Essence of Ultimate Reality

Paramārthasāra · Pअरमार्थसार

Essence of Ultimate Reality

Paramārthasāra

Pअरमार्थसार

SK
परं परस्याः प्रकृतेर् अनादिम् एकं निविष्टं बहुधा गुहासु | सर्वालयं सर्वचराचरस्थं त्वाम् एव विष्णुं शरनं प्रपद्ये ||
SK
आत्माम्बुराशौ निखिलो ऽपि लोको मग्नो ऽपि नाचामति नेक्षते च | आश्चर्यम् एतन् मृगतृष्णिकाभे भवाम्बुराशौ रमते मृषैव ||
SK
गर्भगृहवाससम्भवजन्मजरामरणविप्रयोगाब्धौ | जगद् आलोक्य निमग्नं प्राह गुरुं प्राञ्जलिः शिष्यः ||
SK
त्वं साङ्गवेदवेत्ता भेत्ता संशयगणस्य ऋतवक्ता | संसारार्णवतरणप्रश्नं पृच्छाम्य् अहं भगवन् ||
SK
दीर्घे ऽस्मिन् संसारे संसरतः कस्य केन सम्बन्धः | कर्म शुभाशुभफलदम् अनुभवति गतागतैर् इह कः ||
SK
कर्मगुणजालबद्धो जीवः संसरति कोशकार इव | मोहान्धकारगहनात् तस्य कथं बन्धनान् मोक्षः ||
SK
गुणपुरुषविभागज्ञे धर्माधर्मौ न बन्धकौ भवतः | इति गदितपूर्ववाक्यैः प्रकृतिं पुरुषं च मे ब्रूहि ||
SK
इत्य् आधारो भगवान् पृष्टः शिष्येण तं स होवाच | विदुषाम् अप्य् अतिगहनं वक्तव्यम् इदं शृणु तथापि त्वम् ||
SK
सत्यम् इव जगद् असत्यं मूलप्रकृतेर् इदं कृतं येन | तं प्रणिपत्योपेन्द्रं वक्ष्ये परमार्थसारम् इदम् ||
SK
अव्यक्ताद् अण्डम् अभूद् अण्डाद् ब्रह्मा ततः प्रजासर्गः | मायामयी प्रवृत्तिः संह्रियत इयं पुनः क्रमशः ||
SK
मायामयो ऽप्य् अचेता गुणकरणगणः करोति कर्माणि | तदधिष्टाता देही सचेतनो ऽपि न करोति किंचिद् अपि ||
SK
यद्वद् अचेतनम् अपि सन् निकटस्थे भ्रामके भ्रमति लोहम् | तद्वत् करणसमूहश् चेष्टति चिदधिष्ठिते देहे ||
SK
यद्वत् सवितर्य् उदिते करोति कर्माणि जीवलोको ऽयम् | न च तानि करोति रविर् न कारयति तद्वद् आत्मापि ||
SK
मनसो ऽहंकारविमूर्च्छितस्य चैतन्यबोधितस्येह | पुरुषाभिमानसुखदुःखभावना भवति मूढस्य ||
SK
कर्ता भोक्ता द्रष्टास्मि कर्मणाम् उत्तमादीनाम् | इति तत् स्वभावविमलो ऽभिमन्यते सर्वगो ऽप्य् आत्मा ||
SK
नानाविधवर्णानां वर्णं धत्ते यथामलः स्फटिकः | तद्वद् उपाधेर् गुणभावितस्य भावं विभुर् धत्ते ||
SK
गच्छति गच्छति सलिले दिनकरबिम्बं स्थिते स्थितिं याति | अन्तःकरणे गच्छति गच्छत्य् आत्मापि तद्वद् इह ||
SK
राहुर् अदृश्यो ऽपि यथा शशिबिम्बस्थः प्रकाशते जगति | सर्वगतो ऽपि तथात्मा बुद्धिस्थो दृश्यताम् एति ||
SK
सर्वगतं निरुपमम् अद्वैतं तच् चेतसा गम्यम् | यद् बुद्धिगतं ब्रह्मोपलभ्यते शिष्य बोध्यं तत् ||
SK
बुद्धिमनोऽहंकारास् तन्मात्रेन्द्रियगणाश् च भूतगणः | संसारसर्गपरिरक्षणक्षमाः प्राकृता हेयाः ||
SK
धर्माधर्मौ सुखदुःखकल्पना स्वर्गनरकवासश् च | उत्पत्तिनिधनवर्णाश्रमा न सन्तीह परमार्थे ||
