Ornament of Clear Realization
Abhisamayālaṃkāra
Aभिसमयालंकार
SKनमो मञ्जुश्रिये कुमारभूताय
SKआर्यमैत्रेयनाथविरचितम् अभिसमयालङ्कारो नाम प्रज्ञापारमितोपदेशशास्त्रम्
SKसर्वाकारज्ञाताधिकारः प्रथमः
SKया सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान् या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका / सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास् तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः // Aस_१.१ //
SKग्रान्थारम्भप्रयोजनम् सर्वाकारज्ञतामार्गः शासित्रा यो ऽत्र देशितः / धीमन्तो वीक्षिषिरंस्तमनालीढं परैरिति // Aस_१.२ //
SKस्मृतौ चाधाय सूत्रार्थं धर्मचर्यां दशात्मिकाम् / सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम् // Aस_१.३ //
SKप्रज्ञापारमितायाः कायिकव्यवस्थापनम् प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता / सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः // Aस_१.४ //
SKसर्वाकाराभिसम्बोधो मूर्धप्राप्तो ऽनुपूर्विकः / एकक्षणाभिसम्बोधो धर्मकायश्च ते ऽष्टधा // Aस_१.५ //
SKचित्तोत्पादो ऽववादश्च निर्वेधाङ्गं चतुर्विधम् / आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः // Aस_१.६ //
SKआलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये / सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः // Aस_१.७ //
SKध्यामीकरणतादीनि शिष्यखड्गपथौ च यौ / महानुशंसो दृङ्मार्ग एहिकामुत्रिकैर्गुणैः // Aस_१.८ //
SKकारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः / परिणामे ऽनुमोदे च मनस्कारावनुत्तमौ // Aस_१.९ //
SKनिर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः / विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता // Aस_१.१० //
SKप्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः / अनुपायेन दूरत्वम् उपायेनाविदूरता // Aस_१.११ //
SKविपक्षप्रतिपक्षौ च प्रयोगः समतास्य च / दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते // Aस_१.१२ //
SKआकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः / मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः // Aस_१.१३ //
SKसमता भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा / सर्वाकाराभिसम्बोध एष सोपायकौशलः // Aस_१.१४ //
SKलिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः / चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः // Aस_१.१५ //
SKप्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि / आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः // Aस_१.१६ //
SKमूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विकः / एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः // Aस_१.१७ //
SKस्वाभाविकः ससाम्भोगो नैर्माणिको ऽपरस्तथा / धर्मकायः सकारित्रश्चतुर्धा समुदीरितः // Aस_१.१८ //
SKचित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता / समासव्यासतः सा च यथासूत्रं स चोच्यते // Aस_१.१९ //
SKभूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः / वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः // Aस_१.२० //
SKनृपगञ्जमहामार्गयानप्रस्रवणोदकैः / आनन्दोक्तिनदीमेवैर्द्वाविंशतिविधः स च // Aस_१.२१ //
SKप्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु / असक्तावपरिश्रान्तो प्रतिपत्सम्परिग्रहे // Aस_१.२२ //
SKचक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च / दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः // Aस_१.२३ //
SKमृदुतीक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलङ्कलौ / एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः // Aस_१.२४ //
SKप्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा / दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः // Aस_१.२५ //
SKआलम्बनत आकाराद्धेतुत्वात् सम्परिग्रहात् / चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् // Aस_१.२६ //
SKश्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः / मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता // Aस_१.२७ //
SKआलम्बनमनित्यादि सत्याधारं तदाकृतिः / निषेधो ऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये // Aस_१.२८ //
SKरूपाद्यायव्ययौ विष्ठास्थिति प्रज्ञप्त्यवाच्यते / रूपावादवस्थितिस्तेषां तद्भावेनास्वभावता // Aस_१.२९ //
SKतयोर्मिथः स्वभावत्वं तदनित्याद्यसंस्थितिः / तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः // Aस_१.३० //
SKअनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् / परीक्षणं च प्रज्ञायाः सर्वस्यानुपलम्भतः // Aस_१.३१ //
SKरूपादेरस्वभावत्वं तदभावस्वभावता / तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता // Aस_१.३२ //
