The Achievement of Success in Lineage
Saṃtānāntarasiddhi
Sअंतानान्तरसिद्धि
SKDहर्मकीर्तिप्रणीता Sअन्तानान्तरसिद्धिः
SKबुद्धिपूर्वां क्रियां दृष्ट्वा स्वदेहे ऽन्यत्र तद्ग्रहात् / ज्ञायते यदि धीश्चित्तमात्रे ऽप्येष नयः समः //
SKआत्मनि चित्तस्पन्दनपूर्वौ क्रियाभिलापौ दृष्ट्वान्यत्र तयोर्दर्शनाद्यदि स्पन्दनमनुमीयेत, चित्तमात्रे ऽप्यष नयः समः / अतः चित्तमात्रतावादी अपि परचित्तमनुमातुं शक्नोति / तच्च कायवाग्विज्ञप्तिप्रतिभासि ज्ञानं ज्ञानान्तरस्पन्दनवेशेषेण विना भवत्येवं न मतम् / [१-३]
SKअथ परज्ञानस्य क्रियानुपलम्भात् परधीरनुमातुं न युज्यत इति चेत्? न; तुल्यत्वात् परो ऽपि परज्ञानपूर्वौ तौ कदापि न पश्यति ऽतः तेनापि तन्न ज्ञायते / [४-५]
SKआत्मनश्चित्तस्य परवर्तिनोर्निमित्तत्वानुपपत्तेः परचित्तं ज्ञायत इति चेत् / किं न युज्यते? स्वसमुत्थापकचित्तस्य प्रतिसंवेदनाभावात्, आत्मचित्तश्रयिणोश्चात्मनि दर्शनात् / तावपि यदि यथा स्यातां तादृशावुपलभ्येयाताम् / अन्यथा दर्शनादन्यनिमित्तं सिध्यतीति चेत्? अपरस्मिन्नपि समानमेव, स्वसमुत्थापकचित्तस्य संवेदनाभावात् / स्वचित्तस्पन्दननिमित्तके विज्ञप्तिप्रतिभासिनी ज्ञाने चान्तर्मुखप्रतिभासिनी प्रतीतेः बहिर्मुखप्रतिभासिनी अन्यनिमित्तदुत्पद्येते / [६-१२]
SKअनिमित्ते एव बहिर्मुखप्रतिभासिनीति किन्नेष्यते चेत्? अनिमित्तत्वे सर्वस्यानिमित्तत्वं प्रसज्येत / विच्छिन्नाविच्छिन्नप्रतिभासकृतो भेदो न ज्ञानयोः स्पन्दनत्वनिमित्तभेदविभागकृत् / तेनाविच्छिन्नप्रतिभासिनोरप्यनिमित्तत्वं भवेत्, विशेषाभावात् / तथा सति, अविच्छिन्नत्वविशिष्टः प्रतिभासभेद एव स्पन्दनपूर्वको न भवति / किन्तर्हि? विच्छिन्नस्यापि क्रियाविशेषस्य प्रतिभास एव / शरोपलप्रक्षेपणयन्त्रनिर्माणपरप्रचालनादिक्रियाविशेषप्रतिभासिनां विच्छिन्नस्यापि प्रतिभासस्य स्पन्दनपूर्वकत्वात् / परकृतचालनादिनां चाविच्छिन्नस्याप्यतद्पूर्वकत्वात् / [१३-१९]
SKतेन ह्यत्र क्रियाविशेषमात्रेण स्पन्दनस्य प्रतीतिरिती युज्यते / तत्र यदि कस्यचिद्पूर्वकत्वम्, न को ऽपि तत्पूर्वकः स्यात्, विशेषाभावात् / अतः क्रियाविशेषसामान्यं स्पन्दनविशेषसामान्यस्य गमकम् / तत्र यथा क्रियामुपलभ्य, आत्मनि स्पन्दनानुपलम्भादन्यत्र स्पन्दनप्रतीतिः; तथा क्रियाप्रतिभासोपलम्भने ऽपि / समानमेतत्; परो ऽपि परक्रियाभिलापयोर्निमित्तं नास्तीति किन्नेच्छति? तेनावश्यं तौ स्पन्दननिमित्तकत्वात् तद्भावे न भवत इति वक्तव्यम् / परो ऽपि तयोः प्रतिभासौ तथैव वदेत् / अतः नानयोः परस्परं भेदः / [२०-२६]
