवाद्यधिष्ठानत इत्यादि / देवाद्यधिष्ठानतः सुप्रियवणिजो विज्ञप्तिप्रतिभासीनि ज्ञानानि जायन्ते आदीत्यनेन योगिपिशाचादीनामधिष्ठानानि संगृहीतानि
96 SK स्वपक्षमुपसंहरन्नाह -
97 SK तस्मादस्य नैतदसद्वादसमाश्रयः /
38 SK तस्मादस्येत्यादि / तस्मादस्यैवंवादिनो योगाचारस्य नासद्वादसमाश्रयः
99 SK पुनश्चापरस्मिन् समानतां साधयितुं सौत्रान्तिकं पृच्छति -
100 SK तावत्तया क्रिययापि तच्चित्तं कथं ज्ञायते?
39 SK तावत्तया क्रिययेत्यादि / विज्ञप्तिप्रतिभासस्य गमकत्वमित्यभिमतं तावदवस्थाप्यम् / मुहुर्भवतैव पर्यनुयुज्यते - कस्मात् भवत्परिकल्पितया तया क्रियया परचित्तं ज्ञायते
102 SK तथा पर्यनुयोगे सौत्रान्तिक आह -
103 SK चित्तस्य कार्यत्वात् /
40 SK चित्तस्य कार्यत्वादिति / यस्माच्चित्तस्य कार्यम्, तस्मात् सा गमिका
106 SK तस्य कार्यत्वं तु चित्तन्तरे ऽपि तुल्यमिति कथन्न ज्ञायते?
41 SK तस्य कार्यत्वमित्यादि क्रिया चित्तस्य कार्यत्वाच्चित्तस्य गमिकेति चेत्? चित्तस्य तत्कार्यत्वं तु क्रियाप्रतिभासिज्ञाने ऽपि तुल्यत्वात्तेन क्रियाप्रतिभासेनापि कस्मात् परचित्तं न ज्ञायते
108 SK सिद्धान्तवादी हेतूपसंहारव्याजेन परप्रतिभासिज्ञानमेव लिङ्गत्वेनाभ्युपगमयितुमाह -
109 SK अपि च, यदि तत्क्रिया स्वसत्तामात्रेण स्वसन्तानं प्रत्यायेत्, तदानुपलभ्य मानेनापि स्यात्तथा प्रतिपत्तिः /
42 SK अपि च, यदि तत्क्रियेत्यादि / किञ्चेयं क्रिया सत्तामात्रात् परचित्तमवबोधयेद् ओहोस्वित् ज्ञानात्? यदि तावद् सत्तामात्रादिति, तदा क्रियामनुपलभ्यमानेनापि प्राणिना परचित्त प्रतिपद्येत
112 SK न; ज्ञानापेक्षत्वाल्लिङ्गस्येति चेत् /
43 SK न; ज्ञानापेक्षत्वादित्यादि / न हि लिङ्गं सत्तामात्रात् गमकं भवति / किं तर्हि? ज्ञानात् / तस्मान्नायं दोषः
115 SK तदा तत्र किमनया परम्परया - परचित्तात् क्रिया, क्रियातः ज्ञानम्, ज्ञानात्तस्य प्रतिपत्तिरिति /
44 SK तदा तत्रेत्यादि स्यान्मतम् - लिङ्ग ज्ञानमपेक्ष्य गमकमिति / हन्त, तर्हि न किञ्चित् प्रयोजनमनया परम्परया / तां परम्परां दर्शयन्नाह - परचित्तात् क्रियेत्यादि / परम्परा तु परचित्तात् क्रिया उत्पद्यते, क्रियातः ज्ञानम्, ज्ञानात्तस्य प्रतिपत्तिरिति
117 SK कश्य पुनर्न्याय इति चेदाह -
118 SK परचित्तप्रभवधर्मि क्रियाप्रतिभासिज्ञानमेवास्य गमकं भवति /
45 SK परचित्तप्रभवधर्मीत्यादि / परचित्तप्रभवधर्मि क्रियाप्रतिभासिज्ञानमेव गमकमिति मन्वीत / परचित्तप्रभवधर्मो ऽस्यास्तीति विग्रहः
120 SK क्रियेत्यपि युज्येत, क्रियाप्रतिभासिज्ञानमित्यपि युज्येत / कश्चात्र विशेषः? तस्माद् आह -
121 SK तस्याधिगतिस्त्वन्तशस्तदाश्रितत्वात् /
46 SK तस्याधिगतिस्त्वन्तश इत्यादि / यतो ह्यभ्युपगतायामपि क्रियायां परचित्तस्याधिगतिस्तु क्रियाप्रतिभासिज्ञानाधीनैव / तस्मात्तदेवास्तु / किमनया परिकल्पितया क्रियया
123 SK एवं परं निगृह्य स्वमतमाख्यातुमाह -
47 SK स्पन्दनमात्रसामान्यां क्रियाभिलापज्ञानसामान्यस्य कारणत्वात् कार्येण लारणस्य गतिः / स्पन्दनमात्रसामान्यं क्रियाभिलापज्ञानसामान्यस्येत्यादि / क्रियाभिलापज्ञानस्य सामान्यं क्रियाभिलापज्ञानसामान्यम् / तस्य कारणं त्वविशेषेण स्पन्दनमात्रमिष्टम् / तथा सति क्रियाप्रतिभासिज्ञानसामान्यं स्पन्दनमात्रसामान्यस्य गमकमिष्यते / अत एव उक्तम् - कार्येण करणस्य गति इति / ज्ञानसामान्येत्यत्र सामान्येति शब्देन विच्छिन्नाविच्छिन्नप्रतिभासकृतविशेषः निराकृतः / स्पन्दनमात्रेत्यत्र मात्रेति शब्देन रागादिकृतविशिष्टस्पन्दनं निराक्रियते
125 SK एवं सामान्येन कार्यकारणभावं निर्दिश्य कार्यस्य भेदमुपदर्शयितुमाह -
126 SK तत्र आत्मस्पन्दननिमित्तकस्यान्तर्मुखवृत्तिः, अन्यस्यान्यथा / प्रायेणाधिकृत्य असौ भेदः /
127 SK तत्र आत्मस्पन्दननिमित्तकस्येत्यादि / आत्मस्पन्दनात्समुत्थितं यज्ज्ञानं तस्यान्तर्मुखप्रतिभासतया वृत्तिः, परस्पन्दनात्समुत्थितस्य तु बहिर्मुखप्रतिभासतया / मुखेति शब्दो ऽत्रालम्बने वर्तते / प्रायेणाधिकृत्येत्यनेन शरप्रक्षेपणादीनाअं परकृतचालनादीनां च प्रदर्शनम् / ४८ //
