SKअथ युक्तिषष्टिकारिका नाम मञ्जुश्रिकुमारभुताय नमः
SKनमस्तस्मै मुनीन्द्राय प्रतीत्योपाददेशिने | येनानेना विधानेन निषिद्धावुदयव्ययौ ||
SKभावाभावव्यतिक्रान्ता मतिर्येषामनाश्रिता | तैर्गम्भीरो निरलम्बः प्रत्ययार्थः प्रतीयते || Yउक्ति_१
SKसर्वदोषाकरस्तावदभावो विनिवारितः | निर्वर्त्यते यथा युक्तया भावो ऽपि श्र्ववणं कुरु || Yउक्ति_२
SKभावो यदि भवेत्सत्य् यथा बालैर्विकल्पितः | विमोक्षस्तदभावेन को नेच्छेत् किम् न कार्नात् || Yउक्ति_३
SKविमोक्षो नास्ति भावेन भावो नास्ति ह्यभावतः | भावाभावपरिज्ञानान्महात्मा ऽपि विमुच्यते || Yउक्ति_४
SKनिर्वाणम् चैव लोकं च मन्यन्ते तत्त्वदर्शिनः | नैव लोकं न निर्वानं मन्यन्ते तत्त्वदर्शिनः || Yउक्ति_५
SKनिर्वानं च भवश्चैव द्वयमेव न विद्यते | परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते || Yउक्ति_६
SKसम्भवविभवे भावे निरोधः कल्पितो यथा | मायाकृतो निरोधो ऽयम् सद्भिस्तथैवमिष्यते || Yउक्ति_७
SKसम्स्कृतो न परिज्ञातो निरोधो विभवे सति | प्रत्यक्षम् भूयते कस्मिन् विभवो ज्ञायते कथम् || Yउक्ति_८
SKयदि स्कन्धनिरोधेन भवेन्न क्लेशसम्क्षयः | यदा चायं निरुद्धः स्यात्तदा मोक्षो भविस्यति || Yउक्ति_९
SKअविद्या प्रत्ययोत्पन्नम् सम्यग्ज्ञानेन पश्यतः | नोत्पादश्च निरोधस्च युक्तः को ऽप्युपलभ्यते || Yउक्ति_१०
SKएवम् पश्यति धर्मः यो निर्वानम् वा कतम् तथा | धर्मज्ञानम् परं यत्र भेदस्तु तत्र विद्यते || Yउक्ति_११
SKअतिसुक्ष्मस्य भावस्य जातिर्येन विकल्पिता | प्रत्ययोद्भवमर्थम् न पश्यति सो ऽविचक्षणः || Yउक्ति_१२
SKसम्क्लेसक्षीनभिक्षूणाम् सम्साराच्चेन्निवार्यते | कुतः सम्पन्नबुद्धैश्च तस्यारम्भो न भाषितः || Yउक्ति_१३
SKआरम्भे सति चैकान्ते भवेदृष्टिपरिग्रः | यः प्रतीत्यसमुत्पादस्तस्य पुर्वं परं वा किम् || Yउक्ति_१४
SKसमुत्पन्नं कथं पुर्वं पश्चात् पुनर्निवार्यते | पुर्वापरान्तविहीनो मोक्षः ख्यातिर्मायोपमः || Yउक्ति_१५
SKभवतीदम् यदा माया नम्क्ष्यतीति तदैव हि | मायाज्ञानपराभूतो मायाज्ञानेन मोहितः || Yउक्ति_१६
SKयथा मरीचिका माया भवम् बुद्धया हि पश्यति | पुर्वान्तम् वापरान्तम् वा न दृष्टया परिक्लिश्यते || Yउक्ति_१७
SKसम्स्कृतम् ये हि मन्यन्ते भन्गोत्पादविकल्पितम् | प्रतीत्योत्पादचक्रेण विजानन्ति न ते जगत् || Yउक्ति_१८
SKतदाश्रित्य यदुत्पन्नं नोत्पन्नं स्वयमेवहि | स्वयम् यदा यदुत्पन्नमुत्पन्नम् नाम तत् कथम् || Yउक्ति_१९
SKशान्तम् हेतुक्षयादेव क्षीणम् नामावबुध्यते | स्वभावेन हि यत्क्षीणम् तत् क्षीणमुच्यते कथम् || Yउक्ति_२०
