Compendium of Instruction

Śikṣāsamuccaya · Śइक्षासमुच्चय

Compendium of Instruction

Śikṣāsamuccaya

Śइक्षासमुच्चय

SK
[I. दानपारमिता]
SK
शिक्षा-समुच्चयः |
SK
दान-पारमिता नाम प्रथमः परिच्छेदः ||
SK
नमः सर्व-बुद्ध-बोधि-सत्वेभ्यः ||
SK
यस्य + अ-श्रवेण नरक-आदि महा-प्रपात-दाह-आदि-दुष्खम् अनुभूतम् अभूद् भवद्भिः | तीव्रं पुनः पुनर् अन्-अन्तम् अ-शान्त-चित्तैस् तच् * छ्रोतुम् आदरम् उदारतरं भजध्वम् ||
SK
श्रुत्वा ... पापं अन्-उद्धत-आत्मा पूर्व-अर्जितं च विपुलं क्षपयत्य् अ-शेषम् | अ-प्राप्त-पूर्वम् अपि सौख्यम् अवाप्नुवन्ति हानिं सुखाच् च न कदा-चिद् अपि प्रयान्ति ||
SK
सम्बोधि-सत्व-सुखम् उत्तमम् अ-क्षय ... अप्य् अ-सम-संपदम् आप्नुवन्ति | तद् धर्म-रत्नम् अति-दुर्-लभम् अप्य् अ-लब्धं लब्ध-क्षणाः शृण्वत स-आदरम् उच्यमानम् ||
SK
आयान्तु च त्रि-भुवन-एक-हितस्य वाक्यं श्रोतुं प्रसन्न-मनसः सुर-नाग-सत्वाः | गन्धर्व-यक्ष-गरुड-असुर-किन्नर-इन्द्राः प्रेत-आदयः श्रवण-जात-तृषः स-हर्षाः ||
SK
सु-गतान् स-सुतान् स-धर्म-कायान् प्रणिपत्य + आदरतो * अखिलांश् च वन्द्यान् | सु-गत-आत्म-ज-सम्वर-अवतारं कथयिष्यामि समुच्चित-अर्थ-वाक्यैः ||
SK
न च किञ्-चिद् अ-पूर्वम् अत्र वाच्यं न च संग्रन्थन-कौशलं मम + अस्ति | अत एव न मे पर-अर्थ-यत्नः स्व-मनो भावयितुं मम + इदम् इष्टम् ||
SK
मम तावद् अनेन याति वृद्धिं कुशलं भावयितुं प्रसाद-वेगः | यदि मत्-सम-धातुर् एव पश्येद् अ-परो * अप्य् एनम् अतो * अपि स-अर्थको * अयम् ||
SK
क्षण-सम्पद् इयं सु-दुर्-लभा प्रतिलब्धा पुरुष-अर्थ-साधनी | यदि न + अत्र विचिन्त्यते हितं पुनर् अप्य् एष समागमः कुतः ||
SK
यथा + उक्तम् आर्य-गण्ड-व्यूह-सूत्रे | आर्य-जय-उष्म-आयतन-विमोक्षे ||
SK
दुर्-लभा + अष्टा-क्षण-निर्वृत्तिर् दुर्-लभो मनुष्य-प्रतिलम्भो दुर्-लभा क्षण-संपत्-विशुद्धिर् दुर्-लभो बुद्ध-उत्पादो | दुर्-लभा + अ-विकल-इन्द्रियता | दुर्-लभो बुद्ध-धर्म-श्रवो | दुर्-लभं सत्-पुरुष-समवधानं | दुर्-लभानि भूत-कल्याण-मित्राणि | दुर्-लभो भूत-नय-अनुशासन्य् उपसंहारः | दुर्-लभं सम्यग्-जीवितं | दुर्-लभः सद्-धर्मे तद्-अनुकूलः प्रयत्नो मनुष्यलोकए इति ||
SK
तद् एवं-विधं समागमम् आसाद्य संवृति-परम-अर्थतः सु-विदित-संसार-दुष्खस्य + उपशमन-सुख-अभिलाषिणो बुद्ध-गोत्र-अनुभावात् तु यस्य महासत्वस्य + एवं प्रत्यवेक्षा + उत्पद्यते ||
SK
यदा मम परेषां च भयं दुष्खं च न प्रियं | तदा + आत्मनः को विशेषो यत् तं रक्षामि न + इतरम् | इति तेन + आत्मनः सत्व-धातोश् च ||
SK
दुष्ख-अन्तं कर्त्तु-कामेन सुख-अन्तं गन्तुम् इच्छता | श्रद्धा-मूलं दृढी-कृत्य बोधौ कार्या मतिर् दृढा ||
SK
उक्तं हि रत्न-उल्का-धारण्याम् ||
SK
श्रद्धयमानु जिनान् जिनधर्म्मान् श्रद्धयते चरि बुद्ध-सुतानाम् | बोधि अनुत्तर श्रद्धयमानो जायति चित्तं महा-पुरुषाणाम् ||
SK
श्रद्ध पुरो-गत-मातृ-जनेत्री पालिक-वर्द्धिक सर्व-गुणानाम् | कांक्ष-विनोदनि ओघ-प्रतारणि | श्रद्ध-निदर्शनि क्षेम-पुरस्य ||
SK
श्रद्ध अन्-आविल-चित्त-प्रसादो मान-विवर्जित-गौरव-मूला | श्रद्ध निधान-धनं चरण-अग्रं पाणि यथा शुभ-संग्रह-मूलम् ||
SK
श्रद्ध प्रमोद-करी परित्यागे | श्रद्ध प्रहर्ष-करी जिन-धर्म्मे | श्रद्ध विशेष-करी गुण-ज्ञाने | दैशिक प्रापणि बुद्ध-गती ये ||
SK
इन्द्रिय-तीक्ष्ण-प्रभास्वरतायै | श्रद्ध-बलं अ-विमर्दनतायै | निश्रय-क्लेश-अधर्षिकतायै | ऐषिका श्रद्ध स्वयं-भु-गुणानाम् ||
SK
श्रद्ध अ-सङ्गत-सङ्ग-सुखेषु अ-क्षण-वर्जित एक-क्षण-अग्रम् | श्रद्ध अतिक्रमु मार-पथस्य | दर्शिक उत्तम-मोक्ष-पथस्य ||
SK
वीजम् अ-पूतिकु हेतु-गुणानां | श्रद्ध विरोहणि बोधि-द्रुमस्य | वर्द्धनि ज्ञान-विशेष-सुखानां | श्रद्ध निदर्शिक सर्व-जिनानां ||
SK
ये सद श्रद्ध स-गौरव-बुद्धे | ते तु न शील न शिक्ष त्यजन्ति | ये तु न शील न शिक्ष त्यजन्ती | ते गुणवां स्तुतये [दोउब्त्fउल्] गुणवन्तः ||
SK
ये सद श्रद्ध स-गौरव-धर्म्मे | ते जिन-धर्म्म अ-तृप्त-शृणोन्ती [दोउब्त्fउल्] ||
SK
ये जिन-धर्म्म् अ-तृप्त-शृणोन्ती | तेष्व् अधिमुक्ति अ-चिन्तिय-धर्म्मे ||
SK
ये सद श्रद्ध स-गौरव-संघे | ते अ-विवर्त्तिक संघ-प्रसन्नाः ||
SK
ये अ-विवर्त्तिक संघ-प्रसन्नास् ते अ-विवर्त्तिक श्रद्ध-बलातः | ये अ-विवर्त्तिक श्रद्ध-बलातो | इन्द्रिय-तीक्ष्ण-प्रभास्वर तेषाम् ||
SK
इन्द्रिय-तीक्ष्ण-प्रभास्वर येषाम् तेहि विवर्जित पापक-मित्राः | येहि विवर्जित पापक-मित्राः धार्म्मिक-मित्र-परिग्रह तेषाम् ||
SK
धार्मिक-मित्र-परिग्रह येषाम् | ते विपुलं कुशल + उपचिन्वन्ति | ये विपुलं कुशल + उपचिनोन्ती हेतु-बल-उपगताय महा-आत्मा ||
SK
हेतु-बल-उपगताय महा-आत्मा | तेष उदार-धिमुक्ति-विशेषाः | येष उदार-धिमुक्ति-विशेषास् ते सदा + अधिष्ठित सर्व-जिनेभिः ||
SK
ये सदा + अधिष्ठित सर्व-जिनेभिस् तेषु + उपपद्यति बोधयि चित्तम् | येषु + उपपद्यति बोधयि चित्तं ते अभियुक्त मह-र्षि-गुणेषु ||
SK
ये अभियुक्त मह-र्षि-गुणेषु जातय-बुद्ध-कुले अनुजाताः | जातय बुद्ध-कुले अनुजातास् ते समयोग अ-योग-विमुक्ताः ||
SK
ये समयोग अ-योग-विमुक्ताः | आशय तेष प्रसाद-विशुद्धः ||
SK
आशयु येष प्रसाद-विशुद्धः तेष अध्याशयु उत्तम-श्रेष्ठः | येष अध्याशयु उत्तम-श्रेष्ठस् ते सद पारमितासु चरन्ति ||
SK
ये सद पारमितासु चरन्ती ते प्रतिपन्न इहो मह-याने | ये प्रतिपन्न इहो मह-याने ते प्रतिपत्तितु पूजयि बुद्धान् ||
SK
ये प्रतिपत्तितु पूजयि बुद्धान् तेषु अनुस्मृति बुद्ध अ-भेद्या | येषु अनुस्मृति बुद्ध अ-भेद्या | ते सद पश्यिय चिन्तिय बुद्धान् ||
SK
ये सद पश्यिय चिन्तिय बुद्धान् | तेष न जातु न तिष्ठति बुद्धः ||
SK
येष न जातु न तिष्ठति बुद्धः तेष न जातु रहायति धर्म्मः | येष न जातु रहायति धर्मः ते सद धिष्ठित सर्व-जिनेभिर् | इत्य्-आदि-श्रद्धा-मूलो गुण-विस्तरो * अन्-अन्तस् तत्र + उक्तः | तत् परिसमाप्य संक्षेपतः पुनर् आह | दुर्-ल्लभ-सत्व-पृथग्-जन-काया | ये इमि श्रद्दधि ईदृशि धर्म्मान् | ये तु शुभ-उपचिताः कृत-पुण्यास् ते इमि श्रद्दधि हेतु-बलेन ||
SK
यो दश-क्षेत्र-रज-उपम-सत्वान् कल्पम् उपस्थिहि सर्व-सुखेन | न + उत तु तादृशु पुण्य-विशेषो यादृश श्रद्दधतो इमि धर्म्मान् ||
SK
इति | तथा + आर्य-दश-धर्म-सूत्रे * अपि देशितं ||
SK
श्रद्धा हि परमं यानं येन निर्यान्ति नायकाः | तस्माद् बुद्ध-अनुशारित्वं भजेत मतिमान् नरः ||
SK
अ-श्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहति | वीजानाम् अग्नि-दग्धानाम् अङ्कुरो हरितो यथा ||
SK
इति | अत एव + आर्य-ललित-विस्तर-सूत्रे प्रतिवेदितं | श्रद्धायाम् आनन्द योगः करणीय इदं तथा-गतो विज्ञपयति + इति ||
SK
तथा सिंह-परिपृच्छायां | श्रद्धया | क्षणम् अ-क्षणं वर्जयति इत्य् उक्तम् ||
SK
तद् एवं | श्रद्धा-मूलं दृढी-कृत्य बोधि-चित्तं दृढं कर्तव्यं सर्व-पुण्य-संग्रहत्वात् तद् यथा + आर्य-सिंह-परिपृच्छायां | सिंहेन राज-कुमारेण भगवान् पृष्तः ||
SK
संग्रहः सर्व-धर्माणां | कर्मणा केन जायते | प्रियश् च भोति सत्वानां यत्र यत्र + उपपद्यते ||
SK
भगवान् आह | सर्व-सत्व-प्रमोक्षाय चित्तं बोधाय नामयेत् | एष संग्रह धर्माणां भवते तेन च प्रियः ||
SK
इति | तथा + आर्य-गण्ड-व्यूह-सूत्रे * अपि वर्णितं | बोधि-चित्तं हि कुल-पुत्र वीज-भूतं सर्व-बुद्ध-धर्माणां | क्षेत्र-भूतं सर्व-जगच्-छुक्ल-धर्म-विरोहणतया | धरणि-भूतं सर्व-लोक-प्रतिशरणतया यावत् पितृ-भूतं सर्व-बोधि-सत्व-आरक्षणतया ||
SK
पेयालं ||
SK
वैश्रवण-भूतं सर्व-दारिद्र्य-संछेदनतया | चिन्ता-मणि-राज-भूतं सर्व-अर्थ-संसाधनतया | भद्र-घट-भूतं सर्व-अभिप्राय-परिपूरणतया | शक्ति-भूतं क्लेश-शत्रु-विजयाय | धर्म-भूतं योनिशो मनस्-कार-संछेदनतया | खड्ग-भूतं क्लेश-शिरः-प्रपातनतया | कुठार-भूतं दुष्ख-वृक्ष-संछेदनतया | प्रहरण-भूतं सर्व-उपद्रव-परित्राणतया | वडिस-भूतं संसार-जल-चर-अभ्युद्धरणतया | वात-मण्डली-भूतं सर्व-आवरण-निवरण-तृन-विकिरणतया | उद्दान-भूतं सर्व-बोधि-सत्व-चर्या-प्रणिधान-संग्रहणतया | चैत्य-भूतं स-देव-मानुष-असुरस्य लोकस्य | इति हि कुल-पुत्र बोधि-चित्तम् एभिश् च + अन्यैश् च + अ-प्रमाणैर् गुण-विशेषैः समन्वागतम् इति ||
SK
कथं पुनर् ज्ञायते | पृथग्-जनस्य + अपि बोधि-चित्तम् उत्पद्यते | न वाङ्-मात्रम् एतद् इति | अन्-एक-सूत्र-अन्त-दर्शनात् ||
SK
यथा तावद् आर्य-विमलकीर्त्ति-निर्देशे निर्दिष्टं | सुमेरु-समां सत्-काय-दृष्टिम् उत्पाद्य बोधि-चित्तम् उत्पद्यते | ततश् च बुद्ध-धर्मा विरोहन्ति + इति ||
SK
रत्न-करण्ड-सूत्राच् च पृथग्-जनो * अपि बोधि-सत्व इति ज्ञायते ||
SK
यथा + उक्तं | तद् यथा + अपि नाम मञ्जुश्रीः अण्ड-कोष-प्रक्षिप्तो * अपि कलविङ्क-पोतो | अ-संभिन्न-अण्ड अ-निश्क्रान्तः कोषात् कलविङ्क-रुतम् एव मुञ्चति ||
SK
एवम् एव मञ्जुश्रीः अ-विद्या-अण्ड-कोष-प्रक्षिप्तो * अपि बोधि-सत्वो | अ-संभिन्न-आत्म-दृष्टिर् अ-निष्क्रान्तस् त्रैधातुकाद् बुद्ध-रुतम् एव मुञ्चति | यद् इदं शून्यता-निमित्त-अ-प्रणिहित-रुतम् एव ||
SK
सर्व-धर्म-प्रवृत्ति-निर्देशे * अपि कथितं | जयमतेश् च बोधि-सत्वस्य पृथिवी विदारम् अदात् | स काल-गतो महा-निरयं प्रापतद् इति | स हि शून्यतां न + अधिमुक्तवान् शून्यता-वादिनि च प्रतिघं कृतवान् ||
SK
नियत-अ-नियत-अवतार-मुद्रा-सूत्रे * अप्य् आख्यातं ||
SK
कतमः पशु-रथ-गतिको बोधि-सत्वः | तद् यथा | कश्-चित् पुरुषः पञ्च-बुद्ध-क्षेत्र-परम-अणु-रजः-समान् लोक-धातून् अभिक्रमितु-कामः स्यात् | स पशु-रथम् अभिरुह्य मार्गं प्रतिपद्यते स चिरेण दीर्घेण + अध्वना योजन-शतं गच्छेत् | स तत्र महत्या वात-मण्डल्या पश्चात् खलु पुनर् अशीतिं योजन-सहस्राणि प्रत्याकृष्य प्रत्युदावर्त्य + इति | तत् किं शक्नुयात् स पुरुषस् तान् लोक-धातून् पशु-रथेन + अतिक्रमितुम् | यावद् अन्-अभिलाप्य-अन्-अभिलाप्यैर् अपि कल्पैर् एकम् अपि लोक-धातुम् अतिक्रमितुम् | आह | न + उ हि + इदं भगवन् | भगवान् आह | एवम् एव मञ्जुश्रीः यः कश्-चिद् बोधि-चित्तम् उत्पाद्य महा-यानं | न धारयति | न पठति | श्रावक-यानीयान् सेवते | तैश् च सार्द्धं संस्तवं करोति | श्रावक-यानं च पठति स्व-अध्यायति मीमांसते परिबुध्यते * अर्थांश् च पाठयति यावद् बोधयति | स तेन धन्व-प्रज्ञो भवति सो * अन्-उत्तर-ज्ञान-मार्गात् प्रत्याकृष्यते प्रत्युदावर्त्त्यते | यद् अपि तस्य बोधि-सत्वस्य बोधि-भावना + अतः प्रज्ञा-इन्द्रियं प्रज्ञा-चक्षुः तद् अपि तस्य धन्वी-क्रियते प्रतिहन्यते | श्रयं पशु-रथ-गतिको बोधि-सत्व इति ||
SK
तद् एवम् एषा शून्यता-अन्-अधिमुक्तिर् महा-यान-अन्-अभिरतिश् च + अ-संपूर्ण-अधिमुक्ति-चित्त-चर्यस्य + अपि प्रायो न संदृश्यते | प्राग् एव + अधिमात्र-अधिमुक्ति-चर्यस्य बोधि-सत्वस्य | स हि रत्न-मेघे | सर्व-बाल-चरित-विपत्ति-समतिक्रान्तः पठ्यते अ-संख्येय-समाधि-धारणी-विमोक्ष-अभिज्ञा-विद्या-विक्रीदितो | अन्-अन्त-धर्म-आराम-रति-निर्-आमिष-अ-पर-अन्त-कल्प-कोट्य्-अन्-आभोग-निर्-विकल्प-प्रीति-वेग-आलोक-प्रतिलब्धश् च + अ-प्रमेय-कल्प-कोटी-नियुत-शत-सहस्र-परम-महा-यान-प्रस्थान-विचित्र-भावना-संपूर्ण पर-अर्थ-प्रतिपत्ति-निर्याण पुण्य-ज्ञान-संभार-अभिनिहार-अभिनिर्वृत्तिः पूर्व-योग-शत-सहस्र-समृद्धश् च पठ्यते | अथ + एतन् नेय-अर्थं | कस्माद् अन्ये बोधि-चित्त-उत्पादका अस्यां भूमौ न + इष्यन्ते | न च + अत्र + इच्छया किञ्-चिद् विशेष-चिह्नं नीत-अर्थं कर्त्तुं लभ्यते | अधिमात्र-अधिमुक्ति-चर्या + अ-धर्मता वचनाच् च गम्यते | यथा मध्य-मृदु-प्रकारा + अप्य् अधिमुक्ति-चर्या + अस्त्य् एव + इति ||
SK
अस्य पुनस् तथा-गत-गुह्य-सूत्रस्य को * अभिप्रायो | यद् उक्तं | कस्य भगवन् बोधि-चित्त-उत्पादः | आह | यस्य महा-राज + अध्याशयो * अ-विकोपितः | आह | कस्य भगवन्न् अध्याशयो * अ-विकोपितः | आह | यस्य महा-राज महा-करुणा-उत्पादः | आह | कस्य भगवन् महा-करुणा-उत्पादः | आह | यस्य महा-राज सर्व-सत्व-अ-परित्यागः | आह | कथं भगवन् सत्वा अ-परित्यक्ता भवन्ति | आह | यदा महा-राज + आत्म-सौख्यं परित्यक्तं भवति + इति | बोधि-चित्त-मात्र-अ-सन्तुष्टानां करुणा-अभिलाष-संजन-अर्थम् इदम् उक्तं | यथा न ते तथा-गत-शासने प्रव्रजिता येषां न + अस्ति त्याग इति | एवम् इह + अन्य-बोधि-चित्त-निन्दा द्रष्टव्या न तु बोधि-चित्तम् अन्यथा न + उत्पद्यतए एव ||
SK
यथा दश-धर्मक-सूत्रे देशितं | इह कुल-पुत्र बोधि-सत्वो गोत्र-स्थः सन्न् अन्-उत्पादित-बोधि-चित्तः तथा-गतेन वा तथा-गत-श्रावकेण वा संचोद्यमानः संवेद्यमानः समादाप्यमानो * अन्-उत्तरायां सम्यक्-सम्बोधौ बोधि-चित्तम् उत्पादयति + इदं प्रथमं कारणं बोधि-चित्त-उत्पादाय | संबोधेर् वा बोधि-चित्तस्य वा वर्णं भाष्यमाणं श्रुत्वा + अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयति + इदं द्वितीयं कारणं | स सत्वा ... न्-अ-शरणान् अ-द्वीपान् दृष्ट्वा कारुण्य-चित्तम् उपस्थाप्य यावद् अन्-उत्तरायां सम्यक्-सम्बोधौ चित्तम् उत्पादयति + इदं तृतीयं कारणं बोधि-चित्त-उत्पादाय | स तथा-गतस्य सर्व-आकार-परिपूर्णतां दृष्ट्वा प्रीतिम् उत्पाद्य अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयति + इदं चतुर्थं कारणम् इति | तच् च बोधि-चित्तं द्वि-विधं बोधि-प्रणिधि-चित्तं च बोधि-प्रस्थान चित्तं च | यथा + आर्य-गण्ड-व्यूह-सूत्रे भाषितं | दुर्-लभाः कुल-पुत्र ते सत्वाः सर्व-लोके ये * अन्-उत्तरस्यां सम्यक्-संबोधौ चित्तं प्रणिदधति | ततो * अपि दुर्-लभतमास् ते सत्वा ये * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंप्रस्थिता इति | तत्र बोधि-प्रणिधि-चित्तं | मया बुद्धेन भवितव्यम् इति चित्तं प्रणिधानाद् उत्पन्नं भवति | शूरङ्गम-सूत्रे * अपि | शाठ्य-उत्पादितस्य + अपि बोधि-चित्तस्य बुद्धत्व-हेतुत्व-अभिधानात् | कः पुनर् वादः किञ्-चिद् एव कुशलं कृत्वा | यथा + उक्तं भद्र-कल्पिक-सूत्रे | घोषदत्तो नाम तथा-गतो यत्र नक्षत्रराजेन तथा-गतेन प्रथमं बोधि-चित्तम् उत्पादितं ताम्बूल-पत्रं दत्त्वा गोपालक-भूतेन | एवं विद्युत्प्रदीपो नाम तथागतो यत्र यशसा तथागतेन प्रथमं बोधि-चित्तम् उत्पादितं दशिकां दत्त्वा तन्त्र-वाय-भूतेन | एवम् अनन्तप्रभो नाम तथा-गतो यत्र + अर्चिष्मता तथा-गतेन प्रथमं बोधि-चित्तम् उत्पादितं तृण-प्रदीपं दत्त्वा नगर-अवलम्बक-भूतेन | एवं दृढविक्रमो नाम तथा-गतो यत्र दुष्प्रधर्षेण तथा-गतेन प्रथमं बोधिचित्तम् उत्पादितं दत्त-काष्ठं दत्त्वा काष्ठ-हारक-भूतेन + इत्य् आदि ||
SK
चर्या-अ-विकले * अपि च बोधि-चित्ते न + अवमन्यता कर्त्तव्या | तस्य + अप्य् अन्-अन्त-संसार-सुख-प्रसवनत्वात् | यथा + आर्य-मैत्रेय-विमोक्षे वर्णितं | तद् यथा + अपि नाम कुल-पुत्र चित्तम् अपि वज्र-रत्नं सर्व-प्रतिविशिष्टं सुवर्ण-अलं-कारम् अभिभवति | वज्र-रत्न-नाम च न विजहाति | सर्व-दारिद्र्यं विनिवर्त्तयति | एवम् एव कुल-पुत्र + आशय-प्रतिपत्ति-भिन्नम् अपि सर्व-ज्ञता-चित्त-उत्पाद-वज्र-रत्नं सर्व-श्रावक-प्रत्य्-एक-बुद्ध-गुण-सुवर्ण-अलं-कारम् अभिभवति बोधि-सत्त्व-नाम च न विजहाति | सर्व-संसार-दारिद्र्यं विनिवर्त्तयति + इति | इतश् च विना + अपि चर्यया बोधि-चित्तम् उपकारकम् इति ज्ञातव्यं | येन + अ-पर-राज-अववादक-सूत्रे कथितं | यस्माच् च त्वं महा-राज बहु-कृत्यो बहु-करणीयः | अ-सहः सर्वेण सर्वः सर्वथा सर्वं सर्वदा दान-पारमितायां शिक्षितुं | एवं यावत् प्रज्ञा-पारमितायां शिक्षितुं | तस्मात् तर्हि त्वं महा-राज एवम् एव सम्यक्-सम्बोधि-छन्दं श्रद्धां त्र ... प्रणिधिं च गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो * अपि शयानो * अपि जाग्रद् अपि भुञ्जानो * अपि | पिवन्न् अपि | सतत-समितम् अनुस्मर | मनसि-कुरु भावय | सर्व-बुद्ध-बोधि-सत्व-प्रत्य्-एक-बुद्ध-आर्य-श्रावक-पृथग्-ज् अनानाम् आत्मनश् च + अतीत-अन्-आगत-प्रत्युत्पन्नानि सर्व-कुशल-मूलान्य् अभिसंक्षिप्य तुलयित्वा पिण्डयित्वा + अनुमोदस्व + अग्रया अनुमोदनया यावद् आकाश-समतया निर्वाण-समतया + अनुमोदस्व + अनुमोद्य च सर्व-बुद्ध-बोधि-सत्व-प्रत्य्-एक-बुद्ध-आर्य-श्रावकाणां पूजा-कर्मणे निर्यातय | निर्यात्य च सर्व-सत्व-साधारणानि कुरु | ततः सर्व-सत्वानां यावत् सर्व-ज्ञात-प्रतिलम्भाय सर्व-बुद्ध-धर्म-परिपूरणाय दिने दिने त्रैकाल्यम् अन्-उत्तरायां सम्यक्-संबोधौ परिणामय एवं खलु त्वं महा-राज प्रतिपन्नः सन् राज्यं कारयिष्यसि राज्य-कृत्यानि च न हाययिष्यसि बोधि-संभारांश् च परि-पूरयिष्यसि + इति ||
SK
अत्र + एव च + अस्य विपाक उक्तः | स खलु पुनस् त्वं महा-राज तस्य सम्यक्-संबोधि-चित्त-कुशल-मूल-कर्मणो विपाकेन + अन्-एक-शत-कृत्वो देवेषु + उपपन्नो * अभूः | अन्-एक-शत-कृत्वो मनुष्येषु + उपपन्नो * अभूः | सर्वासु च देव-मनुष्य-उपपत्तिष्व् आधिपत्यम् एव कारयसि | न च तावत् तव महा-राज तस्य सम्यक्-संबोधि-चित्तस्य कुशल-कर्मण ऊनत्वं वा + अ-पूर्णत्वं वा प्रज्ञायते | अपि च महा-राज एकम् अपि सम्यक्-संबोधि-चित्तं सर्व-सत्त्व-उत्तारण-आरम्बणत्वात् सर्व-सत्व-आमोचन-आरम्बणत्वात् सर्व-सत्व-समाश्वासन-आरम्बणत्वात् सर्व-सत्व-परिनिर्वाण-आरम्बणत्वाद् अ-प्रमेय-अ-संख्येय-कुशल-उपचयम् | कः पुनर् वादो य एवं बहुली-करोति + इति ||
SK
एतच् च बोधि-चित्तं रूप-काय-दर्शन-उत्पन्नं | तत्र पूर्व-अवदाने पठ्यते | एवं तावत् प्रणिधि-बोधि-चित्तं वेदितव्यं | इदं तु वक्तव्यं किम् अ-भूमि-प्रविष्ठस्य + अपि बोधि-सत्व-सम्वर-अधिकारो * अस्ति न वा + इति | अस्ति + इति वेदितव्यं आकाश-गर्भ-सूत्रे लाभ-सत्-कार-अर्थं मूल-आपत्ति-श्रवणात् | दश-भूमिक-सूत्रे तु प्रथमायां भूमौ दर्शितं | न च कञ्-चित् सत्-कारां कस्य-चित् सकाशात् प्रतिकांक्षत्य् अन्यत्र मया + एव + एषां सर्व-सत्वानां सर्व-उपकरण-बाहुल्यम् उपनामयितव्यम् इति | तथा च + आह | प्रमुदितायां बोधि-सत्व-भूमौ सु-व्यवस्थितो भवत्य् अ-चलन-योगे ... ति | पुनश् च + उक्तं | तथा-गत-वंश-नियतो भवति संबोधि-परायण इति | आकाश-गर्भ-सूत्रे त्व् आह | श्रावक-यानम् एव + अस्य न भवति प्राग् एव महा-यानम् इति | तथा + आर्य-उग्र-परिपृच्छायां मात्सर्य-पर्यवनद्धस्य + अपि शिक्षा-पदानि प्रज्ञप्तानि | प्रमुदितायां तु पठ्यते | आत्म-संज्ञा-अपगमाच् च + अस्य + आत्म-स्नेहो न भवति | कुतः | पुनः सर्व-उपकरण-स्नेह इति | तथा मस्तक-आदि-दानम् अप्य् अत्र + अस्य + उक्तं ||
SK
एवम् आदि सूत्रेषु भूमि-प्रविष्टस्य + अपि शिक्षा-प्रज्ञप्तिर् दृश्यते | यत्र वा + अ-सामान्येन बोधि-सत्वम् अधिकृत्य + उपदेशस् तत्र + अभ्यास-योग्यतया प्रतिषेध-वाक्येन वा + आदि-कर्मिक-बोधि-सत्वेन न शिक्षितव्यं भवेद् एतत् | उभय-अ-संभवे तु सर्वत्र शिक्षितव्यं | तत्र + अप्य् एकस्यां शिक्षायां शिक्षणायाम् अ-शक्तस्य + इतर-शिक्षा-अन्-अभ्यासादन-आपत्तिः ||
SK
आर्य-अक्षयमति-सूत्रे * अप्य् एवम् अवोचत् | दान-काले शील-उपसंहारस्य + अपेक्षा + इति विस्तरः | न च + अत्र शिथिलेन भवितव्यं न च शेषासु न समुदागच्छति | यथा-बलं यथा-भजमानम् इति दश-भूमिक-सूत्रे वचनात् | अयं च संवरः स्त्रीणाम् अपि मृदु-क्लेशानां बोध्य्-अभिलाष-चित्तानां लभ्यते | उक्तं हि बोधि-सत्व-प्रातिमोक्षे | चतुर्भिः शारिपुत्र धर्मैः समन्वागताः बोधि-सत्वाः सत्य-वादिनो भवन्ति + इत्य् आरभ्य + आह | इह शारिपुत्र कुल-पुत्रो वा कुल-दुहिता वा + अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य + आरब्ध-वीर्यो विहरति कुशल-धर्म-पर्येषणाय + इत्य् आरभ्य सर्व उपदेशः ||
SK
संवर-ग्रहणं च बोधि-सत्व-शिक्षा-पद-अभ्यास-परमस्य सांवरिकस्य + अन्तिकात् कर्तव्यं | एवं ह्य् अस्य शिक्षा-अतिक्रमे तीव्रम् अपत्राप्यं गुरु-विसंवादन-भयं च + उत्पद्यते | तत्र च + अन्-आभोगतः प्रेम-गौरव-सिद्धिर् इत्य् एष सामान्य-संवर-धर्मः | अत एव बोधि-सत्वाः तथा-गतानां पुरतः शिक्षाणाम् अन्यतम-शिक्षा-निष्पत्ति-कामाः समादानं कुर्वन्ति | तस्य च कल्याण-मित्रस्य + अ-भावे दश-दिग्-अवस्थित-बुद्ध-बोधि-सत्व-अभिमुखी-भाव-भावनया संवरो ग्राह्यः संवरम् आत्म-बलं च तुलयित्वा | अन्यथा तु सर्व-बुद्ध-बोधि-सत्वाः स-देवकश् च लोको विसंवादितः स्यात् | सद्-धर्म-स्मृत्य्-उपस्थान-सूत्रे हि किञ्-चिन् मात्रं चिन्तयित्वा + अप्य् अ-ददतः प्रेत-गतिर् उक्ता प्रतिज्ञातं च + अ-ददतो नरक-गतिः | किं पुनर् अन्-उत्तरम् अर्थम् अ-खिलस्य जगतः प्रतिज्ञाय + अ-संपादयतः | अत एव + उक्तं धर्म-संगीति-सूत्रे | सत्य-गुरुकेण कुल-पुत्र बोधि-सत्वेन भवितव्यं | सत्य-संगीतिः कुल-पुत्र धर्म-संगीतिः | तत्र कुल-पुत्र कतमत् सत्यं यद् बोधि-सत्वो * अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य तच् चित्तं जीवित-हेतोर् अपि न परित्यजति न सत्वेषु विप्रतिपद्यते | इदं बोधि-सत्वस्य सत्यं ||
SK
यत् पुनर् बोधि-सत्वो * अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य पश्चात् तच् चित्तं परित्यजति सत्वेषु विप्रतिपद्यते * अयं बोधि-सत्वस्य प्रतिकृष्टो मृषा-वाद इति | आर्य-सागरमति-सूत्रे * अपि देशितं | स्याद् यथा + अपि नाम सागरमते राजा वा राज-मात्रो वा सर्वं नागरकं जनं श्वो भक्तेन + उपनिमन्त्र्य + उपेक्षको भवेन् न + अन्न-पानं समुदानयेत् सत्यं सर्व-जन-कायं विसंवादयेत् | तत्र ते * अन्न-पान-भोजनम् अ-लभमाना उच्चग्घन्तः प्रक्रामेयुः | एवम् एव सागरमते यो बोधि-सत्वः सर्व-सत्वान् आश्वास्य + अ-तीर्ण-तारणाय + अ-मुक्त-मोचनाय + अन्-आश्वस्त-आश्वासनाय यावन् न बाहुश्रुत्ये * अभियोगं करोति न + अपि ततो * अन्येषु बोधि-पक्ष्य-कुशल-मूलेषु धर्मेषु | अयं बोधि-सत्वो विसंवादयति स-देवकं लोकं | एवं च तं पूर्व-बुद्ध-दर्शिन्यो देवता उच्चग्घन्ति विवादयन्ति | दुर्-लभास् ते यज्ञ-स्वामिनो ये महा-यज्ञं प्रतिज्ञाय + उत्तारयन्ति | तस्मात् तर्हि सागरमते न सा बोधि-सत्वेन वाग् भाषितव्या यया स-देव-मानुष-असुरं लोकं विसंवादयेत् ||
SK
पुनर् अ-परं सागरमते बोधि-सत्वः केन-चिद् एव + अधीष्टो भवति धर्मेष्व् अर्थ-करणीयेषु | तत्र बोधि-सत्वेन वाग् भाषिता भवति यावद् आत्म-परित्यागो * अपि बोधि-सत्वेन कर्तव्यो भवेत् तत्र न पुनः स सत्वो विसंवादयितव्य इति | तस्मात् स्व-बल-अनुरूपेण + एकम् अपि कुशल-मूलं समादाय रक्षितव्यं | यथा + उक्तम् आर्य-क्षितिगर्भ-सूत्रे | एभिर् दशभिः कुशलैः कर्म-पथैर् बुद्धत्वं | न पुनर् यो * अन्तश एकम् अपि यावज्-जीवं कुशलं कर्म-पथं न रक्षति अथ च पुनर् एवं वदति | अहं महा-यानिको * अहं च + अन्-उत्तरां सम्यक्-संबोधिं पर्येषामि + इति | स पुद्गलः परम-कुहको महा-मृषा-वादिकः सर्वेषां बुद्धानां भगवतां पुरतो विसंवादको लोकस्य + उच्छेद-वादी स मूढः कालं कुरुते विनिपात-गामी भवति + इति | यावत् कालं च शक्नोति तावत् कालं कुशलं समादाय वर्तितव्यं ||
SK
एतच् च भैषज्य-गुरु-वैडूर्य-प्रभ-सूत्रे द्रष्टव्यं | यस् तु महा-सत्व एवं श्रुत्वा + अपि बोधि-सत्व-चर्या-दुष्-करताम् अपि प्रज्ञया + अवगाह्य + उत्सहतए एव सकल-दुष्खित-जन-परित्राण-धुरम् अववोढुं तेन वन्दन-पूजन-पाप-देशन-पुण्य-अनुमोदन-बुद्ध-अध्येषण-याचन-बोधि-परिणामनं कृत्वा कल्याण-मित्रम् अभ्येत्य तद्-उक्त-अनुवादेन स्वयं वा वक्तव्यं | समन्वाहर + आचार्य + अहम् एवं नाम + इत्य् उक्त्वा | यथा + आर्य-मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलङ्-कार-सूत्रे भगवता मञ्जुश्रिया पूर्व-जन्म-अवदाने चर्या-उपेतं बोधि-चित्तम् उत्पादितं तथा + उत्पादयितव्यं | एवं हि तेन + उक्तं ||
SK
यावती प्रथमा कोटिः संसारस्य + अन्त-वर्जिता | तावत् सत्व-हित-अर्थाय चरिष्याम्य् अ-मितां चरिम् ||
SK
उत्पादयाम संबोधौ चित्तं नाथस्य संमुखम् | निमन्त्रये जगत् सर्वं दारिद्र्यान् मोचिता + अस्मि तत् ||
SK
व्यापाद-खिल-चित्तं वा ईर्ष्या-मात्सर्यम् एव वा | अद्य + अग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता | ब्रह्म-चर्यं चरिष्यामि कामांस् त्यक्ष्यामि पापकान् ||
SK
बुद्धानाम् अनुशिक्षिष्ये शील-संवर-संयमे | न + अहं त्वरित-रूपेण बोधिं प्राप्तुम् इह + उत्सहे ||
SK
पर-अन्त-कोटिं स्थास्यामि सत्वस्य + एकस्य कारणात् | क्षेत्रं विशोधयिष्यामि अ-प्रमेयम् अ-चिन्तियम् ||
SK
नाम-धेयं करिष्यामि दश दिक्षु च विश्रुतं | काय-वाक्-कर्मणी च + अहं शोधयिष्यामि सर्वशः ||
SK
शोधयिष्ये मनस्-कर्म कर्म कर्त्ता + अस्मि न + अ-शुभम् | इति ||
SK
न च + अत्र सार्वकालिकात् संवर-ग्रहणाज् जन्म-अन्तर-आपत्ति-शङ्का कर्तव्या + अत्र + एव सूत्रे * अ-क्षोभ्य-प्रणिधान-अनुज्ञानाद् एवं ह्य् उक्तं | यथा तेन + अ-क्षोभ्येण तथा-गतेन पूर्वं बोधि-सत्व-भूतेन + एवं वाग् भाषिता | विसंवादिता मे बुद्धा भगवन्तो भवेयुर् यदि सर्वस्यां जातौ न प्रव्रजेयम् इति | एका जातिः प्रयत्नेन संशोध्या विबुध-आत्मना | अन्यास् तु जातीर् आ-बोधेः स + एव संशोधयिष्यति + इत्य् उक्तेः ||
SK
एवं शारिपुत्र बोधि-सत्वेन अ-क्षोभ्यस्य तथा-गतस्य अनुशिक्षितव्यं | एवं शिक्षमाणः शारिपुत्र बोधि-सत्वो महा-सत्वः सर्वस्यां जातौ प्रव्रजत्य् उत्पादाद् वा तथा-गतानाम् अन्-उत्पादाद् वा + अ-वश्यं गृह-आवासान् निष्क्रामति | तत् कस्य हेतोः | परमो ह्य् अयं शारिपुत्र लाभो यद् उत गृह-आवासान् निष्क्रमणम् इति | यावत् | भार्या-पुत्र-दुहितृ-तृष्णा च + अस्य न भवति + इति | यथा जन्म-अन्तरेष्व् अयं दोषो न भवति तथा + अत्र + एव वक्ष्यमाणम् इत्य् आस्तां तावद् एतत् ||
SK
तद् एवं समात्त-संवरस्य सामान्यम् आपत्ति-लक्षणम् उच्यते | येन + आपत्ति-लक्षणेन युक्तं वस्तु स्वयम् अप्य् उत्प्रेक्ष्य परिहरेन् न च + आपत्ति-प्रतिरूपकेष्व् अन्-आपत्ति-प्रतिरूपकेषु च संमुह्येत | बोधि-सत्वः सर्व-सत्वानां वर्त्तमान-अन्-आगत-सर्व-दुष्ख-दौर्मनस्य + उपशमाय वर्त्तमान-अन्-आगत-सुख-सौमनस्य + उत्पादाय च निः-शाठ्यतः काय-वाङ्-मनः-पराक्रमैः प्रयत्नं करोति | यदि तु तत्-प्रत्यय-सामग्रीं न + अन्वेषते तद्-अन्-अन्तराय प्रतिकाराय न घटते अल्प-दुष्ख-दौर्मनस्यं बहु-दुष्ख-दौर्मनस्य-प्रतिकार-भूतं न + उत्पादयति | महा-अर्थ-सिद्ध्य्-अर्थं च + अल्प-अर्थ-हानिं न करोति क्षणम् अप्य् उपेक्षते | स-आपत्तिको भवति | संक्षेपतो * अन्-आपत्तिः स्व-शक्त्य्-अ-विशयेषु कार्येषु तत्र निष्-फलतया शिक्ष्या-प्रज्ञप्त्य्-अ-भावात् | प्रकृति-स-अवद्यतया त्व् अन्यद् गृह्यतए एव | यत्र स्व-शक्त्य-गोचरे * अपि त्याग-सामर्थ्याद् आपत्तिः स्यात् तन् न चिन्त्यं | सामान्य-पाप-देशना न ... वात् तु ततो मुक्तिः ||
SK
एतत् समासतो बोधि-सत्व-शिक्षा-शरीरं | विस्तरतस् त्व् अ-प्रमाण-कल्प-अ-पर्यवसान-निर्देशं | अथ-वा संक्षेपतो द्वे बोधि-सत्वस्य + आपत्ती | यथा शक्ति-युक्त-अ-युक्तम् अ-समीक्ष्य + आरभते | निवृत्तः समीक्षते स-आपत्तिको भवति | निरूप्य यथा-अर्हम् अतिक्रामत्य् अन्तशश् चण्डाल-दासेन + अपि चोदितः स-आपत्तिको भवति | कुतः ||
SK
एतद् अध्याशय-संचोदन-सूत्रे वचनात् | अपि तु मैत्रेय चतुर्भिः कारणैः प्रतिभानं सर्व-बुद्ध-भाषि ... भिः | इह मैत्रेय प्रतिभानं सत्य-उपसंहितं भवति | न + अ-सत्य-उपसंहितं धर्म-उपसंहितं भवति न अ-धर्म-उपसंहितं | क्लेश-हायकं भवति न क्लेश-विवर्द्धकं | निर्वाण-गुण-अनुशंस-सन्दर्शकं भवति न संसार-गुण-अनुशंस-सन्दर्शकं | एभिश् चतुर्भिः पेयालं | यस्य कस्य-चिन् मैत्रेय एभिश् चतुर्भिः कारणैः प्रतिभानं प्रतिभाति प्रतिभास्यति वा | तत्र श्राद्धैः कुल-पुत्रैः कुल-दुहितृभिर् वा बुद्ध-संज्ञा + उत्पादयितव्या शास्तृ-संज्ञां कृत्वा | स धर्मः श्रोतव्यः | तत् कस्य हेतोः | यत् किञ्-चिन् मैत्रेय सु-भाषितं सर्वं तद् बुद्ध-भाषितं | तत्र मैत्रेय य इमानि प्रतिभानानि प्रतिक्षिपेन् न + एतानि बुद्ध-भाषितानि + इति | तेषु च + अ-गौरवम् उत्पादयेत् पुद्गल-विद्वेषेण तेन सर्व-बुद्ध-भाषितं प्रतिभानं प्रतिक्षिप्तं भवति | धर्मं प्रतिक्षिप्य धर्म-व्यसन-संवर्तनीयेन कर्मणा + अपाय-गामी भवति ||
SK
यः पुनर् एतद् अभ्यास-अर्थं व्युत्पादितम् इच्छति | तेन + अत्र शिक्षा-समुच्चये तावच् चर्या-मुख-मात्र-शिक्षण-अर्थम् अभियोगः करणीयः शिक्षा-आरम्भस्य + एव महा-फलत्वात् | यथा + उक्तं प्रशान्त-विनिश्चय-प्रतिहार्य-सूत्रे | यश् च मञ्जुश्रीर् बोधि-सत्वो गङ्गा-नदी-वालिका-समेभ्यो बुद्धेभ्यः प्रत्य्-एकं सर्वेभ्यो गंगा-नदी-वालिका-समानि बुद्ध-क्षेत्राणि वशि-राज-महा-मणि-रत्न-प्रतिपूर्णानि कृत्वा दह्याद् एवं ददङ् गङ्गा-नदी-वालिका-समान् कल्पान् दानं दद्याद् | यो वा + अन्यो मञ्जुश्रीर् बोधिसत्व इमान् एवं-रूपान् धर्मान् श्रुत्वा एक-अन्तेन गत्वा चित्तेन + अभिनिरूपयेद् इमेष्व् एवं-रूपेषु धर्मेषु शिक्षिष्यामि + इति | सो * अ-शिक्षितो * अपि मञ्जुश्रीर् बोधिसत्वो * अस्यां शिक्ष्यायां छन्दिको वततरं पुण्यं प्रसवति | न त्व् एव तद् दानम् अयं पुण्य-क्रिया-वस्त्व् इति | तस्माद् एवम् अनुशंस-दर्शिना बोधि-सत्वेन न कथं-चिन् निवर्त्तितव्यं | यथा + अत्र + एव + आह | तत्र मञ्जुश्रीर् ये त्रि-साहस्र-महा-साहस्र-लोक-धातु-परम-अणु-रजः-समाः सत्व-स् तेषाम् एक-एकः सत्वो राजा भवेज् जम्बू-द्वीप-अधिपतिस् ते सर्वए एवं घोषयेयुः | यो महा-यानम् उद्ग्रहिष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्त्तयिष्यति तस्य नख-छेदेन मासं पञ्च-पलिकेन दिवसेन + अवतारयिष्यामः तं च + एतेन + अपक्रमेण जीविताद् व्यपरोपयिष्याम इति | सचेन् मञ्जुश्रीर् बोधि-सत्व एवम् उच्यमानो न + उ त्रस्यति न संत्रासम् आप्स्यते * अन्तश एक-चित्त-उत्पादेन + अपि न बिभेति न विषीदति न विचिकित्सते | उत्तरि च सद्-धर्म्म-परिग्रह-अर्थम् अभियुज्यते पाठ-स्व-अध्याय-अभिमुक्तो विहरति | अयं मञ्जुश्रीर् बोधि-सत्वश् चित्त-शूरो दान-शूरः शील-शूरः क्षान्ति-शूरः वीर्य-शूरः ध्यान-शूरः प्रज्ञा-शूरः समाधि-शूरः इति वक्तव्यः ||
SK
सचेन् मञ्जुश्रीर् बोधि-सत्वः तेषां वधक-पुरुषाणां न कुप्यति न रुष्यति न खिल दोष-चित्तम् उत्पादयति | स मञ्जुश्रीर् बोधि-सत्वो ब्रह्म-सम इन्द्र-समो * अ-कम्प्य इति ||
SK
इतश् च + अग्र्य-काले शिक्षा-आदरो महा-फल-विपाकः | तथा हि चन्द्र-प्रदीप-सूत्रे | बुद्धान कोटीन् अ-युतान् उपस्थिहे | दत्तेन पानेन प्रसन्न-चित्तः | छत्रैः पताकाभि च दीप-मालैः | कल्पान कोट्यो यथ गङ्ग-वालिकाः ||
SK
यश् च + एव सद्-धर्मे प्रलुज्यमाने | निरुध्यमाने सु-गतस्य शासने | रात्रिं दिवं एक चरेय शिक्षाम् | इदन् ततः पुण्य-विशिष्ट भोति ||
SK
तस्मात् कर्तव्यो * अत्र + आदरः ||
SK
उक्तानि च सूत्र-अन्तेषु बोधि-सत्व-शिक्षा-पदानि | यथा + उक्तम् आर्य-रत्न-मेघे | कथं च कुल-पुत्र बोधि-सत्वा बोधि-सत्व-शिक्षा-संवर-संवृता भवन्ति | इह बोधि-सत्वः एवं विचारयति | न प्रातिमोक्ष-संवर-मात्रकेण मया शक्यम् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुं | किं तर्हि यानि + इमानि तथा-गतेन तेषु तेषु सूत्र-अन्तेषु बोधि-सत्व-समुदाचारा | बोधि-सत्व-शिक्षा-पदानि प्रज्ञप्तानि तेषु तेषु मया शिक्षितव्यम् इति विस्तरः | तस्माद् अस्मद्-विधेन मन्द-बुद्धिना दुर्-विज्ञेयो विस्तर-उक्तत्वाद् बोधि-सत्वस्य संवरः | ततः किं युक्तं ||
SK
मर्म-स्थानान्य् अतो विद्याद् येन + अन्-आपत्तिको भवेत् ||
SK
कतमानि च तानि मर्म-स्थानानि यानि हि सूत्र-अन्तेषु महा-यान-अभिरतानाम् अर्थाय + उक्तानि | यद् उत | आत्म-भावस्य भोगानां त्र्य्-अध्व-वृत्तेः शुभस्य च | उत्सर्गः सर्व-सत्वेभ्यस् तद्-रक्षा शुद्धि-वर्धनम् ||
SK
एष बोधि-सत्व-संवर-संग्रहः | यत्र बोधि-सत्वानाम् अभ्यास-विश्रामे * अप्य् आपत्तयो व्यवस्थाप्यन्ते ||
SK
यथा + उक्तं बोधि-सत्व-प्रातिमोक्षे | यो बोधि-सत्वेन मार्गः परिगृहीतः सर्व-सत्वानां कृतेन दुष्खम् उपगामी | सचेद् बोधि-सत्वस्य तं मार्गं परिगृह्य + अवस्थितस्य + अपि कल्प-कोटेर् अत्ययेन + एकं सुख-चित्तम् उत्पद्येत + अन्तशो निषद्य चित्तम् अपि | तत्र बोधि-सत्वेन + एवं चित्तम् उत्पादयितव्यं सर्व-सत्वानाम् आत्ययिकं परिगृह्य + एतद् अपि मे वर्जयन् निषीदामि + इति | परिगृह्येत् तम् [दोउब्त्fउल्] | अपि मञ्जुश्रीर् आह ||
SK
पञ्च + इमानि देव-पुत्र + आनन्तर्याणि यैर् आनन्तर्यैः समन्वागता बोधि-सत्वाः क्षिप्रम् अन्-उत्तरा-सम्यक्-संबोधिम् अभिसंबुध्यते | कतमानि पञ्च | यदा देव-पुत्र बोधि-सत्वो * अध्याशयत्य् अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पाद्य न + अन्तरा श्रवक-प्रत्य्-एक-बुद्ध-भूमौ चित्तम् उत्पादयति + इदं देव-पुत्र प्रथमम् आनन्तर्यं | सर्वस्व-परित्यागितायां चित्तम् उत्पाद्य न + अन्तरा मात्सर्य-चित्तेन सार्द्धं स न्यसति + इदं देव-पुत्र द्वितीयम् आनन्तर्यम् | सर्व-सत्वा मया त्रातव्या इत्य् एवं चित्तम् उत्पाद्य न + अन्तरा सीदति + इदं देव-पुत्र तृतीयम् आनन्तर्यम् | अन्-उत्पन्न-अ-निरुद्धान् सर्व-धर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य न + अन्तरा दृष्टि-गतेषु प्रपतति + इदं देव-पुत्र चतुर्थम् आनन्तर्यम् | एक-क्षण-समायुक्तया प्रज्ञया सर्व-धर्मान् अवभोत्स्यए इत्य् एवं चित्तम् उत्पाद्य न + अन्तरा तिष्ठति न विष्ठीवति अ-प्राप्तायां सर्व-ज्ञतायाम् इदं देव-पुत्र पञ्चमम् आनन्तर्यम् इति ||
SK
तस्माद् एवम् आत्म-भाव-भोग-पुण्यानाम् अ-विरतम् उत्सर्ग-रक्षा-शुद्धि-वृद्धयो यथा-योगं भावनीयाः ||
SK
तत्र तावद् उत्सर्ग-अर्थं परिग्रह-दोष-भावना-द्वारेण वैराग्यम् उत्पादयेत् त्याग-अनुशंसांश् च भावयेत् | यथा तावच् चन्द्र-प्रदीप-सूत्रे | अध्यवसिता ये बालाः काये * अस्मिन् पूतिके सम्यग् | जीविते चञ्चले * अ-वश्ये माया-स्वप्न-निभा-उपमे ||
SK
अति-रौद्राणि कर्माणि कृत्वा मोह-वश-अनुगाः | ते यान्ति नरकान् घोरान् मृत्यु-यान-गत-अ-बुधा | इति ||
SK
तथा + अन्-अन्त-मुख-निर्हार-धारण्याम् उक्तं ||
SK
ये के-चित् सत्वा न भवन्ति विग्रहाः परिग्रहस् तत्र निदान-मूलम् | तस्मात् त्यजेद् यत्र भवेत् तृष्णा | उत्सृष्ट-तृष्णस्य हि धारणी भवेत् ||
SK
बोधि-सत्व-प्रातिमोक्षे कथितं | पुनर् अ-परं शारिपुत्र बोधि-सत्वः सर्व-धर्मेषु परकीय-संज्ञाम् उत्पादयति | न कञ्-चिद् भावम् उपादत्ते | तत् कस्य हेतोः | उपादानं हि भयम् इति ||
SK
आर्य-उग्रदत्त-परिपृच्छायाम् अप्य् आह | यद् दत्तं तन् न भूयो रक्षितव्यं | यद् गृहे तद् रक्षितव्यं | यद् दत्तं तत् तृष्ना-क्षयाय | यद् गृहे तत् तृष्णा-वर्द्धनं | यद् दत्तं तद् अ-परिग्रहं यद् गृहे तत् स-परिग्रहं | यद् दत्तं तद् अ-भयं यद् गृहे तत् स-भयम् | यद् दत्तं तद् बोधि-मार्ग-उपस्तम्भाय | यद् गृहे तन् मार-उपस्तम्भाय | यद् दत्तं तद् अ-क्षयम् | यद् गृहे तत् क्षयि | यद् दत्तं ततः सुखम् यद् गृहे तद्-आरभ्य दुष्खं | यद् दत्तं तत् क्लेश-उत्सर्गाय | यद् गृहे तत् क्लेश-वर्द्धनम् | यद् दत्तं तन् महा-भोगतायै | यद् गृहे न तन् महा-भोगतायै | यद् दत्तं तत् सत्-पुरुष-कर्म | यद् गृहे तत् का-पुरुष-कर्म | यद् दत्तं तत् सत्-पुरुष-चित्त-ग्रहणाय | यद् गृहे तत् का-पुरुष-चित्त-ग्रहणाय | यद् दत्तं तत् सर्व-बुद्ध-प्रशस्तं | यद् गृहे तद् बाल-जन-प्रशस्तम् ||
SK
यावत् सचेत् पुनर् अस्य पुत्रे * अतिरिक्ततरं प्रेम + उत्पद्यते तथा + अन्येषु सत्वेषु तेन तिसृभिः परिभाषणाभिः स्व-चित्तं परिभाषितव्यं | कतमाभिस् तिसृभिः | सम्यक्-प्रयुक्तस्य सम-चित्तस्य बोधि-सत्वस्य बोधिर् न विषम-चित्तस्य बोधिर् न मिथ्या-प्रयुक्तस्य | अ-नानात्व-चारिणो बोधि-सत्वस्य बोधिर् न नानात्व-चारिणः | आभिस् तिसृभिः परिभाषणाभिः स्व-चित्तं परिभाष्य + अन्यत्रे * अ-मित्र-संज्ञा + उत्पादयितव्या + अ-मित्रं ह्य् एतन् मम | न मैत्रं | यो * अहम् अस्य + अर्थाय बुद्ध-प्रज्ञप्ता-शिक्षाया उद्धुरताद् गत्वा + अस्मिन् पुत्रे * अतिरिक्ततरं प्रेम + उत्पादयामि | न तथा + अन्येषु सत्वेषु | तेन तथा तथा चित्तम् उत्पादयितव्यं यथा यथा + अस्य सर्व-सत्वेषु पुत्र-प्रेम-अनुगता मैत्र्य् उत्पद्यते | आत्म-क्षेम-अनु ... मैत्र्य् उत्पद्यते | एवं च + अनेन योनिशः प्रत्यवेक्षितव्यं | अन्यत एष आगत | अन्यतो * अहं | सर्व-सत्वा अपि मम पुत्रा अभूवन् | अहं च सर्व-सत्वानां पुत्रो * अभूवम् | न + इह संविद्यते कश्-चित् कस्य-चित् ... परो वा | यावद् एवं हि गृह-पते | गृहिणा बोधि-सत्वेन न कस्मिंश्-चिद् वस्तुनि ममत्वं परिग्रहो वा कर्तव्यः | न + अध्यवसानं | न नियतिः न तृष्णा-अनुशयः कर्तव्यः | सचेत् पुनर् गृह-पते गृहिणं बोधि-सत्वं याचनक उपसंक्रम्य किञ्-चिद् एव वस्तु याचेत | सचेद् अस्य वस्त्व् अ-परित्यक्तं भवेत् | न + एवं चित्तं निध्यापयितव्यं | यद्य् अहम् एतद् वस्तु परित्यजेयं यदि वा न परित्यजेयम् अ-वश्यं मम + एतेन वस्तुना विना-भावो भविष्यति | अ-कामकेन मरणम् उपगन्तव्यं भविष्यति | एतच् च वस्तु मां त्यक्ष्यति अहं च + एनं त्यक्ष्यामि | एतच् च वस्तु परित्यज्य + अहं आत्त-सारः कालं करिष्यामि एतच् च परित्यक्तं न मे मरण-काले चित्तं पर्यादाय स्थास्यति | एतच् च मे मरण-काले प्रीतिं प्रामोद्यम् अ-विप्रतिसारितां च जनयिष्यति | सचेत् पुनर् एवम् अपि समन्वाहरन् शक्नुयात् तद् वस्तु परित्यक्तुम् | तेन स याचनकश् चतसृभिः संज्ञप्तिभिः संज्ञपयितव्यः | कतमाभिश् चतसृभिः | दुर्-बलस् तावद् अस्म्य् अ-परिपक्व-कुशल-मूलः | आदि-कर्मिको महा-याने | न चित्तस्य वशी परित्यागाय | स-उपादान-दृष्टिको * अस्मि | अहं-कार-मम-कार-स्थितः | क्षमस्व सत्-पुरुष | मा परिताप्सीस् तथा + अहं करिष्यामि तथा प्रतिपत्स्ये | तथा वीर्यम् आरप्स्ये | यथा + एनं च तव + अभिप्रायं परिपूरयिष्यामि सर्व-सत्वानां च + इति | एवं खलु गृह-पते | तेन याचनकः संज्ञपयितव्यः | एतच् च संज्ञपनम् उपरि दोष-परिहाराय + उक्तं | मा भूद् बोधि-सत्वस्य तत्र अ-प्रसादो बोधि-सत्वे वा याचनकस्य + इति | न तु मात्सर्यम् एवं अन्-अवद्यं भवति कुत्सितं च + इदं भगवता बोधि-सत्वानां ||
SK
यथा + आह बोधि-सत्व-प्रातिमोक्षे | चत्वार इमे शारिपुत्र धर्मा बोधि-सत्वानां न संविद्यन्ते | कतमे चत्वारः | शाठ्यं बोधि-सत्वानां न संविद्यते | मात्सर्यं बोधि-सत्वानां न संविद्यते | ईर्ष्या-पैशुन्यं बोधि-सत्वानां न संविद्यते | न + अहं शक्तो * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुम् इति | लीनं चित्तं बोधि-सत्वानां न संविद्यते | यस्य + इमे शारिपुत्र चत्वारो धर्माः संविद्यन्ते स पण्डित.इर् ज्ञातव्यः | कुहको वत + अयं | लपको वत + अयं | नष्ट-धर्मो वत + अयं | संक्लेश-धर्मो वत + अयं लोक-आमिष-गुरुको वत + अयं भक्त-चोडक-परमो वत + अयम् इति | तथा चित्त-शूराः खलु पुनः शारिपुत्र बोधि-सत्वा भवन्ति | यावत् स्व-हस्त-परित्यागी भवति पाद-परित्यागी | नासा-परित्यागी | शीर्ष-परित्यागी | अङ्ग-प्रत्य्-अङ्ग-परित्यागी | पुत्र-परित्यागी | दुहितृ-परित्यागी | भार्या-परित्यागी | रति-परित्यागी | परिवार-परित्यागी | चित्त-परित्यागी | सुख-परित्यागी | गृह-परित्यागी | वस्तु-परित्यागी | देश-परित्यागी रत्न-परित्यागी | सर्वस्व-परित्यागी + इति ||
SK
एवं नारायण-परिपृच्छायाम् अप्य् उक्तं | न तद् वस्तु + उपादातव्यं यस्मिन् वस्तुनि न + अस्य त्याग-चित्तम् उत्पद्यते | न त्याग-बुद्धिः क्रमेत | न स परिग्रहः परिग्रहीतव्यो यस्मिन् परिग्रहे न + उत्सर्जन-चित्तम् उत्पादयेन् न स परिवार उपादातव्यो यस्मिन् याचनकैर् याच्यमानस्य परिग्रह-बुद्धिर् उत्पद्यते | न तद् राज्यम् उपादातव्यं न ते भोगा न तद् रत्नम् उपादातव्यं यावन् न तत् किञ्-चिद् वस्तु + उपादातव्यं | यस्मिन् वस्तुनि बोधि-सत्वस्य + अ-परित्याग-बुद्धिर् उत्पद्यते ||
SK
अपि तु खलु पुनः कुल-पुत्र बोधि-सत्वेन महा-सत्वेन + एवं चित्तम् उत्पादयितव्यं | अयं मम + आत्म-भावः सर्व-सत्वेभ्यः परित्यक्तः उत्सृष्टः | प्राग् एव बाह्यानि वस्तूनि यस्य यस्य सत्वस्य येन येन यद् यत् कार्यं भविष्यति तस्मै तस्मै तद् दास्यामि सत्-संविद्यमानं हस्तं हस्त-अर्थिकेभ्यो दास्यामि पादं पाद-अर्थिकेभ्यो नेत्रं नेत्र-अर्थिकेभ्यो दास्यामि | मांसं मांस-अर्थिकेभ्यः शोणितं शोणित-अर्थिकेभ्यो मज्जानं मज्जा-अर्थिकेभ्यो * अङ्ग-प्रत्य्-अङ्गान्य् अङ्ग-प्रत्य्-अङ्ग-अर्थिकेभ्यः शिरः शिरो-र्थिकेभ्यः परित्यक्ष्यामि | कः पुनर् वादो बाह्येषु वस्तुषु यद् उत धन-धान्य-जात-रूप-रजत-रत्न-आभरण-हय-गज-रथ-वाहन-ग्राम-नगर-निगम-जन-पद-राष्ट्र-राज-धानी-पत्तन-दासी-दास-कर्म-कर-पौरुषेय-पुत्र-दुहितृ-परिवारेषु | अपि तु खलु पुनर् यस्य यस्य येन येन यद् यत् कार्यं भविष्यति तस्मै तस्मै सत्वाय तत् तद् देयं संविद्यमानं दास्यामि | अ-शोचन्न् अ-विप्रतिसारी अ-विपाक-प्रतिकाङ्क्षी परित्यक्ष्यामि | अन्-अपेक्षो दास्यामि सत्व-अनुग्रहाय सत्व-कारुण्येन सत्व-अनुकम्पया तेषाम् एव सत्वानां संग्रहाय | यथा मे * अमी सत्वाः संगृहीता बोधि-प्राप्तस्य धर्म-जानकाः स्युर् इति | पेयालं ||
SK
तद् यथा + अपि नाम कुल-पुत्र भैषज्य-वृक्षस्य मूलतो वा ह्रियमाणस्य गण्डतः शाखातः त्वक्तः पत्रतो वा ह्रियमाणस्य पुष्पतः फलतः सारतो वा ह्रियमाणस्य न + एवं भवति विकल्पो | मूलतो मे ह्रियते यावत् सारतो मे ह्रियतए इति ||
SK
अपि तु खलु पुनर् अ-विकल्प एव हीन-मध्य-उत्कृष्टानां सत्वानां व्याधीन् अपनयति | एवम् एव कुल-पुत्र बोधि-सत्वेन महा-सत्वेन + अस्मिंश् चातुर्महाभौतिके आत्म-भावे भैषज्य-संज्ञा + उत्पादयितव्या येषां येषां सत्वानां येन येन + अर्थः तत् तद् एव मे हरन्तु हस्तं हस्त-अर्थिनः पादं पाद-अर्थिन इति पूर्व-वत् ||
SK
आर्य-अक्षयमति-सूत्रे * अपि देशितं | अयम् एव मया कायः सर्व-सत्वानां किं-करणीयेषु क्षपयितव्यः | तद् यथा + अपि नाम + इमानि बाह्यानि चत्वारि महा-भूतानि पृथिवी-धातुर् अब्-धातुस् तेजो-धातुर् वायु-धातुश् च नाना-सुखैर् नाना-पर्यायैर् नाना-आरम्बणैर् नाना-उपकरणैर् नाना-परिभोगैः सत्वानां नाना-उपभोगं गच्छन्ति | एवम् एव + अहम् इमं कायं चतुर्-महा-भूत-समुच्छ्रयं नाना-सुखैर् नाना-पर्यायैर् नाना-आरम्बणैर् नाना-उपकरणैर् नाना-परिभोगैर् विस्तरेण सर्व-सत्वानाम् उपभोग्यं करिष्यामि + इति | स इमम् अर्थ-वशं संपश्यन् काय-दुष्खतां च प्रत्यवेक्षते काय-दुष्खतया च न परिखिद्यते सत्व-अवेक्षया + इति ||
SK
आर्य-वज्र-ध्वज-सूत्रे * अप्य् आह ||
SK
इति हि बोधि-सत्व आत्मानं सर्व-सत्वेषु निर्यातयन् सर्व-कुशल-मूल-उपकारित्वेन सर्व-सत्वानां कुशल-मूलैः समन्वाहरन् प्रदीप-समम् आत्मानं सर्व-सत्वेषु + उपनयन् सुख-समम् आत्मानं सर्व-सत्वेष्व् अधितिष्ठन् | धर्म-कुक्षि-समम् आत्मानं सर्व-जगति संधारयन् आलोक-समम् आत्मानं सर्व-सत्वेष्व् अनुगच्छन् जगत्-प्रतिष्ठापन-समम् आत्मानं संपश्यन् | कुशल-मूल-प्रत्यय-भूतम् आत्मानं सर्व-जगत्य् अनुगच्छन् | मित्र-समम् आत्मानं सर्व-सत्वेषु नियोजयमानो * अन्-उत्तर-सुख-मार्ग-समम् आत्मानं सर्व-सत्वेषु संदर्शयमानः अन्-उत्तर-सुख-उपधान-समम् आत्मानं सर्व-सत्वेषु परिशोधमानः सूर्य-समम् आत्मानं सर्व-जगति समी-कुर्वाणः | एवं-धर्म-उपेतम् आत्मानं सर्व-सत्वेषु प्रयच्छन् | यथा-काम-करणीय-वश्यम् आत्मानं सर्व-लोके संपश्यन्न् अग्र-चैत्या भविष्यामः ... सर्व-जगत्-स्थित्य्-आत्मानं संपश्यन् | सम-चित्ततां सर्व-जगति निष्पादयन् | सर्व-उपकरण-तीर्थम् आत्मानं संपश्यन् | सर्व-लोक-सुख-दातारम् आत्मानं प्रत्यवेक्षमाणः | सर्व-जगतो दान-पतिम् आत्मानम् अधिमुच्यमानः सर्व-लोक-ज्ञान-समम् आत्मानं कुर्वाणः बोधि-सत्व-चर्या-प्रयुक्तम् आत्मानं संजनयमानः | यथा-वादि-तथा-कारित्वेन + आत्मानं नियोजयमानः | सर्व-ज्ञता-सन्नाह-सन्नधम् आत्मानं प्रत्यवेक्षमाणः | पूर्व-निमन्त्रितं चित्तम् अनुपालयमानः | प्रतिपत्तौ च + आत्मानं स्थापयमानो बोधि-सत्व-त्याग-चित्ततां मनसि कुर्वाण उद्यान-भूतम् आत्मानं सर्व-सत्वेषु संपश्यन् | धर्म-रति-भूतम् आत्मानं सर्व-लोकेष्व् आदर्शयमानः सौमनस्य-दातारम् आत्मानं सर्व-सत्वानाम् अधितिष्ठन् | अन्-अन्त-प्रीति-संजननम् आत्मानं सर्व-जगतो निर्यातयमानः सर्व-शुक्ल-धर्माय द्वार-भूतम् आत्मानं सर्व-लोके संधारयमानः | बुद्ध-बोधि-दातारम् आत्मानं सर्व-सत्वानां प्रणिदधत् | पितृ-समम् आत्मानं सर्व-प्रजायां नियोजयमानः | सर्व-उपकरण-अ-वैकल्य-अधिकरणम् आत्मानं सर्व-सत्व-धातौ प्रतिष्ठापयमानः ||
SK
इति हि बोधि-सत्व आत्मानम् उपस्थायकत्वाय ददानः याचनकेषु नीच-मनसि-कार-चित्तो भूम्य-आस्तरण-अधिष्ठान-चेता धरणि-सम-सर्व-दुष्ख-सहन-मनसि-कार-प्रवृत्तः सर्व-सत्व-उपस्थान-अ-क्लान्त-मानस-प्रयुक्तो बाल-जन-दुष्-कृत-स्थिरः स्थावर-अधिवासन-जात्यः अस्थितः कुशल-मूल-अभियुक्तः अ-प्रयुक्त-सर्व-लोक-धातु-उपस्थानः कर्णो नासा संपरित्यजन् याचनकेभ्य उपसंक्रान्तेभ्यो बोधि-सत्व-चर्या-उपात्त-तथा-गत-कुल-कुलीन-संभूत-चित्तः सर्व-बोधि-सत्व-अनुस्मरण-विहार-प्रसृतो * अ-सारात् सर्व-त्रैलोक्यात् स ... त्यवेक्षमाणः स्व-शरीर-अन्-अध्यवसित-सन्तानः अ-निकेत-सर्व-बुद्ध-धर्म-अनुस्मृति-विहार्य् अ-साराच् * छरीरात् सार-आदान-अभिप्राय इति हि बोधि-सत्वो जिह्वां याचितः समानो म ... वाता प्रेमणीयया मैत्र्या-उपचार-विततया भद्रे सिंह-आसने राज-अर्हे निषाद्य तं याचनकम् अभिभाषते दृष्टः | अ-रिष्ट-चित्तो भूत्वा + अ-क्षत-चित्तो * अन्-उपहत-चित्तो महा-आत्मन् सला ... चित्तो बुद्ध-वंश-संभूत-चित्तो * अ-लुलित-सन्तान-चित्तो महा-स्थाम-बल-आधानो * अन्-अध्यवसित-शरीर-चित्तो * अन्-अभिनिविष्ट-वचन-चित्तो जानु-मण्डल-प्रष्ठित-कायो भूत्वा स्वकान् मुखाज् जिह्वा ... याचनकस्य सर्व-शरीरम् अ-धीनं कृत्वा वाचं प्रमुञ्चन् स्निग्धां मृद्वीं प्रेमणीयां मैत्र्या-उपचारां | गृहाण त्वं मम जिह्वां यथा काम-करणीयां कुरु | तथा कुरु यथा त्वं प्रीतो भवसि प्रीत-मानस आत्मना प्रमुदितो हृष्टः प्रीति-सौमनस्य-जात इति स शिरः परित्यजन् सर्व-धर्म-अग्र-शिरः परम-ज्ञानम् अवतरन् सर्व-सत्व-परित्राण-शिरो-बोधि ... गच्छन् सर्व-जगद्-अग्र्य-शिरः अन्-उपम-ज्ञानम् अभिलषन् सर्व-दिक्-छिरः प्राप्तुं ज्ञान-राजम् अधिमुच्यमानो * अन्-उत्तर-सर्व-धर्म-ऐश्वर्य-शीर्षतां परिपूरयितु-कामो * अन्-अन्त-याचनक-प्रीति-परिस्फुट-चेता | इति हि बोधि-सत्वो हस्त-पादान् परित्यजन् याचनकेभ्यः श्रद्धा-हस्त-प्रयुक्तेन + अनुग्रह-चारित्रेण बोधि-सत्व-सिंह-विक्रम-त्याग-प्रतत-पाणिना व्यवसर्ग-अभिरतेन हस्त-पाद-परित्यागेन महा-प्रतिष्ठान-क्रम-तल-व्यतिहारेण बोधि-सत्व-चर्या-अध्यवसायेन वेदना-अन्-उपहततया दान-प्रसाद-शक्त्या वि-मल-चित्त-उत्पाद-संवरो निष्-पर्यवस्थान-ज्ञान-धर्म-शरीर-अ-छिन्न-अ-भिन्न-अ-लुप्त-काय-संज्ञः अ-नीच-चित्तः सर्व-मार-कर्म-अ-कल्याण-मित्र-उपस्तब्ध-वृंहित-चेताः सर्व-बोधि-सत्व-संवर्णित-एक-त्याग-निर्याण इति हि बोधि-सत्वः स्व-शरीरम् आक्षिप्य रुधिरम् अनुप्रयच्छन् याचनकेभ्यः प्रहर्षित-बोधि-चित्तो | बोधि-सत्व-चर्या-अभिलषित-चित्तो * अ-पर्यात्त-वेदित-चित्तः सर्व-याचनक-अभिलषित-चित्तः सर्व-प्रतिग्राहक-अ-विद्विष्ट-चित्तः सर्व-बोधि-सत्व-त्याग-प्रतिपत्-प्रतिपन्नो * अ-निवर्त्त्यया प्रीति-प्रस्रब्ध्या स्व-शरीर-अन्-अपेक्ष-चित्तः स्व-शरीराद् रुधिरम् अनुप्रयच्छन् ज्ञान-आयतन-महा-यान-प्रसृत-चेता महा-यान-अ-विनष्ट-मना इष्ट-मनास् तुष्ट-मनाः प्रीत-मनाः मुदित-मना मैत्र्य्--मनाः सुख-मनाः प्रसन्न-मनाः प्रमुदित-प्रीति-सौमनस्य-जातो मज्जा-मांसं स्व-शरीरात् परित्यजन् याचनकेभ्यः कल्याण-त्यागया | याचक-अभिलषितया वाचा तान् याचकान् अभिलपन् | गृह्णन्तु भवन्तो मम शरीरान् मज्जा-मांसं यथा काम-करुणाया तुल्य-प्रीति-विवर्द्धनेन त्याग-चित्तेन | बोधि-सत्व-विज्ञ-गण-निषेवितेन महा-कुशल-मूलेन लोक-मल-अपकर्षितेन प्रवरेण + अध्याशयेन | सर्व-बोधि-सत्व-समता-उपात्तैर् महा-दान-आरम्भैर् मनसा + आकाङ्क्षितैः सर्व-याचकैर् अन्-अनुताप्य-चित्तैर् दान-वस्तुभिः अ-प्रत्यवेक्षितेन कर्म-विपाक-प्रत्ययेन सर्व-लोक-धात्व्-अ-विमुखया सर्व-बुद्ध-क्षेत्र-अलं-कार-व्यूह-पूजया सर्व-जगद्-अभिमुखया करुणा-परित्राणतया | सर्व-बुद्ध-बोध्य्-अभिमुखया | दश-बल ... चारणया + अतीत-अन्-आगत-प्रत्युत्पन्न-सर्व-बोधि-सत्व-अभिमुखया एक-कुशल-मूल-परिचर्यया सर्व-वैशारद्य-अभिमुखेन + आर्षभ-सिंह-नाद-नदनेन त्र्य्-अध्व-अभिमुखेन | सर्व-अध्व-समता-ज्ञानेन ... लोक-अभिमुखेन + अ-पर-अन्त-कोटी-गत-कल्प-व्यवसायेन बोधि-सत्व-प्रणिधानेन + अ-परित्रस्यन-अभिमुखेन + अ-खेद-चित्त-उत्पादेन बोधि-सत्वः स्व-हृदयं परित्यजन् याचनकेभ्यो दान-वश-शिक्षित-चित्तः पारमिता-निष्पादन-चित्तः सर्व-बोधि-सत्व-दान-अन्-उद्धत-सु-प्रतिष्ठित-चित्तः | अधिष्ठान-सर्व-याचनक-प्रतिमानन-चित्तः | अध्याशयं परिशोधयमानः | सर्व-जगत्-परिपाचन-निदानं महा-प्रणिधानं प्रतिपद्यमानो बोधि-सत्व-चर्यायां संवसमानः सर्व-ज्ञता-संभारं संभरमाणः प्रणिधिम् अ-रिञ्चन् सो * अत्र यकृत्-बुक्का-फुप्फुषं याचकेभ्यः परित्यजन् याचनक-अभिप्रसन्नया दृष्ट्या प्रसन्न-प्रीत्य्-आकारैर् नेत्रैर् बोधि-सत्व-निर्यातेन प्रेम्णा + अ-व्युत्थित-मनसि-कारेण त्यागेन + अ-सारात् कायात् सु-प्रत्यवेक्षितेन सार-आदान-चित्तेन श्मशान-पर्यन्तेन काय-अनुस्मृति-मनसि-कारेण वृक-शृगाल-श्व-भक्ष्यं शरीरं प्रत्यवेक्षमाणः पर-भक्ति-मनसि-कृतया | शरीर-अ-नित्यतया + अपविद्ध-शरीरेण पर-भक्त-चेतनेन एवं धर्म-मनसि-कार-प्रयुक्तो बोधि-सत्वस् तान् याचनकान् अ-निमिषं प्रेक्षमाण एवं चित्तम् उत्पादयति | यदि च + अहम् एतद्-याचनकस्य एतच्-छरीराद् अन्त्रं यकृत्-बुक्का-फुष्फुषं दद्यां | यदि वा न दद्यां | आयुः-क्षय-पर्यन्ते न + एषो नित्यः श्मशान-पर्यवसान इति | स एवं मनसि-कार-संतोषितेन सन्तानेन + एवं धर्म-ज्ञानेन + आशयेन कल्याण-मित्र-संज्ञा-अधिष्ठितेन याचनक-दर्शनेन + अ-सारात् कायात् सारम् आदातु-कामो धर्म-कामतया स्व-मांसान् नखं परित्यजन्न् एव तत्-कुशल-मूलं परिणामयति + इत्य् आत्म-भाव-उत्सर्गं कृत्वा ||
SK
भोग-पुण्य-उत्सर्गो * अप्य् अत्र + एव + उक्तेः | इति हि बोधि-सत्वो नाना-दक्षिणीय-प्रतिग्राहकेष्व् अन्य-अन्य-पुद्गल-दिग्-आगतेष्व् अ-प्रमेय-कृपण-वनीपकेषु बोधि-सत्व-श्रव-आगतेषु बोधि-सत्व-शब्दं श्रुत्वा + आगतेषु बोधि-सत्व-प्रत्यय-अवकाश-गतेषु बोधि-सत्व-दान-पूर्वं प्रणिधान-श्रुतेषु | बोधि-सत्व-प्रणिधान-चित्त-निमन्त्रितेषु | सर्व-त्याग-मनस-अभिलषितेषु तृप्त-याचनक-प्रतिमानना-चेतन आगत-याचनक-क्षमा-पण-चेतनो | मया + एव तत्र दिशं गत्वा यूयं प्रतिमानयितव्या अभविष्यत येन युष्माकम् आगमन-क्लमो न स्यात् | एवं समृद्ध-प्रणिपातेन क्षमयति सर्व-याचनकान् क्षमयित्वा स्नापयित्वा विश्रामित-शरीरान् कृत्वा तेभ्यो यद्-ऋच्छया + उपकरणं प्रतिपादयति | यद् इदं मणि-रथान् जम्बु-द्वीप-कल्याण-कन्या-रत्न-परिपूर्णान् यद् इदं सुवर्ण-रथान् जन-पद-विशुद्ध-कन्या-रत्न-परिपूर्णान् | यद् इदं वैडूर्य-रथान् वा + अनुकुल-गीत-वाद्य-संप्रवादित-परिपूर्णान् | एवं स्फटिक-रथान् सु-मुख-सु-वेश-धारि-स्व्-अलं-कृत-रूपान् अ-प्रतिकूल-दर्शन-चतुर-कन्या-रत्न-परिपूर्णान् इति | तथा + अत्र + एव देशितं मणि-रथान् वा ददानः सर्व-रत्न-जाल-संछन्नान् आजानेय-हस्त्य्-उपेतान् | स-वाहनान् | चन्दन-रथान् ददानो रत्न-चक्र-रथ्य-प्रयुक्तान् रत्न-सिंह-आसन-प्रतिष्ठितान् यावन् नाना-रत्न-छत्र-संछन्न-व्यूहान् रत्न-वितान-वितत-संछन्नान् ध्वज-पताक-अलं-कृत-चतुर्-दिक्कान् नाना-गन्ध-विधूपित ... सार-गन्ध-अनुलेप-अनुलिप्तान् | सर्व-पुष्प-व्यूह-अवकीर्णान् कन्या-शत-सहस्र-रत्न-सूत्र-प्रकर्षितान् अ-भ्रान्त-गमनान् अभ्र-अन्त-सम-वाहन-प्रयुक्तान् | यावद् अ-प्रतिकूल-मनो-ज्ञ-प्रवात-गन्धान् सु-दुहितृ-पुत्र-वचन-उपचार-प्रयुक्तान् | विविध-गन्ध-चूर्ण-सम्भृत-कृत-उपचारान् इति ||
SK
पुनर् अत्र + एव + आह | आत्मानं च सर्व-सत्वानां निर्यातयन्न् उपस्थानं वा सर्व-बुद्धानाम् उपाददानो राज्यं वा परित्यजन् पट-भेदकं वा नगर-राज-धानीं सर्व-अलं-कार-भूषितां यथा-अर्हं वा याचनकेषु सर्व-परिवारं परित्यजन् पुत्र-दुहितृ-भार्यां वा ददानो याचनकेभ्यः सर्व-गृहं वा + अपसृजन् | यावत् सर्व-उपभोग-परिभोगान् वा ददानः | एवं पान-दानं रस-दानम् अपि बोधि-सत्वो ददानो विविधान् कल्याणान् उदारान् विशुद्धान् अ-विकलांस् तिक्तांल् लवणान् कटकान् कषायान् नाना-रस-अग्र-उपेतान् सु-स्निग्धान् विविध-रस-विधिना + उपेतान् धातु-क्षोभण-समता-स्थापनान् चित्त-शरीर-बल-उपस्तम्भनान् प्रीति-प्रसाद-प्रामोद्य-कल्पता-जननान् | यावत् सर्व-पर-उपक्रम-प्रतिषेधकान् सर्व-व्याधि-समन-आरोग्य-संजननान् | एवं वस्त्र-दानं पुष्प-दानं गन्ध-दानं विलेपन-दानं माल्य-दानं | शयन-दानम् आवास-दानम् अपाश्रय-दानं प्रदीप-दानं च | ग्लान-प्रत्यय-भैषज्य-परिष्कारान् बोधि-सत्वो * अनुप्रयच्छन् यावन् नाना-भाजनानि विविध-संभाराण्य् अन्-एक-कांस्य-पात्रीर् अ-प्रमेय-संभार-उपचिता हिरण्य-सुवर्ण-रूप्य-चूर्ण-परिपूर्णास् तानि बुद्धेभ्यो भगवद्भ्यो ददानो * अ-चिन्त्य-दक्षिणीय-अधिमुक्त-चेता बोधि-सत्व-रत्नेभ्यो वा ददानः | कल्याण-मित्र-सु-दुर्-लभ-चित्त-उत्पादेन आर्य-संघाय वा ददानः | बुद्ध-शासन-उपस्तम्भाय पुद्गलाय वा ददानः | श्रावक-प्रत्य्-एक-बुद्धेभ्यो वा + आर्य-गुण-सु-प्रसन्न-चित्ततया माता-पितृभ्यां ददानो | गुरु-शुश्रूष-उपस्थान-चित्ततया आचार्य-गुरु-दक्षिणीयेभ्यो वा ददानस् तत्र तत्र गुरु-संभार-अववाद-शिक्षण-प्रयुक्तः | अशन-वसनं वा कृपण-वनीपक-याचनकेभ्यो ददानः | सर्व-सत्व-अ-प्रतिहत-चक्षुर् मैत्री-परिभावित-चित्ततया | पेयालं ||
SK
इति हि बोधि-सत्वो हस्त्य्-आजानेयान् ददानः सप्त-अङ्ग-सु-प्रतिष्ठितान् | षष्टि-हायनान् षड्-गन्त्र-उपेतान् पद्म-वर्णान् मुख-विशुद्धान् सुवर्ण-अलं-कारान् हेम-जाल-प्रतिच्छन्न-शरीरान् नाना-रत्न-विचित्र-अलं-कार-जाल-शुण्ड-प्रक्षिप्त-व्यूहान् सुवर्ण-कल्याणान् कल्याण-चारु-दर्शनान् | अ-क्लान्त-योजन-सहस्र-गमन-उपचारान् अश्व-आजानेयान् वा ददानः | सुख-वाहन-सुख-शरीर-उपेतान् अनुजव-संपन्नांश् चतुर्-दिग्-गमन-आहार-जव-उपेतान् आरोह-संपन्नान् दिव्य-कल्याण-चारु-सदृश-सर्व-विभूषण-उपेतान् | स तान् ददानः परित्यजन् गौरवेण गुरु-जनेभ्यः कल्याण-मित्र-माता-पितृभ्यः कृपण-वनीपक-याचनकेभ्यः सर्व-जगत्-प्रतिग्राहकभ्यो मुक्त-चित्तया ददानो | न + आगृहीत-चित्ततया + अवसृजन् महा-करुणा-परिस्फुटेन सन्तानेन महा-त्याग-परिमाण-बोधि-सत्व-गुनेषु प्रतिपद्यमानो * अभिजात-बोधि-सत्व-अध्याशयान् परिशोधयमानो यावद् इति हि बोधि-सत्व आसन-दानं ददानः परित्यजन् राज-भद्र-आसनानि वैडूर्य-पादकानि सिंह-प्रतिष्ठितानि सुवर्ण-सूत्र-रत्न-जाल-वितानान्य् अन्-एक-चीवर-स्पर्श-उपेत-प्रज्ञप्तानि सर्व-सार-गन्ध-वासित-उपचाराणि विचित्र-मणि-राज-समुच्छ्रित-ध्वजान्य् अन्-एक-रत्न-कोटी-नियुत-शत-सहस्र-अलं-कार-व्यूहानि हेम-जाल-वितान-विततानि सुवर्ण-किङ्किणी-जाल-संघटित-मनो-ज्ञ-नाद-निर्घोष-शब्दानि महान्त्य-आसनान्य् अभ्युद्गतो द्विद्ध-चक्षुर्-दशनान्य् एक-छत्र-महा-पृथिव्य्--अनुशासन-निषदन-अभिषिक्तानि | सर्व-राज्य-ऐश्वर्य-अधिपतेय-नियत-निषद्य-अ-प्रतिहत-चक्र-शासन-अनुशासन-सर्व-राज-अधिपतेये प्रवर्त्तते | एवं यावद् इति हि बोधि-सत्वश् छत्राणि ददानः परित्यजन् महा-रत्न-व्यूह-प्रतिमण्डितानि रत्न-दण्डानि किङ्किणी-जाल-संछन्नानि | रत्न-सूत्र-कर्ण-कण्ठ-आवली-विनामित-वैडूर्य-मणि-हार-अभिप्रलम्बितानि नन्दी-घोष-मनो-ज्ञ-शब्द-उपचाराणि हेम-जाल-अभ्यन्तर-विशुद्ध-छदनानि रत्न-शलाक-अलं-कार-शत-सहस्र-विततानि रत्न-कोष-सन्धारितान्य् अ-गुरु-चन्दनान्य् एक-सार-वर-गन्ध-कोटी-नियुत-शत-सहस्र-विधूपित-वासित-उपचाराणि जाम्बु-नद-प्रभास्वर-शुद्धानि | तादृशानां छत्राणाम् अन्-एक-कोटी-नियुत-शत-सहस्र-अलं-काराणां तद्-अतिरिक्तानि च + अ-संख्येय-कोटी-नियुत-शत-सहस्र-अलं-काराण्य् अन्-अपेक्ष-चित्तो ददानः परित्यजन्न् अवसृजन्न् अनुप्रयच्छन् संमुखी-भूतेभ्यो वा सत्व-सारेभ्यो निर्वृतानां वा तथा-गतानां चैत्य-अलं-काराय | धर्म-पर्येष्टये बोधि-सत्व-कल्याण-मित्रेभ्यो वा + अभिजात-बोधि-सत्व-धर्म-भाणकेभ्यो वा माता-पितृभ्यां वा संघ-रत्ने वा सर्व-बुद्ध-शासने वा यावत् सर्व-प्रतिग्राहकेभ्यः स एवं तत्-कुशल-मूलं परिणामयति ||
SK
यथा तावत् प्रथमायाम् एव परिणामनायां सर्व-कुशल-मूल-प्रस्तावेषु + उपदिष्टं | एवं प्रणिधानम् उत्पादयति | कथम् एतानि कुशल-मूलानि सर्व-जगद्-उपजीव्यान्य् उपकारि-भूतानि भवेयुर् विशुद्ध-धर्म-पर्यवसानानि येन सर्व-सत्वानाम् एतैः कुशल-मूलैर् नरक-अपाय-प्रतिप्रस्रब्धिर् भवति | तैर्यग्योनिक-यामलौकिकाद् दुष्ख-स्कन्धान् निवर्त्तयेयुः | स तानि कुशल-मूलानि परिणामयन्न् एवं तत्-कुशल-मूलं परिणामयति | अनेन + अहं कुशल-मूलेन सर्व-सत्वानां नयनं भवेयं सर्व-दुष्ख-स्कन्ध-विनिवर्त्तनाय | सर्व-सत्वानां त्राणं भवेयं सर्व-क्लेश-परिमोचनतया | सर्व-सत्वानां शरणं भवेयं सर्व-भय-आरक्षणतया | सर्व-सत्वानां गतिर् भवेयं सर्व-भूम्य्-अनुगमनतया | सर्व-सत्वानां परायणं भवेयम् अत्यन्त-योग-क्षेम-प्रतिलम्भतया | सर्व-सत्वानां आलोको भवेयं वितिमिर-ज्ञान-संदर्शनतया | सर्व-सत्वानां उल्का भवेयम् अ-विद्या-तमो-अन्ध-कार-विनिवर्त्तनतया | सर्व-सत्वानां प्रद्योतो भवेयम् अत्यन्त-विशुद्धि-प्रतिष्ठापनतया | सर्व-सत्वानां नायको भवेयम् अ-चिन्त्य-धर्म-नय-अवतारणतया | सर्व-सत्वानां परिणायको भवेयम् अन्-आवरण-ज्ञान-स्कन्ध-उपनयनतया | पेयालं ||
SK
तच् च + अध्याशयतः परिणामयति न वचन-मात्रेण | तच् च + उदग्र-चित्तः परिणामयति | हृष्ट-चित्तः परिणामयति | प्रसन्न-चित्तः परिणामयति | प्रमुदित-चित्तः स्निग्ध-चित्तः परिणामयति | मैत्र-चित्तः प्रेम-चित्तः अनुग्रह-चित्तो हित-चित्तः सुख-चित्तः परिणामयति | तच् च + एवं परिणामयति | इदं मम कुशल-मूलं सर्व-सत्वानां गति-विशुद्धये संवर्तेत | उपपत्ति-विशुद्धये संवर्त्तेत | पुण्य-माहात्म्य-विशुद्धये संवर्त्तेत | अन्-अभिभूततायां संवर्त्तेत | अ-पर्यादानतायां संवर्त्तेत | दुर्-आसद-चित्ततायां संवर्त्तेत | स्मृत्य्-अ-प्रमोषतायां संवर्त्तेत | गति-मति-विनिश्चयतायां संवर्त्तेत | बुद्ध्य्-अ-प्रमाणतायां संवर्त्तेत | काय-कर्म-मनस्-कर्म-सर्व-गुण-अलं-कार-परिपूर्यां संवर्त्तेत ||
SK
अनेन मे कुशल-मूलेन ते सर्व-सत्वाः सर्व-बुद्धान् आरागयेयुर् आरागयित्वा च मा विरागयेयुः | तेषु च बुद्धेषु भगवत्सु प्रसादम् अ-भेद्यं प्रतिलभेरन् | तेषां च तथा-गतानाम् अर्हतां सम्यक्-संबुद्धानाम् अन्तिके धर्म-देशनां शृणुयुः | श्रुत्वा च सर्वा वि-मतीर् विनिवर्त्तयेयुः | यथा-श्रुतं च संधारयेयुः | सन्धारयन्तश् च प्रतिपत्त्या संपादयेयुः | तांश् च तथागतान् आराधयेयुः | चित्त-कर्मण्यतां च प्रतिलभेरन् | अन्-अवद्यानि कर्माणि समुदानयेयुः | महत्सु च कुशल-मूलेष्व् आत्मानं प्रतिष्ठापयेयुर् अत्यन्तं च दारिद्र्यं विनिवर्त्तयेयुः सप्त धन-प्रतिलम्भांश् च परिपूरयेयुः सर्व-बुद्धानां च + अनुशिक्षयेयुः कल्याण-इन्द्रिय-प्रतिलम्भं च + अधिगच्छेयुः | उदार-अधिमुक्ति-समतां च परिनिष्पादयेयुः | सर्व-ज्ञ-ज्ञाने च + अवकाशं प्रतिलभेरन् | अ-प्रतिहत-चक्षुष्मत्तां च सर्व-जगत्य् उत्पादयेयुः | लक्षण-अलं-कृततां च काय-प्रतिपूरिं प्रतिलभेरन् | सर्व-गुण-अलङ्-कारं च वाक्य-विशुद्धिं परिगृह्णीयुः | संवृत-इन्द्रियतां दश-बल-प्रयुक्तां चित्त-कल्यतां समुदानयेयुः | अ-निश्चित-विहारतां च परिपूरयेयुः | येन च सुख-उपधानेन सर्व-बुद्धाः समन्वागतास् तत्-सुख-उपधान-प्रतिलब्धाः सर्व-सत्वा भवेयुर् इति ||
SK
यथा षष्ठी परिणामना + उक्तेन विधिना परिणामयति | सर्व-सत्वा | ज्ञान-आहाराद् भवन्तु अ-सङ्ग-प्रयुक्त-चेतसः | आहार-प्रज्ञा-आतापिनो * अन्-अध्यवसित-आहाराः प्रीति-भक्षा-निर्-आमिष-आहारा यावत् काम-तृष्णा-विनिवर्त्तकाः | सर्व-सत्वाः धर्म-रस-मेघ-प्रवर्षका भवन्तु | अन्-उत्तर-धर्म-रति-प्रीणित-सन्तानाः | सर्व-सत्वाः सर्व-रस-अग्र-जिह्वा भवन्तु रस-निमित्ता ग्रहीतारः सर्व-बुद्ध-धर्म-चित्तन-प्रयुक्ताः अ-विपन्न-याना अग्र-याना उत्तम-यानाः शीघ्र-याना महा-यानाः | सर्व-सत्वा अ-तृप्त-दर्शना भवन्तु बुद्ध-प्रीति-प्रतिलब्धाः | सर्व-सत्वाः सर्व-कल्याण-मित्र-दर्शन-अन्-उपहत-सन्ताना भवन्तु | सर्व-सत्वा अगद-भैषज्य-राज-उपदर्शना भवन्तु | सर्व-सत्वाः क्लेश-विष-विनिवर्त्तकाः | सर्व-सत्वा आदित्य-मण्डल-उद्गत-दर्शना भवन्तु सर्व-सत्व-तमस्-तिमिर-पटल-विधमनत्वात् ||
SK
एवम् आत्मानम् उपनिधाय स्व-भावन-अनुकूल्येन पठितव्यं | सर्व-सत्वानाम् अभिरुचिर-दर्शनतायां परिणामयामि | सौमनस्य-दर्शनतायां कल्याण-दर्शनतायां परिणामयामि | अभिलषित-दर्शनतायां प्रहर्षित-दर्शनतायां दौर्मनस्य-अ-दर्शनतायां बुद्ध-दर्शन-उपेतायां परिणामयामि ||
SK
सर्व-सत्वाः शील-गन्ध-उपेता भवन्त्व् अन्-आच्छेद्य-शीला बोधि-सत्व-पारमिता-शीलाः ||
SK
सर्व-सत्वा दान-वासिता भवन्तु सर्व-त्याग-परित्यागिनः | सर्व-सत्वाः क्शान्ति-वासिता भवन्तु अ-क्षोभ्य-चेतना-प्रतिलब्धाः | सर्व-सत्वा वीर्य-वासिता भवन्तु महा-वीर्य-यान-सन्नद्धाः | सर्व-सत्वा ध्यान-वासिता भवन्तु प्रत्युत्पन्न-बुद्ध-संमुखी-भाव-स्थिताः समाधि-प्रतिलब्धाः | सर्व-सत्वा बोधि-सत्व-परिणामना-वासिता भवन्तु सर्व-सत्वाः सर्व-शुक्ल-धर्म-वासिता भवन्तु सर्व-अ-कुशल-धर्म-प्रहीणाः | सर्व-सत्वा दिव्य-शयन-प्रतिलब्धा भवन्तु महा-ज्ञान-अधिगमाय | सर्व-सत्वा आर्य-शयन-प्रतिलब्धा भवन्तु | निः-पृथग्-जन-बोधि-चित्त-आवासनत्वात् सर्व-सत्वाः सुख-शयन-प्रतिलब्धा भवन्तु | सर्व-संसार-अवचर-दुःख-परिवर्जनत्वात् सर्व-सत्वाः क्षेम-शयन-प्रतिलब्धा भवन्तु धर्म-काम-स्पर्श-उपेताः | सर्व-सत्वाः परिशुद्ध-बुद्ध-क्षेत्र-अवभासा भवन्तु गुण-वास-सु-प्रयुक्ता आर्य-आवास-निकेत-उच्चलिताः | अन्-उत्तर-सर्व-बुद्ध-आवास-अ-विरहिताः | सर्व-सत्वा बुद्ध-उपनिश्चय-विहारिणो भवन्तु | सर्व-सत्वा अन्-अन्त-आलोका भवन्तु सर्व-बुद्ध-धर्मेषु सर्व-सत्वा अ-प्रतिहत-अवभासा भवन्तु सर्व-धर्म-धात्व्-एक-स्फरणाः | सर्व-सत्वा आरोग्य-शरीरा भवन्तु तथा-गत-काय-प्रतिलब्धाः | सर्व-सत्वा भैषज्य-राज-उपमा भवन्तु अत्यन्त-आकल्पन-धर्माणः | सर्व-सत्वा अ-प्रतिहत-भैषज्य-स्तम्भ-उपमा भवन्तु जगच्-चिकित्सा-प्रतिपन्नाः | सर्व-सत्वा रोग-शल्य-निरुद्धा भवन्तु सर्व-ज्ञ-आरोग्य-प्रतिलब्धाः | सर्व-सत्वाः सरव्-जगद्-भैषज्य-कुशला भवन्तु यथा-आशय-भैषज्य-प्रयोग-संप्रयोक्तारः ||
SK
सर्व-सत्त्वेषु सर्व-रोग-विनिवर्त्तनाय परिणामयामि | सर्व-सत्त्वेष्व् अ-पर्यन्त-स्थाम-बल-शरीरतायां परिणामयामि | सर्व-सत्वानां चक्र-वाड-पर्वत-अन्-अवमर्द्य-काय-बल-उपपत्तये परिणामयामि | सर्व-सत्वानां सर्व-बल-उपस्तम्भन-अ-तृप्तायां परिणामयामि ||
SK
सर्व-सत्वा अ-प्रमाण-भाजना भवन्त्व् आकाश-धातु-विपुलाः स्मृति-इन्द्रिय-उपेताः सर्व-लौकिक-लोक-उत्तर-भाष-संग्रहणाद् ग्रहण-स्मृत्य्-अ-संप्रमूढाः | सर्व-सत्वाः कल्याण-विशुद्धि-भावना भवन्तु | अतीत-अन्-आगत-प्रत्युत्पन्न-सर्व-बुद्ध-बोध्य्-अ-भेद-प्रसाद-ग्राहिणः | सर्व-सत्वा कामङ्-गमा भवन्तु सर्वत्र-गामिनी-बुद्ध-भूमि-प्रतिलब्धाः | सर्व-सत्वाः सर्व-सत्त्वेष्व् अ-प्रतिहत-चित्ता भवन्तु | सर्व-सत्वा अन्-आभोग-सर्व-बुद्ध-क्षेत्र-परिस्फुट-गमना भवन्तु | एक-चित्त-क्षण-सर्व-धर्म-विक्रमाः | सर्व-सत्वाः श्रान्त-आक्लान्त-सर्व-लोक-धातु-गमना भवन्तु | अ-विश्राम्यमान-मनो-मय-काय-प्रतिलब्धाः | सर्व-सत्वाः सुख-गमन-मुक्ता भवन्तु सर्व-बोधि-सत्व-चर्या-अनुप्रवेशिनः | अनेन कुशल-मूलेन सर्व-सत्वाः कल्याण-मित्र-अ-त्याग-चित्त-अन्-उत्सृष्टा भवन्तु कृत-ज्ञाः कृत-अनुपालनतया | सर्व-सत्वाः कल्याण-मित्रैः सह-एक-अर्था भवन्तु स-भाग-कुशल-मूल-संग्रहणतया | सर्व-सत्वाः कल्याण-आशया भवन्तु कल्याण-मित्र-संवसन-संपद-विहार-अनुधन्वनतया | सर्व-सत्वाः कल्याण-मित्र-कुशल-मूल-कर्म-विपाक-विशुद्धा भवन्त्व् एक-प्रणिधानाः | सर्व-सत्वा महा-यान-अभिरक्ताः संप्रस्थिता भवन्त्व् अ-विष्कम्भित-यान-सर्व-ज्ञता-पर्यवसानाः | सर्व-सत्वाः प्रच्छादित-कुशल-मूला भवन्तु सर्व-बुद्ध-अवस्था-गोपन-प्रतिलब्धाः | सर्व-सत्वा गुण-ज्ञान-अभिच्छादिता भवन्तु सर्व-लोक-उपक्लेश-व्यपवृत्ताः | सर्व-सत्वा अ-च्छिन्न-अ-विक्षिप्त-शुक्ल-धर्माणो भवन्त्व् अ-विपन्न-बुद्ध-धर्म-प्रवाहाः | सर्व-सत्वाश् छत्र-भूता भवन्तु दश-बल-वितान-अन्विताः | सर्व-सत्वा अत्यन्त-बोध्य्-आसन-प्रतिलब्धा भवन्तु | सर्व-सत्वा बुद्ध-विक्रान्ति-सिंह-आसन-प्रतिलब्धा भवन्तु सर्व-जगद्-अवलोकनीया इति ||
SK
आर्य-गगन-गञ्ज-सूत्रे * अप्य् आह | मा भूत् तन् मम कुशल-मूलं धर्म-ज्ञान-कौशल्यं वा यन् न सर्व-सत्त्व-उपजीव्यं स्याद् इति ||
SK
अतीत-अन्-आगत-शुभ-उत्सर्गस् त्व् आर्य-अक्षयमति-सूत्रे * अभिहितः | कुशलानां च चित्त-चैतसिकानानाम् अनुस्मृतिर् अनुस्मृत्य च बोधि-परिणामना | इदम् अतीत-कौशल्यं | यो * अन्-आगतानां कुशल-मूलानां निध्यप्ति-बोधेर् आमुखी-कर्म-समन्वाहारः | ये मे उत्पत्स्यन्ते कुशलाश् चित्त-उत्पादास् तान् अन्-उत्तरायां सम्यक्-संबोधौ परिणामिष्यामि + इति इदम् अन्-आगत-कौशल्यं ||
SK
तद् एवं चैतसिकेन + आभ्यासेन सर्व-त्याग-अधिमुक्तिं परिपूर्ये त्याग-चित्त-वेग-आपन्नेन काय-प्रयोगेण + उत्सृष्ट-सर्व-परिग्रहः | सर्व-परिग्रह-मूलाद् भव-दुष्खाद् विमुक्तो मुक्त इत्य् उच्यते | अन्-उत्तरांश् च + अ-प्रमेय-अ-संख्येयान् कल्पान् नाना-आकार-अन्-अन्तान् लौकिक-लोक-उत्तरान् सुख-संपत्-प्रवर्षान् अनुभवति | तेन च + आत्म-भाव-आदिना [दोउब्त्fउल्] वडिष-आमिषेन + इव स्वयम् अन्-अभिगत-उपभोगेन + अप्य् आकृष्य परान् अपि तारयति ||
SK
अत एव + उक्तं रत्न-मेघे | दानं हि बोधि-सत्वस्य बोधिर् इति ||
SK
शिक्षा-समुच्चये दान-पारमिता प्रथमः परिच्छेदः ||
SK
[II. सद्धर्मपरिग्रहः]
SK
शील-पारमितायां सद्-धर्म-परिग्रहो नाम द्वितीयः परिच्छेदः ||
SK
एवम् एषाम् आत्म-भाव-आदीनाम् उत्सृष्टानाम् अपि रक्षा कार्या | कुतो | यस्मात् ||
SK
परिभोगाय सत्वा नाम + आत्म-भाव-आदि दीयते | अ-रक्षिते कुतो भोगः | किं दत्तं यन् न भुज्यते ||
SK
तस्मात् सत्व-उपभोग-अर्थम् आत्म-भाव-आदि पालयेत् ||
SK
उक्तं हि बोधि-सत्व-प्रातिमोक्षे | परं शारिपुत्र रक्षिष्यामि + इत्य् आत्मा रक्षितव्यः | एवं-रूपया शारिपुत्र हित-ऐषिकतया समन्वागतो बोधि-सत्वो जीवित-हेतोर् अपि पापं कर्म न करोति + इति ||
SK
वीरदत्त-परिपृच्छायाम् अप्य् आह | शकटम् इव भार-उद्वहन-अर्थं केवलं धर्म-बुद्धिना वाढव्यम् इति | तथा + अक्षयमति-सूत्रे * अपि | काय-दुष्खतया च न परिखिद्यते सत्व-अवेक्षतया + इति ||
SK
तच् च + आत्म-भाव-आदिकं कथं पालयेत् | कल्याण-मित्र-अन्-उत्सर्जनात् | यथा + उक्तम् आर्य-गण्ड-व्यूहे आर्य-श्री-संभवेन ||
SK
कल्याण-मित्र-सन्धारिताः कुल-पुत्र बोधि-सत्वा न पतन्ति दुर्-गतिषु | कल्याण-मित्र-समन्वाहृता [दोउब्त्fउल्] न + अतिक्रामन्ति बोधि-सत्व-शिक्षां | कल्याण-मित्र-प्रतिच्छन्ना अभ्युद्गता भवन्ति लोकात् कल्याण-मित्र-पर्युपासिता बोधि-सत्वा अ-संप्रमोष-चारिणो भवन्ति सर्व-बोधि-सत्व-चर्यासु | कल्याण-मित्र-परिगृहीताः बोधि-सत्वा दुर्-द्धर्षा भवन्ति कर्म-क्लेशैः | सम्बोधकाः कल्याण-मित्रा अ-करणीयानां सन्निवारकाः प्रमाद-स्थानात् | निष्-कासयितारः संसार-पुरात् | तस्मात् तर्हि कुल-पुत्र एवं मनसि-कारात् प्रतिप्रश्रब्धेन कल्याण-मित्राण्य् उपसंक्रमितव्यानि | पृथिवी-सम-चित्तेन सर्व-भार-वहन-अ-परिणमनतया वज्र-सम-चित्तेन अ-भेद्य-आशयतया | चक्र-वाड-सम-चित्तेन सर्व-दुष्ख-अ-संप्रवेधनतया | लोक-दास-सम-चित्तेन सर्व-कर्म-समादान-अ-जुगुप्सनतया | रजो-हरण-सम-चित्तेन मान-अतिमान-विवर्जनतया | यान-सम-चित्तेन गुरु-भार-निर्वहनतया | श्व-सम-चित्तेन + अ-क्रुध्यनतया | नौ-सम-चित्तेन गमन-आगमन-अ-परित्रस्यनतया | सु-पुत्र-सदृशेन कल्याण-मित्र-मुख-वीक्षणतया | आत्मनि च ते कुल-पुत्र + आतुर-संज्ञा + उत्पादयितव्या | कल्याण-मित्रेषु च वैद्य-संज्ञा | अनुशासनीषु भैषज्य-संज्ञा | प्रतिपत्तिषु व्याधि-निर्घातन-संज्ञा | आत्मनि च ते कुल-पुत्र भीरु-संज्ञा + उत्पादयितव्या | कल्याण-मित्रेषु शूर-संज्ञा | अनुशासनीषु प्रहरण-सम्ज्ञा | प्रतिपत्तिषु शत्रु-निर्घातन-संज्ञा ||
SK
अत्र + एव वाचना-उपासिका-विमोक्षे वर्णितं | कल्याण-मित्र-अनुशासनी-प्रतिपन्नस्य कुल-पुत्र बोधि-सत्वस्य बुद्धा भगवन्तो * अभिराद्ध-चित्ता भवन्ति | कल्याण-मित्र-वचन-अ-विलोम-स्थायिनो बोधि-सत्वस्य सर्व-ज्ञता + असन्नी-भवति | कल्याण-मित्र-वचन-अ-विचिकित्सकस्य + असन्नी-भवन्ति कल्याण-मित्राणि | कल्याण-मित्र-मनसि-कार-अ-विरहितस्य सर्व-अर्था अभिमुखा भवन्ति + इति | अत एव + आर्य-सुधनः सारध्वजस्य भिक्षोः पादौ शिरसा + अभिवन्द्य + अन्-एक-शत-सहस्र-कृत्वः प्रदक्षिणी-क्र्ट्य सारध्वजं भिक्षुम् अवलोक्य प्रणिपत्य पुनः पुनर् अवलोकयन् नियतं प्रणिपतन् नमस्यन्न् अवनमन् मनसि कुर्वन् चिन्तयन् भावयन् परिभावयन्न् उदानम् उदानयन् हाक्-कारं कुर्वन् | गुणान् अभिमुखी-कुर्वन् निगमयन्न् अत्र सन्न् अनुस्मरन् दृढी-कुर्वन्न् अ-विजहन् मनसा + आगमयन्न् उपनिबध्नन् प्रणिधिं समवसरन् दर्शनम् अभिलषन् स्वर-निमित्तम् उद्गृह्णन् यावत् तस्य + अन्तिकात् प्रक्रान्तः | तथा कल्याण-मित्र-आगतं सर्व-ज्ञतां संपश्यन्न् अश्रु-मुखो रुदन् यावन् मेघस्य द्रमितस्य + अन्तिकात् प्रक्रान्तः ||
SK
बोधि-सत्व-प्रतिमोक्षे * अप्य् उक्तं | इह शारिपुत्र बोधि-सत्वो धर्म-कामतया न + अस्ति तल् लोके रत्नं यन् न परित्यजति | न + अस्ति तत् काय-उपस्थानं यन् न करोति | न + अस्ति तज् जङ्घा-प्रेषणं यन् न + उत्सहते | न + अस्ति तद् वाक्-कर्म यन् न + उत्सहते आचार्य-उपाध्याय-गौरवतया ||
SK
पेयालं ||
SK
तत् कस्य हेतोः | बन्ध-च्छेदाय + एष धर्मः संवर्तते | जाति-जरा-व्याधि-मरण-शोक-परिदेव-दुष्ख-दौर्मनस्य-च्छेदाय + एष धर्मः संवर्ततए इति रत्न-चित्तम् उत्पाद्य भैषज्य-चित्तम् उत्पाद्य | सर्व-सत्वानां ग्लान्य-व्युपशमाय + एष धर्मः संवर्ततए इति | एष्टव्यश् च + अस्माभिः सर्व-सत्वानां ग्लान्य-व्युपशमाय + एवं-रूपो धर्म इति ||
SK
उग्रदत्त-परिपृच्छायाम् अप्य् उक्तं | सचेत् पुनर् गृह-पते पाठ-स्व-अध्याय-अर्थिको बोधि-सत्वः कस्य-चिद् अन्तिकाच् चतुष्-पादिकां गाथां शृणुयाद् उद्दिशेद् वा उद्गृह्णीयाद् दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञा-संप्रयुक्तां बोधि-सत्व-संभार-उपचयं वा तेन तस्मिन्न् आचार्ये धर्म-गौरवं करणीयं यावद्भिर् नाम-पद-व्यञ्जन ... गाथा + उद्दिष्टा | यदि तावत एवं कल्पांस् तस्य + आचार्यस्य + उपस्थान-परिचर्यां कुर्याद् अ-शठतया सर्व-लाभ-सत्-कार-पूजया | अद्य + अपि गृह-पते न प्रतिपूरितम् आचार्यस्य + आचार्य-गौरवं भवति | कः पुनर् वादो धर्म-गौरवं ||
SK
प्रज्ञा-पारमितायाम् अष्ट-सहस्रिकायाम् अप्य् उक्तं | कल्याण-मित्रेषु च त्वया कुल-पुत्र तीव्रं गौरवम् उत्पादयितव्यं | प्रेम च करणीयं | अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्व एवं-रूपैर् गुणैर् गौरव-मनसि-कारैर् गच्छन्न् अनुपूर्वेण + अन्यतम-नगरम् अनुप्राप्तस् | तत्र तस्य + अन्तरायण-मध्य-गतस्य + एतद् अभूत् | यन् न्व् अहम् इमम् आत्म-भावं विक्रीय + अनेन मूल्येन धर्मोद्गतस्य बोधि-सत्वस्य महा-सत्वस्य सत्-कारं कुर्यां | दीर्घ-रात्रं हि मम + आत्म-भाव-सहस्राणि भग्नानि क्षीणानि विक्रीतानि पुनर् अ-परिमाणे संसारे * अ-परिमाणानि यानि मया काम-हेतोः काम-निदानम् अनुभूतानि न पुनर् एवं-रूपाणां धर्माणां कृतश एवं-रूपाणां वा सत्वानां सत्-काराय ||
SK
अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वो * अन्तरायण-मध्य-गतः शब्दम् उदीरयाम् आस घोषम् अनुश्रावयाम् आस | कः पुरुषेण + अर्थिकः कः पुरुषेण + अर्थिक इति पेयालं | अथ खलु मारः पापीयान् ब्राह्मण-गृह-पतिकांस् तथा समुपस्थापयाम् आस यथा तं घोषं न + अश्रौषुः | यदा + आत्मनः क्रायकं न लभते तदा + एक-अन्तं गत्वा प्रारोदीद् अश्रूणि च प्रावर्त्तयद् एवं च + अवदद् | अहो वत + अस्माकं दुर्-लभा लाभा ये वयम् आत्म-भावस्य + अपि क्रेतारं न लभामहे | अथ खलु शक्रो देवानाम् इन्द्रो माणवक-रूपेण यावत् सदाप्ररुदितं बोधि-सत्वं महा-सत्वम् एतद् अवोचत् | किं त्वं कुल-पुत्र दीन-मना उत्कण्ठित-मानसो * अश्रूणि प्रवर्त्तयमानः स्थितः ||
SK
सदाप्ररुदित एवम् आह | अहं माणवक धर्म-कामतया इमम् आत्म-भावं विक्रीय धर्म-पूजां कर्त्तु-कामः सो * अहम् अस्य क्रायकं न लभे | पेयालं ||
SK
अथ खलु स माणवकः सदाप्ररुदितं बोधि-सत्वं महा-सत्वम् एतद् अवोचत् | न मम कुल-पुत्र पुरुषेण कृत्यम् अपि तु खलु पुनः पितुर् मे यज्ञो यष्टव्यः | तत्र मे पुरुषस्य हृदयेन कृत्यं लोहितेन च अस्थि-मज्जया च | तद् दास्यसि त्वं क्रयेण ||
SK
अथ खलु सदाप्ररुदितस्य + एतद् अभूत् | लाभा मे सु-लब्धाः परिनिष्पन्नं च + आत्मानं जाने प्रज्ञा-पारमिता + उपाय-कौशल्येषु | यन् मया + आत्मनः क्रायको लब्धो हृदय्स्य रुधिरस्य च + अस्थि-मज्जायाश् च ||
SK
स हृष्ट-चित्तः कल्य-चित्तः प्रमुदित-चित्तस् तं माणवकम् एतद् अवोचत् | दास्यामि माणवक येन ते इत आत्म-भावाद् अर्थः | यावत् सदाप्ररुदितो बोधि-सत्वो महा-सत्वस् तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विद्ध्वा लोहितं निस्रावयति स्म दक्षिणं च + ऊरुं विद्ध्वा निर्-मांसं च कृत्वा + अस्थि भेत्तुं कुड्य-मूलम् उपसंक्रामति ||
SK
अथ खल्व् अन्यतरा श्रेष्ठि-दारिका + उपरि-प्रासाद-तल-गता + अद्राक्षीत् सदाप्ररुदितं बोधि-सत्वं यावत् सा श्रेष्ठि-दारिका येन सदाप्ररुदितो बोधि-सत्वस् तेन + उपसंक्रम्य + एतद् अवोचत् | किं नु खलु त्वं कुल-पुत्र + एवं-रूपाम् आत्मनः कारणां कारयासि + इति | यावत् सा दारिका पूजा-प्रयोजनं श्रुत्वा पुनर् आह | का पुनस् ते कुल-पुत्र ततो गुण-जातिर् निष्पत्स्यते | स ताम् एतद् अवोचत् | स दारिके कुल-पुत्रो मम प्रज्ञा-पारमिताम् उपाय-कौशल्यं च + उपदेक्षय्ति | तत्र वयं शिक्षिष्यामस् तत्र वयं शिक्षमाणाः सर्व-सत्वानां प्रतिशरणं भविष्यामः | पेयालं ||
SK
अथ खलु सा श्रेष्ठि-दारिका सदाप्ररुदितं बोधि-सत्वम् एतद् अवोचत् | आश्चर्यं कुल-पुत्र | यावद् उदाराः प्रणीताश् च + अमी त्वया धर्माः परिकीर्त्तिताः | एक-एकस्य + अपि कुल-पुत्र + एवं-रूपस्य धर्मस्य + अर्थाय गङ्गा-नदी-वालिका-उपमान् अपि कल्पान् एवम् आत्म-भावाः परित्यक्तव्या भवेयुः | तथा + उदाराः प्रणीताश् च + अमी त्वया धर्माः परिकीर्त्तिताः | अपि तु खलु कुल-पुत्र येन येन कृत्यं तत् ते दास्यामि सुवर्णं वा मणिं वा मुक्तां वा वैडूर्यं वा यावद् येन त्वं तं धर्मोद्गतं बोधि-सत्वं सत्-करिष्यसि | यावद् विस्तरेण तया दारिकया पञ्च-शत-परिवारया सार्द्धं तस्य धर्मोद्गतस्य संक्रमणं कर्तव्यं ||
SK
अथ खलु धर्मोद्गतो बोधि-सत्वो महा-सत्वः उत्थाय + आसनात् स्वकं गृहं प्राविक्षत् | यावत् सप्त वर्षाण्य् एक-समाधि-समापन्न एव + अभूत् | सदाप्ररुदितो बोधि-सत्वो महा-सत्वः सप्त वर्षाणि न काम-वितर्कम् उत्पादयाम् आस | न व्यापाद-वितर्कं न विहिंसा-वितर्कम् उत्पादयाम् आस | न रस-गृद्धिम् उत्पादयाम् आस + अन्यत्र | कदा नाम धर्मोद्गतो बोधि-सत्वो महा-सत्वो व्युत्थास्यति | यद् वयं धर्मोद्गतस्य बोधि-सत्वस्य महा-सत्वस्य धर्म-आसनं प्रज्ञापयिष्यामो यत्र + असौ कुल-पुत्रो निषद्य धर्मं देशयिष्यति तं च पृथिवी-प्रदेशं सिक्तं संमृष्टं च करिष्यामो नाना-पुष्प-अभिकीर्णं इति चिन्तयाम् आस ||
SK
तान्य् अपि श्रेष्ठि-दारिका प्रमुखाणि पञ्च-दारिका-शतानि सदाप्ररुदितस्य बोधि-सत्वस्य + अनुशिक्षमाणानि द्वाभ्याम् एव + ईर्या-पथाभ्यां कालम् अतिनामयाम् आसुः ||
SK
अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वो दिव्यं निर्घोषम् अश्रौषीद् इतः सप्तमे दिवसे धर्मोद्गतो बोधि-सत्वो महा-सत्वो * अस्मात् समाधेर् व्युत्थाय मध्ये नगरस्य निषद्य धर्मं देशयिष्यति + इति | अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वस् तं निर्घोषं श्रुत्वा आत्त-मनाः प्रमुदितः प्रीति-सौमनस्य-जातस् तं पृथिवी-प्रदेशं शोधयाम् आस सार्द्धं श्रेष्ठि-दारिका-प्रमुखैः पञ्चभिर् दारिका-शतैर् धर्म-आसनं प्रज्ञपयाम् आस सप्त-रत्न-मयं | अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्वस् तं पृथिवी-प्रदेशं सेक्तु-कामश् च | न च + उदकं समन्तात् पर्येषमाणो * अपि लभते येन तं पृथिवी-प्रदेशं सिञ्चेद् | यथा + अपि नाम मारेण पापीयसा तत् सर्वम् उदकम् अन्तर्-धापितं अप्य् एव नाम + अस्य + उदकम् अ-लभमानस्य चित्तं दुष्खितं स्याद् दौर्मनस्यं च भवेच् चित्तस्य वा + अन्यथात्वं भवेद् येन + अस्य कुशल-मूल-अन्तर्-धानं भवेन् न वा भ्राजेरन् कुशल-मूलानि | अथ खलु सदाप्ररुदितस्य बोधि-सत्वस्य महा-सत्वस्य + एतद् अभूत् | यन् न्व् अहम् आत्मनः कायं विद्ध्वा इमं प्रदेशं रुधिरेण सिञ्चेयं | तत् कस्य हेतोः | अयं हि पृथिवी-प्रदेशए उद्धत-रजस्को | मा रजो-धातुर् इतो धर्मोद्गतस्य बोधि-सत्वस्य महा-सत्वस्य काये निपततु | किम् अहम् अनेन + आत्म-भावेन + अ-वश्यं-भेदन-धर्मिणा कुर्यां | वरं खलु पुनर् मम + अयं काय एवं-रूपया क्रियया विनश्यतु न च निः-सामर्थ्य-क्रियया | काम-हेतोः काम-निदानं बहूनि मे आत्म-भाव-सहस्राणि पुनः पुनर् अ-परिमाणे संसारे संसरतो भिन्नानि | यदि पुनर् भिद्यन्ते कामम् एवं-रूपेष्व् इव धर्म-स्थानेषु भिद्यन्तां ||
SK
अथ खलु सदाप्ररुदितो बोधि-सत्वो महा-सत्व इति प्रतिसंख्याय तीक्ष्णं शस्त्रं गृहीत्वा स्व-कायं समन्ततो विद्ध्वा तं पृथिवी-प्रदेशं स्व-रुधिरेण सर्वम् असिञ्चत् | एवं ताभिर् अपि दारिकाभिः कृतं | न च सदाप्ररुदितो बोधि-सत्वस्य महा-सत्वस्य तासां वा सर्वासां दारिकाणां चित्तस्य + अन्यथात्वम् अभूत् | यत्र मारः पापीयान् अवतारं लभेत + इति ||
SK
अत एवं चतुर्-धर्मक-सूत्रे * अप्य् उक्तं | कल्याण-मित्रं भिक्षवो बोधि-सत्वेन महा-सत्वेन यावज्-जीवं न परित्यक्तव्यम् अपि जीवित-हेतोर् इति ||
SK
तद् एवं कल्याण-मित्र-अन्-उत्सर्गाद् आत्म-भाव-आदीनां रक्षा-आदिकं कार्यं ||
SK
सूत्राणां च सदा + ईक्षणाद् बोधि-सत्व-शिक्षा-पदानि हि प्रायः सूत्रेष्व् एव दृश्यन्ते | तेषु तेषु सूत्र-अन्तेषु बोधि-सत्व-समुदाचारा बोधि-सत्व-शिक्षा-पदानि प्रज्ञप्तानि + इति वचनात् | तस्मात् तद्-अन्-ईक्षणे मा भूद् आपत्तिम् आपन्नस्य + अप्य् अ-ज्ञानाद् अ-विरतिर् इति सदा सूत्र-दर्शनाय + आदरः कार्यः | तद् अनेन कल्याण-मित्र-अन्-उत्सर्गेण सूत्र-अन्त-दर्शनेन च सर्वः सद्-धर्म-परिग्रह उक्तो भवति ||
SK
यथा + उक्तम् आर्य-सागरमति-सूत्रे | याभिर् अक्षर-निरुक्तिभिः सो * अन्-अभिलाप्यो धर्मः सूच्यते तासाम् अक्षर-निरुक्तीनां यदा धारणं देशना यावद् | अयम् उच्यते सद्-धर्म-परिग्रहः | पुनर् अ-परं कुल-पुत्र ये ते धर्म-भाणका एषाम् एवं-रूपाणां सूत्र-अन्तानां देशयितारः प्रतिपत्ति-साराश् च तेषाम् अपि धर्म-भाणकानां यत् सेवनं भजनं पर्युपासनम् उत्थानम् उपस्थानं गौरवं चित्री-कारः शुश्रूषा आरक्षा परिग्रहश् चीवर-पिण्ड-पात्र-शयन-आसन-ग्लान-प्रत्यय-भैषज्य-परिष्कार-दानं साधु-कार-दानं स्वाम्य्--आरक्षा कुशल-पक्ष-रक्षा वर्ण-भाषणम् अ-वर्ण-प्रतिच्छादनता | अयम् अपि सद्-धर्म-परिग्रहः | पेयालं ||
SK
पुनर् अ-परं कुल-पुत्र या अ-विवाद-परमता | अ-धर्मे धर्म-वादिनां च पुद्गलानां सह धर्मेण निग्रहः | अयम् अपि सद्-धर्म-परिग्रहः | पुनर् अ-परं कुल-पुत्र + अ-प्रतिहत-सन्तानस्य सर्व-सत्व-प्रमोक्ष-बुद्धेर् निर्-आमिष-चित्तस्य परेभ्यो धर्म-दानम् अयम् अपि सद्-धर्म-परिग्रहः | पुनर् अ-परं कुल-पुत्र यो धर्म-श्रवण-हेतुको वा धर्म-देशना-हेतुको वा + अन्तश एक-क्रम-व्यतिहारो * अन्तश एक-उच्छ्वास-प्रश्वासो वा | अयम् अपि सद्-धर्म-परिग्रहः | पेयालं ||
SK
प्रह्रुतं वत + इदं कुल-पुत्र चित्तं विषयेषु | तस्य या निवारणा परिरक्षा एक-अग्री-भावो दमः शम उपशमो विनयो * अयम् उच्यते सद्-धर्म-परिग्रहः | पेयालं ||
SK
पुनर् अ-परं कुल-पुत्र येन धर्मेण यो * अ-धर्मः प्रवर्तते तस्य धर्मस्य + अ-परिग्रहो * अन्-उपादानम् अयम् अपि सद्-धर्म-परिग्रह इत्य् आदि ||
SK
तत्र् धर्म-भाणक-सेवा-आदिना कल्याण-मित्र-अन्-उत्सर्ग उक्तः | कल्याण-मित्र-लक्षणं च | तद् एतेन सद्-धर्म-परिग्रहेण विना | न रक्षा | न शुद्धिर् न वृद्धिस् [दोउब्त्fउल्] ततश् च सो * अपि न बोधि-सत्व इत्य् अ-वश्य-कार्यः सद्-धर्म-परिग्रहः ||
SK
उक्तं हि श्री-माला-सिंह-नाद-सूत्रे | यान्य् अपि + इमानि भगवन् गङ्गा-नदी-वालिका-समानि बोधि-सत्व-प्रणिधानानि तान्य् एकस्मिन् महा-प्रणिधाने उपनिक्षिप्तान्य् अन्तर्-गतान्य् अनुप्रतिष्ठानि यद् उत सद्-धर्म-परिग्रहे | एवं महा-विषयो भगवन् सद्-धर्म-परिग्रह इति ||
SK
पुनर् अत्र + एव + आह | स्याद् यथा + अपि नाम देवि महा-बलवतो * अपि पुरुषस्य + अल्पो * अपि मर्मणि प्रहारो | वेधनीयो भवति वाधा-करश् च | एवम् एव देवि मारस्य पापीयसः परीत्तो * अपि सद्-धर्म-परिग्रहो वेधनीयो भवति शोक-आवहः परिदेव-करश् च भवति | न + अहं देवि अन्यम् एकम् अपि धर्मं कुशलं समनुपश्यामि मारस्य पापीयस एवं वेधनीयं शोक-आवहं परिदेव-करं च | यथा + अयम् अल्पो * अपि सद्-धर्म-परिग्रह इति ||
SK
पुनर् आह | स्याद् यथा + अपि नाम देवि सुमेरुः पर्वत-राजः सर्वान् कुल-पर्वतान् अभिभवन्न् अभिरोचते च समभिरोचते च + उच्चत्वेन विपुलत्वेन च | एवम् एव देवि महा-यानिकस्य काय-जीवित-निर्-अपेक्षस्य न च गृहीत-चित्तस्य सद्-धर्म-परिग्रहो नव-यान-संप्रस्थितानाम् अपि काय-जीवित-स-अपेक्षाणां महा-यानिकानां सर्वान् कुशलान् धर्मान् अभिभवति + इत्य् आदि ||
SK
तथा + आर्य-सागरमति-सूत्रे * अप्य् आह | परिगृहीतो भवती जिनेभिर् देवेभि नागेभि च किन्नरेभिः | पुण्येन ज्ञानेन परिगृहीतः सद्-धर्म-धारित्व तथा-गतानाम् ||
SK
पेयालं ||
SK
स शून्य-क्षेत्रेषु न जातु जायते सर्वत्र जातौ च जिनं स पश्यति | दृष्ट्वा च तस्मिंल् लभते प्रसादं सद्-धर्म-धारित्व तथा-गतानाम् ||
SK
जाति-स्मरो भवति महा-आत्म-धर्मा प्रव्रज्य-लाभी भवते पुनः पुनः | परिशुद्ध-चारी प्रतिपत्ति-सारः सद्-धर्म-धारित्व तथा-गतानाम् ||
SK
पेयालं ||
SK
लाभी च भोती विदु-धारणीये न नश्यते कल्प-शतेभि यच्-छुभम् | प्रतिभानवन्तो भवते अ-सक्तः सद्-धर्म-धारित्व तथा-गतानां ||
SK
शक्रो * अथ ब्रह्मा तथ लोक-पाल्-ओ मनुष्य-राजा भुवि चक्र-वर्त्ती | सुखेन सौख्येन स बोधि बुध्यते सद्-धर्म-धारित्व तथा-गतानाम् ||
SK
द्वात्रिंश काये * अस्य भवन्ति लक्षणाः अ-निन्दित-अङ्गो भवते वि-चक्षणः | न तस्य तृप्तिं लभि प्रेक्षमाणाः सद्-धर्म-धारित्व तथा-गतानाम् ||
SK
न तस्य संमुह्यति बोधि चित्तं न च + उद्धुरः पारमिता चरीषु | अ-संगृहीतः कुशलः शतेभिः सद्-धर्म-धारित्व तथा-गतानाम् इति ||
SK
शील-पारमितायां सद्-धर्म-परिग्रहो नाम द्वितीयः परिच्छेदः ||
SK
[III. धर्मभाणकादिरक्षा]
SK
धर्म-भाणक-आदि-रक्षा तृतीयः परिच्छेदः ||
SK
उक्तस् त्रयाणाम् अपि सामान्येन रक्षा-आद्य्-उपायः | रक्षा-आदयस् तु वाच्याः | तत्र + आत्म-भावे का रक्षा यद् अन्-अर्थ-विवर्जनं ||
SK
तत्र + इति सद्-धर्म-परिग्रहे वर्त्तमानस्य + आत्म-भाव-रक्षा चिन्त्यते यथा परान् न नाशयेत् | इदं च अन्-अर्थ-विवर्जनम् आर्य-गगन-गञ्ज-सूत्रे सद्-धर्म-धारण-उद्यतैर् बोधि-सत्वैर् भाषितं ||
SK
वयम् उत्सहामो भगवन् निर्वृते द्वि-पद-उत्तमे | सद्-धर्मं धारयिष्यामः त्यक्त्वा कायं स्व-जीवितम् ||
SK
लाभ-सत्-कारम् उत्सृष्ट्वा सर्वं च + उत्सृज्य संस्तवं | अन्-उत्सृष्ट्वा इमं धर्मं बुद्ध-ज्ञान-निदर्शकम् ||
SK
आक्रोश-परिभाषांश् च दुर्-उक्त-वचनानि च | क्षान्त्या तान् मर्षयिष्यामः सद्-धर्म-प्रतिसंग्रहात् ||
SK
उच्चग्घनां तर्जनां च अ-वर्णम् अ-यशांसि च | सर्वांस् तान् मर्षयिष्यामो धारयन्त इमं नयम् || पे ||
SK
एवं-विधे महा-घोरे भिक्षु-राजान-क्षोभणे | विलोप-काले सत्वानां सद्-धर्मं धारयामहे ||
SK
गम्भीरा ये च सूत्र-अन्ता विमुक्ति-फल-संहिताः | प्रतीच्छका न भेस्यन्ति | चित्रा मृक्ष्यन्ति ते कथास् || पे ||
SK
मैत्रीं तेषु करिष्यामो ये धर्मेष्व् अ-प्रतिष्ठिताः | कारुण्यं च करिष्यामो धारयन्त इमं नयम् ||
SK
दृष्ट्वा दुः-शील-सत्वांश् च इच्छा-लोभ-प्रतिष्ठितान् | अश्रु-पातं करिष्यामो गतिः कान्धस्य भाविता ||
SK
सहसा + एव च तं दृष्ट्वा सद्-धर्म-प्रतिबाधकं | दूरतो मैत्रम् एष्यामो मा नो रुष्येत एव हि ||
SK
रक्षिष्यामो यथा-शक्त्या वाचा-कर्मसु संवृताः | सहसा + एनान् न वक्ष्यामः स्व-पापे * अस्मिन् प्रतिष्ठितान् ||
SK
दानैस् तथा + अपि सत्-कारैः परिपाच्य + इह तान् नरान् | पश्चा + एनांश् चोदयिष्यामो भूतम् आपाय-गो-चरान् ||
SK
गृहि-संभव-संत्यक्ताः प्रान्त-अरण्य-सु-गो-चराः | मृग-भूता भविष्यामो * अल्प-अर्था अल्प-कृत्यकाः || पे ||
SK
दान्ताः शान्ताश् च मुक्ताश् च ग्रामे * अस्मिन्न् अवतीर्य च | देशयिष्यामहे धर्मं सत्वा ये धर्मत-अर्थिका ||
SK
सु-दूरम् अपि यास्यामो धर्म-कामान् निशम्य च | धर्म-आराम-रति-प्राप्ता अर्थं कर्त्ता + अस्म देहिनाम् ||
SK
संमुखं तत्र संदृश्य सत्वानां स्खलितं पृथु | आत्म-प्रेक्षा भविष्यामो धर्म-सौरत्य-संस्थिताः ||
SK
अ-सत्-कृताः सत्-कृता वा मेरु-कल्पाः प्रभूय च | अन्-उपलिप्ता लोकेन भेस्यामो लोक-नायकाः ||
SK
भिक्षूणां भिन्न-वृत्तानां परिवादं निशम्य च | कर्म-स्वका भविस्यामो मा + एषां कर्म विपच्यताम् ||
SK
बधकान् योजयिष्यन्ति धर्मेष्व् एषु हि वर्ततां | एते धर्मा न च + अस्माकं संविद्यन्ते कथञ्-चन ||
SK
अस्माकं श्रमणानां हि न च श्रामणका गुणाः | भूतां चोदन संश्रुत्य इदं सूत्रं प्रतिक्षिपन् ||
SK
संछिन्न-कर्ण-नासानाम् आदर्शा + एषां कुतः प्रियः | चोदनां भूततः श्रुत्वा सद्-धर्मं ते क्षिपन्ति तम् ||
SK
ये भिक्षवो भविष्यन्ति सद्-धर्म-प्रतिग्राहकाः | चेष्टिष्यन्ते तथा तेषां कश्-चिद् धर्मम् इमं शृणोत् ||
SK
राजानो ग्राहयिष्यन्ति भेस्यन्ति च महा-जनः | बुद्ध-अधिष्ठानतः सत्वा धर्मं श्रोष्यन्ति + इमं [दोउब्त्fउल्] तदा ||
SK
तस्मिन् काले वयं कष्टे त्यक्त्वा कायं स-जीवितं | सद्-धर्मं धारयिष्यामः सत्वानां हित-कारणाद् | इति ||
SK
आर्य-सद्-धर्म-पुण्डरीके * अप्य् उक्तं ||
SK
आचार-गो-चर-रक्षी अ-संसृष्टः शुचिर् भवेत् | वर्जयेत् संस्तवं नित्यं राज-पुत्रेभि राजभिः ||
SK
ये च + अपि राज्ञां पुरुषाः कुर्यात् ते हि न संस्तवं | चण्डाल-मुष्टिकैः शौण्डैस् तीर्थिकैश् च + अपि सर्वशः ||
SK
अधिमानीन् न सेवेत [दोउब्त्fउल्] विनयेच् च + आगमे स्थितान् | अर्हन्त-संमतान् भिक्षून् दुः-शीलांश् च + एव वर्जयेत् ||
SK
भिक्षुणीं वर्जयेन् नित्यं हास्य-संलाप-गो-चरां | उपासिकाश् च वर्जेया प्रकटम् अन्-अवस्थिताः ||
SK
स्त्री-पण्डकाश् च ये सत्वाः संस्तवं तैर् विवर्जयेत् | कुलेषु च + अपि वधुकाः कुमार्यश् च विवर्जयेत् ||
SK
न ताः संमोदयेज् जातु कौशल्यं साधु पृच्छितृं [दोउब्त्fउल्] | संस्तवं च विवर्जेया सौकर-औरभ्रिकैः सह ||
SK
स्त्री-पोषकाश् च ये सत्वा वर्जयेत् तेहि संस्तवं | नटैर् झल्लक-मल्लेभिर् ये च + अन्ये तादृशा जनाः ||
SK
वार-मुख्यान् न सेवेत ये च + अन्ये भोग-वृत्तिनः | प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत् ||
SK
यदा च धर्मं देशेया मातृ-ग्रामस्य पण्डितो | न च + एकः प्रविशेत् तत्र न + अपि हास्य-स्थितो भवेद् इति ||
SK
अयं च + अ-परो * अन्-अर्थो भवेद् यद् इदं मार-कर्म + उक्तं प्रज्ञा-पारमितायां | मारः पापीयांस् तस्य बोधि-सत्वस्य + अ-चिरं यान-संप्रस्थितस्य + अन्तिके बलवत्तरम् उद्योगम् आपत्स्यते | अत्र + एव + आह | पुनर् अ-परम् आनन्द यस्मिन् समये बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां योगम् आपद्यते तस्मिन् समये माराः पापीयांसो बोधि-सत्वस्य विहेठनम् उपसंहरन्ति भयं संजनयन्ति | उल्का-पातान् दिशि दिग्-वहान् उत्सृजन्ति संदर्शयन्ति | अप्य् एव नाम + अयं बोधि-सत्वो महा-सत्वो * अवनीयेत वा रोम-हर्षो वा + अस्य भवेद् इति | येन + अस्य + एक-चित्त-उत्पादो * अपि क्षीयेत + अन्-उत्तरायाः सम्यक्-संबोधेर् इति | पुनर् अ-परम् अन्य-विज्ञान-संज्ञिनो लिखिष्यन्ति यावत् पर्यवाप्स्यन्ति | न वयम् अत्र + आस्वादं लभामहे इत्य् उत्थाय + आसनात् प्रक्रमिष्यन्ति | एवं विजृम्भमाणा उच्चग्घन्तो यावत् पर्यवाप्स्यन्ति + इति मार-कर्म | एवम् उत्पत्स्यन्ते जन-पद-ग्राम-आदि-वितर्काः | एवम् आचार्य-उपाध्याय-माता-पितृ-मित्र-अमात्य-ज्ञाति-सालोहित-मनसि-काराः | एवं चोर-मनसि-काराः | एवं चीवर-आदि-मनसि-काराः | पुनर् अ-परं धर्म-भाणकश् छन्दिको भविष्यति इमां गम्भीरां प्रज्ञा-पारमितां लेखयितुं यावद् वाचयितु.ं धर्म-श्रवणिकश् च किलासी भविष्यति | एवं विपर्ययात् | धर्म-भाणकश् च देश-अन्तरं गन्तु-कामो भविष्यति धार्म-श्रवणिकाश् च न + इति नेयं | एवं धर्म-भाणको महा-इच्छो भविष्यति धार्म-श्रवणिको * अल्प-इच्छ इति नेयं | संक्षेपाद् धर्म-भाणक-धार्म-श्रवणिकयोर् या का-चिद् विधुरता सर्वं तन् मार-कर्म + इत्य् उक्तं ||
SK
आर्य-गगन-गञ्ज-सूत्रे * अप्य् उक्तं | इति हि यावद् अ-कुशल-धर्म-अनुवर्त्तनता | कुशल-धर्म-उत्सर्गश् च सर्वं तन् मार-कर्म + इति ||
SK
आर्य-सागरमति-सूत्रे * अप्य् आह | पुनर् अ-परं भगवन् बोधि-सत्व आरण्यको भवति प्रान्त-शय्या-आसन-अभिरतो * अल्प-इच्छुः संतुष्टः प्रविविक्तो * अ-संसृष्टो गृह-स्थ-प्रव्रजितैः | सो * अल्प-अर्थतया + अल्प-कृत्यतया च सुखं विहरति न च बाहश्रुत्य-पर्येष्टाव् अभियुक्तो भवति न सत्व-परिपाकाय न च धर्म-श्रवणे वा धर्म-सांकथ्ह्ये वा + अर्थ-विनिश्चय-कथायां वा वर्तमानायां संक्रमितव्यं मन्यते | न परिपृच्छन-जातीयो भवति | न किं-कुशल-अभियुक्तो भवति | तस्य + अरण्य-वासेन च + एक-आराम-रतितया च क्लेशा न समुदाचरन्ति | स पर्युत्थान-विष्कम्भण-मात्रेण तुष्टिं विन्दति | न च + अनुशय-समुद्याताय मार्गं भावयति | स तत्र न + आत्म-अर्थाय प्रतिपन्नो भवति न पर-अर्थाय | अयं भगवन् बोधि-सत्वस्य + अरण्य-वास-प्रतिसंयुक्तः सप्तमो मार-अङ्कुश इति || पे ||
SK
पुनर् अ-परं भगवन् बोधि-सत्वः कल्याण-मित्र-प्रति-रूपकाणि पाप-मित्राणि सेवते भजते पर्युपास्ते | ये ह्य् एनं संग्रह-वस्तुभ्यो विच्छन्द्य पुण्य-संभारात् सद्-धर्म-परिग्रहाद् विच्छन्द्य प्रविवेके नियोजयन्ति | अल्प-अर्थाय + अल्प-कृत्यतायां नियोजयन्ति | श्रावक-प्रत्य्-एक-बुद्ध-प्रतिसंयुक्ताश् च + अस्मै कथा अभीक्ष्णं देशयन्ति ||
SK
यस्मिंश् च समये बोधि-सत्वो विवेक-वासेन महा-याने * अभ्युद्गच्छेत् तस्मिन् समये तं बोधि-सत्वं वैयावृत्य-पलिबोधे नियोजयन्ति वैयावृत्यं बोधि-सत्वेन + अ-वश्यं करणीयं ||
SK
यस्मिंश् च समये बोधि-सत्वो वैयावृत्ये संनियोजयितव्यस् तस्मिन् समये विवेके नियोजयन्ति | एवं च + एनं वदन्ति | आरब्ध-वीर्यस्य बोधि-सत्वस्य बोधिर् न कु-सीदस्य | सचेत् त्वम् अष्टाभिर् नवभिर् वा कल्पैर् अन्-उत्तरां सम्यक्-संबोधिं न + अभिसंभोत्स्यसे | न भूयः शक्यस्य् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुम् | तत्र भगवन् | बोधि-सत्वो * अत्य्-आरब्धेन वीर्येण स्थानं खलु पुनर् एतद् विद्यते यन् निर्वाण-फलं प्राप्नुयाद् | अयं भगवन् | बोधि-सत्वस्य कल्याण-मित्र-प्रति-रूपकेण दशमो मार-अङ्कुशः ||
SK
ये * अपि ततो * अन्ये बोधि-सत्व-यानीयाः पुद्गला मार-अङ्कुश-आविद्धाः प्रत्यवेतेषु धर्मेषु चरन्ति तैः सार्द्धं रतिं विन्दति | तथा हि तद्-अनुवर्त्तका भवन्ति स हीन-सेवी विशेषम् अन्-अधिगतो हीन-गतिं गच्छति यद् उत धन्व-गतिं जड-एड-मूक-गतिं यावद् एकादशो मार-अङ्कुश इति ||
SK
येन च + एवं संतत्य्-आरब्ध-वीर्यस्य निर्-वेदात् सर्वथा बोधि-सत्व-भाव एव भवत्य् अत एव रत्न-मेघे * अभिहितं | इह बोधि-सत्वः सर्व-ईर्या-पथेषु वीर्यम् आरभते | तथा च + आरभते यथा न काय-खेदं संजनयति | न चित्त-खेद्.अम् | इदम् उच्यते बोधि-सत्वस्य सांतत्य-वीर्यम् इति | कीदृशं तद् वीर्यं | येन खेदो भवति | यद् इदम् अल्प-बलस्य गुरु-कर्म-आरम्भो * अति-वेलायां वा + अ-परिपक्व-अधिमुक्तेर् वा दुष्कर-कर्म-आरम्भस् तद् यथा स्व-मांस-दान-आदिः | दत्तश् च + अनेन + आत्म-भावः | किन्त्व् अ-काल-परिभोगाद् वारयति | अन्यथा हि तेषाम् एव सत्वानां बोधि-सत्व-खेदेन बोधि-चित्त-वीज-नाशान् महतः फल-राशेर् नाशः स्यात् ||
SK
अतश् च गगन-गञ्ज-सूत्रे * अभिहितं | अ-काल-प्रतिकाङ्क्षणता मार-कर्म + इति | न + अप्य् अ-काल इत्य् आत्म-भाव-त्याग-चित्तम् एव न + उत्पाद्य + अभ्यास-अन्-आरम्भाद् * धि न कदा-चिद् दद्यात् | तस्माद् एवं स्मृतिम् उपास्थाप्य बोधि-चित्त-परिपाचन-विरोधिभ्यो मोहात् स्व-अर्थ-घातिभ्यः पिशित-अशनेभ्यः कर्म-कारिभ्यश् च + आत्म-भावो रक्षितव्यः ||
SK
भैषज्य-वृक्षस्य सु-दर्शनस्य मूल-आदि-भोग्यस्य यथा + एव वीजं | दत्त्वा + अपि संरक्ष्यम् अ-काल-भोगात् संबुद्ध-भैषज्य-तरोस् तथा + एव ||
SK
अयं समासतो मार-कर्म + अन्-अर्थः ||
SK
अस्य विसर्जनं रत्न-मेघ-सूत्रे कथितं | कथं च कुल-पुत्र + अत्र बोधि-सत्वो मार-कर्म-परिहार-उपाय-कुशलो भवति | इह बोधि-सत्वो * अ-कल्याण-मित्रं सर्वेण सर्वं परिवर्जयति | अ-प्रति-रूप-देश-वासं लोकायत-मन्त्र-सेवन-भावनां लाभ-सत्-कार-पूजा-उपस्थान-बहु-मानं सर्वेण सर्वं परिवर्जयति | ये च + अन्ये उपक्लेशा बोधि-पक्ष्य-मार्ग-अन्तरायिकास् तान् सर्वेण सर्वं परिवर्जयति | तेषां च प्रति-पक्षं भजते ||
SK
अत्र + एव च + अ-कल्याण-मित्र-लक्षणम् उक्तं | शील-विपन्न-पुद्गल-विवर्जनतया पाप-मित्र-परिवर्जना वेदितव्या | एवं दृष्टि-विपन्न-आचार-विपन्न-आजीव-विपन्न-पुद्गल-विवर्जनतया | सङ्गणिका-आराम-पुद्गल-विवर्जनतया | कुशीद-पुद्गल-विवर्जनतया | संसार-अभिरत-पुद्गल-विवर्जनतया | बोधि-पराङ्-मुख-पुद्गल-परिवर्जनतया | गृहि-संसर्ग-विवर्जनतया पाप-मित्र-परिवर्जना वेदितव्या | तेन च कुल-पुत्र + एतानि स्थानानि परिवर्जयता न तेषां पुद्गलानाम् अन्तिके दुष्ट-चित्तम् उत्पादयितव्यं न प्रतिघ-चित्तं न + अवमन्यना-चित्तम् उत्पादयितव्यम् | एवं च अनेन चित्तम् उपस्थापयितव्यम् | उक्तं हि भगवता धातुशः सत्वाः काम-आदि-धातुं आस्रवन्ति जायन्ते संस्यन्दन्ते संसर्गाच् च विनश्यन्ति | तस्माद् अहं संसर्गं वर्जयिष्यामि + इति ||
SK
बोधि-चित्त-संप्रमोषो * अप्य् अन्-अर्थः तस्य च हेतुर् उक्तो रत्न-कूटे | चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधि-सत्वस्य बोधि-चित्तं मुह्यति | कतमैश् चतुर्भिः | आचार्य-गुरु-दक्षिणीय-विसंवादनतया परेषाम् अ-कौकृत्ये कौकृत्य-उपसंहरणतया | महा-यान-संप्रस्थितानां च सत्वानाम् अ-वर्ण-अ-यशो * अ-कीर्त्य्-अ-लोक-निश्चारणतया माया-शाठ्येन च परम् उपचरति न + अध्याय-आशयेन + इति अस्य विवर्जनम् अत्र + उक्तं | चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधि-सत्वस्य सर्वासु जातिषु जात-मात्रस्य बोधि-चित्तम् आमुखी-भवति | न च + अन्तरा मुह्यति यावद् बोधि-मण्ड-निषदनात् | कतमैश् चतुर्भिः | यद् उत जीवित-हेतोर् अपि संप्रजानन् मृषा-वादं न प्रभाषते | अन्तशो हास्य-प्रेक्षिकया + अपि | अध्याशयेन च सर्व-सत्वानाम् अन्तिके तिष्ठत्य् अपगत-माया-शाठ्यतया सर्व-बोधि-सत्वेषु च शास्तृ-संज्ञाम् उत्पादयति | चतुर्-दिशं च तेषां वर्णं निश्चारयति | यांश् च सत्वान् परिपाचयति तान् सर्वान् अन्-उत्तरायां सम्यक्-संबोधौ समादापयति | प्रादेशिक-यान-अ-स्पृहणतया | एभिः काश्यप चतुर्भिर् इति ||
SK
सिंह-परिपृच्छायाम् अप्य् आह | न जातु धर्म-दानस्य अन्तरायं करोति यः | तेन + असौ लभते क्षिप्रं लोक-नाथेहि सङ्गमम् ||
SK
तथा जाति-स्मराद् धर्म-दानाज् जानीष्व + एवं कुमारक + इति ||
SK
तथा + अत्र + एव | बोधि-चित्तं न रिञ्चति तेन सर्वासु जातिषु | स्वप्न-अन्तरे * अपि तच्-चित्तं किं पुनर् यदि जाग्रतः ||
SK
आह | येषु विरति-स्थानेषु ग्रामेषु नगरेषु वा | समादाय + इति बोधाय तेन चित्तं न रिञ्चति ||
SK
आर्य-मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलं-कार-सूत्रे * अप्य् आह | चतुर्भिर् धर्मैः समन्वागतो बोधि-सत्वः प्रणिधानान् न चलति || पे ||
SK
निहतमानश् च भवति + ईर्ष्य-मात्सर्य-परिवर्जकश् च भवति पर-संपदं च दृष्ट्वा आत्त-मना भवति + इति | इदम् एव पात्र-बोधि-चित्तस्य स्फुटतरम् अ-संप्रमोष-कारणं यत् तत्र + एव रत्न-कूटे * अभिहितम् | सर्व-ईर्या-पथेषु बोधि-चित्त-परिकर्मणतया | बोधि-चित्त-पूर्वङ्-गमतया च + इति ||
SK
तथा हि चन्द्र-प्रदीप-सूत्रे पाठः | आरोचयामि प्रतिवेदयामि वो यथा यथा बहुलु वितर्कयेन् नरः तथा तथा भवति तन्-निम्न-चित्तः तेही वितर्केहि तन्-निश्रितेहि + इति ||
SK
अवसादो * अप्य् अन्-अर्थ एतद्-वर्जनं च रत्न-मेघे दृष्टं | इह बोधि-सत्वो न + एवं चित्तम् उत्पादयति | दुष्-प्रापा बोधिर् मनुष्य-भूतेन सता | इदं च मे वीर्यं परीत्तं च कु-सीदो * अहं बोधिश् च + आदीप्त-शिरश्-चैल-उपमेन बहून् कल्पान् | बहूनि कल्प-शतानि बहूनि कल्प-सहस्राणि समुदानेतव्या | तन् न + अहम् उत्सहए ईदृशं भारम् उद्वोढुं ||
SK
किं तर्हि बोधि-सत्वेन + एवं चित्तम् उत्पादयितव्यं | ये * अपि ते * अभिसंबुद्धास् तथा-गता अर्हन्तः सम्यक्-संबुद्धा ये च + अभिसंबुद्ध्यन्ते ये वा + अभिसंभोत्स्यन्ते * अपि + ईदृशेन + एव नयेन ईदृश्या प्रतिपदा | ईदृशेन + एव वीर्येण + अभिसंउद्धा अभिसंबुध्यन्ते * अभिसंभोत्स्यन्ते च | यावन् न ते तथा-गत-भूता एव + अभिसंबुद्धाः | अहम् अपि तथा तथा घटिष्ये तथा तथा व्यायंस्ये सर्व-सत्व-साधारणेन वीर्येण सर्व-सत्व-आरम्बणेन वीर्येण यथा + अहम् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंभोत्स्यए इति ||
SK
पुनर् अ-परो * अन्-अर्थो रत्न-कूटे दृष्टः | अ-परिपाचितेषु सत्वेषु विश्वासो बोधि-सत्वस्य स्खलितं अ-भाजनी-भूतेषु सत्वेषु + उदार-बुद्ध-धर्म-संप्रकाशनात् बोधि-सत्वस्य स्खलितं ||
SK
उदार-अधिमुक्तिकेषु सत्वेषु हीन-यान-संप्रकाशनाद् बोधि-सत्वस्य स्खलितम् इति | सम्यक्-स्मृत्य्-उपस्थितेषु शीलवत्सु कल्याण-धर्मेषु प्रति-विमानना दुः-शील-पाप-धर्म-संग्रहा बोधि-सत्वस्य स्खलितम् इति ||
SK
अन्-अधिमुक्तिर् अप्य् अन्-अर्थः | यथा + उक्तं राष्ट्रपाल-सूत्रे | यस्य अधिमुक्ति न विद्यति बुद्ध-धर्म-गणे च न तस्य धिमुक्तिः | शिक्ष-व्रतेषु न तस्य धिमुक्तिः पापमतेस् तिर-पाय-मुखस्य ||
SK
स इतश् च्युतो मनु-जेषु कर्म-वशाद् अ-बुधो हि विमूढः | नरकेष्व् अथ तिर्य-गतीषु प्रेत-गतीषु च विन्दति दुष्खम् ||
SK
इति अस्य विसर्जनं रत्न-कूटे * अभिहितं दृष्टं | येषु च + अस्य गम्भीरेषु बुद्धिना + अवगाहते | तत्र तथा-गत एव साक्षी + इति कृत्वा न प्रतिक्षिपति | तथा-गत एव जनीते | न + अहं जाने | अन्-अन्ता बुद्ध-बोधिर् नाना-अधिमुक्तिकतया तथा-गतानां सत्वेषु धर्म-देशना प्रवर्त्ततए इति ||
SK
वैयावृत्य-वर्तमानेन + अन्-अर्थ-विवर्जन-कुशलेन भवितव्यं | बोधि-सत्व-प्रातिमोक्षे हि सह-धार्मिके धर्म-श्रवणे | तथा-गत-पूजायां च वैयावृत्यम् उपदिष्टं तत्र या वृत्तिः सा रत्न-राशि-सूत्राद् आगता | तत्र वैयावृत्य-करेण भिक्षुणा सर्व-भिक्षु-संघस्य चित्तम् अभिराधयितव्यं | तत्र ये भिक्षव आरण्यकाः प्रान्त-शय्या-आसनिकास् तेषां | वैयावृत्य-करेण भिक्षुणा सर्वेण सर्वं न कर्म-समुत्थानं दातव्यं | यदि पुनर् आरण्यकस्य भिक्षोः संघ-पर्यापन्नं शैक्षकं कर्म प्राप्नुयात् | एतेन वैयावृत्य-करेण भिक्षुणा + आत्मना + एव तत् कर्तव्यं | अन्यतरो वा भिक्षुर् अध्येष्यो न पुनः स आरण्यको भिक्षुर् उत्पीडयितव्यस् तत्र यो भिक्षुः पिण्ड-चारिको भवति तस्य तेन वैयावृत्य-करेण भिक्षुणा प्रणीत-भोजनेषु संविभागः कर्तव्यः | तत्र काश्यप यो भिक्षुर् योग-आचारी भवति | तस्य तेन वैयावृत्य-करेण भिक्षुणा + अनुलोमिकान्य् उपकरणान्य् उपसंहर्तव्यानि ग्लान-प्रत्यय-भैषज्य-परिष्काराश् च | यस्मिंश् च प्रदेशे स योग-आचारी भिक्षुः प्रतिवसति तस्मिन् प्रदेशे न उच्च-शब्दः कर्तव्यः | रक्षितव्यो वैयावृत्य-करेण भिक्षुणा योग-आचारी भिक्षुः | शय्या-आसन-उपस्तम्भना + अस्य कर्तव्या | प्रणीतानि च संप्रियाणि योग-आचार-भूम्य्-अनुकूलानि खादनीय-भोजनीयान्य् उपनामयितव्यानि || पे ||
SK
ये भिक्षवो बाहुश्रुत्ये * अभियुक्ता भवन्ति तेषाम् उत्साहो दातव्यः | यावत् ते * अपि परिरक्षितव्याः | ये धार्म-कथिका भिक्षवो भविष्यन्ति | तेषां प्रतीहार-धर्मता कर्तव्या | यावद् धार्म-श्रवणिकाश् च + उद्योजयितव्याः पर्षन्-मण्डलं परिसंस्थापयितव्यं | सांकथ्य-मण्डलं विशोधयितव्यं यावत् साधु-कार-बहुलेन च + अस्य भवितव्यं || पे ||
SK
न क्व-चिद् वस्तुनि ऐश्चर्य-संज्ञा + उत्पादयितव्या | कियत् परीत्तम् अपि कार्यं संघ-मतेन कर्तव्यं | न स्व-मतेन यावन् न सांघिकश् चातुर्दिश-सांघिकेन संसृष्टः कर्तव्यः | एवं विपर्ययाद् एवं स्तौपिकेन सह + अन्यो-न्य-संसर्ग-प्रतिषेधः | यदि चातुर्दिशे संघे वैकल्यं भवेत् सांघिकश् च लाभ उत्सदो भवेत् तेन वैयावृत्य-करेण भिक्षुणा भिक्षु-संघम् एक-मानसं कृत्वा | सांघिक-लाभाच् चातुर्दिश-सांघिक-कार्यं कर्तव्यं | एवं स्तूपे * अपि प्रलुग्ने * अयम् एव विधिर् दायकान् दान-पतीन् वा समादाप्य प्रतिसंस्कर्तव्य इत्य् आज्ञा | यदि पुनः काश्यप कियद् बहुर् अपि स्तौपिको लाभो भवेत् | स वैयाकृत्य-करेण न संघेन चातुर्दिश-संघे उपनामयितव्यः | तत् कस्माद् * धेतोः | या स्तौपिका अन्तश एकदशा + अपि श्राद्धैः प्रसाद-बहुलैर् निर्यातिता भवति | सा स-देवकस्य लोकस्य चैत्यं | कः पुनर् वादो रत्नं वा रत्न-संमतं वा यच् च स्तूपे चीवरं निर्यातितं भवति | तत् तत्र + एव तथा-गत-चैत्ये वात-आतप-वृष्टिभिः परिक्षयं गच्छतु | न पुनः स्तौपिकं चीवरं हिरण्य-मूल्येन परिवर्तयितव्यं | न हि स्तौपिकस्य कश्-चिद् अर्घो न + अपि स्तूपस्य केन-चिद् वैकल्यं यो हि कश्-चित् काश्यप वैयावृत्य-करो भिक्षू रुष्ट-चित्तः शीलवतां दक्षिणीयानाम् [दोउब्त्fउल्] ऐश्वर्याद् आज्ञप्तिं ददाति स तेन + अ-कुशलेन कर्मणा नरक-गामी भवति + इति | यदि मनुष्य-लोकम् आगच्छति दासो भवति पर-कर्म-करो लाभी च भवति खट-चपेट-प्रचण्ड-प्रहाराणां | पे | दण्ड-कर्म-भय-तर्जितं भिक्षुं करोत्य् अ-काल-प्रेषणम् अ-काल-ज्ञप्तिं ददाति | स तेन + अ-कुशलेन कर्मणा बहुशङ्कुर् नाम प्रत्य्-एक-नरकस् तत्र + अस्य + उपपत्तिर् भवति | यावत् सहस्र-विद्धः कायो भवति | आदीप्तः | प्रदीप्तः संप्रज्वलितः | पे | योजन-शत-विस्तार-प्रमाणा जिह्वा भवति | तस्य तत्र जिह्वा-इन्द्रिये बहूनि शङ्कु-शत-सहस्राणि आदीप्तानि अयस्-मयानि निखातानि भवन्ति | यो हि कश्-चित् काश्यप वैयवृत्य-करो भिक्षुर् आगत-आगतं सांघिकं लाभं सन्निधिं करोति न काल-अनुकालं ददाति | उद्वश्यापयितव्या विहेठयित्वा ददाति | केषाञ्-चिन् न ददाति | स तेन + अ-कुशल-मूलेन जङ्घा नाम गूथ-मृतिका-प्रेत-योनिस् तत्र + अस्य + उपपत्तिर् भवति | तत्र + अस्य + अन्ये प्रेता भोजनं गृहीत्वा + अपदर्शयन्ति | स उद्वश्यमानस् तद्-भोजनम् अ-निमिषाभ्यां नेत्राभ्यां पश्यमानः क्षुत्-पिपासा-परिगतो दुष्खां | वेदनां वेत्ति न च वर्ष-सहस्रेण + अपि तस्य भोजनस्य लाभी भवति | यद् अपि कदा-चित् कर्हि-चिद् भोजनं लब्धं भवति तद् उच्चारं भवति पूय-शोणितं वा + इति ||
SK
संघरक्षित-अवदाने * अप्य् अन्-अर्थ उक्तः | यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः कुड्य-आकारांस् ते भिक्षव आसन् | तैः सांघिकं कुड्यं श्लेष्मणा नाशितं | तस्य कर्मणो विपाकेन कुड्य-आकाराः संवृत्ताः | यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः स्तम्भ-आकारांस् ते भिक्षव आसन् | तैः सांघिक-स्तंभः सिंहाणकेन नाशितः | तेन स्तम्भ-आकाराः संवृत्ताः | यांस् त्वं सत्वान् अद्राक्षीर् वृक्ष-आकारान् पत्र-आकारान् फल-आकारान् ते * अपि भिक्षव आसन् | तैर् अपि सांघिकानि वृक्ष-पत्र-पुस्.प-फलानि पौद्गलिक-परिभोगेन परिभुक्तानि तेन ते वृक्ष-पत्र-पुष्प-फल-आकाराः संवृत्ताः | यांस् त्वं सत्वान् अद्राक्षी रज्ज्व्-आकारान् संमार्जन्य्--आकारांस् ते भिक्षव आसन् | तैः सांघिका रज्जु-सम्मार्जन्यः पौद्गलिक-परिभोगेन परिभुक्तास् तेन रज्ज्व्-आकाराः सम्मार्जन्य्--आकाराश् च संवृत्ताः | यं त्वं सत्वम् अद्राक्षीस् तट्ट-आकारं स श्रामणेरक आसीत् | स तट्टुकं निर्मादयति | आगन्तुकाश् च भिक्षवो * अभ्यागताः | तैर् असौ दृष्टश् च पृष्टश् च श्रामणेरक किम् अयं संघस्य पानकं भविष्यति | स मात्सर्य-उपहत-चित्तः कथयति | किं न पश्यथ तट्टुकं निर्मादितं पीतं पानकम् इति | ते वृत्ता वेला + इति नैराश्यम् आपन्ना हीन-दीन-वदनाः प्रक्रान्ताः | स तस्य कर्मणो विपाकेन तट्टुक-आकारः संवृत्ताः ||
SK
यं त्वम् सत्वम् अद्राक्षीर् उदूखल-आकारं सो * अपि भिक्षुर् आसीत् | तस्य पात्र-कर्म प्रत्युपस्थितं | तत्र च + एकः श्रामणेरको * अर्हन् मुद्रा-वारे नियुक्तः | स तेन + उक्तः श्रामणेरक ददस्व मे खलिस्ताकं कुट्टयित्वा + इति | स कथयति | स्थविर तिष्ठ तावन् मुहूर्तं व्यग्रो * अस्मि पश्चात् कुट्टयित्वा दास्यामि + इति | स संजात-आमर्षः कथयति | श्रामणेरक यदि मम कल्पते उदूखलं स्प्रष्टुं त्वाम् एव + अहम् उदूखले प्रक्षिप्य कुट्टयेयं | प्राग् एव खलिस्तोकम् इति | स श्रामणेरः संलक्षयति | तीव्र-पर्यवस्थान-पर्यवस्थितो * अयं | यद्य् अहम् अस्मै प्रतिवचनं दास्यामि भूयस्या मात्रया प्रकोपम् आपत्स्यति + इति तूष्णीम् अवस्थितः | यदा + अस्य पर्यवस्थानं विगतं तदा + उपसंक्रम्य कथयति | स्थविर जानीषे त्वं को * अहम् इति | स कथयति | जाने त्वां काश्यपस्य सम्यक्-संबुद्धस्य प्रव्रजितं श्रामणेरकं | अहम् अपि भिक्षुः स्थविरः | श्रामणेरकः कथयति | यद्य् अप्य् एवं तथा + अपि तु यन् मया प्रव्रजितेन करणीयं तत् कृतं | किं कृतं क्लेश-प्रहाणं छिन्न-सकल-बन्धनो * अहं सर्व-बन्धन-विनिर्मुक्तः | खरं ते वाक्-कर्म निश्चारितं | अत्ययम् अत्ययतो देशय | अप्य् एव नाम एतत् कर्म-परिक्षयं तनुत्वं पर्यादानं गच्छेद् इति | तेन + अत्ययम् अत्ययतो न देशितं तेन कर्मणा + उदूखल-आकारः संवृत्तः ||
SK
यांस् त्वं सत्वान् अद्राक्षीः स्थाल्य-आकारान् | ते कल्पि-कारका आसन् भिक्षूणाम् उपस्थायकाः | ते भैषज्यानि क्वाथयन्तो भिक्षुभिर् अ-प्रियम् उक्ताः तैश् चित्तं प्रदूष्य स्थाल्यो भिन्नाः तेन स्थाल्य-आकाराः संवृत्ताः | यं त्वं सत्वम् अद्राक्षीर् मध्ये छिन्नं तन्तुना धार्यमाणं सो * अपि भिक्षुर् आसील् लाभी ग्राहिकः तेन मात्सर्य-अभिभूतेन लाभः संपरिवर्तितः | यो वार्षिकः स हैमन्तिकः परिणामितः | यस् तु हैमन्तिकः स वार्षिकः परिणामितः | तस्य कर्मणो विपाकेन मध्ये छिन्नस् तन्तुना धार्यमाणो गच्छति ||
SK
शिक्षा-समुच्चये धर्म-भाणक-आदि-रक्षा-परिच्छेदस् तृतीयः ||
SK
[IV. (चतुर्थः परिच्छेदः)]
SK
अ-परे * अपि महन्तो * अन्-अर्थाः सूत्र-अन्तेषु + उक्ताः | यथा तावद् आकाश-गर्भ-सूत्रे | पञ्च + इमाः कुल-पुत्र क्षत्रियस्य मूर्द्ध-अभिषिक्तस्य मूल-आपत्तयः | याभिर् मूल-आपत्तिभिः क्षत्रियो मूर्द्ध-अभिषिक्तः सर्वाणि पूर्व-अवरोपितानि कुशल-मूलानि झाषयति | वस्तु-पतितः पाराजिकः सर्व-देव-मनुष्य-मुखेभ्यो * अपाय-गामी भवति | कतमाः पञ्च | यः कुल-पुत्र मूर्द्ध-अभिषिक्तं स्तौपिकं वस्त्व् अपहरति सांघिकं वा चातुर्दिश-सांघिकं वा निर्यातितं वा | स्वयं वा + अपहरति हारयति वा | इयं प्रथमा मूल-आपत्तिः ||
SK
यः पुनर् धर्मं प्रतिक्षिपति श्रावक-निर्याण-भाषितं वा प्रत्य्-एक-बुद्ध-निर्याण-भाषितं वा महा-यान-निर्याण-भाषितं वा प्रतिक्षिपति प्रतिषेधयति + इयं द्वितीया मूल-आपत्तिः ||
SK
यः पुनर् माम् उद्दिश्य शिरस्-तुण्ड-मुण्ड-काषाय-वस्त्र-प्रावृतः शिक्षा-धारी वा शिक्षा-अ-धारी वा तस्य दुः-शीलस्य वा शीलवतो वा काषायाणि वस्त्राण्य् अपहरति अपहरायति | गृह-स्थं वा करोति काये दण्डैः प्रहरति चारके वा प्रक्षिपति जीवितेन वा वियोजयति + इयं तृतीया मूल-आपत्तिः ||
SK
यः पुनः क्षत्रियः संचिन्त्य मातरं जीविताद् व्यपरोपयति पितरम् अर्हन्तं भगवच्-छ्रावकं वा जीविताद् व्यपरोपयति समग्रं वा संघं भिनत्ति तथा-गतस्य + अर्हतः सम्यक्-संबुद्धस्य संचिन्त्य दुष्ट-चित्तो रुधिरम् उत्पादयति ||
SK
एभिः पञ्चभिर् आनन्तर्यैर् कर्मभिर् अन्यतर-अन्यतरं कर्म + उत्पादयति + इयं चतुर्थी मूल-आपत्तिः ||
SK
यः पुनः क्षत्रियो * अ-हेतु-वादी भवति पर-लोक-उपेक्षकः | दश + अ-कुशलान् कर्म-पथान् समादाय वर्तते * अन्यांश् च बहून् सत्वान् दशस्व् अ-कुशलेषु कर्म-पथेषु समादापयति विनयति निवेशयति प्रतिष्ठापयति + इयं पञ्चमी मूल-आपत्तिः || पे ||
SK
यः पुनर् ग्राम-भेदं जन-पद-भेदं नगर-भेदं राष्ट्र-भेदं करोति + इयं मूल-आपत्तिः || पे ||
SK
आदि-कर्मिणां महा-यान-संप्रस्थितानां कुल-पुत्राणां कुल-दुहितॄणां वा + अष्टौ मूल-आपत्तयो | याभिर् मूल-आपत्तिभिः स्खलिता आदि-कर्मिका महा-यान-संप्रस्थिताः सर्वाणि पूर्व-अवरोपितानि कुशल-मूलानि झाषयन्ति | वस्तु-पतिताः पराजिता देव-मनुष्य-महा-यान-मुखाद् अपाय-गामिनो भवन्ति चिरं च संसारे सीदन्ति कल्याण-मित्र-विरहिताः | कतमा अष्टौ | ये सत्वाः पूर्व-दुश्-चरित-हेतुना + अस्मिन् क्लिष्टे पञ्च-कषाये लोके उपपन्नास् तए इत्वर-कुशल-मूलाः कल्याण-मित्रं संनिःश्रित्य + इदं परमं गम्भीरं महा-यानं शृण्वन्ति | ते च परीत्त-बुद्धयो * अपि कुल-पुत्रा अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयन्ति | तेषां आदि-कर्मिका ये च बोधि-सत्वा इदं परम-गम्भीरं शून्यता-प्रतिसंयुक्तं सूत्र-अन्तं शृण्वन्ति उद्दिशन्ति पठन्ति | ते यथा-श्रुतं यथा-पर्यवाप्तं परेषां पूर्व-बुद्धि-सदृशानां स्व्-अर्थं सु-व्यञ्जनं विस्तरेण + अग्रतः स्मारयन्ति प्रकाशयन्ति | ते ह्य् अ-कृत-शमा बालाः पृथग्-जनाः शृण्वन्त उत्त्रस्यन्ति संत्रस्यन्ति संत्रासम् आपद्यन्ते | ते संत्रासेन विवर्त्तयन्त्य् अन्-उत्तरायाः सम्यक्-संबोधेश् चित्तं श्रावक-याने चित्तं प्रणिदधति | एषा आदि-कर्मिक-बोधि-सत्वस्य मूल-आपत्तिः प्रथमा ||
SK
यया मूल-आपत्त्या स कुल-पुत्रः सर्वं पूर्व-अवरोपितं कुशल-मूलं झाषयति | वस्तु-पतितः पराजितः स्वर्ग-अपवर्ग-सुखात् | विसंवादितं च + अस्य बोधि-चित्तम् अपाय-गामि भवति | तस्माद् बोधि-सत्वेन महा-सत्वेन पर-पुद्गलानाम् आशय-अनुशयं प्रथमं ज्ञात्वा यथा-आशयानां सत्वानाम् अनुपूर्वेण धर्म-देशना कर्तव्या | तद् यथा महा-समुद्रे * अनुपूर्वेण + अवतारयति || पे ||
SK
पुनर् अ-परम् आदि-कर्मिको बोधि-सत्वः कस्य-चिद् एव वक्ष्यति ||
SK
न त्वं शक्यसि षट्-पारमितासु चर्यां चर्तुं | न त्वं शक्यस्य् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोद्धुं | शीघ्रं त्वं श्रावक-याने प्रत्य्-एक-बुद्ध-याने वा चित्तम् उत्पादय | तेन त्वं संसारान् निर्यास्यसि | यावद् यथा-पूर्व-उक्तम् इयम् आदि-कर्मिकस्य बोधि-सत्वस्य द्वित्-या मूल-आपत्तिः ||
SK
पुनर् अ-परम् आदि-कर्मिको बोधि-सत्वः कस्य-चिद् एवं वक्ष्यति | किं भोः प्रातिमोक्ष-विनयेन | शीलेन सु-रक्षितेन शीघ्रं त्वम् अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयस्व | महा-यानं पठ | यत् ते किञ्-चित् काय-वाङ्-मनोभिः क्लेश-प्रत्ययाद् अ-कुशलं कर्म समुदानीतं तेन पाठेन शुद्धिर् भवत्य् अ-विपाकं | यावद् यथा-पूर्व-उक्तम् अयम् आदि-कर्मिकस्य बोधि-सत्वस्य तृतीया मूल-आपत्तिः ||
SK
पुनर् अ-परं कुल-पुत्र केषाञ्-चिद् आदि-कर्मिको बोधि-सत्व एवं वक्ष्यति | वर्जयत यूयं कुल-पुत्राः श्रावक-यान-कथां | मा शृणुत मा पठत मा परेषाम् उपदिशत | गोपयत श्रावक-यान-कथां | न यूयं तस्मात् महत् फलं प्राप्स्यथ | न यूयं ततो निदानाच् * छक्ताः क्लेश-अन्तं कर्तुं | श्रद्दधत महा-यान-कथां | शृणुत महा-यानं पठत महा-यानं परेषां च + उपदिशत | ततो यूयं सर्व-दुर्-गत्य्-अपाय-पथान् शमयिष्यथ | क्षिप्रं च + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंभोत्स्यथ ||
SK
यदि ते तस्य वचन-कारिणो भवन्ति + ईदृशं दृष्टि-गतम् उपगृह्णीयुः | उभयोर् अपि मूल-आपतिर् भवति + इयम् आदि-कर्मिकस्य बोधि-सत्वस्य चतुर्थी मूल-आपत्तिः ||
SK
पुनर् अ-परम् आदि-कर्मिका बोधि-सत्वा द्वि-जिह्विका भवन्ति अन्यथा निदर्शयन्ति | इदं च महा-यानं कीर्ति-शब्द-श्लोक-अर्थं लाभ-सत्-कार-हेतोः पठन्ति स्व-अध्यायन्ति धारयन्ति वाचयन्ति देशयन्ति परेषां च श्रुत-मात्रम् उपदिशन्ति | एवं च वक्ष्यन्ति | वयं महा-यानिका न + अन्ये | ते परेषाम् ईर्ष्यायन्ति लाभ-सत्-कार-हेतोर् यतस् ते लभन्ते उपभोग-परिभोगान् परेभ्यस् तत्-प्रत्ययात् ते प्रकुप्यन्ति तेषां च + अ-वर्णं निश्चारयन्ति कुत्सन्ति पंसयन्ति विजुगुप्सन्ति | आत्मानं च + उत्कर्षयन्ति न तान् | अतस् ते ईर्ष्य-हेतुना च + उत्तरि-मनुष्य-धर्मैर् आत्मानं विज्ञपयन्ति | ततस् ते तेन वस्तुना पतिताः पराजिता महा-यान-सुखाद् एतां महा-गुरुकाम् आपत्तिम् आपद्यन्ते यया + अपाय-गामिनो भवन्ति | यथा कश्-चित् पुरुषो रत्न-द्वीपं गच्छेद् गन्तुं नावा समुद्रम् अवतरते स महा-समुद्रे स्वयम् एव तां नावं भिन्द्यात् तत्र + एव मरणं निगच्छेद् | एवम् एव ये आदि-कर्मिका बोधि-सत्वा महा-गुण-सागरम् अवतर्तु-कामा ईर्ष्या-हेतोस् तद् वदन्ति | तत्-प्रत्ययात् ते श्रद्धा-नावं भित्त्वा प्रज्ञा-जीवितेन वियोगं प्राप्नुवन्ति | एवं ते बाला आदि-कर्मिका बोधि-सत्वा ईर्ष्या-हेतोर् अन्-ऋत-प्रत्यया महा-गुरुकाम् आपत्तिम् आपद्यन्ते | इयं पञ्चमी मूल-आपत्तिर् आदि-कर्मिकस्य बोधि-सत्वस्य ||
SK
पुनर् अ-परं कुल-पुत्र भविष्यन्त्य् अन्-आगते * अध्वनि गृह-स्थ-प्रव्रजिता आदि-कर्मिका बोधि-सत्वा ये ते गम्भीराः शून्यता-प्रतिसंयुक्ताः सूत्र-अन्त-आधारणी-क्षान्ति-समाधि-भूमि-स्व्-अलं-कृत-महा-विद्वत्-पुरुषाणां कृत-श्रमाणां बोधि-सत्वानां गो-चरास् तान् महा-यान-सूत्र-अन्तान् धारयन्ति पठन्ति स्व-अध्यायन्ति परेषां च विस्तरेण वाचयित्वा प्रकाशयन्ति | अहं च + इमान् धर्मान् स्व-बुद्ध्या बुद्ध्वा + एवं च पुनर् अहं कारुण्य-हेतोस् तव + उपदिशामि | त्वया वा पुनस् तथा भावयितव्यं यथा त्वम् अत्र गम्भीरेषु धर्मेषु प्रत्यक्षो भविष्यसि | एवं ते ज्ञान-दर्शनं भविष्यति यथा मम | एतर्हि न पुनर् एव ददाति पठित-मात्रेण + अहम् इमान् एवं-रूपान् धर्मान् गम्भीर-गम्भीरान् उपदिशामि न साक्षात्-क्रियया ||
SK
ल-भ-सत्-कार-हेतोर् आत्मानं विक्रीणाति | तत्-प्रत्ययात् सर्व-त्र्य्-अध्व-गतानाम् अर्हतां सम्यक्-संबुद्धानां बोधि-सत्वानाम् आर्य-पुद्गलानां च पुरतः स-अपराधिको भवति | महा-गुरुकम् आपत्तिम् आपद्यते | विसंवादयति देव-मनुष्यान् महा-यानेन | श्रावक-यानम् एव + अस्य न भवति | प्राग् एव महा-यानस्य + अवतार-विशेष-अधिगमः | प्राग् एव + अन्-उत्तरा सम्यक्-संबोधिः ||
SK
तद् यथा कश्-चित् पुरुषो महा-अटवीं प्रस्थितः क्षुत्-तर्ष-प्रपीडितः स तत्र महा-फल-वृक्षे प्रतिष्ठितः | आहार-अर्थं स उदार-फल-वृक्षम् अपहाय गन्ध-संपन्नं रस-संपन्नम् अन्-आस्वाद्य विष-वृक्षम् अभिरुह्य विष-फलानि भुञ्जीत भुक्त्वा च कालं कुर्यात् | तद्-उपमांस् तान् पुद्गलान् वदामि | ये दुर्-लभं मनुष्य-लाभं लब्ध्वा कल्याण-मित्रं सन्निश्रित्य महा-यानम् अवतर्तु-कामा लाभ-सत्-कार-यशो-हेतोर् आत्मानम् उपदर्शयन्ति परान् पंसयन्ति एवं-रूपां महा-गुरुकाम् आपत्तिम् आपद्यन्ते यया गुरुकया + आपत्त्या सर्व-विज्ञानां परम-जुगुप्सिता भवन्ति | अपाय-गामिनस् तथा-रूपाश् च पुद्गला न सेवनीयाः सर्व-क्षत्रिय-ब्राह्मण-विट्-शूद्राणां | यश् च तान् सेवते स स-अतिसारो भवति सर्व-विज्ञानां | इयं कुल-पुत्र बोधि-सत्वस्य षष्ठी मूल-आपत्तिः ||
SK
पुनर् अ-परं कुल-पुत्र भविष्यन्त्य् अन्-आगते * अध्वनि क्षत्रियाणां पुरोहित-चण्डाला अमात्य-चण्डाला भट-चण्डाला मूर्खाः पण्डित-मानिनो महा-धना महा-भोगाः | बहु-विधेषु दान-मय-पुण्य-क्रिया-वस्तुषु संदृश्यन्ते ते त्याग-मद-मत्ता मान-मद-दर्पेण क्षत्रियं विभेदयन्ति | श्रमणान् क्षत्रियैः | ते क्षत्रियान् निश्रित्य श्रमणान् दण्डापयन्ति | अर्थं दण्डेन मुषन्ति | तेन + उपद्रवेण ते भिक्षवः पौद्गलिकं वा सांघिकं वा चातुर्दिश-सांघिकं वा स्तौपिकं वा श्रमणैर् अपहृत्य तेषां प्राहृतं प्रदाप्यन्ते | ते पुनश् चण्डालाः क्षत्रियस्य + उपनामयिष्यन्ति | ते उभयतो * अपि मूल-आपत्तिम् आपद्यन्ते | ये क्षत्रिय-चण्डालाः श्रमणैः सार्द्धं प्रदुष्यन्ति तथा-रूपं च ते धर्मं प्रज्ञपयिष्यन्ति | अ-धर्मं वा धर्मम् अपहाय | सूत्र-विनय-शिक्षा अन्-अपेक्ष्य काल-उपदेश-महा-प्रदेशान् अपहाय | महा-करुणा-नेत्री-प्रज्ञा-पारमित-शिक्षा-उपाय-कौशल्य-शिक्षाः याश् च + अ-परेषु सूत्रेषु शिक्षा उपदिष्टास् ता अपहाय | तथा-रूपां धर्म-युक्तिं भिक्षूणां विहेठन-अर्थ-पूर्वकं क्रिया-आकारं प्रज्ञपयन्ति | यैः क्रिया-आकारैर् भिक्षूणां विहेठना भवति | रञ्चति शमथ-विपश्यन-अनुयोग-मनस्-कारं | ते * अवध्यायन्तो व्यापाद-बहुला भवन्ति | तेन च हेतुना भिक्षूणाम् अप्य् उपशान्ताः क्लेशा न + उपशम्यन्ति न तनू-भवन्ति | तत्-काले पुनस् ते भिक्षव आशय-विपन्ना भवन्ति शील-विपन्नाश् च भवन्ति | आचार-विपन्ना भवन्ति दृष्टि-विपन्ना भवन्ति तद्-धेतोः शैथिलिका भवन्ति | बाहुलिका भवन्ति | अ-श्रमणाः श्रमण-प्रतिज्ञाः | अ-ब्रह्म-चारिणो ब्रह्म-चारि-प्रतिज्ञाः शङ्ख-स्वर-समाचाराः प्रष्टव्य-धर्म-देशकाः | ते भूयस्या मात्रया स-परिचारस्य क्षत्रियस्य सत्-कृता भवन्ति मानिताः पूजिता भवन्ति | ते च प्रहाण-अभियुक्तानां भिक्षूणां गृह-स्थेष्व् अ-वर्णं निश्चारयन्ति | स च क्षत्रियः स-परिवारः प्रहाण-अभियुक्तानां भिक्षूणाम् अन्तिके प्रदुष्यति अवध्यायति | यस् तत्र प्रहाणिकानां भिक्षूणाम् उपभोग-परिभोगस् तं स्व-अध्याय-अभिरतानां भिक्षूणां निर्यातयन्ति | ते उभयतो मूल-आपत्तिम् आपद्यन्ते | तत् कस्य हेतोः ||
SK
ध्यायी भिक्षुः सु-क्षेत्रं | न + अध्ययन-वैयावृत्य-आश्रिता न + अध्ययन-अभियुक्ताः ||
SK
सम्-धि-धारणी-क्षान्ति-भूमिषु भाजनी-भूता दक्षिणीयाः पात्र-भूताः | आलोक-कर-आलोकस्य मार्ग-उपदेशकाः | कर्म-क्षेत्र-क्लेश-क्षेत्रान् सत्वान् उत्तारयन्ति | निर्वाण-गमने च मार्गे प्रतिष्ठापयन्ति | इमाः कुल-पुत्र + अष्टौ मूल-आपत्तय इति ||
SK
आसां निःसरणम् इह + एव सूत्रे * अभिहितं | यदि ते बोधि-सत्वा आकाशगर्भस्य बोधि-सत्वस्य नाम श्रुत्वा दर्शनम् अस्य + आकाङ्क्षेरन् | अपाय-प्रपतन-भयात् मूल-आपत्तीर् दशयितु-कामा | यदि ते आकाशगर्भं बोधि-सत्वं नमस्-कुर्युः नाम च + अस्य परिकीर्त्तयेयुस् तेषां स कुल-पुत्रो यथा भाग्यतया स्व-रूपेण + अग्रतस् तिष्ठति ब्राह्मण-रूपेण यावद् दारिका-रूपेण पुरतः स्थास्यति | तस्य + आदि-कर्मिकस्य बोधि-सत्वस्य यथा समुत्थितास् ता आपत्तीः प्रतिदेशयति | गम्भीरं च + अस्य + उपाय-कौशल्यं महा-याने चर्याम् उपदर्शयति | यावद् अ-वैवर्त्तिक-भूमौ च प्रतिष्ठापयति || पे ||
SK
यदि तेषां संमुखं दर्शनं न ददाति | यस् तम् अभियाचति | तेन + आदि-कर्मिकेण बोधि-सत्वेन स-अपराधेन पश्चिमे यामे उत्थाय + आसनात् प्राङ्-मुखेन स्थित्वा धूपं धूपयितव्यं | अरुणो देव-पुत्र आयाचितव्यः | एवं च वक्तव्यं | अरुण अरुण महा-कृप महा-भाग महा-उदितस् त्वं जम्बु-द्वीपे मां करुणया + आछादयस्व | शीघ्रम् आकाशगर्भं महा-कारुणिकं मम वचनेन बोधय | मम स्वप्न-अन्तरे तम् उपायम् उपदर्शय येन + अहम् उपायेन + आपत्तिं प्रतिदेशयामि | आर्ये महा-याने उपाय-प्रज्ञां प्रतिलप्स्यामि + इति ||
SK
तेन तत्-कालं शय्यायां निद्रापयितव्यं सह + उद्गते * अरुणे इह जम्बु-द्वीपे आकाशगर्भस्य बोधि-सत्वस्य + इह समागमो भवति स्व-रूपेण च | तस्य + आदि-कर्मिकस्य बोधि-सत्वस्य स्वप्न-अन्तरे पुरतः स्थित्वा तां मूल-आपत्तिं देशयति महा-यान-उपायेन | तथा-रूपं च तस्य + उपाय-ज्ञानं संदर्शयति | येन + उपाय-कौशल्येन स आदि-कर्मिको बोधि-सत्वस् तत्र + एव बोधि-चित्त-अ-संप्रमोषं नाम समाधिं प्रतिलभते सु-दृढ-व्यवस्थितश् च भवति महा-यानए इत्य् आदि ||
SK
अथ वा यो * अत्र सूत्रे * अध्येषण-मन्त्रः पूर्वम् उक्तः | तेन + अयं विधिः कार्यः | एवं स्यात् | अरण्ये उपवने * अभ्यवकाशे वागरं वा तगरं वा काल-अनुसारि वा धूपयितव्यं | प्राञ्जलिना च भूत्वा समन्ततो दिग्-विदिक्षु च पञ्च-मण्डलकेन वन्दित्वा इमे मन्त्र-पदाः प्रवर्तयितव्याः | तद् यथा | सु-मृश [दोउब्त्fउल्] | कारुणिक | चरतु [दोउब्त्fउल्] | विचर | सञ्चर | कारुणिक | मुरर | मुरर वेग-धारि नमुचमे भुजयत कारुणिक चिन्ता-मणि पूरय कारुणिक सर्व-आशां मे स्थापय | आज्ञा-धारी स्फुगु | रति-विवेक गु | दृष्टि-विवेक गु | पूरय कारुणिक पूरयन्तु मम + आशां | सर्वथा च + अ-शोक-गति स्वाहा ||
SK
विधिः पूर्व-वत् | सर्व-व्याधि-दुःख-सर्व-भय-सर्व-उपकरण-विघात-प्रतिघाते सर्व-अभीष्ट-सिद्धये च कार्यः ||
SK
यदि क्षत्रिय-आदयो * अपि बोधि-सत्वाः कथम् एषाम् आपत्ति-नियमो * अन्येषां च + आधिक्यं | अथ तेन साम्वरिकाः | कथम् एषाम् आपत्ति-व्यवस्था | कथं वा तद्-दोषात् साम्वरिका अपि गृह्यन्ते | न + एष दोषः | येषां यत्र बहुलं संभवः ते तत्र + आ-कोटिताः स्व-नाम-ग्रहण-दर्शनाद् भय-उत्पादन-अर्थं | परस्-परतस् तु सर्वैः सर्वा आपत्तयः परिहर्तव्याः ||
SK
येन वा प्रकृति-महा-स-आवद्यतया + अ-समादानो * अप्य् अ-भव्यो भवत्य् उच्छिन्न-कुशल-मूलश् च सुतरां तेन साम्वरिका इत्य् अलम् अनया चिन्तया ||
SK
उपाय-कौशल्य-सूत्रे * अपि मूल-आपत्तिर् उक्ता | किं वा + अपि कुल-पुत्र बोधि-सत्वः प्रातिमोक्ष-शिक्षायां शिक्षमाणाः कल्प-शत-सहस्रम् अपि मूल-फल-भक्षः स्यात् | सर्व-सत्वानां च सु-उक्त-दुर्-उक्तानि क्षमेत् | श्रावक-प्रत्य्-एक-बुद्ध-भूमि-प्रतिसंयुक्तैश् च मनसि-कारैर् विहरेद् इयं बोधि-सत्वस्य गुरुका मूल-आपत्तिः | तद् यथा कुल-पुत्र श्रावक-यानीयो मूल-आपत्तिम् आपन्नः सो * अ-भव्यस् तैर् एव स्कन्धैः परिनिर्वातुम् | एवम् एव कुल-पुत्रो * अ-प्रतिदेश्य + एताम् आपत्तिम् अ-निःसृज्य तान् श्रावक-प्रत्य्-एक-बुद्ध-मनसि-कारान् अ-भव्यो बुद्ध-भूमौ परिनिर्वातुम् इति ||
SK
आसां च मूल-आपत्तीनां सुख-ग्रहण-धारण-अर्थम् एकीय-मतानां च संग्रह-कारिका उच्यन्ते ||
SK
रत्न-त्रय-स्व-हरणाद् आपत्-पाराजिका मता | सद्-धर्मस्य प्रतिक्षेपाद् दूतीया मुनिना + उदिता ||
SK
दुः-शीलस्य + अपि वा भिक्षोः काषाय-स्तैन्य-ताडनात् | चारके वा विनिक्षेपाद् अपप्रव्राजनेन च ||
SK
पञ्च + आनन्तर्य-करणान् मिथ्या-दृष्टि-ग्रहेण वा | ग्राम-आदि-भेदनाद् वा + अपि मूल-आपत्तिर् जिन-उदिता ||
SK
शून्यतायाश् च कथनात् सत्वेषु कृत-बुद्धिषु | बुद्धत्व-प्रस्थितानां वा संबोधेर् विनिवर्त्तनात् ||
SK
प्रातिमोक्षं परित्याज्य महा-याने नियोजनात् | शिष्य-यानं न राग-आदि-प्रहाणाय + इति वा ग्रहात् ||
SK
परेषां ग्रहणाद् वा + अपि पुनः स्व-गुण-काशनात् | पर-पंसनतो लाभ-सत्-कार-श्लोक-हेतुना ||
SK
गम्भीर-क्षान्तिको * अस्मि + इति मिथ्या + एव कथनात् पुनः | दण्डापयेद् वा श्रमणान् दद्याद् वा शरण-त्रयात् ||
SK
गृह्णीयाद् दीयमानं वा शमथे त्याजनात् पुनः | प्रतिसंलीन-भोगं च स्व-अध्यायिषु निवेदनात् ||
SK
मूला आपत्तयो ह्य् एता महा-नरक-हेतवः | आर्यस्य + आकाशगर्भस्य स्वप्ने देश्याः पुरः-स्थितैः ||
SK
बोधि-चित्त-परित्यागाद् याचकाय + अ-प्रदानतः | तीव्र-मात्सर्य-लोभाभ्यां क्रोधाद् वा सत्व-ताडनात् ||
SK
प्रसाद्यमानो यत्नेन सत्वेषु न तितिक्षते | श्लोकात् पर-अनुवृत्त्या वा सद्-धर्म-आभास-वर्णनाद् | इति ||
SK
आर्य-क्षितिगर्भ-सूत्रे * अप्य् उक्तं | यो महा-ब्रह्मन् मम + उद्दिश्य प्रव्रजितो दुः-शील-पाप-समाचारो भिक्षुर् अनुभूतः कशम्बक-जातो * अ-श्रमणः श्रमण-प्रतिज्ञः अ-ब्रह्म-चारी ब्रह्म-चारि-प्रतिज्ञः | ध्वस्तः पतितः पराजितो विविधैः क्लेशैः | अथ च पुनः स दुः-शील-पाप-समाचारो भिक्षुर् अद्य + अपि सर्व-देवानां यावत् सर्व-मनुष्याणां यावत् पुण्य-निधीनां दर्शयिता भवति कल्याण-मित्रं | किं च + अपि स अ-पात्री-भूतः तेन च पुनः शिरस्-तुण्ड-मुण्डेन काषाय-वस्त्र-प्रावरण-ईर्या-पथेन दर्शन-हेतुना + अपि बहूनां सत्वानां विविध-कुशल-मूल-उपस्तम्भन-करः सु-गति-मार्ग-दर्शको भवति | तस्माद् यो मम + उद्दिश्य प्रव्रजितः शीलवान् दुः-शीलो वा तस्य न + अनुजानामि चक्र-वर्त्तिर् आज्ञाम् अपि यन् मम + उद्दिश्य प्रव्रजितस्य सह-धर्मेण + अपि काये दण्ड-प्रहारं वा दातुं चारके वा प्रक्षेप्तुं | अङ्गम् अङ्गं विकर्त्तनं वा कर्तुं जीविताद् वा व्यपरोपणं कर्तुं | किं पुनर् अ-धर्मेण ||
SK
किं च + अपि मृतः कथ्यते * अस्मिन् धर्म-विनये | अथ च पुनः स पुद्गलो गो-रोचन-कस्तूरिका-सदृश इति | अत्र + एव + आह | ये मम + उद्दिश्य प्रव्रजितान् यान-भूतान् पात्र-भूतान् वा विहेठयिष्यन्ति ते सर्वेषां त्र्य्-अध्व-गतानां बुद्धानाम् अतीव स-अपराधा भवन्ति | समुच्छिन्न-कुशल-मूला दग्ध-सन्ताना अवीचि-परायणा भवन्ति + इति | अत्र + एव + आह | सर्व-बुद्धैर् अधिष्ठितो * अयं मोक्ष-ध्वजो यद् उत रक्त-काषाय-वस्त्रम् इति | अस्मिन्न् एव च + उक्तं | तेन खलु पुनः समयेन बहूनि श्रावक-नियुत-शत-सहस्राणि बहूनि च बोधि-सत्व-नियुत-शत-सहस्राणि भगवतो * अन्तिके एवं-रूपं पूर्व-कृतं कर्म-आवरणं प्रतिदेशयन्ति | वयम् अपि भदन्त भगवन् बहूनां पूर्वकाणां तथा-गतानां प्रवचने पात्र-भूतान् पात्र-भूतांश् च बुद्धानां भगवतां श्रावक-यानीयान् पुद्गलाञ् जुगुप्सितवन्तः पंसितवन्तो रोषितवन्तो * अ-वर्ण-अ-यशः-कथाश् च निश्चारितवन्तः | तेन वयं कर्म-आवरणेन त्रिष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुःखां वेदनां प्रत्यनुभूतवन्तः ||
SK
पेयालं ||
SK
वयं तत्-कर्म-आवरण-शेषम् एतर्हि भगवतो * अन्तिके प्रतिदेशयिष्यामः | के-चिद् वदन्ति | वयं भगवतः श्रावकान् वचनैस् तर्जितवन्तः परिभाषितवन्तः | के-चिद् वदन्ति | वयं भगवतः श्रावकान् अ-पात्र-भूतान् पत्र-अ-भूतांश् च प्रहरितवन्तः | के-चिद् वदन्ति | वयं चीवरान् हृतवन्तः | के-चिद् वदन्ति | वयं भगवतः श्रावकाणाम् उपभोग-परिभोगान् आच्छिन्नवन्तः | के-चिद् वदन्ति | वयं भगवन्तम् उद्दिश्य प्रव्रजितान् गृह-स्थान् कारितवन्तः तत अ-स्थानं सादिताः | के-चिद् वदन्ति | अस्माभिर् भगवन् बुद्धानां भगवतां श्रावका अ-पत्र-भूताः पात्र-भूताश् च स-अपराधिकाश् चारके प्रक्षिप्तास् तेन वयं कर्म-आवरणेन बहून् कल्पांस् तृष्व् अपायेषु विविधां तीव्रां प्रचण्डां दुष्खां वेदनां प्रत्यनुभूतवन्तः || पे ||
SK
तद् वयम् एतर्हि कर्म-आवरण-शेषां भगवतो * अन्तिके प्रतिदेशयामः | आयत्यां संवरम् आपद्येम | प्रतिगह्णातु भगवान् अस्माकम् अनुकम्पाम् उपादाय | उद्धरतु भगवान् अस्मान् अन्-अन्त-पापेभ्य इति विस्तरः ||
SK
प्रव्रज्या-अन्तराय-सूत्रे * अप्य् अन्-अर्थ उक्तः | चतुर्भिर् महानामन् धर्मैः समन्वागतो गृही अ-क्षण-प्राप्तो भवति | जात्य्-अन्धश् च जडश् च + अ-जिह्वकश् च चण्डालश् च जातु सुखितो भवत्य् अभ्याख्यान-बहुलश् च षण्डकश् च पण्डकश् च नित्य-दासश् च | स्त्री च भवति श्वा च शूकरश् च गर्दभश् च + उष्ट्रश् च आशीविषश् च भवति तत्र तत्र जातौ ||
SK
कतमैश् चतुर्भिः | इह महानामन् गृही पूर्व-जिन-क्र्ट-अधिकाराणां सत्वानां नैष्क्रम्य-चित्तस्य प्रव्रज्या-चित्तस्य + आर्य-मार्ग-चित्तस्य + अन्तरायं करोति | अनेन प्रथमेन ||
SK
पुनर् अ-परं गृही धन-लौल्येन पुत्र-लौल्येन कर्म-विपाकम् अ-श्रद्दधत् पुत्रस्य वा दुहितुर् वा भार्याया वा ज्ञाति-संघस्य + ऐश्वर्य-स्थाने वर्तमाने प्रव्रज्या-अन्तरायं करोति | अनेन द्वितीयेन + इति ||
SK
अन्य-द्वयं | सद्-धर्म-प्रतिक्षेपः श्रमण-ब्राह्मणेषु च प्रतिघः ||
SK
दश च + अ-कुशलाः कर्म-पथाः अन्-अर्थाः | सद्-धर्म-स्मृत्य्-उपस्थानाद् विपाक-कटुका द्रष्टव्याः | ततः किञ्-चिन्-मात्रं सूत्रं सूच्यते | प्राण-अतिपात-विपाक-लवस् तावद् | यथा + आह | तद् यथा + अग्नि-शिखा-चरा नाम पक्षिणो ये * अग्नि-शिक्षा-मध्य-गता न दह्यन्ते संहृष्टतराश् च नारकेयाणां कपालं भित्त्वा रुधिरं पिबन्ति | कपाल-अन्तर-चरा नाम पक्षिणो ये मस्तकं भित्त्वा ज्वलित-मस्तक-लुङ्गान् पिबन्ति | जिह्वा-आमिष-भुजो नाम पक्षिणो ये जिह्वां विदार्य + अभितो * अभितः प्रभक्षयन्ति | सा + अपि जिह्वा भुक्ता पुनर् अपि संजायते पद्म-दल-कोमलतरा | एवम् अर्थ-अनुरूप-संज्ञा दन्त-उत्पाटका नाम कण्ठ-नाड्य्-अपकर्षका नाम | क्लोम-काशिनः | आमाशय-अदाः | प्लीह-संवर्तका | अन्त्र-विवर-खादिनः | पृष्ठ-वंश-चरा नाम | मर्म-गुह्यका नाम पक्षिणो ये सर्वाणि मर्म-विवराणि भित्त्वा मर्माणि कृन्तयित्वा विवराणि प्रविश्य मज्जा-मण्डं पिबन्ति क्रन्दमानानां | सूची-छिद्रा नाम पक्षिणो ये सूची-सदृश-तुण्डा रक्तं पिबन्ति | एवम् अस्थि-विवर-अशिनः षट्-त्वग्-भक्षिणः | नख-निकृन्तका मेदो-दाः स्नायु-विशेषकाः | केश-उण्डुका नाम पक्षिणो ये केश-मूलान्य् उत्पाटयन्ति ||
SK
स एवम् अवीचि-प्रदेशस् त्रीणि योजन-शत-सहस्राणि पक्षि-भैरव-पक्षो नाम | तत्र तैर् अन्यैर् नारकेयैः सह + अन्-एकानि वर्ष-शत-सहस्राणि भक्ष्यते संभवति च | स कथञ्-चिद् अपि तस्मान् मुक्तः सर्वस्माद् दुष्ख-जाल-परिवृतः | श्वभ्र-प्रपातो नाम द्वितीयः प्रदेशस् तत्र गच्छति | त्राण-अन्वेषी शरण-अन्वेषी परित्राण-अन्वेषी समन्तत एकादशभिर् अर्चि-स्कन्धैर् आवृतो निः-सहायः कर्म-पाश-बन्धन-बद्धः समन्ततः शत्रुभिर् आवृतः कान्तारम् अनुप्रपन्नः सर्वस्मान् नरक-पुञ्जाद् अधिकतरं व्यसनम् अभिप्रपन्नस् तं श्वभ्र-प्रपातं नाम प्रदेशम् अनुधावति | पतिते * अतीव पादः प्रविलीयते | उत्क्षिप्तः पुनर् अपि संभवति | सु-कुमारतरः श्लक्ष्णतरः खराभिस् तीव्राभिर् वेदनाभिर् अभिभूतः | तस्य + एवं भय-विक्लव-वदनस्य कर-चरण-सर्व-अङ्ग-प्रत्य्-अङ्ग-प्रविलीयमानस्य स प्रदेशः श्वभ्र-प्रपातो नाम प्रादुर्-भवति | स तस्मिन् देशे निपतति पतितः श्वभ्रे प्रपतति त्रीणि योजन-सहस्राणि | पुनर् अपि कर्म-कृतेन वायुना + उत्क्षिप्यते | स प्रपतमानः कंक-वायस-ग्र्ध्र-उलूकैर् भक्ष्यते | यावत् तस्य + एवम् उत्क्षिप्यमानस्य च प्रपततश् च + अन्-एकानि वर्ष-शत-सहस्राणि गच्छन्ति | कथञ्-चिद् अपि तस्मान् मुक्तः परिभ्रामितश् चक्र-अङ्कं विवरं नाम प्रदेशम् अनुधावति | तस्मिंश् च प्रदेशे सहस्र-अराणि चक्राणि प्रादुर्-भवन्ति वज्र-नाभीनि तीक्ष्ण-ज्वालानि शीघ्र-भ्रमाणि तस्य सह-गमनाद् एव तानि चक्राणि शरीरं प्राप्य भ्रमन्ति | पे ||
SK
प्रत्य्-एकं सर्व-अङ्गानि प्रमथ्नन्तो दहन्ति पाद-तले च + अस्य शङ्कुभिर् भिद्येते | एवं मक्कोटक-पर्वते | माक्कोटकैः प्राणि-जातिभिः स-अन्तर्-वहिः-परम-अणुशः प्रभक्ष्यते | भुक्तो भुक्तः पुनर् अपि संजायते सु-कुमारतरः | सु-कुमारतया भूयो * अप्य् आधिकतरां वेदनाम् अनुभवति | भुक्त-भुक्तस्य प्रभूततरम् एव + अस्य त्वङ्-मांसं प्रादुर्-भवति | तस्य प्राण-अतिपात-कृत-उपचितस्य तत्-फलं भवति ||
SK
अ-दत्त-आदान-विपाकम् आह | स एष दुष्कृत-कर्म-अन्त-चारी आलात-चक्र-निर्माण-गन्धर्व-नगर-मृग-तृष्णिका-सदृशं महद् अर्थ-जातं पश्यति रत्न-वस्त्र-धन-धान्य-निकर-भूतं | तस्य + एवं लोभ-अभिभूतस्य कर्मणा मोहितस्य + एवं भवति | मम + इदम् इति | स एवं मोहितः पाप-कारी प्रज्वलित-अङ्गार-कर्षूर् लङ्घयित्वा तद्-द्रविणम् अनुधावति | स कर्म-कृतैर् यम-पुरुषैर् गृह्यते शस्त्र-जाल-मध्य-गतः सर्व-अङ्ग-प्रत्य्-अङ्गशः पाट्यते विशस्यते दह्यते * अस्थ्य्-अवशेषः क्रियते | न च + अस्य + अन्-आदि-काल-प्रवृत्तः स लोभस् ताम् अप्य् अवस्थां गतस्य परिहीयतए इति ||
SK
काम-मिथ्या-आचारम् अधिकृत्य + आह | एष स पाप-कर्ता तस्माच् * छस्त्र-सङ्कटान् मुक्तः कथम्-अप्य् अङ्गार-कर्षूर् लङ्घयित्वा कर्मणा भ्रामितः प्रदेशम् अन्यं प्रपद्यते | वितथ-दर्शनं नाम तत्र कर्म-कृतां स्त्रियं पश्यति या तेन पूर्वं नष्ट-स्मृतिना दृष्टा | दृष्ट्वा च + अन्-आदि-काल-अभ्यस्तो राग-अग्निर् उत्पद्यते | स तेन धावति येन ता स्त्रियः | ताश् च + अयो-मय्यो नार्यः कर्म-कृताः | ताभिर् असौ गृह्यते | गृहीत्वा च + ओष्ठात् प्रभृति तथा भुज्यते यथा + अस्य सर्षप-फल-मात्र-प्रमाणम् अपि न + अवशिष्टं | तस्मिञ् शरीरे भवति | पुनर् अपि संभवति | पुनर् अपि भुज्यते | स कटुकां खरां वेदनाम् अनुभवंस् तस्माद् राग-अग्नेर् न निवर्तते | येन ता स्त्रियस् तेन भूयः सः संधावति | न च + अस्य तत्-पीडा तथा बाधते यथा राग-अग्निः | अथ ता स्त्रियो भूयो वज्र-मय-अयो-मय-प्रज्वलित-गात्रास् तं मनुष्यम् आदाय ज्वाला-माला-आकुल-सर्व-शरीरास् तं नारकेयं सिक्ता-मुष्टि-वद् भिन्दन्ति | पुनर् अपि संभवति + इति पूर्व-वत् || पे ||
SK
स्त्रियो मूलम् अपायस्य धन-नाशस्य सर्वथा | स्त्री-विधेया नरा ये तु कुतस् तेषां भवेत् सुखम् || पे ||
SK
यावत् | स्त्री विनाशो विनाशानाम् इह लोके परत्र च | तस्मात् स्त्रियो विवर्ज्याः स्युर् यदि + इच्छेत् सुखम् आत्मन इति ||
SK
मृषा-वादम् अधिकत्य + आह | स तैर् यम-पुरुषैर् गृह्यते गृहीत्वा च तन्-मुखं विदारयन्ति तस्माज् जिह्वाम् अपकर्षयन्ति | सा च जिह्वा कर्म-वशात् पञ्च-योजन-शत-प्रमाणा भवति | तस्य मृषा-वादस्य बलेन तस्याश् च सह-निर्गमन-काले ते यम-पुरुषा भूमाव् आनाहयन्ति प्रदीप्त-अयो-मय्यां | कर्म-कृतं च हल-सहस्रं प्रादुर्-भवति प्रदीप्त-अग्र-संयुक्तं बलवद्भिर् बलीवर्दैस् तद् अस्य + अन्तर्-गतं जिह्वायां वहति | तत्र पूय-रुधिर-कृमि-श्राविण्यो नद्यः प्रवहन्ति || पे ||
SK
सा च जिह्वा तथा सु-कुमारा यथा देवानाम् अक्षि ||
SK
यावत् स वेदनातस् तनति क्रन्दति विक्रोशति न च + अस्य तद्-दुःखं कश्-चिद् अपनयति + इति विस्तरः | तस्य + एवं प्रचण्डाम् वेदनाम् अनुभवतो * अन्-एकानि वर्ष-शत-सहस्राणि सा च जिह्वा कृष्यते | सा कथञ्-चित् तस्य नारकस्य मुखे प्रविशति | स भय-विह्वल-वदनो येन वा तेन वा निःपलायते * अङ्गार-कर्षूषु दह्यमानो निमज्जन् | तस्य + एवं दुःख-आर्त्तस्य + अ-शरणस्य + अ-परायणस्य पुनर् अपि यम-पुरुषाः प्रादुर्-भवन्ति मुद्गर-असि-पाणयः | ते तं पुरुषं मस्तकात् प्रभृति यावत् पादौ चूर्णयन्ति + इत्य् आदि ||
SK
पैशुन्य-विपाकस् तु यथा + एव मृषा-वादस्य त्रीणि योजन-शतानि जिह्वा + इति विशेषस् तु | तां यम-पुरुषा निस्त्रिंशान् आदाय प्रदीप्त-धारान् जिह्वां निकृन्तन्ति | जम्बुकैश् च + अन्य्समिन् प्रदेशे भक्ष्यते | परम-कटुकां वेदनां प्रतिवेदयते स क्रन्दति विक्रोशत्य् अ-व्यक्त-अक्षरं जिह्वा-विरहित इत्य् आदि ||
SK
पारुष्य-विपाकम् आह | ते तां जिह्वाम् आस्यं विदार्य गृह्णन्ति | गृहीत्वा निशित-धारैः शस्त्रैश् छित्त्वा तस्य भूय एव खादनीय-अर्थेन मुखे प्रक्षिपन्ति | स च जिघन्सा-अर्दितः क्षुत्-क्षाम-वदनः स्व-रुधिर-लाला-परिस्रुतां ताम् एव स्व-जिह्वां भक्षयति | सा च जिह्वा छिन्ना पुनर् अपि संजायते कर्म-वशात् | अथ स भूमौ वेदना-आर्त्तः परिवर्तते विचेष्टते क्रन्दते | तस्य + एवं वेदना-आर्त्तस्य परिवृत्त-नयन-तारकस्य दुष्ख-आर्त्तस्य दीनस्य + अ-सहायस्य + एकाकिनः स्व-कृतम् उपभुञ्जानस्य यम-पुरुषा अनुशासनी-गाथां भाषन्ते ||
SK
जिह्वा-धनोर् विनिर्मुक्तस् तीक्ष्णो वाग् विशिखस् त्वया | पारुष्यम् इति यद् दृष्टं तस्य + एतत् फलम् आगतम् ||
SK
इति विस्तरः ||
SK
संभिन्न-प्रलाप-विपाकम् आह ||
SK
तस्य तत् प्रज्वलितं ताम्र-द्रव-लोहितं जिह्वां दहति | जिह्वां दग्ध्वा कण्ठं दहति | कण्ठं दग्ध्वा हृदयं दहति हृदयं दग्ध्वा + अन्त्राणि दहति | तान्य् अपि दग्ध्वा पक्व-आशयं दहति | पक्व-आशयम् अपि दग्ध्वा + अधो-भागेन निर्गच्छति ||
SK
यम-पुरुषा गाथाम् आहुः | पूर्व-उत्तर-अ-बद्ध-पदं निर्-अर्थकम् अ-संगतम् | अ-बद्धं यत् त्वया प्रोक्तं तस्य + एतत् फलम् आगतं ||
SK
या न [दोउब्त्fउल्] सत्यवती नित्यं न च + अध्ययन-तत्-परा | न सा जिह्वा बुधैर् दृष्टा केवलं मांस-खण्डिका | इति विस्तरः ||
SK
अभिध्या-विपाकम् आह | अथ पश्यति रिक्तं तुच्छम् अ-सारकं कर्म-कृतं बहु-द्रविणं पर-परिगृहीतं तस्य कर्म-चोदित-व्यामोहितस्य + एवं भवति | मम + इदं स्याद् इति | ततः स नारकस् तेन + एव धावति येन तद् द्रव्यं | तस्य + अभिध्या-आख्य-मानसस्य + अ-कुशलस्य + आसेवित-भावित-बहुली-कृतस्य तत्-फलं यद् असौ नरके विपरीतं पश्यति | तस्य + एवं पश्यतो * अभिध्या-बहुलस्य हस्ते शस्त्रं प्रादुर्-भवति स तेन धावति | तेषाम् अप्य् अन्येषां नारकाणां हस्ते शस्त्राणि प्रादुर्-भवन्ति | स तैः सह शस्त्रेण युध्यते यावत् तथा कर्त्यते यथा सर्षप-फल-मात्रम् अपि न भवति मांसम् अस्य शरीरे तथा + अस्थि-कङ्काल-अवशेषः क्रियते || पे ||
SK
परेषां सम्प ... मम स्याद् इति चिन्तितं | तस्य + अभिध्या-समुत्थस्य विषस्य फलम् आगतम् इति ||
SK
व्यापाद-फलम् आह | कर्म-मयाः सिंह-व्याघ्र-सर्पाः क्रोध-अभिभूताः पुरतस् तिष्ठन्ते | एतेभ्यो भय-भीतो येन वा तेन वा निःपलायते | स कथं शक्नोति पलायितुम् अ-शुभस्य कर्मणः | स तैर् गृह्यते | गृहीत्वा च पूर्वं तावन् मस्तकाद् भुज्यते यावत् पार्श्वतः सर्पैर् विष-दंष्ट्रैः संदश्य संदश्य भक्ष्यते | व्याघ्रैर् अपि पृष्ठतो भक्ष्यते | पादाव् अपि वह्निना दाह्येते स यम-पुरुषैर् दूराद् इषुभिर् विध्यतए इति विस्तरः ||
SK
मिथ्या-दृष्टि-फलं पुनर् अ-परिमितं | पाठस् तु संक्षिप्यते | शस्त्र-वर्ष-तोमर-वज्र-वर्ष-अशनि-पाषाण-वर्षे हन्यते | एकादशभिर् अर्च्चि-स्कन्धैः क्षुत्-पिपास-अग्निना च सुख-निर्गतेन निर्-अन्तरं दह्यतए इति ||
SK
काम-मूलाश् च सर्व-अन्-अर्था इति तेभ्य एव + उद्वेजितव्यं | यथा + अत्र + एव + आह | अस्त्य् अग्नि-कुण्डो नाम नरकः | तत्र कतरेण कर्मणा सत्वा उपपद्यन्ते | येन अ-श्रमणेन श्रमण-प्रतिज्ञेन मातृ-ग्रामस्य नृत्त-गीतस्य + आभरणानां वा शब्दं श्रुत्वा + अ-योनिशेन मनस्-कारेण + आक्षिप्त-बुद्धिना तच् * छ्रुत्वा हसित-लडित-क्रीडितान्य् अ-शुचिम् उक्तं || पे ||
SK
तत्र ते नारका अयो-वर्षेण सर्व-अङ्ग-प्रत्य्-अङ्गशश् चूर्ण्यन्ते * अङ्गार-वर्षेण च पच्यन्ते दह्यन्तए इत्य् आदि | एवं पौराण-काम-आस्वादन-स्मरणात् पदुमो नाम नरकः पठ्यते स्वप्न-अन्त-भूत-स्मरणाच् च | तत्र ते नारकाः कुम्भिषु पच्यन्ते | ते द्रोणिष्व् अयो-मयैर् मुषलैर् हन्यन्तए इति विस्तरः ||
SK
एवम् अप्सरसः प्रार्थनया ब्रह्म-चर्य-परिणामनान् महा-पदुमो नाम नरक उक्तः | तत्र क्षार-नदी-तरङ्गिनी नाम प्रवहति | तस्यां नद्यां यान्य् अस्थीनि ते पाषाणाः | यच् * छेवालं ते केशाः | यः पङ्कस् तन् मांसं | या आपः तत् कथितं ताम्रं | ये मत्स्यास् ते नारका इत्य् आदि ||
SK
एवं पुरुषस्य पुरुषेण सह मैथुन-विप्रतिपत्तेः अ-प्रमेया अ-कारणा विशेषाः पठ्यन्ते | एवं शिशुभिः सह विप्रतिपत्तेः क्षार-नद्याम् उह्यमानान् दारकान् पश्यति | ते तं विलपन्ति | स तां नदीम् अवगाहते | तेषु बालकेषु तीव्र-स्नेह-प्रतिबन्ध-शोक-दुष्ख-वेगात् | एवं गो-वडव-अज-एडक-आदिषु प्रकृति-स-आवद्यः काम-मिथ्या-आचारः खरतर-विपाकः पठ्यते | तासाम् एव गो-वडव-आदीनां तप्त-अयो-मयीनां अ-कुशल-निर्मितानां योनि-मार्गेण स तिर्यक्-काम-सेवी प्रविशति | स तासाम् उदरे प्रदीप्त-अङ्गार-निकर-परिपूर्णे स्विद्यते पच्यते बहूनि वर्ष-शत-सहस्राणि + इति विस्तरेण द्रष्टव्यं ||
SK
एवम् अन्य-नाशितास्व् अपि भिक्षुणीषु विप्रतिपन्नानां महा-नरक-पातनाः पठ्यन्ते | एवं स्व-स्त्रीष्व् अप्य् अ-योनि-मार्गेण गच्छतः | एवं प्रसह्य + आनीतास्व् अपि पर-स्त्रीषु लब्धासु च कन्यासु | एवम् उपवास-स्थासु एवं गुरूणां पत्नीषु ज्ञाति-शब्द-मानितासु च विप्रतिपत्तेः तीव्राश् च + अ-परिमाणाश् च महा-नरक-पातनाः पठ्यन्ते ||
SK
सप्त-मैथुन-संयुक्त-सूत्रे * अप्य् आह | इह ब्राह्मण एकत्यो ब्रह्म-चारिणम् आत्मानं प्रतिजाणीते | स न + इह + एव मातृ-ग्रामेण सार्द्धं द्वयं समापद्यते * अपि तु मातृ-ग्रामं चक्षुषा रूपं निध्यायन् पश्यति | स तदा स्वादयति अध्यवस्यति अध्यवसाय तिष्ठति | अयम् उच्यते ब्राह्मण ब्रह्म-चारी संयुक्तो मैथुनेन धर्मेण न विसंयुक्तः | अ-परिशुद्धं ब्रह्म-चर्यं चरति ||
SK
एवं मातृ-ग्रामेण सार्द्धं संक्रीडतः संकिलिकिलायमानस्य आस्वादयतः अ-परिशुद्धं ब्रह्म-चर्यम् उक्तं | एवं मातृ-ग्राम-अपस्थानम् आस्वादयतः | एवं तिरः-कुड्य-गतस्य तिरो-दुष्य-गतस्य वा मातृ-ग्रामस्य नृत्त-गीत-आदि-शब्दम् आस्वादयतो मैथुन-संयोगम् इत्य् उक्तम् | एवं पञ्च-काम-गुण-समर्पितं परम् अवलोक्य + आस्वादयतः ||
SK
एवं देव-आदि-स्थानेषु ब्रह्म-चर्य-परिणामनात् संयुक्तो मैथुनेन धर्मेण न विसंयुक्त इति ||
SK
यतश् च + एते कामा एवं स्मरण-प्रार्थना-विषयम् अपि गता एवम् अन्-अर्थ-करास् तेन + एव काम-अपवादक-सूत्रे * अभिहितम् | निवारय भिक्षो चित्तं कामेभ्यः | स-भयश् च + एष मार्गः स-प्रतिभयः स-कण्टकः स-गहनः उन्मार्गः कु-मार्गो वेदना-पथः | अ-सत्-पुरुष-संसेवितः | न + एष मार्गः सत्-पुरुष-संसेवितः | न त्वम् एवं चिन्तयसि | कस्मात् अल्प-आस्वादाः कामा उक्ता भगवता | बहु-दुष्ख-बहु-उपद्रवा बहु-उपायासा | आदीनवो * अत्र भूयान् | रोगो भिक्षवः कामा गण्डः शल्य-मद्य-मद्य-मूलम् आमिष-वडिसं मृत्युर् अ-नित्याः कामास् तुच्छाः मृषा-मोष-धर्मिणः स्वप्न-उपमाः कामाः | किम् अप्य् एते बाल-उल्लापनाः || पे ||
SK
यथा मृगाणां बन्धनाय कूटं द्वि-जानां बन्धनाय जालं | मत्स्यानां बन्धनाय कुपिनं | मर्कटानां बन्धनाय लेपः पतङ्-गानां बन्धनाय + अग्नि-स्कन्धः | एवं कामाः || पे ||
SK
काम-पर्येषणां चरतो दीर्घ-रात्रं सिंहानां मुखे परिवर्तितस्य + अन्तो न प्रज्ञायते | यावद् गो-घातकानां गव-आसनानां मुखे परिवर्तितस्य + अन्तो न प्रज्ञायते | यावन् मण्डूकानां सतां सर्पाणां मुखे परिवर्तितस्य + अन्तो न प्रज्ञायते | दीर्घ-रात्रं कामान् प्रतिसेवमानानां चोरा इति कृत्वा गृहीतानां शिरश्-छिन्नानाम् अन्तो न प्रज्ञायते | पारदारिकाः पारिपन्थिका ग्राम-घातका जन-पद-घातका यावद् ग्रन्थि-मोचका इति कृत्वा गृहीतानां शिरश्-छिन्नानाम् अन्तो न प्रज्ञायते | दुष्खं तीव्रं खरं कटुकम् अनुभूतं रुधिरं प्रस्यन्दितं प्रघरितं यच् चतुर्षु महा-समुद्रेषु + उदकात् प्रभूततरं || पे ||
SK
कायो ह्य् अयं बह्व्-आदीनवः | अस्थि-संघातः स्नायु-संबद्धो मांसेन + अनुलिप्तः चर्मणा पर्यवनद्धः छव्या प्रतिच्छन्नः छिद्र-विच्छिद्रः कृमि-संघ-निषेवितः सत्वानाम् अन्-अर्थकः क्लेश-कर्मणां वस्तु ||
SK
अस्मिन् काये विविधा आबाधा उत्पद्यन्ते | तद् यथा चक्षू-रोगः श्रोत्र-रोगो यावद् अर्शांसि पिटको भगन्-दरः || पे ||
SK
कायिकाः सन्तापाः कायिकं दुष्खं | कायस्य जीर्णता भग्नता कुब्जता | खालित्यं पालित्यं वलि-प्रचुरता | इन्द्रियाणां पारिपाकः परिभेदः संस्काराणां पुराणी-भावो जर्जरी-भावः | यावन् न + अर्हस्य् एवम् उद्घरन्तं प्रघरन्तं जुगुप्सनीयं कायं प्रतिषेवितुं || पे ||
SK
का तव भिक्षो काम-अ-शान्तिः | कश् च त्वां प्रलोभयति | कथं च त्वं प्राहितो मूर्छितो * अध्यवसितो * अध्यवसानम् आपन्नः | यदा + अहं परिनिर्वृतो भवामि | सद्-धर्मश् च + अन्तर्-हितो भवति | त्वं च कामान् प्रतिसेव्य विनिपात-गतो भविष्यसि | कदा जरा-मरणाद् आत्मानं परिमोचयिष्यसि ||
SK
अलं भिक्षो निवारय चित्तं कामेभ्यः | अ-कालः काम-पर्येषणायाः | कालो * अयं धर्म-पर्येषणाया इति ||
SK
उग्रदत्त-परिपृच्छायाम् अप्य् आह | तेन काम-मिथ्या-आचारात् प्रतिविरतेन भवितव्यं स्व-दार-संतुष्टेन पर-दार-अन्-अभिलाषिणा + आरक्त-नेत्र-प्रेक्षिणा निर्विण्ण-मनसा | एक-अन्त-दुष्खाः कामा | इत्य् अभीक्ष्णं मनसि-कार-प्रयुक्तेन | यदा + अप्य् अस्य स्व-दारेषु काम-वितर्क उत्पद्येत | तदा + अपि तेन स्व-दारेष्व् अ-शुभ-अनुदर्शिना उत्त्रस्त-मनसा | क्लेश-वशतया कामाः प्रतिसेवितव्याः | न त्व् अध्यवसान-विनिबद्धेन नित्यम् अ-नित्य-अन्-आत्म-अ-शुचि-संज्ञिना | एवं च + अनेन स्मृतिर् उपस्थाप्या | तथा + अहं करिष्यामि यथा संकल्पैर् अपि कामान् न परिभोक्ष्ये | कः पुनर् वादो द्वि-इन्द्रिय-समापत्त्या वा + अनङ्ग-विज्ञप्त्या वा + इति ||
SK