SKतन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञता / समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः // Aस_१.३३ //
SKमिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना / इति निर्वेधभागीयं मृदुमध्याधिमात्रतः // Aस_१.३४ //
SKद्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः / मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः // Aस_१.३५ //
SKद्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः / स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा // Aस_१.३६ //
SKचित्तानवलीनत्वादिनैःस्वाभाव्यादिदेशकः / तद्विपक्षपरित्यागः सर्वथा सम्परिग्रहः // Aस_१.३७ //
SKषोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः / तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह // Aस_१.३८ //
SKशिष्यासाधारणत्वस्य परार्थानुक्रमस्य च / ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते // Aस_१.३९ //
SKधर्मधातोरसम्भेदाद् गोत्रभेदो न युज्यते / आधेयधर्मभेदात्तु तद्भेदः परिगीयते // Aस_१.४० //
SKआलम्बनं सर्वधर्मास्ते पुनः कुशलादयः / लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः // Aस_१.४१ //
SKसास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये / शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः // Aस_१.४२ //
SKसर्वसत्त्वाग्रताचित्तप्रहाणाधिगमत्रये / त्रिभिर्महत्त्वैरुद्देशो विज्ञेयो ऽयं स्वयम्भुवाम् // Aस_१.४३ //
SK७ - सन्नाहप्रतिपत्तिः
SKदानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या / सन्नाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिता // Aस_१.४४ //
SK८ - प्रस्थानप्रतिपत्तिः
SKध्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च / गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु // Aस_१.४५ //
SKउद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये / प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी // Aस_१.४६ //
SK९ - सम्भारप्रतिपत्तिः
SKदया दानादिकं षट्कं शमथः सविदर्शनः / युगनद्धश्च यो मार्ग उपाये यच्च कौशलम् // Aस_१.४७ //
SKज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश / प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः // Aस_१.४८ //
SKलभ्यते प्रथमा भूमिर्दशधा परिकर्मणा आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता // Aस_१.४९ //
SKत्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा / सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा // Aस_१.५० //
SKधर्मस्य देशना सत्यं दशमं वाक्यमिष्यते / ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भतः // Aस_१.५१ //
SKशीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा / गौरवं गुरुशुश्रूषा वीर्यं दानादिके ऽष्टमम् // Aस_१.५२ //
SKअतृप्तता श्रुते दानं धर्मस्य च निरामिषम् / बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता // Aस_१.५३ //
SKह्रीरपत्राप्यमित्येतत् पञ्चधा मननात्मकम् /
SKवनाशाल्पेच्छता तुष्टिर्धूतसंलेखसेवनम् // Aस_१.५४ //
SKशिक्षाया अपरित्यागः कामानां विजुगुप्सनम् / निर्वित्सर्वास्तिसन्त्यागो ऽनवलीनानपेक्षते // Aस_१.५५ //
SKसंस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् / आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् // Aस_१.५६ //
SKमानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् / विवर्जयन् समाप्नोति दशैतान् पञ्चमी भुवम् // Aस_१.५७ //
SKदानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् / शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः // Aस_१.५८ //
SKयाचितो ऽनवलीनश्च सर्वत्यागे ऽप्यदुर्मनाः / कृशो ऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते // Aस_१.५९ //
SKआत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः / निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च // Aस_१.६० //
SKत्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता / रत्नत्रितयशीलेषु तद्दृष्टयभिनिवेशिता // Aस_१.६१ //
SKशून्यतायां विवादश्च तद्विरोधश्च विंशतिः / कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् // Aस_१.६२ //
SKत्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता / करुणामनना धर्मसमतैकनयज्ञता // Aस_१.६३ //
SKअनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा / कल्पनायाः समुद्घातः संज्ञादृक्क्लेशवर्जनम् // Aस_१.६४ //
SKशमथस्य च निध्यप्तिः कौशलं च विदर्शने / चित्तस्य दान्तता ज्ञानं सर्वत्रप्रतिघाति च // Aस_१.६५ //
SKसक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् / सर्वत्र स्वात्मभावस्य दर्शनं चेति विंशतिः // Aस_१.६६ //
SKसर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा / बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे // Aस_१.६७ //
