Auto-Commentary on the Commentary on Valid Cognition

Pramāṇavārttisvavṛtti · Pरमाणवार्त्तिस्ववृत्ति

Auto-Commentary on the Commentary on Valid Cognition

Pramāṇavārttisvavṛtti

Pरमाणवार्त्तिस्ववृत्ति

SK
Exप्लनतोर्य् Rएमर्क्स्
SK
A नुम्बेर् ओf fइवे fइगुरेस् अत् थे लेfत् सिदे इन्दिचतेस् थे लोचतिओन् ओf थे केय् wओर्द् इन् थे बसिच् तेxत्स्. Iन् थे चसे ओf थे SV, थे HB अन्द् थे VN, थे fइर्स्त् थ्रेए fइगुरेस् इन्दिचते थे पगे नुम्बेर्, अन्द् थे लस्त् त्wओ इन्दिचते थे लिने नुम्बेर् (fओर् एxअम्प्ले, SV१६०२६=SV १६०,२६; HB०२३१४=HB २३,१४; VN०६११०=VN ६१,१०). Iन् थे चसे ओf थे PV अन्द् थे NB, थे सेचोन्द् fइगुरे इन्दिचतेस् थे छप्तेर् नुम्बेर् अन्द् थे लस्त् थ्रेए fइगुरेस् इन्दिचते थे करिक ओर् सुत्र नुम्बेर् (fओर् एxअम्प्ले, PV०२२३२=PV, थे Pरमनसिद्धि-छप्तेर् व्.२३२; NB०३०१५=NB, थे Pअरर्थनुमन-छप्तेर् सुत्र १५. Iन् थे चसे ओf थे SP, थे लस्त् त्wओ fइगुरेस् इन्दिचते थे करिक नुम्बेर् (fओर् एxअम्प्ले, SP०००१५=SP, व्.१५).
SK
३. Iन् थिस् दतबसे, सेन्तेन्चेस् अरे अर्तिfइचिअल्ल्य् दिविदेद् इन्तो wओर्द्-उनित्स्, अल्थोउघ् थेय् इन्वोल्वे अ फोनेतिच् fउसिओन् ओर् उनिओन् इन् थे बसिच् तेxत्स्. Fउर्थेर्, चोम्पोउन्द् wओर्द्स् अरे दिविदेद् इन्तो थेइर् स्होर्तेस्त् चोन्स्तितुतिवे एलेमेन्त्स् (wए उसे अ ह्य्फेन् तो इन्दिचते थत् ह्य्फेनतेद् एलेमेन्त्स् ओरिगिनल्ल्य् fओर्म् अ चोम्पोउन्द् wओर्द्) wइथ् थे fओल्लोwइन्ग् एxचेप्तिओन्स्:
SK
३.१. Tहे प्रेfइxएस् अ-, दुर्-, निह्- रेमैन् उन्दिविदेद्, इर्रेस्पेच्तिवे ओf अत्तछ्मेन्त् तो wओर्द्स् ओर् चोम्पोउन्द् wओर्द्स्.
SK
३.२. Sउffइxएस् मकिन्ग् अन् अद्वेर्ब्, fओर् एxअम्प्ले -वत्, -वस, अरे दिविदेद्. Bउत् सुffइxएस् मकिन्ग् अ पोस्सेस्सिवे अद्जेच्तिवे, fओर् एxअम्प्ले -वत्, -मत्, रेमैन् उन्दिविदेद्, अन्द् तेर्म्स् सुछ् अस् अ नुमेरल्+ -ध/-विध/-प्रकर रेमैन् अल्सो उन्दिविदेद्.
SK
३.३. Cओम्पोउन्द् wओर्द्स् wइथ् थे सुffइxएस् -त/-त्व ओर् -भव/-भुत fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. Fओर् एxअम्प्ले: कर्यकरनभव/-भुत/-त.
SK
३.४. Cओम्पोउन्द् wओर्द्स् wइथ् एवम्-, तत्-, तथ-, पर-, यथ-, सु-, स्व- इन् थे wओर्धेअद् fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. Fओर् एxअम्प्ले: एवम्जतिय, तदुत्पत्ति, तथक्र्त, परतन्त्र, यथर्थ, यथस्वम्, सुज्ननत्व, स्वभव.
SK
३.५. Sओमे चोम्पोउन्द् wओर्द्स् wहिछ् अरे रेगर्देद् अस् तेर्मिनोलोग्य् रेमैन् अल्सो उन्दिविदेद्. Fओर् एxअम्प्ले: अग्निहोत्र, अयोगव्यवच्छेद, अर्थपत्ति, पदर्थ, परमर्थ, प्रसज्यप्रतिसेध, विरुद्धव्यभिचरिन्, समनन्तरप्रत्यय, सम्तनपरिनम, समन्यलक्सन, स्वभवप्रतिबन्ध.
SK
४. Tहोसे तेर्म्स् wहोसे wओर्धेअद् इस् सुब्जेच्त् तो थे Sअन्धि रुलेस् (fओर् एxअम्प्ले, -द् धेतु-) अरे चितेद् इन् थेइर् ओरिगिनल् fओर्म् (fओर् एxअम्प्ले, -द् *हेतु-) fओर् थे सके ओf उसिन्ग् थिस् दतबसे तो मके अन् KWIC इन्देx.
SK
१. Aउगुस्त्. १९९७ / Tसुकुब Mओतोइ ONO
SK
Nओते: Tहिस् दतबसे इस् qउइते अ तेन्ततिवे ओने, अन्द् I मुस्त् अद्मित् थत् थेरे अरे अ लोत् ओf एर्रोर्स् अन्द् देfएच्त्स् इन् थिस् वेर्सिओन्. I wओउल्द् अप्प्रेचिअते इत् वेर्य् मुछ् इf थे उसेर् wओउल्द् पोइन्त् ओउत् अन्य् एर्रोर्स् इन् थिस् वेर्सिओन् सो थत् wए चन् मके अ बेत्तेर् नेw वेर्सिओन् इन् थे fउतुरे.
SK
E-मैल्: ओनोलोगोस्.त्सुकुब.अच्.ज्प्
SK
००१०१ ॐ नमो बुद्धाय / ००१०२ विधूत-कल्पना-जाल-गम्भीर-उदार-मूर्तये / ००१०३ नमः समन्तभद्राय समन्त-स्फरण-त्विषे //
SK
००१०४ प्रायः प्राकृत-सक्तिर् अप्रतिबल-प्रज्ञो जनः केवलं / ००१०५ न अनर्थ्य् एव सुभाषितैः परिगतो विद्वेष्ट्य् अपि ईर्ष्या-मलैः //
SK
००१०६ तेन अयं न पर-उपकार इति नश् चिन्ता अपि चेतश् चिरं / ००१०७ सूक्त-अभ्यास-विवर्धित-व्यसनम् इत्य् अत्र अनुबद्ध-स्पृहम् //
SK
००१०८ अर्थ-अनर्थ-विवेचनस्य अनुमान-आश्रयत्वात् तद्-विप्रतिपत्तेस् तद्-व्यवस्थापनाय ००१०९ आह / ००११० पक्ष-धर्मस् तद्-अंशेन व्याप्तो हेतुस् त्रिधा एव सः / ००१११ अविनाभाव-नियमाद् हेत्व्-आभासास् ततो अपरे
SK
००११२ पक्षो धर्मी / अवयवे समुदाय-उपचारात् / प्रयोजन-अभावाद् अनुपचार ००११३ इति चेत् / न / सर्व-धर्मि-धर्म-प्रतिषेध-अर्थत्वात् / तद्-एकदेशत्वात् ००११४ तद्-उपचार-योग्य-धर्मि-धर्म-प्रतिपत्त्य्-अर्थम् / तथा ००११५ च चाक्षुषत्व-आदि-परिहारः / धर्म-वचनेन अपि धर्म्य्-आश्रय- ००२०१ सिद्धौ धर्मि-ग्रहण-सामर्थ्यात् प्रत्यासत्त्या साध्य-धर्मि-सिद्धिर् ००२०२ इति चेत् / न / दृष्टान्त-धर्मिणो अपि प्रत्यासत्तेः / तद्-अंश- ००२०३ व्याप्त्या दृष्टान्त-धर्मिणि सत्त्व-सिद्धेर् धर्मि-वचनात् साध्य-धर्मि- ००२०४ परिग्रहः / सिद्धे पुनर् वचनं नियम-अर्थम् आशङ्क्येत / ००२०५ सजातीय एव सत्त्वम् इति सिद्धे अपि विजातीय-व्यतिरेके साध्य- ००२०६ अभावे असत्त्व-वचन-वत् / सामर्थ्याद् अर्थ-गतौ प्रतिपत्ति - ००२०७ गौरव-परिहार-अर्थं च पक्ष-वचनम् / पक्षस्य धर्मत्वे तद्- ००२०८ विशेषण-अपेक्षस्य अन्यत्र अननुवृत्तेर् असाधारणता इति चेत् / न / अयोगव्यवच्छेदेन ००२०९ विशेषणात् / यथा चैत्रो धनुर्धरः / न अन्ययोगव्यवच्छेदेन / ००२१० यथा पार्थो धनुर्धर इत्य् आक्षेप्स्यामः / ००२११ तद्-अंशस् तद्-धर्मः / वक्तुर् अभिप्राय-वशात् / न तद्-एक-देशः / ००२१२ पक्ष-शब्देन समुदाय-अवचनात् / व्याप्तिर् व्यापकस्य तत्र भाव ००२१३ एव / व्याप्यस्य वा तत्र एव भावः एतेन अवयव-व्यतिरेकौ यथास्वं ००२१४ प्रमाणेन निश्चिताव् उक्तौ पक्ष-धर्मश् च / त एते कार्य- ००२१५ स्वभाव-अनुपलब्धि-लक्षणास् त्रयो हेतवः / यथा अग्निर् अत्र धूमात् / ००२१६ वृक्षो अयं शिंशपात्वात् / प्रदेश-विशेषे क्वचिन् न घट उपलब्धि- ००२१७ लक्षण-प्राप्तस्य अनुपलब्धेः / यदि स्याद् उपलब्ध्य्-असत्त्व ००२१८ एव स्यान् न अन्यथा / तेन उपलब्धि-लक्षण-प्राप्त-सत्त्वस्य इत्य् उक्तं ००२१९ भवति / तत्र द्वौ वस्तु-साधनौ एकः प्रतिषेध-हेतुः / स्वभावप्रतिबन्धे ००२२० हि सत्य् अर्थो अर्थं न व्यभिचरति / स च ००२२१ तदात्मत्वात् / तदात्मत्वे साध्य-साधन-भेद-अभाव इति चेत् / ००२२२ न / धर्म-भेद-परिकल्पनाद् इति वक्ष्यामः / तथा च आह / सर्व ००२२३ एव अयम् अनुमान-अनुमेय-व्यवहारो बुद्ध्य्-आरूढेन धर्म-धर्मि- ००३०१ भेदेन इति / भेदो धर्म-धर्मितया बुद्ध्य्-आकार-कृतो न अर्थो ००३०२ अपि / विकल्प-भेदानां स्वतन्त्राणाम् अनर्थ-आश्रयत्वात् / तत्- ००३०३ कल्पित-विषयाद् अर्थ-प्रतीताव् अनर्थ-प्रतिलम्भ एव स्यात् / कार्यस्य ००३०४ अपि स्वभावप्रतिबन्धः / तत्-स्वभावस्य तदुत्पत्तेर् इति / ००३०५ एतौ द्वाव् अनुमेय-प्रत्ययौ साक्षाद् अनुत्पत्तेर् अतत्-प्रतिभासित्वे ००३०६ अपि तदुत्पत्तेस् तद्-व्यभिचारिणाव् इति प्रमाणं प्रत्यक्ष-वत् / ००३०७ प्रत्यक्षस्य अपि ह्य् अर्थ-अव्यभिचार एव प्रामाण्यम् / तद् -अभावे ००३०८ भाविनस् तद्-विप्रलम्भात् / अव्यभिचारश् च अन्यस्य को अन्यस् तदुत्पत्तेः / ००३०९ अनायत्त-रूपाणाम् सहभाव-नियम-अभावात् / यदि तदुत्पत्तेः ००३१० कार्यं गमकम् सर्वथा गम्यगमकभावः सर्वथा ००३११ जन्यजनकभावात् / न / तद्-अभावे भवतस् तदुत्पत्ति- ००३१२ नियम-अभावात् / तस्मात् / ००३१३ कार्यं स्वभावैर् यावद्भिर् अविनाभावि कारणे / ००३१४ तेषां ००३१५ हेतुः / ००३१६ तत्-कार्यत्व-नियमात् तैर् एव धर्मैर् ये तैर् विना न भवति / ००३१७ अंशेन जन्यजनकत्व-प्रसङ्ग इति चेत् / न / तज्-जन्य-विशेष-ग्रहणे ००३१८ अभिमतत्वाल् लिङ्ग-विशेष-उपाधीनां च सामान्यानाम् / अविशिष्ट- ००३१९ सामान्य-विवक्षायां व्यभिचारान् न इष्यते / ००४०१ स्वभावे भावो अपि भाव-मात्र-अनुरोधिनि
SK
००४०२ हेतुर् इति वर्तते / तादात्म्यं हि अर्थस्य तन्-मात्र-अनुरोधिनि एव ००४०३ न अन्या आयत्ते / तद्-भावे अभूतस्य पश्चाद् भाव-नियम-अभावात् / कारणानां ००४०४ कार्य-व्यभिचारात् / ००४०५ अप्रवृत्तिः प्रमाणानाम् / ००४०६ अनुपलब्धिः ००४०७ अप्रवृत्ति-फला असति / ००४०८ सज्-ज्ञान-शब्द-व्यवहार प्रतिषेध-फला / उपलब्धि-पूर्वकत्वात् तेषाम् ००४०९ इति इदं सद्-असत्-प्रतिषेध-विधि-हेत्वोस् तुल्यं रूपम् / तथा ००४१० हि सत्त्वम् उपलब्धिर् एव वस्तु-योग्यता-लक्षणा तद्-आश्रया वा ००४११ ज्ञान-प्रवृत्तिः / ततः सज्-ज्ञान-शब्द-व्यवहार-वृत्तेः / असतां ००४१२ च असत्त्वम् अनुपलब्धिः ००४१३ असज्-ज्ञान-फला काचिद् हेतु-भेद-व्यपेक्षया
SK
००४१४ हेतुर् अनुपलब्धिः / भेदो अस्या विशेषणम् उपलब्धि-लक्षण- ००४१५ प्राप्त-सत्त्वम् / अत्र अनुपलब्धेर् लिङ्गाद् असत्तायाम् उपलब्धेर् ००४१६ अभावो अपि अन्यया अनुपलब्ध्या साध्य इति अनवस्थानाद् अप्रतिपत्तिः ००४१७ स्यात् / अथ उपलब्ध्य्-अभावो विना अनुपलब्ध्या स्यात् / तथा ००४१८ सत्ता अभावो अपि स्यात् / अपार्थिक-अनुपलब्धिः / अथ अन्य-उपलब्ध्या ००४१९ अनुपलब्धि-सिद्धिर् इति प्रत्यक्ष-सिद्धा अनुपलब्धिः / तथा अन्य-सत्तया ००४२० असत्ता किं न सिध्यति इति / यदा पुनर् एवंविधा अनुपलब्धिर् ००४२१ एव असताम् असत्ता तदा सिद्धे अपि विषये मोहाद् विषयिणो ००४२२ असज्-ज्ञान-शब्द-व्यवहारान् अप्रतिपद्यमानो विषय-प्रदर्शनेन ००४२३ समये प्रवर्त्यते / यथा गौर् अयम् सास्ना-आदि-समुदाय-आत्मकत्वाद् ००४२४ इति / तथा च दृष्टान्त-असिद्धि-चोदना अपि प्रतिव्यूढा ००५०१ विषय-प्रतिपत्ताव् अप्य् अप्रतिपन्न-विषयीणां दर्शनात् / ००५०२ एवम् अनयोर् अनुपलब्ध्योः स्व-विपर्यय-हेत्व्-अभाव-भावाभ्यां ००५०३ सद्-व्यवहार-प्रतिषेध-फलत्वं तुल्यम् / एकत्र संशयाद् अन्यत्र ००५०४ विपर्ययात् / तत्र आद्या सद्-व्यवहार-निषेध-उपयोगात् प्रमाणम् ००५०५ उक्ता / न तु व्यतिरेक-दर्शन-आदाव् उपयुज्यते / संशयात् / द्वितीया ००५०६ त्व् अत्र प्रमाणं निश्चय-फलत्वात् / सा च प्रयोग-भेदात् ००५०७ विरुद्ध-कार्ययोः सिद्धिर् असिद्धिर् हेतु-भावयोः / ००५०८ दृश्य-आत्मनोर् अभाव-अर्थ-अनुपलब्धिश् चतुर्विधा
SK
००५०९ यावान् कश्चित् प्रतिषेधः स सर्वो अनुपलब्धेः / तथा हि स द्विधा ००५१० क्रियेत कस्यचिद् विधिना निषेधेन वा / विधौ विरुद्धो वा विधीयेत ००५११ अविरुद्धो वा / अविरुद्धस्य विधौ सहभाव-विरोध-अभावाद् ००५१२ अप्रतिषेधः / विरुद्धस्य अप्य् अनुपलब्ध्य्-अभावेन विरोध-अप्रतिपत्तिः ००५१३ / तथा ह्य् अपर्यन्त-कारणस्य भवतो अन्य-भावे ००५१४ अभावाद् विरोध-गतिः / स च अनुपलब्धेः / अन्योन्य-उपलब्धि-परिहार- ००५१५ स्थित-लक्षणता वा विरोधो नित्य-अनित्यत्व-वत् / तत्र अप्य् एक-उपलब्ध्या ००५१६ अन्य-अनुपलब्धिर् एव उच्यते / अन्यथा अनिषिद्ध-उपलब्धेर् अभाव- ००५१७ असिद्धेः / एकस्य निषेधेन अन्य-अभाव-साधने सिद्धा एव अनुपलब्धिः / ००५१८ निषेधस्य अनुपलब्धि-रूपत्वात् / तत्र अप्य् अर्थ-अन्तर-निषेधे ००५१९ कार्य-कारणयोर् अनुभवस्य वा / तत्र अनुभवस्य अप्रतिबन्धात् तद्- ००५२० अभावे अन्येन न भवितव्यम् इति कुत एतत् / कार्य-अनुपलब्धाव् ००५२१ अपि न अवश्यं कारणा अपि तद्वन्ति भवन्ति इति तद्-अभावः कुतः / ००५२२ तस्मात् कारण-अनुपलब्धिर् एव अभावं गमयति इति / स्वभाव-अनुपलब्धिस् ००५२३ तु स्वयम् असत्ता एव / तत्र केवलं विषयी साध्यते / ००५२४ अस्याम् अपि यदा व्यापक-धर्म-अनुपलब्ध्या व्याप्य-अभावम् आह ००५२५ तदा अभावो अपि इति / इयं प्रतिषेध-विषय-अनुपलब्धिः प्रयोग- ००६०१ भेदेन चतुर्धा भवति / विरुद्ध-सिद्ध्या यथा न शीत-स्पर्शो ००६०२ अत्र अग्नेः / एतेन व्यापक-विरुद्ध-सिद्धिर् उक्ता वेदितव्या यथा ००६०३ न तुषार-स्पर्शो अत्र अग्नेः / विरुद्ध-कार्य-सिद्ध्या यथा न शीत- ००६०४ स्पर्शो अत्र धूमात् / हेत्व्-असिद्ध्या यथा न अत्र धूमो अनग्नेः / ००६०५ स्वभाव-असिद्ध्या यथा न अत्र धूमो अनुपलब्धेः / एतेन व्यापक- ००६०६ स्वभाव-असिद्धेर् उक्ता यथा न अत्र शिंशपा वृक्षा-अभावात् / ००६०७ सर्वत्र च अस्याम् अभाव-साधन्याम् अनुपलब्धौ दृश्य-आत्मनाम् एव ००६०८ तेषां तद्-विरुद्धानां च सिद्धिर् असिद्धिश् च वेदितव्या / अन्येषाम् ००६०९ अभाव-विरोध-असिद्धेः / यदि विरुद्ध-कार्य-उपलब्ध्या अप्य् अभाव- ००६१० सिद्धिः तत्-कारण-उपलब्ध्या किं न सिध्यति / ००६११ तद्-विरुद्ध-निमित्तस्य या उपलब्धिः प्रयुज्यते / ००६१२ निमित्तयोर् विरुद्धत्व-अभावे सा व्यभिचारिणी
SK
००६१३ यथा न शीत-स्पर्शो अत्र काष्ठाद् इति / निमित्तयोः पुनर् विरोधे ००६१४ गमिका एव यथा न अस्य रोम-हर्ष-आदि-विशेषाः सन्ति संनिहित-दहन- ००६१५ विशेषत्वात् एतेन तत् कार्याद् अपि तद्-विरुद्ध-कार्य-अभाव-गतिर् ००६१६ उक्ता वेदितव्या यथा न रोम-हर्ष-आदि-विशेष-युक्त-पुरुषवान् अयं ००६१७ प्रदेशो धूमात् / इयं च हेत्व्-असिद्ध्या एव तद्-विरुद्ध-सिद्धिः ००६१८ प्राग् एव निर्दिष्टा इति इयं प्रयोग-भेदाद् अष्टधा-अनुपलब्धिः / तत्र ००६१९ या इयं विरुद्ध-कार्य-उपलब्धिर् उक्ता तत्र ००६२० इष्टं विरुद्ध-कार्ये अपि देश-काल-आद्य्-अपेक्षणम् / ००६२१ अन्यथा व्यभिचारि स्याद् भस्मा इव अशीत-साधने
SK
००६२२ यस् तर्हि समग्रेण हेतुना कार्य-उत्पादो अनुमीयते स कथं ००६२३ त्रिविधे हेताव् अन्तर्भवति / ००६२४ हेतुना यः समग्रेण कार्य-उत्पादो अनुमीयते / ००६२५ अर्थ-अन्तर-अनपेक्षत्वात् स स्वभावो अनुवर्णितः
SK
००६२६ असाव् अपि यथा असंनिहितान् न अन्यम् अपेक्षत इति तन्-मात्र-अनुबन्धी ००६२७ स्वभावो भावस्य / तत्र हि केवलं समग्रात् कारणात् कार्य-उत्पत्ति- ००६२८ सम्भवो अनुमीयते समग्राणां कार्य-उत्पादन-योग्यता-अनुमानात् / ००६२९ योग्यता च सामग्री-मात्र-अनुबन्धिनी इति स्वभाव-भूता एव अनुमीयते / ००७०१ किं पुनः कारणं सामग्र्याः कार्यम् एव न अनुमीयते / ००७०३ सामग्री-फल-शक्तीनां परिणाम-अनुबन्धिनि / ००७०४ अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात्
SK
००७०५ न हि समग्राणि इत्य् एव कारण-द्रव्याणि स्व-कार्यं जनयन्ति सामग्री- ००७०६ जन्मनां शक्तीनां परिणाम-अपेक्षत्वात् कार्य-उत्पादस्य / अत्र ००७०७ अन्तरे च प्रतिबन्ध-सम्भवान् न कार्य-अनुमानम् / योग्यतायास् ००७०८ तु द्रव्य-अन्तर-अनपेक्षत्वान् न विरुध्यते अनुमानम् / उत्तरोत्तर- ००७०९ शक्ति-परिणामेन कार्य-उत्पादन-समर्था इयं कारण-सामग्री ००७१० शक्ति-परिणाम-प्रत्ययस्य अन्यस्य अपेक्षणीयस्य अभावाद् इति / पूर्व- ००७११ सजाति-मात्र-हेतुत्वात् शक्ति-प्रसूतेः सामग्र्या योग्यता अनन्य-अपेक्षिणी ००७१२ इत्य् उच्यते / या तर्ह्य् अकार्यकारणभूतेन अन्येन रस-आदिना रूप- ००७१३ आदि-गतिः सा कथम् / सा अपि ००७१४ एक-सामग्र्य्-अधीनस्य रूप-आदेर् असतो गतिः / ००७१५ हेतु-धर्म-अनुमानेन धूम-इन्धन-विकार-वत्
SK
००७१६ तत्र हेतुर् एव तथाभूतो अनुमीयते / प्रवृत्त-शक्ति-रूप-उपादान- ००७१७ कारण-सहकारि-प्रत्ययो हि रस-हेतू रसं जनयति / इन्धन-विकार- ००७१८ विशेष-उपादान-हेतु-सहकारि-प्रत्यय-अग्नि-धूम-जनन-वत् / तथा ००७१९ हि / ००७२० शक्ति-प्रवृत्त्या / ००७२१ स्व-कारणस्य फल-उत्पादनं प्रत्य् आभिमुख्येन ००८०१ न विना रसः स एव अन्य-कारणम् / ००८०२ रूप-उपादान-हेतूनां प्रवृत्ति-कारणम् / सा अपि रस-उपादान-कारण-प्रवृत्ती ००८०३ रूप-उपादान-कारण-प्रवृत्ति-सहकारिणी / तस्माद् यथाभूताद् हेतो ००८०४ रस उत्पन्नस् तथाभूतम् अनुमापयन् रूपम् अनुमापयति ००८०५ इत्य् / ००८०६ तत्र अपि ००८०७ अतीत-एकैकालानां गतिस् / ००८०८ न अनागतानां व्यभिचारात् ००८०९ तत् / ००८१० तस्माद् इयम् ००८११ कार्य-लिङ्गजा
SK
००८१२ तेन न अन्यो हेतुर् गमको अस्ति / अप्रतिबद्ध-स्वभावस्य अविनाभाव- ००८१३ नियम-अभावात् / एतेन पिपीलिक-उत्सरण-मत्स्य-विकार-आदेर् ००८१४ वर्ष-आद्य्-अनुमानम् उक्तम् / तत्र अपि भूत-परिणाम एव वर्ष-हेतुः ००८१५ पिपीलिक-आदि संक्षोभ-आदि-हेतुर् इति / ००८१६ हेतुना त्व् असमग्रेण यत् कार्यम् अनुमीयते / ००८१७ शेषवत् तद् असामर्थ्याद् देहाद् राग-अनुमान-वत्
SK
००८१८ समग्राण्य् एव हि कारणानि योग्यताम् अप्य् अनुमापयन्त्य् असमग्रस्य ००८१९ एकान्त-असामर्थ्यात् / यथा देह-इन्द्रिय-बुद्धिभ्यो राग-आद्य्-अनुमानम् / ००८२० आत्म-आत्मीय-अभिनिवेश-पूर्वका हि राग-आदयो अयोनिशो-मनस्कार- ००८२१ पूर्वकत्वात् सर्व-दोष-उत्पत्तेः / देह-आदीनां हेतुत्वे अपि ००८२२ न केवलानां सामर्थ्यम् अस्ति इति / विपक्ष-वृत्तेर् अदृष्टाव् अपि ००८२३ शेषवद्-अनुमानात् संशयः / तथा ००९०१ विपक्षे अदृष्टि-मात्रेण कार्य-सामान्य-दर्शनात् / ००९०२ हेतु-ज्ञानं प्रमाण-आभं वचनाद् रागित-आदि-वत्
SK
