The Heart of Dependent Origination Explained

Pratītyasamutpādahṛdayavyākhyāna · Pरतीत्यसमुत्पादहृदयव्याख्यान

The Heart of Dependent Origination Explained

Pratītyasamutpādahṛdayavyākhyāna

Pरतीत्यसमुत्पादहृदयव्याख्यान

SK
Pरतीत्यसमुत्पादहृदयव्याख्यानम् (Pह्व्)
SK
आचार्य नागार्जुनकृतम्
SK
इह कश्चित् शुश्रूषमाणः श्रमणः श्रवण धारणोहापोहशक्तिसम्पन्नः शिष्य आचार्यस्य पाद [मूल] मागम्य तथागतशासनमारभ्य एवं पृष्टवान् - भगवन् अत्र
SK
द्वादश ये ऽङ्गविशेषा मुनिनोद्दिष्टाः प्रतीत्यसम्भूताः / क्व तेषां सङ्ग्रह इति श्रोतुमिच्छामि / इति /
SK
तस्य तेषां धर्माणां तत्त्ववुभुत्सामवेत्य आचार्य इदमुक्तवान् तें क्लेशकर्मदुःखेषु सङ्गृहीतास्त्रिषु[यथावन्] // Pस्ह्क्_१ //
SK
तत्र दश च द्वौ च द्वादश / अङ्गान्येव विशेषा अङ्गविशेषाः / रथाङ्गवदङ्गभाव उक्तः / कायवाङमनोमौनान्मुनिः / तेन मुनिनोद्दिष्टाः कथिताः प्रकाशिता इति पर्यायाः / ते च न प्रकृतिनियतिपुरुषपराधीनकर्मईश्वरकालस्वभावयथेच्छाप्रजापतियदृच्छादिकारणप्रसूताः / किं तर्हि प्रतीत्यसम्भूताः / ते द्वादशाङ्गविशेषाः क्लेशकर्मदुःखा अन्योन्यं प्रतीत्य नडकलापयोगेन त्रिषु यथावत् संक्षिप्ताः / यथावदिति अशेषेणेत्यर्थः // Pह्व्_१ //
SK
पृच्छति / के पुनस्ते क्लेशाः / किं कर्म / किं दुःखम् येषु इमे प्रत्ययविशेषाः सङ्ग्रहं गच्छन्ति / आह -
SK
आद्याष्टमनवमाः स्युः क्लेशाः / द्वादशाङ्गविशेषाणां[मध्ये] आद्या अविद्या, अष्टमी तृष्णा, नवममुपादानम् इमे त्रयः क्लेशसङ्गृहीताः प्रत्यवगन्तव्याः / किं कर्म /
SK
कर्म द्वितीयदशमौ च / संस्कारो द्वितीयः भवो दशमः /[इमा] द्वौ धर्मौ कर्मसङ्गृहीतौ वेदितव्यौ /
SK
शेषाः सप्त च दुःखम् कर्मक्लेशसङ्गृहीताना [मङ्ग] विशेषाणां ये शेषा[अङ्ग] विशेषाः सप्त च ते दुःख[सङ्गृहीता] वेदितव्याः / तद्यथा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना जातिजरामरणम् / च शब्दः प्रियवियोगाप्रियसंयोगेष्टविघातदुःखानि सञ्चिनोति /
SK
त्रिसङ्ग्रहा द्वादश तु धर्माः // Pस्ह्क्_२ //
SK
अत्र एते द्वादश धर्माः कर्मक्लेशदुःखा[ख्या] वेदितव्याः /[अन्यूना] धिकज्ञपनार्थस्तु शब्दः / एतावन्त एवेमे सूत्रान्तनिर्दिष्टा नातः परमस्तीति परिगणितम् // Pह्व्_२ //
SK
पृच्छति / क्लेशकर्मदुःखाना[मेषां] कुतः किमुत्पद्यत इति व्याख्यातुं प्रार्थये / आह -
SK
त्रिभ्या भवति द्वन्द्वम् क्लेशाख्येभ्यस्त्रिभ्यः कर्माख्यं द्वन्द्वमुत्पद्यते / द्वन्द्वात्प्रभवन्ति सप्त दुःखाख्याः पूर्वनिर्दिष्टाः / सप्तभ्यः / त्रय उद्भवन्ति क्लेशाख्याः / तेभ्यस्त्रिभ्यः क्लेशेभ्यश्च द्वन्द्वमुत्पद्यते / भूयस्तदेव तु भ्रमति भवचक्रम् // Pस्ह्क्_३ //
SK
भवाः कामरूपारूप्यसंशब्दिताः / [ते च] अनवस्थानाच्चक्रभूताः / तेषु पृथग्जनो लोक एव परिभ्रमति / तुशब्दश्च अनियतज्ञापनार्थः / यथा चक्रमनुपूर्व्यां परिभ्रमति / न तथा त्रिषु भवेषूत्पत्तिः / [किं तर्हि] नियमो नास्तीति ज्ञापयति // Pह्व्_३ //
SK
पृच्छति / अथ सर्वदेहेश्वरः सत्त्वाख्यः कर्ता / तेषु तस्य क्रिया कीदृशी / आह -
SK
हेतुफलञ्च हि जगत् प्रज्ञप्तिं विहाय अन्यो नास्ति कश्चिदिह सत्त्वः / परमार्थतः कल्पितः / कल्पितश्च नास्ति / कल्पितमात्रविषये(काम) इष्टद्रव्यं सत् न युज्यते /