SKअक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः / संचिन्त्य च भवादानमिदं कर्माष्टधोदितम् // Aस_१.६८ //
SKप्रणिधानान्यनन्तानि देवादीनां रूतज्ञता / नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा // Aस_१.६९ //
SKकुलजात्योश्च गोत्रश्च परिवारस्य जन्मनः / नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पदः // Aस_१.७० //
SKनवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते / येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः // Aस_१.७१ //
SK[प्रतिपक्षसम्भारः] प्रतिपक्षो ऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः / ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये // Aस_१.७२ //
SK२० - निर्याणप्रतिपत्तिः
SKउद्देशे समतायां च सत्त्वार्थे यत्नवर्जने / अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् // Aस_१.७३ //
SKसर्वाकारज्ञतायां च निर्याणं मार्गगोचरम् / निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका // Aस_१.७४ //
SKइत्यभिसमयालङ्कारे नाम
SKप्रज्ञापारमितोपदेशशास्त्रे प्रथमाधिकारः /
SK२ Mआर्गज्ञताधिकारः द्वितीयः
SKध्यामीकरणता भाभिर्देवानां योग्यतां प्रति / विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च // Aस_२.१ //
SKचतुर्णामार्यसत्यानामाकारानुपलम्भतः / श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये // Aस_२.२ //
SKरूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः / ऊस्माणौ ऽनुपलम्भेन तेषां मूर्धगतं मतम् // Aस_२.३ //
SKक्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः / दश भूमीः समारभ्य विस्तरास्थानदेशनात् // Aस_२.४ //
SKअग्रधर्मगतं प्रोक्तमार्यश्रावकर्त्मनि / तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात् // Aस_२.५ //
SK३ - प्रत्येकबुद्धमार्गः
SKपरोपदेशवैयर्थ्यं स्वयम्बोधात् स्वयम्भुवाम् / गम्भीरता च ज्ञानस्य खड्गानामभिधीयते // Aस_२.६ //
SKशुश्रूषा यस्या यस्यार्थे यत्र यत्र यथा यथा / स सो ऽर्थः ख्यात्यशब्दो ऽपि तस्य तस्य तथा तथा // Aस_२.७ //
SKग्राह्यार्थकल्पनाहानाद् ग्राहकस्याप्रहाणतः / आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः // Aस_२.८ //
SKप्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः / ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम् // Aस_२.९ //
SKअध्यात्मशून्यताद्याभी रूपादेरपरिग्राहात् / क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता // Aस_२.१० //
SK४ - बोधिसत्त्वमार्गः
SKक्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः / मार्गज्ञतायां दृङ्मार्गः सानुशंसो ऽयमुच्यते // Aस_२.११ //
SKआधाराधेयताभावात्तथताबुद्धयोर्मिथः / पर्यायेणाननुज्ञानं महत्ता साप्रमाणता // Aस_२.१२ //
SKपरिमाणान्तताभावो रूपादेरवधारणम् / तस्यां स्थितस्य बुद्धत्वे ऽनुद्ग्रहात्यागतादयः // Aस_२.१३ //
SKमैत्र्यादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः / सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् // Aस_२.१४ //
SKनिर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् / अप्राणिवधमारभ्य सर्वाकारज्ञतानये // Aस_२.१५ //
SKस्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् / दानादीनां च सम्बोधाविति मार्गज्ञताक्षणाः // Aस_२.१६ //
SK५ - भावनामार्गकारित्रम्
SKसर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः / उपक्रमाविषह्यत्वं बोधिराधारपूज्यता // Aस_२.१७ //
SK६ - भावनामार्गाधिमुक्तिः
SKअधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका / परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते // Aस_२.१८ //
SKमृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः / सा पुनस्त्रिबिधेत्येवं सप्तविंशतिधा मता // Aस_२.१९ //
SK७ - भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च
SKस्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति / अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते // Aस_२.२० //
SKविशेषः परिणामस्तु तस्य कारित्रमुत्तमम् / नोपलम्भाकृतिश्चासावविपर्यासलक्षणः // Aस_२.२१ //
SKविविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः / सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः // Aस_२.२२ //
SKत्रैधातुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा / मृदुर्मध्यो ऽधिमात्रश्च महापुण्योदयात्मकः // Aस_२.२३ //
SKउपायानुपलम्भाभ्यां शुभमूलानुमोदना / अनुमोदे मनस्कारभावनेह विधीयते // Aस_२.२४ //
SKअनास्रवो भावनामार्गः
SKस्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः / नोपलम्भेन धर्माणामर्पणा च महार्थता // Aस_२.२५ //
SK११ - अत्यन्तविशुद्धिः
SKबुद्धसेवा च दानादिरुपाये यच्च कौशलम् / हेतवो ऽत्राधिमोक्षस्य धर्मव्यसनहेतवः // Aस_२.२६ //