००९०३ न हि राग-आदीनाम् एव कार्यं स्पन्दन-वचन-आदयः वक्तुकामता- ००९०४ सामान्य-हेतुत्वात् / स एव राग इति चेत् इष्टत्वान् न किंचिद् बाधितं ००९०५ स्यात् / नित्य-सुख-आत्म-आत्मीय-दर्शन-आक्षिप्तं सास्रव-धर्म-विषयं ००९०६ चेतसो अभिष्वङ्गं रागम् आहुः / न एवं करुणा-आदयो अन्यथा ००९०७ अपि सम्भवाद् इति निवेदयिष्यामः / अत्र यथा रक्तो ब्रवीति ००९०८ तथा विरक्तो अपि इति वचन-मात्राद् अप्रतिपत्तिः / न अपि विशेषात् / ००९०९ अभिप्रायस्य दुर्बोधत्वात् / व्यवहार-संकरेण सर्वेषां व्यभिचारात् / ००९१० प्रयोजन-अभावाद् अव्याहार इति चेत् न परार्थत्वात् / ००९११ न युक्तो वीत-रागत्वाद् इति चेत् न करुणा अपि वृत्तेः / स एव ००९१२ राग इति चेत् / इष्टम् / अविपर्यास-समुद्भवान् न दोषः / असत्य् ००९१३ अप्य् आत्म-ग्रहे दुःख-विशेष-दर्शन-मात्रेण अभ्यास-बल-उत्पादिनी ००९१४ भवत्य् एव करुणा / तथा हि / सत्त्व-धर्म-आद्य्-आलम्बना मैत्र्य्-आदय ००९१५ इष्यन्ते / एताश् च सजातीय-अभ्यास-वृत्तयो न राग-अपेक्षिण्यः / ००९१६ न एवं राग-आदयो विपर्यास-अभावे अभावात् / कारुणिकस्य अपि ००९१७ निष्फल आरम्भो अविपर्यासाद् इति चेत् / न / परार्थस्य एव ००९१८ फलत्वेन इष्टत्वात् / इच्छा-लक्षणत्वात् फलस्य / सर्वथा अभूत- ००९१९ असमारोपान् निर्दोषः / तद्-अन्येन दोषवत्त्व-साधने न किंचिद् ००९२० अनिष्टम् / वक्तर्य् आत्मनि राग-आदि-दर्शनेन अन्यत्र तद्-अनुमाने ००९२१ अतिप्रसङ्गः / व्यभिचारात् / अनन्य-अनुमाने इह अव्यभिचार इति ०१००१ को निश्चयः / करण-गुण-वक्तुकामते हि वचनम् अनुमापयेत् / ०१००२ राग-उत्पादन-योग्यता-रहिते वचन-अदर्शनात् तद्-अनुमाने ०१००३ अतिप्रसङ्गः उक्तः / रागस्य अनुपयोगे कथं तच्-शक्तिर् उपयुज्यते / ०१००४ शक्त्य्-उपयोगे हि स एव उपयुक्तः स्यात् तच् च न अस्ति इत्य् उक्तम् / ०१००५ तस्मान् नान्तरीयकम् एव कार्यं कारणम् अनुमापयति तत्- ०१००६ प्रतिबन्धात् न अन्यद् विपक्षे अदर्शने अपि / सर्व-दर्शिनो हि दर्शन- ०१००७ व्यावृत्तिः सर्वत्र अभावं गमयेत् / क्वचित् तथा दृष्टानाम् ०१००८ अपि देश-काल-संस्कार-भेदेन अन्यथा अदर्शनाद् / यथा आमलक्यः ०१००९ क्षीर-अवसेकेन मधुर-फला भवन्ति / न च एवं बहुलं दृश्यन्ते / ०१०१० तेन एवं स्याद् युक्तं वक्तुम् मादृशो वक्ता रागी इति ०१०११ राग-उत्पत्ति-प्रत्यय-विशेषेण आत्म-दर्शन-अयोनिशो-मनस्कारेण योगात् / ०१०१२ तदा अप्य् अपार्थको वचन-उदाहारः / तस्माद् विपक्षे अदृष्टिर् अहेतुः / ०१०१३ न च अदर्शन-मात्रेण विपक्षे अव्यभिचारिता / ०१०१४ सम्भाव्य-व्यभिचारत्वात् स्थाली-तण्डुल-पाक-वत्
SK
०१०१५ न हि बहुलं पक्व-दर्शने अपि स्थाल्य्-अन्तर्गमन-मात्रेण पाकः ०१०१६ सिध्यति / व्यभिचार-दर्शनात् / एवं तु स्याद् एवं स्वभावा ०१०१७ एतत्-समान-पाक-हेतवः पक्वा इति / अन्यथा तु शेषवद् एतद् अनुमानं ०१०१८ व्यभिचारि / किं पुनर् एतच् शेषवत् / ०१०१९ यस्य अदर्शन-मात्रेण व्यतिरेकः प्रदर्श्यते / ०१०२० तस्य संशय-हेतुत्वाच् शेषवत् तद् उदाहृतम्
SK
०१०२१ स तस्य व्यतिरेको न निश्चित इति विपक्षे वृत्तिर् आशङ्क्येत / व्यतिरेक- ०१०२२ साधनस्य अदर्शन-मात्रस्य संशय-हेतुत्वात् / न सर्व-अनुपलब्धिर् ०१०२३ गमिका / तस्माद् एक-निवृत्त्या अन्य-निवृत्तिम् इच्छता तयोः ०१०२४ कश्चित् स्वभावप्रतिबन्धो अप्य् एष्टव्यः / अन्यथा अगमको ०१०२५ हेतुः स्यात् / ०१०२६ हेतोस् त्रिषु अपि रूपेषु निश्चयस् तेन वर्णितः / ०१०२७ असिद्ध-विपरीत-अर्थ-व्यभिचारि-विपक्षतः
SK
०१०२८ न ह्य् असति प्रतिबन्धे अन्वय-व्यतिरेक-निश्चयो अस्ति / तेन तम् ०११०१ एव दर्शयन् निश्चयम् आह / तत्र अन्वयस्य निश्चयेन विरुद्ध- ०११०२ तत् पक्ष्याणां निरासः / व्यतिरेकस्य अनैकान्तिकस्य तत्-पक्षस्य च ०११०३ शेषवद्-आदेः / द्वयोर् इत्य् एक-सिद्ध-प्रतिषेधः / प्रसिद्ध-वचनेन ०११०४ सन्दिग्धयोः शेषवद्-असाधारणयोः सपक्ष-विपक्षयोर् ०११०५ अपि / अन्यथा ह्य् असति प्रतिबन्धे अदर्शन-मात्रेण व्यतिरेके / ०११०६ व्यभिचारि-विपक्षेण वैधर्म्य-वचनं च यत् / ०११०७ यद् आह / एष तावन् न्यायो यद् उभयं वक्तव्यम् विरुद्ध- अनैकान्तिक- ०११०८ प्रतिपक्षेण इति / वैधर्म्य-वचनम् अनैकान्तिक-प्रतिपक्षेण / ०१११० यद्य् अदृष्टि-फलं तच् च / ०११११ यदि तेन विपक्षे अदर्शनं ख्याप्यते / ०१११२ तद् अनुक्ते अपि गम्यते
SK
०१११३ न हि तस्य प्राग् दर्शन-भ्रान्तिर् या वचनेन निवर्त्येत / स्मृतिर् ०१२०१ वाच-अदर्शने क्रियत इति चेत् / दर्शनं खल्व् अप्रतीयमानम् ०१२०२ अनङ्गम् इति युक्तं तत्र स्मरण-आधानम् / अदर्शनं तु दर्शन- ०१२०३ अभावः / स दर्शनेन बाध्यते / तद्-अभावे तु सिद्ध एव इत्य् अपार्थकं ०१२०४ तत्-सिद्धये वचनं / न वै अनुपलम्भमानस्य ०१२०५ तावता न अस्ति इति भवति तद्-अर्थं वचनम् इति चेत् / ०१२०६ न च न अस्ति इति वचनात् तन् न अस्त्य् एव यथा यदि / ०१२०७ न अस्ति स ख्याप्यते न्यायस् तदा न अस्ति इति गम्यते
SK
०१२०८ यद्य् अनुपलभमानो न अस्ति इति न प्रत्येति वचनाद् अपि न एव प्रत्येष्यति / ०१२०९ तद् अपि ह्य् अनुपलम्भम् एव ख्यापयति / न च एक-अनुपलम्भो ०१२१० अन्य-अभावं साधयत्य् अतिप्रसङ्गात् / न च तेन ०१२११ न अस्ति इति वचनात् तथा भवत्य् अतिप्रसङ्गात् / तत् कथं वैधर्म्य-वचनेन ०१२१२ अनैकान्तिक-परिहारः / तस्माद् व्यावृत्तिम् इच्छता ०१२१३ तत्र न्यायो वक्तव्यः यतो अस्य व्यावृत्तम् इति भवति / ०१२१४ ननु तद्-अभावे अनुपलम्भात् सिद्धा व्यावृत्तिः / ०१२१५ यद्य् अदृष्ट्या निवृत्तिः स्याच् शेषवद् व्यभिचारि किम् / ०१२१६ यथा पक्वान्य् एतानि फलान्य् एवं-रसानि वा रूप-अविशेषाद् एक-शाखा- ०१२१७ प्रभवत्वाद् वा उपयुक्त-वद् इति / अत्र अपि विवक्षित-अशेष-पक्षीकरणे ०१२१८ हेतोः साध्य-अभावे अनुपलम्भो अस्ति इति कथं व्यभिचारः / ०१२१९ प्रत्यक्ष-बाधा-आशङ्का व्यभिचार इत्य् एके / न / पक्षीकृत- ०१२२० विषये अभावात् / कदाचिद् भवेद् इति चेत् / तथा शङ्कायाम् अतिप्रसङ्गः / ०१२२१ अन्यत्र अप्य् अभाव-नियम-अभावात् / वृत्तं प्रमाणं बाधकम् / ०१२२२ अवृत्त-बाधने सर्वत्र अनाश्वासः / व्यतिरेकस् तु सिद्ध ०१२२३ एव साधनम् इति तथा अभाव-निश्चयम् अपेक्षते / अनुपलम्भात् तु ०१२२४ क्वचिद् अभाव-सिद्धाव् अप्य् अप्रतिबद्धस्य तद्-अभावे सर्वत्र ०१२२५ अभाव-असिद्धेः संशयाद् अव्यतिरेको व्यभिचारः शेषवतः / ०१२२६ किं च / ०१३०१ व्यतिरेक्य् अपि हेतुः स्यान् / ०१३०२ न इदं निरात्मकं जीवच्छरीरम् अप्राण-आदिमत्त्व-प्रसङ्गाद् इति / ०१३०३ निरात्मकेषु घट-आदिषु दृष्टेषु प्राण-आद्य्-अदर्शनात् तन्-निवृत्त्य्- ०१३०४ आत्म-गतिः स्यात् / अदृश्य-अनुपलम्भाद् अभाव-असिद्धौ घट-आदीनां ०१३०५ नैरात्म्य-असिद्धेः प्राण-आदेर् अनिवृत्तिः / अभ्युपगमात् सिद्धम् ०१३०६ इति चेत् / कथम् इदानीम् आत्म-सिद्धिः / परस्य अप्य् अप्रमाणिका ०१३०७ कथं नैरात्म्य-सिद्धिः / अभ्युपगमेन च सात्मक-अनात्मकौ ०१३०८ विभज्य तत्र अभावेन गमकत्वं कथयता आगमिकत्वम् ०१३०९ आत्मनि प्रतिपन्नं स्यात् / न अनुमेयत्वम् / तस्माद् अदर्शने अप्य् ०१३१० आत्मनो-निवृत्त्य्-असिद्धेः / तन्-निवृत्तौ क्वचिन् निवृत्ताव् अपि प्राण-आदीनाम् ०१३११ अप्रतिबन्धात् / सर्वत्र निवृत्त्य्-असिद्धेर् अगमकत्वम् / ०१३१२ या अप्य् असिद्धि-योजना तथा सपक्षे सन्न् असन्न् इत्य् एवम्-आदिष्व् अपि ०१३१३ यथायोगम् उदाहर्यम् इत्य् एवम्-आदिका / सा अपि ०१३१४ न वाच्या असिद्धि-योजना
SK
०१३१५ अनुपलम्भ एव संशयात् / उपलम्भे तद्-अभावात् / अनुपलम्भाच् ०१३१६ च व्यतिरेक इति संशयितो अनिवार्यः स्यात् / यथायोग-वचनात् ०१३१७ अनिवारित एव इति चेत् / न / य एव तु उभय-निश्चित-वाची इत्य् आदि-वचनात् / ०१३१८ तेन अनुपलम्भे अपि संशयाद् अनिवृत्तिं मन्यमानः तत्-प्रतिषेधम् ०१३१९ आह / किं च / ०१४०१ विशेषस्य व्यवच्छेद-हेतुता स्याद् अदर्शनात् / ०१४०२ श्रावणत्वस्य अपि नित्य-अनित्ययोर् अदर्शनाद् व्यावृत्तिर् इति तद्-व्यवच्छेद- ०१४०३ हेतुता स्यात् / न हि तद्-व्यावृत्तेर् अन्यद् व्यवच्छेदनम् / ०१४०४ अव्यवच्छेदस् तु कुतश्चिद् व्यावृत्तेर् एव अनिश्चयात् / यो हि यत्र ०१४०५ न अस्ति इति निश्चितः स भवंस् तद्-अभावं कथं न गमयेत् / ०१४०६ प्रमाण-अन्तर-बाधा चेन् / ०१४०७ अथ अपि स्याद् उभय-व्यवच्छेदे प्रमाण-अन्तरं बाधकम् अस्ति / ०१४०८ अन्योन्य-व्यवच्छेद-रूपाणाम् एक-व्यवच्छेदेन अन्य-विधानाद् ०१४०९ अप्रतिषेधः / विधि-प्रतिषेधयोर् विरोधात् / ०१४१० न इदानीं नास्तिता अदृशः
SK
०१४११ न एवम् अदर्शनं प्रमाणं बाधा-असम्भवात् / ०१४१२ तथा अन्यत्र अपि सम्भाव्यं प्रमाण-अन्तर-बाधनम् / ०१४१३ लक्षण-युक्ते बाधा-असम्भवे तल्-लक्षणम् एव दूषितं स्याद् इति ०१४१४ सर्वत्र अनाश्वासः / अनुमान-विषये अपि प्रत्यक्ष-अनुमान-विरोध- ०१४१५ दर्शनाद् अनाश्वास-प्रसङ्ग इति चेत् / न / यथोक्ते असम्भवात् / ०१४१६ सम्भविनश् च अतल्-लक्षणत्वात् / विरुद्धाव्यभिचार्य्-अवचनम् इति ०१४१७ चेत् / अनुमान-विषये अवचनाद् इष्टम् / विषयं च अस्य निवेदयिष्यामः / ०१४१८ किं च / ०१४१९ दृष्टा अयुक्तिर् अदृष्टेश् च स्यात् स्पर्शस्य अविरोधिनी
SK
०१४२० यदि ह्य् अनुपलम्भेन अभावः सिध्येत् / यद् आह / यद्य् अदर्शन- ०१४२१ मात्रेण दृष्टेभ्यः प्रतिषेधः क्रियते / न च सो अपि युक्त ०१५०१ इति / कथम् अयुक्तः / अनुपलम्भाद् अभाव-सिद्धेः / ननु उपलब्धि- ०१५०२ लक्षण-प्राप्तेः स्पर्शस्य युक्त एव प्रतिषेधः / न युक्तः / ०१५०३ दृश्य-तत्-स्वभाव-विषय-मात्र-अप्रतिषेधात् / पृथिव्य्-आदि सामान्येन ०१५०४ गृहीत्वा अयं प्रतिषेधम् आह / तत्र च तूल-उपल-पल्लव- ०१५०५ आदिषु तद्-भावे अपि स्पर्श-भेद-दर्शनात् अस्य अपि क्वचिद् विशेषे ०१५०६ सम्भव-आशङ्कया भवितव्यम् इति सर्वत्र अदर्शन-मात्रेण अयुक्तः ०१५०७ प्रतिषेध इति / एवम् आचार्यीयः कश्चिद् अनुपलम्भाद् अभावं ०१५०८ ब्रुवाण उपालब्धः / अपि च / ०१५०९ देश-आदि-भेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तयः / ०१५१० तत्र एक-दृष्ट्या न अन्यत्र युक्तस् तद्-भाव-निश्चयः
SK
०१५११ यदि कथंचिद् विपक्षे अदर्शन-मात्रेण अप्रतिबद्धस्य अपि तद्- ०१५१२ अव्यभिचारः / क्वचिद् देशे कानिचिद् द्रव्याणि कथंचिद् दृष्टानि ०१५१३ पुनर् अन्यथा अन्यत्र दृश्यन्ते / यथा काश्चिद् ओषधयः क्षेत्र- ०१५१४ विशेषे विशिष्ट-रस-वीर्य-विपाका भवन्ति / न अन्यत्र / तथा काल- ०१५१५ संस्कार-भेदात् / न च तद्-देशैस् तथा दृष्टा इति सर्वास् तत्त्वेन ०१५१६ तथाभूताः सिध्यन्ति / गुण-अन्तराणां कारण-अन्तर-अपेक्षत्वात् / ०१५१७ विशेष-हेत्व्-अभावे तु स्याद् अनुमानम् / यथा अदृष्ट-कर्तृकम् अपि ०१५१८ वाक्यं पुरुष-संस्कार-पूर्वकम् इति / वाक्येषु विशेष-अभावात् / ०१५१९ सर्व-प्रकाराणां पुरुषैः करणस्य दर्शनात् / न एवम् असम्भवद्- ०१५२० विशेष-हेतवः पुरुषा येन वचन-आदेः किंचिन्-मात्र-साधर्म्यात् ०१५२१ सर्व-आकार-साम्यम् अनुमीयेत / सर्व-गुणेषु विशेष-दर्शनात् / ०१५२२ संस्कार-भेदेन विशेष-प्रतिपत्तेः / तद्वद् अन्यस्य अपि सम्भवाद् / ०१५२३ असम्भव-अनुमाने च बाधक-हेत्व्-अभावात् वैराग्य-अदृष्टेः ०१५२४ अदृष्टेन च बाध्यबाधकभाव-असिद्धेः / राग-आद्य्-अव्यभिचारि- ०१५२५ कार्य-अभावात् / सम्भवे अपि विशेषाणां द्रष्टुम् अशक्यत्वात् / ०१६०१ तादृशां च अप्रतिक्षेप-अर्थत्वात् / न एवं वाक्यानि दृश्य-विशेषत्वात् / ०१६०२ अदृश्यत्वे अप्य् अदृष्ट-विशेषाणां विजातीयत्व-उपगम-विरोधात् / तद्- ०१६०३ विशेषाणाम् अन्यत्र अपि शक्य-क्रियत्वात् / प्रत्यक्षाणां शब्दानाम् ०१६०४ अप्रत्यक्ष-स्वभाव-अभावात् / भ्रान्ति-निमित्त-अभावात् / बाधक-अभावाद् ०१६०५ भ्रान्त्य्-असिद्धेः / पुरुषेषु विशेष-दर्शनस्य बाधकत्वाद् ०१६०६ असमानम् / परभाव-भूतस्य च वाक्य-विशेषस्य अतद्-विशेषत्वात् / ०१६०७ तद् अभिन्न-स्वभावानां सर्वेषां पुरुष-क्रिया न वा कस्यचित् / ०१६०८ किं च / ०१६०९ आत्म-मृच्-चेतना-आदीनां यो अभावस्य अप्रसाधकः / ०१६१० स एव अनुपलम्भः किं हेत्व्-अभावस्य साधकः
SK
०१६११ अनुपलम्भं च अस्य प्रमाणयत आत्म-वादो निरालम्बः स्यात् / ०१६१२ अप्रत्यक्षत्वाद् आत्मनस् तत्-कार्य-असिद्धेः / इन्द्रिय-आदीनां तु ०१६१३ विज्ञान-कार्यस्य कादाचित्कत्वात् सापेक्ष्य-सिद्ध्या प्रसिद्धिर् उच्यते / ०१६१४ किम् अप्य् अस्य कारणम् अस्ति इति / च त्व् एवंभूतम् इति / ०१६१५ न एवं सुख-आदि-कार्यं प्रसाधितं कंचिद् अर्थं पुष्णाति / ०१६१६ येन केनचित् कारणवत्त्व-अभ्युपगमात् / तथा च अनुपलम्भ ०१६१७ एव आत्मनः स्यात् / तं तेन प्रत्याचक्षाणः किम् इति प्रतिव्यूढो ०१६१८ अनुपलम्भस्य असाधनत्वाद् इति / कथम् असाधनं व्यतिरेकं ०१६१९ साधयेत् / मृदः खल्व् अपि कश्चिच् चैतन्यम् अनुपलभ्यमानम् ०१६२० अपि इच्छन्न् अदर्शनाद् वचन-आदेर् व्यावृत्तिम् आह / दध्य्-आदिकं ०१६२१ च अपरः क्षीर-आदिष्व् अपर-अर्थेषु संघातत्व-अदर्शनाद् व्यतिरेकम् / ०१६२२ को ह्य् अत्र नियमः संहतैर् अवश्यं परार्थैर् भवितव्यम् इति / ०१६२३ अस्त्य् एव उपलम्भो दध्य्-आदीनां क्षीर-आदिष्व् अनुमानम् / ०१६२४ अशक्ताद् अनुत्पत्तेः / अथ का इयं शक्तिः स एव भावः ०१६२५ उत अन्यद् एव किंचित् / स एव चेत् तथा एव उपलभ्येत विशेष-अभावात् / ०१६२६ अन्यच् चेत् कथम् अन्य-भावे तद् अस्ति / उपचार-मात्रं तु स्याद् ०१६२७ इत्य् अयम् एषां परस्पर-व्याघातः / ०१६२८ तस्मात् तन्-मात्र-सम्बन्धः स्वभावो भावम् एव वा / ०१६२९ निवर्तयेत् / ०१६३० यथा वृक्षः शिंशपां / शाखा-आदिमद्-विशेषस्य एव कस्यचित् तथा- ०१७०१ प्रसिद्धेः स तस्य स्वभावः / स्वं च स्वभावं परित्यज्य ०१७०२ कथं भावो भवेत् / स्वभावस्य एव भावत्वाद् इति तस्य स्वभावप्रतिबन्धाद् ०१७०३ अव्यभिचारः / ०१७०४ कारणं वा कार्यम् अव्यभिचारतः
SK
०१७०५ कारणं निवर्तमानं कार्यं निवर्तयति / अन्यथा तत् तस्य ०१७०६ कार्यम् एव न स्यात् / सिद्धस् तु कार्यकारणभावः स्वभावं ०१७०७ नियमयति इत्य् उभयथा स्वभावप्रतिबन्धाद् एव निवृत्तिः / ०१७०८ अन्यथा एक-निवृत्त्या अन्य-विनिवृत्तिः कथं भवेत् / ०१७०९ न अश्ववान् इति मर्त्येन न भाव्यं गमता अपि किम्
SK
०१७१० संनिधानात् तथा एकस्य कथम् अन्यस्य संनिधिः / ०१७११ गोमान् इत्य् एव मर्त्येन भाव्यम् अश्ववता अपि किम्
SK
०१७१२ तस्मात् स्वभावप्रतिबन्धाद् एव हेतुः साध्यं गमयति / ०१७१३ स च तद्-भाव-लक्षणस् तदुत्पत्ति-लक्षणो वा / स एव अविनाभावो ०१७१४ दृष्टान्ताभ्यां प्रदर्श्यते / ०१७१५ तस्माद् वैधर्म्य-दृष्टान्ते न इष्टो अवश्यम् इह आश्रयः / ०१७१६ तद्-अभावे च तन् न इति वचनाद् अपि तद्-गतेः
SK
०१७१७ यतः / ०१७१८ तद्-भाव-हेतु-भावौ हि दृष्टान्ते तद्-अवेदिनः / ०१७१९ ख्याप्येते / ०१७२० दृष्टान्ते हि साध्य-धर्मस्य तद्-भावस् तन्-मात्र-अनुबन्धेन ०१७२१ तत्-स्वभावतया ख्याप्यते / यः कृतकं स्वभावं जनयति ०१७२२ सो अनित्य-स्वभावं सन्तं जनयति इति प्रमाणं दृष्टान्तेन उपदर्श्यते / ०१७२३ अन्यथा एक-धर्म-सद्-भावात् तद्-अन्येन अपि भवितव्यम् ०१७२४ इति नियम-अभावात् साधनस्य साध्य-व्यभिचार-आशङ्का स्यात् / ०१८०१ तेन च प्रमाणेन साध्य-धर्मस्य तन्-मात्र-अनुबन्धः ख्याप्यते / ०१८०२ स्व-कारणाद् एव कृतकस् तथाभूतो जातो यो नश्वरः ०१८०३ क्षण-स्थितो-धर्मा / अन्यतस् तस्य तद्-भाव-निषेधात् / हेतु-भावो ०१८०४ वा तस्मिन् सत्य् एव भावाद् इति दृष्टान्तेन प्रदर्श्यते अर्थ-अन्तरस्य ०१८०५ तथा प्रसिद्धे तद्-भावे हेतु-भावे वा अनित्यत्व-अभावे कृतकत्वं ०१८०६ न भवति दहन-अभावे च धूमः / तथा हि स तस्य ०१८०७ स्वभावो हेतुर् वा / कथं स्वं स्वभावं हेतुं वा अन्तरेण भवेद् ०१८०८ इत्य् आश्रयम् अन्तरेण अपि वैधर्म्य-दृष्टान्ते प्रसिध्यति व्यतिरेकः / ०१८०९ येषां पुनः प्रसिद्धाव् एव तद्-भाव-हेतु-भावौ तेषाम् ०१८११ विदुषां वाच्यो हेतुर् एव हि केवलः
SK
०१८१२ यद्-अर्थे दृष्टान्त उच्यते सो अर्थः सिद्ध इति किं तद्-वचनेन ०१८१३ तदा / तत्-प्रदर्शने अपि किं वैधर्म्य-दृष्टान्त-आश्रयेण इति मन्यमान ०१८१४ आश्रयं प्रतिक्षिप्ति स्म / ०१८१५ तेन एव ज्ञात-सम्बन्धे द्वयोर् अन्यतर-उक्तितः / ०१८१६ अर्थापत्त्या द्वितीये अपि स्मृतिः समुपजायते
SK
