The Illuminating Commentary on the Supreme Goddess and Knowledge of the Divine Power

Parātriśikātātparyadīpikā And Śāktavijñāna

The Illuminating Commentary on the Supreme Goddess and Knowledge of the Divine Power

Parātriśikātātparyadīpikā And Śāktavijñāna

SK
Kष्ट्ष् वोल्. नो. ७४ कश्मिरसंस्कृतग्रन्थावलि ग्रन्थाङ्क � ७४ परात्रीशिकातात्पर्यदीपिका सोमानन्दकृतं शाक्तविज्ञानम् च श्रीराजराजेश्वर-महाराजाधिराज-कश्मीरनरेन्द्र श्रीहरिसिंहजी-बहादुराज्ञया रिसर्चकार्यालयाध्यक्ष � पण्डित जगद्धर जाडूशास्त्रिणा कार्यालयस्थेतरसंपादकपण्डितसहायेन संशोधनादिसंस्करणोत्तरं संपाद्य श्रीनगरे नार्मलप्रेस मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीते कश्मीर-श्रीनगर संवत् २००४ ईस्वी १९४७ श्रीपरात्रीशिकातात्पर्यदीपिका | वन्दे कुन्देन्दुनीहारवलक्षं विघ्नहारिणम् | हरगौरीसमारब्धं हेरम्बं हस्तिपुङ्गवम् || १ || अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती | मुद्रापुस्तलसद्वाहा पातु वः परमा कला || २ || श्रीमत्कैलासकश्मीरकाशीव्याघ्रपुरीस्थितम् | त्रिकार्थदर्शिनं वन्दे देवं सोमांशभूषणम् || ३ || यैः सर्वशिष्यैराचार्यैः प्रत्यक्षपरमेश्वरैः | व्याख्यातं त्रिशिकाख्यं यच्छ्रीशासनमनुत्तरम् || ४ || तद्दर्शितदिशा तस्य पद्यैर्व्याख्योदयत्यसौ | तात्पर्यप्रथनार्थत्वात्तेजोरूपाः प्रमाकृतः || ५ || तदपेक्षात्मसद्भावाः तमःकल्पाः प्रमाभुवः | उपक्रान्त्यवलम्बैतदुदयात्मतयोदिताः || ६ || तेजस्तमोमयात्मीयसद्भावा मानराशयः | यत्र सृष्टितया भान्ति लभन्ते तत् तदात्मताम् || ७ || हृदयत्वेन भान्त्येते त्यक्ततत्तत्प्रथाविधाः | तदेकरसतां याताः तदात्मत्वेन भान्त्यलम् || ८ || तदेतत्सततं त्यक्तपारोक्ष्यं सन्निधिं श्रयन् | समन्यूनाधिकत्वेन यस्य कस्याप्यभावतः || ९ || अनुत्तरं चिदेकात्मज्योतिर्वन्दनरूपया | स्तुत्याभिवादरूपात्म तदन्योन्यात्मतात्मना || १० || (प्. २) स्फुरामि तन्मयत्वेन शाश्वतेन समाविशन् | विश्रान्तिः पूर्णरूपेयं निबद्धैवमुपक्रमे || ११ || विश्रान्तय्ॐशगास्त्वन्ते निभेत्स्यन्ते कृताविह | शासनैर्मालिनीसिद्धाप्रमुखैः शासिता शिवः || १२ || मन्दमध्यमरूपाणामौचित्येनाधिकारिणाम् | अप्रबुद्धमतीनां हि एता बालविभीषिकाः || १३ ||
SK
मातृमोदकवत्सर्वं प्रवृत्त्यर्थमुदाहृतम् | इति विज्ञानचिन्नाथप्रतिपादितया दिशा || १४ || उत्तरोत्तरतत्त्तादृग्भूमिकारोहहेतवे | अतिविस्तृततत्तादृग्दीक्षाचर्यादिडम्बरैः || १५ || त्रिकं प्रकाशयामास नरशक्तिशिवात्मकम् | अपरादिमयत्वेन प्रस्तुतेनागमेन तु || १६ || अनुत्तरेण तन्मातृमानमेयात्मकं त्रिकम् | अनुत्तरं स्वकीयं तद्धृदयं विश्वतत्परम् || १७ || श्रीमदुत्पलदेवीयं शास्त्रं स्तोत्रपदात्मकम् | प्रत्यभिज्ञानमात्रोद्यद्भैरवीभाववैभवम् || १८ || कथयामि न सन्देहः सद्यः कौलिकसिद्धिदम् | हृदयं देवदेवस्य सद्यो योगविमोक्षदम् || १९ || अदृष्टमण्डलोऽप्येवं तिलाज्याहुतिवर्जितम् | इत्येवमादिरूपेण मुने श्रेष्ठकमात्मनः || २० || प्रकाशयति तद्व्याख्या निर्माणाप्येष तस्य ये | प्रसंहप्राविकान्योक्ततत्तदीक्षाभिविस्तराम् || २१ || व्याख्यां वितेनिरे तेषामपहाय दृशिस्थितिम् | श्रीमदुत्पलदेवीयमतसारतया परम् || २२ || (प्. ३) व्याख्यां करोति विशदामेवं मेयादिकं त्रिकम् | विमर्शसारमेवेह सिद्ध्युपायतया मतम् || २३ || अभिधेयतया तस्य विषयत्वेन दर्शितम् | शेषद्वयम्, अनवच्छिन्ननानात्ममाहेश्वरविमर्शताम् || २४ || अवाप्तं शासनमिदमनिदं धीपदोदयम् | तथाविधेन भावेन सदाहन्त्वेन सिद्धिमत् || २५ || १प्रकाशामर्शरूपत्वादत एव ह्यनुत्तरम् | अनुत्तरस्य देवस्य हृदयं स्वोल्लसत्तया || २६ || प्रत्नतत्प्रतिबोधैतदुपसंहाररूपया | स्वातंत्र्यात्स्वत एवैवं स्फूर्जत्यस्यायमाशयः || २७ || परापरविभूत्याप्तिरूपो मन्त्रतयोद्यताम् | विद्यात्मनां विमर्शानामित्यन्तस्यात्महृद्भुवः || २८ || प्रसृतस्यागमस्यैव परसंबन्धरूपता | देवाद्देव्या समायातं तस्यास्तारकवैरिणः || २९ || इत्यादिगुरुवर्यात्मक्रमावाप्तिस्वरूपकम् | संबन्धमनपेक्ष्यैवं स्वतन्त्रा बुध्यतामिति || ३० || तृतीयस्य देव्युवाचेत्युपक्रान्तस्य देवताम् | गतस्य भैरवेत्यादिमध्यस्यैवं फलोदयः || ३१ || शेषः |
SK
व्याख्यातृतोऽपि हृदयं व्याख्यैषा तन्मयत्वतः | तद्वदेव स्वसंवित्तिसमुल्लासतयोक्तया || ३२ || स्फूर्जत्यनुत्तरं कृत्वा नतु शिष्याद्यपेक्षया | एवं प्रवृत्तौ व्याख्यातुर्देवस्येच्छैव चोदिका || ३३ || ----------------------------------- १प्रकाशत्वानुरूपत्वात् � इत्यपि पाठः | (प्. ४) हरिणा यत्र यच्चोक्तं सामानाधिकरण्यता | देवस्यानुत्तरं हृत्तत् स्फूर्जति स्वयमित्यतः || ३४ || अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् | इत्युपक्रमरूपस्य प्रश्नस्यास्य विनिर्णये || ३५ || हृदयं देवदेवस्य सद्यो योगविमोक्षदम् | इत्युपक्रमशास्त्रस्य यावत्पूर्ति यदुच्यते || ३६ || विश्वावभासकारित्वं सिद्धिद्वितयदायिका | हृदयस्य कथं तस्य वचनस्यात्र संगतिः || ३७ || भवेदिति निरासाय शंकाया अवधार्यताम् | संबन्धो मौलिकः सोऽयं दर्शितः फलतस्तु सः || ३८ || देवेनागमरूपेण स्वेनाग्रे दर्शयिष्यते | खेचरीसमतां येन व्रजेदित्यादिना स्फुटम् || ३९ || व्याचिख्यासितरूपस्य शासनस्य यदात्मना | व्याख्यया संविधानस्य सामान्येन कुतो विधिः || ४० || कस्य संग्रहतस्तावत् तात्पर्यं प्रतिपाद्यते | शासनस्यादिमे श्लोके सा शेषेऽनुत्तरेशितुः || ४१ || देवस्य ...................... केन स्यात् वेद्यादित्रितयात्मना | प्रकारेण यतो ज्ञाता संविदः पूर्णशक्तितः || ४२ || प्रकारेण च केनास्य सिद्धिद्वितयदायिता | इति प्रश्ने दर्शयित्वा वस्त्वेतं प्रस्तुतात्मकम् || ४३ || बोधयात्मन् प्रभावाख्या प्रबन्धेनेति वृत्तिकृत् | समस्तमुपचिक्षेप शास्त्रस्यार्थं द्वितीयके || ४४ || सेयं स्वातंत्र्यशक्त्यात्मा स्वपरामर्शविग्रहा | हृदि सर्वस्य भात्येव प्रक्रियेति च तं पुनः || ४५ || (प्. ५) प्रश्नं शिथिलयित्वाथ प्रश्नोऽयं सिद्ध्यवाप्तये | सा तस्याः प्रत्यभिज्ञानलाभेन प्रक्रियात्मनः || ४६ || शक्तिं विना न भवतीत्येवं तदुपयोगिता | प्रश्नस्यास्योपपाद्याथ तृतीये शक्तिमीरिताम् || ४७ || प्रस्ताव्य कथनीयेति कौलिकोऽयं विधिर्मम | हृदये हृदयत्वेन चास्तेऽसौ विदितस्तदा || ४८ ||
SK
इति शेषेण चौचित्यं तस्य वक्तुरदर्शयत् | कथनं चोत्तरारम्भपूर्वावस्थाप्रदर्शनात् || ४९ || प्रवर्तयंश्चतुष्के तु तां परादित्रिकात्मिकाम् | शक्तिं पञ्चाशता वर्णैः प्रसरन्तीं प्रदर्शयन् || ५० || शेषेण चाप्यमूलेति ज्ञेयैषेत्येवमूचिवान् | अष्टमे तु तथा तस्या अविभागात्मना स्थितिः || ५१ || सारं प्रदर्श्य नवमे तदात्मीकारमात्रतः | सूचितां प्रथमे सूत्रे सिद्धिं प्रादर्शयत् पराम् || ५२ || अथाष्टके त्वतीतादिप्रहरोचितया विधिः | इति शेषत्रयोपेक्षे (ते) शासनान्तरचोदिताम् || ५३ || प्राणादिजयकालादि नियमात्मतयोदिताम् | विद्याव्रतादिरूपाञ्च मन्त्रार्पणविधोचिताम् || ५४ || संकुचत्तां विना संवित्परामर्शस्य संपदे | परा अपि प्रसिद्ध्यन्ति सिद्धयोऽस्याप्तिरेव तु || ५५ || एतन्मन्त्रग्रहे साध्येत्येतत्सम्यङ्न्यरूपयत् | चतुष्केऽथाष्टमश्लोकप्रोक्तस्य हृदयात्मनः || ५६ || बीजस्य विश्वाभिन्नायाः शक्तिसंपूर्तिलक्ष्मणः | परायाः स्वात्मसंवित्तेर्विमर्शत्वं न्यरूपयत् || ५७ || (प्. ६) तद्वाच्यवाचकाभेदाभ्यासतत्फललक्षणम् | उक्त्वा द्वाविंशके सूत्रे नवमश्लोकसूचितम् || ५८ || फलं प्राकट्यमनयत् उपसंहारवर्त्मना | अथ त्रये तदभ्यासे पूर्वभावितयोद्यते || ५९ || सपर्याविधये भेदरूपिण्या विघ्नसंहृतेः | सामान्यतो विशेषाच्च शान्तिं सन्दर्श्य तल्परे || ६० || चतुर्दशाभिजप्तेनेत्युपक्रान्त्यंशसंयुते | ........टथा पूज्यरूपनिष्कर्षपूर्वकम् || ६१ || यागहोमोभयात्मत्वं पूजायाः पूर्तिलक्षणम् | उपपाद्य च सर्वेषां अभ्यासानां फलात्मनाम् || ६२ || पूजापुरःसरत्वं यत्तत् समर्थितवानथ | त्रिंशे तु यान्यानित्यंशसहिते प्रोक्तलक्षणः || ६३ || तस्याभ्यासचतुष्कस्य संविदामर्शनात्मनः | सफलस्य स्फुटेनैव स्वरूपेणोपदर्शनम् || ६४ || प्रथयित्वा तथांशस्य चतुर्याममयं दिनम् | यावदभ्यस्य तत्सिद्धिं योगिनः प्रत्यवादयत् || ६५ || उपान्त्येत्वस्य शास्त्रस्य समर्थ्यार्थोपसंहृतिम् | सप्रभावं परामृश्य .................................. || ६६ ||
