The Upanishad of the Sound Drop
Nādabindūpaniṣad
Nआदबिन्दूपनिषद्
SKॐ अकारो दक्षिणः पक्ष उकारस् तूत्तरः स्मृतः / मकारस् तस्य पुच्छं वा अर्धमात्रा शिरस् तथा // NबिUप्_१ //
SKपादौ रजस् तमस् तस्य शरीरं सत्त्वम् उच्यते / धर्मश् च दक्षिणं चक्षुर् अधर्मश् चोत्तरं स्मृतम् // NबिUप्_२ //
SKभूर् लोकः पादयोस् तस्य भुवर् लोकस् तु जानुनोः / स्वर् लोकः कटिदेशे तु नाभिदेशे महर् जगत् // NबिUप्_३ //
SKजनलोकस् तु हृदये कण्ठदेशे तपस् ततः / भ्रुवोर् ललाटमध्ये तु सत्यलोको व्यवस्थितः // NबिUप्_४ //
SKसहस्रम् इति चात्र मन्त्र एव प्रदर्शितः / एवम् एनं समारूढो हंसं योगविचक्षणः // NबिUप्_५ //
SKन बध्यते कर्मचारी पापकोटिशतैर् अपि / आग्नेयी प्रथमा मात्रा वायव्यैषा वशानुगा // NबिUप्_६ //
SKभानुमण्डलसंकाशा भवेन् मात्रा तथोत्तरा / परमा चार्धमात्रा च वारुणीं तां विदुर् बुधाः // NबिUप्_७ //
SKकलात्रयानना वापि तासां मात्राप्रतिष्ठिता / एष ॐकार आख्यातो धारणाभिर् निबोधत // NबिUप्_८ //
SKयोषिणी प्रथमा मात्रा विद्युन्माला तथापरा / पतंगी च तृतीया स्याच् चतुर्थी वायुवेगिनी // NबिUप्_९ //
SKपञ्चमीनाम् अधेया च षष्ठी चैन्द्री विधीयते / सप्तमी वैष्णवी नाम शंकरी च तथाष्टमी // NबिUप्_१० //
SKनवमी महती नाम ध्रुवेति दशमी मता / एकादशी भवेन् मौनी ब्राह्मीति द्वादशी मता // NबिUप्_११ //
SKप्रथमायां तु मात्रायां यदि प्राणैर् वियुज्यते / स राजा भारते वर्षे सार्वभौमः प्रजायते // NबिUप्_१२ //
SKद्वितीयायां समुत्क्रान्तो भवेद् यक्षो महात्मवान् / विद्याधरस् तृतीयायां गन्धर्वस् तु चतुर्थिकाम् // NबिUप्_१३ //
SKपञ्चम्याम् अथ मात्रायां यदि प्राणैर् वियुज्यते / उषितः सहदेवत्वं सोमलोके महीयते // NबिUप्_१४ //
SKषष्ठ्याम् इन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् / अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा // NबिUप्_१५ //
SKनवम्यां च महर्लोकं दशम्यां च ध्रुवं व्रजेत् / एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् // NबिUप्_१६ //
SKततः परं शुद्धं व्यापकं निष्कलं शिवम् / सदोदितं परं ब्रह्म ज्योतिषाम् उदयो यतः // NबिUप्_१७ //
SKअतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् / अनौपम्यम् अभावं च योगयुक्तं तदादिशेत् // NबिUप्_१८ //
SKतद्भक्तस् तत्समासक्तः शनैर् मुञ्चेत् कलेवरम् / सुस्थितो योगचारेण सर्वसङ्गविवर्जितः // NबिUप्_१९ //
SKततो विलीनपाशो ऽसौ विमलः केवलः प्रभुः / तेनैव ब्रह्मभावेन परमानन्दम् अश्नुते // NबिUप्_२० //