०१८१७ यद् आह अर्थापत्त्या वा अन्यतरेण उभय-प्रदर्शनाद् इति / तत्र अपि ०१८१८ दृष्टान्तेन तद्-भाव-हेतु-भाव-प्रदर्शनं मन्यमानो अर्थापत्त्या ०१८१९ एक-वचनेन द्वितीय-सिद्धिम् आह / तथा हि यत् कृतकं तद् ०१८२० अनित्यम् इत्य् उक्ते अनर्थ-अन्तर-भावे व्यक्तम् अयम् अस्य स्वभावस् ०१८२१ तन्-मात्र-अनुबन्धी प्रमाण-दृष्टस् तद्-भाव-नियमाद् इति / ज्ञात- ०१८२२ तद्-भावस्य अर्थापत्त्या अनित्यत्व-अभावे कृतकत्वं न भवति इति ०१८२३ भवति / न हि स्वभावस्य अभावे भावो भवत्य् अभेदात् / अन्यथा ०१८२४ तद्-भावे भवति इत्य् एव न स्यात् / तथा तद्-अभावे न भवति ०१८२५ इत्य् उक्ते / तत एव तद्-भावता-वेदिनः / तथा ह्य् अयम् अस्य ०१८२६ स्वभावो येन तद्-अभावे न भवति / अन्यथा अयोगाद् इति तत्- ०१९०१ तत्-स्वभावता-प्रतिपत्त्या अन्वय-स्मृतिर् भवति / तथा यत्र ०१९०२ धूमस् तत्र अग्निर् इत्य् उक्ते कार्यं धूमो दहनस्य / येन ०१९०३ धूमे अवश्यम् अग्निर् भवति / अन्यथा अर्थ-अन्तरस्य तद्-अनुबन्ध- ०१९०४ नियम-अभावात् स्वातन्त्र्यं भावस्य स्यात् / अतस् तद्-अभावे ०१९०५ अपि स्वभाव-अवैकल्यान् न अभावः / कार्ये त्व् अवश्यं कारणं ०१९०६ भवति / इदम् एव हि कारणस्य कारणत्वं यद् अर्थ-अन्तर-भावे ०१९०७ स्वभाव-उपधानं / कार्यस्य अपि तद्-भाव एव भावः ०१९०८ तच् च अस्ति धूमे / तस्मात् कार्यं धूम इत्य् अन्वयेन विधित- ०१९०९ तत्-कार्यत्वस्य दहन-अभावे धूमो न भवति इत्य् अर्थाद् व्यतिरेक-प्रतिपत्तिर् ०१९१० भवति / तथा असत्य् अग्नौ धूमो न अस्ति इत्य् ०१९११ उक्ते अग्निर् धूमे भवत्य् अवश्यम् इत्य् अर्थाद् अन्वय-प्रतिपत्तिः / ०१९१२ अन्यथा हि तद्-अभावे किं न भवेद् इति / ननु च नित्य-अनित्य- ०१९१३ अर्थ-कार्यत्व-अभावे अपि श्रवण-ज्ञानं न भवति तद्-अभावे / ०१९१४ न वै न भवति / तयोर् एव ततः संशयात् / अन्यथा ०१९१५ अभावेन निश्चितात् कथं तद्-भाव-परामर्शेन संशयः स्यात् / ०१९१६ केवलं तु भाव-निश्चय-अभावान् न अस्ति इत्य् उच्यते / यदा पुनर् ०१९१७ दृष्टान्तेन न अग्नि-धूमयोः कार्यकारणभावः प्रदर्श्यते / तदा ०१९१८ यत्र धूमस् तत्र अग्निर् इत्य् एव न स्यात् / प्रतिबन्ध-अभावात् / ०१९१९ कुतो अग्न्य्-अभावे धूमो न अस्ति इत्य् अर्थाद् व्यतिरेक-सिद्धिः / तथा ०१९२० वैधर्म्येण अभाव-असिद्धेर् अन्वय-स्मृतिः तस्माद् दृष्टान्तेन अयम् ०१९२१ एव यथोक्त-स्वभावप्रतिबन्धः प्रदर्श्यते / एक-सद्-भावे ०१९२२ अन्यस्य प्रसिद्ध्य्-अर्थम् / तद्-अभावे असम्भवात् / ०१९२३ हेतु-स्वभाव-अभावो अतः प्रतिषेधे च कस्यचित् / ०१९२४ हेतुर् / ०१९२५ ताव् एव हि निवर्तमानौ स्व-प्रतिबद्धं निवर्तयत इति कस्यचिद् ०१९२६ अर्थस्य प्रतिषेधम् अपि साधयितुकामेन हेतोर् व्यापकस्य ०२००१ वा स्वभावस्य निवृत्तिर् हेतुत्वेन आख्येया / अप्रतिबन्धे हि कथम् ०२००२ एकस्य निवृत्तिर् अन्यस्य निवृत्तिं साधयेत् / ०२००३ युक्त-उपलभस्य तस्य च अनुपलम्भनम्
SK
०२००४ प्रतिषेध-हेतुः / प्रतिषेध-विषय-व्यवहार-हेतुस् तद्-हेतुर् इत्य् ०२००५ उक्तः / स्वयं तथाभूत-अनुपलम्भस्य प्रतिषेध-रूपत्वात् / ०२००६ हेतु-व्यापक-अनुपलब्धिर् उभयस्य अपि हेतुः / ०२००७ इति इयं त्रिविधा अप्य् उक्त-अनुपलब्धिर् अनेकधा / ०२००८ तत् तद्-विरुद्ध-आद्य्-अगति-गति-भेद-प्रयोगतः
SK
०२००९ त्रिविध एव हि प्रतिषेध-हेतुः / उपलभ्य-सत्त्वस्य हेतोस् तथाभाव- ०२०१० निश्चये व्यापकस्य स्वात्मनश् च अनुपलब्धिर् इति / स ०२०११ प्रयोग-वशेन तत्-तद्-विरुद्ध-आद्य्-अगति-गति-भेद-प्रयोगतो अनेक- ०२०१२ प्रकार उक्तः / तस्य अगत्या तद्-विरुद्ध-गत्या विरुद्ध-कार्य-गत्या ०२०१३ इत्य् आदि-भेद-प्रयोगैर् यथोक्तं प्राक् / ०२०१४ कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् / ०२०१५ अविनाभाव-नियमो अदर्शनान् न न दर्शनात्
SK
०२०१६ अवश्यंभाव-नियमः कः परस्य अन्यथा परैः / ०२०१७ अर्थ-अन्तर-निमित्ते वा धर्मे वाससि राग-वत्
SK
०२०१८ इत्य् अन्तरश्लोकौ / अपि च / ०२०१९ अर्थ-अन्तर-निमित्तो हि धर्मः स्याद् अन्य एव सः / ०२०२० न हि तस्मिन् निष्पन्ने अनिष्पन्नो भिन्न-हेतुको वा तत्-स्वभावो ०२०२१ युक्तः / अयम् एव खलु भेदो भेद-हेतुर् वा भावानां विरुद्ध-धर्म- ०२०२२ अध्यासः कारण-भेदश् च / तौ चेन् न भेदकौ तदा ०२०२३ न कस्यचित् कुतश्चिद् भेद इत्य् एकं द्रव्यं विश्वं स्यात् / ०२०२४ ततश् च सह उत्पत्ति-विनाशौ सर्वस्य च सर्वत्र उपयोगः स्यात् / ०२१०१ अन्यथा एकम् इत्य् एव न स्यात् / नाम-अन्तरं वा / अर्थ-भेदम् अभ्युपगम्य ०२१०२ तथा अभिधानात् / नन्व् अनर्थ-अन्तर-हेतुत्वे अपि भाव- ०२१०३ काले अनित्यता अनिष्पत्तेस् तुल्या अतत्-स्वभावता / न वै काचिद् अन्या ०२१०४ अनित्यता नाम या पश्चान् निष्पद्येत / स एव हि भावः क्षण- ०२१०५ स्थिति-धर्मा अनित्यता / वचन-भेदे अपि धर्मि-धर्मतया निमित्तं ०२१०६ वक्ष्यामः / तां पुनर् अस्य क्षण-स्थितो-धर्मतां स्वभावं ०२१०७ स्व-हेतोर् एव तथा-उत्पत्तेः पश्यन्न् अपि मन्द-बुद्धिः सत्ता- ०२१०८ उपलम्भेन सर्वदा तद्भाव-शङ्का-विप्रलब्धो न व्यवस्यति ०२१०९ सदृशा-पर-उत्पत्ति-विप्रलब्धो वा / अन्त्यक्षण-दर्शिनां निश्चयात् / ०२११० पश्चाद् अस्य अनुपलब्ध्या अस्थितो-प्रतिपत्तेर् निश्चय-काल इति ०२१११ तदा अनित्यता व्यवस्थाप्यते / कार्य-उत्पादन-शक्तेः कारण-स्वभावत्वे ०२११२ अपि अदृष्ट-तत्-कार्यस्य कारण-दर्शने अपि अप्रतिपन्न- ०२११३ तद्-भावस्य कार्य-दर्शनात् तत्-प्रतिपत्ति-वत् / अन्यथा अर्थ-अन्तरम् ०२११४ एव अनित्यता स्यात् / अन्य-निमित्तत्वे अनिमित्तत्वे वा / तथा च भावस् ०२११५ तद्वान् न स्यात् / तद्-अनुपयोगात् / उपयोगे वा स एव अस्य ०२११६ स्वात्मभूतो अनित्यता इति किम् अन्यया / स्वभावेन वा अचलस्य अर्थ-अन्तर- ०२११७ योगे अपि तद्-भाव-अनुत्पत्तेः / स च अर्थ-अन्तराद् भवन्न् अनित्यता ०२११८ अन्यो वा धर्मो हेतुः फलं वा स्यात् / अहेतु-फलस्य असम्बन्धात् / ०२११९ तत्र भाव-अनुमानस्य असम्भवात् / तत्र / ०२१२० पश्चाद् भावान् न हेतुत्वं फले अप्य् एकान्तता कुतः
SK
०२१२१ स हि निष्पन्ने भावे अर्थ-अन्तरतः पश्चाद् भवन् कथं ०२१२२ तस्य हेतुः स्यात् / फलस्य अपि न अवश्यं हेतौ भाव इति तद्- ०२१२३ भाव-हेतोर् अनैकान्तिकत्वम् / तन् न अर्थ-अन्तर-निमित्तो धर्मो ०२१२४ भावे अवश्यं भावि इत्य् अननुमानम् / यदि तर्हि दर्शन -अदर्शने ०२१२५ न अन्वय-व्यतिरेक-गतेर् आश्रयः कथं धूमो अग्निं न व्यभिचरति ०२१२६ इति गम्यते / यस्मात् / ०२२०१ कार्यं धूमो हुतभुजः कार्य-धर्म-अनुवृत्तितः / ०२२०२ येषाम् उपलम्भे तल्-लक्षणम् अनुपलब्धं यद् उपलभ्यते / ०२२०३ तत्र एक-अभावे अपि न उपलभ्यते / तत् तस्य कार्यं / तच् च धूमे ०२२०४ अस्ति / ०२२०५ स भवंस् तद्-अभावे तु हेतुमत्तां विलङ्घयेत्
SK
०२२०६ सकृद् अपि तथा अदर्शनात् कार्यं सिद्धः / अकार्यत्वे अकारणात् ०२२०७ सकृद् अप्य् अभावात् / कार्यस्य च स्व-कारणम् अन्तरेण भावे ०२२०८ अहेतुमत्ता एव स्यात् / न हि यस्य यम् अन्तरेण भावः स तस्य ०२२०९ हेतुर् भवति / भवति च धूमो अग्निम् अन्तरेण तन् न तद्-हेतुः ०२२१० अन्य-हेतुकत्वान् न अहेतुकत्वम् इति चेत् / न / तत्र अपि ०२२११ तुल्यत्वात् / तद्-अभावे अप्य् अग्नौ भवति इति / कथं वा ततो ०२२१२ अन्यतो वा अतज्-जनन-स्वभावाद् भवेत् / स्वयम् अतत्-स्वभावस्य ०२२१३ अजननात् तस्य अहेतुता स्यात् / न वै स एव भवति तादृशस्य ०२२१४ भावात् / अन्य-अदृशाद् भवन् कथं तादृशः स्यात् / तादृशाद् हि ०२२१५ भवन् तादृशः स्यात् / अन्य-अदृशाद् अपि तादृशो भावे तच्-शक्ति-नियम- ०२२१६ अभावान् न हेतु-भेदो भेदक इति अकारणं विश्वस्य वैश्वरूप्यं ०२२१७ स्यात् / सर्वं वा सर्वस्माज् जायेत / तस्मात् कारण- ०२२१८ भेद-अभेदाभ्यां कार्य-भेद-अभेदौ / तन् न धूमो अर्थाद् दृष्ट- ०२२१९ आकार-विजातीयाद् भवत्य् अहेतुकत्व-प्रसङ्गात् / तथा च / ०२२२० नित्यं सत्त्वम् असत्त्वं वा अहेतोर् अन्य-अनपेक्षणात् / ०२२२१ अपेक्षातो हि भावानां कादाचित्कत्व-सम्भवः
SK
०२२२२ स हि धूमो अहेतुर् भवन् निरपेक्षत्वान् न कदाचिन् न भवेत् / ०२२२३ तद्-भावे वैकल्य-अभावाद् इष्ट-काल-वत् / तदा अपि वा न भवेत् / ०२२२४ अभाव-काल-अविशेषात् / अपेक्षया हि भावाः कादाचित्का भवन्ति / ०२३०१ भाव-अभाव-कालयोस् तद्-भाव-योग्यता अयोग्यता-योगात् तुल्य-योग्यता ०२३०२ योग्यतयोर् देश-कालयोस् तद्वत्ता इतरयोर् नियम-अयोगात् / सा च ०२३०३ योग्यता हेतु-भावात् किम् अन्यत् / तस्माद् एक-देश-काल-परिहारेण अन्य- ०२३०४ देश-कालयोर् वर्तमानो भावस् तत्-सापेक्षो नाम भवति / ०२३०५ तथा हि / तथा वृत्तिर् एव अपेक्षा तत्-कृत-उपकार-अनपेक्षस्य तन्-नियम- ०२३०६ अयोगात् / तन् नियत-देश-कालत्वाद् धूमो अत्र दृष्टः सकृद् ०२३०७ वैकल्ये च पुनर् न दृष्टः तज्-जन्यो अस्य स्वभावः / अन्यथा ०२३०८ सकृद् अप्य् अभावात् / स तत्-प्रतिनियतो अन्यत्र कथं भवेत् / ०२३०९ भवन् वा न धूमः स्यात् / तज्-जनितो हि स्वभाव-विशेषो धूम ०२३१० इति / तथा हेतुर् अपि तथाभूत-कार्य-जनन-स्वभावः / तस्य अन्यतो ०२३११ अपि भावे न स तस्य स्वभाव इति सकृद् अपि न जनयेत् / ०२३१२ न वा स धूमो अधूम-जनन-स्वभावाद् भावात् / तत्-स्वभावत्वे ०२३१३ च स एव अग्निर् इत्य् अव्यभिचारः / ०२३१४ अग्नि-स्वभावः शक्रस्य मूर्द्धा यद्य् अग्निर् एव सः / ०२३१५ अथ अनग्नि-स्वभावो असौ धूमस् तत्र कथं भवेत्
SK
०२३१६ धूम-हेतु-स्वभावो हि वह्निस् तच्-शक्ति-भेदवान् / ०२३१७ अधूम-हेतोर् धूमस्य भावे स स्याद् अहेतुकः
SK
०२३१८ इति संग्रहश्लोकौ / कथं तर्हि इदानीं भिन्नात् सहकारिणः कार्य- ०२३१९ उत्पत्तेर् यथा चक्षू-रूप-आदेर् विज्ञानस्य / न वै किंचिद् एकं ०२३२० जनकं तत्-स्वभावम् / किं तु सामग्री जनिका तत्-स्वभावा / स एव ०२३२१ अनुमीयते / स एव च सामग्री स्वभाव-स्थित्य्-आश्रयः कार्यस्य / ०२३२२ अत एव सहकारिणाम् अप्य् अपर्यायेण जननम् / यद् अपि किंचिद् ०२३२३ विजातीयाद् भवद् दृष्टं गोमय-आदेः शालुक-आदि / तत्र अपि तथा अभिधाने ०२३२४ अप्य् अस्त्य् एव स्व-बीज-प्रभवात् स्वभाव-भेदः / हेतु-स्वभाव-भेदात् / ०२३२५ यथा कदली बीज-कन्द-उद्भवा / स्फुटम् एव ०२३२६ तादृशं लोको विवेचयत्य् आकार-भेदात् / तस्मान् न सुविवेचित-आकारं ०२३२७ कार्यं कारणं व्यभिचरति / ०२४०१ अन्वय-व्यतिरेकाद् यो यस्य दृष्टो अनुवर्तकः / ०२४०२ स्वभावस् तस्य तद्-हेतुर् अतो भिन्नान् न सम्भवः
SK
०२४०३ इति संग्रहश्लोकः / तस्मात् सकृद् अपि दर्शन-अदर्शनाभ्यां ०२४०४ कार्यकारणभाव-सिद्धेर् भवति ततस् तत्-प्रतिपत्तिः / न अन्यथा / ०२४०५ अन्वय-व्यतिरेकयोर् निःशेष-दर्शन-अदर्शन-आयत्तत्वात् / क्वचिद् ०२४०६ अमूर्तत्वे नित्यत्व-दर्शने अप्य् अन्यत्र अन्यथा अदृष्टेः / क्वचिन् ०२४०७ नित्यत्व-अभावे अप्य् अदृष्टस्य पुनर् दृष्टेर् इति भवतु कार्यस्य ०२४०८ कारणेन अविनाभावस् तदुत्पत्तेः / स्वभाव इदानीं कथम् अविनाभावः / ०२४१० स्वभावे अप्य् अविनाभावो भाव-मात्र-अनुरोधिनि / ०२४११ यो हि भाव-मात्र-अनुरोधी स्वभावस् तत्र अविनाभावो भावस्य इष्यते / ०२४१३ तद्-अभावे स्वयं भावस्य अभावः स्याद् अभेदतः
SK
०२४१४ य एव भावो भाव-मात्र-अनुरोधी स्वभाव इत्य् उच्यते / स एव ०२४१५ स्वयं वस्तुतो भावः / स च आत्मानं परित्यज्य कथं भवेत् / ०२४१६ य एव तर्हि कृतकः स एव अनित्यो भेद-अभावात् / प्रतिज्ञार्थैकदेशो ०२४१७ हेतुः स्यात् / न एष दोषः / यस्मात् / ०२४१८ सर्वे भावाः स्वभावेन स्व-स्वभाव-व्यवस्थितेः / ०२४१९ स्वभाव-परभावाभ्यां यस्माद् व्यावृत्ति-भागिनः
SK
०२४२० तस्माद् यतो यतो अर्थानां व्यावृत्तिस् तन्-निबन्धनाः / ०२४२१ जाति-भेदाः प्रकल्प्यन्ते तद्-विशेष-अवगाहिनः
SK
०२४२२ तस्माद् यो येन धर्मेण विशेषः सम्प्रतीयते / ०२४२३ न स शक्यस् ततो अन्येन तेन भिन्ना व्यवस्थितिः
SK
०२४२४ सर्व एव हि भावाः स्वरूप-स्थितयः / ते न आत्मानं परेण ०२४२५ मिश्रयन्ति / तस्य अपरत्व-प्रसङ्गात् / यद् अप्य् एषाम् अभिन्नम् ०२४२६ आत्मभूतं रूपं न तत् तेषाम् / तदानीं तेषाम् अभावात् / ०२५०१ तद् एव हि स्याद् अभिन्नस्य भावात् / तद्-व्यतिरिक्तस्य भिन्नस्य ०२५०२ च अभावात् / तस्य एव च पुनर् भेद-विरोधात् / तच् च आत्मनि व्यवस्थितम् ०२५०३ अमिश्रम् एव / अर्थ-अन्तरम् अप्य् अनेक-सम्बन्धे अपि ०२५०४ न तत् तेषां सामान्यम् अतद्-रूपत्वात् / द्वित्व-आदि-संयोग-कार्य- ०२५०५ द्रव्येष्व् अपि प्रसङ्गात् / न हि सम्बन्धिना अप्य् अन्येन अन्ये समाना ०२५०६ नाम / तद्वन्तो नाम स्युः / भूत-वत् / कण्ठे-गुणेन / ०२५०७ न अभिन्न-प्रत्यय-विषयाः / भूत-वत् / तदात्मानम् एव हि बुद्धिः ०२५०८ संसृजन्ती सामान्य-विषया प्रतिभासते / न एक-सम्बन्धिनाव् इति ०२५०९ भूत-वत् / तद्-दर्शिन्याः सा भ्रान्तिर् इति चेत् / तद्-दर्शिनी इति कुतः / ०२५१० निर्बीज-भ्रान्त्य्-अयोगाद् इति चेत् / त एव तद्-एक-कार्या बीजम् / संख्या- ०२५११ संयोग-कार्य-द्रव्य-आदिमत्सु भूत-आदिष्व् अभावाच् च / तन् न तथा ०२५१२ सामान्य-बुद्धौ निवेष-अभावात् सामान्यम् अन्यत् / सति वा तस्य अपि ०२५१३ स्वात्मनि व्यवस्थानाद् अमिश्रणम् अन्येन / तस्माद् इमे भावाः ०२५१४ सजातीय-अभिमताद् अन्यस्माच् च व्यतिरिक्ताः स्वभावेन एक-रूपत्वात् / ०२५१५ यतो यतो भिन्नास् तद्-भेद-प्रत्यायनाय कृत-संनिवेशैः ०२५१६ शब्दैस् ततस् ततो भेदम् उपादाय स्वभाव-अभेदे अप्य् अनेक- ०२५१७ धर्माणः प्रतीयन्ते / ते अपि शब्दाः सर्व-भेद-अनाक्षेपे अप्य् एक- ०२५१८ भेद-चोदनात् तत्-स्वलक्षण-निष्ठा एव भवन्ति / तद् एकस्माद् ०२५१९ अपि तस्य भेदो अस्ति इति / तस्माद् एकस्य भावस्य यावन्ति पररूपाणि ०२५२० तावत् यस् तद्-अपेक्षया व्यावृत्तयः / तद्-असम्भवि-कार्य-कारणस्य ०२५२१ तद्-भेदात् / यावत् यश् च व्यावृत्तयस् तावत् यः श्रुतयो ०२५२२ अतत्-कार्य-कारण-परिहारेण व्यवहार-अर्थाः / यथा प्रयत्नानन्तरीयकः ०२५२३ शब्दः श्रावण इत्य् अतत्-कार्य-कारण-परिहार-अर्थः / ०२५२४ तस्मात् स्वभाव-अभेदे अपि येन येन धर्मेण नाम्ना यो विशेषो ०२५२५ भेदः प्रतीयते न स शक्यो अन्येन प्रत्याययितुम् इति न एक-अर्थाः ०२५२६ सर्व-शब्दाः / तन् न प्रतिज्ञार्थैकदेशो हेतुर् इति / कथं ०२५२७ पुनर् एतद् गम्यते व्यवच्छेदः शब्द-लिङ्गाभ्यां प्रतिपाद्यते ०२५२८ विधिना न वस्तु-रूपम् एव इति / प्रमाण-अन्तरस्य शब्द- अन्तरस्य ०२६०१ च प्रवृत्तेः / तथा हि / ०२६०२ एकस्य अर्थ-स्वभावस्य प्रत्यक्षस्य सतः स्वयम् / ०२६०३ को अन्यो न दृष्टो भागः स्याद् यः प्रमाणैः परीक्ष्यते
SK
०२६०४ एको ह्य् अर्थ-आत्मा / स प्रत्यक्षः असिद्धे धर्मिणि साधन-असम्भवात् / ०२६०५ यथा अनित्यत्वे साध्ये शब्दः / तस्य प्रत्यक्षेण एव सिद्धेः ०२६०६ सर्व-आकार-सिद्धिः / तद्-अन्यस्य असिद्धस्य अभावात् / भावे वा ०२६०७ अतत्-स्वभावत्वम् / न हि यो यद् एकयोगक्षेमो न भवति स ०२६०८ तत्-स्वभावो युक्तः / तन्-मात्र-निबन्धनत्वात् / भेद-व्यवहारस्य / ०२६०९ अन्यथा अभाव-प्रसङ्गाद् इत्य् उक्तम् / तस्मात् प्रत्यक्षे धर्मिणि ०२६१० तत्-स्वभाव-साकल्य-परिच्छेदात् तत्र अनवकाशा प्रमाण-अन्तर- ०२६११ वृत्तिः स्यात् / ०२६१२ नो चेद् भ्रान्ति-निमित्तेन संयोज्येत गुण-अन्तरम् / ०२६१३ शुक्तौ वा रजत-आकारो रूप-साधर्म्य-दर्शनात्
SK
०२६१४ यदि दृष्ट-सर्व-तत्त्वस्य अपि भावस्य तथा निश्चय-प्रतिरोधिना ०२६१५ भ्रान्ति-निमित्तेन गुण-अन्तरं न संयोज्यते / यथा शुक्तौ रजत- ०२६१६ आकारः / न हि शुक्तौ द्वे रूपे समानं विशिष्टं च तथा ०२६१७ प्रतिपत्ति-प्रसङ्गात् / अप्रतिपत्तौ वा विवेकेन द्वित्व-विकल्प-अयोगात् / ०२६१८ अतिप्रसङ्गाच् च / तस्मात् पश्यन् शुक्ति-रूपं विशिष्टम् एव ०२६१९ पश्यति / निश्चय-प्रत्यय-वैकल्यात् त्व् अनिश्चिन्वन् तत्-सामान्यं ०२६२० पश्यामि इति मन्यते / ततो अस्य रजत-समारोपः / तथा / सदृशा-पर-अपर- ०२६२१ उत्पत्त्या अलक्षित-नानात्वस्य तद्-भाव-समारोपात् स्थितो-भ्रान्तिः / ०२६२२ यावन्तो अस्य परभावास् तावन्त एव यथास्वं निमित्त- ०२६२३ भाविनः समारोपा इति तद्-व्यवच्छेदकानि भवन्ति प्रमाणानि ०२६२४ सफलानि स्युः / तेषां तु व्यवच्छेद-फलानां न अप्रतीत-वस्त्व्-अंश- ०२७०१ प्रत्यायने प्रवृत्तिस् तस्य दृष्टत्वात् / अनंशस्य च एक-देशेन ०२७०२ दर्शन-अयोगात् / ०२७०३ तस्माद् दृष्टस्य भावस्य दृष्ट एव अखिलो गुणः / ०२७०४ भ्रान्तेर् निश्चीयते न इति साधनं सम्प्रवर्तते
SK
०२७०५ इति संग्रहश्लोकः / तस्मान् न अदृष्ट-ग्रहणाय दृष्टे प्रमाण-अन्तर-वृत्तिः / ०२७०७ वस्तु-ग्रहे अनुमानाच् च धर्मस्य एकस्य निश्चये / ०२७०८ सर्व-धर्म-ग्रहो अपोहे न अयम् दोषः प्रसज्यते
SK
०२७०९ न केवलं प्रत्यक्ष-दृष्टे प्रमाण-अन्तर-अवृत्तिः क्वचित् / यदा अनुमानम् ०२७१० अपि वस्तु विधिना प्रत्याययति न व्यवच्छेद-कृत् तदा एक- ०२७११ धर्म-निश्चये तद्-अव्यतिरेकात् सर्व-धर्म-निश्चय इति प्रमाण- ०२७१२ अन्तर-अवृत्तिः न हि तस्मिन् निश्चिते तदात्मा अनिश्चितो युक्तः / ०२७१३ यदा पुनर् अनुमानेन समारोप-व्यवच्छेदः क्रियते तदा न एक- ०२७१४ समारोप-व्यवच्छेदाद् अन्य-व्यवच्छेदः कृतो भवति इति तद्-अर्थम् ०२७१५ अन्यत् प्रवर्तते / ननु न अवश्यं विपर्यास-पूर्वक एव अप्रतीत- ०२७१६ निश्चयो भवति / यथा अकस्माद् धूमाद् अग्नि-प्रतिपत्तिः / न हि ०२७१७ तत्र अनग्नि-समारोपः सम्भाव्यते / तन् न सर्वत्र व्यवच्छेदः ०२७१८ क्रियते / उक्तम् अत्र / धर्मि-प्रतिपत्ताव् अभेदात् सर्व-प्रतिपत्तिः / ०२७१९ भेदे वा असम्बद्धस्य तत्र अप्रतिपत्तिर् इति / तस्मात् ०२७२० तत्र अपि तद्-दर्शिनस् तत्-स्वभाव-अनिश्चयः कुतः विपर्यासात् / स ०२७२१ च तं प्रदेशं तद्-विविक्तेन रूपेण निश्चिन्वन्न् अग्नि-सत्ता-भावना- ०२७२२ विमुक्तया बुद्ध्या कथम् अविपर्यस्तो नाम / तद्-आकार- ०२८०१ समारोप-संशय-रहितश् च तत्-प्रतिपत्तौ न लिङ्गम् अनुसरेत् / ०२८०२ न च तस्य अन्वय-व्यतिरेकयोर् आद्रियेत / ०२८०३ तस्माद् अपोह-विषयम् इति लिङ्गं प्रकीर्तितम् / ०२८०४ अन्यथा धर्मिणः सिद्धाव् असिद्धं किम् अतः परम्
