Twenty Verses on the Reality of Consciousness

Viṃśatikā vijñaptimātratāsiddhi · Vइंशतिका विज्ञप्तिमात्रतासिद्धि

Twenty Verses on the Reality of Consciousness

Viṃśatikā vijñaptimātratāsiddhi

Vइंशतिका विज्ञप्तिमात्रतासिद्धि

SK
माहायाने त्रैधातुकं विज्ञप्तिमात्रं व्यवस्थाप्यते | चित्तमात्रं भो जिनपुत्रा यद् उत त्रैधातुकम् इति सूत्रात् | चित्तं मनो विज्ञानं विज्ञप्तिश् चेति पर्यायाः | चित्तम् अत्र ससंप्रयोगम् अभिप्रेतं | मत्रम् इत्य् अर्थप्रतिषेधार्थं |
SK
विज्ञप्तिमात्रम् एवेदम् असदर्थावभासनात् | यद्वत् तैमिरिकस्यासत् केशोण्डुकादिदर्शनं
SK
अत्र चोद्यते | कश्चिद् अर्थो नास्ति /
SK
न देशकालनियमः संतानानियमो न च | न च कृत्यक्रिया युक्ता विज्ञप्तिर् यदि नार्थतः
SK
किम् उक्तं भवति | यदि विना रूपाद्यर्थेन रूपादिविज्ञप्तिर् उत्पद्यते न रूपाद्यर्थात् | कस्मात् क्वचिद् देश उत्पद्यते न सर्वत्र | तत्रैव च देशे कदाचिद् उत्पद्यते न सर्वदा | तद्देशकालप्रतिष्ठितानां सर्वेषां संतानानियम उत्पद्यते न केवलम् एकस्य | यथा तैमिरिकाणां संताने केशाद्याभासो नान्येषां | कस्माद् यत् तैमिरिकैः केशभ्रमरादि दृश्यते तेन केशादिक्रिया न क्रियते न च तद् अन्यैर् न क्रियते | यद् अन्नपानवस्त्रविषायुधादि स्वप्ने दृश्यते तेनान्नादिक्रिया न क्रियते न च तद् अन्यैर् न क्रियते | गन्धर्वनगरेणासत्त्वान् नगरक्रिया न क्रियते न च तद् अन्यैर् न क्रियते | तस्माद् असदभावावभासने देशकालनियमः संतानानियमः कृत्यक्रिया च न युज्यते | न खलु न युज्यते | यस्मात् |
SK
देशादिनियमः सिद्धः स्वप्नवत्
SK
स्वप्न इव स्वप्नवत् | कथं तावत् | स्वप्ने विनाप्य् अर्थेन क्वचिद् एव देशे किंचिद् भ्रमरारामस्त्रीपुरूषादिकं दृश्यते न सर्वत्र | तत्रैव च देशे कदाचिद् दृश्यते न सर्वकालम् इति सिद्धो विनाप्य् अर्थेन देशकालनियमः |
SK
प्रेतवत् पुनः | संतानानियमः
SK
सिद्ध इति वर्तते | प्रेतानाम् इव प्रेतवत् | कथं सिद्धः समं |
SK
सर्वैः पूयनद्यादिदर्शने
SK
पूयपूर्णा नदी पूयनदी | घृतघटवत् | तुल्यकर्मविपाकावस्था हि प्रेताः सर्वे ऽपि पूयपूर्णां नदीं पश्यन्ति नैक एव | यथा पूयपूर्णाम् एवं मूत्रपुरीषादिपूर्णां दण्डासिधरैश् च पुरुषैर् अधिष्ठिताम् इत्य् आदिग्रहणेन | एवं संतानानियमो विज्ञप्तिनाम् असत्य् अप्य् अर्थे सिद्धः ||
SK
स्वप्नोपघातवत् कृत्यक्रिया
SK
