The Kālottara in Three Hundred and Fifty Verses

Sārdhatriśatikālottara · सार्धत्रिशतिकालोत्तरम्

The Kālottara in Three Hundred and Fifty Verses

Sārdhatriśatikālottara

सार्धत्रिशतिकालोत्तरम्

SK
भगवन्देवदेवेश लोकनाथ जगत्पते मन्त्रतन्त्रं त्वया प्रोक्तं विस्तराद्वस्तुसाधनम् //
SK
अल्पायुषस्त्विमे मर्त्या अल्पवीर्याल्पबुद्धयः अल्पसत्त्वाल्पवित्ताश्च लोभमोहासमन्विताः //
SK
अल्पग्रन्थं महार्थं च पदार्थानीकसंकुलम् वक्तुमर्हसि देवैषां प्रसादार्थं मम प्रभो //
SK
अथातः सम्प्रवक्ष्यामि शास्त्रं परमदुर्लभम् नाम्ना तु वातुलात्तन्त्राद् दध्नो घृतमिवोद्धृतम् //
SK
नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् मुक्तिदं परमं किं च दिव्यसिद्धिप्रदायकम् //
SK
तद्विदित्वा महासेन देशिकः पाशहा भवेत् आगोपालाङ्गना बाला म्लेच्छाः प्राकृतभाषिणः //
SK
अन्तर्जलगताः सत्त्वास्ते अपि नित्यं ब्रुवन्ति तम् स्थूलं सूक्ष्मं परं ज्ञात्वा कर्म कुर्याद्यथेप्सितम् //
SK
स्थूलं शब्द इति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् चिन्तया रहितं यत्तु तत्परं परिकीर्तितम् //
SK
सान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम् ब्रह्माणि ह्रस्वाः प्रोक्तानि दीर्घा ह्यङ्गानि षण्मुख //
SK
अनुस्वारो भवेन्नेत्रं सर्वेषां चोपरि स्थितः सविसर्गं भवेदस्त्रम् अनुस्वारविवर्जितम् //
SK
षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत् शिवं तत्तु विजानीयान् मन्त्रमूर्तिं सदाशिवम् //
SK
षष्ठमस्य द्वितीयं तु चतुर्थाद्येन संयुतम् द्वितीयात्पञ्चमाच्चैव आदिमं योजयेत्पुनः //
SK
हन्ति विघ्नाञ्शिवास्त्रेण शिखया मुक्तिदं स्मृतम् एतत्पाशुपतं दिव्यं सर्वपाशनिकृन्तनम् //
SK
ब्रह्माणि च शिवं साङ्गं नेत्रं पाशुपतं च यत् समासात्कथितः सर्वो मन्त्रोद्धारस्त्वयं शुभः //
SK
अस्य मुद्रां प्रवक्ष्यामि साधकानां हिताय वै हस्ताभ्यां संस्पृशेत्पादाद् ऊर्ध्वं यावत्तु मस्तकम् //
SK
एषा मुद्रा महामुद्रा सर्वकामार्थसाधिका करन्यासं पुरा कृत्वा मुद्राबन्धं तु कारयेत् //
SK
तलिकां हस्तपृष्ठं च अस्त्रबीजेन शोधयेत् कनिष्ठामादितः कृत्वा अङ्गुष्ठं चाप्यपश्चिमम् //
SK
ब्रह्माणि विन्यसेत्तत्र तथैवाङ्गानि यत्नतः प्रासादं विन्यसेत्पश्चाद् व्यापिनं सर्वतोमुखम् //
SK
प्रथमः पटलः
SK
अन्तःकरणविन्यासो भूतशुद्धिस्तथैव च भूतशुद्धिं पुरा कृत्वा ततो ऽन्तःकरणं कुरु //
SK
हृद्बीजं पार्थिवे युक्तं पार्थिवीं धारयेत्क्रमात् शिरो ऽप्सु तेजसि शिखां कवचं वायुना सह //
SK
अस्त्रं च शिवसंयुक्तम् आकाशं धारयेत्सदा हुंफडन्तेन पटलं भित्त्वा चोर्ध्वं विशेषतः //
SK
पञ्चोद्घाताश्च चत्वारस् त्रयो द्वावेक एव च द्वादशान्ते निरालम्बं विज्ञानं केवलं स्थितम् //
SK
दीक्षायां तु यथा वत्स तत्प्रयोगं समाचरेत् प्रक्रियान्तस्थममृतं स्रवन्तं चिन्तयेत्ततः //
SK
ओमित्यनेन कमलं योगपीठं तदा भवेत् सूर्यमण्डलसंकाशम् अकारं ह्यात्मसम्भवम् //
SK
विद्यातत्त्वमुकारं तु शिवतत्त्वं मकारजम् पुर्यष्टकं च तन्मात्रं तुर्यातीतं सदाशिवम् //
SK
चिन्तयेत्परमं धाम सुषुम्नाभिन्नमस्तकम् तेनाप्लावितमात्मानं परिपूर्णं विचिन्तयेत् //
SK
यो ऽभसेदीदृशं मर्त्यः समाधिं मृत्युनाशनम् न तस्य जायते मृत्युर् इति शास्त्रस्य निश्चयः //
SK
पश्चाद्गुरोः साधकानां मूर्तेस्तु ग्रहणं भवेत् ईशानाद्यास्तु सद्यान्तं मूर्ध्न आरभ्य विन्यसेत् //
SK
नेत्रं दत्त्वा तदावाह्यो देवदेवः सदाशिवः सर्वज्ञं च तदात्मानं चिन्तयेत्तु विचक्षणः //
SK
हृदयं च शिरश्चैव शिखां कवचमेव च न्यसेदस्त्रं च मन्त्रज्ञो यथास्थानेष्वनुक्रमात् //
SK
हृदये ऽर्चाविधानं तु नाभौ होमं प्रकल्पयेत् ललाटे त्वीश्वरं ध्यायेद् वरदं सर्वतोमुखम् //
SK
यथार्चने तथाग्नौ च ध्याने स्नाने तथैव च यथा देवे तथा देहे चिन्तयेत्तु विचक्षणः //
SK
कृत्वान्तःकरणं ह्येवं पश्चाद्बाह्यं तु षण्मुख सबाह्यन्तरं कृत्वा पश्चाद्यजनमारभेत् //
SK
अन्तःकरणविन्यासपटलः इति द्वितीयः पटलः
SK
अतः परं प्रवक्ष्यामि स्नानं पापहरं शुभम् सकृज्जप्तेन संगृह्य मृदा अस्त्रेण मन्त्रवित् //
SK
मलस्नानं पुरा कृत्वा सकृज्जप्त्वा तु संहिताम् तामेव मृत्तिकां पश्चाद् अभिमन्त्र्य सकृत्सकृत् //
SK
भागत्रयं ततः कृत्वा एकमस्त्रेण मन्त्रयेत् द्वितीयं ब्रह्मभिर्वत्स शिवजप्तं तृतीयकम् //
SK
अस्त्रजप्तेन भागेन दिशां बन्धं तु कारयेत् शिवजप्तेन तीर्थं तु ब्रह्मजप्तेन विग्रहम् //
SK
