The Examination of the Body
Carcāstava
SKप्. १) पञ्चस्तव्यां चर्चास्तवो द्वितीयः प्रायः पन्था बहुलविधिगो धाम्नि शाक्तेऽधिशायी पुंसां तत्तत्फलनिवहदो ध्यानवीर्याधिरूढेः | नो वा पुंधामनि जडपदे निष्फले नो परस्मिन् इष्टाप्त्यै तत् स्फुरदुरुफला चर्च्यते कापि वल्ली || इदानीं द्वितीयं चर्चास्तवमुपचिक्रमिषुराचार्यो निर्विघ्नसमाप्तिकामत्वेनाम्बायाः पादकमलं वीरशृङ्गाररसो (मकरन्दो) पश्लिष्टत्वेन परामृशति | ॐ नमस्त्रिपुरसुन्दर्यै- आनन्दसुन्दरपुरन्दरमुक्तमाल्यं [मन्थरे तिपाठान्तरम्] मौलौ हठेन निहितं महिषासुरस्य | पादाम्बुजं भवतु मे विजयाय मञ्जु मञ्जीरशिञ्जितमनोहरमम्बिकायाः || १ || अम्बिका नाम परिपूर्णाहम्भावात्मस्फुरणावलोकनचतुरा सर्वातिशयत्वशालिनी परावाक् शक्तिः | तदुक्तं चतुःशत्याम्- आत्मनः स्फुरणं पश्येद्यदा सा परमा कला | अम्बिकारूपमापन्ना परा वाक्समुदीरिता || प्. २) इति | श्रीप्रत्यभिज्ञायामपि- चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता (१-५-१३) इति तस्य अम्बिकायाः शक्तेर्विश्वजनन्याः पादाम्बुजं पादश्चरणमेव मार्दवसौरभादिगुणयोगादम्बुजं कमलं मे मम विजयाय विजयं विश्वोत्कृष्टपदलाभमवाप्तुं भवतु भूयादित्याशंसायां लोत् | विजयायेति तुमर्थाच्च भाववचनात् इत्यनेन सम्प्रदानत्वम् | अथ च विजयः सर्वनियन्तृत्वं तत्प्राप्तये इत्यर्थः | या ब्राह्मणो जितिर्या व्युष्टिरित्यत्र कौषीतक्युपनिषच्छ्रुतावाचार्यैस्तथा व्याख्यातत्वात् | एवमग्रेऽपि यथार्थसंगत्या जयपदोदीरणेऽर्थो बोध्यः | अत्र प्रकृतपादप्रहारोपयोगित्वेन प्रायो दक्षिणस्यैव दाक्षिण्यप्रसिद्धेर्दक्षिणं पादकमलं ज्ञेयम् |
SKयद्वा- रणे ससंरम्भव्यापारासक्त्या सहसा प्रहारदानावसरापातेऽविशेषेण सव्येतरपादयोरन्यतरो ग्राह्यः | अथवा महिषासुरमर्दनमेकस्यैव पादस्य कर्म इति वीरकर्माविष्करणम् इत्यभिप्रायेणैकवचनोपन्यासः | कीदृशं महिषासुरस्य मौलौ किरीटे | यद्वा मौलिनोपलक्षिते शिरसि हठेन साहसेन निहितं कृतप्रहारं येन सोऽसुरो रणे जीवितावसानमगात् | अतः शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा | इति ब्रह्माण्डोक्त्या तत्काले पादाम्बुजे शिञ्जितारावोत्पत्तेरौचित्यसद्भावात् मञ्जुभिर्मनोज्ञैर्मञ्जीरशिञ्जितैर्नूपुरादिझणत्कारैर्मनोहरं स्वभक्तानां हृदयावर्जकं विपक्षाणां हृद्भङ्गकारि च | तथा दुर्जयारिविघातजन्येनानन्देन प्रमोदेन सुन्दरो भाविस्वेश्वर्यपदलाभात्मकसौभाग्यसूचकेन वा हर्षेण स्पृहणीयो यः पुरन्दरो देवेन्द्रस्तेन विजयकालोचिते भगवतीचरणकमलार्चनप्रस्तावे मुक्तानि निक्षिप्तानि माल्यानि दिव्याद्भुतसुरभिविचित्रकुसुमप्रचयोभ्भितस्रजो यस्मिन् तत् | अथवा आनन्दः श्रीपुत्रः सुन्दरः कामेश्वरः पुरन्दर इन्द्रस्त्रिपुरारिर्वा तैर्मुक्तमाल्यमिति पूजावसरे आबध्यमानपुष्पदामकमित्यर्थः | प्. ३) एतदुक्तं भवति भगवत्याः शिञ्जानपादप्रहारो यथा तदानीमिन्द्रस्य विजयहेतुरभूत् तथेदानीं मनसि स्मर्यमाणं तद्गतरतिभावादिभिर्विभाव्यमानं मञ्जीरशिञ्जितादिभिरुद्दीपनैरनुभाव्यमानं तदेव पादाम्बुजं स्वान्तश्चर्व्यमाणतामापद्यमानं ममापि लोकोत्तरसान्द्रानन्दचमत्कारातिशयोल्लासाय भूयादित्याशास्ते | अत्र शृङ्गारवीरयोराश्रयैक्यात् स्पष्टाभासमानत्वेन संकरः | चरणविद्यासंप्रदायरहस्यं सुगोपनीयतया गुरुमुखावगम्यतया च नोद्धाट्यते | तदवगतौ सत्यामेकवचनत्वेन कथनाभिप्रायो ज्ञायेत | नापि युगलत्वाभिधानप्रसिद्धिविरोधः स्यात् || १ || अथ श्रीदेवीविषयकाणां प्रणतीनामपि तद्विद्यांशोपासनौचित्यनुगुणानि फलानि निर्दिशति-
SKसौन्दर्यविभ्रमभुवो भुवनाधिपत्यसम्पत्तिकल्पतरवस्त्रिपुरे ! जयन्ति | एते कवित्वकुमुदप्रकरावबोधपूर्णेन्दवस्त्वयि जगज्जननि ! प्रणामाः || २ || हे जगज्जननि ! त्रिपुरे ! त्रीणि पुराणि शरीरबुद्धिप्राणात्मकानि यस्यास्त्रिपुरा तथाहि श्रीचक्रं पुरत्रयरूपं चतुरस्रषोडशदलाष्टदलात्मकं प्रथमं पुरं चतुर्दशारद्विदशारात्मकं द्वितीयं अष्टारत्रिकोणबिन्दुचक्रात्मकं तृतीयं पुरमिति रहस्यशास्त्रेषु निर्णीतम् | अथन्तिराणि तु प्राक्प्रोक्तानि यथास्थानमग्रेऽपि वक्ष्यन्ते | त्वयि त्वद्विषये एते भक्तिममद्भः प्रह्वीभूतैरस्माभिर्विनिवेदिताः प्रणामा नमस्कृतयो जयन्ति सर्वोत्कर्षफलदानशालिनः सन्ति | कीदृशाः सौन्दर्यस्य सौभाग्यस्य विभ्रमाणां शृङ्गारजन्यमनोवृत्त्यनवस्थादीनां विलासानां च भुव आकरा उत्पत्तिस्थानानि | यदुक्तम्- चित्तवृत्त्यनवस्थानं शृङ्गाराद्विभ्रमो मतः | प्. ४) इति | अत्र बहुवचनस्य समासान्तर्गतत्वाल्लब्धेन आदिना विलासलीलादयो हावभावादयोऽपि ग्राह्याः | तत्र मदरागहर्षजनितो विपर्यासो विभ्रमः | यथा- अनिमित्तमासनादुत्थायान्यत्र गमनम् प्रियारब्धकथामाक्षिप्य सख्या सहालापः मुधैव रुषितक्रोधौ पुष्पादीनां याञ्च्या सहसा तत्परित्यागः वस्त्राभरणमाल्यानामकारणतः खण्डनं मनन च | केचित्तु योषितां यौवनजो विकारो विभ्रम इत्याहुः | ततुक्तम्- उपदिशति कामिनीनां यौवनमद एव ललितानि |
SKइति | सर्वत्रात्र शृङ्गाररस एव कारणम् | पुनः कीदृशाः | भुवनानामाधिपत्यं साम्राज्यं तस्य संपत्तेः समृद्धेः कल्पतरवस्तज्जनकाः तथा कवित्वानां कविकर्मणां अष्टादशलक्षणलक्षितानां रूपकादिदृश्यश्रव्यभेदैर्भेदितानां काव्यानां शृङ्गारादिरससन्दर्भाणां तद्रूपाणां कुमुदानां कुवलयकुसुमानां प्रकराः कदम्बानि तेषामवबोधे ज्ञानविकासे पूर्णेन्दवो राकासुधांशवो वाग्विलासकारिण इति यावत् | एभिस्त्रिभिर्विशेषणैरिदं सूच्यते यत्कूटत्रयात्मकस्य महात्रिपुरसुन्दर्या महामन्त्रस्योपासनया त्रिविधफललाभस्तत्रादिकूटोपासनायां सरस्वतीप्रसादात्कवित्वशक्तिजननं द्वितीयकूटोपासनायां तदधिपतिकामराजप्रसादात्सौन्दर्यादिजननं तृतीयोपासनायां तत्प्रसादात्साम्राज्यलाभः इति ज्ञेयम् | शक्तिकूटसधनादिफलं तु वामकेश्वरे- प्रवक्ष्यामि महादेवि ! शक्तिकूटस्य साधनम् | शक्तिबीजस्वरूपा तु सृष्ट्वा संहरते यदा || सृष्टिसंहारपर्यन्तं शरीरे परिचिन्तयेत् | ततो भवति देवेशि ! वैनतेय एवापरः || नागानां दर्शनाद् देवि ! जडीकरणकारकः | देहिनाममृतासारधीरधाराधरोपमः || स्थिरकृत्रिमशंकादिविषोपविषनाशनः | दुष्टव्याधिग्रहानोकडाकिनीरूपिकागणैः || प्. ५) भूतप्रेतपिशाचौघैस्त्रिनेत्र इव दृश्यते | अथवा येन विद्येयं परिपूर्णा विचिन्त्यते || जन्ममण्डलहृत्पद्ममुखमण्डलमध्यगा | केवलैव महेशानि ! पद्मरागसमप्रभा || तस्याष्टगुणमैश्वर्यमचिरात्संप्रवर्तते | मनसा संस्मरत्यस्या यदि नामापि साधकः || तदैव मातृचक्रस्यविदितो भवति प्रिये | यदैव जपते विद्यां महात्रिपुरसुन्दरीम् || तदैव मातृचक्राज्ञा सेक्रामत्यस्य विग्रहे | सर्वासां सर्वसंस्थानां योगिनीनां भवेत्प्रियः || पुत्रवत्परमेशानि ! ध्यानादेव हि साधकः | यदा तु परमेशानि ! परिपूर्णां प्रपूजयेत् || प्रयच्छन्ति तदैवास्य खेचरीसिद्धिमुत्तमाम् | चतुःषष्तिर्यताः कोट्यो योगिनीनां महौजसाम् ||
SKचक्रमेतत्समाश्रित्य संस्थिता वीरवन्दिते ! | आदौ सम्बन्धिनि पदे मध्ये बीजाष्टकं बहिः || कलां ध्यात्वाङ्गना रङ्गे जायतेऽनङ्गवत्प्रियः | करशुद्ध्यादिविद्यानामेकैकं परमेश्वरि || रुद्रयामलतन्त्रे तु कर्म प्रोक्तं मया पुरा | मादनैर्मदनो भूत्वा पाशांकुशधनुःशरैः || क्षोभयेत्स्वर्गभूर्लोकपातालतलयोषितः | तथैव शाक्तैर्देवेशि ! त्रिपुरीकृतविग्रहः || साधयेत्सिद्धगन्धर्वदेवविद्याधरानपि | तत्र शाक्ता महावज्रप्रस्तारे जनिताः शराः || मादनास्त्वादिपरतः सर्वाधस्तान्नियोजिताः | आद्यन्तगो महापाशः पौरुषेयः प्रकीर्तितः || रुद्रशक्तिः कुण्डलाख्या माया स्त्रीपाश उच्यते | तुरीयमरुणावर्गे द्वितीयमपि पार्वति || प्. ६) पुंस्त्रीकोदण्डयुगलं कामाग्निव्यापकोऽङ्कुशः || इति || २ || अधुना स्वात्मनि स्तुतिकर्तकताभिमानं निरस्यन् स्तोतृषु स्वकलनायां व्रीडामाविष्करोति- देवि ! स्तुतिव्यतिकरे कृतबुद्धयस्ते वाचस्पतिप्रभृतयोऽपि जडीभवन्ति | तस्मान्निसर्गजडिमा कतमोऽहमत्र स्तोत्रं तव त्रिपुरतापनपत्नि ! कर्तुम् || ३ || हे त्रिपुरतापनपत्नि ! त्रिपुरो नाम दैत्यस्तस्य तापनो दाहकः शिवस्तस्य पत्नी तदवियुक्तवपुस्तत्सम्बोधनं हे परब्रह्ममहिषि ! देवि ! शिवादिधरण्यन्तजगत्सर्गादिक्रीडातत्परे ! ते तव स्तुतिव्यतिकरे त्वद्गुणवर्णानारूपस्तवनव्यापारे कृतबुद्धयस्तीक्ष्णकुशाग्रधिषणा विद्वांसो वाचस्पतिप्रभृतयो बृहस्पत्यादयोऽपि जडीभवन्ति अजडा अपि सन्तो जडाः संपद्यन्ते मूकीभवन्ति | यतो वाचो निवर्तन्ते अप्राप्य मनसा सह (शांडि० २-३) इति श्रुतेः | तेष्वपि त्वद्रूपाया वाचस्त्वदिच्छाया ऋते प्रसराभावादिति यावत् तत्र मन्दमतीनां मादृशानां किमु वक्तव्यं अपि शब्देन वेदा अप्यसमर्थाः इति | यतस्ते विधिमुखेन प्रतिपादयितुमुद्यताश्च स्थूलारुन्धतीन्यायेन तटस्थलक्षणरीत्यैव सत्रपं निर्दिशन्ति | यदुक्तं शिवस्तवे श्रीमदाचार्यभास्कररायपादै-
SKसर्वज्ञाः श्रुतयोऽपि याः परशिव त्वत्प्राणरूपाः प्रियाः शृङ्गग्राहिकया त्रपाभृत इव त्वां न प्रजल्पन्ति ताः | अन्यानेव तु नेतिनेति बहुशो वाचा निषेधन्ति चेत् कोऽन्यस्त्वामिदमित्थमित्यनुवदेत्तत्रापि मादृग्जनः || इति | ग्रन्थकृतापि पञ्चमे स्तवे श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे | प्. ७) कथं ते विन्दन्ते पदकिसलये पार्वति ! पदम् || (श्लो० २४) इत्युक्तम् तस्माद्धेतोः अत्र वाचस्पत्यादिकृतबुद्धित्वगणनायां प्रस्तुतायां तव स्तोत्रं लौकिकगुणानुवादः स च षड्विधः | तदुक्तम्- नमस्कारस्तथाशीश्च सिद्धान्तोक्तिः पराक्रमः | विभूतिः प्रार्थना चेति षड्विधं स्तोत्रलक्षणम् || इति | प्रगीतमन्त्रसाध्यकगुणिनिष्ठगुणाभिधानं वैदिकं स्तोत्रं वा कर्तुमहं तेषां वाचस्पत्यादीनां मध्ये कतमो न कोऽपि गणनायार्हः अयमसाविति निर्धारणीयः | यतो निसर्गजडिमा स्वभावत एव जाड्ययुक्तो मन्दमतिः वाचस्पत्यादीनामप्यव्यापार्ये वस्तुनि व्यापारचिकीर्षा चाञ्चल्यान्मम महती त्रपेत्यर्थः | यदुक्तं श्रीललितास्तवरत्ने- कस्तु क्षितौ पटीयान्वस्तु स्तोतुं शिवाङ्कवास्तव्यम् | अस्तु चिरन्तनसुकृतैः प्रस्तुतकाम्याय तन्मम पुरस्तात् || इति || ३ || नन्वेवमशक्यस्तोत्रकरणे कथं तव चिकीर्षोद्यम इत्याशङ्क्य भक्तिरसवैवश्यं स्वस्य द्योतयति- मातस्तथापि भवतीं भवतीव्रतापविच्छित्तये स्तुतिमहार्णवकर्णधारः [स्तवमहार्णवेति पाठान्तरम् |] | स्तोतुं भवानि ! स भवच्चरणारबिन्दभक्तिग्रहः किमपि मां मुखरीकरोति || ४ || हे मातर्विश्वजननि ! भवानि ! भवस्य पत्नि ! तथापि निसर्गतो जडिम्न्यपि भवे संसारे तीव्राणां दुःसहानां तापानां त्रिविधाध्यात्मिकादीनां क्लेशानां विच्छित्तये विच्छेदं कर्तुं भवतीं त्वां स्तोतुं स स्वसंवेद्यो प्. ८)
SKभवच्चरणारबिन्दयोस्त्वत्पादाम्बुजयोर्विषये भक्तिरतिशयगाढस्नेहस्तद्रूपो ग्रह आवेशस्त्वत्पादाम्बुजमकरन्दरसनावेशपारवश्यं किमप्यतर्कितमेव मां मुखरीकरोति वाचाटयति हठान्मां स्तोतुं प्रयोजयति | कीदृशः स्तुतिरूपो यो महार्णवो निरवधिगाम्भर्यादिभिर्दुरवगाह्यमानत्वान्महासागरस्तत्र कर्णधारः पारप्रापकत्वात्पोतवाहकः यथा पोतवाहेनाब्धेः पारे नीयते तद्वन्मां मन्दमतिमपि त्वद्भक्तिरेव स्तुतेः पारं नयेदिति भावः | अथ च वाग् मान्द्यमपि तावदेव सञ्जातायां त्वत्कटाक्षदृष्ट्यां वाक् प्रवाहप्रसरणनिरोधात् | यदुक्तं भट्टनारायणेन- त्वय्यनिच्छति कः शम्भो ! शक्तः कुब्जयितुं तृणम् | त्वदिच्छानुग्रहीतस्तु वहेद् ब्राह्मीं धुरं न कः || (स्त० चि० ९३) || ४ || ननु विष्णुविरिञ्च्यादय एव विश्वसर्गादिकारित्वात् स्तुत्याः नाहमित्याशङ्क्याह- सूते जगन्ति भवती भवती बिभर्ति जागर्ति तत्क्षयकृते भवती भवानि | मोहं भिनत्ति भवती भवती रुणद्धि लीलायितं जयति चित्रमिदं भवत्याः || ५ || हे भवानि ! भवती जगन्ति शिवादिक्षित्यन्तषट्त्रिंशत्तत्त्वात्मकानि सूते सृजति | यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद् ब्रह्मेति (तैत्ति० ३-१) श्रुतेः | तस्माद्वा एतस्मादात्मन आकाशः संभूत आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवीति क्षित्यन्तसर्गश्रुतेः (तैत्ति० २-१-१) | यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः | तथाक्षराद्विविधाः सौम्यभावाः प्रजायन्ते तत्र चैवापि यान्तीति श्रुतेः | यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्तीति च (बृह० २-१-२०) | याज्ञवल्क्यस्मृतिरपि- प्. ९) निःसरन्ति यथा लोहपिण्डात्तप्तात् स्फुलिङ्गकाः | सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि || इति | सृज्यं त्वन्तस्तादात्म्येनावस्थितमेव अन्यथा तद्विषयपरामर्शानुपपत्तेः यदुक्तम्- स्वामिनश्चात्मसंस्थस्य भावजातस्य बासनम् | अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते || (ई० प्र० १-५-१०)