SKमाराधिष्ठानगम्भीरधर्मतानधिमुक्तते / स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः // Aस_२.२७ //
SKफलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः / अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता // Aस_२.२८ //
SKक्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् / हानाद् विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा // Aस_२.२९ //
SKमृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु / अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः // Aस_२.३० //
SKत्रिधातुप्रतिपक्षत्वं समता मानमेययोः / मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः // Aस_२.३१ //
SKइत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारः /
SK३ Sअर्वज्ञताधिकारः तृतीयः
SK१ - प्रज्ञया न भवे स्थानम्
SK२ - कृपया न शमे स्थितिः
SKनापरे न परे तीरे नान्तराले तयोः स्थिता / अध्वनां समताज्ञानात् प्रज्ञापारमिता मता // Aस_३.१ //
SK३ - अनुपायेन दूरत्वम्
SKअनुपायेन दूरं सा सनिमित्तोपलम्भतः / उपायकौशलेनास्याः सम्यगासन्नतोदिता // Aस_३.२ //
SKरुपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च / दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता // Aस_३.३ //
SKदानादिष्वनहंकारः परेषां तन्नियोजनम् / सङ्गकोटिनिषेधो ऽयं सूक्ष्मः सङ्गो जिनादिषु // Aस_३.४ //
SKतद्गाम्भीर्य प्रकृत्यैव विवेकाद् धर्मपद्धतेः / एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् // Aस_३.५ //
SKदृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता / रूपादिभिरविज्ञानात् तदचिन्त्यत्वमिष्यते // Aस_३.६ //
SKएवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये / अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः // Aस_३.७ //
SKरुपादौ तदनित्यादौ तदपूरिप्रपूरयोः / तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः // Aस_३.८ //
SKअविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा / यथाभव्य फलप्राप्तेरवन्ध्यो ऽभिमतश्च सः // Aस_३.९ //
SKअपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः /
SKचतुर्धामनना तस्य रूपादौ समता मता // Aस_३.१० //
SKधर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः / दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानय // Aस_३.११ //
SKरूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् / अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् // Aस_३.१२ //
SKपरिग्रहेण निर्मुक्तमव्याहारं स्वभावतः / प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः // Aस_३.१३ //
SKनोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः / अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति // Aस_३.१४ //
SKअसंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये / ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः // Aस_३.१५ //
SKइति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा / अधिकारत्रयस्यैषा समाप्तिः परिदीपिता // Aस_३.१६ //
SKइत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे तृतीयाधिकारः /
SK४ Sअर्वाकाराभिसम्बोधाधिकारः चतुर्थः
SKवस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् / सर्वज्ञतानां त्रैविध्यात् त्रिविधा एव ते मताः // Aस_४.१ //
SKअसदाकारमारभ्य यावन्निश्चलताकृतिः / चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः // Aस_४.२ //
SKहेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् / अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः // Aस_४.३ //
SKस्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः / शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् // Aस_४.४ //
SKसप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मताः / त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः // Aस_४.५ //
SKकृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः / मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम् // Aस_४.६ //
SKबुद्धोपासनसम्प्रश्नदानशीलादिचर्यया / उद्ग्रहधारणादीनां भाजनत्वं सतां मतम् // Aस_४.७ //
SKरूपादिष्वनवस्थानात् तेषु योगनिषेधतः / तत्तथतागम्भीरत्वात् तेषां दुरवगाहतः // Aस_४.८ //
SKतदप्रामाण्यतः कृच्छ्राच्चिरेण प्रतिबोधतः / व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे // Aस_४.९ //
SKआसन्नबोधे क्षिप्रं च परार्थे ऽवृद्धयहानितः / धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने // Aस_४.१० //
SKरूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः / फलरत्नप्रदाता च शुद्धकः सावधिश्च सः // Aस_४.११ //
SKमाराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः /
SKदोषाश्च षड् विबोद्धव्याश्चतुर्भिर्दशकैः सह // Aस_४.१२ //
