चिन्तेति किमिदं को ऽयं देशितं केन वा श्रुतम् / किं दृष्टं केन वा दृष्टं नगरो वा क्व सौगतः // Lअन्क्_१.३८ //
SK
तानि क्षेत्राणि ते बुद्धा रत्नशोभाः क्व सौगताः / स्वप्नो ऽयमथ वा माया नगरं गन्धर्वशब्दितम् // Lअन्क्_१.३९ //
SK
तिमिरो मृगतृष्णा वा स्वप्नो वन्ध्याप्रसूयतम् / अलातचक्रधूमो वा यदहं दृष्टवानिह // Lअन्क्_१.४० //
SK
अथ वा धर्मता ह्येषा धर्माणां चित्तगोचरे / न च बालावबुध्यन्ते मोहिता विश्वकल्पनैः // Lअन्क्_१.४१ //
SK
न द्रष्टा न च द्रष्टव्यं न वाच्यो नापि वाचकः / अन्यत्र हि विकल्पो ऽयं बुद्धधर्माकृतिस्थितिः / ये पश्यन्ति यथादृष्टं न ते पश्यन्ति नायकम् // Lअन्क्_१.४२ //
SK
अप्रवृत्तिविकल्पश्च यदा बुद्धं न पश्यति / अप्रवृत्तिभवे बुद्धः संबुद्धो यदि पश्यति // Lअन्क्_१.४३ //
रङ्गे न विद्यते चित्रं न भूमौ न च भाजने / सत्त्वानां कर्षणार्थाय रङ्गैश्चित्रं विकल्प्यते / देशना व्यभिचारं च तत्त्वं ह्यक्षरवर्जितम् // Lअन्क्_२.११८ //
भगवानाह - इह महामते एके तीर्थ्यातीर्थ्यदृष्टयो नास्तित्वाभिनिविष्टा विकल्पबुद्धिहेतुक्षयस्वभावाभावान्नास्ति शशस्य विषाणं विकल्पयन्ति / यथा शशविषाणं नास्ति, एवं सर्वधर्माः / अन्ये पुनर्महामते भूतगुणाणुद्रव्यसंस्थानसंनिवेशविशेषं दृष्ट्वा नास्तिशशशृङ्गाभिनिवेशाभिनिविष्टा अस्ति गोशृङ्गमिति कल्पयन्ति / ते महामते अन्तद्वयदृष्टिपतिताश्चित्तमात्रानवधारितमतयः / स्वचित्तधातुविकल्पेन ते पुष्णन्ति / देहभोगप्रतिष्ठागतिविकल्पमात्रे महामते शशशृङ्गं नास्त्यस्तिविनिवृत्तं न कल्पयेत्तथा महामते सर्वभावानां नास्त्यस्तिविनिवृत्तं न कल्पयितव्यम् //
SK
ये पुनर्महामते नास्त्यस्तिविनिवृत्ता नास्ति शशशृङ्गं न कल्पयन्ति, तैरन्योन्यापेक्षहेतुत्वान्नास्ति शशविषाणमिति न कल्पयितव्यम् / आपरमाणुप्रविचयाद्वस्त्वनुपलब्धभावान्महामते आर्यज्ञानगोचरविनिवृत्तमस्ति गोशृङ्गमिति न कल्पयितव्यम् //
अथ खलु महामतिर्बोधिसत्त्वो ऽनागतां जनतां समालोक्य पुनरपि भगवन्तमध्येषते स्म - देशयतु मे भगवान् योगाभिसमयं यथा बोधिसत्त्वा महासत्त्वा महायोगयोगिनो भवन्ति / भगवानाह - चतुर्भिर्महामते धर्मैः समन्वागता बोधिसत्त्वा महायोगयोगिनो भवन्ति / कतमैश्चतुर्भिः? यदुत स्वचित्तदृश्यविभावनतया च उत्पादस्थितिभङ्गदृष्टिविवर्जनतया च बाह्यभावाभावोपलक्षणतया च स्वप्रत्यात्मार्यज्ञानाधिगमाभिलक्षणतया च / एभिर्महामते चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा महासत्त्वा महायोगयोगिनो भवन्ति //
SK
