Auto-Commentary on the Commentary on Valid Cognition
Pramāṇavārttisvavṛtti · Pरमाणवार्त्तिस्ववृत्ति

Pramāṇavārttisvavṛtti
Pरमाणवार्त्तिस्ववृत्ति
SK
Exप्लनतोर्य् Rएमर्क्स्
SK
A नुम्बेर् ओf fइवे fइगुरेस् अत् थे लेfत् सिदे इन्दिचतेस् थे लोचतिओन् ओf थे केय् wओर्द् इन् थे बसिच् तेxत्स्. Iन् थे चसे ओf थे SV, थे HB अन्द् थे VN, थे fइर्स्त् थ्रेए fइगुरेस् इन्दिचते थे पगे नुम्बेर्, अन्द् थे लस्त् त्wओ इन्दिचते थे लिने नुम्बेर् (fओर् एxअम्प्ले, SV१६०२६=SV १६०,२६; HB०२३१४=HB २३,१४; VN०६११०=VN ६१,१०). Iन् थे चसे ओf थे PV अन्द् थे NB, थे सेचोन्द् fइगुरे इन्दिचतेस् थे छप्तेर् नुम्बेर् अन्द् थे लस्त् थ्रेए fइगुरेस् इन्दिचते थे करिक ओर् सुत्र नुम्बेर् (fओर् एxअम्प्ले, PV०२२३२=PV, थे Pरमनसिद्धि-छप्तेर् व्.२३२; NB०३०१५=NB, थे Pअरर्थनुमन-छप्तेर् सुत्र १५. Iन् थे चसे ओf थे SP, थे लस्त् त्wओ fइगुरेस् इन्दिचते थे करिक नुम्बेर् (fओर् एxअम्प्ले, SP०००१५=SP, व्.१५).
SK
३. Iन् थिस् दतबसे, सेन्तेन्चेस् अरे अर्तिfइचिअल्ल्य् दिविदेद् इन्तो wओर्द्-उनित्स्, अल्थोउघ् थेय् इन्वोल्वे अ फोनेतिच् fउसिओन् ओर् उनिओन् इन् थे बसिच् तेxत्स्. Fउर्थेर्, चोम्पोउन्द् wओर्द्स् अरे दिविदेद् इन्तो थेइर् स्होर्तेस्त् चोन्स्तितुतिवे एलेमेन्त्स् (wए उसे अ ह्य्फेन् तो इन्दिचते थत् ह्य्फेनतेद् एलेमेन्त्स् ओरिगिनल्ल्य् fओर्म् अ चोम्पोउन्द् wओर्द्) wइथ् थे fओल्लोwइन्ग् एxचेप्तिओन्स्:
०६५१४ स्यात् सत्यं स हि तत्र इति न एक-वस्त्व्-अभिधायिनि / ०६५१५ बुद्धाव् अभासमानस्य दृश्यस्य अभाव-निश्चयात्
SK
०६५१६ इत्य् अन्तरश्लोकाः / ०६५१७ तेन अन्यापोह-विषयाः प्रोक्ताः सामान्य-गोचराः / ०६५१८ शब्दाश् च बुद्धयश् च एव वस्तुन्य् एषाम् असम्भवात्
SK
०६५१९ यदि हि विधि-रूपेण वस्त्व् एव शब्दैर् विकल्पैर् वा अपि विषयीक्रियेत ०६५२० सो अयं सर्व-अर्थ-सर्व-आकार-प्रतीति-प्रसङ्गो असामानाधिकरण्य- ०६५२१ आदयश् च इति मन्यमानः प्रणेता न्याय-शास्त्रस्य अन्यापोह- ०६५२२ विषयाव् एतौ प्राह / तथा हि / ०६५२३ एकत्वाद् वस्तु-रूपस्य भिन्न-रूपा मतिः कुतः / ०६५२४ अन्वय-व्यतिरेकौ वा न एकस्य एक-अर्थ-गोचरौ
SK
०६५२५ तद् एकम् अनंशं वस्तु कथं भिन्न-आकाराभिर् बुद्धिभिर् ०६५२६ विषयीक्रियते / आकार-भेद-आश्रयत्वाद् भेदस्य / तस्य च अभेदात् / ०६५२७ तदात्मनो अपि सामान्यस्य तद्-एकयोगक्षेमत्वात् / तद् अयम् ०६५२८ अन्योन्य-अर्थ-परिहारेण एक-विषययोर् वृत्त्य्-अभावात् सामानाधिकरण्य- ०६६०१ आदिर् न च वस्त्व्-आत्मन एकस्य तत्र एव वृत्तिर् ०६६०२ अवृत्तिश् च युक्ता व्याघातात् / न च अन्यत्र अवर्तमानं सामान्यं ०६६०३ स्यात् / सामान्यस्य वृत्तिर् न विशेषस्य इति चेत् / न / भेद-अभावात् / तद् ०६६०४ हि एक-रूपं सामान्यं वा भवेत् विशेषो वा / न ह्य् असति रूप-भेदे ०६६०५ अयं प्रविभागो युक्तः सति वा अव्यतिरेको न स्याद् इत्य् उक्तम् / ०६६०६ तद् अयम् अविभागो अन्वियाद् वा न वा / न पुनर् अनन्वयो अन्वयी ०६६०७ च / यो अपि भिन्नम् एव सामान्यम् आह / तस्य अपि / ०६६०८ अभेद-व्यवहाराश् च भेदे स्युर् अनिबन्धनाः / ०६६०९ यथास्वं शब्दा भिन्नम् अर्थम् अभिदधानाः कथम् एक-अर्थ- ०६६१० बुद्ध्य्-आश्रयाः स्युः / अर्थ-अन्तर-अभिधायिनश् च अनाक्षेपकाः ०६६११ निराकाङ्क्षत्वात् कथं विशेषणविशेष्यभाव-आश्रयाः / ०६६१२ सर्वत्र भावाद् व्यावृत्तेर् न एते दोषाः प्रसङ्गिनः
०८१२६ कर्म-उपकारम् अपेक्ष्य पाचकत्वं द्रव्येण व्यज्यत इति चेत् / ०८२०१ स्थिर-स्वभावस्य अनतिशयाद् अविशेष-आधायिनि का अपेक्षा / अतिशये ०८२०२ वा क्षणिकत्वात् कर्मणः प्रतिक्षणं स्वभाव-भूतस्य अन्यान्यस्य ०८२०३ अतिशयस्य उत्पत्तेस् तद् अपि क्षणिकं स्यात् / ततः स्व-उत्पत्ति-स्थान-विनाशिनः ०८२०४ क्रिया कुतः यद्-अपेक्षं व्यञ्जकं स्यात् / कथं ०८२०५ तर्हि इदानीम् अस्त्य् अभिन्ने वस्तुनि ज्ञान-शब्दयोर् अन्वयिनोर् वृत्तिः / ०८२०६ यथा पाचक-आदिषु / ननु तद् एव इदं चिन्त्यते कथं तेष्व् ०८२०७ अपि इति / चिन्तितम् एतद् यथा न तेषु सम्भवति / तत् किम् इदानीम् ०८२०८ अनिमित्ते ते स्याताम् / न अनिमित्ते / किं तर्हि / न बाह्य-तत्त्व-निमित्ते / ०८२०९ यथास्वं वासना-प्रबोधाद् विकल्प-उत्पत्तिः / ततः शब्दाः / ०८२१० न पुनर् विकल्प-अभिधानयोर् वस्तु-सत्ता समाश्रय इत्य् उक्त-प्रायम् ०८२११ एतत् / यथास्वं समय-वासना-वशाद् विरोधि-रूप-समावेशेन ०८२१२ अपरापर-दर्शने अप्य् अन्वयिनोस् तयोर् दर्शनात् / न च तत्र ०८२१३ तन्-निबन्धनः कश्चित् स्वभावो अस्ति परस्पर-विरोधिनोर् युगपद् ०८२१४ एकत्र समावेश-अयोगात् / अनियमेन तर्हि स्यात् / न ह्य् अनिमित्तं ०८२१५ भवत् क्वचिद् भवति क्वचिन् न भवति इति नियमम् ०८२१६ अर्हति / न खलु वै तद् अनिमित्तं वासना-विशेष-निमित्तत्वात् / ०८२१७ बाह्यं तु तथाभूतं दृश्यं न अस्ति इति ब्रूमः / न च असति तस्मिन् ०८२१८ न भवितव्यम् / सुप्त-तैमिरिक-उपलब्धेष्व् अर्थेष्व् अभावेषु ०८२१९ समय-वासना-आरोपित-रूप-विशेषेषु च तथा विकल्प-उत्पत्तेः / न ०८२२० च ते असत्सु उत्पद्यन्त इति सर्वत्र सर्व-आकारः / विभागे न एव तथा-उपलब्धानां ०८२२१ विकल्पनात् / उक्तं च अत्र किंचिद् अस्माभिः प्रकृत्या ०८२२२ अपि केचिद् एक-ज्ञान-कार्याः स्वभाव-भेदाद् इति / अपि च / ०८२२३ तुल्ये भेदे यया जातिः प्रत्यासत्त्या प्रसर्पति / ०८२२४ क्वचिन् न अन्यत्र स एव अस्तु शब्द-ज्ञान-निबन्धनम्
SK
०८२२५ इत्य् अन्तरश्लोकः / ०८२२६ न निवृत्तिं विहाय अस्ति यदि भाव-अन्वयो अपरः / ०८२२७ एकस्य कार्यम् अन्यस्य न स्याद् अत्यन्त-भेदतः
SK