SKइति | सदेवसौम्येदमग्र आसीत् (छां० उ० ६-२-१) एकमेवाद्वितीयं ब्रह्म इति श्रुतेः | (पैङ्गलो० १-१) अग्रेऽपि वक्ष्यते- शिवादिक्षित्यन्तं त्रिवलयतनोः सर्वमुदरे तवास्ते (स० ज० स्त० २९) इति बह्वस्यां प्रजायेयेति तदात्मानं स्वयमकुरुत इति श्रुतेरिच्छामात्रेणैव क्रमतारतम्यतो विश्वोत्पादनात् | स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति (प्र० हृ० सू० २) इति चितिः स्वतन्त्रा विश्वसिद्धिहेतुरिति (प्र० हृ० सू० १) स्वेच्छयैव जगत्सर्वं निगिरत्युद्गिरत्यपि तथा- जगच्चित्रं समालिख्य स्वेच्छातूलिकयात्मनि इति भुवनानि शैवागमप्रक्रियया चतुर्विंशत्युत्तरद्विशतसंख्यकानि प्रक्रियान्तरतो भूर्भुवःस्वर्लक्षणानि वा चतुर्दश वा भुवनाध्वत्मकानि सूते सृजति भवत्या ब्राह्मीशक्तिरूपयानाविष्टस्य ब्रह्मणो जगत्सर्जनक्रियायामशक्तत्वात् शक्तिविहीनस्य पाषाणादिजडप्रायत्वात्स्पन्दाभावे तत्र परमुखप्रेक्षित्वात्पारतन्त्र्यं सुस्पष्टमतो वस्तुतो जगत्सर्जनादिकं भवत्येव तत्तच्छक्तिस्वरूपा विधत्ते इत्यर्थः | भवत्येव तानि सृष्टानि बिभर्ति धारयति पोषयति च अर्थाद्वैष्णवीशक्तिर्भूत्वा तत्कार्यं कुरुते | प्राग्वद्विष्णोरपि तच्छक्त्यावेशं विना स्वकार्यसम्पादनासामर्थ्यात् | अत्र भवतीति पदस्यासकृदाम्रेडनेनावधारणार्थोऽवधार्यस्तेन भवत्येव नान्या इत्यर्थः | एवमग्रतोऽपि बोद्धव्यम् | तथा तेषां सृष्टधृतपुष्टानां जगतां प्. १०) क्षयकृते यथाकालं यथास्वं च संहर्तुं बीजात्मना स्वस्मिन्नवस्थातुं न तु सर्वथा विलयं सम्पादयितुं भवत्येव जागर्ति जागरूकास्ति न तु कादाचित्कीं प्रमादावस्थां तत्र समाश्रयते | अत्रापि पूर्ववद्रौद्रीशक्तिरूपा संपद्य संहृत्याधिष्ठातू रुद्रस्य कार्यं करोतीति ज्ञेयम् | एवं भवत्येव मोहमपूर्णम्मन्यतात्मकमाणवमल- tamomohaprabhṛtayo viparyayā śaktituṣṭisiddhyākhyāḥ pañcāśat pratyayā upalakṣyante yaduktaṃ viṣṇupurāṇe- tamo moho mahāmohastāmisro hyandhasaṃjñitaḥ | avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ ||
SKइति | ज्येष्टाख्या शक्तिः संभूय स्वकिरणचयविस्फारणेन परशक्तिपातविद्धानणुन्मोहाब्धिनिम्मग्नान् उद्धरन्ती सदाशिवाख्यपञ्चमकारणकार्यं कल्पयतीत्यर्थः | तथैव भवती रुणद्धि परशक्त्यनाघ्रातत्वान्मायान्धाञ्जन्तूंस्तिरोदधाति स्वस्वरूपावरणं करोति | अत्रेश्वराख्यकारणपदे ऐश्वर्याख्यशक्त्या पूर्ववत्तत्कार्यसम्पादनात् | एतेन चतुर्थं कृत्यमभिहितं ज्ञेयम् | तदुक्तं भागवते- शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् | इच्छया संहरत्येषा जगदेतच्चराचरम् || न विष्णुर्न हरो नेन्द्रो न ब्रह्मा न च पावकः | नार्को न वरुणः शक्ताः स्वे स्वे कार्ये कथञ्चन || तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः | कारणं सर्वकार्येषु प्रत्यक्षेणावगम्यते || इत्यनेन सर्जनादिकर्तृत्वं प्रत्यक्षादिभिः प्रमाणैः शक्तेरेव प्रसिद्धमित्युक्तं भवति | अन्यत्रापि- शिवोऽपि शवतां याति कुण्डलिन्या विवर्जितः | शक्तिहीनोऽपि यः कश्चिदसमर्थः स्मृतो बुधैः || प्. ११) इति | इतीदं पञ्चकृत्यात्मकं कार्यं चित्रमाश्चर्यं विचित्रं च भवत्यास्तव लीलायितं लीला अन्यप्रयोजननिमित्तको व्यापारः स्वप्रमोदातिशयहेतुको वा तदावरणं खेलायितं लीलया चेष्टितमनायासेन कृतमित्यर्थः | तदुक्तं भास्कररायेण स्वकृतदेवीस्तवे- विधिविष्णुमुखामरोदयस्थितिनाशेषु शिवोऽप्यनीश्वरः | जगदम्ब ! तव त्वयं क्रमः क्षणमुद्दालकपुष्पभञ्जिका || उद्दालकेति क्रीडाविशेषस्य नामधेयम् | जयति आह्लादरसातिरेकात्सातिशयेन वर्तते | स्वेच्छया स्वभित्तौ विश्वमुन्मीलयतीत्युक्तस्थित्या निर्भरानन्दरसप्रवाहघनोच्छलितमेतदिति भावः | अत्रायमाशयः अग्नीषोममयी पराशक्तिः स्वरूपगोपनात्मिकायां लीलायामपि स्वप्रत्यभिज्ञालक्षणं कृत्यपञ्चकमनुशीलयन्ती तेन चिदानन्दघनं स्वात्मानवमभासयेदिति | तदुक्तम्- नमः शिवाय सततं पञ्चकृत्यविधायिने | चिदानन्दघनस्वात्मपरमार्थावभासिने || (प्र० हृ० श्लो० ९)
SKइति प्रत्यभिज्ञाहृदये तथापि तद्वत्पञ्चकृत्यानि करोति (सू० १०) | तेषां लक्षणानि च तत्रैव आभासनरक्तिविमर्शनबीजावस्थापनतस्तानीति (सू० ११) || ५ || एवं तावत् भगवतीप्रसादपात्रीभूतादपि अन्ये तदाशंसव इति वचोभङ्ग्या तन्महिमाद्भुतत्वं ध्वनयन्नाह- यस्मिन्मनागपि नवाम्बुजपत्रगौरि ! गौरि ! प्रसादमधुरां दृशमादधासि | तस्मिन्निरन्तरमनङ्गशरावकीर्णसीमन्तिनीनयनसंततयः पतन्ति || ६ || हे नवाम्बुजपत्रगौरि ! नवं नूतनं सद्यः प्रफुल्लं यदम्बुजं कमलं तस्य प्. १२) यानि पत्राणि स्निग्धारुणवर्णानि दलानि तद्वद्गौरो वर्णो यस्यास्तत्सम्बोधनं अत एवानुगुणामन्त्रणं हे गौरि ! कात्यायनि ! इति | तदुक्तं देवी पुराणे- योगाग्निना तु या दग्धा पुनर्जाता हिमालयात् | शंखकुन्देन्दुवर्णा च तस्माद्गौरीति सा स्मृता || इतीयं कान्यकुब्जपीठाधिष्ठात्री गौरी वा | तदुक्तं पाद्मे- कान्यकुब्जे तथा गौरी इति | अथवा ब्रह्माज्ञया यदा देवी स्वात्मानं शुक्लकृष्णवर्णत्वेनाभासितवती तदा गौरीत्यादिनाम्ना प्रसिद्धाभूत् | तदुक्तं वायुपुराणे- तत्र या सा महाभागा शंकरस्यार्धकायिनी | कायार्धं दक्षिणं तस्याः शुक्लं वामं तथा सितम् || आत्मानं विभजस्वेति प्रोक्ता देवी स्वयम्भुवा | तदैव द्विविधा भूत्वा गौरी कालीति सा द्विजाः ||
SKइति | यस्मिन्ननुग्राह्ये दासजने प्रसादेनगुणेनानुग्रहेण च मधुरां माधुर्योपेतां मनोज्ञां हृद्यां चेत्यर्थः | मनाक् अपि दृशमनुकम्पारसार्द्रंकटाक्षमादधासि निहितवती असि | समीप्ये वर्तमानवत्प्रयोगः | तस्मिंस्त्वद् अपाङ्गदृक्सम्पातभाजने जनेऽनङ्गस्य स्मरस्य शरैरशोकादिकुसुममयैः पञ्चसंख्यैर्बाणैरवकीर्णा आविद्धा याः सीमन्तिन्यः कामज्वरार्ताः कामिन्यस्तासां नयनसन्ततयो लोचनपङ्क्तयो निरन्तरमविरतं यथा तथा पतन्ति अनङ्गज्वरशान्त्यर्थं तास्तं प्रति सरसं दृशो निबध्नन्ति इत्यर्थः | अत्र दृक्पातकार्ये कारणत्वेन त्वय्येकस्यां स्थितायां सत्यामन्यासामपि खले कपोतिकान्यायेन दृक्पाताः स्युरिति संदर्भविच्छित्या समुच्चयोऽलङ्कारः | अत्रानङ्गपदेन स्मरस्य केनापि प्रतिद्वन्द्विनाऽप्रतियोगित्वमशरीरत्वात् | अत एव तासामबलानामुपायान्तराभावात्तद्दुःखशान्तये साक्षाद्दुःखापनोदनाम्बाप्रसाददृग्लाभाभावात्तदनुगृहीतजन- p. 13) spṛhaṇīya iti jñeyam | atha ca dvitīyabījopāsanāphalamapi sarvavaśīkāra iti || 6 || adhunā prakhyātasamrāṇnidarśanarītyā bhaktimataḥ protsāhayan pādārabindarajomāhātmyamāvedayati- pṛthvībhujo'pyudayanapravarasya tasya vidyādharapraṇaticumbitapādapīṭhaḥ | yaścakravartipadavīpraṇayaḥ sa eṣa tvatpādapaṅkajarajaḥkaṇajaḥ prasādaḥ || 7 || he devi ityadhyāhṛtya prāgvatsambodhanārtho jñeyaḥ athagā devīdyotanādisvabhāvā div dhātoḥ krīḍāvijigīṣādyanekārthānugamāt | sa eṣa prasiddhatayā sarvānubhūtatvācca tvatpādapaṅkajayostava caraṇakamalayo rajasāṃ parāgāṇāṃ kaṇaḥ | sūkṣmoṃ'śastajjastajjanyaḥ prasādo'nugrahaḥ | sa kastasya prasiddhātikrāntatayā bhavatprasādapātrībhūtasyodayanapravarasya naravāhanadattasya vṛhatkathāyāstatkathāmūlatvāt | pṛthvībhujo'pi mahīmātrabhujo'pi rājño yaścakravartipadavyāḥ sārvabhaumapadasya praṇayaḥ prāptiḥ samapadyateti śeṣaḥ | kīdṛśaḥ vidyādhareti-
SKपादुकाखड्गवेतालसिद्धद्रव्यमनःशिलाः | अञ्जनं विवरं चैव चेटकं यक्षिणीं तथा | यत्किञ्चित्सिद्धिनिचयं विद्यते भुवनत्रये | इति वामकेश्वरोक्तनीत्यासिद्धिविद्यानां धारका विद्याधराः | यद्वा विद्या शिक्षाकल्पादयोऽष्टादश तासां पठनपाठनादिप्रचयगमनतदर्थानुष्ठानादिना धरा धारका विद्याधरा विद्वांसः यदुक्तं वायवीयपुराणे- अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः | पुराणं धर्मशास्त्रं च विद्याः ह्येताश्चतुर्दश || प्. १४) आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् | अर्थशास्त्रं परं तस्माद्विद्यास्त्वष्टादश स्मृताः || इति | ये त्वत्र विद्याधरा देवविशेषा इत्याहुस्तन्निर्मूलम् | प्रकृते विद्याधरदेवजातीराज्यलाभाप्रसिद्धेः | तेषां प्रणतिभिः प्रणामैश्चुम्बितं स्पृष्टं पादपीठं पादाधःस्थितमासनं यस्य स साम्राज्यं प्राप्य पादपीठेषु तैर्निरन्तरं प्रणतः इत्यर्थः | एवमेतादृशोऽनुग्रहविपाकस्त्वच्चरणरजःसंपर्के किमु त्वत्कृपाकटाक्षपाते इति भावः | अयमत्राशयः उदयनप्रवरः सामान्यकुलोत्पन्नः नृपः कश्चिन्महादेव्यनुग्रहाच्चक्रवर्तित्वमवाप्य महाभोगैश्वर्यसम्पदं भेजे इति | अपि शब्द आश्वर्यद्योतको | अत्रापि कामराजोपासनायाः फलकथनमूह्यम् | कामराजसाधनादिफलं तु वामकेश्वरे- ततस्तु शृणु देवेशि ! कामराजस्य साधनम् | तथा कामकलारूपा मदनाङ्कुरगोचरे || उद्यदादित्यबिम्बाभा समुज्ज्वलवपुः प्रिये | स्फुरद्दीपशिखाकारा बिन्दुधाराप्रवर्षिणी || समस्तभुवनाभोगकवलीकृतजीविता | महास्वमहिमाक्रान्तिस्वस्थाहङ्कृतिभूमिका || क्रमेण तु ततोऽनङ्गपर्यन्तं प्रोल्लसन्त्यपि | शरीरानङ्गपर्यन्तमेकैवमुभयात्मिका || ततो भवति देवेशि ! सर्वशृङ्गारमानिनाम् | रागिणां साधको देवि ! बाधको मदनाधिकः || तद्दृष्टिपथगा नारी सुरी वाप्यथ वासुरी | विद्याधरी किन्नरी वा यक्षी नागाङ्गनाऽथवा || प्रचण्डतरभूपालकन्यका सिद्धकन्यका | ज्वलन्मदनदुष्प्रेक्ष्यदहनोत्तप्तमानसा ||
SKक्लिन्ना प्रचलितापाङ्गा विमूढा मदविह्वला | निवेदितात्मसर्वस्वा वशगा देवि ! जायते || प्. १५) चलज्जलेन्दुसदृशी बालार्ककिरणारुणा | चिन्तिता योषितां योनौ संभक्षोयति तत्क्षणात् || सैव सिन्दूरवर्णाभा हृदये चिन्तिता सती | संमोहोन्मादनाविष्टचित्ताकर्षकरी स्मृता || नियोजिताथवा मूर्ध्नि वर्षन्ती रक्तबिन्दुभिः | धारणसंप्रयोगेन करोति वशगं जगत् || अथान्यं शृणु वक्ष्यामि प्रयोगं भुवि दुर्लभम् | येन विज्ञातमात्रेण साधको मदनायते || कामस्थं काममध्यस्थं कामोदरपुटीकृतम् | कामेन कामयेत्कामं कामं कामेषु निक्षिपेत् || कामेन कामितं कृत्वा कामस्थं क्षोभयेद्ध्रुवम् | इति || ७ || एवं कवीनामपि निरर्गलसारस्वतसूक्तिलाभद्वारा कीर्तिरपि चिरस्थायिनी त्वत्पादप्रसादजं फलमित्याह- त्वत्पादपङ्कजरजःप्रणिपातपूतैः [पूर्वैरिति पाठान्तरम् |] पुण्यैरनल्पमतिभिः कृतिभिः कवीन्द्रैः | क्षीरक्षपाकरदुकूलहिमावदाता कैरप्यवापि भुवनत्रितयेऽपि कीर्तिः || ८ || हे देवि ! त्वत्पादपङ्कजयोस्तव चरणकमलयो रजोभिः परागपुञ्जैः प्रणिपातेषु प्रणतिषु मूर्धसंपर्कात्पूतैः पवित्रितदेहैरत एव पुण्यैः पुण्यकृद्भिस्त्वत्पादार्चनरूपशुभकर्मकारित्वादित्यर्थः | अनल्पा अमन्दा मतयो बुद्धयो येषां तैः कृतिभिः कृतप्रज्ञैर्विद्वद्भिरतः कवयः काव्यादिरचनाकौशलवन्तस्तेषामिन्द्रैः प्राप्तमहाकविपदवीकैः कैरपि विरलत्वात्कतिपयैः श्रीहर्षमाघबाणभट्टकालिदासादिप्रभृतिभिर्भुवनत्रयेऽपि प्.१६)