सिद्ध इति वेदितव्यं | यथा स्वप्ने द्वयसमापत्तिम् अन्तरेण शुक्रविसर्गलक्षणः स्वप्नोपघातः | एवं तावद् अन्यान्यैर् दृष्टान्तैर् देशकालनियमादिचतुष्टयं सिद्धं |
SK
नरकवत् पुनः | सर्वं
SK
सिद्धम् इति वेदितव्यं | नरकेष्व् इव नरकवत् | कथं सिद्धं |
SK
नरकपालादिदर्शने तैश् च बाधने
SK
यथा हि नरकेषु नारकाणां नरकपालादिदर्शनं देशकालनियमेन सिद्धं | श्ववायसायसपर्वताद्यागमनगमनदर्शनं चेत्य् आदिग्रहणेन | सर्वेषां च नैकस्यैव तैश् च तद्बाधनं सिद्धम् असत्स्व् अपि नरकपालादिषु समानस्वकर्मविपाकाधिपत्यात् | तथान्यत्रापि सर्वम् एतद् देशकालनियमादिचतुष्तयं सिद्धम् इति वेदितव्यं ||
SK
किं पुनः कारणं नरकपालास् ते च श्वानो वायसाश् च सत्त्वा नेष्यन्ते | अयोगात् | न हि ते नारका युज्यन्ते | तथैव तद्दुःखाप्रतिसंवेदनात् | परस्परं यातयताम् इमे नारका इमे नरकपाला इति व्यवस्था न स्यात् | तुल्याकृतिप्रमाणबलानां च परस्परं यातयतां न तथा भयं स्यात् | दाहदुःखं च प्रदीप्तायाम् अयोमय्यां भूमाव् असहमानाः कथं तत्र परान् यातयेयुः | अनारकाणां वा नरके कुतः संभवः | कथं तावत् तिरश्चां स्वर्गसंभवः | एवं नरकेषु तिर्यक्प्रेतविशेषाणां नरकपालादीनां संभवः स्यात् |
SK
तिरश्चां संभवः स्वर्गे यथा न नरके तथा | न प्रेतानां यतस् तज्जं दुःखं नानुभवन्ति ते
SK
ये हि तिर्यञ्चः स्वर्गे संभवन्ति ते तद्भाजनलोकसुखसंवर्तनीयेन कर्मणा तत्र संभूतास् तज्जं सुखं प्रत्यनुभवन्ति | न चैव नरकपालादयो नारकं दुःखं प्रत्यनुभवन्ति | तस्मान् न तिरश्चां संभवो युक्तो नापि प्रेतानां ||
SK
तेषां तर्हि (Vव्स्_५) नारकाणां कर्मभिस् तत्र भूतविशेषाः संभवन्ति वर्णाकृतिप्रमाणबलविशिष्टा ये नरकपालादिसंज्ञां प्रतिलभन्ते | तथा च परिणमन्ति | यद् द्विधां हस्तविक्षेपादिक्रियां कुर्वन्तो दृश्यन्ते भयोत्पादनार्थं | यथा मेषाकृतयः पर्वता आगच्छन्तो गच्छन्तो ऽयःशाल्मलीवने च कण्टका अधोमुखीभवन्त ऊर्द्ध्वमुखीभवन्तश् चेति | न ते न संभवन्त्य् एव |
SK
यदि तत्कर्मभिस् तत्र भूतानां संभवस् तथा | इष्यते परिणामश् च किं विज्ञानस्य नेष्यते
SK
विज्ञानस्यैव तत्कर्मभिस् तथा परिणामः कस्मान् नेष्यते किं पुनर् भूतानि कल्प्यन्ते ||
SK
अपि च |
SK
कर्मणो वासनान्यत्र फलम् अन्यत्र कल्प्यते | तत्रैव नेष्यते यत्र वासना किं नु कारणं
SK
येन हि कर्मणा नारकाणां तत्र तादृशो भूतानां संभवः कल्प्यते परिणामश् च तस्य कर्मणो वासना तेषां विज्ञानसंतानसंनिविष्टा नान्यत्र | यत्रैव च वासना तत्रैव तस्याः फलं तादृशो विज्ञानपरिणामः किं नेष्यते | यत्र वासना नास्ति तत्र तस्याः फलं कल्प्यत इति किम् अत्र कारणं ||