SK
प्रादर्शयदयं तावत्तत्तात्पर्यस्य संग्रहः | अथावयवशो व्याख्या तस्येदानीं विलिख्यते || ६७ || शेषः | गुरुशिष्यप्दे स्थित्वा स्वयं देवः सदाशिवः | पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयन् || ६८ || इति स्वच्छन्ददेवोक्तस्वसंवित्सिद्धवर्त्मना | (प्. ७) प्रबुध्यमाना स्वात्मैव देवता प्रत्यगात्मनः || ६९ || सती प्रत्यभिजिज्ञासुरात्मनां पृच्छतीश्वरम् | तत्र श्रीदेव्युवाचेति कृतः श्रीशासनोदयः || ७० || समनन्तरसूत्रस्य कथंकारानुरूप्यतः | अस्य धातोर्वचेरत्र प्रश्नार्थत्वेन योजना || ७१ || तद्गताय तु भूतत्वं पारोक्ष्यञ्चास्य निर्वचः | भविष्यत्युचिते पश्चात् प्रतिपतृनिरूपणे || ७२ || किंपृच्छतीत्यपेक्षायां जातायामाह शासनम् | शेषम् � अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् || ७३ || येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् | एतद्गुह्यं महागुह्यं कथयस्व मम प्रभो || ७४ || हे देवेति समस्तार्थजीवतात्मन् महेश्वर | ज्ञाने क्रियायां सर्वत्र ज्ञातृताकर्तृतात्मना || ७५ || आत्मनैवादिसिद्धत्वात्प्राथम्याभिमुखत्वभाक् | त्वं तवानुत्तरं रूपमुत्तरान् ग्राहकान् मितान् || ७६ || ग्राह्यसापेक्षसद्भावाज्जडाद्देहादितर्पितान् | अन्यदेव स्वयं भानं मादिकालादिकल्पनम् || ७७ || अनपह्नवनीयेन जागर्त्यनिशमात्मना | तत्र वाचोऽवकाशो नो दूरे वाच्यनियोजनाः || ७८ || अतस्तत्प्रश्नविषयः कस्य चेतयितुर्भवेत् | शेषः इदं तु पृच्छत्येतस्य तया प्रक्रिययात्मनः || ७९ || देहाक्षभुवनाद्यात्मकुलसंपत्तिरूपता | (प्. ८) भासते स्वाम्यपूर्णत्वस्वतन्त्रत्वानिवारिता || ८० || एतया ज्ञातया किं स्यादिति चेदुच्यतेऽनया१ | ज्ञानगोचरतापन्नमात्रया व्योम्नि चिन्मये || ८१ || चरन्ती संविदेषा स्यात्पूर्णशक्तित्वतः स्वतः | कृतार्थप्रत्यभिज्ञातादन्यथा नैव खेचरी || ८२ || वेद्यभूमिषु संचारादत एव न पूर्णता | वेद्यैर्नियन्त्रितात्मीयचारायाः संविदो महः || ८३ || शेषः |
SK
तया वा ज्ञातमात्रेण देवताभिः समत्वदम् | रूपं संविन्मयं तत्ते कुलसंबन्धिनीं पराम् || ८४ || जीवन् भैरवतामर्शसुधास्वादोत्सवात्मिकाम् | अपरां च तथा सिद्धिं विश्वात्मत्वोदयात्मिकाम् || ८५ || स्वसंविद्देवताचक्रचक्रवर्त्तित्वचिन्मयीम् | ददाति धारणाद्यात्मक्रियायाः सानपेक्षितम् || ८६ || यदेतत्प्रस्तुतं वस्तु द्वयमप्रकटं स्वतः | न मायीयेन केनापि शक्त्यास्य प्रकटा क्रिया || ८७ || उपादेयतमत्वेन भाति चोत्कर्षवत्तया | स्वयमेव यथा भाति तथाकृत्वास्य गोपतेः || ८८ || प्रभुः प्रकटने च त्वं मम त्वत् कॢप्तसंस्थितेः | त्वन्नियुक्ततयैवैवं पृच्छन्त्याः संविदस्तव || ८९ || कथनेन विमर्शस्य पश्यन्त्यादिक्रमोदयाम् | वैखरीवृत्तिपर्यन्तां पदवीमानय प्रभो || ९० || न तु च ग्राहकत्वात्मा हृदये सा प्रकाशते | ---------------------------------- १अधुनेत्यपि पाठः | (प्. ९) सर्वस्य तस्य प्रश्नेन किं स्यात् सत्यं प्रकाशते || ९१ || प्रकाशमानाप्येषा तु स्वभावेन यथा तथा | हृदयङ्गमतां नैति पथि पर्णतृणादिवत् || ९२ || नत्वप्रकाशमानत्वं स्वतो नो चेत्तथास्तु सा | तदानीं को भवद्दोषो नैतत् संसरणं परम् || ९३ || तदेतद्राघवायोक्तं वसिष्ठेन महात्मना | शेषः | स्वापरामर्शमात्रोऽयमपराधः कियानसौ || ९४ || तावन्मात्रेण तज्जातं यद्वक्तुं नैव पार्यते | प्रत्यभिज्ञा मयापूर्वचमत्काररसात्मनि || ९५ || हृदयङ्गमतायां गीः सत्यां पूर्वोक्तलक्षणा | पुरा तदा तदभ्याससाध्याप्यपररूपिणी || ९६ || द्विविधापि भवेत् तृप्तिः सिद्धिरूपा नवान्यथा | इति प्रथयितव्यांशप्रथनायोपयोगवान् || ९७ || प्रश्नस्तदर्थमेतस्मादुत्तरः शासनोदयः | हृदये या तु सा शक्तिः कौलिकी कुलनायिका || ९८ || तां मे कथय देवेश येन तृप्तिं व्रजाम्यहम् | स्वयं संविन्मये तत्र त्वद्रूपेऽनुत्तरे हृदि || ९९ || तदात्मत्वेन विश्रान्ता यासौ स्वातंत्र्यलक्षणा | शक्तिर्धात्वर्थरूपत्वात्सर्वधात्वर्थधर्मिणी || १०० ||
SK
स्फुरत्ता वाङ्मयी वर्णपञ्चाशक्तिशरीरिणी | वर्णत्रयाविभागात्मबीजभावव्यवस्थिता || १०१ || यस्याः कुलमिदं ग्राह्यग्रहणग्राहकात्मकम् | चक्रं निर्मेयतां लब्ध्वा सत्तामाप्नोति शाश्वतीम् || १०२ || (प्. १०) निर्मितस्य कुलस्यास्य नायिका तस्य वेदनात् | तद्भातं कुर्वती या च तदधिष्ठातृतापदम् || १०३ || तदीयरूप (रे शन्ति) वियोगनयनक्रिया (?) | नेत्री च ममतामेनां हृदयंगमतां नय || १०४ || हृदयंगमतानीत्या यया प्रस्तुतरूपया | स्वात्मलाभात्मना लब्धतदभ्यासात्मना तथा || १०५ || अहं सर्वार्थसंवित्तिमयी पूर्णाशया सती | तृप्ती द्वे प्रस्तुते प्राप्य त्वयि पेये चिदम्बुधौ || १०६ || शेषः | एवमुद्यन्तृता शक्तिस्वरूपानुप्रवेशनैः | प्रबुद्धता स्यात् पूर्णत्वात्सैषा भैरवरूपिणी || १०७ || स्वात्मैव देवता प्रषॄप्रतिवक्तृत्वमश्नुते | शेषः | प्रश्नकृत्प्रतिवक्तृत्वप्रथारूपेऽत्र वस्तुनि || १०८ || इदानीमिदमेतादृगिहेति व्यवहारगा | व्यवहारपदानां या वस्तुनामादितेष्यते || १०९ || यैषा न वास्तवी तद्वत्स्वरूपमनिदंप्रथम् | अनुज्झदेव कालेन स्वक्लप्तकलनात्मना || ११० || भिन्नेनावर्तते यस्माद् भूतत्वेनोच्यते ततः | तथावेद्यतयाप्येतद्भाति कल्पितरूपया || १११ || प्रत्यक्षग्राह्यताभावात् परोक्षेणोच्यते ततः | ततः श्रीभैरवो देव उवाचेतीदमुच्यते || ११२ || शेषः | शृणु देवि महाभागे उत्तरस्याप्यनुत्तरम् | (प्. ११) कौलिकोऽयं विधिर्देवि मम हृद्व्योम्न्यवस्थितः || ११३ || कथयामि न सन्देहः सद्यः कौलिकसिद्धिदम् | श्रुतिः कथनसापेक्षा कथनं ज्ञानपूर्वकम् || ११४ || अतस्तदानुगुण्येन योज्यतेऽर्धत्रयं त्विदम् | इत्येवमुत्तरत्रापि तत्र तत्र भविष्यति || ११५ || शेषः | प्रबोधोदयपर्याप्तमहाभाग्यशरीरीणि | श्रुत्वावधार्यतां सैषा यतस्तामुत्तरां तव || ११६ || ग्राहकत्वमयीं ग्राह्यग्रहणग्राहकात्मकाम् | अनुत्तरां परां शक्तिमुक्ततृप्तिप्रयोजनाम् || ११७ ||
SK
हृदयङ्गमतामेनां तथा देवि नयामि ते | यथावधारणे जातमात्र एवात्र वस्तुनि || ११८ || न पुनः संशयानन्तप्रोक्तमालिन्यमज्जनम् | यतो मम प्रबुद्धस्य हृदये मातृकात्मिका || ११९ || शब्दराशिस्तया प्राप्तभैरवीभावसंपदः | हृदयत्वेन चास्तेऽसौ विदिता बीजरूपिणी || १२० || अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानकाः (गाः) | तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ || १२१ || पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते || १२२ || वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् | तदूर्ध्वं शादि विख्यातं पुरस्ताद्ब्रह्मपञ्चकम् || १२३ || अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता | सर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि || १२४ || (प्. १२) इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा | हृद्व्योम्नीत्यत्र सप्तम्या हृदयात्संविदात्मनः || १२५ || अनुत्पादतया सिद्धिः प्रसिद्धा केयमिष्यते | कौलिकस्य विधेरेष इति प्रत्यक्षरूपता || १२६ || सर्वस्य कथमित्येषा त्र्यंशिका नात्र युज्यते | ज्ञेयज्ञानाग्रहे ज्ञातुस्तद्रसे स्वमयत्वतः || १२७ || तद्भावेन स्वतैवैका कदाचिद्भात्यसाविति | जानामि घटमित्यात्मविश्रान्तिर्ज्ञेयरूपिणी || १२८ || कदाचित्स्वामिनैवैका कालयोरुभयोरपि | पदार्थद्वितयं तत्र संविदि प्रथते यतः || १२९ || शेषः | तत्र ज्ञाता च सर्वात्मनिर्विवादा परोक्षभाक् | ज्ञेयोन्मेषनिमेषात्म-स्वक्रिया-कलनात्मना || १३० || तत्संकोचविकासात्मना........................................... | नित्येन विभुना ज्ञानक्रियानिर्वृतिलक्षणा || १३१ || स्वेन भावेन परितः स्वस्याहमिदमात्मता | स्पन्दनेनैव सारेण प्रसिध्यति न जातुचित् || १३२ || परिनिष्ठितरूपत्वं परिच्छिन्नं प्रकाशताम् | जडानामात्मसाकुर्वन्नेति लोष्ठातितुल्यताम् || १३३ || काणादसांख्यबौद्धादिमितदृक्कल्पितामसौ | संसृतौ गुणिनं तत्र कणभुग्दर्शनाश्रिताः || १३४ ||
