The Upanishad of Non-Duality

Advayatārakopaniṣat

The Upanishad of Non-Duality

Advayatārakopaniṣat

SK
अद्वयतारकोपनिषत् पूर्णमदः � इति शान्तिः तारकयोगाधिकारः अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामो यतये जितेन्द्रियाय शमादिषडगुणपूर्णाय || १ || उपनिषद्ब्रह्मयोगिविरचितं विवरणम् ॐ श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचन्द्राय नमः द्वैतासंभवविज्ञानसंसिद्धाद्वयतारकम् | तारकब्रह्मेति गीतं वन्दे श्रीरामवैभवम् || इह खलु शुक्लयजुर्वेदप्रविभक्तेयमद्वयतारकोपनिषत् राजयोगसर्वस्वं प्रकटयन्ती ब्रह्ममात्रपर्यवसन्ना दृश्यते | अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते | अत्र यथोक्ताधिकार्युद्देशेन श्रुतयः तारकयोगमुपदिशन्तीत्याह- अथेति | अथ कर्मोपासनाकाण्डद्वयनिरूपणानन्तरं, यतः तेन पुरुषार्थासिद्धिः अतः
SK
प्. २) तदर्थं यत्र स्वातिरेकेण द्वयं न विद्यते तत् अद्वयं ब्रह्म, तन्मात्रबोधिनी विद्या तारकोपनिषत्, तां श्रुतयो वयं व्याख्यास्यामः | कस्मा अधिकारिण इत्यत आह- यतय इति | स्वाश्रमधर्मानुष्ठानपूर्वकं देशिकमुखतो वेदान्तश्रवणं ततो युक्तिभिः श्रुत्यविरुद्धाभिः मननं च कृत्वा निदिध्यासनाय यतत इति यतिः | अजितेन्द्रियस्य यतित्वं कुत इत्यत आह- जितेन्द्रियायेति | जितेन्द्रियस्य यतित्वोपपत्तेः | अरिषड्वर्गाक्रान्तस्य जितेन्द्रियता कुत इत्यत आह- शमादिषड्गुणपूर्णायेति | सामादिषड्गुणसंपत्तेः अरिषड्वर्गोपरतिपूर्वकत्वात् | एवं साधनवते श्रुतयः तारकयोगमुपदिशन्तीत्यर्थः || १ || योगोपायतत्फलम् चित्स्वरूपोऽहमिति सदा भावयन् सम्यङ् निमीलिताक्षः किंचिदुन्मीलिताक्षो वा अन्तर्दृष्ट्या भ्रूदहरादुपरि सच्चिदानन्दतेजःकूटरूपं परं ब्रह्मावलोकयन् तद्रूपो भवति || २ || एवं निदिध्यासनोपायतत्फलमाह- चिदिति | योगी स्वान्तः चिद्रूपोऽस्मीति भावयन् अर्धोन्मीलितलोचनः भ्रूमध्यादौ सच्चिदानन्दमात्रं ब्रह्माहमस्मीत्यालोकयन् तद्रूपः तारकरूपो भवति || २ || तारकस्वरूपम् गर्भजन्मजरामरणसंसारमहद्भयात् संसारयति, तस्मात् तारकमिति | जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति नेतीति विहाय यदवशिष्यते तदद्वयं ब्रह्म || ३ ||
SK
किं तारकमित्यत आह � गर्भेति | ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत् सदा यतिः इति श्रुतिसिद्धज्योतिर्लिङ्गस्य प्रत्यग्रूपत्वेन प्. ३) स्वाज्ञविकल्पितगर्भवासादिसंसारतारकत्वात् तारकं प्रत्यगात्मेत्यर्थः | जीवेशभेदे सति प्रत्यगभिन्नब्रह्मभावः कुत इत्याशङ्क्य, तयोर्भेदस्य मायिकत्वेन मिथ्यात्वात् ततो यच्छिष्यते, तदेव ब्रह्मेत्याह- जीवेति || ३ || तक्ष्यत्रयानुसंधानविधिः तत्सिद्ध्यै लक्ष्यत्रयानुसंधानं कर्तव्यम् || ४ || तदधिगमोपायः कथमित्यत आह- तत्सिद्ध्या इति || ४ || अन्तर्लक्ष्यलक्षणम् देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्रामा वर्तते | सा तु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति | तन्मध्ये तटित्कोटिसमानकान्त्या