०८२२८ यद्य् एते भावा व्यावृत्तिं मुक्त्वा स्वभावेन केनचिद् अन्वयिना ०८३०१ शून्याः / न एषां बहूनाम् एकं कार्यं स्यात् / यो हि तस्य स्वभावो ०८३०२ जनकः / न हि सो अन्यस्य अस्ति / यो अस्ति स न जनको व्यतिरेकस् य ०८३०३ निःस्वभावत्वात् / यज्-जनकं तद् एव वस्तु तज्-जनकं ०८३०४ च अपरत्र न अस्ति इति न अपरं जनयेत् / स हि तस्य स्वभावो यो जनकः ०८३०५ सो अन्यस्य अपि यदि स्यात् / स तेन स्वभावेन ततो अभिन्नः ०८३०६ स्याद् इति अस्ति स्वभाव-अन्वयः / ०८३०७ यद्य् एकात्मतया अनेकः कार्यस्य एकस्य कारकः / ०८३०८ आत्मा एकत्र अपि सो अस्ति इति व्यर्थाः स्युः सहकारिणः
SK
०८३०९ यद्य् एक-स्वभावत्वाद् अनेक एकस्य कारकः स तेषाम् अभिन्नः ०८३१० स्वभावः / एक-संनिधाने अप्य् अस्ति इति / अवैकल्यात् कारणस्य एको ०८३११ अपि जनकः स्यात् / यस्मात् / ०८३१२ न अपैत्य् अभिन्नं तद्-रूपं विशेषाः खल्व् अपायिनः / ०८३१३ न हि तस्य अभिन्न-स्वभावस्य अर्थ-अन्तरे विशेषो अस्ति / विशेषो अभेद- ०८३१४ हानेः / स च तत्र अप्य् अस्ति इति न एक-स्थिताव् अपि तस्य अपायो अस्ति / ये ०८३१५ विशेषास् तेषां सह-स्थिति-नियम-अभावात् स्याद् अपायः / न च ते ०८३१६ जनका इष्टाः / सहकारिणाम् एक-स्वभावतया जनकत्व-अभ्युपगमात् / ०८३१७ ततो जनकस्य स्थानात् / अस्थायिनश् च अजनकत्वाद् ०८३१८ एक-स्थिताव् अपि कार्य-उत्पत्तिः स्यात् / न च भवति / अतः ०८३१९ एक-अपाये फल-अभावाद् विशेषेभ्यस् तद्-उद्भवः
SK
०८३२० तत्-कार्यम् अनेक-सहकारि-साधारणम् एक-विशेष-अपाये अपि न भवति / ०८३२१ पुनर् अप्य् अविकलेषु सर्वेषु विशेषेषु भवति / न त्व् अविकले ०८३२२ अप्य् अभिन्ने रूपे / कार्यं हि कुतश्चिद् भाव-धर्मि यन् न भवति ०८३२३ तत् तस्य एव वैकल्यात् / न च अभिन्नस्य रूपस्य एक-स्थिताव् ०८३२४ अपि वैकल्यम् अस्ति / अविकले अपि तस्मिन्न् अभवत् तस्य अजनक-आत्मतां ०८३२५ सूचयति / यत्-साकल्य-वैकल्याभ्यां च कार्यं भाव-अभाव-वत् ०८४०१ तत एव उत्पत्तिः / तस्मिन् सति नियमेन भवतस् तद्-अन्यस्माद् उत्पत्ति- ०८४०२ कल्पनायाम् अतिप्रसङ्गात् / तस्माद् विशेषा एव जनका न ०८४०३ सामान्यं / ततस् त एव वस्तु / यस्मात् / ०८४०४ स पारमार्थिको भावो य एव अर्थक्रिया-क्षमः / ०८४०५ इदम् एव हि वस्त्व्-अवस्तुनोर् लक्षणं यद् अर्थक्रिया-योग्यता अयोग्यता ०८४०६ च इति वक्ष्यामः / ०८४०७ स च / ०८४०८ अर्थक्रिया-योग्यो अर्थः ०८४०९ न अन्वेति यो अन्वेति न तस्मात् कार्य-सम्भवः
SK
०८४१० तस्मात् सर्वं सामान्यम् अनर्थक्रिया-योग्यत्वाद् अवस्तु / वस्तु ०८४११ तु विशेष एव तत एव तन्-निष्पत्तेः / स्वभाव-अनन्वयात् तर्ह्य् ०८४१२ एकस्य जनकं रूपम् अन्यस्य न अस्ति इत्य् अजनकः स्यात् / जनकत्वे ०८४१३ वा भेद-अविशेषात् सर्वो जनकः स्यात् / न एतद् अस्ति / यस्मात् / ०८४१४ तेन आत्मना हि भेदे अपि हेतुः कश्चिन् न च अपरः / ०८४१५ स्वभावो अयम् / ०८४१६ एकस्य जनकाद् आत्मनो भिद्यमानाः सर्वे समं जनका न वा ०८४१७ अविशेषे कश्चिद् इति स्याद् एतद् यद्य् एषां न विशेषः सम्भवेत् / ततो भेद- ०८४१८ अपि कुतश्चिद् आत्म-अतिशयात् कश्चिज् जनको न अपरः / स हि ०८४१९ तस्य स्वभावो न अपरस्य / न हि स्वभावा भावानां पर्यनुयोगम् ०८४२० अर्हन्ति किम् अग्निर् दहत्य् उष्णो वा न उदकम् इति / एतावत् तु ०८४२१ स्यात् कुतो अयं स्वभाव इति / निर्हेतुकत्वे अनपेक्षिणो नियम-अभावेन ०८४२२ अतिप्रसङ्गात् / तस्मात् स्वभावो अस्य स्व-हेतोर् इत्य् उच्यते / ०८४२३ तस्य अपि तज्-जनन-आत्मता तद्-अन्यस्माद् इत्य् अनादिर् हेतु-परंपरा ०८५०१ भिन्नानां हि कश्चिद् हेतुर् न अन्यः स्वभावाद् इत्य् अत्र न किंचिद् ०८५०२ बाधकम् / ०८५०३ अभेदे तु स्यातां नाश-उद्भवौ सकृत्
SK
०८५०४ अभेदात् / स्वभावेन एव विश्वस्य स्वात्म-वद् विभाग-उत्पत्ति-स्थिति- ०८५०५ निरोध-आदयो न स्युः तथा उपलक्षणाद् अभेदस्य / इदम् एव हि ०८५०६ भेद-अभेद-लक्षणम् एक-आकारस्य अपि व्यतिरेको अव्यतिरेकश् च / ०८५०७ विरोधिनोर् एकात्मन्य् असम्भवात् / ०८५०८ भेदो अपि तेन न एवं चेद् / ०८५०९ न वै सर्व-आकार-अव्यतिरेकं ब्रूमो येन एवं स्यात् / कश्चिद् अस्य आत्मा ०८५१० भिन्नो न अन्य इति भेदान् न सहोत्पत्त्य्-आदयः / एवं तर्हि ०८५११ य एकस्मिन् विनश्यति / ०८५१२ तिष्ठत्य् आत्मा न तस्य / ०८५१३ भेदः / स्थान-अस्थानयोर् एकात्म-आश्रयत्वे को अन्यो धर्मो भेदक ०८५१४ इति नानात्वम् एव क्वचिन् न स्यात् / सर्व-आकार-विवेक अविवेकिनोर् वा अर्थयोर् ०८५१५ अभ्युपगमान् नाम केवलं न इष्टं स्यान् न वस्त्व् ०८५१६ इत्य् उक्तम् / तद् इमे न एकयोगक्षेमा भावाः भिन्ना एव ०८५१७ अतो न स्यात् सामान्य-भेद-धीः
SK
०८५१८ तद् इदम् अर्थ-अन्तरम् अनायत्तम् अजन्यत्वाद् अस्य इदं सामान्यं ०८५१९ भेदो वा इति व्यपदेशं न अर्हति / अन्यापोहे अप्य् एष तुल्यः प्रसङ्ग ०८५२० इति चेत् / न तुल्यः / यतः / ०८५२१ निवृत्तेर् निःस्वभावत्वान् न स्थान-अस्थान-कल्पना / ०८५२२ न ह्य् अन्यापोहो नाम किंचित् तस्य च स्वभाव-अनुषङ्गिण्यः ०८५२३ स्वभाव-स्थिति-प्रच्युति-कल्पना न कल्पन्ते / ०८५२४ उपप्लवश् च सामान्य-धियस् तेन अप्य् अदूषणा
SK
०८५२५ निर्विषयम् एव खल्व् इदं मिथ्या-ज्ञानं यद् अनेकत्र एक-आकारम् ०८६०१ इति न तद्-विषयस्य अभावात् स्थितिर् अस्थितिर् वा / यत् पुनर् एतद् उक्तं ०८६०२ तज्-जनको हि स तस्य स्वभावः ०८६०३ यत् तस्य जनकं रूपं ततो अन्यो जनकः कथम् / ०८६०४ तत्र न ब्रूमो अन्यस्य तज्-जनकं रूपं न अस्ति इति / किं तर्हि / ०८६०५ यद् एकस्य तज्-जनकं तद् अन्यस्य न इत्य् अन्यो अपि स्वरूपेण एव ०८६०६ जनको न पररूपेण अतत्त्वात् / ते यथास्वं भिन्नाश् च तज्-जनकाश् ०८६०७ च स्वभावेन इति को अत्र विरोधः / एक-रूप-विकलस् तद्-रूपो ०८६०८ न स्यात् न अतत्-कार्यः / तेन एव च तत्-कार्यं कर्तव्यम् इति को ०८६०९ अत्र न्यायः / अपि च / ०८६१० भिन्ना विशेषा जनका / ०८६११ इत्य् उक्तम् / न च ते विशेषास् तेन आत्मना परस्परम् अनुयन्ति / ०८६१२ यद् एकस्य जनकं रूपम् अन्यस्य तन् न अस्ति / न च तावता ०८६१३ अजनकाः / ०८६१४ अप्य् अभेदो अपि तेषु चेत्
SK