पुनर् अत्र + एव + आह | बोधि-सत्वेन स्व-भार्याया अन्तिके तिस्रः संज्ञा उत्पादयितव्याः | कतमास् तिस्रः | रति-क्रीडा-सहायिका + एषा न + एषा पर-लोक-सहायिका | अन्न-पान-सहायिका + एषा न + एषा कर्म-विपाक-अनुभवन-सहायिका | सुख-सहायिका + एषा न + एषा दुष्ख-सहायिका ||
SK
यावद् अ-परास् तिस्रः | शील-अन्तराय-संज्ञा ध्यान-अन्तराय-संज्ञा प्रज्ञा-अन्तराय-संज्ञा ||
SK
अ-परास् तिस्रः | चोर-संज्ञा बधक-संज्ञा नरक-पाल-संज्ञा इति ||
SK
चन्द्रोत्तरा-दारिका-परिपृच्छायाम् अप्य् उक्तं | अथ चन्द्रोत्तरा-दारिका समनन्तरं प्रधावन्तं तं महान्तं जन-कायं दृष्ट्वा तस्यां वेलायां विहायस-अन्तरीक्षे ताल-मात्रम् अभ्युद्गम्य स्थित्वा च तं महान्तं जन-कायं गाथाभिर् अध्यभाषत ||
SK
कायं मम + ईक्षध्वम् इमं मनो-ज्ञं सुवर्ण-वर्णं ज्वलन-प्रकाशम् | न रक्त-चित्तस्य हि मानुषस्य प्रज्ञायते शोभनकं शरीरम् ||
SK
ये एत्व् अग्नि-कर्षू-उपम-संप्रदीप्तान् त्यजन्ति कामान् विषयेष्व् अ-गृद्धाः | षड्-इन्द्रियैः संवर-संवृताश् च ये ब्रह्म-चर्यं च चरन्ति शुभम् ||
SK
दृष्ट्वा च दारान् हि परस्य ये वै कुर्वन्ति माता-भगिनी + इति संज्ञां | प्रासादिकास् ते हि सु-दर्शनीया भवन्ति नित्यं परमं मनो-ज्ञाः ||
SK
स्फुटाम् इमां वेत्थ पुरीं समन्ताद् यो रोम-कूपान् मम च + अति-गन्धः | न राग-चित्तेन मया + अर्जितो * अयम् फलं तु दानस्य दमस्य च + इदम् ||
SK
न मे समुत्पद्यति राग-चित्तं मा वीत-रागासु जनीष्व रागं | साक्षी मम + अयं पुरतो मुनि-इन्द्रः सत्यं यथा वेद्मि न जातु मिथ्या ||
SK
यूयं च पूर्वं पितरो मम + आस | अहं च युष्माकम् अभूज् जनित्री | भ्राता स्वसा च + अपि पिता बभूव को राग-चित्तं जनयेज् जनन्यां ||
SK
प्रघातिताः प्राक् च मम + अथ सर्वे | अहं विशस्ता च पुरा भवद्भिः | सर्वे अ-मित्रा वधकाः परस्य | कथं तु वा जायति राग-चित्तम् ||
SK
न रूपवन्तो हि भवन्ति रागात् | न रक्त-चित्ताः सु-गतिं व्रजन्ति | न निर्वृतिं यान्ति च रक्त-चित्ता रागो हि तस्मात् परिवर्जनीयः ||
SK
कामस्य हेतोर् निरयं पतन्ति | प्रेतास् तिरश्चो * अथ भवन्ति रागात् | कुम्भ-अण्ड-यक्षा असुराः पिशाचा भवन्ति ये राग-परीत्त-चित्ताः ||
SK
काणाश् च खञ्जाश् च वि-जिह्वकाश् च | वि-रूपकाश् च + एव भवन्ति रागात् | भवन्ति नाना-विध-दोष-भाजाश् चरन्ति ये काम-चरीं जघन्याम् ||
SK
यच् चक्र-वर्तित्वम् अवाप्नुवन्ति | भवन्ति शक्रास् त्रि-दश-ईश्वराश् च | ब्रह्माण ईशा [दोउब्त्fउल्] वश-वर्त्तिनश् च तद् ब्रह्म-चर्यं विपुलं चरित्वा ||
SK
जात्य्-अन्ध-भावा वधिरा वि-संज्ञा | श्व-शूकर-उष्ट्राः खर-वानराश् च | हस्त्य्-अश्व-गो-व्याघ्र-पतङ्-ग-मक्षाः भवन्ति नित्यं खलु काम-लोलाः ||
SK
क्षिति-ईश्वराश् च + एव भवन्त्य् उदग्राः सु-श्रेष्ठिनो वै गृह-पत्य्-अमात्याः | सुख-सौमनस्येन च यान्ति वृद्धिं ये ब्रह्म-चर्यं विपुलं चरन्ति ||
SK
कभल्लि-तापान् अथ धूम-गारान् बन्धांस् तथा ताडन-तर्ज्जनांश् च | छेदं शिरः कर्ण-कर-अक्षि-नासाः | पादस्य च + अर्च्छन्ति हि काम-दासा | इति ||
SK
उदयन-वत्स-राज-परिपृच्छायां च विवर्णिताः कामाः ||
SK
दृष्ट्वा व्रणं धावति मक्षिका यथा | दृष्ट्वा + अ-शुचिं धावति गर्दभो यथा | श्वानश् च शूना इव मांस-कारणात् | तथा + एव धावन्त्य् अ-बुधाः स्त्रिये रताः ||
SK
अ-विद्या-पिधिता बालास् तमः-स्कन्धने आवृताः | स्त्रीषु सक्तास् तथा मूढा अ-मेध्य इव वायसाः ||
SK
मारस्य गो-चरो ह्य् एष प्रस्थिता येन दुर्-गतिः | आस्वाद-संज्ञिनो गृद्धा मीट-स्थाने यथा क्रिमिः ||
SK
कीट-कुम्भो यथा चित्रो यत्र यत्र + एव दृश्यते | पूर्णो मूत्र-पुरीषेण दृतिर् वा वात-पूरिता ||
SK
सिङ्घाणक-कफ-अलालाः [दोउब्त्fउल्] श्लेष्मणि क्लिन्न-मस्तकाः | दौर्गन्ध्यं स्रवते कायाद् बालानां तद् यथा मधु ||
SK
अस्थि-पूर्णं मुख-द्वारं मांस-चर्म-आदिभिश् चितं | गण्ड-भूतो ह्य् अयं कायः कुत्सितो ह्य् आम-गन्धिकः ||
SK
नाना-प्राणिभिः संपूर्णो मुख-गण्डो यथा भवेत् | एवम् एव ह्य् अयं कायो विष्ठा-आद्य्-अ-शुचि-भाजनम् ||
SK
अन्त्य-अन्त्र-आकुलं ह्य् उदरं स-यकृत्-फुप्फुष-आकुलम् | वृक्कौ विलोहितं पित्तं मस्त-लुङ्ग-अस्थि-मज्जकम् ||
SK
अशीतिं क्रिमि-कुल-सहस्राणि यानि तिष्ठन्ति अन्तरे | अह बाला न पश्यन्ति मोह-जालेन आवृताः ||
SK
नव-व्रण-मुखैः प्रस्रवन्त्य् अ-शुचिं पूति-गन्धिकम् | बाला निमित्तं गृह्णन्ति वचने दर्शने * अपि च ||
SK
उक्ताः पश्चान् न जानन्ति यो देशः सर्व-कुत्सितः | उच्चार-गो-चरा बालाः खेट-सिङ्घाण-भोजिनः ||
SK
जुगुप्सनीये रज्यन्ते व्रणं दृष्ट्वा + इव मक्षिकाः | कक्षास्व् आघरते स्वेदो गन्धो वायति कुत्सितः ||
SK
कुर्वन्ति दुष्-कृतं कर्म येन गच्छन्ति दुर्-गतिम् | हीनान् कामान् निषेवन्तो हीनान् धर्मान् निषेव्य च ||
SK
गत्वा अवीचिं दुष्-प्रज्ञाः दुष्खां विन्दन्ति वेदनां | उच्चार इव दुर्-गन्धाः स्त्रियो बुद्धैः प्रकीर्तिताः ||
SK
तस्माद् * धीनस्य हीनाभिः स्त्रीभिर् भवति सङ्गतिः | उच्चार-भस्त्रां यो गृह्य-बाल-आवासं निगच्छति ||
SK
यादृशं कुरुते कर्म तादृशं लभते फलम् ||
SK
तथा + अत्र + एव + आह | तद् एवं-रूपैर् दुष्ख-पर्येषितैर् भोगैः स्व-जीविक-अर्थम् उपसंहृतैर् न प्रभवन्ति श्रमण-ब्राह्मणेभ्यो दानं दातुं कृपण-वनीपक-याचकेभ्यो * अ-वशी-कृताः स्त्रीभिः स्त्री-निर्जिताः स्त्री-निगृहीताः स्त्री-दासाः | तेन + एव स्त्री-प्रेम्णा तस्या एव पोषणाय न शक्नुवन्ति दानं दातुं शीलं च समादातुं | स तत्र रक्तः समानः स्त्री-परिभाषितानि सहते तर्जन-अवलोकन-निर्भर्त्सनाम् अपि सहते | स मातृ-ग्रामेण तर्जितः पुरुषः संसीदति विषीदति सुखं च + अस्या अवलोकयति | काम-हेतोः काम-निदानं च वश-गता भवति | अयं महा-राज काम-लोलुपस्य पुरुषस्य + उच्चार-सुख-परमस्य + अ-शुचौ रतस्य + अ-संप्रजन्य-आचारिणो दोषः || पे ||
SK
श्रुत्वा + ईदृशं तु संवेगं न तेषां भवति निर्वृतिः | भूयः कुर्वन्ति संसर्गं स्त्रीभिः सार्द्धं प्रमोदिताः ||
SK
दुष्ख-कामान् निषेवन्ते भाषन्ते च जुगुप्सिताः ||
SK
धर्मं श्रुत्वा + अर्थ-संमूढाः भाषन्ते च सु-भाषितं | स्त्री-गतं च + अस्य तच् चित्तं विडालस्य + इव मूषिके ||
SK
मुहूर्तं भवति संवेगः श्रुत्वा + अथ जिन-भाषितं | पुनः कुप्यति रागो * अस्य विष-हालाहलं यथा ||
SK
सूकरस्य + इव उत्त्रासो मुहूर्तम् अनुवर्त्तते | दृष्ट्वा वै अथ उच्चारं गृद्धतां जनयत्य् असौ ||
SK
एवं सुख-अर्थिनो बालाः प्रहाय जिन-शासनं | हीनान् कामान् निषेवन्ते येन गच्छन्ति दुर्-गतिं ||
SK
रक्ताः प्रमत्ताः कामेषु कृत्वा कर्म सु-पापकम् | शीलवत्तां विसंवाद्य पश्चाद् गच्छन्ति दुर्-गतिम् ||
SK
यस्य + ईदृशं धर्म-नयं विदित्वा | स्त्रीषु प्रसादः पुरुषस्य न + उ भवेत् | विशोधितः स्वर्ग-पथो * अस्य नित्यम् | न दुर्-लभा तस्य वर-अग्र-बोधिः ||
SK
लब्ध्वा क्षणं हि स प्रज्ञो धर्मं श्रुत्वा च ईदृशम् | सर्वान् कामान् विवर्ज्य + इह प्रव्रज्यां निष्क्रमेद् बुध | इति ||
SK
प्रशान्त-विनिश्चय-प्रातिहार्य-सूत्रे * अप्य् अ-परो * अन्-अर्थ उक्तः ||
SK
यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा जाम्बू-द्वीपकान् सर्व-सत्वाञ् जीविताद् व्यपरोप्य सर्वस्वं हरेत् | यो वा + अन्यो मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता बोधि-सत्वस्य + एक-कुशल-चित्तस्य + अन्तरायं कुर्याद् अन्तशस् तिर्यग्-योनि-गतस्य + अप्य् एक-आलोप-दान-सह-गतस्य कुशल-मूलस्य + अन्तरायं कुर्याद् अयं ततो * अ-संख्येयतरं पापं प्रसवति | तत् कस्य हेतोः | बुद्ध-उत्पाद-संजनकानां स-कुशल-मूलानाम् अन्तरायः स्थितो भवति | यः कश्-चिन् मञ्जुश्रीः पर-कुलेषु बोधि-सत्वस्य + ईर्ष्या-मात्सर्यं कुर्यात् तस्य तस्मिन् समये ततो निदानं [दोउब्त्fउल्] त्रीणि भयानि प्रतिकाङ्क्षितव्यानि | कतमानि त्रीणि | नरक-उपपत्ति-भयं जात्य्-अन्ध-भयं प्रत्यन्त-जन्म-उपपत्ति-भयं च + इति ||
SK
पुनर् आह ||
SK
यस् तस्य कुर्यात् पुरुषो * अ-प्रियं वा भूतं ह्य् अ-भूतं च वदेद् अ-वर्णं | परुषं वदेत् क्रुद्ध-मना + अपि यस् तं क्षोभं च कुर्यात् पुनर् अस्य यो * अपि ||
SK
आत्म-भावेन महता नरकेषु स दुर्-मतिः | उत्पद्यते विपन्न-आत्मा दुष्खां स वेत्ति वेदनां ||
SK
योजनानां शतं पञ्च जायते * अस्य समुच्छ्रयः | कोटी-परिवृतः शश्वद् भक्ष्यते च शुना भृशम् ||
SK
पञ्च-मूर्द्ध-सहस्राणि भवन्त्य् अस्य + अपवादिनः | जिह्वानां च शताः पञ्च भवन्त्य् एक-एक-मूर्द्धनि ||
SK
एक-एकस्यां च जिह्वायां शताः पञ्च ज्वलन्-मुखाः | लाङ्गलानां च वहन्त्य् अस्य वाचं भाषित्व पापिकाम् ||
SK
प्रतापने च पच्यन्ते तीव्र-दुष्ख-अनल-आकुले | उत्पीडां बोधि-सत्वानां ये कुर्वन्ति अ-सङ्गताः ||
SK
तिर्यग्-योनिः स-नरका न तेषां भोति दुर्-लभा | कल्प-कोटि-सहस्राणि शतानि नियुतानि च ||
SK
ततः च्युता घोर-विषा भोन्ति सर्पाः सु-दारुणाः | क्षुत्-पिपास-अभिभूताश् च कुर्वते कर्म दारुणम् ||
SK
लब्ध्वा + अपि भोजन-पानं तृप्तिं न + एव + अधिगच्छति | ततश् च्युतो मनुष्येषु स ... यद्य् उपपद्यते ||
SK
जात्य्-अन्धो भोति दुर्-मेधा दुष्ट-चेता अ-संवृतः | आर्यानार-अधिकां [दोउब्त्fउल्] वाचम् उक्त्वा दुर्-भाषितं नरः ||
SK
मनुष्येभ्यश् च्युतश् च + अपि पुनर् गच्छति दुर्-गतिम् | कल्प-कोटि-सहस्रेषु जात-बुद्धं न पश्यति ||
SK
पुनर् अत्र + एव + आह | यावन्ति मञ्जुश्रीर् बोधि-सत्वो बोधि-सत्वस्य + अन्तिके प्रतिघ-चित्तान्य् उत्पादयत्य् अवमन्यना-चित्तानि वा | तावतः कल्पान् सन्नाहः सन्नद्धव्यो वस्तव्यं मया महा-नरकेष्व् इति | न मञ्जुश्रीर् बोधि-सत्वो * अन्येन कर्मणा शक्यो विनिपातयितुम् अन्यत्र बोधि-सत्व-अपवादाद् एव | तद् यथा मञ्जुश्रीर् वज्र-मणि-रत्नं न + अन्येन काष्ठेन लोष्ठेन वा शक्यं भेत्तुम् अन्यत्र वज्राद् | एवम् एव मञ्जुश्रीर् बोधि-सत्वो * अन्येन कर्मणा न शक्यो विनिपातयितुम् अन्यत्र बोधि-सत्व-अपवादाद् एव + इति ||
SK
||
SK
आर्य-श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे * अप्य् आह ||
SK
यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा दशसु दिक्षु सर्व-लोक-धातुषु सर्व-सत्व-अन्ध-कारेषु बन्धने क्रुद्धः प्रवेशयेत् | यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा बोधि-सत्वे क्रुद्धः पराङ्-मुखं तिष्ठेत् | न + एनं दुर्-आत्मानं पश्यामि + इत्य् अयं ततो * अ-संख्येयतरं पापं प्रवसति ||
SK
अत्र + एव + उक्तं | यः कश्-चिन् मञ्जुश्रीः सर्व-जाम्बू-द्वीपकानां सत्वानां सर्वस्वं हरेद् यश् च + अन्यो यादृशं तादृशं बोधि-सत्वं गर्हेद् ततो * अ-संख्येयतरं पापं प्रसवति ||
SK
अत्र + एव + उक्तं | यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा गङ्गा-नदी-वालिका-समान् स्तूपान् विनिपातयेद् दहेत वा | यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा महा-यान-अधिमुक्तस्य बोधि-सत्वस्य व्यापाद-खिल-क्रोध-चित्तम् उत्पाद्य क्रोशयेत् परिभाषयेद् अयं ततो * अ-संख्येयतरं पापं प्रसवति | तत् कस्माद् * धेतोः | बोधि-सत्व-निर्याता हि बुद्धा भगवन्तो बुद्ध-निर्याताश् च स्तूपाः सर्व-सुख-उपधानानि च सर्व-देव-निकायाश् च | बोधि-सत्वम् अ-सत्-कृत्य सर्व-बुद्धा अ-सत्-कृता भवन्ति | बोधि-सत्वं सत्-कृत्य सर्व-बुद्धाः सत्-कृता भवन्ति | सर्व-बुद्धान् अन्-उत्तरया पूजया पूजयितु-कामेन बोधि-सत्वाः पूजयितव्याः ||
SK
एतत् पूजा-विपाकश् च प्रशान्त-विनिश्चय-प्रातिहार्य-सूत्रे * अभिहितः ||
SK
यस् त्व् एषां कुरुते रक्षां धार्मिकीं धर्म-वादिनां | हित्वा सु-दुर्-गतीः सर्वाः शक्रो भवति देव-राट् ||
SK
ब्रह्मा + अपि यामस् तुषितो वश-वर्त्ती पुनः पुनः | मनुष्येषु + उपपन्नश् च चक्र-वर्त्ती स जायते ||
SK
श्रेष्ठी गृह-पतिश् च + अपि भवत्य् आढ्यो महा-धनः | प्रज्ञा-स्मृतिभ्यां संयुक्तः सुखितो निर्-उपद्रव | इति ||
SK
अथ कतमं बोधि-सत्वम् अधिकृत्य + इयं कार-अपकार-चिन्ता | पृथग्-जनम् एव ||
SK
यथा + उक्तं श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे | यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा सर्व-लोक-धातु-रजो-उपमानां सत्वानां दिवसे दिवसे दिव्यं शत-रसम् आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गा-नदी-वालिका-समान् कल्प-समुद्रान् दानं दद्यात् | यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा एकस्य + उपासकस्य + अन्-अन्य-शास्तुर् दश-कुशल-कर्म-पथ-समन्वागतस्य + एक-दिवसम् एकम् आहारं दद्याद् बुद्धस्य + अयं भगवतः शिक्षायां शिक्षित इति समारोपं कृत्वा | अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति ||
SK
यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा सर्व-लोक-धातु-रजो-उपमानां दश-कुशल-कर्म-पथ-समन्वागतानां उपासकानां दिवसे दिवसे दिव्यं शत-रसम् आहारं दद्याद् दिव्यानि च वस्त्राण्य् एवं ददङ् गङ्गा-नदी-वालिका-समान् कल्पान् दद्यात् | यश् च + अन्यः कुल-पुत्रो वा कुल-दुहिता वा एकस्य भिक्षोर् एक-दिवसम् आहारं दद्याद् | अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति + इति ||
SK
नियत-अ-नियत-अवतार-मुद्रा-सूत्रे * अप्य् आह | सचेन् मञ्जुश्रीर् दशसु दिक्षु सर्व-लोक-धातुषु सर्व-सत्वा उत्पाटित-अक्षा भवेयुः परिकल्पम् उपादाय | अथ कश्-चिद् एव कुल-पुत्रो वा कुल-दुहिता वा तेषां सर्व-सत्वानां मैत्र-चित्तस् तान्य् अक्षीणि जनयेत् परिकल्पम् उपादाय | यो वा + अन्यो मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा महा-यान-अधिमुक्तं बोधि-सत्वं प्रसन्न-चित्तः पश्येद् | अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति ||
SK
यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा दशसु दिक्षु सर्व-सत्वान् बन्धन-आगार-प्रविविष्टान् बन्धन-आगारान् मोचयित्वा चक्र-वर्ति-सुखे स्थापयेद् ब्रह्मत्व-सुखे वा | यो वा + अन्यो मञ्जुश्रीः कुल-पुत्रो वा कुल-दुहिता वा महा-यान-अधिमुक्तस्य प्रसन्न-चित्तो दर्शन-अभिलाषी भवेद् वर्णं च + अस्य + उदाहरेद् | अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति + इति ||
SK
तथा क्षितिगर्भ-सूत्रे * अप्य् आह | यः पुनर् भदन्त भगवन् क्षत्रिय-कल्याणो वा + अमात्य-कल्याणो वा भट्ट-कल्याणो वा श्रमण-कल्याणो वा ब्राह्मण-कल्याणो वा परं रक्षत्य् आत्मानं रक्षति पर-लोकं रक्षति | भगवच्-छासने पात्र-भूतम् अ-पात्र-भूतं वा यावन् मुण्डं काषाय-खण्ड-प्रावृतं परिरक्षति श्रोष्यति पूजयिष्यति श्रावक-कथां एवं प्रत्य्-एक-बुद्ध-कथां श्रोष्यति पूजयिष्यति | महा-यान-कथां च महा-यान-संप्रस्थितान् पुद्गलान् शीलवतो गुण-आढ्यान् युक्त-मुक्त-प्रतिभानान् तैः सार्द्धं रमति क्रीडति परिपृच्छति परिप्रश्नयति तेषां श्रोतव्यं कर्तव्यं मन्यते || पे ||
SK
कियन्तं भगवन् पापं क्षपयिष्यति ||
SK
भगवान् आह ||
SK
तद् यथा + अपि नाम कुल-पुत्र कश्-चित् पुरुष उत्पद्यते | यः सर्वं जम्बू-द्वीपं सप्त-रत्न-परिपूर्णं कृत्वा तिष्ठतां बुद्धानां भगवतां दानं दद्यात् तथा + एव मध्य-अह्न-समये तथा + एव साय-अह्न-समये दानं दद्याद् अनेन पर्यायेण वर्ष-शत-सहस्रम् एवं-रूपं दानं दद्यात् | तत् किं मन्यसे कुल-पुत्र + अपि नु स पुरुषो बहु पुण्यं प्रसवेत् ||
SK
आह ||
SK
बहु भदन्त भगवन् स पुरुषः पुण्य-स्कन्धं प्रसवेद् अ-प्रमेयम् अ-संख्येयं | न तस्य पुण्य-स्कन्धस्य केन-चिच् * छक्यं प्रमाणम् उद्ग्रहीतुं अन्यत्र तथा-गतेन ||
SK
भगवान् आह ||
SK
यस् तु कुल-पुत्र क्षत्रिय-कल्याणो वा यावद् यथा पूर्व + उक्तं | पे | स बहुतरं पुण्यं प्रसवति | यावद् विपुलतरम् अ-प्रमाणतरम् अ-संख्येयतरं पुण्य-स्कन्धं प्रसवति | यो मम पश्चिमायां पञ्च-शत्यां वर्तमानायां सद्-धर्म-नेत्री रक्षति स रक्षत्य् आत्मानं | रक्षति परांश् च रक्षति पर-लोकं रक्षति मम शासनं श्रावकान् पात्र-भूतान् अ-पात्र-भूतान् वा यावन् मुण्डान् काषाय-वस्त्र-प्रावृतान् अपि रक्षति | न विहेठयति | यावत् स्वकं राष्ट्रं पर-राष्ट्रं च वर्धयति | अपायान् क्षपयति | सुर-आलयं च प्रापयति चिरं च + आयुः पालयति | स्व-क्लेशांश् च पर-क्लेशांश् च झाषयति | संबोधि-मार्गं षट्-पारमिताश् च + उपस्तम्भयति | सर्व-अपायाञ् जहाति | न चिरं संसारे संसरति | नित्यं कल्याण-मित्रैर् बुद्धैश् च भगवद्भिर् बोधि-सत्वैश् च महा-सत्वैश् च सार्द्धं समवधान-गतो भवति | सततं कल्याण-मित्र-अ-विरहितो न चिरेण यथा-अभिप्रायेषु बुद्ध-क्षेत्रेष्व् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंभोत्स्यते ||
SK
अथ तावद् एव सर्व-देव-इन्द्राः स-परिवारा | यावत् पिशाच-इन्द्राः स-परिवारा उत्थाय + आसनाद् येन भगवान् तेन + अञ्जलिं प्रणम्य + एवम् आहुः | ये ते भदन्त भगवन् एतर्ह्य् अन्-आगते * अध्वनि यावत् पश्चिमायां पञ्च-शत्यां क्षत्रिय-कल्याणा भवन्ति यावद् गह-पति-कल्याणाः | पे | एवं सद्-धर्म-रक्षका एवं त्रि-रत्न-वंश-ज्वालयितारः | पे | वयम् अपि सर्वे स-परिवारास् तं क्षत्रिय-कल्याणं यावद् गह-पति-कल्याणं दशभिर् आकारै रक्षिष्यामः परिपालयिष्यामो वर्धयिष्यामः ||
SK
कतमैर् दशभिः | आयुश् च + अस्य वर्धयिष्यामः आयुर्-अन्तरायं च धर्मेण निवारयिष्यामः | आरोग्यं च परिवारं च धन-स्कन्धं च उपभोग-परिभोगं च + ऐश्वर्यं च यशः कल्याण-मित्राणि प्रज्ञा-सम्पदं च वर्धापयिष्यामः | एभिर् दशभिर् इति विस्तरः ||
SK
एवम् अ-भूमि-प्रविष्टेष्व् एव + अयं विपाक-विस्तरो द्रष्टव्यः ||
SK
अवलोकना-सूत्रे * अपि | संबोधौ चित्तम् उत्पाद्य हित-अर्थं सर्व-प्राणिनां | यः स्तूपं लोक-नाथस्य करोति + इह प्रदक्षिणं ||
SK
इत्य् आद्य् अनुशंस-विस्तरम् उक्त्वा + आह | यस् त्व् एषां बुद्ध-पुत्राणां नरः कुर्वीत अ-प्रियं | देवान् मनुष्यान् वर्जित्वा नरकं तस्य गो-चरं ||
SK
इति विस्तरः पूर्व-वत् ||
SK
न च + अत्र विशेष-हेतुः कश्-चिद् उपदर्शयितुं शक्यतए इत्य् अलं विकल्पेन ||
SK
कर्म-आवरण-विशुद्धि-सूत्रे * अप्य् आवरण-शब्देन + अन्-अर्थ उक्तः | आवरणं मञ्जुश्रीर् उच्यते राग आवरणं द्वेष आवरणं मोह आवरणं दानम् आवरणं शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञा आवरणं | पे | तत् कस्य हेतोः बाल-पृथग्-जना मञ्जुश्रीर् दानं ददाना मत्सरिणाम् अन्तिके * अ-प्रसादं कुर्वन्ति | ते तेन + अ-प्रसादेन प्रतिघ-चित्तम् उत्पादयन्ति | प्रतिघ-खिल-दोषेण महा-नरकेषु + उपपद्यन्ते | शीलं रक्षन्तो दुः-शीलान् कुत्सयन्ति परिभाषन्ति | ते तेषाम् अ-वर्णं च भाषन्ति | ते तेषां दोषं श्रुत्वा बहु-जनस्य + अ-प्रसादं कुर्वन्ति | ते तेन + अ-प्रसादेन दुर्-गति-गामिनो भवन्ति | ते क्षान्तिं भावयन्तः क्षान्ति-मदेन + आत्मानम् उत्कर्षयन्ति प्रमाद्यन्ति | वयं क्षान्ति-वादिनः | इमे पुनर् अन्ये व्यापन्न-चित्ताः | तेषां क्षान्ति-मदन-मत्तानां प्रमाद-मूलकानि दुःखान्य् उत्पद्यन्ते | ते वीर्यम् आरभमाणा आत्मानम् उत्कर्षयन्ति परान् पंसयन्ति | कुसीदा इमे भिक्षवो विहरन्त्य् अन्-अभियुक्ताः श्रद्धा-देयं परिभुञ्जानाः | न + एते * अर्हन्ति पानीय-स्थालकम् अपि | ते तेन वीर्य-आरम्भेण + आत्मानम् उत्कर्षयन्ति परं च पंसयन्ति | तान् अहं बालान् इति वदामि | ते ध्यानं समापद्यमानास् तत्र ध्यान-समापत्तौ स्पृहाम् उत्पादयन्ति | तेषाम् एवं भवति | वयं समाधि-विहारिण | इमे * अन्ये भिक्षवो विक्षिप्त-चित्ता विहरन्ति | कुतस् ते बुद्धा भविष्यन्ति + इति विस्तरः ||
SK
सर्व-धर्म-अ-प्रवृत्ति-निर्देशे * अप्य् आह | बोधि-सत्व आपत्त्या चोदयति | दूरी-भवति बोधिः | कर्म-आवरणं च परिगृह्णाति | ईर्यया चोदयति | दूरी-भवति बोधिः | ईर्या-पथेन चोदयति दूरी-भवति बोधिः | सचेद् बोधि-सत्वस्य + अन्तिके हीन-संज्ञाम् उत्पादयति आत्मनि च + उदार-संज्ञां क्षिणोत्य् आत्मानं कर्म-आवरणं च गृह्णाति | इह बोधि-सत्वेन बोधि-सत्वम् अववदता + अनुशासता वा शास्तृ-संज्ञाम् उपस्थाप्य + अववदितव्यो * अनुशासितव्यः | बोधि-सत्वेन बोधि-सत्वस्य + अन्तिके न परिभव-चित्तम् उत्पादयितव्यं | सचेद् अस्य + अ-परित्यक्ता बोधिः | न देव-पुत्र बोधि-सत्वः क्व-चिद् एव कुशल-मूलानि समुच्छिनत्ति | यथा + अ-द्वितीय-बोधि-सत्वम् आगम्य + इति | अन्-उत्पादित-बोधि-चित्ते * अपि तावद् बोधिर् भव्ये सत्वे * अवमन्यना प्रतिषिद्धा | किं पुनर् उदित-बोधि-चित्ते ||
SK
यथा + उक्तं शूरङ्गम-समाधि-सूत्रे | तत्र दृढमते कतमद् अन्-उत्पादित-बोधि-चित्त-व्याकरणं ||
SK
इह दृढमते स पुद्गलः पाञ्चगतिके संसारे उपपन्नो भवति | यदि वा निरयेषु यदि वा तिर्यग्-योनौ यदि वा यम-लोके यदि वा देवेषु यदि वा मनुष्येषु | स च पुद्गलस् तीक्ष्ण-इन्द्रियो भवति | उदार-अधिमुक्तिकः | तम् एनं तथा-गतः प्रजानाति | अयं पुरुष-पुद्गलो यावद् इयद्भिः कल्प-कोटी-नियुत-शत-सहस्रैर् अन्-उत्तरायां सम्यक्-संबोधौ चित्तम् उत्पादयिष्यति || पे ||
SK
इयद्भिश् च अ-संख्येय-कल्प-शत-सहस्रैर् बोधिम् अभिसंभोत्स्यते || पे ||
SK
इदं दृढमते उच्यते | बोधि-सत्वस्य + अन्-उत्पादित-बोधि-चित्त-व्याकरणं | अथ खल्व् आयुष्मान् महा-काश्यपो भगवन्तम् एतद् अवोचत् | अद्य + अग्रेण + अस्माभिर् भगवन् सर्व-सत्वानाम् अन्तिके शास्तृ-संज्ञा + उत्पादयितव्या | तत् कस्य हेतोः | न ह्य् अस्माकम् एतज् ज्ञानं प्रवर्त्तते | कतमस्य बोधि-सत्वस्य बोधि-परिपाचकानि + इन्द्रियाणि संविद्यन्ते | कतमस्य न संविद्यन्ते | ततो वयं भगवन्न् अ-जानानास् तथा-रूपेषु हीन-संज्ञाम् उत्पादयेम | तेन वयं क्षण्येम ||
SK
भगवान् आह | साधु साधु काश्यप सु-भाषिता ते इयं वाक् | इदं च मया काश्यप + अर्थ-वशं सम्पश्यमानेन युष्माकम् एवं धर्मो देशितो | मा भिक्षवः पुद्गलेन पुद्गलं प्रविचेतव्यं | यच् * छीघ्रं क्षण्यति हि भिक्षवः पुद्गलः पुद्गलं प्रविचिन्वन् | अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः | एतेन काश्यप निर्देशेन बोधि-सत्वेन वा श्रावकेण वा सर्व-सत्वानाम् अन्तिके शास्तृ-संज्ञा + उत्पादयितव्या | मा + अत्र कश्-चिद् बोधि-सत्व-यानिकः पुद्गलो भवेत् तेन तत्र + आत्मा रक्षितव्य इति | यस्य तु नियतम् एव बोधि-प्राप्ति-चिह्नम् अस्ति तत्र सुतराम् अवमन्यना रक्षितव्या ||
SK
यथा + उक्तम् आर्य-सद्-धर्म-पुण्डरीक-सूत्रे | इष्टा-मयान् मृत्तिक-संचितान् वा प्रीताश् च कुर्वन्ति जिनस्य स्तूपान् | उद्दिश्य वा पांशु-कर-आशयो * अपि अटवीषु दुर्-गेषु च कारयन्ति ||
SK
सिक्ता-मया वा पुन कूट कृत्वा ये के-चिद् उद्दिश्य जिनान स्तूपान् | कुमारकाः क्रीडिषु तत्र तत्र | ते सर्वि बोधाय अभूषि लाभिनः ||
SK
यावत् ||
SK
ये चित्र-भित्तीषु करोन्ति विग्रहं | परिपूर्ण-गात्रांश् * छत-पुण्य-लक्षणान् ||
SK
लिखेत् स्वयं च + अपि लिखापयेद् वा | ते सर्वि बोधाय अभूषि लाभिनः ||
SK
ये च + अपि के-चित् तर्हि शिक्षमाणाः | क्रीडा-रतिं च + अपि विनोदयन्तः ||
SK
नखेन काष्ठेन कृतासि विग्रहान् | भित्तीषु पुरुषा + अथ कुमारका वा ||
SK
सर्वे च ते बोधि अभूषि लाभिनः || पे ||
SK
वादापिता झल्लरियो * अपि ये ही | जल-मण्डका वा + अप्य् अथ मण्डका वा | सु-गतानम् उद्दिश्यथ पूजना-अर्थं गीतं च गीतं मधुरं मनो-ज्ञं | सर्वे च ते बुद्ध अभूषि लोके ||
SK
कृत्वा च यां बहु-विध-धातु-पूजां | किम् अल्प-कम्पी सु-गतान धातुषु | एकं पि वादायिय वाद्य-भाण्डम् | पुष्पेण च + एकेन हि पूजयित्वा | अनुपूर्व द्रक्ष्यन्ति हि बुद्ध-कोट्यः | यैश् च + अञ्जलिस् तत्र कृता + अपि स्तूपे | परिपूर्ण एका-तल-शक्तिका वा | ओनामितं शीर्ष भवेन् मुहूर्त्तं | ओनामितं काय तथा + एक-वारं | नमो * अस्तु बुद्धाय कृत-एक-वारं | ये ही तदा धातु-धारेषु तेषु | विक्षिप्त-चित्तैर् अपि यथा + एक-वारं | ते सर्वि प्राप्ता इमम् अग्र-बोधिम् | सु-गतान तेषां तद तस्मि काले | परिनिर्वृतानाम् अथ तिष्ठतां वा | ये धर्म-नाम + अपि शृणूषु सत्वास् | ते सर्वि बोधाय अभूषि लाभिन | इति ||
SK
महा-करुणा-सूत्रे * अप्य् उक्तं ||
SK
तद् यथा वाडिशिकेन महत्य् उदक-सरसि मत्स्य-आकर्षण-अर्थं स-आमिषं वडिशं प्रक्षिप्तं भवेत् समनन्तर-प्रक्षिप्तं च मत्स्येन निगीर्णं भवेत् | किं च + अपि स मत्स्य उदक-सरसि भ्रमत्य् अथ च पुनर् वद्ध एव स वक्तव्यो दृढेन सूत्रेण स्थल-गत-दण्ड-सु-निबद्धेन | यत् स वाडिशिक आगत्य तेन सूत्र-लाघवेन जानाति | गृहीतो मत्स्य इति | तम् एनं सूत्राद् गृहीत्वा स्थल-गतं करोति यथा-काम-करणाय परिभोगाय | एवम् एव ये सत्वा बुद्धेषु भगवत्सु चित्तं प्रसाद्य कुशल-मूलम् अवरोपयन्ति | अन्तश एक-चित्त-प्रसादम् अपि | किं च + अपि ते सत्वा दुष्-कृतेन कर्म-आवरणेन + अ-क्षणेषु + उपपन्ना भवन्त्य् अथ च बुद्धा भगवन्तस् तान् सत्वान् बौद्धेन ज्ञानेन संग्रह-वस्तु-सूत्रेण गृहीत्वा संसार-उदक-सरस उद्धृत्य निर्वाण-स्थले स्थापयन्ति + इति ||
SK
तस्माद् एषु शास्तृ-संज्ञा कार्या | वन्दमानाश् च मनसा वन्दितव्याः | भवति हि नवको * अपि बोधि-चित्त-बलाद् वन्द्यो | यथा मेघेन द्रमिडेन महा-बोधि-सत्वेन + अपि सता नवक आर्य-सुधनः सर्व-शरीरेण प्रणिपत्य वन्दितः | नियत-अर्थं च + इदं | यथा + अध्याशय-संचोदन-आदिषु सर्व-बोधि-सत्व-यानिक-पुद्गल-नमस्-कारो * अनुज्ञातव्यः | सर्व-शब्देन + आत्मनो * अपि ग्रहणात् | कथम् एकत्र वन्द्य वन्दकत्वं न विरुध्यते | परस्-परं वन्द्यत्वेन + एव + आलम्बनात् | अत एव + अन्-आस्वादनाद् अ-पुण्य-भावः | किं च बुद्धानाम् अप्य् एवम् इष्यते | मा भूद् अन्-अवस्था | एकस्य च + अ-न्यूनता + इति ||
SK
आर्य-सर्व-धर्म-वैपुल्य-संग्रह-सूत्रे * अप्य् अन्-अर्थ उक्तः | सूक्ष्मं हि मञ्जुश्रीः सद्-धर्म-प्रतिक्षेप-कर्म-आवारणं | यो हि कश्-चिन् मञ्जुश्रीस् तथा-गत-भाषित-धर्मे कस्मिंश्-चिच् * छोभन-संज्ञां करोति | क्व-चिद् अ-शोभन-संज्ञां स सद्-धर्मं प्रतिक्षिपति | तेन सद्-धर्मं प्रतिक्षिपता तथा-गतो * अभ्याख्यातो भवति | धर्मः प्रतिक्षिप्तो भवति | संघो * अपवादितो भवति | य एवं वदति + इदं युक्तम् इदम् अ-युक्तम् इति स सद्-धर्मं प्रतिक्षिपति | न मया पृथक् कश्-चिद् धर्मः श्रावक-यान-संप्रयुक्तः प्रत्य्-एक-बुद्ध-यान-संप्रयुक्तो महा-यान-संप्रयुक्तो देशितः | तत् ते मोह-पुरुषा इमं मम धर्मं नाना-करिष्यन्ति | इदं श्रावकाणां देशितम् इदं प्रत्य्-एक-बुद्धानाम् इदं बोधि-सत्वानाम् इति | स नानात्व-संज्ञया सद्-धर्मं प्रतिक्षिपति | इयं बोधि-सत्वस्य शिक्षा | इयं बोधि-सत्वस्य + अ-शिक्षा + इति सद्-धर्मं प्रतिक्षिपति | धर्म-भाणकस्य + अस्ति प्रतिभानं न + अस्ति प्रतिभानम् इति सद्-धर्मं प्रतिक्षिपति | धर्मं धर्मतया कथयति सद्-धर्मं प्रतिक्षिपति | अपगते बुद्ध-उत्पादे न + अस्ति धारणी-प्रतिलम्भ इति धर्मं प्रतिक्षिपति | न + अस्ति धर्म-भाणकस्य धारणी-प्रतिलम्भ इति धर्मं प्रतिक्षिपति | धर्म-भाणकस्य चर्यां दूषयति धर्मं प्रतिक्षिपति | धर्म-भाणको न प्रतिपत्ति-संपन्न इति धर्मं प्रतिक्षिपति | प्रमादेन + एनं चोदयति सद्-धर्मं प्रतिक्षिपति | ईर्या-पथेन चोदयति सद्-धर्मं प्रतिक्षिपति | अक्षर-चर्यया शील-विपत्त्या चोदयति धर्मं प्रतिक्षिपति | प्रतिभानेन संपादयति + इति धर्मं प्रतिक्षिपति | आलोको * अस्य धर्माणां न सु-विदित इति धर्मं प्रतिक्षिपति | मन्त्रेण मन्त्रम् अ-बुध्यमानः प्रतिवदति + इति धर्मं प्रतिक्षिपति | अक्षर-संज्ञ्या तथा-गत-शासनं न + अवगाहत इति धर्मं प्रतिक्षिपति | सूत्रेण सूत्रं विरोधयति + इति धर्मं प्रतिक्षिपति | गाथया गाथां विरोधयति + इति धर्मं प्रतिक्षिपति | अक्षर-संज्ञया कञ्-चिद् अधिमुक्तं करोति कञ्-चिन् न करोति + इति धर्मं प्रतिक्षिपति | धर्म-भणकस्य + अर्थान्य् अ-कथाम् अभिनामयति + इति धर्मं प्रतिक्षिपति | वि-चक्षुः कर्म + अस्य करोति धर्मं प्रतिक्षिपति | संलापयन् वदति + इति धर्मं प्रतिक्षिपति | इह + अस्य + अस्ति चर्या इह + अस्य न + अस्ति चर्या + इति धर्मं प्रतिक्षिपति | इदं सु-उक्तम् इदम् अ-सु-उक्तम् इति धर्मं प्रतिक्षिपति | अनेन न + अस्ति चर्या + इति धर्मं प्रतिक्षिपति | अनेन बुद्ध-वचन-समय उक्तो न + अनेन बुद्ध-वचन-समय उक्त इति धर्मं प्रतिक्षिपति इति हि मञ्जुश्रीर् यावत् किञ्-चिद् विलोपयति तावद् धर्मं प्रतिक्षिपति | धर्म-भाणकस्य + इदं रूपम् इति चिन्तयति वदति भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा | सर्वः स सद्-धर्मं प्रतिक्षिपति + इत्य् आदि ||
SK
अत्र + एव च + उक्तं | यस्य कस्य-चित् कुल-पुत्र तथा-गतस्य परिनिर्वृतस्य धर्मः प्रतिभाति यथा + अधिमुक्तानां सत्वानां देशयितुं | तस्यां च पर्षदि यद्य् एक-सत्वस्य + अपि एक-रोम-हर्षो भवेद् एक-अश्रु-पातो वा सर्वः स तथा-गत-अनुभावेन | तत्र मोह-पुरुषा अ-बोधि-सत्वा बोधि-सत्व-प्रतिज्ञा बोधि-सत्व-दूषका धर्म-स्तैन्य-कुहका एवं वक्ष्यन्ति धर्म-उपदेशकेभ्यः | किम् एते | न बुध्यन्तए इति || पे ||
SK
ये बोधि-सत्वेष्व् अवमन्यनां कुर्वन्ति | न + अहं तेषां पर्यन्त-कृतं निरयं संवदामि | तत् कस्य हेतोः | यो बोधि-सत्वो धर्म-भाणकम् अपवादति बुद्धं स विगर्हति धर्मं स प्रतिक्षिपति संघं स जुगुप्सति | बुद्धे सो * अ-गौरवो यो धर्म-भाणके * अ-गौरवः | बुद्धं स न द्रष्टु-कामो यो धर्म-भाणकम् अ-द्रष्टु-कामः | बुद्धस्य सो * अ-वर्णं भाषते यो धर्म-भाणकस्य + अ-वर्णं भाषते | बुद्धस् तेन परित्यक्तो भवति यः प्रथम-चित्त-उत्पादिके * अपि बोधि-सत्वे प्रतिघ-चित्तं करोति + इति || पे ||
SK
यो * अप्य् अयं मैत्रेय षट्-पारमिता-समुदागमो बोधि-सत्वानां संबोधाय तं ते मोह-पुरुषा एवं वक्ष्यन्ति | प्रज्ञा-पारमितायाम् एव बोधि-सत्वेन शिक्षितव्यं | किं शेषाभिः पारमिताभिः | ते * अन्यां पारमितां दूषयितव्यां मन्यन्ते | तत् किं मन्यसे * अजित दुष्-प्रज्ञः स काशि-राजा + अभूद् येन कपोत-अर्थं श्येनाय स्व-मांसानि दत्तानि | मैत्रेय आह | न + उ हि + इदं भगवन् | भगवान् आह | यानि मया मैत्रेय बोधि-सत्व-चर्यां चरता षट्-पारमिता-प्रतिसंयुक्तानि कुशल-मूलान्य् उपचितानि अपकृतं नु तैः कुशल-मूलैः ||
SK
मैत्रेय आह | न + उ हि + इदं भगवन् ||
SK
भगवान् आह | त्वं तावद् अजित षष्टिं कल्पान् दान-पारमितायां षष्टिं कल्पान् शील-पारमितायां षष्टिं कल्पान् क्षान्ति-पारमितायां षष्टिं कल्पान् वीर्य-पारमितायां षष्टिं कल्पान् ध्यान-पारमितायां षष्टिं कल्पान् प्रज्ञा-पारमितायां समुदागतः | तत् ते मोह-पुरुषा एवं वक्ष्यन्ति | एक-नयेन + एव बोधिर् यद् उत शून्यता-नयेन + इति | ते चर्यासु परिशुद्धा भविष्यन्ति + इत्य् आदि ||
SK
इति शिक्षा-समुच्चये चतुर्थः परिच्छेदः ||
SK
[V. अनर्थविवर्जन]
SK
शील-पारमितायाम् अन्-अर्थ-वर्जनं पञ्चमः परिच्छेदः ||
SK
उक्तः संक्षेपतो * अन्-अर्थः | तस्य विवर्जनं यथा + अध्यशय-संचोदन-सूत्रे | एवं-विध-अन्-अर्थ-श्रवण-भय-भीरुकैः आदि-कर्मिक-बोधि-सत्वैः समादानानि यथा गृहीतानि तथा कार्यं | एवं हि तैर् उक्तं | एते वयं भगवन्न् अद्य + अग्रेण तथा-गतस्य पुरतः | एवं समादानं कुर्मः | सचेद् वयं भगवन्न् अद्य + अग्रेण बोधि-सत्व-यानिकं पुद्गलं गृहिणं वा प्रव्रजितं वा + आपत्त्या चोदयिष्यामो भूतेन वा + अ-भूतेन वा विसंवादितो * अस्माभिस् तथा-गतो * अर्हन् सम्यक्-संबुद्धो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण बोधि-सत्व-यानिकं पुद्गलम् अवमन्येम + अ-वर्णं च + अस्य भाषेम विसंवादितो * अस्माभिस् तथा-गतो भवेद् अर्हन् सम्यक्-संबुद्धः | सचेद् वयं भगवन्न् अद्य + अग्रेण बोधि-सत्व-यानिकं पुद्गलं गृहिणं वा प्रव्रजितं वा पञ्चभिः काम-गुणैः क्रीडन्तं परिचारयन्तं दष्ट्वा + अ-प्रसादं कुर्याम विलेखं वा चित्तस्य + उत्पादयेम + अ-गौरवं वा + उत्पादयेम न च तत्र शास्तृ-संज्ञाम् उत्पादयेम | विसंवादितो * अस्माभिस् तथा-गतो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण मित्र-कुल-भिक्षाद् अ-कुल-निदानं बोधि-सत्व-यानिकानां पुद्गलानां काय-पीडां चित्त-पीडां वा कुर्याम विसंवादितो * अस्माभिस् तथा-गतो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण बोधि-सत्व-यानिकं पुद्गलं दृष्ट्वा एकेन + अप्य् अ-मनो-ज्ञ-वचनेन + आभाषेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण त्रिस्-कृत्वो रात्रेः त्रिस्-कृत्वो दिवस्य बोधि-सत्व-यानिकं पुद्गलं न नमस्येम विसंवादितो * अस्माभिस् तथा-गतो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण + अस्य व्रत-समादानस्य कृतशो राज्य-प्रतिलम्भं वा धन-प्रतिलम्भं वा काय-जीवितं वा न परित्यजेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण श्रावक-यानिकं वा प्रत्य्-एक-बुद्ध-यानिकं वा पुद्गलम् अवमन्येम | वयं विशिष्टतरा न + एते इति विसंवादितो * अस्माभिस् तथा-गतो भवेत् |सचेद् वयं भगवन् नीच-चित्ताश् चण्डाल-सदृश-चित्ता न विहरेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण + आत्मानम् उत्कर्षयेम परं वा पंसयेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण व्यापाद-विग्रह-भयाद् योजनं वा योजन-शतं वा न पलायेम ईरिताः समाना विसंवादितो * अस्माभिस् तथा-गतो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण शीलवन्तम् आत्मानं प्रतिजानीम बहु-श्रुतं वा धुत-गुणिनं वा + अन्यतर-अन्यतरेण वा गुणेन + आत्मानम् उद्भावयेम विसंवादितो * अस्माभिस् तथा-गतो भवेत् | सचेद् वयं भगवन्न् अद्य + अग्रेण प्रतिच्छन्न-कल्याणा विवृत-पापा न विहरेम विसंवादितो * अस्माभिस् तथा-गतो भवेद् अर्हन् सम्यक्-संबुद्धः || पे ||
SK
तत्र भगवान् मैत्रेयं बोधि-सत्वं महा-सत्वम् आमन्त्रयते स्म | कर्म-आवरणं मैत्रेय क्षपयितु-कामेन कुल-पुत्रेण वा कुल-दुहित्रा वा एवं समादानं कर्तव्यं यथा एभिः कुल-पुत्रैः कृतम् इति ||
SK
सर्व-धर्म-अ-प्रवृत्ति-निर्देशे * अप्य् आह ||
SK
तृष्-कृत्व रात्रिं दिवसं तथा + एव | स बोधि-सत्वान् प्रणमेत मूर्ध्ना | तेषां न किञ्-चित् स्खलितं गवेषेत् | चरेत चर्यां हि सदा यथा-इष्टम् ||
SK
पश्येद् यदा काम-गुणै रमन्तं | न तस्य किञ्-चित् स्खलितं गवेषेत् | गुणैर् अन्-अन्तां वर बोधि-चर्यां | एषो * अपि कालेन हितां स्पृशेत ||
SK
युक्त्या + अनुपूर्व्या क्रियया + अनुपूर्व्या | भवेज् जिनो न + एव हि एक-वाचा | बहु-कल्प-कोट्यो नियुतानि च + एष | सन्नाह-संप्रस्थितनान्य् अ-भावी ||
SK
अत्र + एव + आह | ये कुल-पुत्र + एवं-रूपेण कर्म-आवरणेन + अन्-अर्थिकाः | तैर् न द्वितीयस्य बोधि-सत्वस्य सर्व-चर्यासु विप्रतिपत्तव्यं | सर्वाः क्रियास् तस्य विमोक्तव्याः | एवं चित्तम् उत्पादयितव्यं | न + अहं पर-चित्तं जाने दुर्-विज्ञेया सत्व-चर्या | इदं च खलु कुल-पुत्र + अर्थ-वशं संपश्यंस् तथा-गत एवं धर्मं देशयति | न पुद्गलेन पुद्गलः प्रमातव्यः ||
SK
अहं वा पुद्गलं प्रमिणुयां यो वा स्यान् मादृशः ||
SK
यः कुल-पुत्र + आत्मानं रक्षितु-कामस् तेन न कस्य-चिच् चर्या विवेचयितव्या | न परेषां विकुट्टना कर्तव्या | अयम् ईदृशो * अयम् ईदृश इति | बुद्ध-धर्म-अभियुक्तेन भवितव्यं रात्रिं दिवं धर्म-पलिगुद्ध-मानसेन + इति ||
SK
तथा क्षितिगर्भ-सूत्रे * अपि कथितं | अथ तावद् एव बहूनि शत-सहस्राणि विद्वांसः सत्वा उत्थाय + आसनाद् येन भगवांस् तेन + अञ्जलिं प्रणम्य + एवम् आहुः | वयं भदन्त भगवतः पुरत एवं प्रणिधानं कुर्मः यावच् चिरं वयं भदन्त भगवन् संसारे संसरेम तावन् मात्र प्रतिलब्ध-क्षान्ति-कामा राज-स्थानं प्रतिलभेम | मा + अमात्य-स्थानं | मा नगर-ज्येष्ठ-स्थानं | मा ग्राम-ज्येष्ठ-स्थानं | मा निगम-ज्येष्ठ-स्थानं | मा पुरोहित-ज्येष्ठ-स्थानं मा भट्ट-ज्येष्ठ-स्थानं | यावन् मा स-अर्थ-वाह-ज्येष्ठ-स्थानं | मा + उपाध्याय-ज्येष्ठ-स्थानं | मा श्रमण-ज्येष्ठ-स्थानं | मा गृह-पति-ज्येष्ठ-स्थानं | मा कुटुम्बि-ज्येष्ठ-स्थानं यावत् सर्वशो वयं मा सत्वानाम् अधिपति-स्थानं प्रतिलभेम यावन् न क्षान्ति-प्रतिलब्धाः स्याम | यतो निदानं वयम् एवं-रूपम् अति-गाढं कर्म बुद्धानां शासनम् आक्षिपेम | इति विस्तरः ||
SK
चन्द्र-प्रदीप-सूत्रे * अप्य् अन्-अर्थ-विवर्जनम् उक्तम् | न + अस्ति पापम् अ-कर्तव्यं कुमारा तेषु भेष्यति | मा तेहि संस्तवं सार्द्धं कुर्याः त्वं कालि पश्चिमे ||
SK
आलपे संलपेय्यासि कुर्यासी तेष्व् अ-गौरवं | आनालीनः सत्-करेय्यास्य् अग्र-बोधयि कारणात् ||
SK
वर्ष-अग्रं परिपृच्छित्वा यस् ते वृद्धतरो भवेत् | कुर्यासि गौरवं तत्र शिरसा पाद-वन्दनैः ||
SK
न तेषां स्खलितं पश्येद् बोधि-मण्डं विपश्यतां | प्रतिघातं न जनयेत् मैत्र-चित्तः सदा भवेत् ||
SK
यद्य् एषां स्खलितं पश्येद् दोषांस् तेषां न कीर्तयेत् | यादृशं काहिति कर्म तादृशं लप्स्यते फलं ||
SK
स्मितेन मुख-चन्द्रेण वृद्धेषु नवकेषु च | पूर्व-आभाषी भवेन् नित्यं हत-मानश् च सर्वतः ||
SK
चीवरैः पिण्ड-पातैश् च कुर्यात् तेषाम् अनुग्रहं | एवं चित्तं प्रदध्यास् त्वं सर्वे भेष्यन्ति नायका | इति ||
SK
यस्य च बोधि-चित्त-उत्पादिके गौरवं प्रसादश् च न + उत्पद्येते | तेन स्व-दुर्-गति-प्रपात-भय-रक्षा-अर्थं दृष्ट-अ-दृष्ट-प्रामोद्य-अनुभवन-अर्थं स्व-चित्त-कलुष-प्रसादन-अर्थं चित्त-कल्यता-चित्त-कर्मण्यता-प्रतिलाभ-अर्थं च यथा + आर्य-गण्ड-व्यूहे बोधि-चित्त-उत्पादिक-गुणा भगवद्-आर्य-मैत्रेयेण + आचार्य-सुधनम् अधिकृत्य + उद्भावितास् तथा भावयितव्याः ||
SK
एष दृष्ट्व जर-व्याधि-पीडितान् प्राणिनो दुष्ख-शतैर् उपद्रुतान् | जन्म-मृत्यु-भय-शोक-तापितान् तेष अर्थि चरते क्र्पा-आशयः ||
SK
दुष्ख-यन्त्र-परिपीडितं जगत् दृष्ट्व पञ्च-गति-चक्र-मण्डले | ज्ञान-वज्र-मयम् एष ते दृढं दुष्ख-यन्त्र-गति-चक्र-भेदनं ||
SK
राग-दोष-तृण-खाणु-कण्टकं दृष्टि-संग-बहु-कक्ष-संकुलम् | सत्व-क्षेत्र-परिशोधन-अर्थिकः प्रज्ञ-लाङ्गल-दृढं गवेषते ||
SK
मोह-विद्य-गहन-आशयं जगत् प्रज्ञ-चक्षु-हत-नष्ट-दैशिकं | तस्य क्षेम दिश-दैशिकः प्रभुः स-अर्थ-वाह जगतो भविष्यति ||
SK
क्षान्ति-धर्म-त्रि-विमोक्ष-वाहनो ज्ञान-खड्ग-रिपु-क्लेश-धर्षकः | शूर-सूत अ-भयस्य दायको दैशको हि जगतो भविष्यति ||
SK
धर्म-नाव समुदानयत्य् अयं ज्ञान-सागर-पथे सु-शिक्षितः | शान्ति-रत्न-वर-द्वीप-नायकः कर्ण-धार त्रि-भव-अर्णवे अयम् ||
SK
ज्ञान-रश्मि-प्रणिधान-मण्डलः सर्व-सत्व-भवन-अवभासकः | धर्म-धातु-गगने समुद्गतो बुद्ध-सूर्य समुदेश्यते अयम् ||
SK
मैत्रि-चन्दन-समाधि-शीतलः सर्व-सत्व-सम-चित्त-सु-प्रभः | शुक्ल-धर्म-परिपूर्ण-मण्डलो बुद्ध-चन्द्र समुदेश्यते अयम् ||
SK
आशये दृढ-तले प्रतिष्ठितो बोधि-चर्य अनुपूर्व उद्गतः | सर्व-धर्म-रतन-आकरो ह्य् अयं ज्ञान-सार-वरो भविष्यति ||
SK
बोधि-चित्त-भुज-ग-इन्द्र-संभवो धर्म-धातु-गगने समुद्गतः | धर्म-मेघ-युगपत्-प्रवर्षणः सर्व-शुक्ल-फल-शस्य-वर्धनः ||
SK
शुद्धि वर्त्ति त्रि-मल-त्तमो * अप्य् अहं मैत्रि-स्नेह-स्मृति-भाजनं दृढम् | बोधि-चित्त-वि-मल-अग्नि-सु-प्रभम् धर्म-दीप समुज्ज्वालयिष्यति ||
SK
बोधि-चित्त-कललः कृपा-अर्बुदो मैत्र-पेशिर् अ-चल-आशयो घनः | बोधि अङ्गम् अनुपूर्व-संभवो बुद्ध-गर्भ अयु संप्रवर्धते ||
SK
पुण्य-गर्भम् अभिवर्द्धयिष्यति प्रज्ञ-गर्भम् अभिशोधयिष्यति | ज्ञान-गर्भ समुदेश्यते अयं यादृशः प्रणिधि-गर्भ-संभवः ||
SK
ईदृशाः करुण-मैत्र-धर्मिताः सत्व-मोचन मती हित-आशयां | दुर्-लभा जगि स्-देव-मानुषे यादृशो * अयु विशुद्ध-मानसः ||
SK
ईदृश-आशय-सु-मूल-संस्थितो ईदृशो दृढ-प्रयोग-वर्द्धितः | ईदृशस् त्रि-भव-छादन-प्रभो ज्ञान-वृक्ष-फल-दः सु-दुर्-लभः ||
SK
एष सर्व-गुण-संभव-अर्थिकः सर्व-धर्म-परिपृच्छन-अर्थिकः | सर्व-संशय-विदारण-अर्थिकः सर्व-मित्र भजते अ-तन्द्रितः ||
SK
एष मार-कलि-क्लेश-सूदनो एष दृष्टि-मल-क्लेश-शोधनः | एष सर्व-जग-मोक्षण-उद्यतो एष ते सद विशेष पण्डितः ||
SK
एष दुर्-गति विशोधयिष्यति स्वर्ग-मार्गम् उपदर्शयिष्यति | मोक्ष-मार्गम् उपनेष्यते जगद् यादृशे गुण-पथे प्रतिष्ठितः ||
SK
एष सर्वत-दुष्ख-मोचको | एष सर्व-गति-सौख्य-दायकः | एष सर्व-भय-पाश-छेदको | भेष्यते भगवती-निसूदन | इति ||
SK
एवम् अनया भावनया + अन्-अर्थ-विवर्जनं सु-करं भवति | तथा + अध्याशय-सञ्चोदन-सूत्रे * अप्य् अन्-अर्थ-विवर्जनम् उक्तं | चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधि-सत्व-यानिकः पुद्गलः पश्चिमायां पञ्चशत्यां सद्-धर्म-विप्रलोपे वर्तमाने * अ-क्षतो * अन्-उपहतः स्वस्तिना परिमोक्ष्यते ||
SK
कतमैश् चतुर्भिः | आत्म-स्खलित-प्रत्यवेक्षणतया | परेषां बोधि-सत्व-यानिकानां पुद्गलानाम् आपत्त्य-चोदनतया | मित्र-कुल-भिक्षाद् अ-कुल-अन्-अवलोकनतया | अ-मनस्क-वचन-प्रतिविरमणतया | एभिर् मैत्रेय चतुर्भिर् इति पूर्व-वत् ||
SK
अ-परैश् चतुर्भिः | कतमैः | अल्प-श्रुत-सत्व-परिवर्जनतया | पर्षद्-अन्-उपादानतया | प्रान्त-शय्या-आसन-निषेवणतया च | आत्म-दम-शमथ-योगम् अनुयुक्ततया च | एभिश् चतुर्भिर् इति विस्तरः ||
SK
पुनर् अत्र + एव + आह | आदि-कर्मिकेण मैत्रेय बोधि-सत्वेन प्रज्ञा-बल-आधान-प्राप्तेन लाभ-सत्-कार-परिवर्जितेन लाभ-सत्-कार-दोष-दर्शिना भवितव्यं || पे ||
SK
संगणिका-आराम-परिवर्जितेन संगणिका-आराम-दोष-दर्शिना भवितव्यं | भाष्य-आराम-परिवर्जितेन भाष्य-आराम-दोष-दर्शिना भवितव्यं | निद्रा-आराम-वर्जितेन निद्रा-आराम-दोष-दर्शिना भवितव्यं | कर्म-आराम-वर्जितेन कर्म-आराम-दोष-दर्शिना भवितव्यं | प्रपञ्च-आराम-वर्जितेन प्रपञ्च-आराम-दोष-दर्शिना भवितव्यं || पे ||
SK
इह मैत्रेय बोधि-सत्वेन महा-सत्वेन राग-संजननो लाभ-सत्-कारः प्रत्यवेक्षितव्यः | स्मृति-विध्वंसन-करो लाभ-सत्-कारः प्रत्यवेक्षितव्यः | लाभ-अ-लाभतया उन्नाम-अवनाम-करो लाभ-सत्-कारः प्रत्यवेक्षितव्यः | मोह-उत्पादनो लाभ-सत्-कारः प्रत्यवेक्षितव्यः | कुल-मात्सर्य-अध्यवसानो लाभ-सत्-कारः प्रत्यवेक्षितव्यः | आत्म-अर्थ-निष्पादनतया शाठ्य-उत्पादनो लाभ-सत्-कारः प्रत्यवेक्षितव्यः | चतुर्-आर्य-वंश-परिवर्जनतया आह्रीक्य-अन्-अपत्राप्य-संजननो लाभ-सत्-कारः प्रत्यवेक्षितव्यः | एवं सर्व-बुद्ध-अन्-अनुज्ञानो लाभ-सत्-कारः प्रत्यवेक्षितव्यः | मान-मद-उत्पादनो लाभ-सत्-कारः प्रत्यवेक्षितव्यः | गुरूणाम् अवमाननो लाभ-सत्-कारः | मार-पक्षो लाभ-सत्-कारः | एक-अन्त-प्रमाद-मूलः कुशल-मूल-अपहरणो लाभ-सत्-कारः | विद्युच्-चक्र-अशनि-सदृशो लाभ-सत्-कारः | बहु-पलिगोध-पलिगुद्धो मित्र-कुल-भिक्षाद् अ-कुल-अवलोकनो दौर्मनस्य-संजननः | बुद्धि-विभ्रामणो लाभ-सत्-कारः प्रिय-वस्तु-परिणामनतया शोक-भाजनो लाभ-सत्-कारः |चतुः-स्मृत्य्-उपस्थान-संमोषणः शुक्ल-धर्म-दुर्-बली-करणः चतुः-सम्यक्-प्रहाण-परिहाण-करणो लाभ-सत्-कारः | ऋद्ध्य्-अभिज्ञा-परिहाण-करणः | पूर्वं सत्-कार-पश्चाद् अ-सत्-कार-करणः | अ-मित्र-सत्-करण-मित्र-प्रहाणो लाभ-सत्-कारः | पर-अभिसंधानतया गणिका-सदृशः | ध्यन-अ-प्रमाण-परिवर्जनः | नरक-तिर्यग्-योनि-यम-लोक-प्रपातनो लाभ-सत्-कारः | देवदत्त-उद्रक-समाचारो लाभ-सत्-कारः प्रत्यवेक्षितव्यः ||
SK
इमे एवं-रूपा मैत्रेय लाभ-सत्-कारे आदीनवा ये बोधि-सत्वेन प्रत्यवेक्षितव्याः | प्रत्यवेक्ष्य च + अल्प-इच्छतायां रन्तव्यं न परितप्तव्यं | तत् कस्य हेतोः | अल्प-इच्छस्य हि मैत्रेय इमए एवं-रूपा दोषा न भवन्ति न च + अस्य + अन्तराया भवन्ति बुद्ध-धर्माणां | अ-निर्विण्णश् च भवति गृहि-प्रव्रजितेभ्यः | अनुरक्षणीयश् च भवति देव-मनुष्याणां परिशुद्ध-आशय-स्थितः | अ-संत्रस्तश् च भवति सर्व-दुर्-गति-निपातेभ्यः | अन्-अभिभूतश् च भवति तर्जना-विगतः | अ-संहार्यश् च भवति मार-विषय-विमुक्तः | अ-धर्षणीयश् च भवति सर्व-व्यसनैः | अभिलषणीयश् च भवति देव-मनुष्याणां ध्यान-अभ्यास-अवस्थितः [दोउब्त्fउल्] | स्पष्टश् च भवति माया-शाठ्य-प्रहीणो * अ-प्रमत्तश् च भवति पञ्च-काम-गुण-दोष-दर्शी यथा-वादी तथा-कारी भवत्य् आर्य-वंशे स्थितः | अभिलषितश् च भवति विद्वद्भिः स-ब्रह्म-चारिभिः | इमां मैत्रेय एवं-रूपाम् अनुशंसां विदित्वा पण्डितेन बोधि-सत्वेन + अध्याशयेन + अल्प-इच्छतायां रन्तव्यं | अल्प-इच्छता आसेवितव्या सर्व-लाभ-सत्-कर-प्रहाणाय + इति ||
SK
संगणिकाम् अधिकृत्य + आह | विजह्य रागं विजह्य दोषं न तिष्ठते संगणिकासु योगी | भवत्य् असौ तत्-प्रवणस् तन्-निम्नः | एतेन दोषेण रतिं न कुर्यात् | औद्धत्य हास्यं च तथा वितर्का | भवन्त्य् अमी संगणिकासु सर्वे ||
SK
संकीर्ण-चारी हि भवत्य् अ-संवृतः | करोति यः संगणिकाम् अ-साराम् ||
SK
लोकस्य मन्त्रेषु रमन्ति बाला | हीयन्ति च + इह + अग्र-कथासु बालाः | प्रदोष वर्धेन्ति वितर्क उत्सदा | एतेन दोषेण न तत्र राजते ||
SK
न वर्धते च + अपि श्रुतेन भिक्षुः | अ-युक्त-मन्त्रेषु रतिं जनित्वा | तस्मात् परित्यज्य अ-युक्त-मन्त्रान् | धर्मे रतिं विन्दथ नित्य-कालम् ||
SK
सहस्रशो * अष्ठानि मया स्वकानि | त्यक्तानि बोधिं प्रतिकाङ्क्ष तर्हि | न च + अस्मि तृप्तः शृणुमान धर्मं | ते खेदम् एष्यन्ति शृणोन्त धर्मम् ||
SK
सर्वेण सर्वं परिवर्जनीया | अ-युक्त-मन्त्राश् च अ-शिष्ट-मन्त्राः | धर्मे वरे तत्र रतिं जनेथ | यो दुर्-लभः कल्प-शतैर् अन्-एकैः ||
SK
वने वसन्तेन गुण-अर्थिकेन | परस्य दोषा न हि वीक्षितव्याः | अहं विशिष्टो * अहम् एव श्रेष्ठो | न एव चित्तं समुपादनीयम् ||
SK
मदो * अयं सर्व-प्रमाद-मूलो | न हीन-भिक्षू अवमन्यितव्याः | अनुपूर्व एषो इह शासनस्य | न + एकेन जन्मेन लभते बोधिम् ||
SK
अत्र + इव भाष्य-आरामम् अधिकृत्य + आह | अ-गौरवो भोति श्रुतेन मत्तो | विवाद-मन्त्रेषु निविष्ट भोति | मुषित-श्रुतिश् च + अपि अ-संप्रजन्यो | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
अध्यात्म-चिन्ता + अत्त [दोउब्त्fउल्] सु-दूर भोती | चित्तं न कायश् च प्रसन्न भोति | उन्नाम-नामानि बहूनि गच्छती | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
सद्-धर्म-चित्तात् तु प्रणष्टु बालाः | सु-कर्कशो भोति अ-स्निग्ध-चित्तः | विपश्यनायाः शमथाच् च दूरे | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
अ-गौरवो भोति सदा गुरूणां | पलिगोध-मन्त्रेषु रतिं जनित्वा | अ-सार-स्थायी परिहीण-प्रज्ञो | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
अ-मानितो देव-गुणैः स भोति | न + अप्य् अस्य तस्मिन् स्पृह संजनन्ति | प्रतिसंविदातो भवती विहीनो | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
परिभाष्यते च + अपि स पण्डितेभिः | ये क-चिद् अस्ती पृथकाय-साक्षी [दोउब्त्fउल्] | निर्-अर्थकं जीवितु तस्य भोती | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
स शोचते कालु करोतु बालः | प्रतिपत्ति हीनो * अस्मि किम् अद्य कुर्यां | सु-दुष्खितो भोति अ-लब्ध-गाधो | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
चल-अ-चलो भोति तृणं यथा + ईरितं | विचिकित्सते एवम् असौ न संशयः | न तस्य जातू दृढ बुद्धि भोती | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
नटा यथा तिष्ठति रङ्ग-मध्ये | अन्यान शूराण गुणान् प्रभाषते | स्वयं च भोती प्रतिपत्ति-हीनो | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
शठश् च सो भोति लघु-निर्-आशः | पुनः पुनश् च + आरभते विवादम् | सो दूरतो आर्य-धर्मस्य भोती | भाष्ये रमन्तस्य इमे हि दोषाः ||
SK
संहृष्यते सत्-क्र्ट अल्प-स्थामः | प्रकम्पते विप्रकृतो * अजानी | कपिर् यथा चञ्चल-चित्त भोती | भाष्ये रमन्तस्य इमे हि दोषाः || पे ||
SK
रमित्व भाष्यस्मि चिरं पि कालं | न विन्दते प्रीतिम् इह + आत्म-सौख्यं | वरं हि एकस्य पदस्य चिन्तना | प्रीतिं पदे यत्र लभेद् अन्-अन्तम् ||
SK
न + इक्षु-त्वचे सारम् इह + अस्ति किञ्-चिन् | मध्ये * अस्ति तत्-सार सु-प्रेमणीयः | भुक्त्वा त्वचं न + इह पुनः सशक्यं | लब्धुं नरेण + इक्षु-रसं प्रधानम् ||
SK
यथा त्वचं तद्-वद् अवैहि भाष्यं | यथा रसस् तद्-वद् इह + अर्थ-चिन्ता [दोउब्त्fउल्] | तस्माद् * धि भाष्ये तु रतिं विहाय | चिन्तेथ अर्थं सद अ-प्रमत्ताः ||
SK
निद्रा-आरामम् अधिकृत्य + आह | महच् च सो वर्धति मोह-जालं | विचिकित्सको भोति स दृष्टि-प्राप्तः ||
SK
दृष्टी-कृतान्य् अस्य बहूनि भोन्ती | यस्मान मिद्धे * अभिरतिं प्रयाति ||
SK
प्रज्ञा च तेषां भवती सु-दुर्-बला | परिहीयते बुद्धि न तस्य भोति | ज्ञानाच् च सो हीयति नित्य-कालं | यस्मान मिद्धे * अभिरतिं प्रयाति ||
SK
कुसीद अ-ज्ञो * अ-लसो * अ-प्रज्ञो * अ-मनुष्य अवतार लभेन्ति तस्य | विहेठयन्ते च वने वसन्तं यस्मान मिद्धे * अभिरतिं प्रयाति ||
SK
कुशलेन चित्तेन सदा अन्-अर्थिको | धर्मे च छन्दो न हि भोति तस्य | अ-धर्म-कायश् च स भोति भूयो यस्मान मिद्धे * अभिरतिं प्रयाति ||
SK
सद्-धर्म-छन्देन विहीन-मूढः परिहोयते सर्व-गुणेहि बालः | शुक्लं च घातेति तमो * अधिगच्छती | यस्मान मिद्धे * अभिरतिं प्रयाति ||
SK
अ-विशारदो भोति प्रलीन-चित्तः | प्रामोद्य तस्य + उ भवती न नित्यं | निद्रया + अपग्रस्तः शिथिल-अङ्ग भोती | यस्मान मिद्धे * अभिरतिं प्रयाति ||
SK
आत्मा तु ज्ञात्वा च कुसीद-प्राप्तः ईर्ष्यायते वीर्य-बलैर् उपेतान् | वीर्य-अन्वितानां च अ-वर्ण भाषते यस्मान मिद्धे * अभिरतिं प्रयाति || पे ||
SK
यत् सर्व-दुष्खस्य तमस्य नाशनं | अपाय-परिवर्जनतया मूलं | सर्वेहि बुद्धैर् हि सदा प्रशस्तं | तं वीर्यम् आर्यं सततं भजस्व ||
SK
कर्म-आरामम् अधिकृत्य + आह ||
SK
सु-दुर्-वचो भोति गुरूभि चोदितः | प्रदक्षिणं गृह्णति न + अनुशासनं | विपन्न-शीलश् च स भोति क्षिप्रं | दोषा अमी कर्म-रते भवन्ति ||
SK
उत्कण्ठितो भोति स नित्य-कालं | गृह-स्थ-कर्माणि सदा विचिन्तयन् | ध्यान-प्रहाणैश् च न तस्य कृत्यं | दोषा अमी कर्म-रते भवति ||
SK
तीव्रश् च संजायति तस्य रागो | रस-अ-रसेषु ग्रसितः स मूर्च्छितः | न तुष्यते * असाव् इतर-इतरेण | दोषा अमी कर्म-रते भवन्ति ||
SK
महत्या च भोती परिषाय तुष्ठो | स दुष्खितो भोति तया विहीनः | संकीर्ण भोती सयथा + इह गर्दभो | दोषा अमी कर्म-रते भवन्ति || पे ||
SK
दिवा च रात्रौ च अन्-अन्य-चित्तो | भक्ते च चोडे च भवत्य् अभीक्ष्णं | स्व्-अन्-अर्थिको भोति गुणैः स सर्वदा | दोषा अमी कर्म-रते भवन्ति ||
SK
कृत्यान्य् असौ पृच्छति लौकिकानि | अ-युक्त-मन्त्रैश् च रतिं प्रयाति | युक्तैश् च मन्त्रैः स न विन्दते रतिं | दोषा अमी कर्म-रते भवन्ति || पे ||
SK
अथ खलु मैत्रेयो बोधि-सत्वो महा-सत्वो भगवन्तम् एतद् अवोचत् | सु-परीत्त-प्रज्ञास् ते भगवन् बोधि-सत्वा भविष्यन्ति विहीन-प्रज्ञा ये * अग्र-धर्मान् वर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते ||
SK
एवम् उक्ते भगवान् मैत्रेयं बोधि-सत्वं महा-सत्वम् एतद् अवोचत् | एवम् एतन् मैत्रेय | एवम् एतद् यथा वदसि सु-परीत्त-प्रज्ञास् ते बोधि-सत्वा भविष्यन्ति ये * अग्र-धर्मान् परिवर्जयित्वा हीनानि कर्माण्य् आरप्स्यन्ते | अपि त्व् आरोचयामि ते मैत्रेय प्रतिवेदयामि ते | न ते बोधि-सत्वास् तथागत-शासने प्रव्रजिता येषां न + अस्ति योगो न + अस्ति ध्यानं न + अस्ति प्रहाणं न + अस्त्य् अध्ययनं न + अस्ति बाहुश्रुत्य-पर्येष्टिः | अपि तु मैत्रेय ध्यान-प्रहाण-प्रभावितं तथा-गत-शासनं ज्ञान-संस्कृतं ज्ञान-समाहितं अभियोग-प्रभावितं | न गृहि-कर्म-अन्त-वैयापृत्य-प्रभावितं | अ-युक्त-योगानाम् एतत् कर्म संसार-अभिरतानां यद् उत वैयापृत्यं लौकिक-कृत्य-पलिगोधः | न तत्र बोधि-सत्वेन स्पृहा + उत्पादयितव्या | सचेन् मैत्रेय वैयापृत्य-अभिरतो बोधि-सत्वः सप्त-रत्न-मयैः स्तूपैर् इमं त्रि-साहस्र-महा-साहस्रं लोक-धातुं पूरयेत् | न + अहं तेन + आराधितो भवेयं न मानितो न + अपि सत्-कृतः ||
SK
पे | तत्र जम्बू-द्वीपः पूरितः स्याद् वैयापृत्य-करैर् बोधि-सत्वैः | सर्वैस् तैर् एकस्य + उद्देश-स्व-अध्याय-अभियुक्तस्य बोधि-सत्वस्य + उपस्थान-परिचर्या करणीया | जम्बू-द्वीप-प्रमाणैश् च + उद्देश-स्व-अध्याय-अभियुक्तैर् बोधि-सत्वैर् एकस्य प्रतिसंलयन-अभियुक्तस्य बोधि-सत्वस्य + उपस्थान-परिचर्या कर्तव्या || पे ||
SK
तत् कस्य हेतोः | दुष्-करम् एतत् कर्म यद् उत प्रज्ञा-कर्म | उत्तरं निर्-उत्तरं सर्व-त्रैलोक्य-प्रतिविशिष्टम् अभ्युद्गतं तस्मात् तर्हि मैत्रेय बोधि-सत्वेन योग-अर्थिकेन वीर्यम् आरब्धु-कामेन प्रज्ञायाम् अभियोक्तव्यम् इति ||
SK
प्रपञ्च-आरामम् अधिकृत्य + आह | अष्ट-अ-क्षणा तस्य न भोन्ति दूरे | क्षण-संपदा तस्य न भोति श्रेष्ठा | एते अन्-अर्था स्य भवन्ति नित्यं | दोषा अमी तस्य प्रपञ्च-चारिणः || पे ||
SK
दोषान् इमान् सम्यग् अवेत्य पण्डितः सर्वान् प्रपञ्चान् परिवर्जीत | सु-लभा अन्-अर्था हि प्रपञ्च-चारिणः | तस्मात् प्रपञ्चेन न संवसेत ||
SK
यायाच् * छतं योजनकं परं वरं | यत्र प्रपञ्चो स्तिय विग्रहो वा | न तत्र वासं न निकेतु कुर्यान् मुहूर्त्त-मात्रं स्तिय यत्र क्लेशः ||
SK
न + अर्थ-अर्थिकाः प्रव्रजिता गुण-अर्थिका | मा विग्रह कुर्वथ दुस्त-चित्ताः | न वो * अस्ति क्षेत्रं न कृषिर् वणिज्या | स्युर् यस्य अर्थाय प्रपञ्च एते ||
SK
न पुत्र धीता न च वो * अस्ति भार्या | न च + अस्य मित्रं न च बन्धु-वर्गः | दास्यो न दासा न च ईश्वरत्वं | मा विग्रहं कुर्वथ प्रव्रजित्वा ||
SK
काषाय-वस्त्राणि गृहीत्व श्रद्धया | शान्त-प्रशान्तैर् हि निषेवितानि | शान्त-प्रशान्ता उपशान्त भोथ | प्रपञ्च वर्जित्व जनेथ क्षान्तिम् ||
SK
आशी-विषान् रक्षथ रौद्र-चित्तान् | नरकाश् च तिर्यग् विषयो यमस्य | प्रपञ्च-चारस्य न भोन्ति दूरे | तस्माद् * धि क्षान्तौ जनयेत वीर्यम् || पे ||
SK
इमेन योगेन लभेत शुद्धिं | क्षपयित्व कर्म-आवरणं अ-शेषं | धर्षेति मारं स-चलं स-वाहनं यो धीरु तस्य + एव जनेति क्षान्तिम् | इति ||
SK
संक्षेपतस् तत्र + अन्-अर्थ-विवर्जनम् उक्तं | तस्मात् तर्हि मैत्रेय बोधि-सत्व-यानिकेन कुल-पुत्रेण वा कुल-दुहित्रा वा पश्चिमायां पञ्च-शत्यां सद्-धर्म-प्रलोपे वर्तमाने * अ-क्षतन-अन्-उपहतेन स्वस्तिना परिमोक्तु-कामेन सर्व-कर्म-आवरणानि क्षपयितु-कामेन + अ-संसर्ग-अभिरतेन भवितव्यम् अरण्य-वन-प्रान्त-वासिना + अन्-अभियुक्त-सत्व-परिवर्जितेन + आत्म-स्खलित-गवेषिणा पर-स्खलित-अ-गवेषिणा तुष्णी-भाव-अभिरतेन प्रज्ञा-पारमिता-विहार-अभिरतेन + इति ||
SK
आर्य-रत्न-मेघे * अप्य् अन्-अर्थ-वर्जनम् उक्तं | तावत् पिण्डाय चरति यावद् अस्य कार्यस्य प्राप्तिर् भवति | अन्यत्र येषु स्थानेषु चण्डा वा कुक्कुरास् तरुण-वत्सा वा गावः प्रकृति-दुः-शीला वा तिर्यग्-योनि-गता | विहेठन-अभिप्राया वा स्त्री-पुरुष-दारक-दारिका जुगुप्सितानि वा स्थानानि | तानि सर्वेण सर्वं वर्जयति + इति ||
SK
अनेन + एतद् दर्शितं भवति यद् दृष्टे * अपि बाधा-कर एवं-विधे | तद् अ-वर्जयत आपत्तिर् भवति + इति ||
SK
अथ यद् एवम्-आद्य् अन्-अर्थ-वर्जनम् उक्तं केन + एतल् लभ्यते सर्व-निष्-फल-स्यन्द-वर्जनात् | फलम् अत्र पर-अर्थं | तद्-अर्थं यः स्यन्दो न संवर्तते | स निष्-फलत्वाद् वर्जयितव्यः ||
SK
यथा चन्द्र-प्रदीप-सूत्रे काय-संवर-मध्ये पठ्यते | न हस्त-लोलुपो भवति न पाद-लोलुपः हस्त-पाद-संयत इति ||
SK
तथा दश-धर्मक-सूत्रे * अपि देशितं हस्त-विक्षेपः पाद-विक्षेपो * अ-धावनं परिधावनं लङ्घनं प्लवनम् इदम् उच्यते काय-दौष्ठुल्यम् इति ||
SK
आर्य-धर्म-संगीति-सूत्रे तु यथा बोधि-सत्वानां पर-अर्थाद् अन्यत् कर्म न कल्पते | तथा स्पष्टम् एव परिदीपितं यत् किञ्-चिद् भगवन् बोधि-सत्वानां काय-कर्म यत् किञ्-चिद् वाक्-कर्म यत् किञ्-चिन् मनस्-कर्म तत् सर्वं सत्व-अवेक्षितं प्रवर्तते महा-करुणा-अधिपतेयं सत्व-हित-अधिष्ठान-निमित्तं सर्व-सत्व-हित-सुख-अध्याशय-प्रवृत्तं | स एवं हित-आशयः एवं संज्ञी-भवति | स मया प्रतिपत्तिः प्रतिपत्तव्यया सर्व-सत्वानां हित-आवहा सुख-आवहा च || पे ||
SK
आयतनेषु शून्य-ग्राम-वत् प्रत्यवेक्षणा प्रतिपत्तिः | न च + आयतन-परित्यागं स्पृहयति + इति ||
SK
आर्य-गगन-गञ्ज-सूत्रे * अप्य् उक्तं | तद् यथा + अपि नाम छिद्रान् मारुतः प्रविशति | एवम् एव यतो यत एव चित्तस्य छिद्रं भवति ततस् तत एव मारो * अवतारं लभते | तस्मात् सदा + अ-छिद्र-चित्तेन बोधि-सत्वेन भवितव्यं |तत्र + इयम् अ-छिद्र-चित्तता यद् इदं सर्व-आकार-ज्ञतायाः शून्यतायाः परिपूरिर् इति ||
SK
का पुनर् इयं सर्व-आकार-वर-उपेता शून्यता | या + इयं बोधि-सत्व-चर्याया अ-परित्यागेन + अभ्यस्यमाना | अभ्यस्ता वा | सर्व-भाव-शून्यता | एषा च रत्न-चूड-सूत्रे विस्तरेण + आख्याता ||
SK
तथा + अक्षयमति-सूत्रे * अपि दर्शितं | पापकानाम् अ-कुशलानां धर्माणां प्रहाणाय छन्दं जनयति + इत्य् अत्र प्रस्तावे यानि च + अन्यानि पुनः कानि-चिद् अन्यान्य् अपि चित्त-विक्षेप-कराणि यानि समाधि-स्कन्धस्य विपक्षाय संवर्तन्ते | अयम् उच्यते समाधि-विपक्षः | यावद् इमे उच्यन्ते पापका अ-कुशला धर्मा इति ||
SK
शिक्षा-समुच्चये शील-पारमितायाम् अन्-अर्थ-विवर्जनं पञ्चमः परिच्छेदः ||
SK
[VI. आत्मभावरक्षा]
SK
आत्म-भाव-रक्षा षष्ठः परिच्छेदः | उक्तं निष्-फल-स्यन्द-वर्जनं | कथम् एतत् सिध्येद् इत्य् आह | एतत् सिध्येत् सदा स्मृत्या + इति ||
SK
द्वादश + इमाः स्मृतयो निष्-फल-स्यन्द-वर्जनया संवर्तन्ते | यद् उत | तथा-गत-आज्ञा-अन्-अतिक्रम-अनुपालन-विपाक-गौरव-स्मृतिः | सर्व-कायस्य निश्-चल-स्व-भावता-प्रतिष्ठितता-अनुस्मृतिः | सति सत्व-अर्थे यद् अङ्गम् अन्-उपयोगि तद् दृढतर-स्मृत्य्-अपेक्षा-निश्-चल-माध्य-छन्द-पर-आपत्ती-कृतं सर्व-धीर-चेष्टा-स्मृतिः | न च + अस्य भय-उत्सव-आदि-संबन्ध-संभ्रमे * अङ्ग-मुक्त-स्मृतिः | ईर्या-पथ-चतुष्क-आक्षेप-निरूपण-स्मृतिः | अन्तर-अन्तरा च + ईर्या-पथ-विकोप-आरक्षण-अर्थम् ईर्या-पथ-संपद्-अवलोकन-स्मृतिः | भाषण-काले च + अति-प्रसाद-औद्धत्य-संरम्भ-पक्ष-पात-आदि-वशाद् अति-मात्र-अ-प्रासादिक-हस्त-पाद-शिरो-मुख-विकार-नियमन-स्मृतिः | यः श्रोता वक्तव्यः स यावन्-मात्रेण ध्वनिना + अर्थं जानाति | तद्-अन्-अतिरेकेण स्वरेण भाषण-स्मृतिर् अन्यत्र पर-आशङ्का-दोष-संभवात् | अ-शिक्षित-जन-समागम-सङ्कटे स्व-चित्त-तच्-चित्त-प्रसादन-आदि-तात्पर्य-स्मृतिः | चित्त-मत्त-द्वि-पस्य शमथ-स्तम्भे नित्य-बद्ध-स्मृतिः | मुहुर् मुहुश् च चित्त-अवस्था-प्रत्यवेक्षणा-स्मृतिः | महा-जन-संपातं प्रायो * अन्य-कार्य-त्यागेन + अपि यथा-उक्त-स्मृति-रक्षा-तात्पर्य-स्मृतिर् इति ||
SK
एवम् एताभिः स्मृतिभिर् निष्-फल-स्यन्दन-वर्जनं सिध्यति | सा च स्मृतिस् तीव्र-आदराद् भवेत् | तत्र + आदरः कार्येषु सर्व-भावेन + अभिमुख्यम् | अवज्ञा-प्रति-पक्षः | अयं च + आदरः शमथ-माहात्म्यं ज्ञात्वा तात्पर्येण जायते | कस् तावद् अयं शमो नाम | य आर्य-अक्षयमति-सूत्रे शमथ उक्तः ||
SK
तत्र कतमा शमथ-अ-क्षयता | या चित्तस्य शान्तिर् उपशान्तिर् अ-विक्षेप-केन्द्रिय-संयमः | अन्-उद्धतता | अन्-उन्नहनता अ-चपलता अ-चञ्चलता सौम्यता गुप्तता कर्मण्यता आजानेयता एक-अग्रता एक-आरामता संगणिका-वर्जनता विवेक-रतिः काय-विवेकश् चित्त-अ-विभ्रमो * अरण्य-मुख-मनसि-कारता + अल्प-इच्छता | यावद् ईर्या-पथ-गुप्तिः काल-ज्ञता समय-ज्ञता मात्र-ज्ञता मुक्ति-ज्ञता | सु-भरता सु-पोषता + इत्य्-आदि ||
SK
किं पुनर् अस्य शमस्य माहात्म्यं यथा-भूत-ज्ञान-जनन-शक्तिः | यस्मात् समाहितो यथा-भूतं प्रजानाति + इत्य् अवदन् मुनिः ||
SK
यथा + उक्तं धर्म-संगीतौ | समाहित-मनसो यथा-भूत-दर्शनं भवति | यथा-भूत-दर्शिनो बोधि-सत्वस्य सत्वेषु महा-करुणा प्रवर्तते | एवं च + अस्य भवति | इदं मया समाधि-मुखं सर्व-धर्म-यथा-भूत-दर्शनं च सर्व-सत्वानां निष्पादयितव्यं | स तया महा-करुणया संचोद्यमानो * अधि-शीलम् अधि-चित्तम् अधि-प्रज्ञं च शिक्षां परिपूर्यां चतुरां सम्यक्-संबोधिम् अभिसंबुध्यते | तस्मान् मया शील-सु-स्थितन-अ-प्रकम्पेन + अ-शिथिलेन भवितव्यम् इति | इदं शमथ-माहात्म्यम् आत्मनः परेषां च + अन्-अन्त-अपाय-आदि-दुःख-समतिक्रम-अन्-अन्त-लौकिक-लोक-उत्तर-सुख-संपत्-प्रकर्ष-पार-प्राप्त्य्-आत्मकम् अवगम्य तद्-अभिलाषेण + आतापो भावयितव्यः | आदीप्त-गृह-अन्त-गतेन + इव शीतल-जल-अभिलाषिणा | तेन तीव्र आदरो भवति शिक्षासु | तेन + अपि स्मृतिर् उपतिष्ठति | उपस्थित-स्मृतिर् निष्-फलं वर्जयति | यश् च निष्-फलं वर्जयति तस्य + अन्-अर्था न संभवन्ति | तस्माद् आत्म-भावं रक्षितु-कामेन स्मृति-मूलम् अन्विष्य नित्यम् उपस्थित-स्मृतिना भवितव्यं ||
SK
अत एव + उग्र-परिपृच्छायां गृहिणं बोधि-सत्वम् अधिकृत्य + उक्तं | सुरा-मैरेय-मद्य-प्रमाद-स्थानात् प्रतिविरतेन भवितव्यम् अ-मत्तेन + अन्-उन्मत्तेन + अ-चपलेन + अ-चञ्चलेन + अ-संभ्रान्तेन + अ-मुखरेण + अन्-उन्नडेन + अन्-उद्धतेन + उपस्थिति-स्मृति-संप्रजन्येन + इति ||
SK
अत्र + एव च प्रव्रजित-बोधि-सत्वम् अधिकृत्य + उक्तं स्मृति-संप्रजन्यस्य + अ-विक्षेप इति ||
SK
तत्र स्मृतिः आर्य-रत्न-चूड-सूत्रे * अभिहिता | यया स्मृत्या सर्व-क्लेशानां प्रादुर्-भावो न भवति | यया स्मृत्या सर्व-मार-कर्मणाम् अवतारं न ददाति | यया स्मृत्या उत्पथे वा कु-मार्गे वा न पतति | यया स्मृत्या दौवारिक-भूतया सर्वेषाम् अ-कुशलानां चित्त-चैतसिकानां धर्माणाम् अवकाशं ददाति + इयम् उच्यते सम्यक्-स्मृतिर् इति ||
SK
संप्रजन्यं तु प्रज्ञा-पारमितायाम् उक्तं | चरंश् चरामि + इति प्रजान्-ति | स्थितः स्थितो * अस्मि + इति प्रजानाति | शयनः शयित इति प्रजानाति | निषण्णो निषण्णो * अस्मि + इति प्रजानाति | यथा यथा च + अस्यः [दोउब्त्fउल्] कायः स्थितो भवति तथा तथा + एव प्रजानाति ||
SK
पे||
SK
सो * अतिक्रामन् वा प्रतिक्रामन् वा संप्रजानंश् चारी भवति | आलोकिते विलोकिते संमिञ्जिते प्रसारिते संघाटी-पट्ट-पात्र-चीवर-धारणे | अशिते पीते खादिते निद्रा-क्लम-प्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तुष्णी-भावे प्रतिसंलयने संप्रजानंश् चारी भवति + इति ||
SK
शीलं हि समाधि-संवर्तनीयं ||
SK
यथा + उक्तं चन्द्र-प्रदीप-सूत्रे | क्षिप्रं समाधिं लभते निर्-अङ्गणं | विशुद्ध-शीले * अस्मिन्न् आनुशंस इति ||
SK
अतो * अवगम्यते ये के-चित् समाधि-हेतवः प्रयोगास् ते शील-अन्तर्-गता इति | तस्मात् समाध्य्-अर्थिना स्मृति-संप्रजन्य-शीलेन भवितव्यं | तथा शील-अर्थिना + अपि समाधौ यत्नः कार्यः तत्र + एव सूत्रे वचनात् | ध्यान-अनुशंसेषु हि पठ्यते | न + असौ भोति अन्-आचारो आचारो सु-प्रतिष्ठितः | गो-चरे चरते योगी विवर्जेति अ-गोचरं ||
SK
निष्-परिदाह-विहारी गुप्त इन्द्रिय-संवृत | इति ||
SK
एताभ्यां च शील-समाधिभ्याम् अन्यो-न्य-संवर्धन-कराभ्यां चित्त-कर्म-परिनिष्पत्तिः एतावती च + इयं बोधि-सत्व-शिक्षा यद् उत चित्त-परिकर्म | एतन्-मूलत्वात् सर्व-सत्व-अर्थानां ||
SK
उक्तं ह्य् आर्य-रत्न-मेघे | चित्त-पूर्वङ्-गमाश् च सर्व-धर्माः | चित्ते परिज्ञाते सर्व-धर्माः परिज्ञाता भवन्ति | अपि तु चित्तेन नीयते लोकः चित्तं चित्तं न पश्यति | चित्तेन चीयते कर्म शुभं वा यदि वा + अ-शुभम् ||
SK
चित्तं भ्रमते * अलात-वत् | चित्तं भ्रमते तुरङ्-ग-वत् | चित्तं दहते देव-अग्नि-वत् | चित्तं हरते महा-अम्बु-वत् ||
SK
स एवं व्युपपरीक्षमाणश् चित्ते सु-उपस्थित-स्मृतिर् विहरति न चित्तस्य वशं गच्छति | अप् तु चित्तम् एव + अस्य वशं गच्छति | चित्तेन + अस्य वशी-भूतेन सर्व-धर्मा वशी-भवन्ति + इति ||
SK
तथा + आर्य-धर्म-सङ्गीति-सूत्रे * अप्य् उक्तं | मति-विक्रमो बोधि-सत्व आह | यो * अयं धर्मो धर्म इत्य् उच्यते न + अयं धर्मो देश-स्थो न प्रदेश-स्थो * अन्यत्र स्व-चित्त-अधीनो धर्मः तस्मान् मया स्व-चित्तं स्व्-आराधितं स्व्-अधिष्ठितं सु-समारब्धं सु-निगृहीतं कर्तव्यं | तत् कस्य हेतोः | यत्र चित्तं तत्र गुण-दोषाः | न + अस्ति निश्-चित्ततायां गुण-दोषः | तत्र बोधि-सत्वो दोषेभ्यश् चित्तं निवार्य गुणेषु प्रवर्तयति ||
SK
तद् उच्यते | चित्त-अधीनो धर्मो धर्म-अधीना बोधिर् इति ||
SK
अयं भगवन् धर्मं समादानः सुख-अभिसंबोधाय संवर्ततए इति ||
SK
आर्य-गण्ड-व्यूह-सूत्रे * अपि वर्णितं | स्व-चित्त-अधिष्ठानं सर्व-बोधि-सत्व-चर्या स्व-चित्त-अधिष्ठानं सर्व-सत्व-परिपाक-विनयः || पे ||
SK
तस्य मम कुल-पुत्र + एवं भवति | स्व-चित्तम् एव + उपस्तम्भयितव्यं सर्व-कुशल-मूलैः | स्व-चित्तम् एव + अभिष्यन्दयितव्यं धर्म-मेघैः | स्व-चित्तम् एव परिशोधयितव्यम् आवरणाय धर्मेभ्यः | स्व-चित्तम् एव दृढी-कर्तव्यं वीर्येण + इत्य् आदि ||
SK
तथा + अत्र + एव माया-देव्य्--अ-दर्शन-आकुली-भूते आर्य-सुधने रत्न-नेत्राया नगर-देवतायास् तद्-दर्शन-अर्थम् इयम् अनुशासनी | चित्त-नगर-परिपालन-कुशलेन ते कुल-पुत्र भवितव्यं सर्व-संसार-विषय-रत्य्-अ-संवसनतया | चित्त-नगर-अलं-कार-प्रयुक्तेन ते कुल-पुत्र भवितव्यं दश-तथा-गत-बल-अध्यालम्बनतया | चित्त-नगर-परिशोधन-प्रयुक्तेन ते कुल-पुत्र भवितव्यम् ईर्ष्या-मात्सर्य-शाठ्य-अपनयनतया | चित्त-नगर-विवर्धन-अभियुक्तेन ते कुल-पुत्र भवितव्यं सर्व-ज्ञता-संभार-महा-वीर्य-वेग-विवर्धनतया | चित्त-नगर-दुर्-योधन-दुर्-आसदता-अभिनिर्हार-प्रयुक्तेन ते कुल-पुत्र भवितव्यं सर्व-क्लेश-मार-कायिक-पाप-मित्र-मार-चक्र-अन्-अवमर्दनतया | चित्त-नगर-प्रविस्तरण-प्रयुक्तेन ते कुल-पुत्र भवितव्यं महा-मैत्री-सर्व-जगत्-स्फुरणतया | चित्त-नगर-प्रतिच्छादन-प्रयुक्तेन ते कुल-पुत्र भवितव्यं विपुल-धर्म-च्छत्र-सर्व-अ-कुशल-धर्म-प्रतिपक्ष-अभिनिर्हरणतया | चित्त-नगर-विवरण-प्रयुक्तेन ते कुल-पुत्र भवितव्यं आध्यात्मिक-बाह्य-वस्तु सर्व-जगत्-संप्रापणतया | चित्त-नगर-दृढ-स्थाम-अभिनिर्हर-प्रयुक्तेन ते कुल-पुत्र भवितव्यं सर्व-अ-कुशल-धर्म-स्व-सन्तत्य्-अ-वसनतया | यावद् एवं चित्त-नगर-विशुद्ध्य्-अभियुक्तेन कुल-पुत्र बोधि-सत्वेन शक्यं सर्व-कुशल-मूल-समार्जनम् अनुप्राप्तुं | तत् कस्य हेतोः | तथा हि तस्य बोधि-सत्वस्य + एवं चित्त-नगर-परिशुद्धय्स सर्व-आवरणानि पुरतो न संतिष्ठन्ते | बुद्ध-दर्शन-आवरणं वा धर्म-श्रवण-आवरणं वा + इत्य् आदि | तस्माद् व्यवस्थितम् एवं | चित्त-परिकर्म + एव बोधि-सत्व-शिक्षा + इति | तच् च + अ-चपल-चेतसः ||
SK
शमाच् च न चलेच् चित्तं बाह्य-चेष्टा-निवर्तनात् ||
SK
अ-संप्रजन्य-पर-तन्त्रस्य मुषित-स्मृतेश् च चित्तं चलति समीहिताद् आलम्बनाद् अन्यत्र नीयमानत्वात् | यदा तु स्मृति-संप्रजन्येन बाह्याश् चेष्टा निवर्तिता भवन्ति तदा तद्-वशत्वाद् एकस्मिन्न् आलम्बने निबद्धं यावद् इष्यते तावत् तिष्ठति | ततश् च पूर्व-वद् अनुशंस-विस्तरः | अद्यत्वे * अपि च सत्व-अर्थ-क्षमो भवत्य् एव प्रसाद-करत्वात् | कथं ||
SK
सर्वत्र + अ-चपल-मन्द-मित-स्निग्ध-अभिभाषणात् | आवर्जयेज् जनं भव्यम् आदेयश् च + अपि जायते ||
SK
एतद् एव च बोधि-सत्वस्य कृत्यम् यद् उत सत्व-अ-वर्जनं | यथा + आर्य-धर्म-संगीति-सूत्रे | आर्य-प्रियदर्शेन बोधि-सत्वेन परिदीपितं | तथा तथा भगवन् बोधि-सत्वेन प्रतिपत्तव्यं यत् सह-दर्शनेन + एव सत्वाः प्रसीदेयुः | तत् कस्माद् * धेतोः | न भगवन् बोधि-सत्वस्य + अन्यत् करणीयम् अस्त्य् अन्यत्र सत्व-अ-वर्जनात् | सत्व-परिपाक एव + इयं भगवन् बोधि-सत्वस्य धर्म-संगीतिर् इति ||
SK
एवं पुनर् अ-क्रियमाणे को दोष इत्य् आह | अन्-आदेयं तु तं लोकः परिभूय जिन-अङ्कुरं | भस्म-छन्नो यथा वह्निः पच्येत नरक-आदिषु ||
SK
यथा प्राग् उपदर्शितं ||
SK
येन च + अस्य परिभव एवम् अन्-अर्थो रत्न-मेघे जिनेन + उक्तस् तेन संक्षेप-संवरः |येन + अ-प्रसादः सत्वानां तद् यत्नेन विवर्जयेद् इति ||
SK
यथा + आह | कतमे च ते बोधि-सत्व-समुदाचाराः | यावद् इह बोधि-सत्वो न + अ-स्थाने विहरति न + अ-काले | न + अ-काल-भाणी भवति न + अ-काल-ज्ञो भवति न + अ-देश-ज्ञो भवति | यतो निदानम् अस्य + अन्तिके सत्वा अ-प्रसादं प्रतिवेदयेयुः | स सर्व-सत्व-अनुरक्षया | आत्मनश् च बोधि-संभार-परिपूरण-अर्थं संपन्न-ईर्या-पथो भवति मृदु-भाणी मन्द-भाणी | अ-संसर्ग-बहुलः | प्रविवेक-अभिमुखः | सु-प्रसन्न-मुख इति ||
SK
अत एव धर्म-संगीति-सूत्रे देशितं | यः सत्वान् रक्षति स शीलं रक्षति + इति | अनया कनीयेन मातृ-ग्रामेण सह रहो-अवस्था-आदिषु लोक-रक्षा च कृता स्यात् | एवं भोग्येषु जल-स्थलेषु मूत्र-पुरीष-श्लेष्म-पूय-आदीनां कुत्सितानां रहस्य् अ-रहसि च + उत्सर्गं न कुर्याद् देव-मनुष्य-चित्त-रक्षा-अर्थं ||
SK
सद्-धर्म-स्मृत्य्-उपस्थाने च रह उत्सिष्टं कृत्वा + अन्-उत्सिष्ट-आहारेष्व् अ-ददतः प्रेत-गतिः पठ्यते ||
SK
तथा बोधि-सत्व-प्रातिमोक्षे * अप्य् अ-प्रसाद-परिहार उक्तः | न पुरतो दन्त-काष्ठं खादितव्यं न पुरतः खेटे निक्षिप्तव्य इति | एष च गौरव-लज्जा-विधिः सर्व-द्रष्टव्यो न ब्रह्म-चारिष्व् एव | अत्र तु सूत्रे ब्रह्म-चार्य्--अधिकारः तेषु गुरुतर-आपत्ति-भय-संदर्शन-अर्थं ||
SK
यथा + अत्र + एव + आह | न + उच्चैर्-भाषिणा भवितव्यम् इति ||
SK
न च + अयं विधिः प्रादेशिकः | तथा ब्रह्म-परिपृच्छायाम् अप्य् उक्तं न च वध-सदृशेन बोधि-सत्वेन भवितव्यम् इति | तथा प्रातिमोक्षाद् अपि लोक-अ-प्रसाद-करम् अन्वेष्य वर्जनीयं | तन् न तावद् ||
SK
मुख-पूरं न भुञ्जीत स-शब्दं प्रसृत-आननः | प्रलम्ब-पादं न + आसीत न बाहुं मर्दयेत् समम् ||
SK
एवं स्वयम् अप्य् उत्प्रेक्ष्य दृष्ट्वा श्रुत्वा च लोक-अ-प्रसादं रक्षेत | अ-प्रसाद-कर-वचन-वर्जनं तु न सु-करम् इति स्मरण-बोधन-अर्थम् उपदर्श्यते | आर्य-सागरमति-सूत्रे देशितं | न + अवलीन-वचनो भवति | न व्यवकीर्ण-वचनः | न + अवस्यन्दन-वचनः | न + उज्ज्वालन-वचनः | न राग-अनुनीत-वचनः | न प्राकृत-वचनः | न + अ-संरक्षित-वचनः | न व्यापाद-संधुक्षण-वचनः | न चञ्चल-वचनः | न चपल-वचनः | न रट-रङ्ग-वचनः | न मुख-साक्ष्य्--अवरोपण-वचनो भवति + इति ||
SK
आर्य-तथा-गत-गुह्य-सूत्रे * अप्य् आह | न खलु पुनः कुल-पुत्र बोधि-सत्वस्य वाग् रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा | क्षुण्ण-व्याकरणा वा स्व-पक्ष-उत्कर्षण-वचना वा | पर-पक्ष-निग्रह-वचना वा | आत्म-वर्ण-अनुनय-वचना वा | पर-वर्ण-प्रतिघ-वचना वा | प्रतिज्ञा-उत्तारण-वचना वा | आभिमानिक-व्याकरण-वचना वा + इति ||
SK
आर्य-दश-भूमक-सूत्रे * अप्य् उक्तं | या + इयं वाग-मनो-ज्ञा स्व-सन्तान-पर-सन्तान-विनाशनी तथा-रूपां वाचं प्रहाय | या + इयं वाक् स्निग्धा मृद्वी मनो-ज्ञा मधुरा प्रिय-करणी मन-अपकरणी [दोउब्त्fउल्] हित-करणी कर्ण-सुखा हृदयं-गमा प्रेमणी वर्ण-विष्पष्टा विज्ञेया श्रवणीया अ-निश्रिता बहु-जन-कान्ता बहु-जन-प्रिया बहु-जन-मन-आपा [दोउब्त्fउल्] विज्ञ-प्रशस्ता सर्व-सत्व-हित-सुख-आवहा मन-उत्प्लाव-करी मनः-प्रह्लादन-करी स्व-पर-सन्तान-प्रमोदन-करी राग-द्वेष-मोह-सर्व-क्लेश-आप्रशामनी तथा-रूपां वाचं निश्चारयति | यावद् इतिहास-पूर्वकम् अपि वचनं परिहार्य परिहरति + इति ||
SK
आर्य-गगन-गञ्ज-सूत्रे तु + उक्तं | गुरु-वचन-अन्-अवमर्दनतया | पर-वचन-अन्-आच्छिन्दनतया च + आदेय-ग्राह्य-वचनो भवति + इति ||
SK
धर्म-संगीति-सूत्रे * अप्य् उक्तं | गगनगञ्जो बोधि-सत्व आह | न बोधि-सत्वेन + एषा वाग् भाषितव्या यया + अ-परो व्यापद्येत | न सा वाग् भाषितव्या यया + अ-परं तापयेत् | न बोधि-सत्वेन सा वाग् भाषितव्या यत् परो जानीयात् | न सा वाग् भाषितव्या यया + अर्था निर्-अर्था | न बोधि-सत्वेन सा वाग् भाषितव्या यया न विद्याम् उत्पादयेत् | न सा वाग् भाषितव्या या सत्वानां न हृदयं-गमा न पौरी न कर्ण-सुखा न सा वाग् भाषितव्या + इति ||
SK
संक्षेपतस् तु पर-अ-प्रसाद-रक्षा आर्य-सागरमति-सूत्रे देशिता | अ-पर एक धर्मो महा-यान-संग्रहाय संवर्तते स्व-स्खलित-प्रत्यवेक्षणतया सर्व-सत्व-अनुरक्षा + इति ||
SK
एषा रक्षा + आत्म-भावस्य | यथा + अ-परैर् न नाश्येत | यथा न परान् न नाशयेत् | अस्य तु ग्रन्थ-विस्तरस्य + अयं पिण्ड-अर्थो बोधि-सत्वेन मनसा नित्यं धारयितव्यः ||
SK
सु-निश्-चलं सु-प्रसन्नं धीरं स-आदर-गौरवं | स-लज्जं स-भयं शान्तं पर-आराधन-तत्-परम् ||
SK
आत्म-सत्व-वशं नित्यम् अन्-अवद्येषु वस्तुषु | निर्माणम् इव निर्-मानं धारयाम्य् एष मानसम् | इति ||
SK
