Sutras of Samkhya with the Summary of Principles

Sāṃkhyasūtra including the Tattvasamāsa, an abstract of Sāṃkhya philosophy (appended at the end) · Sआंख्यसूत्र इन्च्लुदिन्ग् थे Tअत्त्वसमास, अन् अब्स्त्रच्त् ओf Sआंख्य फिलोसोफ्य् (अप्पेन्देद् अत् थे एन्द्)

Sutras of Samkhya with the Summary of Principles

Sāṃkhyasūtra including the Tattvasamāsa, an abstract of Sāṃkhya philosophy (appended at the end)

Sआंख्यसूत्र इन्च्लुदिन्ग् थे Tअत्त्वसमास, अन् अब्स्त्रच्त् ओf Sआंख्य फिलोसोफ्य् (अप्पेन्देद् अत् थे एन्द्)

SK
विषयाध्यायः
SK
अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्त पुरुषार्थः | Kअप्Sस्_१.१ |
SK
(परमपुरुषार्थस्वरूपं)
SK
न दृष्टात् तत्सिद्धिः, निवृत्ते ऽप्यनुवृत्ति दर्शनात् | Kअप्Sस्_१.२ |
SK
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
SK
प्रात्यहिक क्षुत्प्रतीकारवत् तत्प्रतीकार चेष्टनात् पुरुषार्थत्वं | Kअप्Sस्_१.३ |
SK
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
SK
सर्वासम्भवात्, सम्भवे ऽपि सत्तासम्भवात् हेयः प्रमाणकुशलैः | Kअप्Sस्_१.४ |
SK
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
SK
उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः | Kअप्Sस्_१.५ |
SK
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)
SK
अविशेषश्चोभयोः | Kअप्Sस्_१.६ |
SK
(वैदिकोपायानामपि दुःखनिवृत्त्यनुपायता)
SK
न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः | Kअप्Sस्_१.७ |
SK
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)
SK
स्वभावस्यानपायित्वात्, अननुष्ठानलक्षणमप्रामाण्यं | Kअप्Sस्_१.८ |
SK
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)
SK
नाशक्योपदेशविधिः, उपदिष्टे ऽप्यनुपदेशः | Kअप्Sस्_१.९ |
SK
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)
SK
शुक्लपटवत् बीजवच्चेत् | Kअप्Sस्_१.१० |
SK
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), पू
SK
शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः | Kअप्Sस्_१.११ |
SK
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), सि
SK
न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् | Kअप्Sस्_१.१२ |
SK
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः) न देशयोगतो ऽप्यस्मात् | Kअप्Sस्_१.१३ | (बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः)
SK
नावस्थातो देहधर्मत्वात्तस्याः | Kअप्Sस्_१.१४ |
SK
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)
SK
असङ्गो ह्ययं पुरुष इति | Kअप्Sस्_१.१५ |
SK
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)
SK
न कर्मणान्यधर्मत्वात् अतिप्रसक्तेश्च | Kअप्Sस्_१.१६ |
SK
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)
SK
विचित्रभोगानुपपत्तिः अन्यधर्मत्वे | Kअप्Sस्_१.१७ |
SK
(बन्धस्य चित्तगात्रधर्मत्वानुपपत्तिः)
SK
प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यं | Kअप्Sस्_१.१८ |
SK
(बन्धस्य प्रकृतिनिमित्तकत्वानुपपत्तिः)
SK
न नित्यशुद्ध बुद्धमुक्त स्वभावस्य तद्योगस्तद्योगाहते | Kअप्Sस्_१.१९ |
SK
(बन्धस्य प्रकृतिनिगित्तकत्वानुपपत्तिः)
SK
नाविद्यातो ऽ प्यवस्तुना बन्धायोगात् | Kअप्Sस्_१.२० |
SK
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)
SK
वस्तुत्वे सिन्धान्तहानिः | Kअप्Sस्_१.२१ |
SK
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)
SK
विजातीयद्वैतापत्तिश्च | Kअप्Sस्_१.२२ |
SK
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)
SK
विरुद्धोभयरूपा चेत् | Kअप्Sस्_१.२३ |
SK
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू
SK
न तादृक्पदार्थाप्रतीतेः | Kअप्Sस्_१.२४ |
SK
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि
SK
न वयं षट्पदार्थवादिनः वैशेषिकादिवत् | Kअप्Sस्_१.२५ |
SK
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू
SK
अनियतत्वे ऽपि नायौक्तिकस्य संग्रहः, अन्यथा बालोन्मत्तादिसमत्वं | Kअप्Sस्_१.२६ |
SK
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि
SK
नानादिविषयोपराग निमित्तको ऽप्यस्य | Kअप्Sस्_१.२७ |
SK
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)
SK
न बाह्याभ्यन्तरयोः उपरज्योपञ्जक भावो ऽपि देशव्यवधानात् स्रुघ्नस्थ पाटलिपुत्रस्थयोरिव | Kअप्Sस्_१.२८ |
SK
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)
SK
द्वयोरेकदेशलब्धोपरागान्न व्यवस्था | Kअप्Sस्_१.२९ |
SK
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)
SK
अदृष्टवशाच्चेत् | Kअप्Sस्_१.३० |
SK
(बन्थस्य विषयवासनानिमित्तकत्वनिरासः), पू
SK
न द्वयोरेककालयोगादुपकार्योपकारकभावः | Kअप्Sस्_१.३१ |
SK
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), सि
SK
पुत्रकर्मवदिति चेत् | Kअप्Sस्_१.३२ |
SK
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), पू
SK
नास्ति हि तत्र स्थिर एक आत्मा यो गर्भाधानादिकर्मणा संस्क्रियते | Kअप्Sस्_१.३३ |
SK
(बन्धस्य विषयवासनानिमित्तकत्व निरासः), सि
SK
स्थिरकार्यासिद्धेः क्षणिकत्वं | Kअप्Sस्_१.३४ |
SK
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,पु
SK
न प्रत्यभिज्ञाबाधात् | Kअप्Sस्_१.३५ |
SK
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,सि
SK
श्रुतिन्यायविरोश्र्वच्च | Kअप्Sस्_१.३६ |
SK
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
SK
दृष्टान्तासिद्धेश् च | Kअप्Sस्_१.३७ |
SK
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
SK
युगपज्जायमानयोः न कार्यकारणभावः | Kअप्Sस्_१.३८ |
SK
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
SK
पूर्वापाये उत्तरायोगात् | Kअप्Sस्_१.३९ |
SK
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
SK
तद्भावे तदयोगात् उभयव्यभिचारादपि न | Kअप्Sस्_१.४० |
SK
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
SK
पूर्वभावमात्रे न नियमः | Kअप्Sस्_१.४१ |
SK
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)
SK
न विज्ञानमात्रं बाह्यप्रतीतेः | Kअप्Sस्_१.४२ |
SK
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)
SK
तदभावे तदभावात् शून्यं तर्हि | Kअप्Sस्_१.४३ |
SK
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)
SK
शून्यं तत्त्वं, भावो विनश्यति, वस्तुधर्मत्वात् विनाशस्य | Kअप्Sस्_१.४४ |
SK
(सर्वशून्यतावादखण्डनं), पू
SK
अपवादमात्रं अबुद्धानां | Kअप्Sस्_१.४५ |
SK
(सर्वशून्यतावादखण्डनं), सि
SK
उभयपक्षसमानक्षेमत्वादयमपि | Kअप्Sस्_१.४६ |
SK
(सर्वशून्यतावादखण्डनं)
SK
अपुरुषार्थत्वमुभयथा | Kअप्Sस्_१.४७ |
SK
(सर्वशून्यतावादखण्डनं)
SK
न गतिविशेषात् | Kअप्Sस्_१.४८ |
SK
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
SK
निष्क्रियस्य तदसम्भवात् | Kअप्Sस्_१.४९ |
SK
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) मूर्तत्वात् घटादिवत् समानधर्मापत्तौ अपसिद्धान्तः | Kअप्Sस्_१.५० | (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
SK
गतिश्रुतिरपि उपाधियोगादाकाशवत् | Kअप्Sस्_१.५१ |
SK
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)
SK
न कर्मणाप्यतद्धर्मत्वात् | Kअप्Sस्_१.५२ |
SK
(कर्मणो बन्धनिमित्तत्वनिरासः)
SK
अतिप्रसक्तिः अन्यधर्मत्वे | Kअप्Sस्_१.५३ |
SK
(कर्मणो बन्धनिमित्तत्वनिरासः)
SK
निर्गुणादि श्रुतिविरोधश्चेति | Kअप्Sस्_१.५४ |
SK
(कर्मणो बन्धनिमित्तत्वनिरासः)
SK
तद्योगो ऽप्यविवेकान्न समानत्वं | Kअप्Sस्_१.५५ |
SK
(अविवेकनिमित्तप्रकृतिपुरुषसंयोगस्यैव बन्धहेतुत्वं)
SK
नियतकारणात्तदुच्छित्तिः ध्वान्तवत् | Kअप्Sस्_१.५६ |
SK