SK
आगमः कारणं | यदि विज्ञानम् एव रूपादिप्रतिभासं स्यान् न रूपादिको ऽर्थस् तदा रूपाद्यायतनास्तित्वं भगवता नोक्तं स्यात् | अकारणम् एतद् यस्मात् |
SK
रूपाद्यायतनास्तित्वं तद्विनेयजनं प्रति | अभिप्रायवशाद् उक्तम् उपपादुकसत्त्ववत्
SK
यथास्ति सत्त्व उपपादुक इत्य् उक्तं भगवता अभिप्रायवशाच् चित्तसंतत्यनुच्छेदम् आयत्याम् अभिप्रेत्य |
SK
नास्तीह सत्त्व आत्मा वा धर्मास् त्व् एते सहेतुकाः
SK
इति वचनात् | एवं रूपाद्यायतनास्तित्वम् अप्य् उक्तं भगवता तद्देशनाविनेयजनम् अधिकृत्येत्य् आभिप्रायिकं तद् वचनं ||
SK
को ऽत्र अभिप्रायः |
SK
यतः स्वबीजाद् विज्ञप्तिर् यदाभासा प्रवर्तते | द्विविधायतनत्वेन ते तस्या मुनिर् अब्रवीत्
SK
किम् उक्तं भवति | रूपप्रतिभासा विज्ञप्तिर् यतः स्वबीजात् परिणामविशेषप्राप्ताद् उत्पद्यते तच् च बीजं यत् प्रतिभासा च सा ते तस्या विज्ञप्तेश् चक्षूरूपायतनत्वेन (Vव्स्_६) यथाक्रमं भगवान् अब्रवीत् | एवं यावत् स्प्रष्टव्यप्रतिभासा विज्ञप्तिर् यतः स्वबीजात् परिणामविशेषप्राप्ताद् उत्पद्यते तच् च बीजं यत् प्रतिभासा च सा ते तस्या कायस्प्रष्टव्यायतनत्वेन यथाक्रनं भगवान् अब्रवीद् इत्य् अयम् अभिप्रायः ||
SK
एवं पुनर् अभिप्रायवशेन देशयित्वा को गुणाः |
SK
तथा पुद्गलनैरात्म्यप्रवेशो हि
SK
तथा हि देश्यमाने पुद्गलनैरात्म्यं प्रविशन्ति | द्वयाद् विज्ञानषट्कं प्रवर्तते | न तु कश्चिद् एको द्रष्टास्ति न यावन् मन्तेत्य् एवं विदित्वा ये पुद्गलनैरात्म्यदेशनाविनेयास् ते पुद्गलनैरात्म्यं प्रविशन्ति |
SK
अन्यथा पुनः | देशना धर्मनैरात्म्यप्रवेशः
SK
अन्यथेति विज्ञप्तिमात्रदेशना | कथं धर्मनैरात्म्यप्रवेशः | विज्ञप्तिमात्रम् इदं रूपादिधर्मप्रतिभासम् उत्पद्यते न तु रूपादिलक्षणो धर्मः को ऽप्य् अस्तीति विदित्वा | यदि तर्हि सर्वथा धर्मो नास्ति तद् अपि विज्ञप्तिमात्रं नास्तीति कथं तर्हि व्यवस्थाप्यते | न खलु सर्वथा धर्मो नास्तीत्य् एवं धर्मनैरात्म्यप्रवेशो भवति | अपि तु |
SK
कल्पितात्मना
SK
यो बालैर् धर्माणां स्वभावो ग्राह्यग्राहकादिः परिकल्पतस् तेन कल्पितेनात्मना तेषां नैरात्म्यं न त्व् अनभिलाप्येनात्मना यो बुद्धानां विषय इति | एवं विज्ञप्तिमात्रस्यापि विज्ञप्त्यन्तरपरिकल्पितेनात्मना नैरात्म्यप्रवेशात् विज्ञप्तिमात्रव्यवस्थापनया सर्वधर्माणां नैरात्म्यप्रवेशो भवति न तु तदस्तित्वापवादात् | इतरथा हि विज्ञप्तेर् अपि विज्ञप्त्यन्तरम् अर्थः स्याद् इति विज्ञप्तिमात्रत्वं न सिध्येतार्थवतीत्वाद् विज्ञप्तीनां ||