कुण्ठयित्वा ततः स्नायाच् छिवतीर्थस्य मध्यतः चक्रवत्युपचारेण सुगन्धामलकादिभिः //
SK
उपस्पृश्य विधानेन संध्यां वन्देत साधकः मन्त्रैः सर्वैः सकृद्वत्स उपस्थानं तु कारयेत् //
SK
अभिषेकं पुरा कृत्वा ततः संध्यां समाचरेत् अस्त्रं न योजयेद्देहे क्षिपेत्तद्बहिरेव च //
SK
शरीरं शोषयेद्वत्स तेनात्मनि न योजयेत् विघ्नेषु पाशजालेषु सदा योज्यं विचक्षणैः //
SK
हृदयेन ततो विद्वान् पितृदेवांश्च तर्पयेत् संहारं तस्य तीर्थस्य प्रासादेनैव कारयेत् //
SK
वारुणस्नानप्रकरणम् इति तृतीयः पटलः
SK
भस्मस्नानं प्रवक्ष्यामि तदूर्ध्वं च षडानन मन्त्रैः सर्वैः सकृद्भस्म अभिमन्त्र्य यथाक्रमम् //
SK
जलस्नानं पुरा कृत्वा अस्त्रबीजेन षण्मुख विधिस्नानं ततः कुर्यान् मूर्ध्न आरभ्य मन्त्रवित् //
SK
ईशानेन शिरः स्नायान् मुखं तत्पुरुषेण तु हृदयं बहुरूपेण गुह्यं वै गुह्यकेन तु //
SK
सर्वाङ्गाणि त्वजातेन अभिषेकं तु पञ्चभिः उपरिष्टात्प्रसादेन स्नानं कुर्वीत षण्मुख //
SK
भस्मस्नानप्रकरणम् इति चतुर्थः पटलः
SK
यजनं संप्रवक्ष्यामि यथाविध्यनुपूर्वशः बीजाङ्कुरं पुरा शक्त्या पश्चादानन्तमासनम् //
SK
अनन्तं चान्तगं कुर्यात् क्रमेणैव षडानन हृदयं कर्णिका पद्मं धर्मं ज्ञानादिमेव च //
SK
वैराग्यं च तथैश्वर्यम् ईशान्तं वह्नितो न्यसेत् शक्तिभिः केसरव्यूहं हृदयेन च कल्पयेत् //
SK
आवाहयेत्ततो देवं हृदयेन तु षण्मुख स्थापनं पाद्यमर्घ्यं च तथाचमनमेव च //
SK
स्नपनं पूजनं चैव हृदयेन तु कारयेत् उक्तानुक्तं च यत्किञ्चित् तत्सर्वं हृदयेन तु //
SK
एकावरणमेतत्तु सर्वकामार्थसाधनम् सर्वतन्त्रेषु सामान्यं सर्वज्ञानेषु चोत्तमम् //
SK
यजनप्रकरणम् इति पञ्चमः पटलः
SK
अतः परं प्रवक्ष्यामि अग्निकार्यविधिं क्रमात् अस्त्रेणोल्लेखनं कुर्याद् वर्मणाभ्युक्षणं ततः //
SK
शक्तिन्यासं ततो दर्भैर् हृदयेनैव कारयेत् हृदा वै शक्तिगर्भे तु प्रक्षिपेज्जातवेदसम् //
SK
गर्भाधानादिकं कृत्वा निष्कृतिं चाप्यपश्चिमाम् हृदयेनैव मन्त्रज्ञः सर्वकर्माणि कारयेत् //
SK
पश्चात्पद्मविधानं तु प्रागुक्तं परिकल्पयेत् शिवादिसर्वमन्त्रांश्च होमयेदनुपूर्वशः //
SK
अग्निकार्यप्रकरणम् इति षष्ठः पटलः
SK
अतः परं प्रवक्ष्यामि मण्डलं सार्वकामिकम् भूमिशोधनं कृत्वा शास्त्रदृष्टेन कर्मणा //
SK
अधिवासं ततः कृत्वा नक्षत्रे गुरुणान्विते आलिखेन्मण्डलं प्राज्ञः सर्वसिद्धिप्रदं शुभम् //
SK
सूत्रेण सुमितं कृत्वा चतुरश्रं समन्ततः मध्ये पद्मं प्रतिष्ठाप्यम् अष्टपत्र सकर्णिकम् //
SK
एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा स्वतन्त्रविहितं प्राज्ञो लिखेदावरणत्रयम् //
SK
वाहयेत्पश्चिमद्वारम् आचार्यः सुसमाहितः आग्नेय्यां कारयेत्कुण्डं हस्तमात्रप्रमाणतः //
SK
यज्ञकर्मविधिं कुर्यात् सुसमिद्धे हुताशने पूर्वादारभ्य वक्त्रादीन् विन्यसेदनुपूर्वशः //
SK
पवित्राणि पुरा न्यस्य शिवाङ्गानि न्यसेत्ततः आग्नेय्यां हृदयं न्यस्य ऐशान्यां तु शिरस्तथा //
SK
नैरृत्यां तु शिखा ज्ञेया कवचं वायुगोचरे अस्त्र दिक्ष्वथ विन्यस्य कर्णिकायां सदाशिवम् //
SK
गर्भन्यासविधिः प्रोक्तो द्वितीयावरणे शृणु हृदा पूर्वं समारभ्य लोकपालान्प्रपूजयेत् //
SK
[तृतीयावरणे ऽस्त्राणि स्वमन्त्रेण प्रपूजयेत्|] संक्षेपेण मया स्कन्द विधानं परिकीर्तितम् //
SK
अनुक्तं यद्भवेत्किंचित् तत्सर्वं मूलमाश्रयेत् एवं विधिविधानज्ञो दीक्षाकर्म समाचरेत् //
SK
मण्डलविधानप्रकरणम् इति सपतमः पटलः
SK
अथ दीक्षां प्रवक्ष्यामि पञ्चतत्त्वव्यवस्थिताम् पृथिव्यापस्तथा तेजो वायुराकाशमेव च //
SK
पञ्चैतानि च तत्त्वानि यैर्व्याप्तमखिलं जगत् सर्वतत्त्वानि तत्रैव द्रष्टव्यानि तु साधकैः //
SK
ब्रह्माण्डे तु निवृत्तिर्वै शतरुद्रावधिस्तथा तदूर्ध्वं तु प्रतिष्ठा स्याद् यावदव्यक्तगोचरम् //
SK
ततो विद्या नियुक्ता सा यावद्विद्येश्वरान्तिकम् शान्तिस्तदूर्ध्वमध्वान्ते शक्तिरेव शिवे पदे //
SK
अज्ञात्वैतानि तत्त्वानि यो दीक्षां कर्तुमिच्छति वृथा परिश्रमस्तस्य नैव तत्फलमाप्नुयात् //
SK
निवृत्तिः पृथिवी ज्ञेया प्रतिष्ठा आप उच्यते विद्यां तेजो विजानीयाद् वायुः शान्तिः प्रकीर्तितः //
SK
शान्त्यतीता भवेद्व्योम तत्परं शान्तमव्ययम् तं विदित्वा महासेन श्वपचानपि दीक्षयेत् //
SK
निवृत्तिं हृदयेनैव प्रतिष्ठां शिरसा गुरुः शिवो विद्यां तु शिखया शान्तिं वै कवचेन तु //
SK
शान्त्यतीतं परं व्योम प्रासादेन तु होमयेत् एकैकस्य शतं होम्यम् इत्येवं पञ्च होमयेत् //
SK
पञ्चपूर्णाहुतीर्दद्यात् प्रासादेन तु षण्मुख प्रायश्चित्तविशुद्ध्यर्थम् अष्टावेकैकयाहुतीः //