SKत्रैलोक्यामपि क्षीरं पयः क्षपाकरः सुधांशुर्दुकूलश्चीनांशुकं हिमं तुषारस्तद्वदवदाता शुक्लवर्णा कीतिर्यशोऽवापि प्राप्ता | अत्र समुदितानां बहुशुक्लवस्तूनां संभूय शौक्ल्यगुणातिशयपरिणामादिति बहूपमानाश्रयेण निरुपमशौक्ल्यगुणाधिक्यं तत्कीर्तौ ध्वन्यते | अर्थात् ते कवयो महादेवीप्रसादाधिगतसारस्वतसुधाब्धिसारप्रसरन्निरर्गल- śṛṅgārādirasajīvitāni kāvyāni nibadhya divaṃ gatā api kīrtiśarīraiściraṃ sthāyibhiradyāpi bhūmau jīvantīveti | anena vāgbhavopāsanāphalakīrtanaṃ sūcyate iti || 8 || na kevalaṃ manuṣyāṇāmeva bhogaiścaryasaṃprāptyarthaṃ devyārādhanāpekṣamāṇatvaṃ yāvatsamṛddhānāṃ devānāmapi tadyogakṣemodvahanāyeti sūcayan devīprītyatiśayāpādanāya lokāprasiddhamupacāropakaraṇamāha- kalpadrumaprasavakalpitacitrapūjāmuddīpitapriyatamāmadaraktagīti [gītimiti pāṭhāntaram] | nityaṃ bhavāni ! bhavatīmupavīṇayanti vidyādharāḥ kanakaśailaguhāgṛheṣu || 9 || he bhavāni ! bhavaṃ mahādevaṃ saṃsāraṃ kāmaṃ vā ānayati jīvayati prakāśajīvitaprāyatvādatidurghaṭakārisvātantryātmakatvāt vilāsasārasaundaryākāratvādvā bhavānī tasyāḥ sambuddhiḥ kanakaśailasya hemādrerguhāgṛheṣu darīprāsādeṣu nityamanavarataṃ vidyādharā devajātayaḥ vidyāyā guṭikāñjanakhaḍgapādukādiviṣayiṇyā dharā dhārakāstvatprasādābhilāṣitvāt bhavatīṃ tvāmupavīṇayanti vīṇābhiḥ samīpe tālalayādisamucitapañcamagrāmādinā gāyanti saṅgītena prīṇayantītyarthaḥ | kvanadvīṇākalaravasāhitye p. 17)
SKहि गीतेऽत्यर्थमलौकिकानन्दरसापूरनिमग्नचित्ततया श्रोतुः प्रीत्यतिशयः संजायते इत्यतो वीणोपकरणस्य तैराश्रयणीयत्वात्तत्रापि निसर्गमधुरस्वराणां कामिनीनामस्फुटाक्षरकलकाकलीसमुद्दीपितसङ्गीते किमु वक्तव्यम् ! कीदृशीं भवतीं कल्पद्रुमाणां पारिजातसन्तानादिवृक्षाणां प्रसवैः स्फुरत्सौरभकुसुमैः कल्पिता कृता चित्रपूजा यस्यास्तां विचित्रवर्णकुसुमप्रकरैः क्रियमाणा पूजा चित्रपूजेत्युच्यते | अथवा चित्रशब्देन नानाविधोपचारा लक्ष्यन्ते तेन पञ्चोपचारा षोडशोपचारा वा पूजेत्यर्थान्तरम् | एतेन पूजानन्तरं संगीतादेरवकाश इत्यभिहितम् | कथमुपवीणयन्तीत्याह उद्दीपिता औज्ज्वल्यं नीताः प्रियतमानां प्रेयसीनां विद्याधरीणां मदेन दिव्यसुधापानजन्येनानन्दोल्लासेन रक्ता मधुरकण्ठरागयुक्ता गीतयः संगीतार्थप्रबन्धरचनाविशेषा यत्र तत् इति क्रियाविशेषणम् | रागास्तु वसन्त गूर्जर कर्णाट गौडाद्यभिधानाः षड्जमध्यमादिसप्तस्वरानुबन्धिनः सङ्गीतशास्त्रेषु प्रसिद्धाः | वीणेत्युपलक्षणं तेन मृदङ्गवंशादीन्यपि वाद्यानि गृह्यन्ते | अयं भावः चित्रपूजावसाने रक्तकण्ठीभिर्विद्याधरीभिस्तरुणानन्दोल्लासोपेतकलमधुरस्वरं संगायन्तीभिः सह तौर्यत्रिककलाकौशल्येन विद्याधरा वीणावंशघनमृदङ्गादिवादनैस्त्वां हर्म्येषु समाराधयन्तीति तन्माहात्म्यात्तेषामधिकभोगैश्वर्यसंपत्तय इति || ९ || अथ भगवतीचरणप्रसादस्य फलानि प्रस्तौति- लक्ष्मीवशीकरणकर्मणि कामिनीनामाकर्षणव्यतिकरेषु च सिद्धमन्त्रः | नीरन्ध्रमोहतिमिरच्छिदुरप्रदीपो देवि ! त्वदङ्घिजनितो जयति प्रसादः || १० || हे देवि ! लक्ष्म्या धनभूहस्त्यश्वगवादिसंपदः पद्माया वा वशीकरणकर्मणि यावज्जीवविधेयतारूपवशीकरणक्रियायां तथा कामिनीनां दूरस्थितानामप्यङ्गनानामाकर्षणव्यतिकरेषु चाकृष्टिव्यापारेष्वपि प्. १८)
SKसिद्धमन्त्रः सिद्धः पूर्वसेवारूपया पञ्चाङ्गपुरश्चर्यया तत्तन्मन्त्रार्णगुणितलक्षसंख्यजपादिपुरःसरं साधितो यथेप्सितकाम्यकर्मप्रयोगार्हीकृतो मन्त्रो मननत्राणात्मको विद्यादिरूपः | सिद्धमन्त्रस्यैव प्रयोगार्हत्वादविलम्बेन फलसंपत्तेरिति भावः | तथा च वामकेश्वरे- तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः | बद्ध्वा तु क्षोभिणीमुद्रां विद्यामष्टशतं जपेत् || इत्यादि | भ्रमन्तीमानयेन्नारीं योजनानां शतैरपि | इत्यन्तम् | ननु किमिदमाकर्षणं साधकस्य स्वीयायाः परकीयायाः वा स्त्रियः आद्ये नैरन्तर्येण स्वसमीपस्थायाः स्वाधीनत्वाद् दुःसाध्यत्वाभावादाकर्षणवैयर्थ्याच्च | न च कौतुकप्रयोजना प्रवृत्तिरस्तु इति वाच्यं दुष्प्रापामन्तःपुरस्थां परकीयां प्रत्येव कुतुकप्रदर्शनात् | द्वितीये त्वधर्मस्य विधिविहितत्वाभावादनुपपत्तेः | अतः स्वकीयायाः एवानिच्छन्त्या बलात्कारेणाहरणादिना निमित्तेन दुःसाधतायां विधिवाक्यानां सामर्थ्यं स्यात् | अस्ति च पीठमाहात्म्येषु इतिहासः- नारायणाख्यस्य मुनेर्भार्यां चन्द्रवदनाख्यां शक्तात्मजेन सेतुराजेनापहृतां मुनिर्देवीमाराध्यैवाजहारेति | अथवा परकीयाकर्षणस्य धर्माविरोधेनैव फलान्तरं कल्प्यम् | अस्तु वा सम्भोगार्थमेवाकर्षणं तथापि भावनाभाव्यत्वेनैवान्वयान्न विधेयत्वम् | तदुक्तं तन्त्रवार्तिके- फलाङ्गभावनायाश्च प्रत्ययोऽतिविधायकः | वक्ष्यते जैमिनिश्चात्र तस्य लिप्सार्थलक्षणे || इति विहितत्वाभावाच्च न परकीयाभिलाषस्याधर्मत्वं तत्करणभूते प्रकृतप्रयोगे तु श्येनयाग इव धर्मत्वम् | यानि तु सर्वासामेव योषाणां कौलिकः पतिरित्यादीनि श्यामारहस्यकारैर्लिखितानि तदर्थनिष्कर्षरीत्या तु धर्मत्वं गुरुमुखादेवावगन्तव्यमिति श्रीभास्कररायपादाः | तथा नीरन्ध्रं निविडं यन्मोहरूपमविवेकात्मकं तिमिरं तमस्तस्यच्छिदुरश्छेदको विदारणः प्रदीपः प्रकृष्टोऽज्ञानहारित्वात्प्रकाशको प्. १९)
SKदीपः यथा दीपस्तमोऽपहरति तद्वदयं त्वदीयः प्रसादः संसाराब्धिनिमज्जनहेत्वज्ञानसंहरणकृदित्यर्थः | अथवा प्रकर्षेण व्योम्नि दीप्यते दीपयति वा विश्वपदार्थानिति प्रदीपोऽर्को मोहध्वान्तहारीत्येवं भूतस्त्वदंघ्रिजनितस्तवाङ्घ्रिभ्यां पादाम्बुजाभ्यां जनितः प्रसादोऽनुग्रहो जयत्युत्तरोत्तरं सातिशयसत्फलवितरणकुशलो वर्तते | यदुक्तम्- असौभाग्यं धत्ते परमसुखबोधास्पदमयं विचित्रं तद्गेहं भवति पृथुकार्तस्वरभृतम् | निविष्टः पर्यङ्के सकलयति कान्तारतरणं प्रसादं कोपं वा जननि ! भवती यत्र कुरुते || इत्यत्र प्रसादपक्षेऽसावितिच्छेदः | कार्तस्वरं स्ववर्णम् पल्यङ्को मञ्चः कान्तारस्य तरणम् | कोपपक्षे तु असौभाग्यमित्येकं पदम् | अयमिति छेदः विचित्रं विगतचित्रं पृथुकानामार्तस्वरः | पल्या अङ्के कान्ताया रते रणमितिश्लेषेणयोज्यम् | इत्थं प्राप्तत्वत्पादानुग्रहशालिनां भोगमोक्षौ निरर्गलं सुलभावित्यनेनाभिधीयते | एतादृशप्रकारः श्रीसुन्दरीपादारबिन्दार्चनपराणां विरलानां केषांचिदेव भवति धन्यानां | यदुक्तम्- यत्रास्ति भोगो न च तत्र मोक्षो यत्रास्ति मोक्षो न च तत्र भोगः | श्रीसुन्दरीपूजनतत्पराणां भुक्तिश्च मुक्तिश्च करस्थितैव || इत्यत्र श्रीविद्याकूटोपासनाफलवैशिष्ट्यं मुख्यतयाभिधातुमभिप्रेततमित्यूह्यम् || १० || सुरस्त्रियोपि त्वच्चरणप्रसादमाशंसमाना इत्याशयेनाह- देवि त्वदङ्घिनखरत्नभुवो मयूखाः प्रत्यग्रमौक्तिकरुचो मुदमुद्वहन्ति | प्. २०) सेवानतिव्यतिकरे सुरसुन्दरीणां सीमन्तसीम्नि कुसुमस्तबकायितं यैः || ११ ||
SKहे देवि ! त्वदङ्घ्रिनखास्तव पादयोः नखाः एव रत्नानि भुवो भूमय उत्पत्तिस्थानानि येषां ते रत्नेभ्यो भवन्त्युत्पद्यन्ते इति वा मयूखाः पन्नखरक्तकिरणाः प्रत्यग्राणामभिनवानां मौक्तिकानां मुक्तामणीनामिव रुग् गौरवर्णा कान्तिर्येषां ते अत एव पादाब्जदिदृक्षेच्छावतां भक्तानां हृदि मुदमानन्दोत्कर्षमुद्वहन्ति समुल्लासयन्ति | यैः सेवायां शुश्रूषाकाले नतिव्यतिकरे पादाभिवन्दनव्यापृतौ सुरसुन्दरीणाममरललनानां ये सीमन्ताः केशविन्यासास्तेषां सीम्नि प्रान्तदेशे कुसुमस्तबकायितं पुष्पमञ्जरीगुच्छायितं पुष्पस्तबकमिवाचरितमित्यर्थः | केशकलापेषु कुसुमानि धार्यन्ते इति हि सुभगाङ्गनानामाचारः | अमरीकवरीणां श्यामवर्णत्वात्तत्र नखमयूखानां शुक्लत्वात्कुसुमस्तबकरूपेण परिणामः इति यावत् | विकासोन्मुखाः कलिकाः स्तबकाः || ११ || अथ स्थानविशेषतस्त्रिधा परिणतं शक्तितेजः प्रत्यक्षव्यापारेणावधारयन् स्वात्मनस्तत्प्रत्यभिज्ञम्मन्यतां द्योतयति- मूर्ध्नि स्फुरत्तुहिनदीधितिदीप्तिदीप्तं मध्ये ललाटममारायुधरश्मिचित्रम् | हृच्चक्रचुम्बि हुतभुक्कणिकानुरूपं ज्योतिर्यदेतदिदमम्ब ! तव स्वरूपम् || १२ || हे अम्ब ! इदं ज्योतिः- तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् | इति बृहदारण्यकश्रुतेः (बृह० ४-४-१६) | परं शाक्तं तेजः न तत्र सूर्यो भातीति (कठो० ५-१५) न तद्भासयते सूर्यः (भ० गी० १५-६) इति श्रुतिस्मृतिप्रसिद्धं येन सूर्यस्तपति तेजसेद्धः इति | परं प्. २१)
SKज्योतिरुपसंपद्य इति (छां० उ० ८-३-४) मनोज्योतिर्जुषता मित्यादिश्रुतिप्रयोगात्प्रकाशस्वभावस्यास्य परत्वमुच्यते | तव स्वं रूपमसाधारणं रूपम् स्वसंवेद्यमिदं किमित्याह- यदेतन्मूर्ध्नि शिरसि अर्थादाज्ञाचक्राद्यावद् ब्रह्मबिलं स्फुरन्ती विकसन्ती या तुहिनदीधितेर्हिमांशोः दीप्तिश्चन्द्रिका तद्वद्दीप्तं रम्यं हृदयाह्लादतापप्रशमननेत्रानन्दकारित्वात् तथा मध्येललाटं ललाटेऽर्थादनाहतपदाद्यावदाज्ञाचक्रस्थानममरायुधस्येन्द्र- arthādādhārādāhṛdayaṃ hṛccakrasparśi hutabhujo'gneḥ kaṇikā atyalpāgnikaṇāstadvadanurūpaṃ tatsaṅkāśam | anukārīti pāṭhe'pi sadṛśamityarthaḥ | bhātīti śeṣaḥ | ayamāśayaḥ- mūlādhārasthasphurattārakākārajyotīrūpamevopāsakānāṃ sthānatritaye tathā tathā vaicitryeṇa bāsamānaṃ pariśīlanīyamiti | yaduktam- yonau kanakapuñjābhaṃ hṛdi vidyucchaṭopamam | ājñāyāṃ candrasaṃkāśaṃ mahastava maheśvari || iti | etena trayāṇāṃ bālāvidyābījānāmapi sthānavarṇadhyānāni sūcitāni | etat prathamastave prathamaśloke vitatya darśitam || 12 || idānīṃ kāmeśvaryā dhyānaviśeṣaṃ vaśīkārānuguṇaṃ prastauti- sindūrapāṃsupaṭalacchuritāmiva dyāṃ tvattejasā jaturasasnapitāmivorvīm | yaḥ paśyati kṣaṇamapi tripure ! vihāya vrīḍāṃ mṛḍāni sudṛśastamanudravanti || 13 || he tripure ! tribhyaḥ purābhūtatvādityādi tripurāpadanirvacanaṃ bodhyam | atha ca trayāṇāṃ mātṛmānameyānāṃ puraṃ nagaraṃ tadātmikā śrīlalitāmbā tisṛbhyo mūrtibhyaḥ purābhūtatvāt tripureti | taduktam- mūrtitrayasyāpi purātanatvāttadambikāyāstripureti nāma iti | yadāhugauṃḍapādāḥ p. 22)
SKतत्त्वत्रयेणाभिद्यतेति एकमेव ब्रह्म तत्त्वत्रयेणाभिद्यतेत्यर्थः | तत्त्वपदं गुणमूर्तिबीजजगत्पीठखण्डादिपुरात्वेन बहुधा व्याख्यातमिति गुणादिभ्यः पुरेत्यर्थः | कालिकापुराणे तु- त्रिकोणमण्डलं चास्या इत्यादि प्रस्तुत्य सर्वं त्रयं त्रयं यस्मात्तस्मात्तत्त्रिपुरा मता इति | आचार्यपादैरपि- देवानां त्रितयं त्रयी हुतभुजामि इत्यादि श्लोके स्वयमपि तथैवोक्तम् | त्वत्तेजसा त्वच्छरीरोत्थारुणकान्त्या द्यां व्योम सिन्दूरपांसूनां सिन्दूररजसां पटलैः पुञ्जैश्छुरितां खचितां रञ्जितामिव तथोर्वीं पृथिवीं जतुरसेन लाक्षाद्रवेण स्नपितामाप्लुतामिव यः ध्यानसमये क्षणमपि पश्यति ध्यायतीत्यर्थः | तं त्वद्भावनाभावितमनस्क भक्तिमन्तं ध्यायिनं व्रीडां लज्जां परापवादमर्यादोल्लंघनादिजां विहाय हे मृडानि ! सुदृशो मृगाक्ष्योऽनुद्रवन्ति अनुधावन्तीत्यर्थः | यदुक्तं सौन्दर्यलहर्याम्- तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः इत्यादि | अत्र त्वत्तेजसेत्यनेन लौहित्यं ध्वन्यते | लौहित्यं च विमर्शस्तदुक्तं कादिमते- स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहा | लौहित्यं तद्विमर्शः स्यादुपास्तिरिति भावना || इति | वामकेश्वरेऽपि- स्वयं हि त्रिपुरा देवी लौहित्यं तद्विमर्शनम् | इति | उक्तप्रकाशविमर्शसामरस्यात्मिकायाः श्रीमहात्रिपुरसुन्दर्याः स्थूलसूक्ष्मपरत्वेन ध्यानस्य त्रैरूप्यम् | तत्र शीर्षपाणिचरणादिविशिष्टं स्थूलं मन्त्रमयं सूक्ष्मं परं तु वासनामयं संविन्मयं वेति | तदुक्तं योगवासिष्टे- सामान्यं परमं द्वे रूपे विद्धि मेऽनघ | पाण्यादियुक्तं सामान्यं यत्तु मूढा उपासते || परं रूपमनाद्यन्तं यन्ममैकमनामयम् | ब्रह्मात्मपरमात्मादिशब्देनैतदुदीर्यते || इति | प्. २३) सामान्यं द्विविधं प्रोक्तं स्थूलसूक्ष्मविभेदतः | इति ज्ञानार्णवेऽपि काम्यप्रयोगचर्चायां- तदीयकान्तिसिन्दूरभरितं भुवनत्रयम् | चिन्तयेत्परमेशानि ! त्रैलोक्यं मोहयेत्क्षणात् ||