(विवेकस्यैव अविवेक नाशहेतुत्वं)
SK
प्रधानाविवेकात् अन्याविवेकस्य तद्धाने हानं | Kअप्Sस्_१.५७ |
SK
(विवेकस्यैव अविवेक नाशहेतुत्वं)
SK
वाड्मात्रं न तुतत्त्वं चित्तस्थितेः | Kअप्Sस्_१.५८ |
SK
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)
SK
युक्तितो ऽपि न बाध्यते दिङ्मूढवपरोक्षाहते | Kअप्Sस्_१.५९ |
SK
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)
SK
अचाक्षुषाणामनुमानेन बोधः धूमादिभिरिव वह्नैः | Kअप्Sस्_१.६० |
SK
(प्रकृतिपुरुषयोरानुमानिकत्वं)
SK
सत्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महातो ऽहङ्कारः, अहङ्कारात् पञ्चतन्मात्राणि, उभयमिन्द्रियं तन्मात्रेभ्यः,स्थूलभूतानि पुरुषः इति पञ्चविंशतिर्गणः | Kअप्Sस्_१.६१ |
SK
(पञ्चविंशतितत्त्वसिद्धिः)
SK
स्थूलात् पञ्चतन्मात्रस्य | Kअप्Sस्_१.६२ |
SK
(पञ्चविंशतितत्त्वसिद्धिः)
SK
बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य | Kअप्Sस्_१.६३ |
SK
(पञ्चविंशतितत्त्वसिद्धिः)
SK
तेनान्तः करणस्य | Kअप्Sस्_१.६४ |
SK
(पञ्चविंशतितत्त्वसिद्धिः)
SK
ततः प्रकृतेः | Kअप्Sस्_१.६५ |
SK
(पञ्चविंशतितत्त्वसिद्धिः)
SK
संहतपरार्थत्वात् पुरुषस्य | Kअप्Sस्_१.६६ |
SK
(पञ्चविंशतितत्त्वसिद्धिः)
SK
मूले मूलाभावादमूलं मूलं | Kअप्Sस्_१.६७ |
SK
(प्रकृतेरेव सर्वजगन्मूलत्वं)
SK
पारम्पयैऽपि एकत्र परिनिष्ठेति संज्ञामात्रं | Kअप्Sस्_१.६८ |
SK
(प्रकृतेरेव सर्वजगन्मूलत्वं)
SK
समाजः प्रकृतेर्द्वयोः | Kअप्Sस्_१.६९ |
SK
(प्रकृतेरेव सर्वजगन्मूलत्वं)
SK
अधिकारित्रैविध्यात् न नियमः | Kअप्Sस्_१.७० |
SK
(विवेकमननस्य असार्वत्रिकत्वे हेतुः)
SK
महदाख्यं आद्यं कार्यं तन्मनः | Kअप्Sस्_१.७१ |
SK
(महत्तत्वस्वरूपं)
SK
चरमो ऽहङ्कारः | Kअप्Sस्_१.७२ |
SK
(अहङ्कारतत्वस्वरूपं)
SK
तत्कार्यत्वमुत्तरेषां | Kअप्Sस्_१.७३ |
SK
(तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः)
SK
आद्यहेतुता तद्द्वारा पारम्पर्ये ऽप्यणुवत् | Kअप्Sस्_१.७४ |
SK
(तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः)
SK
पूर्वभावित्वे द्वयोरेकतरस्य हाने अन्यतरयोगः | Kअप्Sस्_१.७५ |
SK
(प्रकृतेरेव सर्वकारणत्ते नियामकं)
SK
न परिच्छिन्नं सर्वोपादानं | Kअप्Sस्_१.७६ |
SK
(प्रकृतेरेव सर्वकारणत्वे नियामकं)
SK
तदुत्पात्तिश्रुतेश्च | Kअप्Sस्_१.७७ |
SK
(प्रकृतेरेव सर्वकारणत्वे नियामकं)
SK
नावस्तुनो वस्तुसिद्धिः | Kअप्Sस्_१.७८ |
SK
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)
SK
अबाधात् अदुष्टकारण जन्यत्वाच्च नावस्तुत्वं | Kअप्Sस्_१.७९ |
SK
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)
SK
भावे तद्योगेन तत्सिद्धिः, अभावे तदभावात् कुतस्तरां तत्सिद्धिः | Kअप्Sस्_१.८० |
SK
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)
SK
न कर्मण उपादानत्वायोगात् | Kअप्Sस्_१.८१ |
SK
(कर्मणां जगदपादानाता निरासः)
SK
नानुश्रविकादपि तत्सिद्धिः, साध्यत्वेनाऽवृत्तियोगादपुरुषार्थत्वं | Kअप्Sस्_१.८२ |
SK
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
SK
तत्र प्राप्तिविवेकस्य अनावृत्तिश्रुतिः | Kअप्Sस्_१.८३ |
SK
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) दुःखाद्दुःखं जलभिषेकवन्न जाड्यविमोकः | Kअप्Sस्_१.८४ | (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
SK
काम्ये ऽकाम्येपि साध्यत्वाविशेषात् | Kअप्Sस्_१.८५ |
SK
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)
SK
विजमुक्तस्य बन्धध्वंसमात्रं, परं न समानत्वं | Kअप्Sस्_१.८६ |
SK
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) द्वयोरेकतरस्यवाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत्तत्त्रिविधं प्रमाणं | Kअप्Sस्_१.८७ | (प्रमा स्वरूपं, प्रमाणेयत्ता च)
SK
तत्सिद्धौ सर्वसिद्धेः नाधिक्यसिद्धिः | Kअप्Sस्_१.८८ |
SK
(प्रमा स्वरूपं, प्रमार्णयत्ताच)
SK
यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षं | Kअप्Sस्_१.८९ |
SK
(प्रत्यक्षलक्षणं)
SK
योगिनामबाह्यप्रत्यक्षत्वात् न दोषः | Kअप्Sस्_१.९० |
SK
(प्रत्यक्षलक्षणं)
SK
लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः | Kअप्Sस्_१.९१ |
SK
(प्रत्यक्षलक्षणं)
SK
ईश्वरासिद्धेः | Kअप्Sस्_१.९२ |
SK
(तदङ्गतया ईश्वरसत्ता निरासः)
SK
मुक्तामुक्तयोः अत्यतराभावान्न तत्सिद्धिः | Kअप्Sस्_१.९३ |
SK
(तदङ्गतया ईश्वरसत्ता निरासः)
SK
उभयथाप्यसत्करत्वं | Kअप्Sस्_१.९४ |
SK
(तदङ्गतया ईश्वरसत्ता निरासः)
SK
मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा | Kअप्Sस्_१.९५ |
SK
(तदङ्गतया ईश्वरसत्ता निरासः)
SK
तत्सन्निधानात् अधिष्ठातृत्वं मणिवत् | Kअप्Sस्_१.९६ |
SK
(तदङ्गतया ईश्वरसत्ता निरासः)
SK
विशेषकार्येष्वपि जीवानां | Kअप्Sस्_१.९७ |
SK
(तदङ्गतया ईश्वरसत्ता निरासः)
SK
सिद्धरूप बोद्धृत्वात् वाक्यार्थोपदेशः | Kअप्Sस्_१.९८ |
SK
(तदङ्गतया ईश्वरसत्ता निरासः)
SK
अन्तः करणस्य तदुज्ज्वलितत्वात् लोहवत् अधिष्ठातृत्वं | Kअप्Sस्_१.९९ |
SK
(अन्तः करणस्यैव मुख्यमधिष्ठानत्वं)
SK
प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानं | Kअप्Sस्_१.१०० |
SK
(अनुमान लक्षणं)
SK
आप्तोपदेशः शब्दः | Kअप्Sस्_१.१०१ |
SK
(शब्द लक्षणं)
SK
उभयसिद्धिः प्रमाणात्तदुपदेशः | Kअप्Sस्_१.१०२ |
SK
(प्रमाणस्वरूपविवेचन फलं)
SK
सामान्यतो दृष्टादुभयसिद्धिः | Kअप्Sस्_१.१०३ |
SK
(सामान्यतोदृष्टरूपानुमानविशेषनिरूपणं)
SK
चिदवसानो भोगः | Kअप्Sस्_१.१०४ |
SK
(निर्दुष्टं प्रमास्वरूपं)
SK
अकर्तुरपि फलोपभोगो ऽन्नाद्यवत् | Kअप्Sस्_१.१०५ |
SK
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)
SK
अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः | Kअप्Sस्_१.१०६ |
SK
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)
SK
नोभयं च तत्वाख्याने | Kअप्Sस्_१.१०७ |
SK
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
SK
विषयो ऽविषयो ऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य | Kअप्Sस्_१.१०८ |
SK
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
SK
सौक्ष्म्यात्तदनुपलरुब्धिः | Kअप्Sस्_१.१०९ |
SK
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
SK
कार्यदर्शनात्तदुपलब्धेः | Kअप्Sस्_१.११० |
SK
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)
SK
वादिविप्रतिपत्तेः तदसिद्धिरिति चेत् | Kअप्Sस्_१.१११ |
SK
(सत्कार्यवाद निरूपणं), पू
SK
तथाप्येकतरदृष्ट्या एकतरसिद्धेः नापलापः | Kअप्Sस्_१.११२ |
SK
(सत्कार्यवाद निरूपणं), सि
SK
त्रिविधविरोधापत्तेश्च | Kअप्Sस्_१.११३ |
SK
(सत्कार्यवाद निरूपणं)
SK
नासदुत्पादो नृशृङ्गवत् | Kअप्Sस्_१.११४ |
SK
(असत्कार्यवादनिराकरणं)
SK
उपादाननियमात् | Kअप्Sस्_१.११५ |
SK
(असत्कार्यवादनिराकरणं)
SK
सर्वत्र सर्वदा सर्वासम्भवात् | Kअप्Sस्_१.११६ |
SK
(असत्कार्यवादनिराकरणं)
SK
शक्तस्य शक्यकरणात् | Kअप्Sस्_१.११७ |
SK
(असत्कार्यवादनिराकरणं)
SK
कारणभावाच्च | Kअप्Sस्_१.११८ |
SK
(असत्कार्यवादनिराकरणं)
SK
न भावे भावयोगश्चेत् | Kअप्Sस्_१.११९ |
SK
(सतः कार्यत्वोपपत्तिः), पू
SK
नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ | Kअप्Sस्_१.१२० |
SK
(सतः कार्यत्वोपपत्तिः), सि
SK
नाशः कारणलयः | Kअप्Sस्_१.१२१ |
SK
(नाशस्वरूपं)
SK
पारम्पर्यतो ऽन्वेषणा बीजाङ्कुरवत् | Kअप्Sस्_१.१२२ |
SK
(अभिव्यक्तिपक्षे अनवस्थापरिहारः)
SK
उत्पत्तिवददोषः | Kअप्Sस्_१.१२३ |
SK
(अभिव्यक्तिपक्षे अनवस्थापरिहारः) हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं | Kअप्Sस्_१.१२४ | (कार्यस्वरूपं)
SK
आञ्जस्यादभेदतोवा गुणसामान्यादेः तत्सिद्धिः प्रधानव्यपदेशाद्वा | Kअप्Sस्_१.१२५ |
SK
(कार्यस्वरूपं)
SK
त्रिगुणाचेतनत्वादि द्वयोः | Kअप्Sस्_१.१२६ |
SK