SK
०२८०५ इति संग्रहश्लोकः / ०२८०६ क्वचिद् दृष्टे अपि यज् ज्ञानं सामान्य-अर्थं विकल्पकम् / ०२८०७ असमारोपित-अन्य-अंशे तन्-मात्र-अपोह-गोचरम्
SK
०२८०८ यद् रूप-आदि-दर्शन-अनन्तरम् अलिङ्गं निश्चय-ज्ञानं भवति / ०२८०९ तत् कथम् असति समारोपे भवद् व्यवच्छेद-विषयं भवति / ०२८१० समारोप-विषये तस्य अभावात् / यत्र ह्य् अस्य समारोपो यथा ०२८११ स्थिरः सात्मक इति वा न तत्र भेदे निश्चयो भवति / ०२८१२ निश्चय-आरोप-मनसोर् बाध्यबाधकभावतः / ०२८१३ न हि सर्वतो भिन्नो दृष्टो अपि भावस् तथा एव प्रत्यभिज्ञायते / ०२८१४ क्वचिद् भेदे व्यवधान-सम्भवात् / यथा शुक्तेः शुक्तित्वे / ०२८१५ यत्र तु प्रतिपत्तुर् भ्रान्ति-निमित्तं न अस्ति तत्र एव अस्य तद्-दर्शन- ०२८१६ अविशेषे अपि स्मार्तो निश्चयो भवति / समारोप-निश्चययोर् बाध्यबाधकभावात् ०२८१७ निश्चयस्य ०२८१८ समारोप-विवेके अस्य प्रवृत्तिर् इति गम्यते
SK
०२८१९ तद्-विवेक एव च अन्यापोहः / तस्मात् तद् अपि तन्-मात्र-अपोह-गोचरम् / ०२८२० न वस्तु-स्वभाव-निश्चय-आत्मकम् / तथा हि कस्यचिन् निश्चये ०२८२१ अप्य् अन्यस्य अप्रतिपत्ति-दर्शनात् / तत्-स्वभाव-निश्चये च तस्य अयोगात् / ०२९०१ यावन्तो अंश-समारोपास् तन्-निरासे विनिश्चयाः / ०२९०२ तावन्ता एव शब्दाश् च तेन ते भिन्न-गोचराः
SK
०२९०३ अन्यथा एकेन शब्देन व्याप्त एकत्र वस्तुनि / ०२९०४ बुद्ध्या वा न अन्य-विषय इति पर्यायता भवेत्
SK
०२९०५ इत्य् अन्तरश्लोकः / ०२९०६ यस्य अपि नाना-उपाधेर् धीर् ग्राहिक-अर्थस्य भेदिनः / ०२९०७ यो अपि मन्यते भिन्ना एव उपाधयः परस्परम् आश्रयाच् च / ०२९०८ तन्-निबन्धनाः श्रुतयस् तद्-आधारेषु वर्तन्ते / तत्र एव वा ०२९०९ तद् अयम् अप्रसङ्ग इति / तस्य अपि / ०२९१० नाना-उपाध्य्-उपकार-अङ्ग-शक्त्य्-अभिन्न-आत्मनो ग्रहे
SK
०२९११ सर्वात्मना उपकारस्य को भेदकः स्याद् अनिश्चितः / ०२९१२ यद्य् अप्य् उपाधयो भिन्ना एव शब्द-ज्ञान-अन्तराणां निमित्तम् ०२९१३ अर्थे / स तु तैस् तद्वान् एक एव उपलीयते / तस्य नाना-उपाधीनाम् ०२९१४ उपकार-आश्रय-शक्ति-स्वभावस्य स्वात्मन्य् अभेदात् सर्वात्मना ०२९१५ ग्रहणे क एव उपाधि-भेदो अनिश्चितः स्यात् / सर्व-उपाध्य्-उपकारकत्वेन ०२९१६ ग्रहणात् / न ह्य् उपकारकत्वं अन्यद् एव तस्य स्वरूपेण ०२९१७ गृह्यमाणस्य अगृहीतं नाम / अतो यद् एव अस्य स्वभावेन ०२९१८ ग्रहणं तद् एव उपकारत्वेन अपि इति / ०२९१९ तयोर् आत्मनि सम्बन्धाद् एक-ज्ञाने द्वय-ग्रहः
SK
०२९२० आत्मभूतस्य उपाधि-तद्वतोर् उपकार्योपकारकभावस्य ग्रहणात् ०२९२१ एक-ज्ञाने द्वयोर् अपि ग्रहणम् इति एक-उपाधि-विशिष्टे अपि तस्मिन् ०२९२२ गृह्यमाणे सर्व-उपाधीनां ग्रहणम् / तद्-ग्रहण- नान्तरीयकत्वाद् ०२९२३ उपाधिमद्-ग्रहणस्य / अन्यथा तथा अपि न गृह्येत / ०२९२४ न ह्य् अन्य एव अन्य-उपकारको यो न गृहीतः स्यात् / न च अप्य् उपकारके ०२९२५ तथा गृहीते उपकार्य-अग्रहणं तस्य अप्य् अग्रहण-प्रसङ्गात् / ०२९२६ स्वस्वामित्व-वत् / तस्माद् अर्थ-अन्तर-उपाधि-वादे अपि समानः प्रसङ्गः / ०२९२७ अथ अपि स्याद् भिन्ना एव शक्तयः शक्तिमतो याभिर् उपाधीन् ०२९२८ उपकरोति / ततो न अयं प्रसङ्ग इति / ०३००१ धर्म-उपकार-शक्तीनां भेदे तास् तस्य किं यदि / ०३००२ न उपकारस् ततस् तासां तथा स्याद् अनवस्थितिः
SK
०३००३ यदि प्रत्युपाध्य् उपकारकत्वानि तस्य न स्वात्मभूतान्य् एव ०३००४ न अपि तत उपकारम् अनुभवन्ति / किं तस्य इति ता उच्यन्ते / उपकारे ०३००५ वा स्वात्मभूताभिर् अयम् एकः शक्तिभिः शक्तीर् उपकुर्वन् ०३००६ एक उपाधिना अपि गृह्यमाणः सर्वात्मना गृह्यत एव / तथा ०३००७ हि / एक-उपाधि-ग्रहणे तद्-उपकारिण्याः शक्तेर् ग्रहणम् / तद्-ग्रहणे ०३००८ तद्-उपकारी भावः स्वात्मभूत-सकल-शक्त्य्-उपकारो गृहीतः ०३००९ सर्वाः शक्तीर् ग्राहयति ताश् च स्व-उपाधीन् इति तद्-अवस्थः ०३०१० प्रसङ्गः / अथ ता अपि शक्त्य्-उपकारिण्यः शक्तयो भिन्ना एव ०३०११ भावात् / एवम् उपाधीनां तच्-शक्तीनां च अपरा परास्व् एव शक्तिष्व् ०३०१२ अपर्यवसानेन घटनात् स एकस् ताभिः कदाचिद् अप्य् अगृहीतस् ०३०१३ तद्-उपकार-आत्मा तद्वत्त्वेन न गृह्यते / यदि पुनः केवलान् ०३०१४ एव उपाधीन् शब्द-ज्ञानान्य् उपलीयेरन् / तदा तस्य असमावेषान् न ०३०१५ भवति तत्-प्रतिपत्ति-मुखेन सर्व-प्रतिपत्तिः / तदा अपि तस्य ०३०१६ शब्दैर् अनाक्षेपान् न स्यात् तत्र प्रवृत्तिर् इति व्यर्थः शब्द-प्रयोगः ०३०१७ स्यात् / अर्थक्रिया-आश्रयो हि सर्वो विधि-प्रतिषेधाभ्यां व्यवहारः ०३०१८ उपाधयश् च तत्र असमर्थाः समर्थश् च न एव उच्यत ०३०१९ इति किं शब्द-प्रयोगैः / ततश् च उपाधयो न उपाधयः स्युः / ०३०२० क्वचित् प्रवृत्तौ हि कस्यचित् प्रधानस्य अङ्ग-भावात् तद्-अपेक्षया ०३०२१ तथा उच्यते / तस्य शब्दैर् अनाक्षेपान् न ते कस्यचिद् अङ्ग- ०३०२२ भूता इति किम् उपाधयः / लक्षित-लक्षणाद् अदोष इति चेत् समानः ०३०२३ प्रसङ्गः / स तावत् तैर् उपाधिभिर् नान्तरीयकतया उपलक्ष्यमाण ०३०२४ एकेन अप्य् उपलक्षणे सर्वात्मना उपलक्षित इति तद्-अवस्थः ०३०२५ प्रसङ्गः / को ह्य् अत्र विशेषः शब्दा वा एनम् उपलक्षयेयुस् तल्-लक्षिता ०३१०१ वा उपाधयः / स तावत् तदानीं निश्चीयते सर्व-उपकारकः ०३१०२ इति न किंचिद् एतत् / तस्माद् / ०३१०३ एक-उपकारके ग्राह्ये न उपकारस् ततो अपरे / ०३१०४ दृष्टे तस्मिन्न् अदृष्टा ये तद्-ग्रहे सकल-ग्रहः
SK
०३१०५ इति संग्रहश्लोकः / ०३१०६ यदि भ्रान्ति-निवृत्त्य्-अर्थं गृहीते अप्य् अन्यद् इष्यते / ०३१०७ स्याद् एतत् निर्भागस्य वस्तुनो ग्रहणे को अन्यस् तदा न गृहीतो ०३१०८ नाम / स तु भ्रान्त्या न अवधार्यत इति प्रमाण-अन्तरं प्रवर्तते / ०३१०९ यद्य् एवम् / ०३११० तद् व्यवच्छेद-विषयं सिद्धं तद्वत् ततो अपरम्
SK
०३१११ असमारोप-विषये वृत्तेर् / ०३११२ तत् तर्हि भ्रान्ति-निवृत्त्य्-अर्थं प्रवृत्तं प्रमाणम् / अन्य-समारोप- ०३११३ व्यवच्छेद-फलम् इति सिद्धम् अन्यापोह-विषयम् / तद्वत् ०३११४ अन्यद् अपि / असमारोप-विषये वृत्तेः / यत्र अस्य समारोपो न तत्र ०३११५ निश्चय इति समारोप-अभावे वर्तमानो अन्यापोह-विषयः सिद्धः / ०३११६ अपि च निश्चयैः / ०३११७ यन् न निश्चीयते रूपं तत् तेषां विषयः कथम्
SK
०३११८ इयम् एव खलु निश्चयानां स्वार्थ-प्रतिपत्तिर् यत् तन्-निश्चयनम् / ०३११९ तच् चेद् आकार-अन्तर-वद् अनिश्चितं कथं तैर् गृहीतं / ०३१२० कथम् इदानीम् अनिश्चीयमानं प्रत्यक्षेण अपि गृहीतं नाम / ०३१२१ न प्रत्यक्षं कस्यचिन् निश्चायकम् / तद् अयम् अपि गृह्णाति तन् ०३१२२ न निश्चयेन / किं तर्हि / तत्-प्रतिभासेन / तन् न निश्चय-अनिश्चय- ०३१२३ वशात् प्रत्यक्षस्य ग्रहण-अग्रहणे / न एवं निश्चयानां किंचिन् ०३१२४ निश्चिन्वतो अप्य् अन्यत्र अनिश्चयेन प्रवृत्ति-भेदाद् ग्रहण -अग्रहणम् / ०३१२५ तस्मात् तद् एव अस्य ग्रहणं यो निश्चयः / अन्यथा एक-आकारे ०३१२६ अपि तन् न स्यात् / किं पुनः कारणं सर्वतो भिन्ने वस्तु-रूपे ०३१२७ अनुभव-उत्पत्ताव् अपि तथा एव न स्मार्तो निश्चयो भवति / सहकारि- ०३१२८ वैकल्यात् ततश् च / ०३२०१ प्रत्यक्षेण गृहीते अपि विशेषे अंश-विवर्जिते / ०३२०२ यद् विशेष-अवसाये अस्ति प्रत्यक्षः स प्रतीयते
SK
०३२०३ यद्य् अप्य् अंश-रहितः सर्वतो भिन्न-स्वभावो भावो अनुभूतस् ०३२०४ तथा अपि न सर्व-भेदेषु तावता निश्चयो भवति / कारण-अन्तर- ०३२०५ अपेक्ष्यत्वात् / अनुभवो हि यथा अविकल्प-अभ्यासं निश्चय-प्रत्ययान् ०३२०६ जनयति / यथा रूप-दर्शन-अविशेषे अपि कुणप-कामिनी-भक्ष्य- ०३२०७ विकल्पाः / तत्र बुद्धि-पाटवं तद्-वासना-अभ्यासः प्रकरणम् ०३२०८ इत्य् आदयो अनुभवाद् भेद-निश्चय-उत्पत्ति-सहकारिणः / तेषाम् ०३२०९ एव च प्रत्यासत्ति-तारतम्य-आदि-भेदात् पौर्वापर्यम् / यथा ०३२१० जनकत्व-अध्यापकत्व-अविशेषे अपि पितरम् आयान्तं दृष्ट्वा पिता मे ०३२११ आगच्छति न उपाध्याय इति / सो अपि भवन् निश्चयो असति भ्रान्ति- ०३२१२ कारणे भवति / तस्मान् न अभूत इत्य् एव सर्व-आकार-निश्चयः / ०३२१३ तत्र अपि च अन्यव्यावृत्तिर् अन्यव्यावृत्त इत्य् अपि / ०३२१४ शब्दाश् च निश्चयाश् च एव संकेतम् अनुरुन्धते
SK
०३२१५ तत्र अप्य् अन्यापोहे न व्यावृत्तिर् अन्या अन्य एव व्यावृत्तस् तद्-व्यावृत्तेर् ०३२१६ निवर्तमानस्य तद्-भाव-प्रसङ्गात् / तथा च व्यावृत्तेर् ०३२१७ अभावः / तस्माद् या एव व्यावृत्तिः स एव व्यावृत्तः / शब्द- ०३२१८ प्रतिपत्ति-भेदस् तु संकेत-भेदात् / न वाच्य-भेदो अस्ति / ०३२१९ ननु च वाच्य-विशेष-अभावात् संकेत-भेदो अप्य् अयुक्तो द्वयोर् ०३२२० एक-अभिधानात् / तथा च व्यतिरेकिण्या विभक्तेर् अयोगस् तस्या ०३२२१ भेद-आश्रयत्वात् / ०३२२२ द्वयोर् एक-अभिधाने अपि विभक्तिर् व्यतिरेकिणी / ०३२२३ भिन्नम् अर्थम् इव अन्वेति वाच्ये लेश-विशेषतः
SK
०३२२४ न वै शब्दानां काचिद् विषय-स्वभाव-आयत्ता वृत्तिर् इच्छातो वृत्त्य्- ०३२२५ अभाव-प्रसङ्गात् / ते यथा व्यतिरिक्ते अव्यतिरिक्ते वा प्रयोक्तुम् ०३२२६ इष्यन्ते तथा नियुक्तास् तम् अर्थम् प्रतिबन्धेन प्रकाशयन्ति / ०३२२७ तेन गौर् गोत्वम् इत्य् एक-अर्थ-अभिधाने अपि कस्यचिद् ०३२२८ विशेषस्य प्रत्यायन-अर्थं कृते संकेत-भेदे व्यतिरिक्त-अर्था ०३३०१ विभक्तिर् अर्थ-अन्तरम् इव अदर्शयन्ती प्रतिभात्य् अनर्थ-अन्तरे ०३३०२ अपि तथा प्रयोग-दर्शन-अभ्यासात् / न तावता सर्वत्र भेदः / ०३३०३ अन्यत्र अपि पुरुष-इच्छा-वशात् प्रवृत्तस्य प्रतिबन्ध-अभावात् / यथा ०३३०४ एकं क्वचिद् एक-वचनेन ख्याप्यते तद्-अविशेषे अपि गौरव- ०३३०५ आदि-ख्यापन-अर्थं बहु-वचनेन / प्रयोजन-अभावात् तु संकेत- ०३३०६ भेदो न स्यात् / तद् अप्य् अस्त्य् एव / तथा हि / ०३३०७ भेद-अन्तर-प्रतिक्षेप-अप्रतिक्षेपौ तयोर् द्वयोः / ०३३०८ संकेत-भेदस्य पदं ज्ञातृ-वाञ्चा-अनुरोधिनः
SK
०३३०९ यदा अयं प्रतिपत्ता तद्-अन्य-व्यवच्छेद-भाव-अनपेक्षः पिण्ड- ०३३१० विशेषे अश्व-व्यवच्छेद-मात्रं जिज्ञासते तथा अभूत-ज्ञापन-अर्थं ०३३११ तथा आकृत-संकेतेन शब्देन प्रबोध्यत अनश्वत्वम् अस्य अस्ति ०३३१२ इति / यदा पुनर् व्यवच्छेद-अन्तर-अनिराकाङ्क्षस् तं ज्ञातुम् इच्छति ०३३१३ तदा अपरित्यक्त-व्यवच्छेद-अन्तरे तत्र एव अश्व-व्यवच्छेदे ०३३१४ तथा अप्रकाशनाय प्रयुञ्जते अनश्वो अयम् इति / अत एव पूर्वत्र ०३३१५ प्रतिक्षिप्त-भेद-अन्तरत्वाच् शब्द-वृत्तेर् न सामानाधिकरण्यं ०३३१६ विशेषणविशेष्यभावो वा / गोत्वम् अस्य शुक्लम् इति / ०३३१७ तन्-मात्र-विशेषेण बुद्धेस् तद्-आश्रय-भूताया एकत्वेन अप्रतिभासनात् / ०३३१८ निराकाङ्क्षत्वाच् च / द्वितीये तु भवति / तथा संकेत- ०३३१९ अनुसारेण संहृत-सकल-व्यवच्छेद-धर्मैर् विभागवत एकस्य ०३३२० इव सन्दर्शनेन प्रतिभासनात् / व्यवच्छेद-अन्तर-साकाङ्क्षत्वाच् ०३३२१ च / ०३३२२ भेदो अयम् एव सर्वत्र द्रव्य-भाव-अभिधायिनोः / ०३३२३ शब्दयोर् न तयोर् वाच्ये विशेषस् तेन कश्चन
SK
०३४०१ तस्मान् न सर्वत्र धर्म-धर्मि-वाचिनोः शब्दयोर् वाच्ये अर्थे ०३४०२ निश्चय-प्रत्यय-विषयत्वेन कश्चिद् विशेषः / एकस् तम् एव प्रत्याययन् ०३४०३ प्रतिक्षिप्त-भेद-अन्तरः प्रत्याययति / अन्यो प्रतिक्षेपेण ०३४०४ इत्य् अयं विशेषः / ०३४०५ जिज्ञापयिषुर् अर्थं तं तद्धितेन कृता अपि वा / ०३४०६ अन्येन वा यदि ब्रूयाद् भेदो न अस्ति ततो अपरः //६३ / ०३४०७ एतावन्तम् एव च भेदं दर्शयंस् तद्धितेन वा दर्शयेत् ०३४०८ पाचकत्वम् इति कृता अपि वा पाक इत्य् अन्येन वा तथाभूत-ज्ञापनाय ०३४०९ स्वयं कृतेन समयेन / न पुनस् तथा अभिधान-मात्रेण ०३४१० अर्थ-अन्तरम् एव तद् भवति / तथाभूतस्य एव ज्ञापनाय ०३४११ शब्दस्य कृत-संकेतत्वात् / ननु च पाचकत्वम् इति सम्बन्ध ०३४१२ उच्यते न पाक एव / न वै पाकेन अन्य एव कश्चित् पाचको नाम अभिधीयते ०३४१३ यादृशो वर्ण्यते / यत् पुनर् अस्य अभिधेयं तत् कथितं ०३४१४ तद् एव पाचकत्वेन अपि इत्य् अलम् अप्रतिष्ठैर् मिथ्या-विकल्पैः / ०३४१५ यथा च न अर्थ-अन्तर-भूता क्रिया अस्ति तत्-समवायो वा तत् ०३४१६ प्रत्याययिष्यामः / ०३४१७ तेन अन्यापोह-विषये तद्वत् पक्ष-उपवर्णनम् / ०३४१८ प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जाति-तद्वतोः
SK
०३४१९ यद् आहुः / अन्यापोहे अपि शब्द-अर्थे तद्-विशिष्टस्य अभिधानात् तद्वत्- ०३४२० पक्ष-उदितः सर्वः प्रसङ्गः समान इति तद् अप्य् अनेन प्रतिव्यूढम् / ०३४२१ तत्र ह्य् अर्थ-अन्तरम् उपादाय अन्यत्र वर्तमानो ध्वनिर् ०३४२२ अस्वातन्त्र्य-आदि-दोषैर् उपद्रूयते / न च अर्थ-अन्तरम् अन्यस्माद् ०३४२३ व्यावृत्तिर् व्यावृत्ताद् द्वयोर् एक-अभिधानाद् इत्य् उक्तम् / कथम् ०३४२४ इदानीम् एकस्य व्यावृत्तस्य अन्य-अननुगमाद् अन्यव्यावृत्तिः ०३४२५ सामान्यम् / तद्-बुद्धौ तथा प्रतिभासनात् / न वै किंचित् ०३४२६ सामान्यं नाम अस्ति / शब्द-आश्रया बुद्धिर् अनादि-वासना-सामर्थ्याद् ०३४२७ असंसृष्टान् अपि धर्मान् संसृजन्ती जायते / तस्याः प्रतिभास- ०३५०१ वशेन सामान्यं सामानाधिकरण्यं च व्यवस्थाप्यते ०३५०२ असद्-अर्थो अपि / अर्थानां संसर्ग-भेद-अभावात् / तस्य सर्वस्य ०३५०३ तत्-कार्यकारणतया अन्येभ्यो भिद्यमाना अर्थाः समाश्रयो ०३५०४ ध्वनिश् च अनिष्ट-परिहारेण प्रवर्तयति इत्य् अन्यापोह-विषय उक्तः / ०३५०५ तत्र अनपेक्षित-बाह्य-तत्त्वो बुद्धि-प्रतिभास-वशाद् एको अनेक- ०३५०६ व्यावृत्तः शब्दैर् विषयीक्रियते तद्-अनुभव-आहित-वासना-प्रबोध- ०३५०७ जन्मभिर् विकल्पैर् अध्यवसित-तद्-भाव-अर्थैः / तत्र एव ०३५०८ च अयं धर्म-धर्मि-व्यवहारः परस्परं तत्त्वान्यत्वाभ्याम् ०३५०९ अवाच्यः प्रतन्यते / न ह्य् अन्यो धर्मो धर्मिणो अनर्थ- ०३५१० अन्तर-अभिधानात् न अपि स एव / तद्-वाचिनाम् इव धर्म-वाचिनाम् ०३५११ अपि व्यवच्छेद-अन्तर-आक्षेप-प्रसङ्गात् / तथा च इष्ट-प्रत्यायनात् ०३५१२ संकेत-भेद-अकरणम् इति / एतच् शब्द-अर्थे अवाच्यत्वं ०३५१३ धर्म-धर्मिणोः / वस्तुनि तु स्वलक्षणे सामान्यलक्षणम् अवाच्यम् ०३५१४ अभावात् / ननु च धर्म-धर्मिणोर् अभेदे भेदे वा ०३५१५ दृष्टाः षष्ठ्य्-आदि-विभक्तयो धर्म-बहुत्वात् तत्र दृष्टो वचन- ०३५१६ भेदश् च धर्मिणि न स्यात् / उक्तम् अत्र शब्दानां स्वातन्त्र्य- ०३५१७ अभावाद् इति / अपि च / ०३५१८ येषां वस्तु-वशा वाचो न विवक्षा-पराश्रयाः / ०३५१९ षष्ठी-वचन-भेद-आदि-चोद्यं तान् प्रति युक्तिमत्
SK
०३५२० यदि नाम एते शब्दाः पुरुषैः क्वचित् प्रणिनीषिता अपि न शक्यन्ते ०३६०१ प्रणेतुं वस्तु-प्रतिबन्धाद् धूम-आदि-वत् / तदा अयम् उपालम्भः ०३६०२ स्यात् कथं षष्ठ्य्-आदय इति / यदा पुनः / ०३६०३ यद् यथा वाचकत्वेन वक्तृभिर् विनियम्यते / ०३६०४ अनपेक्षित-बाह्य-अर्थं तत् तथा वाचकं वचः
SK
०३६०५ न हि व्यतिरेके षष्ठी बाहुल्ये जस्-आदय इत्य् एतद् अपि पुरुष-अभिप्राय- ०३६०६ निरपेक्षं वस्तु-संनिधि-मात्रेण स्वयं प्रवृत्तम् / ते ०३६०७ तु तत्र तथा प्रयुञ्जत इति ततस् तथा प्रतिपत्तिर् भवति / ०३६०८ एवम् अन्यत्र अपि कथंचित् तैः प्रयुक्तास् तथा एव प्रतीति-हेतवो ०३६०९ भवन्ति / तत्र वाच्येषु पुरुष-आयत्त-वृत्तीनां शब्दानाम् अवस्तु- ०३६१० सन्दर्शिनां यथा अभ्यासं विकल्प-प्रबोध-हेतूनां प्रवृत्ति-चिन्ता ०३६११ तद्-वशाद् वस्तु-व्यवस्थापनं च केवलं जाड्य- ०३६१२ ख्यापनम् / तथाकृत-व्यवस्थाः शब्दा धर्म-धर्म्य्-आदिषु न ०३६१३ पुनर् व्यतिरेक-वस्तु-भेदाद् इति कुत एतत् / तथा व्यवहार- अयोगात् / ०३६१४ न हि धर्म-धर्मिणोर् भेदे तत्त्व-रूपत्वे वा सामान्य- ०३६१५ तत्-सम्बन्ध-सामानाधिकरण्य-विशेषणविशेष्यभावा युज्यन्ते ०३६१६ शब्दानां वा यथा-अवस्तु-वृत्ताव् इति वक्ष्यामः / यश् च अयं सर्वत्र ०३६१७ वस्तु-कृतम् एव शब्द-प्रवृत्ति-भेदम् इच्छति तस्य ०३६१८ दाराः षण्णगरी इत्य् आदौ भेद-अभेद-व्यवस्थितेः / ०३६१९ खस्य स्वभावः खत्वं च इत्य् अत्र वा किं निबन्धनम्
SK