SK
मृगतृष्णायाम् उदकं शुक्तौ रजतं भुजंगमो रज्ज्वाम् | तैमिरिकचन्द्रयुगवद् भ्रान्तं निखिलं जगद्रूपम् ||
SK
यद्वद् दिनकर एको विभाति सलिलाशयेषु सर्वेषु | तद्वत् सकलोपधिष्व् अवस्थितो भाति परमात्मा ||
SK
खम् इव घटादिष्व् अन्तर् बहिः स्थितं ब्रह्म सर्वपिण्डेषु | देहे ऽहम् इत्य् अनात्मनि बुद्धिः संसारबन्धाय ||
SK
सर्वविकल्पनहीनः शुद्धो बुद्धो ऽजरामरः शान्तः | अमलः सकृद् विभातश् चेतन आत्मा खवद् व्यापी ||
SK
रसफाणितशर्करिकागुडखण्डा विकृतयो यथैवेक्षोः | तद्वद् अवस्थाभेदाः परमात्मन्य् एव बहुरूपाः ||
SK
विज्ञानान्तर्यामिप्राणविराड्देहजातिपिण्डान्ताः | व्यवहारास् तस्यात्मन्य् एते ऽवस्थाविशेषाः स्युः ||
SK
रज्ज्वां नास्ति भुजंगः सर्पभयं भवति हेतुना केन | तद्वद् द्वैतविकल्पभ्रान्तिर् अविद्या न सत्यम् इदम् ||
SK
एतत् तद् अन्धकारं यद् अनात्मन्य् आत्मता भ्रान्त्या | न विदन्ति वासुदेवं सर्वात्मानं नरा मूढाः ||
SK
प्राणाद्यनन्तभेदैर् आत्मानं संवितत्य जालम् इव | संहरति वासुदेवः स्वविभूत्या क्रीडमान इव ||
SK
त्रिभिर् एव विश्वतैजसप्राज्ञैस् तैर् आदिमध्यनिधनाख्यैः | जाग्रत्स्वप्नसुषुप्तैर् भ्रमभूतैश् छादितं तुर्यम् ||
SK
मोहयतीवात्मानं स्वमायया द्वैतरूपया देवः | उपलभते स्वयम् एवं गुहागतं पुरुषम् आत्मानम् ||
SK
ज्वलनाद् धूमोद्गतिभिर् विविधाकृतिर् अम्बरे यथा भाति | तद्वद् विष्णौ सृष्टिः स्वमायया द्वैतविस्तरा भाति ||
SK
शान्त इव मनसि सान्ते हृष्टे हृष्ट इव मूढ इव मूढे | व्यवहारस्थो न पुनः परमार्थत ईश्वरो भवति ||
SK
जलदहरधूमोद्गतिभिर् मलिनीक्रियते यथा न गगनतलम् | तद्वत् प्रकृतिविकारैर् अपरामृष्टः परः पुरुषः ||
SK
एक्समिन्न् अपि च घटे धूमादिमलवृते शेषाः | न भवन्ति मलोपेता यद्वद् जीवो ऽपि तद्वद् इह ||
SK
देहेन्द्रियेषु नियताः कर्म गुणाः कुर्वते स्वभोगार्थम् | नाहं कर्ता न ममेति जानतः कर्म नैव बध्नाति ||
SK
अन्यशरीरेण कृतं कर्म भवेद् येन देह उत्पन्नः | तद् अवश्यं भोक्तव्यं भोगाद् एव क्षयो ऽस्य निर्दिष्टः ||
SK
प्राग्ज्ञानोत्पत्तिचितं यत् कर्म ज्ञानशिखिशिखालीढम् | बीजम् इव दहनदग्धं जन्मसमर्थं न तद् भवति ||
SK
ज्ञानोत्पत्तेर् ऊर्ध्वं क्रियमानं कर्म यत् तद् अपि नाम | न श्लिष्यति कर्तारं पुष्करपत्त्रं यथा वारि ||
SK
वाग्देहमानसैर् इह कर्मचयः क्रियत इति बुद्धाः प्राहुः | एको ऽपि नाहम् एषां कर्ता तत्कर्मणां नास्मि ||
SK
कर्मफलबीजनाशाज् जन्मविनाशो न चात्र संदेहः | बुद्ध्वैवम् अपगततमाः सवितेवाभाति भारूपः ||
SK
यद्वद् इषीकातूलं पवनोद्धूतं हि दश दिशो याति | ब्रह्मणि तत्त्वज्ञानात् तथैव कर्माणि तत्त्वविदः ||
SK