SK
अस्त्रबीजेन मन्त्रज्ञो होमयेदनुपूर्वशः एवं समाप्यते दीक्षा जननादिविवर्जिता //
SK
हुतेनैव तु मुच्यन्ते साधका जन्मबन्धनात् इयमिष्टिर्न प्रकाश्या गोपनीया प्रयत्नतः //
SK
रहस्यं सर्वतन्त्राणाम् एष संस्कार उत्तमः योनिन्यासादिकं कर्मोद्धारणं चाप्यपश्चिमम् //
SK
शोधनानुक्रमं देव कथयस्व यथाविधि दश सप्त च ये शोध्याः पृष्टाश्चात्र त्वया गुह //
SK
यस्य यद्बीजमुक्तं तु तद्वक्ष्याम्यनुपूर्वशः योनिबीजं तु हृदये कल्पयेच्च यथाक्रमम् //
SK
अर्चनं प्रोक्षणं चैव ताडनं च तथा परम् संधानं चैव संयोगं निक्षेपं तदनन्तरम् //
SK
अर्चनं च ततः कुर्याद् गर्भाधानं तथैव च जननं चाधिकारं च भोगं चैव लयं तथा //
SK
स्वतत्त्वे चाहुतिशतं हृदयेन तु षण्मुख पाशच्छेदं तथास्त्रेण दद्यात्पूर्णाहुतिं ततः //
SK
हृदयेनात्र तूद्धारः कर्तव्यश्चाप्यनुक्रमात् उद्धारे प्रोक्षणे चैव ताडने च तथैव च //
SK
हुम्फट्कारसमायुक्तं कर्तव्यं चानुपूर्वशः संधानं चैव तत्त्वानां कर्तव्यं तु यथाक्रमम् //
SK
तत्त्वे तत्त्वे त्विदं कर्म एष एव विधिक्रमः एभिस्तु शोधितैर्वत्स विधिं प्राप्नोति पुष्कलम् //
SK
अन्यथा नैव मुच्यन्ते विधिहीनाः षडानन पूर्णाहुतिप्रदानं च कर्तव्यं धारणायुतम् //
SK
अमृतं यत्परं वत्स स्रवन्तं मनसा स्मरेत् दीक्षाप्रकरणे ह्येतद् योज्यं सर्वत्र सर्वदा //
SK
लिङ्गोद्धारविधाने च नित्यसंस्कारकर्मसु पशोर्ग्रहणमोक्षं तु यत्त्वयोक्तं पुरानघ //
SK
पाशा आभ्यन्तरा बाह्याः कम्सिन्स्थाने कथं स्थिताः कस्मिन्स्थाने तु विच्छेद्याः सद्य उत्क्रमणं कथम् //
SK
पशूनां चैव निर्देशं कथयस्व महेश्वर आदिमस्य द्वितीयेन गृहीत्वात्मानमात्मना //
SK
मुष्टिना यावत्स्थानं तन् नयेत्तं सुविचक्षणः विषुवत्सम्प्रयोगेण ब्रह्माद्यास्ते शिवान्तकाः //
SK
एकत्र समतां यान्ति अन्यथा तु पृथक्पृथक् द्वादशान्ते तु ते च्छेद्याः शरेणास्त्रेण संयुताः //
SK
तदा सायुज्यतां यान्ति समयैः परिवर्जिताः अनिर्दिष्टमसंज्ञं च यत्कृतं तद्वृथा भवेत् //
SK
तमुद्दिश्य कृतं कर्म मोक्षदं तन्न संशयः सूर्यस्य ग्रहणे वत्स विषुवद्योगसंयुतम् //
SK
आयामान्ते यदा च्छिन्नं तदा चोत्क्रमते ध्रुवम् मनसि ग्रथिताः पाशाः सूत्रे मणिगणा इव //
SK
हृत्पद्माद्यावत्तत्पद्मं मनस्तन्तुवितानितम् तद्दृष्ट्वा छेदनं कुर्यान् मनोवृत्त्या मनश्च्छिदा //
SK
मनसा मनसि च्छिन्ने जीवः केवलतां व्रजेत् विस्तरं त्यज देवेश संक्षेपात्कथयस्व मे //
SK
येन विज्ञातमात्रेण पशून्मोचयते क्षणात् शृणु षण्मुख तत्त्वेन येन मोक्षो ध्रुवं भवेत् //
SK
प्रयोगेणातिसूक्ष्मेण योगदृष्टेन मन्त्रवित् दिव्येन योगमार्गेण शक्तिं यः प्रेरयेत्तु ताम् //
SK
तं विदित्वा महासेन जीवं प्राणमयं बुधः विषुवत्सम्प्रयोगेण योजयेच्छाश्वते पदे //
SK
योगं तु विषुवं प्राप्य को न मुच्येत बन्धनात् पृथिव्याद्यब्जनाडीर्वै शब्दादिगुणवायुभिः //
SK
आत्माधिदेवता मन्त्राञ् ज्ञात्वा मुक्तस्तु मोचयेत् नाडीविवरसम्बन्धा ऊर्ध्वनाला ह्यधोमुखाः //
SK
ग्रन्थिद्वययुताः सर्वे हुम्फडन्तेन योजिताः ततश्चोर्ध्वत्वमायान्ति उद्घातैः पूर्ववद्गुह //
SK
क्ष्माद्यानालोक्य मनसा सबाह्याभ्यन्तरं पुनः तत्त्वे तत्त्वे नियोक्तव्या वियुक्ता निरहंकृता //
SK
ब्रह्माद्याञ्श्रावयेद्वत्स न पुनर्जन्मतां व्रजेत् तेजश्चेतो द्विरभ्यस्य आयामो भास्करस्य तु //
SK
ताडयित्वा पुरा वत्स ग्रहणं पूर्ववद्भवेत् भित्त्वार्गलां न्यसेद्योनिं तत्त्वं तत्त्वेन संधयेत् शक्तिभिः सम्पुटीकृत्य वौषडन्तेन निक्षिपेत् //
SK
दीक्षाप्रकरणम् अष्टमम्
SK
अभिषेकं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् हिताय साधकेन्द्राणां परमेशेन भाषितम् //
SK
मृण्मयं कलशं ह्येकं चन्दनेन विलेपितम् ब्रह्मपत्रपुटं वाथ पद्मपत्रमथापि वा //
SK
सर्वौषधियुतं कृत्वा सर्वगन्धोपशोभितम् शतमष्टोत्तरं जप्त्वा प्रासादं सर्वतोमुखम् //
SK
यागं कृत्वा तु पूर्वोक्तम् अभिषेकं तु कारयेत् शुभनक्षत्रदिवसे मुहूर्ते करणान्विते //
SK
बहुमङ्गलनिर्घोषैः शङ्खवादित्रनिःस्वनैः ब्रह्मघोषैश्च विविधैर् नृत्तगीतसमन्वितैः अनुज्ञातो ऽभिषिक्तश्च आचार्यः पाशहा भवेत् //
SK
अभिषेकप्रकरणं नवमम्
SK
नाडीचक्रं परं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः नाभेरधस्ताद्यत्कन्दम् अङ्कुरास्तत्र निर्गताः //
SK
द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः तिर्यगूर्ध्वमधश्चैव व्याप्तं नाभेः समन्ततः //
SK