तत्र कथं महामते बोधिसत्त्वो महासत्त्वः स्वचित्तदृश्यविभावनाकुशलो भवति? यदुत स एवं प्रत्यवेक्षते - स्वचित्तमात्रमिदं त्रैधातुकमात्मात्मीयरहितं निरीहमायूहनियूहविगतमनादिकालप्रपञ्चदौष्ठुल्यवासनाभिनिवेशवासितं त्रैधातुकविचित्ररूपोपचारोपनिबद्धं देहभोगप्रतिष्ठागतिविकल्पानुगतं विकल्प्यते ख्यायते च / एवं हि महामते बोधिसत्त्वो महासत्त्वः स्वचित्तदृश्यविभावनाकुशलो भवति //
पुनरपि महामतिराह - यत्पुनरेतदुक्तं भगवता - येन येन विकल्पेन ये ये भावा विकल्प्यन्ते, न हि स तेषां स्वभावो भवति / परिकल्पित एवासौ / तद्यदि भगवन् परिकल्पित (Vऐद्य ६७) एवासौ न भावस्वभावलक्षणावधारणम्, ननु ते भगवन् एवं ब्रुवतः संक्लेशव्यवदानाभावः प्रसज्यते परिकल्पितस्वभावभावितत्वात्सर्वधर्माणाम् / भगवानाह - एवमेतन्महामते यथा वदसि / न महामते यथा बालपृथग्जनैर्भावस्वभावो विकल्प्यते, तथा भवति / परिकल्पित एवासौ महामते, न भावस्वभावलक्षणावधारणम् / किं तु यथा महामते आर्यैर्भावस्वभावो ऽवधार्यते आर्येण ज्ञानेन आर्येण दर्शनेन आर्येण प्रज्ञाअचक्षुषा तथा भावस्वभावो भवति //
SK
महामतिराह - तद्यदि भगवन् यथा आर्यैरार्येण ज्ञानेन आर्येण दर्शनेन आर्येण प्रज्ञाचक्षुषा न दिव्यमांसचक्षुषा भावस्वभावो ऽवधार्यते तथा भवति, न तु यथा बालपृथग्जनैर्विकल्प्यते भावस्वभावः, तत्कथं भगवन् बालपृथग्जनानां विकल्पव्यावृत्तिर्भविष्यति आर्यभाववस्त्वनवबोधात्? न च ते भगवन् विपर्यस्ताः नाविपर्यस्ताः / तत्कस्य हेतोः? यदुत आर्यवस्तुस्वभावानवबोधात्सदसतोर्लक्षणस्य वृत्तिदर्शनात् / आर्यैरपि भगवन् यथा वस्तु विकल्प्यते, न तथा भवति स्वलक्षणविषयागोचरत्वात् / स तेषामपि भगवन् भावस्वभावलक्षणः परिकल्पितस्वभाव एव ख्यायते हेत्वहेतुव्यपदेशात् / यदुत भावस्वलक्षणदृष्टिपतितत्वादन्येषां गोचरो भवति न यथा तेषाम् / इत्येवमनवस्था प्रसज्यते भगवन् भावस्वभावलक्षणानवबोधात् / न च भगवन् परिकल्पितस्वभावहेतुको भावस्वभावलक्षणः / स च कथं परिकल्पेन प्रतिविकल्प्यमानो न तथा भविष्यति यथा परिकल्प्यते? अन्यदेव भगवन् प्रतिविकल्पस्य लक्षणम्, अन्यदेव स्वभावलक्षणम् / विसदृशहेतुके च भगवन् विकल्पस्वभावलक्षणे / ते च परस्परं परिकल्प्यमाने बालपृथग्जनैर्न तथा भविष्यतः / किं तु सत्त्वानां विकल्पव्यावृत्त्यर्थमिदमुच्यते / यथा प्रतिविकल्पेन विकल्प्यन्ते तथा न विद्यन्ते //
अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु मे भगवान् सर्वबोधिसत्त्वश्रावकप्रत्येकबुद्धनिरोधक्रमानुसंधिलक्षणकौशल्यं येन क्रमानुसंधिलक्षणकौशल्येन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा निरोधसुखसमापत्तिमुखेन न प्रतिमुह्येम, न च श्रावकप्रत्येकबुद्धतीर्थ्यकरव्यामोहे प्रपतेम / भगवानाह - तेन महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् //