किम् एतावती आत्म-भाव-रक्षा | न हि | किं तर्हि भैषज्य-वसन-आदिभिः सह | तत्र द्वि-विधं भैषज्यं | सतत-भैषज्यं ग्लान-प्रत्यय-भैषज्यं च | तत्र सतत-भैषज्यम् अधिकृत्य + आर्य-रत्न-मेघे * अभिहितं | तस्मात् पिण्ड-पात्राद् एकं प्रत्य्-अंशं स-ब्रह्म-चारिणां स्थापयति | द्वितीयं दुष्खितानां तृतीयं विनिपतितानां चतुर्थम् आत्मना परिभुङ्क्ते | परिभुञ्जानो न रक्तः परिभुङ्क्ते अ-सक्तो * अ-गृद्धो * अन्-अध्यवसितः | अन्यत्र यावद् एव कायस्य स्थितये | यापनायै | तथा परिभुङ्क्ते यथा न + अति-संलिखितो भवति | न + अति-गुरु-कायः | तत् कस्य हेतोः | अति-संलिखितो हि कुशल-पक्ष-पराङ्-मुखो भवति | अति-गुरु-कायो मिद्ध-अवष्टब्धो भवति | तेन तं पिण्ड-पातं परिभुज्य कुशल-पक्ष-अभिमुखेन भवितव्यम् इत्य् आदि ||
SK
आर्य-रत्न-राशाव् अप्य् उक्तं | तेन ग्रामं वा नगरं वा निगमं वा पिण्डाय चरता धर्म-संनाहं संनह्य पिण्डाय चर्तव्यं | तत्र कतमो धर्म-संनाहः | अ-मन-आपानि [दोउब्त्fउल्] रूपाणि दृष्ट्वा न प्रतिहन्तव्यं | मन-आपानि [दोउब्त्fउल्] दृष्ट्वा न + अनुनेतव्यं | एवं मन-आप-अ-मन-आपेषु [दोउब्त्fउल्] शब्द-गन्ध-रस-स्प्रष्टव्येषु विज्ञप्तेषु न + अनुनेतव्यं न प्रतिहन्तव्यं | इन्द्रिय-सु-संवृतेन + अन्-उत्क्षिप्त-चक्षुषा युग-मात्र-प्रेक्षिणा | दान्त-आजानेय-चित्तेन पूर्व-धर्म-मनसि-कारम् अन्-उत्सृजता न + आमिष-प्रक्षिप्तया सन्तत्या पिण्डाय चर्तव्यं स-अवदान-चारिणा च भवितव्यं | यतश् च पिण्ड-पातो लभ्यते तत्र + अनुनयो न कर्तव्यः यतश् च न लभ्यते तत्र प्रतिघातो न + उत्पादयितव्यः | दश-कुल-प्रवेशे न च + एकादशात् कुलाद् भिक्षा न लभ्यते | तथा + अपि न परितप्तव्यं एवं च चित्तम् उत्पादयितव्यम् | एवं बहु-कृत्या ह्य् एते श्रमण-ब्राह्मण-गृह-पतयो न तैर् अ-वश्यं मम दातव्यं | इदं तावद् आश्चर्यं यन् माम् एते समन्वाहरन्ति | कः पुनर् वादो यद् भिक्षां दास्यन्ति | तेन + एवम् अ-परितपता पिण्डाय चर्तव्यं ||
SK
ये च + अस्य सत्वाश् चक्षुषु आभासम् आगच्छन्ति स्त्री-पुरुष-दारक-दारिकाः | अन्तशस् तिर्यग्-योनि-गतास् तत्र मैत्री-करुणा-चित्तम् उत्पादयितव्यं | तथा + अहं करिष्यामि यथा ये मे सत्वाश् चक्षुषा आभासम् आगच्छन्ति पिण्ड-पातं वा दास्यन्ति तान् सु-गति-गामिनः करिष्यामि | तादृशं योगम् आपत्स्ये | तेन लूहं वा प्रणीतं वा पिण्ड-पात संगृह्य समन्ताच् चतुर्-दिशं व्यवलोकयितव्यं | क इह ग्राम-नगर-निगमे दरिद्रः सत्वः | यस्य + अस्मात् पिण्ड-पातात् संविभागं करिष्यामि | यदि दरिद्रं सत्वं पश्यति तेन तत्-पिण्ड-पातात् संविभागः कर्तव्यः | अथ न कञ्-चित् सत्वं दरिद्रं पश्यति | तेन + एवं चित्तम् उत्पादयितव्यं | सन्त्य् अन्-आभास-गताः सत्वा ये मम चक्षुषु आभासं न + आगच्छन्ति | तेषाम् इतः पिण्ड-पाताद् अग्रं प्रत्य्-अंशं निर्यातयामि | दत्त-आदानाः परिभुञ्जतां | तेन तत् पिण्ड-पातं गृहीत्वा तद् अरण्य-आयतनम् अभिरुह्य धौत-पाणिना शोभन-समाचारेण श्रमण-चारित्र-कल्प-समत्व-आगतेन + अधिष्ठान-अधिष्ठितेन पर्यङ्कं बद्ध्वा स-पिण्ड-पातः परिभोक्तव्यः || पे ||
SK
परिभुञ्जता च + एवं मनसि-कार उत्पादयितव्यः | सन्त्य् अस्मिन् काये * अशीतिः क्रिमि-कुल-सहस्राणि | तान्य् अनेन + एव + ओजसा सुखं फासुं विहरन्तु | इदानीं च + एषाम् आमिषेण संग्रहं करिष्यामि | बोधि-प्राप्तश् च पुनर् धर्मेण संग्रहं करिष्यामि | यदि पुनर् अस्य लूहं पिण्ड-पातं भवति तेन + एवं चित्तम् उत्पादयितव्यं | लूह-आहारतया मे लघुः कायो भविष्यति प्रहाण-क्षम उच्चार-प्रस्राव-निष्यन्दनश् च मे परीत्तो भविष्यति | श्रद्धा-देयं च परीत्तं भविष्यति | काय-लघुता चित्त-लघुता च मे भविष्यति | अल्प-म्लान-मिद्धश् च मे भविष्यति | यदा पुनर् अस्य प्रभूतः पिण्ड-पातो भवति तत्र + अपि मात्र-आभोजिना भवितव्यं उत्सर्जन-धर्मिणा च | ततः पिण्ड-पाताद् अन्यतरायां शिलायाम् अवतीर्य + एवं चित्तम् उत्पादयितव्यं | ये के-चिन् मृग-पक्षि-संगा आमिष-भोजनेन + अर्थिकास् ते दत्त-आदानाः परिभुञ्जताम् इति ||
SK
पुनर् आह | तेन सर्वेण रस-संज्ञा न + उत्पादयितव्या || पे ||
SK
चण्डाल-कुमार-सदृशेन मया भवितव्यं | चित्त-काय-चौक्षेण | न भोजन-चौक्षेण | तत् कस्माद् * धेतोः | कियत्-प्रणीतम् अपि भोजनं भुक्तं | सर्वं तत् पूति-निष्यन्द-पर्यवसानं दुर्-गन्ध-पर्यवसानं प्रतिकूल-पर्यवसानं | तस्मान् मया न प्रणीत-भोजन-आकाङ्क्षिणा भवितव्यं | तेन न + एवं चित्तम् उत्पादयितव्यं |पुरुषो मे पिण्ड-पातं दद्-ति न स्त्रीः | स्त्री मे पिण्ड-पातं ददाति न पुरुषः | दारको मे पिण्ड-पातं ददाति न दारिका | दारिका मे पिण्ड-पातं ददाति न दारकः | प्रणीतं लभे * अहं न लूहं | सत्-कृत्य लभे * अहं न + अ-सत्-कृत्य | चपलं लभे * अहं न कृच्छ्रेण प्रविष्ट-मात्रं च मां समन्वाहरेयुः | न मे कश्-चिद् विक्षेपो भवेत् | सु-निहितांल् लभे * अहं प्रणीतान् नाना-रसांल् लभे * अहम् | न हीन-दरिद्र-भोजनं लभे * अहं प्रत्युद्गच्छेयुर् मां स्त्री-पुरुष-दारक-दारिकाः | इमे ते सर्वे * अ-कुशला मनसि-कारा न + उत्पादयितव्यः || पे ||
SK
प्रायेण हि सत्वा रस-गृद्धा भोजन-हेतोः पापानि कर्माणि कृत्वा नरकेषु + उपपद्यन्ते | ये ये पुनः संतुष्टा अ-गृद्धा अ-लुलोपा रस-प्रतिप्रस्रब्धा जिह्व-इन्द्रिय-संतुष्टाः कियल्-लूहेन + अपि भोजनेन ज्ञापयन्ति | तेषां च्युतानां काल-गतानां स्वर्ग-उपपत्तिर् भवति | सु-गति-गमनं भवति देव-मनुष्येषु | ते देव-उपपन्नाः सुधां परिभुञ्जते | एवं काश्यप पिण्ड-चारिकेण भिक्षुणा रस-तृष्णां विनिवर्तयित्वा निध्यप्त-चित्तेन सु-परिपक्वान् कुल्माषान् परिभुञ्जता न परितप्तव्यम् | तत् कस्माद् * धेतोः | काय-संधारण-अर्थं मार्ग-संधारण-अर्थं मया भोजनं परिभोक्तव्यं || पे ||
SK
यदि पुनः काश्यप पिण्ड-चारिको भिक्षुर् मेघ-आकुल-वृष्टि-काल-समये वर्तमाने न शक्नुयात् पिण्डाय + अवतर्तुं | तेन मैत्र्या + आहार-संनद्धेन धर्म-चिन्ता-मनसि-कार-प्रतिष्ठितेन द्वि-रात्रं त्रि-रात्रं वा भक्त-च्छद-च्छिन्नेन एवं संज्ञा + उत्पादयितव्या | सन्ति याम-लौकिकाः प्रेता दुष्-कर-कर्म-कारिणो ये वर्ष-शतेन खेट-पिण्डम् अप्य् आहारं न प्रतिलभन्ते | तन् मया धर्म-योनिशश् चिन्ता-प्रतिष्ठितेन काय-दौर्बल्यं वा चित्त-दौर्बल्यं वा न + उत्पादयितव्यं | अधिवासयिष्यामि क्षुत्-पिपासां | न पुनर् आर्य-मार्ग-भावनायां वीर्यं स्रंसयिष्यामि || पे ||
SK
यत्र कुले पिण्ड-पातं शुचिं कारयेत् तत्र कुले आसने निषद्य धार्मी कथा कर्तव्या | यावन् न स पिण्ड-पातः शुची-क्र्टो भवेत् तेन पिण्ड-पातं गृहीत्वा उत्थाय + आसनात् प्रक्रमितव्यं | पिण्ड-चारिकेण काश्यप भिक्षुणा न + अवभास-करेण भवितव्यं न लपना न कुहना कर्तव्या ||
SK
तत्र कतमो * अवभासः | यत् परेषाम् एवं वाचं भाषते | लूहो मे पिण्ड-पातो रुक्षो मे पिण्ड-पात आसीन् न च मे यावद्-अर्थं भुक्तं | बहु-जन-साधारणश् च मे पिण्ड-पातः कृतः | अल्पं मे भुक्तं जिघत्सितो * अस्मि + इति | यत् किञ्-चिद् एवं-रूपम् अवभास-निमित्तं | इयम् उच्यते चित्त-कुहना | सर्वम् एतत् पिण्ड-चारिकेण भिक्षुणा न कर्तव्यं | उपेक्षक-भूतेन | यत् पात्रे पतितं लूहं वा प्रणीतं वा शुभं वा + अ-शुभं वा तत् परिभोक्तव्यम् अ-परितप्यमानेन + आशय-शुद्धेन धर्म-निध्यप्ति-बहुलेन | काय-जापन-अर्थम् आर्य-मार्गस्य + उपस्तम्भ-अर्थं स पिण्ड-पातः परिभोक्तव्य इति ||
SK
तथा + आर्य-उग्र-परिपृच्छायाम् अप्य् उक्तं | यस्याश् च + अन्तिके पिण्ड-पातं परिभुज्य न शक्नोत्य् आत्मनः परस्य च + अर्थं परिपूरयितुम् अनुजानाम्य् अहं तस्य पिण्ड-चारिकस्य बोधि-सत्वस्य निमन्त्रणम् इति ||
SK
एवं तावत् सतत-भैषज्येन + आत्म-भाव-रक्षा कार्या | तत्र + अपि न मत्स्य-मांसेन लङ्का-अवतार-सूत्रे प्रतिषिद्धत्वात् ||
SK
तथा ह्य् उक्तं | मांसं सर्वम् अ-भक्ष्यं कृप-आत्मानो बोधि-सत्वस्य + इति वदामि || पे ||
SK
स्वाजन्याद् व्यभिचाराच् च शुक्र-शोणित-संभवात् | उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत् ||
SK
मांसानि च पलाण्डूंश् च मद्यानि विविधानि च | गृञ्जनं लशुनं च + एव योगी नित्यं विवर्जयेत् ||
SK
म्रक्षणं वर्जयेत् तैलं शल्य-विद्धेषु न स्वपेत् | छिद्र-अ-छिद्रेषु सत्वानां यच् च स्थानं महा-भयम् || पे ||
SK
लाभ-अर्थं हन्यते प्राणी मांस-अर्थं दीयते धनं | उभौ तौ पाप-कर्माणौ पच्येते रौरव-आदिषु ||
SK
यावत् ||
SK
यो * अतिक्रम्य मुनेर् वाक्यं मांसं भक्षेत दुर्-मतिः | लोक-द्वय-विनाश-अर्थं दीक्षितः शाक्य-शासने ||
SK
ते यान्ति परमं घोरं नरकं पाप-कॠइणः | रौरव-आदिषु रौद्रेषु पच्यन्ते मांस-खादकाः ||
SK
त्रि-कोटि-क्षुद्धं मांसं वै अ-कल्पितम् अ-याचितं | अ-चोदितं च न + एव + अस्ति तस्मान् मांसं न भक्ष्ययेत् ||
SK
मांसं न भक्ष्ययेद् योगी मया बुद्धैश् च गर्हितं | अन्यो-न्य-भक्षणाः सत्वाः क्रव्य-अद-कुल-संभवाः ||
SK
यावत् ||
SK
दुर्-गन्धः कुत्सनीयश् च उत्मत्तश् च + अपि जायते | चण्डाल-पुक्कस-कुले डोम्बेषु च पुनः पुनः ||
SK
डाकिनी-जाति-योनौ च मांस-अदे जायते कुले | ऋक्ष-मार्जर-योनौ च जायते * असौ नर-अधमः ||
SK
हस्ति-कक्ष्ये महा-मेघे निर्वाण-अङ्गुलिमालिके | लङ्का-अवतार-सूत्रे च मया मांसं विगर्हितं ||
SK
बुद्धैश् च बोधि-सत्वैश् च श्रावकैश् च विगर्हितं | खादते यदि निर्-लज्ज उन्मत्तो जायते सदा ||
SK
ब्राह्मणेषु च जायन्ते अथ वा योगिनां कुले | प्रज्ञावान् धनवांश् च + एव मांस-अद्यानां विवर्जनात् ||
SK
दृष्ट-श्रुत-विशङ्काभिः सर्वं मांसं विवर्जयेत् | तार्किका न + अवबुध्यन्ते क्रव्य-अद-कुल-संभवाः ||
SK
यथा + एष रागो मोक्षस्य अन्तराय-करो भवेत् | तथा + एव मांस-मद्य-आदि अन्तराय-करं भवेत् ||
SK
वक्षन्त्य् अन्-आगते काले मांस-अदा मोह-वादिनः | कल्पिकं निर्-अवद्यं च मांसं बुद्ध-अनुवर्णितं ||
SK
भेषज्यम् इव आहारं पुत्र-मांस-उपमं पुनः | मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत् ||
SK
मैत्री-विहारिणा नित्यं सर्वथा गर्हितं मया | सिंह-व्याघ्र-मृग-आद्यैश् च सह एकत्र संभवेत् ||
SK
तस्मान् न भक्षयेन् मांसम् उद्वेज-जनकं नृणां | मोक्ष-धर्म-निरुद्धत्वाद् आर्याणाम् एष वै ध्वजः ||
SK
यत् तु ज्ञानवती-परिवर्ते मांस-भक्षणं पठ्यते तन् महा-अर्थ-साधकत्वान् निर्-दोषम् ||
SK
एवं हि तथा + उक्तं | एषो * अकरिष्यद् यदि भिक्षु कालं | समाधि-शब्दो * अपि हि जम्बु-द्वीपे | निरुद्धु सत्वान सदा + अभविष्यद् | चिकित्सिते अस्मि समाधि लब्धः ||
SK
न च महा-करुणा-अभियुक्तम् | तेन अस्मिन् न मैत्री शङ्का + अपि न + अस्ति + इत्य् अ-दोषः ||
SK
यद्य् अप्य् आर्य-रत्न-मेघे * अभिहितं | श्माशानिकेन निर्-आमिषेण भवितव्यम् इति ||
SK
तद् अन्यत्र + एवं जातीय-सत्व-अर्थ-संदर्शन-अर्थं | विनये * अपि यद् अनुज्ञातं तत् तु त्रि-कोटि-परिशुद्ध-भक्षणे न प्रहाण-अन्तराय इति | तत् परित्यागेन शुद्ध-दृष्टीनाम् अभिमान-निरास-अर्थं | तद् वृद्धतया च भव्यानां शासन-अन्-अवतार-परिहार-अर्थं ||
SK
तथा ह्य् उक्तं लङ्का-अवतार-सूत्रे | तत्र तत्र देशना पाठे शिक्षा-पदानाम् आनुपूर्वीं बन्धन् निश्रेणी-पद-विन्यास-योगेन | त्रि-कोटिं बद्ध्वा | तत्र उद्दिष्य क्र्टानि प्रतिषिद्धानि ततो * अन्तशः प्रकृति-मृतान्य् अपि प्रतिषिद्धानि + इति ||
SK
उक्तं सतत-भैषज्यं | ग्लान-प्रत्यय-भैषज्यं तत् सेव्यम् एव ||
SK
श्रावक-विनये * अपि तावद् आत्म-अर्थं ब्रह्म-चर्य-वास-अर्थं पात्र-चीवरम् अपि विक्रीय | काय-संधारणम् उक्तं | किं पुनर् अ-परिमित-जन-परित्राण-हेतोर् बोधि-सत्व-शरीरस्य दुर्-लभा च + ईदृशी क्षण-प्रतिलाभ-उत्सव-सम्पद् | इति तत्-प्रदर्शन-अर्थं च भगवता तत्र स्वयं भैषज्य-उपयोगः प्रदर्शितः ||
SK
उक्तं च + आर्य-रत्न-मेघ-सूत्रे | तैर् यदा प्रचारितं भवति तदा सत्यां वेलायाम् अ-सत्यां वा तेषाम् इमान्य् एवं-रूपाणि काय-उपस्तम्भनान्य् उपकरणानि न लभ्यन्ते * अभ्यवहर्तुं | यद् उत सर्पिर् वा तैलं वा मूल-रसो वा गण्ड-रसो वा फल-रसो वा | न च + अन्यान् अभ्यवहरतो दृष्ट्वा प्रतिघ-चित्तम् उत्पादयति | यदि पुनः खलु पश्चाद्-भक्तिको बोधि-सत्वो वा ग्लानो भवति | यथा-रूपेण + अस्य ग्लान्येन जीवित-अन्तरायो भवति कुशल-पक्ष-अन्तरायो वा तेन निष्-कौकृत्येन भूत्वा निर्-विचिकित्सकेन भैषज्य-चित्तम् उपस्थाप्य प्रतिनिसेव्यानि + इति ||
SK
वसन-उपभोग-प्रयोजनम् उग्र-परिपृच्छा-सूत्रे * अभिहितं | ह्रीर्-अपत्राप्य-कापैर् निः-... [दोउब्त्fउल्] प्रच्छादन-अर्थं तु श्रमण-लिङ्ग-संदर्शन-अर्थम् इमानि च काषायाणि देव-मानुष-असुरस्य लोकस्य चैत्यम् इति | चैत्य-अर्थं सम्यग्-धारितव्यानि | निर्वृति-विराग-रक्तानि [दोउब्त्fउल्] एतानि | न राग-रक्तानि | उपशम-अनुकूलान्य् एतानि | न संक्लेश-संधुक्षण-अनुकूलानि | एभिश् च काषायैर् विवृत-पापा भविष्यामः | सु-कृत-कर्म-कारिणो न चीवर-मण्डन-अनुयोगम् अनुयुक्ताः | एतानि च काषायाण्य् आर्य-मार्ग-संभार-अनुकूलानि + इति कृत्वा तथा करिष्यामो यथा न + एक-क्षणम् अपि स-कषायाः काये काषायाणि धारयिष्याम इति ||
SK
अत्र च कारणं रत्न-राशि-सूत्रे * अभिहितं | ये पुनस् ते काश्यप वैदर्या अ-संयता इतः श्रमण-गुण-धर्माद् उद्धुराः काये काषायाणि वस्त्राणि धारयन्ति | न च + एतेषु गौरवम् उत्पादयन्ति | तत्र काश्यप श्रमण-वर्ण-प्रति-रूपकं नाम प्रत्य्-एक-नरकं | तत्र काश्यप प्रत्य्-एक-नरके श्रमण-रूप-प्रति-रूपेण ताः कारणाः कार्यन्ते आदीप्त-चैला आदीप्त-शीर्षा आदीप्त-पात्रा आदीप्त-आसना आदीप्त-शयनाः | यः कश्-चित् तत्र तेषाम् उपभोग-परिभोगः स सर्व आदीप्तः संप्रज्वलित एक-ज्वाली-भूतः | तत्र तैः श्रमण-वर्ण-रूपेण दुष्खां वेदनाम् अनुभवन्ति + इति ||
SK
आर्य-रत्न-मेघे * अप्य् उक्तं | यदि भवेद् अभ्यवकाशिको बोधि-सत्वो ग्लान-कायो * अ-प्रति-बल-कायस् तेन विहार-क्षितेन + एवं चित्तम् उत्पादयितव्यं | क्लेश-प्रति-पक्ष-अर्थं तथा-गतेन धुत-गुणाः प्रज्ञप्ताः | तथा + अहं करिष्यामि यथा विहारस्य एव क्लेशानां प्रहाणाय घटिष्यामि | तत्र च विहारे न गृद्धिम् उत्पादयामि न + अध्यवसानं | एवं च + अस्य भवति | कर्तव्यो दान-पतीनाम् अनुग्रहो न + अस्माभिर् आत्मम्भरिभिर् भवितव्यम् इति ||
SK
पुनर् अत्र + एव + आह | ते शय्यां कल्पयन्तो दक्षिणेन पार्श्वेन शय्यां कल्पयन्ति | पादस्य + उपरि पादम् आधाय चीवरैः अ-संवृत-कायाः स्मृताः | संप्रजानाना उत्थान-संज्ञिन आलोक-संज्ञिनः शय्यां कल्पयन्ति | न च निद्रा-सुखम् आस्वादयन्ति | न पार्श्व-सुखम् अन्य्त्र यावद् एव + एषां महा-भूतानां स्थितये जापनायै | इत्य् अनया दिशा सर्व-परिभोगाः सत्व-अर्थम् अधिष्ठातव्याः | आत्म-तृष्णा-उपभोगात् तु क्लिष्ट-आपत्तिः प्रजायते ||
SK
यथा + उक्तं चन्द्र-प्रदीप-सूत्रे | ते भोजनं स्वादु-रसं प्रणीतं | लब्ध्वा च भुञ्जन्ति अ-युक्त-योगाः | तेषां स आहारु बधाय भोती | यथ हस्ति-पोतान विषा अ-धौता ||
SK
इति ||
SK
आर्य-रत्न-राशि-सूत्रे * अपि भगवता श्रद्धा-देय-परिभोगे परिकीर्तिते | अथ तस्याम् एव पर्षदि योग-आचाराणां भिक्षूणां द्वे शते इमं धर्म-पर्यायं श्रुत्वा प्ररुदिते | एवं च वाचम् अभाषन्त | कालं वयं भगवन् करिष्यामो | न पुनर् अ-प्राप्त-फला एक-पिण्ड-पातम् अपि श्रद्धा-देयस्य परिभोक्ष्यामः ||
SK
भगवान् आह | साधु साधु कुल-पुत्रा एवं-रूपैर् लज्जाभिः कौकृत्य-संपन्नैः पर-लोक-अ-वद्य-भय-दर्शिभिर् इदं प्रवचनं शोभते ||
SK
अपि तु ||
SK
द्वयोर् अहं काश्यप श्रद्धा-देयम् अनुजानामि | कतमयोर् द्वयोः | युक्तस्य मुक्तस्य च | यदि भिक्षवो भिक्षुर् युक्तो योग-आचारो मम शिक्षायां प्रतिपन्नः सर्व-संस्कारेष्व् अ-नित्य-दर्शी | सर्व-संस्कार-दुःख-विदितः सर्व-धर्मेष्व् अन्-आत्म-अधिमुक्तिः शान्त-निर्वाण-अभिकाङ्क्षी सुमेरु-मात्रैर् आलोपैः श्रद्धा-देयं भुञ्जीत | अत्यन्त-परिशुद्धा + एव तस्य सा दक्षिणा भवति | येषां च दायकानां दान-पतीनां सकाशाच् * छ्रद्धा-देयं परिभुक्तं ततस् तेषां दायक-दान-पतीनां मह-र्द्धिकः पुण्य-विपाको भवति | महा-द्युतिकः | तत् कस्माद् * धेतोः | अग्रम् इदम् औपधिकानां पुण्य-क्रिया-वस्तूनां या + इयं मैत्र-चित्त-समापत्तिः | तत्र काश्यप यो भिक्षुर् दायकस्य दान-पतेर् अन्तिकाच् चीवर-पिण्ड-पातं परिभुज्य-अ-प्रमाणं चेतः-समाधिं समापद्यते * अ-प्रमाणस् तस्य दायकस्य दान-पतेः पुण्य-क्रिया-विपाकः प्रतिकाङ्क्षितव्यः | स्यात् काश्यप त्रि-साहस्र-महा-साहस्रायां लोक-धातौ महा-समुद्राणां क्षयो न त्व् एव तस्य पुण्य-निष्यन्दनस्य कश्-चित् क्षय इति ||
SK
तद् एवं पिण्ड-पात-गमनआरम्भे भोजन-आरम्भे वा त्रिषु स्थानेषु स्मृतिर् उपस्थाप्या दायक-अनुग्रहे | काय-क्रिमि-संग्रहे | सर्व-सत्व-अर्थ-साधके च सद्-धर्म-परिग्रहे ||
SK
तथा-गत-आज्ञा-संपादने तु सर्व-कार्येषु स्मृतिः कार्या | आदि-शब्दान् मन्त्रैर् अपि रक्षा कार्या ||
SK
तत्र + अपि तावद् इमां त्रि-समय-राज-उक्तां विद्यां मण्डल-समय-अर्थम् उच्चारयेत् | नमः सर्व-बुद्ध-बोधि-सत्वानां ॐ विरजि महा-चक्र-विरजि | सत सारत त्रपि विधमनि | सभजनि | संभजनि | तरमति | सिद्ध अग्रे त्वं स्वाहा ||
SK
अनेन सर्व-मण्डल-प्रविष्टो भवति ||
SK
अथ-वा तथा-गत-हृदयम् अष्ट-सहस्त्रं जपेत् स-लौकिक-लोक-उत्तर-मण्डल-प्रविष्टो भवति | कतमच् च तत् ||
SK
नमस् त्रैयब्धिकानां तथा-गतानां | सर्वत्र-अ-प्रतिहत-अवाप्ति-धर्मता-बलिनां | आं अ-सम-सम समन्ततो * अन्-अन्तन-अवाप्ति-शासनि | हर स्मर स्मरण विगत-राग-बुद्ध-धर्मते | सर सम-बला | हस | त्रय | गगन महा-अ-चल-रक्षण | ज्वल ज्वलन सागरे स्वाहा ||
SK
अयं सर्व-तथा-गतानाम् आत्म-भावः | अत्र + अन्-उत्तरं गौरवं भावयितव्यं | अनेन + आदि-कर्मिका अपि सत्वेष्व् अनन्तं बुद्ध-कृत्यं कुर्वन्ति | अयम् एव परमां रक्षां मार-आदिभ्यः सर्व-दुष्टेभ्यः करोति | हस्त-ताडेन भस्मना सर्षपैर् उदकेन दृष्ट्या मनसा वा सीमा-बन्धं करोति ||
SK
व्याधिषु भैषज्यम् उदकं च + अभिमन्त्र्य + उपयोज्यं ||
SK
वन-कुसुमानि वा चैत्ये प्रतिमायां सद्-धर्म-पुस्तके वा समाहितो निवेदयेत् ||
SK
पक्ष-प्रयोगान् महा व्याधिभिर् अभिमुच्यते | बुद्ध-बोधि-सत्व-आलम्बनेन सर्व-सत्व-अर्थ-अभिलाषिणा च चित्तेन भद्र-चरि-विधि-पूर्वकं च जप्तव्यः | अयं विधिर् अस्य कल्पस्य + अवसाने द्रष्टव्यः | त्रि-समय-जापिनश् च + आम्नायतो न दोषः | उत्सिष्टस्य + अप्य् अ-शुचेर् न दोषः | मुद्रा-आकारा न भक्षणीया न लङ्घनीया | न मञ्च-आरोहः कर्तव्यः | न मद्यं पातव्यं | अधिमुक्ति-चर्या शिक्षा-पदेष्व् अ-चलस्य निर्-विचिकित्सस्य दुः-शील-पूर्वस्य + अपि सिध्यति | पण्डितस्य + अ-पण्डितस्य वा नियतं सिध्यति ||
SK
तथा च + अत्र + एव + उक्तं | बोधि-चित्तं दृढं यस्य निः-संगा च मतिर् भवेत् | विचिकित्सा न + एव कर्तव्या तस्य + इदं सिध्यति ध्रुवम् | इति ||
SK
बोधि-चित्त-दृढता च + अत्र पृथग्-जन-चल-चित्तताया नियम-अर्थम् उक्ता न तु भूमि-प्रविष्टम् अधिकृत्य ||
SK
यस्माद् अत्र + उक्तं | प्रत्युद्धारताम् अवभासतां च प्रतिलब्धु-कामेन |महा-अन्ध-काराद् आलोकं प्रवेष्टु-कामेन | यद् भूयसा विनिपतितेन साध्यं | तथा कुतो मम + अल्प-पुण्यस्य सिद्धिर् इति नीच-चित्त-प्रतिषेधः | न च + अतिक्रान्त-दुर्-गतेर् उत्साह-ऊर्मि-बहुलस्य + उपचित-अ-प्रमेय-पुण्य-स्कन्धस्य भूमि-प्रविष्टस्य + अयं पूर्व-उक्तो दोषः संभवति | अत्र च मन्त्राणाम् अ-ज्ञानान् न + अधिक-अक्षर-पाठे दोषो * अस्ति | न + अपि न्यूनता-दोषः | न + अपि विधि-भ्रंस-दोषः | किं-तु श्रद्धा-वेगं बोधि-चित्त-वेगं सर्व-उत्सर्ग-वेगं च प्रमाणी-कृत्य + अ-विचारतः प्रवर्तितव्यम् अ-वश्यं बुद्ध-बोधि-सत्वम् इह + एव यथा-इष्ट-सिद्धिश् च भवति ||
SK
अथ-वा + अनेन सर्व-वज्र-धर-मन्त्रेण रक्षां कुर्यात् | नमस् त्रैयब्धिकानां तथा-गतानां सर्व-वज्र-धराणां चण्डाल | चल | वज्र | शान्तन | फलन | चर | मारण | वज्र-डाल-फट | ललित-शिखर समन्त-वज्रिणि | ज्वल | नमो * अस्तु ते अग्र-उग्र-शासानानां रण हं फुल स्फाट वज्र-उत्तमे स्वाहा ||
SK
अनेन पठित-मात्रेण सर्व-विघ्न-विनायका न + उपसंक्रामन्ति | देव-नाग-आदयो न प्रसहन्ते | भोजन-पान-शयन-आसन-वसन-पूजा-उपकरणानि च + अभिमन्त्रितेन जलेन दृष्ट्या मनसा वा रक्षेत | अ-चल-हृदयेन वा सर्वम् एतत् कुर्यात् ||
SK
इदं च तत् ||
SK
नमः समन्त-वज्राणां त्राट | अ-मोघ चण्ड-महा-रोषण स्फाटय हूं | भ्रामय हूं | त्राट हूं | मां | ॐ बलं ददे तेजो-मालिनि स्वाहा ||
SK
अनेन प्रथमं पिण्डम् अष्ट-अभिमन्त्रितं भुञ्जीत भैषज्य-राजतां बुद्ध-बोधि-सत्वानाम् अनुस्मृत्य ||
SK
विष-प्रतीकारस् तु ||
SK
तद् यथा | इलिमित्ते | तिलिमित्ते | इलितिलिमित्ते | दुम्बे | दुःसे | दुःसालीये | दुम्बालीये | तक्के | तर्क्करणे | मर्म्मे | मर्मरणे | कश्मीरे | कश्मीर-मुक्ते | अघने | अघनघने | इलिमिलीये | अखाप्ये | अपाप्ये श्वेते | श्वेत-तुण्डे | अनानुरक्षे स्वाहा ||
SK
य इमां विद्यां सकृच् * छृणोति स सप्त वर्षाण्य् अहिना न दश्यते | न च + अस्य काये विषं क्रामति | यश् च + एनं अहिर् दशति सप्तधा + अस्य स्फुटेन् मूर्द्धा अर्जकस्य + इव मञ्जरी ||
SK
य इमां विद्यां धारयति स यावज्-जीवम् अहिना न दश्यते | न च + अस्य काये विषं क्रामति | इमानि च मन्त्र-पदानि सर्पस्य पुरतो न वक्तव्यानि यत्-कारणं सर्पो म्रियते ||
SK
तद् यथा | इल्ला | चिल्ला | चक्को | बक्को | कोडा कोडेति | निकुरुडा निकुरुडेति | पोडा पोडेति | मोडा | मोडेति | पुरुडा पुरुडेति | फट रहे | फुट्टण्ड रहे | नाग रहे | नागट्टण्डरहे | सर्प रहे | सर्पट्टण्डरहे | अच्छे | छल विषशाते | शीतवत्ताले | हलले | हलले | तण्डि | तड | ताडि | मल | स्फुट | फुटु | स्वाहा ||
SK
इति हि भिक्षवो जाङ्गुल्यां विद्यायां उदाहृतायां सर्व-भूत-समागते सर्वं तथा-अ-वितथा-अन्-अन्यथा-भूतं सत्यम् अ-विपरीतम् अ-विपर्यस्तं | इदं विषम् अ-विषं भवतु | दातारं गच्छतु | दंष्ट्रारं गच्छतु | अग्निं गच्छतु | जलं गच्छतु | स्थलं गच्छतु | स्तम्भं गच्छतु | कुड्यं गच्छतु | भूमिं संक्रामतु | शान्तिं गच्छतु स्वाहा ||
SK
चोर-आदि-प्रतीकारे मारीचीं जपेत् ||
SK
तद् यथा | पराक्रमसि | उदयम् असि | वैरम् असि अर्कम् असि | मर्कम् असि | वनम् असि | अन्तर्-द्धानम् असि | पथे मे रक्ष | उत्पथे मे रक्ष | जनतो मे रक्ष | चौरतो मे रक्ष | राजतो मे रक्ष | सिंहतो मे रक्ष | व्याघ्रतो मे रक्ष | नागतो मे रक्ष | सर्पतो मे रक्ष | सर्वतो मे रक्ष | रक्ष मां सर्व-सत्वांश् च सर्व-भयेभ्यः सर्व-उपाये स-उपसर्गेभ्यः स्वाहा ||
SK
उंवडिलि सर्व-दुष्टानां ग्रन्थिं वन्दामि स्वाहा ||
SK
नमो रत्न-त्रयाय | नमो मारीच्यै देवतायै | मारीच्या देवताया हृदयम् आवर्तयिष्यामि ||
SK
त यथा | बत्तालि | बदालि | बदालि | बरालि | वराह-मुखि | सर्व-दुष्टानां निवारय | बन्ध मुखं स्वाहा ||
SK
इमाम् अपि विद्याम् अन्-अन्त-जाति-स्मर-हेतुं महा-प्रभावां सप्त-पञ्चाशद्-अक्षरां विद्या-धर-पिटक-उपनिबद्धां सर्व-भय-रक्षा-अर्थं प्रयुञ्जीत ||
SK
तद् यथा | अट्टे | बट्टे | नट्टे | कुनट्टे | टके | ठके | ठरके | उरुमति | रुरुमति | तुरु | हिलि मिलि | सर्व-ज्ञ-उदुपदग्ग [दोउब्त्fउल्] | नमो सब्ब-सम्म-संबुद्धाणं सिज्झन्तु मे मन्त-पदाः स्वाहा ||
SK
एषा रक्षा + आत्म-भावस्य भैषज्य-वसन-आदिभिः | सत्व-अर्थ-स्मृति-पूर्वकम् एव वक्तव्या ||
SK
आत्म-तृष्णा-उपभोगात् तु क्लिष्ट-आपत्तिः प्रजायते ||
SK
सर्वं हि बोधि-सत्वेन + उत्सृष्टं सर्व-सत्वेभ्यः ||
SK
तत्र यदि विस्मृत्य पर-द्रव्यम् आत्म-भरण-तृष्णया परिभुङ्क्ते क्लिष्ट-आपत्तिम् आपद्यते | अथ वि-तृष्णो * अ-न्यासक्तो वा सत्व-कार्यम् अनुस्मृत्य भुङ्क्ते न क्लिष्टाम् आपत्तिम् आपद्यते | पर-द्रव्य-संज्ञी स्व-अर्थेन भुङ्क्ते स्तेय-आपत्तिम् आपद्यते | पूर-अर्घेण प्रातिमोक्षे पाराजिको भवति | सत्व-स्वामिकैस् तु भोगैः सत्व-स्वामिक एव + आत्म-भावः संरक्षत इत्य् अ-दोषः | न हि दासस्य नित्यं स्वामि-कर्म-व्यापृतस्य स्व-द्रव्यम् अस्ति येन वर्तेत ||
SK
उक्तं च धर्म-सङ्गीति-सूत्रे | दास-उपमेन बोधि-सत्वेन भवितव्यं सर्व-सत्व-किङ्-करणीय-प्रापणतया + इति ||
SK
न च + एक-अन्त-स्वाम्य्-अर्थ-परस्य दासस्य व्याध्य्-आदि-विक्लव-मतेः स्वामिनम् अन्-अनुज्ञाप्य + अपि भुञ्जानस्य कश्-चिद् दोषः | न + अप्य् एवं कुर्वाणस्य बोधि-सत्वस्य + अन्तिके कस्य-चिद् विदित-वृत्ता-अन्तस्य + अप्य् अ-प्रसादो युज्यते मात्सर्य-त्याग-चित्त-अ-परिज्ञानात् ||
SK
न च + अत्र न्याये कश्-चित् संदेहो युक्तः | सर्व-उत्सर्गो हि पूर्वम् एव भगवत्-कण्ठ-उक्त्या प्रतिपादितः | तथा च + आत्म-भाव-रक्षा सत्व-अर्थम् एव + उक्ता | तस्य स्पष्ट-अवबोध-अर्थम् अयं न्यायो * अभियुक्तो न तु स्व-अर्थ-अपेक्षया + इति ||
SK
इति शिक्षा-समुच्चये आत्म-भाव-रक्षा षष्ठः परिच्छेदः ||
SK
[VII. भोग-पुण्य-रक्षा]
SK
भोग-पुण्य-रक्षा सप्तमः परिच्छेदः एवं तावद् आत्म-भाव-रक्षा वेदितव्या | भोग-रक्षा तु वक्तव्या | तत्र सु-कृत-आरम्भिणा भाव्यं मात्र-ज्ञेन च सर्वत इति शिक्षा-पदाद् अस्य भोग-रक्षा न दुष्-करा ||
SK
उग्र-परिपृच्छायां हि शिक्षा-पदम् उक्तं | सु-समीक्षित-कर्म-कारिता सु-कृत-कर्म-कारिता च | तेन भोगानां दुर्-न्यासा प्रेत्यवेक्षा | अवज्ञा-प्रतिषेधः सिद्धो भवति | शमथ-प्रस्तावेन च मात्र-ज्ञता युक्ति-ज्ञता च + उक्ता ||
SK
तेन + इदं सिद्धं भवति | यद् इदं | अल्प-अधम-भोगेन + अपि कार्य-सिद्धौ सत्यां स्वयम् अन्यैर् वा बहूत्तम-भोग-नाशन-उपेक्षा न कार्या + इति ||
SK
अत एव + उग्र-परिपृच्छायाम् उक्तं | पुत्र-भार्या-दासी-दास-कर्म-कर-पौरुषेयाणां सम्यक्-परिभोगेन + इति | तथा स्व-पर-बोधि-पक्ष-श्रुत-आद्य्-अन्तराय-करौ त्याग-अ-त्यागौ न कार्यौ | अधिक-सत्व-अर्थ-शक्तेस् तुल्य-शक्तेर् वा बोधि-सत्वस्य + अधिक-तुल्य-कुशल-अन्तराय-करौ त्याग-अ-त्यागौ न कार्याव् इति सिद्धं भवति + इति ||
SK
इदं च संधाय बोधि-सत्व-प्रातिमोक्षे * अभिहितं | यस् तु खलु पुनः शारिपुत्र + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वो बोध्य्-अङ्गैर् अभियुक्तस् तेन कथं दानं दातव्यं | कतरं दानं दातव्यं | कियद्-रूपं दानं दातव्यं || पे ||
SK
धर्म-दायकेन भवितव्यं धर्म-दान-पतिना | यश् च शारिपुत्र गृही बोधि-सत्वो गङ्गा-नदी-वालिका-समानि बुद्ध-क्षेत्राणि सप्त-रत्न-प्रतिपूर्णानि कृत्वा तथा-गतेभ्यो * अर्हद्भ्यः सम्यक्-संबुद्धेभ्यो दानं दद्याद् | यश् च शारिपुत्र प्रव्रज्या-पर्यापन्नो बोधि-सत्व एकां चतुष्-पदिकां गाथां प्रकाशयेद् अयम् एव ततो बहुतरं पुण्यं प्रसवति | न शारिपुत्र तथा-गतेन प्रव्रजितस्य + आमिष-दानम् अनुज्ञातं || पे ||
SK
यस्य खलु पुनः शारिपुत्र पात्र-आगतः पात्र-पर्यापन्नो लाभो भवेद् धार्मिको धर्म-लब्धः | तेन साधारण-भोजिना भवितव्यं सार्द्धं स-ब्रह्म-चारिभिः | सचेत् पुनः कश्-चिद् एव + आगत्य पात्रं वा चीवरं वा याचेत | तस्य + अतिरिक्तं भवेद् बुद्ध-अनुज्ञातात् त्रि-चीवराद् | यथा परित्यक्तं दातव्यं | सचेत् पुनस् तस्य + ऊनं चीवरं भवेद् यन् निश्रित्य ब्रह्म-चर्य-वासः | तन् न परित्यक्तव्यं | तत् कस्य हेतोः | अ-विसर्जनीयं त्रि-चीवरम् उक्तं तथा-गतेन | सचेत् पुनः शारिपुत्र बोधि-सत्वः त्रि-चीवरं परित्यज्य याचनक-गुरुको भवेन् न तेन + अल्प-इच्छता आसेविता भवेत् | यस् तु खलु पुनः शारिपुत्र + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् तेन धर्म आसेवितव्यः | तन् न तेन + अभियुक्तेन भवितव्यम् इति ||
SK
अन्यथा ह्य् एक-संग्रह-अर्थं महतः सत्व-राशेस् तस्य च सत्वस्य बोधि-सत्व-आशय-परिकर्म-अन्तरायान् महतो * अर्थस्य हानिः कृता स्याद् | अत एव + उदार-कुशल-पक्ष-विवर्जनता + अपक्षाल इत्य् उच्यते | एवं तावत् त्याग-प्रतिषेधः | अ-त्याग-प्रतिषेधो * अपि ||
SK
यथा + आर्य-सागरमति-सूत्रे महा-यान-अन्तरायेषु बहु-लाभता पठ्यते | यो * अयं विधिर् आत्मन्य् उक्तः सो * अन्यस्मिन्न् अपि बोधि-सत्वे प्रतिपाद्य इति कुतो गम्यते | आर्य-उग्र-परिपृच्छायां देशितत्वात् | पर-कृत्य-कारितः स्व-कार्य-परित्याग इति ||
SK
तथा + आर्य-विमलकीर्ति-निर्देशे * अप्य् उक्तं | संसार-भय-भीतेन किं प्रतिसर्तव्यम् | आह | संसार-भय-भीतेन मञ्जुश्रीर् बोधि-सत्वेन बुद्ध-माहात्म्यं प्रतिसर्तव्यं | आह | बुद्ध-माहात्म्य-स्थातु-कामेन कुत्र स्थातव्यं | आह | बुद्ध-माहात्म्ये स्थातु-कामेन सर्व-सत्व-समतायां स्थातव्यं | आह | सर्व-सत्व-समतायां स्थातु-कामेन कुत्र स्थातव्यं | आह |सर्व-सत्व-समतायां स्थातु-कामेन सर्व-सत्व-प्रमोक्षाय स्थातव्यम् इति ||
SK
तथा च धर्म-सङ्गीतौ सार्थवाहो बोधि-सत्व आह | यो भगवन् बोधि-सत्वः सर्व-सत्वानां प्रथमतरं बोधिम् इच्छति न + आत्मनः | यावद् इयं भगवन् धर्म-सङ्गीतिर् इति ||
SK
उत्सर्गाद् एव च + अस्य स्व-अर्थ-अ-भावः सिद्धः | किं तु सत्व-अर्थ-हानि-भयाद् अ-योग्ये सत्वे सु-भरं न + आरोपयति | यत्र तु सत्व-अर्थ-हानिं न पश्यति तत्र स्वयं कृतम् अन्येन वा जगद् * धितम् आचरितम् इति को विशेषो | यद् अयम् अ-पर-बोधि-सत्व-कुशल-सिद्धये न स्व-कुशलम् उत्सृजति | अथ स्व-दुर्-गति-दुष्ख-द् बिभेति | द्वितीयस्य + अपि तद् एव दुष्खं | अथ तद्-दुष्खेन मे बाधा न + अस्ति + इत्य् उपेक्षते | यथा + उक्तैः सूत्रैः स-आपत्तिको भवति ||
SK
यथा च रत्न-कूट-सूत्रे | चत्वार इमे काश्यप बोधि-सत्व-प्रति-रूपका इत्य् आरभ्य + उक्तं | आत्म-सुख-अर्थिको भवति न सर्व-सत्व-दुष्ख-अपनयन-अर्थिक इति ||
SK
तस्माद् उग्र-परिपृच्छा-विधिना पूर्व-वद् आत्मा गर्हणीयः एषा तु बोधि-सत्व-शिक्षा यथा + आर्य-निर्-आरम्भेण धर्म-सङ्गीति-सूत्रे निर्दिष्टा | कथं कुल-पुत्राः प्रतिपत्ति-स्थीत वेदितव्याः | आह | यदा सत्वेषु न विप्रतिपद्यन्ते | आह | कथं सत्वेषु न विप्रतिपद्यन्ते | आह | यन् मैत्रीं च महा-करुणां च न त्यजन्ति | सुभूतिर् आह | कतमा बोधि-सत्वानां महा-मैत्री | आह | यत् काय-जीवितं च सर्व-कुशल-मूलं च सर्व-सत्वानां निर्यातयन्ति न च प्रतिकारं काङ्क्षन्ति | आह | कतमा बोधि-सत्वानां महा-करुणा | यत् पूर्वतरं सत्वानां बोधिम् इच्छन्ति न + आत्मन इति ||
SK
अत्र + एव च + आह | महा-करुणा-मूलाः सर्व-बोधि-सत्व-शिक्षा इति | अ-वश्यं च भगवता + इदं न निवारणीयं | अन्यतर-बोधि-सत्व-अर्थे न + अर्थित्वाद् अ-वश्यं तु + उपदिशति + इति निश्चीयते | येन दातुर् महा-दक्षिणीये महा-अर्थ-दानान् महा-पुण्य-सागर-विस्तरो दृश्यते | अन्यथा तु केवलम् एव विघातिनो मरणं स्यात् ||
SK
यत् तु प्रशान्त-विनिश्चय-प्रातिहार्य-सूत्रे देशितम् | य एष ते महा-राज वर्ष-शत-सहस्रेण परिव्ययो * अत्र प्रविष्टः स सर्वः पिण्डी-कृत्य + एकस्य भिक्षोर् यात्रा भवेद् एवं प्रत्य्-एकं सर्व-भिक्षूणां | यश् च + उद्देश-स्व-अध्याय-अभियुक्तो बोधि-सत्वः स-गौरवो धर्म-क-मः श्रद्धा-देयम् आहारं परिगृह्य + एवं चित्तम् उत्पादयेत् | अनेन + अहं धर्म-पर्येष्टिम् आपत्स्यए इति | अस्य कुशलस्य + एष देय-धर्म-परित्यागः शततमीम् अपि कलां न + उपैति + इति ||
SK
तद् गृह-सुख-पलिशुद्धम् अधिकृत्य + उक्तं | न तु पूर्व-उक्त-विधिना कश्-चिद् दोषः ||
SK
उक्तो समासता भोग-रक्षा | पुण्य-रक्षा वाच्या | तत्र स्व-अर्थ-विपाक-वैतृष्ण्याच् * छुभं संरक्षितं भवेत् ||
SK
यथा + उक्तं नारायण-परिपृच्छायां | स न + आत्म-हेतोः शीलं रक्षति | न स्वर्ग-हेतोः | न शक्रत्व-हेतोः | न भोग-हेतोः | न + ऐश्वर्य-हेतोः | न रूप-हेतोर् न वर्ण-हेतोर् न यशो-हेतोः | पे ||
SK
न निरय-भय-भि-तः शीलं रक्षति | पे ||
SK
एवं न तिर्यग्-योनि-भय-भीतः शीलं रक्षति | अन्यत्र बुद्ध-नेत्री-प्रतिष्ठापनाय शीलं रक्षति | यावत् सर्व-सत्व-हित-सुख-योग-क्षेम-अर्थिकः शीलं रक्षति ||
SK
स एवं-रूपेण शील-स्कन्धेन समन्वागतो बोधि-सत्वो दशभिर् धर्मैर् न हीयते | कतमैर् दशभिः | यद् उत न चक्र-वर्ति-राज्यात् परिहीयते | तत्र च भवत्य् अ-प्रमत्तो बोधि-प्रतिकाङ्क्षी बुद्ध-दर्शनम् अभिकाङ्क्षते | एवं ब्रह्मत्वाद् बुद्ध-दर्शन-अ-भेद्य-प्रतिलम्भाद् धर्म-श्रवणान् न परिहीयते | यावद् यथा-श्रुत-प्रतिपत्ति-संपादनाय बोधि-सत्व-संवर-समादानान् न परिहीयते | अन्-आछेद्य-प्रतिभानात् सर्व-कुशल-धर्म-प्रार्थन-ध्यानान् न परिहीयते ||
SK
एवं शील-स्कन्ध-प्रतिष्ठितो बोधि-सत्वो महा-सत्वः सदा नमस्-कृतो भवति देवैः | सदा प्रशंसितो भवति नागैः | सदा नमस्-कृतो भवति यक्षैः | सदा पूजितो भवति गन्धर्वैः सदा + अपचायितश् च भवति नाग-इन्द्र-असुर-इन्द्रैः | सदा सु-मानितश् च भवति ब्राह्मण-क्षत्रिय-श्रेष्ठि-गृह-पतिभिः | सदा + अभिगमनीयश् च भवति पण्डितैः | सदा समन्वाहृतश् च भवति बुद्धैः | शास्तृ-संमतश् च भवति स-देवकस्य लोकस्य + अनुकम्पकश् च भवति सर्व-सत्वानां || पे ||
SK
चतस्रो गतीर् न गच्छति | कतमाश् चतस्रो | यद् उत + अ-क्षण-गतिं न गच्छत्य् अन्यत्र सत्व-परिपाकात् | बुद्ध-शून्य-बुद्ध-क्षेत्रं न गच्छति | मिथ्या-दृष्टि-कुल-उपपत्तिं न गच्छति | सर्व-दुर्-गति-गतिं न गच्छति ||
SK
एवं पूर्व-उत्सृष्टस्य + अपि पुण्यस्य क्लेश-वशात् पुनर् उपादीयमानस्य रक्षा कार्या | पुण्य-दानाद् अपि यत् पुण्यं ततो * अपि न विपाकः प्रार्थनीयो * अन्यत्र पर-अर्थात् | किं च पुण्यं रक्षितु-कामः | पश्चात् तापं न कुर्वीत ||
SK
यथा + उक्तम् उग्र-परिपृच्छायां | दत्त्वा च न विप्रतिसार-चित्तम् उत्पादयितव्यम् इति ||
SK
पृष्ठ-दौर्बल्याद् दौर्बल्यं | विप्रतिसारात् पाप-वत् पुण्यस्य + अपि क्षयः स्याद् इत्य् अभिप्रायः | न च कृत्वा प्रकाशयेद् | अन्-एक-पर्यायेण हि भगवता प्रछन्न-कल्याणता | विवृत-पापता वर्णिता | तत्र विवृतसय् क्षयो गम्यते | पापस्य दौर्मनस्येन + एव पुण्यस्य सौमनस्येन + आपत्तिः सत्व-अर्थं निर्-आमिष-चित्तस्य प्रकाशयतः ||
SK
यथा रत्न-मेघे वैद्य-दृष्ट-अन्तेन आत्म-उत्कर्षो निर्-दोष उक्तः | पुनः पुण्य-रक्षा कामो लाभ-सत्-कार-भीतः स्याद् उन्नतिं वर्जयेत् सदा | बोधि-सत्वो प्रसन्नः स्याद् धर्मे विमतिम् उत्सृजेत् ||
SK
इदं च रत्न-कूटे * अभिहितं | चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधि-सत्वस्य + उत्पन्न-उत्पन्नाः कुशला धर्माः परिहीयन्ते | यैः चतुर्भिर् मुक्ताः न वर्धन्ते कुशल-धर्मैः | कतमैश् चतुर्भिः | यद् उत + अभिमानिकस्य लोक-आयत-मन्त्र-पर्येष्ट्या | लाभ-सत्-कार-अध्यवसितस्य कुल-प्रत्यवलोकनेन | बोधि-सत्व-विद्वेष-अभ्याख्यानेन | अ-श्रुतानाम् अ-निर्दिष्टानां च सूत्र-अन्तानां प्रतिक्षेपेण + इति ||
SK
आर्य-सर्व-अस्ति-वादानां च पठ्यते | पश्यध्वं भिक्षव एतं भिक्षुं केश-नख-स्तूपे सर्व-अङ्गेन प्रणिपत्य चित्तम् अभिप्रसादयन्तम् |एवं भदन्त | अनेन भिक्षवो भिक्षुणा यावती भूमिर् आक्रान्ता + अधर-शीति-योजन-सहस्राणि यावत् काञ्चन-चक्रं | अत्र + अन्तरे यावन्त्या वालिकास् तावन्त्य् अनेन भिक्षुणा चक्र-वर्ति-राज्य-सहस्राणि परिभोक्तव्यानि | यावद् अथ + आयुष्मान् उपालिर् येन भगवान् तेन + अञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत् | यद् उक्तं भगवता + अस्य भिक्षोर् एवं महान्ति कुशल-मूलानि | कुत्र + इमानि भगवन् कुशल-मूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति | न + अहम् उपाले एवं क्षतिं च + उपहतिं च समनुपश्यामि | यथा स-ब्रह्म-चारी स-ब्रह्म-चारिणो * अन्तिके दुष्ट-चित्तम् उत्पादयति | अत्र + उपाले इमानि महान्ति कुशल-मूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति | तस्मात् तर्ह्य् उपाले एवं शिक्षितव्यं यद् दग्ध-स्थूणायाम् अपि चित्तं न प्रदूषयिष्यामः | प्राग् एव स-विज्ञानके काय इति ||
SK
आर्य-मञ्जुश्री-विक्रीडित-सूत्रे * अप्य् आह | प्रतिघः प्रतिघ इति कल्प-शत-उपचितं कुशल-मूलं प्रतिहन्ति तेन + उच्यते प्रतिघ इति ||
SK
आर्य-गण्ड-व्यूह-सूत्रे च समन्त-सत्व-परित्राण्य् ओजसः स्त्रिया रात्रि-देवतया पूर्व-अवदानं कथयन्त्या + अभिहितं | ते तेन + अन्यो-न्य-अवमन्यन-अ-समुदितेन + अ-कुशल-मूलेन + आयुः-प्रमाणाद् अपि परिहीयन्ते स्म | वर्णाद् अपि बलाद् अपि परिहीयन्ते स्म + इति | अत्र च न कदा-चिद् उन्नतिः कार्या + इति प्रदर्शन-अर्थं सदा + इत्य् उच्यते ||
SK
लाभ-सत्-कारस् तु कदा-चिद् अभ्युपगम्यते * अपि | यथा + उक्तं आर्य-रत्न-मेघे | इह कुल-पुत्र बोधि-सत्वः सुमेरु-मात्रम् अपि रत्न-राशिं लभमानः प्रतिगृह्णाति | प्रत्यवरम् अपि वस्तु प्रतिलभमानः | तत् कस्य हेतोः | तस्य + एवं भवति | एते सत्वा मत्सरिणो लुब्धा लोभ-अभिभूताः | तद्-धेतोः तत्-प्रत्ययं तन्-निदानं महा-वारि-स्कन्ध-अवष्टब्दा इव संसार-सागरे उन्मज्ज-निमज्जनं कुर्वन्ति | तद् एषां भविष्यति दीर्घ-रात्रम् अर्थाय हिताय सुखाय | सर्वं प्रतिगृह्य न स्वी-करोति | न लोभ-चित्तम् उत्पादयति | अन्यत्र सर्व-सत्व-साधारणां बुद्ध-धर्म-संघेषु कारां करोति | यथा दुष्खितानां च सर्व-सत्वानाम् उपजीव्यं करोति |तं च दान-पतिं समुत्तेजयति संप्रहर्षयति + इति ||
SK
तथा + अत्र + एव + उक्तं | तेन च दानेन न + उन्नतो भवति + इति ||
SK
पुनर् अत्र + एव + आह | यदि पुनर् अस्य तद्-धेतोस् तत्-प्रत्ययं तन्-निदानं कीर्ति-शब्द-श्लोको भवति तत्र न + उन्नाम-जातो भवति न मान-जातो न मद-जातः | एवं च + अस्य भवति | न चिरेण कालेन यस्य च + अयं कीर्ति-श्लोक-शब्दः समुत्थितो यैश् च समुत्थापितो यश् च कीर्ति-शब्द-श्लोकस् त्रयम् अप्य् एतत् सर्वेण सर्वं न भविष्यति | तत्र कः पण्डित-जातीयो * अ-नित्येषु न च स्थितेषु धर्मेष्व् अ-ध्रुवेष्व् अन्-आश्वासिकेष्व् अनुनय-चित्तम् उत्पादयेद् उन्नतो भवेन् मान-दर्पितो वा | एवं हि बोधि-सत्वो लाभ-सत्-कार-कीर्ति-शब्द-श्लोकेषु सु-उपस्थित-स्मृतिर् विहरति + इति ||
SK
पुनर् आह | चण्डाल-कुमार-उपमाश् च लोके विहरन्ति नीच-नीचेन मनसा | मान-मद-दर्प-अधिगताश् च भवन्ति पैशुन्य-संज्ञायाः सतत-समितं प्रत्युपस्थितत्वाद् इति ||
SK
पुनर् अप्य् उक्तं | इह कुल-पुत्र + अभिनिष्क्रान्त-गृह-वासः प्रव्रजितो बोधि-सत्वो मृतक-सदृशो * अहं मित्र-अमात्य-ज्ञाति-सालोहितानाम् इति निहतमानो भवति | वैरूप्यं मे * अभ्युद्गतं वि-वर्णानि च मे वासांसि प्रावृतान्य् अन्यश् च मे आकल्पः संवृत्त इति निहतमानो भवति | मुण्डः पात्र-पाणिः कुलात् कुलम् उपसंक्रमामि भिक्षा-हेतोर् भिक्षा-निदानम् इति निहतमानो भवति | नीच-नीचेन चित्तेन चण्डाल-कुमार-सदृशेन पिण्डाय चरामि + इति निहतमानो भवति | पैण्डिलिको * अस्मि संवृतः | पर-प्रतिबद्धा च मे जीविका + इति निहतमानो भवति | अवधूतम् अवज्ञातं प्रतिगृह्णामि + इति निहतमानो भवति | आराधनीया मे आचार्य-गुरु-दक्षिणीया इति निहतमानो भवति | संतोषणीया मे स-ब्रह्म-चारिणो | यद् उत तेन तेन + आचार-गो-चर-समुदाचारेण + इति निहतमानो भवति | अ-प्रतिलब्ध-अनुबद्ध-धर्मान् प्रतिपत्स्यए इति निहतमानो भवति | क्रुद्धानां व्यापन्न-चित्तानां सत्वानां मध्ये क्षान्ति-बहुलो विहरिष्यामि + इति निहतमानो भवति + इति ||
SK
आर्य-सागरमति-सूत्रे * अप्य् उक्तं | सत्-काय-परिशुद्धश् च भवति | लक्षण-समलं-कृत-गात्र-मृदु-तरुण-हस्त-पादः स्व-विभक्त-पुण्य-निष्यन्द-गात्रो * अ-हीन-इन्द्रियः सर्व-अङ्ग-प्रत्य्-अङ्ग-परिपूर्णः | न च रूप-मद-मत्तो भवति | न काय-मण्डन-योग-अनुयुक्तः | स कियद् * धीनानाम् अपि सत्वानां रूप-विकलानाम् अप्य् अवनमति प्रणमति धर्म-ग्राह्यताम् उपादाय + इति ||
SK
पुनर् अत्र + एव + उक्तं | स्याद् यथा + अपि नाम भगवन् यदा महा-सागरः प्रतिसंतिष्ठते तदा निम्ने पृथिवी-प्रदेशे संतिष्ठते | तस्य निम्नत्वाद् अल्प-कृच्छ्रेण सर्व-नद्यश् च सर्व-प्रश्रवणानि च प्रपतन्ति | एवम् एव भगवन् निर्-मानस्य गुरु-दक्षिणीय-गौरवस्य बोधि-सत्वस्य + अल्प-कृच्छ्रेण तानि गम्भीराणि धर्म-सुखानि श्रोत-इन्द्रियस्य + आभासम् आगच्छन्ति | स्मृतौ च + अवतिष्ठन्ते | तस्मात् तर्हि भगवन् यो बोधि-सत्वो मान-उन्नतो भवति मान-स्तब्धः न च गुरु-दक्षिणीयेभ्यो * अवनमति न प्रणमति वेदितव्यं भगवन् मार-अङ्कुश-आविद्धो वत + अयं बोधि-सत्व इति ||
SK
आर्य-लोक-उत्तर-परिवर्ते च + उक्तं | दश + इमानि भो जिन-पुत्र बोधि-सत्वानां मार-कर्माणि | कतमानि दश | यद् इदं गुरु-दक्षिणीय-आचार्य-माता-पितृ-श्रमण-ब्राह्मण-सम्यग्-गत-सम्यक्-प्रतिपन्नेष्व् अ-गौरवता मार-कर्म | धर्म-भाणकानां विशिष्ट-धर्म-अधिगतानाम् उदार-धर्म-देशकानां महा-यान-समारूढानां निर्वाण-पथ-विधि-ज्ञानां धारणी-सूत्र-अन्त-राज-प्रतिलब्धानां न + अवनमति | गर्वित-स्तब्धश् च भवति | धर्म-भाणके न गौरवम् उत्पादयति | न शुश्रूषां न चित्री-कारं करोति | मार-कर्म धर्म-श्रवण-सांकथ्ये च निषण्णए उदार-धर्म-वेगे समुत्पन्ने धर्म-भाणकस्य साधु-कारं न प्रयच्छति मा कश्-चिद् अस्मिन् प्रशंसति + इति मार-कर्म ||
SK
अभिमानं च + उत्पाद्य + आत्मानं प्रतिगृह्णाति | परांश् च न गृह्णाति | आत्म-ज्ञतां च न + अवतरति | चित्त-निध्यप्तिं न + उत्पादयति | मार-कर्म ||
SK
अधिमानं च + उत्पाद्य + अ-जानन्न् अ-बुध्यमानो वर्ण-अर्हाणां पुद्गलानां वर्णं प्रतिच्छादयति | अ-वर्णं भाषते | न च परस्य गुण-वर्णेन + आत्त-मना भवति | मार-कर्म ||
SK
जानाति च | अयं धर्मो * अयं विनयो भूतम् इदं बुद्ध-वचनम् इति | पुद्गल-विद्वेषेण धर्म-विद्वेषं करोति | सद्-धर्मं प्रतिक्षिपति | अन्यांश् च विग्राहयति | मार-कर्म ||
SK
उच्च-मानसं प्रार्थयते परिहार-धर्मं न मार्गयति | पर-उपस्थानं सो * अभियाति | अभिनन्दति | वृद्ध-स्थविराणां चिर-चरित-ब्रह्म-चर्याणां न प्रत्युपतिष्ठते न च प्रत्युद्गच्छति | मार-कर्म ||
SK
भृकुटी-मुखः खलु पुनर् भवति | न स्मित-मुखः | न खिल मधुर-वचनः | सदा कठिन-चित्तश् छिद्र-अन्वेषी ||
SK
अवतार-प्रेक्षी | मार-कर्म ||
SK
अभिमानं च पतित्वा पण्डितान् न + उपसंक्रामति | न सेवते | न भजते | न पर्युपास्ते | न परिप्रश्नयति | न परिपृच्छति | किं कुशलं किम् अ-कुशलं किं करणीयं किं कृतं दीर्घ-रात्रम् अर्थाय हिताय सुखाय भवति | किं वा + अ-कृतं दीर्घ-रात्रम् अन्-अर्थाय + अ-हिताय + अ-सुखाय भवति + इति | सजडः सजडतरो भवति | मोह-व्यूहो मान-ग्राही | अ-निःसरण-दर्शी | मार-कर्म ||
SK
सअ मान-अभिभूतो बुद्ध-उत्पादं विरागयति | पूर्व-कुशल-मूलं क्षपयति | नवं न + उत्थापयति | अ-निर्देशं निर्दिशति | विग्रहम् आरभते विवाद-बहुलश् च भवति | स एवं धर्म-विहारी स्थानम् एतद् विद्यते यस्मिन् मिथ्या महा-प्रपातं पतेत् | अथ च पुनर् बोधि-चित्त-बल-अधीनाद् ऐश्वर्यं प्रतिलभते | स कल्प-शत-सहस्रेषु बुद्ध-उत्पादं न + आसादयति | कुतः पुनर् धर्म-श्रवणम् | इदं दशमं मार-कर्म ||
SK
इमानि भो जिन-पुत्र दश मार-कर्माणि | यानि परिवर्ज्य बोधि-सत्वा दश ज्ञान-कर्माणि प्रतिलभन्ते | अत्र + एव च ज्ञान-कर्मसु पच्यते | निर्-मानता सर्व-सत्वेष्व् इति ||
SK
आर्य-राष्ट्रपाल-सूत्रे * अप्य् उक्तं | अपाय-भूमिं | गतिम् अ-क्षणेषु | दरिद्रतां | नीच-कुल-उपपत्तिम् | जात्य्-अन्ध्य-दौर्बल्यम् अथ + अल्प-स्थामतां | गृह्णन्ति ते मान-वशेन मूढाः ||
SK
इति ||
SK
धर्म-संगीति-सूत्रे * अप्य् उक्तं | सत्व-क्षेत्रं बोधि-सत्वस्य बुद्ध-क्षेत्रं यतश् च बुद्ध-क्षेत्राद् बुद्ध-धर्माणां लाभ-आगमो भवति | न + अर्हामि तस्मिन् विप्रतिपत्तुम् | एवं च + अस्य भवति | सर्वं सु-चरितं दुश्-चरितं च सत्वान् निश्रित्य प्रवर्तते | दुश्-चरित-आश्रमाच् च + अपायाः प्रवर्तन्ते | सु-चरित-आश्रयाद् देव-मनुष्या इति ||
SK
अत एव रत्न-उल्का-धारण्याम् अप्य् उक्तं | इह भो जिन-पुत्राः प्रथम-चित्त-उत्पादिको बोधि-सत्वः आदित एव सर्व-सत्वानाम् अन्तिके दश-प्रकारं चित्तम् उत्पादयति | कतमद् दश-प्रकारं | तद् यथा | हित-चित्ततां सुख-चित्ततां दाया-चित्ततां स्निग्ध-चित्ततां प्रिय-चित्ततां अनुग्रह-चित्ततां आरक्षा-चित्ततां सम-चित्ततां आचार्य-चित्ततां शास्तृ-चित्ततां | इदं दश-प्रकारं चित्तम् उत्पादयति + इति ||
SK
श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे * अप्य् उक्तं | सर्व-सत्वानां शिष्यत्व-अभ्युपगमे स्थितो * अस्मि | परांश् च सर्व-सत्व-शिष्यत्व-अभ्युपगमे प्रतिष्ठापयिष्यामि + इत्य् आश्वासं प्रतिलभते ||
SK
पेयालं ||
SK
सर्व-सत्वेष्व् अवनम-प्रणमनतायां प्रतिष्ठितो * अस्मि + इति पूर्व-वत् ||
SK
तत्र + अवनमन-प्रणमनतायां सर्व-सत्वेषु निर्-मानता ||
SK
तथा + आर्य-विमलकीर्ति-निर्देशे | परिशुद्ध-बुद्ध-क्षेत्र-उपपत्तये सर्व-सत्वेषु शास्तृ-प्रेम + उक्तं | लोक-प्रसाद-अनुरक्षा-अर्थं त्व् आसन-पाद-प्रख्यालन-कर्म कुर्वता + अपि चेतसा स्त्रीषु वा + अ-क्षण-प्राप्तेषु वा विनिपतितेषु बोधि-सत्वेन प्रेम-गौरव-अभ्यासः कार्यः ||
SK
उक्तं हि गण्ड-व्यूहे तस्य समनन्तर-निषण्णस्य तस्मिन् महा-सिंह-आसने सर्वः स जन-कायो * अभिमुखः प्राञ्जलि-स्थितो * अभूत् | तम् एव राजानं नमस्यमानः || पे ||
SK
स खलु सर्व-धर्म-निर्नाद-च्छत्र-मण्डल-निर्घोषो राजा तेषां याचनकानां सह दर्शनेन + आत्त-मनस्कतरो राज्ञा + अनेन च त्रि-साहस्र-चक्र-वर्ति-राज्य-प्रतिलाभेन + अ-सीम-आप्राप्त-कल्प-पर्यवसानेन | यावत् शुद्ध-आवास-देव-शान्ति-विमोक्ष-मुख-विहारेण + अ-पर्यन्त-कल्प-आवसानेन | तद् यथा कुल-पुत्र पुरुषस्य + एक-अन्त-तृष्णा-चरितस्य माता-पितृ-भ्रातृ-भगिनी-मित्र-अमात्य-ज्ञाति-सालोहित-पुत्र-दुहितृ-भार्या-चिर-काल-वियुक्तस्य + अटवी-कान्तार-विप्रणष्टस्य तद्-दर्शन-कामस्य | तेषां समवधानेन महती प्रीतिर् अध्यवसानम् उत्पतेत् तद्-दर्शन-अ-वितृप्ततया | एवम् एव कुल-पुत्र राज्ञः सर्व-धर्म-निर्नाद-च्छत्र-मण्डल-निर्घोषस्य तेषां याचनकानां सह दर्शनेन महा-प्रीति-वेगाः संजाताः | चित्त-तुष्टि-सुखम् अवक्रान्तं महांश् चित्त-उदग्रता-वेगः प्रादुर्-भूतो यावत् तेषु सर्व-याचनकेषु एक-पुत्रक-संज्ञा माता-पितृ-संज्ञा दक्षिणीय-संज्ञा कल्याण-मित्र-संज्ञा वर्ण-संज्ञा दुर्-लभ-संज्ञा दुष्-कर-कारक-संज्ञा बहु-कर-संज्ञा परम-उपकारि-संज्ञा बोधि-मार्ग-उपस्तम्भ-संज्ञा आचार्य-शास्तृ-संज्ञा + उत्पद्येत + इति ||
SK
एवम् अन्य-गत-भावे सत्वानाम् अग्रतो-गमन-उपस्थान-आदि-प्रसङ्गे सर्व-उत्सर्गं स्मरेत् | एषाम् एव + अयम् आत्मीयः कायः | यथा-इष्टम् अत्र वर्तन्ताम् | पृथिवी-शोधन-उपलेपन-आदिष्व् इव स्व-सुख-अर्थम् इति | अथ-वा स्वाम्य्--अ-प्रसाद-भीतेन + इव तत्-प्रसाद-अर्थिना + इव तद्-आज्ञा-संपादना मनसि कर्तव्या | भगवतो * अप्य् उपस्थानं कुर्वतो * अन्य-गत्य्-अ-भावात् | भिक्षुणा ग्लानेन + अङ्गी-कृतं ||
SK
यथा + उक्तं भिक्षु-प्रकीर्णके | भगवान् आह | मा भाय भिक्षु मा भाय भिक्षु | अहं ते भिक्षु + उपस्थास्यं | आहर भिक्षु चीवराणि यावत् ते धोपामि | एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् | मा भगवान् एतस्य ग्लानस्य + अ-शुचि-म्रक्स्.इतानि चीवराणि धोवतु | अहं भगवन् धोविष्यं | भगवान् आह | तेन ह्य् आनन्द त्वम् एतस्य भिक्षुस्य चीवराणि धोव | तथा-गतो उदकम् आसिञ्चिष्यति | अथ खल्व् आयुष्मान् आनन्दो तस्य ग्लानस्य भिक्षुस्य चीवराणि धोवति | भगवान् उदकम् आसिञ्चति || पे ||
SK
अथ खल्व् आयुष्मान् आनन्दस् तं ग्लानं भिक्षुं साधु च सुष्ठु च + अनुपरिगृह्य बहिर्-धा हरित्वा स्नापयेत् | भगवान् उदकम् आसिञ्चति + इति | आह च| यान् आराध्य महत् त्वं विराध्य कष्टां विपत्तिम् आप्नोति | प्राण-परित्यागैर् अपि तेषां ननु तोषणं न्याय्यं ||
SK
एते ते वै सत्वाः प्रसाद्य यान् सिद्धम् आगता बहवः | सिद्धि-क्षेत्रं न + अन्यत् सत्वेभ्यो विद्यते जगति ||
SK
एते चिन्ता-मणयो भद्र-घटा धेनवश् च काम-दुघाः | गुरु-वच् च देवता + इव च तस्माद् आराधनीयास् ते ||
SK
किं च निश्-छद्म-बन्धूनाम् अ-प्रमेय-उपकारिणाम् | सत्व-आराधनम् उत्सृज्य निष्-कृतिः का परा भवेत् ||
SK
शिरसा धारयाम् आस पुरा नाथो यथा-ईप्सितम् | जटा-स्व्-अध्युषितान् सत्वान् भूत्वा यत्नेन निश्-चलः ||
SK
भिन्दन्ति देहं प्रविशन्त्य् अवीचीम् येषां कृते तत्र कृते कृतं स्यात् ||
SK
महा-अपकारिष्व् अपि तेन सर्वं कल्याणम् एव + आचरणीयम् एषु ||
SK
स्वयं मम स्वामिन एव तावद् यद् अर्थम् आत्मन्य् अपि निर्-व्यपेक्षाः | अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दास-भावम् ||
SK
येषां सुखे यान्ति मुदं मुनि-इन्द्राः येषां व्यथायां प्रविशन्ति मन्युम् | तत्-तोषणात् सर्व-मुनि-इन्द्र-तुष्टिस् तत्र + अपकारे * अपकृतं मुनीनां ||
SK
आदीप्त-कायस्य यथा समन्तान् | न सर्व-कामैर् अपि सौमनस्यम् | सत्व-व्यथायाम् अपि तद्-वद् एव न प्रीत्य्-उपायो * अस्ति महा-कृपाणाम् ||
SK
तस्मान् मया यज्-जन-दुष्खनेन | दुष्खं कृतं सर्व-महा-दयानां | तद् अद्य पापं प्रतिदेशयामि यत्-खेदितास् ते मुनयः क्षमन्ताम् ||
SK
आराधनाय + अद्य तथा-गतानां सर्व-आत्मना दास्यम् उपैमि लोके | कुर्वन्तु मे मूर्ध्नि पदं जन-ओघाः निघ्नन्तु वा तुष्यतु लोक-नाथाः ||
SK
आत्मी-कृतं सर्वम् इदं जगत् तैः कृपा-आत्मभिर् न + एव हि संशयो * अत्र | दृश्यन्तए एते ननु सत्व-रूपास् | तए एव नाथाः किम् अन्-आदरो * अत्र ||
SK
तथा-गत-आराधनम् एतद् एव स्व-अर्थस्य संसाधनम् एतद् एव | लोकस्य दुष्ख-अपहम् एतद् एव तस्मान् मम + अस्तु व्रतम् एतद् एव ||
SK
यथा + एको राज-पुरुषः प्रमथ्नाति महा-जनं | विकरोति न शक्नोति दीर्घ-दर्शी महा-जनः ||
SK
यस्मान् न + एव स एकाकी तस्य राज-बलं बलं | तथा न दुर्-बलं कं-चिद् अपराद्धं विमानयेत् ||
SK
यस्मान् नरक-पालाश् च कृपावन्तश् च तद्-बलं | तस्माद् आराधयेत् सत्वान् भृत्यश् चण्ड-नृ-पं यथा ||
SK
कुपितः किं नृ-पः कुर्याद् येन स्यान् नरक-व्यथा | यत्-सत्व-दौर्मनस्येन कृतेन ह्य् अनुभूयते ||
SK
तुष्टः किं नृ-पतिर् दद्याद् यद् बुद्धत्व-समं भवेत् | यत् सत्व-सौमनस्येन कृतेन ह्य् अनुभूयते ||
SK
आस्तां भविष्यद्-बुद्धत्वं सत्व-आराधन-संभवं | इह + एव सौभाग्य-यशः सौस्थित्यं किं न पश्यसि ||
SK
प्रासादिकत्वम् आरोग्यम् प्रामोद्यं चिर-जीवितं | चक्र-वर्ति-सुखं स्फीतं क्षमी प्राप्नोति संसरन् ||
SK
मैत्रा-आशयश् च यत् पूज्यः सत्व-माहात्म्यम् एव तत् | बुद्ध-प्रसादाद् यत् पुण्यं बुद्ध-माहात्म्यम् एव तत् ||
SK
अत एव हि चन्द्र-प्रदीप-सूत्रे मैत्री-भाव-फलम् उद्भावितम् | यावन्ति पूजां बहु-विध अ-प्रमेयाः | क्षेत्रं शतेषु नियुत च बिम्बरेषू | तां पूज कृत्वा अ-तुलिय-नायकानां | संख्या-कलापी [दोउब्त्fउल्] न भवति मैत्र-चित्ते ||
SK
तस्माद् एवं-विधेषु महा-दक्षिणीयेषु + उन्नतिं वर्जयेत् सदा | एषा च + उन्नतिर् अ-योनिशो-मनस्-कारात् संभवति + इति ||
SK
तस्य + अन्-अवतारे यत्नः कार्यः | यथा + उक्तं रत्न-मेघे | कथं च कुल-पुत्र बोधि-सत्वो * अ-योनिशो-मनस्-कार-अपगतो भवति | इह बोधि-सत्व एकाकी रहो-गतः प्रविवेक-स्थितो न + एवं चित्तम् उत्पादयति | अहं अ-संकीर्ण-विहारी | अहं प्रविवेक-स्थितः | अहं प्रतिपन्नस् ताथागते धर्म-विनये | ये त्व् अन्ये श्रमणा वा ब्राह्मणा वा सर्वे ते संकीर्ण-विहारिणः | संसर्ग-बहुला उद्धुरास् ताथागताद् धर्म-विनयात् ||
SK
एवं हि बोधि-सत्वो * अ-योनिशो-मनस्-कार-अपगतो भवति ||
SK
पुनर् अत्र + एव + उक्तम् | इह बोधि-सत्वो वीर्यम् आरभमाणो न तन् महद् वीर्यम् आस्वादयति | न च तेन वीर्येण + आत्मानम् उत्कर्षयति | न परान् पंसयति | तस्य + एवं भवति | को हि नाम स-प्रज्ञ-जातीयः स्व-कर्म-अभियुक्तः परांश् चोदयेत् ||
SK
एवं हि बोधि-सत्वो * अन्-उन्नत-वीर्यो भवति ||
SK
एष तु पुण्य-रक्षायाः संक्षेपो यद् बोधि-परिणामना ||
SK
तथा ह्य् उक्तम् आर्य-अक्षयमति-सूत्रे | न हि बोधि-परिणामितस्य कुशल-मूलस्य + अन्तरा कश्-चित् परिक्षयो यावद् बोधि-मण्ड-निषदनात् | तद् यथा + अपि नाम भदन्त शारद्वतीपुत्र महा-समुद्र-पतितस्य + उदक-बिन्दोर् न + अन्तरा + अस्ति क्षयो यावन् न कल्प-पर्यवसान | इति ||
SK
इति शिक्षा-समुच्चये भोग-पुण्य-रक्षा सप्तमः परिच्छेदः ||
SK
[VIII. पापशोधन]
SK
पाप-शोधनं अष्टमः परिच्छेदः | उक्ता त्रयाणाम् अप्य् आत्म-भाव-आदीनां रक्षा | शुद्धिर् अधुना वक्तव्या | किम् अर्थम् | शोधितस्य + आत्म-भावस्य भोगः पथ्यो भविष्यति | सम्यक्-सिद्धस्य भक्तस्य निष्-कणस्य + इव देहिनाम् ||
SK
यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे | यानि च तानि महा-नगरेषु महा-श्मशानानि भवन्त्य् अन्-एक-प्राणि-शत-सहस्र-आकीर्णानि | तत्र + अपि स बोधि-सत्वो महा-सत्वो महान्तम् आत्म-भावं मृतं काल-गतम् उपदर्शयति | तत्र ते तिर्यग्-योनि-गताः सत्वा यावद् अर्थं मांसं परिभुज्य + आयुः-पर्यन्ते मृताः काल-गताः सु-गतौ स्वर्ग-लोके देवेषु + उपपद्यन्ते | स च + एव तेषां हेतुर् भवति यावत् परिनिर्वाणाय | यद् इदं | तस्य + एव बोधि-सत्वस्य पूर्व-प्रणिधान-परिशुद्ध्या | येन दीर्घ-रात्रम् एवं प्रणिधानं कृतं | ये मे मृतस्य काल-गतस्य मांसं परिभुञ्जीरन् | स एव तेषां हेतुर् भवेत् स्वर्ग-उत्पत्तये यावत् परिनिर्वाणाय तस्य शीलवतः | ऋध्यति चेतना | ऋध्यति प्रार्थना | ऋध्यति प्रणिधानम् इति ||
SK
पुनर् अत्र + एव + उक्तं | स धर्म-काय-प्रभावितो दर्शनेन + अपि सत्वानाम् अर्थं करोति | श्रवणेन + अपि स्पर्शनेन + अपि सत्वानाम् अर्थं करोति | तद् यथा + अपि नाम शान्तमते जीवकेन वैद्य-राजेन सर्व-भैषज्यानि समुदानीय भैषज्य-तरु-संहातम् अयं दारिका-रूपं कृतं प्रासादिकं दर्शनीयं सु-कृतं सु-निष्ठितं सु-परिकर्म-कृतं | सा + आगच्छति गच्छति तिष्ठति निषीदति शय्यां च कल्पयति | तत्र ये आगच्छन्त्य् आतुरा महा-आत्मानो राजानो वा राज-मात्रा वा श्रेष्ठि-गृह-पत्य्-अमात्य-कोट्ट-राजानो वा | तान् स जीवको वैद्य-राजस् तया भैषज्य-दारिकया सार्द्धं संयोजयति | तेषां समनन्तर-संयोगम् आपन्नानां सर्व-व्याधयः प्रस्रभ्यन्ते * अ-रागाश् च भवन्ति सुखिनो निर्-विकाराः | पश्य शान्तमते जीवकस्य वैद्य-राजस्य लौकिक-व्याधि-चिकित्सा-ज्ञानं यद्य् अन्येषां वैद्यानां संविद्यते | एवम् एव शान्तमते तस्य धर्म-काय-प्रभावितस्य बोधि-सत्वस्य यावन्तः सत्वाः स्त्री-पुरुष-दारक-दारिका राग-दोष-मोह-संतप्ताः कायं स्पृशन्ति | तेषां संस्पृष्ट-मात्राणां सर्व-क्लेशाः प्रस्रभ्यन्ते विगत-संतापं च कायं संजानन्ति ||
SK
यद् इदं तस्य + एव बोधि-सत्वस्य पूर्व-प्रणिधान-सु-परिशुद्धत्वात् | एतद्-अर्थम् आत्म-भावः शोध्यः ||
SK
किं च अ-शोधने दोषम् आह |तृण-छन्नं यथा शस्यं रोगैः सीदति न + एधते | बुद्ध-अङ्कुरस् तथा वृद्धिं क्लेश-छन्नो न गच्छति ||
SK
प्रति-पक्ष-निरासेन वृद्ध्य्-अर्थं च + इत्य् अभिप्रायः ||
SK
आत्म-भावस्य का शुद्धिः | पाप-क्लेश-विशोधनं | संबुद्ध-उक्त्य्-अर्थ-सारेण | यत्न-अ-भावे त्व् अपाय-गः ||
SK
तत्र पाप-शोधनं चतुर्-धर्मक-सूत्रे देशितं | चतुर्भिर् मैत्रेय धर्मैः समन्वागतो बोधि-सत्वो महा-सत्वः कृत-उपचितं पापम् अभिभवति | कतमैश् चतुर्भिः | यद् उत | विदूषण-अ-समुदाचारेण प्रति-पक्ष-समुदाचारेण | प्रत्य्-आपत्ति-बलेन | आश्रय-बलेन च ||
SK
तत्र विदूषण-अ-समुदाचारो * अ-कुशलं कर्म + अध्यचारति तत्र तत्र + एव च विप्रतिसार-बहुली भवति ||
SK
तत्र प्रति-पक्ष-समुदाचारः कृत्वा + अप्य् अ-कुशलं कर्म कुशले कर्मण्य् अत्य्-अर्थ-अभियोगं गतः ||
SK
प्रत्य्-आपत्ति-बलं संवर-समादानाद् अ-करण-संवर-लाभः ||
SK
तत्र + आश्रय-बलं बुद्ध-धर्म-संघ-शरण-गमनम् अन्-उत्सृष्ट-बोधि-चित्तता च | सु-बलवत्-संनिश्रयेण न शक्यते पापेन + अभिभवितुं | एभिर् मैत्रेय चतुर्भिर् धर्मैः समन्वागतो बोधि-सत्वो महा-सत्वः कृत-उपचितं पापम् अभिभवति + इति ||
SK
तत्र कथं विदूषण-अ-समुदाचारो भावयितव्यः | यथा सुवर्ण-प्रभास-उत्तम-सूत्रे * अभिहितं ||
SK
समन्वाहरन्तु मां बुद्धाः कृपा-कारुण्य-चेतसः | ये च दश-दिशि लोके तिष्ठन्ति द्वि-पद-उत्तमाः ||
SK
यच् च मे पापकं कर्म कृतं पूर्वं सु-दारुणं | तत् सर्वं देशयिष्यामि स्थितो दश-बल-अग्रतः ||
SK
माता-पितॄन् अ-जानता बुद्धानाम् अ-प्रजानता | कुशलं च + अ-प्रजानता यत् तु पापं कृतं मया ||
SK
ऐश्वर्य-मद-मत्तेन कुल-भोग-मदेन च | तारुण्य-मद-मत्तेन यत् तु पापं कृतं मया ||
SK
दुश्-चिन्तितं दुर्-उक्तं च दुष्-कृतेन + अपि कर्मणा | अन्-आदीनव-दर्शिना यत् तु पापं कृतं मया ||
SK
बाल-बुद्धि-प्रचारेण अ-ज्ञान-आवृत-चेतसा | पाप-मित्र-वशाच् च + एव क्लेश-व्याकुल-चेतसा ||
SK
क्रीडा-रति-वशाच् च + एव शोक-रोग-वशेन वा | अ-तृप्त-धन-दोषेण यत् तु पापं कृतं मया ||
SK
अन्-आर्य-जन-संसर्गैर् ईर्ष्या-मात्सर्य-हेतुना | शाठ्य-दारिद्र्य-दोषेण यत् तु पापं कृतं मया ||
SK
व्यसन-आगम-काले * अस्मिन् कामानां भय-हेतुना | अन्-ऐश्वर्य-गतेन + अपि यत् तु पापं कृतं मया ||
SK
चल-चित्त-वशेन + एव काम-क्रोध-वशेन वा | क्षुत्-पिपास-आर्दितेन + अपि यत् तु पापं कृतं मया ||
SK
पान-अर्थं भोजन-अर्थं च वस्त्र-अर्थं स्त्रीषु हेतुना | विचित्रैः क्लेश-संतापैर् यत् तु पापं कृतं मया ||
SK
काय-वाङ्-मनसां पापं त्रिधा दुश्-चरितं चित्तं | यत् कृतम् ईदृशै रूपैस् तत् सर्वं देशयाम्य् अहम् ||
SK
यत् तु बुद्धेषु धर्मेषु श्रावकेषु तथा + एव च | अ-गौरवं कृतं स्याद् * धि तत् सर्वं देशयाम्य् अहम् ||
SK
यत् तु प्रत्य्-एक-बुद्धेषु बोधि-सत्वेषु वा पुनः |अ-गौरवं कृतं स्याद् * धि तत् स्र्वं देशयाम्य् अहम् ||
SK
सद्-धर्म-भाणकेष्व् एव अन्येषु गुणवत्सु वा | अ-गौरवं कृतं स्याद् * धि तत् सर्वं देशयाम्य् अहम् ||
SK
सद्-धर्मः प्रतिक्षिप्तः स्याद् अ-ज्ञानं तेन मे सदा | माता-पितृष्व् अ-गौरवं तत् सर्वं देशयाम्य् अहम् ||
SK
मूर्खत्वेन बालत्वेन मान-दर्प-आवृतेन च | राग-द्वेषेण मोहेन तत् सर्वं देशयाम्य् अहम् ||
SK
व्यवलोकयन्तु मां बुद्धाः समन्वाहृत-चेतसः | अत्ययं प्रतिगृह्णन्तु कारुण्य-अर्पित-चेतसः ||
SK
यत् तु पापं कृतं पूर्वं मया कल्प-शतेषु च | तस्य + अर्थं शोक-चित्तो * अहं क्र्पणीयो भय-आर्दितः ||
SK
भवामि पाप-कर्माणां सततं दीन-मानसः | यत्र यत्र चरिष्यामि न च + अस्ति मे बलं क्व-चित् ||
SK
सर्वे कारुणिका बुद्धाः सर्वे भय-हरा जगे | अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् ||
SK
क्लेश-कर्म-फलं मह्यं प्रवाहयन्तु तथा-गताः | स्नापयन्तु च मां बुद्धाः कारुण्य-सरित-उदकैः ||
SK
सर्वं पापं देशयामि यत् तु पूर्वं कृतं मया | यच् च एतर्हि मे पापं तत् सर्वं देशयाम्य् अहम् ||
SK
आयत्यां संवरम् आपद्ये सर्व-दुष्-कृत-कर्मणाम् | न छादयामि तत् पापं यद् भवेन् मम दुष्-कृतम् ||
SK
त्रि-विधं कायिकं कर्म वचसा च चतुर्-विधम् | मनसा त्रि-प्रकारेण तत् सर्वं देशयाम्य् अहम् ||
SK
काय-कृतं वाच-कृतं मनसा च विचिन्तितं | कृतं दश-विधं कर्म तत् सर्वं देशयाम्य् अहम् ||
SK
यच् च मे पापकं कर्म अन्-इष्ट-फल-दायकं | तत् सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः ||
SK
भव-गति-संकटे बाल-बुद्धिना पापं यन् मे कृतं सु-दारुणम् | दश-बलम् अग्रतः स्थितः तत् सर्वं पापं प्रतिदेशयामि | देशयामि च तत् पापं यन् मया संचितं जन्म-संकटे विविधैः काय-प्रचार-संकटैर् भव-संकट-लोक-संकटे चापल-चल-चित्त-संकटे मूर्ख-बाल-कृत-क्लेश-संकटे | पाप-मित्र-आगम-संकटे च | भय-संकट-राग-संकटे दोष-मोह-तम-संकटैर् अपि क्षण-संकटे काल-संकटे पुण्य-उपार्जन-संकटैर् अपि | जिन-संकट-संमुख-स्थितः | तत् सर्व-पापं प्रतिदेशयामि ||
SK
विशेषतस् तु बोधि-सत्व-आपत्तीनां गुर्वीणां लघ्वीनां देशना + आर्य-उपालि-परिपृच्छायाम् उक्ता | का पुनर् गुर्वी मूल-आपत्तिः ||
SK
सामान्यतस् तु तत्र + उक्तं | सचेद् उपाले महा-यान-संप्रस्थितो बोधि-सत्वो महा-सत्वो गङ्गा-नदी-वालिक-उपमा राग-प्रतिसंयुक्ता आपत्तीर् आपद्येत | यां च + एकतो द्वेष-संप्रयुक्ताम् आपत्तिम् आपद्येत बोधि-सत्व-यानं प्रमाणी-कृत्य || पे ||
SK
इयं ताभ्यो गुरुतरा आपत्तिर् या + इयं द्वेष-संयुक्ता | तत् कस्य हेतोः | यो * अयं द्वेष उपाले सत्व-परित्यागाय संवर्तते | रागः सत्व-संग्रहाय संवर्तते | तत्र + उपाले यः क्लेशः सत्व-संग्रहाय संवर्तते | न तत्र बोधि-सत्वस्य छलं न भयं || पे ||
SK
तस्मात् तर्हि त्वाम् उपाले याः काश्-चन राग-प्रतिसंयुक्ता आपत्तयः सर्व-स् ता अन्-आपत्तय इति वदामि | को * अत्र + अभिप्रायः | सत्व-संग्रहस्य + एव पूर्वम् एव विशेषितत्वाद् | अध्याशय-कृपावतो ह्य् अयम् उपदेशः ||
SK
यस्माद् अन्-अन्तरम् आह | तत्र + उपाले ये * अन्-उपाय-कुशला बोधि-सत्वास् ते राग-प्रतिसंयुक्ताभ्य आपत्तिभ्यो बिभ्यति | ये पुनर् उपाय-कुशला बोधि-सत्वास् ते द्वेष-संप्रयुक्ताभ्य आपत्तिभ्यो बिभ्यति न राग-प्रतिसंयुक्ताभ्य इति ||
SK
के पुनर् उपाय-कुशलाः | ये प्रज्ञा-कृपाभ्यां सत्व-त्यागान् निवार्यन्ते | उभयथा हि सत्व-त्यागो भवति | केवल-प्रज्ञया दुष्ख-शून्यता-अवबोधात् | केवलया च कृपया क्लेश-बलाद् अ-चिरेण कृपा-हानिः ||
SK
यद् उक्तम् उपाय-कौशल्य-सूत्रे | तद् यथा कुल-पुत्र मंत्र-विद्या-धरः पुरुषो राज्ञा पञ्च-पाशकेन बन्धनेन बद्धः स्यात् | स यदा काङ्क्षेत प्रक्रमणाय तदा + एक-मन्त्र-विद्या-बलेन सर्व-बन्धनानि छित्त्वा प्रक्रमेत् | एवम् एव कुल-पुत्र + उपाय-कुशलो बोधि-सत्वः पञ्चभिः काम-गुणै रतिं विन्दति तैश् च + आकीर्णो विहरति | यदा च पुनर् आकाङ्क्षते तदा प्रज्ञा-बल-अधीनेन एकेन च सर्व-ज्ञता-चित्तेन सर्व-काम-गुणान् प्रभुज्य च्युतो ब्रह्म-लोकए उपपद्यतए इति ||
SK
द्वेषे * अपि किं न + एवम् इष्यते | प्रकृति-महा-स-अवद्यत्वात् | कृपा-वैकल्ये च + उपायस्य + एव + अ-संभवात् ||
SK
पर-अर्थ-सिद्धिं वा स्व-अर्थाद् गुरुतराम् अधिमुच्यमानः कोप-परवत्तया + अपि परम् अनुशास्य-अनुताप-पूर्वकम् आयत्यां संवरम् उत्पद्यते | अ-हित-निवारके क्रोधे को दोषः | अवकाश-दानेन तद्-वासना-दोषात् कृपा-हानि-दोषः | तच्-छेदेन मूल-च्छेद-दोष इति पश्चाद् दर्शयिष्यामः | यद्य् अपि तस्य सत्वस्य तद्-धितं तथा + अपि बोधि-सत्व-कृपा-हान्या महतः सत्व-अर्थ-अनुबन्धस्य हानिः स्यात् ||
SK
आर्य-सत्यके परिवर्त्ते * अपि पुत्र-दृष्ट-अन्तः करुणा-अधिष्ठित एव वेदितव्यः | यश् च तत्र + अपि कृपा-प्रतिषेधः स लोक-अर्थ-पाण्डित्येन लोक-आवर्जन-अर्थं | निवार्यमाणश् च यदि हित-कामे बोधि-सत्वे प्रतिघं लभेत स बोधि-सत्वः स्याद् उभयोर् अन्-अर्थः ||
SK
रागे * अपि तर्हि दोषः पठ्यते | काम-अनुषेवणि भोति अन्ध मनु-जो | माता-पितृ-घातयी | कामान् सेवतु शीलवन्तु वधयी | तस्माद् विवर्जेत् सदा इति ||
SK
स्व-सौख्य-संगेन च पर-दुष्ख-उपेक्षा दृष्टा ||
SK
सत्यं दृष्टा | येन पर-दुष्खं स्व-दुष्खतया न + अभ्यस्तं | येन त्व् अभ्यस्तं | तस्य + उभय-दोष-अ-संभवः ||
SK
यथा + उक्तं चन्द्र-प्रदीप-सूत्रे | तद् यथा + अपि नाम + आनन्द कश्-चिद् एव पुरुषो * अधस्तात् पाद-तलम् आदाय यावन् मुर्द्धन्य् आदीप्तो भवेत् | संप्रज्वलित एक-ज्वली-भु-तस् तं कश्-चिद् एव पुरुष उपसंक्रम्य एवं वदेद् | एहि त्वां भोः पुरुष निर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः समर्पितः समन्वङ्गी-भूतः क्रीडस्व रमस्व परिचारयस्व + इति | तत् किं मन्यसे आनन्द | अपि तु स पुरुषो * अ-निर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः क्रीडेत रमेत् परिचरेत् ||
SK
आनन्द आह ||
SK
न + उ हि + इदं भगवन् ||
SK
भगवान् आह | क्रीडेत + आनन्द स पुरुषो रमेत् परिचरेत् परिकल्पम् उपादाय + अ-परिनिर्वापितेन + आत्म-भावेन पञ्चभिः काम-गुणैः समर्पितः समन्वङ्गी-भूतो | न त्व् एवं तथा-गतस्य पूर्वं बोधि-सत्व-चर्यां चरमाणस्य सत्वान् त्रिभिर् अपायैर् दुष्खितान् दृष्ट्वा दरिद्रान् अभूत् सौमनस्यं वा चित्त-प्रसादो वा + इति विस्तरः ||
SK
लोके * अपि पुत्रे शूलम् आरोप्यमाणे | पश्यतोर् माता-पित्रोर् न स्व-सौख्य-संगो दृष्टः स्व-अनुरूप-कृपा-वशात् | प्रच्छन्नस् तर्हि स-स्वामिकासु नि-स्वामिकासु बाहुल-धर्म-ध्वज-रक्षितासु काम-मिथ्या-आचारो न स्यात् | सति सत्व-अर्थे सत्व-अन्-उपघाते च + अनुबन्धं निरूप्य + अ-दोषः ||
SK
सम्यग्-ब्रह्म-चारिणीषु कृत-अर्थत्वाद् दूरात् परिहारः | पूज्या च मातृ-भगिन्य्--आदि-वत् | एवं तर्हि भिक्षोर् अप्य् एवम् आपन्नं | न तस्य + अ-परेण ब्रह्म-चर्य-प्रकारेण सत्व-अर्थ-साधनात् ||
SK
तथा ह्य् उक्तम् आर्य-अक्षयमति-सूत्रे | काल-अ-काले पुनर् अनेन + उपेक्षा करणीया + इति ||
SK
अथ ततो * अप्य् अधिकं सत्व-अर्थं पश्येत् | शिक्षां निक्षिपेत् ||
SK
उपाय-कौशल्य-सूत्रे ज्योतिर्-माणवकं द्वाचत्वारिंशद्-वर्ष-सहस्र-ब्रह्म-चारिणम् अधिकृत्य सप्तमे पदे स्थितस्य कारुण्यम् उत्पद्येत | किं च + अप्य् अहम् इदं व्रतं खण्डयित्वा निरय-परायणः स्यां | तथा + अप्य् उत्सहे * अहं नैरयिकं दुष्खं प्रतिवेदयितुम् अथ च + इयं स्त्री सुखिता भवतु | मा कालं करोतु | इति हि कुल-पुत्र ज्योतिर्-माणवकः पश्चान्-मुखो निवर्त्य तां स्त्रियं दक्षिणेन पाणिना गृहीत्वा + एवम् आह | उत्तिष्ठ भगिनि यथा-काम-करणीयस् ते भवामि + इति || पे ||
SK
सो * अहं कुल-पुत्र महा-कारुण्य-चित्त-उत्पादेन + इत्वरेण काम-उपसंहितेन दश-कल्प-सहस्राणि पश्चान्-मुखम् अकार्षम् | पश्य कुल-पुत्र यद् अन्येषां निरय-संवर्तनीयं कर्म | तद् उपाय-कुशलस्य बोधि-सत्वस्य ब्रह्म-लोक-उपपत्ति-संवर्तनीयम् इति ||
SK
पुनर् अत्र + एव + आह | यदि बोधि-सत्व एकस्य सत्वस्य कुशल-मूलं संजनयेत् तथा-रूपां च + आपत्तिम् आपद्येत यथा-रूपया + आपत्त्या + आपन्नया कल्प-शत-सहस्रं निरये पच्येत | उत्सोढव्यम् एव भगवन् बोधि-सत्वेन + आपत्तिम् आपत्तुं तच् च नैरयिकं दुष्खं | न त्व् एव तस्य + एकसय् सत्वस्य कुशलं परित्यक्तुम् इति ||
SK
पुनर् अत्र + एव + आह | इह कुल-पुत्र + उपाय-कुशलो बोधि-सत्वो यदा कदा-चित् कस्मिंश्-चित् पाप-मित्र-वशेन + आपत्तिम् आपद्येत | स इतः प्रतिसंशिक्षते | न मया + एभिः स्कन्धैः परिनिर्वापयितव्यं | मया पुनर् एवं संनाहः संनद्धव्यः | अ-पर-अन्त-कोटिः संसरितव्या सत्वानां परिपाचन-हेतोर् इति | न मया चित्त-दाहः करणीयो | यथा यथा संसरिष्यामि तथा तथा सत्वान् परिपाचयिष्यामि | अपि त्व् एतां च + आपत्तिं यथा-धर्मं प्रतिकरिष्यामि | आयत्यां संवरम् आपत्स्ये | सचेत् कुल-पुत्र प्रव्रजितो बोधि-सत्वः परिकल्पम् आदाय सर्वाश् चतस्रो मूल-आपत्तीर् अतिक्रमेद् अनेन च + उपाय-कौशल्येन विनोदयेद् | अन्-आपत्तिं बोधि-सत्वस्य वदामि + इति ||
SK
स्फुटं च + आर्य-रत्न-मेघे आनन्तर्य-चिकीर्षु-पुरुष-मारण-अनुज्ञानात् ||
SK
श्रावक-विनये * अपि मूल-आपत्ति-स्थानए एव कारुण्यान् मृग-आदि-मोक्षणे * अन्-आपत्तिर् उक्ता + एव ||
SK
अयं च रागे गुणो यद् बोधि-सत्वे रागम् उत्पाद्य सु-गतिर् लभ्यते | न तु क्रोधेन ||
SK
यथा + उक्तम् उपाय-कौशल्य-सूत्रे | प्रियंकरे बोधि-सत्वे रक्ता ... धव्योत्तरां दारिकाम् अधिकृत्य | प्रियंकरस्य प्रणिधेः पुनः पुनर् या इस्त्रि प्रेक्षेत स-राग-चित्ता | सा इस्त्रि-भावं परिवर्जयित्वा पुरुषो भवेत् यादृग् उदार-सत्वः ||
SK
पश्यस्व आनन्द गुणा + अस्य ईदृशाः | येन + अन्य-सत्वा निरयम् व्रजन्ति | तेन + एव शूरेषु जनित्व रागं गच्छन्ति स्वर्गं पुरुषत्वम् एव च || पे ||
SK
भैषज्य-राजेषु महा-यशेषु | को बोधि-सत्वेषु जनयेत द्वेषम् | येसां किलेशो * अपि सुखस्य दायकः | किं वा पुनर् यः तान् सत्-करेया | इति ||
SK
एवम् अन्यस्मिन् सत्व-अर्थ-उपाये सति राग-ज-आपत्तिर् अन्-आपत्तिर् उक्ता ||
SK
उपाय-कौशल्य-सूत्रे च गणिका-वत् कृत-अर्थो बोधि-सत्वो निर्-अपेक्षस् तं सत्वं त्यजति + इति विस्तरेण + उक्तम् ||
SK
अ-लब्ध-भूमेश् च षट्-पारमितासु चरितवत इयं चिन्ता | न + इतरस्य + इत्य् आस्तां प्रासङ्गिकम् ||
SK
तस्माद् द्वेषस्य + अवकाशो न देय | उक्तं ह्य् उपालि-परिपृच्छायां | बोधि-सत्वानां शारिपुत्र द्वे महा-स-अवद्ये आपत्ती | कतमे द्वे | द्वेष-सह-गता मोह-सह-गता च + इति | तत्र शारिपुत्र प्रथमा आपत्तिर् दश-वर्गे ऋजुकेन देशयितव्या | हस्त-आपत्तिः पञ्च वर्गे गुर्वी देशयितव्या | स्त्रिया हस्त-ग्रहणं चक्षुर्-दर्शनं | दुष्ट-चित्त-आपत्तिर् एक-पुद्गलस्य द्वयोर् वा शारिपुत्र तां गुर्वीं दशयेत् | पञ्च + आनन्तर्य-समन्वागता + आपत्तिर् बोधि-सत्वेन स्त्र्य्--आपत्तिर् दारिका-आपत्तिर् हस्त-आपत्तिः स्तूप-आपत्तिः संघ-आपत्तिस् तथा + अन्याश् च + आपत्तयो बोधि-सत्वेन न पञ्चत्रिंशतां बुद्धानां भगवताम् अन्तिके रात्रिं-दिवं एकाकिना गुर्व्यो देशयितव्याः ||
SK
तत्र + इयं देशना | अहम् एवं-नामा बुद्धं शरणं गच्छामि | धर्मं शरणं गच्छामि | संघं शरणं गच्छामि ||
SK
नमः शाक्य-मुनये तथा-गताय + अर्हते सम्यक्-संबुद्धाय | नमो वज्र-प्रमर्दिने | नमो रत्न-अर्चिषे | नमो नाग-ईश्वर-राजाय | नमो वीर-सेनाय | नमो वीर-नन्दिने | नमो रत्न-श्रिये | नमो रत्न-चन्द्र-प्रभाय | नमो * अ-मोघ-दर्शिने | नमो रत्न-चन्द्राय | नमो निर्-मलाय | नमो वि-मलाय | नमः शूर-दत्ताय | नमो ब्रह्मणे | नमो ब्रह्म-दत्ताय | नमो वरुणाय | नमो वरुण-देवाय | नमो भद्र-श्रिये | नमश् छन्दन-श्रिये | नमो * अन्-अन्त-ओजसे | नमः प्रभास-श्रिये | नमो * अ-शोक-श्रिये | नमो नारायणाय | नमः कुसुम-श्रिये | नमो ब्रह्म-ज्योतिर्-विक्रीडित-अभिज्ञाय तथा-गताय | नमो धन-श्रिये | नमः स्मृति-श्रिये | नमः सु-परिकीर्तित-नाम-धेय-श्रिये | नम इन्द्र-केतु-ध्वज-राजाय | नमः सु-विक्रान्त-श्रिये | नमो विचित्र-संक्रमाय | नमो विक्रान्त-गामिने | नमः समन्त-अवभास-व्यूह-श्रिये | नमो रत्न-पद्म-विक्रामिणे | नमो रत्न-पद्म-सु-प्रतिष्ठित-शैल-इन्द्र-राजाय तथा-गताय + अर्हते सम्यक्-संबुद्धाय ||
SK
एवं-प्रमुखा यावन्तः सर्व-लोक-धातुषु तथा-गत-अर्हन्तः सम्यक्-संबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति | ते मां समन्वाहरन्तु बुद्धा भगवन्तो यन् मया + अस्यां जातौ अन्यासु वा जातिष्व् अन्-अवर-अग्रे जाति-संसारे संसरता [दोउब्त्fउल्] पापकं कर्म कृतं स्यात् कारितं वा क्रियमाणं वा + अनुमोदितं भवेत् | स्तौपिकं वा साङ्घिकं वा द्रव्यम् अपहृतं स्यात् हारितं वा ह्रियमाणं वा + अनुमोदितं भवेत् | पञ्च-अन्-अन्तर्याणि कृतानि स्युः कारितानि वा क्रियमाणानि वा + अनुमोदितानि भवेयुः | दश-अ-कुशलान् कर्म-पथान् समादाय वर्तितं स्यात् परे वा समादापिताः स्युर् वर्तमाना वा + अनुमोदिता भवेयुर् येन कर्म-आवरणेन + आवृतो * अहं निरयं वा गच्छेयं तिर्यग्-योनिं वा यम-विषयं वा गच्छेयं प्रत्य्-अन्त-जन-पदेषु म्लेच्छेषु वा प्रत्याजायेयं दीर्घ-आयुष्केषु देवेषु + उपपद्येयम् इन्द्रिय-विकलतां वा + अधिगच्छेयं मिथ्या-दृष्टिं वा + उपगृह्णीयां बुद्ध-उत्पादं वा विरागयेयं | तत् सर्वं कर्म-आवरणं तेषां बुद्धानां भगवतां ज्ञान-भूतानां चक्षुर्-भूतानां स-अक्षि-भूतानां प्रमाण-भूतानां जानतां पश्यताम् अग्रतः प्रतिदेशयामि आविष्-करोमि न प्रतिच्छादयाम्य् आयत्यां संवरम् आपद्ये | समन्वाहरन्तु मां ते बुद्धा भगवन्तो यन् मया + अस्यां जाताव् अन्यासु वा जातिष्व् अन्-अवर-अग्रे वा जाति-संसारे संसरता दानं दत्तं भवेद् अन्तशस् तिर्यग्-योनि-गताय + अप्य् आलोपः शीलं वा रक्षितं भवेद् यच् च मे ब्रह्म-चर्य-वास-कुशल-मूलं यच् च मे सत्व-परिपाक-कुशल-मूलं यच् च मे बोधि-चित्त-कुशल-मूलं यच् च मे * अन्-उत्तर-ज्ञान-कुशल-मूलं तत् सर्वम् ऐकध्यं पिण्डयित्वा तुलयित्वा + अभिसंक्षिप्य + अन्-उत्त् अरायां सम्यक्-संबोधौ उत्तर-उत्तरया परिणामनया यथा परिणामितम् अतीतैर् बुद्धैर् भगवद्भिर् यथा परिणामयिष्यन्त्य् अन्-आगता बुद्धा भगवन्तो यथा परिणमन्त्य् एतर्हि दशसु दिक्षु प्रत्य्-उत्पन्ना बुद्धा भगवन्तः | तथा + अहम् अपि परिणामयामि | सर्वं पुण्यम् अनुमोदयामि | सर्वान् बुद्धान् अध्येषयामि | भवतु मे ज्ञानम् अन्-उत्तरम् | ये च + अभ्यतीतास् तथा + अपि च ये अन्-आगता ये च + अपि तिष्ठन्ति नर-उत्तमा जिनाः | अन्-अन्त-वर्णान् गुण-सागर-उपमान् उपैमि सर्वान् शरणं कृत-अञ्जलिः | ये बोधि-सत्वाः करुण-बलैर् उपेता विचरति लोके सत्व-हिताय शूराः त्रायन्तु ते मां सद-पाप-कारिणं [दोउब्त्fउल्] | शरणं यामि तान् बुद्ध-बोधि-सत्वान् ||
SK