(कार्यकारणयोः साधर्म्यवैधर्म्ये)
SK
प्रीत्यप्रीतिविषादाद्यैः गुणानां अन्योन्यं वैधर्म्यं | Kअप्Sस्_१.१२७ |
SK
(कार्यकारणयोः साधर्म्यवैधर्म्ये)
SK
लध्वैदि धर्मैः साधर्म्यं च गुणानां | Kअप्Sस्_१.१२८ |
SK
(कार्यकारणयोः साधर्म्यवैधर्म्ये)
SK
उभयान्यत्वात् कार्यत्वं महदादेर्घटादिवत् | Kअप्Sस्_१.१२९ |
SK
(महदादेः कार्यत्वोपपत्तिः)
SK
परिमाणात् | Kअप्Sस्_१.१३० |
SK
(महदादेः कार्यत्वोपपत्तिः)
SK
समन्वयात् | Kअप्Sस्_१.१३१ |
SK
(महदादेः कार्यत्वोपपत्तिः)
SK
शक्तितश्चेति | Kअप्Sस्_१.१३२ |
SK
(महदादेः कार्यत्वोपपत्तिः)
SK
तद्धाने प्रकृतिः पुरुषो वा | Kअप्Sस्_१.१३३ |
SK
(महदादेः कार्यत्वोपपत्तिः)
SK
तयोरन्यत्वे तुच्छत्वं | Kअप्Sस्_१.१३४ |
SK
(महदादेः कार्यत्वोपपत्तिः)
SK
कार्यात्कारणानुमानं तत्साहित्यात् | Kअप्Sस्_१.१३५ |
SK
(कार्यैः कारणानुमानविधिः)
SK
अव्यक्तं त्रिगुणाल्लिङ्गात् | Kअप्Sस्_१.१३६ |
SK
(कार्येभ्यः प्रकृतेः वैधर्म्यं)
SK
तत्कार्यतस्तत्सिद्धेर्नापलापः | Kअप्Sस्_१.१३७ |
SK
(कार्येभ्यः प्रकृतेः वैधर्म्यं)
SK
सामान्येन विवादाभावात् धर्मवन्न साधनं | Kअप्Sस्_१.१३८ |
SK
(पुरुषास्तित्व साधनं)
SK
शरीरादिव्यतिरिक्तः पुमान् | Kअप्Sस्_१.१३९ |
SK
(पुरुषास्तित्व साधनं)
SK
संहतपरार्थत्वात् | Kअप्Sस्_१.१४० |
SK
(पुरुषास्तित्व साधनं)
SK
त्रिगुणादिविपर्ययात् | Kअप्Sस्_१.१४१ |
SK
(पुरुषास्तित्व साधनं)
SK
अधिष्ठानाच्चेति | Kअप्Sस्_१.१४२ |
SK
(पुरुषास्तित्व साधनं)
SK
भोतृभावात् | Kअप्Sस्_१.१४३ |
SK
(पुरुषास्तित्व साधनं)
SK
कैवल्यार्थं प्रवृत्तेश्च | Kअप्Sस्_१.१४४ |
SK
(पुरुषास्तित्व साधनं)
SK
जडप्रकाशायोगात्प्रकाशः | Kअप्Sस्_१.१४५ |
SK
(पुरुषस्य प्रकाशस्वरूपत्वं)
SK
निर्गुणत्वान्नचिद्धर्मा | Kअप्Sस्_१.१४६ |
SK
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)
SK
श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबोधात् | Kअप्Sस्_१.१४७ |
SK
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)
SK
सुषुप्त्याद्यसाक्षित्वं | Kअप्Sस्_१.१४८ |
SK
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)
SK
जन्मादुव्यवस्थातः पुरुषबहुत्वं | Kअप्Sस्_१.१४९ |
SK
(पुरुषबहुत्व साधनं)
SK
उपाधिभेदे ऽप्येकस्य नानायोगः आकाशस्येव घटादिभिः | Kअप्Sस्_१.१५० |
SK
(पुरुषबहुत्व साधनं)
SK
उपाधिर्भिद्यते न तु तद्वान् | Kअप्Sस्_१.१५१ |
SK
(पुरुषबहुत्व साधनं)
SK
एवमेकत्वेन परिवर्तमानस्य न विरुद्ध धर्माध्यासः | Kअप्Sस्_१.१५२ |
SK
(पुरुषबहुत्व साधनं)
SK
अन्यधर्मत्वे ऽपि नारोपात्तत्सिद्धिरेकत्वात् | Kअप्Sस्_१.१५३ |
SK
(पुरुषबहुत्व साधनं)
SK
नाद्वैतश्रुतिविरोधो जातिपरत्वात् | Kअप्Sस्_१.१५४ |
SK
(आत्मैक्यवादोपपत्तिः)
SK
विदितबन्धकारणस्य दृष्ट्यातद्रूपं | Kअप्Sस्_१.१५५ |
SK
(आत्मैक्यवादोपपत्तिः)
SK
नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः | Kअप्Sस्_१.१५६ |
SK
(आत्मैक्यवादोपपत्तिः)
SK
वामदेवादिर्मुक्तो नाद्वैतं | Kअप्Sस्_१.१५७ |
SK
(आत्मैक्यवादोपपत्तिः)
SK
अनादावद्यावदभावाद्भविष्यदप्येवं | Kअप्Sस्_१.१५८ |
SK
(आत्मैक्यवादोपपत्तिः)
SK
इदीनीमिव सर्वत्र नात्यन्तोच्छेदः | Kअप्Sस्_१.१५९ |
SK
(आत्मैक्यवादोपपत्तिः)
SK
व्यावृत्तोभयरूपः | Kअप्Sस्_१.१६० |
SK
(आत्मनां सदैकरूपत्वं) साक्षात्सम्बन्धात्साक्षित्वं | Kअप्Sस्_१.१६१ | (आत्मनां सदैकरूपत्वं)
SK
नित्यमुक्तत्वं | Kअप्Sस्_१.१६२ |
SK
(आत्मनां सदैकरूपत्वं)
SK
औदासीन्यं चेति | Kअप्Sस्_१.१६३ |
SK
(आत्मनां सदैकरूपत्वं)
SK
उपरागात्कर्तृत्वं चित्सान्निध्यात् चित्सान्निध्यात् | Kअप्Sस्_१.१६४ |
SK
(वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः), प्रधानकार्य
SK
विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य | Kअप्Sस्_२.१ |
SK
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
SK
विरक्तस्य तत्सिद्धेः | Kअप्Sस्_२.२ |
SK
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
SK
न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात् | Kअप्Sस्_२.३ |
SK
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
SK
बहुभृत्यवद्वा प्रत्येकं | Kअप्Sस्_२.४ |
SK
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)
SK
प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः | Kअप्Sस्_२.५ |
SK
(पुरुषे स्रष्टृत्वनिराकरणं)
SK
कार्यतस्तत्सिद्धेः | Kअप्Sस्_२.६ |
SK
(पुरुषे स्रष्टृत्वनिराकरणं)
SK
चेतनोद्देशान्नियमः कण्टकमोक्षवत् | Kअप्Sस्_२.७ |
SK
(पुरुषे स्रष्टृत्वनिराकरणं)
SK
अन्ययोगे ऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत् | Kअप्Sस्_२.८ |
SK
(पुरुषे स्रष्टृत्वनिराकरणं)
SK
रागविरागयोः योगः सृष्टिश्च | Kअप्Sस्_२.९ |
SK
(सृष्टिं प्रति मुख्यं निमित्तकारणं) महदादिक्रमेण पञ्चभूतानां | Kअप्Sस्_२.१० | (पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)
SK
आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः | Kअप्Sस्_२.११ |
SK
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)
SK
दिक्कालावाकाशादिभ्यः | Kअप्Sस्_२.१२ |
SK
(दिक्कालयोः सृष्टिः)
SK
अध्यवसायो बुद्धिः | Kअप्Sस्_२.१३ |
SK
(महत्तत्व स्वरूप कार्यादिः)
SK
तत्कार्यं धर्मादि | Kअप्Sस्_२.१४ |
SK
(महत्तत्व स्वरूप कार्यादिः)
SK
महदुपरागाद्विपरीतं | Kअप्Sस्_२.१५ |
SK
(महत्तत्व स्वरूप कार्यादिः)
SK
अभिमानो ऽहङ्कारः | Kअप्Sस्_२.१६ |
SK
(अहङ्कारतत्वस्वरूपकार्यादिः)
SK
एकादश पञ्चतन्मात्रं तत्कार्यं | Kअप्Sस्_२.१७ |
SK
(अहङ्कारतत्वस्वरूपकार्यादिः)
SK
सात्विकं एकादशकं प्रवर्तते वैकृतादहङ्कारात् | Kअप्Sस्_२.१८ |
SK
(अहङ्कारतत्वस्वरूपकार्यादिः)
SK
कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं | Kअप्Sस्_२.१९ |
SK
(इन्द्रियाणां स्वरूपं)
SK
आहङ्कारिकत्वश्रुतेः न भौतिकानि | Kअप्Sस्_२.२० |
SK
(इन्द्रियाणां स्वरूपं)
SK
देवतालयश्रुतिर्नारम्भकस्य | Kअप्Sस्_२.२१ |
SK
(इन्द्रियाणां स्वरूपं)
SK
तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च | Kअप्Sस्_२.२२ |
SK
(इन्द्रियाणां अनित्यता)
SK
अतीन्द्रियं इन्द्रियं भ्रान्तानामधिष्ठाने | Kअप्Sस्_२.२३ |
SK
(गोलकानामेवेन्द्रियत्व निराकरणं)
SK
शक्तिभेदे ऽपि भेदसिद्धौ नैकत्वं | Kअप्Sस्_२.२४ |
SK
(एकेन्द्रियवादनिरासः)
SK
न कल्पनाविरोधः प्रमाणदृष्टस्य | Kअप्Sस्_२.२५ |
SK
(एकेन्द्रियवादनिरासः)
SK
उभयात्मकं च मनः | Kअप्Sस्_२.२६ |
SK
(मनसः ज्ञानकर्मोभयात्मकत्वं)
SK
गुणपरिणामभेदान्नानात्वमवस्थावत् | Kअप्Sस्_२.२७ |
SK
(मनसः ज्ञानकर्मोभयात्मकत्वं)
SK
रूपादिरसमलान्त उभयोः | Kअप्Sस्_२.२८ |
SK
(इन्द्रियाणां विषयाः)
SK
द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां | Kअप्Sस्_२.२९ |
SK
(इन्द्रियाणां आत्मोकारकत्वं)
SK
त्रयाणां स्वालक्षण्यं | Kअप्Sस्_२.३० |
SK
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः)
SK
सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च | Kअप्Sस्_२.३१ |
SK
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः)
SK
क्रमशो ऽक्रमशश्चेन्द्रियवृत्तिः | Kअप्Sस्_२.३२ |
SK
(इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः)
SK
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः | Kअप्Sस्_२.३३ |
SK
(पञ्चविधाः धीवृत्तयः) तन्निवृत्तावुपशान्तोपरागः स्वस्थः | Kअप्Sस्_२.३४ | (वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः)
SK
कुसुमवच्च मणिः | Kअप्Sस्_२.३५ |
SK
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः)
SK
पुरुषार्थं करणोद्भवो ऽप्यदृष्टोल्लासात् | Kअप्Sस्_२.३६ |
SK
(इन्द्रियप्रवृत्त्युपाधिः)
SK
धेनुवद्वत्साय | Kअप्Sस्_२.३७ |
SK
(इन्द्रियप्रवृत्त्युपाधिः)
SK