SKराजानो वशमायान्ति पन्नगा राक्षसाः सुराः | कन्दर्प इव देवेशि ! योषितां मानहारकः || मनसा चिन्तयेद्योषिद् दासीव वशगा भवेत् | इति | एवं कामेश्वरीध्यानेन ध्यायिनः कामराजकूटोपासनाफलं सूच्यते | तदनुसरणपराणां कुलाचारभाजां सुदृशां मर्यादातिक्रमणेऽपि कुलदीक्षाप्रभावान्निर्बन्धनतयेहामुत्रापि सुखप्राप्तिरित्यतो मृडानीति सम्बोधनं साभिप्रायम् || १३ || अथ प्रकारान्तरेण सफलं ध्यानं प्रपञ्चयति- मातर्मुहूर्तमपि यः स्मरति स्वरूपं लाक्षारसप्रसरतन्तुनिभं भवत्याः | ध्यायन्त्यनन्यमनसस्तमनङ्गतप्ताः प्रद्युम्नसीम्नि सुभगत्वगुणं तरुण्यः || १४ || हे मातरम्ब ! लाक्षारसाज्जतुद्रवात्प्रसरो उद्भवो यस्य तादृशस्तन्तुः अलक्तकसूत्रं तन्निभं तदुपमं यो भवत्यास्तव स्वरूपं मुहूर्तमपि घटिकाद्वयमपि स्मरति ध्यायति | अनङ्गतप्ताः कामज्वरपीडिता अनन्यमनसोऽनन्यवृत्तयस्तरुण्यः कामिन्यस्तमुक्तलाक्षारसतन्तुनिभभवत्स्वरूपध्यायिनं प्रद्युम्नस्य कन्दर्पस्य सीम्नि सीमायां मर्यादायां सुभगत्वगुणं सौभाग्यगुणवन्तं ध्यायन्ति सौन्दर्येण कामनिर्विशेषं हृदये कामज्वरोपशमनकरं चिन्तयन्तीत्यर्थः | प्राग्वदत्रापि उपासनातत्फलमपि ज्ञेयम् || १४ || प्. २४) भङ्ग्यन्तरेण प्रागुक्तं ध्यानं सोपायमाह- आधारमारुतनिरोधवशेन येषां सिन्दूररञ्जितसरोजगुणानुकारि | दीप्तं हृदि स्फुरति देवि ! वपुस्त्वदीयं ध्यायन्ति तानिह समीहितसिद्धसाध्याः || १५ ||
SKहे देवि ! जगत्सर्जनाक्रीडातत्परे द्योतनादिसतत्त्वे वा येषां हृद्यनाहतप्रदेशे त्वदीयं शक्तिकुण्डलिकारूपं वपुः स्वरूपं निष्कलं कामकलाख्यं स्फुरति भासते | कीदृशं आधारे मूलाधारचक्रे मारुतस्य प्राणापानात्मकस्य वायोर्निरोधवशेन गुरूक्तयुक्त्या शक्त्युत्थापनपूर्वं सौषुम्नेन पथोद्गच्छद्वह्निकुण्डलिनीसञ्चारपरिशीलनात्मकेनोर्ध्वरेचकेन दीप्तं प्रस्फुरत्प्रकाशं अत एव सिन्दूरेण रञ्जितो रक्तः सरोजगुणो बिसतन्तुस्तस्यानुकारि तदुपमं मूलाधाराद्यावद्धृदयं रक्तपद्मगुणनिभं विद्युत्कोटिदीप्तमित्यर्थः तानिह जगति समीहितेषु भोगापवर्गात्मकेष्वभीष्टार्थेषु सिद्धं समासादितं साध्यमुपेयं वस्तु यैस्ते समीहितसिद्धसाध्या निष्कामाः अपि ध्यायन्ति किमु पुनः सकामाः इत्यर्थत आक्षिप्तं भवति | अथ च समीहिता अभीष्टा मनोरथा भोगमोक्षपरमार्थैकरूपाः सिद्धाः संपन्ना येषां ते तादृशाः साध्याख्याः देवताविशेषा ध्यायन्ति स्मरन्ति | ये सिन्दूर इति प्रागुक्तध्यानानुवादरूपमेतत् || १५ || पूर्वोक्तध्यानमर्कमण्डलगत्वेन सफलं वर्णयति- ये चिन्तयन्त्यरुणमण्डलमध्यवर्ति रूपं तवाम्ब ! नवयावकपङ्कपिङ्गम् | तेषां सदैव कुसुमायुधबाणभिन्नवक्षःस्थला मृगदृशो वशगा भवन्ति || १६ || हे अम्ब ! मातर्ये तव रूपं नवयावकस्य सान्द्रलाक्षारसस्य पङ्कवत्पिङ्गं प्. २५) शोणवर्णमरुणमण्डलमध्यवर्ति अर्कमण्डलान्तः स्थितं तत्र ध्येयत्वात् | य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते (महाना० १०-१) इति श्रुतेः अन्तरधिकरणे प्रतिपादितत्वात् | अथ चार्ककुण्डलिनीस्थं सदैव चिन्तयन्ति स्मरन्ति | तेषां कुसुमायुधबाणभिन्नैः पुष्पशरशरैर्भिन्नं विद्धं वक्षःस्थलं हृदयं यासां ता मृगदृशो हरिणाक्ष्यः अनेन वैशद्यरामणीयकविशालतादिगुणसाम्यं तासां नेत्रेष्विति गम्यते वशगा अधीना भवन्ति | यावज्जीवं सर्वस्वदानादिना सेवन्ते इत्यर्थः | एवमुक्तयोर्द्वयोः श्लोकयोर्मध्यकूटाधिदैवतकामेश्वरीभजनफलमूह्यम् || १६ ||
SKअथ वागीश्वरीध्यानं सफलं निर्दिशति- रूपं तव स्फुरितचन्द्रमरीचिशुभ्रमालोकते मनसि वागधिदैवतं यः | निःसीम सूक्तिरचनामृतनिर्झरस्य तस्यं प्रसादमधुराः प्रसरन्ति वाचः || १७ || हे देवीति प्राग्वत् | तव रूपं वागधिदैवतं वाक्कूटाधिष्ठातृमयं वागीश्वर्यात्मकं स्फुरिता विशदप्रभावाश्चन्द्रमरीचयः शीतांशुरश्मयस्तद्वच्छुभ्रं धवलं मनसि हृदि (शिरसि) य आलोकते पश्यति ध्यायतीत्यर्थः | शिरसीति पाठान्तरं समुचितम् यतः प्रथमस्तवे ये त्वां पाण्डुरपुण्डरीकेति उक्तवागीश्वरीध्यानसादृश्याच्छिरःस्थान एव ध्येयत्वं ज्ञेयम् | निष्क्रान्तः सीम्नः सीमाया वा निःसीमो निरवधिः सूक्तिरचनारूपः सुभाषितसन्दर्भात्मामृतनिर्झरः शैत्याह्लादप्रकर्षकारित्वात्पीयूषरसप्रवाहो यस्य तस्य समासादितवागीश्वर्यात्मकभवत्प्रसादस्य सम्बन्धिन्यो वाचो भारत्यः प्रसादमधुराः प्रसादाख्यसाहित्यगुणेन मधुरा माधुर्योपेता मनोज्ञाश्च प्रसरन्ति मुखान्निर्यान्ति | प्रवहत्सूक्तिसुधारसमधुरवाक्कविर्भवतीत्यर्थः | वाग्भवकूटसाधनफलं तु वामकेश्वरतन्त्रे- प्. २६) एतस्याः शृणु देवेशि ! वाग्भवस्य [बीजत्रितय] तु साधनम् | धवलाम्बरसंवीतो धवलाम्बरमध्यगः || पूजयेद् धवलैः पुष्पैर्ब्रह्मचर्यरतो नरः | धवलैरेव नैवेद्यैर्दधिक्षीरौदनादिभिः || संकल्पधवलैर्वापि यथाकामफलप्रदाम् [यथा कामं यथा लभेत्] | संपूज्य परमेशानि ! ध्यायेद्वागीश्वरीं पराम् || बीजरूपामुल्लसन्तीं ततोऽनङ्गपदावधि [चिदानन्दप्रबोधिनीम्] | ब्रह्मग्रन्थिं विनिर्भिद्य जिह्वाग्रे दीपरूपिणीम् || चिन्तयेन्नष्टहृदयो ग्राम्यो मूर्खोऽतिपातकी | शठोऽपि यः पदं [पादमेकं सुस्पष्टं] स्पष्टमक्षरं वक्तुमक्षमः || जडो मूकोऽतिदुर्मेधा गतप्रज्ञो विनष्टधीः [पिनष्टधीः] | सोऽपि संजायते वाग्मी वाचस्पतिरिवापरः || सत्पण्डितघटाटोपजेताऽप्रतिहतप्रभः | सत्तर्कपदवाक्यार्थशब्दालङ्कारसारवित् [षट्तर्क] ||
SKवाताहतसमुद्रोर्मिमालातुल्यैरुपन्यसेत् [वातोद्धूत] | सुकुमारतरस्फारवृत्तालङ्कारपूर्वकम् [रीत्य;. पूर्वकैः] || पदगुम्फैर्महाकाव्यकर्ता देवेशि जायते | वेदवेदाङ्गवेदान्तसिद्धान्तज्ञानपारगः || ज्योतिःशास्त्रेतिहासादिमीमांसास्मृतिवाक्यवित् | पुराणरसवादादिगारुडानेकमन्त्रवित् || पातालशास्त्रविज्ञानभूततन्त्रार्थतत्त्ववित् | विचित्रचित्रकर्मादिशिल्पानेकविचक्षणः || महाव्याकरणोदारशब्दसंस्कृतसर्वगीः | सर्वभाषारुतज्ञानी [ज्ञान] समस्तलिपिकर्मकृत् [वित्] || नानाशास्त्रार्थशिक्षादिवेत्ता [शिल्पादिवेदवेदाङ्गविश्रुतः | इति का० पाठान्तराणि] भुवनविश्रुतः | प्. २७) सर्ववाङ्मयवेत्ता च सर्वज्ञो देवि ! जायते || (४-२१-३३) इति || १७ || ननु किमेवमसकृद्वर्णनया तवेत्याशङ्क्य साधारणकार्योक्त्या स्वाभिमतमपि द्योतयन् स्तौति- शर्वाणि ! सर्वजनवन्दितपादपद्मे ! पद्मच्छदच्छविविडम्बितनेत्रलक्ष्मि | निष्पापमूर्तिजनमानसराजहंसि ! हंसि त्वमापदमनेकविधां जनस्य || १८ || शृणाति हिनस्त्यज्ञानकलुषनिकरमिति शर्वाणी तत्सम्बोधनं हे शर्वाणि ! अज्ञानतमोहारिणि ! तथा सर्वैः समस्तैर्जनैर्जननमरणभीरुभिर्जन्तुभिर्वन्दितौ प्रणतौ पादौ चरणौ पद्मे इव सुकुमारकान्तियुक्तत्वाद्यस्यास्तदामन्त्रणं सर्वजनवन्दितपादपद्मे ! मृत्युभयहारिणीत्याशयः | पद्मच्छदानां सरोजपत्राणां च्छव्या कान्त्या विडम्बितोपमिता नेत्रलक्ष्मीश्चक्षुःश्रीर्यस्यास्तदामन्त्रणं पद्मच्छदच्छविविडम्बितनेत्रलक्ष्मि ! पद्मपत्रायतरम्यलोचने स्वदृगमृतासारवर्षणेनाह्वाददायिनीत्यर्थः तथा निष्पापा विगलितकल्मषा मूर्तिर्देहो येषां तेषां जनानामनुग्राह्याणां मानसे मनस्येव मानससरोवरे राजहंसीव तदामन्त्रणं यथा राजहंसो मानसरोवरे सानन्दं विहरते निवसति च तद्वत्स्वानुग्राह्यहृदये सततभासमाना विहरन्तीत्यर्थः | यद्वा शुक्लैककर्मणां मनसि विराजमाना हंसवर्णात्मा जपामनुस्वरूपा हंसमन्त्रस्वरूपा वेत्यर्थः | तदुक्तं श्रीविद्यार्णवे-
SKअजपाराधनं देवि ! कथयामि तवानघे | यस्य विज्ञानमात्रेण परब्रह्मैव देशिकः || हंसः पदं परेशानि ! प्रत्यहं जपते नरः | मोहबद्धो न जानाति मोक्षस्तस्य न विद्यते || श्रीगुरोः कृपया देवि ज्ञायते जप्यते यदा | प्. २८) उच्छ्वासनिःश्वासतया तदा बन्धक्षयो भवेत् || उच्छ्वासे चैव निःश्वासे हंस इत्यक्षरद्वयम् | तस्मात्प्राणस्तु हंसाख्य आत्माकारेण संस्थितः || षड्भिःश्वासैर्भवेत्प्राणः षष्ट्या तैर्नाडिका मता | षष्टिनाड्या अहोरात्रं जपसंख्या जपामनोः || एकविंशतिसाहस्रं षट्शताधिकमीश्वरि | जपते प्रत्यहं प्राणी स्पन्दानन्दमयीं पराम् || उत्पत्तिर्जप आरम्भो मृतिरस्य निवेदनम् | विना जपेन देवेशि जपो भवति मन्त्रिणः || अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी | श्रीगुरोः कृपया देवि लभ्यते नान्यथा प्रिये || एवं जपं महेशानि ! प्रत्यहं विनिवेदयेत् | गणेशब्रह्मविष्णुभ्यो हराय परमेश्वरि || जीवात्मने क्रमेणैव तथा च परमात्मने | षट्सहस्राणि च पुनः सहस्रं च सहस्रकम् | पुनः सहस्रं गुरवे क्रमेण तु निवेदयेत् || जपं निवेदयित्वा तमहोरात्रभवं प्रिये | सहजं परमेशानि न्यासं कुरु विचक्षणे || ऋषिर्हंसोऽव्यक्तपूर्वं गायत्रंच्छन्द उच्यते | देवता परमादिस्तु हंसो हं बीज उच्यते || सः शक्तिः कीलकं सोऽहं प्रणवस्तत्त्वमेव हि | नादस्थानं तथा श्वेतो वर्णस्तु परमेश्वरि || उदात्तः स्वर इत्येवं मनोरस्य प्रकीर्तितम् | मोक्षार्थे विनियोगः स्यादेवं जानीहि पार्वति || ततः षडङ्गविन्यासं कुर्याद् देहस्य शुद्धये | सूर्यं सोमं तथा देवि निरञ्जनमतः परम् || निराभासं चतुर्थ्यन्तस्वाहान्तान् क्रमतो न्यसेत् | कवचान्तान्प्रविन्यस्य ततोऽनन्तपदं स्मरेत् || प्. २९) तनुसूक्ष्मचतुर्वर्णानुक्त्वा ङेन्तं प्रचोदयात् | स्वाहान्तेनैव नयनमव्यक्तपदपूर्वतः || प्रबोधात्मा चतुर्थ्यग्निजायान्तोऽस्त्रं निगद्यते | अस्य हंसस्य देवेशि ! निगमागमपक्षकौ ||
SKअग्नीषोमावथो वापि पक्षौ तारः शिरो भवेत् | बिन्दुत्रयं शिखा नेत्रे मुखे नादः प्रतिष्ठितः || शिवशक्तिपदद्वन्द्वं कालाग्निपार्श्वयुग्मकम् | अयं परमहंसस्तु सर्वव्यापी प्रकाशवान् || सूर्यकोटिप्रतीकाशः स्वप्रकाशेन भासते | संहाररूपी हंसोऽयं विवेकं दर्शयत्यपि || अजपा नाम गायत्री त्रिषु लोकेषु दुर्लभा | इति | त्वं जनस्य वन्दनादिकारिणोऽनेकविधामापदं जननादिभयातङ्कदारिद्र्यरूपां हंस्यपाकरोषि अतो ममापि तां दूरीकुरु इति प्रार्थना ध्वन्यते || १८ || ननु परमशिव एवाशेषाभीष्टसम्पादनचतुरत्वात् प्रार्थ्य इत्याशंक्य तस्यापि त्वयैव शक्त्या तथात्वप्रसिद्धिरित्याशयेनाह- इच्छानुरूपमनुरूपगुणप्रकर्षं संकर्षिणि ! त्वमभिसृत्य [अभिमृष्य इति पाठान्तरम्] यदा बिभर्षि | जायेत स त्रिभुवनैकगुरुस्तदानीं देवः शिवोऽपि भुवनत्रयसूत्रधारः || १९ || हे संकर्षिणि ! परभैरवस्य स्वायत्ततयावभासयित्रि ! कालसंकर्षिणि ! पराशक्ते ! इच्छानुरूपमेषणीयज्ञेयकार्यविषयेच्छानुगुणं अनुरूपस्तत्तद्वस्त्वनुगुणो गुणानां विसर्जनीयसत्त्वादीनां प्रक्रषोऽतिशयस्तं प्. ३०) त्वमभिमृष्य तदाभिमुख्येन स्वात्मानं समुल्लास्य विस्फार्य यदा बिभर्षि धत्से | अथवा इच्छानुगुणंरूपमर्थाच्छिवस्येच्छानुरूपं तत्तद्वर्णकपरिग्रहणमयानाश्रितशिवादिसकलान्तप्रमातृभावाव- tattatsadāśivādyavasthaucityāvabhāsamānānāṃ guṇānāṃ sarvajñatvādiguṇagaṇānāṃ prakarṣastāratamyātiśayo yatra tat abhisṛtyābhyupagamyetyarthaḥ | yaduktam- bhairavīrūpī kālaḥ sṛjati jagatsthāvarādikīṭāntam | icchāvaśena yasyāḥ sā tvaṃ bhuvanāmbike ! jayasi ||