128 SK तत्र स्यान्मतम् - भवतु जाग्रदवस्थायां कार्यकारणभावः, स्वप्नावस्थायां तु तत्कथमिति चेत्?
49 SK एतयोः सः कार्यकारणभावः स्वापाद्यवस्थायामितरस्यामपि च समानः / एतयोः सः कार्यकारणभाव इत्यादि / यश्चानन्तरोक्तः कार्यकारणभावः, सः स्वापजाग्रदवस्थयोश्च समानः / आदीत्यनेन कामशोकादिभिरुपहतावस्थानां परिग्रहः
131 SK ननु स्वप्ने समुत्थापकस्पन्दनमेव नास्ति / तत्कथं कार्यकारणभावस्य समानतेति / तस्मादाह -
132 SK भ्रान्त्यवस्थायां यथास्वं प्रत्ययविशेषोपाश्रयात् परस्पन्दनादिनिमित्तोद्भूतविज्ञानवासनैव कदाचित्पराभोगादेः व्यवहितादपि वृत्तिं लभते, न तु अत्यन्तासदाभोगात् /
50 SK भ्रान्त्यवस्थायामित्यादि / भ्रान्त्यवस्थायामिति मिद्धेनोपहताद्यवस्थायाम् / यथास्वमित्यनेन स्वप्नस्य मिद्धविशेषः, नरकादेः कर्मविपाकावस्था च परोगृह्यते / प्रत्ययविशेषो मिद्धादिः / उपाश्रयणम् उपाश्रयः / प्रत्ययविशेषस्य उपाश्रयः प्रत्ययविशेषोपाश्रयः / प्रत्ययविशेषमुपाश्रयत इति यावत् / परचित्तेन संप्रयुक्तं स्पन्दनं परस्पन्दनम् / आदीत्यनेन मुखकान्तिरक्तिमादीनां जनकचित्तस्य परोइग्रहः परस्पन्दनादि च निमित्तं चेति समासः / निमित्तत्वमत्राधिपतिप्रत्ययत्वमिति द्रष्टव्यम् / यस्य क्रियादिप्रतिभासिविज्ञानस्य तदन्यस्मात् स्पन्दनादिनिमित्तादुद्भवितुं शीलमस्ति तत् परस्पन्दादिनिमित्तोद्भूतविज्ञानम् / तस्य वासना शक्तिः / पराभोगः परमनस्कारः आदीत्यनेन तत्कालभाविनां तदन्यप्रत्ययानां परिग्रहः / व्यवहितः कालविप्रकृष्टः / अपीति शब्दो ऽव्यवहिते देवाद्यधिष्ठानात् स्वप्नदर्शने ऽपि / तस्याः वृत्तिलाभः क्रियाप्रतिभासिविज्ञानजननयोग्यात्मतया समवधानम् / एवमुक्तं भवति - भ्रान्त्यवस्थायां प्रत्ययविशेषस्य उपाश्रयात् परस्पन्दनादिनिमित्तदुद्भूतविज्ञानवासना कदाचित् व्यवहिताद् पराभोगादपि वृत्तिं लभते / यस्यास्तु पराभोगो ऽत्यन्तासन्न तस्माद् वृत्तिं लभते
134 SK एवं स्वप्नावस्थायामपि क्रियाप्रतिभासिज्ञानानां स्पन्दननिमित्तकत्वं साधयित्वा उपसंहर्तुम् आह -
135 SK तस्मात् सर्वावस्थासु क्रियादिविज्ञप्तेः चित्तस्पन्दनमनुमीयत एव /
51 SK तस्मात् सर्वावस्थास्वित्यादि यस्मादेवमव्यभिचारित्वं साधितम्, तस्मात् स्वापजाग्रदुभयोरप्यवस्थयोः क्रियाप्रतिभासात् चित्तस्पन्दनमनुमीयत एवेति स्थितम् / आदि इत्यनेन अभिलापरक्तिमादिविज्ञप्तीनां परिग्रहः
137 SK एवं स्वमतं निर्दोषीकृत्य परमते दोषमुद्भावयितुमाह -
138 SK क्रियातः स्पन्दनप्रतिपत्तौ स्वाप इतरस्मिञ्च स्यात् प्रतिपत्तिरथ वा नैव कदाचन /
52 SK क्रियातः स्पन्दनप्रतिपत्तावित्यादि / यम्नते क्रियातः स्पन्दनस्य प्रतिपत्तिः, तन्मते स्व्प्नादावपि क्रियातः स्पन्दनस्य प्रतिपत्तिर्भवेत् / अथ स्वप्ने क्रियातः स्पन्दनस्य प्रतिपत्तिर्नेष्येत, तदा तत् जाग्रदवस्थायामपि युज्येत न कदाचिय्त् क्रियातः स्पन्दनस्य प्रतिपत्तिर्भवेदिति वाक्यशेषः
140 SK कथमिति चेत्? तस्मादाह -
141 SK परस्पन्दनाभावे ऽपि क्रियालम्बनोदयात् /
53 SK परस्पन्दनाभावे ऽपीत्यादि / तथाहि, स्वप्ने परचित्तस्पन्दनाभावे ऽपि क्रियालम्बनम् उदेति / यस्याभावे ऽपि यदुत्पद्यते, न तत्तस्य गमकं युक्तं
143 SK प्रतिविधातुकामो बाह्यार्थवाद्याह -
144 SK भवत्वालम्बनोदयः, न तु क्रिया / क्रियया स्पन्दनं गम्येते / भ्रान्त्यवस्थायां क्रियैव न भवति / अर्थशून्यज्ञानोदयान्न दोषः /
54 SK भवत्वालम्बनोदयरित्यादि / आलम्बनं तु स्पन्दनाभावे ऽप्युत्पद्यते, न तु क्रिया / अस्माकं मते क्रिया स्पन्दनस्य गमकम् / सा च भ्रान्त्यवस्थायां न भवति / कथं न भवति? आह - अर्थशून्यज्ञानोदयादिति / यस्मात् भ्रान्त्यवस्थायामर्थशून्यानि ज्ञानानि उत्पध्यन्ते, तस्मान्नैष दोष इति पूर्वपक्षाशङ्का
55 SK सर्वप्रकारव्यपदेशसाम्यात् कदाचिज्ज्ञानमर्थशून्यम्, अन्यदान्यथेत्येषो ऽधिकारः कुतो लब्धः? सर्वप्रकारव्यपदेशसाम्यादित्यादि / यस्य व्यपदेशस्य सन्ति सर्वे प्रकाराः स सर्वप्रकारव्यपदेशः / सर्वप्रकारव्यपदेशसाम्ये स्वप्नावस्थायां ज्ञानमर्थशून्यमुत्पद्यते, जाग्रदवस्थायां तु सार्थमित्येतत् ज्ञानम्, अधिकारो वा भवता कुतो लब्धः? एवमुक्तं भवति - जाग्रदवस्थावत् स्वप्नावस्थायामपि दृश्याकारादयः सर्वे सन्ति / तत्कथं तत्र ज्ञानमर्थशून्यमिति