करणं त्रयोदशाविधं अवान्तरभेदात् | Kअप्Sस्_२.३८ |
SK
(करणानां त्रयोदशत्वं)
SK
इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत् | Kअप्Sस्_२.३९ |
SK
(करणानां त्रयोदशत्वं)
SK
द्वयोः प्रधानं मनो लोकवत् भृत्यवर्गेषु | Kअप्Sस्_२.४० |
SK
(करणेषु गौणमुख्यभावव्यवस्था)
SK
अव्यभिचारात् | Kअप्Sस्_२.४१ |
SK
(करणेषु गौणमुख्यभावव्यवस्था)
SK
तथाशेषसंस्काराधारत्वात् | Kअप्Sस्_२.४२ |
SK
(करणेषु गौणमुख्यभावव्यवस्था)
SK
स्मृत्यानुमानाच्च | Kअप्Sस्_२.४३ |
SK
(करणेषु गौणमुख्यभावव्यवस्था)
SK
सम्भवेन्न स्वतः | Kअप्Sस्_२.४४ |
SK
(करणेषु गौणमुख्यभावव्यवस्था)
SK
आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् | Kअप्Sस्_२.४५ |
SK
(करणेषु गौणमुख्यभावव्यवस्था)
SK
तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत् | Kअप्Sस्_२.४६ |
SK
(करणेषु गौणमुख्यभावव्यवस्था)
SK
समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् | Kअप्Sस्_२.४७ |
SK
(करणेषु गौणमुख्यभावव्यवस्था)
SK
वैराग्याध्या
SK
अविशेषात् विशेषारम्भः | Kअप्Sस्_३.१ |
SK
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
SK
तस्माच्छरीरस्य | Kअप्Sस्_३.२ |
SK
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
SK
तदीजात् संसृतिः | Kअप्Sस्_३.३ |
SK
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)
SK
आविवेकाच्च प्रवर्तनमविशेषाणां | Kअप्Sस्_३.४ |
SK
(संसृतेः विवेकपर्यन्तत्वं) उपभोगादितरस्य | Kअप्Sस्_३.५ | (संसृतेः विवेकपर्यन्तत्वं)
SK
सम्प्रति परिमुक्तो द्वाभ्यां | Kअप्Sस्_३.६ |
SK
(संसृतेः विवेकपर्यन्तत्वं)
SK
मातापितृजं स्थूलं प्रायशः इतरन्न तथा | Kअप्Sस्_३.७ |
SK
(स्थूलनदिनर शरीरयोः भेदः)
SK
पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य | Kअप्Sस्_३.८ |
SK
(स्थूलनदिनर शरीरयोः भेदाः)
SK
सप्तदशैकं लिङ्गं | Kअप्Sस्_३.९ |
SK
(लिङ्गशरीरं तत्कार्यं च)
SK
व्यक्तिभेदः कर्मविशेषात् | Kअप्Sस्_३.१० |
SK
(लिङ्गशरीरं तत्कार्यं च)
SK
तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः | Kअप्Sस्_३.११ |
SK
(लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य)
SK
न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च | Kअप्Sस्_३.१२ |
SK
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)
SK
मूर्तत्वे ऽपि न सङ्घातयोगात् तरणिवत् | Kअप्Sस्_३.१३ |
SK
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)
SK
अणुपरिमाणं तत्कृतिश्रुतेः | Kअप्Sस्_३.१४ |
SK
(लिङ्गशरीरपरिमाणं)
SK
तदन्नमयत्वश्रुतेश्च | Kअप्Sस्_३.१५ |
SK
(लिङ्गशरीरपरिमाणं)
SK
पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः | Kअप्Sस्_३.१६ |
SK
(लिङ्गशरीरसंसृतेः पुरुषार्थत्वं)
SK
पाञ्चभौतिको देहः | Kअप्Sस्_३.१७ |
SK
(स्थूलशरीरस्वरुपविषये मत भेदाः)
SK
चातुर्भौतिकमित्येके | Kअप्Sस्_३.१८ |
SK
(चैतन्यस्य भूतधर्मत्वा भावः)
SK
ऐकभौतिकमित्यपरे | Kअप्Sस्_३.१९ |
SK
(चैतन्यस्य भूतधर्मत्वा भावः)
SK
न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः | Kअप्Sस्_३.२० |
SK
(चैतन्यस्य भूतधर्मत्वा भावः)
SK
प्रपञ्चमरणाद्यभावश्च | Kअप्Sस्_३.२१ |
SK
(चैतन्यस्य भूतधर्मत्वा भावः)
SK
मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः | Kअप्Sस्_३.२२ |
SK
(चैतन्यस्य भूतधर्मत्वा भावः)
SK
ज्ञानान्मुक्तिः | Kअप्Sस्_३.२३ |
SK
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)
SK
बन्धो विपर्ययात् | Kअप्Sस्_३.२४ |
SK
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)
SK
नियतकारणत्वान्न समुच्चयविकल्पौ | Kअप्Sस्_३.२५ |
SK
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)
SK
स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य | Kअप्Sस्_३.२६ |
SK
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)
SK
इतरस्यापि नात्यन्तिकं | Kअप्Sस्_३.२७ |
SK
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)
SK
सङ्कल्पिते ऽप्येवं | Kअप्Sस्_३.२८ |
SK
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)
SK
भावनोपचयात् शुद्धस्य सर्वं प्रकृतिवत् | Kअप्Sस्_३.२९ |
SK
(उपासनाफलं)
SK
रागोपहतिः ध्यानं | Kअप्Sस्_३.३० |
SK
(ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं)
SK
वृत्तिनिरोधात् तत्सिद्धिः | Kअप्Sस्_३.३१ |
SK
(ध्यानसिद्ध्युपायः)
SK
धारणासनस्वकर्मणा तत्सिद्धिः | Kअप्Sस्_३.३२ |
SK
(ध्यानसाधनानि, तेषां लक्षणानि च)
SK
निरोधः छर्दिविधारणाभ्यां | Kअप्Sस्_३.३३ |
SK
(ध्यानसाधनानि, तेषां लक्षणानि च)
SK
स्थिरसुखमासनं | Kअप्Sस्_३.३४ |
SK
(ध्यानसाधनानि, तेषां लक्षणानि च)
SK
स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं | Kअप्Sस्_३.३५ |
SK
(ध्यानसाधनानि, तेषां लक्षणानि च)
SK
वैराग्यात् अभ्यासाच्च | Kअप्Sस्_३.३६ |
SK
(मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः)
SK
विपर्ययभेदाः पञ्च | Kअप्Sस्_३.३७ |
SK
(बन्धहेतुविपर्ययविभागः)
SK
अशक्तिरष्टविशतिधा तु | Kअप्Sस्_३.३८ |
SK
(विपर्ययहेतूनां अशक्तीनां भेदाः)
SK
तुष्टिर्नवधा | Kअप्Sस्_३.३९ |
SK
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)
SK
सिद्धिरष्टधा | Kअप्Sस्_३.४० |
SK
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)
SK
अवान्तरभेदाः पूर्ववत् | Kअप्Sस्_३.४१ |
SK
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) एवमितरस्याः | Kअप्Sस्_३.४२ | (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
SK
आध्यत्मिकादि भेदात् नवधा तुष्टिः | Kअप्Sस्_३.४३ |
SK
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
SK
ऊहादिभिः सिद्धिरष्टधा | Kअप्Sस्_३.४४ |
SK
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)
SK
नेतरादितरहानेन विना | Kअप्Sस्_३.४५ |
SK
(तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः)
SK
दैवादिप्रभेदा | Kअप्Sस्_३.४६ |
SK
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)
SK
आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् | Kअप्Sस्_३.४७ |
SK
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)
SK
ऊर्ध्वं सत्वविशाला | Kअप्Sस्_३.४८ |
SK
(गुणप्रभेदेन सृष्टिभेदाः)
SK
तमोविशालामूलतः | Kअप्Sस्_३.४९ |
SK
(गुणप्रभेदेन सृष्टिभेदाः)
SK
मध्ये रजोविशाला | Kअप्Sस्_३.५० |
SK
(गुणप्रभेदेन सृष्टिभेदाः)
SK
कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् | Kअप्Sस्_३.५१ |
SK
(विचित्रसृष्टीनां निमित्तं)
SK
आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः | Kअप्Sस्_३.५२ |
SK
(आमुक्ति सृष्टीनां हेयत्वं)
SK
समानं जरामरणादिनं दुःखं | Kअप्Sस्_३.५३ |
SK
(आमुक्ति सृष्टीनां हेयत्वं)
SK
न कारणलयात् कृतकृत्यता मग्नवदुत्थानात् | Kअप्Sस्_३.५४ |
SK
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
SK
अकार्यत्वे ऽपि तद्योगः पारवश्यात् | Kअप्Sस्_३.५५ |
SK
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
SK
स हि सर्ववित् सर्वकर्ता | Kअप्Sस्_३.५६ |
SK
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)
SK
ईदृशेश्वरसिद्धिः सिद्धा | Kअप्Sस्_३.५७ |
SK
(प्रकृतिलीनस्यैव जन्येश्वरत्वं)
SK
प्रधानसृष्टिः परार्थं स्वतो ऽप्यभोक्तृत्वात् | Kअप्Sस्_३.५८ |
SK
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)
SK
उष्ट्रकुङ्कुमवहनवत् | Kअप्Sस्_३.५९ |
SK
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)
SK
अचेतनत्वे ऽपि क्षीरवच्चेष्टितं प्रधानस्य | Kअप्Sस्_३.६० |
SK
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
SK
कर्मवत् दृष्टेर्वा कालादेः | Kअप्Sस्_३.६१ |
SK
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
SK