इति हि शारिपुत्र बोधि-सत्वेन + इमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्व-तथा-गत-अनुगतैर् मनसि-कारैः पाप-शुद्धिः कार्या | तस्य + एवं सर्व-पाप-विशुद्धस्य तत्र च बुद्धा भगवन्तो मुखान्य् उपदर्शयन्ति सत्व-विमोक्ष-अर्थम् एव | नाना-व्यञ्जन-आकारम् उपदर्शयन्ति विभ्रान्त-बाल-पृथग्-जनानां परिपाचना-हेतोः || पे ||
SK
न शक्यं सर्व-श्रावक-प्रत्य्-एक-बुद्ध-निकायैर् आपत्ति-कौकृत्य-स्थानं विशोधयितुं यद् बोधि-सत्वस् तेषां बुद्धानां भगवतां नाम-धेय-धारण-परिकीर्तनेन रात्रिं-दिवं त्रि-स्कन्धक-धर्म-पर्याय-प्रवर्तनेन + आपत्ति-कौकृत्यान् निःसरति समाधिं च प्रतिलभते ||
SK
उक्तो विदूषण-अ-समुदाचारः | प्रति-पक्ष-समुदाचार उच्यते | तत्र गम्भीर-सूत्र-अन्त-परिचयात् पाप-क्षयो भवति ||
SK
यथा वज्र-च्छेदिकायाम् उक्तं | ये ते सुभूते कुल-पुत्रा वा कुल-दुहितरो वा इमान् एवं-रूपान् सूत्र-अन्तान् उद्ग्रहीष्यन्ति यावत् पर्यवाप्स्यन्ति | ते परिभूता भविष्यन्ति सु-परिभूताः | तत् कस्य हेतोः | यानि तेषां सत्वानां पौर्व-जन्मिकानि कर्माणि कृतान्य् अपाय-संवर्तनीयानि | तानि तया परिभूततया दृष्टए एव धर्मे क्षपयिष्यन्ति बुद्ध-बोधिं च प्राप्स्यन्ति + इति ||
SK
शून्यता-अधिमुक्त्या + अपि पाप-शुद्धिर् भवति तथा-गत-कोष-सूत्रे वचनात् | यः काश्यप पिता च स्यात् प्रत्य्-एक-बुद्धश् च तं जीविताद् व्यपरोपयेद् इदम् अग्रं प्राण-अतिपातानां | इदम् अग्रम् अ-दत्त-आदानानां यद् उत त्रि-रत्न-द्रव्य-अपहरणता | इदम् अग्रं काम-मिथ्या-आचाराणां यद् उत माता स्याद् अर्हन्ती च | इदम् अग्रं मृषा-वादानां यद् उत तथा-गतस्य + अभ्याख्यानं | इदम् अग्रं पैशुन्यानां यद् उत + आर्य-संघस्य + अ-वर्णः | इदम् अग्रं पारुष्याणां यद् उत + आर्याणाम् अवस्फण्डनं | इदम् अग्रं संभिन्न-प्रलापानां यद् उत धर्म-कामानां विक्षेपः | इदम् अग्रं व्यापादानां यद् उत + आनन्तर्य-परिकर्षणम् | इदम् अग्रम् अभिध्यानां यद् उत सम्यग्-गतानां लाभ-हरण-चित्तता | इदम् अग्रं मिथ्या-दृष्टीनां यद् उत गहनता-दृष्टिः | इमे काश्यप दश + अ-कुशलाः कर्म-पथा महा-स-आवद्याः | सचेत् काश्यप एक-सत्व एभिर् एवं महा-स-आवद्यैर् दशभिर् अ-कुशलैः कर्म-पथैः समन्वागतो भवेत् | स च तथा-गतस्य हेतु-प्रत्यय-संयुक्तां धर्म-देशनाम् अवतरेन् | न + अत्र कश्-चिद् आत्मा वा सत्वो वा जीवो वा पुद्गलो वा यः करोति प्रतिसंवेदयते इति ह्य् अ-कृताम् अन्-अभिसंस्कारां माया-धर्मताम् अ-संक्लेश-धर्मतां प्रकृति-प्रभास्वरतां सर्व-धर्माणाम् अवतरत्य् आदि-शुद्धान् सर्व-धर्मान् अभिश्रद्दधात्य् अधिमुच्यते | न + अहं तस्य सत्वस्य + अपाय-गमनं वदामि + इति ||
SK
कर्म-आवरण-विशुद्धि-सूत्रे * अप्य् उक्तं | पुनर् अ-परं मञ्जुश्रीर् यो बोधि-सत्व आपत्तिम् अन्-आपत्तिं पश्यति | अ-विनयं विनयं पश्यति | संक्लेशं व्यवदानं पश्यति | संसार-धातुं निर्वाण-धातुं पश्यति | स कर्म-आवरण-विशुद्धिं प्रतिलभतए इति ||
SK
त्रि-समय-राजे * अपि पाप-प्रति-पक्ष-समुदाचार उक्तः ||
SK
अक्षिणी निमील्य बुद्ध-बोधि-सत्व-आलम्बन-चित्तः शत-अक्षरम् अष्ट-सहस्रं जपेत् | निमीलित-अक्ष एव बुद्ध-बोधि-सत्वान् पश्यति विगत-पापो भवति | अथ-वा चैत्यं प्रदक्षिणी-कुर्वन्न् अष्ट-सहस्रं जपेच् चैत्य-प्रतिमायाः सद्-धर्म-पुस्तकानां च + एकतमं पुरस्-कृत्य + अयम् एव विधिर् इति ||
SK
चुन्दा-धारणीं वा तावज् जपेद् यावत् पाप-क्षय-निमित्तानि पश्यति स्वप्ने | तद् यथा क्रन्दन-आदि-छर्दन-दधि-क्षीर-आदि-भोजनात् तु विगत-पापो भवति | वमनाद् वा चन्द्र-सूर्य-दर्शनाद् आकाश-गमनाज् ज्वलित-अनल-महिष-कृष्ण-पुरुष-पराजयाद् भिक्षु-भिक्षुणी-संघ-दर्शनात् क्षीर-वृक्ष-गज-वृष-गिरि-सिंह-आसन-प्रासादन-अवरोहणाद् धर्म-श्रवणाच् च पाप-क्षयः संलक्षयितव्यः ||
SK
तथा-गत-बिम्ब-परिवर्ते * अपि प्रति-पक्ष-समुदाचार उक्तः | तद् यथा पुरुषो मीढ-अवलिप्तः सु-धौतु-स्नानं कृत्वा गन्धैर् विलिप्यते | तस्य तद् दौर्गन्ध्यं वान्तं विगतं स्याद् एवं पञ्च-आनन्तर्य-कारिणस् तत् पापं विगच्छति | यो * अपि दश-अ-कुशल-कर्म-पथ-समन्वागतस् तथा-गते श्रद्धां प्रतिलभ्य तथा-गत-बिम्बं कारयेत् तस्य + अपि तत् पापं न प्रज्ञायते विशेषतो बोधि-चित्त-समन्वागतस्य | विशेषतो * अभिनिष्क्रान्त-गृह-आवासस्य शीलवत इति ||
SK
पुष्प-कूट-धारण्याम् अप्य् उक्तं | यश् च खलु पुनः सिंह-विक्रीडित-तथा-गतं संमुखं वर्षं वा वर्ष-सहस्रं वा वर्ष-शत-सहस्रं वा सर्व-सुख-उपधानैर् उपतिष्ठेद् | यश् च परिनिर्वृतस्य तथा-गतस्य चैत्ये बोधि-चित्त-संगृहीत एक-पुष्पम् आरोपयेत् तथा-गत-पूजायै जन-अञ्जलिं च + उपनामयेज् जलेन वा सिञ्चयेद् इषिका-पदं वा दद्यान् निर्-माल्यं च + अपनयेद् उपलेपन-प्रदानं वा पुष्प-प्रदानं वा दीप-प्रदानं वा कुर्याद् आत्त-मनाः एक-क्रम-व्यतिहारं वा + अतिक्रम्य वाचं भाषते | नमस् तस्मै बुद्धाय भगवत इति-मात्रे * अत्र सिंह-विक्रीडित-काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा यद् असौ कल्पं वा कल्प-शतं वा कल्प-सहस्रं वा दुर्-गति-विनिपातं गच्छेन् न + इदं स्थानं विद्यतए इति ||
SK
भैषज्य-गुरु-वैदूर्य-प्रभ-राज-सूत्रे * अप्य् उक्तं | ये पञ्च शिक्षा-पदानि धारयन्ति | ये दश शिक्षा-पदानि धारयन्ति | ये च बोधि-सत्व-संवरं चतुर्थं शतं शिक्षा-पदानां धारयन्ति | ये पुनर् अभिनिष्क्रान्त-गृह-आवासा भिक्षवः पञ्चाश-अधिके द्वे शिक्षा-पद-शते धारयन्ति | याश् च भिक्षुण्यः पञ्च-शिक्षा-पद-शतानि धारयन्ति | ये च यथा-परिगृहीताच् * छिक्षा-संवराद् अन्यतराच् * छिक्षा-पदाद् भ्रष्टा भवन्ति | सचेत् ते दुर्-गति-भय-भीतास् तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य नाम-धेयं धारयेयुर् यथा-विभवतश् च पूजां कुर्युः | न भूयस् तेषाम् अपाय-गतिः प्रतिकाङ्क्षितव्या ||
SK
अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म | श्रद्दधासि त्वम् आनन्द | पत्तीयसि | यद् अहं तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य गुणान् वर्णयामि | अथ ते काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा + अत्र गम्भीरे बुद्ध-गो-चरे ||
SK
अथ + आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् | न मे भदन्त भगवन् काङ्क्षा वा वि-मतिर् वा विचिकित्सा वा तथा-गत-भाषितेषु सूत्र-अन्तेषु | तत् कस्य हेतोः | न + अस्ति तथा-गतानाम् अ-परिशुद्ध-काय-वाङ्-मनः-समुदाचारता | इमौ भगवन् चन्द्र-सूर्याव् एवं मह-र्द्धिकाव् एवं महा-अनुभावौ पृथिव्यां पतेतां | सुमेरुः पर्वत-राजा स्थानाच् चलेत् | न तु बुद्धानां वचनम् अन्यथा भवेत् ||
SK
किं-तु भदन्त भगवन् सन्ति सत्वाः श्रद्धा-इन्द्रिय-विकला ये बुद्ध-गो-चरं श्रुत्वा न श्रद्दधति | तेषाम् एवं भवति | कथम् इदं नाम-धेयं स्मरण-मात्रेण तस्य तथा-गतस्य एत्तका गुण-अनुशंसा भवति | ते न श्रद्दधति | न पत्तीयन्ति | प्रतिक्षिपन्ति | तेषां दीर्घ-रात्रम् अन्-अर्थाय + अ-हिताय + अ-सुखाय विनिपाताय भविष्यति ||
SK
भगवान् आह | अ-स्थानम् आनन्द + अन्-अवकाशो येषां तस्य नाम-धेयं निपतेत् कर्णे तेषां दुर्-गत्य्-अपाय-गमनं भवेद् इति | दुः-श्रद्धानीयश् च + आनन्द बुद्धानां बुद्ध-गो-चरः |यच् च त्वम् आनन्द श्रद्दधासि पत्तीयसि | तथा-गतस्य + एषो * अनुभावो द्रष्टव्यः | अ-भूमिश् च + अत्र श्रावक-प्रत्य्-एक-बुद्धानां स्थापयित्वा एक-जाति-प्रतिबद्धान् बोधि-सत्वान् महा-सत्वान् इति ||
SK
अत्र + एव च + उक्तं | ये च + अन्ये श्राद्धाः कुल-पुत्रा वा कुल-दुहितरो वा + अष्ट-अङ्ग-समन्वागतम् उपवासम् उपवसन्ति | एक-वार्षिकं वा त्रैवार्षिकं वा शिक्षा-पदं धारयन्ति | येषाम् एवम् अभिप्रायः एवं प्रणिधानं | अनेन वयं कुशल-मूलेन पश्चिमायां दिशायां सुखावत्यां लोक-धातौ उपपद्येम यत्र + अमिताभस् तथागतः | यैः श्रुतं भविष्यति तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभव-राजस्य तथा-गतस्य नाम-धेयं | तेषां मरण-काल-समये * अष्टौ बोधि-सत्वा ऋद्ध्या + आगत्य मार्गम् उपदर्शयन्ति | ते तत्र नाना-रङ्गेषु पद्मेषु + उपपादुकाः प्रादुर्-भवन्ति | के-चित् पुनर् देव-लोकए उपपद्यन्ते | तेषां तत्र + उपपन्नानां तत् पूर्वकं कुशल-मूलं न क्षीयते | दुर्-गति-विनिपात-भयं च न भविष्यति | ते ततश् च्युता इह मनुष्य-लोके राजानो भवन्ति | चतुर्-द्वीप-ईश्वराश् चक्र-वर्तिनः | अन्-एकानि सत्व-कोटी-नियुत-शत-सहस्राणि दश कुशलेषु कर्म-पथेषु प्रतिष्ठापयन्ति | अ-परे पुनः क्षत्रिय-महा-शाल-कुलेषु + उपपद्यन्ते | ब्राह्मण-महा-शाल-कुलेषु + उपपद्यन्ते | गृह-पति-महा-शाल-कुलेषु प्रभूत-धन-धान्य-कोष-कोष्ठ-आगार-कुलेषु + उपपद्यन्ते | ते रूप-संपन्ना भवन्ति | परिवार-सम्पन्ना भवन्ति ||
SK
तत्र + एव + उक्तं | येन च पुनर् मातृ-ग्रामेण तस्य भगवतो भैषज्य-गुरु-वैडूर्य-प्रभ-राजस्य तथा-गतस्य नाम-धेयं श्रुतं भविष्यति | उद्गृहीतं वा | स तस्य पश्चिमो मातृ-ग्राम-भावः प्रतिकाङ्क्षितव्य इति ||
SK
मञ्जुश्री-बुद्ध-क्षेत्र-गुण-व्यूह-अलं-कार-सूत्रे * अप्य् उक्तं | ज्ञान-उत्तर-प्रभा-केतुं प्रणिधान-मतिं तथा | शान्त-इन्द्रियं मञ्जु-घोषं भक्तितः प्रणमाम्य् अहम् ||
SK
य एषां बोधि-सत्वानां नाम-धेयं तु धारयेत् | एतस्य मातृ-ग्रामस्य स्त्री-भावो न भविष्यति ||
SK
उक्तः संक्षेपात् प्रति-पक्ष-समुदाचारः ||
SK
प्रत्य्-आपत्ति-बलम् अधुना + उच्यते ||
SK
यथा + उक्तम् आर्य-क्षितिगर्भ-सूत्रे | प्राण-अतिपातात् प्रतिविरतो भवति बोधि-सत्वो महा-सत्वः सर्व-सत्वानाम् अ-भयं-ददः | अन्-उत्त्रासो * अन्-उपायासो * अ-लोम-हर्षः स तेन कुशल-मूलेन कर्म-विपाकेन | यत् पूर्व-अन्त-कोटि-पञ्च-गति-चक्र-आरुढेन संसार-नद्य्--उद्यातेन प्राण-अतिपात-हेतुना काय-वाङ्-मनसा कर्म-आवरणं क्लेश-आवरणं धर्म-आवरणं कृतं वा स्यात् कारितं वा + अनुमोदितं स्यात् | तत् सर्वं तेन प्राण-अतिपात-वैरमण-चक्रेण सर्व-अन्-अर्थं मर्दयति | यावद् अ-शेषम् अ-विपाकं कुरुते | स-निकाय-स-भागे देव-मनुष्याणां प्रियो भवति निर्-आतङ्को दीर्घ-आयुष्क इति ||
SK
यावत् पुनर् अ-परं कुल-पुत्र यो बोधि-सत्वो यावज्-जीवम् अ-दत्त-आदानात् प्रतिविरतो भवति स सर्व-सत्वानाम् अ-भयम् ददाति अन्यत्र + अ-स-यत्नेन + अ-संक्षोभेण स्व-लाभेन संतुष्टो विहरति | अ-धार्मिक-भोग-अन्-अभिलाषी स तेन कुशल-मूलेन यावद् अ-दत्त-आदान-हेतुकं कर्म-आवरणं मर्दयति प्रमर्दयति यावद् अ-शेषम् अ-विपाकं कुरुतए इति || पे ||
SK
एवं दश + अपि कुशलाः कर्म-पथाः स्व-विपक्ष-अ-कुशल-घातकास् तत्र पठ्यन्ते ||
SK
तथा चन्द्र-प्रदीप-सूत्रे * अपि व्यापाद-विरत्या सर्व-पाप-क्षयः श्रूयते | यथा + आह | सहिष्याम्य् अत्र बालानाम् अ-भूतां परिभाषणां | आक्रोशनं तर्जनां च अधिवासिष्य नायकः ||
SK
क्षपयिष्ये पापकं कर्म यन् मया पुरिमे कृतम् | अन्येषु बोधि-सत्वेषु व्यापादो जनितो मया + इति ||
SK
उक्तं प्रत्य्-आपत्ति-बलम् ||
SK
आश्रय-बलं तु वक्तव्यम् ||
SK
अत्र सूकरिक-अवदानम् उदाहार्यम् | ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्-गतिं | प्रहाय मानुषान् कायान् दिव्यान् कायांल् लभन्ति ते ||
SK
इत्य् एवं धर्मं संघं च + अधिकृत्य पाप-क्षयः ||
SK
आर्य-मैत्रेय-विमोक्षे तु बोधि-चित्तेन पाप-विशुद्धिर् उक्ता | कल्प-उद्दाहा-अग्नि-भूतं सर्व-दुष्-कृत-निर्दहनतया | पाताल-भूतं सर्व-अ-कुशल-धर्म-पर्यादान-करणतया || पे ||
SK
तद् यथा कुल-पुत्र हाटक-प्रभासं नाम रस-जातं | तस्य + एकं पलं लोह-पल-सहस्रं सुवर्णी-करोति | न च तत्र तत् पलं शक्यते तेन लोह-पल-सहस्रेण पर्यादातुं | न लोही-कर्तुं | एवम् एव + एकः सर्व-ज्ञता-चित्त-उत्पाद-रस-धातुः कुशल-मूल-परिणामना-ज्ञान-संगृहीतः सर्व-कर्म-क्लेश-आवरण-लोहानि पर्यादाय सर्व-धर्मान् सर्व-ज्ञता-वर्णान् करोति | न च सर्व-ज्ञता-चित्त-उत्पाद-रस-धातुः शक्यः सर्व-कर्म-क्लेश-लोहैः संक्लेशयितुं पर्यादातुं वा | तद् यथा कुल-पुत्र + एकः प्रदीपो यादृशे गृहे वा लयने वा प्रवेश्यते स सह प्रवेशितो वर्ष-सहस्र-संचितम् अपि तमो-न्ध-कारं विधमयति | अवभासं च करोति | एवम् एव + एकः सर्व-ज्ञता-चित्त-उत्पाद-प्रदीपो यादृशे सत्व-आशये गहने * अ-विद्या-तमो-न्ध-कार-अनुगते प्रवेश्यते स सह प्रवेशितो * अन्-अभिलाप्य-कल्प-शत-सहस्र-संचितम् अपि कर्म-क्लेश-आवरण-तमो-न्ध-कारं विधमति | ज्ञान-आलोकं च करोति ||
SK
तद् यथा कुल-पुत्र चिन्ता-मणि-राज-मुकुटानां महा-नाग-राज्ञां न + अस्ति पर-उपक्रम-भयं | एवम् एव बोधि-चित्त-महा-करुणा-चिन्ता-मणि-राज-मुकुट-अवबद्धानां बोधि-सत्वानां न + अस्ति दुर्-गत्य्-अपाय-पर-उपक्रम-भयम् इति ||
SK
आर्य-उपालि-परिपृच्छायाम् अप्य् उक्तं | इह + उपाले महा-यानं संप्रस्थितो बोधि-सत्वः सचेत् पूर्व-अह्ण-काल-समये आपत्तिम् आपद्येत | मध्य-अह्न-काल-समये सर्व-ज्ञता-चित्तेन + अ-विरहितो विहरेद् अ-पर्यन्त एव बोधि-सत्वस्य शील-स्कन्धः | सचेन् मध्य-अह्न-काल-समये आपत्तिम् आपद्यते साय-अह्न-काल-समये सर्व-ज्ञता-चित्तेन + अ-विरहितो भवेद् अ-पर्यन्त एव बोधि-सत्वस्य शील-स्कन्धः | एवं यामे यामे विधिर् उक्तः | एवं ह्य् उपाले स-परिहारा शिक्षा महा-यान-संप्रस्थितानां बोधि-सत्वानां | तत्र बोधि-सत्वेन न + अति-कौकृत्य-पर्युत्थानम् उत्पाद्यं न + अति-विप्रतिसारिणा भवितव्यं | सचेत् पुनः श्रावक-यानीयः पुद्गलः पुनः पुनर् आपत्तिम् आपद्येत | नष्टः श्रावकस्य पुद्गलस्य शील-स्कन्धो वेदितव्यः | इति ||
SK
इति शिक्षा-समुच्चये पाप-शोधनम् अष्टमः परिच्छेदः ||
SK
[IX. क्षान्तिपारमिता]
SK
क्षान्ति-पारमिता नवमः परिच्छेदः ||
SK
तद् एवम् अ-विरत-प्रवृत्तां बहु-सुखां दौःश्-ल्य-उत्पत्तिं रक्षन्न् एवं च कर्म-आवरण-विबन्धम् अपनयन् क्लेश-विशोधने प्रयतेत ||
SK
तत्र + अदौ तावत् क्षमेत | अ-क्षमस्य हि श्रुत-आदौ वीर्यं प्रतिहन्यते * अ-खेद-सहत्वात् | अ-श्रुतवांश् च न समाध्य्-उपायं जानाति | न + अपि क्लेश-शोधन-उपायम् | तस्माद् अ-खिन्नः श्रुतम् एषेत | ज्ञानतो * अपि संकीर्ण-चारिणः समाधानं दुष्-करम् इति | संश्रयेत वनं ततः | तत्र + अपि विक्षेप-प्रशमन-अन्-अभियुक्तस्य चित्तं न समाधीयतए इति | समाधानाय युज्येत | समाहितस्य च न किञ्-चित् फलम् अन्यत्र क्लेश-शोधनाद् इति | भावयेद् अ-शुभ-आदिकं ||
SK
इत्य् एतानि तावत् क्लेश-शुद्धेर् उद्देश-पदानि ||
SK
इदानीं निर्देश उच्यते | तत्र क्षान्तिस् त्रि-विधा धर्म-संगीति-सूत्रे * अभिहिता | दुष्ख-अधिवासन-क्षान्तिः | धर्म-निध्यान-क्षान्तिः | पर-अपकार-मर्षण-क्षान्तिश् च + इति | तत्र दुष्ख-अधिवासन-क्षान्ति-विपक्षो * अन्-इष्ट-आगम-प्राप्त-दुष्ख-भीरुता | इष्ट-विघात-प्राप्तश् च सुख-अभिष्वङ्गस् ताभ्यां दौर्मनस्यं | ततो द्वेषो लीनता च ||
SK
अत एव + आह चन्द्र-प्रदीप-सूत्रे | सुखे * अन्-अभिष्वङ्गः | दुष्खे * अ-वैमुख्यम् इति ||
SK
रत्न-मेघ-सूत्रे * अप्य् उक्तं | यए इमे आध्यात्मिकाः शोक-परिदेव-दुष्ख-दौर्मनस्य-उपायासास् तान् क्षमते * अधिवासयति + इति ||
SK
आर्य-उग्रदत्त-परिपृच्छायाम् अप्य् उक्तं | पुनर् अ-परं गृह-पते गृहिणा बोधि-सत्वेन + अनुनय-प्रतिघा-अपगतेन भवितव्यम् अष्ट-लोक-धर्म-अन्-अनुलिप्तेन | तेन भोग-लाभेन वा भार्या-पुत्र-लाभेन वा धन-धान्य-वित्त-लाभेन वा न + उन्नमितव्यं न प्रहर्षितव्यं | सर्व-विपत्तिषु च + अनेन न + अवनमितव्यं | न दुर्-मनसा भवितव्यं एवं च + अनेन प्रत्यवेक्षितव्यं | माया-कृतं सर्व-संस्कृतं विठपन-प्रत्युपस्थान-लक्षणं | कर्म-विपाक-निर्वृत्ता ह्य् एते | यद् इदं माता-पितृ-पुत्र-भार्या-दासी-दास-कर्म-कर-पौरुषेय-मित्र-अमात्य-ज्ञाति-सालोहिता | न + एते मम स्वकाः | न + अहम् एतेषाम् इति ||
SK
अपि च | यद्य् अस्त्य् एव प्रतीकारो दौर्मनस्येन तत्र किम् | प्रतीकारे * अपि मुह्येत दुर्-मनाः क्रोध-मूर्च्छितः ||
SK
लीनत्वाद् वा हत-उत्साहो गृह्यते परया + आपदा | तच्-चिन्तया मुधा यान्ति ह्रस्वम् आयुर् मुहुर् मुहुः ||
SK
तेन + अभ्यासात् त्यजेद् एतं निर्-अर्थकम् अन्-अर्थ-वत् ||
SK
कथं च दौर्मनस्य-त्यागो * अभ्यस्यते | लघु-सु-कुमार-चित्त-उत्सर्गात् ||
SK
यथा + उक्तम् उग्रदत्त-परिपृच्छायां | अपगत-तूल-पिचु-उपमता-चित्तस्य + इति ||
SK
आर्य-गण्ड-व्यूहे * अप्य् उक्तं | दुर्-योधनं चित्तं ते दारिके उत्पादयितव्यं सर्व-क्लेश-निर्घाताय | अ-पराजित-चित्तं सर्व-अभिनिवेश-विनिर्भेदाय | अ-क्षोभ्य-चित्तं विषम-आशयत्व-सागर-आवर्त-प्रयातेष्व् इति ||
SK
न च + अभ्यासस्य दुष्-करं नाम किञ्-चिद् अस्ति | तथा हि मूढतराणाम् अपि तावद् भार-हारक-कैवर्तक-र्षक-आदीनां दुष्ख-अभ्यासात् क्षुद्रतर-फले * अपि वस्तुनि संरूढ-किण-अङ्कितं चित्तम् अवसादेन न परिभूयते | किं पुनः सर्व-संसार-सुख-सर्व-बोधि-सत्व-सुख-अन्-उत्तर-पद-समधिगम-फले कर्मणि | तथा प्राकृता अपि किञ्-चिद् अपकारिष्व् आत्म-दुष्कृतेन + एव हतेषु स्वयं मृत्युषु प्रहर्तुं गाढ-प्रहार-वेदना अपि संग्रामयन्त्य् एव | कि.ं पुनर् द्राघिष्ठ-काल-अपकारिषु दुष्ख-उपात्त-कुशल-धन-लव-स्तैन्येषु नरकेषु न + अवध्य-घातकेषु भव-चारक-पालकेषु निः-सरण-द्वार-दिग्-नाशकेष्व् आनुकूल्ये * अपि दृढतर-वाधा-करेष्व् अन्-अपकृत-वैरिष्व् अन्-अवधि-कल्प-आबद्ध-दृढ-वैरेषु क्लेश-शत्रुषु प्रहर्तुम् उत्साहो दुष्ख-सहनं वा न भवेत् | विशेषतस् त्रि-भुवन-विजयया बद्ध-परिकरस्य मार-शवर-प्रतिगृहीत-जगद्-बन्दि-मोक्षाय संग्रामयतः | तत्र + आत्म-दुष्ख-अभ्यास-पूर्वकं कष्टं कष्टतर-अभ्यासः सिध्यति | यथा च + अभ्यास-वशात् सत्वानां दुष्ख-सुख-स/म्ज्ञा | तथा सर्व-दुष्ख-उत्पादेषु सुख-संज्ञा प्रत्युपस्थान-अभ्यासात् सुख-संज्ञा + एव प्रत्युपतिष्ठते | एतन् निष्यन्द-फलं च सर्व-धर्म-सुख-आक्रान्तं नाम समाधिं प्रतिलभते ||
SK
उक्तं हि पिता-पुत्र-समागमे | अस्ति भगवन् सर्व-धर्म-सुख-क्रान्तो नाम समाधिः | यस्य समाधेः प्रतिलम्भाद् बोधि-सत्वः सर्व-आरम्बण-वस्तुषु सुखाम् एव वेदनां वेदयते | न + अ-दुष्ख-अ-सुखां | तस्य नैरयिकाम् अपि कारणां कार्यमाणस्य सुख-संज्ञा + एव प्रत्युपस्थिता भवति | मानुषीम् अपि कारणां कार्यमाणस्य हस्तेष्व् अपि छिद्यमानेषु पादेष्व् अपि कर्णेष्व् अपि नासास्व् अपि सुख-संज्ञा + एव प्रत्युपस्थिता भवति | वेत्रैर् अपि ताड्यमानस्य + अर्द्ध-वेत्रैर् अपि कशाभिर् अपि ताड्यमानस्य सुख-संज्ञा + एव प्रवर्तते बन्धन-आगारेष्व् अपि प्रक्स्.इप्तस्य || पे ||
SK
तैल-पाचिकं वा क्रियमाणस्य | इक्षु-कुट्टितवद् वा कुट्ठ्यमानस्य | नड-चिप्पितिकं वा चिप्यमानस्य तैल-प्रद्योतिकं वा + आदीप्यमानस्य सर्पिः-प्रद्योतिकं वा दधि-प्रद्योतिकं वा + आदीप्यमानस्य सुख-संज्ञा + एव प्रत्युपस्थिता भवति | उल्का-मुखं वा ह्रियमाणस्य सिंह-मुखं वा ह्रियमाणस्य शुष्क-वर्त्तिकां वा वर्त्यमानस्य || पे ||
SK
कार्षापण-च्छेदिकं वा छिद्यमानस्य पिष्ट-पाचनिकं वा पाच्यमानस्य हस्तिभिर् वा मर्द्यमानस्य सुख-संज्ञा + एव प्रवर्तते | अक्षिण्य्--उत्पाठ्यमाने जीव-शूलिकम् अपि क्रियमाणस्य सर्वशो वा + अ-घातं निर्णीय शिरसि वा प्रपात्यमाने सुख-संज्ञा + एव प्रवर्तते | न दुष्ख-संज्ञा | न + अ-दुष्ख-अ-सुख-संज्ञा ||
SK
तत् कस्य हेतोः | तथा हि बोधि-सत्वस्य महा-सत्वस्य दीर्घ-रात्रं चर्यां चरत एतत् प्रणिधानम् अभूत् | ये मां भोजयेरन् | ते उपशम-शम-सुखस्य लाभिनो भवेयुः | ये मां पालयेयुः सत्-कुर्युर् गुरु-कुर्युर् मानयेयुः पूजयेयुः सर्वे ते उपशम-सुखस्य लाभिनो भवेयुः | ये * अपि माम् आक्रोशेयुर् विस्पर्शेयुस् ताडयेयुः शस्त्रेण + आछिन्द्युर् यावत् सर्वशो जीविताद् व्यपरोपयेयुः सर्वे ते संबोधि-सुखस्य लाभिनो भवेयुः | अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुध्येरन्न् इति ||
SK
स एभिर् मनस्-कारैः समन्वागत एतेन कर्मणा | एभिः प्रणिधिभिः समन्वागतः सर्व-सत्व-अनुगतां सुख-संज्ञाम् आसेवते निसेवते भावयति बहुली-करोति | स तस्य कर्मणो विपाकेन सर्व-धर्म-सुख-आक्रान्तं नाम समाधिं प्रतिलभते | यस्मिन् समये बोधि-सत्वेन सर्व-धर्म-सुख-आक्रान्तो नाम समाधिः प्रतिलब्धो भवति तस्मिन् समये अ-क्षोभ्यो भवत्य् अ-संहार्यः सर्व-मार-कर्मभिर् इति विस्तरः ||
SK
अयं हि प्रयोगः सर्व-परित्याग-पूरणः | सर्व-चर्या-दुष्-कर-चर्या-साधनः सर्व-क्षान्ति-दृढी-करणः सर्व-वीर्य-आसंसादनः | सर्व-ध्यान-प्रज्ञा-अङ्ग-संभारः | तस्मान् नित्य-मुदितः स्यात् ||
SK
यथा + आह चन्द्र-प्रदीप-सूत्रे | स-गौरवः प्रीत-मनाः सदा भवेत् | सौम्याय दृष्टीय सदा स्थितो भवेद् | इति ||
SK
उक्तं च + अक्षयमति-सूत्रे | तत्र कतमा मुदिता | यावद् धर्म-अनुस्मरणात् प्रीतिः प्रसादः प्रामोद्यं चित्तस्य + अन्-अवलीनता + अन्-अवमृद्यता + अ-परितर्षणा | सर्व-काम-रतीनाम् अपकर्षणा सर्व-धर्म-रतीनां प्रतिष्ठानं | चित्तस्य प्रामोद्यं कायस्य + औद्बिल्यं बुद्धेः संप्रहर्षणं मनस उत्प्लवः | तथा-गत-काय-अभिनन्दन-रतिर् लक्षण-अनुव्यञ्जन-विभूषण-पर्येष्टि-कौशल्यं | कुशल-धर्म-श्रवण-अ-परिखेदता | तत्व-धर्म-प्रतिशरण-प्रतिपत्ति-प्रीति-प्रसाद-प्रमोद्यं मुदितस्य धर्म-उत्प्लवः | सततं सत्वेष्व् अ-प्रतिहत-बुद्धिता | तीव्र-च्छन्दता | बुद्ध-धर्म-पर्येष्टिषु तस्य च धर्म-च्छन्दस्य + अन्-उत्सृजनता | उदारेषु बुद्ध-धर्मेष्व् अधिमुक्तिः | विमुक्तिः प्रादेशिक-यान-अपकृष्ट-चित्त-उत्पादः | मात्सर्य-अ-संकुचितश् चित्त-उत्पादः | याचितस्य दातु-कामता | ददतो दत्त्वा च त्रि-मण्डल-परिशोधितं दान-प्रामोद्यं | शीलवत्सु सदा प्रसादः | दुः-शीलेष्व् अनुग्रह-प्रीतिः | स्व-शील-परिशुद्ध्या सर्व-दुर्-गन्धम् अतिक्रम-आश्वासनं | तथा-गत-शील-परिणामनता | दृढ-अ-भेद्यता | पर-दुर्-उक्त-दुर्-आगतेषु वचन-पथेष्व् अ-प्रतिहत-चित्तता | क्षान्ति-सौरत्यं | निर्-मानता | गुरुषु गौरव-अवनामश् चित्री-कारः | सदा स्मित-मुखता भृकुटि-विगतता | पूर्व-अभिलापिता + अ-कुहनता + अन्-एष्यैषिकता शुद्ध-आशयता चित्त-अ-कर्कशता + अ-कुटिलता | सर्वत्र + अनुशंस-दर्शिता आत्म-स्खलित-प्रत्यवेक्षिता | आपत्तिष्व् अ-चोदनता संरञ्जनीय-धर्मेष्व् अनुवर्तनता | शास्तृ-प्रेम बोधि-सत्वेषु | आत्म-प्रेम धर्मेषु | जीवित-प्रेम तथा-गतेषु | माता-पितृ-प्रेम गुरुषु | पुत्र-प्रेम सत्वेषु | बुद्ध-प्रेम आचार्य-उपाध्यायेषु | उत्तम-अङ्ग-शिरः-प्रेम प्रतिपत्तिषु | हस्त-पाद-प्रेम पारमितासु | सर्व-रत्न-प्रेम धर्म-भाणकेषु | सर्व-रति-क्रीडा-प्रेम + अनुशासनीषु | आरोग्य-प्रेम संतुष्टौ | भैषज्य-प्रेम धर्म-पर्येष्टिषु | वैद्य-प्रेम चोदक-स्मारकेषु | इति हि या सर्व-इन्द्रियेष्व् अन्-अवलीन-इन्द्रियता इयम् उच्यते मुदिता + इत्य् आदि ||
SK
अत्र च शिक्षितान् बोधि-सत्वान् इदं वचनम् अलं-करोति यद् उक्तम् आर्य-महा-मेघे | निरय-गति-चित्त-नित्य-समाधान-शीलाश् च निरय-गति-प्रियाश् च निरय-गति-पत्तन-वणिजश् च भवन्ति | निरय-लोलाश् च भवन्ति निरय-लोभ-मत्सरिणश् च निरय-अग्नि-चित्त-प्रगुण्णाः भवन्ति + इति ||
SK
उक्ता दुष्ख-अधिवासना क्षान्तिः ||
SK
आर्य-सागरमति-सूत्रे तु त्रि-विधा + अपि क्षान्तिर् उक्ता | इह सागरमते बोधि-सत्वो महा-सत्वः सर्व-ज्ञता-चित्त-उत्पाद-रत्ने | अन्-आर्यैर् दुः-शीलैः सत्वैर् मारैर् मार-कायिकाभिर् वा देवताभिर् मार-अधिष्ठितैर् वा मार-दूतैर् वा विहेठ्यमानः समीर्यमाणः क्षोभ्यमानस् तर्ज्यमानस् ताड्यमानो न भिद्यते ततो | अध्याशय-चित्त-उत्पादो न भिद्यते सर्व-सत्व-प्रमोक्ष-महा-करुणा-वीर्य-आरम्भात् | न भिद्यते त्रि-रत्न-वंश-अन्-उपच्छेद-पराक्रमात् | न भिद्यते सर्व-धर्म-समुदानयन-कुशल-प्रयोगात् | न भिद्यते लक्षण-अनुव्यञ्जन-परिनिष्पत्ति-गतात् पुण्य-संभार-उपचयात् | न भिद्यते बुद्ध-क्षेत्र-परिशुद्ध्य्-अभिनिर्हार-आहृताद् औत्सुक्यात् | न भिद्यते सर्व-धर्म-अ-परिग्रह-अभियुक्तात् काय-जीवित-उत्सर्गात् | न भिद्यते सर्व-सत्व-परिपाचन-अभियुक्ताद् आत्म-सौख्य-अन्-अध्यवसानात् | स एवम् अध्याशय-संपन्न एव समानः सर्व-सत्वानाम् अन्तिकाद् उच्च-घनां सहते | उन्मननां कुत्सनां सहते सर्व-सत्वानाम् आक्रोश-परिभाषां दुर्-उक्त-दुर्-आगतान् वचन-पथान् सहते | सर्व-सत्व-पीडां सहते | सर्व-सत्व-भारांश् च सहते उत्तारयति वा न च खिद्यते | न च लीयते | न संलीयते | न विषीदति | बलम् उपदर्शयति | स्थाम संजनयति | वीर्यम् आरभते | पराक्रमं पराक्रमते | उत्साहं जनयति | उन्मूढ-चित्तं निगृह्णाति | स आक्रुष्टो न प्रत्याक्रोशति | ताडितो न प्रतिताडयति | रोषितो न प्रतिरोषयति | क्रुद्धाय न प्रतिक्रुध्यति | एवं चित्त-गणना-संनाहं संनह्यति | ... सचेत् पुनर् एते सत्वा यावन्तो दशसु दिक्षु प्रभाव्यमानाः प्रभाव्यन्ते ते सर्वे * असि-शक्ति-तोमर-पालि-योगेन मां पृष्ठतः पृष्ठतो * अनुबध्नीयुः | यत्र + एष पृथिवी-प्रदेशे स्थितो वा निषण्णो वा चङ्क्रम्यमाणो वा शयानो वा बोधि-चित्तम् उत्पादयिष्यति दान-चित्तं वा यावत् प्रज्ञा-चित्तं वा श्रुत-कुशल-मूल-चित्तं वा + उत्पादयिष्यति तत्र + अस्य पृथिवी-प्रदेशे शत-धा-बदरी-पत्त्र-प्रमाणं कायं छेत्स्यामो विकरिष्यामो विध्वंसयिष्यामस् | ते चेत् सर्व-सत्वा माम् आक्रोशयेयुः परिभाषेरन् कुत्सयेयुः पंसयेयुर् अ-सत्याभिर् वाग्भिः परुषाभिर् वाग्भिः समुच्चरेयुर् अधिष्ठिता अन्-अर्थ-कर्माणः शत-धा-बदरी-पत्त्र-प्रमाणं मम कायं छिन्ध्युर् भिन्द्युर् विकरेयुर् विध्वंसयेयुः | एवं मया न कस्य-चित् सत्वस्य + अन्तिके क्षोभ-चित्तम् उत्पादयितव्यं | तत् कस्य हेतोः | पूर्वा कोटिः संसारस्य + अ-प्रमाणी-कृता यत्र मे * अयम् आत्म-भावो नरक-गतस्य + अपि तिर्यग्-योनि-गतस्य + अपि यम-लोक-गतस्य + अपि मनुष्य-गतस्य + अपि काम-आहार-पलिगुद्धस्य धर्मान् अ-श्रुतवतो विषम-आजीव-गो-चरस्य निर्-अर्थक-जीविनः अङ्ग-प्रत्य्-अङ्गस्य शत-धा छिन्नो भिन्नो निकृत्तो विविधाभिश् च कारणाभिः कारितो न च मया ततो निदानम् आत्म-अर्थं कृतो न पर-अर्थः | सचेत् पुनर् पुनर् मम + एते सर्व-सत्वा अ-पर-अन्त-कोटिं छिन्द्युर् भिन्द्युर् विकिरेयुर् विध्वंसयेयुस् तथा + अपि मया + अ-परित्यक्ता + एव सर्व-ज्ञता | अ-परित्यक्ता एव सर्व-सत्वाः | अ-परित्यक्तः कुशलो छर्म-छन्दः | तत् कस्य हेतोः | सर्वा ह्य् एषा काय-पीडा काय-विवर्तना | नैरयिकस्य दुष्खस्य शततमीम् अपि कलां न + उपैति यावद् उपनिषदम् अपि न क्षमते | नरक-आवासम् अप्य् अहम् उत्सहे | न पुनर् मया बुद्ध-धर्माः परित्यक्तव्या न सर्व-सत्व-आरम्बणा महा-करुणा || पे ||
SK
यन् निदानं पुनर् व्यापाद उत्पद्येत | तं वयं धर्मं प्रहास्यामः | कतमश् च स धर्मो | यद् उत काय-प्रेम काय-निकेतः काय-अध्यवसानं | उत्सृष्टश् च काय उत्सृष्टो व्यापादः | एवं धर्म-गणना-आविष्टः सागरमते बोधि-सत्वः सर्व-सत्व-पीडां सहते || पे ||
SK
यः कायस्य + उत्सर्गः काय-परित्यागः काय-अन्-अवेक्षा | इयम् अस्य दान-पारमिता ||
SK
यत् काये छिद्यमाने सर्व-सत्वान् मैत्र्या स्फरति | वेदनाभिश् च न संह्रियते | इयम् अस्य शील-पारमिता ||
SK
यत् काये छिद्यमाने य एव + अस्य कायं छिन्दति तेषाम् एव प्रमोक्ष-अर्थं क्षमते | न च चित्तेन क्षण्यते क्षान्ति-बलं च + उपदर्शयति + इयम् अस्य क्षान्ति-पारमिता ||
SK
येन वीर्येण तं सर्व-ज्ञता-छन्दं न + उत्सृजति चित्त-बल-आधीनं च प्रतिगृह्णाति | संसारम् एव च + अनुबध्नाति | कुशल-मूल-आरम्भम् एव च + आरभते | इयम् अस्य वीर्य-पारमिता ||
SK
यत् काये विकीर्यमाणे तत् सर्व-ज्ञता-चित्त-उत्पाद-रत्नं कर्तुं न संमुह्यति बोधिम् एव + अपेक्षते शान्त-प्रशान्तम् एव प्रत्यवेक्षते | इयम् अस्य ध्यान-पारमिता ||
SK
यत् काये छिद्यमाने कायस्य तृण-काष्ठ-कुड्यवत्-प्रतिभास-उपमतां प्रत्यवेक्षते माया-धर्मतां च कायस्य + अवतरति | भूत-अ-नित्यतां च भूत-दुष्खतां च भूत-अन्-आत्मतां च भूत-शान्ततां च कायस्य + उपनिध्यायति | इयम् अस्य प्रज्ञा-पारमिता + इति विस्तरः || पे ||
SK
पुनर् अ-परम् अस्य + एवं भवति | एष सत्वः कुसीदः शुक्ल-धर्म-रहितः | स माम् आक्रोशयति परिभाषते | हन्त वयम् आरब्ध-वीर्या भविष्यामः | अ-तृप्ताः कुशल-मूल-पर्येषण-अभियुक्ता | एष एव तावन् मया सत्वः पूर्वतरं बोधि-मण्डे निषादयितव्यः | पश्चान् मया + अन्-उत्तरा सम्यक्-संबोधिर् अभिसंबोद्धव्या + इति || पे ||
SK
ईदृशानाम् अस्माभिः सत्वानाम् अ-दान्तानाम् अ-गुप्तानाम् अन्-उपशान्तानाम् अर्थाय संनाहाः संनद्धव्याः || पे ||
SK
हन्त वयं धर्मतां प्रतिसरिष्यामः | को * अत्र + आक्रोशति वा आक्रुश्यते वा | स परिगवेषमाणो न तं धर्मम् उपलभते | य आक्रोशति वा आक्रुश्यते वा | स आत्म-पर-अन्-उपलब्ध-उपलम्भ-दृष्टि-विगतः क्षमतए इति ||
SK
भगवत्याम् अप्य् उक्तं | एवं चित्तम् उत्पादयति | येन मया सर्व-सत्वानां विवाद उत्सारयितव्यः | सो * अहं स्वयम् एव विवदामि | लाभा मे दुर्-लब्धा यो * अहं जल्पिते प्रतिजल्पामि | येन मया सर्व-सत्वानां संक्रम-भूतेन भवितव्यं सो * अहं परस्य त्वम् इत्य् अपि वाचं भाषे | परुषं वा प्रति-वाचो ददामि | इदं मया न + एव वक्तव्यं जड-समेन | एडक-मूक-समेन मया कलह-विवादेषु भवितव्यं | परतो दुर्-उक्तान् दुर्-आगतान् दुर्-भाषितान् भाष्यमाणान् वचन-पथान् शृण्वता चित्तं न + आघातयितव्यं | परेषाम् अन्तिके न मम + एतत् साधु न प्रति-रूपं यो * अहं परस्य दोष-अन्तरं संजनयेयम् | एतन् न मम प्रति-रूपं यद् अहं परेषां दोष-अन्तरम् अपि संश्रोतव्यं मन्ये | तत् कस्य हेतोः | न मया + आशयो विकोपयितव्यो येन मया सर्व-सत्वाः सर्व-सुख-उपधानेन सुखयितव्याः परिनिर्वापयितव्याश् च + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुध्य तत्र नाम + अहं व्यापद्ये | न च मया परेषां स्व्-अपराद्धानाम् अपि व्यापत्तव्यं | स नाम + अहं मोहं क्षोभं गच्छामि | इदं तु मया करणीयं | दृढ-पराक्रमतया पराक्रान्तव्यं | न मया जीवित-अन्तराये * अपि क्रियमाणे क्षोभः करणीयः | न मया भृकुटी मुखे [दोउब्त्fउल्] उत्पादयितव्या + इति ||
SK
बोधि-सत्व-प्रातिमोक्षे * अप्य् उक्तम् | ये क्रुद्धाः सत्वास् तान् आश्वासयति क्षमापयति | अनुलोमयति धर्मेण तोषयति + इति ||
SK
इति शिक्षा-समुच्चये क्षान्ति-पारमिता परिच्छेदो नवमः ||
SK
[X. वीर्यपारमिता]
SK
वीर्य-पारमिता दशमः परिच्छेदः ||
SK
एवं क्षान्ति-प्रतिस्थितः श्रुते वीर्यम् आरभेत | अन्यथा श्रुतम् एव + अस्य विनाशाय संपद्यते ||
SK
यथा + उक्तं चन्द्र-प्रदीप-सूत्रे | कियद्-बहू धर्म-पर्यायुणेया [दोउब्त्fउल्] शीलं न रक्षेत श्रुते नमन्त | न बाहुश्रुत्येन स शक्यु त्रायितुं दुः-शीलयेन व्रजमान दुर्-गतिम् ||
SK
श्रुत-अनुशंसास् तु नारायण-परिपृच्छायाम् उक्ताः | तथा हि कुल-पुत्राः श्रुतवतः प्रज्ञा-आगमो भवति | प्रज्ञावतः क्लेश-प्रशमो भवति | निः-क्लेशस्य मारो * अवतारं न लभते ||
SK
अत्र च मह-र्षेर् उत्तरस्य जातकं विस्तरेण कृत्वा + आह | धर्म-कामानां हि | वि-मल-तेजः | बोधि-सत्वानां महा-सत्वानां स-गौरवाणां स-प्रतीशानां अन्य-लोक-धातु-स्थिता अपि बुद्धा भगवन्तो मुखम् उपदर्शयन्ति धर्मं च + अनुश्रावयन्ति | धर्म-कामानां | वि-मल-तेजः | बोधि-सत्वानां महा-सत्वानां पर्वत-कन्दर-वृक्ष-मध्येषु धर्म-निधानानि निक्षिप्तानि | धर्म-मुखान्य् अन्-अन्तानि पुस्तक-गतानि कर-तल-गतानि भवन्ति | धर्म-कामानां वि-मल-तेजः बोधि-सत्वानां पूर्व-बुद्ध-दर्शिन्यो देवता बुद्ध-प्रतिभानम् उपसंहरन्ति || पे ||
SK
परिक्षीण-आयुष्काणां बुद्धा भगवन्तो देवताश् च + आयुर्-बलं च + उपसंहरन्ति | बुद्ध-अधिष्ठानेन देवता-अधिष्ठानेन च काङ्क्षामाणा वर्ष-सहस्रम् अवतिष्ठन्ते || पे ||
SK
यावत् कल्पं वा कल्प-अवशेषं वा यावद् वा आकाङ्क्षन्ति धर्म-गौरव-जातानां बोधि-सत्वानां बुद्धा भगवन्तो जराम् अप्य् अपनयन्ति | व्याधीन् अपनयन्ति | स्मृतिम् उपसंहरति | गतिं मतिं प्रतिभानं च + उपसंहरन्ति || पे ||
SK
दृष्टि-कृतानि विनोदयन्ति | सम्यग्-दृष्टिं च + उपसंहरन्ति | धर्म-गौरवेण | वि-मल-तेजः | बोधि-सत्वानां महा-सत्वानां सर्व-उपक्रम-भयानि न भवन्ति | तस्मात् तर्हि वि-मल-तेजः श्रुत-संभार-कौशल्य-अभियुक्तेन बोधि-सत्वेन भवितव्यम् इति ||
SK
किम् आकारं श्रुतं बोधि-सत्व-विनये प्रशस्तं | यथा आर्य-अक्षयमति-सूत्रे * अभिहितं | अशीत्य्-आकार-प्रवेशं श्रुतं | तद् यथा | छन्द-आकारम् आशय-आकारम् अध्याशय-आकारं प्रयोग-आकारं निर्माण-आकारम् अ-प्रमाण-आकारं कल्याण-मित्र-आकारं गौरव-आकारं प्रदक्षिण-आकारं सु-वचन-आकारं पर्युपासन-आकारम् अवहित-श्रोत्र-आकारं मनस्-कार-आकारम् अ-विक्षेप-आकारम् अवस्थान-आकारं रत्न-संज्ञा-आकारं भैषज्य-संज्ञा-आकारं सर्व-व्याधि-शमन-आकारं स्मृति-भजन-आकारं गति-बोधन-आकारं मति-रोचन-आकारं बुद्धि-प्रवेश-आक् आरम् अ-तृप्त-बुद्ध-धर्म-श्रवण-आकारं त्याग-वृंहण-आकारं दान्त-आजानेय-आकारं बहु-श्रुत-सेवना-आकारं सत्य-कृत्य-प्रीत्य्-अनुभवन-आकारं काय-औद्बिल्य-आकारं चित्त-प्रह्लादन-आकारम् अ-परिखेद-श्रवण-आकारं धर्म-श्रवण-आकारं प्रतिपत्ति-श्रवण-आकारं पर-देशना-श्रवण-आकारं अ-श्रुत-श्रवण-आकारं अभिज्ञा-श्रवण-आकारम् अन्य-यान-अ-स्पृहणा-श्रवण-आकारं प्रज्ञा-पारमिता-श्रवण-आकारं बोधि-सत्व-पिटक-श्रवण-आकारं संग्रह-वस्तु-श्रवण-आकारम् उपाय-कौशल्य-श्रवण-आकारं ब्रह्म-विहार-श्रवण-आकारं स्मृति-संप्रजन्य-श्रवण-आकारं गौरव-आकारं उत्पाद-कौशल्य-श्रवण-आकारम् अन्-उत्पाद-कौशल्य-श्रवण-आकारम् अ-शुभ-आकारं मैत्र्याः श्रवण-आकारं प्रतीत्य-समुत्पाद-आकारं अ-नित्य-आकारं दुष्ख-आकारम् अन्-आत्मा-आकारं शान्त-आकारं शून्यता-निमित्त-अ-प्रणिहित-आकारं अन्-अभिसंस् कार-आकारं कुशल-अभिसंस्कार-आकारं सत्व-अधिष्ठान-आकारं अ-विप्रणाश-आकारं स्व-अधीन-आकारं स्व-चित्त-आरक्षण-आकारं वीर्यस्य + आश्रंसन-आकारं धर्म-निध्यप्त्य्-आकारं क्लेश-विपक्ष-आकारं स्व-पक्ष-परिकर्षण-आकारं पर-पक्ष-क्लेश-निग्रह-आकारं सप्त-धन-समवशरण-आकारं सर्व-दारिद्र्य-उपछेद-आकारं सर्व-विद्वत्-प्रशस्त-आकारं पण्डित-अभिनन्दन-आकारं आर्य-संमत-आकारं अन्-आर्य-प्रसादन-आकारं सत्य-दर्शन-आकारं स्कन्ध-दोष-विवर्जन-आकारं संस्कृत-दोष-परितुलन-आकारम् अर्थ-प्रतिशरण-आकारं धर्म-प्रतिशरण-आकारं सर्व-पाप-अ-करण-आकारं आत्म-पर-हित-आकारं सु-कृत-कर्म-अन्-अनुतप्यन-आकारं विशेष-गमन-आकारं सर्व-बुद्ध-धर्म-प्रतिलाभ-आकारम् इति ||
SK
पुनर् अत्र + एव + आह | यश् च धर्म-संभार-योगः स एव + अस्य ज्ञान-संभारो भवति | तत्र कतमो धर्म-संभार-योगो या + इयम् अल्प-अर्थता + अल्प-कृत्यता + अल्प-भाषता + अल्प-परिष्कारता पूर्व-रात्र-अ-पर-रात्रं जागरिका-योगम् अनुयुक्तस्य श्रुत-अर्थ-परितुलनता | भूयो भूयः पर्येषणता | चित्तस्य + अन्-आविलता | नीवरणानां विष्कम्भनता | आपत्तिषु निः-शरण-ज्ञानं | अ-कौकृत्यता | अ-पर्युत्थानता | प्रतिपत्ति-सारता | धर्म-निम्नता धर्म-प्रवणता धर्म-प्राग्-भारता | पराक्रम-संपन्नता आदीप्त-शिरश्-चैल-उपमता ज्ञान-पर्येष्ट्या | तन्-मय-विहारिता | अ-शिथिल-शीलता + अ-निक्षिप्त-धुरता विशेष-गामिता संगणिका-विवर्जनम् एक-आरामता + अरण्य-अभिमुख-मनस्-कारता आर्य-वंश-सन्तुष्टिः धुत-गुणेष्व् अ-चलनता धर्म-आराम-रति-रतता लौकिक-मन्त्र-अ-स्मरणता लोक-उत्तर-धर्म-पर्येष्टिता स्मृत्य्-अ-प्रमोषता | अर्थ-गत्य्-अनुगमता | मत्या मार्ग-अनुलोमता | धृत्या संवर-प्रत्ययैर् ज्ञान-अनुगमः | ह्रीर्-अपत्राप्य-अलं-कारता | ज्ञान-अनुगमन-सारता | अ-ज्ञान-विधमनता | अ-विद्या-मोह-तमस्-तिमिर-पटल-पर्यवनद्धस्य प्रज्ञा-चक्षुर्-विशुद्धिः | सु-विशुद्ध-बुद्धिता | बुद्धि-विस्तीर्णता | अ-संकुचित-बुद्धिता प्रभिन्न-बुद्धिता | प्रत्य्-अक्ष-बुद्धिता | अ-पर-अधीन-गुणता | स्व-गुणैर् अ-मन्यनता | पर-गुण-परिकीर्तनता | सु-कृत-कर्म-कारिता | कर्म-विपाक-अन्-उद्धुरता | कर्म-परिशुद्धि-ज्ञानम् इति ||
SK
किं श्रोतव्यं | उक्तं भगवता ज्ञान-वैपुल्य-सूत्रे | स-अर्थकानि शास्त्राणि शिक्षितव्यानि | अप-अर्थकानि परिवर्जयितव्यानि | तद् यथा | लोक-आयत-शास्त्राणि दण्ड-नीति-शास्त्राणि कार्खेद-शास्त्राणि वाद-विद्या-शास्त्राणि कुमार-क्रीडा-शास्त्राणि जम्भक-विद्या-शास्त्राणि || पे ||
SK
यान्य् अपि तद् अन्यानि कानि-चिन् मोक्ष-प्रति-कूलानि शास्त्राणि संमोहाय संवर्तन्ते तानि सर्वाणि बोधि-सत्व-यान-संप्रस्थितेन परिवर्जयितव्यानि + इति ||
SK
एवं श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयं | कथं पुनर् आशय-संपन्नस्य + अप्य् उग्रदत्त-परिपृच्छायां गृहम् अनुज्ञातं | यत्नवतो * अप्य् अ-सामर्थ्यात् | पर-दार-आदिष्व् अपि तर्हि न + आपत्तिः स्यात् | न तेषाम् अ-सामर्थ्ये * अपि प्रकृति-दुष्टत्वाद् गृह-आवासस्य च प्रज्ञप्ति-स-अवद्यत्वाद् इति ||
SK
इति शिक्षा-समुच्चये वीर्य-पारमिता परिच्छेदो दशमः ||
SK
[XI. अरण्यसंवर्णनः]
SK
अरण्य-संवर्णनं नाम + एकादशः परिच्छेदः ||
SK
तद् एवम् उग्रदत्त-परिपृच्छा-विधिना गृह-दोषान् भावयित्वा श्रुतवता चित्तं शोधयितुम् अरण्यम् आश्रयणीयम् इति स्थितं ||
SK
तथा च + उक्तं चन्द्र-प्रदीप-सूत्रे | न जातु कामान् प्रतिषेवमाणः पुत्रेषु दारेषु जनित्व तृष्णां | गृहं च सेवित्व जुगुप्सनीयम् अन्-उत्तरां प्राप्स्यति सो * अग्र-बोधिम् ||
SK
ये काम वर्जेन्ति यथा + अग्नि-कर्षूं पुत्रेषु दारेषु जनित्व तृष्णां | उत्तस्त गेहाद् अभिनिष्क्रमन्ति न दुर्-लभा तेष्व् इयम् अग्र-बोधिः ||
SK
न कश्-चि बुद्धः पुरिमेण आसीद् अन्-आगतो भेष्यति यो * अवतिष्ठते | येहि स्थितैर् एव अगार-मध्ये प्राप्ता इयं उत्तम अग्र-बोधिः ||
SK
प्रहाय राज्यं यथ खेट-पिण्डं वसेद् अरण्येषु विवेक-कामः | क्लेशान् प्रहाय विनिहत्य मानं बुध्यन्ति बोधिं वि-रजाम् अ-संस्कृताम् || पे ||
SK
अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि | न + उपस्थिता भोन्ति नर-उत्तमा जिना यथ प्रव्रजित्वा चरमाण-धर्मान् ||
SK
यश् च + एव बोधिं प्रतिकाङ्क्षमाणः सत्व-अर्थ निर्विण्ण कु-संस्कृतातः | अरण्य-अभिमुख सप्त पदानि गच्छेद् अयं ततः पुण्य-विशिष्ट भोति ||
SK
यदि पुनर् विसभाग-सत्व-अनुनयात् परिषत्-कामतया वा लाभ-आदि-कामतया वा विवेक-प्रवेशे विलम्बेत | तद्-अर्थम् अत्र + एव + उक्तं | न विज्ञ बालेहि करोन्ति विग्रहं सत्-कृत्य बालान् परिवर्जयन्ति | मम + अन्तिके च + इति प्रदुष्ट-चित्ता न बाल-धर्मेहि करोन्ति संस्तवम् ||
SK
न विज्ञ बालान करोति सेवनां विदित्व बालान स्व-भाव-संततिम् | कियच्-चिरं बाल-सु-सेविता पि पुनो * अपि ते भोन्ति अ-मित्र-सन्निभाः ||
SK
न विज्ञ बालेष्व् इह विश्वसन्ति विज्ञाय बालान स्व-भाव-संततिम् | स्व-भाव-भिन्ना प्रकृतीय बालाः कुतो * अस्ति मित्रं हि पृथग्-जनानां ||
SK
सह-धार्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च अ-प्रत्ययं च | प्राविष्करोन्ति इमि बाल-धर्मा इमम् अर्थ विज्ञाय न विश्वसन्ति ||
SK
बाला हि बालेहि समं समेन्ति यथा अ-मेध्येन अ-मेध्य सार्द्धम् | विज्ञः पुनर् विज्ञ-जनेन सार्द्धं समेन्ति सर्पिर् यथ सर्पि-मण्डे ||
SK
तथा च पुनर् अत्र + एवम् आह | सू-सुखिताः सद ते नर-लोके येषु प्रिय-अ-प्रिय न + अस्ति कहिं-चित् | ये च न कन्दरके * अभिरमन्ते श्रामणकं सु-सुखं अनुभोन्ति ||
SK
येषु मम + अपि तु न + अस्ति कहिं-चित् | येषु परिग्रहु सर्वशु न + अस्ति | खड्ग-समा विचरन्ति मु लोकं गगने पवन यथा + इव व्रजन्ति ||
SK
स्युः सुखिता वत ते नर-लोके येषु न सज्जति मानस लोके | वायु-समं सद तेष्व् इह चित्तं न + उ च प्रिय-अ-प्रिय विद्यति संगो ||
SK
अ-प्रिय ये दुखितेहि निवासो ये * अपि प्रिया दुखितेहि वियोगो | अन्त उभे अपि तेहि जहित्वा ते सुखिता नरये रत धर्मे ||
SK
पुनर् अत्र + एव + उक्तम् | भवति सततम् अल्प-कृत्य-योगी पृथु गुण दोषत सर्वि वर्जयित्वा | न विवदति कदा-चि युक्त-योगी इमि गुण तस्य भवन्त्य् अरण्य-वासे ||
SK
सद भवति निविण्ण संस्कृते * असौ न भवति तस्य पृहा कहिं-चि लोके | न च भवति विवृद्धिर् आस्रवाणां वन-वसतो * अस्य भवन्ति आनुशंसाः ||
SK
अधिकरण न तस्य जातु भोती सद उपशान्त-रतो विवेक-चारी | वचचि मनसि काय संवृत-स्यो बहु-गुण तस्य भवन्त्य् अरण्य-वासे ||
SK
भवति अनुकूल तस्य मोक्षो लघु प्रतिविध्यति सो * अधिमुक्ति शान्ताम् | वनि-चरि धिमुक्ति सेवते * अस्य इमि गुण भोन्त्य् अरण्य-वासि सर्वे ||
SK
पुनर् आह | वन-षण्ड सेवथ विविक्त सदा विजहित्व ग्राम-नगरेषु रतिम् | अ-द्वितीय-खड्ग-सम भोथ सदा न चिरेण लप्स्यथ समाधि-वरम् | इति ||
SK
आर्य-राष्ट्रपाल-सूत्रे * अप्य् आह | त्यक्त्वा गेहम् अन्-अन्त-दोष-गहनं चिन्ता-अन्-अपेक्षाः सदा | ते * अरण्ये रतिम् आप्नुवन्ति गुणिनः शान्त-इन्द्रियाः सूरताः ||
SK
न स्त्री-संभव न + एव च + अपि पुरुषैस् तेषां क्व-चिद् विद्यते | एकाकी विहरन्ति खड्ग-सदृशाः शुद्ध-आशया निर्-मलाः ||
SK
लाभैर् न + अपि च तेषु हर्ष स्व-मनो लीयन्त्य् अ-लाभैर् न च | अल्प-इच्छा इतर-इतरैर् अभिरता माया-कुहा-वर्जिताः | ति ||
SK
उग्रदत्त-परिपृच्छायाम् अप्य् आह | सत्व-संसर्गो मे न कर्तव्यो न हि मया + एक-सत्वस्य कुशल-मूलानि संजनयितव्यानि + इत्य् आदि ||
SK
यदि पुनः श्रुतवान् इमां क्षण-संपदम् आसाद्य लाभ-आदौ सक्तः चित्तं न शोधयेत् स एव + एकः | स-देवके लोके वञ्चितः स्याद् ||
SK
उक्तं ह्य् आर्य-रत्न-कूटे | तद् यथा काश्यप कश्-चिद् एव पुरुषो महता उदक-अर्णवेन + उह्यमान उदक-तृष्णया कालं कुर्याद् | एवम् एव काश्यप इह + एके श्रमण-ब्राह्मणा बहून् धर्मान् उद्गृह्य पर्यवाप्य न राग-तृष्णां विनोदयन्ति | न द्वेष-तृष्णां | न मोह-तृष्णां विनोदयन्ति | ते महता धर्म-अर्णवेन + उह्यमानाः क्लेश-तृष्णया काल-गता | दुर्-गति-विनिपात-गामिनो भवन्ति + इति ||
SK
तस्माद् अ-वश्यम् अरण्यम् आश्रयेत् ||
SK
तादृशानि च स्थानानि आश्रयेत् | येषु च स्थानेषु न + अति-दूरे पिण्ड-पात-गो-चरो भवति न + अति-संनिकृष्टे | येषु पानीयानि भवन्त्य् अच्छानि शुचीनि निर्-मलान्य् अल्प-आयासानि मुख-परिभोगानि यानि च स्थानानि वृक्ष-संपन्नानि भवन्ति पुष्प-संपन्नानि फल-संपन्नानि पत्त्र-संपन्नान्य् अपगत-दुष्ट-श्वा-पदानि गुहा-संपन्नानि प्राग्-भार-संपन्नानि सुख-परिसर्प्यकाणि शान्तान्य् अ-द्वितीयानि तादृशानि स्थानान्य् आश्रयेत् | स तेषु स्थानेष्व् आश्रितो यद् अनेन पूर्व-पठितं भवति तत् त्रिभी रात्रैस् त्रिर्-दिवसस्य स्व-अध्यायति न + अत्य्-उच्चेन स्वरेण न + अति-नीचेन न + उद्धतैर् इन्द्रियैर् न बहिर्-गतेन चित्तेन प्रसादम् उपजीवन् ग्रन्थम् उपधारयन् निमित्तान्य् उद्गृह्णन् मिद्धम् अपक्रामन् | सचेद् आरण्यकस्य भिक्षो राजा वा + उपसंक्रामति राज-मात्रो वा + अन्ये वा ब्राह्मण-क्षत्रिय-नैगम-जानपदाः | तेन तेषाम् आदरेण स्व्-आगत-क्रिया कर्तव्या | एवं च + अनेन वक्तव्यं | निषीद महा-राज यथा प्रज्ञप्तए आसने | सचेद् उपविशति द्वाभ्याम् अप्य् उपवेष्टव्यं | सचेन् न + उपविशति उभाभ्याम् अपि न + उपवेष्टव्यं | सचेच् चञ्चल-इन्द्रियो भवति उत्कर्षयितव्यं | तस्य ते महा-राज लाभाः सु-लब्धा यस्य ते भू-प्रदेशे शीलवन्तो गुणवन्तो बहु-श्रुताः श्रमण-ब्राह्मणाः प्रतिवसन्ति | अन्-उपद्रुताश् चौर-भट-आदिभिः ||
SK
सचेत् स्थिरो भवति विनीतः प्रशान्त-इन्द्रियः भव्यश् च भवति धर्म-देशनायाः ततो * अस्य विचित्रा धर्म-देशना उपसंहर्तव्या | सचेद् विचित्रां न प्रियायते | संवेग-अनुकूला धर्म-देशना उपसंहर्तव्या | सचेत् संवेग-अनुकूलां न प्रियायते उदार-उदाराणि तथा-गत-माहात्म्यानि उपदेष्टव्यानि | ब्राह्मण-क्षत्रिय-नैगम-जानपदानाम् अप्य् उपसंक्रामतां यथा-अनुरूपाः क्रिया उपसंहर्तव्या | स एवं बहु-श्रुतः सन् प्रति-बलो भवति धार्म-श्रवणिकानां चित्तम् आराधयितुं | ते च सत्वास् तस्य + अन्तिके प्रीतिं च प्रसादं च प्रामोद्यं च प्रतिलभन्तए इति ||
SK
उग्रदत्त-परिपृच्छायाम् अप्य् आह | पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये प्रतिवसता एवम् उपपरीक्षितव्यं | किम् अर्थम् अहम् अरण्ये प्रतिवसामि | न केवलम् अरण्य-वासेन श्रमणो भवति | बहवो * अप्य् अत्र + अ-दान्ता अ-विनीता अ-युक्ता अन्-अभियुक्ताः प्रतिवसन्ति | तद् यथा | मृग-वानर-पक्षि-संघ-चौर-चण्डालाः प्रतिवसन्ति | न च ते श्रमण-गुण-समन्वागता भवन्ति | अपि तु खलु पुनर् अहं यस्य + अर्थाय + अरण्ये प्रतिवसामि स मया + अर्थः परिपूरयितव्यो यद् उत श्रामण्य-अर्थः || पे ||
SK
पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये विहरता एवम् उपपरीक्षितव्यं | किम् अर्थम् अहम् अरण्य्म् आगतः | तेन + एवं मीमांसयितव्यं | भय-भीतो * अस्म्य् अहम् अरण्यम् आगतः | कुतो भय-भीतः | संगणिका-भय-भीतः | संसर्ग-भय-भीतो राग-द्वेष-मोह-भय-भीतो मान-मद-म्रक्ष-परिदाह-भय-भीतो लोभ-ईर्ष्या-मात्सर्य-भय-भीतः रूप-शब्द-गन्ध-रस-स्पर्ष्टव्य-भय-भीतः | सो * अहं-कार-मम-कार-भय-भीतः | औद्धत्य-विचिकित्सा-भय-भीतः | स्कन्ध-मार-भय-भीतः | क्लेश-मार-भय-भीतो | मृत्यु-मार-भय-भीतो | देव-पुत्र-मार-भय-भीतः | अ-नित्ये नित्य इति विपर्यास-भय-भीतो * अन्-आत्मन्य् आत्मा + इति विपर्यास-भय-भीतो * अ-शुचौ शुचिर् इति विपर्यास-भय-भीतो | दुष्खे सुखम् इति विपर्यास-भय-भीतः | चित्त-मनो-विज्ञान-भय-भीतो | निवरण-आवरण-पर्युत्थान-भय-भीतः | सत्-काय-दृष्टि-भय-भीतः पाप-मित्र-भय-भीतो | लाभ-सत्-कार-भय-भीतो * अ-काल-मन्त्र-भय-भीतो * अ-दृष्टे दृष्टम् इति भय-भीतो * अ-श्रुते श्रुतम् इति भय-भीतो * अ-मते मतम् इति भय-भीतो * अ-विज्ञाते विज्ञातम् इति भय-भीतो * अ-श्रमणे श्रमण-मद-भय-भीतो * अन्यो-न्य-विद्वेषण-भय-भीतः काम-धातु-रूप-धात्व्-अ-रूप्य-धातु-भय-भीतः सर्व-भव-गत्य्-उपपत्ति-भय-भीतो निरय-तिर्यग्-योनि-पितृ-विषय-भय-भीतः संक्षेपेण सर्वेभ्यो * अ-कुशलेभ्यो मनसि-कारेभ्यो भय-भी त एभ्यो ह्य् अहम् एवं-रूपेभ्यो भय-भैरवेभ्यो भीतो * अरण्य-आवासम् उपगतः || पे ||
SK
पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्य-वास-स्थितेन भीतेन वा त्रस्तेन वा एवं शिक्षितव्यं | यानि कानि-चिद् भयान्य् उत्पद्यन्ते सर्वाणि तान्य् आत्म-ग्राहत उत्पद्यन्ते || पे ||
SK
सचेत् पुनर् अहम् अरण्ये प्रतिवसन् न + आत्म-ग्राहं परित्यजेयं न + आत्म-अभिनिवेशं न + आत्म-परिग्रहं न + आत्म-निदानं न + आत्म-तृष्णां न + आत्म-संज्ञां न + आत्म-वाद-उपादानं न + आत्म-दृष्टिं न + आत्म-अधिष्ठानं न + आत्म-परिकल्पनां न + आत्म-रक्षां परित्यजेयं | निर्-अर्थको मे * अरण्य-वासः स्याद् | अपि तु खलु पुनर् गृह-पते न + अस्त्य् आत्म-संज्ञिनो * अरण्य-वासो | न + अस्ति पर-संज्ञिनः || पे ||
SK
अरण्य-वासो नाम गृह-पते उच्यते सर्व-धर्मेष्व् अ-संभव-वासः सर्व-धर्मेष्व् अ-संग-वासः || पे ||
SK
तद् यथा गृह-पते * अरण्ये तृण-गुल्म-औषधि-वनस्-पतयः प्रतिवसन्तो न बिभ्यति न + उत्त्रस्यन्ति न संत्रस्यन्ति न संत्रासम् आपद्यन्ते | एवम् एव गृह-पते प्रव्रजितेन बोधि-सत्वेन + अरण्ये विहरता तृण-गुल्म-औषधि-वनस्-पति-काष्ठ-कुड्य-वद् आत्म-प्रतिभास-वत् संज्ञा काये उत्पादयितव्या | माया-समता चित्तस्य + उत्पादयितव्या | को * अत्र बिभेति | को * अस्मिन्न् उत्त्रस्यति |तेन भय-भीतेन वा त्रस्तेन वा एवं योनिशः काय उपपरीक्षितव्यः | न + अस्त्य् अत्र काये आत्मा वा सत्वो वा जीवो वा पोषो वा पुद्गलो वा मनु-जो वा मानवो वा | अ-भूत-परिकल्प एष यद् उत भयं नाम | स मया + अ-भूत-परिकल्पो न परिकल्पयितव्यः | तेन यथा + अरण्ये तृण-गुल्म-औषधि-वनस्-पतयः प्रतिवसन्ति अ-ममा अ-परिग्रहाः | एवम् एव + अ-ममेन + अ-परिग्रहेण + अरण्यम् एव सर्व-धर्मा इति ज्ञात्वा उपसम्पद्य विहर्तव्यं | तत् कस्य हेतोः | रण-छेदो * अरण्य-वासो * अ-ममो * अ-परिग्रहः || पे ||
SK
पुनर् अ-परं गृह-पते प्रव्रजितेन बोधि-सत्वेन बुद्ध-अनुज्ञातो * अरण्य-वास इति ज्ञात्वा + अरण्ये वस्तव्यं | अत्र हि शुक्ल-धर्म-परिपूरिर् भवति | उपस्तब्ध-कुशल-मूलः पश्चाद्-ग्राम-नगर-निगम-राष्ट्र-राज-धानीष्व् अवतीर्य धर्मं देशयिष्यामि || पे ||
SK
सचेत् पुनर् गृह-पते प्रव्रजितो बोधि-सत्व उद्देश-स्व-अध्याय-अर्थं गणम् अवतरति | तेन तत्र स-गौरवेण भवितव्यं स-प्रतीसेन + आचार्य-उपाध्यायेषु स्थविर-मध्य-नवकेषु भिक्षुषु प्रदक्षिण-भवितव्यम् अन्-अलसेन स्वयं-कारिणा + अ-पर-उपतापिना न च तेन + उपस्थान-गुरुकेण भवितव्यं | एवं च + अनेन + उपपरीक्षितव्यं | तथा-गतो * अप्य् अर्हन् सम्यक्-संबुद्धः स-देवस्य लोकस्य स-मारकस्य स-ब्रह्मकस्य स-श्रमण-ब्राह्मणिकायाः प्रजायाः पूजितो दक्षिणीयः सर्व-सत्वानां | सो * अपि तावन् न कस्य-चित् सकाशाद् उपस्थानं स्वी-करोति | किं पुनर् अस्माभिर् अ-शिक्षितैः शिक्षितु-कामैः | अपि तु वयम् एव सर्व-सत्वानाम् उपस्थायका भविष्यामः | वयम् एव परेषाम् उपस्थान-परिचर्यां करिष्यामो न च पुनः कस्य-चित् सकाशाद् उपस्थान-परिचर्यां स्वी-करिष्यामः | तत् कस्य हेतोः | उपस्थान-गुरुकस्य हि गृह-पते भिक्षोर् गुण-धर्म-अनुग्रहो नश्यति | येषां च संग्रहं करोति तेषाम् एवं भवति | उपस्थान-हेतोर् एषो * अस्माकं संग्रहं करोति ||
SK
पुनर् अत्र + एव + आह | सचेत् पुनर् गृह-पते आरण्यको बोधि-सत्वो धर्म-श्रवण-अर्थिक आचार्य-उपाध्याय-दर्शन-अर्थिको वा ग्लान-परिपृच्छको वा ग्राम-अन्तिकं शयन-आसनम् आगच्छेत् तेन सा + अयम् आगमनाय प्रक्रमणाय च चित्तम् उत्पादयितव्यं | सचेत् पुनर् अस्य पर-प्रतिबद्ध उद्देशः स्व-अध्यायो वा तेन विहारे प्रतिवसता + अरण्य-प्रवण-चित्तेन भवितव्यं | एष एव तस्य + अरण्य-वासो यत् सर्व-वस्तुष्व् अरण्य-संज्ञा धर्म-पर्येष्ट्या च + आतृप्ता + इति ||
SK
आर्य-रत्न-राशि-सूत्रे * अप्य् उक्तं | यदि पुनर् अस्य तत्र + अरण्य-आयतने विहरतो * अ-प्राप्त-फल-पृथग्-जनस्य व्याड-मृगा आगच्छेयुः | तेन तत्र न भयं न त्रास उत्पादयितव्यः | एवं च चित्तम् उत्पादयितव्यं | पूर्वम् एव + अहम् उत्सृष्ट-काय-जीवितो * अरण्य-वासम् उपगतो | न मया + अत्र भेतव्यं | न + उत्त्रसितव्यं | अपि तु मैत्रीम् उत्पादयित्वा दोषं विवर्जयिष्यामि भयम् अपनयिष्यामि | यद्य् एवम् अपि कृत्वा ते व्याड-मृगा मां जीविताद् व्यपरोप्य भुञ्जीरन् | तेन मया + एवं चित्तम् उत्पादयितव्यं | लाभा मे सु-लब्धा यस्य मे * अ-सारात् कायात् सारम् आदत्तं भविष्यति | न पुनर् इमे व्याड-मृगाः शक्या मया + आमिषेण तोषयितुं मम मांसं भक्षयित्वा सुख-स्पर्शं विहरिष्यन्ति || पे ||
SK
यदि पुनस् तत्र + अरण्य-आयतने विहरतो * अ-मनुष्या उपसंक्रमिष्यन्ति सु-वर्णा वा दुर्-वर्णा वा | तेन न तत्र + अनुनेतव्यं न प्रतिहन्तव्यं | यदि पूर्व-बुद्ध-दर्शिन्यो देवता आरण्यकं भिक्षुम् उपसंक्रम्य प्रश्नं परिपृच्छेयुः | तत्र तेन + आरण्यकेन भिक्षुणा यथा-शक्ति यथा-बलं यथा-धर्म + अधिगमाय तासां देवतानां धर्मो देशयितव्यः | यदि पुनस् तावङ् गम्भीरान् प्रश्नान् परिपृच्छेयुर् यान् स आरण्यको भिक्षुर् न शक्नुयाद् विसर्जयितुं | तेन निर्-मानेन भूत्वा वाग् भाषितव्या + अ-शिक्षितो न परिभवितव्यः | युञ्जिष्यामि घटिष्ये बुद्ध-शासने | भविष्यति स कालः स समयो यदा + अधिगतान् धर्मान् श्रुत्वा सर्व-कथां विसर्जयिष्यामि | अपि तु प्रतिभातु ते | वयं धार्म-श्रवणिका इति || पे ||
SK
तेन तत्र + अरण्य-आयतने प्रतिवसता तृण-गुल्म-औषधि-वनस्-पतीनां निमित्तं ग्रहीतव्यं | कथम् एते भवन्ति | यथा + एषां भावनाम् अ-स्वामिकानाम् अ-ममानाम् अ-परिग्रहाणाम् एवं निश्-चेष्टानां निर्-व्यापाराणां भवत्य् उत्पादो भङ्गश् च | न च + एषां कश्-चिद् उत्पादयिता | न निरोधयिता | एवम् एव + अयं कायस् तृण-काष्ठ-कुड्य-प्रतिभास-उपमो * अ-स्वामिको * अ-ममो * अ-परिग्रहो निश्-चेष्टो निर्-व्यापारो हेतु-प्रत्यय-युक्त्या उत्पद्यते | हेतु-प्रत्यय-वैकल्यान् निरुध्यते | न पुनर् अत्र कश्-चिद् धर्मः परम-अर्थत उत्पद्यते वा निरुध्यते वा + इति ||
SK
पुनश् च + उक्तं | तेन तत्र + अरण्य-आयतने विहरता एवं चित्तम् उत्पादयितव्यं | यद्य् अप्य् अहम् अरण्यम् आगत एको * अ-द्वितीयो | न मे कश्-चित् सहायो यो मां सु-कृतं दुष्-कृतं वा चोदयेत् | अपि तु खलु पुनः सन्ति + इमे देव-नाग-यक्षा बुद्धाश् च भगवन्तो ये मम चित्त-आशयं जानन्ति | ते मम साक्षिणः | सो * अहम् इह + अरण्य-आयतने प्रतिवसन्न् अ-कुशल-चित्तस्य वशं गच्छामि | यदि पुनर् अहम् इयद्-दूरम् आगत एको * अ-द्वितीयो * अ-संस्तब्धो * अ-ममो * अ-परिग्रहः काम-वितर्कं वा वितर्कयेयं | व्यापआदं विहिन्सा-वितर्कं वा वितर्कयेयम् अन्यं वा + अ-कुशल-वितर्कं वितर्कयेयं | निर्-विशेषो भवेयं संसर्ग-संगणिकाभिर् एतैः सत्वैः | ते च मे देव-नाग-यक्षा विसंवादिताः बुद्धाश् च भगवन्तो * अन्-अभिराद्धा भविष्यन्ति + इति ||
SK
इति शिक्षा-समुच्चये अरण्य-संवर्णनो नाम + एकादशः परिच्छेदः ||
SK
[XII. चित्तपरिकर्म]
SK
चित्त-परिकर्म द्वादशः परिच्छेदः ||
SK
तद् एवम् अरण्ये वसन् समाधानाय युज्यते ||
SK
उक्तं हि भगवत्यां | स तेषाम् एव सत्वानाम् अर्थाय ध्यान-पारमितायां चरन्न् अ-विक्षिप्त-चित्तो भवति | तत् कस्य हेतोः | तथा ह्य् अस्य + एवं भवति | लौकिकी ध्यान-उपपत्तिर् अपि तावद् विक्षिप्त-चित्तस्य दुर्-लभा | कः पुनर् वादो * अन्-उत्तरा सम्यक्-संबोधिः | तस्मान् मया + अ-विक्षिप्त-चित्तेन भवितव्यम् | यावन्न् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धेयम् इति ||
SK
पुनर् अस्याम् उक्तं | पुनर् अ-परं सुभूते बोधि-सत्वो महा-सत्वः प्रथम-चित्त-उत्पादम् उपादाय ध्यान-पारमितायां चरन् सर्व-आकार-ज्ञता-प्रतिसंयुक्तैर् मनसि-कारैर् ध्यानं समापद्यते | स चक्षुषा रूपाणि दृष्ट्वा न निमित्त-ग्राही भवति न + अनुव्यञ्जन-ग्राही | यतो * अधिकरणम् अस्य चक्षुर्-इन्द्रियेण + अ-संवर-संवृतस्य विहरतो * अभिध्या-दौर्मनस्ये अन्ये वा पापका अ-कुशला धर्माश् चित्तम् अनुप्राप्नुयुः | तेषां संवराय प्रतिपद्यते | रक्षति चक्षुर्-इन्द्रियम् | एवं श्रोत्रेण शब्दान् श्रुत्वा | घ्राणेन गन्धान् घ्रात्वा | जिह्वया रसान् आस्वाद्य | कायेन स्प्रष्टव्यानि स्पृष्ट्वा | मनसा धर्मान् विज्ञाय न निमित्त-ग्राही भवति | न + अनुव्यञ्जन-ग्राही | यतो * अधिकरणम् अस्य मन इन्द्रियेण + अ-संवर-संवृतस्य पापकाश् चित्तम् अनुप्राप्नुयुः | तेषां संवराय प्रतिपद्यते | रक्षति मन इन्द्रियं | स गच्छन्न् अपि तिष्ठन्न् अपि निषण्णो * अपि शयानो * अपि भाषमाणो * अपि समाहित-अवस्थाम् अ-समाहित-अवस्थां न विजहाति | स भवत्य् अ-हस्त-लोलः | अ-पाद-लोलो * अ-मुख-लोलो * अ-प्रकीर्ण-वाक् | अ-विक्षिप्त-इन्द्रियो * अन्-उद्धतो * अन्-उन्नतो * अ-चपलो * अन्-अलसो * अ-संभ्रान्त-कायो * अ-संभ्रान्त-चित्तः | शान्त-कायः शान्त-वाक् शान्त-चित्तः | रहस्य् अ-रहसि वा कल्पित-ईर्या-पथः संतुष्टः || पे ||
SK
सु-भरः सु-पोषः | सु-उपास्यः कल्याण-आचार-गो-चरः | संगणिकया + अपि विवेक-गो-चरः | लाभे * अ-लाभे च समो निर्-विकारः | अन्-उन्नतो * अन्-अवनतः | एवं सुखे दुष्खे | स्तुतौ निन्दायां | यशस्य् अ-यशसि | जीविते मरणे च समो निर्-विकारो * अन्-उन्नतो * अन्-अवनतः | एवं शत्रौ मित्रे च | मन-अपवर्तिनि ... | आर्येष्व् अन्-आर्येषु | शब्देषु संकीर्णेष्व् अ-संकीर्णेषु | प्रिय-अ-प्रियेषु च रूपेषु समो निर्-विकारः | अन्-उन्नतो * अन्-अवनतः | अनुरोध-विरोध-अपगतः | तत् कस्य हेतोः | तथा हि स स्व-लक्षण-शून्यान् अ-संभूतान् अ-निष्पन्नान् अन्-अभिनिर्वृत्तान् सर्व-धर्मान् पश्यति + इति विस्तरः ||
SK
तत्र लीने मनसि मुदिता भावनया + उत्तेजनं कुर्यात् | उद्धते त्व् अ-नित्यता-मनसि-कारैः प्रशमः ||
SK
उभय-प्रति-पक्ष-अर्थं च + आर्य-राष्ट्रपाल-उक्तां गाथां स्मरेत् | बहु कल्प-कोटीभि कदा-चि बुद्धो उत्पद्यते लोक-हितो मह-र्षि | लब्धो * अधुना स प्रवरः क्षणो * अद्य त्यजति प्रमादं यदि मोक्तु-काम | इति ||
SK
तथा | मया + उपमं वितथम् एतत् स्वप्न-उपमं च संस्कृतम् अवेक्ष्य न चिराद् भविष्यति वियोगः सर्व-प्रियैः | न नित्यम् इह कश्-चित् | उद्युज्य यथा घटत नित्यं पारमितासु भूमिषु बलेषु | मा जातु स्रंसय वीर्यं यावन् न बुध्यथा प्रवर-बोधिम् | इति ||
SK
आर्य-ललित-विस्तरे * अप्य् उक्तं | ज्वलितं त्रि-भुवं जर-व्याधि-दुखैर् मरण-अग्नि-प्रदीप्तम् अ-नाथम् इदम् | भव-निः-शरणे सद मूढ जगद् भ्रमति भ्रमरो यथा कुम्भ-गतः ||
SK
अ-ध्रुवं त्रि-भुवं शरद्-अभ्र-निभं नट-रङ्ग-समा जगि जन्म-च्युतिः | गिरि-नद्य-समं लघु-शीघ्र-जवं व्रजतायु जगे यथ विद्यु नभे ||
SK
भुवि देव-पुरे त्रि-अपाय-पथे भव-तृष्ण-अ-विद्य-वशा जनता | परिवर्त्तिषु पञ्च-गतिष्व् अ-बुधा यथ कुम्भ-करस्य हि चक्र भ्रमी ||
SK
प्रिय-रूप-वरैः सद स्निग्ध-रुतैः शुभ-गन्ध-रसैर् वर-स्पर्श-सुखैः | परिषिक्तम् इदं कलि-पाश जगत् मृग-लुब्धक-पाशि यथा + एव कपि ||
SK
स-भयाः स-रणाः सद वैर-कराः बहु-शोक-उपद्रव काम-गुणाः | असि-धार-समा विष-पत्त्र-निभाः जहित-आर्य-जनैर् यथ मीढ-घटः ||
SK
स्मृति-मोष-करास् तमसी-करणा भय-हेतु-करा दुख-मूल सदा | भव-तृष्ण-लताय विवृद्धि-कराः स-भयाः स-रणा सद काम-गुणाः ||
SK
यथ अग्नि-खदाः ज्वलिताः स-भयाः तथ काम इमे विदिता + आर्य-जनैः | मह-पङ्क-समा अशि-शूल-समा मधु-दिग्ध इव क्षुर-धार-समा ||
SK
यथ सर्प-शिरो यथ मीढ-घटः तथ काम इमे विदिता विदुषाम् | तथ शूल-सामा द्वि-ज-पेशि-समा यथ श्वान-करं किश-वैर तथा + उदक-चन्द्र-निभा इमि काम-गुणाः प्रतिबिम्ब इवा गिरि-घोष यथा | प्रतिभास-समा नट-रङ्ग-निभा तथ स्वप्न-समा विदिता + आर्य-जनैः ||
SK
क्षणिका-वसिका इमि काम-गुणाः तथ माय-मरीचि-समा अलिक-उदक-बुद्बुद-फेन-समा वितथाः परिकल्प-समुत्थित बुद्ध बुधैः ||
SK
प्रथमे वयसे वर-रूप-धरः प्रिय इष्ट-मतो इय बाल-चारी | जर-व्याधि-दुखैर् हत-तेज-वपुं विजहन्ति मृगा इव शुष्क-नदीम् ||
SK
धन-धान्य-वरो बहु-द्रव्य-बली प्रिय इष्ट-मतो इय बाल-चारी | परिहीण-धनं पुन कृच्छ्र-गतं विजहन्ति नरा इव शून्य-टवीम् ||
SK
यथ पुष्प-द्रुमो स-फलो व द्रुमो नरु-दान-रतः तथ प्रीति-करः | धन-हीनु जरा-अर्दितु याचनको भवते तद अ-प्रिय-गृध्र-समः ||
SK
प्रभु-द्रव्य-बली वर-रूप-धरः प्रिय-सङ्ग-मन-इन्द्रिय-प्रीति-करः | जरा-व्याधि-दुख-अर्दितु क्षीण-धनो भवते तद अ-प्रिय-मृत्यु-समः ||
SK
जरया जरितः समतीत-वयो द्रुम विद्यु-हतो व यथा भवति | जर-जीर्ण अगार यथा स-भयो जर-निः-शरणं लघु ब्रूहि मुने ||
SK
जर शोषयते नर-नारि-गणं यथ मालु-लता घन शाल-वनम् | जर वीर्य-पराक्रम-वेग-हरी जर पङ्क-निमग्न यथा पुरुषो ||
SK
जर रूप सु-रूप-वि-रूप-करी जर तेज-हरी बल-स्थाम-हरी | सद सौख्य-हरी परिभाव-करी जर मृत्यु-करी जर ओज-हरी ||
SK
बहु-रोग-शतैर् घन-व्याधि-दुखैः उपसृष्टु जगज् ज्वलना + इव मृगाः | जर व्याधि-गतं प्रसमीक्ष्य जगत् दुख-निः-शरणं लघु देशय ही ||
SK
शिशिरेहि यथा हिम-धातु महं तृण-गुल्म-वन-औषधि ओज-हरो | तथ ओज-हरो * अयु व्याधि जगे परिहीयति इन्द्रिय-रूप-बलम् ||
SK
धन-धान्य-महा-अर्थ-क्षय-अन्त-करः परिभाव-करः सद् व्याधि जगे | प्रतिघात-करः प्रिय-द्वेष-करः परिदाह-करो यथ सूर्यु नभे ||
SK
मरणं च्यवनं च्युति काल-क्रिया प्रिय-द्रव्य-जनेन वियोगु सदा | अ-पुन-आगमनं च अ-संगमनं द्रुम-पत्त्र-फला नदि-श्रोतु यथा ||
SK
मरणं वशितान् अ-वशी-कुरुते मरणं हरते नदि दारु यथा | अ-सहाय-नरो व्रजते * अ-द्वितीयः स्वक-कर्म-फल-अनुगतो वि-वशः ||
SK
मरणं ग्रसते बहु प्राणि-शतान् मकरो व जल-आकरि भूत-गणान् | गरुडो उर-गं मृग-राज गज ज्वलनो व तृण-औषधि-भूत-गणम् | इति ||
SK
राज-अववादक-सूत्रे * अप्य् आह | तद् यथा महा-राज चतसृभ्यो दिग्भ्यश् चत्वारः पर्वता आगच्छेयुर् दृढाः | सारवन्तो * अ-खण्डा अ-च्छिद्रा अ-सुषिराः सु-संवृता एक-घना नभः स्पृशन्तः पृथिवीं च + उल्लिखन्तः सर्व-तृण-काष्ठ-शाखा-पर्ण-पलाश-आदि सर्व-सत्व-प्राणि-भूतानि निर्मथ्नन्तस् तेभ्यो न सु-करं जवेन वा पलायितुं बलेन वा द्रव्य-मन्त्र-औषधिभिर् वा निवर्तयितुम् | एवम् एव महा-राज चत्वारि + इमानि महा-भयान्य् आगच्छन्ति येषां न सु-करं जवेन वा पलायितुं बलेन द्रव्य-मन्त्र-औषधैर् वा निवर्तनं कर्तुम् | कतमानि चत्वारि | जरा व्याधिर् मरणं विपत्तिश् च ||
SK
जरा महा-राज आगच्छति यौवनं प्रमथमाना | व्याधिर् महा-राज आगच्छत्य् आरोग्यं प्रमथमानः | मरणम् आगच्छति जीवितं प्रमथमानं | विपत्तिर् महा-राज + आगच्छति सर्वाः संपत्तीः प्रमथमाना | तत् कस्य हेतोः | तद् यथा महा-राज सिंहो मृग-राजो रूप-संपन्नो जव-संपन्नः सु-जात-नख-दंष्ट्रा-करालो मृग-गणम् अनुप्रविश्य मृगं गृहीत्वा यथा-काम-करणीयं करोति | स च मृगो * अति-बलं व्याड-मुखम् आसाद्य वि-वशो भवति | एवम् एव महा-राज विद्धस्य मृत्यु-शल्येन + अपगत-मदस्य + अ-परायणस्य मर्मसु छिद्यमानेषु मुच्यमानेषु सन्धिषु मांस-शोणिते परिशुष्यमाणे परितप्त-तृषित-विह्वल-वदनस्य कर-चरण-विक्षेप-अभियुक्तस्य + अ-कर्मण्यस्य + अ-समर्थस्य लाला-सिङ्घाणक-पूय-मूत्र-पुरीष-उपलिप्तस्य ईषज्-जीवित-अवशेषस्य कर्म-भवात् पुनर् भवम् आलम्बानस्य यम-पुरुष-भय-भीतस्य काल-रात्रि-वश-गतस्य चरम-आश्वास-प्रश्वासेषु + उपरुध्यमानेषु ए काकिनो * अ-द्वितीयस्य + अ-सहायस्य + इमं लोकं जहतः पर-लोकम् आक्रामतो महा-पथं व्रजतो महा-कान्तारं प्रविशतो महा-गहनं समवगाहमानस्य महा-अन्ध-कारं प्रतिपद्यमानस्य महा-अर्णवेन + उर्ज्यमानस्य कर्म-वायुना + आह्रियमाणस्य + अ-निमित्ती-कृतां दिशं गच्छतो न + अन्यत् त्राणं न + अन्यच् * छरणं न + अन्यत् परायणम् ऋते धर्मात् | धर्मो हि महा-राज तस्मिन् समये त्राणं लयनं शरणं परायणं भवति | तद् यथा शीत-आर्त्तस्य + अग्नि-प्रतापः | अग्निम् अपगतस्य + अ-निर्वापणं | उष्ण-आर्त्तस्य शैत्यं | अध्वानं प्रतिपन्नस्य शीतलं छाया-उपवनं | पिपासितस्य शीतल-जलं | बुभुक्षितस्य वा प्रणीतम् अन्नं | व्याधितस्य वैद्य-ओषधि-परिचारकाः | भय-भीतस्य बलवन्तः सहायाः | साधवः प्रति-शरणा भवन्ति | एवम् एव महा-राज विद्धस्य मृत्यु-शल्येन + अपगत-मदस्य + अ-त्राणस्य + अ-शरणस्य + अ-परायणस्य न + अन्यत् त्राणं न + अन्यत् परायणम् अन्यत्र धर्मात् | तस्मात् तर्हि ते महा-राज + अ-नित्यता-अनुदर्शिना भवितव्यं क्षय-व्यय-अनुदर्शिना भवितव्यं मरण-भय-भीतेन | धर्मेण + एव ते महा-राज राज्यं कारयितव्यं न + अ-धर्मेण | तत् कस्य हेतोः | अस्य + अपि ते महा-राज + आत्म-भावस्य + एवं सु-चिरम् अपि परिरक्षितस्य सु-चिरम् अपि शुचिना प्रणीतेन खादनीय-भोजनीय-आस्वादनीयेन संतर्पितस्य संप्रवारितस्य | क्षुत-पिपासा-परिगतस्य काल-क्रिया भविष्यति | एवं काशि-कौशेय-दूकूल-पत्त्र-ऊर्णा-क्षौम-आदिभिर् वस्त्र-विशेषैर् आच्छादितस्य चरम-शयन-अवस्थितस्य विविध-स्वेद-अम्बु-क्लिन्न-मलिन-वसन-आवृतस्य काल-क्रिया भविष्यति | एवम् अपि ते महा-राज स्नान-अनुलेपन-वास-धूप-पुष्प-सुरभि-गन्धस्य + आत्म-भावस्य न चिरेण दुर्-गन्धता भविष्यति | एवं स्त्र्य्--आगार-मध्य-गतस्य + अपि ते स्त्री-गण-परिवृतस्य नाना-वाद्य-गीत-तूर्य-नाद्यैर् उपगीयमानस्य सु-मनसः क्रीडतो रममाणस्य परिचारयतो मरण-भय-भीतस्य + अतीव दुष्ख-दौर्मनस्याभ्यां काल-क्रिया भविष्यति | एवम् अपि ते महा-राज गृहेषु + उपलेपन-उपलिप्तेषु सु-स्थापित-अर्गलेषु सु-पिहित-वात-आयनेषु बहु-गन्ध-धूप-पुष्प-तैल-वर्ति-प्रज्वालितेष्व् आसक्त-पट्ट-दाम-कलापेषु मुक्त-कुसुम-अवकीर्णेषु गन्ध-घटिका-निर्धूपितेषु अ-न्यस्त-पाद-पीठ-पटिका-आस्तरण-गोणिका-आस्तरण-काच-लिन्दिक-प्रावरण-स-अन्तर-उछद-पटिका-उभय-कृत-उपधानेषु पर्यङ्केषु शयित्वा | पुनश् च शृगाल-काक-गृध्र-मृतक-डेवर-मांस-अस्थि-केश-रुधिर-वश-आकुले परम-बीभत्से श्मशाने गत-चेष्टस्य + आत्म-भावः पृथिव्याम् अ-वशः शेष्यते | एवम् अपि ते महा-राज गज-स्कन्ध-अश्व-पृष्ठ-रथ-अभिरूढस्य शङ्ख-पटहेष्व् आहन्यमानेषु छत्रेण धार्यमाणेन बाल-व्यजनेन वीजयमानस्य + अन्-एक-हस्त्य्-अश्व-रथ-पदातिभिर् अनुयातस्य + अञ्जलि-शत-सहस्रैर् नमस्-क्रियमाणस्य | निर्गमनम् अनुभूय न चिरान् निश्-चेष्टस्य मृत-शयन-अभिरूढस्य चतुर्भिः पुरुषैर् उत्क्षिप्तस्य दक्षिणेन नगर-द्वारेण निर्णीतस्य माता-पितृ-भ्रातृ-भगिनी-भार्या-पुत्र-दुहितृ-वयस्य-दासी-दास-कर्म-कर-पौरुषेयैः शोक-गत-हृदयैर् विक्षिप्त-केशैर् उत्क्षिप्त-भुजैः स-उरस्-ताडं परम-करुणं | हा पुत्र हा नाथ हा तात हा स्वामिन्न् इत्य् आक्रन्दमानैः पौर-जानपदैः स-परिभाव-दृश्यमानस्य श्मशानं नीतस्य पुनः काक-गृध्र-श्व-शृगाल-आदिभिर् भक्षितस्य तान्य् अस्थीन्य् अग्निना वा दग्धानि पृथिव्यां वा निखानितानि अद्भिर् वा क्लिन्नानि वात-आताप-वर्षैर् वा चूर्णी-कृतानि दिग्-वि-दिक्षु प्रक्षिप्तानि तत्र + एव पूत-भवम् आयास्यन्ति | एवम् अ-नित्याः सर्व-संस्कारा एवम् अ-ध्रुवा इति विस्तरः ||
SK
तत्र क्लेशाः प्राधान्येन राग-द्वेष-मोहा यस्य + एषाम् एकतरस्य तावत् प्रति-पक्षम् आदौ भावयेत् तन्-निदानं च वर्जयेत् ||
SK
तत्र + आर्य-रत्न-मेघे तावद् आह | स रागस्य प्रति-पक्षं भजते | राग-उत्पत्ति-प्रत्ययांश् च वर्जयति | कतमश् च स रागस्य प्रति-पक्षः | कतमे च ते राग-उत्पत्ति-प्रत्ययाः | अ-शुभा-भावना + अ-रागस्य प्रति-पक्षः | जन-पद-कल्याणी-राग-उत्पत्ति-प्रत्ययः | कतमा च सा + अ-शुभा-भावना | यद् उत सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वक् मांस-अस्थि स्नायुः शिरा वृक्का हृदयं प्लीहकः क्लोमकः | अन्त्राण्य् अन्त्र-गुण आम-आशयः पक्व-आशयः | औदर्यकं यकृत् पुरीषम् अश्रु स्वेदः खेटः सिङ्घाणकं वसा लसिका मज्जा मेदः पित्तं श्लेश्मा पूयं शोणितं मस्तकं मस्तक-लुङ्गं प्रस्रावः | एषु च वस्तुषु बोधि-सत्व उपपरीक्षण-जातीयो भवति | तस्य + एवम् उपपरीक्षमाणस्य + एवं भवति | यो * अपि तावत् स्याद् बालो मूढः अ-भव्यो * अ-कुशलः सो * अपि तावद् एतानि वस्तूनि ज्ञात्वा राग-चित्तं न + उत्पादयेत् | प्राग् एव स-प्रज्ञ-जातीयः | एवं हि बोधि-सत्वो * अ-शुभा-भावना-बहुलो भवति + इति ||
SK
भगवत्याम् अप्य् उक्तं | पुनर् अ-परं सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एवं कायं यथा-भूतं प्रजानाति | तद् यथा + अपि नाम सुभूते गो-घातको वा गो-घातक-अन्ते-वासी वा गां हत्वा तीक्ष्णेन शस्त्रेण चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितो * अथ-वा निषण्णः | एवम् एव सुभूते बोधि-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एव कायं धातुशो यथा-भूतं प्रजानाति | अस्त्य् अस्मिन् काये पृथिवी-धातुर् अब्-धातुर् अपि तेजो-धातुर् अपि वायु-धातुर् अपि + इति | पे ||
SK
पुनर् अप्य् आह | तद् यथा + अपि सुभूते कर्षकस्य मूतोडी पूर्णा नाना-धान्यानां शालीनां व्रीहीणां तिलानां तण्डुलानां मुद्रानां माषाणां यवानां गो-धूमानां मशूराणां सर्षपाणां |तान् एतान् चक्षुष्मान् पुरुषः प्रत्यवेक्षमाणः | एवं-जातीयाद् अयं शालिर् अयं व्रीहिर् अमी तिला अमी तण्डुला अमी मुद्रा अमी माषा यवा अमी गो-धूमा अमी मशूरा अमी सर्षपा इति ||
SK
एवम् एव बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन्न् इमम् एव कायम् ऊर्द्ध्वं पाद-तलाद् अधः केश-मस्तक-नख-रोम-त्वक् रोम-पर्यन्तं पूर्णं नाना-प्रकारस्य + अ-शुचेर् यथा-भूतं प्रत्यवेक्षते | सन्त्य् अस्मिन् काये केशा रोमाणि नखा यावन् मस्तकं मस्तक-लुङ्गम् अक्षि-गूथं कर्ण-गूथम् इति || पे ||
SK
पुनर् अ-परं सुभूते बोधि-सत्वः श्मशान-गतः पश्यति नाना-रूपाणि मृत-शरीराणि श्मशाने * अपविद्धानि शव-शयने उज्झितानि एक-अह-मृतानि वा द्व्य्-अह-मृतानि वा त्र्य्-अह-मृतानि वा चतुर्-अह-मृतानि वा पञ्च-अह-मृतानि वा व्याध्मातकानि विनीलकानि विपूयकानि विपठ्यकानि | स इमम् एव कायं तत्र + उपसंहरति | अयम् अपि काय एवं-धर्मा एवं-स्व-भावः | एतां धर्मताम् अ-व्यतिवृत्तए इति ||
SK
एवं हि सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन् बहिर्-धा काये काय-अनुदर्शी विहरति || पे ||
SK
पुनर् अ-परं यदा मृत-शरीराणि श्मशाने उत्सृष्टानि पश्यति | षड्-रात्र-मृतानि काकैर् वा खाद्यमानानि कुररैर् वा गृध्रैर् वा श्वभिर् वा शृगालैर् वा ततो * अन्यैर् वा नाना-विधैः प्राणक-जातैः खाद्यमानानि स इमम् एव कायं तत्र + उपसंहरति | अयम् अपि काय एवं-धर्मा एवं-स्व-भावः | एतां धर्मतां न व्यतिवृत्तए इति ||
SK
पुनर् अ-परं यदा मृत-शरीराणि पश्यति श्मशाने उत्सृष्टानि विखादितान्य् अ-शुचीनि दुर्-गन्धानि | स इमम् एव कायं तत्र + उपसंहरति + इति पूर्व-वत् || पे ||
SK
पुनर् अ-परं यदा पश्यति मृत-शरीराणि शिव-पथिकायाम् अस्थि-संकलिकां मांस-शोणित-म्रक्षितां स्नायु-विनिबद्धां |स तत्र + इमम् एव कायम् इति पूर्व-वत् ||
SK
पुनर् अ-परं यदा मृत-शरीराणि पश्यति शिव-पथिकायाम् अस्थि-संकली-भूतानि अपगत-मांस-शोणित-स्नायु-बन्धनानि | स इमम् एव कायम् इति पूर्व-वत् ||
SK
पुनर् अ-परं यदा पश्यति शिव-पथिकायाम् अस्थीनि दिग्-वि-दिक्षु क्षिप्तानि | यद् उत + अन्येन पाद-अस्थीनि | अन्येन जङ्घ-अस्थीनि | अन्येन च + ऊर्व्-अस्थीनि | अन्येन श्रोणि-कटाहकं | अन्येन पृष्ठ-वंशम् अन्येन पार्श्वक-अस्थीनि | अन्येन ग्रीव-अस्थीनि | अन्येन बाह्व्-अस्थीनि | स इमम् एव कायम् उपसंहरति + इति पूर्व-वत् || पे ||
SK
पुनर् अ-परं यदा पश्यति शिव-पथिकायाम् अस्थीन्य् अन्-एक-वार्षिकाणि वात-अनुपरिशोषितानि शङ्ख-सन्निभानि | इमम् एव कायं तत्र + उपसंहरति + इति पूर्व-वत् | अयम् अपि काय एवं-धर्मा एवं-स्व-भाव एतां धर्मतां न व्यतिवृत्तए इति ||
SK
पुनर् अ-परं सुभूते बोधि-सत्वो महा-सत्वः प्रज्ञा-पारमितायां चरन् यदा पश्यति शिव-पथिकायाम् अस्थीन्य् अन्-एक-वार्षिकाणि तिरो-भूतानि नीलानि कपोत-वर्णानि पूतीनि चूर्णक-जातानि पृथिव्यां पांसुना अ-सम-समी-भूतानि स इमम् एव कायं तत्र + उपसंहरति अयम् अपि काय एवं-धर्मा एवं-स्व-भावः | एतां धर्मतां न व्यतिवृत्तए इति ||
SK
एष तावत् समासतो रागस्य समुदाचार-प्रति-पक्षः | द्वेषस्य मैत्री प्रति-पक्षः | अ-प्रिय-सत्व-अ-दर्शनं च | तेन वा सह भोजन-आद्य्-एक-अर्थतया + अ-प्रीत्य्-उत्पादनं तत्र पर-सुखस्य + आशंसा प्रार्थना तृष्णा + अभिनन्दनं मैत्री | काम-राग-प्रत्य्-उपकार-हेतुभ्याम् अ-क्लिष्टः स्नेह इत्य् अर्थः ||
SK
सा त्रि-विधा + आर्य-अक्षयमति-सूत्रे * अभिहिता | सत्व-आरम्बणा मैत्री प्रथम-चित्त-उत्पादिकानां बोधि-सत्वानां | धर्म-आरम्बणा चर्या-प्रतिपन्नानां बोधि-सत्वानां | अन्-आरम्बणा मैत्री अन्-उत्पत्तिक-धर्म-क्षान्ति-प्रतिलब्धानां बोधि-सत्वानाम् इति ||
SK
पुनर् बुद्ध-आरम्बणा बोधि-सत्व-आरम्बणा श्रावक-प्रत्य्-एक-बुद्ध-आरम्बणा सत्व-आरम्बणा च | तत्र सत्व-आरम्बणायाः पूर्वं प्रिये सत्वे हित-सुख-उपसंहारान् न ध्यानम् अभ्यस्य | तत्-समे मैत्रीम् उपसंहरेत् | ततः परिचितेषु | तत उदासीनेषु | ततः समीप-वासिषु | ततः स्व-ग्राम-वासिषु | एवं पर-ग्रामे च | एवं यावद् एकां दिशम् अधिमुच्य स्फरित्वा + उपसंपद्य विहरति | एवं दशसु दिक्षु | बुद्ध-आद्य्-आरम्बणायास् त्व् अयं प्रयासो न + अस्ति ||
SK
सा च वज्र-ध्वज-परिणामनायाम् उक्ता | स बोधि-सत्व-चर्यायां चरन् यावन्ति कानि-चिद् दृश्यन्ते रूपाणि मनो-ज्ञानि वा प्रति-कूलानि वा | एवं शब्दा गन्धा रसा स्प्रष्टव्या धर्मा मनो-ज्ञा वा प्रति-कूला वा | अन्-अवद्या विशुद्धाः कल्याण-उदार-प्रभास्वरा वा येन सौमनस्यं जायते | सुखम् अवक्रामति | प्रसादो जायते | प्रीतिः संभवति | प्रामोद्यं संतिष्ठते | हर्षः प्रादुर्-भवति | दौर्मनस्यं निवर्तते | चित्त-कल्यता प्रादुर्-भवति | चित्तं कर्मण्यं भवति | आशयो मृदु-भवति | इन्द्रियाणि प्रह्लादं गच्छन्ति | सतत-सुखं संवेदयमान एवं परिणामयति | सर्व-बुद्धानाम् एतया परिणामनया भूयस्या मात्रया ते बुद्धा भगवन्तो * अ-चिन्त्येन बुद्ध-विहार-सुखेन समन्वागता भवन्त्व् अ-तुल्येन बुद्ध-समाधि-सुखेन सु-संगृहीता भवन्त्व् अन्-अन्त-सुखेन भूयस्या मात्रया + उपस्तब्धा भवन्तु | अ-प्रमाणेन बुद्ध-विमोक्ष-सुखेन समन्वागता भवन्तु | अ-प्रमेयेण बुद्ध-प्रातिहार्य-सुखेन सु-संगृहीता भवन्तु | अ-चिन्त्येन बुद्ध-अ-संग-विहार-सुखेन सु-परिगृहीता भवन्तु | दुर्-आसदेन बुद्ध-वृषभित-सुखेन + अभिछन्ना भवन्तु | अ-प्रमेयेण बुद्ध-बल-सुखेन + आत्यन्त-सुखिता भवन्तु | सर्व-वेदित-शान्तेन + अन्-उत्पत्ति-सुखेन + अधिकार-सुखा भवन्तु | अ-संग-विहार-सतत-समाहितेन तथा-गत-सुखेन + अ-द्वय-समुदाचारेण + अ-विकोपित-सुखा भवन्तु ||