मृणालसूत्रवत् सूक्ष्माङ्गी कुण्डलिनीति प्रसिद्धास्ति | तां दृष्ट्वा मनसैव नरः सर्वपापविनाशद्वारा मुक्तो भवति | फालोर्ध्वगललाटविशेषमण्डले निरन्तरं तेजस्तारकयोगविस्फुरणेन पश्यति चेत् सिद्धो भवति | तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये तत्र फूत्कारशब्दो जायते | तत्र स्थिते मनसि चक्षुर्मध्यगतनीलज्योतिःस्थलं विलोक्य अन्तर्दृष्ट्या निरतिशयसुखं प्राप्नोति | एवं हृदये पश्यति | एवमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यम् || ५ ||
SK
अन्तर्बाह्यमध्यभेदेन लक्ष्यं त्रिविधम् | तत्र अन्तर्लक्ष्यलक्षणं तदभ्यासफलं चाह- देहेति | यदा कुण्डलिनी प्राणदृष्टिमनोऽग्निभिः मूलाधारत्रिकोणाग्रालंकारसुषुम्नाधोवक्त्रं प्. ४) त्रिकोणाग्रालंकारसुषुम्नाधोवक्त्रं विभिद्य तन्मध्ये प्रविशति तदा बाह्यन्तः- प्रपञ्चविस्मरणपूर्वकं मुन्यन्तःकरणं निर्विकल्पब्रह्मपदं भजति | मुनिः निर्विकल्पज्ञानात् विकल्पात् मुक्तो भवतीत्यर्थः | तत्सिद्ध्युपायः क इत्यत आह- फालेति | तद्गतसुखानुभवोपायं वदन् अन्तर्लक्ष्म्यम् उपसंहरति- तर्जनीति | सुखं प्राप्नोति | न केवलं कर्णरन्ध्रद्वये; एवं हृदये || ५ || बहिर्लक्ष्यलक्षणम् अथ बहिर्लक्ष्यलक्षणम् | नासिकाग्रे चतुर्भिः षड्भिरष्टभिः दशभिः द्वादशभिः क्रमात् अङ्गुलान्ते नीलद्युतिश्यामत्वसदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं व्योम यदि पश्यति स तु योगी भवति | चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते | तद्दर्शनेन योगी भवति | तप्तकाञ्चनसंकाशज्योतिर्मयूखा अपाङ्गान्ते भूमौ वा पश्यति तद्दृष्टिः स्थिरा भवति | शीर्षोपरि द्वादशाङ्गुलसमीक्षितुः अमृतत्वं भवति | यत्र कुत्र स्थितस्य शिरसि व्योमज्योतिर्दृष्टं चेत् स तु योगी भवति || ६ ||
SK
बहिर्लक्ष्यलक्षणमाह- अथेति | योगी भवति इत्यादिकृत्स्नोपनिषत् प्रायशो मण्डलब्राह्मणोपनिषद्व्याख्यानेन व्याख्यातं स्यादिति मन्तव्यम् || ६ || मध्यलक्ष्यलक्षणम् अथ मध्यलक्ष्यलक्षणं प्रातश्चित्रादिवर्णाखण्डसूर्यचक्रवत् वह्निज्वालावलीवत् तद्विहीनान्तरिक्षवत् पश्यति | तदाकाराकारितया प्. ५) अवतिष्ठति | तद्भूयोदर्शनेन गुणरहिताकाशं भवति | विस्फुरत्तारकाकारदीप्यमानगाढतमोपमं परमाकाशं भवति | कालानलसमद्योतमानं महाकाशं भवति | सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं तत्त्वाकाशं भवति | कोटिसूर्यप्रकाशवैभवसंकाशं सूर्याकाशं भवति | एवं बाह्याभ्यन्तरस्थव्योमपञ्चकं तारकलक्ष्यम् | तद्दर्शी विमुक्तफलस्तादृग्व्योमसमानो भवति | तस्मात् तारक एव लक्ष्यं अमनस्कफलप्रदं भवति || ७ || अन्तर्बाह्यलक्ष्यस्वरूपमुक्त्वा मध्यलक्ष्यस्वरूपमाह- अथेति | तद्दर्शी विमुक्तस्वाज्ञानतत्कार्यफलः | यस्मादेवं तस्मात् || ७ || द्विविधं तारकम् तत् तारकं द्विविधं पूर्वार्धं तारकम् उत्तरार्धम् अमनस्कं चेति | तदेष श्लोको भवति- तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः | पूर्वं तु तारकं विद्यादमनस्कं तदुत्तरम् || ८ || इति | तारकयोगसिद्धिः