०८६१५ स्याद् एतत् सत्यं विशेषा जनकाः न पुनस् तेषां विशिष्टम् एव ०८६१६ रूपं किं त्व् अभिन्नम् अपि तद्-एक-शक्ति-योगाज् जनकाः / ०८६१७ तेन ते अजनकाः प्रोक्ताः / ०८६१८ सत्य् अपि सामान्ये रूपे न तेन ते जनकास् तस्य अनपायाद् एक-स्थिताव् ०८६१९ अपि कार्य-उत्पत्ति-प्रसङ्गाद् इत्य् उक्तं प्राक् / किं च / ०८६२० प्रतिभासो अपि भेदकः / ०८६२१ अनन्य-भाक् / ०८६२२ उत्पत्ति-स्थिति-विनाश-आदि-भेदश् न इत्य् अपि-शब्दात् / यो अयम् अभिन्नान् ०८६२३ सर्व-अर्थान् मन्यते तस्य अयम् अर्थेषु बुद्धि-प्रतिभास-भेदो ०८६२४ विरुद्ध-धर्म-अध्यासश् च न स्यात् / सति वा तस्मिन्न् अभेदे अपि ०८६२५ न कश्चिद् भेदः स्यात् / तथा च अयं प्रविभागो न स्याद् एकात्म-वत् / ०८६२६ तस्माद् अयं भिन्न-प्रतिभास-आदिर् विशेष एव / न च अत्र अपरम् ०८६२७ अभिन्नं प्रतिभासं पश्यामो यद्-बलेन अभेद-प्रतीतिः ०८६२८ स्यात् / अतो विशेष एव / ०८७०१ स एव अर्थस् तस्य व्यावृत्तयो अपरे
१२१०९ तस्य अपि तद् एव उत्तरम् एवम् अपौरुषेयत्वे अपि किम् इदानीं पौरुषेयम् १२११० इत्य् आदि / तथा हि / १२१११ अन्यो वा रचितो ग्रन्थः सम्प्रदायाद् ऋते परैः / १२११२ दृष्टः को अभिहितो येन सो अप्य् एवं न अनुमीयते
SK
१२११३ न खलु किंचिद् अन्यद् अपौरुषेयत्व-आश्रयो अन्यत्र इदानीन्तनानाम् १२११४ अनुपदेश-पाठ-अशक्तेः / सा च अन्यत्र अप्य् एकेन रचिते ग्रन्थे अन्यस्य १२११५ तुल्या / तद्-अनुसारिणा सर्वस् तथा उन्नेयो न वा कश्चित् / तस्य १२११६ तथा अनिष्टत्वाद् इत्य् आदाव् अप्य् उक्तम् इष्टेस् तद्-आश्रयत्वाद् इत्य् आदि / १२११७ अपि च / १२११८ यज्-जातीयो यतः सिद्धः स तस्माद् अग्नि-काष्ठ-वत् / १२११९ अदृष्ट-हेतुर् अन्यो अप्य् अविशिष्टः सम्प्रतीयते
SK
१२१२० न अदर्शनाद् हेतुर् अहेतुको नाम / अदृष्ट-हेतवो अपि हि भावास् १२१२१ तद्-अन्यैः स्वभाव-अभेदम् अनुभवन्तस् तथाविधाः समुन्नीयन्ते / १२१२२ हेतु-रूप-निवृत्ताव् अपि तद्-रूपम् अनिवृत्तं कार्य-धर्म- १२१२३ व्यतिक्रमान् न ततः स्याद् इति न कश्चित् तथा वचनीयः / १२१२४ रूप-विशेषो वा तथा दर्शनीयो य एनं हेतुम् अनुविदध्यात् / येन इष्ट- १२१२५ अनिष्टयोर् इष्ट-विपर्ययो न स्यात् / स्वभाव-निवृत्तेश् च हेतोर् १२१२६ अभेदने भावानां भेदः स्याद् आकस्मिक इति न क्वचिद् विनिवर्तेत / १२१२७ तस्माद् यः स्वभावो यज्-जन्मा दृष्टः सो अन्यत्र अप्य् अविभज्यमानः १२१२८ स्वात्मना तत्-कार्य-धर्मतां न अतिवर्तते अग्नि-इन्धन-वत् / १२२०१ तत्र अप्रदर्श्य ये भेदं कार्य-सामान्य-दर्शनात् / १२२०२ हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः
SK
१२२०३ यथा-अद्यो अपि पथिक-कृतो अग्निर् ज्वाला-अन्तर-पूर्वको न अरणि-निर्मथन- १२२०४ पूर्वकः / पथिक-अग्नित्वात् / अनन्तर-अग्नि-वद् इति / कथं १२२०५ पुनः पथिक-अग्नेर् व्यभिचारः / ज्वाला-उद्भव-सामर्थ्यं ह्य् १२२०६ आश्रित्य दहनस्य हेत्व्-अन्तरं प्रतिक्षिप्यते / यदि हि विना ज्वालया १२२०७ स्याद् अन्यत्र अपि स्याद् इति / तत्र ज्वाला-इतर-जन्मनोर् अबाध्यबाधकत्वे १२२०८ ज्वाला-अप्रभवत्वम् अन्यथा अपि स्याद् इति धर्मयोर् १२२०९ एकत्र अर्थे सम्भवात् स पथिक-अग्निर् अन्यो वा अर्थ एक-प्रतिनियतो १२२१० न स्याद् इत्य् आशङ्क्यते व्यभिचारः / सो अप्य् अन्योन्य-व्यतिरेकी १२२११ धर्म-द्वय-अवतारो वस्तु-सामान्ये अविरुद्ध इत्य् उच्यते न अवस्था- १२२१२ भेदिनि विशेषे / निष्कलस्य आत्मनस् तद्-अतत्त्व-विरोधात् / न च १२२१३ ज्वाला-इतर-जन्मनोर् बाध्यबाधकता पथिक-अग्नौ / तस्य ज्वाला-प्रभव- १२२१४ व्यतिरेकेण असम्भव-अभावात् / एवंभूतः पथिक-अग्निर् १२२१५ ज्वाला-प्रभव इति स्यात् / न सर्वः / तत्र विशेष-प्रतिक्षेपस्य १२२१६ कर्तुम् अशक्यत्वात् / सम्भवद्-विशेषस्य च तादवस्थ्य-अनियमात् / १२२१७ यद् अपि विना ज्वालया स्याद् अन्यत्र अपि स्याद् इति / भवत्य् एव / १२२१८ यया सामग्र्या सम्भवति सा यदि स्यात् अस्याः सम्भवं प्रदर्श्य १२२१९ तद्-अभावं प्रदर्शयेत् तत्र वा ज्वालाम् स्याद् एतत् / १२२२० तस्मान् न एकस्य पर-पूर्वकम् अध्ययनं सर्वस्य तथाभावं १२२२१ साधयति / तस्य अन्यथा असम्भव-अभावात् / तथाविधस्य १२२२२ तु तत्-क्रिया-प्रतिभा-रहितस्य तथा स्याद् इति / तथाभूतम् १२२२३ एवं वाच्यं स्यात् तद् अविशेषेण सम्भवद्-विशेषम् उच्यमानं १२२२४ छायां न पुष्णाति / कथं विशेषस्य सम्भवो यावता १२२२५ तेषाम् अपि पुरुषाणाम् अशक्तिर् एव इदानीन्तन-पुरुष-वत् / अत्र अपि १२२२६ शक्ति-पुरुषयोर् न किंचिद् विरोध-दर्शनम् इति न अविरुद्ध-विधिर् १२२२७ अनुपलब्धि-प्रयोगो गमकः / न ह्य् अतीन्द्रियेषु विरोध-गतिर् १२२२८ अस्ति इत्य् उक्तम् / न च अयं पूर्व-प्रयोगाद् भिद्यते / यदि पुरुषाः १२२२९ शक्ताः स्युर् इदानीन्तना अपि इति / विशेष-असम्भव एतत् स्यात् / १२३०१ स च दुःसाधः / यत्र एकस्य अशक्तिस् तत्र सर्व-पुरुषाणाम् इत्य् अपि १२३०२ पूर्ववद् व्यभिचारि / भारत-आदिष्व् इदानीन्तनानाम् अशक्ताव् १२३०३ अपि कस्यचित् शक्ति-सिद्धेः / तस्मात् कारणानि विवेचयत अर्थेष्व् १२३०४ अपि तद्-अतत्-प्रतिभवेषु स्वभाव-भेदो दर्शनीयः / तद्-अभावे १२३०५ सर्वस् तदात्मा न वा कश्चित् / न च अत्र लौकिक-वैदिकयोः स्वभाव- १२३०६ भेदं पश्यामः / असति तस्मिंस् तयोः सामान्यस्य एव १२३०७ दृष्टेर् एकस्य कश्चिद् धर्मं विवेचयन् तत्-स्वभाव-सम्भविना १२३०८ तेन आशङ्क्य-व्यभिचार-वादः क्रियते / ननु वेद-अवेदयोस् १२३०९ तत्त्व-लक्षणो अस्त्य् एव विशेषः / सत्यम् अस्ति / न केवलं १२३१० तयोर् एव / किं तर्हि / डिण्डिक-पुराण-इतरयोर् अपि / न च स्व-प्रक्रिया- १२३११ भेद-दीपनो नाम-भेदः पुरुष-कृतिं बाधते / अन्यत्र १२३१२ अपि प्रसङ्गात् / यदि तादृशीं रचनां पुरुषाः कर्तुं न शक्नुयुः १२३१३ कृतां वा अकृत-संकेतो विवेचयेत् व्यक्तम् अपौरुषेयो १२३१४ वेदः / ननु न शक्नुवन्त्य् एव पुरुषा मन्त्रान् कर्तुम् / एतद् १२३१५ उत्तरत्र विचारयिष्यामः / अपि च / न मन्त्रो नाम अन्यद् एव १२३१६ किंचित् / किं तर्हि / सत्य-तपः-प्रभाववतां समीहित-अर्थ-साधनं १२३१७ वचनम् / तद् अद्यत्वे