SK
एवं बोधि-सत्वस् तत्-कुशल-मूलं तथा-गतेषु परिणमय्य बोधि-सत्वेषु परिणमयति | यद् इदम् अ-परिपूर्णानाम् अभिप्रायाणां परिपूर्णाय परिणमयति | अ-परिशुद्धानां सर्व-ज्ञता-अध्याशयानां परिशुद्धये | अ-परिनिष्पन्नानां सर्व-पारमितानां परिनिष्पत्तये | वज्र-उपमस्य बोधि-चित्त-उत्पादस्य + अधिष्ठानाय | अ-निवर्त्यस्य सर्व-ज्ञता-संनाहस्य + अ-प्रतिप्रस्रब्धये | बोधि-सत्वानां कुशल-मूलानां मार्गणतायै | सर्व-जगत्-समता-स्थितस्य महा-प्रणिधानस्य परिपूरये | सर्व-बोधि-सत्व-विहाराणाम् अधिगमाय | सर्व-बोधि-सत्व-इन्द्रियाणां तीक्ष्ण-अभिज्ञतायै | सर्व-बोधि-सत्व-कुशल-मूलानां सर्व-ज्ञता-स्पर्शनतायै ||
SK
स एवं तत्-कुशल-मूलं बोधि-सत्वानाम् अर्थाय परिणमय्य बुद्ध-शासन-अवचरेषु सर्व-श्रावक-प्रत्य्-एक-बुद्धेषु तत्-कुशल-मूलम् एवं परिणामयति | ते के-चित् सत्वा एक-अच्छट-अ-संहात-मात्रम् अपि बुद्ध-शब्दं सृण्वति | धर्म-शब्दं वा + आर्य-संघ-पर्युपासनं वा कुर्वन्ति तेषां तत्-कुशल-मूलम् अन्-उत्तरायै सम्यक्-संबोधये परिणामयति बुद्ध-अनुस्मृति-परिपूर्यै परिणामयति | धर्म-अनुस्मृति-प्रयोगतायै परिणामयति | आर्य-संघ-गौरवाय परिणामयति | अ-चिर-हित-बुद्ध-दर्शनतायै परिणामयति | चित्त-परिशुद्धये परिणामयति | बुद्ध-धर्म-प्रतिवेधाय परिणामयति | अ-प्रमेय-गुण-प्रतिपत्तये परिणामयति | सर्व-अभिज्ञा-कुशल-परिशुद्धये परिणामयति | धर्म-वि-मति-विनिवर्तनाय परिणामयति | यथा बुद्ध-शासन-अवचरेषु परिणामयति | श्रावक-प्रत्य्-एक-बुद्धेषु च तथा बोधि-सत्वः सर्व-सत्वेषु तत्-कुशल-मूलं परिणामयति ||
SK
यद् इदं नैरयिक-मार्ग-विनिवर्तनाय परिणामयति | तिर्यग्-योनि-व्यवच्छेदाय परिणामयति | यम-लोक-उपच्छेद-सुखाय परिणामयति | निर्-अवशेष-सर्व-अपाय-गत्य्-उपपत्ति-व्यवच्छेदाय परिणामयति ||
SK
तेषां च सर्व-सत्वानाम् अन्-उत्तर-बोधि-छन्द-विवर्धनतायै परिणामयति | अध्याशय-सर्व-ज्ञता-चित्त-लाभाय परिणामयति | सर्व-बुद्ध-धर्म-अ-प्रतिक्षेपाय परिणामयति | अत्य्-अन्त-सुख-सर्व-ज्ञता-भूमि-संवर्तनाय परिणामयति | अत्य्-अन्त-सर्व-सत्व-विशुद्धये परिणामयति | सर्व-सत्वानाम् अन्-अन्त-ज्ञान-अधिगमाय परिणामयति | पे ||
SK
तस्य यत् किञ्-चिच् चीवर-पिण्ड-पात-शयन-आसन-ग्लान-प्रत्यय-भैषज्य-गमन-आगमन-शरीर-उपस्थान-निषद्य-आदि-निषेवण-आयतनानां प्रवर्तन-कर्म ईर्या-पथ-अधिष्ठानम् ईर्या-पथस्य + अ-विकोपनं काय-कर्म वाक्-कर्म मनस्-कर्म स-चुरितं षण्णाम् इन्द्रियाणां संवरः स्व-शरीर-आछादन-मर्दन-स्नान-कर्म | अशित-पीत-खादितं संमिञ्जित-प्रसारित-अवलोकित-विलोकित-सुप्त-जागरित-स्व-शरीर-गत-उपस्थानं सर्वम् एतद् बोधि-सत्वस्य सर्व-ज्ञता-आलम्बन-प्रयुक्तस्य न किञ्-चिद् अ-परिणामितं सर्व-ज्ञतायां सर्व-सत्व-हित-सुख-चित्तस्य || पे ||
SK
सर्व-जगत्-परित्राण-मनसो नित्य-उद्युक्त-कुशल-मूलस्य मद-प्रमाद-व्यतिवृत्तस्य || पे ||
SK
सर्व-क्लेश-पराङ्-मुखस्य सर्व-बोधि-सत्व-अनुशिक्षण-चेतसः सर्व-ज्ञता-मार्ग-अ-प्रतिहतस्य ज्ञान-भूमि-निषेवणस्य पण्डित-संवास-अभिरतस्य | पे ||
SK
मधु-कर इव कुशल-मूल-संभरणस्य सर्व-जगद्-उच्चलित-सन्तानस्य + अन्-अभिनिविष्ट-सर्व-संस्कारस्य | पे ||
SK
अन्तशः श्वस्व् अपि तद् अन्येष्व् अपि तिर्यग्-योनि-गतेष्व् एक-ओदन-उन्मिञ्जितम् एक-आलोपं वा परित्यजति | सु-गताव् उपपत्तिषु तत् सर्वं तेषाम् एव हिताय तेषाम् एव परिमोचनाय परिणामयति | तस्यास् तिर्यग्-योनेस् तस्माद् दुष्ख-आर्णवात् तस्माद् दुष्ख-उपादानात् तस्माद् दुष्ख-स्कन्धात् तस्माद् दुष्खा-वेदनायाः | तस्माद् दुष्ख-उपचयात् तस्माद् दुष्ख-अभिसंस्कारात् तस्माद् दुष्ख-निदानात् ततो दुष्ख-मूलात् तस्माद् दुष्ख-आयतनात् तेषां सत्वानां विनिवर्तनाय परिणामयति तद्-आरम्बणेन च सर्व-सत्व-आरम्बणी-करोति मनसि-करोति | तत्र कुशल-मूले पूर्वङ्-गमी-करोति | यद् इदं सर्व-ज्ञतायां परिणामयति | बोधि-चित्त-उत्पादेन प्रतिगृह्णाति | तत्र कुशल-मूलम् उपनयति | संसार-कान्ताराद् विनिवर्तयति | अन्-आवरणेन बुद्ध-सुखेन + अभिमुखी-करोति | संसार-सागराद् उन्मज्जयति | बुद्ध-धर्म-प्रयुक्ताय मैत्र्या स्फरति + इत्य् आदि ||
SK
इमाश् च सुवर्ण-भास-उक्ता मैत्री-करुणा-गर्भा गाथाः सर्वा आदरतः समन्वाहृत्य भावयितव्या अन्तशो वचसा + अपि ||
SK
सुवर्ण-भास-उत्तम-दुन्दुभेन शाम्यन्तु दुष्खास् त्रि-सहस्र-लोके | अपाय-दुष्खा यम-लोक-दुष्खा दारिद्र्य-दुष्खाश् च इह त्रि-लोके ||
SK
अनेन च + उ दुन्दुभि-घोष-नादिना शाम्यन्तु सर्व-व्यसनानि लोके | भवन्तु सत्वा ह्य् अ-भय-आहता तथा यथा + अ-भयाः शान्त-भयाः मुनि-इन्द्राः ||
SK
यथा + एव सर्व-आर्य-गुण-उपपन्नाः संसार-सर्व-ज्ञ-महा-समुद्राः | तथा + एव भोन्तू गुण-सागराः प्रजाः समाधि-बोध्य्-अङ्ग-गुणैर् उपेताः ||
SK
अनेन च + उ दुन्दुभि-घोष-नादिना भवन्तु ब्रह्म-स्वर सर्व-सत्वाः | स्पृशन्तु बुद्धत्व-वर-अग्र-बोधिं प्रवर्तयन्तू शुभ-धर्म-चक्रम् ||
SK
तिष्ठन्तु कल्पानि अ-चिन्तियानि देशेन्तु धर्मं जगतो हिताय | हनन्तु क्लेशान् विधमन्तु दुष्खान् समेन्तु रागं तथ दोष मोहम् ||
SK
ये सत्व तिष्ठन्ति अपाय-भूमौ आदीप्त-संप्रज्वलित-अस्थि-गात्राः | शृण्वन्तु ते दुन्दुभि-संप्रवादितं नमो * अस्तु बुद्धाय भणन्तु वाचम् ||
SK
जाति-स्मराः सत्वा भवन्तु सर्वे जाती-शतं जाति-सहस्र-कोट्यः | अनुस्मरन्तू सततं मुनि-इन्द्रान् शृण्वन्तु तेषां वचनं ह्य् उदारं ||
SK
अनेन च + उ दुन्दुभि-घोष-नादिना लभन्तु बुद्धेहि समागमं सदा | विवर्जयन्तू खलु पाप-कर्म चरन्तु कुशलानि शुभ-क्रियाणि ||
SK
सर्वत्र क्षेत्रेषु च सर्व-प्राणिनां सर्वे च दुष्खाः प्रशमन्तु लोके | ये सत्व वि-कल-इन्द्रिय अङ्ग-हीनाः ते सर्वि स-कल-इन्द्रिय भोन्तु सांप्रतम् ||
SK
ये व्याधिता दुर्-बल-क्षीण-गात्रा निस्-त्राण-भूताः शयिता दिशासु | ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु च + आरोग्य बल-इन्द्रियाणि ||
SK
ये राज-चौर-भट तर्जित वध्य-प्राप्ता नाना-विधैर् भय-शतैर् व्यसन-उपपन्नाः | ते सर्वि सत्व व्यसन-आगत-दुष्खिता हि मुच्यन्तु तैर् भय-शतैः परमैः सु-घोरैः ||
SK
ये ताडिता बन्धन-बद्ध-पीडिता विविधेषु व्यसनेषु च संस्थिताहि | अन्-एक आयास-सहस्र आकुला विचित्र-भय-दारुण-शोक-प्राप्ताः ||
SK
ते सर्वि मुच्यन्त्व् इह बन्धनेभ्यः संताडिता मुच्यिषु ताडनेभ्यः | वध्याश् च संयुज्यिषु जीवितेन व्यसन-आगता निर्-भय भोन्तु सर्वे ||
SK
ये सत्व क्षुत्-तर्ष-पिपास-पीडिता लभन्तु ते भोजन-पान-चित्रम् | अन्धाश् च पश्यन्तु विचित्र-रूपां बधिराश् च शृण्वन्तु मनो-ज्ञ-घोषान् ||
SK
नग्नाश् च वस्त्राणि लभन्तु चित्रां दरिद्र-सत्वाश् च निधिं लभन्तु | प्रभूत-धन-धान्य-विचित्र-रत्नैः सर्वे च सत्वाः सुखिनो भवन्तु ||
SK
मा कस्य-चिद् भावतु दुष्ख-वेदनाः सौख्य-अन्विताः सत्व भवन्तु सर्वे | अभिरूप-प्रासादिक-सौम्य-रूपा अन्-एक सुख संचित नित्य भोन्तु ||
SK
मनस-अन्न-पानाः सु-समृद्ध-पुण्याः सह चित्त-मात्रेण भवन्तु तेषां | वीणा मृदङ्गाः पणवाः सु-घोषकाः उत्सा सराः पुष्करिणी तडागाः ||
SK
सुवर्ण-पद्म-उत्पल-पद्मिनीश् च सह चित्त-मात्रेण भवन्तु तेषाम् | गन्धं च माल्यं च विलेपनं च वासश् च चूर्णं कुसुमं विचित्रम् ||
SK
त्रिष्-काल-वृक्षेभि प्रवर्षयन्तु गृह्णन्तु ते सत्व भवन्तु हृष्टाः | कुर्वन्तु पूजां दशसू दिशासु अ-चिन्तियां सर्व-तथा-गतानाम् ||
SK
स बोधि-सत्वान् अथ श्रावकाणां धर्मस्य बोधि प्रतिसृष्टि तस्य | नीचां गतिं सत्व विवर्जयन्तु भवन्तु अष्ट-अक्षण-वीति-वृत्ताः ||
SK
आसादयन्तू जिन-राजम् उत्तमं लभन्तु बुद्धेहि समागमं सदा | सर्वा स्त्रियो नित्य नरा भवन्तु शूराश् च वीरा विदु-पण्डिताश् च ||
SK
ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु | पश्यन्तु बुद्धान् दशसू दिशासु रत्न-द्रुम-इन्द्रेषु सुख-उपविष्टान् | वैडूर्य-रत्न-आसन-संनिषण्णान् धर्मांश् च शृण्वन्तु प्रकाश्यमानान् | इति ||
SK
एषा संक्षेपतो मैत्री ||
SK
द्वेष-समुदाचार-प्रति-पक्षः ||
SK
मोह-अनुशयस्य प्रतीत्य-समुत्पाद-दर्शनं प्रति-पक्षः ||
SK
तत्र प्रतीत्य-समुत्पादः शालि-स्तम्ब-सूत्रे * अभिहितः | तत्र + आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य हेतु-उपनिबन्धः कतमः | यद् इदम् अ-विद्या-प्रत्ययाः संस्कारा यावज् जाति-प्रत्ययं जरा-मरणम् इति | अ-विद्या चेन् न + अभविष्यन् न + एव संस्काराः प्राज्ञास्यन्त | एवं यावद् यदि जातिर् न + अभविष्यन् न जरा-मरणं प्राज्ञास्यत | अथ सत्याम् अ-विद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति | एवं यावज् जात्यां सत्यां जरा-मरणस्य + अभिनिर्वृत्तिर् भवति | तत्र + अ-विद्याया न + एवं भवति | अहं संस्कारान् अभिनिर्वर्तयामि + इति | संस्काराणाम् अप्य् एवं न भवति | वयम् अ-विद्यया + अभिनिर्वृत्ता इति | एवं यावज् जात्या न + एवं भवति | अहं जरा-मरणम् अभिनिर्वर्तयामि + इति | जरा-मरणस्य + अपि न + एवं भवति | अहं जात्या निर्वृत्त इति |अथ च सत्याम् अ-विद्यायां संस्काराणाम् अभिनिर्वृत्तिर् भवति प्रादुर्-भावः | एवं यावज् जात्यां सत्यां जरा-मरणस्य + अभिनिर्वृत्तिर् भवति प्रादुर्-भावः ||
SK
एवम् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य हेतु-उपनिबन्धो द्रष्टव्यः ||
SK
कथम् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य प्रत्यय-उपनिबन्धो द्रष्टव्य इति | षण्णां धातूनां समवायात् | कतम् एषां षण्णां धातूनां समवायात् | यद् इदं पृथिव्य्--अप्-तेजो-वाय्व्-आकाश-विज्ञान-धातूनां समवायाद् आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य प्रत्यय-उपनिबन्धो द्रष्टव्यः ||
SK
तत्र + आध्यात्मिकस्य प्रतीत्य-समुत्पादस्य पृथिवी-धातुः कतम इति | यो * अयं कायस्य संश्लेषतः कठिन-भावम् अभिनिर्वर्तयत्य् अयम् उच्यते पृथिवी-धातुः | यः कायस्य + अनुपरिग्रहं कृत्यं करोति अयम् उच्यते * अब्-धातुः | यः कायस्य + अशित-पीत-भक्षितं परिपाचयति अयम् उच्यते तेजो-धातुः | यः कायस्य + आश्वास-प्रश्वास-कृत्यं करोत्य् अयम् उच्यते वायु-धातुः | यः कायस्य + अन्तः-सौषिर्य-भावम् अभिनिर्वर्तयत्य् अयम् उच्यते आकाश-धातुः | यो नाम-रूपम् अभिनिर्वर्तयति नड-कलाप-योगेन पञ्च-विज्ञान-काय-संप्रयुक्तं स-आस्रवं च मनो-विज्ञानम् अयम् उच्यते विज्ञान-धातुः ||
SK
अ-सत्सु प्रत्ययेषु कायस्य + उत्पत्तिर् न भवति | यदा + आध्यात्मिकः पृथिवी-धातुर् अ-विकलो भवत्य् एवम् अप्-तेजो-वाय्व्-आकाश-विज्ञान-धातवश् च + अ-विकला भवन्ति | ततः सर्वेषां समवायात् कायस्य + उत्पत्तिर् भवति ||
SK
तत्र पृथिवी-धातोर् न + एवं भवति | अहं कायस्य कठिन-भावम् अभिनिर्वर्तयामि + इति | अब्-धातोर् न + एवं भवति | अहं कायस्य + अनुपरिग्रह-कृत्यं करोमि + इति | तेजो-धातोर् न + एवं भवति | अहं कायस्य + अशित-पीत-खादितं परिपाचयामि + इति | वायु-धातोर् न + एवं भवति | अहं कायस्य + आश्वास-प्रश्वास-कृत्यं करोमि + इति | आकाश-धातोर् न + एवं भवति | अहं कायस्य + अन्तः सौर्षिर्यं करोमि + इति | विज्ञान-धातोर् न + एवं भवति | अहम् एभिः प्रत्ययैर् जनित इति | अथ च सत्स्व् एषु प्रत्ययेषु कायस्य + उत्पत्तिर् भवति | तत्र पृथिवी-धातुर् न + आत्मा न सत्वो न जीवो न जन्तुर् न मनु-जो न मानवो न स्त्री न पुमान् न न-पुंसकं | न च + अहं | न मम | न च अप्य् अन्यस्य कस्य-चित् | एवम् अब्-धातुस् तेजो-धातुर् वायु-धातुर् आकाश-धातुर् विज्ञान-धातुर् न सत्वो न जीवो न जन्तुर् न मनु-जो न मानवो न स्त्री न पुमान् न न-पुंसकं न च + अहं न मम न च + अप्य् अन्यस्य कस्य-चित् ||
SK
तत्र + अ-विद्या कतमा | या एष्व् एव षट्सु धातुष्व् एक-संज्ञा पिण्ड-संज्ञा नित्य-संज्ञा ध्रुव-संज्ञा शाश्वत-संज्ञा सुख-संज्ञा आत्म-संज्ञा सत्व-जीव-मनु-ज-मानव-संज्ञा | अहं-कार-मम-कार-संज्ञा | एवम्-आदि विविधम् अ-ज्ञानम् इयम् उच्यते * अ-विद्या + इति | एवम् अ-विद्यायां सत्यां विषयेषु राग-द्वेष-मोहाः प्रवर्तन्ते | तत्र ये राग-द्वेष-मोहा विषयेष्व् अमी उच्यन्ते संस्कारा इति | वस्तु-प्रति-विज्ञप्तिर् विज्ञानं | विज्ञान-सह-जाश् चत्वारो * अ-रूपिण उपादान-स्कन्धास् तन् नाम-रूपं | चत्वारि च महा-भूतानि च + उपादाय उपादाय र् ऊपम् ऐकध्यम् अभिसंक्षिप्य तन् नाम-रूपं | नाम-रूप-संनिश्रितानि + इन्द्रियाणि षड्-आयतनं | त्रयाणां धर्माणां संनिपातः स्पर्शः | स्पर्श-अनुभवना वेदना | वेदना-अध्यवसानं तृष्णा | तृष्णा वैपुल्यम् उपादानं | उपादान-निर्जातं पुनर्-भव-जनकं कर्म | भवः | तद्-धेतुक-स्कन्ध-प्रादुर्-भावो जातिः | स्कन्ध-परिपाको जरा विनाशो मरणं | म्रियमाणस्य मूढस्य स्व-अभिष्वङ्गस्य + अन्तर्-दाहः शोकः | लालप्यनं परिदेवः | पञ्च-विज्ञान-काय-संप्रयुक्तम् अ-शात-अनुभवनं दुष्खं | मनसि-कार-संप्रयुक्तं मानसं दुष्खं दौर्मनस्यम् | ये च + अन्यए एवम्-आदय उपक्लेशास् तए उपायासाः || पे ||
SK
पुनर् अ-परं तत्वे * अ-प्रतिपत्तिः मिथ्या प्रतिपत्तिः अ-ज्ञानम् अ-विद्या | एवम् अ-विद्यायां सत्यां त्रि-विधाः संस्काराः अभिनिर्वर्तन्ते | पुण्य-उपगा अ-पुण्य-उपगा आनिञ्ज्य-उपगाश् च + इमए उच्यन्ते * अ-विद्या-प्रत्ययाः संस्कारा इति | पुण्य-उपगानां संस्काराणां पुण्य-उपगम् एव विज्ञानं भवति | अ-पुण्य-उपगानां संस्काराणाम् अ-पुण्य-उपगम् एव विज्ञानं भवति | आनिञ्ज्य-उपगानां संस्काराणाम् आनिञ्ज्य-उपगम् एव विज्ञानं भवति | इदम् उच्यते संस्कार-प्रत्ययं विज्ञानम् इति | एवं नाम-रूपं | नाम-रूप-विवृद्ध्या षड्भिर् आयतन-द्वारैः कृत्य-क्रियाः प्रवर्तन्ते | तन् नाम-रूप-प्रत्ययं षड्-आयतनम् इत्य् उच्यते | षड्भ्य आयतनेभ्यः षट् स्पर्श-कायाः प्रवर्तन्ते * अयं षड्-आयतन-प्रत्ययः स्पर्श इत्य् उच्यते | यज्-जातीयः स्पर्शो भवति तज्-जातीया वेदना प्रवर्तते | इयं स्पर्श-प्रत्यया वेदना + इत्य् उच्यते | यस् तां वेदयति विशेषेण + आस्वादयति | अभिनन्दत्य् अध्यवस्यत्य् अत्यधितिष्ठति | सा वेदना-प्रत्यया तृष्णा + इत्य् उच्यते | आस्वादन-अभिनन्दन-अध्यवसानं | मा मे प्रिय-रूप-शात-रूपैर् वियोगो भवत्व् इति | अ-परित्यागो भूयो भूयश् च प्रार्थना | इदं तृष्णा-प्रत्ययम् उपादानम् इत्य् उच्यते | एवं प्रार्थयमानः पुनर्-भव-जनकं कर्म समुत्थापयति कायेन वाचा मनसा | अयम् उपादान-प्रत्ययो भव इत्य् उच्यते | या कर्म-निर्जातानां स्कन्धानाम् अभिनिर्वृत्तिः सा भव-प्रत्यया जातिर् इत्य् उच्यते | यो जात्य्-अभिनिर्वृत्तानां स्कन्धानाम् उपचय-परिपाकाद् विनाशो भवति | तद् इदं जाति-प्रत्ययं जरा-मरणम् उच्यते || पे ||
SK
एवम् अयं द्वादश-अङ्गः प्रतीत्य-समुत्पादो * अन्यो-न्य-हेतुको * अन्यो-न्य-प्रत्ययतो | न + एव + अ-नित्यो न नित्यो | न संस्कृतो न + अ-संस्कृतो | न वेदयिता | न क्षय-धर्मो न निरोध-धर्मो | न वि-राग-धर्मो | अन्-आदि-कार-प्रवृत्तो * अन्-उद्भिन्नो * अनुप्रवर्तते नदी-स्रोत-वत् ||
SK
अथ च + इमान्य् अस्य द्वादश-अङ्गस्य प्रतीत्य-समुत्पादस्य चत्वारि अङ्गानि संघात-क्रियायै हेतुत्वेन प्रवर्तन्ते | कतमानि चत्वारि | यद् उत | अ-विद्या तृष्णा कर्म विज्ञानं च | तत्र विज्ञानं बीज-स्व-भावत्वेन हेतुः | कर्म क्षेत्र-स्व-भावत्वेन हेतुः | अ-विद्या तृष्णा च क्लेश-स्व-भावत्वेन हेतुः | कर्म-क्लेशा विज्ञान-बीजं संजनयन्ति | तत्र कर्म विज्ञान-बीजस्य क्षेत्र-कार्यं करोति | तृष्णा विज्ञान-बीजं स्नेहयति | अ-विद्या विज्ञान-बीजम् अवकिरति | अ-सतां येषां प्रत्ययानां बीजस्य + अभिनिर्वृत्तिर् न भवति ||
SK
तत्र कर्मणो न + एवं भवति | अहं विज्ञान-बीजस्य क्षेत्र-कार्यं करोमि + इति | तृष्णाया अपि न + एवं भवति |अहं विज्ञान-बीजं स्नेहयामि + इति | अ-विद्याया अपि न + एवं भवति | अहं विज्ञान-बीजम् अवकिरामि + इति | विज्ञान-बीजस्य + अपि न + एवं भवत्य् अहम् एभिः प्रत्ययैर् जनित इति | अपि तु विज्ञान-बीजे कर्म-क्षेत्र-प्रतिष्ठिते तृष्णा-स्नेह-अभिष्यन्दिते * अ-विद्या-अवकीर्णे तत्र तत्र + उत्पत्त्य्-आयतन-सन्धौ मातुः कुक्षौ विरोहति | नाम-रूप-अङ्कुरस्य + अभिनिर्वृत्तिर् भवति | स च नाम-रूप-अङ्कुरो न स्वयं-कृतो न पर-कृतो न + उभय-कृतो न + ईश्वर-आदि-निर्मितो न काल-परिणामितो न च + एक-कारण-अधीनो न + अप्य् अ-हेतु-समुत्पन्नः | अथ च माता-पितृ-संयोगाद् ऋतु-समवायाद् अन्येषां च प्रत्ययानां समवायाद् आस्वाद-अनुप्रविद्धं विज्ञान-बीजं मातुः कुक्षौ नाम-रूप-अङ्कुर-बीजम् अभिनिर्वर्तयति | अ-स्वामिकेषु धर्मेष्व् अ-ममेष्व् अ-परिग्रहेष्व् अ-प्रत्य्-अर्थिकेष्व् आकाश-समेषु माया-लक्षण-स्व-भावेषु हेतु-प्रत्ययानाम् अ-वैकल्यात् ||
SK
तद् यथा पञ्चभिः कारणैश् चक्षुर्-विज्ञानम् उत्पद्यते | कतमैः पञ्चभिः ||
SK
चक्षुश् च प्रतीत्य रूपं च + आलोकं च + आकाशं तज्-जं च मनसि-कारं च प्रतीत्य + उत्पद्यते चक्षुर्-विज्ञानं ||
SK
तत्र चक्षुर्-विज्ञानस्य चक्षुर्-आश्रय-कृत्यं करोति | रूपम् आरम्बण-कृत्यं करोति | आलोको * अवभास-कृत्यं करोति | आकाशम् अन्-आवरण-कृत्यं करोति | तज्-ज-मनसि-कारः समन्वाहार-कृत्यं करोति | असत्स्व् एषु प्रत्ययेषु चक्षुर्-विज्ञानं न + उत्पद्यते ||
SK
यदा चक्षुर् आध्यात्मिकम् आयतनम् अ-विकलं भवति | एवं रूप-आलोक-आकाश-तज्-ज-मनसि-काराश् च + अ-विकला भवन्ति | ततः सर्व-समवायाच् चक्षुर्-विज्ञानस्य + उत्पत्तिर् भवति ||
SK
तत्र चक्षुषो न + एवं भवति | अहं चक्षुर्-विज्ञानस्य + आश्रय-कृत्यं करोमि + इति | रूपस्य + अपि न + एवं भवति | अहं चक्षुर्-विज्ञानस्य + आरम्बण-कृत्यं करोमि + इति | आलोकस्य + अपि न + एवं भवति | अहम् अवभास-कृत्यं करोमि + इति | आकाशस्य + अपि न + एवं भवति | अहं चक्षुर्-विज्ञानस्य + अन्-आवरण-कृत्यं करोमि + इति | तज्-ज-मनसि-कारस्य + अपि न एवं भवति | अहं चक्षुर्-विज्ञानस्य समन्वाहार-कृत्यं करोमि + इति | चक्षुर्-विज्ञानस्य + अपि न + एवं भवति | अहम् एभिः प्रत्ययैर् जनित इति | अथ च पुनः सत्स्व् एषु प्रत्ययेषु चक्षुर्-विज्ञानस्य + उत्पत्तिर् भवति प्रादुर्-भावः | एवं शेषाणाम् इन्द्रियाणां यथा-आयोगं कर्तव्यं ||
SK
तत्र न कश्-चिद् धर्मो * अस्माल् लोकात् परं लोकं संक्रामति | अस्ति च कर्म-फल-प्रतिविज्ञप्तिः | हेतु-प्रत्ययानाम् अ-वैकल्यात् | यथा + अग्निर् उपादान-वैकल्यान् न ज्वलति | एवम् एव कर्म-क्लेश-जनितं विज्ञान-बीजं तत्र तत्र + उत्पत्त्य्-आयतन-प्रति-सन्धौ मातुः कुक्षौ नाम-रूप-अङ्कुरम् अभिनिर्वर्तयति | अ-स्वामिकेषु धर्मेष्व् अ-ममेष्व् अ-परिग्रहेष्व् अ-प्रत्य्-अर्थिकेष्व् आकाश-समेषु माया-लक्षण-स्व-भावेषु हेतु-प्रत्ययानाम् अ-वैकल्यात् ||
SK
तन् न + आध्यात्मिकः प्रतीत्य-समुत्पादः पञ्चभिः कारणैर् द्रष्टव्यः ||
SK
कतमैः पञ्चभिः | न शाश्वततो न + उच्छेदतो न संक्रान्तितः | परीत्त-हेतुनो विपुल-फल-अभिनिर्वृत्तितस् तत्-सदृश-अनुप्रबन्धतश् च + इति ||
SK
कथं न शाश्वततः | यस्माद् अन्ये मारण-अन्तिकाः स्कन्धा अन्यए औपपत्त्य्-अंशिकाः | न तु यए एव मारण-अन्तिकाः स्कन्धास् तए एव + औपपत्त्य्-अंशिकाः स्कन्धा | अपि तु मारण-अन्तिकाश् च स्कन्धा निरुध्यमाना औपपत्त्य्-अंशिकाः स्कन्धाश् च प्रादुर्-भवन्ति | अतो न शाश्वततः ||
SK
कथं न + उच्छेदतः | न च निरुद्धेषु स्कन्धेषु औपपत्त्य्-अंशिकाः स्कन्धाः प्रादुर्-भवन्ति न + अप्य् अ-निरुद्धेषु | अपि तु मारण-अन्तिकाश् च स्कन्धा निरुध्यन्ते औपपत्त्य्-अंशिकाश् च प्रादुर्-भवन्ति | तुला-दण्ड-उन्नाम-अवनाम-वत् | अतो न + उच्छेदतः ||
SK
कथं न संत्रान्तितः | वि-सदृशात् सत्व-निकायाद् * धि स-भागाः स्कन्धा जात्य्-अन्तरे * अभिनिर्वर्तन्ते | अतो न संक्रान्तितः ||
SK
कथं परीत्त-हेतुतो विपुल-फल-अभिनिर्वृत्तितः परीत्तं कर्म क्रियते | विपुलः फल-विपाको * अनुभूयते | अतः परीत्त-हेतुतो विपुल-फल-अभिनिवृत्तिः ||
SK
कथं तत्-सादृश-अनुप्रबन्धतः | यथा वेदनीयं कर्म क्रियते | तथा वेदनीयो विपाको * अनुभूयते | अतस् तत्-सदृश-अनुप्रबन्धतश् च + इति ||
SK
यः कश्-चिद् भदन्त शारिपुत्र + इमं प्रतीत्य-समुत्पादं भगवता सम्यक्-प्रणीतम् एवं यथा-भूतं सम्यक्-प्रज्ञया सतत-समितम् अ-जीवं निर्-जीवं यथा-वद् अ-विपरीतम् अ-जातम् अ-भूतम् अ-कृतम् अ-संस्कृतम् अ-प्रतिघम् अन्-आवरणं शिवम् अ-भयम् अ-हार्यम् अ-व्ययम् अ-व्युपशमम् अ-स्व-भावं पश्यति | अ-सत्यतस् तुच्छत ऋक्ततो * अ-सारतो * अघतो * अ-नित्यतो दुष्खतः शून्यतो * अन्-आत्मनश् च समनुपश्यति | स न पूर्व-अन्तं प्रतिसरति | किम् अहम् अभूवम् अतीते * अध्वन्य् आहो स्विन् न + अभूवम् अतीते * अध्वनि | को न्व् अहम् अभूवम् अतीते * अध्वनि ||
SK
अ-पर-अन्तं वा पुनर् न प्रतिसरति | किं नु भविष्याम्य् अन्-आगते * अध्वन्य् आहो स्विन् न भविष्याम्य् अन्-आगते * अध्वनि | को नु भविष्यामि + इति | प्रत्य्-उत्पन्नं वा पुनर् न प्रतिसरति | किं स्विद् इदं कथं स्विद् इदं | के सन्तः के भविष्याम इति ||
SK
आर्य-दश-भूमके * अप्य् उक्तं | तत्र + अ-विद्या-तृष्णा-उपादानं च क्लेश-वर्त्मनो * अ-व्यवच्छेदः | संस्कारा भवश् च कर्म-वर्त्मनो * अ-व्यवच्छेदः | परिशेषं दुष्ख-वर्त्मनो * अ-व्यवच्छेदः | अपि तु खलु पुनर् यद् उच्यते * अविद्या-प्रत्ययाः संस्कारा इति | एषा पूर्व-अन्तिक्य् अपेक्षा ||
SK
विज्ञानं यावद् वेदना + इति | एषा प्रत्युत्पन्ना + अपेक्षा | तृष्णा यावद् भव इति | एषा + अ-पर-अन्तिक्य् अपेक्षा + अत ऊर्द्ध्वम् अस्य् प्रवृत्तिर् इति || पे ||
SK
तस्य + एवं भवति | संयोगात् संस्कृतं प्रवर्तते | वि-संयोगान् न प्रवर्तते | सामग्र्याः संस्कृतं प्रवर्तते | वि-सामग्र्या न प्रवर्तते | हन्त वयम् एवं बहु-दोष-दुष्टं संस्कृतं विदित्वा + अस्य संयोगस्य + अस्याश् च सामग्र्या व्यवच्छेदं करिष्यामो | न च + अत्यन्त-उपशमं सर्व-संस्काराणाम् अधिगमिष्यामः सत्व-परिपाचनतायै | इति ||
SK
इदं संक्षेपान् मोह-शोधनं ||
SK
इति शिक्षा-समुच्चये चित्त-परिकर्म परिच्छेदो द्वादशमः ||
SK
[XIII. स्मृत्युपस्थानपरिच्छेद]
SK
स्मृत्य्-उपस्थान-परिच्छेदः त्रयोदशः | एवं कर्मण्य-चित्तः स्मृत्य्-उपस्थानान्य् अवतरेत् ||
SK
तत्र + अ-शुभ-प्रस्तावेन काय-स्मृत्य्-उपस्थानम् उक्तम् ||
SK
तद् एव च भेद-लेशेन धर्म-संगीति-सूत्रे * अभिहितं | पुनर् अ-परं कुल-पुत्र बोधि-सत्व एवं काये स्मृतिम् उपस्थापयति | अयं कायः पाद-पाद-अङ्गुलि-जङ्घ-ऊरु-त्रिक-उदर-नाभि-पृष्ठ-वंश-हृदय-पार्श्व-पार्श्वका-हस्त-कलाची-बाह्व्-अंश-ग्रीवा-हनु-ललाट-शिरः-कपाल-मात्र-समूहः कर्म-भव-कारक-उपचितो नाना-क्लेश-संकल्प-विकल्प-शत-सहस्राणाम् आवास-भूतो | बहूनि च + अत्र द्रव्याणि समवहितानि | यद् उत | केश-रोम-नख-दन्त-अस्थि-चर्म-पिशित-वपा-स्नायु-मेदो-वशा-लसीका-यकृन्-मूत्र-पुरीष-आम-आशय-रुधिर-खेट-पित्त-पूय-सिङ्घाणक-मस्तक-लुङ्गानि | एवम् बहु-द्रव्य-समूहः | तत् को * अत्र कायः | तस्य प्रत्यवेक्षमाणस्य + एवं भवति | आकाश-समो * अयं कायः | स आकाश-वत् काये स्मृतिम् उपस्थापयति | सर्वम् एतद् आकाशम् इति पश्यति | तस्य काय-परिज्ञान-हेतोर् न भूयः क्व-चित् स्मृतिः प्रसरति | न विसरति | न प्रतिसरति + इति ||
SK
पुनर् उक्तं | अयं कायो न पूर्व-अन्ताद् आगतो | न पर-अन्ते संक्रान्तो न पूर्व-अन्त-अ-पर-अन्त-अवस्थितो * अन्यत्र + अ-सद्-विपर्यास-संभूतः कारक-वेदक-रहितो न + आद्य्-अन्त-मध्ये प्रतिष्ठित-मूलः | अ-स्वामिकः | अ-ममः | अ-परिग्रहः | आगन्तुकैर् व्यवहारैर् व्यवह्रियते काय इति देह इति भोग इति आश्रय इति शरीरम् इति कुणप इति आयतनम् इति | अ-सारको * अयं कायो माता-पितृ-शोणित-शुक्र-संभूतो * अ-शुचि-पूति-दुर्-गन्ध-स्व-भावो राग-द्वेष-मोह-भय-विषाद-तस्कर-आकुलो नित्यं शतन-पतन-भेदन-विकिरण-विध्वन्सन-धर्मा | नाना-व्याधि-शत-सहस्र-नीत इति ||
SK
आर्य-रत्न-चूडे * अप्य् आह | अ-नित्यो वत + अयं कायो * अ-चिर-स्थितिको मरण-पर्यवसान इति ज्ञात्वा न काय-हेतोर् विषमया जीवति | सारं च + एव + आदत्ते | स त्रीणि साराण्य् आदत्ते |कतमानि त्रीणि | काय-सारं भोग-सारं जीवित-सारं च | सो * अ-नित्यः काय इति सर्व-सत्वानां दासत्व-शिष्यत्वम् अभ्युपगम्य किङ्-करणीयतायै उत्सुको भवति | अ-नित्यः काय इति सर्व-काय दोष-वङ्क-शाठ्य-कुहनां न करोति | अ-नित्यः काय इति जीवितेन + आश्वास-प्राप्तो जीवित-हेतोर् अपि पापं कर्म न करोति | अ-नित्यः काय इति भोगेषु तृष्णा-अध्यवसानं न करोति | सर्वस्व-परित्यागी + इव भवति + इति ||
SK
पुनर् अ-परं कुल-पुत्र बोधि-सत्वः काये काय-अनुदर्शन-स्मृत्य्-उपस्थानं भावयन् सर्व-सत्व-कायांस् तत्र स्व-कायए उपनिबध्नाति | एवं च + अस्य भवति | सर्व-सत्व-काया मया बुद्ध-काय-प्रतिष्ठान-प्रतिष्ठिताः कर्तव्याः | यथा च तथा-गत-काये न + आश्रवस् तथा स्व-काय-धर्मतां प्रत्यवेक्षते | सो न + आश्रव-धर्मता-कुशलः सर्व-सत्व-कायान् अपि तल्-लक्षणान् एव प्रजानाति + इत्य् आदि ||
SK
वीरदत्त-परिपृच्छायाम् अप्य् उक्तम् | यद् उत + अयं कायो * अनुपूर्व-समुदागतो * अनुपूर्व-विनाशो परम-अणु-संचयः शुषिर उन्नाम-अवनामौ नव-व्रण-मुख-रोम-कूप-स्रावी वल्मी-कव-दासी-विष-निवासः [दोउब्त्fउल्] | अ-जात-शत्रुः | मर्कट-वन् मित्र-द्रोही | कु-मित्र-वद् वि-संवादन-आत्मकः | फेन-पिण्ड-वत् प्रकृति-दुर्-बलः | उदक-बुद्बुद-वद् उत्पन्न-भग्न-विलीनः | मरीचि-वद् विप्रलम्भ-आत्मकः | कदली-वन् निभुज्यमाना-सारकः | माया-वद् वञ्चन-आत्मकः | राज-वद् आज्ञा-बहुलः | शत्रु-वद् अवतार-प्रेक्षी | चोर-वद् अ-विश्वसनीयः | वध्य-घातक-वद् अन्-अनुवीतः | अ-मित्र-वद् अ-हित-एषी | वधक-वत् प्रज्ञा-जीवित-अन्तराय-करः | शून्य-ग्राम-वद् आत्म-विरहितः | कुलाल-भाण्ड-वद् भेदन-पर्यन्तः | मूतोडी-वन् नाना-अ-शुचि-परिपूर्णः | मेदक-स्थाली-वद् अ-शुचि-स्रावी || पे ||
SK
व्रण-वद् घट्टन-अ-सहिष्णुः | शल्य-वत् तुदन-आत्मकः | जीर्ण-गृह-वत् प्रति-संस्कार-धार्यः | जीर्ण-यान-पात्र-वत् प्रति-संस्कार-वाह्यः | आम-कुम्भ-वद् यत्न-अनुपाल्यः || पे ||
SK
नदी-तट-वृक्ष-वच् चल-अ-चलः | महा-नदी-स्रोतो-वन् मरण-समुद्र-पर्यवसानः | आगन्तुक-आगार-वत् सर्व-दुष्ख-निवासः | अ-नाथ-शाला-वद् अ-परिगृहीतः | चारक-पाल-वद् उत्कोच-साध्यः || पे ||
SK
बाल-दारक-वत् सतत-परिपाल्यः ||
SK
पुनर् आह | एवं-विधं कायम् अ-चौक्ष-राशिं | रूप-अभिमानी बहु मन्यते यः | प्रज्ञायमानः स हि बाल-बुद्धिः विष्ठा-घटं याति वहन् वि-चेताः ||
SK
पूय-प्रकारं वहते * अस्य नासा | वक्त्रं कु-गन्धं वहते सदा च | चिक्कास् तथा + अक्ष्णोः क्रिमि-वच् च जन्तोः | कस् तत्र रागो बहु-मानता वा ||
SK
अङ्गारम् आदाय यथा हि बालो | घृष्येद् अयं यास्यति शुक्ल-भावम् | याति क्षयं न + एव तु शुक्ल-भावं बालस्य बुद्धिर् वितथा + अभिमाना ||
SK
एवं हि यः चौक्ष-मतिर् मनुष्यः चौक्षं करिष्ये * अहम् इदं शरीरम् | सु-उद्वर्तितं तीर्थ-शत-अभिषिक्तं याति क्षयं मृत्यु-वशाद् अ-चौक्षम् ||
SK
तथा प्रभङ्गुरः | प्रस्रवन् बोधि-सत्वेन कायः प्रत्यवेक्षितव्यो नव व्रण-मुखैर् यावत् | आवासो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः | अशीति-क्रिमि-कुल-सहस्राणाम् || पे ||
SK
पर-भोजनो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः | वृक-शृगाल-श्व-पिशित-अशिनां | यन्त्र-उपमो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः | अस्थि-स्नायु-यन्त्र-संघात-विनिबद्धः | अ-स्व-अधीनो बोधि-सत्वेन कायः प्रत्यवेक्षितव्यः अन्न-पान-संभूत इति विस्तरः ||
SK
तत्र + एव ज्ञेयं | वेदना स्मृत्य्-उपस्थानं तु यथा तावद् आर्य-रत्न-चूड-सूत्रे | इह कुल-पुत्र बोधि-सत्वो वेदनासु वेदना-अनुपश्यना-स्मृत्य्-उपस्थानं भावयन् वेदित-सुख-आश्रितेषु सत्वेषु महा-करुणां प्रतिलभते | एवं च प्रतिसंशिक्षते | तत् सुखं यत्र वेदितं न + अस्ति स सर्व-सत्व-वेदित-प्रहाणाय वेदनासु वेदना-स्मृत्य्-उपस्थानं भावयति | वेदित-निरोधाय च सत्वानां संनाहं संनह्यति | आत्मना च वेदित-निरोधं न + अर्पयति | स यां कां-चिद् वेदनां वेदयते तां सर्वां महा-करुणा-परिगृहीतां वेदयते | स यदा सुखां वेदनां वेदयते तदा राग-चरितेषु सत्वेषु महा-करुणां प्रतिलभते आत्मनश् च राग-अनुशयं प्रतिजहाति | यदा दुष्खां वेदनां वेदयते तदा द्वेष-चरितेषु सत्वेषु महा-करुणां प्रतिलभते आत्मनश् च दोष-अनुशयं प्रजहाति | यदा + अ-दुष्ख-अ-सुखां वेदनां मोह-चरितेषु सत्येषु महा-करुणां प्रतिलभते | आत्मनश् च मोह-अनुशयं प्रजहाति | स सुखायां वेदनायां न + अनुनीयते | अनुनय-समुद्घातं च + अर्जयति | दुष्खायां वेदनायां न प्रतिहन्यते प्रतिघ-समुद्घातं च + अर्जयति | अ-दुष्ख-अ-सुखायां वेदनायां न + अ-विद्या-गतो भवति | अ-विद्या-समुद्घातं च + अर्जयति | स यां काञ्-चिद् वेदनां वेत्ति सर्वां ताम् अ-नित्य-वेदितां वेत्ति | सर्वां तां दुष्ख-वेदितां वेत्ति | अन्-आत्म-वेदितां वेत्ति | स सुखायां वेदनायाम् अ-नित्य-वेदितो भवति | दुष्खायां वेदनायां शल्य-वेदितो भवति | अ-दुष्ख-अ-सुखायां वेदनायां शान्ति-वेदितो भवति | इति हि यत् सुखं तद् अ-नित्यं यद् दुष्खं सुखम् एव तत् | यद् अ-दुष्ख-अ-सुखं तद् अन्-आत्मकम् इत्य् आदि ||
SK
आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं | दुष्खया वेदनया स्पृष्टः सर्व-पाप-अ-क्षण-उपपन्नेषु सत्वेषु महा-करुणाम् उत्पादयति || पे ||
SK
अपि तु खलु पुनर् अभिनिवेशो वेदना परिग्रहो वेदना + उपादानं वेदना + उपलम्भो वेदना विपर्यासो वेदना विकल्पो वेदना + इत्य् आदि ||
SK
धर्म-संगीति-सूत्रे * अप्य् उक्तं ||
SK
वेदना-अनुभवः प्रोक्तः | केन + असाव् अनुभूयते | वेदको वेदनाद् अन्यः पृथग्-भूतो न विद्यते ||
SK
एवं स्मृतिर् उपस्थेया वेदनायां विचक्षणैः | यथा बोधिस् तथा ह्य् एषा शान्ता शुद्धा प्रभास्वरा ||
SK
एतत् समासतो वेदना-स्मृत्य्-उपस्थानम् ||
SK
चित्त-स्मृत्य्-उपस्थानं तु यथा + आर्य-रत्न-कूटे | स एवं चित्तं परिगवेषते | कतरत् तु चित्तं | रज्यति वा दुष्यति वा मुह्यति वा | किम् अतीतम् अन्-आगतं प्रत्य्-उत्पन्नं वा + इति | तत्र यद् अतीतं तत् क्षीणं | यद् अन्-आगतं तद् अ-संप्राप्तं | प्रत्युत्पन्नस्य स्थितिर् न + अस्ति | चित्तं हि काश्यप न + अध्यात्मं न बहिर्-धा न + उभयम् अन्तरेण + उपलभ्यते | चित्तं हि काश्यप + अ-रूपम् अ-निदर्शनम् अ-प्रतिघम् अ-विज्ञप्तिकम् अ-प्रतिष्ठम् अ-निकेतं | चित्तं हि काश्यप सर्व-बुद्धैर् न दृष्टं | न पश्यन्ति न द्रक्ष्यन्ति यत् सर्व-बुद्धैर् न दृष्टं |न पश्यन्ति न द्रक्ष्यन्ति | कीदृशस् तस्य प्रचारो द्रष्टव्यः | अन्यत्र वितथ-पतितया संज्ञया धर्माः प्रवर्तन्ते | चित्तं हि काश्यप माया-सदृशम् अ-भूत-परिकल्पनया विविधाम् उपपत्तिं परिगृह्णाति || पे ||
SK
चित्तं हि काश्यप नदी-स्रोतः-सदृशम् अन्-अवस्थितम् उत्पन्न-भग्न-विलीनं | चित्तं हि काश्यप दीप-अर्च्चिः-सदृशं हेतु-प्रत्ययतया प्रवर्तते | चित्तं हि काश्यप विद्युत्-सदृशं क्षण-भङ्ग-अन्-अवस्थितम् | चित्तं हि काश्यप + आकाश-सदृशम् आगन्तुकैः क्लेशैर् उपक्लिश्यते | पे ||
SK
चित्तं हि काश्यप पाप-मित्र-सदृशं सर्व-दुष्ख-संजननतया | पे | चित्तं हि काश्यप मत्स्य-बडिश-सदृशं दुष्खे सुख-संज्ञया | तथा नील-मक्षिका-सदृशम् अ-शुचौ शुचि-संज्ञया | चित्तं हि काश्यप प्रत्य्-अर्थिक-सदृशं विविध-कारण-आकरणतया | चित्तं हि ओजो-हार-यक्ष-सदृशं सदा विवर-गवेषणतया | एवं चोर-सदृशं सर्व-कुशल-मूल-मुषणतया | चित्तं हि काश्यप रूप-आरामं पतङ्-ग-नेत्र-सदृशं | चित्तं हि काश्यप शब्द-आरामं संग्राम-भेरी-सदृशं | चित्तं हि काश्यप गन्ध-आरामं वराह इव + अ-शुचि-मध्ये | चित्तं हि काश्यप रस-आरामं रथ-अवशेष-भोक्तृ-चेटी-सदृशं | चित्तं हि काश्यप स्पर्श-आरामं मक्षिका + इव तैल-पात्रे | चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते | यन् न लभ्यते तन् न + उपलभ्यते | यन् न + उपलभ्यते तन् न + एव + अतीतं न + अन्-आगतं न प्रत्य्-उत्पन्नं | यन् न + एव + अतीतं न + अन्-आगतं न प्रत्य्-उत्पन्नं तत् त्र्य्-अध्व-समतिक्रान्तं | यत् त्र्य्-अध्व-समतिक्रान्तं तन् न + इव + अस्ति न न + अस्ति + इत्य् आदि ||
SK
आर्य-रत्न-चूड-सूत्रे * अप्य् आह | स चित्तं परिगवेषमाणो न + आध्यात्मं चित्तं समनुपश्यति | न बहिर्-धा चित्तं समनुपश्यति |न स्कन्धेषु चित्तं समनुपश्यति | न धातुषु चित्तं समनुपश्यति | न + आयतनेषु चित्तं समनुपश्यति | स चित्तम् अ-समनुपश्यंश् चित्त-धारां पर्येषते | कुतः चित्तस्य + उत्पत्तिर् इति | तस्य + एवं भवति आलम्बने सति चित्तम् उत्पद्यते | तत् किम् अन्यद् आलम्बनम् | अथ यद् एव + आलम्बनं तद् एव चित्तं | यदि तावद् अन्यद् आलम्बनम् अन्यच् चित्तं | तद् द्वि-चित्तता भविष्यति | अथ यद् एव + आलम्बनं तद् एव चित्तं | तत् कथं चित्तं चित्तं समनुपश्यति | न हि चित्तं चित्तं समनुपश्यति | तद् यथा न तया + एव + असि-धारया सा + एव + असि-धारा शक्यते छेत्तुम् | न तेन + एव + अङ्गुल्य्--अग्रेण तद् एव + अङ्गुल्य्--अग्रं स्प्रष्टुं शक्यते | न + एव चित्तेन तद् एव चित्तं शक्यते द्रष्टुम् || पे ||
SK
पुनर् अ-परं कुल-पुत्र यद् उपद्रुत-प्रद्रुत-अन्-अवस्थित-प्रचारस्य वानर-मारुत-सदृशस्य | पे | दूरं-गम-चारिणो * अ-शरीरस्य लघु-परिवर्तिनो विषय-लोलस्य षड्-आयतन-गो-चरस्य + अ-पर-अ-पर-संप्रयुक्तस्य चित्तस्य + अवस्थानाम् एक-अग्रता + अ-शरणम् अ-विशरणं शमथा + एक-अग्रता + अ-विक्षेप इत्य् उच्यते चित्तस्य स्मृतिर् इति ||
SK
आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं |विठपनायां मया योगः करणीयः | इयं च चित्त-धर्मता न विहातव्या | तत्र कतमा चित्त-धर्मता | कतमा विठपना | माया-उपमं चित्तम् इयम् उच्यते चित्त-धर्मता | यत् पुनः सर्वस्वं परित्यज्य सर्व-बुद्ध-क्षेत्र-परिशुद्धये परिणामयति + इति + इयम् उच्यते विठपना + इत्य् आदि ||
SK
धर्म-स्मृत्य्-उपस्थानं तु ||
SK
यथा तावद् अत्र + आह | धर्मे धर्म-अनुदर्शी विहरन् बोधि-सत्वो न कञ्-चिद् धर्मं समनुपश्यति | यतो न बुद्ध-धर्मा यतो न बोधिः | यतो न मार्गो यतो न निः-सरणं | स सर्व-धर्म-अ-निः-सरणम् इति विदित्वा + अन्-आवरणं नाम महा-करुणा-समाधिं समापद्यते | स सर्व-धर्मेषु सर्व-क्लेशेषु च कृत्रिम-संज्ञां प्रतिलभते | निः-क्लेशा एते धर्मा | न + एते स-क्लेशाः | तत् कस्य हेतोः | तथा ह्य् एते नीत-अर्थे समवसरन्ति | न + अस्ति क्लेशानां संचयो | न राशी-भावः | न राग-भावो न द्वेष-भावो न मोह-भाव | एषाम् एव क्लेशानाम् अवबोधाद् बोधिः | यत् स्व-भावाश् च क्लेशास् तत् स्व-भावा बोधिर् इत्य् एवं स्मृतिम् उपस्थापयति + इति ||
SK
आर्य-रत्न-चूडे * अप्य् उक्तम् | इह कुल-पुत्र बोधि-सत्वस्य धर्मे धर्म-अनुपश्यना स्मृत्य्-उपस्थानेन विहरत एवं भवति | धर्मा एव + उत्पद्यमाना उत्पद्यन्ते | धर्मा एव निरुध्य्माना निरुध्यन्ते ||
SK
न पुनर् अत्र कश्-चिद् आत्म-भावे सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुरुषो वा पुद्गलो वा मनु-जो वा यो जायते वा जीर्यते वा च्यवते वा + उत्पद्यते वा | एषा धर्माणां धर्मता | यदि समुदानीयन्ते | समुदागच्छन्ति | अथ न समुदानीयन्ते न समुदागच्छन्ति | यादृशाः समुदानीयन्ते तादृशाः समुदागच्छन्ति कुशला वा + अ-कुशला वा अनिञ्ज्या वा | न + अस्ति धर्माणां समुदानेता | न च + अ-हेतुकानां धर्माणां का-चिद् उत्पत्तिर् इत्य् आदि ||
SK
तत्र + एव + आह | स कियद्-गम्भीरान् अपि धर्मान् प्रत्यवेक्षमाणस् तां सर्व-ज्ञता-बोधि-चित्त-अनुस्मृतिं न विजहाति ||
SK
आर्य-ललित-विस्तर-सूत्रे * अप्य् उक्तम् | संस्कार अ-नित्य अ-ध्रुवा आम-कुम्भ-उपम-भेदन-आत्मकाः | पर-केलिक-याचित-उपमाः पांशु-नगर-उपमता च कालिका ||
SK
संस्कार प्रलोप धर्मिमे वर्ष-कालि चलितं विलेपनं | नदि-कूल इव स-वालुकं प्रत्यय-अधीन स्व-भाव-दुर्-बलाः ||
SK
संस्कार प्रदीप अर्चि-वत् क्षिप्र-उत्पत्ति निरोध-धर्मकाः | अन्-अवस्थित-मारुत-उपमाः फेन-पिण्डा-वद् अ-सार-दुर्-बलाः ||
SK
संस्कार निर्-ईह शून्यकाः कदली-स्कन्ध-समा निरीक्षतः | माया-उपम चित्त-मोहना बाल-उल्लापन-रिक्त-मुष्टि-वत् ||
SK
हेतूभि च प्रत्ययेभि वा सर्व संस्कार-गतं प्रवर्तते | अन्यो-न्य-प्रतीत्य-हेतुतः तद् इदं बाल-जनो न बुध्यते ||
SK
यथा मुञ्ज प्रतीत्य बल्ब-जं रज्जु व्यायाम-बलेन वर्तिता | घटि-यन्त्र स-चक्र वर्तते तेष्व् एक-एकशु न + अस्ति वर्तना ||
SK
तथ सर्व-भव-अङ्ग-वर्तनी अन्यो-न्य-उपचयेन निःश्रिता | एक-एकशु तेषु वर्तनी पूर्व-अ-पर-अन्ततो न + उपलभ्यते ||
SK
बीजस्य सतो यथा + अङ्कुरो न च यो बीज स च + एव अङ्कुरो | न च अन्य ततो न च + एव तत् | एवम् अन्-उच्छेद अ-शाश्वत धर्मता ||
SK
संस्कार अ-विद्य-प्रत्ययाः ते च संस्कार न सन्ति तत्वतः | संस्कार अ-विद्य च + एव हि शून्य एते प्रकृती निर्-ईहकाः ||
SK
मुद्रात् प्रति-मुद्र दृश्यते मुद्र-संक्रान्ति न च + उपलभ्यते | न च तत्र न च + एव सान्यतो एवं संस्कार्-अन्-उच्छेद-शाश्वताः ||
SK
चक्षुश् च प्रतीत्य रूपतः चक्षु विज्ञानम् इह + उपजायते | न च चक्षुषि रूप-निश्रितं रूप-संक्रान्ति न च + एव चक्षुषि ||
SK
नैरात्म्य-शुभाश् च धर्मिमे ते पुनर् आत्मा + इति शुभाश् च कल्पिताः | विपरीतम् अ-सद्-विकल्पितं चक्षु-विज्ञान ततो उपजायते ||
SK
विज्ञान निरोध-संभवं विज्ञ उत्पाद-व्ययं विपश्यति | अ-कहिञ्-चि गतम् अन्-आगतं शून्य माया-उपम योगि पश्यति ||
SK
अरणिं यथ च + उत्तर-अरणिं हस्त-व्यायाम-त्रयेभि संगतिं | इति प्रत्ययतो * अग्नि जायते जातु कृतु-कार्यु लघू निरुध्यते ||
SK
अथ पण्डितु कश्-चि मार्गते कुत यम् आगतु कुत्र याति वा | विदिशो दिशि सर्व मार्गतो न गतिर् न + अप्य् अ-गतिश् च लभ्यते ||
SK
स्कन्ध-आयतनानि धातवः तृष्ण अ-विद्या इति कर्म-प्रत्ययाः | सामग्रि तु सत्व-सूचना सा च परम-अर्थतु न + उपलभ्यते ||
SK
कण्ठ-ओष्ठ प्रतीत्य तालुकं जिह्व परिवर्तिर् अवर्ति अक्षरा | न च कण्ठ-गता न तालुकैः अक्षर-एक-एक तु न + उपलभ्यते ||
SK
सामग्रि-प्रतीत्यश् च सा वाचम् अनुबुधि-वशेन निश्चरी | मन-वाच अ-दृश्य-रूपिणी बाह्यतो * अभ्यन्तरि न + उपलभ्यते ||
SK
उत्पाद-व्ययं विपश्यतो वाच-रुत-घोष-स्वरस्य पण्डिताः | क्षणिकां वशिकां तद् ईदृशीं सर्व-वाचः प्रतिश्रुतक-उपमाः ||
SK
यथ तन्त्रि प्रतीत्य दारु च हस्त-व्यायाम-त्रयेभि संगतिम् | तुण-वीण-सु-घोषक-आदिभिः शब्दो निश्चरते तद्-उद्भवः ||
SK
अथ पण्डितु कश्-चि मार्गते कुतो * अयम् आगतु कुत्र याति वा | विदिशो दिश सर्व-मार्गतः शब्दम् अन्-आगमनं न लभ्यते ||
SK
तथ हेतुभि प्रत्ययेभि च सर्व-संस्कार-गतं प्रवर्तते | योगी पुन भूत-दर्शनात् शून्य संस्कार निर्-ईह पश्यति ||
SK
स्कन्ध-आयतनानि धातवः शून्य-अध्यात्मिक शून्य-बाह्यकाः | सत्व-आत्म-विविक्तन-आलयाः धर्म-आकाश-स्व-भाव-लक्षणाः ||
SK
लोक-नाथ-व्याकरणे * अप्य् उक्तम् ||
SK
शून्या अ-नामका धर्माः नाम किं परिपृच्छसि | शून्यता न क्व-चिद् देवा न नागा न + अपि राक्षसाः ||
SK
मनुष्या वा + अ-मनुष्या वा सर्वे तु एष विद्यते | नाम्ना हि नामता शून्या नाम्नि नाम न विद्यते ||
SK
अ-नामकाः सर्वे धर्माः नाम्ना तु परिदीपिताः ||
SK
यो हि स्व-भावो नाम्नो वै न स दृष्टो न च श्रुतः | न च + उत्पन्नो निरुद्धो वा कस्य नाम + इह पृच्छसि ||
SK
व्यवहार-कृतं नाम प्रज्ञप्तिर् नाम-दर्शिता | रत्न-चित्रो ह्य् अयं नाम्ना रत्न-उत्तम-पर इति ||
SK
इति शिक्षा-समुच्चये स्मृत्य्-उपस्थान-परिच्छेदस् त्रयोदशः ||
SK
[XIV. आत्मभावपरिशुद्धि]
SK
आत्म-भाव-परिशुद्धिः परिच्छेदश् चतुर्दशः ||
SK
उक्तानि स्मृत्य्-उपस्थानानि | एवं योग्य-चित्तो दशसु दिक्षु शेषस्य जगतो दुष्ख-सागर-उद्धरण-अभिसंबोध्य्-उपायो व्योम-पर्यन्त-त्रैकाल्य-सर्व-धर्म-वश-वर्तित्वाय + एव तु पुनः सर्व-धर्म-शून्यताम् अवतरेत् | एवं हि पुद्गल-शून्यता सिद्धा भवति | ततश् च छिन्न-मूलत्वात् क्लेशा न समुदाचरन्ति ||
SK
यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे | तद् यथा + अपि नाम शान्तमते वृक्षस्य मूल-छिन्नस्य सर्व-शाखा पत्र-पलाशाः शुष्यन्ति | एवम् एव शान्तमते सत्-काय-दृष्ट्य्-उपशमात् सर्व-क्लेशा उपशाम्यन्ति + इति ||
SK
शून्यता-भावना-अनुशंसास् त्व् अ-पर्यन्ताः ||
SK
यथा तावच् चन्द्र-प्रदीप-सूत्रे | सो * असौ शिक्ष न जातु त्रशती सु-गतानां | सो * असौ शूरु न जातु इस्त्रिणां वशम् एती | सो * असौ सासनि प्रीति विन्दते सु-गतानां | यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ||
SK
सो * असौ न + इह चिरेण भेष्यते द्वि-पद-इन्द्रः | सो * असौ वैद्य-भिषक् भेष्यते सुख-दाता | सो * असौ उद्धरि शल्य सर्वशो दुखितानां |यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ||
SK
सो * असौ क्षान्ति-बलेन उद्गतो नर-चन्द्रः | सो * असौ लोष्टक-दण्ड ताडितो न च कुप्यी | सो * असौ छिद्यति अङ्गम् अङ्गशो न च क्षुभ्यो | यो * असौ धर्म-स्व-भाव जानती सु-प्रशान्तं ||
SK
न + असौ दुर्गतिषू पतिष्यती अनुव्यञ्जन | नित्यं लक्षण-धारि भेष्यती अभिरूपः | पञ्च्यो तस्य अभिज्ञ भाविता इम नित्यं | पुरतः सो सु-गतान स्थास्यती स च शूर | इत्य् आदि ||
SK
भगवत्याम् अप्य् उक्तं | पुनर् अ-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन बुद्ध-कायं निष्पादयितु-कामेन द्वात्रिंशन्-महा-पुरुष-लक्षणान्य् अशीतिं च + अनुव्यञ्जनानि प्रतिलब्धु-कामेन सर्वत्र जातौ जाति-स्मरतां बोधि-चित्त-अ-विप्रणाशतां बोधि-सत्व-चर्या + अ-संप्रमोषतां प्रतिलब्धु-कामेन सर्व-पाप-मित्र-पाप-सहायान् विवर्जयितु-कामेन सर्व-बुद्ध-बोधि-सत्व-कल्याण-मित्राण्य् आरागयितु-कामेन सर्व-मार-मार-कायिक-देवता-निर्जेतु-कामेन सर्व-आवरणी यानि शोधयितु-कामेन सर्व-धर्म-अन्-आवरणतां प्रतिलब्धु-कामेन प्रज्ञा-पारमितायां शिक्षितव्यं | पुनर् अ-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति ते मे वर्णं भाषेरन्न् इति प्रज्ञा-पारमितायां शिक्षितव्यं | पुनर् अ-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन + एक-चित्त-उत्पादेन पूर्वस्यां दिशि गङ्गा-नदी-वालुका-उपमान् लोक-धातून् समतिक्रमितु-कामेन | पे | एवं सर्व-दिक्षु प्रज्ञा-पारमितायां शिक्षितव्यम् इत्य् आद्य् इति [दोउब्त्fउल्] विस्तरः ||
SK
तत्र यथा निर्-आत्मानश् च सर्व-धर्माः | कर्म-फल-संबन्ध-अ-विरोधश् च निः-स्व-भावता च यथा-दृष्ट-सर्व-धर्म-अ-विरोधश् च | तथा पितृ-पुत्र-समागमे दर्शितम् | षड्-धातुर् अयं महा-राज पुरुषः षट्-स्पर्श-आयतनः | अष्टादश-मन-उपविचारः | षड्-धातुर् अयं महा-राज पुरुष इति | न खलु पुनर् एतद् युक्तं | किं वा + एतद् प्रतीत्य + उक्तं षड् इमे महा-राज धातवः | कतमे षट् | तद् यथा पृथिवी-धातुर् अब्-धातुस् तेजो-धातुर् वायु-धातुर् आकाश-धातुर् विज्ञान-धातुश् च | इमे महा-राज षड् धातवः ||
SK
यावत् षड् इमानि महा-राज स्पर्श-आयतनानि | कतमानि षट् | चक्षुः स्पर्श-आयतनं रूपाणां दर्शनाय | श्रोत्रं स्पर्श-आयतनं शब्दानां श्रवणाय | घ्राणं स्पर्श-आयतनं गन्ध-आराम-आघ्राणाय | जिह्वा स्पर्श-आयतनं रसानाम् आस्वादनाय | काय-स्पर्श-आयतनं स्प्रष्टव्यानां स्पर्शनाय | मनः-स्पर्श-आयतनं धर्माणां विज्ञानाय | इमानि च महा-राज षट् स्पर्श-आयतनानि || पे ||
SK
अष्टादश + इमे महा-राज मन-उपविचाराः | कतमे * अष्टादश | इह पुरुषश् चक्षुषा रूपाणि दृष्ट्वा | सौमनस्य-दौर्मनस्य-उपेक्षा-स्थानीयान्य् उपविचरति | एवं श्रोत्र-आदिषु वाच्यं | तेन प्रत्य्-एकम् इन्द्रिय-षट्केन सौमनस्य-आदि-त्रयाणां भेदाद् अष्टादश मन-उपविचारा भवन्ति | पे | कतमश् च महा-राज + आध्यात्मिकः पृथिवी-धातुः | यत् किञ्-चिद् अस्मिन् काये * अध्यात्मं कक्खटत्वं खर-गतम् उपात्तं | तत् पुनः कतमत् | तद् यथा | केशा रोमाणि नखा दन्ता इत्य् आदि | अयम् उच्यते + आध्यात्मिकः पृथिवी-धातुः ||
SK
कतमश् च महा-राज बाह्यः पृथिवी-धातुः | यत् किञ्-चिद् बाह्यं कक्खट्वं खर-गतम् अनुपात्तम् अयम् उच्यते बाह्यः पृथिवी-धातुः | तत्र महा-राज + आध्यात्मिकः पृथिवी-धातुर् उत्पद्यमानो न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चित् संनिचयं गच्छति | भवति महा-राज स समयो यत् स्त्री अध्यात्मम् अहं स्त्री + इति कल्पयति | सा + अध्यात्मम् अहं स्त्री + इति कल्पयित्वा बहिर्-धा पुरुषं पुरुष इति कल्पयति | सा बहिर्-धा पुरुषं पुरुष इति कल्पयित्वा संरक्ता सती बहिर्-धा पुरुषेण सार्धं संयोगम् आकाङ्क्षते | पुरुषो * अध्यात्मं पुरुषो * अस्मि + इति कल्पयति + इति पूर्व-वत् | तयोः संयोग-आकाङ्क्षया संयोगो भवति | संयोग-प्रत्ययात् कललं जायते | तत्र महा-राज यश् च संकल्पो यश् च संकल्पयिता | उभयम् एतन् न संविद्यते | स्त्रियां स्त्री न संविद्यते | पुरुषे पुरुषो न संविद्यते | इति ह्य् अ-सन्न् अ-सद्-भूतः संकल्पो जातः | सो * अपि संकल्पा-स्व-भावेन न संविद्यते | यथा संकल्पस् तथा संयोगो * अपि कललम् अपि स्व-भावेन न संविद्यते | यश् च स्व-भावतो न संविद्यते तत् कथं कक्खटत्वं जनयिष्यति | इति हि महा-राज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यं यथा कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति | निरुध्यमानं न क्व-चित् संनिचयं गच्छति + इति | भवति महा-राज समयो यद् अयं कायः श्मशान-पर्यवसानो भवति | तस्य तत् कक्खटत्वं संक्लिद्यमानं निरुध्यमानं न पूर्वां दिशं गच्छति | न दक्षिणां | न पश्चिमां | न + उत्तरां | न + ऊर्ध्वं | न + अधो | न तु वि-दिशं गच्छति | एवं महा-राज + आध्यात्मिकः पृथिवी-धातुर् द्रष्टव्यः | भवति महा-राज स समयो यदा + आकाशी-भूते लोक-संनिवेशे ब्राह्मं विमानं संतिष्ठते महा-रत्न-मयं | तन् महा-राज कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति | चक्र-वाड-महा-चक्र-वाडाः संतिष्ठन्ते दृढाः सारा एक-घना वज्र-मयास् तेषाम् अपि कक्खटत्वम् उत्पद्यमानं न कुतश्-चिद् आगच्छति | सुमेरवः पर्वत-राजानो युगं-धरा निमिं-धरा ईशा-धरा यावत् काल-पर्वताः संतिष्ठन्ते | सर्वश् च त्रि-साहस्र-महा-साहस्रो लोक-धातुः संतिष्ठते | चतुर्-अशीतिर् योजन-सहस्राण्य् उद्वेधेन | मध्ये च + अष्टषष्टिं योजन-शत-सहस्रं महा-पृथिवी संतिष्ठते | तद् अपि महा-राज कक्खटत्वं समुदागच्छत् कुतश्-चिद् आगच्छति | भवति महा-राज स समयो यदा + अयं लोकः संवर्तते | तदा + इयं महा-पृथिवी अग्निना वा दह्यते * अद्भिर् वा क्लिद्यते वायुना वा विकीर्यते | तस्या अग्निना दह्यमानाया मषिर् अपि न प्रजायते तद् यथा + अपि नाम सर्पिषो वा तैलस्य वा + अग्निना दह्यमानस्य न मषिर् न छायिका प्रज्ञायते एवम् एव + अस्यास् त्रि-साहस्र-महा-साहस्राया लोक-धातोर् अग्निना दह्यमानाया न + एव मषिर् न छायिका + अवशिष्टा प्रज्ञायते | एवम् अद्भिर् लवण-विलय-वद् वायुना वैरम्भ-वात-अभिहत-शकुन्त-वत् पृथिव्यां न किञ्-चिद् अवशिष्टं प्रज्ञायतए इति पठ्यते | तत्र महा-राज पृथिवी-धातोर् उत्पादो * अपि शून्यः व्ययो * अपि शून्य उत्पन्नो * अपि पृथिवी-धातुः स्व-भाव-शून्य | इति हि महा-राज पृथिवी-धातुः पृथिवी-धातुत्वेन न + उपलभ्यते * अन्यत्र व्यवहारात् | सो * अपि व्यवहारो न स्त्री न पुरुषः | एवम् एव + एतन् महा-राज यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं | तत्र कतमो * अब्-धातुः | यद् इदम् अस्मिन् काये * अध्यात्मं प्रत्य्-आत्मम् आपः | अब्-गतं | अप्त्वं स्नेहः | स्नेह-गतं स्नेहत्वं द्रवत्वम् उपगतम् उपात्तं ||
SK
तत् पुनः कतमत् | तद् यथा | अश्रु स्वेदः खेटः सिङ्घाणकं वशा लसिका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं क्षीरं प्रस्राव इत्य् आदिर् अयम् उच्यन्ते आध्यात्मिको * अब्-धातुः | पे ||
SK
भवति महा-राज स समयो यत् प्रियं दृष्ट्वा + अश्रु प्रवर्तते | दुष्खेन च + अभ्याहतस्य धर्म-संवेगेन वा + अश्रु प्रवर्तते | वातेन वा + अक्षि प्रस्यन्दते | यावत् स महा-राज + अब्-धातुर् न कुतश्-चिद् आगच्छति | भवति महा-राज स समयो यदा + आध्यात्मिको * अब्-धातुः परिशुष्यति | स परिशुष्यन् निरुध्यमानो न क्व-चिद् गच्छति | पे | विवर्तमाने खलु पुनर् लोके समन्ताद् द्वात्रिंशत् पटला अभ्र-घनाः संतिष्ठन्ते संस्थाय सर्वावन्तः | त्रि-साहस्र-महा-साहस्रं लोक-धातुं छादयन्ति | यतः पञ्च-अन्तर-कल्पान् ईषाधारो देवो वर्षति | एवं पञ्च गज-प्रमेहो देवो वर्षति | पञ्च-आच्छिन्न-धारः |पञ्च स्थूल-बिन्दुकः | तत इयं महा-पृथिवी यावद् ब्रह्म-लोकाद् उदकेन स्फुटा भवति | स महा-राज तावन् महान् अब्-धातुर् उत्पद्यमानो न कुतश्-चिद् आगच्छति | भवति महा-राज स समयो यद् अयं लोकः संवर्तते | संवर्तमाने खलु पुनर् लोके द्वितीयस्य सूर्यस्य प्रादुर्-भावो भवति | द्वितीयस्य सूर्यस लोके प्रादुर्-भावाद् उत्साः सरांसि कुनद्यश् च शुष्यन्ति | एवं तृतीयस्य महा-उत्सा महा-नद्यः | चतुर्थस्य + अन्-अवतप्तं महा-सरः सर्वेण सर्वम् उच्छुष्यति | चतुर्थस्य सूर्यस्य प्रादुर्-भावान् महा-समुद्रस्य योजनिकम् अप्य् उदकं परिक्षयं पर्यादानं गच्छति | द्वि-योजनिकम् अपि त्रि-चतुः-पञ्च-दश-विंशति-त्रिंशच्-चत्वारिंशत्-पञ्चाशद्-योजनिकम् अपि यावच् चत्वारिंशद्-योजन-सहस्रम् उदकम् अवशिष्टं भवति | यावद् द्वि-ताल-मात्रं |यावत् कण्ठ-मात्रं | यावद् गोष्पद-मात्रम् उदकम् अवशिष्टं भवति | भवति महा-राज स समयो यन् महा-समुद्रे पृथित-पृथितान्य् अवशिष्टानि भवन्ति | पे ||
SK
भवति महा-राज स समयो यन् महा-समुद्रे * अङ्गुलि-स्नेह-मात्रम् अप्य् उदकं न + अवशिष्टं भवति | स महा-राज तावान् अब्-धातुर् निरुध्यमानो न क्व-चिद् गच्छति | पे | तस्य खलु पुनर् महा-राज + अब्-धातोर् उत्पादो * अपि शून्यः | व्ययो * अपि शून्यः तिष्ठन्न् अपि सो * अब्-धातुः स्व-भाव-शून्य इति हि महा-राज + अब्-धातुर् अब्-धातुत्वेन + उपलभ्यते * अन्यत्र व्यवहार-मात्रात् | सो * अपि व्यवहारो न स्त्री न पुरुषः पूर्व-वत् ||
SK
आध्यात्मिकस् तेजो-धातुः कतमः ||
SK
यत् किञ्-चिद् अस्मिन् काये तेजस् तेजो-गतम् ऊष्म-गतम् उपगतम् उपात्तं | तत् पुनः कतमत् | येन + अयं काय आतप्यते संतप्यते | येन वा + अस्य + असित-पीत-खादितानि सम्यक्-सुखेन परिपाकं गच्छति | यस्य च + उत्सदत्वाज् ज्वरितो ज्वरित इति संख्यां गच्छति || पे ||
SK
बाह्यस् तेजो-धातुः कतमः | यद् बाह्यं तेजस् तेजो-गतम् ऊष्म-गतम् उपगतम् उपात्तं | तत् पुनः कतमत् | यन् मनुष्या अरणी-सहगतेभ्यो गर्भल-सहगतेभ्यो वा गो-मय-चूर्णेन वा कार्पास-पिचुना + आवासम् अन्वेषन्ते यद् उत्पन्नं ग्रामम् अपि दहति ग्राम-प्रदेशम् अपि दहति यावद् द्वीपं वा कक्षं तृणानां वा दावं वा काष्ठं वा यावद् दहन् परैति + इत्य् आदि |तत्र महा-राज + आध्यात्मिकस् तेजो-धातुर् उत्पद्यते न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चित् संनिचयं गच्छति | इति ह्य् अ-भूत्वा भवति भूत्वा च प्रतिविगच्छति स्व-भाव-रहितत्वात् ||
SK
एवं यत् किञ्-चिद् अस्मिन् काये वायुर् वायु-गतं लघुत्वं समुदीरणत्वं | तत् पुनः कतमत् | तद् यथा ऊर्ध्व-गमा वायवो * अधो-गमाः पार्श्व-आश्रयाः पृष्ठ-आश्रयाः कुक्षि-गमाः शस्त्रकाः क्षुरकाः सूचकाः पिप्पलका वात-अष्ठीला वात-गुल्मा आश्वास-प्रश्वासा अङ्ग-अनुसारिणो वायव इत्य् आदि | सन्ति बहिर्-धा पूर्वे वायवो दक्षिणाः पश्चिमा उत्तरा वायवः स-रजसः अ-रजसः परीत्ता महद्-गता वायव इति | भवति महा-राज स समयो यन् महा-वायु-स्कन्धः समुदागतः | वृक्ष-अग्रान् अपि पातयति | कुड्यान् अपि पर्वत-अग्रान् अपि पातयति | पातयित्वा निर्-उपादानो विगच्छति | यं सत्वाश् चीवर-कर्णिकेन वा विधमनकेन वात-अनुवृत्तेन वा पर्येष्यन्ते | यावद् अयम् उच्यते बाह्यो वायु-धातुः | तस्य + अप्य् उत्पत्तिः पूर्व-वत् ||
SK
आध्यात्मिक आकाश-धातुः कतमः | यत् किञ्-चिद् अस्मिन् काये * अध्यात्मं प्रत्य्-आत्मम् उपगतम् उपात्तम् आकाश-गतम् इह + अभ्यन्तर-संख्या-भूतं | अ-स्फुटम् अ-स्फरणीयं त्वङ्-मान्स-शोणितेन | तत् पुनः कतमत् | यद् अस्मिन् काये चक्षुः सुषिरम् इति वा यावन् मुखं वा मुख-द्वारं वा कण्ठं वा कण्ठ-नाड्या वा येन च + अभ्यवहरति यत्र च + अवतिष्ठते | येन च + अस्य + अशित-पीत-खादित-आस्वादितम् अधस्तात् प्रघरति | अयम् उच्यतए आध्यात्मिक आकाश-धातुः | एवं बाह्ये * अपि यद् अ-स्फुटम् अ-स्फरणीयं रूप-गतेन + अ-पलिगुद्धं सुषिर-भावश् छिद्रं | अयम् उच्यते बाह्यः आकाश-धातुः ||
SK
भवति महा-राज स समयो यत् कर्म-प्रत्ययाद् आयतनानि प्रादुर्-भवन्ति तान्य् आकाश-धातुं परिचारयन्ति | तत्र संख्या भवत्य् आध्यात्मिक आकाश-धातुर् इति | स न कुतश्-चिद् आगच्छति | भवति समयो यद् रूपं बिभर्ति सर्वम् आकाशी-भवति | तत् कस्य हेतोः | अ-क्षयो ह्य् आकाश-धातुः स्थिरो * अ-चलः | तद् यथा महा-राज + अ-संस्कृतो निर्वाण-धातुः | एवम् एव + आकाश-धातुः सर्वत्र + अनुगतो द्रष्टव्यः | तद् यथा + अपि नाम महा-राज पुरुष उत्थले देशे उद-पानं वा कुटकं वा कूपं वा पुष्करिणीं वा खानयेत् | तत् किं मन्यसे महा-राज यत् तत्र + आकाशः कुतस् तद् आगतम् इति | आह | न कुतश्-चिद् भगवन् | भगवान् आह | तद् यथा + अपि नाम महा-राज स पुरुषः पुनर् एव तद् उद-पानं वा यावत् पुष्करिणीं वा पूरयेत् | तत् किं मन्यसे महा-राज यत् तद् आकाशं क्व-चिद् गतम् इति | आह | न क्व-चिद् गतं भगवन् | तत् कस्य हेतोः | न ह्य् आकाश-धातुर् गमने वा आगमने वा प्रत्युपस्थितः | न स्त्री-भावेन न पुरुष-भावेन प्रत्युपस्थितः | भगवान् आह | इति हि महा-राज बाह्य-आकाश-धातुर् अ-चलः |अ-विकारः |तत् कस्य हेतोः | शून्यो ह्य् आकाश-धातुर् आकाश-धातुत्वेन | विरहित आकाश-धातुर् आकाश-धातुत्वेन | न पुरुष-भावेन न स्त्री-भावेन प्रत्युपस्थितः | एवम् एव यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं ||
SK
तत्र कतमो विज्ञान-धातुर् या चक्षुर्-इन्द्रिय-अधिपतेया | रूप-आरम्बण-प्रतिविज्ञप्तिः | यावद् इति हि महा-राज या का-चिद् वर्ण-संस्थान-प्रतिविज्ञप्तिर् अयम् उच्यते चक्षुर्-विज्ञान-धातुः | पे | इति हि या षड्-इन्द्रिय-अधिपतेया षड्-विषय-आरम्बणा विषय-विज्ञप्तिर् अयम् उच्यते विज्ञान-धातुः | स खलु पुनर् अयं महा-राज विज्ञान-धातुर् न + इन्द्रिय-निश्रितो न विषयेभ्य आगतो न मध्ये * अन्तर-स्थायी स न + अध्यात्म बहिर्-धा न + उभयम् अन्तरेण | स खलु पुनर् अयं महा-राज विज्ञान-धातुर् वस्तु प्रतिविज्ञप्य निरुद्धः | स उत्पद्यमानो न कुतश्-चिद् आगच्छति निरुध्यमानो न क्व-चिद् गच्छति | तस्य खलु पुनर् विज्ञान-धातोर् उत्पादो * अपि शून्यः | व्ययो * अपि शून्यः | उत्पन्नो * अपि विज्ञान-धातुः स्व-भाव-शून्यः | इति महा-राज विज्ञान-धातुर् विज्ञान-धातुत्वेन शून्यो न + उपलभ्यते * अन्यत्र व्यवहारात् | सो * अपि व्यवहारो न स्त्री न पुरुषः | एवम् एतद् यथा-भूतं सम्यक्-प्रज्ञया द्रष्टव्यं ||
SK
तत्र महा-राज कतमच् चक्षुर्-आयतनं | यच् चतुर्णां महा-भूतानां प्रसादः | तद् यथा पृथिवी-धातोर् अब्-धातोस् तेजो-धातोर् वायु-धातोर् यावत् | तत्र पृथिवी-धातु-प्रसादश् चक्षुर्-आयतनं न + अब्-धातु-प्रसादो न तेजो-धातु-प्रसादो न वायु-धातु-प्रसादश् चक्षुर्-आयतनं | तत् कस्य हेतोः | न हि पृथिवी-धातु-प्रसादः कस्य-चिद् धर्म-आयतनं वा आयतन-प्रतिलम्भेन वा प्रत्युपस्थितः | एवं यावन् न वायु-धातु-प्रसादः कस्य-चिद् धर्मस्य + आयतनं वा आयतन-प्रतिलम्भेन वा प्रत्युपस्थितः | तत् कस्य हेतोः | निश्-चेष्टा ह्य् एते धर्मा निष्ठापारा निर्वाण-समा | इति हि महा-राज एक-एकतो धर्मान् मृग्यमाणान् चक्षुर्-आयतनं न + उपलभते * अन्यत्र व्यवहारात् | तत् कस्य हेतोः | शून्यो हि पृथिवी-धातु-प्रसादः पृथिवी-धातु-प्रसादेन | यावच् * छून्यो वायु-धातु-प्रसादो वायु-धातु-प्रसादेन | ये च धर्माः स्व-भावेन शून्याः कस् तेषां प्रसादो वा क्षोभो वा | येषां न प्रसादो न क्षोभ उपलभ्यते | कथं ते रूपं द्रक्ष्यन्ति | इति ह्य् अत्यन्ततया चक्षुर्-आयतनं शून्यं चक्षुर्-आयतन-स्व-भावेन तत् पूर्व-अन्ततो न + उपलभ्यते ||
SK
अ-पर-अन्ततो * अपि न + उपलभ्यते | अन्-आगमनतां गमनतां च + उपादाय स्थानम् अप्य् अस्य न + उपलभ्यते स्व-भाव-विरहितत्वात् | यच् च स्व-भावेन न संविद्यते | न तत् स्त्री न पुरुषः | तेन का मन्यना | मन्यना च नाम महा-राज मार-गो-चरः | अ-मन्यना बुद्ध-गो-चरः | तत् कस्य हेतोः | मन्यना + अपगता हि सर्व-धर्माः | पे | तत्र महा-राज कतमच् * छ्रोत्र-आयतनं | यच् चतुर्णां महा-भूतानां प्रसादो | यावद् इति हि महा-राज सर्व-धर्मा विमोक्ष-अभिमुखा धर्म-धातु-नियता आकाश-धातु-पर्यवसाना अ-प्राप्तिका अ-व्यवहारा अन्-अभिलाप्या अन्-अभिलपनीयाः | यत्र महा-राज इन्द्रियाणि प्रतिहन्यन्ते ते विषया इत्य् उच्यन्ते | चक्षुर् हि रूपे प्रतिहन्यते तस्माद् रूपाणि चक्षुर्-विषया इत्य् उच्यन्ते | एवं श्रोत्रं शब्देष्व् इत्य् आदि | तत्र चक्षू रूपे प्रतिहन्यत इति निपातः | प्रतिहन्यना तेषां निर्दिष्टा | तथा हि चक्षू रूपेषु त्रि-विधं निपतति + इति | अनु-कूलेषु शुभ-संज्ञया | प्रति-कूलेषु प्रतिघ-संज्ञया | न + एव + अनु-कूलेषु न प्रति-कूलेषु + उपेक्षया | एवं मनो धर्मेष्व् इत्य् आदि | तए इमे विषया मनो-गो-चरा इत्य् उच्यन्ते | अत्र हि मनश् चरति | उपविचरति | तस्मान् मनो-गो-चरा इत्य् उच्यन्ते | यद् एतन् महा-राज मनो * अ-प्रति-कूलेषु रूपेष्व् अनुनीतं चरति | तेन + अस्य राग उत्पद्यते | प्रति-कूलेषु रूपेषु प्रतिहतं चरति तेन + अस्य द्वेष उत्पद्यते | न + एव + अनु-कूलेषु न प्रति-कूलेषु संमूढं चरति | तेन + अस्य मोह उत्पद्यते | एवं शब्द-आदिष्व् अपि त्रि-विधम् आरम्बणम् अनुभवति पूर्व-वत् ||
SK
तत्र महा-राज माया-उपमानि + इन्द्रियाणि | स्वप्न-उपमा विषयाः | तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे जन-पद-कल्याण्या स्त्रिया सार्धं परिचरेत् | स शयित-विबुद्धो जन-पद-कल्याणीं स्त्रियम् अनुस्मरेत् | तत् किं मन्यसे महा-राज संविद्यते स्वप्न-अन्तरे जन-पद-कल्याणी स्त्री | आह | न + उ हि + इदं भगवन् | भगवान् आह | तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयो भवेत् | यः स्वप्न-अन्तरे जन-पद-कल्याणीं स्त्रियम् अनुस्मरेत् | तया वा सार्धं क्रीडितम् अभिनिवेशेत् | आह | न + उ हि + इदं भगवन् | तत् कस्य हेतोः | अत्य्-अन्ततया हि भगवन् स्वप्न-अन्तरे जन-पद-कल्याणी न संविद्यते न + उपलभ्यते | कुतः पुनर् अनया सार्धं परिचरणा | अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य भागी स्यात् | यस् ताम् अभिनिविशेत् ||
SK
भगवान् आह | एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा सौमनस्य-स्थानीयान्य् अभिनिविशेत् | सो * अभिनिविष्टः सन्न् अनुनीयते * अनुनीतः संरज्यते | संरक्तो राग-जं कर्म + अभिसंस्करोति | त्रि-विधं कायेन चतुर्-विधं वाचा त्रि-विधं मनसा | तच् च कर्म + अभिसंस्कृतम् आदित एव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वां दिशं निश्रित्य तिष्ठति | न दक्षिणां न पश्चिमां न + उत्तरां न + ऊर्ध्वं न + अधो न + अनुविदिशं | न + इह न तिर्यक् | न उभयम् अन्तरा | तत् पुनः काल-अन्तरेण मरण-काल-समये प्रत्युपस्थिते | जीवित-इन्द्रिय-निरोधे आयुषः परिक्षयात् तत्-स-भागस्य कर्मणः क्षीणत्वाच् चरम-विज्ञानस्य निरुध्यमानस्य मनस आरम्बणी-भवति | तद् यथा + अपि नाम शयित-विबुद्धस्य जन-पद-कल्याणी + इति मनस आरम्बणं भवति | इति हि महा-राज चरम-विज्ञानेन + अधिपतिना तेन च कर्मणा आरम्बणेन + औपपत्त्य्-अंशिक-द्वय-प्रत्ययं प्रथम-विज्ञानम् उत्पद्यते | यदि वा नरकेषु यदि वा तिर्यग्-योनौ यदि वा यम-लोके यदि वा आसुरे काये यदि वा मनुष्येषु यदि वा देवेषु | तस्य च प्रथम-विज्ञानस्य औपपत्त्य्-अंशिकस्य समनन्तर-निरुद्धस्य + अन्-अन्तर-स-भागा चित्त-संततिः प्रवर्तते | यत्र विपाकस्य प्रतिसंवेदना प्रज्ञायते | तत्र यश् चरम-विज्ञानस्य निरोधस् तत्र च्युतिर् इति संख्यां गच्छति | यः प्रथम-विज्ञानस्य प्रादुर्-भावस् तत्र + उपपत्तिः | इति हि महा-राज न कश्-चिद् धर्मो * अस्माल् लोकात् परं लोकं गच्छति | च्युत्य्-उपपत्ती च प्रजायेते | तत्र महा-राज चरम-विज्ञानम् उत्पद्यमानं न कुतश्-चिद् आगच्छति ||
SK
निरुध्यमानं न क्व-चिद् गच्छति | कर्म + अप्य् उत्पद्यमानं न कुतश्-चिद् आगच्छति | निरुध्यमानं न क्व-चिद् गच्छति | प्रथम-विज्ञानम् अप्य् उत्पद्यमानं न कुतश्-चिद् आगच्छति | निरुध्यमानं च न क्व-चिद् गच्छति | तत् कस्य हेतोः | स्व-भाव-विरहितत्वात् | चरम-विज्ञानं चरम-विज्ञानेन शून्यं | कर्म कर्मणा शून्यं | प्रथम-विज्ञानं प्रथम-विज्ञानेन शून्यं | च्युतिश् च्युत्या शून्या | उपपत्तिर् उपपत्त्या शून्या | कर्मणां च + अ-बन्ध्यता प्रजायते विपाकस्य च प्रतिसंवेदना न च + अत्र कश्-चित् कर्ता न भोक्ता + अन्यत्र नाम-संकेतात् | तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे शत्रुणा सार्धं संग्रामयेत् | स शयित-विबुद्धः | तम् एव + अनुस्मरेत् | तत् किं मन्यसे महा-राज संविद्यते स्वप्न-अन्तरे शत्रुः | शत्रुणा वा सार्धं संग्राम इति | आह | न + उ हि + इदं भगवन् | भगवान् आह | तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयो भवेत् | यो * असौ स्वप्न-अन्तरे शत्रुम् अभिनिविशेत् | शत्रुणा वा सार्धं संग्रामं | आह | न + उ हि + इदं भगवन् | तत् कस्य हेतोः | अत्य्-अन्ततया हि भगवन् स्वप्ने शत्रुर् न संविद्यते कुतः पुनस् तेन सार्धं संग्रामः | अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् यस् तम् अभिनिविशेत् | भगवान् आह | एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्या-स्थानीयान्य् अभिनिविशते * अभिनिविष्टः सन् प्रतिहन्यते | प्रतिहतः संतुष्यति | दुष्टो दोष-जं कर्म + अभिसंस्करोति + इति पूर्व-वत् | तद् यथा + अपि नाम महा-राज पुरुषह् सुप्तः स्वप्न-अन्तरे पिशाचेन परिपात्यमानो भीतः संओहम् आपद्यते | स शयित-विबुद्धस् तं पिशाचं तं च संमोहम् अनुस्मरेत् | तत् किं मन्यसे महा-राज संविद्यन्ते स्वप्ने पिशाचः संमोहो वा | यावद् एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनश् चक्षुषा रूपाणि दृष्ट्वा उपेक्षा-स्थानीयान्य् अभिनिविशते * अभिनिविष्टः सन् मुह्यति मूढो मोह-जं कर्म + अभिसंस्करोति + इति पूर्व-वत् | तद् यथा + अपि नाम महा-राज पुरुषः सुप्तः स्वप्न-अन्तरे जन-पद-कल्याण्या गायन्त्या मधुरं गीत-स्वरं मधुरं च तन्त्री-स्वरं च शृणुयात् | सा तेन गीत-वादितेन परिचारयेत् | स शयित-विबुद्धस् तद् एव गीत-वादितम् अनुस्मरेत् | तत् किं मन्यसे महा-राज + अपि नु स पुरुषः पण्डित-जातीयः स्वप्न-अन्तरे जन-पद-कल्याण्या गीत-वादितम् अभिनिविशेत् | आह | न + उ हि + इदं भगवन् | भगवान् आह | तत् कस्य हेतोः | अत्य्-अन्ततया हि भगवन् स्वप्न-अन्तरे जन-पद-कल्याणी स्त्री न संविद्यते न + उपलभ्यते | कुतः पुनर् अस्या गीत-वादितं | अन्यत्र यावद् एव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् | यस् तद् अभिनिविशेत् | भगवान् आह | एवम् एव महा-राज बालो * अ-श्रुतवान् पृथग्-जनः श्रोत्रेण शब्दान् श्रुत्वा सौमनस्य-स्थानीयान्य् अभिनिविशते | इति पूर्व-वत् | एवं गन्ध-आदिषु त्रि-धा त्रि-धा वेदितव्यम् || पे ||
SK
अत्र महा-राज मानसं निवेशयितव्यं | किम् इत्य् अहं स-देवकस्य लोकस्य चक्षुर् भवेयं | उल्का प्रदीप आलोक-भूतः | कूलं नौस् तीर्थं | नायकः परिणायकः दैशिकः स-अर्थ-वाहः | पुरो जवेयं | मुक्तो मोचयेयम् आश्वस्त आश्वासयेयं परिनिर्वृत्तः परिनिर्वापयेयम् इति | पूर्वा हि कोटिर् महा-राज न प्रज्ञायते ऐश्वर्य-आधिपत्यानाम् अनुभूय मानानां | इति हि महा-राज माया-उपमानि + इन्द्रियाण्य् अ-तृप्तान्य् अ-तर्षणीयानि | स्वप्न-उपमा विषया अ-तर्षका अ-तृप्ति-कराः ||
SK
अत्र + अन्-अन्त-यशश्-चक्रवर्तिनः कथा स्वर्गाच् च पतिते तस्मिन् स-राजकैः पौरैः परिवृत एवं पठ्यते | तद् यथा + अपि नाम महा-राज सर्पिर्-मण्डो वा नव-नीत-मण्डो वा तप्तायां वालुकायाम् उपनिक्षिप्तो * अवसीदति | न संतिष्ठते | एवम् एव महा-राज + अन्-अन्त-यशा अवसीदति न संतिष्ठते | अथ राजा प्रियंकरो राजानम् अन्-अन्त-यशसं तथा + अवसीदन्तं | उपसंक्रम्य + एतद् अवोचत् | किं वयं महा-राज लोकस्य व्याकुर्यामः | किं राज्ञो * अन्-अन्त-यशसः सु-भाषितम् इति | स आह | वक्तव्यं | महा-राज-अन्-अन्त-यशाश् चतुर्-द्वीपेषु राज्य-ऐश्वर्यं कारयित्वा + अ-बन्ध्य-मनो-रथताम् अनुभूय सर्व-द्रुम-अ-काल-फलतां सर्व-उपद्रव-प्रस्रब्धि-सर्व-सत्व-अ-बन्ध्य-मनो-रथतां गन्ध-उदक-वर्षं हिरण्य-वर्षं सुवर्ण-वर्षं सर्व-उपकरण-वर्षं च + अनुभूय चतुरो महा-द्वीपान् अध्यावसित्वा शक्रस्य + अर्ध-आसनम् आक्रम्याति + इच्छया न मुक्तो * अ-तृप्त एव कामैः काल-गत इति | एवं त्वं महा-राज व्याकुर्या इत्य् एवम् उक्त्वा च राजा + अन्-अन्त-यशाः कालम् अकार्षीत् | पे ||
SK
तस्मात् तर्हि ते महा-राज मरीचिकायाम् उदक-स्व-भावो न + अभून् न भविष्यति न च + एतर्हि विद्यते | एवम् एव महा-राज रूप-वेदना-संज्ञा संस्कार-विज्ञनां स्व-भावो न + अभून् न भविष्यति न च + एतर्हि विद्यतए इत्य् आदि ||
SK
पुनर् अप्य् उक्तं | एतावच् च + एतत् ज्ञेयम् | यद् उत संवृतिः परम-अर्थश् च | तच् च भगवता शून्यतः सु-दृष्टं सु-विदितं सु-साक्षात्-कृतं | तेन स सर्व-ज्ञ इत्य् उच्यते | तत्र संवृतिर् लोक-प्रचारतस् तथा-गतेन दृष्टा | यः पुनः परम-अर्थः सो * अन्-अभिलाप्यः | अन्-आज्ञेयो * अ-विज्ञेयो * अ-देशितो * अ-प्रकाशितो यावद् अ-क्रियो यावन् न लाभो न + अ-लाभो न सुखं न दुष्खं न यशो न + अ-यशः | न रूपं न + अ-रूपम् इत्य् आदि ||
SK
तत्र जिनेन जगस्य कृतेन संवृति देशित लोक-हिताय | येन जगत् सु-गतस्य सकाशे संजनयीह प्रसाद-सुख-अर्थे ||
SK
संवृति प्रज्ञ-मयी नर-सिंहः षड्-गतयो भणि सत्व-गणानां | नरक-तिरश् च तथा + एव च प्रेतान् आसुर-काय नरांश् च मरूंश् च ||
SK
नीच-कुलांस् तथ उच्च-कुलांश् च आढ्य-कुलांश् च दरिद्र-कुलांश् च + इत्य् आदि ||
SK
पुनश् च + उक्तं | कतम एष धर्मो यो भगवता व्याकृतो * अन्-उत्तरायां सम्यक्-संबोधौ | किं रूपम् उत वेदना आहो श्वित् संज्ञा उत-आहो संस्कारा अथ विज्ञानं भगवता व्याकृतम् अन्-उत्तरायां सम्यक्-संबोधाव् इति | तेषाम् एतद् अभूत् | न रूपं यावन् न विज्ञानं भगवता व्याकृतम् अन्-उत्तरायां सम्यक्-संबोधौ | तत् कस्य हेतोः | अन्-उत्पादो हि रूपम् अन्-उत्पादो बोधिः | तत् कथम् अन्-उत्पादो * अन्-उत्पादम् अभिसंबुध्यते | एवं यावद् विज्ञानम् || पे ||
SK
तद् एवम् अन्-उपलभ्यमानेषु सर्व-धर्मेषु कतमो * अत्र बुद्धः | कतमा बोधिः | कतमो बोधि-सत्वः | कतमद् व्याकरणम् | शून्यं हि रूपं रूपेण यावद् विज्ञानं || पे ||
SK
यावद् एव व्यवहार-मात्रम् एतत् | नाम-धेय्-मात्रं संकेत-मात्रं संवृति-मात्रं प्रज्ञप्ति-मात्रं | न + अलम् अत्र पण्डितैर् अभिनिवेश उत्पादयितव्य इति ||
SK
तथा + अत्र + एव + आहुः | निर्माण-रतयो देवा यथा वयं भगवन् | भगवतो भाषितस्य + अर्थम् आजानीमः | सर्व-धर्मा भूत-कोटिर् अन्-अन्त-कोटिर् अन्-आवरण-कोटिर् अ-प्रतिष्ठित-कोटिर् इत्य् आदि ||
SK
सर्व-धर्मा भगवन् बोधिः | स्व-भाव-विरहिता बोद्धव्याः | अन्तश आनन्तर्याण्य् अपि बोधिः | तत् कस्य हेतोः | अ-प्रकृतिका हि भगवन् बोधिर् अ-प्रकृतिकानि च * पञ्च + आनन्तर्याणि | तेन + उच्यते आनन्तर्याणि बोधिर् इति | तथा विहस्यन्ते भगवन् ये के-चित् परिनिर्वातु-कामाः | तत् कस्य हेतोः | यदि कश्-चित् संसार-प्रतिपन्नो भवेत् | स निर्वाणं पर्येषतए इति ||
SK
पुनर् उक्तं | भूत-कोटिर् इति भगवन् यद् उक्तं निर्माण-रतिभिर् देवैस् तत्र वयं भूतम् अपि न + उपलभामहे | किं पुनर् अस्य कोटिम् | तत् कस्य हेतोः | यो हि कश्-चिद् भगवन् भूतम् उपलभते | कोटिम् अपि स तस्य + उपलभते द्वये च + असौ चरति + इति ||
SK
तथा + अत्र + एव सहांपति-ब्रह्मणा शास्ता स्तुतः ||
SK
सुपिति यथ नरः क्षुधा + अभिभूतः शत-रस-भोजन-भुञ्जिनो च तृप्तः | न पि च क्षुध न भोजनं न सत्वः सुपिन यथा + एव निदृष्ट सर्व-धर्माः ||
SK
भणि नरु पठने मनो-ज्ञ-वाचं प्रियु भवती न च संक्रमो * अस्ति वाचं | न च वचन च + अस्य रक्त वाचाम् उपलभसे न च तत्र संशयो * अस्ति ||
SK
श्रुणति यथ मनो-ज्ञ वीण-शब्दं मधुर न च + अस्ति स्व-भावतः स शब्दः | तथ इमि विदु स्कन्ध प्रेक्षमाणो न लभति भावु स्व-भावतः सु-मेधाः || पे ||
SK
यथ नरु इह शङ्ख-शब्द श्रुत्वा विमृशति विद्व कुतो य प्रादु-भूतः | न च लभति स्व-भाव शून्य-भावं तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ||
SK
यथ नरु इह भोजनं प्रणीतं विमृशति अङ्गशु सिद्धम् अ-स्वभावम् | यथ रसु तथ ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ||
SK
यथ नरु इह इन्द्र-यष्टि दृष्ट्वा विमृशति अङ्गशु निः-स्व-भाव शून्यम् | विमृशतु यथ यष्टि ते * अङ्ग शून्यास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ||
SK
पुर-वर यथ अङ्गशो विभज्य नगरु स्व-भावतु नामतो न लब्धम् | यथ नगर तथ + अङ्ग सर्व-शून्यास् तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ||
SK
मुदित यथ नराग मुक्त भेरी हर्ष जनेति स्व-भाव-शून्य-शब्दा | स्वरु यथ तथ ते * अङ्ग तत्-स्वभावं तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ||
SK
... ... हनतु यथ नरस्य तां हि भेरीं प्रतिघु न विद्यति न + अपि स्नेह-धातुः | विमृशतु भेरी + इव ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ||
SK
हनतु यथ नरस्य तां हि भेरीं स्वरु न स मन्यति रामयामि लोकम् | स्वरु यथ तथ ते * अङ्ग तत्-स्व-भावाः तथ त्व् अय दृष्ट नर-इन्द्र सर्व-धर्माः ||
SK
हनतु यथ नरस्य तस्य भेर्यां न पि स्वरु अङ्गशु न + अपि स स्व-तन्त्रः | स्वरु यथ तथ ते * अङ्ग तत्-स्व-भावास् तथ त्व् अय दृष्ट मह-र्षि सर्व-धर्माः ||
SK
पुनश् च + उक्तं | सत्व-आरम्बण-नायकेन कथिता मैत्री शुभा-भावना | सत्वश् च + अस्य विभावितः सु-विदितं निः-सत्व सर्वं जगत् | तत्र + एवं द्वि-पद-उत्तमो * अ-कलुषो निः-संशया मानसः | तेन त्वा सु-गतं विभावित-मतिं पूजेम पूजा-अरिहम् ||
SK
दुष्खं चा * सु-गता [दोउब्त्fउल्] दश-द्दिशि-गतं न + एवं परीदृश्यते | सत्वेषू करुणा च नाम भणिता देव-अति-देव त्वया | एवं भो जिन-पुङ्-गवा जिन-मतं अज्ञात यथावतः | तेन त्वां द्वि-पद-उत्तमा नर-वराः पूजेम पूजा-अरिहम् ||
SK
सत्वान + एव न दुष्खं शाक्य-मुनिना यस्य + अपनीतं दुखं | जातास् ते मुदिताश् च हृष्ट-मनसो * अ-रतीश् च तैर् न + उदिताः ||
SK
एवं बुद्ध-नयं अ-चिन्तिय-नयं याथावतो जानतो | तस्मात् पूजिय त्वां नराण प्रवरं प्रायेम प्राप्तं फलं ||
SK
कायः काय-विवर्जितेन मुनिना न + आसादितो मार्गतां | न + एवं ते स्मृति-नायका न भणिता न + एव प्रमुष्टा स्मृतिः ||
SK
उक्तं च + उ सु-गतेन भाव-पथिमाः कायं गता भावनाः | एवं बुद्ध-नयं विदित्व सु-गता पूजा कृता तायिनः ||
SK
भावेथः शमथं विपश्यनम् अयं मार्गं दुखा शान्तये | शान्तास् ते भगवन् स-वासन-मला येही जगत् क्लिष्यते ||
SK
शमथश् च + अथ विपश्यना न च मला सर्वे * अति शून्या मुने | अस्मिन् देव-गणा न काङ्क्ष क्व-चना पूजेन्तु त्वां नायकं | इत्य् आदि ||
SK
पुनर् उक्तं | शून्यं हि चक्षुश् चक्षुः-स्व-भावेन | यस्य च धर्मस्य स्व-भावो न विद्यते सो * अ-वस्तुकः | यो * अ-वस्तुकः सो * अ-परिनिष्पन्नः यो * अ-परिनिष्पन्नः स न + उत्पद्यते न निरुध्यते | पे ||
SK
यत् त्रिष्व् अप्य् अध्वसु न + उपलभ्यते न तच् चक्षुर् न + इन्द्रियं कथं तस्य व्यवहारो ज्ञेयः | तद् यथा + अपि नाम रिक्त-मुष्टिर् अ-लीकः | यावद् एव नाम-मात्रं न + उ तु खलु परम-अर्थतो रिक्तम् उपलभ्यते न मुष्टिः | एवं चक्षुश् च + इन्द्रियं च रिक्ते मुष्टि-सदृशम् अ-लीकम् अ-सद्-भूतं तुच्छं मृषा-मोष-धर्मे बाल-उपलापनं मूर्ख-संमोहनम् यावद् एव नाम-मात्रम् ||
SK