149 SK अथ मिद्धादिनावस्थान्यथाभावश्चेत् /
56 SK अथ मिद्धादिनेत्यादि / यथास्यामवस्थायां मिद्धदिनार्थशून्यज्ञानानामुत्पत्तिर्भवति, तथा अन्यथाभाव इत् पूर्वपक्षाशङ्का
152 SK यद्येवं सम्भवेत्, भवतु अविद्योइपप्लुतत्वात्तथोदयः /
57 SK यद्येवं सम्भवेदित्यादि / यदि भ्रान्तिवशादवस्थान्यथाभावादर्थशून्यं ज्ञानं जायत इति अभ्युपागम्येत, तदा महाभ्रमराज्ञ्या अविद्यायाः सद्भावात् तद्वशाच्च सर्वाणि ज्ञानान्यर्थशून्यानि जायन्त इति मन्येरन्
154 SK तथा सति को गुणः? आह -
58 SK तथा सत्यर्थान्तरवादहान्या एते ऽनेकाशक्यनिगूहनावताराः महाकृच्छ्रा उत्तरेणैकेन निहता भवन्ति / तथा सत्यर्थान्तरवादेत्यादि / अर्थान्तरं वदतीति अर्थान्तरवादः / अर्थान्तरवादस्यैव हान्या अर्थान्तरवादहान्या / अस्य क्षेमधर्मेभ्यश्च्युतत्वादयुक्तो भवति / यस्मार्थान्तरवादस्य अनेके अवताराः दोषाः परिहारलक्षणेनाशक्यनिगूहनाः सन्त्यमी अनेकाशक्यनिगूहनावताराः / महान्तः कृच्छ्राः सन्त्यस्येति महाकृच्छ्राः / उत्तेरेणैकेनेति एकस्मादुत्तरात् / निहताः निराकृताः / अशक्यनिगूहनावतारत्वं तु कृते एकस्य परिहारे ऽन्यान्यदोषोद्भवात् / एवमुक्तं भवति - यदाविद्योपप्लुतत्वात् सर्वेषां ज्ञानानामर्थशून्यत्वमभ्युपगम्यते, तदार्थान्तरवादस्य ये ऽनेकाशक्यनिगूहनावतारास्त उत्तरेणैकेन निराकृता भवन्ति
156 SK एवं सन्तानान्तरसिद्धिं परिसमाप्यावशिष्टान् दुरुपालम्भान् परिहर्तुकामः परमतमाशङ्कितुम् आह -
157 SK ननु तयोः दर्शनात् कायवाग्विज्ञप्तिभ्यां स्वमुत्थापकचित्तस्यानुमानमिति न्याय्यम् / न तु सन्तानान्तरसम्बद्धविज्ञाप्तिप्रतिभासिज्ञाने परविज्ञप्ती भवितुमर्हतः, तयोरनुपादानोपादेयत्वादिति चेत् /
59 SK ननु तयोः दर्शनात्कायवाग्विज्ञप्तिभ्यामित्यादि / नन्वित्यनेनाक्षम्यतां दर्शयति / ननु कायवाग्विज्ञप्तिप्रतिभासाभ्यां तयोः समुत्थापकचित्तस्यानुमानमिति न्याय्यम् / तत्र स्यान्मतम् - एतदपि समानमिति / अत आह - सन्तानान्तरसम्बद्धेत्यादि / ये च श्रोतृसन्तानसम्बद्धविज्ञप्तिप्रतिभासिज्ञाने स्पन्दनस्य गमके इति भवद्भिरिष्टे, कथं ते वक्तुः विज्ञप्ती स्याताम्? अत्र सन्तानेति श्रोतुः सन्तानः / तमपेक्ष्य अन्तरेति शब्देन वक्तुः परिग्रहः / कस्मान्नार्हतः? इत्याह - तयोः अनुपादानोपादेयत्वादिति / अयमभिप्रायः - श्रोतृसन्तानप्रतिबद्धविज्ञप्तिप्रतिभासस्य न वक्तुः विवक्षया सहोपादानोपादेयभावः, भिन्नसन्तानपर्याप्पन्नत्वादिति पूर्वपक्षः
159 SK तत्र सिद्धान्तवाद्याह -
160 SK नोच्यते परचित्तसमित्थितविज्ञप्तिरूपत्वात् तत्र प्रतिभासिज्ञानेन समुत्थापकचित्तं गम्यत इति / किं तर्हि? तस्य कार्यत्वात् /
60 SK नोच्यत इत्यादि / परचित्तेन समुत्थिता परचित्तसमित्थिता / परचित्तसमित्थिता च विज्ञप्तिश्चेति परचित्तसमुत्थितविज्ञप्तिः / सा यस्य प्रतिभासिनो ज्ञानस्य रूपं स्वभावो ऽस्ति तत्तथा / तस्य भावः तत्त्वम् / तस्मात् परचित्तसमुत्थितविज्ञप्तिरूपत्वात् / तत्र विज्ञप्तेः प्रतिभासो ऽस्यास्तीति प्रतिभासि / एवमुक्तं भवति - यस्मात् तत्र प्रतिभासि ज्ञानं परचित्तसमुत्थितविज्ञप्तिरूपम्, तस्मात् समुत्थापकचित्तं गम्यत इति वयमपि नाभ्युपगच्छामः / यदि नाभ्युपगम्यते, किं तर्हि अभ्युपगम्यत इति चेत्? आह - किं तर्हि? तस्य कार्यत्वाद् इति / यस्माद् विज्ञप्तिप्रतिभासिज्ञानं परचित्तस्य कार्यम्, तस्मात् परचित्तं गम्यते / अत्र परचित्तं वक्तुश्चित्तमभिप्रेतम्
162 SK यदि श्रोतृसन्तानाज्जाते क्रियावागाकारके ज्ञाने विज्ञप्तित्वेन नेष्येते, का पुनरन्या विज्ञप्तिश्चेत् / तस्मादाह -
61 SK विज्ञप्तिरिति समुत्थापकचित्तसन्तानाज्जाते क्रियावागाकारके ज्ञाने एव / विज्ञप्तिरित्यादि / समुत्थापकचित्तसन्तानाज्जाते ये क्रियावागाकारके ज्ञाने ते विज्ञप्तित्वेन व्यपदिश्येते / एवमुक्तं भवति - वक्तुरेव ये गमनाभिलापने क्रियावागाकारके ज्ञाने ते विज्ञप्तीति उच्येते