SK
अपवर्गे तदुच्छेदे मन्यन्ते तं शिलोपमम् | अर्थप्रकाशकं ज्ञानं बौद्धमेवेति निश्चिताः || १३५ || कापिला अपि तं प्राहुरर्थादेनमसत्समम् | (प्. १३) धीवृत्तिर्निर्विमर्शात्मा क्षणिकात्मेति सौगताः || १३६ || स्वयमेवोपयान्त्येनं शून्यमेव विपश्चितः | निर्विमर्शक्रियं भानं विश्वात्मत्वेन तं परे || १३७ || अभ्युपेत्यास्य सद्भावं मायावेदान्तिशाब्दिकाः | अविद्यान्धत्वतन्मुक्त्योरविशिष्टं विविञ्चते || १३८ || अन्येऽपि चैवमन्योक्तस्वोक्तदूषणभूषणे | वितन्वानास्त्वयीत्युक्तरूपमेनमुपासते || १३९ || ज्ञेयसत्ताप्रथारूपज्ञातृकर्तृत्वलक्षणः | ज्ञातैष स्वपरिस्पन्दसारत्वेनेह निश्चितः || १४० || सा संकोचविकासात्मा तस्य च स्पन्दतिक्रिया | बाह्यान्तरात्मव्याप्त्यन्यमयद्वैविध्ययोगिनी || १४१ || विश्वबीजात्महृदया तदंशेषु यथा यथा | उच्चारणमुहूर्तादिसमावेशात्मना दिशा || १४२ || ज्ञातेषु स्फुटतामेति ज्ञातृतास्य तथा तथा | उत्कृष्यते परे यावत्तत्त्वे भैरवसंज्ञिनि || १४३ || उच्चारणेऽपि प्राणात्मस्पन्दनात्मन्यसन्मुखी | यथा यथा सा न्यूनत्वमज्ञातेष्वश्नुते तथा || १४४ || तथा निकृष्यते यावज्जडे पाषाणपर्वणि | शेषः | स चायं मम संकोचविकासवपुरात्मनः || १४५ || अनुत्तरस्य शक्तिः सा विसर्गात्मैवमात्मनः | प्रकाशैकतनुर्यस्मात्सेयं ज्ञानक्रियात्मिका || १४६ || अनुत्तरस्य मे शक्तिर्विसर्गात्मात्तरूपिणी | अः इत्यत्रात एवैष सद्विश्रान्त्युदयात्मनोः || १४७ || (प्. १४) शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् | इत्येतद्दर्शितात्मीयलक्ष्मणोः भैरवात्मनोः || १४८ || शिवशक्त्योश्चिद्विमर्शपरिपूर्तिस्वरूपयोः | संघट्ट उच्यते रुद्रयोगिनीयामलात्मना || १४९ || सा च स्वान्तरभेदेन भवद्भिः सार्वकालिकैः | चिदानन्दैषणेशित्वसोन्मेषोनत्वशक्तिभिः || १५० || इच्छेशनचिदन्तःस्थचेत्यसत्तास्फुरान्वितैः | चिदानन्दगुणीभूतवृद्धीच्छोन्मेषमिश्रणैः || १५१ || चतुर्भिरेषणाज्ञानक्रियातत्समतात्मभिः | वेद्यसंस्कारवित्त्यात्मबिन्दुसंवेदनान्वितैः || १५२ ||
SK
विशेषैस्तिथिःसंख्यातैः पूर्यमाणावतिष्ठते | एवं पूर्णविसर्गात्मा यश्चिदात्मा विसर्गतः || १५३ || परभैरवभैरव्योर्यामलं तद्विसर्गता | तेषु सामान्यरूपत्वान्न पृथक्त्वेन गण्यते || १५४ || शेषः | एवं विसर्गरूपे मे हृदयेऽनुत्तरात्मनः | वक्तुर्वक्तिक्रियारूपे तादात्म्येन स्थिता सती || १५५ || प्रसरत्येवमेषा यदकाराद्या अमन्तिमाः | एते प्रबोधचन्द्रस्य प्रकाशाह्लादरूपिणः || १५६ || स्थितेर्विसर्गरूपायाः पूरणात्तिथिसंज्ञिनः | स्वराश्च शब्दनात्मानः स्वपरामर्शविग्रहाः || १५७ || स्वयञ्च स्वप्रकाशार्थप्रकाशत्वेन राजनम् | कुर्वते सर्व एवैते यत्तात्पर्यवसानभूः || १५८ || सोमसूर्यात्मसंकोचविकासस्पन्दनात्मकः | (प्. १५) अध ऊर्ध्वविभागोद्यद् बिन्दुद्वितयविग्रहः || १५९ || कालेन कलनारूपपरामर्शात्मतात्मना | अवियुक्ततया भाति तिथीनां कालताजुषाम् || १६० || तेषामात्मा विसर्गाच्च भूत्वा प्रसरति स्वयम् | शेषः | एषैव बहिरप्यात्तसोमसूर्यात्मतात्मनाम् || १६१ || तिथीनां कालताभाजां याति नक्तंदिवात्मताम् | परेयं सा विसृष्टिः स्यात्तदिच्छेशनवर्तिनः || १६२ || वेद्यस्य बहिरुन्मेषे स्थूलसूक्ष्मत्वभेदतः | पृथ्व्यम्ब्वग्न्यानिलव्योमसंज्ञा यत्तत्त्वपञ्चकम् || १६३ || गन्धरूपरसस्पर्शशब्दनात्म च पञ्चकम् | स एव वेद्यस्योल्लासः स्पृश्यते करणात्मना || १६४ || यदा तदेन्द्रियाणां स्यात्कर्म ज्ञानात्मनां प्रथा | दशधोदेति वागाद्या प्राणाद्या तत्त्वरूपिणी || १६५ || ततः क्रमेण वेद्यत्वन्यग्भावे वेदनोद्गमे | मनोऽहंकरणं बुद्धिः प्रधानं पञ्चमः पुमान् || १६६ || इति तत्त्वानि जायन्ते पञ्च वेद्यानि तानि च | ननु पुंसो वेदकस्य वेद्येषु गणनं कथम् || १६७ || उच्यतेऽस्य मितत्वेन पुंसो वेद्येषु कीर्तनम् | तेनानेन विना कस्य वेद्यं पृथ्व्यादि तद्भवेत् || १६८ || उक्तक्रमं शिवो वेत्ति यतः सर्वं तदक्रमम् | अहमित्यात्मविश्रान्तं ममेति तु न जातुचित् || १६९ ||
SK
यस्मात्तेन विना वेद्यं न स्यात् तत् पृथिवीमुखम् | तद्वेद्याभासनस्येयद्रूपं यद्वेद्यताजुषः || १७० || (प्. १६) देहादेर्वेद्यजातस्य भिन्नं वेद्यं प्रतिस्वतः | वेदकी भावना तत्र क्रियायां व्यावृता इमाः || १७१ || किंचित्कर्तृतया तस्य प्रेरिका वायवी कला | विद्या किंचिञ्ज्ञतृतास्य वाह्नी तस्य प्रकाशिका || १७२ || अभिष्वङ्गनिमग्नत्वस्तम्भनव्यावृतिस्फुरा | पार्थिवी रागशक्तिस्तच्चतुष्कात्मा नियामिका || १७३ || नियतिस्तस्य कार्येषु ताश्चतस्रो हि शक्तयः | वेद्यवेत्त्रात्मनोर्वित्त्योर्मध्ये विश्रमयन्त्रितम् || १७४ || रोदस्योरन्तरे यद्वत् त्रिशङ्कुमुनिशक्तयः | अन्यथेदंप्रथैकत्वादसौ लोष्ठादितां व्रजेत् || १७५ || अहंसंवेदनैकत्वे पूर्णं चित्खं समुत्पतेत् | प्रकारद्वितयेऽप्यस्य मायामातुरभावतः || १७६ || अकिंचनत्वे वेद्यस्य पृथ्व्यादेरपि तत्त्वतः | संकोचो वा विकासो वा न भवेद्वास्तवस्तदा || १७७ || अन्योन्याश्रयभावेन तयोरेकात्मता यतः | तद्विसर्गस्वरूपेण संकुचद्विकसत्तया || १७८ || अशेषमियदाक्षिप्तं यद्ग्राह्यग्राहकात्मकम् | अन्योन्यौचित्यतः सृष्टिः पदार्थानां प्रतायते || १७९ || शेषः | व्योमशक्तिस्त्वकायात्मा नात्र व्याप्रियते विधौ | अवेद्यत्वाच्च वेद्यानामवकाशत्वतश्च तत् || १८० || प्रमातृता परं सिद्ध्यै तया शुद्धा स्वयंप्रथा | शेषः | एवमारभ्य पृथिवीं मायान्ता तत्त्वविस्तृतिः || १८१ || (प्. १७) कादिमान्तपरामर्शरूपेयमपरोच्यते | वेद्यतायाः क्रमेणास्य न्यग्भावे संविदात्मनः || १८२ || प्रकाशने च रूपस्य प्रथते तत्त्वपञ्चकम् | कञ्चुकोन्मोचनारूपविकासब्रह्मनात्मकम् || १८३ || तद्धृत्याप्यायनालोकस्पन्दनव्यापनक्रियम् | सद्विद्येश्वरसादाख्यशक्तिसंवित्स्वरूपकम् || १८४ || सद्यादीशानपर्यन्तब्रह्मत्वेनापि विश्रुतम् | ककारादिक्षकारान्तपरामर्शशरीरकम् || १८५ || तदात्मा प्रसृतिस्तस्या वाचः सोक्ता परापरा | एवं विसर्गरूपत्वं प्राप्तात्तस्मादनुत्तरात् || १८६ ||
SK
प्रसृतं तद्विसर्गस्य रूपं संवित्क्रियात्मकम् | अनुत्तरा या प्रसृतिर्हान्ता विश्वस्वरूपिणी || १८७ || प्रत्याहृताशेषविश्वानुत्तरे सा विलीयते | तदिदं विश्वमन्तस्थं शक्तौ सानुत्तरे परे || १८८ || तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः | विसर्ग एव शाक्तोऽयं शिवबिन्दुतया पुनः || १८९ || गर्भीकृतानन्तविश्वः श्रूयतेऽनुत्तरात्मता | इति निश्चितया नीत्या तस्मिन्नात्मन्यनुत्तरे || १९० || प्रत्याहृतैतद्वर्णौघपरामर्शप्रथात्मकम् | पुनः प्ररोहणौचित्यमयबीजात्मबिन्दुताम् || १९१ || प्राप्तं तथाविसर्गत्वनिसर्गं प्रतिपद्य च | विश्रम्य वपुरप्येवं प्रसृतिं प्रतिपद्यते || १९२ || यतो ममैतच्छक्तीनां चक्रमिच्छानुवर्तनम् | चिदानन्दैषणाज्ञानक्रियाणां भावयात्मनाम् || १९३ || (प्. १८) भूतकञ्चुकबीजत्वमौचित्येनाश्रितात्मनाम् | अनुत्तरेच्छोन्मेषात्मत्र्यश्रविश्रमितात्मकम् || १९४ || तथाह्यनुत्तरा तत्र चित्स्यादिच्छा त्रिधोद्यताम् | इष्यमाणार्थसद्भावा मीलनोन्मीलतत्त्वभाक् || १९५ || आनन्दः प्रथमांशेन मध्येनेच्छान्तिमेन सा | ज्ञानमुन्मेषशक्तिः स्यात् क्रियातस्तत् त्रयात्मकम् || १९६ || अविभागपरामर्शरूपं प्रथमतस्ततः | विभागामर्शवपुषा पञ्च तद्भेदमागतम् || १९७ || परामृश्यात्मना बाह्यतत्त्वजालञ्च जायते | परामर्शात्मता तस्य जीवितं तस्य मातृका || १९८ || उत्पत्तिभुमिस्तत्सैव मन्त्राणां गुप्तभाषिणाम् | चतुष्कलनवात्मादिबीजपिण्डतयोद्यताम् || १९९ || पुंरूपवाच्याध्यासेन भातां विद्यात्मनामपि | नमः शंभव इत्यादिस्फुटवेद्यार्थवाचिनाम् || २०० || स्त्रीरूपवाच्याध्यासेन भातां मायात्मनामपि | सर्वेषां कारणत्वेन चोच्यते .................................... || २०१ || तथाहि सर्वतन्त्रेषु यत्किंचित्तत्त्वमिष्यते | परापरविभूत्याप्तिपरतृप्तिप्रदायकम् || २०२ || तत्सर्वं लभते तत्त्वषट्त्रिंशत्यान्तरात्मनि | विमर्शजीवितत्वेन तस्याः सर्वविमर्शभूः || २०३ || सर्वं ददाति सा देवी मातृका तत्तदात्मिका | शेषः |