पुनर् अत्र + एव + आह | स्वप्न-अन्तरे महा-वृष्टिर् आस्रवाणां प्रवर्तना | दर्शिता ते महा-वीर आस्रव-उत्पत्ति-पण्डिताः ||
SK
स्वप्ने यथा शिरश्-छेदो दृष्टस् ते आस्रव-क्षयः | दर्शितः सर्व-विज्ञानां सर्व-दर्शिन् नमो * अस्तु ते ||
SK
अत्र + एव च द्रुमेण किन्नर-राजेन भगवान् पृष्टः प्रत्याह | यद् वदसि शून्यतां च व्याकरणं | च + अप्य् अहं न जानामि | स्याद् यदि किं-चिद् अ-शून्यं न भवेज् जिनेन + अस्य व्याकरणम् ||
SK
किं-कारणं | तथा हि | स्थितं भवेत् तत् स्वके भवे | कूट-स्थ-निर्-विकारं | न तस्य वृद्धिर् न परिहाणिः | न क्रिया न च कारणं | यत् स्व-भाव-शून्यम् आदर्श-मण्डले सु-परिशुद्धे संदृश्यते प्रतिबिम्बम् | तथा + एव द्रुम जानीहि + इमान् धर्मान् | अ-वि-कारं धर्म-धातुम् इमां च पूजां द्रुम + अङ्गशो विचारयसि | अङ्गशो निरीक्ष्य पूजां | कतमे * अ-वि-कारिणो * अङ्गाः ||
SK
यद् अपि च निर्-ईहकत्वं क्रियां च न जानसे मया प्रोक्तं | शकट-अङ्ग संनिपातं निरीक्ष्व शकटस्य च + एव क्रियां ||
SK
कर्म च मे आख्यातं कर्ता न विद्यते दशसु दिक्षु | वात-ईरिताद् इव तरोर् यथा हि निवर्तते वह्निः ||
SK
न च मारुतो न च तरुश् चेतयति हुत-अशनं च यजने | न निवर्तते वह्निस् तथा + एव कर्मस्य कर्तारः ||
SK
यद् अपि वदसे न च संचय पुण्यस्य हि विद्यते | सु-चरितस्य समुदागमश् च | बोधिस् तस्य + अपि शृणु क्रमन्त त्वं | यथा भणसि मनुष्याणाम् आयुः-परिमाणं वर्ष-शतं जीविन् | न च + अस्ति वर्ष-पुञ्जी | अयम् अपि समुदागमस् तद्-वद् इति ||
SK
भगवत्याम् अप्य् उक्तं | किं पुनर् आयुष्मन् सुभूते उत्पन्नो धर्म उत्पद्यते उत + अन्-उत्पन्नः | सुभूतिर् आह | न + अहम् आयुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्य + उत्पत्तिम् इच्छामि न च + अन्-उत्पन्नस्य + इति ||
SK
धर्म-संगीत्याम् अप्य् उक्तं | तथता तथता + इति कुल-पुत्र शून्यताया एतद् अधिवचनं | सा च शून्यता न + उत्पद्यते न निरुध्यते | आह | यद्य् एवं धर्माः शून्या उक्ता भगवता तस्मात् सर्व-धर्मा न + उत्पत्स्यन्ते न निरोत्स्यन्ते | निर्-आरम्भो बोधि-सत्वः | आह | एवम् एव कुल-पुत्र तथा यथा + अभिसंबुध्यसे सर्व-धर्मा न + उत्पद्यन्ते न निरुध्यन्ते | आह | यद् एतद् उक्तं भगवता | संस्कृता धर्मा उत्पद्यन्ते निरुध्यन्ते च + इत्य् अस्य तथा-गत-भाषितस्य को * अभिप्रायः | आह | उत्पाद-निरोध-अभिनिविष्टः कुल-पुत्र लोक-संनिवेशः | तत्र तथा-गतो महा-कारुणिको लोकस्य + उत्त्रास-पद-परिहार-अर्थं व्यवहार-वशाद् उक्तवान् उत्पद्यन्ते निरुध्यन्ते च + इति | न च + अत्र कस्य-चिद् धर्मस्य + उत्पादो न निरोध इति ||
SK
पुनर् अत्र + एव + उक्तं | तत्र भगवंश् चक्षू-रूपेषु न रणति श्रोत्रं | शब्देषु | यावन् मनो-धर्मेषु न रणति | स धर्मः | तत्र कथं चक्षू-रूपेषु न रणति | संसर्ग-अ-भावात् | न हि चक्षू-रूपेण संसृज्यते | यावन् न मनो-धर्मेण संसृज्यते | यन् न संसृज्यते तन् न रणति | अ-द्वितीयस्य भगवन् धर्मस्य रणं न + अस्ति | अ-द्वितीयाश् च भगवन् सर्व-धर्माः परस्-परं न जानन्ति न विजानन्ति | न कल्पयन्ति न विकल्पयन्ति | न संभवन्ति न विसंभवन्ति | न हीयन्ते न वर्द्धन्ते | न रज्यन्ति | न विरज्यन्ति | न संसरन्ति न परिनिर्वान्ति न + एते कस्य-चित् | न + एषां कश्-चित् | न + एते भगवन् धर्मा उद्विजन्ते न संक्लिश्यन्ते न व्यवदायन्ते | एवम् अहं भगवन् जानाम्य् एवम् अवबुध्ये | यद् अप्य् अहं | भगवन्न् एवं वदामि | एवम् अहं जानाम्य् एवम् अहं बुध्यामि + इति | आयतनानाम् एष वि-कारः | न च भगवन्न् आयतनानाम् एवं भवति | अस्माकम् एष वि-कार इति | यो ह्य् एवं जानाति स न केन-चित् सार्द्धं विवदति | यन् न विवदति तच् * छ्रमण-धर्मम् अनुसरति + इति | तथा धर्म-दर्शनं बुद्ध-दर्शनं सर्व-सत्व-दर्शनं सर्व-सत्व-हेतु-प्रत्यय-दर्शनं शून्यता-दर्शनं शून्यता-दर्शनम् अ-दर्शनं | अ-दर्शनं भगवन् सर्व-धर्माणां दर्शनं सम्यग्-दर्शनम् इति ||
SK
कथम् अन्-अधिष्ठाना संवृतिर् युक्ता | कथं पुनर् अ-युक्ता | यथा + अ-सति स्थाणौ पुरुष-भ्रान्तिः | कस्य पुनः शून्यता-वादिनः परम-अर्थतः स्थाणुः सिद्धो यद्-आश्रयात् पुरुष-भ्रान्तिः स्याद् | अ-मूला एव च सर्व-धर्मास् तत्वतो मूल-अन्-उपपत्तेः ||
SK
तथा च + उक्तम् आर्य-विमलकीर्ति-निर्देशे | अ-भूत-परिकल्पस्य किं मूलं | आह | विपर्यस्ता संज्ञा मूलं | आह | विपर्यस्तायाः संज्ञायाः किं मूलं | अ-प्रतिष्ठानं मूलं | आह | अ-प्रतिष्ठायाः किं मूलं | आह | यन् मञ्जुश्रीर् अ-प्रतिष्ठानं न तस्य किञ्-चिन् मूलम् इति ह्य् अ-प्रतिष्ठान-मूल-प्रतिष्ठिताः सर्व-धर्मा इति ||
SK
इयं समासतः प्रज्ञा-पारमिता चित्त-शुद्ध्य्-अर्थिना भावयितव्या | भावयित्वा च क्लेश-रिपु-रण-कुशलेन भवितव्यं | न स्व-गृह-शूरेण ||
SK
यथा + उक्तम् आर्य-धर्म-संगीति-सूत्रे | न शून्यता-वादी लोक-धर्मैः संह्रियते * अ-निश्रितत्वात् | न स लाभेन संहृष्याति | अ-लाभेन न वि-मना भवति | यशसा न विस्मयते * अ-यशसा न संकुचति | निन्दया न + अवलीयते | प्रशंसया न + अनुनीयते | सुखेन न रज्यते दुष्खेन न विरज्यते | यो ह्य् एवं लोक-धर्मैर् न संह्रियते स शून्यतां जानीतए इति ||
SK
तथा शून्यता-वादिनो न क्व-चिद् अनुरागो न वि-रागः | यस्मिन् रज्येत तच् * छून्यम् एव जानीते | शून्यम् एव पश्यति | न + असौ शून्यतां जानीते यः क्व-चिद् धर्मे रज्यते वा विरज्यते वा तथा न + असौ शून्यतां जानीते यः केन-चित् सार्द्धं वि-ग्रहं वि-वादं वा कुर्याच् * छून्यम् एव जानीते तच् * छून्यम् एव पश्यति + इत्य् आदि ||
SK
एतत् संक्षेपाच् चित्त-शोधनम् ||
SK
अथ + एवम् अपि परम-विशुद्धिर् धर्म-दर्शने सति | इह पञ्च-कषाय-संक्लिष्टस्य कल्याण-मित्र-अवसादितस्य वा संक्षेपेण तावत् कुत्र यत्नं कृत्वा शीघ्रं चित्त-शुद्धिर् भवति | आत्म-बहु-मान-पर-अवज्ञा-त्यागे * अनयोर् मूलम् आत्म-सत्व-दृष्टिः | सा च + एतद्-अभ्यासात् सु-करं प्रहीयतए इति पर-गौरवम् आत्म-अवज्ञा च + एवं भावनीया ||
SK
यदि सत्वो यदि स्कन्धाः क्षमता सर्वथा स्थिता | एकस्य हि पर-आत्मत्वं विरुद्धं संभवेत् कथं ||
SK
विना + आलम्बनम् अप्य् एतद् आचरन्त्य् एव देहिनः | अन्-आदि-कल्यान-अभ्यासात् किम् अभ्यासस्य दुष्-करम् ||
SK
एवम् अभ्यास-वश्यत्वे तुल्ये कस्मात् सुख-उदयम् | पर-गौरवम् उत्सृज्य स्व-सुखायान् यद् इष्यते ||
SK
चिन्ता-मणिर् यथा + उक्ताश् च सन्ति गौरव-हेतवः | न तु मे गौरवात् सौख्यम् इह + अपि जन-दुर्-भगात् ||
SK
तस्मात् सत्व-अन्तरे यद्-वद् रूक्ष-मत्सर-मानिनः | आत्म-स्नेहवतो वृत्तिर् भावयेत् तद्-विपर्ययम् ||
SK
आत्मनो बहु-मानो * अयं स्तुति-निन्दा-आदि-सेकतः | वर्धते नारक-वशात् सेकान् नरक-वह्नि-वत् ||
SK
शब्दस् तावद् अ-चित्तत्वान् मां स्तौति + इति न संभवः | परः किल मयि प्रीत इत्य् अयं मे मति-भ्रमः ||
SK
तत्-तुष्ट्या + एव मम प्रीतिः सामान्ये न सदा + अस्तु सा | तत्-सुखेन न चेत् कार्यं तेन तुष्टेन किं मम ||
SK
अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया | न मे परेण तुष्टेन काये सौख्यम् इह + अण्व् अपि ||
SK
एवं ज्ञात्वा प्रहातव्या कल्पना निर्-विबन्धना | अ-कीर्ति-निन्दा सत्-कारा एवं ज्ञेयाश् च निष्-फलाः ||
SK
न धर्मो न + आयुर् आरोग्यं न बलं वन्दना-आदिभिः | यद्-वद् उत्प्रास्यमानस्य विकारैर् अन्य-कायिकैः ||
SK
हृष्टस्य + अथ विषण्णस्य लाभ-अ-लाभौ सम-उदयौ | विवर्ज्य निष्-फलं तस्माद् भवेयं शैल-मानसः ||
SK
संस्तव-त्यागाच् च शीघ्रं चित्त-विशुद्धिर् भवति | इति ||
SK
तत्र + अपि चिन्त्यते | निमित्त-उद्ग्रह-संभूता प्रत्य्-अभिज्ञा पुनः पुनः | उत्पादयत्य् अनु-नयं जायते प्रतिघो * अप्य् अतः ||
SK
प्रतिघ-अनुनयौ यस्य तस्य पापम् अ-वारितम् | अभ्याख्यानानि चित्राणि मात्सर्यं च + ईर्ष्यया सह ||
SK
लाभ-आदि-कामता नाम इत्य् आद्य् आवर्तते बहु | तस्मात् सर्व-प्रयत्नेन संस्तवं प्रहरेन् मुनिः ||
SK
सादृश्याद् अन्यद् अप्य् एतद् वारि-स्रोतो-वद् ईक्ष्यते | तद् एव + इदम् इति भ्रान्त्या तत्वे तिष्ठाम्य् अतो बलात् ||
SK
अ-वस्तु च + एतत् सादृश्यं दुष्खं च जनयिष्यति | अहं च + एतच् च सर्वं च न चिरान् न भविष्यति | इति ||
SK
आत्म-भाव-परिशुद्धिश् चतुर्दशः परिच्छेदः ||
SK
[XV. भोगपुण्यशुद्धि]
SK
भोग-पुण्य-शुद्धिः पञ्चदशः परिच्छेदः ||
SK
शिक्षा-समुच्चयस्य + आत्म-शुद्ध्य्-अन्-अन्तरं भोग-शुद्धिः संचय-अ-भावात् | पृथग् इह लेखिता | भोग-शुद्धिं च जानीयात् सम्यग्-आजीव-शोधनात् ||
SK
यथा + उक्तम् आर्य-उग्र-परिपृच्छायाम् | इह गृह-पते गृही बोधि-सत्वो धर्मेण भोगान् पर्येषते न + अ-धर्मेण | समेन न वि-षमेण | सम्यग्-आजीवो भवति न वि-षम-आजीव इति ||
SK
आर्य-रत्न-मेघे * अप्य् उक्तं | न बोधि-सत्वो दायकं दान-पतिं दृष्ट्वा + ईर्या-पथम् आरचयति | कथं न + ईर्या-पथम् आरचयति | न शनैर् मन्दं मन्दं क्रमान् उत्क्षिपति न निक्षिपति युग-मात्र-प्रेक्षिकया स-विश्वस्त-प्रेक्षिकया + अन्-आभोग-प्रेक्षिकया | एवं काय-कुहनां न करोति | कथं वाक्-कुहनां न करोति | न बोधि-सत्वो लाभ-हेतोर् लाभ-निदानं मन्द-भाणी मृदु-भाणी न प्रिय-भाणी भवति | न + अनुवर्तन-वचनानि निश्चारयति | पे ||
SK
कथं न चित्त-कुहनां कुरोति | बोधि-सत्वो दायकेन दान-पतिना वा लाभेन प्रवार्यमाणो वा च + अल्प-इच्छतां दर्शयति | चित्ते न स्पृहाम् उत्पादयति | अन्तर्-दाह एष कुल-पुत्र यद् वाच-अल्प-इच्छता चित्तेन लाभ-कामता | एवं हि कुल-पुत्र बोधि-सत्वः कुहन-लपन-लाभ-अपगतो भवति | पे | न बोधि-सत्वो दान-पतिं वा दृष्ट्वा निमित्तं करोति | विघातो मे चीवरेण | विघातो मे पात्रेण | विघातो मे ग्लान-भैषज्येन | न च तं दायकं दान-पतिं वा किं-चित् प्रार्थयते | न वाचं निश्चारयति | एवं हि बोधि-सत्वो निमित्त-लाभ-अपगतो भवति | यावन् न बोधि-सत्वो दायकं दान-पतिं दृष्ट्वा एवं वाचं निश्चारयति | अमुकेन + अमुकेन वा मे दान-पतिना + अमुकं वस्तु प्रतिपादितं तस्य च मया + अमुक उपकारः कृतः | तेन मे शीलवान् अयम् इति कृत्वा इदं च + इदं च दत्तं बहु-श्रुत इति | अल्प-इच्छ इति कृत्वा | मया च तस्य कारुण्य-चित्तम् उपस्थाप्य परिगृहीतं | पे ||
SK
तत्र काय-क्षतिर् यद् उत लाभ-हेतोर् लाभ-निदानम् आधावन-परिधावनं दौःशील्य-समुदाचरणं च | चित्त-क्षतिर् यद् उत प्रार्थना | लाभिनां च ब्रह्म-चारिणाम् अन्तिके व्यापाद-बहुलता | एवं हि बोधि-सत्वो विषम-पर्येष्टि-लाभ-अपगतो भवति | पे ||
SK
इह बोधि-सत्वो न तुला-कूटेन न मान-कूटेन न विस्रंभ-घातिकया न धूर्ततया लाभम् उपार्जयति | एवं हि बोधि-सत्वो * अ-धर्म-लाभ-अपगतो भवति | पे | ये ते लाभा स्तौपिक-संसृष्टा वा धार्मिक-संसृष्टा वा सांघिक-संसृष्टा वा + अ-दत्ता वा + अन्-अनुज्ञाता वा | तान् न प्रतीच्छति न स्वी-करोति | एवं हि बोधि-सत्वो * अ-परिशुद्ध-लाभ-अपगतो भवति | यावल् लब्धा लाभं न ममायते | न धनायते | न संनिधिं करोति | काल-अनुकालं च श्रमण-ब्राह्मणेभ्यो ददाति | माता-पितृ-मित्र-अमात्य-ज्ञाति-सालोहितेभ्यः काल-अनुकालम् आत्मना परिभुङ्क्ते परिभुञ्जानश् च + अ-रक्तः परिभुङ्क्ते | स्व्-अनध्यवसितो न च + आलभ्यमाने लाभे खेद-चित्तम् उत्पादयति | न परितप्यति न च दायक-दान-पतीनाम् अन्तिके * अ-प्रसाद-चित्तम् उत्पादयति + इत्य् आदि ||
SK
तत्र + एष + अप्य् अस्य बोधि-सत्वस्य भोग-शुद्धिर् आत्म-भाव-शुद्धि-वत् पर-हिताय भवेत् ||
SK
यथा + उक्तम् आर्य-विमलकीर्ति-निर्देशे | पुनर् अ-परं भदन्त शारिपुत्र ये प्रविशन्ति + इदं गृहं तेषां समनन्तर-प्रविष्टानां सर्व-क्लेशा न बाधन्ते * अयं द्वितीय आश्चर्य-अद्भुतो धर्मः ||
SK
पुनर् अत्र + एव + उक्तं | अथ ततो भोजनात् सर्वावती सा पर्षत् तृप्ता भूता | न च तत् भोजनं क्षीयते | यैश् च बोधि-सत्वैः श्रावकैश् च शक्र-ब्रह्म-लोक-पालैस् तद् अन्यैश् च सत्वैस् तद् भोजनं भुक्तं तेषां तादृशं सुखं काये * अवक्रान्तं यादृशं सर्व-सुख-मण्डितायां लोक-धातौ बोधि-सत्वानां सुखं | सर्व-रोम-कूपेभ्यश् च तेषां तादृशो गन्धः प्रवाति | तद् यथा + अपि नाम तस्याम् एव सर्व-गन्ध-सु-गन्धायां लोक-धातौ वृक्षाणां गन्धः ||
SK
पुनश् च + उक्तं | यैश् च भदन्त + आनन्द भिक्षुभिर् अन्-अवक्रान्त-नियामैर् एतद् भोजनं भुक्तं तेषाम् एव + अवक्रान्त-नियमानां परिणंस्यति | पे | यैर् अन्-उत्पादित-बोधि-चित्तैः सत्वैः परिभुक्तं तेषाम् उत्पादित-बोधि-चित्तानां परिणंस्यति | यैर् उत्पादित-बोधि-चित्तैर् भुक्तं तेषां न + अ-प्रतिलब्ध-क्षान्तिकानां परिणंस्यति + इति विस्तरः ||
SK
शून्यता-करुणा गर्भ-चेष्टितात् पुण्य-शोधनम् ||
SK
उक्तं ह्य् आर्य-गगन-गञ्ज-सूत्रे | यद् उत + अहं-कार-विशुद्धं तद् दानं ददाति | मम-कार-विशुद्धं तद् दानं ददाति | हेतु-विशुद्धं तद् दानं ददाति | दृष्टि-विशुद्धं तद् दानं ददाति | निमित्त-विशुद्धं तद् दानं ददाति | नानात्व-विशुद्धं तद् दानं ददाति | विपाक-प्रतिकाङ्क्षणा-विशुद्धं तद् दानं ददाति | यथा गगनं सम-विशुद्धं तद् दानं ददाति ||
SK
पे | यथा गगनम् अ-पर्यन्तम् एवम् अ-पर्यन्ती-कृतेन चित्तेन तद् दानं ददाति | यथा गगनं विस्तीर्णम् अन्-आवरणम् एवं बोधि-परिणामितं तद् दानं ददाति | यथा गगनम् अ-रूपि एवं सर्व-रूप-अ-निश्रितं तद् दानं ददाति | यथा गगनम् अ-वेदयितृ | एवं सर्व-वेदित-प्रतिप्रस्रब्धं दानं ददाति | एवम् अ-संज्ञि अ-संस्कृतम् अ-विज्ञप्ति-लक्षणम् एवम् अ-प्रतिज्ञानं तद् दानं ददाति | यथा गगनं सर्व-बुद्ध-क्षेत्र-स्फरणम् एवं सर्व-सत्व-मैत्री-स्फरणं तद् दानं ददाति | पे | यथा गगनं सदा-प्रकाशम् एवं चित्त-प्रकृति-विशुद्धं तद् दानं दद-ति | यथा गगनं सर्व-सत्व-अवकाशं एवं सर्व-सत्व-उपजीव्यं तद् दानं ददाति | यावद् यथा निर्मितो निर्मिताय ददाति निर्-विकल्पो * अन्-आभोगः | चित्त-मनो-विज्ञान-विगतः सर्व-धर्म-निः-प्रतिकाङ्क्षी | एवं द्वय-विगमतया माया-लक्षण-स्व-भाव-विशुद्धं बोधि-सत्वस् तद् दानं ददाति | यस्य + ईदृशो दान-परित्यागः प्रज्ञा-ज्ञानेन च सर्व-सत्व-क्लेश-परित्यागः | उपाय-ज्ञानेन च सत्व-अ-परित्यागः | एवं त्याग-चित्तः कुल-पुत्र बोधि-सत्वो गगन-सम-दानो भवति ||
SK
आर्य-अक्षयमति-सूत्रे * अप्य् उक्तं | न + अस्ति सत्व-उत्पीडना-दानम् | यावन् न + अस्ति यथा-उक्ते ऊन-दानं | यावन् न + अस्ति सर्व-सत्वेषु दक्षिणीया-अवमन्यना-दानं | पे | न + अस्ति निक्रन्द-दानं यावन् न + अस्ति याचनकेषु + उपतप्त-दानं न + अस्त्य् उच्चग्घन उल्लापन-दानं न + अस्ति पराङ्-मुख-दानं न + अस्त्य् अपविद्ध-दानं न + अस्त्य् अ-स्व-हस्त-दानं | पे | न + अस्त्य् अ-कल्पिक-दानं | न + अस्त्य् अ-काल-दानं न + अस्ति विष-शस्त्र-दानं न + अस्ति सत्व-विहेठना-दानम् इति ||
SK
यत् तर्ह्य् उग्र-परिपृच्छायाम् उक्तं | दान-पारमिता-कालो * अयं यस्य येन + अर्थस् तस्य तत्-प्रदान-कालः | अपि तु तथा + अहं करिष्यामि | मद्य-पेभ्य एव मद्य-पानं दास्यामि | तांस् तान् स्मृति-संप्रजन्ये समादापयिष्यामि + इति ||
SK
मद्य-पानाद् अपि नैराश्य-कृते बोधि-सत्वे प्रतिघो गरीयान् | सत्व-संग्रह-हानिश् च + अतो * अन्य-प्रसादन-उपाय-अ-संभवे मद्यं देयम् इत्य् अभिप्रायः | शस्त्र-आदिष्व् अपि यद्य् अनुबध-गुरुल-आद्य्-अवविचाराद् दानम् आपद्येत | न + एव + आपत्तिर् इत्य् अत एव गम्यते | सूत्रेषु तु सामान्येन प्रतिषेध | इत्य् उक्ता दान-विशुद्धि-दिक् ||
SK
शील-विशुद्धिर् आर्य-गगन-गञ्ज-सूत्रे एव + अभिहिता | अ-विरहित-बोधि-चित्तता चित्त-विशुद्ध्यै अपगत-श्रावक-प्रत्य्-एक-बुद्ध-चित्तता प्रामाणिक-विशुद्ध्यै इत्य् आदि ||
SK
पुनर् अ-परा शील-विशुद्धिः | शुद्धं गगनं शुद्धं तच्-छीलं |वि-मलं गगनं वि-मलं तच्-छीलं | शान्तं गगनं शान्तं तच्-छीलं | अन्-उन्नतं गगनम् अन्-उन्नतं तच्-छीलं | अनुनीतं गगनम् अनुनीतं तच्-छीलम् | यावद् अ-छेद्य-अ-भेद्यं गगनम् अ-छेद्य-अ-भेद्यं तच्-छीलम् इत्य् आदि ||
SK
अ-प्रतिहतं गगनं सर्व-सत्व-अ-प्रतिघ-चित्तस्य क्षान्ति-परिशुद्धिः | सम-प्रयोगं गगनं सर्व-सत्व-सम-चित्तस्य क्षान्ति-परिशुद्धिर् इत्य् आदि ||
SK
तद् यथा + अपि स्यान् महा-शाल-वनं | तस्मिन् कश्-चिद् एव + आगत्य शालं छिन्द्यात् | तत्र तेषाम् अवशिष्टानां न + एवं भवति | एष छिन्नो वयम् अ-च्छिन्ना इति | न तेषाम् अनुनयो न प्रतिघः | न कल्पो न विकल्पो न परिकल्पः ||
SK
या + एवं क्षान्तिर् इयं बोधि-सत्वस्य परमा गगन-समा क्षान्तिर् | इति ||
SK
आर्य-रत्न-चूड-सूत्रे विस्तरम् उक्त्वा आह | इदम् उच्यते वीर्यं | तस्य काय-परिशुद्धिः | यत् कायस्य प्रतिभास-प्रतिबिम्ब-ज्ञानं वाचो * अन्-अभिलाप्य-ज्ञानं | चित्तस्य + अत्य्-अन्त-उपशम-ज्ञानं | तथा मैत्री-संनाह-संनद्धो महा-करुणा-अधिष्ठान-प्रतिष्ठितः | सर्व-आकार-वर-उपेतं शून्यता-आकार-अभिनिर्हृतं ध्यानं ध्यायति | तत्र कतमा सर्व-आकार-वर-उपेता शून्यता | या न दान-वि-कला | यावन् न + उपाय-वि-कला | न महा-मैत्री-मुदिता-उपेक्षा-वि-कला | न सत्य-ज्ञान-अवतार-वि-कला | न बोधि-चित्त-सत्व-अपेक्षा-वि-कला | न + आशय-अध्याशय-प्रयोग-वि-कला | न दान-प्रिय-वद्यता + अर्थ-क्रिया समान-अर्थता-वि-कला | न स्मृति-संप्रजन्य-वि-कला | न स्मृत्य्-उपस्थान-सम्यक्-प्रहाण-र्द्धि-पाद-इन्द्रिय-बल-बोध्य्-अङ्ग-अष्ट-अङ्ग-मार्ग-वि-कला न शमथ-विपश्यना-वि-कला | पे | उपशान्ता च स्व-भावेन | अन्-उपशान्ता च कर्म-क्लेशेषु | उपेक्षिका च सर्व-धर्माणां | अवेक्षिका च बुद्ध-धर्माणां | जहा च स्व-लक्षणेन | विक्रान्ता च + अधिष्ठान-कार्यतया | अ-व्यापृता च स्व-रसेन | सदा व्यापृता च बुद्ध-कार्येषु | शीती-भूता च + उपशमेन | सदा + उज्ज्वलिता च सत्व-परिपाके | इयम् उच्यते सर्व-आकार-वर-उपेता शून्यता ||
SK
यावद् इयं कुल-पुत्र ध्यान-पारमिता चर्या-परिशुद्धिर् इति ||
SK
एतेन प्रज्ञा-परिशुद्धिर् वेदितव्या | एवं सर्व-पुण्येष्व् इति ||
SK
तथा + आर्य-विमलकीर्ति-निर्देशे * अप्य् उक्तं |सद्-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-संदर्शन-गो-चरश् च बोधि-सत्व-चर्या + अ-त्यजन-गो-चरश् च + अयम् अपि बोधि-सत्वस्य गो-चर | इति ||
SK
भोग-पुण्य-शुद्धिः पञ्चदशः परिच्छेदः ||
SK
[XVI. भद्रचर्याविधिः]
SK
भद्र-चर्या-विधिः षोडशः परिच्छेदः ||
SK
इदानीं त्रयाणाम् अपि वृद्धिर् वाच्या ||
SK
किम् अर्थं | ग्रहीतारः सु-बहवः स्व्-अल्पं च + इदम् अनेन किं | न च + अति-तृप्ति-जनकं वर्धनीयम् इदं ततः ||
SK
अति-तृप्ति बुद्धत्वं | तन् न श्रावक-साधारणेन शुद्धि-मात्रेण सत्वानां जन्यतए इत्य् अर्थः | आत्म-भावस्य का वृद्धिर् बल-अन्-आलस्य वर्धनं ||
SK
तत्र + आर्य-रत्न-मेघे बलम् उक्तं |न स सत्वः सत्व-निकाये संविद्यते यो बोधि-सत्वस्य बलेन बलं मर्दयेद् इत्य् आदि ||
SK
तस्य कथं वर्धनम् | यद् उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे आर्य-वज्रपाणेर् बल-दर्शन-विस्मित-अजातशत्रु-पृष्टेन भगवता | दशभिर् महा-राज धर्मैः समन्वागतो बोधि-सत्व एवं-रूपां बलवत्तां प्रतिलभते |कतमैर् दशभिः | इह महा-राज बोधि-सत्वः कायं जीवितं च परित्यजति | न च पुनः सद्-धर्मं परित्यजति | सर्व-सत्वानां च + अवनमति न च पुनर् मानं बृंहयति | दुर्-बलानां च सत्वानां क्षमते | न प्रतिघं करोति | जिघत्सितानां च सत्वानाम् अग्रं वर-भोजनं ददाति | भीतानां च सत्वानाम् अ-भयं ददाति | ग्लानानां च सत्वानां भूत-चिकित्सायै उत्सुको भवति | दरिद्रांश् च सत्वान् भोगैः संतर्पयति | तथा-गत-चैत्ये च सु-धा-पिण्ड-लेपनं करोति | आनन्द-वचनं सत्वानां श्रावयति | दरिद्र-दुष्खितानां च सत्वानां भोग-संविभागं करोति | श्रान्त-क्लान्तानां च सत्वानां भारं वहति | एभिर् महा-राज दशभिर् इति ||
SK
अन्-आलस्य-वर्धनं कतमत् | यद् वीर्य-वर्धनं | यथा + उक्तं सागरमति-सूत्रे | आरब्ध-वीर्येण सागरमते बोधि-सत्वेन भवितव्यं सदा दृढ-पराक्रमेण | तीव्र-च्छन्देन बोधि-सत्वेन भवितव्यम् अ-निक्षिप्त-धुरेण | आरब्ध-वीर्याणां हि सागरमते बोधि-सत्वानां न दुर्-लभा भवत्य् अन्-उत्तरा सम्यक्-संबोधिः | तत् कस्य हेतोः | यत्र सागरमते वीर्यं तत्र बोधिः | कुसीदानां पुनः सु-दूर-विदूरे बोधिः | न + अस्ति कुसीदस्य दानं यावन् न + अस्ति प्रज्ञा न + अस्ति कुसीदस्य पर-अर्थ इति ||
SK
चन्द्र-प्रदीप-सूत्रे * अप्य् आह | उत्पलं वारि-मध्ये वा सो * अनुपूर्वेण वर्धतए |इत्य् आदि ||
SK
इयं संक्षेपाद् आत्म-भाव-वृद्धिः ||
SK
शून्यता करुणा-गर्भाद् दानाद् भोगस्य वर्धनं ||
SK
यथा + उक्तं वज्र-च्छेदिकायां | यो बोधि-सत्वो * अ-प्रतिष्ठितो दानं ददाति | तस्य पुण्य-स्कन्धस्य न सु-करं प्रमाणम् उद्ग्रहीतुम् इति ||
SK
महत्याम् अपि प्रज्ञा-पारमितायाम् उक्तं | पुनर् अ-परं शारिपुत्र बोधि-सत्वेन महा-सत्वेन + अल्पम् अपि दानं ददता सर्व-सत्वेषु सर्व-आकार-ज्ञतायाम् उपाय-कौशल्य-परिणामनतायाम् अ-प्रमेयम् अ-संख्येयं कर्तु-कामेन प्रज्ञा-पारमितायां शिक्षितव्यम् | तथा सर्व-सत्वानां मनो-रथान् परिपूरयितु-कामेन | यावज् जात-रूप-रजत-उद्यान-राज्य-आदिभिर् उपकरणैः प्रज्ञा-पारमितायां शिक्षितव्यम् इति ||
SK
विना च करुणया न बोधि-सत्वानां किं-चिच् चेष्टितम् इति वक्ष्यामः | इति संक्षेपाद् भोग-वृद्धिः ||
SK
पुण्य-वृद्धिः सर्व-वृद्धीनां मूलम् इति तद्-अर्थं परिकर-बन्ध उच्यते ||
SK
कृत्वा + आदाव् एव यत्नेन व्यवसाय-आशायौ दृढौ | करुणां च पुरस्-कृत्य यतेत शुभ-वृद्धये ||
SK
चित्त-शुद्धि-काल-भावितानां व्यवसाय-आदीनां प्रयोग-आरम्भे पुनर् आमुखी-करणेन दृढता + अ-पादन-अर्थः श्लोकः | कृत्वा + इत्य् आदि-पूर्वक एव ||
SK
आसन्न-युद्ध-कालानां अस्त्र-कौशल्य-आदर-वत् प्रयोग-सम-कालं दृढी-करिष्यामि + इति शैथिल्य-निवारण-अर्थम् आदि-ग्रहणम् | तत्र कथं व्यवसायं दृढी-करोति ||
SK
यथा + आर्य-सुधन आर्य-मैत्रेयम् उपसंप्रक्रान्तः सम्यक्-चर्या-निः-समर्थः | पूर्व-अन्त-कोटी-गत-काय-प्रणामः काय-समन्वाहारेण काय-बलं दृढी-कुर्वाणः | पूर्व-अन्त-कोटी-गत-काय चित्त-परिशुद्धि-निष्-कारण-सांसारिक-चित्त-प्रचार-समन्वाहारेण चित्त-मनसि-कारं निगृह्णन् | पूर्व-अन्त-कोट्य्--अ-सत्-कर्म-लौकिक-कार्य-प्रयुक्त-निष्-प्रयोजन-परिस्यन्द-समन्वाहारेण प्रत्य्-उत्पन्न-प्रयोजन-महा-सामर्थ्यं विचिन्तयन् | पूर्व-अन्त-अ-भूत-परिकल्प-समुत्थित-वितथ-संकल्प-संदर्शित-मनसि-कार-समन्वाहारेण सर्व-बोधि-सत्व-चर्या-सम्यक्-संकल्प-अभिसंस्कार-बलं समुत्थापयन् | अतीत-आत्म-भाव-अर्थ-प्रयोग-आरम्भ-विषमता-समन्वाहारेण सर्व-सत्व-आरम्भ-वैशेषिकतया + अध्याशय-बलं दृढी-कुर्वाणः | अतीत-काय-समुदाचार-निर्-आस्वादता-समन्वाहारेण | सर्व-बुद्ध-धर्म-प्रतिलाभ-प्रयोग-महा-आश्वास-प्रतिलाभ-इन्द्रिय-वेगान् विवर्धयमानो * अतीत-अध्व-विपर्यास-प्रयुक्त-मिथ्या-आशय-प्रयोग-समन्वाहॄएण | प्रत्य्-उत्पन्न-अध्व-सम्यग्-दर्शन-अ-विपर्यास-संप्रयुक्तेन बोधि-सत्व-प्रणिधान-समादानेन संततिं परिशोधयन् | पूर्व-अन्त-गत-आयोग-वीर्य-आरम्भ-कार्य-अ-परिनिष्पन्न-आर्य-समादान-समन्वाहारेण [दोउब्त्fउल्] | प्रत्य्-उत्पन्न-बुद्ध-धर्म-समुदागम-प्रत्युपस्थानेन महा-वीर्य-आरम्भ-विक्रमेण काय-चित्त-संप्रग्रहं संजनयमानः | पूर्व-अन्त-कोटी-पञ्च-गत्य्-अपाय-निक्षिप्त-आत्म-पर-निर्-उपकरण-आख्य-निर्-उपजीव्य-समुच्छ्रय-परिग्रह-समन्वाहारेण | सर्व-बुद्ध-धर्म-उत्थापक-सर्व-जगद्-उपजीव्य-सर्व-कल्याण-मित्र-आरागण-समर्थ्य-आत्म-भाव-परिग्रहणतया विपुल-प्रीति-प्रामोद्य-वेगान् विवर्धयमानः प्रत्य्-उत्पन्न-जन्म-अभिनिर्वृत्तं जरा-व्याधि-मरण-शोक-आकर-भूतं संयोग-वियोग-निधान-भूतं समुच्छ्रयं | अपर-अन्त-कल्प-कोटी-गत-बोधि-सत्व-चर्या-आचरण-प्रयुक्तस्य सत्व-परिपाचन-बुद्ध-धर्म-परिग्रह-प्रयुक्तस्य तथा-गत-संदर्शन-सर्व-बुद्ध-क्षेत्र-अनुचरण-सर्व-धर्म-भाणक-उपस्थान-सर्व-तथा-गत-शासन-समन्वाहरण-प्रयुक्तस्य सर्व-धर्म-पर्येष्टि-सहाय-भूतस्य सर्व-कल्याण-मित्र-दर्शन-सर्व-बुद्ध-धर्म-समुदानयन-प्रयुक्तस्य बोधि-सत्व-प्रणिधि-ज्ञान-शरीरस्य हेतु-प्रत्यय-भूतम् अवलोक्य-अ-चिन्त्य-कुशल-मूल-इन्द्रिय-वेगान् विव र्धयमान इति | आर्य-अक्षयमति-निर्देशे महा-यान-सूत्रे * अप्य् उक्तं | एको बोधि-सत्वो * अ-द्वितीयो * अ-सहायो * अन्-उत्तरायां सम्यक्-संबोधौ संनाहं संनह्यति | स वीर्य-बल-परिगृहीतेन + अध्याशयेन + अ-पर-अवकाश-अ-स्वयं-कारी | स्व-बल-बल-उद्गतः | स एवं दृढ-संनाहः संनद्धो | यत् किञ्-चित् सर्व-सत्वानां परिप्रापयितव्यं भविष्यति तद् अहं परिप्रापयिष्यामि | यत् सर्व-आर्याः सर्व-नव-यान-संप्रस्थिता बोधि-सत्वा न परिप्रापयिष्यन्ति तद् अहं परिप्रापयिष्यामि | न मम दानं सहायकं |अहं पुनर् दानस्य सहायः | न मम शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञाः सहायिकाः | अहं पुनः शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञानां सहायो | न + अहं पारमिताभिर् उपस्थातव्यो मया पुनः पारमिता उपस्थातव्याः | एवं संग्रह-वस्तुषु सर्व-कुशल-मूलेषु चलेयम् | यावद् एकाकिना मया + अ-द्वितीयेन + अ-सहायेन वज्र-मये मही-मण्डले स्थितेन स-बलं स-वाहनं मारं धर्षयित्वा एक-चित्त-क्षण-सम-आयुक्तया प्रज्ञया + अन्-उत्तरा सम्यक्-संबोधिर् अभिसंबोद्धव्या + इति ||
SK
आर्य-वज्र-ध्वज-सूत्रे * अप्य् आह | तद् यथा + अपि नाम सूर्यो देव-पुत्र उदयमानो न तिष्ठति | जात्य्-अन्ध-दोषेण | न तिष्ठति गन्धर्व-नगर-दोषेण | न तिष्ठति चतुर्-द्वीप-लोक-धातु-भूमि-रजो-दोषेण | न तिष्ठति राह्व्-असुर-इन्द्र-दोषेण | न तिष्ठति धूम-मण्डल-दोषेण | न तिष्ठति जम्बू-द्वीप-क्लेश-दोषेण | न तिष्ठति नाना-छाया-दोषेण | न तिष्ठति वि-षम-पर्वत-दोषेण | एवम् एव बोधि-सत्वो महा-सत्वः स्मृति-संप्रजन्य-विपुल-गम्भीर-चेता अ-दीन-सत्वो गुण-चर्या-ज्ञान-चर्या-अवसानं यावन् न विवर्तते सत्व-द्रौहिल्य-दोषैः | न विप्रवसति कुशल-मूल-परिणामैः | सत्व-दृष्टि-कालुष्य-दोषैर् न विवर्तते | सत्व-क्षोभ-चेतोभिर् न दूरी-भवति | सत्व-विनष्ट-संतत्या बोधि-संनाहं न विष्कम्भयति | सर्व-जगत्-परित्राण-प्रणिधानस्य सत्व-कलि-कलुषैर् न स्रंसनां करोति यावद् बाल-जन-समवधानेन | न निर्विद्यते पर-सत्व-दोषैश् च | तत् कस्य हेतोः | अन्-आवरण-मण्डलम् एतद् उदयति | यद् उत सर्व-जगद्-विशुद्धि-विनयाय | पे ||
SK
यश् च तेषां सर्व-सत्वानां दुष्ख-स्कन्धो विविधं च + आवरणीयं कर्म समुत्थितं येन ते आवरणीयेन कर्मणा बुद्धान् न पश्यन्ति | धर्मं न शृण्वन्ति | संघं न जानन्ति | तद् अहं तेषां त्रि-विधम् आवरणीयं कर्म + उपचितं दुष्ख-स्कन्धेन स्वकेन शरीरेण + उपाददामि तासु तासु नरक-उपपत्तिष्व् अपाय-भूमिषु संवासेषु च | ते च सर्व-सत्वास् ततश् च्यवन्तां | अहं च दुष्ख-उपादानम् उपाददामि व्यवस्याम्य् उत्सहे | न निवर्ते न पलायामि न + उत्त्रस्यामि न संत्रस्यामि न बिभेमि न प्रत्युदावर्ते न विषीदामि | तत् कस्य हेतोः | अ-वश्यं निर्वाहयितव्यो मया सर्व-सत्वानां भारो | न + एष मम काम-कारः | सर्व-सत्व-उत्तारण-प्रणिधानं मम | मया सर्व-सत्वाः परिमोचयितव्या | मया सर्व-जगत् समुत्तारयितव्यं | जाति-कान्ताराज् जरा-कान्ताराद् व्याधि-कान्ताराच् च्युत्य्-उपपति-कान्तारात् सर्व-आपत्ति-कान्तारात् सर्व-अपाय-कान्तारात् सर्व-संसार-कान्तारात् सर्व-दृष्टि-गहन-कान्तारात् कुशल-धर्म-प्रणाश-कान्ताराद् अ-ज्ञान-समुत्थित-कान्तारात् तद् एते मया सर्व-सत्वाः सर्व-कान्तारेभ्यः परिमोचयितव्याः | तृष्णा-जाल-सक्ता अ-विद्या-निवरण-आवृता भव-तृष्णा-संप्रयुक्ताः प्रणाश-पर्यवसाना दुष्ख-पञ्जर-प्रक्षिप्ताश् चारक-संनिश्रिता | अ-बुधाः प्रतिज्ञा-विरुद्धाः संशय-भूताः सदा वि-मतयो * अ-क्षेम-दर्शिनः | अ-निः-शरण-कुशला भव-अर्णवे आवर्त-मण्डल-एक-चरणाः | पे ||
SK
सर्व-सत्वानाम् अन्-उत्तर-ज्ञान-राज्य-प्रतिष्ठापन-अर्थम् अहं चरामि | न + अहं केवलम् आत्म-परिमोचन-अभियुक्तः | सर्व-सत्वा ह्य् एते मया सर्व-ज्ञता-चित्त-प्लवेन संसार-दुर्-गाद् * धर्तव्या | महा-प्रपाताद् अभ्युत्क्षेप्तव्याः | सर्व-उपद्रवेभ्यः परिमोचयितव्याः | संसार-स्रोतसः प्रतारयितव्या आत्मना मया सर्व-सत्व-दुष्ख-स्कन्धो * अध्यवसितः | यावद् उत्सहे * अहं सर्व-अपायेषु सर्व-लोक-धातु-पर्यापन्नेषु सर्व-दुष्ख-वासम् अनुभवितुम् | न च मया सर्व-सत्वाः कुशल-मूलैर् वञ्चितव्याः | व्यवस्याम्य् अहम् एक-एकस्मिन्न् अपाये * अपर-अन्त-कोटी-गतान् कल्पान् संवसयितुं | यथा च एक-अपाये तथा सर्व-अपाय-निर्-अवशेष-सर्व-लोक-धातु-पर्यापन्नेषु सर्व-सत्व-परिमोचन-निदानं |तत् कस्य हेतोः | वरं खलु पुनर् अहम् एको दुष्खितः स्यां न च + इमे सर्व-सत्वाः अपाय-भूमि-प्रपतिताः | मया तत्र + आत्मा बन्धको दातव्यः | सर्व-जगच् च निः-क्रेतव्यं नरक-तिर्यग्-योनि-यम-लोक-कान्ताराद् अहं च सर्व-सत्वानाम् अर्थाय सर्व-दुष्ख-वेदना-स्कन्धम् अनेन स्वकेन शरीरेण + अनुभवेयम् | सर्व-सत्व-निदानम् अहं च सर्व-सत्वानां प्रातिभाव्यम् उत्सहे सत्य-वादी प्रत्ययितो * अ-विसंवादकः | न च मया सर्व-सत्वाः परित्यक्ताः | तत् कस्य हेतोः | सर्व-सत्व-आरम्बणो मम सर्व-ज्ञता-चित्त-उत्पाद उत्पन्नो यद् उत सर्व-जगत्-परिमोचनाय | न च + अहं रति-कामतया + अन्-उत्तरायां सम्यक्-संबोधौ संप्रस्थितो न + अपि पञ्च-काम-गुण-रत्य्-अनुभवनाय न + अपि काम-विषय-निषेवणाय | न च + अहम् अन्यो-न्य-काम-धातु-पर्यापन्न-रति-व्यूह-समुदानयनाय चरामि बोधि-सत्व-चर्यां | तत् कस्य हेतोः | अ-रतयो ह्य् एषा सर्व-लोक-रतयः |मार-विषय एष यद् उत काम-विषय-निषेवणं | दुर्-बुद्धि-सेवितो ह्य् एष मार्गः |सर्व-बुद्धि-विवर्णितो ह्य् अयम् उपदेशः यद् उत काम-निषेवणं |अतश् च + एष सर्व-दुष्ख-स्कन्धस्य + उत्पाद एव निषेवणं अत एव च नरक-तिर्यग्-योनि-यम-लोकानाम् उत्पादः | कलह-भण्डन-विवाद-क्षोभाश् च सत्वानाम् अत एव प्रादुर्-भवन्ति | एते च सत्वाः कामान् निषेवमाणाः बुद्धानां भगवतां सकाशाद् दूरी-भवन्ति | स्वर्ग-उपपत्तेर् अप्य् एते कामा अन्तरायाय संवर्तन्ते | किं पुनर् अन्-उत्तरस्य ज्ञान-राजस्य सर्व-सत्व-योग-क्षेमस्य | सो * अहम् एवम् अ-प्रमाण-दोषान् कामानां पश्यन् परीत्तान् आदीप्तांस् तस्माद् अहम् एतन् निदानम् अ-चरणतायां प्रतिपत्स्ये || पे ||
SK
तथा तथा + एव मया कुशल-मूलं परिणामयितव्यं यथा यथा + एव सर्व-सत्वा अत्य्-अन्त-सुखम् अ-वेदित-सुखं यावत् सर्व-ज्ञता-सुखं प्रतिलभेरन् | मया सारथिना मया परिणायकेन मया + उल्का-धारिणा मया क्षेम-गति-दर्शकेन मया क्षण-गति-प्रतिलब्धेन मया + उपाय-ज्ञेन मया + अर्थ-विदुषा मया संसार-सागरे सर्व-ज्ञ-ज्ञान-यान-पात्र-महा-देश-स्थितेन मया परिणामन-कुशलेन मया पार-दर्शकेन || पे ||
SK
न खलु पुनर् अस्मिंश् चातुर्महा-द्वीपके लोक-धातौ यावन्तः सत्वास् तावन्त एव सूर्या उदागच्छन्ति चातुर्द्वीपक-लोक-धात्व्-अवभासनाय | अथ च पुनर् एक एव + एषां सूर्य उदागच्छति चतुर्-द्वीप-अवभासनाय | न च तेषां सत्वानां चतुर्-द्वीप-उपपन्नानां स्वक-स्वकैः शरीरैर् अवभासः प्रादुर्-भवति | येन ते दिवस-संख्यां जानीयुः | स्व-कार्यं वा परिप्रापयेयुः | सस्यानि वा परिपाचयेयुः | अहर् अहर् वा उद्यान-नगरेषु रति-क्रीडा-परिभोगम् अनुभवेयुः | दिशो वा पश्येयुः | गमन-आगमनं वा ग्राम-नगर-निगम-राष्ट्र-राज-धानीषु कुर्युः | व्यवहार-कार्येषु प्रयुज्येरन् |पे | अथ च पुनः सूर्यस्य देव-पुत्रस्य + उदयत एकस्य सूर्य-मण्डलस्य + अ-द्वितीयस्य चातुर्द्वीपके लोक-धातौ सर्व-सत्वानाम् अवभासः प्रादुर्-भवति | एवम् एव बोधि-सत्वस्य महा-सत्वस्य कुशल-मूलान्य् उपार्पयमानस्य कुशल-मूलं परिणामयमानस्य + एवं चित्तम् उत्पद्यते | न + एतेषां सत्वानां तत् कुशल-मूलं विद्यते येन ते आत्मानं परित्रायेरन् | कः पुनर् वादः परम् | अहं पुनः सर्व-सत्वानां कृतशः कुशल-मूलानि समुदानयामि कुशल-मूलं परिणामयामि | यद् उत सर्व-सत्व-मोचनाय | सर्व-सत्वानाम् अवभासनाय सर्व-सत्वानां ज्ञापनाय सरव्-सत्वानाम् अवतारणाय सर्व-सत्वानां परिग्रहणाय सर्व-सत्वानां परिनिष्पादनाय सर्व-सत्वानां प्रसादनाय सर्व-सत्वानां प्रह्लादनाय सर्व-सत्वानां संशय-च्छेदनाय आदित्य-मण्डल-कल्पैर् अस्माभिर् भवितव्यं | न परः प्रतिकाङ्क्षितव्यः | न परस्य + अवकाशम् उत्पाद्य सत्वेषु संनाह उत्स्रष्टव्यः | न च सर्व-सत्वानाम् अन्तिकात् सर्व-सत्व-त्राण-व्यवशायो निवर्तयितव्यः | न परिणामनायाः सर्व-दुष्ख-हत्या विनिवर्तितव्यं | न परीत्तानि कुशल-मूलानि परिग्रहीतव्यानि | न परीत्तया परिणामनया तुष्टिर् मन्तव्या इत्य् आदि ||
SK
आर्य-अक्षयमति-सूत्रे * अप्य् आह | स न कल्प-गणनया बोधिं पर्येषते | इयतः कल्पान् संनत्स्यामि | इयतः कल्पान् संनत्स्यामि + इति | अपि तु खल्व् अ-चिन्त्यम् एव संनाहं संनह्यति | यावती पूर्वा-कोटिः संसारस्य यद्य् एतावद् एकं रात्रिं-दिवं भवेत् | एवं-रूपै रात्रिं-दिवैः पञ्चदश-दैवसिकेन पक्षेण त्रिंशद्-दैवसिकेन मासेन द्वादश-मासिकेन संवत्सरेण अनया वर्ष-गणनया यावद् वर्ष-शत-सहस्रेण + एकं बोधि-चित्तम् उत्पादयेयम् एकं च तथा-गतम् अर्हन्तं सम्यक्-संबुद्धं पश्येयं | अनेन प्रवेशेन + अनया गणनया गङ्गा-नदी-वालुका-समैश् चित्त-उत्पादैस् तथा-गत-दर्शनैश् च एक-एकस्य + अपि सत्वस्य चित्त-चरितं जानीयां | अनेन + एव प्रवेशेन + अनया गणनया सर्व-सत्वानां तावद्भिश् चित्त-उत्पादैस् तथा-गत-दर्शनैः स्व-चित्त-चरितानि प्रजनीयाम् इत्य् अन्-अवलीनः | संनाहो * अयं बोधि-सत्वस्य + अ-क्षयः संनाहः |एवं दान-आदिषु बोधि-पाक्षिक-महा-पुरुष-लक्षणेषु च नयः ||
SK
आर्य-रत्न-मेघे * अप्य् उक्तं ||
SK
न बोधि-सत्वः सत्व-खटुङ्कतां सत्व-दुर्-दान्ततां ज्ञात्वा | अलम् एभिः सत्वैर् एवं खटुङ्कैर् एवं दुर्-दान्तैर् इति | ततो निदानं परिखिन्नः परा-पृष्ठी-भूतः | परिशुद्धायां लोक-धातौ प्रणिधानं करोति | यत्र + ईदृशानां सत्वानां नाम + अपि न शृणुयात् | न च सत्व-अर्थ-वैमुख्यस्य बोधि-सत्व-परिशुद्धायां लोक-धाताव् उपपत्तिर् भवति | तत्र प्राज्ञो बोधि-सत्व एवं चित्तम् उत्पादयति | तस्मात् सत्व-धातोर् ये सत्वाः स्युः प्रत्यवरा धजड-एड-मूक-जातीयाः | अ-परिनिर्वाण-धर्मकाः कृत्स्ना सत्व-धातौ न चिकित्सिताः सर्व-बुद्धैः सर्व-बोधि-सत्वैश् च प्रत्याख्याताः | तेषां मदीये बुद्ध-क्षेत्रे संनिपातः स्यात् | तान् अहं सर्वान् बोधि-मण्डे निषीद्य + अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबोधयेयं ||
SK
एवं हि बोधि-सत्वस्य चिन्तयतश् चित्त-उत्पादे चित्त-उत्पादे सर्व-मार-भवनानि प्रकम्पन्ते | सर्व-बुद्धाश् च + अस्य वर्ण-वादिनो भवन्ति + इति ||
SK
एवं तावत् पुण्य-वृद्धि-कामेन आशयो दृढी-कर्तव्यः | आशय-दृढी-करण-अर्थम् अधुना + उच्यते | किं पुनर् अनेन दृढी-कृतेन + इति | विमर्ष-निरासाय धर्म-संगीति-सूत्रे गदितं |आशये सम्यग् भगवन् बुद्ध-धर्माणां मूलं | यस्य पुनर् आशयो न + अस्ति सर्वे बुद्ध-धर्मास् तस्य दूरे ||
SK
आशय-संपन्नस्य पुनर् भगवन् यदि बुद्धा न भवन्ति गगन-तलाद् धर्म-शब्दो निश्चरति कुड्म-वृक्षेभ्यश् च | आशय-शुद्धस्य बोधि-सत्वस्य स्व-मनो-जल्पाद् एव सर्व-अववाद-अनुशासन्यो निश्चरन्ति | तस्मात् तर्हि भगवन् बोधि-सत्वेन + आशय-संपन्नेन भवितव्यं ||
SK
तद् यथा भगवन् यस्य पादौ तस्य गमनं एवं भगवन् यस्य + आशयस् तस्य बुद्ध-धर्माः |तद् यथा भगवन् यस्य + उत्तम-अङ्गं तस्य जीवितं एवम् एव भगवन् यस्य + आशयस् तस्य बुद्ध-बोधिः | तद् यथा भगवन् यस्य जीवितं तस्य लाभः | एवम् एव भगवन् यस्य + आशयस् तस्य बुद्धत्व-लाभः | तद् यथा भगवन् सतीत्वेन + अग्निर् ज्वलति | अ-सतीत्वेन न ज्वलति | एवम् एव भगवन्न् आशये सति बोधि-सत्वस्य सर्व-बुद्ध-धर्मा ज्वलन्ति | अ-सत्य् आशये न ज्वलन्ति | तद् यथा भगवन् सत्स्व् अभ्र-मेघेषु वर्षं वर्षत्य् अ-सत्सु न वर्षति | एवम् एव भगवन्न् आशये सति बुद्ध-धर्माः प्रवर्तन्ते | तद् यथा भगवन् यस्य वृक्षस्य मूलं विपन्नं तस्य पुष्प-फलानि न भूयः प्ररोहन्ति | एवम् एव भगवन् यस्य + आशयो विपन्नस् तस्य सर्वे कुशला धर्मा न भूयः संभवन्ति | तस्मात् तर्हि भगवन् बोधि-सत्वेन बुद्ध-बोध्य्-अर्थिकेन स्व-आशयः सु-उद्गृहीतः स्व्-आरक्षितः सु-शोधितः स्व्-अधिष्ठितः कर्तव्य इति ||
SK
को * अयम् आशयो नाम | आर्य-अक्षयमति-सूत्रे * अभिहितः | स खलु पुनर् आशयो * अ-कृत्रिमः अ-कृतकत्वात् | अ-कृतको निः-साध्यत्वात् | निः-साध्यः सु-विदितत्वात् | सु-विदितो निर्-मायत्वात् | निर्-मायः शुद्धत्वात् | शुद्धः ऋजुकत्वात् | ऋजुकः अ-कुटिलत्वात् | अ-कुटिलः स्पष्टत्वात् | स्पष्टो * अ-वि-षमत्वात् | अ-वि-षमः सारत्वात् | सारो * अ-भेद्यत्वात् | अ-भेद्यो दृढत्वात् | दृढो * अ-चलितत्वात् | अ-चलित अ-निश्रितत्वाद् इत्य् आदि | अयम् एव च + अधिक-अधिक-गुण-अधिगम-प्रवृत्तो * अध्याशय इत्य् उच्यते ||
SK
यथा + अत्र + एव + उक्तं | उत्तरण-अध्याशयो विशेष-गमनतया इत्य् आदि ||
SK
अपि च + अध्याशय उच्यते | सौम्यता भूतेषु | मैत्रता सत्वेषु | हित-चित्तता आर्येषु | कारुण्यम् अन्-आर्येषु | गौरवं गुरुषु | त्राणता अ-त्राणेषु | शरणता अ-शरणेषु | द्वीपता + अ-द्वीपेषु | परायणता अ-परायणेषु | सहायता अ-सहायेषु | ऋजुता कुटिलेषु | स्पष्टता खटुङ्केषु | अ-शठता शठेषु | अ-माया आगहन-चरितेषु | कृत-ज्ञता अ-कृत-ज्ञेषु | कृत-वेदिता द्रोहिषु | उपकारिता अन्-उपकारिषु | सत्यता अ-भूत-गतेषु | निर्-मानता श्रब्धेषु | अ-निन्दिता सु अ-निन्दना कृतेषु [दोउब्त्fउल्] | अन्-आरोचनता पर-स्खलितेषु | आरक्षणता विप्रतिपन्नेषु | अ-दोष-दर्शनता सर्व-उपाय-कौशल्य-चर्यासु | शुश्रूषणता सर्व-दक्षिणीयेषु | प्रदक्षिण-ग्राहिता + अनुशासनीष्व् इत्य् आदि ||
SK
तद् एवं व्यवसाय-आशयौ दृढी-कृत्य कारुण्यं पुरस्-कृत्य यते शुभ-वृद्धये ||
SK
यथा + उक्तम् आर्य-धर्म-संगीति-सूत्रे | अथ खल्व् अवलोकितेश्वरो बोधि-सत्वो महा-सत्वो भगवन्तम् एतद् अवोचत् | न भगवन् बोधि-सत्वेन + अति-बहुषु धर्मेषु शिक्षितव्यं | एको धर्मो भगवन् बोधि-सत्वेन स्व्-आराधितः सु-प्रतिविद्धः कर्तव्यः | तस्य सर्व-बुद्ध-धर्माः कर-तल-गता भवन्ति | कतम एक-धर्मो | यद् उत महा-करुणा | महा-करुणया भगवन् बोधि-सत्वानां सर्व-बुद्ध-धर्माः कर-तल-गता भवन्ति | तद् यथा भगवन् येन राज्ञश् चक्र-वर्तिनश् चक्र-रत्नं गच्छति | तेन सर्वो बल-कायो गच्छति | एवम् एव भगवन् येन बोधि-सत्वस्य महा-करुणा गच्छति | तेन सर्वे बुद्ध-धर्मा गच्छन्ति | तद् यथा भगवन्न् आदित्ये उदिते सत्वाः कर्म-क्रियासु प्रचुरा भवन्ति | एवम् एव भगवन् महा-करुणा यत्र + उदिता भवति तत्र + अन्य-बोधि-करा धर्माः क्रियासु प्रचुरा भवन्ति | तद् यथा भगवन् सर्वेषाम् इन्द्रियाणां मनसा + अधिष्ठितानां स्व-स्व-विषये ग्रहण-प्राचुर्यं भवति | एवम् एव भगवन् महा-करुणा-अधिष्ठितानाम् अन्येषां बोधि-कराणां धर्माणां स्वस्मिन् स्वस्मिन् करणीये प्राचुर्यं भवति | तद् यथा भगवन् जीवित-इन्द्रिये सत्य् अन्येषाम् इन्द्रियाणां प्रवृत्तिर् भवति | एवम् एव भगवन् महा-करुणायां सत्याम् अन्येषां बोधि-कराणां धर्माणां प्रवृत्तिर् भवति + इति ||
SK
आर्य-अक्षयमति-सूत्रे * अप्य् आह ||
SK
तद् यथा + अपि नाम भदन्त सारद्वतीपुत्र पुरुषस्य जीवित-इन्द्रियस्य + आश्वासाः प्रश्वासाः पूर्वं-गमाः | एवम् एव भदन्त सारद्वतीपुत्र बोधि-सत्वस्य महा-यान-समुदागतस्य महा-करुणा पूर्वं-गमाः || पे ||
SK
स्याद् यथा + अपि नाम श्रेष्ठिनो वा गृह-पतेर् वा एक-पुत्रके गुणवति मज्जा-गतं प्रेम | एवम् एव महा-करुणा-प्रतिलब्धस्य बोधि-सत्वस्य सर्व-सत्वेषु मज्जा-गतं प्रेम + इति ||
SK
कथम् एषा भावयितव्या | स्वकम् अन्-एक-विधं पूर्व-अनुभूतम् अनुभूयमानं वा दुष्खं भयं च स्व-आत्मन्य् अत्य्-अन्तम् अन्-इष्टं भावयित्वा | प्रिय-आदिषु मैत्री मैत्रीवता भावयितव्या प्रत्य्-उत्पन्न-दुष्ख-व्याधिषु महा-दुष्ख-सागर-अन्-अवधि-दीर्घ-संसार-व्यसन-अनुनीतेषु वा ||
SK
यथा + उक्तम् आर्य-दश-भूमक-सूत्रे | तस्य + एवं भवत्य् आश्चर्यं यावद् अ-ज्ञान-संमूढा वत + इमे बाल-पृथग्-जनाः | येषाम् अ-संख्येया आत्म-भावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते च | एवं च क्षीयमाणा काये न निर्-वेदम् उत्पादयन्ति | भूयस्या मात्रया दुष्ख-यन्त्रं विवर्धयन्ति | संसार-श्रोतसश् च महा-भयान् न निवर्तन्ते | स्कन्ध-आलयं च न + उत्सृजन्ति | धातु-उर-गेभ्यश् च न निर्विद्यन्ते | नन्दी-राग-अन्धाश् च न + अवबुध्यन्ते | षड्-आयतन-शून्य-ग्रामं च न व्यवलोकयन्ति | अहं-कार-मम-कार-अभिनिवेश-अनुशयं च न प्रजहन्ति | मान-दृष्टि-शल्यं च न + उद्धरन्ति | राग-द्वेष-मोह-जालं च न प्रशमयन्ति | अ-विद्या-मोह-अन्ध-कारं च न विधमयन्ति | तृष्णा-अर्णवं च न + उच्छोषयन्ति | दश-बल-स-अर्थ-वाहं च न पर्येषन्ते | मार-आशय-गहन-अनुगताश् च संसार-सागरे विविध-अ-कुशल-वितर्क-ग्राह-आकुले परिप्लवन्ते | अ-प्रति-शरणाः तथा संवेगम् आपद्यन्ते बहूनि दुष्खानि प्रत्यनुभवन्तः | यद् इदं जाति-जरा-व्याधि-मरण-शोक-परिदेव-दुष्ख-दौर्मनस्य-उपायासान् | हन्त + अहम् एषां सत्वानां दुष्ख-आर्तानाम् अ-नाथानाम् अ-त्राणानाम् अ-शरणानाम् अ-लयनानाम् अ-अ-परायणानाम् अन्धानाम् अ-विद्या-अण्ड-कोष-पटल-पर्यवनद्धानां तमो-अभिभूतानाम् अर्थाय + एको * अ-द्वितीयो भूत्वा तथा-रूप-पुण्य-ज्ञान-संभार-उपचयं बिभर्मि | यथा-रूपेण पुण्य-ज्ञान-संभार-उपचयेन संभृतेन इमे सर्व-सत्वा अभ्यन्त-विशुद्धिम् अनुप्राप्नुयुर् इति ||
SK
तथा + अत्र + एव + आह | संसार-अटवी-कान्तार-मार्ग-प्रपन्ना वत + इमे सत्वा निरय-तिर्यग्-योनि-यम-लोक-प्रपात-अभिमुखाः कु-दृष्टि-वि-षम-जाल-अनुप्राप्ताः मोह-गहन-संछन्ना मिथ्या-मार्ग-वितथ-प्रयाता | अन्धी-भूताः परिणायक-वि-कलाः || पे ||
SK
संसार-श्रोत-अनुवाहिनः तृष्णा-नदी-प्रपन्नाः | महा-वेग-ग्रस्ता | अवलोकना-अ-समर्थाः [दोउब्त्fउल्] काम-व्यापाद-विचिकित्सा-विहिंसा-वितर्क-प्रपात-अनुचरिताः | स्व-काय-दृष्ट्य्-उदक-राक्षस-गृहीताः | काम-गहन-आवर्त्त-अनुप्रविष्टाः नन्दी-राग-मध्य-संसक्ताः | अस्मि-मान-स्थल-उच्छन्नाः | अ-परायणाः | आयतन-ग्राम-अन्-उच्छलिताः | कुशल-संभारक-विरहिताः | ते * अस्माभिर् महा-कुशल-मूल-बलेन + उद्धृत्य निर्-उपद्रवे अ-रजसि शिव-सर्व-ज्ञता-रत्न-द्वीपे प्रतिष्ठापयितव्या | रुद्धा वत + इमे सत्वा बहु-दुष्ख-दौर्मनस्य-उपायास-बहुल-अनुनय-प्रतिघ-प्रिय-अ-प्रिय-विनिबन्धने स-शोक-परिदेव-अनुचरिते तृष्णा-निगड-बन्धने माया-शाठ्य-अ-विद्या-गहन-संछन्ने त्रैधातुक-चारके | ते अस्माभिः सर्व-त्रैधातुक-विवेके अ-भय-पुरे सर्व-दुष्ख-उपशमे [दोउब्त्fउल्] अन्-आवरण-निर्वाणे प्रतिष्ठापयितव्या इत्य् आदि ||
SK
एवम् एभिः परस्-पर-दृढी-कृत्यैर् व्यवसाय-आशय-कारुण्यैः पुण्य-वृद्धिम् आरभेत् | तत्र तावद् भद्र-आचार्या-विधिः कार्या वन्दना-आदिः सद्-आदरात् ||
SK
आर्य-उग्रदत्त-परिपृच्छायां हि त्रि-रात्रे त्रिर् दिवसस्य च शुचेः शुचि-वस्त्र-प्रावृतस्य च त्रि-स्कन्धक-प्रवर्तनम् उक्तं ||
SK
तत्र त्रयः स्कन्धाः पाप-देशना-पुण्य-अनुमोदना-बुद्ध-अध्येषण-आख्याः पुण्य-राशित्वात् | तत्र वन्दना पाप-देशनायाम् अन्तर्-भवति | बुद्धान् नमस्-कृत्य + उपालि-परिपृच्छायां देशना + इति कृत्वा | याचनम् अध्येषणायां एक-अर्थत्वात् | पूजा तु विभव-अ-भावाद् अ-नित्या + इति न + उक्ता | मानसी वाचसी च सूत्र-अन्तर-प्रसिद्धत्वान् न + उक्ताः | त्रयाणां तु वचनात् प्राधान्यं गम्यते | तत्र वन्दना | सर्व-बुद्धान् नमस्यामि + इति ||
SK
आर्य-अक्षयमति-सूत्रे त्व् आत्म-पर-पाप-देशना पुण्य-संभारे पठ्यते ||
SK
गाथा-चतुष्टयेन च यथा-गीतैश् च स्तोत्रैः | आर्य-भद्र-चर्या-आदि-गाथाभिर् वा पूजना च ||
SK
आर्य-रत्न-मेघे यथा + उक्तं | इह बोधि-सत्वो यानि + इमानि भवन्ति पुष्प-जातानि वा फल-जातानि वा अ-ममान्य् अ-परिग्रहाणि | तानि त्रिष्-कृत्वा रात्रौ त्रिष्-कृत्वा दिवसे बुद्ध-बोधिसत्वेभ्यो निर्यातयति || पे ||
SK
सयथि + इमे [दोउब्त्fउल्] धूप-वृक्षा वा गन्ध-वृक्षा वा रत्न-वृक्षा वा कल्प-वृक्षा वा अ-ममा अ-परिग्रहास् तान् अपि त्रिष्-कृत्वा रात्रौ त्रिष्-कृत्वा दिवसे बुद्ध-बोधिसत्वेभ्यो निर्यातयति + इति ||
SK
आर्य-त्रि-समय-राजे * अपि स्थल-जा रत्न-पर्वताः | जल-जा रत्न-पर्वता स्थल-जल-जानि रत्नानि दश-दिग्-अवस्थितानि | अ-ममान्य् अ-परिग्रहाणि देयानि + इत्य् उक्तं ||
SK
अनया च दिशा सर्व-भैषज्यानि सर्व-रसायनानि सर्व-सलिलानि अन्-अवद्यानि अप्-मण्डलानि | सर्व-काञ्चन-मण्डलानि | विवृत्तेषु वा लोक-धातुषु ये परम-रस-स्पर्श-संपन्ना भू-पर्पटकाः | अ-मृत-लता | अ-कृष्ट-उप्ता वा शालयः | सर्व-उत्तर-कुरु-द्वीपेषु | परिशुद्धेषु च लोक-धातुषु ये रमणीयतराः परिभोगाः ||
SK
यथा च + आर्य-रत्न-मेघे एव + आह | स यानि + इमानि सूत्र-अन्तेषु + उदार-उदाराणि तथा-गत-पूजा-उपस्थानानि शृणोति | तान्य् आशयतस् तीव्रेण + अध्याशयेन बुद्ध-बोधिसत्वेभ्यः परिणामयति + इति | तथा | स विविधानि पूजा-उपस्थानानि अनुविचिन्तयति + इति ||
SK
देशना पूर्व-उक्ता + इव | आर्य-अक्षयमति-सूत्रे त्व् आत्म-पर-पाप-देशना पुण्य-संभारे पठ्यते | अनुमोदना भद्र-चर्या-गाथया | चन्द्र-प्रदीप-अनुमोदना-परिवर्तेन वा | अध्येषणा भद्र-चर्यया + एव | परिणामना तु सकल-समाप्ता + आर्य-भद्र-चर्यया + एव | वज्र-ध्वज-परिणामनां वा पश्येत् ||
SK
अथ-वा दश-भूमक-उक्तानि महा-प्रणिधानानि | यथा + आह | यद् उत + अ-शेष-निः-शेष-अन्-अवशेष-सर्व-बुद्ध-पूजा-उपस्थापनाय | सर्व-आकार-वर-उपेतम् उदार-अधिमुक्ति-विशुद्धं धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं | महा-पूजा-उपस्थानाय | प्रथमं महा-प्रणिधानम् अभिनिर्हरति ||
SK
यद् उत सर्व-तथा-गत-भाषित-धर्म-नेत्री-संधारणाय सर्व-बुद्ध-बोधि-सत्व-परिग्रहाय | सर्व-सम्यक्-संबुद्ध-शासन-परिरक्षणाय | धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं | सर्व-संकल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं | सद्-धर्म-परिग्रहाय | द्वितीयं महा-प्रणिधानम् अभिनिर्हरति ||
SK
यद् उत सर्व-बुद्ध-उत्पाद-निर्-अवशेष-सर्व-लोक-धातु-प्रसरेषु | तुषित-भवन-वासम् आदिं कृत्वा च्यवन-आचङ्क्रमण-गर्भ-स्थिति-जन्म-कुमार-क्रीडा-अन्तः-पुर-वास-अभिनिष्क्रमण-दुष्-कर-चर्या-बोधि-मण्ड-उपसंक्रमण-मार-धर्षण-अभिसंबोध्य्-अध्येषण-महा-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-उपसंक्रमणाय | पूजा-धर्म-संग्रह-प्रयोग-पूर्वं-गमं कृत्वा सर्व-त्रैकाल-विवर्तनाय | धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-बुद्ध-उत्पाद-संख्या-प्रतिप्रस्रब्धं यावन् महा-परिनिर्वाण-उपसंक्रमणाय | तृतीयं महा-प्रणिधानम् अभिनिर्हरति ||
SK
यद् उत सर्व-बोधि-सत्व-चर्या-विपुल-महद्-गत-अ-प्रमाण-अ-संभिन्न-सर्व-पारमिता-सु-संग्रहीतः | सर्व-भूमि-परिशोधनं स-अङ्ग-उपाङ्ग-निर्हारं यावत् स-लक्षण-वि-लक्षण-संवर्त-विवर्त-सर्व-बोधि-सत्व-चर्या-भूत-यथा-वद् भूमि-पथ-उपदेश-पारमिता-परिकर्म-अववाद-अनुशासन्य्--अनुप्रदान-उपस्तम्भ-चित्त-उत्पाद-अभिनिर्हाराय | धर्म-ध-तु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं चित्त-उत्पाद-अभिनिर्हाराय | चतुर्थं महा-प्रणिधानम् अभिनिर्हरति ||
SK
यद् उत निर्-अवशेष-सर्व-सत्व-धातु-रूप्य्-अ-रूपि-संज्ञा-संज्ञि न + एव संज्ञि न + अ-संज्ञ्य् अण्ड-ज-जरायु-ज-संस्वेद-ज-औपपादुक-त्रैधातुक-पर्यापन्न-षड्-गति-समवसृत-सर्व-उपपत्ति-पर्यापन्न-नाम-रूप-संगृहीत-अ-शेष-सर्व-सत्व-धातु-परिपाचनाय | सर्व-बुद्ध-धर्म-अवतारणाय | सर्व-गति-संख्या-व्यवच्छेदनाय | सर्व-ज्ञ-ज्ञान-प्रतिष्ठापनाय | धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-सत्व-धातु-संख्या-प्रतिप्रस्रब्धं |सर्व-सत्व-धातु-परिपाचनाय | पञ्चमं महा-प्रणिधानम् अभिनिर्हरति ||
SK
यद् उत निर्-अवशेष-सर्व-लोक-धातु-विपुल-संक्षिप्त-महद्-गत-अ-प्रमाण-सूक्ष्म-औदारिक-व्यत्यस्त-अवमूर्द्ध-सम-तल-प्रवेश-समवसरण-अनुगत-इन्द्र-जाल-विभाग-दश-दिग्-अ-शेष-वैमात्र्य-प्रवेश-विभाग-ज्ञान-अनुगम-प्रत्यक्षतायै | धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं सर्व-कल्प-संख्या-लोक-धातु-संख्या-प्रतिप्रस्रब्धं लोक-धातु-वैमात्र्य-अवतारणाय | षष्ठं महा-प्रणिधानम् अभिनिर्हरति ||
SK
यद् उत सर्व-क्षेत्र-एक-क्षेत्र एक-क्षेत्र सर्व-क्षेत्रै-समवशरण-परिशोधनं [दोउब्त्fउल्] | अ-प्रमाण-बुद्ध-क्षेत्र प्रभा-व्यूह-अलं-कार-प्रतिमण्डितं | सर्व-क्लेश-अपनयन-परिशुद्धि-पथ-उपेतं | अ-प्रमाण-ज्ञान-आकार-सत्व-परिपूर्णम् उदार-बुद्ध-विषय-समवसरणं | यथा-आशय-सर्व-सत्व-संदर्शन-संतोषणाय | धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं |सर्व-कल्प-संख्या-बुद्ध-क्षेत्र-संख्या-प्रतिप्रस्रब्धं |सर्व-बुद्ध-क्षेत्र-परिशोधनाय |सप्तमं महा-प्रणिधानम् अभिनिर्हरति ||
SK
यद् उत सर्व-बोधि-सत्व-एक-आशय-प्रयोगतायै | निः-सपत्न-कुशल-मूल-उपचयाय | एक-आरम्बण-सर्व-बोधि-सत्व-समतायै | अ-विरहित-सतत-समित-बुद्ध-बोधि-सत्व-समवधानाय | यथा-इष्ट-बुद्ध-उत्पाद-संदर्शनाय | स्व-चित्त-उत्पाद-तथा-गत-प्रभाव-ज्ञान-अनुगमाय | अ-च्युत-अनुगामिन्य्--अभिज्ञा-प्रतिलम्भाय | सर्व-लोक-धात्व्-अनुविचरणाय सर्व-पर्षन्-मण्डल-प्रतिभास-प्राप्तये | सर्व-उपपत्ति-स्व-शरीर-अनुगमाय | अ-चिन्त्य-महा-यान-उपेततायै | बोधि-सत्व-चर्या-चरण-अ-व्यवच्छेदाय | धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं | सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं | महा-यान-अवतारणाय | अष्टमं महा-प्रणिधानम् अभिनिर्हरति ||
SK
यद् उत + अ-विवर्त्य-चक्र-समारूढ-बोधि-सत्व-चर्या-चरणाय | अ-मोघ-काय-वाङ्-मनस्-करेण | सह-दर्शन-नियत-सर्व-बुद्ध-धर्म-प्रतिलम्भाय | सह-घोष-उदाहार-ज्ञान-अनुगमाय | सह-प्रसाद-क्लेश-विवर्तनाय | महा-भैषज्य-राज-उपम-आश्रय-प्रतिलम्भाय | चिन्ता-मणि-वत् काय-प्रतिलम्भाय | सर्व-बोधि-सत्व-चर्या-चरणाय | धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं | सर्व-कल्प-संख्या-चर्या-संख्या-प्रतिप्रस्रब्धं |अमोघ-घोषतायै | नवमं महा-प्रणिधानम् अभिनिर्हरति ||
SK
यद् उत सर्व-लोक-धातुष्व् अन्-उत्तर-सम्यक्-संबोध्य्-अभिसंबोधनाय | एक-वाल-पथ-अ-व्यतिवृत्त-सर्व-बाल-पृथग्-जन-जन्म-उपपत्त्य्-अभिनिष्क्रमण-विकुर्वण-बोधि-मण्ड-धर्म-चक्र-प्रवर्तन-महा-परिनिर्वाण-उपदर्शनाय | महा-बुद्ध-विषय-प्रभाव-ज्ञान-अनुगमाय | सर्व-सत्व-धातु-यथा-आशय-बुद्ध-उत्पाद-क्षण-क्षण-अवबोध-प्रशम-प्रापण-संदर्शनाय | एक-अभिसंबोधि-सर्व-धर्म-धातु-निर्माण-स्फरणाय | एक-घोष-उदाहार-सर्व-सत्व-चित्त-आशय-संतोषणाय | महा-परिनिर्वाण-उपदर्शन-चर्या-बल-अ-व्युपच्छेदाय | महा-ज्ञान-भूमि-सर्व-धर्म-व्युत्थापन-संदर्शनाय | धर्म-ज्ञान-ऋद्धि-माया-अभिज्ञा-सर्व-लोक-धातु-स्फरणाय | धर्म-धातु-विपुलम् आकाश-धातु-पर्यवसानम् अ-पर-अन्त-कोटी-निष्ठं | सर्व-कल्प-संख्या-अभिसंबोधि-संख्या-प्रतिप्रस्रब्धं | महा-यान-अभिनिर्हाराय | दशमं महा-प्रणिधानम् अभिनिर्हरति + इति ||
SK
एतच् च भावयन् सर्वत्र परिणामयामि + इति योज्यं ||
SK
आर्य-अवलोकितेश्वर-विमोक्षे च यद् उक्तं तद् अप्य् एवं योज्यं | एतत् कुशल-मूलं सर्व-सत्व-प्रपात-भय-विगमाय परिणामयामि | सर्व-सत्वान् सान्तानिक-भय-प्रशमनाय | सर्व-सत्व-संमोह-भय-विनिवर्तनाय परिणामयामि | सर्व-सत्व-बन्धन-भय-समुच्छेदाय | सर्व-सत्व-जीवित-उपरोध-उपक्रम-भय-व्यावर्तनाय | सर्व-सत्व-उपकरण-वैकल्य-भय-अपनयनाय | सर्व-सत्व-आजीविका-भय-व्युपशमनाय | सर्व-सत्व-अ-श्लोक-भय-समतिक्रमणाय परिणामयामि | सर्व-सत्व-सांसारिक-भय-उपशमनाय | सर्व-सत्व-पर्षच्-छारद्य-भय-विगमाय | सर्व-सत्व-मरण-भय-व्यतिक्रमाय | सर्व-सत्व-दुर्-गति-भय-विनिवर्तनाय | सर्व-सत्व-तमो-अन्ध-कार-वि-षम-गत्य्-अ-प्रत्युदावर्तन-अवभास-करणाय परिणामयामि | सर्व-सत्वानां वि-सभाग-समवधान-भय-अभ्यन्त-विगमाय | सर्व-सत्व-प्रिय-वि-प्रयोग-भय-निरोधाय | सर्व-सत्व-अ-प्रिय-संवास-भय-अपनयनाय | सर्व-सत्व-काय-परिपीडा-भय-विसंयोगाय | सर्व-सत्व-चित्त-परिपीडन-भय-निर्मोक्षणाय | सर्व-सत्व-दुष्ख-दौर्मनस्य-उपायास-समतिक्रमणाय परिणामयामि + इति ||
SK
संक्षेपतः पुनर् इयम् अन्-उत्तरा परिणामना या + इयम् आर्य-भद्र-चर्या-गाथायां | मञ्जुशिरी यथ जानति शूरः सो च समन्तत भद्र तथ + एव | तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वं ||
SK
सर्व-त्रिय्-अध्व गतेभि जिनेभिर् या परिणामन वर्णित अग्रा | ताय अहं कुशलं इमु सर्वं नामयमी वर-भद्र-चरीये | इति ||
SK
इति शिक्षा-समुच्चये भद्र-चर्या-विधिः षोडशमः परिच्छेदः समाप्तः ||
SK
[XVII. वन्दनाद्यनुशंसा]
SK
वन्दना-अनुशंसाः सप्तदशः परिच्छेदः ||
SK
उक्तो वन्दना-आदि-विधिः | तेन पुण्य-वृद्धिर् भवति + इति कुतो गम्यते ||
SK
आर्य-अवलोकन-सूत्रात् | एवं हि तत्र + उक्तं | वर्जयत्य् अ-क्षणान्य् अष्टौ यए इमे देशिता मया | क्षणं च + आरागयत्य् एकं बुद्ध-उत्पादं सु-शोभनं ||
SK
वर्णवान् रूप-संपन्नो लक्षणैः समलं-कृतः स्थाम्ना बलेन च + उपेतो न + असौ कौसीद्यम् ऋच्छति [दोउब्त्fउल्] ||
SK
आढ्यो महा-धनश् च + असौ अ-धृष्यः पुण्यवान् अपि | आराग्य लोक-प्रद्योतं सत्-करोति पुनः पुनः ||
SK
श्रेष्ठी-कुलेषु स्फीतेषु स आढ्येषु + उपपद्यते | भवेद् दान-पतिः शूरो मुक्त-त्यागो ह्य् अ-मत्सरी ||
SK
राजा भवेद् धार्मिको * असौ चतुर्-द्वीप-ईश्वरः प्रभुः | प्रशासयेन् महीं कृत्स्नां समुद्र-गिरि-कुण्डलाम् ||
SK
मह-र्द्धिकश् चक्र-वर्ती सप्त-रत्न-समन्वितः | राज्ये प्रतिष्ठितो बुद्धान् सत्-करोति पुनः पुनः ||
SK
श्च्युत/ च + अस्माद् गतः स्वर्गं प्रसन्नो जिन-शासने | शक्रो भवति देव-इन्द्रः ईश्वरो मरु-मूर्द्धनि ||
SK
न शक्यं भाषता वर्णं क्षपयितुं कल्प-कोटिभिः | य स्तूपं लोक-नाथस्य नरः कुर्यात् प्रदक्षिणम् ||
SK
न जातु सो * अन्धः खञ्जो वा कल्पानाम् अपि कोटिभिः | उत्पाद्य बोधि-चित्तं यः शास्तु स्तूपं हि वन्दते ||
SK
दृढ-वीर्यो दृढ-स्थामो वीरश् च दृढ-विक्रमः | कौशल्यं गच्छति क्षिप्रं कृत्वा स्तूप-प्रदक्षिणम् ||
SK
यो बुद्ध-कोटि-नियुत-शत-सहस्रान् कल्पान् कोटी च तुलिय सत्-करया | यश् च + इह कल्पे चरमक घोर-काले वन्देय स्तूपं बहुतर तस्य पुण्यम् ||
SK
अग्रो हि बुद्धो * अ-तुलिय दक्षिणीयो * अग्रां चरित्वा चरिय-विशेष प्राप्तः | तस्य + इह पूजां करिअ नर-रिषभस्य विपाक श्रेष्ठो भवति अ-तुल्य-रूपः ||
SK
इतश् च्युत्वा मनुष्येभ्यस् त्रायस्त्रिंशेषु गच्छति | विमानं लभते तत्र विचित्रं रतनाम् अयम् ||
SK
कूट-आगारं स्वयं दत्वा अप्सरो-गण-सेवितः | मालां स्तूपे संप्रदाय त्रायस्त्रिंशेषु जायते ||
SK
अष्ट-अङ्ग-जल-संपूर्णां सुवर्ण-सिकत-आस्त्रिताम् | वैडूर्य-स्फटिकैश् च + एव दिव्यां पुष्करिणीं लभेत् ||
SK
भुक्त्वा च तां रतिं दिव्यां आयुः संपूर्य पण्डितः | च्युत्वा च देव-लोकात् स मनुष्यो भवति भोगवान् ||
SK
जाति-कोटि-सहस्रणि शतानि नियुतानि च | सत्-कृतः स्याच् च सर्वत्र चैत्ये मालां प्रदाय च ||
SK
चक्र-वर्ती च राजा + असौ शक्रश् च भवति + ईश्वरः | ब्रह्मा च ब्रह्म-लोकस्मिन् चैत्ये मालां प्रदाय च ||
SK
पट्ट-प्रदान दत्वा तु लोक-नाथस्य तायिनः | सर्वे * अस्य + अर्थाः समृध्यन्ति ये दिव्या ये च मानुषाः ||
SK
त्यजेद् * धीनान् अ-कुशलान् न स तत्र + उपपद्यते | माला-विहारं कृत्वा च लोक-नाथस्य धातुषु | अ-भेद्य-परिवारेण राजा भूयान् मह-र्द्धिकः ||
SK
प्रियः सदयितश् च + असौ सत्-कृतश् च प्रशंसितः | दवानाम् अथ नागानां ये लोकेस्मिंश् च पण्डिताः ||
SK
यत्र + असौ जायते वीरः पुण्य-तेजः-सु-दीपितः | ते कुलाः सत्-कृता भोन्ति राष्ट्राणि नगराणि च ||
SK
यः सर्षपात् सूक्ष्मतरं गृहीत्वा धूपेय धूपं भगवति चैत्यकेषु | तस्य + अनुशंसान् शृणुत प्रभाषतो मे प्रसन्न-चित्ता जहिय खिलां मलांश् च ||
SK
स पुण्यवांश् चरति दिशः समन्ताद् आरोग्य-प्राप्तो दृढ-मतिर् अ-प्रमत्तः | विनेति शोकं विचरति चारिकायां प्रियो मनापो भवति महा-जनस्य ||
SK
राज्यं च लब्ध्वा जिन वरु सत्-करोती महा-अनुभावो विदु चक्र-वर्ती | सुवर्ण-वर्णो विचित्र-लक्षणैः स मनो-ज्ञ-गन्धान् लभि सर्व-लोके ||
SK
जात-मात्रो लभते श्रेष्ठ-वस्त्रान् दिव्य-विशिष्ट-सु-रुचिर-कौशिकांश् च | भोती सुख-सु-कायः संवेष्ट्य-स्तूपं नाथस्य चीवरैः | यश् चीवरेण चैत्येषु कुर्यात् पूजाम् अ-तुलां नायकानां | तस्य + इह भोती अ-सदृशु आत्म-भावो द्वात्रिंशतीभिः कवचित लक्षणेभिः | पाणी-तलेषु सु-रुचिरु मुक्त-हाराः प्रादुर्-भवन्ती विविध अन्-अन्त-कल्पाः | सिंह-लताः सु-रुचिर-वर्ण-सूत्रा वेठित्व स्तूपं भगवत चीवरेभिः ||
SK
दत्वा पताकां भगवत चेतिकेषू छन्दं जनित्वा तथ सिय बुद्ध-लोके | स पूजनीयो भवति महा-जनस्य चरन्तु श्रेष्ठो जिन-चारिकाये ||
SK
सुवर्ण-वर्णो भवति सि आत्म-भावो लाभी स भोती सु-रुचिर-चीवराणां | कर्पासिकानां सु-सहित कम्बलानां दु-कूलकानां तथ वर-कौशकानां ||
SK
ध्वजं ददित्वा हत-रजि सत्व-सारे धनं प्रभूतं प्रतिलभि न चिरेण | प्रभूत-कोषो भवति अन्-अन्त-प्रज्ञो परिचारु तस्य भवत्य् अ-दीन-चित्तः | न चित्त-शूलं जनयति सो परस्य प्रसाद-चित्तः सद अ-प्रमत्तः | न तस्य अग्निः क्रमति विषन्न-शस्त्रं उद्वीक्षणीयो भवति महा-जनस्य ||
SK
अधो उपादाय च विभव-अग्रु यावत् जाम्बूनदं तेन भवति बुद्ध-क्षेत्रं | शक्यं क्षयेतुं आयु-श्रिय एव-रूपा न बुद्ध-स्तूपे धरयत एक दीपम् ||
SK
न तस्य कायो भवति अ-वर्णित-अङ्गो दृढ-असु भोती परिघ-भुजो * अ-छम्भी | आलोक-प्राप्तो [दोउब्त्fउल्] विचरति सर्व-लोके ददित्व दीपं भगवत चेतिकेषु ||
SK
यदि बुद्ध-क्षेत्रा नियुत-शता सहस्रा भवेयु पूर्णा शिख-गत-सर्षपेभिः | शक्यं गणेतुं तुलयितु भाषितुं वा न तथा-गतेषू धरयितु एक-दीपम् ||
SK
अलङ्-करित्वा सु-रुचिर-दर्शनीयं यो देति छत्रं भगवत चेतिकेषु | तस्य + इह भोत्य् अ-सदृश आत्म-भावो द्वात्रिंशतीभिः कवचित लक्षणेभिः ||
SK
येभिर् जिनस्य प्रतपत आत्म-भावो रूपं विशिष्टं यथ-र्-इव [दोउब्त्fउल्] काञ्चनस्य | जाम्बूनदो वा सु-रुचिर-दर्शनीया अभिकीर्ण ... कुसुमित लक्षणेभिः ||
SK
अभिज्ञ-प्राप्तो भवति महा-यश-आख्यः चरति श्रेष्ठ-आवर-चारिकायां | न भोग-हानिर् भवति कदा-चिद् अस्य देवान भोति गुरु-कृत पूजितश् च ||
SK
न काम-भोगौ रमति कदा-चि धीरो विशुद्ध-शीलः स-कुशल-ब्रह्म-चर्यः |समादयित्वा वन्-उपवने उषित्वा + अभियुक्ति-ध्यानो भवति विशेष-प्राप्तः ||
SK
न ज्ञान-हानिर् भवति कदा-चिद् अस्य न बोधि-चित्तं विजहति सो कथञ्-चित् | मैत्री-विहारी भवति अ-दीन-चित्तो दत्वा + इह छत्त्रं भगवत-चेतिकेषु ||
SK
वाद्येन पूजां नर-वृषभस्य कृत्वा न शोक शल्य-वश जातु भोति | मनो-ज्ञ-घोषो भवति मनुष्य-लोके स्वर-अङ्गु तस्य + अ-वि-कल विशुद्ध भोति ||
SK
विशुद्ध-चक्षुर् भवति स संप्रजन्यो विशुद्ध-श्रोत्रो भवति उदग्र-चित्तः | घ्रण-इन्द्रियं परम उत्तप्त भोति वादित्व वाद्यं भगवत चेतिकेषु ||
SK
जिह्वा + अस्य भोति सु-रुचिर दर्शनीया सु-सूक्ष्म मृद्वी रुचिर मनो-ज्ञ घोषा | रक्ता प्रवाला यथ-र्-इव [दोउब्त्fउल्] देवतानां स्वर-अङ्ग कोटी-वर सृजते * अ-प्रमेयां ||
SK
न जातु भोती उर-गु अ-जिह्वको वा न खञ्ज-कुब्जो न + अपि च नामित-अङ्गः | विशिष्ट भोती सु-रुचिर आत्म-भावो वादित्व वाद्यं भगवत चेतिकेषु ||
SK
न जातु कश्-चिज् जनये प्रसादं देवो च नागो मनु-ज महा-उर-गो वा | आश्वास-प्राप्तो विचरति सर्व-लोके वादित्व वाद्यं भगवत चेतिकेषु ||
SK
कल्पान कोटी-नियुत-शता सहस्रं विशिष्ट-कायो भवति अ-निन्दित-अङ्गः | प्रासादिको * असौ कवचित लक्षणेभिः संशोध्य स्तूपं भगवत निर्वृतस्य ||
SK
विमान-श्रेष्ठं लभति मनो-ज्ञ-गन्धं दिव्यं विशिष्टं सु-रुचिर-चन्दनस्य | न जातु तृष्णां जनयति सो कदा-चित् संशोध्य स्तूपं भगवत निर्वृतस्य ||
SK
प्रलोप-काले जिन-वर-शासनस्मिन् न जातु भोती उपगत जम्बु-द्वीपे | स्वर्गे स भोति प्रतिष्ठित तस्मि काले गन्ध-अनुलेपं ददिय जिनस्य स्तूपे ||
SK
दुर्-गन्धि-कामान् अ-शुचि-जुगुप्सनीयान् वर्जेति नित्यं प्रतिष्ठित शील-स्कन्धे | चरी स नित्यम् इमु वर ब्रह्म-चर्यं गन्ध-अनुलेपं करिय जिनस्य स्तूपे ||
SK
इतश् च्युतो * असौ मरु-पति स्वर्ग-लोके अर्थं सहस्रा तुलयति न + उ चिरेण | करोति च + अर्थं सु-विपुल-देवतानां गन्ध-अनुलेपं करिय जिनस्य स्तूपे ||
SK
विशिष्ट-वाक्यो भवति मनो-ज्ञ-घोषः प्रियो मनापो बहु-जन-सत्-कृतश् च | सुखं च तस्य भवति सदा प्रसन्नं गन्ध-अनुलेपं करिय जिनस्य स्तूपे ||
SK
अपाय-भूमिं ... विजहात्य् अ-शेषां आसन्नको भवति तथा-गतानां | प्रसाद-लब्धः सद सुखि प्रेमणीयो गन्ध-अनुलेपं करिय जिनस्य स्तूपे ||
SK
सो * अ-क्षणं वै विजहाति सर्वं अष्ट क्षणाश् च + अस्य विशिष्ट भोन्ति | बुद्धान पूजाम् अ-तुलिय सो करोति छोरित्व जालं भगवत चेतिकेषु ||
SK
शूरश् च भोति दृढ-मतिर् अ-प्रमत्तो न काम-भोगे * अभिरतिं जनेति | नैष्क्रम्य-प्राप्तौ च अ-दीन-चित्तः छोरित्व जालं भगवत चेतिकेषु ||
SK
न बोधि-चित्तं प्रमुष्यति तस्य जातु अ-खण्ड-शीलो * अस्ति सु-संवृतश् च | धर्मं वि-रागं लभते विशुद्धं उपनीय जालं भगवत चेतिकेषु ||
SK
दुर्-वाचतां विजहति सर्व-कालं प्रज्ञा-अ-भावं च जहात्य् अ-शेषम् |विशाल-प्रज्ञो विहरति चारिकायां उपनीय जालं भगवत चेतिकेषु ||
SK
लाभी च भोती शुचि-भोजनानां वस्त्रान् विशिष्टान् लभते सुवर्णान् | स्पर्श-अभ्युपेतान् रुचि-दर्शनीयान् उपनीय जालं जिन-चेतिकेभ्यः ||
SK
अभ्युत्क्षिपित्वा जिन-चेतिकेभ्यः निर्-माल्य-शुष्कं प्रमुदित-वेग-जातः | व्रजेत कामान् दुःख-द-वैर-घोरान् आरागयेद् दश-बल-स-अर्थ-वाहान् ||
SK
प्रासादिको भोति विशुद्ध-कायः उद्वीक्षणीयो बहु-जन-पूजनीयः | न तस्य राजा + अपि प्रदुष्ट-चित्तः यो जीर्ण-पुष्पान् अपनेय चैत्ये ||
SK
कु-मार्ग सर्वं पिथित अपाय-भूमिः स शील-स्कन्धे स्थित बोधि-सत्वः | अवतारयित्वा जिन-चेतिकेभ्यः पुष्पं च प्राग् अन्य-नरैः प्रदत्तं ||
SK
शोकांश् च दोषान् विजहात्य् अ-मत्तो रोगान् अ-शेषान् विजहात्य् अन्-एकान् | आश्वास-प्राप्तश् च अन्-अन्त-कल्पान् यो जीर्ण-पुष्पान् अपनेति चैत्ये ||
SK
बुद्धश् च भोत्य् अ-सदृश-दक्षिणीयो * अ-तुल्य-प्राप्तो नर-मरु-पूजनीयः | अलं-कृतो भवति विशुद्ध-कायः यो जीर्ण-पुष्पान् अपनेति चैत्ये ||
SK
दद्याच् च यः सु-रुचिर-दिव्य पुष्पं मान्दारवान् अप्य् अथ पाटलं वा | निर्-माल्यकं यो * अपनयेत चैत्ये विपाक श्रेष्ठो * अस्य भवेद् अ-तुल्यः ||
SK
यः प्राञ्जलिः प्रणमति नाथ-स्तूपं छन्दं जनित्वा च स-बुद्ध-लोके | सो भोति लोके गुरु-कृतु सत्-कृतश् च प्रासादिको भवति सु-दर्शनीयः ||
SK
तस्य + इह राज्यं निपतति सर्व-लोको देव-असुरा नाग-मनुष्यकाश् च | सर्वाः सहस्राः कुसुमित लोक-धातुः प्रशास्ति राज्ञो वश ईश्वरांश् च ||
SK
ये तस्य राज्ये स्थित भोन्ति सत्वाः स्थापेय सर्वान् अ-कलुष-बुद्ध-ज्ञाने | अपाय-भूम्यस् त्यक्ता भवन्ति करोति च + एषां परम-सु-श्रेष्ठम् अर्थम् ||
SK
परिचारो * अस्य भवति मनो-ज्ञ-घोषः पुण्यैर् उपेतः स्मृति-मति-पूजनीयः | आश्वास-प्राप्तो विचरति जीव-लोके सदा + अभिप्रायं जनयति श्रेष्ठ-प्रीतिं ||
SK
परिचार भोत्य् अस्य स्वर-अङ्ग शुद्धः ज्ञायेत सत्वैर् मधुर-प्रशान्त-वाक्यो | न तस्य कश्-चिज् जनयति च + ईश्वरत्वं विलोकनीयो भवति महा-जनस्य | दान-प्रमोदं प्रियता-अर्थ-चर्यां समान-अर्थतां जनयति महा-जनस्य | आक्रुष्टः सन् न + आजनयेत रोषं यः प्राञ्जलिः प्रणमति बुद्ध-स्तूपं ||
SK
देव-इन्द्र भोत्य् उपगत-स्वर्ग-लोके मनुष्यको भवति नरस्य राजा | न पारिहाणिर् भवति कदा-चिद् अस्य यो * अञ्जलीभिर् नमति + इह स्तूपं ||
SK
न + असाव् अपाये प्रपतेत जातु हीनांश् च वर्जेत स काम लोके | आढ्यो धनी भोति प्रभूत-कोषो यो * अञ्जलीभिर् नमति बुद्ध-स्तूपम् ||
SK
सूत्र-अन्त-चर्या न कदा-चिद् अस्य न + अ-स्थान-कोपं कुरुते नृ-लोके | सत्वाश् च तृप्ता मुदिता + अस्य भोन्ति यः संप्रमुञ्ची गुणवति एक-वाचं ||
SK
यः पुष्प-मुष्टिं गृहीत्वा + उदग्र-चित्तः प्रसादतो * अवकिरति लोक-नाथे | स पुण्यवान् भवति मनुष्य-लोके राक्षे च स्थित्वा जिन सत्-करोति ||
SK
शोका न दोषाः खिल-मल न + अस्य भोन्ति अ-तुल्यता-आप्तश् च सु-संस्थित-अङ्गः | आलोकनीयश् च महा-जनस्य व्रजेत कामान भय-कर-वैर-घोरान् | इति ||
SK
आर्य-महा-करुणा-पुण्डरीक-सूत्रे * अप्य् उक्तं |तिष्ठतु तावद् आनन्द यो मां संमुखं सत्-कुर्यात् | तिष्ठतु मे शरीरस्य पूजा सर्षप-फल-म-त्रेषु धातुषु | तिष्ठतु माम् उद्दिश्य कृतेषु स्तूपेषु सत्-कारः | ये के-चिद् आनन्द बुद्धम् आलम्ब्य + अन्तश एक-पुष्पम् अप्य् आकाशे क्षेप्स्यन्ति | तस्य पुण्य-स्कन्धस्य यो विपाकः सचेद् यावान् अन्-आदिः संसारो यस्य पूर्वा कोटिर् न प्रज्ञायते | तावतः कल्पान् संसरतां तेषां शक्रत्वं ब्रह्मत्वं चक्र-वर्तित्वं | न शक्यस् तत्-पर्यन्तो * अधिगन्तुम् | तिष्ठतु बुद्ध-आलम्बता + अन्तश आकाशे * अप्य् एक-पुष्प-निक्षेपः | सचेद् अन्तशः स्वप्न-अन्तर-गता अपि सत्वा बुद्धम् आलम्ब्य + आकाशे एक-पुष्पम् अपि क्षेप्स्यन्ति तद् अप्य् अहं कुशल-मूलं निर्वाण-पर्यवसानं वदामि + इति ||
SK
उक्तं च + आर्य-बृहत्सागर-नाग-राज-परिपृच्छायां | अष्टाभिर् भुज-ग-अधिपते धर्मैः समन्वागता बोधि-सत्वाः सतत-समितं बुद्ध-समवधानं प्रतिलभन्ते | कतमैर् अष्टाभिः | बुद्ध-बिम्ब-दर्शन-सत्व-समादापनतया | तथा-गतस्य + उपस्थान-करणतया | तथा-गतस्य + अभीक्ष्णं वर्ण-भाषणतया | तथा-गत-प्रतिमा-करणतया | तथा-गत-दर्शन-सर्व-सत्व-समादापनतया | यत्र च बुद्ध-क्षेत्रे तथा-गत-श्रवं शृण्वन्ति तत्र प्रणिधानम् उत्पादयन्ति | न च + अवलीन-संततयो भवन्ति | उदार-संततिकाश् च बुद्ध-ज्ञानम् अभिलषन्तए इति ||
SK
किं पुनः पुण्य-वृद्ध्य्-अर्थिनो बुद्ध-समवधानेन प्रयोजन-भूतं | यस्य गुण-पर्यन्तम् अ-सर्व-ज्ञो न + अधिगच्छेत् ||
SK
यथा + आर्य-गण्ड-व्यूहे संवर्णितं | सु-दुर्-लभो बुद्ध-शब्दः कल्प-कोटि-शतैर् अपि | किं पुनर् दर्शनं सर्व-काङ्क्षा-च्छेदनम् उत्तमम् ||
SK
सु-दृष्टो लोक-प्रद्योतः सर्व-धर्म-गतिं गतः | पुण्य-तीर्थं त्रैलोकस्य सर्व-सत्व-विशोधनम् ||
SK
महत् पुण्यम् अयं क्षेत्रं मुदितं ज्ञान-मण्डलं | भासयत्य् अभितं लोकं पुण्य-स्कन्ध-विवर्द्धनम् ||
SK
छेदनो दुष्ख-जालस्य ज्ञान-स्कन्ध-विशोधनः | न दुर्-गति-भयं तेषां यैर् इह + आरागितो जिनः ||
SK
विपुलं जायते चित्तं पश्यतां द्वि-पद-उत्तमं | प्रज्ञा-बलम् अ-संख्येयं जायते च प्रभास्वरं ||
SK
पुनर् अत्र + एव + आह | अर्थाय सर्व-सत्वानाम् उत्पद्यन्ते तथा-गताः | महा-कारुणिका वीरा धर्म-चक्र-प्रवर्तकाः ||
SK
प्रतिकर्तुं कथं शक्यं बुद्धानां सर्वे-देहिभिः | सत्व-अर्थेष्व् अभियुक्तानां कल्प-कोटि-शतैर् अपि ||
SK
कल्प-कोटिं वरं पक्तुं त्र्य्-अपाये भृश-दारुणे | न त्व् एव + अ-दर्शनं शास्तुः सर्व-सर्ग-निवर्तिनः ||
SK
यावन्तः सर्व-लोकस्मिन्न् अपाय-गतयः पृथक् | वरं तत्र चिरं वासो बुद्धानाम् अ-श्रुतिर् न च ||
SK
किं कारणम् अपायेषु निवासश् चिरम् इष्यते | यत्-कारणं जिन-इन्द्रस्य दर्शनं ज्ञान-वर्धनम् ||
SK
छिद्यन्ते सर्व-दुष्खाणि दृष्ट्वा लोक-ईश्वरं जिनं | संभवत्य् अवतारश् च ज्ञाने संबुद्ध-गो-चरे ||
SK
क्षपयत्य् आवृतीः सर्वा दृष्ट्वा बुद्धं नर-उत्तमम् | वर्धयत्य् अ-मितं पुण्यं येन बोधिर् अवाप्यतए | इति ||
SK
तद् एवम् अस्ति पुण्य-वृद्धौ बुद्ध-समवधानेन प्रयोजनं |अपि च प्रतिमा-मात्र-दर्शनम् अपि तावद् अ-परिमित-फलं तथा-गतानां | किं पुनः स्व-रूपेण ||
SK
उक्तं ह्य् आर्य-श्रद्धा-बल-आधान-अवतार-मुद्रा-सूत्रे | यः कश्-चिन् मञ्जुश्रीः कुल-पुत्रः कुल-दुहिता वा सर्व-लोक-धातु-रज-उपमानां प्रत्य्-एक-बुद्धानां दिने दिने शत-रसम् आहारं दद्यात् दिव्यानि च वस्त्राणि | एवं ददद् गङ्गा-नदी-वालुका-उपमान् कल्पान् दद्यात् | यश् च + अन्यो मञ्जुश्रीः कुल-पुत्रः कुल-दुहिता वा चित्र-कर्म-लिखितं वा पुस्तक-कर्म-कृतं वा बुद्धं पश्येद् | अयं ततो * अ-संख्येयतरं पुण्यं प्रसवति | कः पुनर् वादो यो * अञ्जलि-प्रग्रहं वा कुर्यात् पुष्पं वा दद्यात् धूपं वा गन्धं वा दीपं वा दद्याद् | अयम् एव ततो * अ-संख्येयतरं पुण्यं प्रसवति + इति ||
SK
आर्य-बोधि-सत्व-पिटके * अपि पुण्य-वृद्ध्य्-उपाय उक्तः | यस् तथा-गत-चैत्यं शोधयति स चतस्रो * अग्राः प्रणिधान-विशुद्धीर् अनुप्राप्नोति | कतमाश् चतस्रः | अग्रां रूप-प्रणिधान-विशुद्धिं | अग्रां दृढ-समादान-प्रणिधान-विशुद्धिं | अग्रां तथा-गत-दर्शन-प्रणिधान-विशुद्धिं |अग्रां लक्षण-संपत्-प्रणिधान-विशुद्धिम् इति ||
SK
पुनर् अत्र + एव + आख्यातं | तथा-गत-चैत्येषु पुष्प-अवरोपणं गन्ध-अनुलेपनं कृत्वा + अष्टाव् अ-वि-कलता अनुप्राप्नोति | कतमा अष्टौ | न रूप-वि-कलो भवति | न भोग-वि-कलः | न परिवार-वि-कलः | न शील-वि-कलः | न समाधि-वि-कलः | न श्रुत-वि-कलो न प्रज्ञा-वि-कलो न प्रणिधान-वि-कल इति ||
SK
उक्तं च + आर्य-रत्न-राशि-सूत्रे | ये त्रि-भव-पर्यापन्नाः सत्वास् ते सर्वे प्रत्य्-एकं तथा-गत-स्तूपान् कारयेयुर् एवं-रूपान् उच्चैस्त्वेन | तद् यथा सुमेरुः पर्वत-राजः | तांश् च गङ्गा-नदी-वालिका-समान् कल्पान् प्रत्य्-एकं सर्व-सत्-कारैः सत्-कुर्युः | यश् च बोधि-सत्वो * अ-विरहित-सर्व-ज्ञता-चित्तेन + एक-पुष्पम् अप्य् आरोपयेत् | अयं तस्मात् पूर्वकात् पुण्य-स्कन्धाद् बहुतरं पुण्यं प्रसवेत् ||
SK
अत्र + एव + उक्तं | ये खलु पुनस् त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे महा-यान-संप्रस्थिता भवेयुः | सर्वे च चक्र-वर्ति-राज्य-समन्वागता भवेयुर् एक-एकश् च राजा चक्र-वर्ती महा-समुद्र-प्रमाण-दीप-स्थालीं कृत्वा | सुमेरु-मात्रां वर्तीम् आदीप्य प्रत्य्-एकम् एवं-रूपां दीप-पूजां तथा-गत-चैत्येषु प्रवर्तयेत् | यश् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् तैल-प्रक्षिप्तां वर्तीं कृत्वा + आदीप्य तथा-गत-चैत्ये धारयेत् | अस्यास् तैल-प्रक्षिप्ताया वर्तेर् एतत् पूर्वकं प्रदीप-दानं शततमीम् अपि कलां न + उपैति | यावद् उपनिषदम् अपि न क्षमतए इति | पेयालं ||
SK
ये च खलु पुनस् ते राजानश् चक्र-वर्तिनो बुद्ध-प्रमुखं भिक्षु-संघं सर्व-सुख-उपधानैः सत्-कुर्युः यश् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वः पिण्ड-पात्रं चरित्वा पात्र-पर्यापन्नं परेषां संविभज्य परिभुञ्जीत | इदं ततो बहुतरं च महा-अर्घतरं च | यच् च ते राजानश् चक्र-वर्तिनः सुमेरु-मात्रं चीवर-राशिं बुद्ध-प्रमुखाय भिक्षु-संघाय दद्युः | यच् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वस् त्रि-चीवरं बहिर्-धा महा-यान-संप्रस्थिताय बुद्ध-प्रमुखाय भिक्षु-संघाय वा तथा-गत-चैत्ये वा दद्याद् | इदं भिक्षोश् चीवर-दानम् एतत् पूर्वक-चीवर-राशिम् अभिभवति | यच् च ते राजानः प्रत्य्-एकं सर्वं जम्बू-द्वीपं पुष्प-संस्तृतं कृत्वा तथा-गत-चैत्ये निर्यातयेत् | यच् च + अभिनिष्क्रान्त-गृह-आवासो बोधि-सत्वः अन्तश एक-पुष्पम् अपि तथा-गत-चैत्ये आरोपयेत् | अस्य दानस्य + एतत् पूर्वकं दानं शततमीम् अपि कलां न + उपैति | यावद् उपनिषदम् अपि न + उपैति + इति ||
SK
आर्य-अनुपूर्व-समुद्गत-परिवर्ते * अपि देशितं | चतुर इमान् भद्र-अनुशंसान् पश्यन् बोधि-सत्वस् तथा-गत-पूजायाम् उत्सुको भवति | कतमांश् चतुरः | अग्रश् च मे दक्षिणीयः पूजितो भविष्यति मां च दृष्ट्वा + अन्ये * अपि तथा शिक्षिष्यन्ति | तथा-गतं च पूजयित्वा बोधि-चित्तं दृढं भविष्यति | द्वात्रिंशतां च महा-पुरुष-लक्षणानां संमुख-दर्शनेन कुशल-मूलम् उपचितं भविष्यति | इमाश् चत्वारः इति ||
SK
इदं च निर्-उत्तरं तथा-गत-पूजा-उपस्थानं |यथा + उदाहृतम् आर्य-सागरमति-परिपृच्छा-सूत्रे | त्रीणि + इमानि सागरमते तथा-गतस्य निर्-उत्तराणि पूजा-उपस्थानानि | कतमानि त्रीणि | यच् च बोधि-चित्तम् उत्पादयति | यच् च सद्-धर्मं परिगृह्णाति | यच् च सत्वेषु महा-करुणा-चित्तम् उत्पादयति + इति ||
SK