SKयदि तत्र प्रतिभासिन्योः स्पन्दननिमित्तकत्वमुच्यते, स्वप्नावस्थायामपि किन्नोच्यते? सर्व समानम् / परो ऽपि स्वप्नोपलब्धपरक्रियाभिलापौ स्पन्दननिमित्तकाविति किन्न वदति? तयोरभावादिति चेत् / तथोपलब्धिसाप्यात् किन्न स्तः? अथ मिद्धेनोपहतत्वात् पुरुषस्य अर्थशून्यं विज्ञानं जायत इति चेत् / परमते ऽपि तस्मादेव पराधिपत्यशून्यं विज्ञानमुपजायते / [२७-३२]
SKअथ स्वप्ने ऽपि ज्ञानस्यार्थवत्त्वात्तदोपलभ्यमाना अपि परसन्ताना एवेति चेत् / परं प्रतिविग्रहीतुं यदि युक्त्यागमरहितस्तथाविधो ऽसद् वादः समाश्रियेत, तदा पराभिमतं तस्य परायत्तत्वं न को ऽपि निवारयेत् / एतत्केषञ्चिन्मत एव सर्वाणि तथाविधानि ज्ञानानि सन्तानान्तरायत्तानि / विषेषस्तु साक्षात्परम्परया च / कदाचित् स्वप्ने ऽपि तस्य साक्षात् सन्तानान्तरयत्ता इष्टैव; देवाद्यधिष्ठानतः सत्यस्वप्नदर्शनात् / तस्मादस्य नैतदसद्वादसमाश्रयः / [३३-३८]
SKतावत्तया क्रिययापि तच्चित्तं कथं ज्ञायते? चित्तस्य कार्यत्वात् / तस्य कार्यत्वं तु चित्तान्तरे ऽपि तुल्यमिति कथन्न ज्ञायते? अपि च, यदि तत्क्रिया स्वसत्तामात्रेण स्वसन्तानं प्रत्यायेत्, तदानुपलभ्यमानेनापि स्यात्तथा प्रतिपत्तिः / न; ज्ञानापेक्षत्वाल्लिङ्गस्य इति चेत् / तद तत्र किमनया परम्परया - परचित्तात् क्रिया, क्रियातः ज्ञानम्, ज्ञानात् तस्य प्रतिपत्तिरिति / [३९-४४]
SKपरचित्तप्रभवधर्मि क्रियाप्रतिभासिज्ञानमेवास्य गमकं भवति / तस्याधिगतिस्तु अन्तशः तदाश्रितत्वात् / स्पन्दनमात्रसामान्यं क्रियाभिलापज्ञानसामान्यस्य कारणत्वात् कार्येण कारणस्य गतिः / तत्र आत्मस्पन्दननिमित्तकस्यान्तर्मुखवृत्तिः, अन्यस्यान्यथा / प्रायेणाधिकृत्यासौ भेदः / एतयोः सः कार्यकारणभावः स्वापाद्यवस्थायामितरस्यामपि च समानः / भ्रान्त्यवस्थायां यथास्वं प्रत्ययविशेषोपाश्रयात् परस्पन्दनदिनिमित्तोद्भूतविज्ञानवासनैव कदाचित्पराभोगादेः व्यवहितादपि वृत्तिं लभते: न त्वत्यन्तासदाभोगात् / तस्मात् सर्वावस्थासु क्रियादिविज्ञप्तेः चित्तस्पन्दनमनुमीयत एव / [४५-५१]