SKलक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् / ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते // Aस_४.१३ //
SKतथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके / सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ // Aस_४.१४ //
SKअक्षयाकारतायां च सरागादौ प्रविस्तृते / महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने // Aस_४.१५ //
SKअदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् / पुनस्तथताकारेण तेषां ज्ञानमतः परम् // Aस_४.१६ //
SKतथतायां मुनेर्बोधतत्पराख्यानमित्ययम् / सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः // Aस_४.१७ //
SKशून्यत्वे सानिमित्ते च प्रणीधानविवर्जिते / अनुत्पादानिरोधादौ धर्मताया अकोपने // Aस_४.१८ //
SKअसंस्कारे ऽविकल्पे च प्रभेदालक्षणत्वयोः / मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते // Aस_४.१९ //
SKस्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ / गुरुत्वे माननायां च तत्पूजाकृतकत्वयोः // Aस_४.२० //
SKसर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् / लोकस्य शून्यताकारशूचकज्ञापकाक्षगम् // Aस_४.२१ //
SKअचिन्त्यशान्ततादर्शि लोकसंज्ञनिरोधि च / ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये // Aस_४.२२ //
SKअचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः / विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः // Aस_४.२३ //
SKअचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ / सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते // Aस_४.२४ //
SKक्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ / आलम्बनं च साधारं साकल्यं सम्परिग्रहः // Aस_४.२५ //
SKअनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः / विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते // Aस_४.२६ //
SKहितं सुखं च त्राणं च शरणं लयनं नृणाम् / परायणं च द्वीपं च परिणायकसंज्ञकम् // Aस_४.२७ //
SKअनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् / पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् // Aस_४.२८ //
SKक्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः / विवेको दुष्करैकान्तावुद्देशो ऽनुपलम्भकः // Aस_४.२९ //
SKनिषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः / विप्रत्ययो ऽविघाती च सो ऽपदागत्यजातिकः // Aस_४.३० //
SKतथतानुपलम्भश्च स्वभावः षोडशात्मकः / लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम् // Aस_४.३१ //
SKअनिमित्तप्रदानादिसमुदागमकौशलम् / सर्वाकारावबोधे ऽस्मिन् मोक्षभागीयमिष्यते // Aस_४.३२ //
SKबुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् / स्मृतिराशयसम्पत्तिः समाधिरविकल्पना // Aस_४.३३ //
SKधर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा / तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता // Aस_४.३४ //
SKआलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते / समचित्तादिराकारस्तेष्वेव दशधोदितः // Aस_४.३५ //
SKस्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च / तयोर्नियोजनान्येषां वर्णवादानुकूलते // Aस_४.३६ //
SKमूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा / तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः // Aस_४.३७ //
SKनिर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः / ये बोधिसत्त्वा वर्तन्ते सो ऽत्रावैवर्तिको गणः // Aस_४.३८ //
SKरूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विशतिधेरितैः / निर्वेधाङ्गशितस्येदमक्वैर्तिकलक्षणम् // Aस_४.३९ //
SKरूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयो / आत्मनः कुशलस्थस्य परेषां तन्नियोजनम् // Aस_४.४० //
SKपराधारं च दानादि गम्भीरे ऽर्थे ऽप्यकांक्षणम् / मैत्रं कायाद्यसंवासः पंचधावरणेन च // Aस_४.४१ //
SKसर्वानुशयहानं च स्मृतिसम्प्रज्ञता शुचि / चीवरादि शरीरे च कृमीणामसमुद्भवः // Aस_४.४२ //
SKचित्ताकौटिल्यमादानं धूतस्यामत्सरादिता / धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा // Aस_४.४३ //
SKपरैरनेयता मारस्यान्यमार्गोपदेशिनः / मार इत्येव बोधश्च चर्या बुद्धानुमोदिता // Aस_४.४४ //
SKऊष्ममूर्धसु सक्षान्तिष्वग्रधर्मेष्ववस्थितः / लिङ्गैरमीभिर्विशत्या सम्बोधेर्न निवर्तत्ते // Aस_४.४५ //
SKक्षान्तिज्ञानक्षणाः षट् च पञ्च पञ्च च दृक्पथे / बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् // Aस_४.४६ //
SKरूपादिसंज्ञाव्यावृत्तिर्दाढर्यं चित्तस्य हीनयोः / यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः // Aस_४.४७ //
SKकायचेतोलघुत्वं च कामसेवाभ्युपायिकी / सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता // Aस_४.४८ //
SKस्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके / समरे मत्सरादौ च नेति योगानुयोगयोः // Aस_४.४९ //