SK
कथं पुनर् इदं प्रत्येतव्यम् अनेनाभिप्रायेण भगवता रूपाद्यायतनास्तित्वम् उक्तं न पुनः सन्त्य् एव तानि यानि रूपादिविज्ञप्तीनां प्रत्येकं विषयीभवन्ति इति | यस्मात् |
SK
न तद् एकं न चानेकं विषयः परमाणुशः | न च ते संहता यस्मात् परमाणुर् न सिध्यति
SK
इति | किम् उक्तं भवति | यत् तद्रूपादिकम् आयतनं रूपादिविज्ञप्तीनां प्रत्येकं विषयः स्यात् तद् एकं वा स्याद् यथावयविरूपं कल्प्यते वैशेषिकैः | अनेकं वा परमाणुशः | संहता वा त एव परमाणवः | न तावद् एकं विषयो भवत्य् अवयवेभ्यो ऽन्यस्यावयविरूपस्य क्वचिद् अप्य् अग्रहणात् | नाप्य् अनेकं परमाणूनां (Vव्स्_७) प्रत्येकम् अग्रहणात् | नापि ते संहता विषयीभवन्ति | यस्मात् परमाणुर् एकं द्रव्यं न सिध्यति ||
SK
कथं न सिध्यति | यस्मात् |
SK
षट्केन युगपद् योगात् परमाणोः षडंशता |
SK
षड्भ्यो दिग्भ्यः षड्भिः परमाणुभिर् युगपद् योगे सति परमाणोः षडंशता प्राप्नोति | एकस्य यो देशस् तत्रान्यस्यासंभवात् |
SK
षण्णां समानदेशत्वात् पिण्डः स्याद् अणुमात्रकः
SK
अथ य एवैकस्य परमाणोर् देशः स एव षण्णां | तेन सर्वेषां समानदेशत्वात् सर्वः पिण्डः परमाणुमात्रः स्यात् परस्पराव्यतिरेकाद् इति न कश्चित् पिण्डो दृश्यः स्यात् ||
SK
नैव हि परमाणवः संयुज्यन्ते निरवयवत्वात् | मा भूद् एष दोषप्रसङ्गः | संहतास् तु परस्परं संयुज्यन्त इति काश्मीरवैभाषिकास् त इदं प्रष्टव्याः | यः परमाणूनां संघातो न स तेभ्यो ऽर्थान्तरम् इति |
SK
परमाणोर् असंयोगात् तत्संघाते ऽस्ति कस्य सः |
SK
संयोग इति वर्तते |
SK
न चानवयवत्वेन तत्संयोगो न सिध्यति
SK
अथ संघाता अप्य् अन्योन्यं न संयुज्यन्ते | न तर्हि परमाणूनां निरवयवत्वात् संयोगो न सिध्यतीति वक्तव्यं | सावयवस्यापि हि संघातस्य संयोगानभ्युपगमात् | तस्मात् परमाणुर् एकं द्रव्यं न सिध्यति | यदि च परमाणोः संयोग इष्यते यदि वा नेष्यते |
SK
दिग्भागभेदी यस्यास्ति तस्यैकत्वं न युज्यते |
SK
अन्यो हि परमाणोः पूर्वदिग्भागो यावद् अधोदिग्भाग इति दिग्भागभेदे सति कथं तदात्मकस्य परमाणोर् एकत्वं योक्ष्यते |
SK
छायावृती कथ वा
SK