SK
एषोक्ता त्रिविधा सृष्टिरादिक्षान्ताक्षरात्मिका || २०४ || अनुत्तराच्चिदाकाशादक्षरादस्वरात्मनः | (प्. १९) प्रसृता कान्त तत्त्वौघा पुनर्विश्रमणोन्मुखी || २०५ || प्रत्याहृतसमस्तैतद्वाच्यवाचकचिन्मयी | तत्रैवानुत्तरे धाम्नि क्रमणं भजते शिवे || २०६ || तव ज्ञेयतयेदानीमात्मनोदाहृता मया | अनया ज्ञातयैवं हि त्वया ज्ञातमनुत्तरम् || २०७ || अखण्डपूर्णपरचित्प्रकाशस्पन्दनात्मकम् | सहजाहंपरामर्शशक्तिसंभाविताखिलम् || २०८ || वितत्य व्यक्तमेवैतदहमन्यत्ततोपि यत् | इति क्षयैव ज्ञातं स्यादत एवं यशस्विनी || २०९ || इयद्विश्वशरीरासि त्वमित्युद्धोष्यसे बुधैः | इयं किलोक्तविभवा तत्तत्त्वमिति निश्चयः || २१० || तदेवमविभागात्मा स्थिता पूर्वं हृदम्बरे | शक्तिर्विमर्शरूपा सा विभागामर्शरूपतः || २११ || समस्ततत्त्वसद्भावमयी कौलिकसिद्धिदा | अनेनैवोक्तरूपेणानुत्तरस्य ममात्मनः || २१२ || स्वातंत्र्येण विसर्गोऽसौ स्वीकरोतीति निश्चितम् | नन्वेते सन्ति भेदात्मपरामर्शमयोदयाः || २१३ || क्रमादाद्याः क्षकारान्तास्तदभेदमयोदयाः | प्रस्तुता वाङ्मयी शक्तिर्येयं भैरवतामयी || २१४ || यतो बीजादुदेत्येषा हृदयात्तव शाश्वतात् | तत्प्राप्तसर्वसंपत्तिसंप्राप्त्यमृतसागरे || २१५ || हृदयस्य स्वरूपे ते निश्चयाभावलक्षणः | संशयोऽद्यापि नोपैति च्यवनं मनसो मम || २१६ || तत्कर्तव्यमिदानीमित्येतदाशंक्य शासनम् | (प्. २०) तं च्यावयति सूत्रेण परेण परमेशितुः || २१७ || चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् | तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः || २१८ || संपूर्णानुत्तरानन्दसंवित्संपत्तिशालिना | क्रियाद्वारान्तरानीतवाञ्च्छाज्ञानद्वयश्रिया || २१९ || अशेषसंवित्संघट्टपरामर्शमयात्मना | चतुर्दशेन यदिदं स्वरेण सहितं तदा || २२० || तृतीयं ब्रह्म सादाख्यतत्त्वात्माघोरभासनम् | अहन्तान्तःकृतेदन्तारुपग्राह्यार्थलक्षणम् || २२१ ||
SK
तद्विश्वं तत्तिथीशानां स्वराणामुक्तलक्षणम् | पर्यन्तभित्तिभूतोऽसौ य आत्मत्वेन निश्चितः || २२२ || विसर्गस्तत्र विश्राम्यदवियोगेन वर्तते | तदिदं हृदयं शब्दराशेः चिद्भरितात्मनः || २२३ || सर्वतत्त्वमयः कायस्तं चेदानीं शृणु प्रिये | पृथिवी कठिनत्वेन द्रवत्वेंऽभः प्रकीर्तितम् || २२४ || इत्यादि त्रिशिरोदेव(स्थित्या)स्त्रित्यायुपपन्नया (?) | तत्त्वैस्ततस्य देहस्य तन्त्रितस्य त्वगादिभिः || २२५ || साधुभिर्भिन्नसन्धानैस्तदशेषभिदोज्झितम् | तत्सत्तासंविदात्मत्वं सतत्त्वं सततोदितम् || २२६ || हृदयं पद्यतेरर्थतया यद्वदपेक्ष्यते | एवमेवात्मनः शम्भोः शब्दराशेः शरीरिणः || २२७ || विभक्ततत्त्वभूतादिप्रथासंतानतन्त्रितम् | परामर्शमयत्वेन पञ्चाशद्वर्णतात्मकम् || २२८ || विश्वं शरीरं यदिदं तदशेषभिदोज्झितम् | (प्. २१) तत्सत्ता संविदात्मत्वं सतत्त्वं सततोदितम् || २२९ || हृदयं विश्रमस्थानं सच्चिदानन्दलक्षणम् | हे विश्रान्तिमयाह्लादविमर्शमयविग्रहे ! || २३० || सुश्रोणि यदिदं प्रोक्तं शक्तित्रितयसंकुचत् | विकसत्वमयस्वात्मत्र्यश्रस्पन्दनसुन्दरम् || २३१ || तद्विद्धि हृदयं तस्य शब्दराशितनोर्मम | पराया आत्मभूतायाः परामर्शतनोश्चितेः || २३२ || एतदुक्तं भवत्येषा मामसौ संविदद्वया | एतेन तावत्स्पन्देन प्रोक्तबीजात्मना द्वयोः || २३३ || कोट्योरुदयविश्रान्तितत्त्वयोः स्पन्दते तथा | तत्प्रभावत एवार्थप्रकाशामर्शनात्मनि || २३४ || स्वात्मभैरवसंवित्तौ विसर्गात्मनि वक्ष्यते | तुर्यपर्यन्तरूपायाः क्षेपो विश्वव्यवस्थितेः || २३५ || एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् | हृदयं देवदेवस्य सद्यो योगविमोक्षदम् || २३६ || विश्वस्य बीजमेतद्यो लभते पुण्यकृत्पुमान् | तदैवं न पशुः सोऽयं लब्धेऽस्मिन्नेतदेव हि || २३७ || जायते हृदयं तस्य सैतद्धृदयतैव यत् | भैरवत्वं ततो रुद्रयोगिनीयामलात्मनोः || २३८ ||
SK
स्वात्मभैरवभैरव्योः स्वतोऽन्योन्यावियुक्तयोः | स्वरूपोन्मीलनात्मात्मवीर्यपानक्रियोद्यताम् || २३९ || दाम्पत्याज्जात एवासौ न लभेतैतदन्यथा | अस्मिन् ह्युन्मीलितेऽनेन हृदयेन सहैकता || २४० || एतद्धृदयलाभश्च स एवोक्तस्वरूपयोः | (प्. २२) दम्पत्योर्यामलावेशा मिषत्तद्भावलक्षणः || २४१ || एवमुन्मीलने जातमात्रे रूपमनुत्तरम् | यथा ददाति तत्सिद्धिं जीवन्मुक्तिमयीं पराम् || २४२ || तथा निर्णीतमधुना यथा तदपरा अपि | कुलसंबन्धिनी सिद्धिः त्यक्तान्यायासडम्बरम् || २४३ || स्वात्मसंवित्परामर्शबलादेव ददात्यमुम् | प्रकारं प्रकटीकर्तुं शासनोपक्रमः परम् || २४४ || अस्योच्चारे कृते सम्यङ्मन्त्रमुद्रागणो महान् | सद्यस्तन्मुखतामेति स्वदेहावेशलक्षणम् || २४५ || एतत्संवित्स्वसत्त्वं चेद्धृदयत्वं प्रपद्यते | तदा स्याज्जिवतो मुक्तिः परा सिद्धिरितीरितम् || २४६ || यथा तदेव प्राणादिभूमिष्वाभाससंपदा | तद्रूपजाड्यमालिन्यसमुन्मूलनतत्त्वया || २४७ || रसधातुवदुक्तैतद्रूपतापादनात्मना | प्रसरद्रूपतामेति तदास्या देवसंविदः || २४८ || नाडीजयादिशास्त्रोक्तयोगसापेक्षतोज्झिताः | तत्समावेशपर्यायाः प्रसरात्संपदोऽखिलाः || २४९ || अपरा अपि जायन्त इति तात्पर्यवर्णना | अस्येत्यमुत आरभ्य जायते यजनं प्रति || २५० || इति पर्यवसानस्य शासनांशस्य विस्तृतेः | अथास्य बीजस्योच्चारे वक्ष्यमाणेन वर्त्मना || २५१ || तदुच्चारयितुस्तस्य तदुद्योगक्रियात्मनि | प्राणात्मतायां जाते तु समावेशपुरोदिते || २५२ || ज्ञानक्रियाशरीराया मन्त्रमुद्रामहौजसः | (प्. २३) विद्यन्ते गणनातीतविभवा गणशः स्थिताः || २५३ || आभिमुख्यं भजन्त्येताः स्वदेहावेशतः कथम् | संपूर्णे वित्क्रियात्मोक्तहृदयैकात्मताजुषा || २५४ || प्राणेनाधिष्ठितेनाहन्ताद्वारेण तदात्मकम् | अवश्यं कम्पघूर्ण्यादिविधायिन्यो भवन्ति ताः || २५५ || मन्त्रमुद्रागणावेशो जातो यः प्राणदेहयोः | अयं तावद्विभूतीनामुपक्रमतयोच्यते || २५६ ||
SK