अपि पुरुषेषु दृश्यत एव / यथास्वं १२३१८ सत्य-अधिष्ठान-बला विष-दहन-आदि-स्तम्भन-दर्शनात् / १२३१९ शबराणां च केषांचिद् अद्य अपि मन्त्र-करणात् / अवैदिकानां १२३२० च बौद्ध-आदीनां मन्त्र-कल्पानां दर्शनात् / तेषां च पुरुष- १२३२१ कृतेः / तत्र अप्य् अपौरुषेयत्वे कथम् इदानीम् अपौरुषेयम् १२३२२ अवितथम् / तथा हि बौद्ध-इतरयोर् मन्त्र-कल्पयोर् हिंसा- १२३२३ मैथुन-आत्म-दर्शन-आदयो अनभ्युदय-हेतवो अन्यथा च वर्ण्यते / १२३२४ तत् कथम् एकत्र विरुद्ध-अभिधायि द्वयम् सत्यं १२३२५ स्यात् / तत्र अर्थ-अन्तर-कल्पने तद् अन्यत्र अपि तुल्यम् इत्य् अर्थ-अनिर्णयात् १२३२६ क्वचिद् अप्रतिपत्तिः / तथा च सद् अप्य् अनुपयोगम् अपौरुषेयम् / १२३२७ बौद्ध-आदीनाम् अमन्त्रत्वे तद्-अन्यत्र अपि कोष-पानं १२३२८ स्यात् करणीयम् / विष-कर्म-अधिकृतो बौद्धा अपि दृश्यन्ते / तत्र अमन्त्रत्वम् १२४०१ अपि विप्रतिषिद्धम् / मुद्रा-मण्डल-ध्यानैर् अप्य् १२४०२ अनक्षरैः कर्माणि क्रियन्ते / न च तान्य् अपौरुषेयाणि नित्यानि १२४०३ युज्यते / तेषां क्रिया-सम्भवे अक्षर-रचनायां कः प्रतिघातः १२४०४ पुरुषाणाम् / तस्मान् न किंचिद् अशक्य-क्रियम् एषाम् / कथम् १२४०५ इदानीं सत्य-प्रभवौ मन्त्र-कल्पौ परस्पर-विरोधिनौ / न १२४०६ वै सर्वत्र तौ सत्य-प्रभवौ / प्रभाव-युक्त-पुरुष-प्रतिज्ञा- १२४०७ लक्षणाव् अपि तौ स्तः / स प्रभावो गति-सिद्धि-विशेषाभ्याम् अपि १२४०८ स्यात् / यदि पौरुषेया मन्त्राः किं न सर्वे पुरुषा मन्त्र-कारिणः / १२४०९ तत्-क्रिया-साधन-वैकल्यात् / यदि तादृशैः सत्य-तपः-प्रभृतिभिर् १२४१० युक्ताः स्युः कुर्वन्त्य् एव / अपि च काव्यानि पुरुषः करोति इति १२४११ सर्वः पुरुषः काव्य-कृत् स्यात् / अकरणे वा न एव कश्चित् तद्वद् १२४१२ इत्य् अपूर्वा एषा वाचो-युक्तिः / सत्यं मन्त्र-क्रिया-साधन-विकला १२४१३ मन्त्रान् न कुर्वते / तत् तु कस्यचित् साकल्यं न पश्यामः / १२४१४ पुरुषाणां समान-धर्मत्वात् / उक्तम् अत्र न मन्त्रो नाम अन्यद् १२४१५ एव किंचित् सत्य-आदिमतां वचन-समयाद् इति / तानि च क्वचित् १२४१६ पुरुषेषु दृश्यन्ते / सर्व-पुरुषास् तद्-रहिता इत्य् अपि तत्-सम्भव- १२४१७ विरोध-अभावाद् अनिर्णयः / न च अत्यक्ष-स्वभावेष्व् अनुपलब्धिर् १२४१८ निश्चय-हेतुः / न च स्मृति-मति-प्रतिवेध-सत्य-शक्तयः १२४१९ सर्व-भाविन्यः / तत्-साधन-सम्प्रदाय-भेद-वद् गुण-अन्तर- १२४२० साधनान्य् अपि स्युः / न अपि सन्न् अपि सर्वो द्रष्टुं शक्यः / अत १२४२१ एव अदृष्टस्य अनपह्नवः / न अपि पुरुषेषु उत्पित्सोः कस्यचिद् गुणस्य १२४२२ प्रतिरोद्धा / बाध्य-अदृष्टेर् बाध्यबाधकभाव-असिद्धेः / एतेन १२४२३ सर्व-ज्ञान-प्रतिषेध-आदयो अपि निर्वर्णित-उत्तराः / तत्र अप्य् एवंभूतो १२४२४ यादृशो अयम् असम्भवत्-तत्-साधन-सम्प्रदायो न इति न्यायः / १२४२५ न अदृष्ट-ज्ञापको अतत्-स्वभाव इत्य् अपि / सतां अपि कार्य-अनारम्भ- १२४२६ सम्भवात् / स्वभाव-विप्रकर्षेण द्रष्टुम् अशक्यत्वाच् च / १२४२७ तस्माद् अध्ययनम् अध्ययन-अन्तर-पूर्वकम् अध्ययनाद् इति १२४२८ भारत-अध्ययने अपि भावाद् व्यभिचारि / ननु वेदने विशेषणाद् १२४२९ अदोषः / कः पुनर् अतिशयो वेद-अध्ययनस्य यद् अन्यथा अध्येतुं १२४३० न शक्यते / न हि विशेषणम् अविरुद्धं विपक्षेण अस्माद् १२४३१ हेतुं व्यावर्तयति / अविरुद्धयोर् एकत्र सम्भवात् / इदानीन्तनानाम् १२५०१ अध्ययनाद् इति चेत् / उक्त-उत्तरम् एतत् / अदर्शनाद् १२५०२ इति चेत् / इदम् अपि प्रतिव्यूढम् / न अप्य् अदर्शन-मात्रम् अभावं १२५०३ गमयति इति व्यभिचार एव / तस्मान् न विशेषणम् अतिशय- १२५०४ भाग् इत्य् अनुपात्त-समम् / यत् किंचिद् वेद-अध्ययनं सर्वं १२५०५ तद्-अध्ययन-अन्तर-पूर्वकम् इत्य् अपि व्याप्तिर् न सिध्यति / १२५०६ सर्वस्य तथाभाव-असिद्धेः / यादृशं तु तन्-निमित्तं दृष्टं १२५०७ तत् तथा इति स्यात् / दृष्टे विशेषे तन्-निमित्ततया तत्-त्यागेन सामान्य- १२५०८ ग्रहणं व्यभिचार्य् एव / हुताशन-संसिद्धौ पाण्डु-द्रव्यत्व-वत् / १२५०९ एतेन वचन-आदयो राग-आदि-साधने प्रत्युक्ताः / अस्तु १२५१० वेदम् अध्ययनम् अध्ययन-पूर्वता-साधनम् / १२५११ सर्वथा अनादिता सिध्येद् एवं न अपुरुष-आश्रयः / १२५१२ तस्माद् अपौरुषेयत्वे स्याद् अन्यो अप्य् अनर-आश्रयः
SK
१२५१३ पुरुष एव हि स्वयम् अभ्यूह्य परतो वा आधीयते / न एषाम् अव्यापृत- १२५१४ करणानां स्वयं शब्दा ध्वनन्ति येन अपौरुषेयाः स्युः / १२५१५ अपि स्युर् अपौरुषेया यदि पुरुषाणाम् आदिः स्यात् / तदा अप्य् अन्य- १२५१६ पूर्वकं न सिध्यति / अध्यापयितुर् अभावात् / तत् प्रथमो १२५१७ अध्येता कर्ता एव स्यात् / तद् अयम् अनादिः पूर्व-पूर्व-दर्शन- १२५१८ प्रवृत्तो डिम्भक-पांसु-क्रीडा-आदि-वत् पुरुष-व्यवहार इति स्यात् / १२५१९ न अपौरुषेय इति / अनादित्वाद् अपौरुषेयत्वे बहुतरम् इदानीम् १२५२० अपौरुषेयम् / तथा हि / १२५२१ म्लेच्छ-आदि-व्यवहाराणां नास्तिक्य-वचसाम् अपि / १२५२२ अनादित्वात् तथाभावः पूर्व-संस्कार-सन्ततेः
१४४१७ स्याद् एतद् यस्य अपि विनाशो अहेतुकः सो अवश्यं नित्य इति भावस् १४४१८ तद्-अभाव-लक्षणो विनाशश् च सह स्याताम् इति / न / तस्य नित्य-अनित्य- १४४१९ धर्म-अयोगात् / न ह्य् असत्य् अयं विकल्पः सम्भवति / १४४२० तयोर् वस्तु-धर्मत्वात् / विनाशस्य च अकिंचित्वात् / भवतो हि १४४२१ केनचित् सहभावः स्यात् / न च विनाशो भवति / तस्माद् अदोषः / १४४२२ असत्त्वे अभाव-नाशित्व-प्रसङ्गो अपि न युज्यते / १४४२३ यस्माद् भावस्य नाशेन न विनाशनम् इष्यते
SK