स्वभावाच्चेष्टितमनभिसन्धानात् भृत्यवत् | Kअप्Sस्_३.६२ |
SK
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
SK
कर्माकृष्टेर्वानादितः | Kअप्Sस्_३.६३ |
SK
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)
SK
विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके | Kअप्Sस्_३.६४ |
SK
(सृष्टिनिवृत्तिहेतुः)
SK
इतरैतरवत्तद्दोषात् | Kअप्Sस्_३.६५ |
SK
(सृष्टिनिवृत्तिहेतुः)
SK
द्वयोरेकतस्य वौदासीन्यमपवर्गः | Kअप्Sस्_३.६६ |
SK
(सृष्टिनिवृत्तिहेतुः)
SK
अन्यसृष्ट्युपरागे ऽपि न विरज्य (म) ते प्रबुद्धरज्जुतत्वस्येवोरगः | Kअप्Sस्_३.६७ |
SK
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः)
SK
कर्मनिमित्तयोगाच्च | Kअप्Sस्_३.६८ |
SK
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः)
SK
नैरपेक्ष्ये ऽपि प्रकृत्युपकारे ऽविवेको निमित्तं | Kअप्Sस्_३.६९ |
SK
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
SK
नर्तकीवत् प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात् | Kअप्Sस्_३.७० |
SK
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
SK
दोषबोधे ऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् | Kअप्Sस्_३.७१ |
SK
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)
SK
नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते | Kअप्Sस्_३.७२ |
SK
(बन्धमोक्षयोः आत्मगतत्वाभावः)
SK
प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् | Kअप्Sस्_३.७३ |
SK
(बन्धमोक्षयोः आत्मगतत्वाभावः)
SK
रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण | Kअप्Sस्_३.७४ |
SK
(बन्धमोक्षनिमित्तानि)
SK
निमित्तत्वमविवेकस्य न दृष्टहानिः | Kअप्Sस्_३.७५ |
SK
(बन्धमोक्षनिमित्तानि)
SK
तत्वाभ्यासान्नेति नेतीति त्यागात् विवेकसिद्धिः | Kअप्Sस्_३.७६ |
SK
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)
SK
अधिकारिप्रभेदान्न नियमः | Kअप्Sस्_३.७७ |
SK
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)
SK
बाधितानुवृत्त्या मध्यविवेकतो ऽप्युपभोगः | Kअप्Sस्_३.७८ |
SK
(विवेकविशेषस्यैव निस्तारोपायत्वं) जीवन्मुक्तश्च | Kअप्Sस्_३.७९ | (विवेकविशेषस्यैव निस्तारोपायत्वं)
SK
उपदेश्योपदेष्टृत्वात्तत्सिद्धिः | Kअप्Sस्_३.८० |
SK
(जीवन्मुक्तिसाधनं)
SK
श्रुतिश्च | Kअप्Sस्_३.८१ |
SK
(जीवन्मुक्तिसाधनं)
SK
इतरथा अन्धपरम्परा | Kअप्Sस्_३.८२ |
SK
(जीवन्मुक्तिसाधनं)
SK
चक्रभ्रमणवत् धृतशरीरः | Kअप्Sस्_३.८३ |
SK
(जीवन्मुक्तिसाधनं)
SK
संस्कारलेशतः तत्सिद्धिः | Kअप्Sस्_३.८४ |
SK
(जीवन्मुक्तिसाधनं)
SK
विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात् | Kअप्Sस्_३.८५ |
SK
(पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं)
SK
आख्यायिका
SK
राजपुत्रवत् तत्वोपदेशात् | Kअप्Sस्_४.१ |
SK
(तत्त्वोपदेशस्य विवेकहेतुत्वं)
SK
पिशाचवदन्यार्थोपदेशे ऽपि | Kअप्Sस्_४.२ |
SK
(तत्त्वोपदेशस्य विवेकहेतुत्वं)
SK
आवृत्तिरसकृदुपदेशात् | Kअप्Sस्_४.३ |
SK
(तत्त्वोपदेशस्य विवेकहेतुत्वं)
SK
पितापुत्रवदुभयोर्दृष्टत्वात् | Kअप्Sस्_४.४ |
SK
(क्वचिदनुमानात् देहस्य भङ्गुरताज्ञानोपपत्तिः)
SK
श्येनवत् सुखदुःखी त्याग वियोगाभ्यां | Kअप्Sस्_४.५ |
SK
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
SK
अहिनिर्ल्वयिनीवत् | Kअप्Sस्_४.६ |
SK
(ज्ञाननिष्पत्त्यङ्ग मनोधमोः)
SK
छिन्नहस्तवद्वा | Kअप्Sस्_४.७ |
SK
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
SK
असाधनानुचिन्तनं बन्धाय भरतवत् | Kअप्Sस्_४.८ |
SK
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
SK
बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण (शङ्ख) वत् | Kअप्Sस्_४.९ |
SK
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
SK
द्वाभ्यामपि तथैव | Kअप्Sस्_४.१० |
SK
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
SK
निराशः सुखी पिङ्गलावत् | Kअप्Sस्_४.११ |
SK
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) अनारम्भे ऽपि परगृहे सुखी सर्पवत् | Kअप्Sस्_४.१२ | (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)
SK
बहुशास्त्र गुरूपासने ऽपि सारादानं षट्पदवत् | Kअप्Sस्_४.१३ |
SK
(सारग्रहणावश्यकता)
SK
इषुकारवन्नैकचित्तस्य समाधिहानिः | Kअप्Sस्_४.१४ |
SK
(एकाग्रतावश्यकता)
SK
कृतनियमलङ्घनादानर्थक्यं लोकवत् | Kअप्Sस्_४.१५ |
SK
(शास्त्रविहितनियमानुल्लङ्घनावश्यकता)
SK
तद्विस्मरणे ऽपि भेकीवत् | Kअप्Sस्_४.१६ |
SK
(शास्त्रविहितनियमस्मरणावश्यकता)
SK
नोपदेशश्रवणे ऽपि कृतकृत्यता परामर्शादृते विरोचनवत् | Kअप्Sस्_४.१७ |
SK
(श्रुतार्थमननावश्यकता)
SK
दृष्टस्तयोरिन्द्रस्य | Kअप्Sस्_४.१८ |
SK
(श्रुतार्थमननावश्यकता)
SK
प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात् तद्वत् | Kअप्Sस्_४.१९ |
SK
(गुरुसेवा)
SK
न कालनियमो वामदेववत् | Kअप्Sस्_४.२० |
SK
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)
SK
अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपासकानामिव | Kअप्Sस्_४.२१ |
SK
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)
SK
इतरलाभे ऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः | Kअप्Sस्_४.२२ |
SK
(पुनरावृत्तिहेतुभूतान्युपासनानि)
SK
विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् | Kअप्Sस्_४.२३ |
SK
(ज्ञाननिष्पत्त्यधिकारः)
SK
लब्धातिशययोगाद्वा तद्वत् | Kअप्Sस्_४.२४ |
SK
(ज्ञाननिष्पत्त्यधिकारः)
SK
न कामचारित्वं रागोपहते शुकवत् | Kअप्Sस्_४.२५ |
SK
(रागदोषाः तच्छमनोपायाश्च)
SK
गुणयोगात् बद्धः शुकवत् | Kअप्Sस्_४.२६ |
SK
(रागदोषाः तच्छमनोपायाश्च)
SK
न भोगाद्रागशान्तिः मुनिवत् | Kअप्Sस्_४.२७ |
SK
(रागदोषाः तच्छमनोपायाश्च)
SK
दोषदर्शनादुभयोः | Kअप्Sस्_४.२८ |
SK
(रागदोषाः तच्छमनोपायाश्च)
SK
न मलिनचेतस्युपदेश बीजप्ररोहो ऽजवत् | Kअप्Sस्_४.२९ |
SK
(रागदोषाः तच्छमनोपायाश्च)
SK
नाभासमात्रमपि मलिनदर्पणवत् | Kअप्Sस्_४.३० |
SK
(रागदोषाः तच्छमनोपायाश्च)
SK
न तज्जस्यापि तद्रपता पङ्कजवत् | Kअप्Sस्_४.३१ |
SK
(रागदोषाः तच्छमनोपायाश्च)
SK
न भूतियोगे ऽपि कृतकृत्यता उपास्यसिद्धिवत् उपास्यसिद्धिवत् | Kअप्Sस्_४.३२ |
SK
(अष्टैश्वर्याणामपि मुक्तिसाम्याभावः)
SK
परमतनिर्जयः
SK
मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति | Kअप्Sस्_५.१ |
SK
(मङ्गलाचरणप्रयोजनं)
SK
नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः | Kअप्Sस्_५.२ |
SK
(ईश्वरस्य फलदातृत्वाभवः)
SK
स्वोपकारादधिष्ठानं लोकवत् | Kअप्Sस्_५.३ |
SK
(ईश्वरस्य फलदातृत्वाभवः)
SK
लौकिकेश्वरवदितरथा | Kअप्Sस्_५.४ |
SK
(ईश्वरस्य फलदातृत्वाभवः)
SK
पारिभाषिको वा | Kअप्Sस्_५.५ |
SK
(ईश्वरस्य फलदातृत्वाभवः)
SK
न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् | Kअप्Sस्_५.६ |
SK
(ईश्वरस्य फलदातृत्वाभवः)
SK
तद्योगे ऽपि न नित्यमुक्तः | Kअप्Sस्_५.७ |
SK
(ईश्वरस्य फलदातृत्वाभवः)
SK
प्रधानशक्तियोगाच्चेत् सङ्गापत्तिः | Kअप्Sस्_५.८ |
SK
(ईश्वरस्य फलदातृवाभवः)
SK
सत्तामात्राच्चेत्सर्वैश्वर्यं | Kअप्Sस्_५.९ |
SK
(ईश्वरस्य फलदातृत्वाभवः)
SK
प्रमाणाभावान्न तत्सिद्धिः | Kअप्Sस्_५.१० |
SK
(ईश्वरे प्रमाणाभावः)
SK
सम्बन्धाभावान्नानुमानं | Kअप्Sस्_५.११ |
SK
(ईश्वरे प्रमाणाभावः)
SK
श्रुतिरपि प्रधानकार्यत्वस्य | Kअप्Sस्_५.१२ |
SK
(ईश्वरे प्रमाणाभावः)
SK
नाविद्याशक्तियोगो निस्सङ्गस्य | Kअप्Sस्_५.१३ |
SK
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
SK
तद्योगे तत्सिद्धावन्योन्याश्रयत्वं | Kअप्Sस्_५.१४ |
SK
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
SK
न बीजाङ्कुरवत् सादिसंसारश्रुतेः | Kअप्Sस्_५.१५ |
SK
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