164 SK समुत्थापकचित्तं स्वपरसन्तानगतयोः क्रियावागाकारकज्ञानेयोर्यथा कारणभावो भवति तद्दर्शयितुमाह -
62 SK समुत्थापकचित्तं च तयोरेवोपादानकारणम्, सन्तानान्तरज्ञानयोस्तु अधिपतिप्रत्ययः / समुत्थापकचित्तम् च तयोरित्यादि / उपादानाकारणमसाधारणकारणे वर्तते / समुत्थापकचित्तं स्वसन्तानगतयोः क्रियावागाकारकयोरेवोपादानकारणम्, परसन्तानसम्बद्धयोस्त्वधिपतिप्रत्ययः / तच्चोपादानकारणं परतमपेक्ष्य उपन्यस्तम् / स्वमते तु उपादानकारणमालयविज्ञानमिष्यते, न तु विवक्षाचित्तम्
166 SK एवं तावत् स्वसन्तानागतयोः क्रियावागाकारकयोर्विज्ञप्तिवं प्रतिपादितम् / सन्तानान्तरसंबद्धयोश्च साधयितुमाह -
63 SK विज्ञप्तेरूपादानात्ते जनिते / तत्सम्बन्धेनोपचाराद् विज्ञप्ती भवतः / विज्ञप्तेरूपादानात्ते जनिते इत्यादि / विज्ञप्तेर्यदुपादानकारणं तेन ते सन्तानान्तरसम्बद्धक्रियावागाकारके ज्ञाने जनिते / तज्जनिसम्बन्धेन तेन हेतुना उपचाराद् विज्ञप्तीति व्यपदिश्येते
168 SK स्यान्मतम् - स्वसमुत्थापकचित्तस्य विज्ञापनाद् विज्ञप्तिः / न हि श्रोता वक्तृसन्तानाज्जाते क्रियावाक्प्रतिभासिज्ञाने उपलभते / तथा हि, वक्ता श्रोता चोभावपि स्वस्वप्रतिभासमनु भवतः / तत्कथं ते ऽनालम्बने विज्ञप्तित्वेन स्वसमुत्थापकस्य गमके इति / तस्मादाह -
169 SK भवतु स्वपरयोः स्वस्वप्रतिभासस्यानुभवः, तैमिरिकद्वयदृष्टद्विचन्द्रवत् / तथाविधविज्ञानस्य हेतुः वासनोत्पादस्वभावविशेषो ऽनादिकालिकैकार्थग्राहाध्यवसायित्वात्, एकहेतुसम्भूतयोः स्वपरविज्ञप्तिज्ञानयोः विज्ञप्तित्वेन उपचारः /
170 SK भवतु स्वपरयोरित्यादि / स्वपरेति वक्ता श्रोता च / स्वस्य स्वस्य प्रतिभासस्य अनुभवः स्वस्वप्रतिभासस्यानुभवः / तैमिरिकद्वयेन प्रतिभासस्यानुभवः तैमिरिकद्वयदृष्टद्विचन्द्रम् / तेन तुल्यत्वात् तद्वत् / तथाविधविज्ञानमिति एकार्थग्राहाध्यवसायि विज्ञानं मतम् / तस्य हेतुः एकार्थग्राहाध्यवसायस्यानुभवितृ पूर्वविज्ञानम् / तज्जनिता वासना शक्तिरूपा / तस्या उत्पाद उत्पादव्ययलक्षणपरम्पराया उदयः / स्वरूप उत्पादस्वभावः / तस्य विशेष एकार्थग्राहाध्यवसायिविज्ञानोपजनने समर्थात्मनि स्थितिः /
171 SK अनादिश्चासौ कालश्चेति अनादिकालः / तस्मादागतो ऽनादिकालिकः / अथ वानादिकाले भवो ऽनादिकालिकः / न आदिकालिकः अनादिकालिकः / एकश्चासौ अर्थश्चेति एकार्थः / गमनवागादिस्वपरविज्ञप्त्योः बुद्ध्या एकीकरणम् / एकार्थग्राहेति एकार्थग्राहिज्ञानम् / एकार्थग्राहाध्यवसायि इति अध्यवसायिज्ञानम् / तथा हि, वक्ता चैवं चिन्तयति - यन्मया कथितं तत् श्रोत्रा ज्ञातम् / श्रोताप्येवं चिन्तयति - यदनेन कथितं तन्मया प्रतीतम् / इत्येवं एकार्थग्राहाध्यवसायः /
172 SK एकहेतुना समुत्थापकेन ये सम्भूते ते एकहेतुसम्भूते / स्वपरविज्ञप्तिज्ञानयोः वक्तृश्रोतृक्रियावागाकारकज्ञानयोः विज्ञप्तित्वेनोपचारः विज्ञप्तित्वेन व्यपदेशः / एवं वक्ता श्रोता च स्वस्वप्रतिभासमनुभवतः / तथापि तयोः य एकहेतुसम्भूते क्रियावागाकारकज्ञाने त एकार्थप्रतीतिनियमाद् विज्ञप्तित्वेन व्यपदिश्येते /
64 SK एकार्थग्राहाध्यवसायस्तु तथाविधविज्ञानस्य हेतुर्वासनोत्पादस्वभावविशेषो ऽनादिकालिकत्वाद् / तैमिरिकद्वयदृष्टद्विचन्द्रवदिति दृष्टान्तः / एकः तैमिरिकः द्वितीयं तैमिरिकं ऽपश्यऽ इति ᳚अपरं चन्द्रंऽ दर्शयति / तेन च ऽदृश्यते᳚ इत्युच्यते / तत्र ऽमया अस्मैदर्शितःऽ इत्येवं दर्शकस्याभिमानो भवति / श्रोतापि ऽअनेन मह्यं दर्शितः इति चिन्तयति / तथापि तौ स्वस्वप्रतिभासं प्रतिवित्तः / तद्वदत्रापि एकार्थप्रतीतिनियमात् स्वपरविज्ञप्तिज्ञानयोर्विज्ञप्तित्वेनोपचारो भवति
174 SK तृणावलम्बिन इव बाह्यार्थबादिनः प्राहुः -
175 SK किञ्च क्रियादिप्रतिभासिविज्ञानात् कार्यलिङ्गाज्जातं यत्परचित्तज्ञानं तत्परचित्तं विषयीक्रियत आहोस्विन्न? विषयीकरणे ऽर्थान्तरं स्यात् / अविषयत्वे तु कथं ज्ञानेन परचित्तसत्ता प्रतीयते? तत्स्वरूपाज्ञाने तत्सिद्धेरसम्भवादिति चेत्?