तदा यत्नतया तासां ता हि तत्सिद्धिसाधने | देवतात्वेन तद्वीर्यरूपत्वेन च सन्निधिम् || २५७ || कुर्वाणाः साधकस्यास्य साधयन्ति समीहितम् | मुहूर्तं स्मरते यस्तु चुम्बकेनाभिमुद्रितः || २५८ || स बध्नाति तदा देहे मन्त्रमुद्रागणं महत् | अतीतानागतानर्थान्पृष्टोऽसौ कथयत्यपि || २५९ || तथाविधं समावेशं यदि नाडीद्वयावधिम् | अभ्यस्यति मुखं कुर्वन्काकचञ्चुपुटाकृति || २६० || बहिश्चोच्छिष्टभावौघभक्षणोद्योगभावितः | सद्वृत्तिरूपसोमात्मशीतस्पर्शोदयावधिः || २६१ || उच्चरन् हृदयं पीतवियच्चरसमीरणः | प्राणेन स्पर्शरूपेण प्रोक्तेनैकत्वमानयन् || २६२ || नाभिस्थानस्थितस्वात्मवैश्वानरहुताशनिः | तज्ज्वालात्मक्रियारूपां तत्प्रीतष्टां समाचरन् || २६३ || अपारजलधिप्रख्यामाश्रयन् कामपि स्थितिम् | आस्ते यदा तदा देहे वाग्रूपे कायलक्षणे || २६४ || मन्त्रमुद्रागणावेशमवशत्वेन पश्यति | (प्. २४) प्रष्टश्च प्रतिवक्त्येष वस्तु कालत्रयोदितम् || २६५ || तद्ग्रासात्प्राप्ततद्भावधिषणादत्तबिम्बितम् | प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् || २६६ || साक्षात् पश्यत्यसन्दिग्धमाकृष्टं रुद्रशक्तिभिः | प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् || २६७ || अवैतथ्येन जातायां सिद्धौ तत्कथनात्मनि | अप्यनुज्झितपूर्वोक्ततादृशाभ्यासकौशलः || २६८ || कांचिन्मन्त्रमयीं मुद्रामयीं वा देवतां स्मरन् | आस्ते चेद्यामपर्यन्तकालग्रासात्मचित्क्रियः || २६९ || तदानीं तदवष्टम्भसामर्थ्यापादितात्मताम् | तामेव देवतां तत्तद्वेषभूषादिलक्षिताम् || २७० || अध्यक्षयत्यसन्दिग्धं निजाहंसंविदात्मिकाम् | पुनरप्येवमेवेममभ्यासमपरित्यजन् || २७१ || यावद्धृदयमास्तेऽसौ तदेकात्मा यदा तदा | देहादिकं न किंचित्स्वमावृतित्वेन पश्यति || २७२ || अनावरणचिद्व्योमरूपं सर्वमपीक्षते | त्रयेण मातरः सर्वा योगीश्वर्यो महाबलाः || २७३ || वीरा वीरेश्वराः सिद्धाः बलवान् शाकिनीगणः | आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः || २७४ ||
SK
यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् | स्वेनान्यदेहकं येन देहेनानेन भाविते || २७५ || सर्वात्मना क्षयं याते स्वस्यावच्छेदने सति | पुनरप्यनवच्छिन्नस्वसमावेशपुष्कलः || २७६ || यामत्रितयमास्ते च तदेतच्चास्य नोदिताः | (प्. २५) ब्राह्म्याद्या मातरस्तत्तामाप्ता योगीश्वरीगणाः || २७७ || त्रिपूर्वशास्त्रनिर्दिष्टा वीरा वीरेश्वराश्च ये | अघोरमुख्याः श्रीमन्तो नपेशाद्यास्तदीश्वराः (?) || २७८ || तद्रूपावाप्तसिद्ध्या ये सिद्धाः साधकपुङ्गवाः | खेचर्यादिभिदाभाजां शक्तीनां शक्तताजुषाम् || २७९ || मात्रन्तर्बाह्यकरणमेयप्रमितलक्षणम् | प्रमातुरात्मनः शंभोः स्फूर्तिः स्वातंत्र्यसंपदाम् || २८० || या चैषा भाति ते सर्वे स्वात्मनो भैरवात्मनः | बलेन हि महाविश्वहठात्मीकरणात्मना || २८१ || बीजरूपेण वीर्येण हृदयेनैकतां गताः | स्वरूपाच्छादने कादिधारणान्ताक्षरात्मनि || २८२ || भोगेऽवभासने स्वस्य शादिक्षान्तान्तरात्मनि | तुर्यवृत्तिमयस्वात्मसंविद्ध्याप्तोक्ततत्रये (?) || २८३ || भुक्तिमुक्त्युभयास्वादे स्वचिच्चक्रानुजीवने | कर्त्रेषितृज्ञातृमयस्वप्रथामर्शनात्मनि || २८४ || विमर्शनस्वरूपस्य विसर्गात्मन्यनुत्तरे | आनन्दकेवलात्मीयप्रथास्वादोदयात्मनि || २८५ || कैवल्ये चात्मता तेन भैरवेणेयतः फलम् | अभ्यासिने प्रदातव्यमियदित्येवमात्मना || २८६ || व्यवस्थया प्रकर्षेण चोदितास्तदधीशिना | ....................एव तदाविष्टशरीरादेस्तदात्मनः || २८७ || स्थिता अनुचरत्वेन पुरतो देवतागणाः | .............................षमावेशैकलक्षणः || २८८ || योगो य एष देहादेर्हृदैक्यापादनात्मना | (प्. २६) समावेशेन कालस्य ग्रासे संकलनात्मनः || २८९ || अभ्यस्यंस्तं विनाप्येष शक्तीनामुक्तलक्षणम् | सामान्यशक्तिचक्रेशस्वरूपाध्यवसात्मकम् || २९० || भवेत्तदीशतासिद्धियोग्यतां लभते च यत् | तथात्मत्वेन तासां च चक्रेऽनैति समानताम् || २९१ || यतश्च यजने येयमितिकर्तव्यतोच्यते | तत्क्रियापूरकत्वेन तामविद्वानपि त्वयम् || २९२ ||
SK
ज्ञातेन हृदयेनैव पूरणात्सर्ववस्तुनः | विद्वान्भवति यश्चैष शङ्कासंकोचवर्तिनः || २९३ || विधीन् नियामकत्वेन न जानात्यात्मनोऽखिलान् | अपि तान् ज्ञातवानेव यतो विधिमनुत्तरम् || २९४ || चिदात्मस्वविमर्शात्महृदयैक्यस्वलक्षणम् | जानाति ननु चोक्तैतत्परामर्शात्मसात्कृतौ || २९५ || यागेन भाव्यं मैवं यत्तस्मिन्नात्मन्यनुत्तरे | तद्योजनैव यजनं तत्तामात्रो ह्यनुत्तरः || २९६ || अतो नयेऽस्मिन्निखिलं विधानविधिरूपकम् | बहिरङ्गं भवत्यन्यदिति यागः क्रियामयः || २९७ || पूर्वभावितया चास्य ग्रहणे येन चोदिता | ननु यत्पूर्वमुक्तं मे हृदयं भवतोरिति || २९८ || बीजं चतुर्दशेत्यादि तदुद्धारोपदेशने | तस्यान्तस्तत्त्वषट्त्रिंशद्रूपविश्वात्मताजुषः || २९९ || शक्तिसंपूर्तिरूपाया परायाश्चात्मनश्चितेः | विमर्शयति सद्भावमित्याशंक्य निरूप्यते || ३०० || कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् | (प्. २७) शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् || ३०१ || तदन्तर्वर्ति यत्किंचिच्छुद्धमार्गे व्यवस्थितम् | अणुर्विशुद्धमचिरादैश्वरं ज्ञानमश्रुते || ३०२ || तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः | सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः || ३०३ || यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः | तथा हृदयबीजस्थं सर्वमेतच्चराचरम् || ३०४ || यथा घटशरावादिविकारानवलोकने | गन्धता तदनामर्शे क्रमेणाहंकृतात्मता || ३०५ || यथा भूतभिदाभङ्गे सुखादित्रयरूपता | वेद्यवेदकतामात्रा तस्याः पार्यन्तिकी स्थितिः || ३०६ || तद्रूपकञ्चुकामर्शवञ्चने तस्य विश्रमः | ब्रह्मपञ्चकरूपायां सत्तायामेव जायते || ३०७ || सदित्यस्यापि रूपस्य प्रत्ययांशापहस्तने | बीजाद्यवर्णमात्रा स्याद्विश्रान्तिः पारमार्थिकी || ३०८ || एवं जलादिमायान्ततत्त्वरूपस्य वस्तुनः | सर्वस्य सैव विश्रान्तिरन्त्येत्यत्रान्त्यविश्रमे || ३०९ || सर्वमेकघनं विश्वं तद्रूपस्यापरिच्युतेः | अमृतीभूतमभ्येति प्रकृतिं ब्रह्मरूपताम् || ३१० ||
SK
सदेव सौम्य ब्रह्मेदमग्र इत्यध्यवस्यताम् | विश्रान्तिस्तावति ब्रह्मवादिनां श्रुतिवेदिनाम् || ३११ || तन्निर्मन्थनवृत्त्या तु भैरवो विश्वसृष्टिकृत् | गीतं च गुरुणा सूनोः प्रथायास्तत्त्वबोधने || ३१२ || मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् | (प्. २८) यदा सतोऽस्य विश्रान्तिधाम्नोऽप्यनवलोकनम् || ३१३ || तदा प्रथा विमर्शात्मशक्तिविश्रामितात्मनः | प्रकाशमानता सिद्धिरस्येत्यस्य तदेकता || ३१४ || सा च वाञ्छाक्रियाज्ञानशक्तिष्वन्यतमा भवेत् | सर्वं वस्तु सदिच्छामि जानामित्यादिसंविदि || ३१५ || विश्रम्य व्यवहाराय नियतायोपकल्पते | इच्छामीत्यत्र केच्छायामस्ति ज्ञानक्रियात्मता || ३१६ || प्रथा संरम्भरूपायामेवमेवान्ययोरपि | अस्त्येवान्योन्यरूपत्वमतस्तत्त्रितयात्मनि || ३१७ || शक्तौ त्रिशूलरूपायां तद्विश्रान्तं प्रकाशते | तस्यापि तत्त्रयस्यैकं स्वतन्त्रं कर्तृतत्त्वतः || ३१८ || अध ऊर्ध्वोद्यदिन्द्वर्कमयबिन्दुद्वयात्मता | विश्वविश्वोत्तरस्वात्मव्यञ्जनस्वरतामयी || ३१९ || ज्ञेयाद्युपायसंघातनिरपेक्षाद्वयोदयात् | ज्ञप्तिञ्च ज्ञातृतारूपामहमित्याश्रयत्तनुम् || ३२० || प्रकाशमानमेवात्मरूपं तात्त्विक इष्यते | तदेतद्वेद्यविद्वेत्तृविश्रान्तित्रयलक्षणम् || ३२१ || बीजस्य रूपमित्युक्तं भवत्यत्र हि विश्वता | संपूर्णशक्तिरूपत्वं स्वात्मभैरवरूपता || ३२२ || एवं हृदयरूपायाः सिद्धा आसंश्चितेरिमाः | प्रधानीकुरुते तत्र यां विश्रान्तिं तदन्तता || ३२३ || तदंशाध्यवसायत्वप्राप्तान्यांशद्वयोदया | बीजोच्चारस्य रूपं स्यान्नतु तत्तत्कलान्तता || ३२४ || भुक्तिश्च भुक्तिमुक्ति च मुक्तिश्चेत्यत्र सिद्धयः | (प्. २९) स्वात्मभैरवचिद्रपे प्रकाशेऽहमिदन्तया || ३२५ || इच्छादिशक्तिद्वारेण सतः पूर्वोक्तलक्षणः | अक्रमक्रमरूपेण क्षेपो वैसर्गिकी स्थितिः || ३२६ || सद्रूपमेतद्वेद्यञ्च वेदकं भैरवात्मकम् | उभयस्पर्शनाच्छक्तिरूपा चातुर्दशी स्थितिः || ३२७ || अवरोहक्रमेणैव वेत्तृवेदनरूपतः | वेद्यविदितृसामान्यरूपता ब्रह्मणि स्थितिः || ३२८ ||
SK