१४४२४ कथम् असन् विनाशो भावं नाशयेत् / अतो अविनाशी भावः स्याद् १४४२५ इत्य् अप्रसङ्ग एव / विनाशाद् भाव-नाश-अनभ्युपगमात् / यो हि १४५०१ विनाश इति किंचिन् न इत्य् आह स कथं ततो भाव-नाशम् इच्छेत् / १४५०२ कथम् इदानीम् असति विनाशे भावो नष्टो नाम / न ह्य् असद्-विनाशा १४५०३ नष्टा गण्यन्ते प्रत्युत्पन्न-अवस्थायाम् / न हि यो येन अतद्वान् १४५०४ स तेन तथा व्यपदिश्यते प्रतीयते वा / यथा अश्वो विषाणेन / १४५०५ न वै विनाशो न अस्त्य् एव / स तु न अस्ति यो भावस्य भवन्ति / भाव १४५०६ एव तु क्षण-स्थिति-धर्मा विनाशः / तम् अस्य स्वभावम् उत्तर- १४५०७ कालं विभावयन्तो विनाशो अस्य भूत इति यथा-प्रतीति व्यपदिशन्ति १४५०८ इत्य् उक्तम् / न हि भावस्य किंचित् कदाचिद् भवति / स एव १४५०९ केवलं स्व-हेतुभ्यस् तथाभूतो भवति / तन् न केनचिद् भवता १४५१० स नष्टः / किं तर्हि / स्वभाव एव अस्य येन स नष्टो नाम / १४५११ कथं तर्हि इदानीम् अहेतुको विनाशो भवति इत्य् उच्यते / १४५१२ नश्यन् भावो अपर-अपेक्ष इति तज्-ज्ञापनाय सा / १४५१३ अवस्था अहेतुर् उक्ता अस्या भेदम् आरोप्य चेतसा
SK
१४५१४ न भावो जातो अपरस्मान् नाशं प्रतिलभते तथाभूतस्य एव १४५१५ स्वयं जातेर् इत्य् अपर-अपेक्ष-धर्म-अन्तर-प्रतिषेध-अर्थं तत्- १४५१६ स्वभाव-ज्ञापनेन अर्थ-अन्तरम् इव धर्मिणो धर्मं चेतसा १४५१७ विभज्य तन्-मात्र-जिज्ञासायां स्वभाव एव तथा उच्यते / तद् एतन् १४५१८ मन्द-बुद्धयः क्वचित् तथा दर्शनाद् घोष-मात्र-विप्रलब्धा १४५१९ नाशं गुणं तस्य च भावम् आरोप्य सहेतुकम् अहेतुकं १४५२० वा अप्रतिष्ठित-तत्त्वया भाव-चिन्तया आत्मानम् आकुलयन्ति / १४५२१ स्वतो अपि भावे अभावस्य विकल्पश् चेद् अयं समः / १४५२२ नन्व् अपरभावित्वे अपि विनाशस्य स्वत एव भावस्य भवतो १४५२३ अयं तत्त्वान्यत्त्व-विकल्पस् तुल्यः / तदा किम् अर्थ-अन्तर-भावे १४५२४ भावो न दृश्यते अनर्थान्तरत्वे अपि तद् एव तद् भवति / १४५२५ तन् न किंचिद् अस्य जातम् इति कथं विनष्टो नाम / नन्व् अत्र / १४५२६ न तस्य किंचिद् भवति न भवत्य् एव केवलम्
SK
१४५२७ इत्य् उक्तम् / न ह्य् अयं विनाशो अन्यो वा कश्चिद् भावस्य भवति इत्य् १४५२८ आह / किं तर्हि / स एव भावो न भवति इति / यदि हि कस्यचिद् भावं १४५२९ ब्रूयात् न भावो अनेन निवर्तितः स्यात् / तथा च भाव-निवृत्तौ १४५३० प्रस्तुतायाम् अप्रस्तुतम् एव उक्तं स्यात् / न हि कस्यचिद् १४५३१ भावेन भावो न भूतो नाम / तदा न भूतो यदि स्वयं न १४६०१ भवेत् / न भवति इति च प्रसज्यप्रतिषेध एष न पर्युदासः / १४६०२ अन्यथा इह अपि कस्यचिद् भावे न प्रतिषेध-पर्युदासयो रूप- १४६०३ भेदः स्याद् उभयत्र विधेः प्राधान्यात् / एवं च अप्रतिषेधात् १४६०४ कस्यचित् पर्युदासो अपि क्वचिन् न स्यात् / यदि हि किंचित् कुतश्चिन् १४६०५ निवर्तेत तदा तद्-व्यतिरेकि संस्पृश्येत / तत्-पर्युदासेन / तच् १४६०६ च न अस्ति / सर्वत्र निवृत्तिर् भवति इत्य् उक्ते कस्यचिद् भावस्य एव १४६०७ प्रतीतिः / तथा च अनेन अर्थ-अन्तर-भाव एव उक्तः स्यात् / न तयोः १४६०८ परस्परं विवेकः / अविवेके च न पर्युदासः / तद् एवं व्यतिरेक- १४६०९ अभावाद् अन्वयो अपि न स्यात् / तस्य एक-स्वभाव-स्थिति-लक्षणत्वात् / १४६१० तत्-स्थितिश् च तद्-अन्य-व्यतिरेके सति स्यात् / स च न अस्ति इत्य् अप्रवृत्ति- १४६११ निवृत्तिकं जगत् स्यात् / तस्माद् यस्य नाशो भवति इत्य् उच्यते स १४६१२ स्वयम् एव न भवति इत्य् उक्तं स्यात् / न वै घोष-साम्याद् विषय- १४६१३ अन्तर-दृष्टो विधिः सर्वत्र योजनाम् अर्हति / न हि गर्दभ इति १४६१४ नाम-करणाद् बालेय-धर्मा मनुष्ये अपि संयोज्याः / तथा न १४६१५ चैत्रस्य पुत्रो भवति इत्य् अत्र दृष्टो विधिर् नाशे अपि विरोधात् / १४६१६ एवं च अभिधाने अपि प्रयोजनम् आवेदितम् एव / अतः १४६१७ भावे ह्य् एष विकल्पः स्याद् विधेर् वस्त्व्-अनुरोधतः / १४६१८ भावो अवश्यं भवन्तम् अपेक्षते / स च स्वभाव एव / निःस्वभावस्य १४६१९ क्वचिद् व्यापारे समावेश-अभावात् / व्यापार इति हि १४६२० तथाभूत-स्वभाव-उत्पत्तिः / सा निःस्वभावस्य कथं स्यात् / १४६२१ कथम् इदानीं भवत्य् अभावः शश-विषाणम् इत्य् आदि-व्यवहारः / १४६२२ न वै शश-विषाणं किंचिद् भवति इत्य् उच्यते / अपि त्व् एवम् १४६२३ अस्य न भवति इति भाव-प्रतिषेध एव क्रियते / अपि च / व्यवहर्तार १४६२४ एव एतद् एवं व्यापार-वद् इव समारोप्य आदर्शयन्ति १४६२५ प्रकरणेन केनचित् / न तु तत् तथा / सर्व-अर्थ-विवेचनं हि १४६२६ तत्र तत्त्वं न कस्यचित् समावेशः / न खल्व् एवं विनाशो वस्तुनि १४६२७ तद्-भावात् / असाव् अपि यदि वक्तृभिर् एवं ख्याप्यते न १४६२८ तु स्वयं तथा तदा न किंचिद् भवति इति इष्टम् एव / तस्मात् स्वयं १४७०१ भवन् स्वभावो विकल्प-द्वयं न अतिवर्तते तत्त्वम् अन्यत्त्वम् १४७०२ इति / अतत्त्वम् एव स्वभावस्य अन्यत्त्वम् / न हि रूप-रसयोर् १४७०३ अप्य् अन्यद् एव परस्परम् अन्यत्त्वम् / स्वभाव-अप्रतिबन्धो १४७०४ अन्यत्त्वम् इति चेत् / को अयं प्रतिबन्धो नाम येन स च न १४७०५ स्यात् / न अन्य-स्वभावश् च / जन्म इति चेत् / सर्व-कारणानां परस्परम् १४७०६ अवाच्यता स्यात् / तथा च सर्वः सर्वस्य कथंचिद् उपयोगि १४७०७ इति न कश्चित् कुतश्चिद् अन्यः स्यात् / एवं च अवाच्यता इत्य् अपि कार्यकारणभाव १४७०८ एव शब्द-अन्तरेण उक्तः स्यात् / न अर्थ-भेदः / स्वभाव-अननुगमनं १४७०९ त्व् अन्यत्त्वं ब्रूमः / स च स्वभाववतां परस्परम् १४७१० अस्त्य् एव इत्य् अन्यत्त्वम् एव / न च तज्-जन्म-लक्षणात् १४७११ स्वभावप्रतिबन्धाद् अन्यः प्रतिबन्धो नाम / अनायत्तस्य १४७१२ व्यभिचार-अविरोधात् / ततो धर्म-भेदाच् च अन्यत्त्वम् / ज्ञान-कृतः १४७१३ प्रतिबन्ध इति चेत् / स्याद् एतत् / यत्-प्रतिपत्ति-नान्तरीयकं १४७१४ यज्-ज्ञानं तद्-गतौ नियमेन तत्-प्रतिभासनात् तद् अतद्-रूपम् १४७१५ अप्य् अवाच्यम् इति / न / तस्य निःस्वभावत्वात् स्वयम् / स एव हि १४७१६ तस्य स्वभावो यः प्रतिभाति / स्वभाववत्त्वे अस्य तद्वत् प्रतिभास- १४७१७ प्रसङ्गात् / अप्रतिभासमानस्य च दृश्य-अभावात् / अदृश्यत्वे १४७१८ अपि न तद्-रूपं ज्ञानम् इति कस्य किम् आयत्ता प्रतिपत्तिः / न १४७१९ च यद् यद् आयत्ता-प्रतीतिकं तस्य स्वभाव-प्रतिभास एव नश्यति / १४७२० प्रकाश-आयत्त-प्रतीतीनाम् इव नील-आदीनाम् / का वा तस्य प्रत्यासत्तिः / १४७२१ तत्र यत् तस्मिन्न् अनात्म-रूपे