SKक्रियातः स्पन्दनप्रतिपत्तौ स्वाप इतरस्मिञ्च स्यात्प्रतिपत्तिरथ वा नैव कदाचन / परस्पन्दनभावे ऽपि क्रियालम्बनोदयात् / भवत्वालम्बनोदयः, न तु क्रिया / क्रियया स्पन्दनं गम्यते / भ्रान्त्यवस्थानां क्रियैव न भवति, अर्थशून्यज्ञानोदयान्न दोषः / सर्वप्रकारव्यपदेशसाम्यात् कदाचिज्ज्ञानमर्थशून्यम्, अन्यदान्यथा इत्येषो ऽधिकारः कुतो लब्धः? अथ मिद्धादिनावस्थान्यथाभावश्चेत् / यद्येवं सम्भवेत्, भवतु अविद्योपप्लुतत्वात्तथोदयः / तथा सति अर्थान्तरवादहान्या एते ऽनेकाशक्यनिगूहनदोषप्रसङ्गाः महाकृच्छ्रा उत्तेरेणैकेन निहता भवन्ति / [५२-५८]
SKननु तयोः दर्शनात् कायवाग्विज्ञप्तिभ्यां स्वमुत्थापकचित्तस्यानुमानमिति न्याय्यम् / न तु सन्तानान्तरसम्बद्धविज्ञप्तिप्रतिभासिज्ञाने परविज्ञप्ती भवितुमर्हतः, तयोरनुपादानोपादेयत्वादिति चेत् / नोच्यते परचित्तसमुत्थितविज्ञप्तिरूपत्वात्तत्र प्रतिभासिज्ञानेन समुत्थापकचित्तं गम्यत इति /
SKकिं तर्हि? तस्य कार्यत्वात् / विज्ञप्तिरिति समुत्थापकचित्तसन्तानाज्जाते क्रियावागाकारके ज्ञाने एव / समुत्थापकचित्तं च तयोरेवोपादानकारणम्, सन्तानान्तरज्ञानयोः त्वधिपतिप्रत्ययः / विज्ञप्तेरुपादानात्ते जनिते / तत्सम्बन्धेनोपचाराद् विज्ञप्ती भवतः / भवतु स्वपरयोः स्वस्वप्रतिभासस्यानुभवः, तैमिरिकद्वयदृष्टद्विचन्द्रवत्; तथाविधविज्ञानस्य हेतुः वासनोत्पादस्वभावबिशेषो ऽनादिकालिकैकार्थग्राहाध्यवसायित्वात् / एकहेतुसम्भूतयोः स्वपरवोइज्ञप्तिज्ञानयोः विज्ञप्तिवेनोपचारः / [५९-६४]
SKकिञ्च क्रियादिप्रतिभासिविज्ञानात् कार्यलिङ्गाज्जातं यत्परचित्तज्ञानं तत्परचित्तं विषयीक्रियत आहोस्विन्न? विषयीकरणे ऽर्थान्तरं स्यात् / अविषयत्वे तु कथं ज्ञानेन परचित्तसत्ता प्रतीयते? तत्स्वरूपाज्ञाने तत्सिद्धैरसम्भवादिति चेत् ३? एष प्रसङ्गो ऽपि समः / क्रियावाग्भ्यां परचित्तं प्रतिपत्तिमतामपि तत्स्वरूपविषयीकरणे स्वचित्तज्ञानवत् तदाकारस्यापि ज्ञानं प्रसज्येत / तदज्ञाने तु तेन तत्स्वरूपस्य ग्रहणं कथम्? [६५-६७]
SKअथ लिङ्गात् सामान्यधिगतेः नाकारस्य प्रतीतिरिति चेत्? किञ्च तत्सामान्यं परचित्तम् एवान्यद्वाहोस्विदवाच्यम् / अन्यत्वावाच्यत्वयोरेकत्वे त्वनेन तत्सामान्यमेव गृह्येत, न परचित्तम् / तत्कथमनेन तद् गम्यते? नापि सामान्यं परचित्तमेव / तथा सति तदाकारस्यापि ज्ञानं प्रसह्येत इत्युक्तम् / [८६-७१]
SKन ह्येषा अनुमानप्रक्रिया / न ह्यनुमानमर्थस्वरूपस्य ग्राहकम् / प्रत्यक्षवत् प्रतिभासाविशिष्टत्वादेः प्रसङ्गात् / तेन नास्य प्रामाण्यम् / तत्स्वरूपाग्रहे ऽप्यभिप्रेतार्थाविसंवादात् प्रामाण्यम् / धूमादिलिङ्गाज्जातमपि न वह्नयादिस्वरूपविषयि, दृष्टेनाविशेषप्रसङ्गात् / अनुमानस्यातीतादौ निःस्वभावताया चाप्रवृत्तेः, अर्थक्रियाप्रसङ्गाच्च / [७२-७६]