SKतदानीं स प्रसिद्धः कामेश्वरात्मा शिवस्त्रिभुवनेषु भवाभवादिष्वेको मुख्यो गुरुर्विश्वकार्यनिर्वाहक उपदेष्टा च देवो विविधरसभरिताद्भुतविश्वनाटकोल्लासननिर्वाहणादिक्रीडाशाली भुवनत्रयस्य सूत्रधार इव सम्पादको जायेत त्वयैव जगत्सर्जनादिकार्यं विधत्ते त्वां विना तस्याकिञ्चित्करत्वात् | यथा कश्चित्सूत्रधारः शृङ्गारादिरसमाधुर्यभरितं सद्बीजादिगर्भं नाटकं तत्तदभिनेयाभिव्यञ्जनीयसाक्षात्कार्यरसार्पणनैपुण्यशालिन्या नट्या प्रस्ताव्य प्रेक्षकाणां रसास्वादनेन नाट्याचार्यत्वं लोके सूत्रधारसंज्ञां च प्राप्नोति | तद्वद्विश्वक्रीडाचिकीर्षुः शिवोऽपि भवत्यैव सुश्लाघ्यकलोपेतया त्रैलोक्यनाट्यं प्रस्तौति इत्यर्थः | अथ च त्रिकनये शाक्तीययागविधौ सृष्टिकाल्याद्युदयक्रमतः पार्यन्तिकी महाकाली महाभैरवचण्डोग्रघोरकालीति या परा पारमेश्वर्युक्ता सैव कालसंकर्षिणीत्युच्यते | तदुक्तं श्रीक्रमस्तोत्रे- क्रमत्रयत्वाष्ट्रमरीचिचक्रसञ्चारचातुर्यतुरीयसत्ताम् | वन्दे महाभैरवघोरचण्डकालीं कलाकाशशशाङ्ककान्तिम् || इति | अन्यत्र च- श्रीमत्सदाशिवपदेऽपि महोग्रकाली भीमोत्कटभ्रुकुटिरेष्यति भङ्गभूमिः | प्. ३१) इत्याकलय्य परमां स्थितिमेत्य कालसंकर्षिणीं भगवतीं हठतोऽधितिष्ठेत् || इति यद्वा- प्राणादिपञ्चकात्मनः कालस्यान्तर्बहीरूपतया समुल्लसनात्संकर्षिणीति | तथा चाचार्याभिनवगुप्तपादाः- नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा | मुखस्था श्वासनिश्वासकलने हृदि कर्षति || पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु | कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् || इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधने | याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् ||
SKइति इदं व्याचष्टे श्रीजयरथः- इह खलु मुखस्था कालसंकर्षिणी भगवती सदा पार्श्ववाहद्वयात्मश्वासनिश्वाससंकलनेन हृदि मध्यधाम्नि नासायाश्च शक्तेरग्रे त्रिविधं प्राणापानोदानलक्षणं कालं कर्षति तेन तेन रूपेण संचारयति | यतो रेचकेन संहरति पूरकेन प्रवेशं ददाति कुम्भकेन धारयति ऊर्ध्वरेचकेन तत्तत्कारणपदोल्लङ्घनक्रमेणोत्थिता सती सर्व कालं क्षणादेव सम्यगनवच्छिन्नमेव स्वरूपतापादनक्रमेण संहरतीति | सेच्छायाः प्रथमा त्रुटिः इत्युक्त्या परेयमिच्छाशक्तिः | इच्छाद्यात्मनः शक्तित्रितयस्योत्पत्तिभूः प्रक्रान्तेन कालसंकर्षिणीलक्षणेन नाम्ना याज्या यदियं सर्वं प्राणादिपञ्चकात्मकं कालाधारं प्रभञ्जनं कर्षयत्यन्तर्बहीरूपतया समुल्लासयतीत्यर्थः | यदुक्तं यामले- अयं पथद्वये कालः स्थूलश्चरति योगिनाम् | सव्यापसव्ये मध्ये च शक्तित्रयविभूषितः || सा ग्रसेत् त्रिविधं कालं कालसंकर्षिणी तथा | इति | कालसंकर्षिणी नाम्ना कालं मुखबिले स्थितम् | श्वासनिश्चासकलने तस्य संकर्षणं हृदि || पूरकेण समन्तात्तु कुम्भकेन च धारयेत् | प्. ३२) रेचकेनोत्थिता देवी कालं संग्रसते क्षणात् || इति | इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधने | याज्या कर्षयते सर्वं कालाधारप्रभञ्जनम् || इति | यद्वोत्तराम्नायेश्वरी अनाख्यात्वेन प्रसिद्धा कालसंकर्षिणी देवी चतुराम्नायेषु श्रीविद्यार्चायामर्च्यत इति | अतोऽस्याः स्वयमकालकलितत्वान्नित्यतादिविकल्पैरप्यनिर्वाच्यत्वं स्यात् | यदाहुरुत्पलदेवाचार्याः- न सदा न तदा न चैकदेत्यपि सा यत्र न कालधीर्भवेत् | तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा || (उ० स्तो० १२- iti jñaḥ kālakālo guṇī sarvavidyaḥ iti śruteḥ (śvetā0 6-2) || 19 || idānīṃ devyā vaibhavapradarśanāśayena śaktisvarūpatvamevānyatrāpyatidiśati-
SKयोऽयं चकास्ति गगनार्णवरत्नमिन्दुर्योऽयं सुरासुरगुरुः पुरुषः पुराणः | यद्वाममर्धमिदमन्धकसूदनस्य देवि ! त्वमेव तदिति प्रतिपादयन्ति || २० || हे देवि ! योऽयं गगनमेवार्णवो रत्नाकरस्तत्र स्थितस्तदुद्भवो वेन्दुः सुधांशुश्चकास्ति दीप्यते स त्वमेवासि त्वत्स्मितकान्त्यंशमात्रत्वात् | आचार्यैरप्युक्तम्- अम्ब ! त्वदक्ष्णोरणुरंशुमाली तवैवमन्दस्मितबिन्दुरिन्दुः | इति अत्र गाम्भीर्यापारत्वादिसादृश्याद्गगनेऽर्णवत्वारोपः ह्लादकामलत्वादिना इन्दौ रत्नत्वारोपः | यश्चायं सुरासुराणां देवदानवानां गुरुर्मान्यः पुराणः पुरुषः स्रष्टा ब्रह्मा यद्वा पुराणपुरुषो विष्णुः सोऽपि त्वमेवासि | प्. ३३) तस्यापि त्वद्रूपत्वात् तथा च हरिवंशे नारदः- प्रकृत्याः प्रथमो भाग उमादेवी यशस्विनी | व्यक्तः सर्वमयो विष्णुः स्त्रीसंज्ञो लोकभावनः || इति | यच्चान्धकसूदनस्यान्धकाख्यासुरारेः शिवस्यार्धनारीश्वरत्वादिदं वाममर्धं सव्यभागस्तत् सर्वं त्वमेवासि इति प्रतिपादयन्ति समामनन्ति बुधाः इति शेषः | अयमुत्तानार्थः | वस्तुतस्तु सोमसूर्याग्निमयत्वत्पुरस्थचक्रत्रये यद्रश्मिनिचयवभवं स भवत्या एव महिमावधार्यः इत्यतिरहस्यार्थो ज्ञेयः || २० || अथ वाक्प्रसरोत्पादनं वागीश्वर्या ध्यानमाम्रेडयति- ध्यातासि हैमवति ! येन हिमांशुरश्मिमालामलद्युतिरकल्मषमानसेन | तस्याविलम्बमनवद्यमनन्तकल्पमल्पैर्दिनैः सृजसि सुन्दरि ! वाग्विलासम् || २१ ||
SKहिमवतोऽपत्यं स्त्रोति तदामन्त्रणं हे हैमवति ! हिमाचलतनये यद्वा हैमवत्युमे ! यदुक्तं केनोपनिषद्भाष्ये उमा हैमवतीमिति | यद्वा हेम्नो विकाराणि हैमानि भूषणानि तानि सन्त्यस्या इति | अकल्मषं विमलं मानसं मनो यस्य तेनाकल्मषमानसेन येन भक्तिमता हिमांशोः शीतांशोः रश्मिमाला किरणावलिस्तद्वदमला धवला द्युतिश्छविर्यस्या शीतलामृतसेचिनी शुभ्रवर्णेत्यर्थः | अत एव हिमवत्प्रभवत्वेन हैमवतीति संबोधनं साभिप्रायम् | एतादृशी त्वं ध्यातासि विभाव्यसे | हे सुन्दरि ! स्पृहणीयसौभाग्ये ! तस्याल्पैर्दिनैरचिरेणैवाविलम्बमस्खलितमनवद्यं श्रुतिकटुत्वादिदोषरहितं प्रसादादिगुणगणोपेतमनन्तकल्पममित- athavānto'vasānastadabhāvādanantaḥ īṣadasamāptau kalpappratyayaḥ tenāpūrṇo'nanto'nantakalpam vācāṃ girāṃ vilāsaṃ p. 34) vicitrarasanirbharakavitāprasaraṃ sṛjasi samutpādayasi | idamapi vāgīśvaryā dhyānābhiprāyato bodhyamiti || 21 || adhunā nānāsampradāyārthānugataistattannāmabhiḥ devīṃ pratipādayan āha- tvāṃ vyāpinīti samanā iti kuṇḍalīti tvāṃ kāminīti kamaleti kalāvatīti | tvāṃ mālinīti lalitetyaparājiteti devi ! stuvanti vijayeti jayetyumeti || 22 ||
SKशिवस्येच्छाख्या परमा सूक्ष्मा शक्तिर्मन उत्क्रम्य गतोन्मनाख्यानवच्छिन्नस्वप्रकाशस्फुरत्तया शिवत्वरूपाभिन्ना सैव यदा प्रकाशात्ममहासत्तारूपमात्मानं समस्तासूत्रणासहिष्णुं क्षोभयते शून्यातिशून्यादिधरान्तसमग्रजगदासूत्रणात्मना स्फुरति तदा परप्रमातृपदावरूढा आसूत्रिताशेषमन्तव्यमननरूपत्वात्समनाख्या शक्तिरित्युच्यते | असावेव समनाख्या शक्तिः प्रथमोल्लेखकल्पतया स्फुरन्ती यदाभास्यं विश्वं क्रोडीकरोति | क्रोडीकारः स्वात्मैकतयाभासनम् | तदा शून्यातिशून्यात्मा व्यापिनीत्युच्यते | सैव यदा प्रसरोन्मुखी स्वाभेदात्मतानिमज्जनेन शून्याभासतयाभास्येदन्तया प्रथयति | तदा कुण्डलिन्याख्या महाशक्तिरित्युच्यते गर्भीकृताशेषविश्वसृष्टिसंहारप्रपञ्चप्रथम- samastaviśvasyānunmiṣatatvenāntargarbhīkārādūrdhvakuṇḍalinītyabhidhīyate | natvatra mūlakuṇḍalinīyamadhaḥ stheti bhramitavyam | vyāpinyādisāhacaryānmahāśaktipadaṃ prasaronmukhaṃ turīyaṃ māntronmeṣīyaṃ jñeyam | atra samanānantaraṃ vyāpinītyādikramaḥ stutikṛtā tu vṛttabhaṅgānurodhanotkramato nibaddham | yaduktam- śivo hyanādimān dhāma śāśvataḥ prathamo'calaḥ | icchayā tu yadā devi ! prasaratyavilambataḥ || sā śaktiḥ paramā sūkṣmā unmanā śivarūpiṇī | p. 35) astitvamātramātmānaṃ kṣobhyaṃ kṣobhayate yadā || samanā sā vinirdiṣṭā śaktiḥ sarvādhvavartinī | kroḍīkaroti yā viśvaṃ saṃhṛtya sṛjate punaḥ || kuṇḍalyākhyā mahāśaktiḥ || iti | evaṃ triśaktirūpiṇīṃ tvāṃ stuvanti pratipādayanti budhā iti śeṣaḥ | evaṃ prathame pāde trikamate sampradāyārthaḥ | kāmyate'bhilaṣyate kamanīyatayā svātmatvena yogibhiriti kāmaḥ kameśvaraḥ paramaśivaḥ so'styasyāḥ svābhedena bhartṛbhūtatvena veti kāminī tadabhinnā kāmeśvarī ādyasundarī | yadvā kāmaḥ sadāśivādipṛthivīparyantajagatsarjanādikrīḍecchā tadvatī jagatsarjanādiśīletyarthaḥ | taduktaṃ rudrāyāmale- tayaitatsṛjyate viśvamityādi |
SKयद्वा कामयते इति कामिनी सोऽकामयत बह्वस्यां प्रजायेय इति श्रुतेर्विश्वसिसृक्षोन्मुखी | अपि च कामयते इति कामिनी कमुधातोः कान्त्यर्थत्वात् कान्तिरिच्छा रुचिश्च तेन कामेश्वरविषयौत्सुक्यवती | तथा मातृमानमेयरूपेण वामेश्वर्यादिचक्रात्मना वा विरोचमाना चेत्यर्थः | अथवा कामिनी भैरवी उत्तरसिंहासनदेवता तद्ध्यानं यथा- कामिनी भैरवी चेयं भयविध्वंसिनीति वा | इत्यारभ्य- ध्यानमस्या वदामि ते आताम्रार्कयुताभासां रत्नभूषणभूषिताम् | पाशाङ्कुशाभयवरान्धारयन्तीं शिवासनाम् || मुण्डमालावलीरम्यां चिन्तयेद्भैरवीं पराम् | इति | अपि च कामिनी कामेश्वरीयोगिनीरूपा | तदुक्तं विद्यार्णवे- अथ कामेश्वरीं वक्ष्ये सर्वकामफलप्रदाम् | इत्यादि- कामेश्वरीं शशाङ्कस्थां खेलत्खञ्जनलोचनाम् | सदा लोलगतिं कान्तां कुसुमास्त्रशिलीमुखाम् || प्. ३६) इत्यन्तम् | तथा कमले पद्मेऽस्याःस्त इति कमला अर्शाद्यच् पद्मद्वयधारिणी लक्ष्मीस्तद्रूपा | यद्वा काम्यते सर्वैरिति कमला वृषादित्वात्कलच् | कं भास्करं मलते रुच्या पुष्णातीति कमला | कं वायुं वेगेन ध्रियते इति वा तयोर्भासनजवनशक्तिरूपेत्यर्थः | येन सूर्यस्तपते तेजसेद्धः इति भीषास्मात् [भीषास्माद्वातः पवते | इत्यपि पाठः |] पवते वातः इति च श्रुतेः | कं ब्रह्माणं धारयतीति ब्राह्मी शक्तिस्वरूपेति च | को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे | मयूरेऽग्नौ च पुंसि स्यात्सुखशीर्षजलेषु कम् || इति मेदिनीकोषात् | अथ च कं दक्षप्रजापतिमलति स्वजन्मना भूषयतीति कमला | तद् ध्यानं श्रीविद्यार्णवीयद्वाविंशे श्वासे- माणिक्याभा हरगिरिनिभैःकुञ्जरेन्द्रैश्चतुर्भिर्नासाग्रोद्यन्मणिमय- ambhojasthā varasarasijadvandvakābhītihastā lakṣmīḥ pāyādamaranikaraiḥ sevitāṅdhyrambujā sā ||
SKइति | तथा कलाः कामेश्वर्यादिविचित्रान्ताः प्रतिपदादिपञ्चदशतत्तत्तिथ्यधिष्ठातृदेवताः मध्यत्रिकोणपार्श्वस्था अकारादिवर्णवाच्याः शक्तयस्ता विद्यन्ते आवरणतया यस्याः सा कलावती षोडशी कलेत्यर्थः | तदुक्तं सुभगोदये- दर्शाद्याः पूर्णिमान्ताद्याः कला पञ्चदशैव तु | षोडशी तु कला ज्ञेया सच्चिदानन्दरूपिणी || इति तन्त्रराजे तु- आद्याया ललितायाःस्युरन्याः पञ्चदशाङ्गगाः | ललिताङ्गत्वरूपेण सर्वसामान्यविग्रहा || आत्मैवास्य षोडशी कलेति बृहदारण्यकोक्तेः (बृह० १-५- p. 37) yonivargaḥ kalāśarīramiti (1-3) śivasūtroktyā karmaparatvena kalāśabdasya vyākhyātatvāttadvatīṃ | saṃkucitakriyāśaktibhāsanātkārmamalena paśūn bandhayitrīti vā | yadvā kalā viśvaśaktayaḥ santyasyā iti kalāvatī | tathā śrīmaṅgalāyām - śaktayo'sya jatatkṛtsnaṃ śaktimāṃśca maheśvaraḥ | (17) iti | śrīśivasūtreṣu - svaśaktipracayo'sya viśvam iti | (3-30) kalāḥ śiraḥpāṇyādyavayavarūpāstadvatī parākalā | tad dhyānaṃ yathā - agrabinduparikalpitānanāmanyabinduracitastanadvayīm | nādabinduraśanāguṇāspadāṃ naumi te paraśive ! parāṃ kalām || iti rahasyavidyā | kalā candrakalā vā bhaktasaṃjīvanāya asyā astīti kalāvatī | yadvā kalā brāhmayādiśaktyaṃśabhūtā akṣobhyādicatuḥṣaṣṭikalāstadyutā vā kalā aṣṭātriṃśatsaṃkhyāstā vahnerdaśa candrasya ṣoḍaśa sūryasya dvādaśa kalāḥ pūjāpaddhatau prasiddhāstadvatī tadātmikā | anyāṃśca kalā utpattijāgarādayaḥ yathā- utpattirjāgaro bodho vyāvṛttirmanasaḥ sadā | kalācatuṣṭayaṃ jāgradavasthāyāṃ vyavasthitam || jāgratsarvaguṇaiḥ proktā kevalaṃ śaktirūpiṇī | iti tathā- maraṇaṃ vismṛtirmūrcchā nidrā ca tamasāvṛtāḥ | suṣuptestu kalā jñeyāstāḥ kalāḥ śrīśivātmikā || tathā- abhilāṣo bhramaścintā viṣayeṣu punaḥ smṛtiḥ | kalācatuṣṭayaṃ devi ! svapnāvasthābhidhīyate || śivarūpāḥ śaktirūpāstāḥ kalāstripurātmikāḥ |
