न देशकालनियमः संतानानियमो न च | न च कृत्यक्रिया युक्ता विज्ञप्तिर् यदि नार्थतः
SK
किम् उक्तं भवति | यदि विना रूपाद्यर्थेन रूपादिविज्ञप्तिर् उत्पद्यते न रूपाद्यर्थात् | कस्मात् क्वचिद् देश उत्पद्यते न सर्वत्र | तत्रैव च देशे कदाचिद् उत्पद्यते न सर्वदा | तद्देशकालप्रतिष्ठितानां सर्वेषां संतानानियम उत्पद्यते न केवलम् एकस्य | यथा तैमिरिकाणां संताने केशाद्याभासो नान्येषां | कस्माद् यत् तैमिरिकैः केशभ्रमरादि दृश्यते तेन केशादिक्रिया न क्रियते न च तद् अन्यैर् न क्रियते | यद् अन्नपानवस्त्रविषायुधादि स्वप्ने दृश्यते तेनान्नादिक्रिया न क्रियते न च तद् अन्यैर् न क्रियते | गन्धर्वनगरेणासत्त्वान् नगरक्रिया न क्रियते न च तद् अन्यैर् न क्रियते | तस्माद् असदभावावभासने देशकालनियमः संतानानियमः कृत्यक्रिया च न युज्यते | न खलु न युज्यते | यस्मात् |
SK
देशादिनियमः सिद्धः स्वप्नवत्
SK
स्वप्न इव स्वप्नवत् | कथं तावत् | स्वप्ने विनाप्य् अर्थेन क्वचिद् एव देशे किंचिद् भ्रमरारामस्त्रीपुरूषादिकं दृश्यते न सर्वत्र | तत्रैव च देशे कदाचिद् दृश्यते न सर्वकालम् इति सिद्धो विनाप्य् अर्थेन देशकालनियमः |
SK
प्रेतवत् पुनः | संतानानियमः
SK
सिद्ध इति वर्तते | प्रेतानाम् इव प्रेतवत् | कथं सिद्धः समं |
SK
सर्वैः पूयनद्यादिदर्शने
SK
पूयपूर्णा नदी पूयनदी | घृतघटवत् | तुल्यकर्मविपाकावस्था हि प्रेताः सर्वे ऽपि पूयपूर्णां नदीं पश्यन्ति नैक एव | यथा पूयपूर्णाम् एवं मूत्रपुरीषादिपूर्णां दण्डासिधरैश् च पुरुषैर् अधिष्ठिताम् इत्य् आदिग्रहणेन | एवं संतानानियमो विज्ञप्तिनाम् असत्य् अप्य् अर्थे सिद्धः ||
SK
स्वप्नोपघातवत् कृत्यक्रिया
SK
सिद्ध इति वेदितव्यं | यथा स्वप्ने द्वयसमापत्तिम् अन्तरेण शुक्रविसर्गलक्षणः स्वप्नोपघातः | एवं तावद् अन्यान्यैर् दृष्टान्तैर् देशकालनियमादिचतुष्टयं सिद्धं |
किं पुनः कारणं नरकपालास् ते च श्वानो वायसाश् च सत्त्वा नेष्यन्ते | अयोगात् | न हि ते नारका युज्यन्ते | तथैव तद्दुःखाप्रतिसंवेदनात् | परस्परं यातयताम् इमे नारका इमे नरकपाला इति व्यवस्था न स्यात् | तुल्याकृतिप्रमाणबलानां च परस्परं यातयतां न तथा भयं स्यात् | दाहदुःखं च प्रदीप्तायाम् अयोमय्यां भूमाव् असहमानाः कथं तत्र परान् यातयेयुः | अनारकाणां वा नरके कुतः संभवः | कथं तावत् तिरश्चां स्वर्गसंभवः | एवं नरकेषु तिर्यक्प्रेतविशेषाणां नरकपालादीनां संभवः स्यात् |
SK
तिरश्चां संभवः स्वर्गे यथा न नरके तथा | न प्रेतानां यतस् तज्जं दुःखं नानुभवन्ति ते
SK
ये हि तिर्यञ्चः स्वर्गे संभवन्ति ते तद्भाजनलोकसुखसंवर्तनीयेन कर्मणा तत्र संभूतास् तज्जं सुखं प्रत्यनुभवन्ति | न चैव नरकपालादयो नारकं दुःखं प्रत्यनुभवन्ति | तस्मान् न तिरश्चां संभवो युक्तो नापि प्रेतानां ||