SKपरचित्तानुमाने ऽप्यभिप्रेतार्थाविसंवादो ऽस्त्येव / तत्प्रवर्तनद्वारेण प्राण्यन्तरसत्तां प्रतिपद्य पुनः पुनर्व्यवहारप्रवृत्तौ तदाधिपत्यादागार्थस्य प्राप्तेः / तन्मात्रफलचिन्तकस्यलोकस्य प्राण्यन्तरानुमाने प्रवृत्तेश्च / उत्तरार्थविशेषप्रतिभासिज्ञानानुभवोदयमात्रेण पुरुषस्य निराकाङ्क्षत्वात् / पूर्वज्ञानेन व्यवहारसमाप्तेः कृतार्थतत्वं प्रमाणत्वेन सिद्धत्वात् / [७७-८१]
SKननु स्वप्ने ऽपि पूर्वज्ञानादुत्तरार्थप्रतिभासिज्ञानमुत्पद्यते / न तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यं युज्यते, तदानीं सर्वेषां ज्ञानानां भ्रान्तत्वात् / तत्र विज्ञप्तिज्ञानं न कदाचिच्चित्तस्पन्दनाधिपत्येन विना उद्भवतीत्यतः ताभ्यां ये अनुमीयते / भ्रान्तिवशात् कदाचिद् व्यवहिते ऽपि उदेति, न तु तदाधिपत्यरहितत्वम् / विशेषस्त्वस्ति साक्षात्परम्परया चेत्युक्तम् / तत्र यथा पूर्वविज्ञप्तिज्ञानानां परम्परया स्पन्दनाधिपत्यादुदयः तथा तदुत्तरावस्थाभाविनामपि / विज्ञप्तिज्ञानाश्रयस्पन्दनोत्तरावस्थाचित्तसन्तानादेव परम्परयोत्पादः / तत्रापि यादृगनुमानं तादृगविसंवादो व्यवहारश्चाप्यस्त्येवेति केनापि न गृह्यते / [८२-८६]
SKपरचित्तानुमानेन तत्स्वरूपाग्रहे ऽप्यविसंवादाद् भवतु तथा प्रामाण्यम् / साक्षात् परचित्तविदां तु कथम्? यदि ते परचित्तस्य स्वरूपं साक्षाज्जानन्ति, तदा तस्यार्थान्तरग्रहणं स्यात् / अथ न जानन्ति, कथं ते साक्षाद्विदः? कथं नाम प्रत्यक्षेणार्थस्वरूपस्य अग्रहणं च भवति / अथ न गृह्यते, कथं तर्हि प्रमाणमिति चेत्? अप्रहीणग्राह्यग्राहक विकल्पयोगिनां परचित्तज्ञानमपि व्यवहारे ऽविसंवादादेव प्रमाणम्, रूपादिदर्शनवत्; आश्रयापरावृतेः / योगबलाद्धि तेषां ज्ञानं परचित्ताकारविशेषानुकारि स्फुटाभमुपजायते, कर्मदेवाद्यधिष्ठानबलात् सत्यस्वप्नदर्शनवत् / तेषामपि न परचित्तविषयित्वेन ज्ञानमुदेति, ते ऽपि तदाकारसदृशस्वचित्तप्रतिभासमेव जानन्तीत्येवमवधारणाद् परचित्तविद इति व्यवहारः / तदाकारानुकारिस्fउटाभत्वात् तत्प्रत्यक्षम्, अविसंवादित्वाच्च प्रमाणम् इति मतम् / अचिन्त्यो हि भगवतः सर्वार्थाधिगमः, सर्वथा ज्ञानभिधानविषयातीतत्वात् // [८७-९३]
SK// आचार्यधर्मकीर्तिप्रणीतं सन्तानान्तरसिद्धिप्रकरणं समाप्तम् //