०३६२१ यदा एका अपि स्त्री दारा एकम् अपि सिकता-द्रव्यं सिकता इति व्यवहारस् ०३६२२ तत्र किं बाहुल्यं येन एवं भवति / शक्ति-भेद इति चेत् / ०३६२३ सर्वत्र उत्सन्नम् इदानीं एक-वचनम् एक-शक्तेर् अभावात् / यत्नश् ०३६२४ च व्यर्थः / वस्त्व्-अभेदाद् अन्यत्र एक-वचनम् इति चेत् / ०३६२५ इह अप्य् अस्तु / तद् अयं निर्वस्तुको नियमः क्रियमाणः स्वातन्त्र्यम् ०३६२६ इच्छायाः शब्द-प्रयोगे ख्यापयति / षण्णगरी इति च ०३६२७ कथं बहुष्व् एक-वचनम् / न हि नगराण्य् एव किंचित् / ०३७०१ कुतस् तेषाम् समाहारः / प्रासाद-पुरुष-आदीनां विजातीयानाम् ०३७०२ अनारम्भात् कुतस् तत्-समुदायो द्रव्यम् / असंयोगाश् च / ०३७०३ न संयोगः / प्रासादस्य स्वयं संयोग-आत्मकस्य परेण असंयोगाच् ०३७०४ च / तत एव संख्या-अभावः / तत्-संयोग-पुरुष-विशिष्टा ०३७०५ सत्ता नगरम् इति चेत् / किम् अस्या निरतिशयाया विशेषणम् / ०३७०६ सत्तायाश् च एकत्वात् / नगर-बहुत्वे अपि नगराणि इति बहु-वचनं ०३७०७ न स्यात् / द्वयस्य परस्पर-सहितता इति चेत् / अनुपकार्य-उपकारकः ०३७०८ कः सहायीभावः / पुरुष-संयोग-सत्तानां च बहुत्वान् ०३७०९ नगरम् इति कथम् एक-वचनम् / तथाभूतानां क्वचिद् ०३७१० अर्थे अभिन्ना शक्तिर् अस्ति सा निमित्तम् इति चेत् / न / शक्तेर् वस्तु- ०३७११ रूप-अव्यतिरेकात् / व्यतिरेके वा अनुपकार्यस्य पारतन्त्र्य-अयोगात् / ०३७१२ उपकारे वा शक्त्य्-उपकारिण्या अपि शक्तेर् व्यतिरेक इत्य् अनवस्थितेर् ०३७१३ अप्रतिपत्तिः / तद्-अव्यतिरेके वा आद्यायाम् अपि प्रसङ्ग इति यत् ०३७१४ किंचिद् एतत् / खस्य स्वभावः खत्वम् इति व्यतिरेक-आश्रया ०३७१५ षष्ठी न स्यात् / न हि तत्र सामान्यम् अस्ति न अपि विभुत्व-आदयो ०३७१६ गुणास् तथा उच्यन्ते / अर्थ-अन्तरस्य तत्-स्वभावत्व-अयोगात् / तेषां ०३७१७ च निःस्वभावत्व-प्रसङ्गात् / तस्य अप्य् अर्थ-अन्तर-स्वभावत्वे ०३७१८ अतिप्रसङ्गः / तथा च अप्रतिपत्तिः / एवं षट्-पदार्थ-वर्ग-आदयो ०३७१९ अपि वाच्याः / न हि तत्र सामान्यं संख्या संयोगो वा सम्भवति / ०३७२० कथम् इदानीम् असत्य् अतिशये खस्य स्वभाव इति न तु ०३७२१ खम् इत्य् एव / खस्य अर्थ-अन्तर-साधारण-रूप-अपरामर्शेन ख- ०३७२२ शब्द-प्रवृत्ति-निबन्धनं रूपं तथा जिज्ञासायाम् एवम् उच्यते / ०३७२३ ननु सर्वतो व्यावृत्तस्य रूपस्य अभिधानं न सम्भवति / ०३७२४ न वै तद् एव रूपं बुद्धौ समर्प्यते / अनतीन्द्रियत्व- ०३७२५ प्रसङ्गात् / केवलम् अयं तथाभूतं प्रत्याययिष्यामि इति शब्देन ०३७२६ श्रोतर्य् असंसृष्ट-तत्-स्वभावं विकल्प-प्रतिबिम्बम् अर्पयति / ०३७२७ यद् आह / अदृष्ट-अर्थे अर्थ-विकल्प-मात्रम् इति / न एवं ०३८०१ प्रतिपाद्य-प्रतिपादकाभ्यां स्वलक्षणं प्रतिपन्नं प्रतिपादितं ०३८०२ वा भवति / स्वर्ग-आदि-श्रवणे अपि तद्-अनुभाविनाम् इव ०३८०३ प्रतिभास-अभेद-प्रसङ्गात् / तस्माद् अयम् अप्रतिपद्यमानो अपि ०३८०४ भाव-स्वभावं तथाभूत एव विकल्प-प्रतिबिम्बे तद्-अध्यवसायी ०३८०५ संतुष्यति / तथाभूतत्वाद् एव शब्द-अर्थ-प्रतिपत्तेस् ०३८०६ तेन एतद् एवम् उच्यते शब्दः स्वरूपम् आह इति / न पुनः स्वरूप- ०३८०७ प्रतिभासस्य एव विज्ञानस्य जननात् / कथं तर्हि इदानीम् एकान्त- ०३८०८ व्यावृत्त-रूपेषु भावेषु सामान्यं नाम / तेषाम् असंसर्गाद् ०३८०९ अन्यस्य च अभावात् / उक्तं यादृशं सामान्यम् असंसृष्टानाम् ०३८१० एक-असंसर्गस् तद्-व्यतिरेकिणां समानता इति / अपि च / ०३८११ पररूपं स्वरूपेण यया संव्रियते धिया//
SK
०३८१२ एक-अर्थ-प्रतिभासिन्या भावान् आश्रित्य भेदिनः
SK
०३८१३ तया संवृत-नाना-अर्थाः संवृत्या भेदिनः स्वयम् / ०३८१४ अभेदिन इव आभान्ति भावा रूपेण केनचित्
SK
०३८१५ तस्या अभिप्राय-वशात् सामान्यं सत् प्रकीर्तितम् / ०३८१६ तद् असत् परमार्थेन यथा संकल्पितं तया
SK
०३८१७ बुद्धिः खलु तद्-अन्य-व्यतिरेकिणः पदार्थान् आश्रित्य उत्पद्यमाना ०३८१८ विकल्पिका स्व-वासना-प्रकृतिं अनुविदधती भिन्नम् एषां ०३८१९ रूपं तिरोधाय प्रतिभासम् अभिन्नम् आत्मीयम् अध्यस्य ०३८२० तान् संसृजन्ती सन्दर्शयति / सा च एक-साध्यसाधनतया अन्य- ०३८२१ विवेकिनां भावानां तद्-विकल्प-वासनायाश् च प्रकृतिर् यद् एवम् ०३८२२ एषा प्रतिभाति तद्-उद्भवा / सा च संवृतिः संव्रियते अनया ०३८२३ स्वरूपेण पररूपम् इति / ते च तया संवृत-भेदाः स्वयं ०३८२४ भेदिनो अप्य् अभेदिन इव केनचिद् रूपेण प्रतिभान्ति / तद् एषां ०३८२५ बुद्धि-प्रतिभासम् अनुरुन्धानैः बुद्धि-परिवर्तिनाम् एव भावानाम् ०३८२६ आकार-विशेष-परिग्रहाद् बहिर् इव परिस्फुरतां सामान्यम् ०३९०१ इत्य् उच्यते / कथम् इदानीम् अन्यापोहः सामान्यं / स एव खल्व् ०३९०२ अन्यापोहस् / तम् एव गृह्णती सा प्रकृति-विभ्रमाद् विकल्पानां ०३९०३ वस्तु-ग्राहिणी इव प्रतिभाति / सा हि तद्-अन्य-विवेकिष्व् एव भावेषु ०३९०४ भवन्ती विवेक-विषया इति गम्यते / ननु बाह्या विवेकिनो न च ०३९०५ तेषु विकल्प-प्रवृत्तिर् इति कथं तेषु भवति / व्याख्यातारः ०३९०६ खल्व् एवं विवेचयन्ति न व्यवहर्तारः / ते तु स्व-आलम्बनम् ०३९०७ एव अर्थक्रिया-योग्यं मन्यमाना दृश्य-विकल्प्याव् अर्थाव् एकीकृत्य ०३९०८ प्रवर्तन्ते / तद्-अभिप्राय-वशाद् एवम् उच्यते / तत्-कारितया ०३९०९ अतत्-कारिभ्यो भिन्नांस् तथा शब्देन प्रतिपादयन्ति इति / प्रतिभास-भेद-आदिभ्यस् ०३९१० तु तत्त्व-चिन्तका न अभेदम् अनुमन्यन्ते / ०३९११ यदि प्रतिपत्तृ-अभिप्रायो अनुविधीयते अन्यापोहो अपि सामान्यं ०३९१२ मा भूत् न ह्य् एवं प्रतिपत्तिर् इति / न वै केवलम् ०३९१३ एवम् अप्रतिपत्तिः / व्यक्ति-व्यतिरिक्त-अव्यतिरिक्त-एक-नित्य-व्यापित-आद्य्- ०३९१४ आकारैर् अपि न एव प्रतिपत्तिः / केवलम् अभिन्न-आकारा बुद्धिर् ०३९१५ उत्पद्यते / तस्याः क आश्रय इत्य् अन्यापोह उच्यते / तस्य वस्तुषु ०३९१६ भावात् / अविरोधात् / व्यवहारस्य च शब्द-आश्रयस्य तथा- ०३९१७ दर्शनात् / न पुनर् वस्तु-भूतं किंचित् सामान्यं नाम अस्ति ०३९१८ यथा इयं बुद्धिः प्रतिभाति / यस्मात् / ०३९१९ व्यक्तयो न अनुयन्त्य् अन्यद् अनुयायि न भासते //
SK
०३९२० न हि इमा व्यक्तयः परस्परम् अन्वाविशन्ति / भेद-अभावे न सामान्यस्य ०३९२१ एव अभाव-प्रसङ्गात् / अन्यच् च न ताभ्यो व्यतिरिक्तं ०३९२२ किंचित् तथा बुद्धौ प्रतिभात्य् अप्रतिभासमानं च कथम् ०३९२३ आत्मना अन्यं ग्राहयेद् व्यपदेशयेद् वा / न च तैः सम्बद्धम् ०३९२४ एकम् इत्य् एव सामान्यं भवत्य् अतिप्रसङ्गाद् इत्य् उक्तम् / ०३९२५ अभिन्न-अभिधान-प्रत्यय-निमित्तम् एकं सामान्यं न सर्वम् ०३९२६ इति चेत् / कथम् अन्यतो अन्यत्र प्रत्यय-वृत्तिः / तत्-सम्बन्धात् / ०३९२७ संख्या-कार्य-द्रव्य-आदिष्व् अपि प्रसङ्गः असामान्य -आत्मकत्वान् ०३९२८ न इति चेत् / ननु स एव अयं विचार्यते / को अयं सामान्य-आत्मा ०३९२९ इति / तत्र सति सम्बन्धे प्रत्यय-वृत्तिस् ततः सामान्यम् इत्य् ०३९३० अत्र उच्यते / अनेक-सम्बन्धेभ्यः कार्य-द्रव्य-आदिभ्यो निमित्त- ०४००१ सम्भवात् प्रत्यय-वृत्तिस् ततश् च सामान्य-आत्मता / अन्यथा अन्यत्र ०४००२ अपि मा भूत् / विशेष-अभावात् / तथा च द्रव्य-गुण-सामान्यानां ०४००३ रूप-संकर इति / एवं तर्हि बुद्धेर् एव प्रतिभासो ज्ञान-रूपत्वात् ०४००४ सन् एव सामान्यम् / तन् न / यस्मात् ०४००५ ज्ञानाद् अव्यतिरिक्तं च कथम् अर्थ-अन्तरं व्रजेत् / ७१//
SK
०४००६ ज्ञानस्य रूपं कथम् अर्थानां सामान्यम् / तस्य तेष्व् अभावात् / ०४००७ तद्-भाव-अध्यवसायात् तथा-भ्रान्त्या व्यवहार इति चेत् / तत्र ०४००८ तथा-ज्ञान-उत्पत्तेः किं निबन्धनम् अनाश्रयस्य च उत्पत्तौ सर्वत्र ०४००९ स्यात् / अथवा ज्ञानाद् अव्यतिरिक्तम् एकस्मात् कथम् अन्यस्य ०४०१० पुनर् ज्ञानस्य रूपं स्यात् व्यक्त्य्-अन्तर-भाविनः / त तश् च ०४०११ ज्ञान-अन्तरं व्यक्त्य्-अन्तरं वा अव्याप्नुवत् कथं सामान्यं ०४०१२ स्यात् / ०४०१३ तस्मान् मिथ्या-विकल्पो अयं अर्थेष्व् एकात्मता-ग्रहः / ०४०१४ न ह्य् अर्था व्यतिरिक्तेन अव्यतिरिक्तेन वा केनचिद् आत्मना समानाः ०४०१५ तथा एषां ग्रहणं मिथ्या-विकल्प एव / ०४०१६ इतरेतर-भेदो अस्य बीजं संज्ञा यद्-अर्थिका
SK
०४०१७ यस्य प्रत्यायन-अर्थं संकेतः क्रियते अभिन्न-साध्यान् भावान् ०४०१८ अतत्-साध्येभ्यो भेदेन ज्ञात्वा तत्-परिहारेण प्रवर्तेत इति सो ०४०१९ अयम् इतरेतर-भेदस् तस्य एकात्मता-प्रतिभासिनो मिथ्या-विकल्पस्य ०४०२० बीजं / तम् एव गृह्णन् एष विकल्पः स्व-वासना-प्रकृतेर् एवं ०४०२१ प्रतिभाति / कथं पुनर् भिन्नानाम् अभिन्नं कार्यं येन ०४०२२ तद्-अन्येभ्यो भेदाद् अभेद इत्य् उच्यते / प्रकृतिर् एषा भवानां ०४०२३ यद् ०४०२४ एक-प्रत्यवमर्श-अर्थ-ज्ञान-आद्य्-एक-अर्थ-साधने / ०४०२५ भेदे अपि नियताः केचित् स्वभावेन इन्द्रिय-आदि-वत्
SK
०४१०१ यथा इन्द्रिय-विषय-आलोक-मनस्कारा आत्मा इन्द्रिय-मनो अर्थ-तत्-संनिकर्षा ०४१०२ वा असत्य् अपि तद्-भाव-नियते सामान्ये रूप-विज्ञानम् एकं ०४१०३ जनयन्ति एवं शिंशपा-आदयो अपि भेदाः परस्पर-अनन्वये अपि ०४१०४ प्रकृत्या एव एकं एक-आकारं प्रत्यभिज्ञानं जनयन्ति अन्यां वा ०४१०५ यथा-प्रत्ययं दहन-गृह-आदिकां काष्ठ-साध्याम् अर्थक्रियाम् ०४१०६ न तु भेद-अविशेषे अपि जल-आदयः श्रोतृ-आदि-वद् रूप-आदि-ज्ञाने / ०४१०७ ज्वर-आदि-शमने काश्चित् सह प्रत्येकम् एव वा / ०४१०८ दृष्टा यथा वा ओषधयो नानात्वे अपि न च अपराः
SK
०४१०९ यथा वा गुडूची-व्यक्त्य्-आदयः सह प्रत्येकं वा ज्वर-आदि-शमन- ०४११० लक्षणम् एकं कार्यं कुर्वन्ति / न च तत्र सामान्यम् अपेक्षन्ते / ०४१११ भेदे अपि तत्-प्रकृतित्वात् / न तद्-अविशेषे अपि दधि-त्रपुसा-आदयः / ०४११२ स्याद् एतत् सामान्यम् एव किंचित् तासु तथाभूतासु ०४११३ विद्यते तत एव तद् एकं कार्यम् इति / तद् अयुक्तम् / ०४११४ अविशेषान् / ०४११५ सामान्यस्य ०४११६ न सामान्यम् / ०४११७ तत्-कार्य-कृत् / तस्य अपि ०४११८ अविशेष-प्रसङ्गतः / ०४११९ तासां क्षेत्र-आदि-भेदे अपि / ०४१२० यदि हि सामान्याज् ज्वर-आदि-शमनं कार्यं स्यात् / तस्य अविशेषाद् ०४१२१ व्यक्तीनां क्षेत्र-आदि-भेदे अपि चिर-शीघ्र-प्रशमन-आदयो विशेषा ०४१२२ गुण-तारतम्यं च न स्यात् / विशेषे वा सामान्यस्य स्वभाव- ०४१२३ भेदात् स्वरूप-हानम् / ०४१२४ ध्रौव्याच् च / ०४१२५ सामान्यस्य ०४२०१ अनुपकारतः
SK
०४२०२ यदि ह्य् उपकुर्याद् अनाधेयविशेषस्य अनन्य-अपेक्षणात् सकृत् सर्वं ०४२०३ स्व-कार्यं जनयेत् / न वा तज्-जनन-स्वभावम् / व्यक्तयस् ०४२०४ तु काल-देश-संस्कार-वशेन विशिष्ट-उत्पत्तयो विशेष-वत् कार्यं ०४२०५ कुर्युर् इत्य् अविरोधः / तद्वद् अर्था अपि केचित् स्वभाव-भेदे अपि ०४२०६ एक-प्रत्यभिज्ञान-आदिकाम् अर्थक्रियां कुर्वन्तस् तद्-अकारिभ्यो ०४२०७ भेदाद् अभिन्ना इत्य् उच्यन्ते एकेन वा अनेको जनितो अतज्-जन्येभ्यो ०४२०८ भेदात् / किं पुनर् अनेन भेद-लक्षणेन सामान्येन स्वलक्षणं ०४२०९ समानम् इति प्रत्येयम् अथ अन्यद् एव / किं च अतः / यदि ०४२१० स्वलक्षणं कथं विकल्पस्य विषयः / अन्यतो वा कथम् ०४२११ अर्थक्रिया / स्वलक्षणे च अनित्यत्व-आदि-प्रतीतेर् अताद्रूप्यम् तेषां ०४२१२ च अवस्तु-धर्मता / न एष दोषः / ज्ञान-प्रतिभासिन्य्-अर्थे सामान्य- ०४२१३ सामानाधिकरण्य-धर्म-धर्मि-व्यवहाराः / यद् एतज् ज्ञानं ०४२१४ वस्तु-स्वभाव-ग्राहिण-अनुभवेन आहितां वासनाम् आश्रित्य ०४२१५ विकल्पकम् उत्पद्यते अतद्-विषयम् अपि तद्-विषयम् इव तद्-अनुभव- ०४२१६ आहित-वासना-प्रभव-प्रकृतेर् अध्यवसित-तद्-भाव-स्वरूपम् ०४२१७ अभिन्न-कार्य-पदार्थ-प्रसूतेर् अभिन्न-अर्थ-ग्राही इव तद्-अन्य-भेद- ०४२१८ परमार्थ-समान-आकारम् तत्र यो अर्थ-आकारः प्रतिभाति बाह्य ०४२१९ इव एक इव अनर्थक्रियाकार्य् अपि तत्-कारी इव व्यवहारिणां तथा अध्यवसाय ०४२२० प्रवृत्तेः अन्यथा प्रवृत्त्य्-अयोगात् तद् अर्थक्रियाकारितया ०४२२१ प्रतिभासनात् तद्-अकारिभ्यो भिन्नम् इव न च तत् ०४२२२ तत्त्वं परीक्षा-अनङ्गत्वाद् इति प्रतिपादयिष्यामः / ते अर्था बुद्धि- ०४२२३ निवेशिनस् तेन समाना इति गृह्यन्ते कुतश्चिद् व्यावृत्त्या प्रतिभासनात् ०४२२४ न स्वलक्षणम् तत्र अप्रतिभासनात् / त एव च कुतश्चिद् ०४२२५ व्यावृत्ताः पुनर् अन्यतो अपि व्यावृत्तिमन्तो अभिन्नाश् च प्रतिभान्ति ०४२२६ इति / स्वयं असताम् अपि तथा बुद्ध्या उपदर्शनान् ०४३०१ मिथ्या-अर्थ एव सामान्य-सामानाधिकरण्य-व्यवहारः क्रियते / ०४३०२ सर्वश् च अयं स्वलक्षणानाम् एव दर्शन-आहित-वासनाकृतो विप्लव ०४३०३ इति तत्-प्रतिबद्ध-जन्मनां विकल्पानाम् अतत्-प्रतिभासित्वे अपि ०४३०४ वस्तुन्य् अविसंवादो मणि-प्रभायाम् इव मणि-भ्रान्तेः न अन्येषाम् ०४३०५ तद्-भेद-प्रभवे सत्य् अपि यथा अदृष्ट-विशेष-अनुसरणं परित्यज्य ०४३०६ किंचित् सामान्य-ग्रहणेन विशेष-अन्तर-समारोपाद् दीप- ०४३०७ प्रभायाम् इव मणि-बुद्धेः / तेन न विकल्प-विषयेष्व् अर्थेष्व् ०४३०८ अर्थक्रियाकारित्वम् / न अपि स्वलक्षणस्य अनित्यत्व-आद्य्-अभावः / यस्मान् ०४३०९ न अनित्यत्वं नाम किंचिद् अन्यच् चलाद् वस्तुनः / क्षण- ०४३१० प्रत्युपस्थान-धर्मतया तस्य तथाभूतस्य ग्रहणाद् एतद् ०४३११ एवं भवत्य् अनित्यो अयम् अनित्यत्वम् अस्य इति वा / तद्-धर्मताम् ०४३१२ एव अवतरन्तो विकल्पा नाना-एक-धर्म-व्यतिरेकान् सन्दर्शयन्ति / ०४३१३ न च ते निराश्रयास् तद्-भेद-दर्शन-आश्रयत्वात् / न अवस्तु- ०४३१४ धर्मता तत्-स्वभावस्य एव तथा ख्यातेः / वस्तुनस् तु ०४३१५ नाना-एक-व्यतिरेक-ग्रहो विभ्रमः स्यात् / तस्य एक-अनेक-कार्य-कारिणस् ०४३१६ तथाभाव-जिज्ञासासु तथाभाव-ख्यापनाय तथाकृत-स्थितित्वात् / ०४३१७ न वस्तु-भेदात् / तस्य एकस्य अनेकत्व-अयोगात् / अनेकस्य च ०४३१८ एकत्व-अयोगात् / व्यतिरिक्तस्य च निषेधात् / तेषां प्रकृति-भेदाद् ०४३१९ यथा-वस्तु शब्द-अर्थ-अभ्युपगमे सामानाधिकरण्य-अयोगात् / तद्- ०४३२० उपाधेर् एकस्य द्वाभ्याम् अभिधानाद् अदोष इति चेत् / अनुपकारिणि ०४३२१ पारतन्त्र्य-अयोगाद् अनुपाधिः / पारतन्त्र्ये च जन्यजनक भावात् ०४३२२ सह अनवस्थितेर् द्वयोर् अनभिधानम् / एकस्य बुद्ध्या ०४३२३ अध्याहारे न वस्तु-विषयः शब्दः स्यात् / बुद्धि-प्रतिभास- ०४३२४ विषयत्वे च सर्वं तथा एव अस्तु / तथा भिन्न-उपाधिम् अत एकस्य ०४३२५ ग्रहणे अप्रतिभासनात् / उपकार्य-उपकारिणोर् अप्य् उपाधि-तद्वतोः ०४३२६ सह अवस्थानाद् अदोष इति चेत् / न / निष्पन्नस्य पारतन्त्र्य-अभावाद् ०४३२७ अनुपाधित्वम् / न अनिष्पन्नस्य स्वरूप-असिद्धेः / सर्वथा असत् ०४३२८ पारतन्त्र्यम् इति कल्पना-आरोपितं कृत्वा व्यवहारे सर्वथा ०४३२९ स एव किं न बुद्धिर् अनुविधीयते / एक-शब्द-प्रमाणेन विषयीकरणे ०४३३० वस्तु-बलाद् अशेष-आक्षेपात् तद्-अन्य-वैयर्थ्यं च न स्यात् / ०४४०१ बुद्धि-प्रतिभासस्य निर्वस्तुकत्वात् वस्तु-सामर्थ्य-अभाविनाम् ०४४०२ दोषाणाम् अप्रसङ्गः / तद् अभिन्नम् एक-आकार-विषयीकरणे अप्य् अनिश्चित- ०४४०३ अन्य-आकारम् आकार-अन्तर-साकाङ्क्ष-बुद्धि-ग्राह्यं भिन्न-शब्द-अर्थ- ०४४०४ उपसंहारे अप्य् अभिन्नं बुद्धौ प्रतिभाति इति सामान्य- विशेषणविशेष्यभाव- ०४४०५ सामानाधिकरण्यानि यथा-प्रतीति न विरुध्यन्ते ०४४०६ धर्म-धर्मि-भेदो अप्य् अस्य / अनेक-अर्थ-भेद-सम्भवे ०४४०७ तद्-एक-अर्थ-भेद-विधि-प्रतिषेध-जिज्ञासायां तद् एव वस्तु ०४४०८ प्रतिक्षिप्त-भेद-अन्तरेण धर्म-शब्देन संचोद्य बुद्धेस् तथा- ०४४०९ प्रतिभासनाद् व्यतिरिक्तं धर्मम् इव अविशेषेण अपरम् अस्य स्वभावं ०४४१० धर्मितया व्यवस्थाप्य प्रदर्श्यते / तावता च अंशेन ०४४११ धर्म-धर्मिणोर् भेदाद् भेदवती इव बुद्धिः प्रतिभाति / न ०४४१२ वस्तु-भेदात् / यथोक्त-दोषात् / तथाभूत-भेद-बाहुल्य-चोदनया ०४४१३ वचन-भेदः साध्य-साधन-भेदश् च तत्-स्वभाव-समाश्रयैर् ०४४१४ धर्म-प्रतिभास-भेदैस् तत्-स्वभाव-प्रतिपत्तये क्रियत इति / ०४४१५ तत्-स्वभाव-ग्रहणात् या धीस् तद्-अर्था इव अप्य् अनर्थिका //
SK
०४४१६ विकल्पिका अतत्-कार्य-अर्थ-भेद-निष्ठा प्रजायते
SK
०४४१७ तस्यां यद् रूपम् आभाति बाह्यम् एकम् इव अन्यतः / ०४४१८ व्यावृत्तम् इव निस्तत्त्वं परीक्षा-अनङ्ग-भावतः
SK
०४४१९ अर्था ज्ञान-निविष्टास् ते यतो व्यावृत्ति-रूपिणः / ०४४२० तेन अभिन्ना इव आभान्ति व्यावृत्ताः पुनर् अन्यतः
SK
०४४२१ त एव तेषां सामान्य-समान-आधार-गोचरैः / ०४४२२ ज्ञान-अभिधानैर् मिथ्या-अर्थो व्यवहारः प्रतन्यते
SK
०४४२३ स च सर्वः पदार्थानाम् अन्योन्य-अभाव-संश्रयः / ०४४२४ तेन अन्यापोह-विषयो वस्तु-लाभस्य च आश्रयः
SK
०४४२५ यत्र अस्ति वस्तु-सम्बन्धो यथोक्त-अनुमितौ यथा / ०४४२६ न अन्यत्र भ्रान्ति-साम्ये अपि दीप-तेजो मणौ यथा
SK
०४४२७ तत्र एक-कार्यो अनेको अपि तद्-अकार्य-अन्यता-आश्रयैः / ०४५०१ एकत्वेन अभिधा-ज्ञानैर् व्यवहारं प्रतार्यते
SK
०४५०२ तथा अनेक-कृद् एको अपि तद्-भाव-परिदीपने / ०४५०३ अतत्-कार्य-अर्थ-भेदेन नाना-धर्म-प्रतीयते
SK
०४५०४ यथा-प्रतीति-कथितः शब्द-अर्थो असाव् असन्न् अपि / ०४५०५ सामानाधिकरण्यं च वस्तुन्य् अस्य न सम्भवः
SK
०४५०६ धर्म-धर्मि-व्यवस्थानं भेदो अभेदश् च यादृशः / ०४५०७ असमीक्षित-तत्त्व-अर्थो यथा लोके प्रतीयते
SK
०४५०८ तं तथा एव समाश्रित्य साध्य-साधन-संस्थितिः / ०४५०९ परमार्थ-अवताराय विद्वद्भिर् अवकल्प्यते
SK
०४५१० संसृज्यन्ते न भिद्यते स्वतो अर्थाः पारमार्थिकाः / ०४५११ रूपम् एकम् अनेकं च तेषु बुद्धेर् उपप्लवः
SK
०४५१२ भेदस् ततो अयं बौद्धे अर्थे सामान्यं भेद इत्य् अपि / ०४५१३ तस्य एव च अन्यव्यावृत्त्या धर्म-भेदः प्रकल्प्यते
SK
०४५१४ साध्य-साधन-संकल्पे वस्तु-दर्शन-हानितः / ०४५१५ भेदः सामान्य-संसृष्टो ग्राह्यो न अत्र स्वलक्षणम्