SK
विद्यातो ऽन्यत्वे ब्रह्मबाधप्रसङ्गः | Kअप्Sस्_५.१६ |
SK
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
SK
अबाधे नैष्फल्यं | Kअप्Sस्_५.१७ |
SK
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
SK
विद्याबाध्यत्वे जगतो ऽप्येवं | Kअप्Sस्_५.१८ |
SK
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
SK
तद्रूपत्वे सादित्वं | Kअप्Sस्_५.१९ |
SK
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)
SK
न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् | Kअप्Sस्_५.२० |
SK
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
SK
श्रुतिलिङ्गादिभिः तत्सिद्धिः | Kअप्Sस्_५.२१ |
SK
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
SK
न नियमः प्रमाणान्तरावकाशात् | Kअप्Sस्_५.२२ |
SK
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
SK
उभयत्राप्येवं | Kअप्Sस्_५.२३ |
SK
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
SK
अर्थात् सिद्धिश्चेत्समानमुभयोः | Kअप्Sस्_५.२४ |
SK
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)
SK
अन्तः करणधर्मत्वं धर्मादीनां | Kअप्Sस्_५.२५ |
SK
(धर्माधर्मयोः अन्तः करणधर्मत्वं)
SK
गुणादीनां च नात्यन्तबाधः | Kअप्Sस्_५.२६ |
SK
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)
SK
पञ्चावयवयोगात् सुखसंवित्तिः | Kअप्Sस्_५.२७ |
SK
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)
SK
न सकृद्ग्रहणात्सम्बन्ध सिद्धिः | Kअप्Sस्_५.२८ |
SK
(व्याप्तिस्वरूपं तत्साधनं च), पू
SK
नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः | Kअप्Sस्_५.२९ |
SK
(व्याप्तिस्वरूपं तत्साधनं च), सि
SK
न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः | Kअप्Sस्_५.३० |
SK
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
SK
निजशक्त्युद्भवमित्याचार्याः | Kअप्Sस्_५.३१ |
SK
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
SK
आधेयशक्तियोग इति पञ्चशिखः | Kअप्Sस्_५.३२ |
SK
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
SK
न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः | Kअप्Sस्_५.३३ |
SK
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
SK
विशेषेणानर्थक्य प्रसक्तेः | Kअप्Sस्_५.३४ |
SK
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
SK
पल्लवादिष्वनुपपत्तेश्च | Kअप्Sस्_५.३५ |
SK
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
SK
आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् | Kअप्Sस्_५.३६ |
SK
(परोक्तव्याप्तिस्वरूपादिखण्डनं)
SK
वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः | Kअप्Sस्_५.३७ |
SK
(शब्दप्रामाण्यसाधनं)
SK
त्रिभिस्साम्बन्धसिद्धिः | Kअप्Sस्_५.३८ |
SK
(लोकवेदयोः शक्तिग्रहणोपायाः)
SK
न कार्ये नियमः उभयथा दर्शनात् | Kअप्Sस्_५.३९ |
SK
(लोकवेदयोः शक्तिग्रहणोपायाः)
SK
लोके व्युत्पन्नस्य वेदार्थप्रतीतिः | Kअप्Sस्_५.४० |
SK
(लोकवेदयोः शक्तिग्रहणोपायाः)
SK
न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात् | Kअप्Sस्_५.४१ |
SK
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), पू
SK
न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् | Kअप्Sस्_५.४२ |
SK
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), सि
SK
निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते | Kअप्Sस्_५.४३ |
SK
(वैदिकशब्दशक्तिग्रहव्यवस्था)
SK
योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः | Kअप्Sस्_५.४४ |
SK
(वैदिकशब्दशक्तिग्रहव्यवस्था)
SK
न नित्यत्वं वेदानां कार्यत्वश्रुतेः | Kअप्Sस्_५.४५ |
SK
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
SK
न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् | Kअप्Sस्_५.४६ |
SK
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
SK
मुक्तामुक्तयोरयोग्यत्वात् | Kअप्Sस्_५.४७ |
SK
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
SK
नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् | Kअप्Sस्_५.४८ |
SK
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
SK
तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः | Kअप्Sस्_५.४९ |
SK
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
SK
यस्मिन् अदृष्टे ऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं | Kअप्Sस्_५.५० |
SK
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)
SK
निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं | Kअप्Sस्_५.५१ |
SK
(वेदानां स्वतः प्रामाण्यं)
SK
नासतः ख्यानं नृशृङ्गवत् | Kअप्Sस्_५.५२ |
SK
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा) न सतो बाधदर्नात् | Kअप्Sस्_५.५३ | (गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
SK
नानिर्वचनीयस्य तदभावात् | Kअप्Sस्_५.५४ |
SK
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)
SK
नान्यथाख्यातिः स्ववचोव्याघातात् | Kअप्Sस्_५.५५ |
SK
(अन्यथाख्यातिनिरासः)
SK
सदसत्ख्यातिः बाधाबाधात् | Kअप्Sस्_५.५६ |
SK
(सदसत्ख्याति निरासः)
SK
प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः | Kअप्Sस्_५.५७ |
SK
(स्फोटनिरासः)
SK
न शब्दनित्यत्वं कार्यताप्रतीतेः | Kअप्Sस्_५.५८ |
SK
(वर्णनित्यत्वनिरासः)
SK
पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य | Kअप्Sस्_५.५९ |
SK
(वर्णनित्यत्वनिरासः), पू
SK
सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनं | Kअप्Sस्_५.६० |
SK
(वर्णनित्यत्वनिरासः), सि
SK
नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः | Kअप्Sस्_५.६१ |
SK
(आत्माद्वैत निरासः)
SK
नानात्मापि प्रत्यक्षबाधात् | Kअप्Sस्_५.६२ |
SK
(आत्माद्वैत निरासः)
SK
नोभाभ्यां तेनैव | Kअप्Sस्_५.६३ |
SK
(आत्माद्वैत निरासः)
SK
अन्यपरत्वमविवेकानां तत्र | Kअप्Sस्_५.६४ |
SK
(आत्माद्वैतनिरासः)
SK
नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात् | Kअप्Sस्_५.६५ |
SK
(आत्माद्वैतनिरासः)
SK
नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् | Kअप्Sस्_५.६६ |
SK
(आत्माद्वैतनिरासः)
SK
दुःखनिवृत्तेर्गौणः | Kअप्Sस्_५.६७ |
SK
(आत्माद्वैतनिरासः)
SK
विमुक्तिप्रशंसा मन्दानां | Kअप्Sस्_५.६८ |
SK
(आत्माद्वैतनिरासः)
SK
न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च | Kअप्Sस्_५.६९ |
SK
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
SK
सक्रियत्वात् गतिश्रुतेः | Kअप्Sस्_५.७० |
SK
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
SK
न निर्भागत्वं तद्योगात् घटवत् | Kअप्Sस्_५.७१ |
SK
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)
SK
प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं | Kअप्Sस्_५.७२ |
SK
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)
SK
न भागलाभो भागिनो निर्भागत्वश्रुतेः | Kअप्Sस्_५.७३ |
SK
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)
SK
नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात् | Kअप्Sस्_५.७४ |
SK
(मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः)
SK
न विशेषगुणोच्छित्तिस्तद्वत् | Kअप्Sस्_५.७५ |
SK
(मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः)
SK
न विशेषगतिः निष्क्रियस्य | Kअप्Sस्_५.७६ |
SK
(मुक्तेः लोकान्तरगतिरूपत्वाभावः)
SK
नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् | Kअप्Sस्_५.७७ |
SK
(मुक्तेः उपरागनाश, सर्वोच्छित्तिरूपत्वाभावः)
SK
न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात् | Kअप्Sस्_५.७८ |
SK