SKविहारप्रतिषेधश्च धर्मस्याणोरलब्धता / निश्चितत्त्वं स्वभूमौ च भूमित्रितयसंस्थितिः // Aस_४.५० //
SKधर्मार्थः जीवितत्याग इत्यमी षोडश क्षणाः / अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः // Aस_४.५१ //
SKगम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम् / समारोपापवादान्तमुक्तता सा गभीरता // Aस_४.५२ //
SKचिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः / निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च // Aस_४.५३ //
SKप्राबन्धिकत्वादिष्टो ऽसौ नवधा च प्रकारतः / मृदुमध्याधिमात्राणां पुनर्मृद्धादिभेदतः // Aस_४.५४ //
SKअसंख्येयादिनिर्देशाः परमार्थेन न क्षमाः / कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः // Aस_४.५५ //
SKहानिवृद्धी न युज्येते निरालापस्य वस्तुनः / भावनाख्येन किं हीनं वर्त्मना किमुपदागतम् // Aस_४.५६ //
SKयथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः / तथतालक्षणा बोधिः सो ऽपि तल्लक्षणो मतः // Aस_४.५७ //
SKपूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा / दीपदृष्टान्तयोगेन गम्भीरा धर्मताष्टधा // Aस_४.५८ //
SKउत्पादे च निरोधे च तथतायां गभीरता / ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले // Aस_४.५९ //
SK९ - भवशान्त्योः समता
SKस्वप्नोपमत्वाद् धर्माणां भवशान्त्योरकल्पना / कर्माभावादिचोद्यानां परिहारा यथोदिताः // Aस_४.६० //
SK१० - अनुत्तरा क्षेत्रशुद्धिः
SKसत्त्वलोकस्य याशुद्धिस्तस्याः शुद्ध्युपहारतः / तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता // Aस_४.६१ //
SKविषयो ऽस्य प्रयोगस्य शात्रवाणामतिक्रमः / अप्रतिष्ठो यथावेधमसाधारणलक्षणः // Aस_४.६२ //
SKअसक्तो ऽनुपलम्भश्च निमित्तप्रनिधिक्षतः / तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् // Aस_४.६३ //
SKइत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे चतुर्थाधिकारः //
SKMऊर्धाभिसमयाधिकारः पञ्चमः
SK१ - लिङ्गम(ऊष्मा मुर्धप्रयोगः)
SKस्वप्नान्तरे ऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् / मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् // Aस_५.१ //
SK२ - विवृद्धिः(मूर्धा मूर्धप्रयोगः)
SKजम्बुद्विपजनेयत्ताबुद्धपूजाशुभादिकाम् / उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका // Aस_५.२ //
SK३ - निरुधिः(क्षान्तिः मूर्धप्रयोगः)
SKत्रिसर्वज्ञत्वधर्माणां परिपुरिरनुत्तरा / अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते // Aस_५.३ //
SK४ - चित्तसंस्थितिः(अग्रधर्माख्यः मूर्धप्रयोगः)
SKचतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः / कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः // Aस_५.४ //
SK५ - दर्शनमार्गः(मूर्धप्रयोगः)
SKप्रवृत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ / ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ // Aस_५.५ //
SKद्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ / पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ // Aस_५.६ //
SKग्राह्यौ चेन्न तथा स्तो ऽर्थौ कस्य तौ ग्राहकौ मतौ / इति ग्राहकभावेन शून्यतालक्षणं तयोः // Aस_५.७ //
SKएष स्वभावे गोत्रे च प्रतिपत्समुदागमे / ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः // Aस_५.८ //
SKस्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले / प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः // Aस_५.९ //
SKभवशान्तिप्रपातित्वान्न्यूनत्वे ऽधिगमस्य च / परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते // Aस_५.१० //
SKपरप्रत्यगामित्वे समुद्देशनिवर्तने / प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः // Aस_५.११ //
SKपृष्ठतो गमने चेति विकल्पो ऽयं नवात्मकः / निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः // Aस_५.१२ //
SKग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे / मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च // Aस_५.१३ //
SKस्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः / सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ // Aस_५.१४ //
SKयथोद्देशमनिर्याणे मार्गामार्गावधारणे / सनिरोधे समुत्पादे वस्तुयोगवियोगयोः // Aस_५.१५ //
SKस्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः / प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहको ऽपरः // Aस_५.१६ //
SKबोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना / तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः // Aस_५.१७ //
SKक्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते / क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् // Aस_५.१८ //
SKप्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना / विकल्पजातं कि क्षीणं किं वानत्पत्तिमागतम् // Aस_५.१९ //