65 SK किञ्च क्रियादिप्रतिभासीत्यादि / क्रियादिप्रतिभासो ऽस्ति यस्य विज्ञानस्य तत् क्रियादिप्रतिभासिविज्ञानम् / तदेव कार्यलिङ्गम् / तस्माज्जातं क्रियादिप्रतिभासिविज्ञानात् कार्यलिङ्गाज्जातं यत् परचित्तस्य स्वरूपं विषयीकरोति आहोस्विन्नेति द्विधा परीक्षा / प्रथमविकल्पे दोषं दर्शयोतुमाह - विषयीकरण इत्यादि / यदि नाम विषयीकरोति, तदा तस्य विषयः पृथक् स्यात् / द्वितीयविकल्पमुपदर्शयन्नाह - अविषयत्वे त्वित्यादि / अथ न विषयीकरोति, तदा कथं परचित्तसत्ता ज्ञायते? कथं न ज्ञायते? आह - तत्स्वरूपाज्ञान इत्यादि / तत्स्वरूपज्ञानाधीनो हि भावोपचारः / स तु तदभावे न भवतीति पूर्वपक्षः
66 SK सिद्धान्तवादिनः - एष प्रसङ्गो ऽपि समः / एष प्रसङ्गो ऽपि सम इति
179 SK क्रियावाग्भ्यां परचित्तप्रतिपत्तिमतामपि तत्स्वरूपविषयीकरणे स्वचित्तज्ञानवत्तदाकारस्यापि ज्ञानं प्रसज्येत / तदज्ञाने तु तेन तत्स्वरूपस्य ग्रहणं कथम् /
67 SK क्रियावाग्भ्यामित्यादि / किञ्च यदा बाह्यार्थावादिभिः क्रियावाग्भ्यां लिङ्गाभ्यां परचित्तं ज्ञायते, तदा तस्य परचित्तस्य स्वरूपं विषयीक्रियत आहोस्विन्न? यदि नाम विषयीक्रियते, तदा परचित्तस्याकारो ऽपि ज्ञायेत / अथ न विषयीक्रियते, तदा तेन ज्ञानेन प्रतिपत्त्रा वा कथं ज्ञायेत?
181 SK बाह्यार्थावादिनां मतमाशङ्कितुमाह -
68 SK अथ लिङ्गात् सामान्याधिगतेः नाकारस्य प्रतीतिरिति चेत्? अथ लिङ्गात् सामान्याधिगते इत्यादि / यस्माल्लिङ्गं सामान्येन व्याप्तम्, न तु विशेषेण / तस्मात्सामान्यमेव ज्ञायते, न विशेष इति पूर्वपक्षाशङ्का
184 SK किञ्च तत्सामान्यं परचित्तमेवान्यद्वा ऽहोस्विदवाच्यम् /
69 SK किञ्च तत्सामान्यमित्यादि / किञ्च तत्सामान्यं परचित्तमेव वा, अन्यद्वा, आहोस्विदवाच्यमिति त्रिधा परीक्षा
186 SK विकल्पद्वयं निराकर्तुमाह -
187 SK अन्यत्वावाच्यत्वयोरेकत्वे त्वनेन तत्सामान्यमेव गृह्येत, न परचित्तम् /
188 SK तत्कथमनेन तद् गम्यते /
70 SK अन्यत्वावाच्ययोरेकत्व इत्यादि / अन्यत्वपक्षे सामान्यमेव गृह्येत, न परचित्तम् / तस्मात् कथमनेन ज्ञानेन तत् परचित्तं ज्ञायते? अवाच्यत्वपक्षे ऽपि एष एव नयः
190 SK अभेदपक्षं निराकर्तुमाह -
191 SK नापि सामान्यं परचित्तमेव / तथा सति तदाकारस्तापि ज्ञानं प्रसज्येत इत्युक्तम् /
71 SK नापि सामान्यं परचित्तमेवेत्यादि / नापि सामान्यं परचित्तस्य स्वरूपम् / कस्मात्? आह - अथा सतीत्यादि / यदि परचित्तादनन्यस्य सामान्यस्य ग्रहणमभ्युपगम्यते, तदा परचित्ताकारस्यापि ज्ञानं प्रसज्येत इत्युक्तं प्राक्
193 SK स्यादेतत् - तथास्तु, को दोषः? उच्यते -
72 SK न ह्येषा अनुमानप्रक्रिया / न ह्येषा अनुमानप्रक्रियेति
73 SK न ह्यनुमानमर्थस्वरूपस्य ग्राहकम् / प्रत्यक्षवत् प्रतिभासासविशिष्टत्वादेः प्रसङ्गात् / न ह्यनुमानमर्थस्वरूपस्येत्यादि / न ह्यनुमानं स्वलक्षणस्य ग्राहकत्वेनेष्यते / प्रत्यक्षेति तु वैधर्म्यदृष्टान्तः / कथन्न स्वलक्षणस्य ग्राहकत्वेनेष्यते चेत्? आह - प्रतिभासाविशिष्टत्वादेः प्रसङ्गादिति / अनुमानस्यापि प्रत्यक्षवत् स्फुटाभता स्यात् / आदिरित्यनेन प्रत्यक्षोद्भूतधर्मिणो अतीतादिविषयस्य चाग्राहकत्वमपि प्रसज्येत
197 SK स्यादेतत् - प्रतिभासाविशिष्टत्वाभ्युपगम्यत एवेति / आह -
198 SK तेन नास्य प्रामाण्यम् /
74 SK तेन नास्य प्रामाण्यमिति / प्रतिभासाविशिष्टत्वादावभ्युपगते सति अनुमानेनार्थस्वरूपस्य ग्रहणम् / तेन भवतु प्रामाण्यमिति चेत्? नैष न्यायः
200 SK यदि प्रमाणस्य स्वलक्षणग्रहणनिबन्धनत्वं नेष्यते, तत्कथमस्य प्रमाण्यमिति चेदाह -
201 SK तत्स्वरूपाग्रहे ऽप्यभिप्रेतार्थाविसंवादात् प्रामाण्यम् /
75 SK तत्स्वरूपाग्रहे ऽपीत्यादि / न ह्यनुमानेन विषयस्वरूपस्य ग्रहणम्, अपितु अभिप्रेतार्थाविसंवादकत्वात् प्रामाण्यमिष्यते / क्वचित् ग्रन्थे ऽतेन नास्य प्रामाण्यम्ऽ इति पाठः / तत्र त्वेवं योजनीयम् - यदा प्रतिभासादयो ऽभिन्नाः, तदा प्रमाणमेव न तदिति / यदि अनुमानेन स्वलक्षणं गृह्येत, तर्हि प्रमाणमेव नेष्यते / कथम्? आह - तत्स्वरूपाग्रहे ऽपीत्यादि / स्वरूपस्याग्रहे ऽप्यभिप्रेतार्थाविसंवादित्वादस्य प्रामाण्यम्, न तु स्वलक्षणग्रहणादिति