SK
पृच्छति / यद्येवम्, तर्हि अस्माल्लोकात् कः परलोकं सङ्क्रामति / आह / अस्माल्लोकात्परलोकं सूक्ष्मो ऽणुरपि न सङ्क्रामति / अथ च शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः // Pस्ह्क्_४ //
SK
आत्मात्मीयरहितेभ्यो धर्मेभ्यः क्लेशकर्माख्येभ्यः पञ्चहेतुभ्यः शून्येभ्य आत्मात्मीयरहिता दुःखतया कथिताः फलकल्पिताः शून्याः सप्त धर्माः प्रभवन्तीत्यर्थः / तद्यथा आत्मात्मीयरहितास्ते नान्योन्यं पुनरात्मीयाः / अथ च स्वभावतो ऽनात्मधर्मभ्यः स्वभावतो ऽनात्मधर्माः प्रभवन्ति / एवमवगन्तव्यमिति ज्ञापितम् // Pह्व्_४ //
SK
अत्र स्वभावतो ऽनात्मधर्मेभ्य एव स्वभावतो ऽनात्मधर्माः प्रभवन्ति इत्यत्र को दृष्टान्तः / अत्रोच्यते -
SK
स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्लैः / एभ्यो दृष्टान्तेभ्यः कल्पितेभ्यो ऽपि स्वभावतो ऽनात्मनश्च परलोकसिद्धिर्वेदितव्या / तद्यथा - गुरुमुखादुश्चरिता यदि शिष्यं सङ्क्रामन्ति / गुरुणोच्चरितास्तद्विराहता अपि स्युरिति न सङ्क्रामन्ति / शिष्येण प्रोक्तमपि नान्यतो ऽस्ति / अहेतुभूतत्वात् / यथा गुरुमुखादुच्चरिताः तथा मरणांशिकचित्तमपि / शाश्वत[आख्य] दोषः स्यात् परलोके न सङ्क्रमः / परलोको ऽपि नान्यतो भवति / अहेतुदोषसत्त्वात् / यथा गुरुणोच्चारितहेतोः शिष्येणो[च्चारितः] स एव अन्यो वा इति न निर्णेतुं शक्यते / तथा मरणचित्तं प्रतीत्य औपपत्त्यंशिकं चित्तमपि तदेव तातो ऽन्यद्वा इति न वक्तुं शक्यते / तथा / यथा प्रदीपात्प्रदीपः, मुखात् दर्पणे प्रतिबिम्बमुत्पद्यते / मुद्रातः प्रतिमुद्रोत्पद्यते / अर्ककान्तादग्निः बीजादङ्कुरफलानि अम्लरसात् रसवत्पुनः, शब्दात्प्रतिश्रुत्कश्चोत्पद्यते / ते च त एव वा ततो ऽन्ये वा इति न ज्ञातुं शक्यते / तथा -
SK
स्कन्धप्रतिसन्धिरसङ्क्रमश्च विद्वद्भिरवधार्यौ // Pस्ह्क्_५ //
SK
तत्र पञ्चस्कन्धा रूपवेदनासंज्ञासंस्कारविज्ञानाख्याः स्कन्धाः / तेषां प्रतिसन्धिर्निषिद्धः / हेतोर्हि फलमन्यदुत्पद्यते / अस्मात् लोकात्परलोकं न को ऽपि भावः सूक्ष्मो ऽपि सङ्क्रामति / एवं चक्रभ्रमणं भ्रान्तिविकल्पवासनया समुत्पद्यते / अन्त इति तु विपर्ययः / ततो निवर्तयितव्यम् / अनित्यदुःखशून्यानात्मभावान् न नित्यभावान् व्यामुह्यात् / असति व्यामोहे न रागः / असति रागे न द्वेषः / असति द्वेषे न कर्म करोति / असति कर्मणि नोपादीयते भावः / असत्युपादाने न भवमभिसंस्करोति / असति भवे न जातिः / असत्यां जातौ न कायचित्तयोर्दुःखं भवेत / एवमचिन्त्यात् तद्धेतुपञ्चकान्नान्यत्फलमुत्पद्यते / अयं मोक्षो वेदितव्यः / एवं शाश्वतोच्छेदादिदुर्दृष्टयो ऽपनीता भवन्ति // Pह्व्_५ //
SK
अत्र द्वौ श्लोकौ भवतः -
SK
य उच्छेदं प्रकल्पयत्यतिसूक्ष्मे ऽपि वस्तुनि / प्रतीत्यसम्भवस्यार्थमविज्ञः स न पश्यति // Pस्ह्क्_६ //
SK
नापनेयमतः किञ्चित्प्रक्षेप्यं नापि किञ्चन / भूतश्च भूततो दृष्ट्वा भूतदर्शी विमुच्यते // Pस्ह्क्_७ //
SK
आचार्य नागार्जुनकृतं प्रतीत्यसमुत्पादहृदयव्याख्यानं समाप्तम् /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Pratītyasamutpādahṛdayavyākhyāna (sa_nAgArjuna-pratItyasamutpAdahRdayavyAkhyAna.htm).

Source