SK
अक्ष्यन्तस्तारयोः चन्द्रसूर्यप्रतिफलनं भवति | तारकाभ्यां सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव पिण्डाण्डशिरोमध्यस्थाकाशे रवीन्दुमण्डलद्वितयमस्तीति निश्चित्य तारकाभ्यां तद्दर्शनम् | अत्रापि प्. ६) उभयैक्यदृष्ट्या मनोयुक्तं ध्यायेत्, तद्योगाभावे इन्द्रियप्रवृत्तेरनवकाशात् | तस्मात् अन्तर्दृष्ट्या तारक एवानुसंधेयः || ९ || ब्रह्माण्डवत् पिण्डाण्डेऽपि रवीन्दू विद्येते इति निश्चित्य तारकाभ्यां तदैक्यदर्शनतः तारकयोगसिद्धिः भवेदित्याह- अक्षीति | अयोगी यथा ब्रह्माण्डस्थचन्द्रसूर्यौ मनःसहकृततारकाभ्यां पश्यति तथा योगी स्वमस्तकाकाशविभातरवीन्दुद्वयं मनःसहकृतताराभ्यामवलोकयेदित्यर्थः | रूपदर्शनस्य चक्षुरधीनत्वात् किं मनसेत्यत आह- तदिति | मनसि अन्यत्र व्यापृते रूपादिग्रहणशक्तिः चक्षुरादेः नास्तीत्यत्र अन्यत्रमा अभूवं नादर्शनम्, अन्यत्रमना अभूवं नाश्रौषम् इत्यादिश्रुतेः | यस्मादेवं तस्मात् || ९ || मूर्तामूर्तभेदेन द्विविधमनुसंधेयम्
SK
तत् तारकं द्विविधं, मूर्तितारकम् अमूर्तितारकं चेति | यत् इन्द्रियान्तं तत् मूर्तिमत् | यत् भ्रूयुगातीतं तत् अमूर्तिमत् | सर्वत्र अन्तःपदार्थविवेचने मनोयुक्ताभ्यास इष्यते | तारकाभ्यां तदूर्ध्वस्थसत्त्वदर्शनात् मनोयुक्तेन अन्तरीक्षणेन सच्चिदानन्दस्वरूपं ब्रह्मैव | तस्मात् शुक्लतेजोमयं ब्रह्मेति सिद्धम् | तद्ब्रह्म मनःसहकारिचक्षुषा अन्तर्दृष्ट्या वेद्यं भवति | एवमूर्तितारकमपि | मनोयुक्तेन चक्षुषैव दहरादिकं वेद्यं भवति, रूपग्रहणप्रयोजनस्य मनश्चक्षुरधीनत्वात् बाह्यवदान्तरेऽपि आत्ममनश्चक्षुःअसंयोगेनैव रूपग्रहणकार्योदयात् | तस्मात् मनोयुक्ता अन्तर्दृष्टिः तारकप्रकाशाय भवति || १० ||
SK
प्. ७) यदनुसंधेयं तत् कतिविधम् इत्यत्र तत्तारकम् | बाह्यपदार्थविवेचनवत् अन्तःपदार्थविवेचनमपि मनश्चक्षुरधीनमित्याह- सर्वत्रेति | तदूर्ध्वस्थसत्त्वदर्शनात्; भ्रूमध्योर्ध्वविलसितोत्तरतारकलक्ष्यदर्शनात् | केनैतद्दर्शनीयमित्यत्र मनोयुक्तेनेति | ब्रह्मैव उत्तरतारकलक्ष्यमित्यनुसंधेयम् | यस्मादेवं तस्मात् | भ्रूमध्यादिस्थलविलसितशुक्लतेजसो मनःकल्पितत्वेऽपि ब्रह्मणः सर्वव्यापकत्वेन तत्रापि विद्यमानत्वात् तदेव ब्रह्मेति अभिमतिद्रढिम्ना लीने तत्र मनसि कल्पकसापेक्षकल्पनावैरल्ये निर्विकल्पकं ब्रह्मैव अवशिष्यत इत्यर्थः | यत्तेजो मनः- कल्पितं तद्ब्रह्म | यस्मादेवं तस्मात् || १० || तारकयोगस्वरूपम् भ्रूयुगमध्यबिले दृष्टिं तद्द्वारा ऊर्ध्वस्थिततेज आविर्भूतं तारकयोगो भवति | तेन सह मनोयुक्तं तारकं सुसंयोज्य प्रयत्नेन भ्रूयुग्मं सावधानतया किंचिदूर्ध्वमुत्क्षेपयेत् | इति पूर्वतारकयोगः | उत्तरं तु अमूर्तिमत् अमनस्कमित्युच्यते | तालुमूलोर्ध्वभागे महान् ज्योतिर्मयूखो वर्तते | तत् योगिभिर्ध्येयम् | तस्मात् अणिमादिसिद्धिर्भवति || ११ ||
SK