SKतथा- वैराग्यं च मुमुक्षुत्वं समाधिर्विमलं मनः | सदसद्वस्तुनिर्धारस्तुर्यावस्था इमाः कलाः || प्. ३८) तथा दूतीयागप्रकरणे षोडशकला आन्तरीदूतर्यादय उक्ताः | एवं बिन्द्वर्धचन्द्ररोधिन्यादीनां स्वच्छन्दसंग्रहादावुक्तास्तत्समस्तकलायुक्ता तत्स्वरूपेत्यर्थः यद्वा कलाः पञ्चसु कृत्येषु सृष्टौ दश स्थितौ द्वाविंशतिः संहृतावेकादश तुर्ये त्रयोदश एव पञ्चाशत्संख्यास्तदतीते सर्वोत्तीर्णायां भासायां विभागाभावान्निष्कलत्वं तद्वती वा अस्यार्थस्यातिरहस्यात्तदवबोधाय गुरूपासनैव शरणं रहस्यभङ्गभिया नोन्मील्यते | तदुक्तम्- सृष्टौ दशकलाः स्थितौ द्वाविंशतिर्भवन्ति शक्तयः | एकादश संहारे त्रयोदश तास्तु तुरीयपर्वणि || भासायां न विकल्पः स्फुरति स्फुरदेकनिष्कलश्रियाम् | यदि प्रतिबिम्बगत्या स्फुरति परं षोडशाधिका देवी || इति | यद्वा ईशानस्य पञ्च तत्पुरुषस्य चतस्रः अघोरस्याष्टौ वामदेवस्य त्रयोदश सद्योजातस्याष्टौ इति संकलय्याष्टात्रिंशत्संख्याः कला यद्वा आदिक्षान्तवर्णकलाः सन्त्यस्या इति कलावती अनुत्तरमहामन्त्ररूपेत्यर्थः | अथ च तत्कलामयी मातृकेत्यर्थः | पूर्णप्रकाशात्मनः शब्दराशेर्भगवतो येयं परा पारमेश्वरीशक्तिर्बहिरौन्मुख्याभावादान्तरत्वात्प्रमात्रैकात्म्यशालिनी प्रतियोगिनो विश्वाभासस्याभावमवभासयन्ती तदन्वनच्कोल्लासवृत्तिसमाश्रयणक्रमेणविश्वाभासावबिभासयिषया मलते धत्ते दर्पणवद्विश्वं परापरादिभावेनावभासतीति मालिनी पराशक्तिः | अथ च माल्यते धार्यते रुद्रैर्नादिफान्ताक्षराधिष्ठातृवर्गैरात्मतयाभ्युपगम्यते मलते भोगमोक्षस्वरूपं धत्ते इति वा | अथ च मालिनी त्रिपुरमालिनी षष्ठचक्रेश्वरी तद्रूपा नामैकदेशग्रहणन्यायात् | यद्वा- माला पुष्पमाला सञ्जाता तत्तद्वश्याकर्षणादिफलनिमित्तमस्या इति मालिनी पुष्पिणीति | मा शब्दवाच्यं संहारं राति लाति वा इति रलयोरैक्यस्मरणात्संहारस्यालिनी विम्रष्ट्रीत्यर्थः | यदाहुः श्रीमदाचार्यपादाः-
SKमाल्यते मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः | फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी || प्. ३९) संहारदानादानादिशक्तियुक्ता यतो रलौ | एकत्वेन स्मरन्तीति शम्भुनाथो निरूचिवान् || इति शिवशक्त्यात्मकतायामप्यस्यां शाक्तस्वभावस्योद्रिक्तता अत एवाशेषसिद्धिसंपादने सामर्थ्यं पूर्णं तदुक्तम्- अथान्यत्संप्रवक्ष्यामि मालिन्याः कर्म चोत्तमम् | वश्यविद्वेषणोच्चाटस्तोभस्तम्भनमारणम् || ध्यानमात्राद्भवेद्देवीति | यद्वा- क्षुब्धाया विसर्गशक्तेर्मालिनीति आगमिकं व्यपदेशान्तरम् | यदा क्षोभ्यक्षोभकात्मनां योनिबीजानां क्षुभिक्रियायां कर्तृकर्मरूपसम्बन्धे परस्परसंघट्टात्मावेशो जायते तदा विश्वस्वरूपधारणान्मालिनीत्युच्यते | तदुक्तम्- क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते | बीजयोनिसमापत्तिविसर्गोदयसुन्दरा || मालिनी हि पराशक्तिर्निर्णीता विश्वरूपिणी | इति तथा- प्रायश्चित्तेषु सर्वेषु जपेन्मालामखण्डिताम् | भिन्नां वाप्यथवाभिन्नां व्यतिक्रमबलाबलात् || सकृज्जपात्समारभ्य यावल्लक्षत्रयं प्रिये | इति | कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् | इति च यद्वा- मालावत्वान्मालिनी ब्रीह्यादित्वादिणि एकपञ्चाशन्मातृकाभिमानिन्या देवताया मालिनीति संज्ञा तद्रूपा वा | यद्वा देव्याः सखी मालिनी नाम्नी तद्रूपा वा | तदुक्तं वामने पार्वतीविवाहप्रकरणे सप्तपदीसंक्रमणं प्रकृत्य- ततो हराङ्घ्रिर्मालिन्या गृहीतो दायकारणात् | किं याचसे ददाम्येष मुञ्चस्वेति हरोऽब्रवीत् || मालिनी शङ्करं प्राह मत्सख्यै देहि शङ्कर | प्. ४०) सौभाग्यं निजगोत्रीयं ततो मोक्षमवाप्स्यसि || अथोवाच महादेवो दत्तं मालिनि ! मुञ्च माम् | इत्यादि वृत्तविशेषरूपा मन्दाकिनीरूपा वा मालिनी | मालिनी वृत्तभेदे स्यान्मालाकारस्त्रियामपि | चम्पानगर्यां गौर्यां च मन्दाकिन्यां च मालिनी || इति विश्वः | मालिनी सप्तभिः सा स्यादिति वचनात् सप्तवर्षा कन्यापि मालिनी तद्रूपेति | मालिन्या ध्यानं यथा-
SKरक्तवस्त्रधरां देवीं पञ्चवक्त्त्रधरां शिवाम् | निवृत्यादिकलायुक्तां प्रतिवक्त्त्रं त्रिलोचनाम् || पाशाङ्कुशधरां देवीं सुधासिक्तकपालिनीम् | इच्छादित्रयसंयुक्तां शूलं दक्षकरे धराम् || रक्तपङ्कजमध्यस्थां मालिनीं भावयेच्छिवाम् || इति शृङ्गाराद्रत्यादेर्भावान्मनोविकाराच्च जातो विलासविशेषो ललितं भ्रूनेत्रादिक्रियासचिवकरचरणाङ्गविन्यासो वा प्रियं कामेश्वरं प्रतिभावाविष्कृतं वा तदस्त्यस्या इति ललिता ललितमत्यन्तसौन्दर्यमनुपमसौन्दर्यं वा विद्यतेऽस्या इति वा ललितं त्रिषु सुन्दरमिति कोशः | तदुक्तं- ललितेति नाम युक्तं तव किल दिव्या नवा वृत्तयः | धनुरैक्षवमस्त्राण्यपि कुसुमानि तथाखिलं ललितम् || इति | ललिता सौभाग्यसुन्दरी | अर्शाद्यच् | ललितं शृङ्गारहावजन्यः क्रियाविशेषस्तद्वती तेन शृङ्गाररसप्रधानेयं मूर्तिरिति | अथवा लोकानतीत्य विलसनाल्ललिता | यद्वमरीचिवृन्दान्यतिक्रम्योपरितने बिन्दुस्थानमध्ये ललते नितरां शोभते वा | तदुक्तं पाद्मे- लोकानतीत्य ललते ललिता तेन सोच्यते | इति | यद्वा ललिताख्या भैरवी | तद्ध्यानं यथा- श्रीविद्यार्णवीये प्. ४१) सप्तमे श्वासे- दक्षिणसिंहासनदेवतां प्रकृत्य- उद्यत्सूर्यसहस्राभां माणिक्यमुकुटोज्ज्वलाम् | रत्नकुण्डलमुक्तालिपदकाङ्गदभूषणाम् || रत्नमञ्जीरसुभगां रक्तवस्त्रानुलेपनाम् | पाशाङ्कुशौ पुस्तकं च दधतीमक्षमालिकाम् || बाल्यलीलापरां देवीं कुमारीरूपधारिणीम् | सर्वाङ्गसुन्दरीं ध्यायेत्सर्वसंपत्तिहेतवे || (पृ० १५५-१-२- iti na parājitā aparājitā daityayuddhādau sadaiva jayaśālinī | aparājitā jayadurgārūpā vā | yadvāparājitāḥ īśabrahmaviṣṇavaḥ paryaṅkapādarūpatayā santyasyāḥ aparājitā vidyāsvarūpā ca | aparājita īśājeṣṭyantarenājite triṣu | girikarṇī jayā durgā śataparṇīṣu yoṣiti || iti medinī | devīpurāṇe tu- vijitya padmanāmānaṃ daityarājaṃ mahābalam | triṣu lokeṣu vikhyātā vijayā cāparājitā ||
SKइति तथा विशिष्टो ब्रह्मविष्णुपुरन्दरादिभिरपि दुःसाधो जयो यस्याः सा विजया चतुर्विधसंविदानन्दरूपा वा | विजयं चैव काश्मीरे इति देवीपुराणोक्तशिवतीर्थपरिगणनायां विजयाख्यशिवस्वरूपा वा | अथवा विजयाख्यप्रासादविशेषो विश्वकर्मशास्त्रप्रसिद्धस्तद्रूपा वा विजयाख्यो मुहूर्तो वा तादृशकालरूपिणीत्यर्थः | तदुक्तं मुहूर्तशास्त्रे- आश्विनस्य सिते पक्षे दशम्यां तारकोदये | स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धिदः || एकादशो मुहूर्तो यो विजयः परिकीर्तितः | तस्मिन् यात्रा प्रकर्तव्या सर्वैर्विजयकाङ्क्षिभिः || इति | जयस्वरूपत्वाज्जया वराहशैले स्थिता जयाख्या देवी जयते प्. ४२) इति जया जयन्ती लब्धोत्कर्षा इत्यर्थः | जयाख्यतिथिस्वरूपा वा | शिवासखीरूपा वा अग्न्युत्पादशक्त्युपेतारणीस्वरूपा वा | जया जयन्ती तिथिभित्पथ्योमा तत्सखीषु च | अग्निमन्थे ना जयन्ते विजये च युधिष्ठरे || इति मेदिनी | अथ च अपराजिताद्यास्तिस्रो देव्यो वामस्रोतसि तुम्बुरुनाथस्य परिवारदेवीत्वेनाम्नाताः | तदुक्तं श्रीनेत्रतन्त्रे- चतुर्भुजा त्रिनेत्रा च टंककन्दलधारिणी | दण्डाक्षसूत्रहस्ता च प्रेतोपरि विराजत् || जया देवी तु विजया रक्तवर्णा चतुर्भुजा | चतुर्वक्त्रा त्रिनेत्रा च शरकार्मुकधारिणी || खड्गचर्मधरादेवी उलूकोपरिसंस्थिता | तथा- भिन्नेन्द्रनीलसदृशी चतुर्वक्त्त्रविभूषिता || चतुर्भुजा त्रिनेत्रा च पाशाङ्कुशधरा तथा | रत्नपात्रगदाहस्ता दिव्यासनसुसंस्थिता || सौवर्णाम्बरसंवीता स्वर्णभूषणभूषिता | (११ अधि० १२-१८) अपराजितेति || ओर्महेशस्य मा लक्ष्मीरुमा उं परमशिवं माति परिच्छिन्नति स्वातन्त्र्याज्ज्ञेयीकरोतीति उमा शैवी मुखमिहोच्यते इति | विज्ञानभट्टारके- यथालोकेन दीपस्य किरणैर्भास्करस्य च | ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये || (वि० भै० २१) इति | श्रीमानुत्पलदेवाचार्यः- आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति | ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य स्वतन्त्रता ||
SKइति अतसीकुसुमोपमत्वादभेदोपचाराद्बोमा | हरिद्रावर्णवत्त्वात्स्तम्भनकर्मोचितध्यानादौ प्. ४३) वा कीर्तिकान्तिस्वरूपवत्वाद्वा | सप्तशत्यां तु- या देवी सर्वभूतेषु कीर्तिरूपेण संस्थिता | कान्तिरूपेणेति वा | उमाऽतस्यां हैमवत्यां हरिद्रा कीर्तिकान्तिषु | इति | उ इत्यामन्त्रणे मेति निषेधे | बाल्ये तपसे प्रवृत्ता मात्रा मेनया संबोध्य निषिद्धत्वादिति वोमा | तदुक्तं कालिकापुराणे- यतो निरस्ता तपसे वनं गन्तुं तु मेनया | उ मेति तेन सोमेति नाम प्राप तदा सती || ब्रह्माण्डेऽपि- अपर्णा तु निराहारा तां माता प्रत्यभाषत | उ मा इति निषेधन्ती उमेत्येव तदा भवत् || सा तथोक्तानया मात्रा देवी दुश्चरचारिणी | तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता || पाद्मे पुष्करखण्डे- ततोऽन्तरिक्षाद् दिव्या वागब्रवीद्भुवनत्रये | उ मेति तु त्वया मेने यदुक्तं तनयां प्रति || उमेति नाम तेनास्या भुवनेषु भविष्यति | उ- उत्तमा च सा मा- चित्तवृत्तिश्चेति वा | तदुक्तं सूतसंहितायाम्- परानुभूतिं भवपाशनाशिनीं सदाशिवस्याप्यतिशोभनाढ्याम् | उमाभिधामुत्तमचित्तवृत्तिं नमामि नानाविधलोकवैभवाम् || इति | यद्वा- उमामिति ज्ञानप्रदत्वेनाम्नाता उमानाम्नी ब्रह्मविद्या- स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं प्. ४४) ताṁ होवाच किमेतद्यक्ष्यामिति [किमेतद्यक्षम् इति पाठान्तरम्] ब्रह्मेति होवाचेत्यादि केनोपनिषच्छ्रुतेः | (केनो० ३-१२) स्कान्दे- ईदृशी परमा विद्या शाङ्करी भवनाशिनी | प्रसादादेव जन्तूनां शक्तेरेव हि जायते || सूतसंहितायां तु- विद्यारूपा या शिवा वेदवेद्या सत्यानन्दानन्तसंवित्स्वरूपा | तस्या वाचः सर्वलोकैकमातुर्भक्त्यैव स्यादम्बिकायाः प्रसादात् || इति | अथवा विष्णुशिवब्रह्मवाचकैः प्रणवमात्रात्मकैरक्षरैर्घटितत्वात्तन्मूर्तित्रयात्मिकेति प्रणवार्थोऽत्र योजनीयः | अत एवास्य पदस्य देवीप्रणव इति संज्ञेति रहस्यविदः | तदुक्तं लैङ्गे- अकारोकारमकारा मदीये प्रणवे स्थिताः | उकारं च मकारं च अकारं च क्रमेरितम् ||
SKत्वदीयं प्रणवं विद्धि त्रिमात्रं प्लुतमुत्तमम् | इति | यद्वा शिवसूत्रेषु इच्छाशक्तिरुमा कुमारी (१-१३) इति सूत्रे योगिनामिच्छा या उमेति संज्ञोक्ता तद्रूपा वा | तदुक्तं- परभैरवतामुक्तां ग्रसमानस्य शाश्वतीम् | तस्यैव योगिनो येच्छा शक्तिस्तां निगदन्त्युमाम् || इति यद्वा- उमा देवीविनायके इति पाद्माद्विनायकपीठाधिष्ठात्री उमा सिन्धुवने नाम्ना इत्युक्ते ऋषिकन्या कन्यारूपा वा उमा षड्वार्षिकी मतेति कन्याप्रकरणे धौम्यवचनात् | इत्यादिनामभिस्त्वां स्तुवन्ते | अत्रेतिशब्दाः शब्दपरत्वेऽप्यर्थपरतामाचक्षते || २२ || प्. ४५) ननु कथमुभौ भोगमोक्षौ तत्कामानां सिद्ध्यत इत्याशङ्क्य तत्र हेतुभावेन षोढोपास्तिं सूचयन् स्तौति- उद्दामकामपरमार्थसरोजषण्डचण्डद्युतिद्युतिमुपासित [मपासितषड्विकारम् इति पाठान्तरम्] षट्प्रकाराम् | मोहद्विपेन्द्रकदनोद्यतबोधसिंहलीलागुहां भगवतीं त्रिपुरां नमामि || २३ || दाम्नो मर्यादाया उत्क्रान्ता उद्दामानो निरवधयः काम्यन्ते इति कामा लौकिकालौकिकभोगजातानि परमोपादेयत्वेनार्थ्यमानत्वादर्था अतिशयेनार्थनीयाश्चाणिमादिसिद्धयस्तान्येव सरोजषण्डानि कमलवृन्दानि तत्र चण्डद्युतेस्तीक्ष्णकिरणस्यार्कस्येव द्युतिदीप्तिविकासयित्री यथार्कदीप्त्या सरोजानि विकासं यान्ति तद्वद्भगवतीप्रसादेन समस्तं काम्यमवाप्यते इत्यर्थः | कीदृशीं उपासिताः साधकजनैः परिचारिताः षट्प्रकाराः शैववैष्णवादयः षडुपासनामार्गास्तत्प्राप्तिसाधनत्वाद्यस्यास्ताम् | तदुक्तं कुलार्णवे- शैववैष्णवदौर्गार्कगाणपत्येन्दुसम्भवैः | मन्त्रैर्विशुद्धचित्तस्य कुलज्ञानं प्रकाशते || इन्दुसंभवं जैनदर्शनम् |