चक्रवत्संस्थिता नाड्यः प्रधाना दश तासु याः इडा च पिङ्गला चैव सुषुम्ना च तृतीयका //
SK
गान्धारी हस्तिजिह्वा च पूषा चैव यशास्तथा अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता //
SK
दश प्राणवहा ह्येता नाडयः परिकीर्तिताः प्राणो ऽपानः समानश्च उदानो व्यान एव च //
SK
नागः कूर्मो ऽथ कृकरो देवदत्तो धनंजयः प्राणस्तु प्रथमो वायुर् नवानामपि स प्रभुः //
SK
प्राणः प्राणमयः प्राणो विसर्गः पूरणं प्रति नित्यमापूरयत्येष प्राणिनामुरसि स्थितः //
SK
निश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः प्रयाणं कुरुते यस्मात् तस्मात्प्राणः प्रकीर्तितः //
SK
अपानयत्यपानस्तु आहारं च नृणामधः मूत्रशुक्लमलान्वायुर् अपानस्तेन कीर्तितः //
SK
पीतं भक्षितमाघ्रातं रक्तपित्तकफादिकम् समं नयति गात्रेषु समानो नाम मारुतः //
SK
स्पन्दत्यधरं वक्त्रं नेत्रगात्रप्रकोपनः उद्वेजयति मर्माणि उदानो नाम मारुतः //
SK
व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः प्रीतेर्विनाशकरणो व्यापनाद्व्यान उच्यते //
SK
उद्गारे नाग इत्युक्तः कूर्म उन्मीलने स्मृतः कृकरस्तु क्षुते चैव देवदत्तो विजृम्भणे धनंजयः स्थितो घोषे मृतस्यापि न मुञ्चति //
SK
इत्येतद्वायुवृन्दं हृदि च विनिहितं नाभिचक्रप्रतिष्ठितम् निश्वासोच्छ्वासकैः श्वसनपुरमधः कम्पिताघूर्णितैश्च नित्यं नित्याल्पजन्मा व्यसनयति पशुं यौवने बालभावे आक्रान्तो वायुरेकः स जननमरणैः क्रीडति भ्रान्तसत्त्वैः //
SK
नाडीचक्रं यथावस्थं प्रवक्ष्याम्यनुपूर्वशः दशारं चक्रमेत्तत्तु विभागो जायते यथा //
SK
चक्रे भ्रमत्यसौ जीवो दशस्थानेष्वनुक्रमात् स जीवो जीवलोकस्य बुध्यन्ते नैव मोहिताः //
SK
जीवः प्रयाति दशधा तेन चक्रं प्रकीर्तितम् नाडीचक्रमिति प्रोक्तं येन संक्रामति ह्यसौ //
SK
हृद्व्योममध्ये पङ्कजमष्टदलं कर्णिका च तस्यान्तः / हृदये पङ्कजमर्केन्द्वग्निहिरण्यद्योताभाः शक्तयस्तस्मिन् //
SK
उपरिचरी खलु शक्तिस्तासां प्राग्भाविनी शिवस्य ततः / शक्तिचतुष्टयपङ्कजमध्ये पुरुषो ऽलिरिव स लीनः //
SK
शून्यमरुत्संदंशकगृहीतकरणात्मको ह्युभयतो ऽपि / संयाति यत्र नेयः शुष्कदलं मारुतेनेव //
SK
भ्राम्यति पङ्कजमध्ये कलाचतुष्कात्मपाशसंरुद्धः / गोलकमिव हेलाभिहतमुत्पतनं निपातनं कुरुते //
SK
ईश्वरयोगाद्विषुवत्संक्रान्तिश्चैव सिद्धिसंयोगात् / सौरनियोगाद्दक्षिणमुदगयनं चान्द्रसंयोगात् //
SK
अयने सव्यासव्ये द्वौ पुटकौ युग्मतो विषुवदाहुः / संक्रान्तिरितश्चेतश्च गच्छतस्तेन समाख्याता //
SK
सौरः सव्यो मार्गश्चान्द्रमसश्चेतरः समाख्यातः / धन्यो ऽभिषेक इन्दुः सौरः खलु वह्निसंधाने //
SK
ध्यानाद्यो विषुवति च प्राग्दलसंस्थो नृपावलेपी स्यात् / तेजस्वी च बुभुक्षा पीडा वा जायते ऽग्निदिक्पत्रे //
SK
याम्ये याम्यो भावो नैरृत्ये नैरृतो विनिर्दिष्टः / वारुणपत्रे वारुणो मारुत्पत्रे गतो मरुद्भावम् //
SK
सौम्ये सौम्यो भावस्त्वैशे त्वैशः समाख्यातः / यां यां दिशमभिगच्छति तद्भावं निखिलमायाति //
SK
पत्रान्तरालयोगाच्छून्यमिवात्मा ततो भाति / इति खलु पुद्गलचारो नाडीसधानमण्डलं मुख्यम् / कथितमिह सिद्धिहेतोर्बोद्ध्यव्यं यत्नतः सिद्धम् //
SK
नाडीचक्रप्रकरणं दशमम्
SK
स जीवो जीवलोकस्य ज्ञायते ऽध्यात्मगो यथा संशयो मे महादेव प्रसादीभव शूलधृक् //
SK
जीवस्य पुरुषाख्यस्य दर्शनं शृणु षण्मुख कथयामि न सन्देहः पुत्रस्नेहाद्विशेषतः //
SK
संक्रान्तिं विषुवं चैव अहोरात्रायनानि च अधिमासमृणं चापि ऊनरात्रं धनं तथा //
SK
ऊनरात्रं क्षुतं ज्ञेयम् अधिमासो विजृम्भिका ऋणं च कासो विज्ञेयो निश्वासो धनमुच्यते //
SK
उत्तरं दक्षिणं ज्ञेयं वामदक्षिणसंस्थितम् मध्ये तु विषुवत्प्रोक्तं पुटद्वयविनिःसृतम् //
SK
संक्रान्तिः पुनरस्यैव स्वस्थानात्स्थान एव च इडा च पिङ्गला चैव अमा चैव तृतीयका //
SK
सुषुम्ना मध्यमे ह्यङ्गे इडा वामे प्रकीर्तिता पिङ्गला दक्षिणे ह्यङ्गे एषु संक्रान्तिरुच्यते //
SK
ऊर्ध्वं प्राणो ह्यहः प्रोक्तः अपानो रात्रिरुचय्ते विभागा दश प्राणस्य यो वेत्त्येवं स वेदवित् //
SK
आयामो देहमध्यस्थः सोमग्रहणमिष्यते देहातीतं तु तं विद्याद् आदित्यग्रहणं बुधः //
SK
अयुते द्वे सहस्रं तु षट्शतानि तथैव च अहोरात्रेण योगीन्द्रो जपसंख्यां करोति सः //
SK
प्राणायामं समासेन कथयामि तवाखिलम् उच्चारयेत्तु प्रणवं स्वरेणैकेन योगवित् //
SK
उदरं पूरयित्वा तु वायुना यावदीप्सितम् प्राणायामो भवेदेष पूरको देहपूरकः //
SK
पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः सम्पूर्णकुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः //
SK
मुञ्चेद्वायुं ततश्चोर्ध्वं श्वासेनैकेन योगवित् निश्वासयोगयुक्तस्तु यावदूर्ध्वं स रेचयेत् //
SK
रेचकस्त्वेष विख्यातः प्राणसंशयकारकः यत्तद्धृदि सदा पद्मम् अधोमुखमवस्थितम् //
SK
विकसत्येतदूर्ध्वं तु पूरकेण तु पूरितम् ऊर्ध्वस्रोतो भवेत्पद्मं कुम्भकेन निरोधितम् //
SK
रेचकेन तथा क्षिप्तं सद्यःप्राणहरेण तु मुक्त्वा हृदयपद्मं तु ऊर्ध्वस्रोतोव्यवस्थितम् //
SK
रेचितो गच्छति ह्यूर्ध्वं ग्रन्थिं भित्त्वा क्षणेन तु भित्त्वा कपालद्वारं तु जीवो ह्यूर्ध्वं तु रेचितः //
SK
सदाशिवपदं गत्वा न भूयो जन्म चाप्नुयात् आयामः क्रियते तस्य नान्यस्य तु कदाचन स जीवो जीवलोकस्य मया प्रोक्तः समासतः //
SK
इत्येकादशः पटलः
SK
चन्द्राग्निरिव संयुक्ता आद्या कुण्डलिनी तु या हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारवत्स्थिता //
SK
सृष्टिन्यासं न्यसेत्तत्र द्विरभ्यासपदेरितम् स्रवन्तं चिन्तयेत्तस्मिन्न् अमृतं साधकोत्तमः //
SK
अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम् चिन्तयेद्विपरीतं तु सिद्धिकामः समाहितः //
SK
स्वदेहं चिन्तयेद्विद्वान् दिव्यरूपमनौपमम् यस्य यत्कर्म चोद्दिष्टं तत्कर्म परिचिन्तयेत् //
SK
इदं च यो ऽभ्यसेदेवम् अमृतं सर्वतोमुखम् अचिरेणैव कालेन स सिद्धिफलभाग्भवेत् //
SK
सृष्टिन्यासमविज्ञाय कथं युञ्जीत साधकः हन्यान्मुष्टिभिराकाशं तुषान्कुट्टयतीव सः //
SK
इति द्वादशः पटलः
SK
अथातः सम्प्रवक्ष्यामि सृष्टिं मन्त्रलिपेः क्रमात् यथा तु सकलो देवो निष्कलेन समन्वितः //
SK
कलामुत्पादयामास सर्वमन्त्रप्रवर्तिकाम् ॐकारमूर्ध्नि मध्यस्थ ॐकारव्यापकस्तथा //
SK
ॐकारप्रथमां रेखां सृजति प्रभुः(?) विद्या नाम कला सा तु वर्णे वर्णे व्यवस्थिता //
SK
ॐकारस्य उकाराभा रेखा या सम्प्रदृश्यते प्रतिष्ठा नाम सा ज्ञेया उकाराक्षरसम्भवा //
SK
मूर्ध्नि तस्य भवेद्यासौ सूक्ष्मरेखा निरञ्जना मकारो ह्यभवत्तत्र निवृत्तिर्नाम सा कला //
SK
ॐकारमूर्ध्नि संयुक्ता लय ॐकारमूर्धनि रेखेयं व्योम्नि निर्वाणा सा कला शान्तिरुच्यते //
SK
संयोगात्सम्प्रकाशेत निष्कले सकले स्थिता मूर्धन्याक्रान ॐकारे शब्दस्तत्र तु जायते //
SK
सा शक्तिः परमा सूक्ष्मा बिन्दुना सहिता मता दीपादिव महत्तेजो विस्फुलिङ्गशिखान्वितम् //
SK
निपतन्ती त्रिधा याति शिवविद्यात्मकैर्यथा शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः कलाः //
SK
या कला रेखिनी तत्र पतिता बिन्दुना सह सविद्येशः शिवः प्रोक्तो देवदेवः सदाशिवः //
SK
प्रथमं तस्य तद्बीजं नादबिन्दुरितीरितम् न जहाति परं स्थानं शाश्वतं ध्रुवमव्ययम् //
SK
बिन्दुं तदुदरे क्षिप्त्वा मातृवत्परिरक्षति तस्योर्ध्वं वामपार्श्वे ऽथ विष्णुबीजं प्रतिष्ठितम् //
SK
दक्षिणं ब्रह्मयोनिस्थम् एकमेव त्रिधा स्थितम् पार्श्वबिन्दुद्वयोपेता सा रेखा मध्यतः स्थिता //
SK
तत्र देवः शिवः सूक्ष्मो गूढस्तिष्ठति शंकरः तद्बीजं परमं देवं शक्तिगर्भो महेश्वरः //
SK
यतः प्रवर्तते सर्वं मन्त्रतन्त्रं चराचरम् अव्यक्तं परमं सूक्ष्मं शक्तिदेहं निरञ्जनम् //
SK
शिवं त्वनादिनिधनं यं बुद्ध्वा नाभिजायते दक्षिणस्थं हि यद्बीजं ज्ञानशक्तिः परा हि सा //
SK
तद्बीजमपरं ब्रह्मा यत्र गूढः स तिष्ठति वामगो ऽथ परो बिन्दुः क्रियाशक्तिः परा हि सा //
SK
तत्र विष्णुः स्वयं बीजे गूढः सूक्ष्मो निरञ्जनः एष देवो ऽपि सर्गस्थो विसृष्टो यः स शम्भुना //
SK
निगूढत्वान्न पश्यन्ति येन सृष्टं चराचरम् विसर्गाज्जायते सृष्टिर् ईश्वरः प्रभुरेव सः //
SK
विसृष्टं येन तद्बीजं विसर्गस्तेन चोच्यते तेन चापूरितमिदं जगत्सर्वं च तन्मयम् //
SK
शक्तिरश्मिसमूहेन शतशो ऽथ सहस्रशः सृजति ग्रसति ह्येष संयोजकवियोजकः //
SK
ज्ञानशक्त्या च भगवान् अनुगृह्णाति वै शिवः विसर्गाच्च भवेत्सृष्टिः संहारो बिन्दुना सह निर्वाणं तत्त्वविज्ञानं तन्त्रविस्तारगोचरः //
SK
मन्त्रसृष्टिप्रकरणम्
SK
संहारश्चैव सृष्टिश्च सर्वं निगदितं प्रभो दीक्षितानां गतिभ्रंशं संक्षेपात् कथयस्व मे //
SK
मायाविनि शठे क्रूरे निःसत्त्वे कलहप्रिये गतिभ्रंशकरे योगे तत्त्वं तच्छृणु षण्मुख //
SK
विधाय मूर्ध्नि क्षिप्तस्य आयामे शशिनः क्रमात् पूर्ववन्मनसालोक्य गतिं तस्य निवर्तयेत् //
SK
संहारसम्पुटं कूटम् आदावन्ते षडानन मातृकायां शतं हुत्वा एकैकस्य पृथक् पृथक् //
SK
गतिभ्रंशप्रकरणम्
SK
प्रासादं नादमुत्थाप्य जपेद्यः सततं नरः षण्मासात्प्राप्नुयात्सिद्धिं योगयुक्तो न संशयः //