शान्तोदितोभयात्मैतत्त्र्यश्रैकरसतामयी | परा विसर्गता यस्य विश्रान्तित्वेन सम्मता || ३२९ || विश्वात्मा पूर्णशक्तिश्च नाथो भैरव एव सः | इति कालाग्निमित्यादेः सर्वमेतच्चराचरम् || ३३० || इत्यन्तस्यागमांशस्य तात्पर्यमवधार्यताम् | ग्रन्थोऽथ योज्यते पृथ्व्यां यन्निवृत्तिकलात्मनि || ३३१ || पुरषोडशकं प्रोक्तं कालाग्न्यादि तथा च यत् | जलादिमूलपर्यन्ते प्रतिष्ठाख्याकलात्मनि || ३३२ || नकुलीशादिषट्पञ्चाशत्संख्यात्मकं पुरं स्थितम् | पुमादिमायापर्यन्ते विद्यात्मनि च या स्थिता || ३३३ || पुराष्टाविंशतिर्वामप्रमुखा तैः शतात्मभिः | भुवनैः सह पृथ्व्यादिमायान्तं तत्त्वमण्डलम् || ३३४ || पुरैर्हालाहलारम्भैरष्टादशभिराचिते | शान्तितत्पररूपान्यकलाद्वितयविग्रहे || ३३५ || उक्तस्य ब्रह्मणो देहे तत्त्वपञ्चकलक्षणे | कादिहान्तपरामर्शरूपं विश्रान्तिमृच्छति || ३३६ || षट्त्रिंशत्तत्त्वरूपस्य सतोऽस्य व्यञ्जनात्मनः | (प्. ३०) आदीः कर्तृज्ञेतृज्ञातृमयो ह्रस्वत्रयात्मकः || ३३७ || शिवः स्वरात्मा यो या च तदिच्छा शक्तिरूपिणी | अनुत्तरा परेच्छा च परापरतया स्थिता || ३३८ || उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते | इत्यानन्देशनोनत्वमयदीर्घस्वरात्मिका (?) || ३३९ || शिवा शक्तित्रयमयी स्यात्तद् बिन्द्वन्तवेदना | तदेतद् द्वितयं कर्तृक्रियारूपमनुत्तरे || ३४० || विसर्गात्मनि चिद्रूपे स्वतन्त्रेऽनन्तनामनि | न विद्यतेऽन्यपर्यायो यस्यान्तस्तत्र चात्मनः || ३४१ || अशेषशक्तिसंघट्टपरामर्शमयात्मनि | तुर्यसन्ध्यर्णरूपायां चितौ चानुत्तरेशितुः || ३४२ || विश्राम्यति य एषोऽस्य शब्दराशिमहातनोः | विसर्गस्यात्तविश्वस्य चोदकत्वेन वर्तते || ३४३ || चतुर्दशमयः प्राणः शिवस्यात्मतया शिवः | स एव शुद्धविद्यादौ शिवान्ते तत्त्वपञ्चके || ३४४ || स्वव्यापिब्रह्मणो देहे सतोऽव्यापकतां भजन् | ज्ञेयस्तत्रांशतो विद्यामायात्मात्वाद्यपर्वणि (?) || ३४५ || भिन्नस्य भिन्नाभिन्नस्य सर्वस्य ज्ञातृतापदम् | स्वमायासङ्कटोत्तीर्णं प्राप्नोति परमेशिताम् || ३४६ ||
SK
पाशैरागन्तुकैर्मायाविभ्रमैः कञ्चुकात्मभिः | वियोगात्स्वैरसञ्चारो भवेत्संविन्मयोऽम्बरे || ३४७ || सहजाणववैकल्यसिद्धिसंभावनापरम् | वैमल्यमीऽस्वराख्ये च द्वितीये याति पर्वणि || ३४८ || तथा पर्वणि सादाख्ये तृतीये वेद्यलक्षणः | (प्. ३१) इदं प्रतीतिरूपस्य विश्वरूपस्य वस्तुनः || ३४९ || आच्छादितत्वात्स्वं वीर्यं प्रत्याहृतसमस्तया | अहमाशान्तकल्लोलश्चिदब्धिः स्वास्थ्यमश्नुते || ३५० || शक्तिरूपे तथा स्वस्मिन्नन्यसापेक्षतोज्झिते | स्वभानादात्मनः पूर्णादवियोगिन्यनश्वरे || ३५१ || आत्मन्यायतते तिष्ठन् बुद्ध्यते स्वस्य पूर्णताम् | तत एव शिवाख्येऽस्मिन्नशुद्धेर्भेदलक्षणः || ३५२ || सर्वात्मना तिरोधानाच्छुचिः संवर्तको भवन् | कर्षानुत्तरसंघट्टत्र्यश्रसंविन्नभोऽन्तरे (?) || ३५३ || स्वाहाज्वालासमालीढतत्त्वौघो ज्वलति स्वयम् | एवं चोदकरूपस्य शिवस्यैवं स्वरूपतः || ३५४ || एतद्विश्रान्तिनिष्ठोऽणुरुक्तेनाभ्यासवर्त्मना | मुहूर्तादिक्रमेणैव पुरोक्ते तत्त्वपञ्चके || ३५५ || शुद्धाशुद्धाध्वरूपे यद्वर्तते दृक्क्रियामयम् | स्वातन्त्र्यमैश्वरं सर्वमश्नुते तत्परः परम् || ३५६ || एवं मुक्तिमयी भुक्तिः फलत्वेनास्य कीर्तिता | चोदकाभ्यासनिष्ठस्य विसर्गांशव्यवस्थितेः || ५५७ || मुक्तिर्ब्रह्मांशनिष्ठस्य भुक्तिश्चैकेति सूचिता | चतुर्थ्यां परविश्रान्तौ सर्वमेकरसात्मना || ५५८ || अभेदेनैतदुक्तं तत्त्रयमास्ते यथा महान् | वृक्षो न्यग्रोधधानायां तद्धानात्मस्वरूपया || ५५९ || तच्छक्त्यैवात्मना भाति तथात्र हृदयात्मनि | बीजे तच्छक्तिभेदेन चरं शुद्धं प्रमातृ च || ३६० || अचरञ्च तथाशुद्धं मेययं च प्रथतेऽखिलम् | (प्. ३२) तस्माद्यत् सूचितं पूर्वं सद्यो योगविमोक्षदम् || ३६१ || अरुद्रयोगिनीजातो न लभेतैतदित्यतः | स्वात्मचिद्भैरवावेशमात्रसिद्धिप्रयोजनम् || ३६२ || तदेतदुपसंहारद्वारा प्रकटमुच्यते | एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी || ३६३ ||
SK
दीक्षा भवत्यसंदिग्धा तिलाद्याहुतिवर्जिता | एवमुक्तेन रूपेन निःशङ्कत्वेन निश्चितः || ३६४ || यो वेत्ति हृदयत्वेन बीजमेतद्विकस्वरम् | तस्यास्य परमार्थेन दीक्षा निर्वाणसत्फला || ३६५ || भवत्येवास्तसन्देहा तथा ह्येष स्वसंविदा | एतद्धृदयतालाभे तद्गताभिस्तदात्मभिः || ३६६ || संविद्भिर्दत्तमेवैतत्पूर्वं हृदयलक्षणम् | ज्ञानं क्षपितमेवैवं संकोचात्म च पाशवम् || ३६७ || जानात्येव ततो दीक्षा दानक्षपणलक्षणा | स्वप्रतीतिप्रथासारा सैषा ज्ञानस्वरूपिणी || ३६८ || अतो नात्र तिलादीनामुपयोगः क्रमात्मनाम् | एतावज्जीवतो मुक्तिमात्रनिष्ठितचेतसः || ३६९ || एतल्लाभादिकं किंचिन्नोपयोगीति दर्शितम् | अधुना तु समावेशाभ्यासार्थमुपयोगवान् || ३७० || पूजाविधिः स वक्तव्यो यतो वक्ष्यति शासनम् | कृतपूजाविधिर्बीजं स्मरन् स्यात्सिद्धिभागिति || ३७१ || तस्मादत्र शरीरादौ तदभ्यासोपदर्शनम् | कृतं करिष्यते चेति विधातुं तत्र हृन्मतिम् || ३७२ || प्राप्तं तालमनुक्तादौ न्यासमेवाह शासनम् | (प्. ३३) मूर्ध्नि वक्त्त्रे च हृदये गुह्ये मूर्त्तौ तथैव च || ३७३ || न्यासं कृत्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् | एकैकेन दिशां बन्धं दशानामपि कारयेत् || ३७४ || तालत्रयं पुरा दत्त्वा सशब्दं विघ्नशान्तये | पुष्पादिकं क्रमात्सर्वं लिङ्गं वा स्थण्डिलं चवा || ३७५ || शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत्ततः | स्वचैतन्यैकतानीतजगत्त्रित्वोदयात्मकम् || ३७६ || वाचः पराया वक्त्यर्थरूपाया हृदयात्मनः | विवक्षाध्यवसोक्त्यात्मपश्यन्त्यादिक्रमात्मनः || ३७७ || परादिशक्तिरूपेण प्रसरत्त्रित्वसूचकम् | मातृमानार्थसद्भाववाच्यांशत्रितयात्मकम् || ३७८ || हृदयं भैरवीयं तदात्मत्वेनावधारयन् | तदंशोऽन्तरुपांशूच्चैः शब्दनक्रमलक्षणम् || ३७९ || शक्त्यादिचतुरण्डोद्यत्पातालक्ष्मान्तरिक्षगान् | सर्वान् शमयितुं विघान् भेदतद्धीमयान्विभून् || ३८० || तालत्रयं पार्ष्णिहस्तमुखशब्दनमाचरन् | स्वीकुर्वन्मातृमापीयत्रयसद्भावलक्षणम् || ३८१ ||
SK
सृष्टिं स्वकीयामाविश्य संविदं शक्तिमादितः | जन्मचारप्रवाहाख्यलयविच्छित्तिलक्षणाः || ३८२ || दृश्यमानाः शरीरेऽत्र स्वकीये सततोदिताः | आत्मनो भैरवीयस्य हृदयामृतवारिघेः || ३८३ || चिदानन्दैषणाज्ञानक्रियाख्याः स्पन्दसंपदः | विमृश्य हृदयेऽत्रैव सर्वतत्त्वमये निजे || ३८४ || भाति देहतया कास्यहृद्गुह्याङ्घ्रिह(?)यात्मता | (प्. ३४) पञ्चकृत्वो न्यसेद्बीजं तेषु स्थानेषु पञ्चसु || ३८५ || विश्वसत्तामयब्रह्मपञ्चकस्फूर्त्तिलक्ष्मसु | एवं हृदयविद्वद्भिः समाश्लेषात्तदात्मनः || ३८६ || शिखावतोऽस्य देहस्य या शिखा संविशिष्यते | तद्व्यापकतया द्योतत्तज्ज्वालारूपणोचिते || ३८७ || बुद्धिप्राणमयात्मीयप्रकाशस्पन्दनात्मता | तस्याः स्वव्यापितद्देहषट्त्रिंशत्तत्त्वरूपता || ३८८ || तासामन्योन्यभावेन प्रत्येकं पञ्चकात्मता | शक्तीनां पञ्चविंशत्या प्रोक्ताभ्यां च तदात्मनः || ३८९ || द्वाभ्यामुभयविश्रान्तितत्त्वाभ्यां तत्त्वसंपदम् | जातया सप्तविंशत्या बीजोच्चारस्वरूपया || ३९० || विमृश्य बन्धनं कुर्यात् तत्त्वेत्यनियमात्मकम् | स्थूले सूक्ष्मे परे देहे कृत्वैवं हृदयात्मताम् || ३९१ || दिशो दिशापि हृदयपरामर्शैकशेषताम् | नयेत्सकृत्सकृद्बीजं स्मरन्नास्ते कृताखिलः || ३९२ || अथार्घ्यपात्रविश्रान्तपरानन्दरसस्य च | शिखासमाधिनाधाय हृदयैकस्वरूपताम् || ३९३ || तक्षणाभ्युक्षणद्वारा कृत्वेदन्तां विलापयेत् | पूजोपयोगिपु.पौघं तदेकरसतां नयेत् || ३९४ || पूजाधिकरणं लिङ्गं स्वान्तादि च यथोदितम् | सामान्यतो विशेषाच्च कृत्वैवं भेदधिलयम् || ३९५ || हृदयैकात्मतां नीते तत्त्वादौ वेद्यविस्तरे | आधाराभिमते क्वापि संभवत्यत्र वस्तुनि || ३९६ || पूज्यस्वरूपनिष्कर्षपूर्वं पूजोच्यतेऽधुना | (प्. ३५) चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना || ३९७ || तत्र सृष्टिं यजेद्धिरः पुनरेवासनं ततः | सृष्टिं तु संपुटीकृत्य पश्चाद्यजनमाचरेत् || ३९८ || सर्वतत्त्वसुसंपूर्णां सर्वावयवभूषिताम् | यजेद्देवीं महेशानीं सप्तविंशतिमन्त्रिताम् || ३९९ ||
SK