203 SK स्यादेवम् - स्वलक्षणस्याग्रहणे ऽप्यपरापरानुमानेन परचित्तमनुमीयते / कथं तद्ग्रहणं निवार्यते? अत आह -
204 SK धूमादिलिङ्गाज्जातमपि न वह्न्यादिस्वरूपविषयि, दृष्टेनाविशेषप्रसङ्गात्, अनुमानस्यातीतादौ निःस्वभावतायां चाप्रवृत्तेः, अर्थक्रियाप्रसङ्गाच्च /
76 SK धूमादिलिङ्गाज्जातमपीत्यादि / न हि धूमादिलिङ्गाज्जातमनुमानं वह्न्यादेः स्वरूपस्य ग्राहकत्वेनेष्यते / कथम्? आह - दृष्टेनाविशेषप्रसङ्गादिति / यद्यनुमानं स्वलक्षणविषयं गृह्णीयात्, तदा प्रत्यक्षेण तुल्यत्वं प्रसज्येत / नाप्यनुमानमतीतानागतविषयि, वस्तुनः निःस्वभावताविषयि च स्यात् / प्रत्यक्षप्रतिभासस्येवानुमानविकल्पप्रतिभासस्याप्यर्थक्रियाकारित्वं स्यात्
206 SK स्यादेतत् - परचित्तानुमाने तस्याविसंवादित्वमेव नास्ति / अत आह -
207 SK परचित्तानुमाने ऽप्यभिप्रेतार्थाविसंवादो ऽस्त्येव /
77 SK परचित्तानुमाने ऽपीत्यादि
209 SK अविसंवादित्वस्योपपत्तिं दर्शयन्नाह -
210 SK तत्प्रवर्तनद्वारेण प्राण्यन्तरसत्तां प्रतिपद्य पुनः पुनर्व्यवहारप्रवृत्तौ तदाधिपत्यादागतार्थस्य प्राप्तेः /
78 SK तत्प्रवर्तनद्वारेण प्राण्यन्तरमित्यादि / प्रवृत्तिव्यापारात् परचित्तस्यानुमानम् / तद्द्वारेण प्राण्यन्तरसत्तां प्रतिपद्य यदि पुनः पुनर्व्यवहारप्रवृत्तिमभिलाषव्यायामान्यत्रान्यत्रगमनादिकां कुर्यात्, तदा प्राण्यन्तरराधिपत्येनागतो ऽर्थस्संलापादिः प्राप्यते / अथ वा पुनः पुनर्व्यवहारप्रवृत्तिमभिलाषव्यायामदेशान्तरगमनादिकां कुर्यात्, तदा प्राण्यन्तराधिपत्येन अगतो ऽर्थः संलापात् / अथ वा पुनः पुनर्व्यहारे प्रवर्तनमिति संलापादनु गृहप्रवेशः, तदनु आसनदानम्, तदनु चान्नपानदानम्, तदनु च शय्यासनप्रज्ञपनम्, पादप्रक्षालनोदकदानम्, पादमर्दनमित्यादीनि
212 SK किं पुनरुत्तरव्यहारसाधनाय प्रामाण्यमिष्यत इति चेत्? अत आह -
213 SK तन्मात्रफलचिन्तकस्य लोकस्य प्राण्यन्तरानुमाने प्रवृत्तेश्च /
79 SK तन्मात्रफलचिन्तकस्येत्यादि / तन्मात्रं फलमिति तन्मात्रफलम् / तदिति शब्दो ऽर्थक्रियायां वर्तते / मात्रेति शब्दः माने / यो लोकः तन्मात्रफलं चिन्तयति सः तन्मात्रफलचिन्तकः प्रवृत्तः / एवमुक्तं भवति - यो लौकिकप्राण्यन्तरसत्तामनुमिनोति, सः प्राण्यन्तरधिपत्यादागताम् अर्थक्रियां प्राप्नोति / चेति शब्देन तन्मात्रं लोकस्य प्रवृत्तिफलमित्यर्थो ऽवसीयते
216 SK उत्तरार्थविशेषप्रतिभासिज्ञानानुभवोदयमात्रेण पुरुषस्य निराकाङ्क्षत्वात् /
80 SK उत्तरार्थविशेषप्रतिभासीत्यादि / उत्तारार्थविशेषो दाहपाकादिः / तथा प्रतिभासितुं शीलं यस्य ज्ञानस्य तत्तथा / तस्यानुभवः उत्तरार्थविशेषप्रतिभासिज्ञानानुभवः / तस्योदय एव उदयमात्रम् / निराकाङ्क्ष इत्याकाङ्क्षारहितः / तस्य भावः तत्त्वम् / तस्मात् निराकाङ्क्षत्वात् / एवमुक्तं भवति - यदा पुरुषस्य वह्न्युपलब्धेरनु दाहादिप्रतिभासिज्ञानानुभवोदयः, तदैवायं निराकाङ्क्षो भवति
218 SK भवतु तन्मात्रेणैव पुरुषः निराकाङ्क्षः, किन्तु कथं तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यमिति चेत्? आह -
81 SK पूर्वज्ञानेन व्यवहारसमाप्तेः कृतार्थत्वं प्रमाणत्वेन सिद्धत्वात् / पूर्वज्ञानेनेत्यादि / यस्माद् यथोक्तविधिना पूर्वज्ञानेन व्यवहारपरिसमाप्तिः, तस्माद् अर्थक्रियाकारित्वं प्रमाणत्वेन व्यवस्थाप्यते
220 SK अत्र परो व्यभिचारं दर्शयन्नाह -
221 SK ननु स्वप्ने ऽपि पूर्वज्ञानादुत्तरार्थप्रतिभासिज्ञानापुत्पद्यते / न तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यं युज्यते, तदानीं सर्वेषां ज्ञानानां भ्रान्तत्वात् /