SK
गमागमस्य जपतः सर्वपापक्षयो भवेत् अणिमादिगुणैश्वर्यं षण्मासैस्तु न संशयः //
SK
गमागमं विदित्वा तु मुच्यते नात्र संशयः तन्मयस्तल्लयो भूत्वा षण्मासात्सिद्धिमाप्नुयात् //
SK
स्थूलः सूक्ष्मः परश्चैव प्रासादः कथितो मया प्रासादं ये न बुध्यन्ति ते न बुध्यन्ति शङ्करम् //
SK
प्रासादभेदप्रकरणम्
SK
अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् ह्रस्वं दीर्घं प्लुतं चैव लक्षयेन्मन्त्रवित्सदा //
SK
ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् आप्यायने प्लुतश्चैव बिन्दुना मूर्ध्नि भूषितः //
SK
स्थूलभेदास्त्रयः प्रोक्ता वश्योच्चाटनमारणे प्लुतेन तु सदा वश्यं कुरुते नात्र संशयः //
SK
दीर्घस्तूच्चाटयेत्क्षिप्रं फट्कारेण न संशयः आदावन्ते च ह्रस्वस्य फट्कारो मारणे स्मृतः //
SK
आदावन्ते च हृदययोग आकर्षणे स्मृतः आकर्षयेद्ध्रुवं युक्तो योजनानां शते स्थितम् //
SK
एवमाकर्षयेत्साध्यं नाम विज्ञाय तत्त्वतः साधकस्य भवेद्बह्वी न्यूना साध्यस्य कीर्तिता //
SK
एवं विदित्वा मेधावी आकर्षं कुरुते ध्रुवम् अविज्ञाय त्विदं सम्यङ् नैव सिद्ध्यते सर्वदा //
SK
यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्घ्यं च दापयेत् अर्घ्यं दत्त्वा तु मन्त्रस्य जपं कुर्याद्विचक्षणः //
SK
देवस्य दक्षिणे भागे पञ्चलक्षं स्थितो जपेत् जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत् //
SK
एवमाप्यायितो मन्त्रः कर्मयोग्यो भवेत्ततः उक्तानुक्तानि कर्माणि सिद्धिं यान्ति न संशयः //
SK
दशलक्षाणि जपतो जनाः स्वस्थानवासिनः वशमायान्ति ते क्षिप्रम् इति शास्त्रस्य निश्चयः //
SK
त्रिपञ्चलक्षं जपतो दशग्रामनिवासिनः ते जना वशमायान्ति आत्मना च धनेन च //
SK
एवं विंशतिभिर्लक्षैः प्रासादस्य षडानन देशदेशाधिपान्मन्त्री नियतं वशमानयेत् //
SK
लक्षाणां पञ्चविंशत्या विषयं वशमानयेत् त्रिंशल्लक्षजपादस्य वशो वै मण्डली भवेत् //
SK
पञ्चत्रिंशच्च लक्षाणि जपन्पृथ्वीं वशं नयेत् चत्वारिंशज्जपाद्देवम् ईक्षते हाटकेश्वरम् //
SK
लक्षाणि जप्त्वा पञ्चाशद्विद्याधरसमो भवेत् तत्रैव मोदते मन्त्री यावदाभूतसम्प्लवम् //
SK
प्रासादलक्षणप्रकरणं षोडशम् इति षोडशः पटलः
SK
अद्यापि संशयो देव ज्ञानविज्ञानयोः स्फुटम् कथं वा ज्ञायते ज्ञानं कथं वा ज्ञेयमुच्यते //
SK
विज्ञाय पूर्वमाधारं पश्चादाधेयमेव च आधाराधेयवित्प्राज्ञः समर्थः सर्वकर्मसु //
SK
आधारः पुरमित्युक्तम् आधेयस्त्वीश उच्यते ईशं विज्ञाय मेधावी सदा यो नन्दति स्वयम् //
SK
पुर्यष्टकसमायुक्तो ह्यध ऊर्ध्वं स गच्छति शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चकम् //
SK
बुद्धिर्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम् यावदेतैर्न निर्मुक्तः कथं मुच्येत बन्धनात् //
SK
ब्रह्मणि स्पर्शशब्दौ तु रसं वै केशवे त्यजेत् रूपगन्धौ त्यजेद्रुद्रे बुद्ध्यहङ्कारमीश्वरे मनो बिन्दुं शिवे त्यक्त्वा एभिर्मुक्तः शिवं व्रजेत् //
SK
विज्ञानप्रकरणम् इति सप्तदशः पटलः
SK
कालचक्रविधानं तु प्रवक्ष्याम्यनुपूर्वशः कालचक्रमिति ख्यातं येन कालः प्रबुध्यते //
SK
त्र्यहोरात्रप्रचारेण त्रीण्यब्दानि स जीवति द्व्यहोरात्रप्रचारेण जीवेद्वर्षद्वयं तु सः //
SK
अहोरात्रप्रचारेण अब्दमेकं स जीवति अहरेकं व्रजेद्यस्य रात्रिमेकां तथैव च //
SK
षण्मासाज्जायते मृत्युर् इति शास्त्रस्य निश्चयः द्वितीयस्यानुचारेण अहोरात्रं स जीवति //
SK
यथा चाद्या तथा वामा मध्यमा च तथैव च कालचक्रं समाख्यातं पुत्रस्नेहाद्विशेषतः //
SK
कालचक्रप्रकरणम् इति अष्टादशः पटलः
SK
पूर्वमेवं प्रतिज्ञातं शिवभेदो ऽष्टधा स्थितः कथं भिद्येत देवेश तत्त्वतः कथय प्रभो //
SK
सकलं निष्कलं शून्यं कलाढ्यं खमलङ्कृतम् क्षपणं च तथान्तस्थं कण्ठोष्ठ्यं चाष्टमं विदुः //
SK
प्रासादं षष्ठसंयुक्तं षडन्तेन समन्वितम् सकलं सर्वभूतस्थं शिवतत्त्वं प्रकीर्तितम् //
SK
निष्क्रामति स्वयं देवो देहं त्यक्त्वा समारुतः निष्कलं तं विजानीयात् षड्वर्णरहितं शिवम् //
SK
निश्वासोच्छ्वसने हित्वा स्थितो देहे तु काष्ठवत् शून्यं तं तु विजानीयाद् धृदयेन तु भावयेत् //
SK
चुम्बाकारेण वक्त्रेण यत्तत्त्वं परिकीर्तितम् कलाढ्यं तं विजानीयाद् आकाशस्थमथ शृणु //
SK
ऊर्ध्वनादस्य क्षीणस्य यदन्तं परिकीर्तितम् तत्रस्थं तं विजानीयाद् आकाशेन त्वलङ्कृतम् //
SK
व्यावृतेनैव वक्त्रेण ब्रूयदेवं जगद्गुरुम् दुःखक्षपणमित्युक्तं तत्क्षयात्क्षपणं स्मृतम् //
SK