SKन कश्चिदनुत्पन्नम् निरोधो ऽपि न वै तथा | उत्पादभन्गकर्मणाभिप्रायार्थः प्रदर्शितः || Yउक्ति_२१
SKउत्पादज्ञानतो भङ्गो भङ्गज्ञानादनित्यता | अनित्यत्वावबोधाच्च सद्धर्मो हि विबोधितः || Yउक्ति_२२
SKयः प्रतीत्यसमुत्पाद उत्पादभङ्गवर्जितम् | परिजानाति तेनैवनुत्तीर्यत भवाबुधिः || Yउक्ति_२३
SKसदसद्भिर्विपर्यस्ता आत्मभावाः पृथग्जनाः | क्लेशवम्शगताः सत्त्वा आत्मचिन्त्तेन वञ्चिताः || Yउक्ति_२४
SKविवुधैर्भाव्यते भावेह् शुन्यो ऽनित्यो ऽनात्मकः | मोषधर्मचयश्चैव विविक्त इति दृश्यते || Yउक्ति_२५
SKअमूलत्वात् स्थितिर्नैव निरालम्बो निराश्रयः | अविद्याहेतुसम्भूत आदिमध्यान्तवर्जितः || Yउक्ति_२६
SKकदलीवसारम् यद्गन्धर्वनगरम् यथा | मोहपुर्यामिविवन्नौ यो मायावत् पश्यति जगत् | २७ अत्र ब्रह्मादिलोको वै सत्य इवावभासने | सत्यन्मृषेत्युक्तमार्येन तत्र का शिष्यते परा || Yउक्ति_२८
SKलोको ऽविद्यान्धभूतो ऽसौ तृष्नास्त्रोतसा चालितः | तृष्नारहितविज्ञस्य पुण्यदृष्टि समा कुतः || Yउक्ति_२९
SKआदौ तत्त्वमिदं दृष्टम् सर्वम्स्तीति कथ्यते | जानन्नर्थान्नसक्तो ऽपि पश्चान्नुनम् विविच्यते || Yउक्ति_३०
SKन जानाति विविक्तार्थ श्रुतिमात्रम् प्रवर्तते | येषाम् पुण्यमविच्छिन्नमुत्सन्ना इतरे जनाः || Yउक्ति_३१
SKकर्मानि फलयुक्तानि प्रोक्तम् सम्यगिदम् जगत् | तत्स्वभावपरिज्ञानमनुत्पन्नम् हि देसितम् || Yउक्ति_३२
SKअहम् ममेति कथितम् यथाकर्यवशाज्जनैः | तथा कार्यवशात् प्रोक्ताः स्कन्धायतनधातवः || Yउक्ति_३३
SKमहाभूतादय ख्याता विज्ञाने निचयस्तथा | तज्ज्ञानेन वियुक्त्तेन मृषैव न विकल्पितम् || Yउक्ति_३४
SKनिर्वानम् सत्यमेकम् हि जिनैर्यदभिधीयते | नाव शिष्टम् तदा सत्यमेवम् विज्ञेन कल्पितम् || Yउक्ति_३५
SKयावचित्तस्य विक्षेपस्तावन्मारस्य गोचरः | एवम्भूतो भवेद्यत्र ना दोषो जायते कथं || Yउक्ति_३६
SKअविद्याप्रत्ययो लोको यस्माद्बुद्धैः प्रकीर्तितः | विकल्पस्तेन लोको ऽयमिति किम् नोपपद्यते || Yउक्ति_३७
SKअविद्यायाम् निरुद्धायाम् निरोधो जायते यथा | अज्ञानतो हि सम्कल्प इति किम् न विधीयते || Yउक्ति_३८
SKहेतुतः सम्भवो यस्य स्थिति र्न प्रत्ययैर्विना | विगमः प्रत्ययाभावात् सो ऽस्तीत्यवगतः कुतः || Yउक्ति_३९
SKपरमम् भावामश्रित्य स्थितिश्चेद्भाववादिनः | तदैव हि स्थिता मार्गे न कश्चिदितस्मयस्ततः || Yउक्ति_४०
SKबुद्धमार्गे श्रिताः सर्वे ऽनित्यमिति वादिनः | केन वादेन गृह्यन्ते भावाः सन्ति परा इति || Yउक्ति_४१