82 SK ननु स्वप्ने ऽपीत्यादि / स्वप्ने ऽपि पूर्वज्ञाननिमित्तकमुत्तरार्थक्रियाप्रतिभासिज्ञानम् उत्पद्यते / न तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यं युज्यते / कथं न युज्यते? आह - तदानीं सर्वेषां ज्ञानानामित्यादि / स्वप्ने सर्वाणि ज्ञानानि भ्रान्तान्येवेति पूर्वपक्षः
224 SK तत्र विज्ञप्तिज्ञानं न कदाचिच्चित्तस्पन्दनाधिपत्येन विना उद्भवतीत्यतः ताभ्यां ते अनुमीयेते / भ्रान्तिवशात् कदाचिद् व्यवहिते ऽप्युदेति, न तु तदाधिपत्यरहितत्वम् / विशेषस्त्वस्ति साक्षात्परम्परया चेत्युक्तम् /
83 SK तत्र विज्ञप्तिज्ञानमित्यादि / क्रियावागाकारकं ज्ञानं स्पन्दनाधिपत्येन विना नोद्भवति / इत्यतः ताभ्यां ते अनुमीयेते / विशेषस्त्वस्येषः - ततो ऽपिओ उपप्लुतावस्थायां व्यवहिताधिपत्यात् परम्परया उदयः, जाग्रदवस्थायां तु अव्यहितत्वेन / सर्वमेतद् विवेचितं प्रागेव
226 SK एवं विज्ञप्तिज्ञानानामुभयोरप्यवस्थयोः स्पन्दनायत्तत्वं साधयित्वा स्वप्नावस्थायां विज्ञप्तिज्ञानाद् उत्तरकालभाविज्ञानानि यथा स्पन्दनायत्तानि भवन्ति तथा प्रतिपादयितुमाह - तत्र यथा पूर्वविज्ञप्तिज्ञानानां परम्परया स्पन्दनाधिपत्यादुदयः तथा तदुत्तरावस्थाभाविनामपि /
84 SK तत्र यथा पूर्वविज्ञप्तिज्ञानानामित्यादि / स्वप्नावस्थायां यथा पूर्वविज्ञप्तिज्ञानानां परम्परया स्पन्दनधीपत्यादुदयः, तथा तदुत्तरावस्थाभाविनामपि / तत्र परम्परा त्वेवम् - जाग्रदवस्थायां प्रथमं तावत् परस्पन्दनाधिपत्याद् विज्ञप्तिज्ञाने, ताभ्यां प्राण्यन्तरसत्ताया अनुमानम्, प्राण्यन्तरसत्तानुमानात् प्रवेशज्ञानम्, तदनु अभिवादननमस्कारज्ञाने, ताभ्यामप्यनु संलापासनदानादिज्ञानम्, तथा च पठनपाठनस्वाध्यायादिज्ञानानि, ततस्तावत् कालक्रमेण शयनज्ञानम्, ततः निद्रामुपैति / निद्रापूर्वभावनावशाच्च पुनर्विज्ञप्तिज्ञानयोरुदयः / ततः पुनः प्राण्यन्तरसत्ताया अनुमानम् / ततश्च पुनः प्रवेशसंलापादिज्ञानानामुदयः
228 SK प्रवेशादिज्ञानानां पारम्पर्येणोत्पत्तिः / तामेव दर्शयन्नाह -
229 SK विज्ञप्तिज्ञानाश्रयस्पन्दनोत्तरावस्थाचित्तसन्तानादेव परम्परयोत्पादः /
85 SK विज्ञप्तिज्ञानाश्रयेत्यादि / जाग्रदवस्थायां विज्ञप्तिज्ञानस्याश्रयो यत्परसन्तानवर्तिस्पन्दनं तस्य उत्तरावस्था, या प्रमात्रनुमानस्योत्तरवर्तिसंलापादिव्यवहाराकारज्ञानजननसमर्था / तद्भावीनि यानि चित्तानि विज्ञप्तिज्ञानाश्रयस्पन्दनोत्तरावस्थाचित्तसन्तानः, तस्माद् यथोक्तप्रकारेण स्वप्नावस्थायां प्रवेशादिज्ञानानां परम्परयोत्पादः
231 SK स्यान्मतम् - भवतु परम्परयोत्पादः, व्यभिचारस्तु तदवस्थ एव / अत एवाह -
232 SK तत्रापि यादृगनुमानं तादृगविसंवादो व्यवहारश्चाप्यस्त्येवेति केनापि न गृह्येते /
86 SK तत्रा यादृगनुमानमित्यादि / स्वप्नावस्थायामपि यादृक् यावत्कालं परचित्तस्य अनुमानं तादृक् तावत्कालमात्रं संलापादिरूपो ऽविसंवादो ऽस्त्येव / अन्यो ऽन्यसंबद्धो व्यवहारश्चापि तावत्कालम्रात्रमस्त्येव / इत्यतः न कश्चिद् व्यभिचारदोषः / अन्यैश्चास्यैवान्यथा व्याख्या क्रियते / त एवं व्याचक्षते - तत्र स्वप्नावस्थायामपि कार्यलिङ्गस्य कारणे ऽव्यभिचाराद् यादृक् उत्पत्तिधर्मतया परम्परया पूर्वज्ञानस्यानुमानम्, तादृक् अप्रबुद्धचित्तस्याप्यर्थक्रियाप्रतिभासोदयलक्षणो ऽविसंवादो ऽस्त्येव / कालविप्रकृष्टाकारानुमानस्याविसंवादलक्षणसद्भावादेव व्यवहारश्चापि / इत्यतः केनापि न गृह्यत इति
234 SK तथा पराभूतो ऽपि बाह्यार्थवादी धृतिमत्यजन् पुनराचष्टे -
235 SK परचित्तानुमानेन तत्स्वरूपाग्रहे ऽप्यविसंवादाद् भवतु तथा प्रामाण्यम् /
236 SK साक्षात् परचित्तविदां तु कथम्? यदि तावत् परचित्तस्य स्वरूपं साक्षात् जानन्ति, तदा तस्यार्थान्तरग्रहणं स्यात् / अथ न जानन्ति, कथं ते साक्षाद्विदः?
87 SK परचित्तानुमानेनेत्यादि / परचित्तानुमानेन तत्स्वरूपाग्रहे ऽप्यविसंवादाद् भवतु तस्य प्रामाण्यम्, ये तु साक्षात् परचित्तविदः तेषां तु कथम्? यदि तावत् परचित्तस्य स्वरूपं साक्षाज्जानन्ति, तदास्य प्रत्यक्षस्य ग्राह्यमर्थान्तरं स्यात् / अथ न जानन्ति, तदा कथं ते योगिनः साक्षाद्विद इति मतम्