यद्य् एकैकस्य परमाणोर् दिग्भागभेदो न स्याद् आदित्योदये कथम् अन्यत्र छाया भवत्य् अन्यत्रातपः | न हि तस्यान्यः प्रदेशो ऽस्ति यत्रातपो न स्यात् | आवरणं च कथं भवति परमाणोः परमाण्वन्तरेण यदि दिग्भागभेदो नेष्यते | न हि कश्चिद् अपि परमाणोः परभागो ऽस्ति यत्रागमनाद् अन्येनान्यस्य प्रतिघातः स्यात् | असति च प्रतिघाते सर्वेषां समानदेशत्वात् सर्वः संघातः (Vव्स्_८) परमाणुमात्रः स्याद् इत्य् उक्तं | किम् एवं नेष्यते पिण्डस्य ते छायावृती न परमाणोर् इति | किं खलु परमाणुभ्यो ऽन्यः पिण्ड इष्यते यस्य ते स्यातां | नेत्य् आह |
SK
अन्यो न पिण्डश् चेन् न तस्य ते
SK
यदि नान्यः परमाणुभ्यः पिण्ड इष्यते न ते तस्येति सिद्धं भवति | संनिवेशपरिकल्प एषः परमाणुः संघात इति वा ||
SK
किम् अनया चिन्तया लक्षणं / तु रूपादि यदि न प्रतिषिध्यते | किं पुनस् तेषां लक्षणं | चक्षुरादिविषयत्वं नीलादित्वं च | तद् एवेदं संप्रधार्यते | यत् तच् चक्षुरादीनां विषयो नीलपीतादिकम् इष्यते किं तद् एकं द्रव्यम् अथ वा तद् अनेकम् इति | किं चातः | अनेकत्वे दोष उक्तं |
SK
एकत्वे न क्रमेणेतिर् युगपन् न ग्रहाग्रहौ | विच्छिन्नानेकवृत्तिश् च सूक्ष्मानीक्षा च नो भवेत्
SK
यदि यावद् विच्छिन्नं नानेकं चक्षुषो विषयस् तद् एकं द्रव्यं कल्प्यते पृथिव्यां क्रमेणेतिर् न स्याद् गमनम् इत्य् अर्थः | सकृत्पादक्षेपेण सर्वस्य गतत्वात् | अर्वाग्भागस्य च ग्रहणं परभागस्य चाग्रहणं युगपन् न स्यात् | न हि तस्यैव तदानीं ग्रहणं चाग्रहणं च युक्तम् | विच्छिन्नस्य चानेकस्य हस्त्यश्वादिकस्यैकत्र वृत्तिर् न स्याद् यत्रैव ह्य् एकं तत्रैवापरम् इति कथं तयोर् विच्छेद इष्यते | कथं वा तद् एकं यत् प्राप्तं च ताभ्यां न च प्राप्तम् अन्तराले तच् छून्यग्रहणात् | सूक्ष्माणां चौदकजन्तूनां स्थूलैः समानरूपाणाम् अनीक्षणं न स्याद् | यदि लक्षणभेदाद् एव द्रव्यान्तरत्वं कल्प्यते नान्यथा | तस्माद् अवश्यं परमाणुशो भेदः कल्पयितव्यः | स चैको न सिध्यति | तस्यासिद्धौ रूपादीनां चक्षुरादिविषयत्वम् असिद्धम् इति सिद्धं विज्ञप्तिमात्रं भवतीति ||
SK
प्रमाणवशाद् अस्तित्वं नास्तित्वं वा निर्धार्यते सर्वेषां च प्रमाणानां प्रत्यक्षं प्रमाणं गरिष्टम् इत्य् असत्य् अर्थे कथम् इयं बुद्धिर् भवति प्रत्यक्षम् इति |
SK
प्रत्यक्षबुद्धिः स्वप्नादौ यथा
SK
विनाप्य् अर्थेनेति पूर्वम् एव ज्ञापितं
SK
सा च यदा तदा | न सो ऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतं
SK