SK
०४५१६ समान-भिन्न-आद्य्-आकारैर् न तद् ग्राह्यं कथंचन / ०४५१७ भेदानां बहु-भेदानां तत्र एकस्मिन्न् अयोगतः
SK
०४५१८ तद्-रूपं सर्वतो भिन्नं तथा तत्-प्रतिपादिका / ०४५१९ न श्रुतिः कल्पना वा अस्ति सामान्येन एव वृत्तितः
SK
०४५२० इति संग्रहश्लोकाः / किं पुनः कारणं स्वलक्षणे शब्दा न ०४५२१ प्रयुज्यन्ते / यस्मात् / ०४५२२ शब्दाः संकेतितं प्राहुर् व्यवहाराय स स्मृतः / ०४५२३ तदा स्वलक्षणं न अस्ति संकेतस् तेन तत्र न
SK
०४५२४ न हि शब्दा असंकेतितम् अर्थं प्रकाशयन्ति / संकेतश् च ०४५२५ व्यवहार-अर्थं क्रियते अपि नाम इतः शब्दात् कृत-संकेताद् ०४५२६ उत्तर-कालं इमम् अर्थं प्रतिपद्येत इति / न च प्राक्कृत-सम्बन्धस्य ०४५२७ एकत्र स्वलक्षणे शब्दस्य पश्चाद् प्रयोगो युक्तः / ०४५२८ तस्य देश-काल-व्यक्ति-भेद-अनास्कन्धनात् / तस्मान् न स्वलक्षणे ०४५२९ समयः / सामान्यं तर्हि व्यतिरिक्तम् अव्यतिरिक्तं वा व्यापि ०४५३० शब्दैर् अभिधीयते / तन् न व्यवहार-काल-अभाव-दोषः / न एतद् ०४५३१ अस्ति / यस्मात् ०४५३२ अपि प्रवर्तेत पुमान् विज्ञाय-अर्थक्रिया-क्षमान्//
SK
०४६०१ तत् साधनाय इत्य् अर्थेषु संयोज्यन्ते अभिधायकाः
SK
०४६०२ न खलु वै व्यसनम् एव एतल् लोकस्य यद् अयम् असंकेतयन्न् ०४६०३ अप्रयुञ्जानो वा शब्दान् दुःखम् आसीत / किं तर्हि सर्व एव अस्य अवधेय ०४६०४ आरम्भः फल-अर्थः / निष्फल-आरम्भस्य उपेक्षनीयत्वात् / ०४६०५ तद् अयं शब्दान् अपि क्वचिन् नियुञ्जानः फलम् एव किंचिद् ०४६०६ ईहितुं युक्तः / तच् च सर्वं त्याग-आप्ति-लक्षणम् इष्ट-अनिष्टयोः / ०४६०७ तेन अयम् इष्ट-अनिष्टयोः साधनम् असाधनं च ज्ञात्वा तत्र ०४६०८ प्रवृत्ति-निवृत्ती कुर्यां कारयेयं वा इति शब्दान् नियुञ्जीत नियोगे ०४६०९ वा आद्रियेत / अन्यथा अपेक्षणीयत्वात् / ०४६१० तत्र अनर्थक्रिया-योग्या जातिः / ०४६११ न हि जातिः क्वचिद् वाह-दोह-उपतिष्ठते / न च तादृशं प्रकरणम् ०४६१२ अन्तरेण लोके शब्द-प्रयोगो व्यवहारेषु / व्यक्तेर् अशक्य- ०४६१३ चोदनत्वाल् लक्षित-लक्षण-अर्थं जाति-चोदना इति चेत् / अशब्द-चोदिते ०४६१४ सत्य् अपि सम्बन्धे कथं प्रवर्तेत / न हि कश्चिद् दण्डं ०४६१५ छिन्धि इत्य् उक्ते दण्डिनं छिनत्ति / न अप्य् असम्भवाद् व्यक्तौ प्रवृत्तिः / ०४६१६ एवं ह्य् असम्बद्ध-प्रलापी स्यात् / न ततो अन्यत्र प्रवृत्तिर् ०४६१७ बलीवर्द-दोह-चोदना-वत् / न च अर्थ-अन्तर-चोदनेन अर्थ-अन्तरस्य लक्षणम् / ०४६१८ न हि सम्बन्धे सत्य् अपि दण्ड-शब्दाद् दण्डिनि प्रतिपत्तिः / ०४६१९ अनियत-सम्बन्धत्वात् तत्र न इति चेत् / तत् तुल्यं जाताव् ०४६२० अपि / व्यक्तीनाम् अपाये केवलाया जातेर् अवस्थानात् / भ्रातृ-आदि- ०४६२१ शब्दास् तु सम्बन्धि-शब्दत्वाद् आक्षिपेयुः परम् / न तथा ०४६२२ गोत्व-आदि-श्रुतयः सम्बन्धि-वाचिन्यः / अपेत-व्यक्तीनाम् अपि जातीनां ०४६२३ तच्-श्रुतिभ्यो नित्यम् अनुगमन-प्रसङ्गात् / सर्वदा तत्-सम्बन्ध- ०४६२४ योग्यता-प्रतीतेर् इष्टम् एव इति चेत् / सर्वदा तर्हि गो-शब्दाद् ०४६२५ अप्रवृत्तिः / सहित-असहित-अवस्थयोर् विशेषेण अनाक्षेपात् / व्यक्ति- ०४६२६ सम्बन्धिन्या जातेश् चोदनाद् अदोष इति चेत् / सर्वदा तर्हि तद्-विशेषणत्वेन ०४६२७ अवस्थिता व्यक्तिर् आक्षिप्ता एव इति तद्वान् अभिधेयः स्यात् / ०४६२८ न च जाति-व्यक्त्योः कश्चित् सम्बन्धो अन्योन्यम् अजन्यजनकत्वेन ०४६२९ अनुपकारात् / ततो लक्षणम् अप्य् अयुक्तम् / तस्मान् न जातौ ०४६३० शब्द-निवेशनं फल-अभावात् / एवं तर्हि / ०४६३१ तद्वान् अलं ०४७०१ अर्थक्रियास्व् इति तत्र शब्दो नियोज्यते / ०४७०२ स च / ०४७०३ साक्षान् न योज्यते कस्माद् / ०४७०४ यदि व्यक्तौ शब्द-निवेशनं फल-वत् / स च शब्दः कस्मात् साक्षाद् ०४७०५ व्यक्तिष्व् एव न नियुज्यते / किं तत्र अन्येन व्यवधिना / ०४७०६ आनन्त्याच् चेद् इदं समम्
SK
०४७०७ स्याद् एतद् आनन्त्याद् व्यक्तीनाम् अशक्यः शब्देन सम्बन्धः ०४७०८ कर्तुम् / एवं सति इदम् आनन्त्यं तद्वत्य् अपि समानम् / जात्या अपि ०४७०९ हि व्यक्तस्य एव वक्तव्या इत्य् अकृत-सम्बन्धस्य अनभिधानाद् ०४७१० अवश्यं तत्र सम्बन्धः करणीयः / स च न शक्यते / ०४७११ तत्-सम्बन्धिनि करणात् तत्र अपि कृत एव इति चेत् / उक्तम् ०४७१२ अत्र सम्बन्धे अप्य् एकत्र कृताद् अन्यत्र अप्रतीतिः न च सम्बन्धो ०४७१३ अस्ति इति / अपि च / ०४७१४ तत्-कारिणाम् अतत्-कारि-भेद-साम्ये न किं कृतः / ०४७१५ याम् अर्थक्रियाम् अधिकृत्य अयम् अर्थेषु शब्दान् नियुङ्क्ते तत्- ०४७१६ कारिणाम् अर्थानाम् अन्येभ्यो भेदात् तत्र एव च एषाम् अभेदे किं ०४७१७ न शब्दः प्रयुज्यते / ०४७१८ तद्वद्-दोषस्य साम्याच् चेद् अस्तु जातिर् अलं परा
SK
०४७१९ स्याद् एतत् अन्यव्यावृत्ते अपि शब्द-अर्थे व्यावृत्ति-विशिष्टस्य तद्वतो ०४७२० अभिधानान् न तद्वत्-पक्षाद् विशेषः / को ह्य् अत्र विशेषो व्यावृत्तिर् ०४८०१ जातिर् व्यावृत्तिमान् जातिमान् इति / अस्तु नाम तद्वद्-दोषः / जातिर् ०४८०२ अन्या मा भूत् / जातिम् अपि ह्य् अभ्युपगच्छता अवश्यं भावानां ०४८०३ भेदो अभ्युपगन्तव्यः / तद्-अभावे तस्या अप्य् अभाव- ०४८०४ प्रसङ्गात् स च एकस्माद् भेदस् तद्-अन्येषाम् अभेदस् तद्-विशिष्टेष्व् ०४८०५ अर्थेषु प्रतिपत्तिर् अस्तु / सर्वथा दोष-परिहारस्य कर्तुम् ०४८०६ अशक्यत्वात् / अर्थ-अन्तर-अभ्युपगमे प्रयोजन-अभावात् / तद्- ०४८०७ अर्थस्य अन्येन साधनात् / तद्-अभ्युपगमस्य च अवश्यं भावित्वात् / ०४८०८ अपि च / ०४८०९ तद्-अन्य-परिहारेण प्रवर्तेत इति च ध्वनिः / ०४८१० उच्यते तेन तेभ्यो अस्य अव्यवच्छेदे कथं च सः
SK
०४८११ शब्दं ह्य् एष प्रयुञ्जानो अर्थेष्व् अनिष्ट-परिहारेण प्रवर्तेत इति ०४८१२ च प्रयुङ्क्ते / तत्र अन्यत्र च प्रवृत्त्य्-अनुज्ञायां तन्- नाम-ग्रहण- ०४८१३ वैयर्थ्यात् प्रवृत्ति-निवृत्त्य्-अनुज्ञायां च एक-चोदना अनादराद् ०४८१४ अवचनम् एव स्याद् अन्यव्यावृत्त्य्-अनभिधाने / तस्माद् अवश्यं ०४८१५ शब्देन व्यवच्छेदश् चोदनीयः / स च अभिन्नस् तद्-अन्येष्व् ०४८१६ इति जाति-धर्मो अप्य् अस्ति / तन् नियत-अभ्युपगमं नियत-चोदनं ०४८१७ जात्य्-अर्थ-प्रसाधनं च परित्यज्य-अर्थ-अन्तर-कल्पनं केवलम् ०४८१८ अनर्थ-निर्बन्ध एव / यथा-कल्पनम् अस्य अयोगात् / न वै व्यवच्छेदो ०४८१९ न क्रियते / प्रवृत्ति-विषयं तु कथयद्भिर् जातिर् उक्ता / ०४८२० व्यवच्छेदो अस्ति चेद् अस्य नन्व् एतावत् प्रयोजनम् / ०४८२१ शब्दानाम् इति किं तत्र सामान्येन अपरेण वः
SK
०४८२२ ननु उक्तं प्रवृत्ति-विषयः प्रदर्श्यते इति / उक्तम् इदम् / अयुक्तं ०४८२३ तु उक्तम् / तथा हि न सा प्रवृत्ति-योग्या इति निवेदितम् एतत् / ०४८२४ तद्-द्वारेण अचोदिते प्रवृत्तिर् अपि प्रत्युक्ता / तद्वच्-चोदने च ०४८२५ व्यवधानं / जाति-तद्वतोः प्रवृत्ति-विषयत्वे व्यावृत्ति-तद्वन्तौ ०४८२६ किं न इष्येते / व्यावृत्तेर् अवस्तुत्वेन असाधनत्वाच् चेत् / तत् ०४८२७ तुल्यं जातेः / तद्वतः साधनाद् अदोष इति चेत् / तुल्यं तद् व्यावृत्तिमतः / ०४८२८ अवस्तु-ग्राही च व्यावृत्ति-वादिनां शाब्दः प्रत्ययः / ०४९०१ स विभ्रम-वशाद् अकारके अपि कारक-अध्यवसायी प्रवर्तयति / ०४९०२ वस्तु-संवादस् तु वस्तु-उत्पत्त्या तत्-प्रतिबन्धे सति भवति / ०४९०३ अन्यथा न एव अस्ति / वस्तु-उत्पत्तेर् अभ्रान्तिर् इति चेत् / न / अतत्-प्रतिभासिनस् ०४९०४ तद्-अध्यवसायात् / मणि-प्रभायां मणि-भ्रान्ति-दर्शनेन ०४९०५ व्यभिचाराच् च / भ्रान्तेर् अवस्तु-संवाद इति चेत् / न / ०४९०६ यथोक्तेन एव व्यभिचारात् / वितथ-प्रतिभासो हि भ्रान्ति- लक्षणम् / ०४९०७ तन्-नान्तरीयकतया तु संवादो न प्रतिभास-अपेक्षी / वस्तुनि ०४९०८ तु यथाभावम् अर्पित-चेतसः प्रवृत्तौ ग्राह्यस्य सामान्यस्य ०४९०९ अनर्थक्रिया-योग्यत्वाद् अप्रवृत्तिः / अन्यत्र च प्रवृत्ताव् ०४९१० अतिप्रसङ्गः / तद्वद्-ग्रहणे च सामान्य-वैयर्थ्य-आदयः प्रोक्ताः / ०४९११ जाति-ग्रहणे अपि सम्बन्धाच् श्लिष्ट-आभासा बुद्धिः प्रवर्तयति ०४९१२ इति चेत् / तदा न जातिर् न तद्वान् एकस्य अपि स्वभाव-स्थितेर् ०४९१३ अग्रहणाद् इति पर-वाद एव आश्रितः स्यात् / एवं तर्ह्य् अन्वयिनः ०४९१४ कस्यचिद् अर्थस्य अभावात् प्रकृति-भिन्नेष्व् अर्थेषु तद् एव इदम् इति ०४९१५ प्रत्यभिज्ञानं न स्यात् / न एष दोषः / यस्मात् / ०४९१६ ज्ञान-आद्य्-अर्थक्रियां तां तां दृष्ट्वा भेदे अपि कुर्वतः / ०४९१७ अर्थांस् तद्-अन्य-विश्लेष-विषयैर् ध्वनिभिः सह
SK
०४९१८ संयोज्य प्रत्यभिज्ञानं कुर्याद् अप्य् अन्य-दर्शने / ०४९१९ उक्तम् एतत् भेदे अपि भावास् तुल्य-अर्थक्रियाकारिणश् चक्षुर्-आदि-वद् ०४९२० इति / ताम् एकाम् ज्ञान-आदिकाम् अर्थक्रियां तेषु पश्यतो वस्तु-धर्मतया ०४९२१ एव अन्येभ्यो भिद्यमाना भावास् तद्-व्यावृत्ति-विषय-ध्वनि- ०४९२२ संसृष्टं तद् एव इदम् इति स्व-अनुभव-वासना-प्रबोधेन संसृष्ट- ०४९२३ भेदं मिथ्या-प्रत्ययं जनयन्ति / अन्यथा न भेद- ०४९२४ संसर्गवती बुद्धिः स्यात् / यथा दण्डिषु / न हि तत्र एक-दण्ड- ०४९२५ योगे अप्य् अन्यत्र स एव अयम् इति भवति / किं तर्हि / तद् इह इति / ०४९२६ न च एवं प्रत्यभिज्ञानम् / किं तर्हि / तद् एव इदम् इति / तन् न ०४९२७ तद् एकं अनेकत्र पश्यतो अपि भेद-संसर्ग-वद् युक्तम् / विभ्रम- ०५००१ बलात् तु तथा ज्ञाने न विरोधः / निमित्त-अभावाद् विभ्रमो ०५००२ अयुक्त इति चेत् / त एव भावस् तद्-एक-अर्थ-कारिणो अनुभव- द्वारेण ०५००३ प्रकृत्या विभ्रम-फलाया विकल्प-वासनाया हेतुत्वान् निमित्तम् / ०५००४ मरीचिक-आदिष्व् अपि हि जल-आदि-भ्रान्तेस् ताव् एक-अभिन्न -आकार-परामर्श- ०५००५ प्रत्यय-निमित्त-अनुभव-जननौ भावौ कारणं भिन्नाव् ०५००६ अपि / न हि तत्र अन्यद् एव किंचित् सामान्यम् अस्ति यत् तथा ०५००७ प्रतीयेत / सत्त्वे वा सद्-अर्थ-ग्राहिणी बुद्धिर् भ्रान्तिर् न स्यात् / ०५००८ अभूत-आकार-समारोपाद् भ्रान्तिर् इति चेत् / न तर्हि सा तत्-सामान्य- ०५००९ ग्राहिणी / यम् एव खल्व् आकारम् इयम् आरोपयति स एव अस्या ०५०१० विषय इति / अविषयीकृतस्य अशक्य-समारोपात् / आकार-अन्तर-वत् / स ०५०११ च तत्र न अस्ति इत्य् असामान्यं / सति सामान्य-ग्रहणे तद्-आरोपो ०५०१२ न अन्यथा अतिप्रसङ्गाद् इति चेत् / सत्य् एक-कार्य-कारि-ग्रहण इति ०५०१३ किं न इष्यते / अवश्यं च इच्छता अपि सामान्यं व्यक्तीनाम् एक- ०५०१४ कार्य-जनन-शक्तिर् एष्टव्या / ततस् त एव अन्येभ्यो भिद्यमानास् ०५०१५ तादृशं प्रत्ययं जनयन्ति इति किम् अत्र सामान्येन / यथाभावम् ०५०१६ एव असंसृष्ट-भेदं किं न प्रत्येति इति चेत् / अशक्तिर् एषा ०५०१७ विकल्पानाम् अविद्या-प्रभवाद् / न वै बाह्य-अपेक्षा एव भ्रान्तयो ०५०१८ भवन्ति / किं तु विप्लवाद् आन्तराद् अपि केश-आदि-विभ्रम-वत् / अविद्या- ०५०१९ उद्भवाद् विप्लवत्वे चक्षुर्विज्ञान-आदिष्व् अपि प्रसङ्गः / न / ०५०२० तस्या विकल्प-लक्षणत्वात् / विकल्प एव ह्य् अविद्या / सा स्वभावेन ०५१०१ एव विपर्यस्यति / न एवम् इन्द्रिय-ज्ञानानि विकल्पकानि / न ०५१०२ वा तेष्व् अप्य् एष दोषो अद्वयानां द्वय-निर्भासाद् इति वक्ष्यामः / ०५१०३ सर्वेषां विप्लवे अपि प्रमाण-तद्-आभास-व्यवस्था आ आश्रयपरावृत्तेर् ०५१०४ अर्थक्रिया-योग्य-अभिमत-संवादनात् / मिथ्यात्वे अपि ०५१०५ प्रशम-अनुकूलत्वान् मातृ-संज्ञा-आदि-वत् / मरीचिकायां जल-ज्ञानस्य अन्यस्य ०५१०६ च भिन्न-भाव-उत्पत्तेर् विभ्रमस्य च अविशेषे अप्य् अभिमत- ०५१०७ अर्थक्रिया-योग्य-अयोग्य-उत्पत्तेर् अर्थ-संवादा इतरौ / अयोग्यात् / ०५१०८ कथम् उत्पत्तिर् इति चेत् / विकल्पानाम् अर्थ-प्रतिबन्ध-नियम-अभावात् / ०५१०९ न हि विकल्पा यथार्थम् एव जायन्ते / सति मरीचिक-अदर्शने ०५११० जल-भ्रान्तिर् इति तद्-उद्भवा इत्य् उच्यते न तु यथा-स्वभावम् ०५१११ अजल-विवेकिन-अर्थेन स्वभाव-अनुकार-प्रत्यर्पणेन जननात् / ०५११२ सा तु विशेष-लक्षण-अपाटवात् प्रत्यय-अपेक्षिणा स्व-वासना- ०५११३ प्रबोधेन जन्यते / तस्माद् भिन्न-भाव-जन्मनो / विकल्प-विभ्रमात् ०५११४ तद् एव इदम् इति प्रत्यभिज्ञानं न व्यतिरिक्तस्य सामान्यस्य ०५११५ दर्शनात् न अव्यतिरिक्तस्य व्यक्ति-वद् अनन्वयात् / अपि ०५११६ च / ०५११७ परस्य अपि न सा बुद्धिः सामान्याद् एव केवलात्
SK
०५११८ न हि परो अपि एनां बुद्धिं केवल-सामान्य-भाविनीं वक्तुम् ०५११९ अर्हति / ०५१२० नित्यं तन्-मात्र-विज्ञाने व्यक्त्य्-अज्ञान-प्रसङ्गतः / ०५१२१ यदि हि नित्यम् अनया बुद्ध्या सामान्यम् एव गृह्येत अप्रतीता ०५१२२ एव व्यक्तिः स्याद् अनेन ज्ञानेन / ०५१२३ तदा कदाचित् सम्बद्धस्य अगृहीतस्य तद्वतः
SK
०५१२४ तद्वत्ता अनिश्चयो न स्याद् व्यवहारस् ततः कथम् / ०५१२५ यदा सामान्य-ग्राहिणो विज्ञानस्य न भेद आलम्बन-भावेन उपयुज्यते ०५२०१ तदा न तौ कदाचिद् अपि श्लिष्टौ गृहीताव् इति इदम् अस्य ०५२०२ सामान्यम् अयं वा तद्वान् इति न स्यात् / तथा च तत्-प्रतिपत्त्या ०५२०३ तद्वति प्रतिपत्तिर् न स्याद् अर्थ-अन्तर-वत् / ०५२०४ एक-वस्तु-सहायाश् चेद् व्यक्तयो ज्ञान-कारणम्
SK
०५२०५ स्याद् एतद् भवन्ति व्यक्तयस् तस्य आलम्बन-भावेन कारणं न ०५२०६ तु केवलाः / यदा पुनर् आसाम् एकं सहकार्य् अस्ति तदा तत्-सहिता ०५२०७ गृह्यन्त इति / ०५२०८ तद् एकं वस्तु किं तासां नानात्वं समपोहति / ०५२०९ नानात्वाच् च एक-विज्ञान-हेतुता तासु न इष्यते
SK
०५२१० किं वै तेषां भेदानां तेन एकेन नानात्वं निराक्रियते / ०५२११ नानात्वं हि तेष्व् एक-विज्ञान-अकारणत्वे कारणम् उच्यते / ०५२१२ अनेकम् अपि यद्य् एकम् अपेक्ष्य-अभिन्न-बुद्धि-कृत् / ०५२१३ न ब्रूमो अनेकम् एकं प्रत्ययं न जनयति भेदाद् इति / ०५२१४ न भेदो जनन-विरोधी / किं तर्हि / कैवल्यम् / तेन एकेन ०५२१५ सहिता जनयन्त्य् एव / एवं तर्हि / ०५२१६ ताभिर् विना अपि प्रत्येकं क्रियमाणां धियं प्रति
SK
०५२१७ तेन एकेन अपि सामर्थ्यं तासां न इत्य् अग्रहो धिया / ०५२१८ कथम् इदानीं व्यक्तीनां तत्र ज्ञाने सामर्थ्य-गतिः / प्रत्येकं ०५२१९ तासाम् अभावे अपि तद्-भावात् / असति सामान्ये अभावाद् इतरथा ०५२२० च भावात् / न एष दोषः / यथा नील-आदिष्व् एक-अपाये अपि चक्षुर्विज्ञानं ०५२२१ भवति इति / न समूहे अपि तेषाम् असामर्थ्यम् / ०५२२२ तथा इह अपि प्रत्येकम् एक-अपाये अपि भवति इति न सर्वदा सामर्थ्यं / ०५२२३ विषम उपन्यासः / तथा हि / ०५३०१ नील-आदेर् नेत्र-विज्ञाने पृथक् सामर्थ्य-दर्शनात्
SK
०५३०२ शक्ति-सिद्धिः समूहे अपि न एवं व्यक्तेः कथंचन / ०५३०३ नील-आदीनां हि चक्षुर्विज्ञाने प्रत्येकम् अपि सामर्थ्यं दृष्टम् ०५३०४ इति समूहे अपि शक्तिर् अविरुद्धा / तथा न कदाचिद् व्यक्तयः ०५३०५ सामान्य-निरपेक्षा अन्वयि विज्ञानं जनयन्ति / तस्माद् असमर्था ०५३०६ एव व्यक्तयस् तत्र इति न तेन गृह्येरन् / ०५३०७ तासाम् अन्यतम-अपेक्षं तच् चेच् शक्तं न केवलम्
SK
०५३०८ अथ अपि स्यात् न वेम-रहितः कुविन्दः पटं करोति प्रत्य् एकम् / ०५३०९ वेम-अभावे अपि कुविन्दः करोति इति न तत एव पट-उत्पत्तिः / तथा ०५३१० न केवलम् एकैक-व्यक्त्य्-अपाये विज्ञान-उत्पत्ताव् अपि सामान्यं ०५३११ तद्-हेतुः / किं तर्हि / व्यक्तीनाम् एकां कांचिद् अपेक्ष्य विज्ञानम् ०५३१२ उत्पादयति / एवं सति / ०५३१३ तद् एकम् उपकुर्युस् ताः कथं एकां धियं च न / ०५३१४ भिन्नानां ह्य् अर्थानाम् एक-अर्थ-उपक्रिया विरोधिनी इति सर्वो अयम् ०५३१५ आरम्भः / ताश् चेद् व्यक्तयो भिन्ना अप्य् एकं सामान्यम् उपकुर्वन्ति ०५३१६ कः पुनर् आसां विज्ञानेन अपराधः कृतो यत् तन् न उपकुर्वन्ति / ०५३१७ किम् अन्तर्गडुना सामान्येन / यथा असम्भिन्नानाम् ०५३१८ अप्य् एक-सामान्य-उपकरण-शक्तिः एवं तद् एव एकं विज्ञानं कुर्वन्तु / ०५३१९ किं च / ०५३२० कार्यश् च तासां प्राप्तो असौ जननं यद् उपक्रिया
SK