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)
SK
एवं शून्यमपि | Kअप्Sस्_५.७९ |
SK
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)
SK
संयोगाश्च विभागान्ता इति न देशादिलाभो ऽपि | Kअप्Sस्_५.८० |
SK
(मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः)
SK
न भागियोगो भागस्य | Kअप्Sस्_५.८१ |
SK
(मुक्तेः लयरूपत्वाभावः)
SK
नाणिमादियोगो ऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत् | Kअप्Sस्_५.८२ |
SK
(मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः)
SK
नेन्द्रादिपदयोगो ऽपि तद्वत् | Kअप्Sस्_५.८३ |
SK
(मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः)
SK
न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः | Kअप्Sस्_५.८४ |
SK
(इन्द्रियाणां भूतप्रकृतिकत्वनिरासः)
SK
न षट् पदार्थनियमस्तद्बोधान्मुक्तिः | Kअप्Sस्_५.८५ |
SK
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)
SK
षोडशादिष्वप्येवं | Kअप्Sस्_५.८६ |
SK
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)
SK
नाणुनित्यता तत्कार्यत्वश्रुतेः | Kअप्Sस्_५.८७ |
SK
(अणूनां नित्यत्वनिरासः)
SK
न निर्भागत्वं कार्यत्वात् | Kअप्Sस्_५.८८ |
SK
(अणूनां नित्यत्वनिरासः)
SK
न रूपनिबन्धनात् प्रत्यक्षनियमः | Kअप्Sस्_५.८९ |
SK
(परिमाणस्वरूपादि निर्णयः) न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् | Kअप्Sस्_५.९० | (सामान्यसाधनं, तत्स्वरूपं च)
SK
अनित्यत्वे ऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य | Kअप्Sस्_५.९१ |
SK
(सामान्यसाधनं, तत्स्वरूपं च)
SK
न तदपलापस्तस्मात् | Kअप्Sस्_५.९२ |
SK
(सामान्यसाधनं, तत्स्वरूपं च)
SK
नान्यनिवृत्तिरूपत्वं भावप्रतीतेः | Kअप्Sस्_५.९३ |
SK
(साहश्यस्य तत्त्वान्तरता निराकरणं)
SK
न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः | Kअप्Sस्_५.९४ |
SK
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
SK
निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः | Kअप्Sस्_५.९५ |
SK
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
SK
न संज्ञासंज्ञि सम्बन्धो ऽपि | Kअप्Sस्_५.९६ |
SK
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
SK
न सम्बन्धनित्यतोभयानित्यत्वात् | Kअप्Sस्_५.९७ |
SK
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
SK
नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात् | Kअप्Sस्_५.९८ |
SK
(सादृश्यस्य तत्त्वान्तरता निराकरणं)
SK
न समवायो ऽस्ति प्रमाणाभावात् | Kअप्Sस्_५.९९ |
SK
(समवाय निरासः)
SK
उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा | Kअप्Sस्_५.१०० |
SK
(समवायनिरासः)
SK
नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः | Kअप्Sस्_५.१०१ |
SK
(क्रियायाः अनुमेयतानैयत्यनिरासः)
SK
न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् | Kअप्Sस्_५.१०२ |
SK
(शरीरस्य पाञ्चभौतिकत्वनिरासः)
SK
न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात् | Kअप्Sस्_५.१०३ |
SK
(शरीरसामान्यस्य स्थूलत्वनिरासः)
SK
नाप्राप्तप्रकाशकत्वमिन्द्रियाणां अप्राप्तेः सर्वप्राप्तेर्वा | Kअप्Sस्_५.१०४ |
SK
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
SK
न तेजो ऽपसर्पणात् तैजस चक्षुः वृत्तितस्तत्सिद्धेः | Kअप्Sस्_५.१०५ |
SK
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
SK
प्राप्तर्थप्रकाशलिङ्गात् वृत्तिसिद्धिः | Kअप्Sस्_५.१०६ |
SK
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)
SK
भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति | Kअप्Sस्_५.१०७ |
SK
(वृत्तेः स्वरूपं)
SK
न द्रव्यनियमस्तद्योगात् | Kअप्Sस्_५.१०८ |
SK
(वृत्तेः स्वरूपं)
SK
न देशभेदे ऽप्यन्योपादानतास्मदादिवन्नियमः | Kअप्Sस्_५.१०९ |
SK
(इन्द्रियाणां अभौतिकत्वं)
SK
निमित्तव्यपदेशात् तदव्यपदेशः | Kअप्Sस्_५.११० |
SK
(इन्द्रियाणां अभौतिकत्वं)
SK
ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः | Kअप्Sस्_५.१११ |
SK
(स्थूलशरीरविशेषाः)
SK
सर्वेषु पृथिव्युपादानं असाधारण्यात् तद्व्यपदेशः पूर्ववत् | Kअप्Sस्_५.११२ |
SK
(स्थूलशरीरविशेषाः)
SK
न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः | Kअप्Sस्_५.११३ |
SK
(प्रणस्य देहारम्भकत्वाभावः)
SK
भोक्तुराधिष्ठानात् भोगायतननिर्माणं अन्यथा पूतिभावप्रसङ्गात् | Kअप्Sस्_५.११४ |
SK
(देहाधिष्ठातृ निर्णयः)
SK
भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात् | Kअप्Sस्_५.११५ |
SK
(देहाधिष्ठातृ निर्णयः)
SK
समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता | Kअप्Sस्_५.११६ |
SK
(आत्मनो नित्यमुक्तत्वोपपादनं)
SK
द्वयोः सबीजमन्यत्र तद्धतिः | Kअप्Sस्_५.११७ |
SK
(सुषुप्तिसमाधिभ्यां मोक्षे विशेषः)
SK
द्वयोरिव त्रयस्यापि दृष्टत्वात् न तु द्वौ | Kअप्Sस्_५.११८ |
SK
(मोक्षे प्रमाणं)
SK
वासनया न स्वार्थख्यापनं दोषयोगे ऽपि न निमित्तस्य प्रधानबाधकत्वं | Kअप्Sस्_५.११९ |
SK
(सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं)
SK
एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः | Kअप्Sस्_५.१२० |
SK
(जीवन्मुक्ते ऽपि संस्कारानुवृत्तिः)
SK
न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् | Kअप्Sस्_५.१२१ |
SK
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
SK
स्मृतेश्च | Kअप्Sस्_५.१२२ |
SK
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
SK
न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः | Kअप्Sस्_५.१२३ |
SK
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)
SK
त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः | Kअप्Sस्_५.१२४ |
SK
(देहेषु चातुर्विध्यं)
SK
न किञ्चिदप्यनुशयिनः | Kअप्Sस्_५.१२५ |
SK
(देहेषु चातुर्विध्यं)
SK
न बुद्ध्यादिनित्यत्वं आश्रयाविशेषे ऽपि वह्निवत् | Kअप्Sस्_५.१२६ |
SK
(बुद्धीच्छादीनां नित्यतानिरासः) आश्रयासिद्धेश्च | Kअप्Sस्_५.१२७ | (बुद्धीच्छादीनां नित्यतानिरासः)
SK
योगसिद्धयो ऽप्यौषधादिसिद्विवन्नापलापनीयाः | Kअप्Sस्_५.१२८ |
SK
(सिद्धीनां सत्यता)
SK
न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्ये ऽपि च सांहत्ये ऽपि च | Kअप्Sस्_५.१२९ |
SK
(भूतचैतन्यवाद निरासः)
SK
तन्त्राध्यायः
SK
अस्त्यात्मा नास्तित्वसाधनाभावात् | Kअप्Sस्_६.१ |
SK
(आत्मास्तित्व निरूपणं)
SK
देहादिव्यतिरिक्तो ऽसौ वैचित्र्यात् | Kअप्Sस्_६.२ |
SK
(आत्मास्तित्व निरूपणं)
SK
षष्ठीव्यपदेशादपि | Kअप्Sस्_६.३ |
SK
(आत्मास्तित्व निरूपणं)
SK
न शिलापुत्रवत्, धर्मिग्राहकमानबाधात् | Kअप्Sस्_६.४ |
SK
(आत्मास्तित्व निरूपणं)
SK
अत्यन्तदुःखनिवृत्त्या कृतकृत्यता | Kअप्Sस्_६.५ |
SK
(आत्मनः कृतकृत्यतानिमित्तं)
SK
यथा दुःखात् क्लेशः पुरुषस्य, न तथा सुखाभिलाषः | Kअप्Sस्_६.६ |
SK
(आत्मनः कृतकृत्यतानिमित्तं)
SK
कुत्रापि को ऽपि सुखीति | Kअप्Sस्_६.७ |
SK
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)
SK
तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः | Kअप्Sस्_६.८ |
SK
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)
SK
सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात् | Kअप्Sस्_६.९ |
SK
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)
SK
निर्गुणत्वमात्मनो ऽसङ्गत्वादिश्रुतेः | Kअप्Sस्_६.१० |
SK
(गुणबन्धस्यैव अविवेकमूलत्वं), पू
SK
परमधर्मत्वे ऽपि तत्सिद्धिरविवेकात् | Kअप्Sस्_६.११ |
SK
(गुणबन्धस्यैव अविवेकमूलत्वं), सि
SK
अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः | Kअप्Sस्_६.१२ |
SK
(अविवेकस्यानादित्वं)
SK
न नित्यः स्यादात्मवदन्यथानुच्छित्तिः | Kअप्Sस्_६.१३ |
SK
(अविवेकस्यानादित्वं)
SK