यदा च सा प्रत्यक्षबुद्धिर् भवतीदं मे प्रत्यक्षम् इति तदा न सो ऽर्थो दृश्यते मनोविज्ञानेनैव परिच्छेदाच् चक्षुर्विज्ञानस्य च तदा निरुद्धत्वाद् इति कथं तस्य प्रत्यक्षत्वम् इष्टं | विशेषेण तु क्षणिकस्य विषयस्य तदानीं (Vव्स्_९) निरुद्धम् एवं तद् रूपं रसादिकं वा ||
SK
नाननुभूतं मनोविज्ञानेन स्मर्यत इत्य् अवश्यम् अर्थानुभवेन भवितव्यं तच् च दर्शनम् इत्य् एवं तद्विषयस्य रूपादेः प्रत्यक्षत्वं मतं | असिद्धम् इदम् अनुभूतस्यार्थस्य स्मरणं भवतीति | यस्मात् |
SK
उक्तं यथा तदाभासा विज्ञप्तिः
SK
विनाप्य् अर्थेन यथार्थाभासा चक्षुर्विज्ञानादिका विज्ञप्तिर् उत्पद्यते तथोक्तं |
SK
स्मरणं ततः |
SK
ततो हि विज्ञप्तेः स्मृतिसंप्रयुक्ता तत्प्रतिभासैव रूपादिविकल्पिका मनोविज्ञप्तिर् उत्पद्यत इति न स्मृत्युत्पादाद् अर्थानुभवः सिध्यति | यदि यथा स्वप्ने विज्ञप्तिर् अभूतार्थविषया तथा जाग्रतो ऽपि स्यात् तथैव तदभावं लोकः स्वयम् अवगच्छेत् | न चैवं भवति | तस्मान् न स्वप्न इवार्थोपलब्धिः सर्वा निरर्थिका | इदम् अज्ञापकं | यस्मात् |
SK
स्वप्नदृग्विषयाभावं नाप्रबुद्धो ऽविगच्छति
SK
एवं वितथविकल्पाभ्यासवासनानिद्रया प्रसुप्तो लोकः स्वप्न इवाभूतम् अर्थं पश्यन् न प्रबुद्धस् तदभावं यथावन् नावगच्छति | यदा तु तत्प्रतिपक्षलोकोत्तरनिर्विकल्पज्ञानलाभात् प्रबुद्धो भवति तदा तत्पृष्ठलब्धशुद्धलौकिकज्ञानसंमुखीभावाद् विषयाभावं यथावद् अवगच्छतीति समानम् एतत् ||
SK
यदि स्वसंतानपरिणामविशेषाद् एव सत्वानाम् अर्थप्रतिभासा विज्ञप्तय उत्पद्यन्ते नार्थविशेषात् | तदा य एष पापकल्याणमित्रसंपर्कात् सदसद्धर्मश्रवणाच् च विज्ञप्तिनियमः सत्त्वानां स कथं सिध्यति असति सदसत्संपर्के तद्देशनायां च |
SK
अन्योन्याधिपतित्वेन विज्ञप्तिनियमो मिथः |
SK
सर्वेषां हि सत्त्वानाम् अन्योन्यविज्ञप्त्याधिपत्येन मिथो विज्ञप्तेर् नियमो भवति यथायोगं | मिथ इति परस्परतः | अतः संतानान्तरविज्ञप्तिविशेषात् संतानान्तरे विज्ञप्तिविशेष उत्पद्यते नार्थविशेषात् | यदि यथा स्वप्ने निरर्थिका विज्ञप्तिर् एवं जाग्रतो ऽपि स्यात् कस्मात् कुशलाकुशलसमुदाचारो सुप्तासुप्तयोस् तुल्यं फलम् इष्टानिष्टम् आयत्यां न भवति | यस्मात् |
SK
मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलं
SK
इदम् अत्र कारणां न त्व् अर्थसद्भावः ||
SK
यदि विज्ञाप्तिमात्रम् एवेदं न कस्यचित् कायो ऽस्ति न वाक् ||
SK
कथम् उपक्रम्यमाणानाम् औरभ्रिकादिभिर् उरभ्रादीनां (Vव्स्_१०) मरणं भव्ति | अतत्कृते वा तन्मरणे कथम् औरभ्रिकादीनां प्राणातिपातावद्येन योगो भवति |