प्रतीयमाने स स्वयं १४७२२ प्रत्युपतिष्ठते / अतिप्रसङ्गो ह्य् एवं स्यात् / प्रतीयमानस्य १४७२३ तद्-उपादानता इति चेत् / को अयम् उपादान-अर्थः / न कार्यकारणभावो १४७२४ अनभ्युपगमात् / अभ्युपगमे वा न कार्य-कारणे अन्योन्य- १४७२५ प्रतीति-प्रत्युपस्थापने / प्रतीतेर् एव तन्-नान्तरीयकता १४७२६ प्रत्यासत्तिर् इति चेत् / ननु स एव असति प्रतिबन्धे न युक्ता इत्य् उच्यते / १४८०१ न अकार्य-कारणयोः कश्चित् प्रतिबन्ध इति च उक्तम् / यत् -प्रतिपत्ति- १४८०२ नान्तरीयकं यज्-ज्ञानम् इत्य् अपि तज्-ज्ञाने सति स्यात् / न हि यो १४८०३ विज्ञाने स्वरूपेण अस्वरूप-असंसर्गेण न प्रतिभासते तस्य किंचिज् १४८०४ ज्ञानम् / तद्-अभावान् न सिध्यति अवाच्यता-लक्षणम् अर्थ- १४८०५ रूपस्य / तद् भवता वस्तुतस् तत्त्वान्यत्त्व-भाजा भवितव्यम् / १४८०६ यस्य तु विनश्यतो भावस्य न किंचिद् भवति / तेन १४८०७ न भावो भवति इत्य् उक्तम् अभावो भवति इत्य् अपि
SK
१४८०८ यद् अप्य् अयं भावस्य अभावो भवति इत्य् आह / तद् अपि भावो १४८०९ न भवति इत्य् एव उक्तं भवति / एवं हि स निवर्तितो भवति / १४८१० प्रतिषेधे विधेर् असम्भवात् / तत एव अस्य विनाशे न कश्चिद् हेतुः / १४८११ तथा हि / १४८१२ अपेक्ष्येत परः कार्यं यदि विद्यत किंचन / १४८१३ यद् अकिंचित्करं वस्तु किं केनचिद् अपेक्ष्यते
SK
१४८१४ सति हि कार्ये कारणं भवति / न च नश्यतो भावस्य किंचित् १४८१५ कार्यम् इत्य् उक्तम् / तस्माद् यो नाम नाश-हेतुः स भावे न १४८१६ किंचित् करोति इत्य् अकिंचित्करो न अपेक्ष्यणीयः / तत् कथं इदानीम् १४८१७ अनुत्पन्न-अतिशयस् तद्-अवस्थ एव भावो नष्टो नाम / १४८१८ नन्व् अतिशय-उत्पत्ताव् अपि स एव तस्य अतिशय उत्पन्न इति कथं १४८१९ स नष्टो नाम / तेन न अयं तद्-अवस्थो नष्टो नाम / येन स्वयं १४८२० न भवति तेन नष्टः / न अर्थ-अन्तर-उत्पादाद् इत्य् उक्तम् / न ह्य् १४८२१ अतिशय-उत्पत्त्या स्वयं न भूतो नाम / अभावस्य सर्व-अतिशय-उपाख्या- १४८२२ निवृत्त्या सर्व-भाव-धर्म-विवेक-लक्षणत्वात् / भावस्य १४८२३ च उत्पत्ति-समावेश-लक्षणत्वात् / तस्मान् न अभावे कस्यचिद् भाव-उपक्षेपो १४८२४ अन्यस्य / १४८२५ एतेन अहेतुकत्वे अपि ह्य् अभूत्वा नाश-भावतः / १४८२६ सत्ता-नाशित्व-दोषस्य प्रत्याख्यातं प्रसञ्जनम्
SK
१४८२७ यो अपि मन्यते अहेतुके अपि विनाशे अभूत्वा अस्य भावात् सत्ता-अनित्यत्वं १४९०१ च दुर्निवारम् / अभूत्वा भवन्न् अहेतुको भवति इत्य् अपि १४९०२ विरुद्धम् इति / सो अप्य् अनेन एव प्रत्याख्यातः / कस्यचिद् भावान् अभ्युपगमात् / १४९०४ यथा केषांचिद् एव इष्टः प्रतिघो जन्मिनां तथा / १४९०५ नाशः स्वभावो भावानां न अनुत्पत्तिमतां यदि
SK
१४९०६ अथ अपि स्याद् / भवतु नाम स्वभाव एष भावानां य इमे क्षण- १४९०७ स्थिति-धर्माणाः / स तु उत्पत्तिमताम् एव भविष्यति / न हि स्वभाव १४९०८ इति सर्वः सर्वस्य स्वभावो भवति प्रतिघ-आत्मता-वत् / १४९०९ सत्यम् एतत् / तथा अपि / १४९१० स्वभाव-नियमाद् हेतोः स्वभाव-नियमः फले / १४९११ न अनित्ये रूप-भेदो अस्ति भेदकानाम् अभावतः
SK
१४९१२ न वै प्रतिघो अन्यो वा स्वभावो अकस्मात् प्रतिनियमवान् / यादृशी १४९१३ तु स्व-हेतोः शक्ति-स्थितिस् तादृशं फलं भवति इति हेतु-स्वभाव- १४९१४ नियमात् फल-स्वभाव-नियमः / आकस्मिकत्वे अप्य् अस्य उक्तो १४९१५ दोषः / प्रतिघात-आत्मता-हेतु-स्वभाव-प्रतिनियमवन् न नश्वर- १४९१६ जनन-प्रतिनियत-स्वभावं भावं पश्यामः / येन तज्-जन्मा १४९१७ तथा स्यान् न अन्यः / सर्व-आकार-जन्मनां विनाश-दर्शनात् / १४९१८ नन्व् इदम् अप्य् अनिश्चेयम् एव सर्व-आकार-जन्मानो नश्यन्ति इति / १४९१९ तासाम् अनिःशेष-दर्शनात् / विचित्र-शक्तयो हि सामग्र्यो दृश्यन्ते / १४९२० तत्र काचित् स्याद् अपि या अनश्वर-आत्मानं जनयेत् / न / ज्ञेय-अधिकारात् / १४९२१ ये कदाचित् क्वचित् केनचिज् ज्ञाताः सन्तो न ज्ञायन्ते १४९२२ तेषां सत्ता-अनुबन्धी नाश इति ब्रूमः / त एव कृतका अनित्याः १४९२३ साध्यन्ते / न ह्य् अयं सम्भवो अस्ति यत् ते ज्ञान-जनन- १४९२४ स्वभावाः पुनर् अनष्टा न जनयेयुर् अपेक्षेरन् वा परम् / १४९२५ तज्-जनन-स्वभावस्य निष्पत्तेः / न च तेष्व् अनपेक्षेषु कस्यचित् १४९२६ कदाचित् किंचिज् ज्ञानं निवर्तेत / न च एवंभूतं किंचिद् अस्ति / १४९२७ सर्वस्य केनचित् कदाचित् ज्ञानात् / ज्ञान-मात्र-अर्थक्रियायाम् अप्य् १५००१ असामर्थ्ये वस्त्व् एव न स्यात् / तथा हि तल्-लक्षणं वस्त्व् इति १५००२ वक्ष्यामः / तस्य च विनाश-अव्यभिचारात् स सत्ता-अनुबन्धी / १५००३ प्रत्याख्येया अत एव एषां सम्बन्धस्य अपि नित्यता / १५००४ अत एव यथा उक्ताद् वस्तु-मात्र-अनुबन्धाद् विनाशस्य शब्द-वत् १५००५ सम्बन्ध-नित्यता अपि प्रत्याख्येया / या च शब्द-शक्तिर् योग्यता-आख्या १५००६ अर्थ-प्रतिपत्त्या आश्रयो जैमिनीयैर् वर्ण्यते स अर्थ-अन्तरम् १५००७ एव न भवति / तथा हि / योग्यता इति रूप-अतिशय एव भावानाम् इत्य् १५००८ आवेदितं प्राक् / अस्तु वा अर्थ-अन्तरम् / तथा अपि १५००९ सम्बन्ध-दोषैः प्राग् उक्तैः शब्द-शक्तिश् च दूषिता
SK
१५०१० उक्तो हि सम्बन्ध-अर्थ-अन्तर-वादे अनेक-प्रकारो दोषः / तेन एव १५०११ सा शब्द-शक्तिर् दूषिता इति न पुनर् उच्यते / अपि च / १५०१२ न अपौरुषेयम् इत्य् एव यथा अर्थ-ज्ञान-साधनम् / १५०१३ दृष्टो अन्यथा अपि वह्न्य्-आदिर् अदुष्टः पुरुष-आगसा
SK