अथ खलु भगवान् महामतिं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - उद्गृह्ण त्वं महामते लङ्कावतारे मन्त्रपदानि यान्यतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगवद्भिर्भाषितानि, भाषन्ते, भाषिष्यन्ते च / अहमप्येतर्हि भाषिष्ये धर्मभाणकानां परिग्रहार्थम् / तद्यथा / तुट्टे २ / वुट्टे २ / पट्टे २ / कट्टे २ / अमले २ / विमले २ / निमे २ / हिमे २ / वमे २ / कले २ / कले २ / अट्टे मट्टे / वट्टे तुट्टे / ज्ञेट्टे स्पुट्टे / कट्टे २ / लट्टे पट्टे / दिमे २ / चले २ / पचे पचे / बन्धे २ / अञ्चे मञ्चे / दुतारे २ / पतारे २ / अक्के २ / सर्क्के २ / चक्रे २ / दिमे २ / हिमे २ / टु टु टु टु / ४ / डु डु डु डु / ४ / रु रु रु रु / ४ / फु फु फु फु / ४ / स्वाहा //
SK
इमानि महामते मन्त्रपदानि लङ्कावतारे महायानसूत्रे / यः कश्चिन्महामते कुलपुत्रो वा कुलदुहिता वा इमानि मन्त्रपदान्युद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, न तस्य कश्चिदवतारं लप्स्यते देवो वा देवी वा नागो वा नागी वा यक्षो वा यक्षी वा असुरो वा असुरी वा गरुडो वा गरुडी वा किन्नरो वा किन्नरी वा महोरगो वा महोरगी वा गन्धर्वो वा गन्धर्वी वा भूतो वा भूती वा कुम्भाण्डो वा कुम्भाण्डी वा पिशाचो वा पिशाची वा ओस्तारको वा औस्तारकी वा अपस्मारो वा अपस्मारी वा राक्षसो वा राक्षसी वा डाको वा डाकिनी वा ओजोहारो वा ओजोहारी वा कटपूतनो वा कटपूतनी वा अमनुष्यो वा अमनुष्यी वा, सर्वे ते ऽवतारं न लप्स्यते / स चेद्विषमग्रहो भविष्यति, सो ऽस्याष्टोत्तरशताभिमन्त्रितेन रोदन् क्रन्दन्तो कं दिशं दृष्ट्वा यास्यति //
इमानि महामते मन्त्रपदानि यः कश्चित्कुलपुत्रो वा कुलदुहिता वा उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, तस्य न कश्चिदवतारं लप्स्यते देवो वा देवी वा नागो वा नागी वा यक्षो वा यक्षी वा असुरो वा असुरी वा गरुडो वा गरुडी वा किन्नरो वा किन्नरी वा महोरगो वा महोरगी वा गन्धर्वो वा गन्धर्वी वा भूतो वा भूती वा कुम्भाण्डो वा कुम्भाण्डी वा पिशाचो वा पिशाची वा ओस्तारको वा ओस्तारकी वा, अपस्मारो वा अपस्मारी वा, राक्षसो वा राक्षसी वा, डाको वा डाकिनी वा, ओजोहरो वा ओजोहरी वा, कटपूतनो वा कटपूतनी वा, मनुष्यो वा मनुष्यी वा, सर्वे ते ऽवतारं न लप्स्यते / य इमानि मन्त्रपदानि पठिष्यति, तेन लङ्कावतारसूत्रं पठितं भविष्यति / इमानि भगवता मन्त्रपदानि भाषितानि राक्षसानां निवारणार्थम् //