SKसत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः / कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया // Aस_५.२० //
SKनापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किंचन / द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते // Aस_५.२१ //
SKएकैकस्यैव दानादौ तेषां यः संग्रहो मिथः / स एकक्षणिकः क्षान्तिसंगृहीतो ऽत्र दृक्पथः // Aस_५.२२ //
SKस समाधिं समापद्य ततः सिंहविजृम्भितम् / अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते // Aस_५.२३ //
SK६ - भावनामार्गः(मूर्धप्रयोगः)
SKकामाप्तमबधीकृत्य विज्ञानमसमाहितम् / सनिरोधाः समपत्तीर्गत्त्वागम्य नव द्विधा // Aस_५.२४ //
SKएकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात् / अवस्कन्दसमापत्तिरनिरोधमतुल्यता // Aस_५.२५ //
SKसंक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे / त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि // Aस_५.२६ //
SKएको ग्राह्यविकल्पो ऽयं प्रयोगाकारगोचरः / द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः // Aस_५.२७ //
SKअनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया / हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः // Aस_५.२८ //
SKभावने ऽभावने चैव तद्विपर्यय एव च / अयथार्थश्च विज्ञेयो विकल्पो भावनापथे // Aस_५.२९ //
SKग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः / धर्मप्रत्यशून्यत्वसक्तिप्रविचयात्मकः // Aस_५.३० //
SKकृते च वस्तुनो यानत्रितये च स कीर्त्तितः / दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने // Aस_५.३१ //
SKसत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः / भावनामार्गसम्बद्धो विपक्षस्तद् विघाततः // Aस_५.३२ //
SKसर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृत्तौ / शान्तिमार्गतथतादिसम्प्रयोगवियोगयोः // Aस_५.३३ //
SKअसमत्वे च दुःखादौ क्लेशानां प्रकृतावपि / द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः // Aस_५.३४ //
SKआसां क्षये सतीतीनां चिरायोच्छ्वसिता इव / सर्वाकारजगत्सौख्यसाधना गुणसम्पदः // Aस_५.३५ //
SKसर्वाः सर्वाभिसारेण निकामफलशालिनम् / भजन्ते तं महासत्त्वं महोदधिमिवापगाः // Aस_५.३६ //
SK७ - आनन्तर्यसमाधिः(मूर्धप्रयोगः)
SKत्रिसाहस्रजनं शिष्यखड्गाधिगमसम्पदि / बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः // Aस_५.३७ //
SKकृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः / आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् // Aस_५.३८ //
SKआलम्बनमभावो ऽस्य स्मृतिश्चाधिपतिर्मतः / आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम् // Aस_५.३९ //
SKआलम्बनोपपत्तौ च तत्स्वभावावधारणे / सर्वाकरज्ञताज्ञाने परमार्थे ससंवृत्तौ // Aस_५.४० //
SKप्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः / विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः // Aस_५.४१ //
SKलक्षणे भावनायां च मता विप्रतिपत्तयः / सर्वाकारज्ञताधारा षोढा दश च वादिनाम् // Aस_५.४२ //
SKइत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे पंचमाधिकारः /
SKĀनुपूर्विकाधिकारः षष्ठः
SKदानेन प्रज्ञया यावद् बुद्धादौ स्मृतिभिश्च सा / धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता // Aस_६.१ //
SKइत्यभिसमायालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारः /
SKEकक्षणाभिसम्बोधाधिकारः सप्तमः
SKअनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् / एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः // Aस_७.१ //
SKअरघट्टं यथैकापि पदिका पुरुषेरिता / सकृत् सर्वं चालयति ज्ञानमेकक्षणे तथा // Aस_७.२ //
SKविपाकधर्मतावस्था सर्वशुक्लमयी यदा / प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा // Aस_७.३ //
SKस्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया / अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति // Aस_७.४ //
SKस्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते / धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति // Aस_७.५ //
SKइत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारः /
SKDहर्मकायाधिकारः अष्टमः
SKसर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः / स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः // Aस_८.१ //
SKबोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः / नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम् // Aस_८.२ //
SKअभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः / अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः // Aस_८.३ //
SKसर्वाकाराश्चतस्त्रो ऽथ शुद्धयो वशिता दश / बलानि दश चत्वारि वैशारद्यान्यरक्षणम् // Aस_८.४ //
SKत्रिविधं स्मुत्युपस्थानं त्रिधासंमोषधर्मता / वासनायाः समुद्घातो महती करुणा जने // Aस_८.५ //
SKआवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः / सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते // Aस_८.६ //
SKश्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता / तत्क्लेशस्त्रोतौच्छित्त्यै ग्रामादिषु जिनारणा // Aस_८.७ //
SKअनाभोगमनासङ्गमव्याघातं सदा स्थितम् / सर्वप्रश्नापनुद् बौद्धं प्रणिधिज्ञानमिष्यते // Aस_८.८ //
SKपरिपाकं गते हेतौ यस्य यस्य यदा यदा / हितं भवति कर्त्तव्यं प्रथते तस्य तस्य सः // Aस_८.९ //
SKवर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति / समुत्पादे ऽपि बुद्धानां नाभव्यो भद्रमश्नुते // Aस_८.१० //
SKइति कारित्रवैपुल्याद् बुद्धो व्यापी निरुच्यते / अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते // Aस_८.११ //
SKद्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् / साम्भोगिको मतः कायो महायानोपभोगतः // Aस_८.१२ //
SKचक्राङ्कहस्तः क्रमकूर्मपादो जालावनद्धाङ्गुलिपाणिपादः / करौ सपादौ तरुणौ मृदू च समुत्सदै सप्तभिराश्रयो ऽस्य // Aस_८.१३ //
SKदीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा / एणेयजङ्घश्च पटूरुबाहुः कोशावनद्धोत्तमबस्तिगुह्यः // Aस_८.१४ //
SKसुवर्णवर्णः प्रतनूच्छविश्च प्रदक्षिणैकैकसुजातरोमा / ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः // Aस_८.१५ //
SKहीनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः / उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः // Aस_८.१६ //
SKतुल्याः प्रमाणे ऽविरलाश्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः / नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि // Aस_८.१७ //
SKयस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः / तस्य तस्य प्रपूर्यायं समुदागमलक्षणः // Aस_८.१८ //
SKगुरूणामनुयानादिर्दृढता संवरं प्रति / संग्रहासेवनं दानं प्रणीतस्य च वस्तुनः // Aस_८.१९ //
SKवध्यमोक्षसमादानं विवृद्धिः कुशलस्य च / इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः // Aस_८.२० //
SKताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः / वृत्ताश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः // Aस_८.२१ //
SKगूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः / विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता // Aस_८.२२ //
SKमुष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता / पूर्वव्यञ्जनता चारुपृथुमण्डलगात्रता // Aस_८.२३ //
SKसमक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता / अदीनोत्सदगात्रत्वे सुसंहतनगात्रता // Aस_८.२४ //
SKसुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता / वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता // Aस_८.२५ //
SKदक्षिणावर्तता नाभेः समन्ताद् दर्शनीयता / समाचारः शुचिः कालतिलकापगता तनुः // Aस_८.२६ //
SKकरौ तुलमृदू स्निग्धगम्भीरायतलेखता / नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता // Aस_८.२७ //
SKमृद्वी तन्वी च रक्ता च जिव्हा जीमूतघोषता / चारूमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः // Aस_८.२८ //
SKअनुपूर्वी गतास्तुङ्गा नासिका परमं शुचिः / विशाले नयने पक्ष्मचितं पद्मदलाक्षिता // Aस_८.२९ //
SKआयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ / पीनायतौ समौ कर्णावुपघातविवर्जितौ // Aस_८.३० //
SKललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता / भ्रभराभाश्चिताः श्लक्ष्णा असंलुलितमुर्तयः // Aस_८.३१ //
SKकेशा अपरुषाः पुसां सौरभ्यादपहारिणः / श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम् // Aस_८.३२ //
SKकरोति येन चित्राणि हितानि जगतः समम् / आभवात् सो ऽनुपच्छिन्नः कायो नैर्माणिको मुनेः // Aस_८.३३ //
SKबुद्धकारित्राणि तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते / गतीनां शमनं कर्म संग्रहे च चतुर्विधे // Aस_८.३४ //
SKनिवेशनं ससंक्लेशे व्यवदानावबोधने / सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च // Aस_८.३५ //
SKबुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये / संकेते ऽनुपलम्भे च परिपाके च देहिनाम् // Aस_८.३६ //
SKबोधिसत्त्वस्य मार्गे ऽभिनिवेशस्य निवारणे / बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति // Aस_८.३७ //
SKअप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे / बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने // Aस_८.३८ //
SKविपर्यासप्रहाणे च तदवस्तुकतानये / व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति // Aस_८.३९ //
SKव्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् / धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् // Aस_८.४० //
SKइत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे अष्टमाधिकारः /