०५३२१ न ह्य् अनतिशयम् आत्मानम् अस्य पूर्ववद् बिभ्रतः कश्चिद् ०५३२२ उपकारको नाम / अतिप्रसङ्गात् / अर्थ-अन्तर-जनने अपि तस्य ०५३२३ किं तेन / तस्य तद्-आश्रयत्वे अनुपकारिणः को अयम् आश्रयाश्रयिभावः / ०५३२४ अतिप्रसङ्गो वा / उपकारे अपि तत्र एव तत्-प्रतिबन्ध ०५३२५ इति किम् अन्यस् तत्-करणात् तद्-उपकारी / तद्-अपेक्षस्य आश्रयस्य ०५३२६ तद्-उपयोगे अनुपकार्यत्वे का इयम् अपेक्षा नाम / तदुत्पत्ति-धर्मा ०५३२७ धर्मा भावः स्वभावप्रतिबन्धाद् अपेक्षते नाम अनाधेयातिशय- ०५४०१ आत्मा परैर् अपेक्षते च इति व्याहतम् एतत् / तस्माद् यः ०५४०२ कश्चित् कस्यचित् क्वचित् प्रतिबन्धः स सर्वो जन्यतायाम् एव अन्तर्भवति / ०५४०३ परभाव-उत्पादने तद्-अनुपकारात् / अकिंचित्करस्य ०५४०४ च अनुपकारात् / तस्माद् व्यक्त्य्-उपकृतस्य सामान्यस्य विज्ञान-जनने ०५४०५ जनने व्यक्तम् अस्य तत्-कार्यता-अनुयुज्यते / केवलस्य सामर्थ्ये ०५४०६ अपि व्यक्तीनां क्वचिद् अप्य् अत्र सामर्थ्य-असिद्धेः अग्राह्यत्वं / ०५४०७ समर्था व्यक्तयो विज्ञाने प्रतिभासनाद् इति चेत् / ०५४०८ कथम् असिद्ध-उपकाराणां प्रतिभास इति स एव सामान्य-अभ्युपगमे ०५४०९ चिन्त्यते / यस्मान् न अनुपकारको विषयो अतिप्रसङ्गात् / ०५४१० न अविषयस्य विज्ञाने प्रतिभासः / अनुपकारकस्य अविषयत्वे ०५४११ अतीत-अनागत-आदीनाम् अविषयत्वम् असताम् उपकार-असामर्थ्याद् ०५४१२ इति चेत् / भवन्तु नाम तद्-विषयाणि निर्विषयाणि / निर्विषयत्वे ०५४१३ अपि तद्-अनुकारी प्रतिभासस् तद्-रूप-अनुभव-आहित-वासना-उत्पत्तेर् ०५४१४ आत्मभूत एव विज्ञानस्य / भाव-अभाव-अनुविधानाच् च सामर्थ्यं ०५४१५ न प्रतिभासनात् / अप्रतिभासिनो अपि व्यक्ति-व्यतिरेकेण सामान्यस्य ०५४१६ भावात् / प्रतिभासिनाम् अपि केश-आदि-विप्लवानाम् अभावात् / ०५४१७ अभिन्न-प्रतिभासा धीर् न भिन्नेष्व् इति चेन् मतम् / ०५४१८ न ब्रूमो अनेकम् एक-कार्य-कृन् न भवति इति / किं तर्हि / न ०५४१९ भिन्नेष्व् अर्थेष्व् अर्पित-तद्-आकारा बुद्धिर् अभिन्न-प्रतिभासिनी ०५४२० स्यात् / न वै सामान्य-ग्राहिणीषु स्वलक्षण-प्रतिभासः तद्-अभावे ०५४२१ अपि तासां भावात् आकार-अन्तरेण च स्व-ज्ञाने प्रतिभासनात् ०५५०१ अनेक-आकार-अयोगाद् एकस्य अतिप्रसङ्गाच् च / तस्मान् न इयं भिन्न-अर्थ- ०५५०२ ग्राहिण्य् अभिन्ना प्रतिभाति तद्-उद्भवा / अतत्-प्रतिभासिन्य् ०५५०३ अप्य् अध्यवसाय-विभ्रमाद् व्यवहारयति लोकम् / स तु ०५५०४ तस्यां प्रतिभासमान आकारो न अर्थेष्व् अस्ति / अन्यत्र भेदाद् अभेदिनः / ०५५०५ स च अरूपः / तम् एव एषा गृह्णती तथा विप्लवत इत्य् ०५५०६ उक्तं प्राक् / अपि च / वस्तु-सामान्य-वादिनो अपि हि भिन्ना एव व्यक्तयः / ०५५०७ कथं तास्व् अभिन्न-आकारा बुद्धिर् इति तुल्यं चोद्यम् / ०५५०८ न तुल्यं तत्र अभिन्नस्य सामान्यस्य सद्भावात् / ननु तत्र ०५५०९ तस्य आभासः सतो अपि न लक्ष्यते / सा हि वर्ण-संस्थान-प्रतिभासवती ०५५१० विभाव्यते / न च ईदृशं सामान्यम् / न च ततो व्यतिरिक्तः ०५५११ कश्चिद् अभिन्न आकारो अस्ति / आकृति-सामान्य-वादिनो अपि विशेष-वत् ०५५१२ तस्य अव्यतिरेकाद् अर्थ-अन्तरे अवृत्तिर् इति भेदान् न अभिन्न-प्रतिभासो ०५५१३ युज्यते / अथवा अस्तु ०५५१४ प्रतिभासो धियं भिन्नः समाना इति तद्-ग्रहात्
SK
०५५१५ न एव तास्व् अभिन्नः प्रतिभासो अस्ति समाना इति ग्रहात् / न ह्य् ०५५१६ एकस्मिन् प्रतिभासे समाना इति युक्तं / किं तर्हि / तद् एव इति / ०५५१७ द्वयस्य ग्रहणाद् अदोष इति चेत् / तथा अपि तद् इह इति स्यात् / न समान ०५५१८ इति / तद् एव तासां साम्यम् इति चेत् / कथम् अन्योन्यस्य ०५५१९ साम्यम् / तत्-सम्बन्धाद् इति चेत् / न / प्रतिबद्धस्य सम्बन्ध- ०५५२० अयोगात् / अतिप्रसङ्गाच् च / ०५५२१ कथं ता भिन्न-धी-ग्राह्याः समाश् चेद् / ०५६०१ ननु समाना इति ग्रहणाद् एव आस्व् अभिन्न-प्रतिभासः / न वै ०५६०२ तद्-दर्शने भिन्न-अभिन्नयोः प्रतिभासनात् समाना इति प्रतीतिः / ०५६०३ किं तर्हि / ०५६०४ एक-कार्यता / ०५६०५ सादृश्यं / ०५६०६ न हि वयम् अर्थ-ज्ञाने द्वाव् आकारौ पश्यामः / अपश्यन्तश् च ०५६०७ कथम् अर्थ-द्वय-कल्पनेन आत्मानम् एव विप्रलभामहे / एक- ०५६०८ कार्यास् तु व्यक्तयः कल्पना-विषयताम् उपयान्त्यस् तथा अनया ०५६०९ विभ्रमान् मिश्रीक्रियन्त इत्य् अनवद्यम् एतत् / ०५६१० ननु धीः कार्यं तासां सा च विभिद्यते
SK
०५६११ प्रतिभावं / तद्वत् तत्-प्रतिभासिनो विज्ञानस्य अपि भेदात् / कथम् ०५६१२ एक-कार्याः / तद् हि तासां कार्यं तच् च भिद्यते / यद् ०५६१३ अप्य् उदक-आहरण-आदिकम् एकं घट-आदि-कार्यं तद् अपि प्रतिद्रव्यं ०५६१४ भेदाद् भिद्यत एव इति न एकं भेदानां कार्यम् अस्ति / ०५६१५ न एष दोषः / यस्मात् / ०५६१६ एक-प्रत्यवमर्शस्य हेतुत्वाद् धीर् अभेदिनी / ०५६१७ एक-धी-हेतु-भावेन व्यक्तीनाम् अप्य् अभिन्नता
SK
०५६१८ निवेदितम् एतद् यथा न भावानां स्वभाव-संसर्गो अस्ति इति / ०५६१९ तत्र संसृष्ट-आकारा बुद्धिर् भ्रान्तिर् एव / तां तु भेदिनः ०५६२० पदार्थाः क्रमेण विकल्प-हेतवो भवन्तो जनयन्ति स्वभावत ०५६२१ इति च / स त्व् एषाम् अभिन्नो भेद इत्य् उच्यते ज्ञान-आदेः ०५७०१ कस्यचिद् एकस्य करणात् अतत्-कारि-स्वभाव-विवेकः / तद् अपि ०५७०२ प्रतिद्रव्यं भिद्यमानम् अपि प्रकृत्या एक-प्रत्यवमर्शस्य अभेद- ०५७०३ अवस्कन्दिनो हेतुर् भवद् अभिन्नं ख्याति / तथाभूत-प्रत्यवमर्श-हेतोर् ०५७०४ अभेद-अवभासिनो ज्ञान-आदेर् अर्थस्य हेतुत्वाद् ०५७०५ व्यक्तयो अपि संसृष्ट-आकारं स्वभाव-भेद-परमार्थं स्वभावत ०५७०६ एकं प्रत्ययं जनयन्ति इत्य् असकृद् उक्तम् एतत् / तस्माद् ०५७०७ एक-कार्यता एव भावानाम् अभेदः / ०५७०८ सा च अतत्-कार्य-विश्लेषस् / ०५७०९ एव ०५७१० तद्-अन्यस्य अनुवर्तिनः / ०५७११ वस्तुनः ०५७१२ अदृष्टेः प्रतिषेधाच् च / ०५७१३ न हि दृश्यं विभागेन अप्रतिभासमानम् अस्ति इत्य् उक्तम् एतत् ०५७१४ सति वा क्वचिद् अनाश्रितं कथं ज्ञान-हेतुर् इति / प्रतिषेधस्य ०५७१५ च विधानात् तत्-कल्पना अयुक्ता इति / तस्मात् ०५७१६ संकेतस् / ०५७१७ अपि ०५७१८ तद्-विद्-अर्थिकः
SK
०५७१९ एव युक्तः / यो अयम् अन्योन्यं विवेको भावानां तत्-प्रतीतय ०५७२० एव संकेतो अपि क्रियमाणः शोभेत अतत्-कारि-विवेकेन प्रवृत्त्य्-अर्थतया / ०५७२१ यदि हि न तत्-प्रतीत्य्-अर्थः संकेतस् तस्य व्यवहार- ०५७२२ काले अप्य् असंस्पर्शान् न अन्य-परिहारेण प्रवर्तेत / न हि स ०५७२३ तेषां तेभ्यो विवेकः शब्देन चोदित इति / सा च श्रुतिः / ०५८०१ अकार्य-कृति-तत्-कारि-तुल्य-रूप-अवभासिनीम् / ०५८०२ धियं वस्तु-पृथग्भाव-मात्र-बीजाम् अनर्थिकाम्
SK
०५८०३ जनयन्त्य् अप्य् अतत्-कारि-परिहार-अङ्ग-भावतः / ०५८०४ वस्तु-भेद-आश्रयाच् च अर्थे न विसंवादिका मता
SK
०५८०५ ततो अन्यापोह-विषया तत्-कर्तृ-आश्रित-भावतः / ०५८०६ एक-स्वभाव-रहितेष्व् अर्थेषु तम् अध्यारोप्य-उत्पद्यमानां मिथ्या- ०५८०७ प्रतिभासित्वाद् अकार्य-कारिणम् अपि तत्-कार्य-कारिणम् इव अध्यवस्यन्तीं ०५८०८ वस्तु-पृथग्भाव-मात्र-बीजां समान-अध्यवसायां ०५८०९ मिथ्या-बुद्धिं श्रुतिर् जनयन्त्य् अपि तद्-अन्य-परिहार-अङ्ग-अभावात् ०५८१० परमार्थतस् तद्-व्यतिरेकिषु पदार्थेषु न विसंवादिका इत्य् उच्यते / ०५८११ तथा हि स तेषु व्यतिरेको भूतः / सर्वथा अव्यतिक्रमणीयत्वात् / ०५८१२ न एको व्यतिरिक्तो अव्यतिरिक्तो वा सर्वथा अयोगात् / तस्य ०५८१३ समावेशने वस्तुनि दूर-उत्सृष्टम् एव वस्तु स्याच् शब्द-ज्ञानाभ्याम् / ०५८१४ तद्-विषय-अभिमतस्य तस्य अभावात् / अन्यस्य च वस्तु- ०५८१५ धर्मस्य कस्यचिद् असंस्पर्शात् / तत एव च सा श्रुतिर् अन्यापोह- ०५८१६ विषयया इत्य् उच्यते / अन्यव्यावृत्तेष्व् अर्थेषु व्यावृत्ति-भेदम् ०५८१७ उपादाय अविशेषेण निवेशनात् / व्यवहारे अप्य् अन्य-परिहारेण ०५८१८ प्रवर्तनात् / ०५८१९ अवृक्ष-व्यतिरेकेण वृक्ष-अर्थ-ग्रहणे द्वयम्
SK
०५८२० अन्योन्य-आश्रयम् इत्य् एक-ग्रह-अभावे द्वय-अग्रहः / ०५८२१ संकेत-असम्भवस् तस्माद् इति केचित् प्रचक्षते
SK
०५८२२ यद्य् अवृक्षेभ्यो भेदो वृक्षस् तस्य अवृक्ष-ग्रहणम् अन्तरेण ०५८२३ तथा ग्रहीतुम् अशक्यत्वात् अविज्ञात-वृक्षेण अवृक्षस्य अपि तद्-व्यवच्छेद- ०५८२४ रूपस्य अपरिज्ञानात् बुद्धाव् अनारूढे अर्थे न संकेतः ०५८२५ शक्यत इत्य् एके / ०५९०१ तेषाम् अवृक्षाः संकेते व्यवच्छिन्ना न वा / ०५९०२ य एवम् एकं वस्तु-सामान्यम् अभ्युपगम्य इतरेतर-आश्रयम् ०५९०३ अन्य-व्यवच्छेदेन संकेते चोदयन्ति / तेषां तत्र अपि संकेत- ०५९०४ करणे अवृक्षा व्यवच्छिन्ना न वा ०५९०५ यदि / ०५९०६ व्यवच्छिन्नाः कथं ज्ञाताः प्राग् वृक्ष-ग्रहणाद् ऋते
SK
०५९०७ न हि तदा प्रतिपत्ता वृक्षं वेत्ति न अवृक्षं तज्-ज्ञानाय एव ०५९०८ तद्-अर्थितया उपगमात् / सो अजानानः कथम् अवृक्ष-व्यवच्छेदं ०५९०९ प्रतिपद्येत संकेते / अप्रतिपत्तौ च अपरिहृत-तद्-अन्य- ०५९१० निवेशिनः शब्दाद् ०५९११ अनिराकरणे तेषां संकेते व्यवहारिणाम् / ०५९१२ न स्यात् तत्-परिहारेण प्रवृत्तिर् वृक्ष-भेद-वत्
SK
०५९१३ न हि संकेते पर-अव्यवच्छेदेन निवेशिताच् शब्दाद् व्यवहारे ०५९१४ तत्-परिहारेण प्रवृत्तिर् युक्ता / शिंशपा-आदि-भेद-वत् / अथ अपि स्यात् / ०५९१५ अविधाय निषिध्य-अन्यत् प्रदर्श्य एकं पुरः स्थितम् / ०५९१६ वृक्षो अयम् इति संकेतः क्रियते तत् प्रपद्यते
SK
०५९१७ व्यवहारे अपि तेन अयम् अदोष इति चेत् / ०५९१८ न वै वस्तु-सत् सामान्य-वादिना कस्यचिद् व्यवच्छेदेन किंचिद् ०५९१९ विधीयते / किं तर्हि / एकम् अग्रतो व्यवस्थितं वस्तु सन्दर्श्य ०५९२० वृक्षो अयम् इति संकेतः क्रियते / संकेत-काले तथा-दृष्टम् ०५९२१ एव अयम् अर्थं तत्-सम्बन्धिनं वा व्यवहारे अपि प्रतिपद्यत ०६००१ इति न समानः प्रसङ्गः / न समानः / यस्मात् तत्र अपि / ०६००२ तरुः / ०६००३ अयम् अप्य् अयम् एव इति प्रसङ्गो न निवर्तते
SK
०६००४ एकं प्रदर्श्य अयं वृक्ष इत्य् अपि ब्रुवाणो अयम् अप्य् अयम् एव इत्य् ०६००५ उभयीं गतिं न अतिवर्तते / तयोश् च स एव दोषः / न दोषः ०६००६ दृष्ट-विपरीतस्य सुज्ञानत्वात् / एकं हि किंचित् पश्यतो अन्यत्र ०६००७ तद्-आकार-विवेकिनीं बुद्धिम् अनुभवतस् ततो अन्यद् इति यथा-अनुभवं ०६००८ तद्-विवेचनो वैधर्म्य-निश्चय उत्पद्यते / स ह्य् ०६००९ अयम् एव वृक्ष इति प्रदर्श्य व्युत्पादितः / यत्र एव तं न ०६०१० पश्यति तम् एव अवृक्षं स्वयम् एव प्रतिपद्यते / न इदं व्यवच्छेद- ०६०११ वादिनः सम्भवति / एकत्र दृष्टस्य रूपस्य क्वचिद् ०६०१२ अनन्वयाद् दर्शनेन प्रतिपत्तौ व्यक्त्य्-अन्तरे अपि न स्यात् तथा ०६०१३ प्रतीतिः / एवं तर्हि तत्र अपि तुल्यम् एतत् / यस्मात् / ०६०१४ एक-प्रत्यवमर्श-आख्ये ज्ञान एकत्र हि स्थितः / ०६०१५ प्रपत्ता तद्-अतद्-हेतून् अर्थान् विभजते स्वयम्
SK
०६०१६ निवेदितम् एतत् प्राग् यथा एते भावाः प्रकृति-भेदिनो अपि ज्ञान-आदिकम् ०६०१७ एकं कार्यं केचित् कुर्वन्ति न अन्य इति / तान् अयं तत्र स्वयम् ०६०१८ एव तद्-हेतून् अतद्-हेतूंश् च विभज्य प्रत्येति / तस्य / ०६०१९ तद्-बुद्धि-वर्तिनो भावान् भातो हेतुतया धियः / ०६०२० अहेतु-रूप-विकलान् एक-रूपान् इव स्वयम्
SK
०६०२१ भेदेन प्रतिपद्येत इत्य् उक्तिर् भेदे नियुज्यते / ०६०२२ तं तस्याः प्रतियती धीर् भ्रान्त्या एकं वस्त्व् इव ईक्ष्यते
SK
०६०२३ तेषां प्रकृत्या एव प्रत्यय-वशात् तथाभूत-विकल्प-कारणानाम् ०६०२४ अन्वयात् तद्-द्रष्टुर् बुद्धौ विपरिवर्तमानान् तज्-ज्ञान- ०६०२५ हेतुतया तद्-अन्यव्यावृत्त्या च अतथाभूतान् अपि तथा-अध्यवसितान् ०६०२६ अविभक्त-बाह्य-अध्यात्मिक-भेदान् प्रतिपत्ता प्रतिपत्तिम् अनुसृत्य ०६०२७ एते वृक्षा इति स्व-पर-विकल्पेष्व् एक-प्रतिभासान् आदर्श्य विकल्प- ०६०२८ विज्ञाने व्यवस्थितस् तद्-विज्ञान-हेतून् भेदेन प्रतिपद्येत ०६१०१ इत्य् उक्तिम् अतद्-हेतुभ्यो भेदे नियुङ्क्ते / तं तस्याः प्रतिपद्यमाना ०६१०२ बुद्धिर् विकल्पिका भ्रान्ति-वशाद् एव एक-वस्तु-ग्रहिणी इव ०६१०३ प्रतिभाति / न पुनर् एकं वस्तु तत्र दृश्यम् अस्ति यस्य दर्शन- ०६१०४ अदर्शनाभ्यां भिन्न-दर्शने अप्य् एष वृक्ष-अवृक्ष-विभागं ०६१०५ कुर्वीत / तस्य शाखा-आदि-प्रतिभास-विभागेन दण्ड-वद् दण्डिन्य् ०६१०६ अग्रहणात् / अगृहीतस्य च अपर-प्रविभागेन अनुपलक्षणात् / आकृतेर् ०६१०७ अप्य् एकत्र दृष्टाया अन्यत्र द्रष्टुम् अशक्यत्वात् / तद्-अतद्वतोर् ०६१०८ वृक्ष-अवृक्षत्वे व्यक्तिर् एक एव वृक्षः स्यात् / भवतु नाम घट-आदि- ०६१०९ शब्देष्व् अर्थ-अन्तर-व्यवच्छेदः / अथ ज्ञेय-आदि-पदेषु कथम् / ०६११० न ह्य् अज्ञेयं किंचिद् अस्ति यतो भेदः स्यात् / ततो भेदेन ०६१११ विषयीकरण एव तस्य ज्ञेयत्वात् / न एष दोषः / यस्मात् / ०६११२ क्वचिन् निवेशनाय अर्थे विनिवर्त्य कुतश्चन / ०६११३ बुद्धेः प्रयुज्यते शब्दस् तद्-अर्थस्य अवधारणात्
SK
०६११४ व्यर्थो अन्यथा प्रयोगः स्यात् तज् ज्ञेय-आदि-पदेष्व् अपि / ०६११५ व्यवहार-उपनीतेषु व्यवच्छेद्यो अस्ति कश्चन
SK
०६११६ शब्दं हि प्रयुञ्जानः सर्वो अन्वय-व्यतिरेकौ न अतिवर्तते / ०६११७ तस्य प्रवृत्ति-निवृत्त्य्-अर्थत्वात् / यदि ह्य् अयं न कस्यचित् कुतश्चिन् ०६११८ निवर्तयेत् प्रवर्तयेद् वा बुद्धिं यथाभूत-अनुज्ञानात् ०६११९ सर्व-व्यवहारेषु न किंचिद् व्याहरेत् / व्याहारस्य अवधारण- ०६१२० नान्तरीयकत्वात् / यथा घटेन उदकम् आनयेति / यदि घटेन अञ्जलिना ०६१२१ वा उदक-आनयनं यथाकथंचिद् अभिमतं स्यात् उदकम् ०६१२२ आनयेत्य् एव वक्तव्यं स्यात् / न घटेन इति / तथा पंशुना ०६१२३ वा अनेन वा येन केनचिद् आनीतेन अर्थ आनयेत्य् एव स्याद् अनाक्षिप्त- ०६१२४ करण-कर्मकम् / एवम् आनयनम् अन्यद् वा यत् किंचिद् ०६१२५ अनुष्ठानं वा अभिमतं तदा आनयेत्य् अपि न ०६१२६ ब्रूयात् / व्यर्थत्वाद् वचनस्य / तथा व्यवहार-उपनीतानां ज्ञेय-आदि- ०६२०१ पदानाम् अपि केनचिद् व्यवच्छेद्येन भवितव्यम् / अनन्य-आशङ्कायां ०६२०२ प्रयोग-अयोगात् तत्र हि यद् एव मूढ-मतेर् आशङ्का-स्थानं ०६२०३ तद् एव निवर्त्यम् / अनाशङ्कमानो वा किं परस्माद् ०६२०४ उपदेशम् अपेक्षते / अश्रोतृ-संस्कारं च ब्रुवाणः कथं ०६२०५ न उन्मत्तः / तत्-संस्काराय एव शब्दानां कृत-संकेतत्वात् / अव्यवहार- ०६२०६ उपनीतश् च न एव कश्चित् ज्ञेय-आदि-शब्दो अस्ति / वाक्य-गतस्य ०६२०७ पदस्य अर्थ-चिन्तनात् / क्व पुनर् एते शब्दाः प्रयुज्यन्त इति ०६२०८ प्रयोग-विषय-चिन्तायाम् अन्यापोह उच्यते / अनिर्दिष्ट-प्रयोगं तु ०६२०९ ज्ञेय-शब्दस्य को अर्थ इति प्रश्ने न कश्चिद् अर्थः / ततः क्वचिद् ०६२१० अप्रतिपत्तेः / तथा घट-आदि-शब्दानाम् अपि / या अपि क्वचित् प्रकरणे ०६२११ केवल-शब्द-श्रवणात् प्रतिपत्तिर् दृष्ट-प्रयोग-अनुसारेण साकाङ्क्षत्वात् ०६२१२ सा अपरिसमाप्त-तद्-विप्लव एव घट-आदि-शब्देषु / ०६२१३ तादृशो ज्ञेय-आदि-शब्देष्व् अपि यथा-दर्शनम् अस्त्य् एव / तस्मात् ०६२१४ सर्व एव शब्द-प्रयोगः कुतश्चिद् बुद्धिं निवर्त्य क्वचिन् निवेशन- ०६२१५ अर्थः / तत्-साफल्यात् / ०६२१६ निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य तम् / ०६२१७ तद्-भेदे भिद्यमानानां समान-आकार-भासिनि
SK
०६२१८ स च अयम् अन्यव्यावृत्त्या गम्यते तस्य वस्तुनः / ०६२१९ कश्चिद् भाग इति प्रोक्तो रूपं न अस्य अपि किंचन
SK
०६२२० तद्-गताव् एव शब्देभ्यो गम्यते अन्य-निवर्तनम् / ०६२२१ न तत्र गम्यते कश्चिद् विशिष्टः केनचित् परः
SK
०६२२२ न च अपि शब्दो द्वय-कृद् अन्योन्य-अभाव इत्य् असन् / ०६२२३ अरूपो रूपवत्त्वेन दर्शनं बुद्धि-विप्लवः
SK
०६२२४ निवेश्यमानो अप्य् एष शब्दो यस्माद् भिद्यते तं विनिवर्त्य ०६२२५ भिद्यमानानां भेदे समान-रूप-प्रतिभासिन्य् आक्षिप्त-तद्-अन्यव्यावृत्तिर् ०६२२६ निवेश्यत इति / स एव अयम् अर्थ-अन्तर-व्यावृत्त्या ०६२२७ तस्य वस्तुनः कश्चिद् भागो गम्यते शब्दो अर्थ-अन्तर-निवृत्ति- ०६३०१ विशिष्टान् एव भावान् आह इत्य् आदिना निर्दिष्टः / स हि तं भेदं ०६३०२ कथयन्न् अर्थ-अन्तर-व्यवच्छेदम् आक्षिपन् एव वर्तते / ०६३०३ एक-गत-भेद-चोदनायास् तद्-अन्यव्यावृत्त्य्-आक्षेप-नान्तरीयकत्वात् / ०६३०४ स एव भेदस् तद्-व्यावृत्त्या गतो भागस् तद्-गतेस् तद्-उपाधित्वात् ०६३०५ तद्-विशिष्टो गत इत्य् उच्यते / न पुनर् अर्थ-अन्तर-निवृत्तिर् विशेषण- ०६३०६ भूता केषांचिद् अर्थानां यया विशिष्टाः शब्दैश् चोद्यन्ते / दण्डि-वत् / ०६३०७ द्वयोर् हि भिद्यमानयोर् भेदस्य उभय-गतत्वाद् ०६३०८ एक-भेद-अभिधाने अपि नान्तरीयकस् तद्-अन्य-आक्षेपो भवति इति तयोर् ०६३०९ न विशेषणविशेष्यभावः / एक-भेद-अभिधाने अप्य् अन्यव्यावृत्ति- ०६३१० गतेर् अन्वय-व्यतिरेक-चोदनया व्यवहार-अङ्गतां शब्दानां ०६३११ दर्शयंस् तद्-व्यावृत्त्या गम्यते तद्-विशिष्टो वा इत्य् आह / अत ०६३१२ एव च शब्दस्य न द्वौ व्यापारौ तद्-अन्यव्यावर्तनं स्वार्थ- ०६३१३ अभिधानं च / स्वार्थ-अभिधानाद् एव तद्-अन्यव्यावृत्ति-गतेः / ०६३१४ स्वार्थस्य भेद-रूपत्वात् / न ह्य् अन्वयो अव्यतिरेको अनन्वयो ०६३१५ वा व्यतिरेकः / एक-अन्वयस्य परिहार्य-अभावे निष्फल-चोदनत्वात् ०६३१६ तथा एक-परिहारस्य क्वचित् स्थित्य्-अभावे / स च अयं भेदो अरूपः / ०६३१७ रूपवत्त्वेन त्व् अस्य दर्शनं केवलं बुद्धि-विप्लव ०६३१८ एव / ०६४०१ तेन एव अपरमार्थो असाव् अन्यथा न हि वस्तुनः / ०६४०२ व्यावृत्तिर् वस्तु भवति भेदो अस्य अस्माद् इति ईरणात्
SK