प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत् | Kअप्Sस्_६.१४ |
SK
(मुक्तिकारणविवरणं)
SK
अत्रापि प्रतिनियमो ऽन्वयव्यतिरेकात् | Kअप्Sस्_६.१५ |
SK
(मुक्तिकारणविवरणं) प्रकारान्तरासम्भवादविवेक एव बन्धः | Kअप्Sस्_६.१६ | (बन्धस्वरूपं)
SK
न मुक्तस्य पुनर्बन्धयोगो ऽप्यनावृत्ति श्रुतेः | Kअप्Sस्_६.१७ |
SK
(मुक्तेर्नित्यत्वं)
SK
अपुरुषार्थत्वमन्यथा | Kअप्Sस्_६.१८ |
SK
(मुक्तेर्नित्यत्वं)
SK
अविशेषापत्तिरुभयोः | Kअप्Sस्_६.१९ |
SK
(मुक्तेर्नित्यत्वं)
SK
मुक्तिरन्तराय ध्वस्तेर्न परः | Kअप्Sस्_६.२० |
SK
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)
SK
तत्राप्यविरोधः | Kअप्Sस्_६.२१ |
SK
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)
SK
अधिकारित्रैविध्यान्न नियमः | Kअप्Sस्_६.२२ |
SK
(अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः)
SK
दार्ढ्यार्थमुत्तरेषां | Kअप्Sस्_६.२३ |
SK
(नियमानां आवश्यकता)
SK
स्थिरसुखमासनमिति न नियमः | Kअप्Sस्_६.२४ |
SK
(नियमानां आवश्यकता)
SK
ध्यानं निर्विषयं मनः | Kअप्Sस्_६.२५ |
SK
(ध्यानस्वरूपं)
SK
उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः | Kअप्Sस्_६.२६ |
SK
(योगस्यावश्कता)
SK
निस्सङ्गे ऽप्युपरागो ऽविवेकात् | Kअप्Sस्_६.२७ |
SK
(उपरागहेतुः)
SK
जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः | Kअप्Sस्_६.२८ |
SK
(उपरागहेतुः)
SK
ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः | Kअप्Sस्_६.२९ |
SK
(उपराग निरोधहेतुः)
SK
लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः | Kअप्Sस्_६.३० |
SK
(उपराग निरोधहेतुः)
SK
न स्थाननियमः चित्तप्रसादात् | Kअप्Sस्_६.३१ |
SK
(उपराग निरोधहेतुः)
SK
प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः | Kअप्Sस्_६.३२ |
SK
(प्रकृतेरेव जगन्मूलता)
SK
नित्यत्वे ऽपि नात्मनो योग्यत्वाभावात् | Kअप्Sस्_६.३३ |
SK
(प्रकृतेरेव जगन्मूलता)
SK
श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः | Kअप्Sस्_६.३४ |
SK
(प्रकृतेरेव जगन्मूलता)
SK
पारम्पर्ये ऽपि प्रधानानुवृत्तिरणुवत् | Kअप्Sस्_६.३५ |
SK
(प्रकृतेरेव जगन्मूलता)
SK
सर्वत्र कार्यदर्शनात् विभुत्वं | Kअप्Sस्_६.३६ |
SK
(प्रकृतेरेव जगन्मूलता)
SK
गतियोगे ऽप्याद्यकारणताहानिरणुवत् | Kअप्Sस्_६.३७ |
SK
(प्रकृतेरेव जगन्मूलता)
SK
प्रसिद्धाधिक्यं प्रधानस्य न नियमः | Kअप्Sस्_६.३८ |
SK
(प्रकृतेरेव जगन्मूलता)
SK
सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् | Kअप्Sस्_६.३९ |
SK
(प्रकृतेः गुणरूपतासाधनं)
SK
अनुपभोगे ऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् | Kअप्Sस्_६.४० |
SK
(प्रधानप्रवृत्तिहेतुः)
SK
कर्मवैचित्र्यात्सृष्टिवैचित्र्यं | Kअप्Sस्_६.४१ |
SK
(प्रधानप्रवृत्तिहेतुः)
SK
साम्यवैषम्याभ्यां कार्यद्वयं | Kअप्Sस्_६.४२ |
SK
(सृष्टिप्रलनिमित्ते)
SK
विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् | Kअप्Sस्_६.४३ |
SK
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
SK
नान्योपसर्पणे ऽपि मुक्तोपभोगः निमित्ताभावात् | Kअप्Sस्_६.४४ |
SK
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
SK
पुरुषबहुत्वं व्यवस्थातः | Kअप्Sस्_६.४५ |
SK
(प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)
SK
उपाधिश्चेत् तत्सिद्धौ पुनर्द्वैतं | Kअप्Sस्_६.४६ |
SK
(उपाधिभेदात् बन्धमोक्षव्यवस्थाभावः)
SK
द्वाभ्यामपि प्रमाणविरोधः | Kअप्Sस्_६.४७ |
SK
(अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः)
SK
द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात् | Kअप्Sस्_६.४८ |
SK
(अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः)
SK
प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः | Kअप्Sस्_६.४९ |
SK
(आत्मनः प्रकाशस्वरूपत्वे दोषः)
SK
जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः | Kअप्Sस्_६.५० |
SK
(आत्मनः प्रकाशस्वरूपत्वे दोषः)
SK
न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः | Kअप्Sस्_६.५१ |
SK
(अद्वैतश्रुतेः स्वपक्षे सामरस्यं)
SK
जगत्सत्यत्वमदुष्टकरणजन्यत्वम् बाधकाभावात् | Kअप्Sस्_६.५२ |
SK
(जगत्सत्यत्वसाधनं) प्रकारान्तरासंभवात्सदुत्पत्तिः | Kअप्Sस्_६.५३ | (सत्कार्यवादस्यैव साधुता)
SK
अहङ्कारः कर्ता न पुरुषः | Kअप्Sस्_६.५४ |
SK
(अहङ्कारस्यैव कर्तृत्वं)
SK
चिदवसाना भुक्तिः तत्कर्मार्जितत्वात् | Kअप्Sस्_६.५५ |
SK
(भोगोपाधिः)
SK
चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात् | Kअप्Sस्_६.५६ |
SK
(पुनरावृत्तिहेतुः)
SK
लोकस्य नोपदेशात् सिद्धिः पूर्ववत् | Kअप्Sस्_६.५७ |
SK
(पुनरावृत्तिहेतुः)
SK
पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः | Kअप्Sस्_६.५८ |
SK
(पुनरावृत्तिहेतुः)
SK
गतिश्रुतेश्च व्यापकत्वे ऽपि उपाधियोगात् भोगदेशकाललाभः व्योमवत् | Kअप्Sस्_६.५९ |
SK
(आत्मनो गतिश्रुत्युपपत्तिः)
SK
अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः | Kअप्Sस्_६.६० |
SK
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
SK
अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे | Kअप्Sस्_६.६१ |
SK
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
SK
निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते | Kअप्Sस्_६.६२ |
SK
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)
SK
विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् | Kअप्Sस्_६.६३ |
SK
(जीवत्वोपाधिः)
SK
अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् | Kअप्Sस्_६.६४ |
SK
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
SK
अदृष्टोद्भूतिवत्समानत्वं | Kअप्Sस्_६.६५ |
SK
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
SK
महतो ऽन्यत् | Kअप्Sस्_६.६६ |
SK
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)
SK
कर्मनिमित्तः प्रकृतेः स्वस्वामिभावो ऽप्यनादिः बीजाङ्कुरवत् | Kअप्Sस्_६.६७ |
SK
(प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं)
SK
अविवेकनिमित्तो वा पञ्चशिखः | Kअप्Sस्_६.६८ |
SK
(तत्रैव मतभेदः)
SK
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः | Kअप्Sस्_६.६९ |
SK
(पुरुषार्थस्वरूपनिगमनं)
SK
Tअत्त्वसमाससूत्राणि (कपिलमहर्षिप्रणीतानि)
SK
[इ.ए., Tअत्त्वसमास, अन् अब्स्त्रच्त् ओf Sआंख्य फिलोसोफ्य्] १. Tअत्त्वपादः
SK
अष्टौ प्रकृतयः | Tअत्स्_१.१ |
SK
षोडश विकाराः | Tअत्स्_१.२ |
SK
पुरुषः | Tअत्स्_१.३ |
SK
त्रैगुण्यं | Tअत्स्_१.४ |
SK
संचरः | Tअत्स्_१.५ |
SK
प्रतिसंचरः | Tअत्स्_१.६ |
SK
अध्यात्मम् | Tअत्स्_१.७ |
SK
अधिभूतम् | Tअत्स्_१.८ |
SK
अधिदैवतम् | Tअत्स्_१.९ |
SK
२. Pरकीर्णपादः
SK
पञ्चाभिबुद्धयः | Tअत्स्_२.१ |
SK
पञ्च कर्मयोनयः | Tअत्स्_२.२ |
SK
पञ्च वायवः | Tअत्स्_२.३ |
SK
पञ्च कर्मात्मानः | Tअत्स्_२.४ |
SK
पञ्चपर्वाविद्या | Tअत्स्_२.५ |
SK
अष्टाविंशतिधाशक्तिः | Tअत्स्_२.६ |
SK
नवधा तुष्टिः | Tअत्स्_२.७ |
SK
अष्टधा सिद्धिः | Tअत्स्_२.८ |
SK
दश मूलिकार्थाः | Tअत्स्_२.९ |
SK
अनुग्रहः सर्गः | Tअत्स्_२.१० |
SK
चतुर्दशविधो भूतसर्गः | Tअत्स्_२.११ |
SK
त्रिविधो बन्धः | Tअत्स्_२.१२ |
SK
त्रिविधो मोक्षः | Tअत्स्_२.१३ |
SK
त्रिविधं प्रमाणं | Tअत्स्_२.१४ |
SK
त्रिविधं दुःखं | Tअत्स्_२.१५ |
SK
एतत्परं याथातथ्यं | Tअत्स्_२.१६ |
SK
एतत्ज्ञात्वा कृतकृत्यः स्यात् | Tअत्स्_२.१७ |
SK
नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते | Tअत्स्_२.१८ |

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kapila: Sāṃkhyasūtra including the Tattvasamāsa, an abstract of Sāṃkhya philosophy (appended at the end) (sa_kapila-sAMkhyasUtra.htm).

Source