१५०१४ भवन्तु नाम अपौरुषेया वैदिकाः शब्दाः तथा अपि सम्भाव्यम् १५०१५ एव एषाम् अयथार्थ-ज्ञान-हेतुत्वम् / न हि पुरुष-दोष-उपधानाद् १५०१६ एव अर्थेषु ज्ञान-विभ्रमः / तद्-रहितानाम् अपि प्रदीप-आदीनां नील-उत्पल- १५०१७ आदिषु वितथ-ज्ञान-जननात् / तद् इमे शब्दाः संस्कार-निरपेक्षाः १५०१८ प्रकृत्या च अर्थेषु प्रतिभान-हेतवः स्युः / स्वभाव-विशेषाद् १५०१९ वह्न्य्-आदि-वत् / वितथ-व्यक्तयश् च नियमेन एव नियम- १५०२० कारण-अभावाद् अयुक्तम् इति चेत् / अवितथ-व्यक्ति-नियमे किं १५०२१ कारणम् / तस्माद् यथार्थ-व्यक्ति-नियम-वत् प्रकृत्या अयथार्थ- १५०२२ व्यक्ति-नियमः किं न कल्प्यते / अथवा वह्न्य्-आदि-वद् एव अर्थेषु १५०२३ उभय-ज्ञान-हेतुत्वं स्यात् / न ह्य् अपौरुषेया अपि वह्न्य्-आदय १५०२४ एकत्र यथार्थ-ज्ञान-हेतवो अपि सर्वत्र तथा भवन्ति इति / १५०२५ तथा शब्दानाम् अप्य् अपौरुषेयत्वे अप्य् उभयं स्याद् इति / भवतु १५०२६ वह्न्य्-आदीनाम् कृतकत्वाद् यथा-प्रत्ययम् अन्यत्र अन्यथात्वम् १५०२७ न पुनर् नित्येषु शब्देष्व् एतद् अस्ति / नन्व् एवंविधो अन्यत्र १५०२८ अप्य् अस्त्य् एव धर्मस् तेषाम् अपि संकेत-बलाद् अन्यथा-वृत्तेः १५०२९ कार्य-जनन-स्वभाव-स्थितौ च एषां समय-आदेर् अपेक्षणीयस्य अभावात् / १५१०१ ततः प्रतीतिर् अर्थेषु सर्वस्य सर्वदा स्यात् / न च अस्ति १५१०२ तस्मान् न शब्दाः स्थित-स्वभावा इति / अपि च / १५१०३ न ज्ञान-हेतुता एव स्यात् तस्मिन्न् अकृतके मते / १५१०४ नित्येभ्यो अवस्तु-सामर्थ्यान् न हि जन्म अस्ति कस्यचित्
SK
१५१०५ यद्य् अकृतकः शब्दो न तस्माद् अर्थेषु प्रतीतिर् एव स्यात् / प्रतीति- १५१०६ जन्म-इतर-कालयोस् तुल्य-रूपस्य प्रतीति-जन्मनि सामर्थ्य- १५१०७ सम्भावना-अयोगात् / एवम् अयं जनको न एवम् इति विवेचनीयस्य १५१०८ रूप-भेदस्य अभावात् / न यादृशो अस्य अजनकस् तादृश एव जनको १५१०९ युक्तः / अन्य-अपेक्षा अपि निषिद्धा एव / तस्मान् न नित्यानां क्वचिद् १५११० विज्ञान-जनन-सामर्थ्यम् / कदाचिद् अजनने नित्यम् अजनन- प्रसङ्गात् / १५१११ कार्य-सातत्य-अदर्शनाच् च न ते कथंचित् कर्तार इत्य् १५११२ उक्त-प्रायम् / या अप्य् एता नित्य-अभिमतेष्व् आकाश-आदिषु प्रतिपत्तयस् १५११३ ता अपि न तत्-स्वभाव-भाविन्यः / तथा हि / १५११४ विकल्प-वासना-उद्भूताः समारोपित-गोचराः / १५११५ जायन्ते बुद्धयस् तत्र केवलं न अर्थ-गोचराः
१५२१४ अथ यन् मिथ्या-अर्थं वचनं तद् अखिलं कृतकम् इति हेतु-व्यतिरेकेण १५२१५ साध्य-व्यतिरेकस्य व्याप्तेर् अन्यत्र असम्भवाद् अकृतकं १५२१६ सत्य-अर्थम् इति स्याद् विना अप्य् अन्वयेन / यो हि येन अव्याप्तस् १५२१७ तत्र तद्-व्यतिरेकः शङ्क्येत / न च विरुद्धयोर् एकत्र सम्भवो १५२१८ अस्ति / असम्भवे च विजातीयस्य गत्य्-अन्तर-अभावाद् इष्ट-अर्थ-सिद्धेस् १५२१९ तत्-साधनत्वाच् च लिङ्गस्य व्यर्थम् अन्वय-दर्शनं १५२२० व्यतिरेक-मात्रेण एव सिद्धेर् इति / सत्यम् एतत् यदि विपक्षयोर् १५२२१ व्याप्यव्यापकभावः सिध्येत् / स तु न सिद्धः / यस्मात् १५२२२ हेताव् असम्भवे अनुक्ते भावस् तस्य अपि शङ्क्यते / १५२२३ विरुद्धानां पदार्थानाम् अपि व्यापक-दर्शनात्
SK
१५२२४ यदि हेतोः साध्य-विपक्षे अभावः सिध्येत् तदा साध्य-व्यतिरेकं १५२२५ हेतु-व्यतिरेको व्याप्नुयात् / न च तत्र तस्य असम्भवे १५२२६ प्रमाणं पश्यामः / न च अविरुद्ध-विधिः प्रतिषेध-साधनो १५२२७ युक्तः / अतिप्रसङ्गात् / न च एकत्र दृष्टस्य अन्यत्र असम्भव १५२२८ एव पृथग् विरुद्ध-सहभाविनाम् अपि दर्शनात् / अनित्यत्व-वत् १५२२९ प्रयत्नानन्तरीयक-इतरयोर् / न च तथाविधस्य अदर्शनाद् असत्त्वम् १५२३० एव / यस्मात् / १५३०१ न असत्ता-सिद्धिर् इत्य् उक्तं सर्वतो अनुपलम्भनात् / १५३०२ असिद्धायाम् असत्तायां सन्दिग्धा व्यतिरेकिता
SK
१५३०३ न ह्य् अयं पुरुष-मात्रकः सर्वं द्रष्टुं समर्थो येन अस्य १५३०४ दर्शन-निवृत्त्या न तथा स्यात् / यस्य हि ज्ञानं ज्ञेय-सत्तां १५३०५ न व्यभिचरति स एवं ब्रुवाणः शोभेत अदर्शनान् न अस्ति इति / १५३०६ तद् इमे स्वभाव-देश-काल-विप्रकर्षेण सन्तो अप्य् अनुपलक्ष्याः १५३०७ स्युः / तथा हि / को अत्यन्तपरोक्षे अर्थे संवादनम् इतरद् १५३०८ वा सर्व-दर्शी वचनस्य अकृतकस्य इतरस्य वा विभावयितुं समर्थः / १५३०९ प्रतिपादितं च एतत् क्वचित् तथा दृष्टानाम् अप्य् अर्थानां १५३१० पुनः कथंचिद् अन्यथाभावः यथा क्वचिद् देशे मधुराणि १५३११ निम्ब-फलानि संस्कार-विशेषाद् आमलकी-फलानि च न १५३१२ च इदानीम् अतद्-दर्शिना तानि प्रतिक्षेप्तव्यान्य् एव इति / तस्माद् अकृतकं १५३१३ च स्याद् स्यान् मिथ्या-अर्थं च इति न विरोधं पश्यामः / न १५३१४ हि इयम् अनुपलब्धिर् अदृश्य-आत्मस्व् अभाव-साधिका इत्य् उक्तम् / तेन १५३१५ यत् किंचिन् मिथ्या-अर्थं तत् सर्वं पौरुषेयम् इत्य् अनिश्चयाद् १५३१६ अव्याप्तिः / तथा हि / १५३१७ अन्वयो व्यतिरेको वा सत्त्वं वा साध्य-धर्मिणि / १५३१८ तन्-निश्चय-फलैर् ज्ञानैः सिध्यन्ति यदि साधनम्
SK
१५३१९ तथा च उक्तम् / य एव तु उभय-निश्चित-वाची स साधनम् दूषणम् १५३२० वा न अन्यतर-प्रसिद्ध-सन्दिग्ध-वाची पुनः साधन-अपेक्षत्वाद् १५३२१ इति / को ह्य् अदृष्ट-विरोधस्य सम्भवं प्रत्याचक्षीत / तद् अयं १५३२२ व्यतिरेकः संशयाद् असाधनम् / अपि च / १५३२३ यत्र साध्य-विपक्षस्य वर्ण्यते व्यतिरेकिता / १५३२४ स एव अस्य सपक्षः स्यात् सर्वो हेतुर् अतो अन्वयी
SK
१५४०१ यत् किंचिन् मिथ्या-अर्थं तत् सर्वं पौरुषेयम् इति हेतु-विपक्षेण १५४०२ साध्य-विपक्षस्य व्याप्तिस् तद्-अभावे अभाव-सिद्धौ स्यात् / तद्-अभावे १५४०३ भवतस् तेन व्याप्त्य्-अयोगात् / या एव च विजातीययोर् व्यावृत्ति-सिद्धिः १५४०४ सा एव अन्वय-स्थितिर् विपक्ष-व्यवच्छेद-लक्षणत्वात् साध्यस्य / १५४०५ प्रतिषेध-द्वयाच् च विधि-सिद्धिर् इति का अनन्वय-अव्यतिरेक-व्याप्ति- १५४०६ सिद्धिः / तन् न कश्चिद् हेतुर् अनन्वयो नाम / एक-व्यवच्छेदस्य १५४०७ तद्-विजातीय-सिद्धि-नान्तरीयकत्वात् / अनित्य-निरात्मता-आदि-व्यवच्छेदे १५४०८ अपि तथा स्यात् / न / व्यतिरेक-व्यवच्छेदस्य भाव-रूपत्वात् / १५४०९ न भाव-रूप-व्यवच्छेदे भाव-अनुषङ्गः / अभाव-व्यवच्छेदस् १५४१० तु नियमेन भाव-उपस्थापनः / भाव-अभावयोर् अन्योन्य-विवेक- १५४११ रूपत्वात् / अभाव-रूपस् तु व्यतिरेकः स च व्यतिरिच्यमानो १५४१२ भावम् उपस्थापयति न एवं नैरात्म्य-आदयः स्वभाव-विशेषात् / १५४१३ क्रिया-भोग-अधिष्ठान-अस्वतन्त्रो ह्य् आत्मा निरात्मा / तत्-स्वातन्त्र्य- १५४१४ लक्षणत्वाद् आत्मनः / तद् रूपं नैरात्म्यं न आत्म-निवृत्ति- १५४१५ मात्रम् अन्यथा निरुपाख्ये कृतकत्व-आद्य्-अयोगान् न ततो नैरात्म्य- १५४१६ सिद्धिः स्यात् / आत्म-व्यवच्छेदेन निरात्मनो भावस्य परामर्शाद् १५४१७ अदोष इति चेत् / पर्युदासेन वस्तु-संस्पर्शाद् तद् एव १५४१८ वस्तु-रूपं नैरात्म्यम् आयातम् / यस्य अपि न अभाव-रूपो व्यतिरेकस् १५४१९ तस्य भाव-रूप-व्यवच्छेदे न भाव-सिद्धिः स्याद् इति १५४२० न अन्वय-अनुषङ्गः / तथा अनैरात्म्ये अपि न भाव-सिद्धिः / यथा १५४२१ न इदं निरात्मकं जीवच्छरीरं प्राण-आदिमत्त्वाद् इति विपक्षयोर् १५४२२ व्याप्यव्यापकभाव-चिन्तायाम् अप्राण-आदिमत्त्व एव नैरात्म्यं १५४२३ दृष्टम् / तद्-अभावे च न अस्ति इति स्वयं न भवद् अपि प्राण-आदीनां १५४२४ न आत्मनि सिद्धिम् उपस्थापयति / तथा साध्ये अपि प्राण-आदिभिर् १५४२५ व्युदस्यमानं स्यात् केवलम् / नैरात्म्ये अभावात् प्राण- १५४२६ आदयस् तन्-निरसना न आत्म-उपस्थापनाः / तत्र भाव-असिद्धेः / १५४२७ न च नैरात्म्य-निवृत्त्या आत्म-सिद्धिः स्यात् / विपक्ष-व्यतिरेक-दर्शने १५४२८ अपि प्रसङ्गात् / तन् न विपर्यय-व्याप्तिर् व्यतिरेक-असिद्धौ / १५४२९ तत्-सिद्धिर् एव च अन्वय-सिद्धिः / असिद्धौ वा तद्-व्यतिरेक-निवृत्ति- १५४३० सिद्धाव् अपि तद्-असिद्धिर् इति साध्ये अपि प्रसङ्गः / तन् न अनन्वया १५४३१ व्यतिरेक-व्याप्तिः / मिथ्या-अर्थतायास् तु पौरुषेयत्वेन व्याप्त्या १५५०१ अपौरुषेयान् निवृत्ताव् अपि न सत्य-अर्थत्वम् / प्रकार-अन्तर-सम्भवात् / १५५०२ द्वैराश्ये तु शब्दानाम् एतत् स्याद् एक-निवृत्तौ गत्य्-अन्तर- १५५०३ अभावात् / ते त्व् अनर्थका अपि स्युर् इति न इष्टसिद्धिः / अर्थ-प्रतीतेर् १५५०४ न अनर्थका इति चेत् / एष पुरुष-व्यापारः स्यात् / अर्थ-अन्तर-विकल्प-वत् / १५५०५ यथा अतद्-अर्थत्वे अपि भरत-उर्वश्य्-आदि-चरित-आदिकम् अर्थम् १५५०६ अन्ये अन्यथा व्याचक्षते / तद्-अनुसारेण च केषांचित् प्रतीतिः / १५५०७ तथा अयम् अनर्थकेष्व् अर्थ-विकल्पः पुरुष-कृतः न तु शब्द- १५५०८ स्वभाव-कृतः पुरुष-उपदेश-अपेक्षणात् अर्थ-अन्तर-वद् एव / १५५०९ न हि प्रकृत्या प्रकाशनास् तम् अपेक्षन्ते वह्न्य्-आदयः / पुरुषस् १५५१० तु स्व-समय-व्यापारम् आचक्षाण उपदिशति इति न्याय्यम् / १५५११ पुरुष-समित-निसर्ग-सिद्धयोर् उपदेश-अपेक्षण-अविशेषाद् अन्य-विशेष-अभावाच् १५५१२ च एको नैसर्गिको अन्यस् तु पौरुषेय इति दुरवसानम् / अस्ति १५५१३ विशेषः प्रमाण-संवाद इति चेत् / एतद् उत्तरत्र निषेत्स्यामः न अस्त्य् १५५१४ अत्यन्तपरोक्षे अर्थे प्रमाण-अन्तर-वृत्तिर् इति / समान-धर्मिणोर् १५५१५ अर्थयोः प्रमाण-संवाद-मात्र-विशेषाद् एकत्र अपौरुषेयत्वे बहुतरम् १५५१६ इदानीम् अपौरुषेयम् / सन्ति पुरुष-कृतान्य् अपि वाक्यानि कानिचिद् १५५१७ एवंविधानि इति तेष्व् अपि प्रसङ्गः / तद्वद् एषाम् अप्य् अभिमत- १५५१८ अर्थवत्ता पौरुषेयी च स्यात् प्रमाण-अनुरोधिनी च / अपि १५५१९ च इदं मन्त्रा अपौरुषेयाश् च इति व्याहतं पश्यामः / तथा हि / १५५२० समयत्वे हि मन्त्राणां कस्यचित् कार्य-साधनम् / १५५२१ युक्तम् / यद्य् एते मन्त्राः कस्यचित् समयो यथा मत्-प्रणीतम् / १५५२२ एतद् अभिमत-अर्थ-उपनिबन्धनं वाक्यम् एवं नियुञ्जानम् १५५२३ अनेन अर्थेन योजयामि इति परार्थ-परता-अनुरोधेन अन्यतो वा कुतश्चिद् १५५२४ हेतोः कृतः स्यात् तदा मन्त्र-प्रयोगात् कदाचित् अर्थ- १५५२५ निष्पत्तिर् युक्ता कवि-समयाद् इव पाठकानाम् / १५५२६ अथ अपि भाव-शक्तिः स्याद् अन्यत्र अप्य् अविशेषतः
SK
१५५२७ न वै पुरुष-समयान् मन्त्रेभ्यो अर्थ-सिद्धिः / किं तर्हि / भाव- १५५२८ स्वभाव एष यद् इमे कथंचिन् नियुक्ताः फलदाः / तत् तर्हि १५६०१ रूपं वर्णानां सर्वत्र अविशिष्टम् इति यथाकथंचित् प्रयुक्ताद् १५६०२ अपि फलं स्यात् / वर्णा एव हि मन्त्रो न अन्यत् किंचित् / तत्-क्रमो १५६०३ मन्त्र इति चेत् / १५६०४ क्रमस्य अर्थान्तरत्वं च पूर्वम् एव निराकृतम् / १५६०५ न वर्ण-व्यतिरिक्तो अन्यः क्रम इति निवेदितम् एतत् / अव्यतिरेके १५६०६ च वर्णा एव मन्त्रस् / ते च अविशिष्टाः सर्वत्र इति सर्वदा फलदाः १५६०७ स्युः / उपप्लवस् त्व् अल्पीयसो अपि क्रमस्य भ्रंशाद् दृष्टः / १५६०८ कस्यचिद् अनुष्ठानाद् देवता-संनिधेर् असाकल्येन विराधनाच् १५६०९ च / सर्व-भ्रंशे तु कस्यचिद् एव समयस्य अननुष्ठानाद् असंनिधेर् १५६१० न अर्थ-अनर्थौ / किं च क्रमस्य अर्थान्तरत्वे अनर्थान्तरत्वे १५६११ वा वर्ण-आत्मनस् तत्-क्रम-आत्मनो वा मन्त्रस्य अर्थ-हेतोर् १५६१२ अकृतकत्वान् नित्यस्य नित्यं संनिधानम् इति १५६१३ नित्यं तद्-अर्थ-सिद्धिः स्याद् / १५६१४ यतो हि भाव-शक्तेः फल-उत्पत्तिः सा अविकला इति न फल-वैकल्यं १५६१५ स्यात् / न हि कारण-साकल्ये कार्य-वैकल्यं युक्तम् / तस्य १५६१६ अकारणत्व-प्रसङ्गात् / न केवलान् मन्त्र-प्रयोगाद् इष्टसिद्धिस् १५६१७ तस्य विधान-अपेक्षत्वाद् इति चेत् / १५६१८ असामर्थ्यम् अपेक्षणे
SK
१५६१९ यदि मन्त्रा विधानाद् अन्यतो वा कंचित् स्वभाव-अतिशयम् आसादयेयुः १५६२० स तत्र समर्थो अपेक्ष्यः स्यात् / न च नित्येष्व् एतद् १५६२१ अस्ति इत्य् उक्तम् / तत् किम् अयम् असमर्थो अपेक्ष्यत इत्य् अनपेक्षाः १५६२२ सदा कुर्युर् न वा कदाचिद् अनतिशयात् / १५६२३ सर्वस्य साधनं ते स्युर् भाव-शक्तिर् यद् ईदृशी / १५६२४ प्रयोक्तृ-भेद-अपेक्षा च न असंस्कार्यस्य युज्यते
SK
१५६२५ यदि भाव-शक्तया एव मन्त्राः सिद्धि-प्रदा न ते कंचित् परिहरेयुर् १५६२६ यजमानम् अन्यं वा / न ह्य् अन्यं प्रति स्वभावो अतद्-भावो १५६२७ भवति / तस्य तेन अनपकर्षणाद् अन्येन च अनुत्कर्षणात् / १५७०१ केनचित् सह कार्यकारणभाव-अयोगात् / प्रत्यासत्ति-विप्रकर्ष- १५७०२ अभावात् / अत एव अस्य असंस्कार्यत्वात् प्रयोक्ता अपि न अस्ति / अतः १५७०३ प्रयोक्ता फलम् अश्नुवीत / १५७०४ संस्कार्यस्य अपि भावस्य वस्तु-भेदो हि भेदकः / १५७०५ प्रयोक्तृ-भेदान् नियमः शक्तौ न समये भवेत्