क्षीराद् उद्धृतम् आज्यं क्षिप्तं यद्वन् न पूर्ववत् तस्मिन् | प्रकृतिगुणेभ्यस् तद्वत् पृथक्कृतश् चेतनो नात्मा ||
SK
गुणमयमायागहनं निर्धूय यथा तमः सहस्रांशुः | बाह्याभ्यन्तरचारी सैन्धवघनवद् भवेत् पुरुषः ||
SK
यद्वद् देहो ऽवयवा मृद् एव तस्य विकारजातानि | तद्वत् स्थावरजङ्गमम् अद्वैतं द्वैतवद् भाति ||
SK
एकस्मात् क्षेत्रज्ञाद् बह्व्यः क्षेत्रज्ञजातयो जाताः | लोहगताद् इव दहनात् समन्ततो विष्फुलिङ्गगणाः ||
SK
ते गुणसंगमदोषाद् बद्धा इव धान्यजातयः स्वतुषैः | जन्म लभन्ते तावद् यावन् न ज्ञानवह्निना दग्धाः ||
SK
त्रिगुणा चैतन्यात्मनि सर्वगते ऽवस्थिते ऽखिलाधारे | कुरुते सृष्टिम् अविद्या सर्वत्र स्पृश्यते तया नात्मा ||
SK
रज्ज्वां भुजंगहेतुः प्रभवविनाशौ यथा न स्तः | जगदुत्पत्तिविनाशौ न च कारणम् अस्ति तद्वद् इह ||
SK
जन्मविनाशनगमनागममलसम्बन्धवर्जितो नित्यम् | आकाश इव घटादिषु सर्वात्मा सर्वदोपेतः ||
SK
कर्मशुभाशुभफलसुखदुःखैर् योगो भवत्य् उपाधीनाम् | तत्संसर्गाद् बन्धस् तस्करसंगाद् अतस्करवद् ||
SK
देहगुणकरणगोचरसंगात् पुरुषस्य यावद् इह भावः | तावन् मायापाशैः संसारे बद्ध इव भाति ||
SK
मातृपितृपुत्रबान्धवधनभोगविभागसंमूढाः | जन्मजरामरणमये चक्र इव भ्राम्यते जन्तुः ||
SK
लोकव्य्वहारकृतां य इहाविद्याम् उपासते मूढाः | ते जननमरणधर्माणो ऽन्धं तम एत्य खिद्यन्ते ||
SK
हिमफेनबुद्बुदा इव जलस्य धूमो यथा वह्नेः | तद्वत् स्वभावभूता मायैषा कीर्तिता विष्णोः ||
SK
एवं द्वैतविकल्पां भ्रमस्वरूपां विमोहनीं मायाम् | उत्सृज्य सकलनिष्कलम् अद्वैतं भावयेद् ब्रह्म ||
SK
यद्वत् सलिले सलिलं क्षीरे क्षिरं समीरणे वायुः | तद्वद् ब्रह्मणि विमले भावनया तन्मयत्वम् उपयाति ||
SK
इत्थं द्वैतसमूहे भावनया ब्रह्मभूयम् उपयाते | को मोहः कः शोकः सर्वं ब्रह्मावलोकयतः ||
SK
विगतोपाधिः स्फटिकः स्वप्रभया भाति निर्मलो यद्वत् | चिदीपः स्वप्रभया तथा विभातीह निरुपाधिः ||
SK
गुणगणकरणशरीरप्राणैस् तन्मात्रजातिसुखदुःखैः | अपरामृष्टो व्यापी चिद्रूपो ऽयं सदा विमलः ||
SK
द्रष्टा श्रोता घ्राता स्पर्शयिता रसयिता ग्रहीता च | देही देहेन्द्रियधीविवर्जितः स्यान् न कर्तासौ ||
SK
एको नैकत्रावस्थितो ऽहम् ऐश्वर्ययोगतो व्याप्तः | आकाशवद् अखिलम् इदं न कश्चिद् अप्य् अत्र संदेहः ||
SK
आत्मैवेदं सर्वं निष्कलसकलं यदैव भावयति | मोहगहनाद् वियुक्तस् तदैव परमेश्वरीभूतः ||
SK
यद् यत् सिद्धान्तागमतर्केषु प्रब्रुवन्ति रागान्धाः | अनुमोदामस् तत् तत् तेषां सर्वात्मवादधिया ||
SK
सर्वाकारो भगवान् उपास्यते येन येन भावेन | तं तं भावं भूत्वा चिन्तामणिवत् समभ्येति ||
SK