SK
तेषां तर्हि (Vव्स्_५) नारकाणां कर्मभिस् तत्र भूतविशेषाः संभवन्ति वर्णाकृतिप्रमाणबलविशिष्टा ये नरकपालादिसंज्ञां प्रतिलभन्ते | तथा च परिणमन्ति | यद् द्विधां हस्तविक्षेपादिक्रियां कुर्वन्तो दृश्यन्ते भयोत्पादनार्थं | यथा मेषाकृतयः पर्वता आगच्छन्तो गच्छन्तो ऽयःशाल्मलीवने च कण्टका अधोमुखीभवन्त ऊर्द्ध्वमुखीभवन्तश् चेति | न ते न संभवन्त्य् एव |
SK
यदि तत्कर्मभिस् तत्र भूतानां संभवस् तथा | इष्यते परिणामश् च किं विज्ञानस्य नेष्यते
किम् उक्तं भवति | रूपप्रतिभासा विज्ञप्तिर् यतः स्वबीजात् परिणामविशेषप्राप्ताद् उत्पद्यते तच् च बीजं यत् प्रतिभासा च सा ते तस्या विज्ञप्तेश् चक्षूरूपायतनत्वेन (Vव्स्_६) यथाक्रमं भगवान् अब्रवीत् | एवं यावत् स्प्रष्टव्यप्रतिभासा विज्ञप्तिर् यतः स्वबीजात् परिणामविशेषप्राप्ताद् उत्पद्यते तच् च बीजं यत् प्रतिभासा च सा ते तस्या कायस्प्रष्टव्यायतनत्वेन यथाक्रनं भगवान् अब्रवीद् इत्य् अयम् अभिप्रायः ||
SK
एवं पुनर् अभिप्रायवशेन देशयित्वा को गुणाः |
SK
तथा पुद्गलनैरात्म्यप्रवेशो हि
SK
तथा हि देश्यमाने पुद्गलनैरात्म्यं प्रविशन्ति | द्वयाद् विज्ञानषट्कं प्रवर्तते | न तु कश्चिद् एको द्रष्टास्ति न यावन् मन्तेत्य् एवं विदित्वा ये पुद्गलनैरात्म्यदेशनाविनेयास् ते पुद्गलनैरात्म्यं प्रविशन्ति |
SK
अन्यथा पुनः | देशना धर्मनैरात्म्यप्रवेशः
SK
अन्यथेति विज्ञप्तिमात्रदेशना | कथं धर्मनैरात्म्यप्रवेशः | विज्ञप्तिमात्रम् इदं रूपादिधर्मप्रतिभासम् उत्पद्यते न तु रूपादिलक्षणो धर्मः को ऽप्य् अस्तीति विदित्वा | यदि तर्हि सर्वथा धर्मो नास्ति तद् अपि विज्ञप्तिमात्रं नास्तीति कथं तर्हि व्यवस्थाप्यते | न खलु सर्वथा धर्मो नास्तीत्य् एवं धर्मनैरात्म्यप्रवेशो भवति | अपि तु |
SK
कल्पितात्मना
SK
यो बालैर् धर्माणां स्वभावो ग्राह्यग्राहकादिः परिकल्पतस् तेन कल्पितेनात्मना तेषां नैरात्म्यं न त्व् अनभिलाप्येनात्मना यो बुद्धानां विषय इति | एवं विज्ञप्तिमात्रस्यापि विज्ञप्त्यन्तरपरिकल्पितेनात्मना नैरात्म्यप्रवेशात् विज्ञप्तिमात्रव्यवस्थापनया सर्वधर्माणां नैरात्म्यप्रवेशो भवति न तु तदस्तित्वापवादात् | इतरथा हि विज्ञप्तेर् अपि विज्ञप्त्यन्तरम् अर्थः स्याद् इति विज्ञप्तिमात्रत्वं न सिध्येतार्थवतीत्वाद् विज्ञप्तीनां ||
SK
कथं पुनर् इदं प्रत्येतव्यम् अनेनाभिप्रायेण भगवता रूपाद्यायतनास्तित्वम् उक्तं न पुनः सन्त्य् एव तानि यानि रूपादिविज्ञप्तीनां प्रत्येकं विषयीभवन्ति इति | यस्मात् |
SK
न तद् एकं न चानेकं विषयः परमाणुशः | न च ते संहता यस्मात् परमाणुर् न सिध्यति
SK