निर्दिष्टम् अप्य् आर्य-रत्न-मेघे | दशभिः कुल-पुत्र धर्मैः समन्वागता बोधि-सत्वा अन्-अनुलिप्ता गर्भ-मलेन जायन्ते | कतमैर् दशभिः | यद् उत | तथा-गत-प्रतिमा-करणतया | जीर्ण-चैत्य-संस्करणतया | तथा-गत-चैत्येषु गन्ध-विलेपन-अनुप्रदानेन | तथा-गत-प्रतिमासु गन्ध-उदक-स्नान-अनुप्रदानेन | तथा-गत-चैत्येषु संमार्जन-उपलेपन-अनुप्रदानेन | माता-पितॄणां काय-परिचर्या-आचरणेन आचार्य-उपाध्यायानां काय-परिचर्या-आचरणेन | स-ब्रह्म-चारिणां काय-परिचर्या-आचरणेन | तच् च निर्-आमिषेण चित्तेन न स-आमिषेण | तच् च कुशलम् एवं परिणामयन्ति | अनेन कुशल-मूलेन सर्व-सत्वा निर्-उपलिप्ता गर्भ-मलेन जायन्ताम् इति | तच् च तीव्रेण + आशयेन चिन्तयन्ति | एभिः कुल-पुत्र दशभिर् धर्मैर् इति ||
SK
अनुमोदन-अनुशंसास् त्व् आर्य-प्रज्ञा-पारमितायाम् उक्ताः | यः प्रथम-यान-संप्रस्थितानां बोधि-सत्वानां महा-सत्वानां तांश् चित्त-उत्पादान् अनुमोदते |चरताम् अपि बोधि-सत्व-चर्यां तांश् चित्त-उत्पादान् अनुमोदते | अ-विनिवर्तनीयाम् अपि अ-विनिवर्तनीय-धर्मताम् अनुमोदते बोधि-सत्वानां महा-सत्वानां | कियन्तं स भगवन् कुल-पुत्रो वा कुल-दुहिता वा बहुतरं पुण्य-स्कन्धं प्रसवति ||
SK
एवम् उक्ते भगवान् शक्रं देवानाम् इन्द्रम् एतद् अवोचत् | पे | स्यात् खलु पुनः कौशिक त्रि-साहस्र-महा-साहस्रस्य लोक-धातोः पल-अग्रेण तुल्यमानसस्य प्रमाणम् उद्ग्रहीतुं | न त्व् एव कौशिक बोधि-सत्वस्य महा-सत्वस्य तेषाम् अनुमोदना-सह-गतानां चित्त-उत्पादानां पुण्य-प्रमाणं ग्रहीतुं ||
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत् | मार-अधिष्ठितास् ते भगवन् सत्वा वेदितव्या | ये बोधि-सत्वानां महा-सत्वानां प्रथम-चित्त-उत्पादम् उपादाय यावद् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धानाम् एवम् अ-प्रमेयम् अनुमोदना-सह-गतं पुण्यम् इति न शृण्वन्ति न जानन्ति | ताम् अनुमोदनां न समन्वाहरन्ति | मार-पक्षिकास् ते भगवन् सत्वा भविष्यन्ति ||
SK
भगवान् आह | पे | यैः कौशिक कुल-पुत्रैः कुल-दुहितृभिश् च + इमे चित्त-उत्पादा अनुमोदिता बोधि-सत्व-यानिकैर् वा प्रत्य्-एक-बुद्ध-यानिकैर् वा श्रावक-यानिकैर् वा | ते क्षिप्रं तथा-गतान् अर्हतः सम्यक्-संबुद्धान् आरागयिष्यन्ति ||
SK
भगवान् आह ||
SK
एवं तैर् अनुमोदना-सह-गतैश् चित्त-उत्पाद-कुशल-मूलैर् यत्र यत्र + उपपत्स्यन्ते तत्र तत्र सत्-कृताश् च भविष्यन्ति गुरु-कृताश् च मानिताश् च पूजिताश् च अर्चिताश् च अपचायिताश् च भविष्यन्ति | न च ते * अ-मन-आपानि रूपाणि द्रक्ष्यन्ति | न च ते * अ-मन-आपान् शब्दान् श्रोष्यन्ति | एवं न गन्धान् न रसान् न स्प्रष्टव्यान् स्प्रक्ष्यन्ति न च तेषाम् अपायेषु + उपपत्तिः प्रतिकाङ्क्षितव्या स्वर्ग-उपपत्तिस् तेषां प्रतिकाङ्क्षितव्या | तत् कस्य हेतोः | तथा हि तैः सत्वैः सर्व-सत्व-सुख-आवहनानि अ-संख्येयानां सत्वानां कुशल-मूलान्य् अनुमोदितानि यावद् अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्ध्य + अ-प्रमेय-अ-संख्येयान् सत्वान् परिनिर्वापयिष्यन्ति + इति ||
SK
पुनर् अत्र + एव + आह | ये सुभूते गङ्गा-नदी-वालिका-उपमेषु त्रि-साहस्र-महा-साहस्रेषु लोक-धातुषु सर्व-सत्वास् ते सर्वे * अन्-उत्तरां सम्यक्-संबोधिं प्रतितिष्ठेयुर् अन्-उत्तरां सम्यक्-संबोधिं प्रतिष्ठाय गङ्गा-नदी-वालिका-समान् कल्पान् उपलम्भ-संज्ञिनश् चत्वारि ध्यानानि समापद्येरन् | यश् च बोधि-सत्वो महा-सत्वो * अनया प्रज्ञा-पारमितया उपाय-कौशल्येन च परिगृहीता + अतीत-अन्-आगत-प्रत्य्-उत्पन्नानां बुद्धानां भगवतां शील-समाधि-प्रज्ञा-विमुक्ति-विमुक्ति-ज्ञान-दर्शन-स्कन्धं | श्रावकानां प्रत्य्-एक-बुद्धानाम् अपि शील-समाधि-प्रज्ञा-विमुक्ति-विमुक्ति-ज्ञान-दर्शन-स्कन्धं सर्वम् एकतो * अभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निर्-अवशेषम् अनुमोदेत + अग्रया + अनुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणीतया उत्तरया निर्-उत्तरया उत्तर-उत्तरया अ-समया + अ-सम-समया + अ-प्रति-समया + अनुमोदनया + अनुमोद्य + अनुमोदना-सह-गतं [दोउब्त्fउल्] पुण्य-क्रिया-वस्त्व् अन्-उत्तरायै सम्यक्-संबोधये परिणामयति | अस्य सुभूते * अनुमोदना-सह-गतस्य पुण्य-क्रिया-वस्तुनो * असौ पूर्वक औपलम्भिकानां बोधि-सत्वानां चतुर्-ध्यान-मयः पुण्य-अभिसंस्कारः शततमीम् अपि कलां न + उपैति यावद् उपनिषदम् अपि न क्षमतए इति ||
SK
अयम् एव नयः परिणामनायाम् उक्तः | अथ-वा + अग्र-परिणामनया परिणामितत्वात् सर्व-पुण्यानाम् अस्य बुद्धत्वाय सत्-कृत-प्रणिधि-बुद्धत्वम् एव स्यात् | अतः का परा पुण्य-वृद्धिः | तद् * ध्य् अ-शेष-सत्व-मोक्ष-कृत-पुण्य-ज्ञान-उपेतं निर्-विकल्पं च ||
SK
अध्येषणायास् त्व् अनुशंसा आर्य-उग्र-परिपृच्छायाम् उक्ता धर्म-ग्राह्यताम् उपादाय + अ-प्रमेय-अ-संख्येयेषु बुद्ध-क्षेत्रेष्व् आयुः परिरक्षणाय + इति ||
SK
आर्य-शिक्षा-समुच्चये वन्दना-आद्य्-अनुशंसा सप्तदश-परिच्छेदः समाप्तः ||
SK
[XVIII रत्नत्रयानुस्मृति]
SK
रत्न-त्रय-अनुस्मृतिर् नाम + अष्टादशः परिच्छेदः ||
SK
उक्ता भद्र-चर्या-विधिना पुण्य-वृद्धिः | अस्याश् च + अयम् अ-परो हेतुः | यो * अयं श्रद्धा-आदीनां सदा + अभ्यासः ||
SK
यथा + उक्तम् आर्य-तथा-गत-गुह्य-सूत्रे | चत्वार इमे महा-राज धर्मा महा-यान-संप्रस्थितानां विशेष-गामितायै संवर्तन्ते * अ-परिहाणाय च | कतमे चत्वारः | श्रद्धा महा-राज विशेष-गामितायै संवर्तते * अ-परिहाणाय | तत्र कतमा श्रद्धा | यया श्रद्धया आर्यान् उपसंक्रामति | अ-करणीयं च न करोति ||
SK
गौरवं महा-राज विशेष-गामितायै संवर्तते | येन गौरवेण सु-भाषितं शृणोति शुश्रूषते * अ-विरहित-श्रोत्रश् च धर्मं शृणोति ||
SK
निर्-मानता महा-राज विशेष-गामितायै संवर्तते | यया निर्-मानतया आर्याणाम् अभिनमति प्रणमति नमस्यति ||
SK
वीर्यं महा-राज विशेष-गामितायै संवर्तते * अ-परिहाणाय | येन वीर्येण काय-लघुतां चित्त-लघुतां च प्रतिलभते सर्व-कार्याणि च + उत्तारयति ||
SK
इमे महा-राज चत्वार इति ||
SK
एषां श्रद्धा-आदीनां सदा + अभ्यासः कार्यः | अथ-वा + अन्येषां श्रद्धा-आदीनां ||
SK
यथा + आह आर्य-अक्षयमति-सूत्रे पञ्च + इमानि + इन्द्रियाणि | कतमानि पञ्च | श्रद्धा-इन्द्रियं वीर्य-इन्द्रियं स्मृति-इन्द्रियं समाधि-इन्द्रियं प्रज्ञा-इन्द्रियम् इति ||
SK
तत्र कतमा श्रद्धा | यथा श्रद्धायाश् चतुरो धर्मान् अभिश्रद्दधाति | कतमांश् चतुरः | संसार-अवचरीं लौकिकीं सम्यग्-दृष्टिं श्रद्दधाति | स कर्म-विपाक-प्रति-शरणो भवति | यद् यत् कर्म करिष्यामि तस्य तस्य कर्मणः फल-विपाकं प्रत्यनुभविष्यामि + इति | स जीवित-हेतोर् अपि पापं कर्म न करोति | बोधि-सत्व-चारिकाम् अभिश्रद्दधाति | तच्-चर्या-प्रतिपन्नश् च + अन्यत्र याने स्पृहां न + उत्पादयति | परम-अर्थ-नीत-अर्थं गम्भीर-प्रतीत्य-समुत्पाद-नैरात्म्य-निः-सत्व-निर्-जीव-निः-पुद्गल-व्यवहार-शून्यता-निमित्त-अ-प्रणिहित-लक्षणान् सर्व-धर्मान् श्रुत्वा श्रद्दधाति | सर्व-दृष्टि-कृतानि च न + अनुशेते सर्व-बुद्ध-धर्मान् बल-वैशारद्य-प्रभृतींश् च श्रद्दधाति | श्रद्धाय च विगत-कथं-कथस् तान् बुद्ध-धर्मान् समुदानयति | इदम् उच्यते श्रद्धा-इन्द्रियम् ||
SK
तत्र कतमद् वीर्य-इन्द्रियं | यान् धर्मान् श्रद्धा-इन्द्रियेण श्रद्दधाति तान् धर्मान् वीर्य-इन्द्रियेण समुदानयति + इदम् उच्यते वीर्य-इन्द्रियं ||
SK
तत्र कतमत् स्मृति-इन्द्रियं | यान् धर्मान् वीर्य-इन्द्रियेण समुदानयति तान् धर्मान् स्मृति-इन्द्रियेण न विप्रणाशयति | इदम् उच्यते स्मृति-इन्द्रियम् ||
SK
तत्र कतमत् समाधि-इन्द्रियं | यान् धर्मान् स्मृति-इन्द्रियेण न विप्रणाशयति तान् समाधि-इन्द्रियेण + एक-अग्री-करोति + इदम् उच्यते समाधि-इन्द्रियं ||
SK
तत्र कतमत् प्रज्ञा-इन्द्रियम् |यान् धर्मान् समाधि-इन्द्रियेण + एक-अग्री-करोति तान् प्रज्ञा-इन्द्रियेण प्रत्यवेक्षते प्रतिविध्यति | यद् एतेषु धर्मेषु प्रत्य्-आत्म-ज्ञानम् अ-पर-प्रत्यय-ज्ञानम् इदम् उच्यते प्रज्ञा-इन्द्रियं ||
SK
एवम् इमानि पञ्च-इन्द्रियाणि सहितान्य् अनुप्रबद्धानि सर्व-बुद्ध-धर्मान् परिपूरयन्ति | व्याकरण-भूमिं च + आप्ययन्ति इति ||
SK
श्रद्धा-आदीनां बलानां सदा + अभ्यासः कार्यः | यथा + उक्तम् आर्य-रत्न-चूड-सूत्रे | तत्र कतमत् कुल-पुत्र बोधि-सत्वस्य बल-चर्या-परिशुद्धिः | यद् एभिर् एव + इन्द्रियैर् उपस्तब्धो * अन्-अवमर्द्यो भवति सर्व-मारैः | अ-संहार्यो भवति श्रावक-प्रत्य्-एक-बुद्ध-यानाभ्यां | अ-विनिवर्त्यो भवति महा-यानात् | दुर्-धर्षो भवति सर्व-क्लेशैः | दृढो भवति पूर्व-प्रतिज्ञासु | तृप्तो भवति चित्तेन | बलवान् भवति कायेन | गुप्तो भवति + इन्द्रियैः | दुः-पराजयो भवति तीर्थि-करैः | इत्य् आदि ||
SK
एवं तावच् * छ्रद्धा-आदीनां सदा + अभ्यासः पुण्य-वृद्धये ||
SK
का मैत्री ||
SK
यथा + आह चन्द्र-प्रदीप-सूत्रे | यावन्ति पूजा बहु-विध अ-प्रमेया या क्षेत्र-कोटीन् अ-युत-बिम्बरेषु | तां पूज-कृत्वा पुरुष-वरेषु नित्यं संख्या-कलापो न भवति मैत्र-चित्त | इति ||
SK
का बुद्ध-आद्य्-अनुस्मृतिः ||
SK
तत्र राष्ट्रपाल-सूत्रे संवर्णिता | वन्दामि ते कनक-वर्ण-निभा वर-लक्षणा वि-मल-चन्द्र-मुखा | वन्दामि ते अ-सम-ज्ञान-परा सदृशो न ते * अस्ति त्रि-भवे वि-रजा ||
SK
मृदु चारु स्निग्ध शुभ केश नखा गिरि-राज-तुल्य तव च + उष्णिर् इह | न + उष्नीषम् ईक्षितु तव + अस्ति समो विभ्राजते भ्रुवि तव + ऊर्ण मुने ||
SK
कुन्द-इन्दु-शङ्ख-हिम-शुभ्र-निभा नील-उत्पल-अभ-शुभ-नेत्र-वरा | कृपया + ईक्षसे जगद् इदं हि यया वन्दामि ते वि-मल-नेत्र जिन ||
SK
जिह्वा प्रभूत तनु ताम्र-निभा वदनं च छादयसि येन स्वकं | धर्मं वदन् विनयसे च जगत् वन्दामि ते मधुर-स्निग्ध-गिरा ||
SK
दशनाः शुभाः सु-दृढ वज्र-निभाः त्रिंशद्-दश + अप्य् अ-विरलाः सहिताः | कुर्वन् स्मितं विनयसे च जगत् वन्दामि ते मधुर-सत्य-कथा ||
SK
रूपेण च + अ-प्रति-समो * असि जिनः प्रभया च भासयसि क्षेत्र-शतान् | ब्रह्म-इन्द्र-पाल-जगतो भगवन् जिह्मी-भवन्ति तव ते प्रभया ||
SK
एणेय जङ्घ भगवन्न् अ-समा गज-राज-बर्हि-मृग-राज-गतो | ईक्षन् व्रजस्य् अपि युगं भगवन् संकम्पयन् धरणि-शैल-तटान् ||
SK
कायश् च लक्षण-चितो भगवन् सूक्ष्म छवी कनक-वर्ण-निभा | न + ईक्षञ् जगद् व्रजति तृप्तिम् इदं रूपं तव + अ-प्रतिम-रूप-धर ||
SK
त्वं पूर्व-कल्प-शत-चीर्ण-तपाः त्वं सर्व-त्याग-दम-दान-रतः | त्वं सर्व-सत्व-कृप-मैत्र-मनाः वन्दामि ते परम-कारुणिकम् ||
SK
त्वं दान-शील-निरतः सततं त्वं क्षान्ति-वीर्य-निरतः सु-दृढः | त्वं ध्यान-प्रज्ञ-प्रभ-तेज-धरो वन्दामि ते अ-सम-ज्ञान-धर ||
SK
त्वं वादि-सूर कु-गण-प्रमथी त्वं सिंह-वन् नदसि पर्षदि च | त्वं वैद्य-राज त्रि-मल-अन्त-करो वन्दामि ते परम-प्रीति-कर ||
SK
वाक्-काय-मानस-विशुद्ध मुने त्रि-भवेष्व् अ-लिप्त-जल-पद्मम् इव | त्वं ब्रह्म-घोष-कलविङ्क-रुतो वन्दामि ते त्रैभव-पार-गतम् ||
SK
माया-उपमं जगद् इमं भवता नट-रङ्ग-स्वप्न-सदृशं विदितं | न + आत्मा न सत्व न च जीव-गती धर्मा मरीचि-दक-चन्द्र-समाः ||
SK
शून्याश् च शान्त अन्-उत्पाद-नयं अ-विजानद् एव जगद् उद्भ्रमति | तेषाम् उपाय-नय-युक्ति-शतैः अवतारयस्य् अति-कृपालुतया ||
SK
राग-आदिभिश् च बहु-राग-शतैः संभ्रामितं सतत वीक्ष्य जगत् | वैद्य-उपमो विचरसे * अ-प्रतिमो परिमोचयन् सु-गत सत्व-शतान् ||
SK
जाती-जरा-मरण-शोक-हतं प्रिय-वि-प्रयोग-परिदेव-शतैः | सतत-आतुरं जगद् अवेक्ष्य मुने परिमोचयन् विचरसे कृपया ||
SK
रथ-चक्र-वद् भ्रमति सर्व-जगत् तिर्यक्षु प्रेत-निरये सु-गतौ | मूढा अ-देशिक अ-नाथ-गताः तस्य प्रदर्शयसि मार्ग-वरं ||
SK
ये ते बभूवु पुरिमाश् च जिनाः धर्म-ईश्वरा जगति च + अर्थ-कराः | अयम् एव तैः प्रकथित-आर्य-पथो यद् देशयस्य् अपि विभो * अ-प्रतिमः ||
SK
स्निग्धं ह्य् अ-कर्कश मनो-ज्ञ वरं ब्रह्म-अधिकं परम-प्रीति-करं | गन्धर्व-किन्नर-वर-अप्सरसाम् अभिभूय तां गिरम् उदाहरसे ||
SK
सत्य-आर्जव-अ-क्षयम् उपाय-नयैः परिशोधितां गिरम् अन्-अन्त-गुणां | श्रुत्वा हि यां नियुत-सत्व-शताः यान-त्रयेण जनयन्ति शमम् ||
SK
तव पूजया सुखम् अन्-एक-विधम् दिव्यं लभन्ति मनु-जेषु तथा | आढ्यो महा-धन महा-विभवो भवते जगद्-धित-करो नृ-पतिः ||
SK
बल-चक्र-वर्त्य् अपि च द्वीप-पतिः जगद् आवृणोति दशभिः कुशलैः | रत्नानि सप्त लभते सु-शुभा त्वयि संप्रसाद-जनको * अ-प्रतिमः ||
SK
ब्रह्मा + अपि शक्र अपि लोक-पतिः भवते च संतुषिट देव-पतिः | पर-निर्मितो * अपि च स याम-पतिः त्वत्-पूजया भवति च + अपि जिनः ||
SK
एवं ह्य् अ-मोघ तव पूजा कृता संदर्शनं श्रवणम् अप्य् अ-समं | भवते जगद् विविध-दुःख-हरं स्पृशते पदं च परमं वि-रजं ||
SK
मार्ग-ज्ञ मार्ग-कुशला भगवन् कु-पथान् निवारयसि लोकम् इमं | क्षेमे शिवे वि-रजि आर्य-पथे प्रतिष्ठापयसि जगद् भगवन् ||
SK
पुण्य-अर्थिकस्य तव पुण्य-निधे सतत-अ-क्षया भवति पुण्य-क्रिया | बहु-कल्प-कोटिषु न याति क्षयं यावद् * धि न स्पृशति बोधि वरां ||
SK
परिशुद्ध-क्षेत्र लभते रुचिरं परिनिर्मित-अभ सद प्रीति-करं | शुद्धाश् च काय-वचसा मनसा सत्वा भवन्त्य् अपि च क्षेत्र-वरे ||
SK
इत्य् एवम् आदि-गुण न + एक-विधान् लभते जिन-अर्चन-कृतान् मनु-जः | स्वर्ग-अपवर्ग मनु-जेषु सुखं लभते च पुण्य-निधि सर्व-जगे ||
SK
कीर्ति-यशश् च प्रसृतं विपुलं तव सर्व-दिक्षु बहु-क्षेत्र-शतान् | संकीर्तयन्ति सु-गताः सततं तव वर्ण-माल परिषत्सु जिनाः ||
SK
विगत-ज्वरा जगति मोक्ष-कराः प्रिय-दर्शना अ-सम-कारुणिकाः | शान्त-इन्द्रिया शम-रता भगवन् वन्दामि ते नर-वर-प्रवर ||
SK
लब्धा अभिज्ञ जिन पञ्च मया गगने स्थितेन ते निशम्य गिरम् | भविता + अस्मि वीर सु-गत-प्रतिमो विभजिष्य धर्मम् अ-मलं जगतः ||
SK
स्तुत्वा + अद्य सर्व-गुण-पार-गतं नर-देव-नाग-महितं सु-गतं | पुण्यं यद् अर्जितम् इदं विपुलं जगद् आप्नुयाद् अपि च बुद्ध-पदम् |इति ||
SK
अथ-वा यथा + आर्य-धर्म-संगीति-सूत्रे कथितं | पुनर् अ-परं बुद्धा भगवन्तो महा-पुण्य-ज्ञान-संभारा महा-मैत्री-महा-करुणा-गो-चरा महा-सत्व-राशेः त्राण-भूता महा-भैषज्य-शल्य-हर्तारः सर्व-सत्व-सम-चित्त-अ-नित्य-समाधि-गो-चराः संसार-निर्वाण-विमुक्ता यावत् सत्वानां माता-पितृ-कल्पाः समान-मैत्र-चित्ताः | पे ||
SK
सर्व-लोक-अन्-अभिभूताः सर्व-लोकस्य + आलोक-भूता महा-योग-योगिनो महा-आत्मानो महा-जन-परिवारा विशिष्ट-जन-परिवारा अ-निवारित-दर्शन-श्रवण-पर्युपासनाः स्व-सुख-निर्-अपेक्षाः पर-दुष्ख-प्रशमन-प्रिया धर्म-प्रिया धर्म-धरा धर्म-आहारा धर्म-भिषजो धर्म-ईश्वरा धर्म-स्वामिनो धर्म-दान-पतयो नित्य-त्याग-अभिरता नित्य-अ-प्रमत्ता नित्य-विवेक-अभिरताः सर्वत्र तीर्थ-सेतु-भूता महा-राज-मार्ग-प्रख्या यावद् * अ-सेचनक-दर्शना बुद्धा भगवन्त | एवं तान् अनुस्मरति | एवं च तान् अनुस्मृत्य तद्-गुण-परिनिष्पत्त्य्-अर्थं स्मृतिम् उपस्थापयति + इति ||
SK
तद् उच्यते बुद्ध-अनुस्मृतिर् इति ||
SK
अत्र + एव धर्म-अनुस्मृतिम् आह | इह बोधि-सत्वस्य + एवं भवति | यए एते बुद्धा भगवन्तो * अन्-अन्त-अ-पर्यन्त-गुणा एते धर्म-जा धर्म-पदा धर्म-निर्मिता धर्म-अधिपतेया धर्म-प्रभा धर्म-गो-चरा धर्म-प्रति-शरणा धर्म-निष्पन्नाः | पेयालं ||
SK
यान्य् अपि लौकिकानि लोक-उत्तराणि च सुखानि सन्ति | तान्य् अपि धर्म-जानि धर्म-निष्पन्नानि | तस्मान् मया बोध्य्-अर्थिकेन धर्म-गुरुकेण भवितव्यं | धर्म-गौरवेण धर्म-प्रति-शरणेन धर्म-परायणेन धर्म-सारेण धर्म-अन्व ... धर्म-प्रतिपन्नेन | इति + इयम् उच्यते बोधि-सत्वस्य धर्म-अनुस्मृतिः ||
SK
पुनर् अ-परं बोधि-सत्वस्य + एवं भवति | समो हि धर्मः समः सत्वेषु प्रवर्तते | धर्मो हीन-मध्य-विशिष्ट-अन्-अपेक्ष्यः प्रवर्तते | तथा मया धर्म-सदृश-चित्तेन भवितव्यं | न धर्मो सुख-प्रेक्षिकया प्रवर्तते | अ-पक्ष-पतितो हि धर्मः | तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मः कालम् अपेक्ष्य प्रवर्तते |आकालिको हि धर्मः | ऐहिपश्यिकः | प्रत्य्-आत्म-वेदनीयः |तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्म उदारे प्रवर्तते हीनेषु न प्रवर्तते | अन्-उन्नाम-अवनामो हि धर्मः |तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मः शुद्धेषु प्रवर्तते क्षतेषु न प्रवर्तते | उत्कर्ष-अपकर्ष-अपगतो हि धर्मस् तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्म आर्येषु प्रवर्तते पृथग्-जनेषु न प्रवर्तते | क्षेत्र-दृष्टि-विगतो हि धर्मः | तथा मया धर्म-सदृश-चित्तेन भवितव्यं | न धर्मो दिवा प्रवर्तते रात्रौ न प्रवर्तते | रात्र्यां वा प्रवर्तते दिवा न प्रवर्तते | सदा + अधिष्ठितो हि धर्मः | तथा मया धर्म-सदृश-चित्तेन भवितव्यम् | न धर्मो विनय-वेलाम् अतिक्रामति | न धर्मस्य क्व-चिद् विलम्बः | तथा मया धर्म-सदृश-चित्तेन भवितव्यम् | न धर्मस्य + ऊनत्वं न पूर्णत्वम् अ-प्रमेय-अ-संख्येयो हि धर्म आकाश-वन् न क्षीयते न वर्धते | तथा मया धर्म-सदृश-चित्तेन भवितव्यं | न धर्मः सत्वै रक्ष्यते | धर्मः सत्वान् रक्षति | तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मः शरणं पर्येषते |धर्मः सर्व-लोकस्य शरणं |तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मस्य क्व-चित् प्रतिघातो | अ-प्रति-हत-लक्षणो हि धर्मः |तथा मया धर्म-सदृश-चित्तेन भवितव्यं |न धर्मो * अनुशयं वहति | निर्-अनुशयो हि धर्मः |तथा मया धर्म-सदृश-चित्तेन भवितव्यम् | न धर्मः संसार-भय-भीतो न निर्वाण-अनुनीतः | सदा निर्-विकल्पो हि धर्मः |तथा मया धर्म-सदृश-चित्तेन भवितव्यम् |एवं बोधि-सत्वो धर्म-वद् धर्मे स्मृतिम् उपस्थापयति | तद् उच्यते धर्म-अनुस्मृतिर् इति ||
SK
अत्र + एव + आह | संघो हि धर्म-वादी धर्म-चरणो धर्म-चिन्तको धर्म-क्षेत्रं धर्म-धरो धर्म-प्रति-शरणो धर्म-पूजको धर्म-कृत्य-कारी धर्म-गो-चरो धर्म-चारित्र-संपन्नः | स्व-भाव-ऋजुकः स्व-भाव-शुद्धः स-अनुक्रोशो धर्म-अनुकारुणिकः सदा विवेक-गो-चरः | सदा धर्म-परायणः सदा शुक्ल-कारी + इत्य् आदि ||
SK
तत्र बोधि-सत्वस्य संघम् अनुस्मरतः एवं भवति | यए एते संघस्य भूता गुणा एते मया + आत्मनः सर्व-सत्वानां च निष्पादयितव्या इति ||
SK
यथा + आर्य-विमलकीर्ति-निर्देशे बोधि-सत्व-गुणा उक्तास् तथा संघ-अनुस्मृतिर् भाव्या | सर्व-सत्वान ये रूपा रुत-घोषाश् च ईरिताः | एक-क्षणेन दर्शेन्ति बोधि-सत्वा विशारदाः ||
SK
ते जीर्ण-व्याधिता भोन्ति बोधि-सत्वा मृतम् आत्मान दर्शयी |सत्वानां परिपाकाय माया-धर्म विक्रीडिताः ||
SK
कल्प-उद्दाहं च दर्शेन्ति उद्दहित्वा वसुं-धराम् | नित्य-संज्ञिन सत्वानाम् अ-नित्यम् इति दर्शयी ||
SK
सत्वैः शत-सहस्रेभिर् एक-राष्ट्रे निमन्त्रिताः | सर्वेषां गृह भुञ्जन्ति सर्वान् नामन्ति बोधये ||
SK
ये के-चिन् मन्त्र-विद्या वा शिल्प-स्थाना बहु-विधाः | सर्वत्र पारमि-प्राप्ताः सर्व-सत्व-सुख-आवहाः ||
SK
यावन्तो लोक पाषण्डाः सर्वत्र प्रव्रजन्ति ते | नाना-दृष्टि-गतं प्राप्तांस् ते सत्वान् परिपाचति ||
SK
चन्द्रा वा भोन्ति सूर्या वा शक्र-ब्रह्म-प्रज-ईश्वराः | भवन्ति आपस् तेजश् च पृथिवी मारुतस् तथा ||
SK
रोग अन्तर-कल्पेषु भैषज्यं भोन्ति उत्तमाः | येन ते सत्व मुच्यन्ते सुखी भोन्ति अन्-आमयाः ||
SK
दुर्-भिक्षा-अन्तर-कल्पेषु भवन्ती पान-भोजनम् |क्षुधा-पिपासाम् अपनीय धर्मं देशेन्ति प्राणिनाम् ||
SK
शस्त्र अन्तर-कल्पेषु मैत्री-ध्यायी भवन्ति ते | अ-व्यापादे नियोजेन्ति सत्व-कोटि-शतान् बहून् ||
SK
महा-संग्राम-मध्ये च सम-पक्षा भवन्ति ते | सन्धि-सामग्रि रोचेन्ति बोधि-सत्वा महा-बलाः ||
SK
ये च + अपि निरयाः के-चिद् बुद्ध-क्षेत्रेष्व् अ-चिन्तिषु | संचिन्त्य तत्र गच्छन्ति सत्वानां हित-कारणात् ||
SK
यावन्त्या गतयः काश्-चित् तिर्यग्-योनौ प्रकाशिताः | सर्वत्र धर्मं देशेन्ति तेन उच्यन्ति नायकाः ||
SK
काम-भोगांश् च दर्शेन्ति ध्यानं च ध्यायिनां तथा | विध्वस्त मारं कुर्वन्ति अवतारं न देन्ति ते ||
SK
अग्नि-मध्ये यथा पद्मम् अ-भूतं तं विनिर्दिशेत् | एवं कामांश् च ध्यानं च अ-भूतं ते विदर्शयी ||
SK
संचिन्त्य गणिकां भोन्ति पुंसाम् आकर्षणाय ते | राग-अङ्कु संलोभ्य बुद्ध-ज्ञाने स्थापयन्ति ते ||
SK
ग्रामिकाश् च सदा भोन्ति स-अर्थ-वाहाः पुरो-हिताः | अग्र-अमात्य + अथ च + अमात्यः [दोउब्त्fउल्] सत्वानां हित-कारणात् ||
SK
दरिद्राणां च सत्वानां निधाना भोन्ति अ-क्षयाः | तेषां दानानि दत्वा च बोधि-चित्तं जनेन्ति ते ||
SK
मान-स्तब्धेषु सत्वेषु महा-नग्ना भवन्ति ते | सर्व-मानसम् उद्घातं बोधिं प्रार्थेन्ति उत्तमाम् ||
SK
भय-अर्दितानां सत्वानां संतिष्ठन्ते * अग्रतः सदा | अ-भयं तेषु दत्वा च परिपाचेन्ति बोधये ||
SK
पञ्च-अभिज्ञाश् च ते भूत्वा ऋषयो ब्रह्म-चारिणः | शीले सत्वान् नियोजेन्ति क्षान्ति-सौरत्य-संयमे ||
SK
उपस्थान-गुरून् सत्वान् पश्यन्ति + इह विशारदाः | चेटा भवन्ति दासा वा शिष्यत्वम् उपयान्ति च ||
SK
येन येन + एव च + अङ्गेन सत्वो धर्म-रतो भवेत् | दर्शेन्ति हि क्रियाः सर्वा महा-उपाय-सु-शिक्षिताः ||
SK
येषाम् अन्-अन्ता शिक्षा हि अन्-अन्तश् च + अपि गो-चरः | अन्-अन्त-ज्ञान-संपन्ना अन्-अन्त-प्राणि-मोचकाः ||
SK
न तेषां कल्प-कोटीभिः कल्प-कोटि-शतैर् अपि | बुद्धैर् अपि वदद्भिस् तु गुण-अन्तः सु-वचो भवेद् | इति ||
SK
यथा + आर्य-रत्न-उल्का-धारण्यां बोधि-सत्व-गुणा उक्तास् तथा भावयितव्याः | रश्मि प्रमुञ्चिय माल्य-वियूहा माल्य-वतंसक माल्य वितानाः | माल्य-विचिन्न-विकीर्ण-समन्ताः ते जिन-पूज करोन्ति महा-आत्मा ||
SK
रश्मि प्रमुञ्चिय चूर्ण-वियूहा चूर्ण-वतंसक चूर्ण-वितानाः | चूर्ण-विचित्र-विकीर्ण समन्तान् ते जिन-पूज करोन्ति मह--आत्मा ||
SK
रश्मि प्रमुञ्चिय पद्म-वियूहा पद्म-वतंसक पद्म-विताना | पद्म-विचित्र-विकीर्ण-समन्तान् ते जिन-पूज करोन्ति महा-आत्मा ||
SK
रश्मि प्रमुञ्चिय हार-वियूहा हार-वतंसक हार-विताना | हार-विचित्र-विकीर्ण-समन्तान् ते जिन-पूज करोन्ति महा-आत्मा ||
SK
रश्मि प्रमुञ्चिय ध्वज-अग्र-वियूहा ते ध्वज पाण्डुर-लोहित-पीताः | नीलम् अन्-एक पताक विचित्रा ||
SK
ध्वज समलं-करिते जिन-क्षेत्राः ते मणि-जाल-विचित्र-वियूहा | पट्ट पताक प्रलम्बित दामा किङ्किणि-जाल जिन-स्वर-घोषान् ||
SK
छत्र धरेन्ति तथा-गत-मूर्ध्ने ते यथ एक-जिनस्य करोन्ति | पाणि-तलात् तु अ-चिन्तिय-पूजां एवम् अ-शेषत-सर्व-जिनानां ||
SK
एष समाधि विकुर्व ऋषीणां ते जग-संग्रह-ज्ञान-विकुर्वा | अग्र-समाध्य्-अभिनिर्हरमाणाः सर्व-क्रिया उपचार सुखेभिः ||
SK
सत्व विनेन्ति उपाय-सहस्रैः के-चि तथा-गत-पूज-मुखेन | दान अ-चिन्ति अ-त्याग-मुखेन सर्व-धुतं-गुण-शील-मुखेन ||
SK
अ-क्षय-क्षान्ति अ-क्षोभ्य-मुखेन के-चि व्रतं तप-वीर्य-मुखेन | ध्यान प्रशान्ति विहार-मुखेन स्व्-अर्थ-विनिश्चय-प्रज्ञ-मुखेन ||
SK
सर्व उपाय सहस्र-मुखेन ब्रह्म-विहार अभिज्ञ-मुखेन | संग्रह-वस्तु हित-एषि-मुखेन पुण्य-समुच्चय ज्ञान-मुखेन ||
SK
सत्य-प्रतीत्य विमोक्ष-मुखेन के-चि बल-इन्द्रिय-मार्ग-मुखेन | श्रावक-यान-विमुक्ति-मुखेन प्रत्यय-यान-विशुद्धि-मुखेन ||
SK
उत्तम-यान-विकुर्व-मुखेन के-चिद् अ-नित्यत-दुष्ख-मुखेन | के-चि निर्-आत्म-नि-जीव-मुखेन अ-शुभत संज्ञि-विराग-मुखेन ||
SK
शान्त-निरोध-समाधि-मुखेन यातुक चर्य-मुखा जगती ये |यातुक धर्म-मुखाः प्रतियन्तः ते तु समन्त-विमोक्ष-मुखेन ||
SK
सत्व विनेन्ति यथा-आशय लोके ये तु समन्त-विमोक्ष-मुखेन | सत्व विनेन्ति यथा-आशय लोके तेष निमित्त न शक्य ग्रहीतुं ||
SK
केन-चिद् एष समाधि-विकुर्वाः तेन ति-व्यूहत [दोउब्त्fउल्] अग्र-समाधिः | सर्व-जगत्-परिपाच-नुलोमा सर्व-रती मुख-प्रीति-प्रहर्षाः ||
SK
चिन्तिय दर्शयि सर्व विनेन्ति यत्र दुर्-भिक्ष सु-दुर्-लभ सर्वं | ये परिष्कार सुख-आवह लोके तत्र च सर्व-भिप्राय-क्रियाभिः ||
SK
दातु ददन्ति करोन्ति जग-अर्थं ते वर-भोजन-पान-रस-अग्रैः |वस्त्र-निबन्धन-रत्न-विचित्रैः राज्य-धन-आत्म-प्रियैः परित्यागैः ||
SK
दान-धिमुक्ति जगद् विनयन्ति ते वर-लक्षण-चित्रित-गात्रा | उत्तम आभरणा वर-धीराः माल्य-विभूषित-गन्ध-नुलिप्ता ||
SK
रूप विदर्शिय सत्व विनेन्ति दर्शन प्रीति-प्रहर्ष-रतानां | ते वर-रूप-सु-रूप-सु-मेधाः उत्तम-रूप निदर्शयमानाः ||
SK
रूप-धिमुक्ति जगद् विनयन्ति ते मधुरैः कलविङ्क-रुतेभी | कोकिल-हंस-कुणाल-रवेण दुन्दुभि-किन्नर-ब्रह्म-रुतेन देशयि सर्व-धिमुक्तिषु धर्मम् ||
SK
ये चतुर् एव अशीति सहस्रा येभि जिना जगतो * अर्थ करोन्ति | तेभित धर्म-प्रभेद-मुखेभिः सत्व विनेन्ति यथा-आशय लोके ||
SK
ते सुख-दुष्ख-सहाय करोन्ति अर्थ-अन्-अर्थ-सहायक भोन्ती | सर्व-क्रियासु सहाय भवित्वा सत्व विनेन्ति सहाय-मुखेन ||
SK
दुष्ख-उपद्रव-सत्-कृत-दोषान् ते तु सहन्ति सहाय-निदानास् | तेभि सहाय सहन्तिय पीडां सर्व-जगस्य हिताय सुखाय ||
SK
यत्र न निष्क्रमणं न च धर्मो ज्ञायति रण्य-गतो न च मोक्षः | तत्र तु राज्य-समृद्धि-सहाय निष्क्रम-शान्त-मना अ-निकेताः ||
SK
ते गृह-बन्धन-तृष्ण-निकेतात् सर्व-जगत्-परिमोचन-हेतोः | सर्वत काम-रती अ-निकेता निष्क्रम-मोक्स्.अ प्रभावयमानाः ||
SK
ते दश चर्य प्रभावयमाना आचरि धर्म महा-पुरुषाणां | सर्वम् अ-शेषत चर्य ऋषीणां भावयमान करोन्ति जग-अर्थं ||
SK
यत्र् अमित-आयुष सत्व भवन्ती सौख्य-समर्पित-मन्द-किलेशाः | तत्र जरा-अर्दित व्याधिन-पृष्टा दर्शयि मृत्यु-वशं अ-वश-आत्मा ||
SK
राग-प्रदीपितु दोष-प्रदीप्तं मोह-महा-अग्नि-प्रदीपितु लोकम् | प्रज्वलितं जर-व्याधित-मृत्यु लोक निदर्शयि सत्व विनेन्ति ||
SK
दश-बलैश् चतुर्-वैशारद्यैर् अष्टदशैर् अपि धर्म-विशेषैः | बुद्ध-महा-आत्म तु सूचयमानाः बुद्ध-गुणेभि करोन्ति जग-अर्थम् ||
SK
ते च अदेश ऋद्ध्य्-अनुशास्ती रूप-धिष्ठान-बलेन समन्तात् | दर्शयमान तथा-गत ऋद्धी ऋद्धि-विकुर्वित सत्व विनेन्ति ||
SK
ते विविधेहि उपाय-नयेहि लोक-विचारि करोन्ति जग-अर्थं | लोकि अ-लिप्त जले यथ पद्मं प्रीति-प्रसाद-करा विचरन्ति ||
SK
काव्य-कराः कवि-राज भवन्ती ते नट-नर्तक झल्लक-मल्लाः | उत्कुट-शोभिक-हारक-नृत्या माय-कराः पृथु रूप-निदर्शी ||
SK
ग्रामिक नायक सारथि भोन्ती स-अर्थिक श्रेष्ठिक गृह-पति भोन्ति | राज अमात्य पुरो-हित-दूता वैद्य-विशारद-शास्त्र-विधि-ज्ञाः ||
SK
ते अटवीषु महा-द्रुम भोन्ती औषध अ-क्षय-रत्न-निधानाः | चिन्त-मणि द्रुम काम-ददाश् च देशिक उत्पथ-मार्ग-गतानां ||
SK
अर्च्चिय सन्तु तु लोक विदित्वा कर्म-विधीषु अ-जानक सत्वाः | ते कृषि-कर्म-प्रयोग-वणिज्या शिल्पि-विचित्र प्रभावयि लोके ||
SK
ये अ-विहेठ अ-हिंस-प्रयोगः सर्व-सुख-आवह-विज्ञ-प्रशस्ताः | विद्य-बल-औषधि शास्त्र-विचित्राः सर्व प्रभावित तेभि ऋषीभिः ||
SK
ये ऋषिणां चरणाः परम-अग्रा यत्र + अधिमुक्त स-देवकु लोकः | ये व्रत-दुष्-कर ये तप-श्रेष्ठाः सर्वि प्रभावित तेभि विदूभिः ||
SK
ते चरकाः परिव्राजक तीर्थ्याः तापस-गोतम-मोन-चराणाम् | नग्न अचेल-गुरु-श्रमणानां तीर्थिक आचर्या हि भवन्ति ||
SK
ते तु अजीविक धर्म-चराणां उत्तरिकाण अन्-उत्तरिकाणां | दीर्घ-जटान कुमार-व्रतानां तेष्व् अपि आचर्या हि भवन्ति ||
SK
सूर्य-नुवर्तक-पञ्च-तपानां कुक्कुर-गो-व्रतिका मृग-चर्या | चारिक तीर्थ्य दश त्रितयानां तेष्व् अपि आचर्या हि भवन्ति ||
SK
देवत-ज्ञान-प्रवेश-रतानां तीर्थ्-उपदर्शन-देश-चराणां | मूल-फल-अम्बु-चरा अपि भूत्वा धर्म अ-चिन्तिय ते परम-अग्राः ||
SK
उत्कुट-स्थायिन एक-चराणां कण्टक-भस्म-तृण-श्शयनानां | ये मुषले-शय [दोउब्त्fउल्] युक्ति-विहारी तेष्व् अपि आचर्या हि भवन्ति ||
SK
यावत बाहिरकाः पृथु-तीर्थ्या आशय तेष्व् अधिमुक्ति समीक्ष्य | तीक्ष्ण-दुर्-आसद-उग्र-तपेभी तीर्थिक दुष्ख-प्रहाण विनेन्ति ||
SK
दृष्टि-समाकुल लोके विदित्वा सर्व-कु-दृष्टि-समाश्रित तीर्थ्याः | सूक्ष्म-पदेभिर् उपायन येभी सत्य-प्रकाशन तेषु करोन्ति ||
SK
केषु-चि द्रामिड-मन्त्र-पदेभी देशयि सत्य सु-गुप्त-पदेभिः | केषु उज .. व्यक्त-पदेभिः केषु-चिद् एव रहस्य-पदेभिः ||
SK
केषु-चि अक्षर-भेद-पदेभिः अर्थ-विनिश्चय-वज्र-पदेभिः | वादि-प्रमर्दन-ज्ञान-पदेभिः शास्त्र-अ-धर्मक-मोक्ष-पदेभिः ||
SK
केषु-चि मानुष-मन्त्र-पदेभिः सर्व-प्रवेश-निरुक्ति-पदेषु | केषु-चि देव-निरुक्ति-पदेभिः नाग-निरुक्तित यक्ष-पदेभिः ||
SK
राक्षस-अथ-गन्धर्व-पदेभिः भूत-कुम्भाण्ड-महा-उर-गकेभिः | किंनर-अप्सर-गरुड-पदेभिः सत्य-प्रकाशन-मोक्ष्-उपनेन्ति ||
SK
ते यथ-सत्य निरुक्ति-विधि-ज्ञा एवम् अ-शेषत ये जिन-धर्मा | धर्मम् अ-चिन्तिय वाक्य-पथ-ज्ञा देशयि एष समाधि-विकुर्वा ||
SK
ते जग-सौख्यत अग्र-समाधी सर्व-जगे अभिनिर्हरमाना | रश्मिम् अ-चिन्तियम् उत्सृजमाना रश्मि प्रमुञ्चिय सत्व विनेन्ति ||
SK
रश्मि प्रमुञ्चिय दर्शयमाना यावत सत्व विजानित रश्मि | तेषु सु-दर्शन भोति अ-मोघम् हेतु अन्-उत्तरि ज्ञान-वरस्य ||
SK
दर्शयि बुद्ध विदर्शयि धर्मं संघ निदर्शयि मार्ग नराणाम् | दर्शयि चेतिक ते जिन-बिम्बा तेन सु-दर्शन-रश्मि निवृत्ता ||
SK
रश्मि प्रमुञ्चि प्रभं-कर नामा या प्रभ जिह्म करोति मरूणां | सर्व-रजं च तमं च हनित्वा सो प्रभ भासति लोक-हितानां ||
SK
ताय प्रभासय चोदित सत्वास् ते जिन-पूज-प्रदीप धरेन्ती | ते जिन-पूज-प्रदीप धरित्वा लोक-प्रदीप-करा जिन भोन्ति ||
SK
तैल-प्रदीप घृतस्य प्रदीपा दारु तृणा नड-वेणु प्रदीपान् | गन्ध-रसायन-रत्न-प्रदीपान् दत्व जिनेषु प्रभं-कर लब्धाः ||
SK
रश्मि प्रमुञ्चिय प्रतारणि नामा ताय प्रभासय चोदित सत्वाः | ... नाव-प्रतारणि-नद्य-पथेषु | दूषित संस्कृत वर्णित शान्ती तेन प्रतारणि रश्मि निवृत्ता ||
SK
रश्मि पिपास-विनोदनि नामा ताय प्रभासय चोदित सत्वाः | काम-गुणेषु तृषां प्रजहित्वा धर्म-विमुक्ति-रस-अर्थिक भोन्ति ||
SK
काम-गुणेषु तृषां प्रजहित्वा धर्म-विमुक्ति-रस-अर्थिक भूत्वा | बुद्ध भवन्त्य् अ-मृतं-जल-वर्षी तृष्ण-पिपास-विनोदन लोके ||
SK
पुष्करिणी नदि-कूप-तडागा उत्सय कारित बोधि-निदानाः | काम विवर्णित वर्णित-ध्याना तृष्ण-विनोदनि तेन निवृत्ता ||
SK
प्रीति-करी यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः | प्रीति-फुटा वर-बोधि-निदानं चिन्त जनेन्ति भविष्य स्वयं-भू ||
SK
लक्षण-मण्डित पद्म-निषण्णा यत् कृत-विग्रह कारुणिकानां | भाषित बुद्ध-गुणाः सद कालं प्रीति-करी प्रभ तेन निवृत्ता ||
SK
रश्मि प्रमुञ्चि रतिं-कर नामा ताय प्रभासय बोधित सत्वा | बुद्ध-रती-रत धर्म-रती-रत संघ-रती-रत ते सद भोन्ति ||
SK
त्रितय-रती-रत ते सद भूत्वा बुद्ध-समागम-धर्म-गण-आर्ये | लब्ध-नुपत्तिक-क्षान्ति लभन्ति चोदित स्मारित ये बहु सत्वा ||
SK
बुद्ध-अनुस्मृति-धर्म-गण-आर्ये बोधि य चित्त-गुणान् विवरित्वा | तेन रतिं-कर रश्मि निवृत्ता ||
SK
पुण्य-समुच्चय-रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा | दानु ददन्ति विचित्रम् अन्-एकं प्रार्थयमानु अन्-उत्तरु बोधिं ||
SK
आशय पूरितु याचनकानां यज्ञ निर्-अर्गड तैर् यजमानैः | सर्व-भिप्रायत दानु ददित्वा पुण्य-समुच्चय रश्मि निवृत्ता ||
SK
ज्ञानवती यद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः | एक तु धर्म मुखातु अन्-एका धर्म-मुखान् अवबुद्धि क्षणेन ||
SK
धर्म-प्रभेद ... ग्राहित सत्वान् अर्थ-विनिश्चय ज्ञान विभक्ती | धर्म-पद-अर्थ-विभाषण कृत्वा ज्ञानवती प्रभ तेन निवृत्ता ||
SK
प्रज्ञ-प्रदीपय ओसरि रश्मि ताय प्रभासय चोदित सत्वाः | शून्य नि-सत्व अ-जात-विपन्नान् ओतरि धर्म अ-भाव-स्व-भावान् | माय-मरीचि-समा दक-चन्द्र-स्वप्न-समान् प्रतिबिम्ब-समान् वा | धर्म अ-स्वामिक शून्य निर्-ईहान् भाषति प्रज्ञ-प्रदीप निवृत्ता ||
SK
धर्म-विकुर्वणि रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वा | धारणि अ-क्षय-कोषु लभित्वा सर्व-तथा-गत-कोषु लभेन्ति ||
SK
धर्म-धराणु परिग्रहु कृत्वा धार्मिक-रक्ष करित्व ऋषीणां | धर्म अनुग्रह कृत्व जगस्य धर्म-विकुर्वणि रश्मि निवृत्ता ||
SK
त्यागवती यद रश्मि विमुञ्ची ताय य मत्सर चोदित सत्वा | ज्ञात्वा अ-नित्य अ-शाश्वत-भोगान् त्याग-रती-रत ते सद भोन्ति ||
SK
मत्सर-दुर्-दम सत्व अ-दान्ता ज्ञात्व धनं सुपिन-अभ्र-स्व-भावं | बृंहित त्याग प्रसन्नम् अनेन त्यागवती-प्रभ तेन निवृत्ता ||
SK
निष्-परिदाह य ओसरि रश्मिः ताय दुः-शीलय चोदित सत्वा | शील-विशुद्धि प्रतिष्ठित भूत्वा चिन्त जनेन्ति भवेय स्वयं-भूः ||
SK
कर्म-पथे कुशले परिशुद्धे शील समादयि यद् बहु-सत्वान् | बोधयि चित्त समादयनेन रश्मि निवृत्त स निष्-परिदाहः ||
SK
क्षान्ति-वियूह य ओसरि रश्मि ताय य अ-क्षम चोदित सत्वाः | क्रोध-खिलं अधिमान जहित्वा क्षान्ति-रती-रत ते सद भोन्ति ||
SK
दुः-कृत क्षान्ति अपाय-मतीनां चित्त अ-क्षोभित बोधि-निदानं | वर्णित क्षान्ति-गुणाः सद-कालं तेन निवृत्त स क्षान्ति-वियूहा ||
SK
रश्मि उत्तप्तवती यद मुञ्ची ताय कुशीदय चोदित सत्वाः | युक्त प्रयुक्त त्रिषू रतनेषु पूज करोन्ति अ-खिन्न-प्रयोगाः ||
SK
युक्त प्रयुक्त त्रिषू रतनेषु पूज करित्व अ-खिन्न-प्रयोगाः | ते चतु मार-पथा अतिक्रान्ताः क्षिप्र स्पृशन्ति अन्-उत्तर बोधिं ||
SK
वीर्य समादयि यद् बहु-सत्वान् पूज करित्व त्रिषू रतनेषु | धर्म धरित्व क्षयं-गत काले तेन उतप्तवती प्रभ लब्धा ||
SK
शान्ति-करी यद रश्मि प्रमुञ्ची ताय विभ्रान्तय चोदित सत्वाः | तेषु न रागु न द्वेष न मोहाः बोधित भोन्ति समाहित चित्ताः ||
SK
पाप कु-मित्र किलिष्ट चरीये संगणिका-विनिवर्तन कृत्वा |वर्णित ध्यान प्रशान्त अरण्ये शान्ति-करी प्रभ तेन निवृत्ता ||
SK
प्रज्ञ-वियूह य ओसरि रश्मी ताय दुः-प्रज्ञ संचोदित सत्वाः | सत्य-प्रतीत्य विमोक्षनये अस्मिन् निद्रिय ज्ञान-गतिं गत भोन्ति ||
SK
इन्द्रिय-ज्ञान-गतिं गत भूत्वा ... | सूर्य-प्रदीप-समाधि लभित्वा प्रज्ञ-प्रभास-करा जिन भोन्ति ||
SK
राज्य-धन-आत्म-प्रियैः परित्यागैः धर्म य मार्गित बोधि-निदानं | तं च सत्-कृत्य प्रकाशिय धर्मं रश्मि निवृत्त स प्रज्ञ-वियूहाः ||
SK
बुद्धवती यद रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वाः | बुद्ध सहस्र अन्-एक अ-चिन्त्यान् पश्यिषु पद्म-वनेषु निषण्णान् ||
SK
बुद्ध-महा-आत्मत बुद्ध-विमोक्षा भासित बुद्ध-विकुर्व अन्-अन्ता | बुद्ध-बल-अवि-प्रभावन कृत्वा बुद्धवती प्रभ तेन निवृत्ता ||
SK
ते * अ-भयं-दद रश्मि प्रमुञ्ची ताय + अ-भय-अर्दित सत्व स-स्पृष्टाः | भूत-ग्रह-अवध-ताडन-बन्धे मुच्यिषु सर्व्-उपसर्ग-भयेभ्यः ||
SK
ये अ-भयेन निमन्त्रित सत्वाः प्राणि-बधात् तु निवारित भोन्ति | त्रायित यच्-छरण-आगत भीतास् तेन भयं-दद रश्मि निवृत्ता ||
SK
सर्व-सुख-आवह ओसरि रश्मी ताय गिलानय आतुर स्पृष्टाः | सर्वत व्याधि-दुखात् प्रतिमुक्ता ध्यान-समाधि-सुखानि लभन्ति ||
SK
रोग-विनोदनि मूल फल्-ओषध रत्न रसायन गन्ध्-अनुलेपान् | फाणित क्षीर मधू घृत तेलान् भोजन पान ददित्वय लब्धा ||
SK
बुद्ध-निदर्शनि रश्मि प्रमुञ्ची ताय स-चोदित आयु क्षयान्ते | बुद्ध अनुस्मरि पश्यिषु बुद्धम् ते च्युत गच्छि स-बुद्ध-क्क्षेत्रं ||
SK
काल करोन्ति च स्मारित बुद्धा दर्शित-प्रीत-करा जिन-बिम्बान् | बुद्ध-गताः शरणं मरण-अन्ते भासिय बुद्ध-निदर्शनि लब्धा ||
SK
धर्म-प्रभावनि रश्मि प्रमुञ्ची ताय प्रभाय संचोदित सत्वा | धर्म पठन्ति शृण्वन्ति लिखन्ती धर्म-रती रत ते सद भोन्ति ||
SK
|धर्म-दुर्-भिक्षय द्योतितु धर्मो धर्म-गवेषिण पूरित आशा | छन्द जनित्व प्रयुज्यथ धर्मे भाषत धर्म-प्रभावनि लब्धा ||
SK
घोषवती यद रश्मि प्रमुञ्ची बुद्ध-सुता परिचोदनतायां | यातुक शब्द-प्रचारु त्रि-लोके सर्व तथा-गत-घोष शृण्वन्ति ||
SK
उच्च स्वरेण स्तवन्ति मह-र्षीन् तूर्य-महत्तर-घण्ट-प्रदानैः | सर्व-जगे जिन-घोष-रुत-अर्थं निश्चरि घोषवती प्रभ-लब्धा ||
SK
ते * अ-मृतं-दद रश्मि प्रमुञ्ची ताय प्रभासय चोदित सत्वाः | सर्व प्रमाद चिरं प्रजहित्वा सर्व-गुणैः प्रतिपद्यति योगं ||
SK
दुष्ख अन्-एक उपद्रव-पूर्णं भाषित संस्कृत नित्यम् अ-क्षेमं | शान्ति-निरोध-सुखं सद क्षेमं भाषयता अ-मृतं-दद लब्धा ||
SK
रश्मि विशेषवती यद मुञ्ची ताय प्रभासय चोदित सत्वाः | शील-विशेष समाधि-विशेषं प्रज्ञ-विशेष शृणोन्ति जिनानां ||
SK
शीलत अग्र समाधित अग्रो प्रज्ञत अग्र महा-मुनि-राजा | य स्तुत वर्णित बोधि-निदानं तेन विशेषवती प्रभ लब्धा ||
SK
रत्न-वियूह य ओसरि रश्मि ताय प्रभासय चोदित सत्वाः | अक्षर रत्न-निधान लभित्वा पूजयि रत्न-वरेभि मह-र्षीन् ||
SK
रत्न-विसर्ग जिने जिन-स्तूपे संग्रहि कृत्स्न-जनं रतनेभिः | रत्न-प्रदान करित्व जिनानां रश्मि निवृत्त य रत्न-वियूहाः ||
SK
गन्ध-प्रभास य ओसरि रश्मी ताय प्रभासय चोदित सत्वाः | घ्रात्वा अ-मानुष गन्ध मनो-ज्ञान् बुद्ध-गुणे नियुतानि भवन्ति ||
SK
गन्ध्-अनुलेपनु-मानुष-दिव्यैर् [दोउब्त्fउल्] यत् कृत पूज नर-अधिपतीनां | गन्ध-मयान् जिन-विग्रह-स्तूपान् कृत्व निवृत्त सु-गन्ध-प्रभासः ||
SK
मुञ्चति रश्मि विचित्र-वियूहान् इन्द्र-पताक-ध्वज-अग्र विचित्रान् | तूर्य-निनादित-गन्ध-प्रधूपित शोभि-सुर-उत्तम-पुष्प-विकीर्णं ||
SK
तूर्य-प्रत्युद्गमि पूज-जिनानां पुष्प-विलेपन-धूपन-चूर्णैः | छत्त्र-ध्वज-अग्र-पताक-वितानैस् तेन विचित्र-वियूह निवृत्ताः ||
SK
रश्मि प्रसाद-करी यद मुञ्ची पाणि-तल-उपम संस्थिहि भूमिः | शोधयतो ऋषि आश्रम-स्तूपान् तेन प्रसाद-करी प्रभ लब्धा ||
SK
मुञ्चति मेघवती यद रश्मिं संस्थिहि गन्ध प्रवर्षति मेघं | स्तूप वर-अङ्गण-गन्ध-जलेन + आसिञ्चिय मेघवती प्रभ लब्धा ||
SK
भूषण-व्यूह प्रमुञ्चतु रश्मीन् नग्न अचेल सु-भूषण भोन्ती | वस्त्र-निबन्धन-हार-विचित्रं दत्व विभूषण रश्मि निवृत्ता ||
SK
रश्मि रस-अग्रवती यद मुञ्ची भुक्षित भोज्य रस-अग्र लभन्ती | भोजन पान विचित्र रस-अग्रान् दत्व रस-अग्रवती प्रभ लब्धा ||
SK
अर्थ-निदर्शनि मुञ्चति रश्मीन् रत्न-निधान लभन्ति दरिद्राः | अ-क्षय-रत्न-निधिं त्रिभि रत्नैर् दानत अर्थ-निदर्शनि लब्धा ||
SK
चक्षु-विशोधनि मुञ्चति रश्मीन् अन्ध तदा दृशि रूप विचित्रम् | दीप-प्रदान जिने जिन-स्तूपे चक्षु-विशोधनि रश्मि निवृत्ता ||
SK
श्रोत्र-विशोधनि मुञ्चति रश्मीन् श्रोत्र-विहीन श्रुणी पृथु-शब्दान् | वाद्य-प्रदान-जिने जिन-स्तूपे श्रोत्र-विशोधनि रश्मि निवृत्ता ||
SK
घ्राण-विशोधनि मुञ्चति रश्मीन् घ्रायि अ-घ्रायित-पूर्व सु-गन्धान् | गन्ध-प्रदान जिने जिन-स्तूपे घ्राण-विशोधनि रश्मि निवृत्ता ||
SK
जिह्व-विशोधनि मुञ्चति रश्मीन् स्निग्ध-मनो-ज्ञ-रुतै स्तुति बुद्धान् | वाच दुर्-उक्त विवर्जित रुक्षा श्लक्ष्ण उदीरित रश्मि निवृत्ता ||
SK
काय-विशोधनि मुञ्चति रश्मीन् इन्द्रिय-हीन सु-इन्द्रिय भोन्ति | काय-प्रणाम जिने जिन-स्तूपे कुर्वत काय-विशोधनि लब्ध्वा ||
SK
चित्त-विशोधनि मुञ्चति रश्मीन् उन्मतु सर्व स-चित भवन्ति | चित्त समाधि-वश-अनुग कृत्वा चित्त-विशोधनि रश्मि निवृत्ता ||
SK
रूप-विशोधनि मुञ्चति रश्मीन् पश्यिय चिन्तिय रूप-नर-इन्द्रान् | रूपक-शोधनि चित्र-समन्तात् स्तूप अलं-करता प्रतिलब्धा ||
SK
शब्द-विशोधनि मुञ्चति रश्मीन् शब्द अ-शब्दत शून्य विजानी | प्रत्यय जात प्रति-श्रुत-तुल्यं शब्द-प्रकाशन रश्मि निवृत्ता ||
SK
गन्ध-विशोधनि मुञ्चति रश्मीन् सर्व दु-गन्ध सु-गन्ध भवन्ती | गन्ध-वर-अग्र जनैर् जिन-स्तूपान् स्नापन-बोधि-द्रुम प्रभ एषा ||
SK
ते रस-शोधनि मुञ्चति रश्मीन् स-द्विष निर्-विष भोन्ति रस-अग्राः | बुद्ध स-श्रावक-मातृ-पितॄणां सर्व-रस-अग्र-प्रदान प्रभ + एषां ||
SK
स्पर्श-विशोधनि मुञ्चति रश्मीन् कक्खट स्पर्श मृदू सुख भोन्ती | शक्ति-त्रि-शूल + असि [दोउब्त्fउल्] तोमर-वर्षा माल्य मृदू पदुम-उत्पल भोन्ती ||
SK
दुष्य अन्-एक मृदू सुख-स्पर्शा संस्तरि मार्गि व्रजन्ति जिनानां | पुष्प-विलेपन-चीवर-सूक्ष्मा माल्य-वितान प्रदान प्रभा + इयम् ||
SK
धर्म-विशोधनि मुञ्चति रश्मीन् सर्वत रोमत चिन्तिय धर्मान् | निश्चरतः श्रुणि लोक-हितानां तोषयि सर्व-धिमुक्ति-जिनानाम् ||
SK
प्रत्यय जात अ-जात स्व-भावा धर्म-शरीर अ-जात-शरीराः | धर्मत नित्य-स्थिता गगन-स्था सूचत धर्म-विशोधनि लब्धा ||
SK
रश्मि सुखा-प्रमुखा इति कृत्वा एकतु रोम-मुखात् तु ऋषीणां | निश्चरि गङ्ग-रज-उपम रश्मी सर्व-पृथग्-विध-कर्म-प्रयोगाः ||
SK
ते यथ एकत रोम-मुखातो ओसरि गङ्ग-रज-उपम रश्मी | एवम् अ-शेषत सर्वतु रोमा देश समाधि-विकुर्व ऋषीणां ||
SK
येन गुणेन य रश्मि निवृत्ता तस्मि गुणेषु सहायक पूर्वे | तेषु तम् एव प्रमुञ्चति रश्मिं ज्ञान-विकुर्वण एष ऋषीणां ||
SK
तेष य पुण्य सहायक पूर्वे यैर् अनुमोदित याचित येभिः | येभि च दृष्ट शुभ-उपचितं वा ते इम रश्मि प्रजानति तेषां ||
SK
ये च शुभ-उपचिताः कृत-पुण्याः पूजित येभि पुनः पुनः बुद्धाः | अर्थिक छन्दिक बुद्ध-गुणेभिः चोदन तेष करोतिय रश्मिः ||
SK
सूर्य यथा जात्य्-अन्ध न पश्यी न + उ च स न + अस्ति उदेति स लोके | चक्षु-समेत उदागमु ज्ञात्वा सर्व प्रयुज्य स्वक स्वक धर्मे ||
SK
एवत रश्मि महा-पुरुषाणां अस्ति च ते इतरे च न पश्यी | मिथ्य-हता अधिमुक्ति-विहीनाः दुर्-लभ ते च उदार-मतीनां ||
SK
आभरणानि निपान विमानाः रत्न रसायन गन्ध्-अनुलेपाः | ते पि तु अस्ति महा-आत्म-जनस्य ते च सु-दुर्-लभ कृच्छ्र-गतानां ||
SK
एवत रश्मि महा-पुरुषाणां अस्ति च ते इतरे च न पश्यी | मिथ्य-हता अधिमुक्ति-विहीनाः दुर्-लभ ते च उदार-मतीनां ||
SK
यस्य् इमु [दोउब्त्fउल्] रश्मि-प्रभेद श्रुणित्वा भेष्यन्ति श्रद्दधि-मुक्ति [दोउब्त्fउल्] प्रसादः | तेन न काङ्क्ष न संशय कार्यो न + अङ्ग न भेष्यि महा-गुण-केतुः ||
SK
ते परिवार-वियूह-विकुर्वा अग्र-समाध्य्-अभिनिर्हरमाणाः | सर्व-दश-द्दिशि अ-प्रतिमानाः दर्शयि बुद्ध-सुताः परिवारं ||
SK
ते त्रि-सहस्र-प्रमाणु-विचित्रं पद्मम् अधिष्ठिहि रश्मि-वियूहाः | काय-पर्यङ्क परिस्फुट-पद्मं दर्शयि एष समाधि-विकुर्वा ||
SK
ते दश-क्षेत्र-रज-उपम अन्ये पद्मम् अधिष्ठिहि संपरिवारं | सर्व परीवृत बुद्ध-सुतेभी ये च समाध्य्-अ-समाधि-विहारी ||
SK
ये परिपाचित तेन ऋषीणां सत्व निष्प-दित बुद्ध-गुणेषु | ते परिवारि अतं मह-पद्मं सर्व उदिक्षिषु प्राञ्जलि-भूताः ||
SK
ते च समाहित बाल-शरीरे व्युत्थिहि यौवन-वेग-स्थितेभ्यः ||
SK
यौवन-वेग-स्थितेषु समाहित व्युत्थिहि जीर्णक वृद्ध शरीराः | जीर्णक-वृद्ध-शरीरि समाहित व्युत्थिहि श्रद्ध उपासिक-कायात् ||
SK
श्रद्ध उपासिक-काय-समाहित व्युत्थिहि भिक्षुणि-काय-शरीरा | भिक्षुणि-काय शरीरि समाहित व्युत्थिहि भिक्षु-बहु-श्रुत-कायाः ||
SK
भिक्षु-बहु-श्रुत-काय समाहित व्युत्थिहि शैक्ष अ-शैक्ष-शरीराः | शैक्ष अ-शैक्ष-शरीरि समाहित व्युत्थिहि प्रत्यय-बुद्ध-शरीरा ||
SK
प्रत्यय बुद्ध शरीरि समाहित व्युत्थिहि बुद्ध-वर-अग्र-शरीरा | बुद्ध-वर-अग्र-शरीरि समाहित व्युत्थिहि देवत-काय शरीरा ||
SK
देवत-काय-शरीरि समाहित व्युत्थिहि नाग-मह-र्द्धिक-कायाः | नाग-मह-र्द्धिक-काय-समाहित व्युत्थिहि यक्ष-मह-र्द्धिक-कायाः ||
SK
यक्ष-मह-र्द्धिक-काय-समाहित व्युत्थिहि सर्वत-भूत-शरीराः | सर्वत-भूत-शरीरि समाहित व्युत्थिहि एकतु-रोम-मुखातः ||
SK
एकतु रोम-मुखस्मि समाहित व्युत्थिहि सर्वत रोम-मुखेषु | सर्विषु रोम-मुखेषु समाहित व्युत्थिहि एकतु वाल-पथातः ||
SK
एकतु वाल-पथस्मि समाहित व्युत्थिहि सर्वत वाल-पथेभ्यः | सर्विषु वाल-पथेषु समाहित व्युत्थिहि ते परम-अणु-रजातः ||
SK
एक-रजस्मि समाहित भूत्वा व्युत्थिहि सर्व-रजेभ्य अ-शेषम् | सर्व-रजेषु समाहित भूत्वा व्युत्थिहि सागर-वज्र-तलातः ||
SK
सागर-वज्र-तलस्मि समाहित व्युत्थिहि ते मणि-वृक्ष-फलेभ्यः | वृक्ष-फलेषु समाहित भूत्वा व्युत्थिहि रश्मि-मुखेभि जिनानां ||
SK
रश्मि-मुखेषु जिनान समाहित व्युत्थिहि सागर-तोय-नदीभ्यः | सागर-तोय-नदीषु समाहित व्युत्थिहि तेज-पथातु महा-आत्मा ||
SK
तेज-पथस्मि समाहित भूत्वा व्युत्थिहि वायु-पथ-अनुस्मृति + इमान् | वायु-पथे तु समाहित भूत्वा व्युत्थिहि भूमि-तलानु महा-आत्मा ||
SK
भूमि-तले तु समाहित भूत्वा व्युत्थिहि सर्वतु देव-विमानात् | सर्वि तु देव-बलान समाहित व्युत्थिहि ते गगन-अनुस्मृति + इमान् ||
SK
एति समाधि विमोक्ष अ-चिन्त्यास् तेष अ-चिन्त्य-गुण-उपचितानां | कल्प अ-चिन्त्य प्रभाषियमाणाः सर्व-जिनेभि न शक्य क्षयीतुम् ||
SK
सर्व-जिनेभि च भाषित एते कर्म-विपाकु जगस्य अ-चिन्त्यो | नाग-विकुर्वित बुद्ध-विकुर्वा ध्यायिन ध्यान अ-चिन्त्य विकुर्वा ||
SK
ते च वशे स्थित अष्ट विमोक्षाः श्रावक एक भवी-बहु भोन्ती | भूत्व बहुः पुन एक भवित्वा ध्यायति प्रज्वलते गगनस्मिन् ||
SK
ते हि महा-करुणाय विहीना बोधि अन्-अर्थिकु लोक उपेक्षी | दर्शयि काय-विकुर्व अ-चिन्त्या कस्य न दर्शयि लोक हित-एषी ||
SK
चन्द्र स सूर्य नभे विचरन्तौ दर्शयि सर्व-दिशि प्रतिभासं | उत्स-सरो-ह्रद-कूप-तडागे भाजन-रत्न-समुद्र-नदीषु ||
SK
एवम् अ-चिन्तिय दर्शियि रूपं सर्व-दश-द्दिशि ते नर-वीराः | सर्व-समाधि-विमोक्ष-विधि-ज्ञा यत्र तथा-गत साक्षि स्वयं-भूः ||
SK
सागर-देव रुतावति-नामा यावत् सत्व समुद्र्य् उत्पन्ना | तेषु स्वर-अङ्ग-रुतेषु विधि-ज्ञा तोषयि सर्व-रुतान् स्व-रुतेन ||
SK
सा हि स-राग स-दोष रुतावति सर्व-रुते प्रतिघोष विधि-ज्ञा | धारणि-धर्म-बलं वशि-प्राप्ता कः स न तोषि स-देवक-लोकम् ||
SK
माय-करो यथ विद्य-विधि-ज्ञो दर्शयि रूप विचित्र अन्-अन्तान् | रात्रि-दिव-एक-मुहूर्तुकु मासान् वर्ष-शतं पुन स्फीत-प्रदीप्तान् ||
SK
माय-करो हि स-रागु स-दोषो तोषयि माय-विकुर्वित लोकं | ध्यान अभिज्ञ विमोक्ष-सु-शिक्षित कस्य न तोषयि चर्य-विधि-ज्ञः ||
SK
राहु यथ-इष य निर्मणि कायं कुर्वति वज्र पदे तल-बन्धं | दर्शन सागरु नाभि-प्रमाणं भोति सुमेरु-तले सम शीर्षः ||
SK
सो * अपि स-रागु स-दोष स-मोहो राहु निदर्शयि ईदृश ऋद्धी | मार-प्रमर्दन लोक-प्रदीप कस्य न दर्शयि ऋद्धि अन्-अन्ता ||
SK
पश्य अ-चिन्तिय शक्र-विकुर्वा देव-सुर-इन्द्र-रणस्मि प्रवृत्ते | यातुक बिम्बर्-अन्-एक-सुराणां तातुक निर्मणि शक्रु स्व-कायान् ||
SK
सर्व-सुर-इन्द्र-सुराश् च विजानी शक्रम ... पुरतो गत स्व-आयुम् |एष गृह्येत वज्र-धराणां संभ्रमु गच्छिसु सर्व-सुर-इन्द्राः ||
SK
नेत्र सहस्र भयङ्-कर दर्शी ज्वाल-प्रमुञ्चन वज्र गृहीतं | वर्मित काय दुर्-आसद तेज शक्रम् उदीक्ष्य पलात्व् असुर-इन्द्राः ||
SK
सो हित इत्वर-पुण्य-बलेना शक्र विकुर्वति देव-जय-अर्थी | सर्व-जगस्य अ-शेषत त्राणां अ-क्षय-पुण्य कुतो न विकुर्वी ||
SK
... वायुत संभुत मेघ-प्रवर्षी वायुत मेघ पुनः प्रसमेन्ती | वायुत सस्य विरोहति लोके वायु सुख-आवह सर्व-जगस्य ||
SK
सो हि अ-शिक्षित पारमितासु बुद्ध-गुणेषु अ-शिक्षित वायुः | दर्शयि लोक-विपाक अ-चिन्त्या कस्य न दर्शयि ते वर-लब्धा ||
SK
इति शिक्षा-समुच्चये रत्न-त्रय-अनुस्मृति-नाम + अष्टादशः परिच्छेदः समाप्तः ||
SK
[XIX. (पुण्यवृद्धि)]
SK
नवदशः परिच्छेदः ||
SK
अन्यो * अपि पुण्य-वृद्धये हेतुः कार्यः | यो * अयं सर्व-अवस्थासु सत्व-अर्थः ||
SK
यथा कथितं च + आर्य-रत्न-मेघे | स तथा-गत-चैत्ये वा तथा-गत-विग्रहे वा पुष्पं वा धूपं वा गन्धं वा ददत् सर्व-सत्वानां दौःशील्य-दौर्गन्ध्य-मल-अपनयनाय तथा-गत-शील-प्रतिलम्भाय च परिणामयति | स सन्-मार्जन-उपलेपनं कुर्वन् सर्व-सत्वानाम् अ-प्रासादिक-ईर्या-पथ-विगमाय | प्रासादिक-ईर्या-पथ-संपदे च परिणामयति | स पुष्प-च्छत्रम् आरोपयन् सर्व-सत्वानां सर्व-क्लेश-परिदाह-विगमाय परिणामयति | स विहारं प्रविशन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वान् निर्वाण-पुरं प्रवेशयेयं | स निष्क्रमन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वान् संसार-चारकान् निष्क्रामयेयं | स लभन-द्वारम् उद्घाटयन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वानां लोक-उत्तरेण ज्ञानेन निर्वाण-सु-गति-द्वारम् उद्घाटयेयं | स पिथद् एवं चित्तम् उत्पादयति | सर्व-सत्वानां सर्व-अपाय-द्वाराणि पिदध्यां | स निषीदन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वान् बोधि-मण्डे निषादयेयं | स दक्षिणेन पार्श्वेन शय्यां कल्पयन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वान् एव परिनिर्वापयेयं | स ततो व्युत्तिष्ठन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वान् व्युत्थापयेयं सर्व-क्लेश-पर्युत्थानेभ्यः | स शरीर-गत्या गच्छन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वा महा-पुरुष-गत्या गच्छन्तु | स तत्र + उपविष्टए एवं चित्तम् उत्पादयति | सर्व-सत्वा निः-शल्य-क्रिया यद् उत राग-द्वेष-मोहेभ्यः | स शौचं कुर्वन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वानां क्लेश-मलात् प्रक्षालयेयं |स हस्तौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वानां सर्व-क्लेश-वासनाम् अपनयेयं |स पादौ प्रक्षालयन्न् एवं चित्तम् उत्पादयति सर्व-सत्वानाम् अन्-एक-प्रकाराणि क्लेश-रजांस्य् अपनयेयं |मुखं प्रक्षालयन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वानां सर्व-धर्म-मुखानि परिशोधयेयं | स दन्त-काष्ठं भक्षयन्न् एवं चित्तम् उत्पादयति | सर्व-सत्वानां नाना-विधान् क्लेश-मलान् अपनयेयं | सर्वां काय-अवस्थां सर्व-सत्व-हित-सुखाय परिणामयति | तथा-गत-चैत्यं वन्दमान एवं चित्तम् उत्पादयति | सर्व-सत्वा वन्दनीया भवन्तु स-देवकस्य लोकस्य + इति ||
SK
अथ-वा यथा + आर्य-प्रज्ञा-पारमितायां | पुनर् अ-परं शारिपुत्र व्याड-कान्तार-मध्य-गतेन बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यम् न संत्रासम् आपत्तव्यम् | तत् कस्माद् * धेतोः | तथा हि तेन सर्वं परित्यक्तं सर्व-सत्वानाम् अर्थाय | तेन + एवं चित्तम् उत्पादयितव्यम् |सचेन् मां व्याडा भक्षयेयुस् तेभ्य एव तद् दानं दत्तं भवतु | मम च दान-पारमिता-परिपूरिर् भविष्यति | अभ्यासन्ना च भविष्यति | तथा च करिष्यामि यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसम्बुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे तिर्यग्-योनि-गताः सत्वाः सर्वेण सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ||
SK
चोर-कान्तार-मध्य-गतेन शारिपुत्र बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं |तत् कस्माद् * धेतोः | सर्वस्व-परित्याग-कुशला हि ते बोधि-सत्वा महा-सत्वा उत्सृष्ट-कायेन + अपि च बोधि-सत्वेन भवितव्यं परित्यक्त-परिष्कार-उपकरणेन च | तेन + एवं चित्तम् उत्पादयितव्यं |ते चेन् मे सत्वाः परिष्कार-उपकरणानि हरन्ति तेभ्य एव + एतद् दानं दत्तं भवतु | सचेन् मां के-चिज् जीविताद् व्यपरोपयेयुः तत्र मया न द्वेषो न क्रोध उत्पादयितव्यः | तेषाम् अपि मया न कायेन न वचसा न मनसा + अपराद्धव्यं | एवं च मे तस्मिन् समये दान-पारमिता च शील-पारमिता च क्षान्ति-पारमिता च परिपूरिं गमिष्यति | अन्-उत्तरा च मे सम्यक्-संबोधिर् अभ्यासन्ना भविष्यति | तथा च करिष्यामि तथा प्रतिपत्स्ये यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे | एते च + अन्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति न प्रज्ञास्यन्ते ||
SK
पानीय-कान्तार-मध्य-गतेन शारिपुत्र बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं |तत् कस्माद् * धेतोः | अ-संत्रस्त-धर्माणो हि बोधि-सत्वा महा-सत्वा भवन्ति | एवं च + अनेन चित्तम् उत्पादयितव्यं | सर्व-सत्वानां मया सर्व-तृष्ण-च्छेदाय शिक्षितव्यं | न बोधि-सत्वेन महा-सत्वेन संत्रासम् आपत्तव्यं |सचेद् अहं तृष्णया कालं करिष्यामि | अपि तु खलु पुनः सत्वानाम् अन्तिके महा-करुणा-चित्तम् उत्पादयिष्यामि | अहो वत + अल्प-पुण्या अमी सत्वा यद् एतेषां लोके एवं-रूपाणि पानीय-कान्ताराणि प्रज्ञायन्ते | तथा पुनर् अहं करिष्यामि तथा प्रतिपत्स्ये यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीय-कान्ताराणि न प्रज्ञास्यन्ते | तथा च सर्व-सत्वान् पुण्यैः संयोजयिष्यामि यथा + अष्ट-अङ्ग-उपेत-पानीय-लाभिनो भविष्यन्ति | तथा दृढं वीर्यम् आरप्स्ये सर्व-सत्वानां कृतशो यथा वीर्य-पारमिता तस्मिन् समये परिपूरिं गमिष्यन्ति ||
SK
पुनर् अ-परं शारिपुत्र बुभुक्षा-कान्तार-मध्य-गतेन बोधि-सत्वेन महा-सत्वेन न + उत्त्रसितव्यं न संत्रसितव्यं न संत्रासम् आपत्तव्यं | एवं च + अनेन संनाहः संनद्धव्यः | तथा दृढं वीर्यम् आरप्स्ये तथा च स्वं बुद्ध-क्षेत्रं परिशोधयिष्यामि यथा मे * अन्-उत्तरां सम्यक्-संबोधिम् अभिसंबुद्धस्य सतस् तत्र बुद्ध-क्षेत्रे सर्वेण सर्वं सर्वथा सर्वं एवं-रूपाणि बुभुक्षा-कान्ताराणि न भविष्यन्ति न प्रज्ञास्यन्ते | सुखिता एव ते सत्वा भविष्यन्ति सुख-समङ्गिनः | सर्व-सुख-समर्पितास् तथा च करिष्यामि यथा तेषां सत्वानां यो य एव + अभिप्रायो भविष्यति यद् यद् एव + आकाङ्क्षिष्यन्ति मनसा तत् तद् एव प्रादुर्-भविष्यति | तद् यथा + अपि नाम देवानां त्रायस्त्रिंशानां मनसा सर्वं प्रादुर्-भवति मनसा सर्वम् उत्पद्यते | तथा दृढं वीर्यम् आरप्स्ये यथा तेषां सत्वानां धार्मिका अभिप्रायाः परिपूरिं गमिष्यन्ति | अ-वैकल्यं च जीवित-परिष्कारैः सर्व-सत्वानां भविष्यति सर्वेषां सर्वतः सर्वदा + इति ||
SK
एवम् अयं ... सर्व-अवस्थासु सत्व-अर्थः ... पुण्य-वृर्धि-हेतुः | विस्तरतस् त्व् आर्य-गो-चर-परिशुद्धि-सूत्रे द्रष्टव्यः ||
SK
किं च | ... धर्म-दानं निर्-आमिषं | पुण्य-वृद्धि-निमित्तं भवति ||
SK
यथा + उक्तम् आर्य-अध्याशय-संचोदन-सूत्रे | विंशतिर् इमे मैत्रेय + अनुशंसा निर्-आमिष-दाने | यो लाभ-सत्-कारम् अ-प्रतिकाङ्क्षन् धर्म-दानं ददामि | कतमे विंशतिः | यद् उत | स्मृतिमांश् च भवति मतिमांश् च भवति बुद्धिमांश् च भवति गतिमांश् च भवति धृतिमांश् च भवति प्रज्ञावांश् च भवति | लोक-उत्तरां च प्रज्ञाम् अनुविध्यति | अल्प-रागो भवति | अल्प-द्वेषो * अल्प-मोहः | मारश् च + अस्य + अवतारं न लभते | बुद्धैर् भगवद्भिः समन्वाह्रियते | अ-मनुष्याश् च + एनं रक्षन्ति | देवाश् च + अस्य + ओजः काये प्रक्स्.इपन्ति | अ-मित्राश् च + अस्य + अवतारं न लभन्ते | मित्राणि च + अस्य + अ-भेद्यानि भवन्ति | आदेय-वचनश् च भवति | वैशारद्यांश् च प्रतिलभते | सौमनस्य-बहुलश् च भवति विद्वत्-प्रशस्तश् च | अनुस्मरणीयं च + अस्य तद् धर्म-दानं भवति | इमे मैत्रेय विंशतिर् अनुशंसा इति ||
SK
आर्य-प्रज्ञा-पारमितायां त्व् आह | सचेत् त्वम् आनन्द श्रावक-यानिकानां पुद्गलानां श्रावक-भूमौ धर्मं देशेयः | तस्यां च धर्म-देशनायां ये त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे * अर्हत्वं साक्षात् कुर्युस् तद् अद्य + अपि त्वया मे श्रावकेण श्रावक-कृत्यं न कृतं स्यात् | सचेत् पुनः त्वम् आनन्द बोधि-सत्वस्य महा-सत्वस्य + एकम् अपि प्रज्ञा-पारमिता-प्रतिसंयुक्तं पदं देशयेः प्रकाशयेर् एवम् अहं त्वया श्रावकेण + आराधितः स्यां | तया च पूर्विकया धर्म-देशनया ये त्रि-साहस्र-महा-साहस्रे लोक-धातौ सत्वास् ते सर्वे * अर्हत्वं प्राप्नुयुस् तेषां च + अर्हतां यद् दान-मयं पुण्य-क्रिया-वस्तु शील-मयं पुण्य-क्रिया-वस्तु भावना-मयं पुण्य-क्रिया-वस्तु | तत् किं मन्यसे आनन्द + अपि तु स बहु पुण्य-स्कन्धः | आह | बहु भगवन् बहु सु-गत | भगवान् आह | अतः स आनन्द श्रावक-यानिक-पुद्गलो बहुतरं पुण्य-स्कन्धं प्रसवति यो बोधि-सत्वानां महा-सत्वानां प्रज्ञा-पारमिता-प्रतिसंयुक्तं धर्मं देशयति | अतो * अप्य् आनन्द बहुतरं पुण्य-स्कन्धं प्रसवति यो बोधि-सत्वो महा-सत्वो * अ-परस्य बोधि-सत्वस्य प्रज्ञा-पारमिता-प्रतिसंयुक्तं धर्मं देशयति | अन्तश एक-दिवसम् अपि | तिष्ठत्व् आनन्द एक-दिवसः | अन्तशः प्राग्-भक्तम् अपि | तिष्ठत्व् आनन्द प्राग्-भक्तं | अन्तश एक-नालिकाम् अपि | यावद् अन्तश एक-क्षण-संनिपातम् अपि | पेयालं ||
SK
इदम् आनन्द तस्य बोधि-सत्वस्य महा-सत्वस्य धर्म-दानं सर्व-श्रावक-यानिकानाम् अपि सर्व-प्रत्य्-एक-बुद्ध-यानिकानां च पुद्गलानां कुशल-मूलम् अभिभवति | एवं कुशल-मूल-समन्वागतो बोधि-सत्वो महा-सत्वः | एवं कुशल-मूलं समन्वाहरन्न् अ-स्थानम् आनन्द + अन्-अवकाशो यत् स बोधि-सत्वो महा-सत्वो विवर्तेत + अन्-उत्तरायाः सम्यक्-संबोधेः | न + एतत् स्थानं विद्यतए इति ||
SK
कथं धर्म-दानं दातव्यं | यथा + आर्य-सद्-धर्म-पुण्डरीके * अभिहितं | कालेन च + उ चिन्तयमानु पण्डितः प्रविश्य लयनं तथ घट्टयित्वा | विपश्य धर्मं इमि सर्व योनिशो उत्थाय देशेत अ-लीन-चित्तः ||
SK
सुख-स्थितो भोति सदा विचक्षणो सुखं निषण्णस् तथ धर्म भासते | उदार-प्रज्ञप्त करित्व आसनं चौक्षे मनो-ज्ञे पृथिवी-प्रदेशे ||
SK
चौक्षं च सो चीवर प्रावरित्वा सु-रक्त-रङ्गं च प्रसन्न-रङ्गैः | आसेवकं कृष्ण तथा ददित्वा महा-प्रमाणं च निवासयित्वा ||
SK
स-पाद-पीठस्मि निषद्य आसने विचित्र-दुष्येहि सु-संस्तृतस्मिन् | सु-धौत-पादश् च उपारुहित्वा स्निग्धेन शीर्षेण मुखेन च + अपि ||
SK
धर्म-आसने तत्र निषीदियानः एक-अग्र सत्वेषु समं विपश्यन् | उपसंहरेच् चित्र-कथा बहूश् च भिक्षूनश् च + उ भिक्षुनिकास् तथा + एव ||
SK
किलासिताश् च + अपि विवर्जयीत न च + अपि उत्पादयि खेद-संज्ञां | अ-रतिं च सर्वां विजहीत पण्डितः मैत्री-बलं पर्षदि भावयेच् च ||
SK
भाषेच् च रात्रिं-दिवम् अग्र-धर्मान् दृष्ट-अन्त-कोटी-नियुतैः स पण्डितः | संहर्षयेत् तां च तथा + एव तोषयेत् न च + अपि किञ्-चित् तत्र जातु प्रार्थयेत् ||
SK
खाद्यं च भोज्यं च तथा + अन्न-पानं वस्त्राणि शय्या-आसन-चीवराणि | गिलान-भैषज्य न चिन्तयेत् सः न विज्ञपेत् पर्षदि किञ्-चिद् अन्यत् ||
SK
अन्यत्र चिन्तेय सदा विचक्षणः भवेय बुद्धो * अहम् इमे च सत्वा | एतच् च मे सर्व-सुख-उपधानं यं धर्म श्रावेमि हिताय लोके ||
SK
अत्र + एव + आह ||
SK
न कस्य-चिद् अन्तशो धर्म-प्रेम्णा + अप्य् अधिकतरम् अनुग्रहं करोति ||
SK
आर्य-चन्द्र-प्रदीप-सूत्रे * अप्य् आह | अध्येषयेयुर् यदि त्वां ते धर्म-दानस्य कारणात् | प्रथमं वाच भाषेया न + अहं वैतुल्य-शिक्षितः ||
SK
एवं त्वं वाच भाषेया युष्मे वा विज्ञ-पण्डिताः | कथं महा-आत्मनां शक्यं पुरतो भाषितुं मया ||
SK
सहसा + एषां न जल्पेत तुलयित्वा तु भाजनं | यदि भाजनं विजानीयाः अन्-अधीष्टो * अपि देशयेः ||
SK
यदि दुः-शीलान् पश्येसि परिषायां बहून् स्थितान् | संलेखं मा प्रभाषे त्वं वर्णं दानस्य कीर्तयेः ||
SK
भवेयुर् यदि च + अल्प-इच्छाः शुद्धाः शीले प्रतिष्ठिताः | मैत्रं चित्तं जनित्वा त्वं कुर्याः संलेखिकीं कथाम् ||
SK
परीत्ता यदि पाप-इच्छाः शीलवन्तो * अत्र विस्तराः | लब्ध-पक्षस् तदा भूत्वा वर्णं शीलस्य कीर्तयेः | इति ||
SK
उक्तं च + आर्य-सागर-मति-सूत्रे | तद् यथा | समे | समवति | शमित-शत्रु | अङ्कुरे | मङ्कुरे | मार-जिते | कराडे | केयूरे | ओघवति | ओहोकयति | विशठ-निर्-मले | मल-अपनये | ओखरे | खरोग्रसे | ग्रसने | हे-मुखी | पराङ्-मुखी | आ-मुखी | शमितानि सर्व-ग्रह-बन्धनानि | निगृहीताः सर्व-पर-प्रवादिनः | विमुक्ता मार-पाशाः | स्थापिता बुद्ध-मुद्राः समुद्घातिताः सर्व-माराः | अ-चलित-पद-परिशुद्ध्या विगच्छन्ति सर्व-मार-कर्माणि ||
SK
इमानि सागरमते मन्त्र-पदानि धर्म-भाणकेन सु-प्रवृत्तानि कृत्वा धर्म-आसनकेन सु-प्रवृत्तानि कृत्वा धर्म-आसन-निषण्णेन सर्वां पर्षदं बोध्य्-आकार-अभिनिर्हृतया मैत्र्या स्फरित्वा | आत्मनि वैद्य-संज्ञाम् उत्पाद्य धर्मे भैषज्य-संज्ञां धर्म-श्रवणिकेष्व् आतुर-संज्ञां तथा-गते सत्-पुरुष-संज्ञां धर्म-नेत्र्यां चिर-स्थितिक-संज्ञाम् उत्पाद्य + इमानि मन्त्र-पदान्य् आ-मुखी-कृत्य धर्म-संकथा करणीया | तस्य समन्ताद् यो जन-शते न मारो न मार-कायिका वा देवता उपसंक्रमयिष्यन्ति वि-चक्षुः-करणे | ये * अप्य् एनम् उपसंक्रमिष्यन्ति ते * अप्य् अस्य न शक्ष्यन्त्य् अन्तरायं कर्तुम् इति ||
SK
अत्र + एव + आह | धर्म-भाणकेन चौक्षेण शुचि-समुदाचारेण सु-स्नातेन शुचि-निवासितेन भवितव्यम् इति ||
SK
एवं धर्म-दानं ||
SK
बोधि-चित्तं च पुण्यस्य वृद्धि-हेतुः समासतः ||
SK
यथा + उक्तम् आर्य-रत्न-करण्डक-सूत्रे | तद् यथा + अपि नाम मञ्जुश्रीर् नाना-गन्ध-वृक्षाश् च चतुर्-धातु-संगृहीता विवर्धन्ते | एवम् एव मञ्जुश्रीर् नाना-संभार-उपचितं बोधि-सत्वस्य कुशल-मूलं | बोधि-चित्त-संगृहीतं सर्व-ज्ञता-परिणामितं विवर्धतए | इति ||
SK
एषा + आदिका आदि-कर्मिकाणां सहसा बोधि-सत्व-शिक्षा स्मरण-अर्थम् उपदर्शिता | विस्तरतस् तु बुद्ध-विषय एव ||
SK
अत्र च + अस्या यथा-उक्तायाः शिक्षायाः | सिद्धिः सम्यक्-प्रहाणानाम् अ-प्रमाद-अ-वियोजनात् | स्मृत्या + अथ संप्रजन्येन योनिशश् चिन्तनेन च ||
SK
तत्र + अन्-उत्पन्नानां पापकानाम् अ-कुशलानां धर्माणाम् अन्-उत्पादाय + एव छन्दं जनयति व्यायच्छति वीर्यम् आरभते चित्तं प्रगृह्णाति सम्यक्-प्रणिदधाति + इत्य् अनेन रक्षा ||
SK
उत्पन्नानां च प्रहाणाय छन्दं जनयति + इत्य् अनेन शुद्धिः | अन्-उत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयति | यावद् उत्पन्नानां च स्थितये भूयो-भावाय छन्दं जनयति + इत्य् आदि | अनेन वृद्धिः | एतानि च नित्यम् अ-प्रमाद-अधिष्ठितानि कार्याणि सर्व-कुशल-मूलानां तन्-मूलत्वात् ||
SK
यथा + उक्तम् आर्य-चन्द्र-प्रदीप-सूत्रे | यावन्त धर्माः कुशलाः प्रकीर्तिताः शील-श्रुतं त्यागु तथा + एव क्षान्तिः | सर्वेषु मूलं ह्य् अयम् अ-प्रमादो निधान-लम्भः सु-गतेन देशित | इति ||
SK
को * अयम् अ-प्रमादो नाम | इष्ट-विघात-अन्-इष्ट-आगम-शङ्का-पूर्वकं प्रति-कार-तात्पर्यं | तद् यथा तीव्र-कोप-प्रसादस्य राज्ञो भैषज्य-तैल-परिपूर्ण-भाजनं गृहीत्वा पिच्छिल-संक्रमेण भृत्यस्य गच्छतः ||
SK
उक्तं ह्य् आर्य-तथा-गत-गुह्य-सूत्रे |तत्र कतमो * अ-प्रमादो |यद् इन्द्रिय-संवरः | स चक्षुषा रूपाणि दृष्ट्वा न निमित्त-ग्राही भवति | न + अनुव्यञ्जन-ग्राही | एवं यावन् मनसा धर्मान् विज्ञाय न निमित्त-ग्राही भवति | न + अनुव्यञ्जन-ग्राही | सर्व-धर्मेष्व् आस्वादं च + आदीनवं च निः-शरणं च यथा-भूतं प्रजानाति | अयम् उच्यते * अ-प्रमादः ||
SK
पुनर् अ-परम् अ-प्रमादो यत् स्व-चित्तस्य दमनं पर-चित्तस्य + आरक्षा क्लेश-रतेर् अ-परिकर्मणा धर्म-रतेर् अनुवर्तनं यावद् * अयम् उच्यते * अ-प्रमादः | यस्य गुह्यक-अधिपते श्रद्धा च + अ-प्रमादश् च तस्य + अनुलोमिकेन वीर्येण कार्यं | येन तान् अ-प्रमाद-कारणान् श्रद्धा-कारणांश् च धर्मान् समुदानयति | यस्य गुह्यक-अधिपते श्रद्धा च + अ-प्रमादश् च वीर्यं च तेन स्मृति-संप्रजन्ये योगः करणीयः | येन स्मृति-संप्रजन्येन सर्वान् बोधि-पक्षान् धर्मान् न विप्रणाशयति | यस्य गुह्यक-अधिपते श्रद्धा च + अ-प्रमादश् च वीर्यं च स्मृति-संप्रजन्यं च तेन योनिशः प्रयोगे योगः करणीयः | योनिशः प्रयुक्तो हि गुह्यक-अधिपते बोधि-सत्वो यद् अस्ति तद् अस्ति + इति प्रजानाति | यन् न + अस्ति तन् न + अस्ति + इति प्रजानाति | यावद् अस्ति संवृत्या चक्षुर् इत्य् आदि ||
SK
तथा + अत्र + एव + आह | सदा + अ-प्रमादो ह्य् अ-मृतस्य मूलं सत्व-अर्थ-युक्तस्य च बोधि-चित्तं | यद् योनिशश् च + एव विवेक-चित्तम् अ-परिग्रहः सर्व-सुखस्य मूलम् इति ||
SK
आह च | पर-आत्म-समता-अभ्यासाद् बोधि-चित्तं दृढी-भवेत् | आपेक्षिकं पर-आत्मत्वं पार-अवारं यथा-मृषा ||
SK
तत्-कूलं न स्वतः पारं किम् अपेक्ष्य + अस्त्व् अ-पारता | आत्मत्वं न स्वतः सिद्धं किम् अपेक्ष्य परो भवेत् ||
SK
तद्-दुष्खेन न मे बाधा + इत्य् अतो यदि न रक्षसि | न + आगामि-काय-दुष्खात् ते बाधा तत् केन रक्षसि ||
SK
अहम् एव तदा + अपि + इति मिथ्या + इयं परिकल्पना | अन्य एव मृतो यस्माद् अन्यस् तत्र प्रजायते ||
SK
अन्यश् चेज् जायते तत्र किं पुण्येन प्रयोजनं | यूनः किं वृद्ध-कायस्य सुखाय धन-संचयैः ||
SK
मृते गर्भ-गते तावद् अन्यो बालः प्रजायते | मृते बाल्ये कुमारत्वं तन्-नाशाय + आगतो युवा ||
SK
तन्-नाशाच् च + आगतो वृद्धः | एकः कायः कथं मतः | एवं प्रति-क्षणं च + अन्यः कायः केश-नख-आदि-वत् ||
SK
अथ बाल्या-परित्यागाद् बालो याति कुमारतां | काय-स्व-भावो वक्तव्यो यो * अवस्था-रहितः स्थितः | कायश् चेत् प्रतिमा-आकारः पेसी-भस्मसु न + अस्ति सः ||
SK
सूक्ष्म-भावेन चेत् तत्र स्थौल्यं त्यक्त्वा व्यवस्थितः | अ-निर्देश्यः स्वतः प्राप्तः | काय इत्य् उच्यते न सः ||
SK
तत्र चिन्ता + एव मे न + अस्ति दृश्य-कायस् तु नाशवान् | अवस्थाभिश् च संबन्धः संवृत्या च + एव दृश्यते ||
SK
आगमाच् च तद् अस्तित्वं युक्त्य्-आगम-निवारितम् | न गुण-व्यतिरेकेण प्रधानं विद्यते यतः ||
SK
न च त्रीणि प्रधानानि तथा सत्ता गुणा अपि | प्रत्य्-एकं त्र्य्-आत्मकास् ते * अपि शेषं न + एक-विधं जगत् ||
SK
अ-चेतनं च वस्त्र-आदि तत्-सुख-आद्य्-आत्मकं कथम् | सुख-आदेर् न पट्ट-उत्पत्तिः पट्ट-आदेस् तु सुख-आदयः | पट्ट-आदीनाम् अ-हेतुत्वाद् अ-भावस् तत्-सुखं कुतः ||
SK
तस्माद् आगम-युक्तिभ्यां अ-नित्यं सर्व-संस्कृतं |तद् * धेतु-फल-संबन्धः प्रत्य्-अक्षत्वान् न साध्यते ||
SK
स्व-संताने च दृष्टो * असौ नित्येषु च कथं यथा | परम् अणुस् [दोउब्त्fउल्] तु न + एको * अस्ति दिग्-भेद-अन्-उपपत्तितः ||
SK
दीप-तैलं क्षयं याति क्षीयमानं न लक्ष्यते | एवं भावा न लक्ष्यन्ते क्षीयमानाः प्रति-क्षणं ||
SK
संतानः समुदायश् च पङ्क्ति-सेना-आदि-वन् मृषा | तत्र + अभ्यासाद् अहं-कारः परस्मिन् किं न जायते ||
SK
तस्माद् एवं जगत् ज्ञेयं यथा + आयतन-संचयः | अ-प्राप्तम् एव तद् दुष्खं प्रति-कार्यं पर-आत्मनोः ||
SK
अ-युक्तम् अपि चेद् एतत् स्व-आत्मन्य् अस्ति + इतरत्र न | यद् अ-युक्तं निवर्त्यं तत् स्वम् अन्यद् वा यथा-बलं ||
SK
कृपया बहु दुष्खं चेत् कस्माद् उत्पाद्यते बलात् | जगद्-दुष्खं निरूप्य + इदं कृपा-दुष्खं कथं बहु ||
SK
एवं भावित-संतानाः पर-दुष्ख-सम-प्रियाः | अवीचीम् अवगाहन्ते हंसाः पद्म-वनं यथा ||
SK
सत्वेषु मुच्यमानेषु ये ते प्रामोद्य-सागराः | तैर् एव ननु पर्याप्तं मोक्षेण + अप्य् अ-रसेन किम् ||
SK
एवं पर-अर्थं कृत्वा + अपि न मदो न च विस्मयः | न विपाक-फल-आकाङ्क्षा पर-अर्थ-एक-अन्त-तृष्णया [दोउब्त्fउल्] ||
SK
दश-दिक्-सत्व-संपत्तिर् आत्मीया + अस्य न संशयः | न + अस्त्य् एर्ष्या-अवकाशो * अपि पर-सौख्ये स्व-संज्ञया ||
SK
परेषाम् आत्मनो वा + अपि सामान्या पाप-देशना | पुण्य-अनुमोदना च + एवं बुद्ध-अध्येषण-याचनं ||
SK
परिणामनम् अप्य् एवं निर्-विशेषं प्रवर्तते | पुण्यं प्रवर्तते तस्माद् अन्-अन्तं सत्व-धातु-वत् ||
SK
अयं स मार्ग-प्रवरः क्षेम-अन्-अन्त-सुख-उत्सवः | बोधि-सत्व-महा-स-अर्थ कलिल-प्रीति-वर्धनः ||
SK
पाल्यमानश् च सततं वज्र-पाण्य्-आतियान्त्रिकैः | मार-गुल्मिक-संत्रास-जननैर् बुद्ध-किं-करैः ||
SK
संबुद्ध-राज-तनया बोधि-चित्त-रथ-स्थिताः | वहन्ते तेन मार्गेण स्तूयमानाः सुर-आदिभिः ||
SK
तस्माद् आत्मत्वम् आरोप्य सत्वेष्व् अभ्यास-योगतः | पर-आत्म-दुष्ख-शान्त्य्-अर्थम् आत्म-आदीन् सर्वथा + उत्सृजेत् ||
SK
तृष्णा परिग्रहो यस्य तस्य दुष्खं न शाम्यति | परिणाम-विनाशित्वात् स दुष्ख-जनको यतः ||
SK
लोके दुष्ख-अग्नि-तप्ते च का रतिः सु-सुखे भवेत् | समन्ताद् दह्यमानस्य नख-अ-दाहे * अपि किं सुखम् ||
SK
आत्म-तृष्णा च सर्वेषां दुष्खाणां मूलम् उत्तमं | तस्मान् निहन्मि ताम् एव सत्वेभ्यः स्व-अर्थम् उत्सृजन् ||
SK
तद् अग्र-दूती ज्ञाता-इच्छा जेतव्या सर्व-यत्नतः | आत्म-तत्व-स्मृतिं कृत्वा प्रतीत्य-उत्पाद-चिन्तया ||
SK
यद् भयान् न + उत्सृजाम्य् एतत् तद् एव + आददतो भयं | प्रति-क्षणं हि यात्य् एव कायश् चित्तं च मे यतः ||
SK
यदि नित्या + अप्य् अ-नित्येन निर्-मला मल-वाहिना | बोधिः कायेन लभ्येत ननु लब्धा मया + एव सा ||
SK
एवम् आत्मानम् उत्सृज्य सर्व-सत्व-अर्थम् आचरेत् | भैषज्य-प्रतिमा-कल्पो लोक-धर्मेष्व् अ-चिन्तकः ||
SK
सर्व-सत्व-अर्थ-मन्त्रित्वे स्व-प्रज्ञां विनियोजयेत् | युक्त्या संरक्ष्य तु द्रव्यं सत्वेषु वा + उपयोजयेत् ||
SK
स्व-काये पर-काये वा यद् दुष्खं न + इह दुष्ख-कृत् | सत्वानां भोग-विघ्नत्वात् क्लेशाः शोध्याः प्रयत्नतः | लोक-उपजीव्यात् सत्-तीर्थाद् [दोउब्त्fउल्] भुजङ्-ग-कुणपा इव ||
SK
पुण्य-क्षेत्रम् इदं शुद्धं संपत्-सस्य-महा-फलं | सुख-दुर्-भिक्ष-संतप्तं जगत् संतर्पयिष्यति ||
SK
लाभ-सत्-कार-काय-आदि त्यक्तं ननु-जने [दोउब्त्fउल्] मया | कोपः कस्य + अर्थम् अद्य + अपि मृषा वा तन् मया + उदितम् ||
SK
स्व-अर्थ-घ्नेषु यदि द्वेषः कृपा कुत्र भविष्यति | निर्-दयस्य + अपि कः कोपः पर-अर्थो यदि नश्यति ||
SK
आक्रोश-आदि-क्षमाः सत्यम् इक्षुकस् तूरिक-आदयः | स्वाम्य्--असनेन दुर्-न्यस्ता न + उपभोग्या भवन्ति ते ||
SK
चिन्तयति प्रतीकारं न च स्वामि-हित-इच्छया | न + अपि संचोदयत्य् एनं भोग-अर्थं न + उपयाति च ||
SK
अनुस्मृत्या + उपस्मृत्य + एतान् अ-कृष्ट-उप्ता जिन-आत्म-जाः | नाना-विषय-धातूनां सार्व-इन्द्रिय-महा-गदान् ||
SK
विज्ञप्य स्मारयित्वा + एतान् क्रुद्धान् अप्य् उपकारिणः | स्व-भावा-त्यक्त-माधुर्याः सुखयन्त्य् एव दुष्खितान् ||
SK
धातवः पञ्च भू-वारि-तेजो * अनिल-ख-संज्ञिताः | यावत् सत्वाः स्थितास् तावत् सर्वेषाम् अर्थ-कारिणः ||
SK
सर्व-दुश्-चरितेन + एषां सत्व-अर्थाद् विनिवर्तनं | एवम् एतान् करोम्य् एष धातून् षड् अपि निर्-व्यथान् ||
SK
यावद् आकाश-निष्टस्य निष्ठा लोकस्य संभवेत् | तावत् स्थास्यामि लोक-अर्थं कुर्वन् ज्ञान-पुरः-सरः ||
SK
आत्म-आचार्यो * अनुशियष्याद् * धि सदा + आत्मानं सु-शिष्य-वत् | अ-पृष्ट्वा च + आत्मना + आत्मानं बलेन + अ-रक्षित-क्रियः ||
SK
क एव मम दुष्खेन दुष्खी स्यान् मे भयाद् भयी | तद्-दोष-अनुशय-ज्ञो वा यथा + आत्म-गुरुर् आत्मनः ||
SK
अ-विराग्य् अ-पलायी च करुणा-विषयो * अपि वा | नित्य-संनिहितश् च + अपि शिष्य आत्म-समः कुतः ||
SK
क्लेश-उन्मत्तो * अथ मोह-अन्धः प्रपात-बहुले पथि | स्खलन् पदे पदे शोच्यः पर आत्मा च सर्वदा ||
SK
स्खलित-अन्वेषणं तस्मात् समान-व्यसनाज् जनात् | न युक्तं युज्यते त्व् अत्र गुणान् दृष्ट्वा + अद्भुतं महत् ||
SK
न + एकेन शक्यम् आदातुं मया दोष-महा-उदधिः | कृत्यम् अन्यैर् मम + एव + अत्र को * अन्य-दोषेषु मा + ईक्षणः ||
SK
पर-चोदन-दक्षाणाम् अन्-अधीष्ट-उपकारिणां | वाक्यं मूर्ध्ना प्रतीच्छामि सर्व-शिष्यो भवाम्य् अहं ||
SK
संग्रामो हि मम + एकस्य बहुभिः क्लेश-शत्रुभिः | तत्र + एकेन रण-आसक्तम् अन्ये निघ्नन्ति मां सुखम् ||
SK
तत्र यः पृष्ठतो भीतिं श्रावयेद् अन्यतो * अपि वा | प्रद्विष्टो वा प्रसन्नो वा समे प्राण-प्रदः सु-हृत् ||
SK
अलि-संहात-नीलेन चीर-भारण-भारिणा | विचित्र-सुरभि-स्फीत-पुष्प-शेखर-हारिणा ||
SK
युगपत् सर्व-दिग्-बुद्ध-क्षेत्र-सागर-चारिणा | बलिना प्रति-कार्येण सर्व-मार-अपहारिणा ||
SK
नरक-प्रेत-संताप-प्रशम-उन्मुक्त-वारिणा | संसार-गहन-अन्त-स्थ-भव्य-सत्व-अर्थ-सारिणा ||
SK
जगन्-नेत्र-उच्छव-उत्पादि-बल-अलङ्-कार-धारिणा | विदुषा बाल-वपुषा लोक-विस्मय-कारिणा ||
SK
मञ्जुश्री संज्ञकं यत् तत् पिण्डी-भूतं जगद्-धितं | सर्वेण + एव + आत्म-भावेन नमस् तस्मै पुनः पुनः ||
SK
अन्-एक-दुष्ख-संतप्त-प्रह्लादन-महा-ह्रदं | त्रैलोक्य-तृष्णा-पाताल-प्रपूरण-महा-अम्बु-दम् ||
SK
जगद्-इष्ट-फल-स्फीत-दश-दिक्-कल्प-पाद-पं |प्रार्थित-प्राप्ति-संहृष्ट-जगन्-नेत्र-उत्पल-अर्चितं ||
SK
विस्मय-उद्गत-रोमाञ्चैर् बोधि-सत्व-शतैः स्तुतम् | मञ्जुश्रियं नमस्यामि प्रणामैर् उत्तर-उत्तरैः ||
SK
निः-शेष-दुष्ख-वैद्याय सुख-सत्त्र-प्रदायिने | सर्व-आकार-उपजीव्याय मञ्जुघोषाय ते नमः ||
SK
इति जिन-तनयानां सर्वथा + अत्य्-अद्भुतानां चरितम् उपनिब्ध्य + उपार्जितं यच् * छुभं मे | भवतु सुखम् अन्-अन्तं देहिनां तेन यावत् सु-गत-पदम् अन्-अन्त-व्योम-सीमा-आधिपत्यं ||
SK
पुण्य-वृद्धिः समाप्ता ||
SK
समाप्तश् च + अयं बोधि-सत्व-विनयो * अन्-एक-सूत्र-अन्त-उद्धृतः शिक्षा-समुच्चय इति ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Śāntideva: Śikṣāsamuccaya (sa_zAntideva-zikSAsamuccaya.htm).

Source