अधोनादस्य क्षीणस्य यदन्तं परिकीर्तितम् अन्तस्थं तं विजानीयाद् अनुच्चार्यं प्रकीर्तितम् //
SK
सप्तवर्गाष्टमं कोटिः सप्तमस्य द्वितीयकम् वर्गातीतं षडन्तं च सप्तमात्त्रिचतुर्थकम् //
SK
आदिमं तु पुनर्योज्यं षष्ठं वै प्रथमस्य तु खशेखरसमायुक्तं कण्ठोष्ठ्यं चाष्टमं स्मृतम् //
SK
एते भेदाः समाख्याता अणिमादिप्रसाधने अनुच्चार्यमसन्दिग्धं मोक्ष इत्यभिधीयते //
SK
शिवभेदाष्टकप्रतिपादनप्रकरणम् इत्येकोनविंशः पटलः
SK
कथं व्यापी अधश्चोर्ध्वं तिर्यक् चैव कथं भवेत् एतन्मे ब्रूहि तत्त्वेन कारुण्यात्त्वं महेश्वर //
SK
यावद्देहे स्थितो जन्तोर् अधस्तावद्व्यवस्थितः निर्गतो व्यापयेत्तिर्यगन्तस्थः सर्वतः स्थितः //
SK
त्रिमार्गावस्थितो देवः सर्वदेहेषु वर्तते अविदित्वा न मुच्येत यद्यप्येतल्लयो भवेत् //
SK
तत्त्रिमार्गं त्र्यधिष्ठानं सर्वदेहेषु वर्तते यो वेत्त्येवमिमां व्याप्तिं सर्वव्यापी न संशयः //
SK
न तस्य गर्भसम्भूतिर् यथा देवः प्रभाषते तावद्भ्रमति संसारे यावद्व्याप्तिं न विन्दति //
SK
विदित्वा व्यापिनं जीवं मुच्यते नात्र संशयः यथा तृणजलूका नु तृणाग्रं यावदागता //
SK
उपरिष्टान्निरालम्बा तद्वज्जीवो ऽत्र संस्थितः ऊर्ध्वशून्यमधः शून्यं शून्यं देहान्तरस्थितम् //
SK
त्रिशून्यं यो विजानाति मुच्यते स ध्रुवं गुह व्याप्तिश्चास्य मया प्रोक्ता संक्षेपान्न तु विस्तरात् अतः परतरं नास्ति व्यापकं व्यापकस्य तु //
SK
व्याप्तिप्रकरणम् इति विंशः पटलः
SK
अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा अनग्निज्वलनं चैव वृक्षस्यालभनं तथा //
SK
पाशानां स्तोभनं चैव महापातकनाशनम् विषसंहरणं चैव निर्बीजकरणं तथा //
SK
ग्रहज्वरविनाशश्च प्रत्ययो ऽष्टविधः स्मृतः एवं ज्ञात्वा तु विधिवत् ख्यातिः सर्वत्र जायते //
SK
प्रणवेनाग्निमध्यस्थो हकारो ह्रीं तथैव च आदिर्ॐ च नमश्चान्ते अनग्निज्वलने हितम् //
SK
अग्निं स्रोतसि संयोज्य सहस्रोद्घातसंयुतम् पञ्चाक्षरप्रयोगेण ज्वलत्येव न संशयः //
SK
ॐकारः सर्वतो ऽधस्ताद् रेफस्तस्योर्ध्वतः स्थितः पूर्ववत्सम्प्रयुक्तो ऽयं प्रयोगो भुवि दुर्लभः //
SK
शतैः सप्तभिरुद्घातैर् आलब्धो म्रियते द्रुमः भूयस्श्चाप्यायनं तस्य वारुणे स्रोतसि स्थितम् //
SK
स जीवति पुनर्वृक्षो यथापूर्वं तथैव सः तादृगेव पुनश्चासौ किं तु रेफविवर्जितः //
SK
आप्यायनविधौ ह्येष पञ्चधा बिन्दुदीपितः औकारमध्यसंयुक्तः प्रणवेनान्तदीपितः //
SK
ईकारादिः स हौ मध्ये वह्निमध्यं ततः परम् प्रयोगो विषुवत्काले पाशानां स्तोभकारकः //
SK
शतैः पञ्चभिरुद्घातैः पतत्येव न संशयः पुनश्चोत्थापनं तस्य यथा भवति तच्छृणु //
SK
ईकाराद्यन्तसंयुक्तं हौ च मध्ये नियोजितम् प्राणानुस्वारसन्दीप्तं नमो ऽन्तं प्रणवं पुनः //
SK
उत्थापने प्रयुञ्जीत सर्वभूतेषु तत्त्ववित् तावद्भिरेव चोद्घातैर् योजनीयः प्रयत्नतः //
SK
लबीजं जीवसंविष्टं हकाराद्यन्तसंस्थितम् पूर्ववन्मध्यसंस्थं च वायुबिन्दुसमन्वितम् //
SK
यदस्यारोहणे प्रोक्तं गुरुत्वं जायते यथा भूय एव प्रवक्ष्यामि लघुत्वं जायते यथा //
SK
ॐकारो हं यकारेण ह्यौकारो हं नमस्तथा तुलापुरुषयोगो ऽयम् उद्घातैरयुतेन तु //
SK
स हकारो वकारेण यकारेण च दीपितः ह्यौ मध्ये ह्लीं नमश्चान्ते वारुणेन तु बुद्धिमत् //
SK
उद्घाताष्टशतेनैव विषं संहरति ध्रुवम् यथाग्निज्वलने दृष्टो निर्बीजकरणे तथा //
SK
शतैः पञ्चभिरुद्घातैर् विशेषो ऽत्र विधीयते ॐकारमादितः कृत्वा ह्रूंकारं तदनन्तरम् //
SK
ह्रौं ह्रूं च फण्णमश्चान्ते ग्रहाणां नाशने मतः प्रयोगे वारुणे मार्गे उद्घाताष्टशतेन तु //
SK
प्रणवादि ततो हुं फट् हुं फट् हुं फट् तथैव च फट् फट् फट् फट् फडेवं स्याद् वारुणेन तु बुद्धिमान् उद्घाताष्टशतेनैव क्षिप्रं नाशयति ज्वरम् //
SK
प्रत्ययप्रकरणम् इत्येकविंशः पटलः
SK
प्रासादः कीदृशो ज्ञेयो व्याप्तिस्तस्य च कीदृशी शरीरं कीदृशं तस्य कथयस्व महेश्वर //
SK
प्रासादं यो न जानाति पञ्चमन्त्रमहातनुम् अष्टत्रिंशत्कलोपेतं नासावाचार्य उच्यते //
SK
प्रासादं सम्यगज्ञात्वा यो दीक्षां कुरुते गुरुः अधस्ताच्छिष्यमात्मानं नयत्यत्र न संशयः //
SK
प्रासादाब्जशिखान्तस्थो यस्तु दीक्षां करोति सः आचार्यः सह शिष्येण शिवसायुज्यमाप्नुयात् //
SK
ब्रह्मा विष्णुश्च रुद्रश्च इन्द्रश्चन्द्रो बृहस्पतिः प्रजापतिस्तथादित्यः शुक्रः स्कन्दो भृगुस्तथा //
SK
ये चान्ये प्राणिनो देवाः सर्वे प्रोक्ताः प्रसादजाः एते चान्ये च बहवो मुनयः संशितव्रताः //
SK
ध्यायन्ति परमं हंसं प्रासादं नामरूपतः विभागं चास्य वक्ष्यामि यं ध्यात्वामृतमश्नुते //
SK