ततः सुगन्धिपुष्पैश्च यथाशक्त्या समर्चयेत् | पूजयेत्परया भक्त्या आत्मानं च निवेदयेत् || ४०० || यैषा विस्पष्टताद्यात्मजागरादिप्रथामयी | पृथिव्यादिपुमन्तानां तत्त्वानां पञ्चविंशतिः || ४०१ || तत्संभावमयीमाद्यां कलां हृदयसंविदः | आद्यं पर्वात्मतत्त्वाख्यं तदुन्मेषोनतात्मकम् || ४०२ || तद्भिन्नाभिन्नसंवित्तिकञ्चुकब्रह्मविग्रहम् | तत्त्वद्वयं शक्तिशंभुमयं व्याप्यावभासिनीम् || ४०३ || त्रिशूलरूपिणीं वृत्तिं तुरीयामुत्तरं तथा | परामृश्यासनांशस्य पर्वतद्द्वयविग्रहे || ४०४ || आसनेऽस्मिन्नशेषैतत्सद्रसैकत्वचिन्मयीम् | आत्मनोऽनुत्तरस्यात्मभूतां भैरवरूपिणः || ४०५ || स्वान्तः स्थाव्यतिरेकेण क्षिप्त्वादिक्षान्तसृष्टिकाम् | विसर्गरूपिणीं वृत्तिं तुर्यातीतात्मिकां पराम् || ४०६ || विमृश्य देवतां पूज्यां विसर्गं बीजमुच्चरन् | पुष्पेण तां प्रतिष्ठाप्य तस्यां तत्तादृशात्मनि || ४०७ || तदासनांशविश्रान्ततत्त्वक्रमशरीरिणीम् | अशेषां वाङ्गमयीं सृष्टिं तुर्याद्याभोगशालिनीम् || ४०८ || क्षिपेद्येन विसर्गोऽयं तन्मध्यस्थानुभावतः | (प्. ३६) तदुत्तिर्णी तदात्मानं सर्वक्रमशरीरिणीम् || ४०९ || सर्वैरवयवीभूतैर्भूषितां भावराशिभिः | स्वात्मीकृत्य स्वयं भाति कला सा तादृशी परा || ४१० || ततस्तादृशतद्रूपस्वरूपामर्शरूढये | हृदयङ्गमतारूप � सौरभ्यभरितोदयैः || ४११ || स्वात्मार्पणवशात्तस्मिंस्तस्य रूपस्य पोषकैः | पुष्पादिसद्भावजातैरुपचारैर्यथोदितैः || ४१२ || तां देवतां तदात्मत्वचमत्काररसात्मना | पूर्णया स्वस्य संवित्त्या तत्पूर्त्यादर्शरूपया || ४१३ || स्नानधूपाञ्जनालेपताम्बूलासवमुख्यया | बाह्यया चापि संपत्त्या पूजयेत्सम्यगात्मनः || ४१४ || देहादिना निमग्नत्वमयप्रहृत्यपूर्वया | तत्पूज्यदेवतासंविदुत्कर्षामर्शरूपया || ४१५ || तदेकरसतावेशश्रद्धातिशयतत्त्वया | भक्त्या भजनरूपिण्या परया पूर्णरूपया || ४१६ || परा च याऽसौ पुष्पादेर्भक्तिः पूजोपयोगिनी | उक्तैतत्स्वात्महृदयहठावेशक्रियापदः || ४१७ ||
SK
भागः परिमलाद्यात्मा तच्छक्तिस्तत्स्वरूपया | भक्त्येत्युक्तेन रूपेण पूजायाः पूर्तिलक्षणः || ४१८ || संपूर्यमाणमात्मानं सर्वाभेदघनां चितिम् | सप्तविंशतिवारोक्तहृदयामर्शनक्रियः || ४१९ || निश्चितेनात्मभावेन .......................................... (?) | नियतेनात्मभावेन नियमेनामृशेन्मुहुः || ४२० || एषा पूजोदिता तावदस्याः पूर्तीहलक्षणा | (प्. ३७) सा भोक्त्र्याः संविदस्तस्या भुक्तायास्तत्त्वपद्धतेः || ४२१ || पुनः प्ररोहौचित्यात्मसंस्कारात्मतया स्थितिम् | अजीर्णेव भिदा जन्मव्यापिशंकोदयावधिम् || ४२२ || न भवेद्भस्मसाद्भावतद्भोग्यत्वविलापनम् | अतीत्वेत्याशयेनैनां सपर्यामुपसंहरन् || ४२३ || सूचयत्यतिदिष्टेन विधानेन हुतिक्रियाम् | एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः || ४२४ || हुतिक्रियायां तत्रापि तद्विभूतार्घ्यविप्रुषा | अभ्युक्षणं तिलादीनां स्रुक्स्रुवादेर्हुताशनः || ४२५ || हुताशने च पूर्वोक्तवर्त्मनासनकल्पनम् | भोक्तृस्वरूपनिष्कर्षस्तत्राक्षेपो जगत्स्थितेः || ४२६ || तद्भुक्ततत्त्वसंस्काररूपभोग्यविलापनम् | हवनेन तिलादीनां षट्त्रिंशत्तत्त्वताजुषाम् || ४२७ || तदेकरसतावेशतत्त्वात्मा वर्णरूपिणी | पूर्णाहुतिक्रियेत्येवं तत्प्रकारः प्रतीयताम् || ४२८ || एवं यजनहोमात्मा पूजैषा पूर्तिरूपिणी | आभ्यन्तरत्वसंकॢप्त्या बाह्यद्रव्योपसंहृतेः || ४२९ || निवर्तितेन भावेन सूत्रे पश्चात्तु संगतिः | कृतपूजाविधिः सम्यक्स्मरन्बीजं प्रसिद्ध्यति || ४३० || ......................................षम्यक् चेत्तेन वर्त्मना | वक्ष्यमाणेन विश्वस्य बीजं हृदयमात्मनः || ४३१ || स्मृतिरूपपरामर्शविषयत्वं समानयन् | सम्यक् चापास्तसन्देहविभ्रमावाप्तिलक्षणाः || ४३२ || प्रकृष्टेन प्रकारेण सिद्धिः पूर्वोक्तलक्षणाः | (प्. ३८) त्रैकाल्यदर्शनाद्यास्ता भगवान् भैरवो यथा || ४३३ || आप्त्वानेनैव देहेन प्रसिद्धो भुवने भवेत् | बीजात्मनो विमर्शस्य भातोऽप्यभिनवात्मनः || ४३४ ||
SK
अस्य पूर्वा(र्णा)दिरूपेण स्वरूपेणावभासनात् | अपास्तकालकलनाभेदयोगितयोद्यतः || ४३५ || आभासनीलरूपस्य सर्वथाभ्यन्तरस्य च | सतोऽवभासनादुक्तं विश्रान्तित्रयलक्ष्मणः || ४३६ || वस्तुनः स्मृतिसादृश्यात्स्मृतित्वेनोपदेशनम् | शत्रा च प्रत्ययेनास्तविच्छेदस्वापभासनम् || ४३७ || परामृष्टारमादेवं वन्दे (?) दर्शयता शिवम् | सूच्यतेऽयं परामर्शः तथा स्वीक्रियतां यथा || ४३८ || उक्ताद्विच्छेदराहित्यादकालकलितत्वतः | सकृदक्रमरूपेण विशेषेणात्मतात्मना || ४३९ || भाति स्वानुभवेनैव प्रमाणेनास्तसंशयम् | इति नन्विदमुक्तं यत् सम्यक् बीजं स्मरन्निति || ४४० || तत्सम्यक्त्वं स्मृतेरस्याः पूर्वं यद्यपि दर्शितम् | कालाग्निमादीत्यनेन ग्रन्थेन विततात्मना || ४४१ || तथापि स्फुटताभाजा रूपेणास्य विनिर्णयम् | विधातुं विधिरूपेण निरूपयति शासनम् || ४४२ || आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् | हृत्पद्मान्तगत ध्यायेत्सोमांशुं नित्यमभ्यसेत् || ४४३ || बीजं वाचकरूपं यद्वाच्यः सोमांशुरस्य यः | उमया स्वात्मसंवित्त्या विश्वोत्तरतदात्मना || ४४४ || आत्मनोदयमानोऽसावात्मा सोमस्य भात्मनः | (प्. ३९) ज्ञातृताकर्तृतारूपयामलात्मा स्वतन्त्रता || ४४५ || इच्छादिसंविच्छक्त्यैक्यमयी संघट्टरूपता | पृथ्व्यादिशिवपर्यन्तषट्त्रिंशत् स्फूर्तीरूपता || ४४६ || इत्येतत्त्रितयात्मा च प्रकाशः सार्वकालिकः | द्वयं तदपि भेदेन वाच्यवाचकतात्मना || ४४७ || अभ्यसेदुपदेशो यः पाठे सोमाशुमित्यतः | सोमांशमिति पाठे तु पूर्णचिच्चन्द्रलक्षणः || ४४८ || प्रकाशानन्दसद्भावमत एव स्वभावतः | ज्वलनं गलनं चैव वृत्तिं सारयताश्रयन् || ४४९ || संकुचद्विकसत्त्वेन तेन स्वातन्त्र्यलक्ष्मणा | प्रदर्शयन्पृथिव्यादिशिवान्तां तत्त्वविस्तृतिम् || ४५० || तदुन्मेषनिमेषात्मसंविच्छतततोदयम् | तत्संपादनसामर्थ्यसतत्त्वस्वपुरामयम् || ४५१ || सकारौकाराःकारात्मस्वकीयांशत्रयात्मना | उत्तरोत्तरमाविष्टं शश्वत् भागत्रयेण च || ४५२ ||
SK
अनुत्तरत्रिकोणात्म यदेतद्धृदयं महत् | सोमश्चांशाश्च सोमांशमिति सामस्त्यमानतः || ४५३ || समाहारस्वरूपेण द्वन्द्वेनापादितोदयम् | तदेतदाभिमुख्येन स्वसंविद्रूपविश्रमम् || ४५४ || चतुष्कं शून्यधीप्राणदेहात्मनि चतुष्टये | चतुष्टयं तूत्तरत्र क्षिपेत् पूर्वादितो यथा || ४५५ || तथा सोमांशतैवात्र जडतालो(रो)हलक्षणा | शून्यादितैव तत्रापि त्यक्तपारोक्ष्यमीलना || ४५६ || भासते चिन्मयत्वेन प्रत्यक्षत्वेन वाङ्मनः | (प्. ४०) बिलमुक्तं भवेद्रूपं विसर्गाणां चतुर्विधम् || ४५७ || तत्र सोममयं पूर्णमुदयव्ययवर्जितम् | सकृद्विभातं विश्वस्य बीजं तद्भावतः सदा || ४५८ || पीतः स विश्वभावेन विश्वस्थितिविधायिनाम् | तत्संकलनरूपत्वस्वभावात्कालताजुषाम् || ४५९ || शब्दराशिमयस्वात्मलहरीस्पन्दनात्मनाम् | संविन्मरीचिचक्राणा चक्रवर्तित्वमास्थितम् || ४६० || समस्तज्ञेयशून्यत्वमयस्वप्रथनात्मनि | जानाति सातु तन्मात्रे प्रकाशे प्रत्यगात्मनि || ४६१ || क्षिपेदभेदतो येन सोमस्यात्मतयोदयात् | अमित्यपास्तपारोक्ष्यं साक्षित्वं सततं भवेत् || ४६२ || सोमे तत्रात्मनः क्षेपात् प्रतीचस्तत्तयोदयात् | त्यक्तसंकोचमालिन्यमीलनाविशदात्मनः || ४६३ || अशेषविश्वभरितमचिन्त्यानन्तशक्तिकम् | अखण्डैकरसानन्दस्फुरणात्मकमद्वयम् || ४६४ || आत्मत्वमनिदंत्वेन भवेत् साक्षादनारतम् | सोमस्यैवं विसर्गस्य पूर्णसंवेदनात्मनः || ४६५ || पूर्णभैरवतैवोक्ता सिद्धिरित्युदितं भवेत् | तदंशेषु यदाद्यन्तस्वरव्यञ्जनवर्जितम् || ४६६ || बीजं विसर्गरूपत्वात् स्थितं पूरयतान्निजाम् | शब्दनात्मतया स्वीयस्वविमर्शात्मताजुषाम् || ४६७ || स्वप्रकाशाविनाभूतस्वयंप्रथनलक्षणाम् | चिदादिबिन्दुपर्यन्तसंवेदनमयात्मनाम् || ४६८ || स्वराणां तिथिरूपाणां विकासौन्मुख्यलक्षणम् | (प्. ४१) स्वेशनासंविदन्तःस्थं स्वशक्त्या तुर्यरूपया || ४६९ || आभासितं बहिष्ट्वेन कादिक्षान्ताक्षरात्मकम् | पृथिव्यादिशिवात्मान्तविश्वमात्मतया श्रयत् || ४७० ||
