Hymn to the Perfection of Wisdom
Prajñāpāramitāstotra
Pरज्ञापारमितास्तोत्र
SKनिर्विकल्पे नमस् तुभ्यं प्रज्ञापारमिते ऽमिते या त्वं सर्वानवद्याङ्गि निरवद्यैर् निरीक्ष्यसे //
SKआकाशम् इव निर्लेपां निष्प्रपञ्चां निरक्षराम् यस् त्वां पश्यति भावेन स पश्यति तथागतम् //
SKतव चार्ये गुणाढ्याया बुद्धस्य च जगद्गुरोः न पश्यन्त्य् अन्तरं सन्तश् चन्द्रचन्द्रिकयोर् इव //
SKकृपात्मकाः प्रपद्य त्वां बुद्धधर्मपुरःसरीम् सुखेनायान्ति माहात्म्यम् अतुलं भक्तिवत्सले //
SKसकृद् अप्य् आशये शुद्धे यस् त्वां विधिवद् ईक्षते तेनापि नियतं सिद्धिः प्राप्यते ऽमोघदर्शने //
SKसर्वेषाम् अपि वीराणां परार्थनिरतात्मनाम् पोषिका जनयित्री च माता त्वम् असि वत्सला //
SKयद् बुद्धा लोकगुरवः पुत्रास् तव कृपालवः तेन त्वम् अपि कल्याणि सर्वसत्त्वपितामही //
SKसर्वपारमिताभिस् त्वं निर्मलाभिर् अनिन्दिते चन्द्रलेखेव ताराभिर् अनुयातासि सर्वदा //
SKविनेयं जनम् आसाद्य तत्र तत्र तथागतैः बहुरूपा त्वम् एवैका नानानामभिर् ईड्यसे //
SKप्रभां प्राप्येव दीप्तांशोर् अवश्यायोदबिन्दवः त्वां प्राप्य प्रलयं यान्ति दोषा वादाश् च वादिनाम् //
SKत्वम् एव त्रासजननी बालानां भीमदर्शना आश्वासजननी चासि विदुषां सौम्यदर्शना //
SKयस्य त्वय्य् अप्य् अभिष्वङ्गस् त्वन्नाथस्य न विद्यते तस्याम्ब कथम् अन्यत्र रागद्वेषौ भविष्यतः //
SKनागच्छसि कुतश् चित् त्वं न च क्व चन गच्छसि स्थानेष्व् अपि च सर्वेषु विद्वद्भिर् नोपलभ्यसे //
SKये त्वाम् एवं न पश्यन्ति प्रपद्यन्ते च भावतः प्रपद्य च विमुच्यन्ते तद् इदं महद् अद्भुतम् //
SKत्वाम् एव बध्यते पश्यन्न् अपश्यन्न् अपि बध्यते त्वाम् एव मुच्यते पश्यन्न् अपश्यन्न् अपि मुच्यते //
SKअहो विस्मयनीयासि गम्भीरासि यशस्विनि सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे //
SKबुद्धैः प्रत्येकबुद्धैश् च श्रावकैश् च निषेविता मार्गस् त्वम् एका मोक्षस्य नास्त्य् अन्य इति निश्चयः //
SKव्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थं शरीरिणाम् कृपया लोकनाथैस् त्वम् उच्यसे च न चोच्यसे //
SKशक्तः कस् त्वाम् इह स्तोतुं निर्निमित्तां निरञ्जनाम् सर्ववाग्विशयातीतां या त्वं क्व चिद् अनिश्रिता //
SKसत्य् एवम् अपि संवृत्या वाक्पथैर् वयम् ईदृशैः त्वाम् अस्तुत्याम् अपि सतीं तुष्टूषन्तः सुनिर्वृताः //
SKप्रज्ञापारमितां स्तुत्वा यन् मयोपचितं शुभम् तेनास्त्व् आशु जगत् कृत्स्नं प्रज्ञापारपरायणम् //