SK
मरणम् परविज्ञप्तिविशेषाद् विक्रिया यथा | स्मृतिलोपादिकान्येषां पिशाचादिमनोवशात्
SK
यथा हि पिशाचादिमनोवशाद् अन्येषां स्मृतिलोपस्वप्नदर्शनभूतग्रहावेशविकारा भवन्ति | ऋद्धिवन् मनोवशाच् च | यथा सारणस्यार्यमहाकात्यायनाधिष्ठानात् स्वप्नदर्शनं | आरण्यकर्षिमनःप्रदोषाच् च वेमचित्रपराजयः | तथा परविज्ञप्तिविशेषाधिपत्यात् परेषां जीवितेन्द्रियविरोधिनी काचिद् विक्रियोत्पद्यते यया सभागसंततिविच्छेदाख्यं मरणं भवतीति वेदितव्यं ||
SK
कथं वा दण्डकारण्यशून्यत्वम् ऋषिकोपतः |
SK
यदि परविज्ञप्तिविशेषाधिपत्यात् सत्त्वानां मरणं नेष्यते | मनोदण्डस्य हि महासावद्यत्वं साधयता भगवतोपालिर् गृहपतिः पृष्टः | कच्चित् ते गृहपते श्रुतं केन तानि दण्डकारण्यानि मातङ्गारण्यानि कलिङ्गारण्यानि शून्यानि मेध्यीभूतानि | तेनोक्तं | श्रुतं मे भो गौतम ऋषीणां मनःप्रदोषेणेति |
SK
मनोदण्डो महावद्यः कथं वा तेन सिध्यति
SK
यद्य् एवं कल्प्यते | तदभिप्रसन्नैर् अमानुषैस् तद्वासिनः सत्त्वा उत्सादिता न त्व् ऋषीणां मनःप्रदोषान् मृता इत्य् एवं सति कथं तेन कर्मणा मनोदण्डः कायवाग्दण्डाभ्यां महावद्यतमः सिद्धो भवति | तन्मनःप्रदोषमात्रेण तावतां सत्त्वानां मरणात् सिध्यति ||
SK
यदि विज्ञप्तिमात्रम् एवेदं परचित्तविदः किं परचित्तं जानन्त्य् अथ न | किं चातः | यदि न जानन्ति कथं परचित्तविदो भवन्ति | अथ जानन्ति |
SK
परचित्तविदां ज्ञानम् अयथार्थं कथं यथा | स्वचित्तज्ञानं
SK
तद् अपि कथम् अयथार्थ |
SK
अज्ञानाद् यथा बुद्धस्य गोचरः
SK
यथा तन्निरभिलाप्येनात्मना बुद्धानां गोचरः | तथा तदज्ञानात् तदुभयं न यथार्थं वितथप्रतिभासतया ग्राह्यग्राहकविकल्पस्याप्रहीणत्वात् ||
SK
अनन्तविनिश्चयप्रभेदागाम्भीर्यायां विज्ञप्तिमात्रतायां |
SK
विज्ञप्तिमात्रतासिद्धिः स्वशक्तिसदृशी मया | कृतेयं सर्वथा सा तु न चिन्त्या
SK
सर्वप्रकारा तु सा मादृशैश् चिन्तयितुं न शक्यते | तर्काविषयत्वात् | कस्य पुनः सा सर्वथा गोचर इत्य् आह |
SK
बुद्धगोचरः
SK
बुद्धानां हि सा भगवतां सर्वप्रकारं गोचरः सर्वाकारसर्वज्ञेयज्ञानाविघाताद् इति ||
SK
विंशतिका विज्ञप्तिमात्रतासिद्धिः | कृतिर् इयम् आचार्यवसुबन्धोः |

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vasubandhu: Viṃśatikā vijñaptimātratāsiddhi (sa_vasubandhu-viMzatikA-vijJaptimAtratAsiddhi.htm).

Source