SK
तद्विद्यायामशुद्धायामपूर्णोऽस्मीति संविदि | अशेषाभेदकलनावागुरासूत्रणात्मनि || ४७१ || सुखी दुःखी विमूढोऽस्मीत्येवंधीवृत्तिलक्ष्मणि | हृदि क्षिप्द्येन सोऽयं विसर्गः पूर्णचिन्मयः || ४७२ || तत्सामान्यतया तत्त्वमाप्त्वा साक्षाद् भवेत्सदा | सा च क्षिप्ता विसर्गेऽस्मिन् तदेकरसतां गता || ४७३ || तत्पूर्णतासमाविष्टा सर्वतत्त्वशरीरिणी | सर्वाक्षरसमाहारसंविद्रूपाहमात्मिका || ४७४ || ज्ञातृताकर्तृतारूपप्रमातृत्वात्मिका भवेत् | विसर्गात्मा विसर्गोऽयं विश्वं वेत्त्यहमित्यतः || ४७५ || वेदको वित्तिभेदैक्यविधातैवं निरूपितः ? | सोमस्य वेदितुस्तस्य या शक्तिर्वाङ्मयी परा || ४७६ || वित्तिर्यया विदन्विश्वं स्मरन्नयमपोहति | स्वान्तःस्थितं तदात्मानं भवन्संविन्मयत्वतः || ४७७ || एतदाद्यन्तभूतैतत्सद्विसर्गद्वयोज्झितः | बीजं त्रिशूलवृत्त्यात्मविश्वस्थितिमयात्मना || ४७८ || स्वरव्यञ्जनरूपाणां कलानां कलनत्वतः | चोदकत्वेन माध्यस्थ्यरूपं तादात्म्यमाश्रयत् || ४७९ || मायामयसुषुप्त्युद्यद्बीजात्माहङ्क्रियात्मनि | कलनात्मतया योगकलातत्त्वस्वरूपिणी || ४८० || समीरात्मतया पञ्चवृत्तिस्पन्दनलक्षणे | (प्. ४२) प्राणे हृद्युक्तिवेद्येन चोदिकेयं तदात्मताम् ? || ४८१ || पूर्णसंफ(क)लनात्मत्वादाप्त्वा साक्षाद्भवेत्सदा | तत्र क्षेपात्तथा प्राणस्तन्मयीभावयोगतः || ४८२ || स्वस्पन्दनमयाशेषस्वरव्यञ्जनवाङ्मयः | सर्वतत्त्वमयत्वेन तन्मयं देहमाविशन् || ४८३ || ज्ञानस्मृतिविकल्पात्मविश्वसंवेदनात्मकम् | वेदितुं करणं मत्वा भवेत् साक्षादनाश्रितः || ४८४ || सोमस्य वेदितुस्तस्य स्वात्मनो वेदनात्मनः | तया करणसंपत्त्या संपादितजगत्स्थितेः || ४८५ || यैषा संबन्धसामान्यद्रव्यदिक्कालरूपिणी | सत्तात्मा कर्तृतारूपा क्रियास्मीत्यनपायिनी || ४८६ || सृष्टिस्वरूपिणी विश्वं षट्त्रिंशत्तत्त्वसन्ततिम् | शरीरयन्ती शब्दाब्धेस्तस्य प्रत्याहृतक्रमा || ४८७ || अहमित्यात्मविश्रान्तिः सा सदोदेति सर्वदा | तत्स्वरेणादिभूतेन विसर्गेणान्तिमेन च || ४८८ ||
SK
रहितं केवलं बीजं सद्रूपं तत्त्वलक्षणम् | आत्मना लब्धसत्तानां तत्त्वानां वेदनात्मनः || ४८९ || दशायाः शक्तिरूपाया अवरुह्येदमात्मना | संविदा वेदनीयत्वं प्राप्तानां स्थितिमाजुषाम् || ४९० || विश्वस्य कादिक्षान्तात्मस्वरव्यञ्जनतात्मनाम् | माध्यस्थ्यमात्मतारूपं चोदकस्वरतामयम् || ४९१ || आश्रयद्धृदये देहे क्षिपेद्येन तदात्मिका | सैषा क्रिया तत्सद्भावरूपा साक्षाद्भवेत्सदा || ४९२ || तत्र क्षेपेण देहोऽयं तल्लीनत्वेन तन्मयः | (प्. ४३) तद्भूतमुखपाण्यङ्घ्रिमध्यधातुसमीरचित् || ४९३ || अनपोह्यान्यभावेन तस्याहंत्वेन वेद्यताम् | अन्तःकृताखिलार्थेन भवेत् प्राप्तमनारतम् || ४९४ || इत्येवं सोमताभाजामंशानामंशताजुषाम् | सोमस्य च स्वरूपेण शून्यादीनां चतुष्टयम् || ४९५ || स्वीकुर्वन्नात्मना सिद्धरसन्यायेन रूपयन् | विसर्गेण विधायैषां तन्मयत्वे स्ववर्णताम् || ४९६ || अपोह्य पूर्वतद्रूपजाप्यरूपान्यथाकृताम् | पूर्वोक्तेन पथाभ्यस्यन् सोमास्थानन्दलक्षणम् || ४९७ || कालस्य ग्रसनं कुर्वन्मुहूर्त्तादिक्रमात्मनः | यान्यान्कामयते कामांस्तांस्तांच्छिघ्रमवाप्नुयात् || ४९८ || आरभ्य मन्त्रमुद्राणामावेशं प्राणदेहयोः | षट्त्रिंशत्तत्त्वविष्टया च स्वातन्त्र्यावाप्तिसंपदम् || ४९९ || अवधीकृत्य पूर्वोक्ताः सिद्धिः सम्यगवाप्नुयात् | अह्ना प्रत्यक्षतामेति सर्वज्ञत्वं न संशयः || ५०० || यावद्यामचतुष्कात्मदिनं तावदवस्थितिः | यद्याचरति पूर्वोक्तसोमस्वादनलक्षणम् || ५०१ || तदास्य सर्वतोऽव्यक्ते वितते स्वात्मतेजसा | मायासंकोचरूपायां निशायां शमितात्मनि || ५०२ || प्राप्तायामनुपाख्यत्वं स्वात्मचित्प्रसरात्मनि | तुरीयतदतीतात्मदशाद्वितयलक्षणे || ५०३ || प्रवृत्तेऽहनि सार्वज्ञ्यंमसन्दिग्धं प्रवर्तते | एवं मत्रफलावाप्तिरित्येतद्रुद्रयामलम् || ५०४ || एव मन्त्रफलानां यदुक्तसिद्धिद्वयात्मनाम् | (प्. ४४) अनुत्तरादितो बीजादुक्तादेवाप्तिरित्यतः || ५०५ || एतत्तत्प्रथनायोद्यच्छासनं रुद्रयामलम् | सपादकोटिसंख्यातं फलसंपादकं महत् || ५०६ ||
SK
एतदेव हि बीजात्म तदुक्तं रुद्रयामलम् | शिवशक्त्योस्तयोरत्र नित्यसंघट्टदर्शनम् || ५०७ || अत एवोक्तरूपैद्धृदयाभ्यासशालिनः | संक्षेपतः फलं प्राह शासनं शासितुः पुरा || ५०८ || एतदभ्यस्य तत्सिद्धिः सर्वज्ञत्वमवाप्यते | जिज्ञासितं वा यत्किंचिच्चिकीर्षितमथापि वा || ५०९ || यथा तथैव जानाति करोति तदशेषतः | अयमस्य स्थितैवोक्ता परा भैरवरूपता || ५१० || अभ्यासेन विनापीति पूर्णं श्रीशासनं शिवम् | एव देवेन शासित्रा स्वरूपं यदनुत्तरम् || ५११ || सदा प्रकाशमानं सदपि स्वातन्त्र्यसंपदा | पूर्णया स्वस्य विच्छिद्य धाम्नो याथात्म्यलक्षणात् || ५१२ || तत्तच्छङ्कात्मसंकोचकारि लोकादिरूपिणाम् | तन्त्राणां नैतदेवं स्यात्तत्त्वमेतादृशत्वतः || ५१३ || तत्प्रवृत्तिश्च नषौ सावेवेंत्वादुदितेति च | बहुधा कथनेनैव गोपितात्मात्र शासने || ५१४ || स्वपरामर्शरूपे तद्धृदयत्वेन भासितम् | व्याख्याकृतोऽपि श्रीशास्त्रमनुत्तरमिदं तथा || ५१५ || स्वस्मात्स्थानादपोह्यैव परत्राक्षिप्तसूत्रकम् | तन्त्रात्मना गोपितार्थभाषयाप्याकृताविह || ५१६ || भासितात्मीयहृदयं जातं प्रोक्तमथात्मनि | (प्. ४५) व्याख्यात्रा श्रोतृशिक्षार्थं व्याख्या त्वागमवस्तुनः || ५१७ || अप्रमोषात्मसात्कारविधित्सासिद्धचेतसा | व्याख्यादौ पूर्णरूपाया विश्रान्तेर्लक्षितत्वतः || ५१८ || विश्रान्तीनां तदंशत्वात्तत्संवित्स्थैर्यलक्षणम् | तिसॄणामधुना रूपं वक्ष्यते ते स्वकर्मणः || ५१९ || हे भोक्तृमुदितावि᳚वाः ? सन्तः साधकपुङ्गवाः | त्यक्त्वान्यकायचिन्तात्मविभ्रमैः श्रूयतामिदम् || ५२० || अनुत्तरस्य सोमस्य सत्तां तत्त्वात्मना तताम् | समस्तसंपत्संपत्तिपरितृप्तिप्रथामयीम् || ५२१ || समाविश्यात्मभावेन तास्ताः स्वाभोगसंपदः | अवाप्नुतास्तसन्देहविपर्यस्ततयोदिताः || ५२२ || एतद्व्याख्याविमर्शात्मविवेकमयचेतसाम् | मा भूद्भ्रमो वः सच्छिष्या ह्यन्यव्याख्याविचारणे || ५२३ || एतदर्थात्मसात्कारमात्र एव ह्यवाप्नुत | स्वीयस्य भैरवत्वस्य चमत्कारमयीः श्रियः || ५२४ ||
SK
यस्यामनुत्तरानन्दौ पूर्णतोत्कर्षशालिनौ | योगक्षेमात्मतां श्रित्वा श्रूयते संहितोदयौ || ५२५ || शक्तित्रयात्मिका सैषा लोकसृष्ट्यादिकारणा | सतः सोमस्य संवित्तिः संप्रत्ययशरीरिणी || ५२६ || लोक्यसत्कवलीकारे लोकयित्रात्मविश्रमे | अभितो जा...यं दक्षा त्रिशूलत्रयरूपिणीम् || ५२७ || त्रिलोकीं च तदात्मत्वमात्मीयप्रत्याभिज्ञया | स्वीकुर्वाणां चिदाह्लादपूर्णतावेशपुष्कला || ५२८ || अहमित्यात्मसात्काररूपायां कवलीकृतौ | (प्. ४६) वेद्यस्य सत्ता सततं शोभतामस्तविप्लवा || ५२९ || आत्मनापूर्यमाणं सदात्मना संविदोक्तया | क्षिपन्तीमात्मनोऽत्रैव क्रमाक्रमविभागवत् || ५३० || अनुत्तरस्य सोमस्य सुदतां नौमि षोडशीम् | एष स्पन्दनिधानस्य पुरे चित्परिषट्पतेः || ५३१ || तेनैव पश्वकृत्यात्मनाट्याभिनयवेधसा | पुमांसं पुण्यसंपूर्णं कमप्याविशतेच्छया || ५३२ || इदंवादिनतः स्वस्मात् व्याख्याश्रीत्रिशिकात्मनः | शासनस्य स्वकीयस्य स्वालोकादर्शरूपिणः || ५३३ || तथाभिनवगुप्तोक्तविवृतिव्यापृतात्मनः | तात्पर्यैकप्रथात्मत्वात् नाम्ना तात्पर्यदीपिका || ५३४ || सेयं प्रकाशिताशेषत्रिशिकाशासनाशया | सविसासं नभोर्मध्ये सर्वमङ्गलया समम् || ५३५ || सदारब्धं तु जगति त्वटनोद्योगशालिनः | पुरतः शाश्वतीमाप्त्वा स्थितिं देदीप्यते शिवम् || ५३६ || इति श्रीपरात्रीशिकातात्पर्यदीपिका संपूर्णा | इति शिवम् ||

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. parātriśikātātparyadīpikā [M00043].

Source