SKएष वासाविति यत्र विमर्शो नोपलभ्यते | इदम् सत्यमदो वेति पण्डितैः कथमुच्यतै || Yउक्ति_४२
SKनानुपादाय तैश्चापि लोको वात्माभिकाङ्क्षते | नित्यानित्यादेरूत्पादह् मिथ्यादृष्ट्या तु हारितः || Yउक्ति_४३
SKयेषाम् भावास्मुपादाय तत्त्वा स्तेषाम् प्रसादिताः | तत्र लिङ्गादयो दोषाः प्रजायन्ते न वा कथं || Yउक्ति_४४
SKयान् हि धर्मानुपादाय दृष्टश्चन्द्रो जले यथा | तत्र सत्यम् मृषा नैव कामं दृष्ट्या न हारितः || Yउक्ति_४५
SKरागद्वेषोद्भवस्तीव्र-दुष्टदृष्टिपरिग्रः | विवादास्तत्समुत्थाश्च भावाभ्युपगमे सति || Yउक्ति_४६
SKस हेतुः सर्वदृष्टीनाम् क्लेशोत्पत्ति र्न तम् विना | तस्मात्त्स्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः || Yउक्ति_४७
SKपरिज्ञाञ्च केनेति प्रतीत्योत्पाददर्शनात् | प्रतीत्य जातञ्चऽजातमाह तत्त्वविदाम् वरः || Yउक्ति_४८
SKमिथ्याज्ञाने परिभूय यो ऽसत्ये सत्यधारकः | परिग्रहो वितर्कादेः क्रमाद्रागक्रिया मता || Yउक्ति_४९
SKमहात्मनाम् न पक्षो वा वितर्को वा न विद्यते | येषाम् न विद्यते पक्षेः परपक्षः कुतस्तेषाम् || Yउक्ति_५०
SKयस्मिन्नेव समाश्रितो दष्टः क्लेशविषधरैह् | चलं वानिष्ठितम् चित्तं न तिष्ठत्यनाश्रितम् || Yउक्ति_५१
SKसाश्रय चित्तवान सत्त्वेः क्लेशोद्भूतो विषो महान् | सदा पृथगजनो हीनः क्लेशसर्पेन गृहीतः || Yउक्ति_५२
SKप्रतिविम्बे यथा रागो लोके च मोहवन्धनात् | विषयपिन्जरो सक्तो बालो हि सत्यसम्ज्ञया || Yउक्ति_५३
SKचक्षुर्भ्याम् विषयान्नाम विम्बज्ञानेन पश्यति | कर्मपङ्केष्वनासक्तो भावो यथा महात्मनः || Yउक्ति_५४
SKरूपासक्ता जना मुढा मध्यमा रागवर्जिताः | रूपस्वभावविज्ञो यो विमुक्तो बुद्धिमान् परः || Yउक्ति_५५
SKविवृत्य सुखचिन्तायाः वीतरागविवर्जितः | मायापुम्वद्विपश्यनान्निवृतः स भविष्यति || Yउक्ति_५६
SKमिथ्याज्ञानभितप्तो यः क्लेशसम्दोषभाग्भावेत् | भावाभावौ विकल्पनादर्थज्ञानम् न जायते || Yउक्ति_५७
SKनाश्रय्ः वीतरागा वै भवन्ति रागवर्जिताः | अरागे रागवर्धास्ते न साश्रया महात्मनः || Yउक्ति_५८
SKयेषाम् विविक्तचेतसाम् चलम् चित्तम् चञ्चलम् | क्लेशसर्पेर्मथितो ऽपि तीणो ऽखिन्नो भवाम्बुद्धेः || Yउक्ति_५९
SKशास्त्रेणानेन जनानाम् पुन्यम् ज्ञानम् च सन्चितम् | पुन्यज्ञानक्रियोद्भूतम् द्वावाप्तोतु परम् तथा || Yउक्ति_६०
SKइति युक्तिषष्टिकारिका समाप्ता |
SKआर्यनागार्जुनमुखनिः सतम्, शास्त्रमिदं
SKभारतीयपण्डित मुदितश्रिपण्डिताच्छुर्तम् च भोटवासिना पात्छव प्रान्तीय सुर्यकीर्तिर्नाम भोटपण्डितेन लिखितं भोटभाषायमिति ||