सद्यः कलाष्टसंयुक्तम् अकाराक्षरजं विदुः विद्यादुकारजं वामम् अघोरं च मकारजम् //
SK
बिन्दुजः पुरुषो ज्ञेय ईशानस्तु शिखात्मजः एवं मन्त्रास्तु पञ्चैते प्रासादात्सम्भवन्ति ये //
SK
दशकोटिः सहस्राणां मन्त्राणाममितौजसाम् इष्टेन तु प्रसादेन सर्व इष्टा न संशयः //
SK
मारुता नव शक्त्याद्या ये मन्त्राः परिकीर्तिताः प्रासादाब्जसमुत्पन्नाः सर्वे चामोघशक्तयः //
SK
सद्यस्तु पृथिवी ज्ञेयो वामो ह्यापः प्रकीर्तितः अघोरस्तेज इत्युक्तो वायुस्तत्पुरुषः स्मृतः //
SK
आकाशस्तु भवेदीशः स्वयं देवो महेश्वरः सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः //
SK
अघोरः सामवेदः स्याद् अथर्वः पुरुषः स्मृतः पञ्चमस्तु परः सूक्ष्मो व्योमव्यापी सदाशिवः //
SK
सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः अघोरो रुद्रदैवत्य ईश्वरः पुरुषः स्मृतः //
SK
ईशानः शिवदैवत्यो हृदयादाववस्थितः षष्ठं तु यत्परं तत्त्वम् असादृश्यगुणैः स्थितम् //
SK
तस्य देहो न वक्तव्यः प्राकृतैर्गुणसम्भवैः ज्ञात्वा परमनिःश्रेणीं पञ्चसंस्थानगामिनीम् //
SK
ज्ञातमेव सकृद्येन विस्तृतं तु तदेव तत् तत्काल एव मुक्तो ऽसौ यदा ज्ञातं हि तत्पदम् //
SK
प्रासादनिर्णयप्रकरणम् इति द्वाविंशः पटलः
SK
शृणु षण्मुख तत्त्वेन ज्ञानामृतमनुत्तमम् यन्न कस्यचिदाख्यातं नाख्येयं कथयामि तत् //
SK
देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः आप्तोपदेशगम्यो ऽसौ सर्वतः किमपि स्थितः //
SK
हंस हंसेति यो ब्रूयद् धंसो देवः सदाशिवः गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखः //
SK
तिलेषु च यथा तैलं पुष्पे गन्ध इव स्थितः पुरुषस्तु शरीरे ऽस्मिन् सबाह्याभ्यन्तरे स्थितः //
SK
उल्काहस्तो यथा कश्चिद् द्रव्यमालोक्य तां त्यजेत् ज्ञानेन ज्ञेयमालोक्य तथा ज्ञानं परित्यजेत् //
SK
पुष्पं तु सकलं विद्याद् गन्धस्तस्य तु निष्कलः वृक्षं तु सकलं विद्याच् छाया तस्य तु निष्कला //
SK
सकले निष्कलो भावः सर्वत्रैव व्यवस्थितः उपायः सकलस्तद्वद् उपेयश्चैव निष्कलः //
SK
सकले सकलो भावो निष्कले निष्कलस्तथा त्रिमात्रश्च द्विमात्रश्च एकमात्रस्तथैव च //
SK
अर्धमात्रा परा सूक्ष्मा तस्या ऊर्ध्वं परात्परम् ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव वा //
SK
पञ्चधा पञ्चदैवत्यः सकलः परिपठ्यते ब्रह्मणो हृदयं स्थानं कण्ठे विष्णुः समाश्रितः //
SK
तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः नासाग्रे तु शिवं विद्यात् तस्यान्ते तु परं पदम् //
SK
परस्मात्तु परं नास्ति इति शास्त्रस्य निश्चयः गमागमः कथं तस्य केन वा नीयते तु सः //
SK
संशयो मे महादेव कथयस्व यथार्थतः शक्त्या तु नीयते जीवस् तस्मिन्प्राप्य निवर्तते //
SK
अस्यान्तं ते प्रवक्ष्यामि शृणु षण्मुख तत्त्वतः देहातीतं तु तद्विद्यान् नासाग्रे द्वादशाङ्गुलम् //
SK
तदन्तं तद्विजानीयात् तत्रस्थो व्यापयेत्प्रभुः मनो ऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् //
SK
तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते एतत्तत्परमं गुह्यम् एतत्तत्परमाक्षरम् //
SK
नातः परतरं किञ्चिन् नातः परतरं शिवम् नातः परतरं ज्ञानम् इत्याह भगवाञ्शिवः //
SK
शिवज्ञानामृतं प्राप्य संक्षेपान्न तु विस्तरात् कथितो देवदेवेन परमाक्षरनिर्णयः //
SK
एतत्ते शिवसद्भावं शिववक्त्राद्विनिःसृतम् गुह्याद्गुह्यतमं गुह्यं गूहनीयं प्रयत्नतः //
SK
नाशिष्याय प्रदातव्यं नापुत्राय कदाचन गुरुदेवाग्निभक्ताय नित्यं मुक्तिरताय च //
SK
प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् दातास्य नरकं याति सिद्ध्येच्च न कदाचन //
SK
शिवामृतं मया ख्यातं सत्यं सत्यमिदं तव एवं ज्ञात्वा तु मेधावी विचरेत्तु यथासुखम् //
SK
गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भैक्षुकः यत्र यत्र स्थितो ज्ञानी परमाक्षरवित् सदा //
SK
विषयी विषयासक्तो याति देहान्तके शिवम् ज्ञानादेवास्य शास्त्रस्य सर्वावस्थो ऽपि मानवः //
SK
ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः //
SK
इत्येवं त्रिविधो ज्ञेय आचार्यस्तु महीतले चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत् मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वामृतमश्नुते //
SK
ज्ञानामृतप्रकरणम् इति त्रयोविंशः पटलः

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Sārdhatriśatikālottara: GRETIL corpustei HTML transform of the Sārdhatriśatikālottarāgama.

Source