SKअत्रायं भावः- प्राग्जन्मनि कृतषड्विधोपासामुपासकानामेवेह जन्मनि श्रीसुन्दर्या उपास्तिलाभे सति कुलज्ञानाद्भोगापवर्गरूपयामलसिद्धिः स्यादित्येतदाशयेन श्लोकप्रथमोत्तरार्धयोरर्थोपन्यासः कृत इत्यूह्यम् | यद्वोपासिताः षट्प्रकारा डरलकशहादयो भेदा यस्यास्तां षट्स्वाधारसरोजेषु तत्कर्णिकास्थं धात्वधिदेवतारूपेण कृताराधनाम् | यद्वा षड्भिः प्रकारैः षोढा गणेशग्रहादिशक्तिभिरुपासितां तद्रूपिणीमित्यर्थः | प्. ४६) अथ च महाषोढोक्तप्रपञ्चादिशक्तिरूपिणीं | यद्वाषट्शाम्भवान्वयरीत्या परेश्वरपरेश्वर्यादिषोढास्वरूपेणोपासितां राजदन्तादित्वात्पूर्वभावः | मोहोऽविवेकरूपमाया साषुप्तं स एव प्रबलोन्मत्ततया द्विपेन्द्रो गजेन्द्रस्तस्य कदनं निधनं तत्रोद्यतः स्वीकृतनिजहृदयोद्यमो बोधो भैरवीयचित्प्रकाशरूपः सिंहः केसरी तस्य लीलागुहां विलासस्थानं संकुचितात्मतापासनेन पूर्णाहन्ताविश्रान्तिसतत्वपरप्रकाशस्य प्रादुर्भावयित्रीमित्यर्थः | एवंविधां भगवतीं त्रिपुरां तिसृभ्यः शक्तिभ्यस्तदधिष्ठितत्रिकारणेभ्य अवस्थादित्रितयाच्च पूर्वभवत्वात् त्रिपुराशब्दवाच्यां महात्रिपुरसुन्दरीं परिपूर्णाहन्तात्मिकामखण्डस्वसंविन्मयीं त्रैलोक्यमोहनचक्राधिष्ठात्रीं त्रिपुराख्यां वा नमामि | यदुक्तं स्वसंवित् त्रिपुरा देवीति वितत्य प्राक्निर्णीतमिदम् | नत्यर्थस्त्वभेदोपासनात्मा बोद्धव्य इति || २३ || ननु केयं त्रिपुरा नाम या प्रह्वीभावेनाश्रयणीया इत्याशङ्कमानो मुख्यशक्तिपरिवार्यमाणां तामन्तःपुरगतां परदेवतां निर्दिशति- गणेशवटुकस्तुता रतिसहायकामान्विता स्मरारिवरविष्टरा कुसुमबाणबाणैर्युता | अनङ्गकुसुमादिभिः परिवृता च सिद्धैस्त्रिभिः कदम्बवनमध्यगा त्रिपुरसुन्दरी पातु नः || २४ || गणेशो महागणपतिर्योऽसुरनिर्मितविघ्नयन्त्रितानां देवानां मोचनाय भगवत्या कामेश्वरस्य साकूतमुखावलोकनमात्रेण तद्विघ्नान्निर्भेत्तुमुदपादि | उक्तं च ब्रह्माण्डे-
SKततः सा ललिता देवी कामेश्वरमुखं प्रति | दत्तापाङ्गा समहसन्नातिव्यक्तरदावलि || तस्या मन्दस्मितरुचः कुञ्जराकृतिमान्मुखे | कटक्रोडगलद्दानः कश्चिद् देवो व्यजम्भत || प्. ४७) इति | अथ च श्रीचक्रद्वारशाखयोः स्थितौ सशक्तिकौ गणेशो वटुकश्च क्षेत्रेशः | तदुक्तं संकेतपद्धत्यां- द्वैताद्वैतमहामोहशर्वरीक्षपणक्षमः | भास्वानिव जयत्येको गणेशः दूतरीयुतः || प्रतिभायाः परोल्लासो निशाकर इवापरः | दूतियुक्तः स जयति वटुकस्ताण्डवान्वितः || इत्यत्र रतिसहायेत्युक्त्या गणेशवटुकयोरपि सशक्तिकत्वमुपलक्ष्यम् | तथा वटुको देवीपुत्रः कुलेशः इति प्रसिद्धस्ताभ्यां स्तुता नुता | गणा गणदेवताः षोढान्यासोक्ताश्चादित्याद्याः | यदुक्तमग्निपुराणे- आदित्यविश्वबसवस्तुषिताभास्वरानिलाः | महाराजिकसाध्याश्च रुद्राश्च गणदेवताः || इति | यथा- महाषोढोदिताशेषदेवतागणसेवितम् | इति | गणानां प्रमथानां नन्दिभृङ्गिरिट्यादीनामीशो नायकः स्कन्दो वटुर्वामनरूपी विष्णुरथवा वटवो बालखिल्यादयः को ब्रह्मा वायुर्दक्षो भास्करोऽग्निश्च तैः स्वस्वविद्याभिरुपासिता अथवा गणा नन्दिभृङ्गिरिट्यादयः ईशः शिवस्तथा रतिः कामपत्नी तत्सहायस्तत्सचिवस्तत्सहायो वसन्तो वा कामः स्मरस्तेनान्विता परिचरिता स्वस्वविद्याभिर्वरिवसितेत्यर्थः | अत्र रतिकामाम्यां पञ्चाशत्तत्तन्मातृकाशक्तय उपलक्ष्यन्ते | तथा स्मरारिः कामरिपुः सदाशिव एव वरः श्रेष्ठो ब्रह्मादिचतुष्पादधृतो विष्टरो पर्यङ्कः मञ्चासनं यस्याः सा सदाशिवमहाप्रेतपर्यङ्कात्मसिंहासनाधिरूढेत्यर्थः | विष्टरत्वोक्त्या तु आनन्दशयनाधारत्वध्वननद्वारा कामाङ्कयन्त्रणविशेषो ध्वन्यते इत्याहुराचार्याः | अत एव त्रिपुरसुन्दरीत्युक्तमिति रहस्यम् | अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पादिति श्रुतेः | तदुक्तं भैरवयामले- ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | प्. ४८) एते पञ्च महाप्रेताः पादमूले व्यवस्थिताः || शिवात्मके महामञ्चे महेशानोपवर्हणे | अतिरम्यतले तत्र कशिपुश्च सदाशिवः ||
SKभृतकाश्च चतुष्पादा महेशश्च पतद्ग्रहः | तत्रास्ते परमेशानी महात्रिपुरसुन्दरी || इति | आचार्यपादैरपि- गतास्ते मञ्चत्व मित्यादावुक्तम् | न चात्र ब्रह्मादय इमे मायान्तवर्तिनस्तेषां शाक्तदशाधिशायित्वानुपपत्तेः | तस्मात्तेषाममायेयं रूपान्तरं भगवत्याः पीठपादभावोचितम् | ईश्वरसदाशिवयोस्तु सदातनमायोत्तीर्णमेव रूपमित्यभ्यूह्यम् | यदाहुराचार्याभिनवगुप्तपादाः- मायोत्तीर्णं हि तद्रूपं ब्रह्मादीनां पुरोदितम् | आसनं त्वेतदेव स्यान्न तु मायाञ्जनाञ्चितम् || रुद्रोर्ध्वे चेश्वरं दैवं तदूर्ध्वे च सदाशिवम् | न्यसेत्स च महाप्रेत इति शास्त्रेषु भण्यते || समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः | प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् || (तं १५-३०८-१०) व्रजेदिति परमेव शिवमुपाश्रयतीत्यर्थः | इदमासनं वामदक्षिणोभयतन्त्रमार्गसाधारणम् | तथा कुसुमबाणैः पौष्पैर्बाणैर्मोहनवशीकरणाद्यात्मकैः पञ्चभिर्युता उपलक्षणमेतत्तेन सायुधचतुष्पाणिशोभितामिति | एतदायुधानां तु वासनात्मकं रूपं यथा पूर्वचतुःशती शास्त्रे- पाशाङ्कुशौ तदीयौ तु रागद्वेषात्मकौ स्मृतौ | इति | तन्त्रराजेऽपि- मनोभवेदिक्षुधनुः पाशो राग उदाहृतः | द्वेषः स्याद शः पञ्च तन्मात्राः पुष्पसायकाः || इति | उत्तरचतुःशत्यां तु- इच्छाशक्तिमयं पाशमङ्कुशं ज्ञानरूपिणम् | क्रियाशक्तिमये बाणधनुषी दधदुज्ज्वलम् || प्. ४९) इति | वामकेश्वरे तु- शब्दस्पर्शादयो बाणा मनस्तस्याभवद्धनुः | इति कादिमते- बाणास्तु [बाणाः स्युस्त्रिविधाः इति पाठान्तरम् आर्थर अवलान सम्पादिते] त्रिविधाः प्रोक्ताः स्थूलसूक्ष्मपरत्वतः | स्थूलाः पुष्पमयाः सूक्ष्मा मन्त्रात्मानः समीरिताः || पराश्च वासनायां तु प्रोक्ताः स्थूलाञ्छृणु प्रिये | कमलं कैरवं रक्तकल्हारेन्दीवरे तथा | सहकारकमित्युक्तं पुष्पपञ्चकमीश्वरि || (प० ५ ४८-५०) तेषां नामानि तु- हर्षणं रोचनाख्यं च मोहनं शोषणं तथा | मारणं चेत्यमी बाणा मुनीनामपि मोहदाः || इति ज्ञानार्णवे तु-
SKक्षोभणं द्रावणं देवि ! तथाकर्षणसंज्ञकम् | वशोन्मादौ क्रमेणैव नामानि परमेश्वरि || इति | तन्त्रराजे तु- मदनोन्मादनौ पश्चात्तथा मोहनदीपनौ | शोषणश्चेति कथिता बाणाः पञ्च पुरोदिताः || (७ प० १३) इति | तथानङ्गकुसुमादिभिरनङ्गकुसुमा अनङ्गमेखला अनङ्गमदनाअ अनङ्गमदनातुरा अनङ्गरेखा अनङ्गवेगिनी अनङ्गाङ्कुशा अनङ्गमालिनीत्याख्याभिः सर्वसंक्षोभकारके चक्रे गुप्ततरशक्तिभिर्वसुदलाधिष्ठात्रीभिः परिवृता मण्डलिता संनिहितत्वात् | त्रिभिः सिद्धैश्च मित्रेशादिभिर्युगगुरुभिश्च अन्तस्त्रिकोणे सर्वसिद्धिप्रदाख्ये धाम्नि पूजनीयैरावृता संनिहिततरत्वात् | कदम्बवनमध्यगा श्रीपुरगर्भे कदम्बवने नीपादिवृक्षोपशोभिनि नन्दनोद्याने मध्यस्था दिव्यमण्डपे भद्रासनासीना प्. ५०) श्रीत्रिपुरसुन्दरी प्रोक्तचक्रनायिका त्रिषु जागरादिपुरेषु अवभास्यमानाशेषविश्ववैश्वात्म्यसामरस्येन स्फुरणात् सुन्दरी चिदानन्दघना ललिताख्या उर्ध्वसिंहासनविद्यासु प्रथमसुन्दरीसंज्ञका वा त्रीणि पुराणि ब्रह्मविष्णुशिवशरीराणि यस्य स त्रिपुरः परमशिवस्तस्य सुन्दरी रमणी | यदुक्तं कालिकापुराणे- प्रधानेच्छावशाच्छम्भोः शरीरमभवत् त्रिधा | तत्रोर्ध्वभागः संजातः पंचवक्त्रश्चतुर्भुजः || पद्मकेसरगौराङ्गः कायो ब्राह्मो महेश्वरे | तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भुजः || शंखचक्रगदापद्मपाणिः कायः स वैष्णवः | अभवत्तदधोभागे पञ्चवक्त्रश्चतुर्भुजः || स्फटिकाभ्रमयः शुक्लः स कायश्चान्द्रशेखरः | एवं त्रिभिः पुरैर्योगात् त्रिपुरः परमः शिवः || इति | यद्वा त्रिषु पुरेषु मातृमानमेयपदेषु सुन्दरी सततावभासितस्वरूपा स्वप्रकाशत्वात् | तदुक्तमभिनवगुप्तपादैः- तेन संवित् त्रिकात्मैव मातृमानप्रमेयताम् | गृह्णती स्वप्रकाशत्वस्वभावादेव भासते || सा चान्तः स्थितमन्त्रात्मशब्दनामर्शसुन्दरा | अनपेक्षान्यविरहात्प्रमाणं स्वत एव हि || इति | नोऽस्मान् पातु पायादव्यादित्याशंसायां लोट् || २४ ||
SKएवं वाग्विस्फारफलकामिनां स्थानाद्युल्लेखनपूर्वं निर्दिष्टदेवतोपास्तिं सफलां काव्यलिंगेन समर्थयति- त्वामैन्दवीमिव कलामनुभालदेशमुद्भासिताम्बरतलामवलोकयन्तः | सद्यो भवानि ! सुधियः कवयो भवन्ति त्वं भावनाहितधियां कुलकामधेनुः || २५ || प्. ५१) हे भवानि ! भवस्य परब्रह्मणः पत्नी सततसमवेताशक्तिस्तदामन्त्रणं | मृडानीति पाठे प्राग्वत्सुखयित्रीत्यर्थः | त्वां कलां तथातथाविश्वोल्लेखशालिनीं शक्तिमुद्भासितमम्बरतलं यया तामुत्तेजितचिदाकाशस्वरूपामनुभालदेशं ललाटसमीपे ऐन्दवीमिन्दोश्चन्द्रस्य सम्बन्धिनीं कलां लेखामिवाह्लादिनीं सापि स्वज्योत्स्नयाकाशतलमुद्भासयति अवलोकयन्तो ध्यायन्तः सुधियः प्रज्ञावन्तः सद्यो भावनापरिपाकसमनन्तरमेव कवयः सद्गुणालङ्कारसरसमाधुर्योपेतसत्सन्दर्भसूक्तिरचनाप्रतिभाशालिनो भवन्ति | एतदेव द्रढयति- यतस्त्वं भावनया प्रोक्तरूपध्यानपरिशीलनजन्यसंस्कारेण | यद्वा- भावना सकल सकलनिष्कल निष्कलरूपत्वेन त्रिधा | यदुक्तं योगिनीहृदये- आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् | उन्मन्यन्ते परे स्थाने निष्कलं च त्रिधा स्थितम् | अत्रानुभालदेशमित्युक्तेराज्ञान्तसकलाख्यभावनयाहितधियामधिवासित- kāmyamānānāmarthānāṃ dhenuriva dogdhrī prapūraṇītyarthaḥ | pūrvavaddhyānamadhigamyam | kāmadhenuśca surabhināmnī yatprasādādvasiṣṭho munirviśvāmitrasya rājñaḥ sasenāparicchadasyātithyaṃ rājocitaṃ cakre iti mahābhāratīyakathodāharaṇatvenātrānusandheyā iti || hi ityadhyāhāryam || 25 || nanvaśuddhacetasāmupāsanādhikārāyogyatve'bhīṣṭaphalasiddhiḥ kathaṃ syādityāśaṃkya tadadhikārāpādanāyaiva malasaṃskārādyucchedapūrvaṃ tacchuddhiṃ prārthayate- uttaptahemarucire ! tripure ! punīhi cetaścirantanamaghaughavanaṃ lunīhi | kārāgṛhe nigaḍabandhanapīḍitasya [yantritasyeti pāṭhāntaram] tvatsaṃsmṛtau jhaṭiti me nigaḍāstruṭantu || 26 || p. 52)
SKउत्तप्तं द्रुतं शोधितं यद्धेम कनकं तद्वद्रुचिरे ! सुन्दरि ! हे त्रिपुरे ! एतन्निर्वचनं बहुधा प्राक् प्रोक्तमग्रेऽपि निर्वक्ष्यते | त्रिपुरापदव्युत्पत्तिस्तु वाराहीये- ब्रह्मविष्णुमहेशाद्यैस्त्रिदशैरर्चिता पुरा | त्रिपुरेति तदा नाम कथितं दैवतैस्तव || इति | यद्वा त्रिपुरे इति सप्तम्यन्तं त्रयाणां पुराणां स्थूलसूक्ष्मकारणात्मनां देहानां संहारस्त्रिपुरं तस्मिन् द्रुतस्वर्णवद्दीप्यमाना तुरीया कापि संविच्छक्तिस्तत्सम्बोधनं हे उत्तप्तहेमरुचिरे ! मे मम चेतो मानसं पुनीहि पवित्रीकुरु त्वदुपासनोचितं सम्पादयेत्यर्थः | तथा तत्स्थं चिरस्य भवत्वात् चिरन्तनं पुराणमनेकवासनाप्रतानवलितमघौघवनं पापौघकाननं लुनीहि लूनीकुरु अनुद्भविष्यदङ्कुरक्षमं सम्पादयेत्यर्थः | भगवत्या नामस्मृतिकीर्तनेन हि पापशान्तिर्जायते तथा च कूर्मपुराणे- शमायालं जलं वह्नेस्तमसो भास्करोदयः | शान्त्यै कलेरघौघस्य देवीनामानुकीर्तनम् || इति ब्रह्माण्डेऽपि- कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा | प्रायश्चित्तं परं प्रोक्तं पराशक्तेः पदस्मृतिः || इति | तथा कारागृहे संसाररूपबन्धनालये निगडाः शृंखलाः शुभाशुभकार्ममललक्षणास्तैर्यद्बन्धनं तत्तत्संकुचिततरप्रमातृभूमिकाग्रहणं तेन पीडितस्य तत्तत्क्लेशानुभवेन दुःखितस्य मम त्वत्संस्मृतौ तव ध्याने हेतौ झटिति मङ्क्षु त्रुटन्तु विच्छिद्येरन् इति आशंसायां लोट् | अत्र शुभमपि कर्माशुभकर्मवद्बन्धनसाधनं तदुक्तमभियुक्तैः- पातकप्रचयवन्मम तावत्पुण्यपुञ्जमपि नाथ ! लुनीहि | काञ्चनी भवतु लोहमयी वा शृङ्खला यदि पदोर्न विशेषः || इति | अत्र हेतौ सप्तमी | तिसृभिः क्रियाभिर्मलत्रयापाकरणं प्रार्थ्यते इति ज्ञेयं | प्. ५३) कारागृहादपि त्वमेव मोचयित्रीत्यर्थः | यथा बाणासुरपुरेऽनिरुद्धस्य देवीकृतं मोचनम् | तदुक्तं हरिवंशे- एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि शाङ्करि | त्वत्प्रसादादविघ्नेन क्षिप्रं मुच्येय बन्धनात् ||