इति | किम् उक्तं भवति | यत् तद्रूपादिकम् आयतनं रूपादिविज्ञप्तीनां प्रत्येकं विषयः स्यात् तद् एकं वा स्याद् यथावयविरूपं कल्प्यते वैशेषिकैः | अनेकं वा परमाणुशः | संहता वा त एव परमाणवः | न तावद् एकं विषयो भवत्य् अवयवेभ्यो ऽन्यस्यावयविरूपस्य क्वचिद् अप्य् अग्रहणात् | नाप्य् अनेकं परमाणूनां (Vव्स्_७) प्रत्येकम् अग्रहणात् | नापि ते संहता विषयीभवन्ति | यस्मात् परमाणुर् एकं द्रव्यं न सिध्यति ||
नैव हि परमाणवः संयुज्यन्ते निरवयवत्वात् | मा भूद् एष दोषप्रसङ्गः | संहतास् तु परस्परं संयुज्यन्त इति काश्मीरवैभाषिकास् त इदं प्रष्टव्याः | यः परमाणूनां संघातो न स तेभ्यो ऽर्थान्तरम् इति |
SK
परमाणोर् असंयोगात् तत्संघाते ऽस्ति कस्य सः |
SK
संयोग इति वर्तते |
SK
न चानवयवत्वेन तत्संयोगो न सिध्यति
SK
अथ संघाता अप्य् अन्योन्यं न संयुज्यन्ते | न तर्हि परमाणूनां निरवयवत्वात् संयोगो न सिध्यतीति वक्तव्यं | सावयवस्यापि हि संघातस्य संयोगानभ्युपगमात् | तस्मात् परमाणुर् एकं द्रव्यं न सिध्यति | यदि च परमाणोः संयोग इष्यते यदि वा नेष्यते |
SK
दिग्भागभेदी यस्यास्ति तस्यैकत्वं न युज्यते |
SK
अन्यो हि परमाणोः पूर्वदिग्भागो यावद् अधोदिग्भाग इति दिग्भागभेदे सति कथं तदात्मकस्य परमाणोर् एकत्वं योक्ष्यते |
SK
छायावृती कथ वा
SK
यद्य् एकैकस्य परमाणोर् दिग्भागभेदो न स्याद् आदित्योदये कथम् अन्यत्र छाया भवत्य् अन्यत्रातपः | न हि तस्यान्यः प्रदेशो ऽस्ति यत्रातपो न स्यात् | आवरणं च कथं भवति परमाणोः परमाण्वन्तरेण यदि दिग्भागभेदो नेष्यते | न हि कश्चिद् अपि परमाणोः परभागो ऽस्ति यत्रागमनाद् अन्येनान्यस्य प्रतिघातः स्यात् | असति च प्रतिघाते सर्वेषां समानदेशत्वात् सर्वः संघातः (Vव्स्_८) परमाणुमात्रः स्याद् इत्य् उक्तं | किम् एवं नेष्यते पिण्डस्य ते छायावृती न परमाणोर् इति | किं खलु परमाणुभ्यो ऽन्यः पिण्ड इष्यते यस्य ते स्यातां | नेत्य् आह |
SK
अन्यो न पिण्डश् चेन् न तस्य ते
SK
यदि नान्यः परमाणुभ्यः पिण्ड इष्यते न ते तस्येति सिद्धं भवति | संनिवेशपरिकल्प एषः परमाणुः संघात इति वा ||
सा च यदा तदा | न सो ऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतं
SK
यदा च सा प्रत्यक्षबुद्धिर् भवतीदं मे प्रत्यक्षम् इति तदा न सो ऽर्थो दृश्यते मनोविज्ञानेनैव परिच्छेदाच् चक्षुर्विज्ञानस्य च तदा निरुद्धत्वाद् इति कथं तस्य प्रत्यक्षत्वम् इष्टं | विशेषेण तु क्षणिकस्य विषयस्य तदानीं (Vव्स्_९) निरुद्धम् एवं तद् रूपं रसादिकं वा ||
यदि स्वसंतानपरिणामविशेषाद् एव सत्वानाम् अर्थप्रतिभासा विज्ञप्तय उत्पद्यन्ते नार्थविशेषात् | तदा य एष पापकल्याणमित्रसंपर्कात् सदसद्धर्मश्रवणाच् च विज्ञप्तिनियमः सत्त्वानां स कथं सिध्यति असति सदसत्संपर्के तद्देशनायां च |