कोऽयं तारकयोग इत्यत्र भ्रूयुगमध्यबिले तत्रत्याज्ञाचक्रे दृष्टियुग्मं संनिवेश्य, सावधानतया विलोकयन्, ध्येयम्, तज्ज्योतिः ब्रह्मेति योगिभिश्चिन्त्यमित्यर्थः | ततः किं भवतीत्यत्र तस्मादिति || ११ || शांभवी मुद्रा अन्तर्बाह्यलक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यां शांभवी मुद्रा भवति | तन्मुद्रारूढज्ञानिनिवासात् भूमिः पवित्रा भवति | प्. ८) तद्दृष्ट्या सर्वे लोकाः पवित्रा भवन्ति | तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो भवति || १२ || यत् योगिभिः ध्येयमुक्तं पर्यवसाने तदेव शाम्भवी मुद्रा भवतीत्याह- अन्तरिति | मुद्रा भवति इत्यत्र- अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता | एषा सा शांभवी मुद्रा सर्वतन्त्रेषु गोपिता || इति श्रुतेः | तन्मुद्रारूढयोगिनं स्तौति- तदिति | पवित्रा भवति इत्यत्र स्वपादन्यासमात्रेण पावयन् वसुधातलम् इति स्वरूपदर्शनोक्तेः | पवित्रा भवन्ति- खेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः | सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः || इति श्रुतेः || १२ || अन्तर्लक्ष्यविकल्पाः अन्तर्लक्ष्यज्वलज्ज्योतिःस्वरूपं भवति | परमगुरूपदेशेन सहस्रारज्वलज्ज्योतिर्वा बुद्धिगुहानिहितचिज्ज्योतिर्वा षोडशान्तस्थतुरीयचैतन्यं वा अन्तर्लक्ष्यं भवति | तद्दर्शनं सदाचार्यमूलम् || १३ ||
SK
अन्तर्लक्ष्यं विकल्प्य निर्धारयति- परमेति | उक्तविकल्पानामेकार्थपर्यवसायित्वात् तद्दर्शनमूलं किमित्यत्र- तद्दर्शनमिति || १३ || प्. ९) आचार्यलक्षणम् आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः | योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः || १४ || गुरुभक्तिसमायुक्तः पुरुषज्ञो विशेषतः | एवं लक्षणसंपन्नो गुरुरित्यभिधीयते || १५ || गुशब्दस्त्वन्धकारः स्याद् रुशब्दस्तन्निरोधकः | अन्धकारनिरोधित्वाद् गुरुरित्यभिधीयते || १६ || गुरुरेव परं ब्रह्म गुरुरेव परा गतिः | गुरुरेव परा विद्या गुरुरेव परायणम् || १७ || गुरुरेव परा काष्ठा गुरुरेव परं धनम् | यस्मात् तदुपदेष्टासौ तस्माद् गुरुतरो गुरुः || १८ || इति | आचार्यलक्षणमुक्त्वा गुरुशब्दार्थमाह- गुशब्दस्त्विति || १४-१८ || ग्रन्थाभ्यासफलम् यः सकृदुच्चारयति तस्य संसारमोचनं भवति | सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति | सर्वान् कामानवाप्नोति | सर्वपुरुषार्थसिद्धिर्भवति | य एवं वेद | इत्युपनिषत् || १९ || ग्रन्थतदर्थपठनानुसंधानफलमाह- य इति | कामाकामधियां पठनफलं सर्वकामाप्तिः परमपुरुषार्थाप्तिश्च | इत्युपनिषच्छब्दः अद्वयतारकोपनिषत्समाप्त्यर्थः || १९ ||
SK
प्. १०) श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | अद्वयोपनिषद्व्याख्या लिखितेश्वरगोचरा | अद्वयोपनिषद्व्याख्याग्रन्थोऽशीतिरितीरितः || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे त्रिपञ्चाशत्संख्यापूरकम् अद्वयत्तारकोपनिषद्विवरणं संपूर्णम् ॐ श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचन्द्रार्पणमस्तु

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. Advayatārakopaniṣat [M00102].

Source