नारायणम् आत्मानं ज्ञात्वा सर्गस्थितिप्रलयहेतुम् | सर्वज्ञः सर्वगतः सर्वः सर्वेश्वरो भवति ||
SK
आत्मज्ञस् तरति शुचं यस्माद् विद्वान् बिभेति न कुतश्चित् | मृत्योर् अपि मरणभयं न भवत्य् अन्यत् कुतस् तस्य ||
SK
क्षयवृद्धिवध्यघातकबन्धनमोक्षैर् विवर्जितं नित्यम् | परमार्थतत्त्वम् एतद् यद् अतो ऽन्यत् तद् अनृतं सर्वम् ||
SK
एवं प्रकृतिं पुरुषं विज्ञाय निरस्तकल्पनाजालः | आत्मारामः प्रशमं समास्थितः केवलीभवति ||
SK
नलकदलिवेणुवाणा नश्यन्ति यथा स्वपुष्पम् आसाद्य | तद्वत् स्वभावभूताः स्वभावतां प्राप्य नश्यन्ति ||
SK
भिन्ने ऽज्ञानग्रन्थौ छिन्ने संशयगणे शुभे क्षीणे | दग्धे च जन्मबीजे परमात्मानं हरिं याति ||
SK
मोक्षस्य नैव किंचिद् धामास्ति न चापि गमनम् अन्यत्र | अज्ञानमयग्रन्थेर् भेदो यस् तं विदुर् मोक्षम् ||
SK
बुद्ध्वैवम् असत्यम् इदं विष्णोर् मायात्मकं जगद्रूपम् | विगतद्वन्द्वोपाधिकभोगासंगो भवेच् छान्तः ||
SK
बुद्ध्वा विभक्तां प्रकृतिं पुरुषः संसारमध्यगो भवति | निर्मुक्तः सर्वकर्मभिर् अम्बुजपत्त्रं यथा सलिलैः ||
SK
अश्नन् यद्वा तद्वा संवीतो येन केनचिच् छान्तः | यत्र क्वचन च शायी विमुच्यते सर्वभूतात्मा ||
SK
हयमेधसहराण्य् अप्य् अथ कुरुते ब्रह्मघातलक्षाणि | परमार्थविन् न पुण्यैर् न च पापैः स्पृश्यते विमलः ||
SK
मदकोपहर्षमत्सरविषादभयपरुषवर्ज्य् अवाग्बुद्धिः | निःस्तोत्रवषट्कारो जडवद् विचरेद् अगाधमतिः ||
SK
उत्पत्तिनाशवर्जितम् एवं परमार्थम् उपलभ्य | कृतकृत्यसफलजन्मा सर्वगतस् तिष्ठति यथेष्टम् ||
SK
व्यापिनम् अभिन्नम् इत्थं सर्वात्मानं विधूतनानात्वम् | निरुपमपरमानन्दं यो वेद स तन्मयो भवति ||
SK
तीर्थे श्वपचगृहे वा नष्टस्मृतिर् अपि परित्यजन् देहम् | ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ||
SK
पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः | पुण्यापुण्यकलंकस्पर्शाभावे तु किं तेन ||
SK
वृक्षाग्राच् च्युतपादो यद्वद् अनिच्छन् नरः क्षितौ पतति | तद्वद् गुणपुरुषज्ञो ऽनिच्छन्न् अपि केवलीभवति ||
SK
परमार्थमार्गसाधनम् आरभ्याप्राप्य योगम् अपि नाम | सुरलोकभोगभोगी मुदितमना मोदते सुचिरम् ||
SK
विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा | भुवनेषु सर्वदेवैर् योगभ्रष्टस् तथा पूज्यः ||
SK
महता कालेन महान् मानुष्यं प्राप्य योगम् अभ्यस्य | प्राप्नोति दिव्यम् अमृतं यत् तत् परमं पदं विष्णोः ||
SK
वेदान्तशास्त्रम् अखिलं विलोक्य शेषस् तु जगदाधारः | आर्यपञ्चाशीत्या बबन्ध परमार्थसारम् इदम् ||
SK
इति परमार्थसारं समाप्तम् ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Ādiśeṣa: Paramārthasāra (sa_AdizeSa-paramArthasAra.htm).

Source