239 SK कथं नाम प्रत्यक्षेणार्थस्वरूपस्याग्रहणं च भवति / अथ न गृह्यते, कथं तर्हि प्रमणमिति चेत्?
88 SK कथं नाम प्रत्यक्षेणेत्यादि / प्रत्यक्षमर्थस्वरूपस्य ग्राहकमितीष्यते / यदि अर्थस्वरूपं न गृह्यते, कीदृक् तत्प्रत्यक्षम्? अर्थस्वरूपाग्रहणे प्रमाणत्वं निराकर्तुमाह - अथ न गृह्यते कथं तर्हि प्रमाणमिति / स्वरूपग्रहणनिबन्धनं ह्यस्य प्रमाणत्वम् / इति पूर्वपक्षाशङ्का
242 SK अप्रहीणग्राह्यग्राहकविकल्पयोगिनां परचित्तज्ञानमपि व्यवहारे ऽविसंवादादेव प्रमाणम्, रूपादिदर्शनवत्; आश्रयापरावृत्तेः /
89 SK अप्रहीणग्राह्यग्राहकविकल्पयोगिनामित्यादि / अप्रहीणः ग्राह्यग्राहकविकल्पो येषां योगिनां तेषां तथा / तेषां यत् परचित्तज्ञानं तद् व्यवहारे ऽविसंवादादेव प्रमाणम्, अस्मदादिसम्बद्धरूपादिदर्शनवत् / न तु स्वरूपग्रहणात् / अप्रहीणग्राह्यग्राहकविकल्पस्य हेतुम् आह - आश्रयापरावृत्तेरिति / तथा हि, तेषामालयविज्ञानलक्षणमपरावृत्तम् / तस्य परावृत्तिः ग्राह्यग्राहकविकल्पवासनायाः प्रहाणम्
244 SK यदि परचित्तज्ञानं न स्वरूपस्य ग्राहकम्, कथं तर्हि तत् स्फुटाकारकं भवतीति चेत्? आह -
90 SK योगबलाद्धि तेषां ज्ञानं परचित्तकारविशेषानुकारि स्फुटाभमुपजायते, कर्मदेवाद्यधिष्ठानबलात् सत्यस्वप्नदर्शनवत् / योगबलाद्धीत्यादि / भावनाबलाद्धि योगिनां परचित्तज्ञानं परचित्ताकारविशेषानुकारि स्फुटमुपजायते, यथा कर्मबलाद् देवाद्यधिष्ठानबलाच्च सत्यस्वप्नदर्शिनां ज्ञानं स्फुटमर्थाकारमुदेति
246 SK यद्येवं चिन्त्येत - भवतु भावनाबलादेव योगिनां परचित्तज्ञानम्, तेन चित्तस्वरूपस्याग्रहणं तु कथमिति / आह -
91 SK तेषामपि न परचित्ताविषयित्वेन ज्ञानमुदेति / ते ऽपि तदाकारसदृशस्वचित्तप्रतिभासमेव जानन्तीत्येवमवधारणाद् परचित्तविद इति व्यवहारः / तेषामपि न परचित्तविषयित्वेनेत्यादि / तत् भावनाबलाज्जातमपि परचित्तस्य स्वरूपं विषयीकर्तुं न समर्थम् / तथाविधानां योगिनां ग्राह्यग्राहकविक्ल्पस्याप्रहीणत्वात् / यदि योगिनः परचित्तस्य स्वरूपं न जानन्ति, कथं परचित्तविद इत्यवधार्यते चेत्? आह - ते ऽपि स्वचित्तप्रतिभासम् इत्यादि / योगिनो ऽपि परचित्ताकारसदृशेन स्वचित्तप्रतिभासेनैव परचित्तं जानन्ति [इति परचित्तविदः] इत्येवमवधारणं कृत्वा व्यवहारः प्रवर्तते
248 SK यदि तत् स्वरूपं न गृह्णाति, कथं तर्हि प्रत्यक्षम्? कथं च प्रामाण्यमिति चेदाह -
92 SK तदाकारानुकारिस्फुटाभत्वात् तत्प्रत्यक्षम्, अविसंवाअदित्वाच्च प्रामाणमिति मतम् / तदाकारानुकारिस्फुटाभत्वात् तत्प्रत्यक्षमित्यादि / यस्मात् परचित्तस्याकारं स्फुटमनुकरोति, तस्मात् प्रत्यक्षमिति मतम् / यस्माच्चाविसंवादि तस्मात् प्रमाणम्
250 SK प्रहीणग्राह्यग्राहकविकल्पानां तथागतानां यत् परचित्तज्ञानम्, तत् परचित्तस्य स्वरूपं विषयीकरोति, आहोस्विन्न / यदि करोति, तस्यार्थो ऽर्थान्तरं स्यात् / अथ न करोति, तदा भगवतः ज्ञानमप्ययथार्थ स्यादिति चेत्? आह -
251 SK अचिन्त्यो हि भगवतः सर्वार्थाधिगमः, सर्वथा ज्ञानभिधानविषयातीतत्वात् / अचिन्त्यो हि भगवतः सर्वार्थाधिगम इत्यादि / अचिन्त्यो हि योगिवर्याणां तथा गतानां बुद्धगोचरः / तेषां तु न केवलं परचित्तज्ञानमचिन्त्यम्, अपि त्वविशेषेण सर्वार्थसर्वाकारज्ञानमपि अचिन्त्यम् / कस्मात्? आह - तदवस्थायाः सर्वथा ज्ञानभिधानविषयातीतत्वादिति /
252 SK तथागतः ज्ञानादन्यज्ञानेनावधारयितुमशक्यत्वात् ज्ञानविषयातीतः / तस्माद् स्वरूपस्य यथावदनधिगमादेव अभिधानविषयातीतः /
253 SK तथागतानां पुनः द्विविधं सर्वार्थज्ञानम् / आदर्शज्ञानेन सर्वधर्मस्वभावतथताज्ञानम्, प्रत्यवेक्षणज्ञानेन च सर्ववस्तुज्ञानम् / तत्र आदर्शज्ञानं ग्राह्यग्राहकविकल्पेनासम्प्रयुक्तं भवति / सर्वधर्मस्वभावतथतायाः वेदनात् सर्वार्थज्ञानम्, लोकोत्तरज्ञानस्वभावत्वात् / प्रत्यवेक्षणज्ञानं लोकोत्तरज्ञानपृष्ठलब्धग्राह्यग्राहकविकल्पसंप्रयुक्तात् सर्वसूक्ष्मावृतव्यवहितवस्तूनां सर्वाकारं जानातीत्यतः लौकिकसर्वाकारज्ञानम्, लोकोत्तरज्ञानपृष्ठलब्धलौकिकज्ञानस्वभावत्वात् / तस्मात् प्रत्यवेक्षणज्ञानं सर्वार्थज्ञाननयेन न विरुध्यते / नापि वितथम्, तस्य ग्राह्यग्राहकविकल्पसद्भावाभ्युपगमात्, तस्य चावितथत्वेन दर्शनात् /
93 SK समताज्ञानमादर्शज्ञानमालम्बते,प्रतीत्यसमुत्पन्नवस्तुमात्रविषयित्वात् / कृत्यानुष्ठानज्ञानं तु स्वसामान्यलक्षणविषयि / एवं सति चतुर्ज्ञानस्वभावः तथागतः / तत्र आदर्शज्ञानं लोकोत्तरम् / तत्पृष्ठलब्धान्यन्यानि च लौकिकानि / तदेवं भगवतः सर्वार्थज्ञानम् एतेषु चतुर्षु यथायोगं योजनीयम्
255 SK सन्तानान्तरसिद्धेर्हि व्याख्यानाद् पदविग्रहैः / कुशलं यन्मयावाप्तं सिद्धिं तेनाप्नुयाज्जनः //
256 SK सन्तानान्तरसंसिद्धेर्वाङ्मात्रविवृतिः कृता / टीका विनीतदेवेन संबुद्धत्वाभिलाषिणा //
257 SK आचार्यविनीतदेवकृता सन्तानान्तरसिद्धिटीका समाप्ता //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vinītadeva: Saṃtānāntarasiddhiṭīkā (sa_vinItadeva-saMtAnAntarasiddhiTIkA.htm).
Source