SKअवेक्षस्व विशालाक्षि ! पादौ ते शरणं व्रजे | सर्वेषामेव बन्धानां मोक्षणं कर्तुमर्हसि || इत्यारभ्य- एवं स्तुता तदा देवी दुर्गा दुर्गपराक्रमा | बद्धं बाणपुरे वीरमनिरुद्धं व्यमोचयत् || इत्यन्तम् | एवमेकावलीनामिका राजकन्यकापि कालकेतुदानवेन बद्धा तत्सख्या यशोवत्या स्वोपासितभगवतीमन्त्रबलान्मोचितेति कथा देवीभागवते षष्ठस्कन्धे स्मर्यते इति || २६ || एवं प्राप्तचेतःशुद्धीनामपि कामार्थितया कीदृग्ध्येयमित्याशयेन राजसध्यानं सफलं वर्णयति- रुद्राणि ! विद्रुममयीं प्रतिमामिव त्वां ये चिन्तयन्त्यरुणकान्तिमनन्यरूपाम् | तानेत्य पक्ष्मलदृशः प्रसभं भजन्ते कण्ठावसक्तमृदुबाहुलतास्तरुण्यः || २७ || रुद्रस्य जन्मादिरुजां द्रावयितुः शिवस्य सम्बन्धिनी शक्तिस्तत्संबुद्धिः हे रुद्राणि ! इत्येतदामन्त्रणपदमरुणवर्णानुगुणतया विवेच्यमतस्तादृशोपमानाभिधानम् | विद्रुममयीं लोध्रकाष्ठप्रकृतिं तन्निर्मितामित्यर्थः प्रतिमां प्रतिच्छायामिव त्वां भवतीमरुणकान्तिं रक्तवर्णां सूर्यकान्तिं वोज्ज्वलामुदयास्तमयराहित्यात् | नहि द्रष्टुर्द्रष्टेर्विपरिलोपः इति श्रुतेः (बृह० ४-३-३२) | तदुक्तम्- प्. ५४) अनस्तमितभारूपस्तेजसां तमसामपि | य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च || इति | शुद्धं शान्तं लयोदयविहीनमिति च | तथानन्यरूपामविद्यामानमन्यत्सदृशं रूपं यस्यास्तामनुपमां | यद्वानन्यरूपामभिन्नरूपामेतेनाभेदोपासना सूच्यते | ये चिन्तयन्ति स्मरन्ति तांस्त्वदुपासकानेत्योपेत्य पक्ष्माण्यक्षिरोमाणि विद्यन्ते ययोस्ते पक्ष्मले मत्वर्थीयो लच् दृशौ चक्षुषी यासां ताः पक्ष्मलदृशः सुलोचनास्तरुण्य आरूढयौवनाः श्यामा इत्यर्थः प्रसभं हठाद्भजन्ते सेवन्ते आश्लिष्यन्तीत्यर्थः | कीदृश्यः कण्ठे साधकग्रीवायामवसक्ता लग्ना मृद्व्यः कोमला बाहुलता भुजवल्लर्यो यासां ताः | अत्रापि कामेश्वरीध्यानाभिप्रायमेतदिति || २७ || तदेव भङ्ग्यन्तरेण प्रपञ्चयति-
SKत्वद्रूपमुल्लसितदाडिमपुष्परक्तमुद्भावयेन्मदनदैवतमक्षरं यः | तं रूपहीनमपि मन्मथनिर्विशेषमालोकयन्त्युरुनितम्बतटास्तरुण्यः || २८ || उल्लसितमुत्फुल्लं यद्दाडिमपुष्पं दाडिमी (करक) लतायाः कुसुम तद्वद्रक्तं मसृणारुणवर्णं मदनदैवतं कामराजबीजाधिदैवतमक्षरं वर्णमविनश्वरं च त्वद्रूपं तद्वपुर्निष्कलं कामकलात्मकं य उद्भावयेदुत्कर्षतया हृदि स्वात्माभेदेन परिशीलयेत् | तं रूपहीनं रूपाख्यगुणरहित विरूपमपि मन्मथनिर्विशेषं कामान्निष्क्रान्तविशेषं कमनीयत्वात्कामोपमम् | उरुनितम्बतटा बृहन्नितम्बप्राग्भारास्तरुण्य आरूढयौवनाः कामिन्य आलोकयन्ति पश्यन्त्यभ्युपगछन्ति मदनभ्रमेण भ्राम्यन्तीत्यर्थः | ध्यानं प्राग्वद् बोध्यम् || २८ || ननु किं लक्षणोपासना कार्येत्याशंक्य तत्प्रकारमुपक्षिपन् स्वस्य तदासक्तिं नैरन्तर्येणाशास्ते- प्. ५५) त्वद्रूपैकनिरूपणप्रणयिताबन्धो दृशोस्त्वद्गुणग्रामाकर्णनरागिता श्रवणयोस्त्वत्संस्मृतिश्चेतसि | त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तनं वाचि मे कुत्रापि त्वदुपासनव्यसनिता मे देवि ! मा शाम्यतु || २९ || हे देवि ! मे दृशोर्नेत्रयोस्त्वद्रूपस्य भवत्या वपुर्लावण्यगुणस्य यदेकं मुख्यं निरूपणं तत्सौन्दर्यामृतरसलहरीचमत्कारविषयतया परामर्शस्तत्र प्रणयिताबन्धः प्रेमग्रन्थिर्भूयात् वेद्यान्तरपरिहारेण भवत्या रूपसौन्दर्यैकविषयासक्ते दृशौ मदीये भवेतामित्याशंसा | श्रवणयोः कर्णयोस्त्वद्गुणग्रामाणां तव शौर्यादिगुणेषु गीयमानेषु विषये ये ग्रामाः कण्ठोत्थाः षड्जादिस्वरविशेषास्तेषामाकर्णने श्रवणे रागितानुरक्तिः मत्कर्णौ तव गुणग्रामश्रवणानुरक्तौ भवेतामित्यर्थः | षड्जादिलक्षणं यथा- नासां कण्ठमुरस्तालुजिह्वां दन्तांश्च संस्पृशन् | षडभ्यः संजायते यस्मात्तस्मात्षड्ज इति स्मृतः || तद्वदेवोत्थितो वायुरुरः कण्ठसमाहतः | नाभिं प्राप्तो महानादो मध्यस्थस्तेन मध्यमः ||
SKवायुः समुद्गतो नाभेरुरो हृत्कण्ठमूर्धसु | विचरन्पञ्चमस्थानप्राप्त्या पञ्चम उच्यते || इति | नारदः- षड्जं रौति मयूरस्तु गावो नर्दन्ति चार्षभम् | अजाविकौ च गान्धारं क्रौञ्चो नर्दति मध्यमम् || पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् | अश्वस्तु धैवतं रौति निषादं रौति कुञ्जरः || इति | यद्वा- गुणसमूहानां भण्डासुरवधादिशौर्यादीनां महिषासुरयुद्धवधचरितानां जगत्सृष्टिपालनादीनां पञ्चकृत्यानां चाकर्णने श्रवणे प्. ५६) रागितानन्यमनस्कतयासक्तिरिति | उपलक्षणमेतत् तेन धीन्द्रियान्तराणामपि यथास्वं व्यापारो ज्ञेयः | तथा तत्तद्दृष्टश्रुतरूपगुणानुभवजन्यसंस्कारोद्बोधिता चेतसि तव संस्मृतिरिति | बाह्येन्द्रियजन्यव्यापारोपरतौ सत्यां मदीयं मनस्त्वत्स्मरणैकप्रवणं भवत्वित्यर्थः बुद्धिव्यापारस्यापि एतदुपलक्षणम् | तथा करयुगे करयोस्त्वत्पादार्चनायां गन्धपुष्पाद्युपचारार्पणलक्षणायां तव चरणाब्जयुगलार्हणायां चातुरी दाक्ष्यं कृतहस्तता तथा वाचि वाण्यां त्वत्कीर्तनं त्वदीयानामुक्तगुणानां सम्यग्वर्णनं भूयादिति सर्वशेषः | पादेन्द्रियव्यापारस्यापि प्रदक्षिणादेरिदमुपलक्षणम् | तदुक्तं- मधुकैटभनाशं च महिषासुरघातनम् | कीर्तयिष्यन्ति ये तद्वद्वधं सुम्भनिसुम्भयोः || इत्यादि | कुत्रापि कस्मिंश्चदपि देशे कालेऽवस्थासु वा त्वदुपासने उक्तदर्शनाकर्णनस्मरणकीर्तनादिरूपे व्यसनिता व्यासक्तिर्मे मम मा शाम्यतु शान्ता माभूदित्यर्थः | एवमीदृशार्चाव्यापारे करणवर्गस्य सर्वथा निरन्तरया देवीस्वरूपपरिशीलनपरत्वेन मलहानिपूर्वं पूर्णानन्दव्याप्त्या विशुद्धतासादनमभिप्रेतमिति | तदुक्तम्- परानन्दमहाव्याप्तिरशेषमलविच्युतिः | शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः || शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् | तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता || इति | ततोऽपि परदेवताभावाभिव्यक्तिरेव परं प्रयोजनम् | अत्रायं माशब्दो न तु माङ् तेन लुङ्लिङोरप्रसङ्गः | आशंसायां लोट् || २९ ||
SKअस्य स्तोत्रस्य केवलं कीर्तने श्रवणेऽपि वा प्रागुक्तविद्योपासनाफलभागित्वमस्तीत्याह- प्. ५७) यस्स्तोत्रमेतदनुवासरमीश्वरायाः श्रेयस्करं पठति वा यदि वा शृणोति | तस्येप्सितं फलति राजभिरीड्यतेऽसौ जायेत स प्रियतमो मदिरेक्षणानाम् || ३० || यो भक्तिमानीशनशीलायाः पूर्णैश्वर्यसंपन्नत्वादीश्वरायाः अजाद्यदन्तत्वात् टाप् | न तु पुंयोगे डीष् | महात्रिपुरसुन्दर्या अनुवासरमन्वहं श्रेयो भोगमोक्षरूपं तद्धेतुताच्छील्यानुलोम्यैः करोतीति करमैहिकामुष्मिकषेमकारि एतत्स्तोत्रं स्तवं यदि पठति कीर्तयति शृणोति वा पाठस्य फलविपाकं यावदावृत्त्या परिशीलनं श्रवणस्यापि तत्समन्तरपाठाभ्यासतत्फलपर्यन्तपर्यवसानत्वमनुवासरशब्देन बोध्यते | अन्यथा सकृत्पठनाद्यभिधानं स्यात् | तस्येप्सितमभीष्टं फलति निष्पद्यते | ह्यसौ राजभिरीड्यते भूपैः स्तूयते | मदिरो मत्तखञ्जनस्तद्वद्रुचिरे ईक्षणे नेत्रे यासां मदिरेक्षणानां खेलत्खञ्जनाक्षीणां वामलोचनानां स प्रियतमः प्रेयाञ्जायेत संभावनायां लिङ् | अत्र तिसृभिः क्रियाभिस्त्र्यक्षरीविद्योपासनायाः त्रिधाफलमभिधीयते || ३० || इदानीं मङ्गलप्रयोजनत्वेन स्तोत्रान्तेऽपि परदेवतायां स्वप्रह्वीभावं परामृशन् स्तवमुपसंहरति- ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मिस्कन्दद्विपाननहुताशनवन्दितायै | वागीश्वरि ! त्रिभुवनेश्वरि ! विश्वमातरन्तर्बहिश्च कृतसंस्थितये नमस्ते || ३१ || इति श्रीधर्माचार्यकृतौ पञ्चस्तव्यां चर्चास्तवो द्वितीयः || २ || प्. ५८) हे वागीश्वरि ! त्रिभुवनेश्वरि ! विश्वमातरिति संबोधनपदत्रयं कूटत्रयाधिष्ठातृदेवतार्थानुरूप्येण तत्तदनुगुणफलवितरणाभिमुखीकरणाभिप्रायतो बोध्यम् | अष्टसरस्वतीष्वेका वागीश्वरी नामधेया तद्रूपा च वागेव विश्वा भुवनानि जज्ञे इति श्रुतेः विश्वयोनिः | वामकेश्वरे- वागीश्वरि ज्ञानशक्तिर्वाग्भवे [वाग्भवा] मोक्षदायिनी | इत्युक्तेर्वाग्बीजाधिष्ठात्रीत्यर्थः | तथा- कामराजे [कामराजा] क्रियाशक्तिः कामेशी कामरूपिणी |
SKइति कामबीजाधिष्ठात्री कामेश्वरीत्यर्थः | तथा- शक्तिबीजे [शक्तिबीजा] पराशक्तिरिच्छैव शिवरूपिणी [विषरूपिणी पाठान्तराणि का०] | एवं देवी त्र्यक्षरी तु महात्रिपुरसुन्दरी || (४-१७-१८) इति शक्तिबीजाधिष्ठात्री पराशक्तिरित्यर्थः | ब्रह्मेवेदममृतं पुरस्ताद् ब्रह्मपश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण | अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्टम् इति श्रुतेः (मुंड २-२-११) अन्तर्बहिश्च परापरप्रकृतिभावेन कृता संस्थितिरवस्थानं यया तस्यै ते तुभ्यं नमोऽस्माकं त्वयि कायवाङ्मनसां तदेकप्रवणतालक्षणः प्रह्वीभावो भूयादित्याशास्यते | यद्वा- अन्तरिति सर्वेषामन्तर्जीवरूपेण अनेन जीवेनैवात्मनानुप्रविश्येति श्रुतेः | तथा बहिस्तेजोऽबन्नादिरूपेण यद्वान्तः सूक्ष्मेण बहिःस्थूलेन रूपेणेति | यदाहागमः- अणोरणुत्तरा देवी महतोऽपि महीयसी | श्रुतिश्च- अणोरणीयान्महतो महीयान् इति | (कठो० २-२०) अथ चान्तर्बहिश्चेति कार्यकारणभावेन तदभेदव्यपदेशेन वा सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत इति श्रुतेः (छांदो० ३-१४- p. 59) yathāsaumyaikena mṛtpiṇḍena sarvaṃ mṛṇmayaṃ vijñātaṃ- syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam | iti śrutyā (chāṃdo0 6-1-4) hetuhetumadbhāvenobhayathaikameva vastu cakāstīti tadatiriktaṃ kimapi vastu nāstīti | yasmātparaṃ nāparamasti kiṃcit iti śruteḥ (śvetā0 3-9) | idaṃ brahmedaṃ kṣetramime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yadayamātmā ityādi śruteśca (bṛha0 2-4- तुभ्यं कीदृश्यै ब्रह्मा विधिरिन्द्रः शक्रः अथवा इन्द्रा ब्रह्मविदः | इदमित्यपरोक्षेण ये साक्षिणः स्वात्मभूतं ब्रह्माहमस्मीति साक्षात्कुर्वन्ति ते इन्द्राः | इदमदर्शदिदमदर्शमिति तस्मादिन्द्रो नामेति श्रुतेः अपि चेन्द्र आत्मा | स एतमेव पुरुषं ब्रह्म ततमपश्यदिदमदर्शमिति तस्मादिन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्रमित्याचक्षते |
SKइति श्रुतेः (ऐत० २-३-१३) | रुद्रः शिवः हरिशब्देन विष्णुनागराजधर्मराजवायवो गृह्यन्ते तथा च विश्वः- हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु | सिंहाश्वकपिभेकाहिशुकलोकान्तरेषु च || हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः | इति विष्णुनाराध्यत्वं यथा पाद्मे- इन्द्रनीलमयीं देवीं विष्णुरर्चयते सदा | विष्णुत्वं प्राप्तवांस्तेन इत्यादि || चन्द्रः सोमः सहस्ररश्मिः सूर्यः सूर्याराध्यत्वं यथा पद्मपुराणे- देव्याः रत्नमयीं मूर्तिं भक्त्या नित्यं दिवाकरः | पूजयित्वाप्तवान्दिव्यं सूर्यत्वं शुभमुत्तमम् || प्. ६०) इति स्कन्दः कुमारो द्विपाननो गणेशो हुताशनोऽग्निरेतैर्ब्रह्मादिभिरग्निपर्यन्तैर्द्वादशभिः श्रीविद्योपासकैः पृथक् पृथक् स्वस्वाधिकारपदवीप्राप्त्यै स्वस्वविद्याभिर्वन्दितायायुपासितायै | एतेन ब्रह्मादीनामप्यैश्वर्यलाभस्त्वदधीन एव किम्वन्येषामिति भावः || इति श्रीमहामाहेश्वरपण्डितहरभट्टशास्त्रिविरचितायां पञ्चस्तवीटीकायां द्वितीयःस्तवः || वल्ली कापि पुरत्रयेषु विलसत्येकाकिनी विस्फुरन्नानावर्णदशा पलाशखचिता शाखाप्रतानाग्रणीः | यस्मिन् नैकफलोरुभारविनतस्वङ्गा तुरीया स्तवे तस्मिन् प्राथमिकेतरे विवरणं पूर्णं परानुग्रहात् ||