०६४०३ रूपं हि परमार्थः / भेदश् चेद् रूपं स्यात् / तद्-रूपं वा ०६४०४ स्याद् अतद्-रूपं वा / ताद्रूप्ये तद् एव इति न अन्यस् ततो भिद्येत / ०६४०५ न हि तस्य रूपम् अन्यस्य स्यात् / न तद् एव भेदस्य रूपं / ०६४०६ रूपं च अन्यद् एव स्यात् / ततश् च भावस् तस्माद् व्यावर्तेत / ०६४०७ ततो अस्मात् तस्य भेद इति न स्यात् / यत् खलु यद्-भेदाद् व्यावर्तते ०६४०८ तद् एव तद् भवति इति सो अस्य भेद इति च न स्यात् / न ०६४०९ ह्य् अन्योन्यस्य भेदो भवति / सम्बन्ध-अभावात् / सति वा स ०६४१० कार्यकारणभाव इति रूपं तज्-जनितं भेद इत्य् अविशेषात् / ०६४११ सर्व-कार्याणि स्व-कारणानां व्यावृत्तयः स्युः / रूप-अन्तरत्वे ०६४१२ च भेदस्य ततो अप्य् अस्य भेद इति भेद-उपाधित्वात् द्रव्य-अन्तर-वन् ०६४१३ न भेदः स्यात् / न हि भेद-उपाधिर् एव भेदो अयम् अत ०६४१४ इति विशेष-निर्देशात् / ततश् च उपाध्य्-अभावे भेदस्य एव अभावः स्यात् / ०६४१५ तस्मान् न व्यतिरिक्तः / तद्-अन्य-गत्य्-अभावाच् च वस्तुनो न परमार्थः / ०६४१६ कथं तर्ह्य् अभिन्नस्य वस्तुनः शब्देन चोदने ०६४१७ तस्य एव अन्यतो अपि भेदाद् अनंशय-एक-भेद-चोदने सर्व-भेद- ०६४१८ गतेस् तत्र शब्द-प्रमाण-अन्तराणि व्यर्थानि न स्युः / यस्मात् / ०६४१९ एक-अर्थ-श्लेष-विच्छेद एको व्याप्रियते ध्वनिः / ०६४२० लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किंचन
SK
०६४२१ यस्य अभिधानतो वस्तु-सामर्थ्याद् अखिले गतिः / ०६४२२ भवेन् नाना-फलः शब्द एक-आधारो भवत्य् अतः
SK
०६४२३ उक्तं प्राग् यथा संसृष्ट-बाह्य-अध्यात्मिक-भेदा बुद्धिः स्वम् ०६४२४ एव आभासं व्यवहार-विषयम् अर्थक्रिया-योग्यम् अध्यवसाय ०६४२५ शब्द-अर्थम् उपनयति इति / तत्र एव च ते शब्दास् तैस् तैर् भ्रान्ति- ०६४२६ कारणैः संसृष्ट-रूप इव आभाति यथा-संकेतं विच्छेदाय व्याप्रियन्ते/ ०६४२७ न च एक-साध्यं व्यवच्छेदम् अन्यः करोति / संकेत- ०६५०१ प्रतिनियमात् न च विच्छिन्नं किंचिद् वस्त्व् आक्षिप्यते ०६५०२ यस्य अभिधानाद् वस्तु-बलेन अखिले गतिः स्यात् / शब्दानां बुद्धि- ०६५०३ विप्लव-विषयत्वात् / तत्र च अवस्तुनि वस्तु-सामर्थ्य-अभावात् / तथाभूत- ०६५०४ अर्थ-दर्शन-द्वारेण अयं नाना-एक-धर्म-भेद-अभेद-प्रतिभास- ०६५०५ विप्लव-अनुसारी व्यवहार इति तस्य तत्-प्रतिबन्धे सति ०६५०६ तद्-अव्यभिचारः / ततो वितथाद् अप्य् अन्ते तथाभूत एव वस्तुनि ०६५०७ ज्ञान-संवादात् / न पुनर् भिन्न-आकार-ग्राहिणां ज्ञान-शब्दानां ०६५०८ एक-वस्तु-विषयत्वात् नाना-फलः शब्द एक-आधारो व्याघातात् / यथा वर्णिते ०६५०९ तु बुद्धि-प्रतिभास-आश्रये न दोष इति / ०६५१० विच्छेदं सूचयन् एकम् अप्रतिक्षिप्य वर्तते / ०६५११ यदा अन्यं तेन स व्याप्त एकत्वेन च भासते
SK
०६५१२ सामानाधिकरण्यं स्यात् तदा बुद्ध्य्-अनुरोधतः / ०६५१३ वस्तु-धर्मस्य संस्पर्शो विच्छेद-करणे ध्वनेः
SK
०६५१४ स्यात् सत्यं स हि तत्र इति न एक-वस्त्व्-अभिधायिनि / ०६५१५ बुद्धाव् अभासमानस्य दृश्यस्य अभाव-निश्चयात्
SK
०६५१६ इत्य् अन्तरश्लोकाः / ०६५१७ तेन अन्यापोह-विषयाः प्रोक्ताः सामान्य-गोचराः / ०६५१८ शब्दाश् च बुद्धयश् च एव वस्तुन्य् एषाम् असम्भवात्
SK
०६५१९ यदि हि विधि-रूपेण वस्त्व् एव शब्दैर् विकल्पैर् वा अपि विषयीक्रियेत ०६५२० सो अयं सर्व-अर्थ-सर्व-आकार-प्रतीति-प्रसङ्गो असामानाधिकरण्य- ०६५२१ आदयश् च इति मन्यमानः प्रणेता न्याय-शास्त्रस्य अन्यापोह- ०६५२२ विषयाव् एतौ प्राह / तथा हि / ०६५२३ एकत्वाद् वस्तु-रूपस्य भिन्न-रूपा मतिः कुतः / ०६५२४ अन्वय-व्यतिरेकौ वा न एकस्य एक-अर्थ-गोचरौ
SK
०६५२५ तद् एकम् अनंशं वस्तु कथं भिन्न-आकाराभिर् बुद्धिभिर् ०६५२६ विषयीक्रियते / आकार-भेद-आश्रयत्वाद् भेदस्य / तस्य च अभेदात् / ०६५२७ तदात्मनो अपि सामान्यस्य तद्-एकयोगक्षेमत्वात् / तद् अयम् ०६५२८ अन्योन्य-अर्थ-परिहारेण एक-विषययोर् वृत्त्य्-अभावात् सामानाधिकरण्य- ०६६०१ आदिर् न च वस्त्व्-आत्मन एकस्य तत्र एव वृत्तिर् ०६६०२ अवृत्तिश् च युक्ता व्याघातात् / न च अन्यत्र अवर्तमानं सामान्यं ०६६०३ स्यात् / सामान्यस्य वृत्तिर् न विशेषस्य इति चेत् / न / भेद-अभावात् / तद् ०६६०४ हि एक-रूपं सामान्यं वा भवेत् विशेषो वा / न ह्य् असति रूप-भेदे ०६६०५ अयं प्रविभागो युक्तः सति वा अव्यतिरेको न स्याद् इत्य् उक्तम् / ०६६०६ तद् अयम् अविभागो अन्वियाद् वा न वा / न पुनर् अनन्वयो अन्वयी ०६६०७ च / यो अपि भिन्नम् एव सामान्यम् आह / तस्य अपि / ०६६०८ अभेद-व्यवहाराश् च भेदे स्युर् अनिबन्धनाः / ०६६०९ यथास्वं शब्दा भिन्नम् अर्थम् अभिदधानाः कथम् एक-अर्थ- ०६६१० बुद्ध्य्-आश्रयाः स्युः / अर्थ-अन्तर-अभिधायिनश् च अनाक्षेपकाः ०६६११ निराकाङ्क्षत्वात् कथं विशेषणविशेष्यभाव-आश्रयाः / ०६६१२ सर्वत्र भावाद् व्यावृत्तेर् न एते दोषाः प्रसङ्गिनः
SK
०६६१३ यथा ह्य् एकस् तस्माद् भिन्नस् तथा अन्यो अपि इति भेदस्य असामान्य- ०६६१४ दोषो अपि न अस्ति / परिशिष्ट-अभावस् तु प्राग् एव उक्तः / अपि च / ०६६१५ एक-कार्येषु भेदेषु तत्-कार्य-परिचोदने / ०६६१६ गौरव-अशक्ति-वैफल्याद् भेद-आख्यायाः समा श्रुतिः
SK
०६६१७ कृता वृद्धैर् अतत्-कार्य-व्यावृत्ति-विनिबन्धना / ०६६१८ न भावे सर्व-भावानां स्वभावस्य व्यवस्थितेः
SK
०६६१९ यद् रूपं शाबलेयस्य बाहुलेयस्य न अस्ति तत् / ०६६२० अतत्-कार्य-परावृत्तिर् द्वयोर् अपि च विद्यते
SK
०६६२१ अर्थ-अभेदेन च विना शब्द-अभेदो न युज्यते / ०६६२२ तस्मात् तत्-कार्यता अपि इष्टा अतत्-कार्याद् एव भिन्नता
SK
०६६२३ चक्षुर्-आदौ यथा रूप-विज्ञान-एक-फले क्वचित्//
SK
०६६२४ अविशेषेण तत्-कार्य-चोदना-सम्भवे सति
SK
०६६२५ सकृत् सर्व-प्रतीत्य्-अर्थं कश्चित् सांकेतिकीं श्रुतिम् / ०६६२६ कुर्याद् ऋते अपि तद्-रूप-सामान्याद् व्यतिरेकिणः
SK
०६७०१ यो अपि मन्यते कथम् अभिन्नम् अर्थम् अन्तरेण बहुष्व् एका ०६७०२ श्रुतिः तेषाम् असाम्यात् एक-वृत्तेर् अन्यत्र प्रत्यय-अजननात् ०६७०३ अप्रत्यासत्तिके च प्रत्यय-उत्पादे अतिप्रसङ्गात् तेषु च एक- ०६७०४ शब्द-निवेशन-वैफल्याद् एक-अर्थ-नियोग-अभावात् भिन्न -स्वभावानां ०६७०५ पृथङ् नियोगे च तथा-चोदितानां विभाग-अपरिज्ञानाद् ०६७०६ इति / तस्य अप्य् एकम् अस्ति इत्य् एव लोकेन शब्दो निवेशनीयः तद् ०६७०७ वा एकम् एनां श्रुतिं वस्तु-शक्त्या एव ध्वनयति इति / न अस्त्य् एतत् / ०६७०८ किं तर्हि केनचित् प्रयोजनेन केचिच् शब्दाः क्वचिन् निवेश्यन्ते / ०६७०९ तत्र यद्य् अनेकम् एकत्र उपयुज्येत तद् अवश्यं तत्र चोदनीयं / ०६७१० तस्य पृथक् पृथक् चोदने अतिगौरवं स्यात् / न च अस्य अनन्य- ०६७११ साधारणं रूपं शक्यं चोदयितुम् / न अप्य् अस्य आयास अस्य ०६७१२ किंचित् साफल्यं / केवलम् अनेन तत्र योग्यास् ते अर्थाश् चोदनीयाः / ०६७१३ त एकेन वा शब्देन चोद्येरन् बहुभिर् वा इति स्वातन्त्र्यम् ०६७१४ अत्र वक्तुः / तद् इयम् एका श्रुतिर् बहुषु वक्तृ-अभिप्राय- ०६७१५ वशात् प्रवर्तमाना न उपालम्भम् अर्हति / न च इयम् अशक्य- ०६७१६ प्रवर्तना / इच्छा-अधीनत्वात् / यदि हि न प्रयोक्तुर् इच्छा कथम् ०६७१७ इयम् एकत्र अपि प्रवर्तेत / इच्छायां वा क एनां बहुष्व् अपि ०६७१८ प्रतिबन्धुं समर्थः / प्रयोजन-अभावाद् / एव अप्रवर्तनम् इति ०६७१९ चेत् / उक्तं प्रयोजनम् / भिन्नेष्व् एकस्मात् प्रतीतिर् अतत्-प्रयोजन- ०६७२० भेदेन इत्य् उक्तम् / न पुनः स्वभावस्य एकत्वात् / यथास्वं ०६७२१ व्यवस्थित-स्वभावानाम् अन्योन्य-रूप-अश्लेषात् कथम् एक-स्वभाव-निमित्तः ०६७२२ शब्दो भिन्नेषु भवेद् इत्य् उक्तं प्राक् / अतत्-प्रयोजन-व्यावृत्तिस् ०६७२३ तु भिन्नानाम् अविरुद्धा इति स एव अर्थ-अभेदः शब्द-अभेदस्य ०६७२४ कारणं भवतु / तेन इमे तत्-प्रयोजना इत्य् अतत्-प्रयोजनेभ्यो ०६७२५ भिन्ना एव उक्ताः / न पुनर् एषाम् अन्या तत्-कार्यता अन्यत्र अन्यतो ०६७२६ भेदात् / यथा चक्षू-रूप-आलोक-मनस्कारेस्व् आत्म-इन्द्रिय-मनो अर्थ- ०६८०१ तत्-संनिकर्षेषु वा रूप-विज्ञान-एक-कार्येषु तत्- कार्य-सामान्य-चोदना- ०६८०२ सम्भवे कुतो रूप-विज्ञानम् इति व्यवहार-लाघव-अर्थं कश्चित् ०६८०३ सांकेतिकीं श्रुतिं निवेशयेत् यरो रूप-विज्ञान-हेतुः शसो ०६८०४ वा इति / अपि नाम सर्वेषां तद्-हेतूनां सकृत् प्रतीतिर् यथा स्याद् ०६८०५ इति / न च अत्र अनुगामि किंचिद् रूपम् अस्ति / केवलं तद्-अर्थतया ०६८०६ ते भावा अतद्-अर्थेभ्यो भिन्ना इति भेद एव एषाम् अभेदः / एवंजातीयाश् ०६८०७ च सर्वे समूह-सन्तान-अवस्था-विशेष-शब्दा ये समस्ताः ०६८०८ किंचिद् एकं कार्यं कुर्वन्ति तेषां तत्र विशेष-अभावाद् अपार्थिका ०६८०९ विशेष-चोदना इति सकृत् सर्वेषां नियोजन-अर्थम् एकम् अयं ०६८१० लोकः शब्दं तेषु नियुङ्क्ते घट इति / ते अपि सजातीयाद् अन्यतश् च ०६८११ भेद-अविशेषे अपि तत्-प्रयोजन-अङ्गतया तद्-अन्येभ्यो भिद्यन्त ०६८१२ इत्य् अभेदात् ततो अविशेषेण प्रतीयन्ते / तत्र घटस्य रूप-आदयो ०६८१३ इत्य् अपि घट-स्वभावा रूप-आदय उदक-धारण-विशेष-आदि-कार्य-समर्था ०६८१४ इति यावत् / सामान्य-कार्य-साधन-प्रसिद्धेन आत्मना रूप- ०६८१५ आदि-शब्दैः प्रसिद्धा विशिष्ट-कार्य-साधन-आख्येन विशेषेण विशिष्टास् ०६८१६ त एवम् उच्यन्ते / न पुनर् अत्र अन्यत् किंचिद् यथा-वर्णित-लक्षणं ०६८१७ द्रव्यम् अस्ति तस्य तादृशस्य अनुपलम्भात् / एक-वचनम् ०६८१८ अपि तद्-एक-शक्ति-सूचन-अर्थं संकेत-परतन्त्रं वा / तथा ०६८१९ ये हेतु-फल-विशेष-भूताः किंचिद् एकं साधयन्ति साध्यन्ते ०६८२० वा ते अपि सकृत् प्रत्यय-अर्थं व्रीह्य्-आदि-शब्दैः कृत-संकेताः ०६८२१ कथ्यन्त इति पूर्ववद् वाच्यम् / ये अपि पृथक् समस्ता वा क्वचिद् ०६८२२ उपयुज्यन्ते त अवस्था-विशेष-वाचिभिः सकृद् एव शब्दैः प्रत्यय- ०६८२३ अर्थं ख्याप्यन्ते सनिदर्शनाः सप्रतिघा वा इति तद्-अन्येभ्यो ०६८२४ भेद-सामान्येन / यथा एक-कार्यास् तत्-कार्य-चोदनायां ०६८२५ तद्-अन्य-भेदेन घट-आदि-शब्दैः कृत-समयाः / तथा कारण-अपेक्षया ०६९०१ अप्य् अनेक एकेन व्यवहार-अर्थम् एव / यथा शाबलेयो ०६९०२ बाहुलेयः प्रयत्नानन्तरीयकः शब्दः कृतको वा इति / तथा ०६९०३ तत्-कार्य-प्रतिषेधेन अप्य् अचाक्षुषः शब्दो अनित्यो अनात्म इति / ०६९०४ तत्-कारण-प्रतिषेधेन अप्य् अस्वामिकः शून्य इति / एवं यथायोगम् ०६९०५ अन्यद् अपि वाच्यम् / शून्य-अनित्य-आदि-शब्देषु यथा-कल्पनं समीहित- ०६९०६ आकारं बुद्धाव् आरोप्य तद्-व्यवच्छेदेन व्यपदेशः क्रियते / ०६९०७ बुद्धि-समीहा सन्दर्शित-विभागत्वात् सर्वस्य शब्द-अर्थस्य / ०६९०८ अप्रतिपक्ष-दोष-उपक्षेप-आदयो दुर्मति-विस्पन्दितानि इत्य् उपेक्षनीयाः / ०६९०९ अथ ०६९१० एक-वृत्तेर् अनेको अपि यद्य् एक-श्रुतिमान् भवेत् / ०६९११ न केवलम् एक-कार्यास् तद्-अन्य-भेद-अविशेषाद् एक-शब्देन उच्यन्ते ०६९१२ अपि त्व् एक-वृत्त्या अप्य् अनेक एक-शब्देन उच्येत / को विरोधः स्यात् / ०६९१३ उक्तम् अत्र / तस्य उपलभ्य-अभिमतस्य अनुपलब्धेर् अभावात् ०६९१४ अनुपलभ्यतायां वा तद्-दर्शन-आश्रया व्यपदेश- प्रत्यभिज्ञान- ०६९१५ आदयो न भवेयुर् इत्य् आदि / अपि च / ०६९१६ वृत्तिर् आधेयता व्यक्तिर् इति तस्मिन् न युज्यते
SK
०६९१७ यद् एतद् एकम् अनेकत्र वर्तमानम् एकां श्रुतिं वर्तयति ०६९१८ तस्य का इयं वृत्तिः / आधेयता वा स्यात् / यथा कुण्डे बदराणि ०६९१९ वर्तन्त इति / व्यक्तिर् वा तैर् अभिव्यक्तेर् / यद्य् आधेयता / ०६९२० नित्यस्य अनुपकार्यत्वान् न आधारः / ०६९२१ नित्यं हि सामान्यम् इष्यते / अनित्यत्वे अपरापर-उत्पत्तेर् अनेकत्वाद् ०६९२२ भेद-वद् एक-प्रत्यय-अयोगात् / नित्यस्य च किं कुर्वाण ०६९२३ आधारः स्यात् / तस्य तत्र समवायाद् आधार इति चेत् को ०७००१ अयं समवायो नाम / अपृथक्-सिद्धानाम् आश्रयाश्रयिभावः / ०७००२ तद् एव इदम् अनुपकारकस्य आश्रयत्वं न सम्भावयामः / ०७००३ अतिप्रसङ्ग-भयात् / तस्मात् समवाय-संयोगाव् एक-अर्थ-समवाय- ०७००४ आदयो अपि वस्तु-सम्बन्धाः कार्यकारणभावान् न व्यतिरिच्यन्ते / ०७००५ परस्परम् अन्यतो वा अनुपकारिणाम् अप्रतिबन्धात् / अप्रतिबद्धस्य ०७००६ च असम्बन्धात् / यद्य् अप्य् एक-अर्थ-समवायिनां परस्परम् ०७००७ अनुपकारः / तत एकस्माद् उपकारेण भाव्यम् / अभावे ०७००८ यथोक्त-दोष-प्रसङ्गात् / अतः स्व-उपकार-द्वारेण एव परम् अपि ०७००९ बुद्ध्या संघटय्य ख्याप्यते / तस्मात् तत्र अपि कार्यकारणभाव- ०७०१० कृत एव प्रतिबन्धः / तद् अयम् आश्रयः सामान्यस्य ०७०११ स्वात्मन्य् अनुपकुर्वाणो अनपेक्षस्य आधार इति याचितक-मण्डनम् ०७०१२ एतत् / कथं तर्हि इदानीम् अजनकं कुण्डं बदराणाम् ०७०१३ आधारः / ०७०१४ प्रविसर्पतः / ०७०१५ शक्तिस् तद्-देश-जननं कुण्ड-आदेर् बदर-आदिषु
SK
०७०१६ प्रकृत्या एव गुरुणो द्रव्यस्य असमान-देश-कार्य-उत्पादन धर्मणः ०७०१७ समान-देश-कार्य-उत्पादन-भाव आधार-कृतः / तस्मात् तत्-पूर्व- ०७०१८ क्षण-सहकारि कुण्डं तत्र एव बदर-कार्यं जनयद् आधार ०७०१९ इत्य् उच्यते / अन्यथा इह कुण्डे बदराणि इत्य् अपि न स्यात् / न वै ०७०२० तद्-उपकार-कृतो अयं व्यपदेशः / किं तर्हि / संयोग-कृतः / ०७०२१ किं पुनः स तयोर् एव संयोगः / ताभ्यां जननात् समवायाद् ०७०२२ वा / स किम् एकत्र एव न समवैति जन्यते वा / तस्य असामर्थ्यात् / ०७०२३ तद् असमर्थं पृथक् तत् सहितम् अपि तादृशम् एव इत्य् अनुपकारकत्वान् ०७०२४ न संयोगेन तद्वत् स्यात् / सहितस्य तद्-अन्य-उपकाराद् ०७०२५ विशेष-उत्पत्तेः सामर्थ्यम् / को अयम् अजन्यजनकभूतानाम् ०७०२६ उपकारः / स्वरूपस्य सिद्धेर् अकार्यत्वात् पररूप-क्रियायाम् ०७१०१ अपि तत्र अनुपकारात् / उभयथा कारकस्य अकिंचित्करत्वेन ०७१०२ अनुपकारकत्वाद् इत्य् उक्त-प्रायम् / तस्मात् सर्व एव वस्तु- ०७१०३ सम्बन्धा जनकस्य एव उपयोग-विशेष-वशात् प्रविभागेन कार्यकारणभावाद् ०७१०४ व्यवस्थाप्यन्ते / तद् अयं कुण्ड-आदीनाम् अप्य् ०७१०५ आधार-भावो बदर-आदिषु जनन-शक्तिर् एव ०७१०६ न सम्भवति सा अप्य् अत्र / ०७१०७ न ह्य् अयं जनन-विशेष-लक्षण आधार-भावः सामान्ये सामान्य- ०७१०८ आश्रयस्य सम्भवति / तस्य अजन्यत्वात् ०७१०९ तद्-अभावे अप्य् अवस्थितेः / ०७११० न स्थितिः / ०७१११ अथ अपि स्यात् स्थापक आश्रयः सामान्यस्य ततः स्थिति-हेतुत्वाद् ०७११२ आधारो न जननाद् इति / तद् अयुक्तम् / तस्य तद्-अभावे अपि स्थानात् / ०७११३ पतन-धर्माणां हि भावानां पात-प्रतिबन्धाद् अजनको अपि ०७११४ स्थापको भवेत् / अत्र अपि यदि कश्चित् प्रतिबन्धं न पर्यनुयुञ्जीत / ०७११५ स हि पात-प्रतिबन्धो न अर्थ-अन्तरम् एव यः स्थापयित्रा ०७११६ क्रियेत / अर्थ-अन्तरत्वे तत्र एव अस्य उपयोग इति कः पततः प्रतिबन्धः / ०७११७ प्रतिबन्धाद् अपाते अपि तुल्यः पर्यनुयोगो अनवस्था ०७११८ वा / तस्मात् पात-अभावः पात-प्रतिबन्धः स कथं केनचित् ०७११९ क्रियते / अभावं करोति इति हि न अभावो नाम कश्चित् कार्यः / तस्य ०७१२० कथंचित् कार्य-रूपत्वे अभाव-अयोगात् / तस्माद् भाव- क्रिया-प्रतिषेध- ०७१२१ निर्देश एष भावं न करोति इति यावत् / तथा च अयं न ०७१२२ किंचित् करोति इत्य् अकिंचित्करश् च कः कस्य स्थापको नाम / तेन ०७१२३ अयं केनचिद् अप्रतिबद्ध इति न कदाचित् तिष्ठेत् / तस्मात् पात- ०७१२४ प्रतिबन्ध इत्य् अपि क्षणिकानां भावानाम् उपादान-समान- ०७१२५ देश-उत्पादनम् उच्यते / अस्तु नाम अजननं पातिनां तत्-प्रतिबद्धः / ०७१२६ तत्-करणाद् गतिमतो द्रव्यस्य कश्चित् स्थापको अप्य् अस्तु / ०७१२७ सामान्यस्य अक्रियस्य किं-लक्षणां स्थितिं कुर्वाणः स्थापकः ०७१२८ स्यात् / स्थितिर् हि तस्य स्वरूप-अप्रच्युतिर् एव / सा च न आश्रय-आयत्ता ०७१२९ नित्यत्वात् / ०७१३० सा अप्य् अयुक्ता एव भेद-अभेद-विवेचने
SK
०७२०१ अस्तु नाम आश्रय-हेतुका स्थितिः सामान्यस्य / सा सामान्याद् अन्या ०७२०२ वा स्याद् अनन्या वा / सा अन्या चेत् ताम् एव स आश्रयः करोति / सा ०७२०३ च अप्रतिबद्धा सामान्य इति किम् सामान्यस्य आश्रयेण / प्रतिबद्धे ०७२०४ वा कः प्रतिबन्ध इति वाच्यम् / स्थिति-करणं चेत् तत्र अपि तुल्यः ०७२०५ प्रसङ्गो अनवस्था च / तत उपकार-अनवधारणाद् अस्य इयं ०७२०६ स्थितिर् इत्य् अप्रतीतिः / जननं चेत् किम् आश्रयेण अपेक्षितेन अनुपकारिणा / ०७२०७ अपेक्षा इति हि तत्-प्रतिबन्धः स च अनाधेयविशेषस्य सामान्यस्य ०७२०८ अयुक्त इति / केवलं जनयेद् इति / न अस्त्य् अन्यः स्थिति-हेतुः / ०७२०९ अभेदे वा स्थितेः सामान्यात् स्वरूपम् एव तत् तस्य / तच् च ०७२१० नित्यम् अस्ति इति / न स्थितिर् अस्य केनचित् क्रियते / तस्मान् न सामान्यस्य ०७२११ आधारो अस्ति / तन् न आधेयता अस्य वृत्तिः / अथ पुनः सतो अपि ०७२१२ सामान्यस्य अव्यक्तस्य व्यक्त्या ज्ञान-कारणत्वात् तद्-व्यक्तिस् तत्र ०७२१३ वृत्तिः स्यात् / न युक्तम् एवं भवितुम् / यस्मात् / ०७२१४ विज्ञान-उत्पत्ति-योग्यत्वाय आत्मन्य् अन्य-अनुरोधि यत् / ०७२१५ तद् व्यङ्ग्यं योग्यतायाश् च कारणम् कारकं मतम्
SK
०७२१७ प्राग् एव अस्य च योग्यत्वे तद्-अपेक्षा न युज्यते / ०७२१८ सामान्यस्य अविकार्यस्य तत् सामान्यवतः कुतः
SK
०७२१९ न खलु वै कारकाद् व्यञ्जकस्य कश्चिद् भेदः / स्व-विषय-विज्ञान- ०७२२० उत्पादन-समर्थम् अपरं सजातीय-उपादान-अपेक्षम् अनपेक्षं ०७२२१ वा जनयन् भावम् एव व्यञ्जक उच्यते / परत्र तु ज्ञान- ०७२२२ जनन-शक्तिर् अनाक्षिप्ता जन्यस्य इति जनन-मात्रेण कारकत्वम् / ०७२२३ यो हि यतो विज्ञान-उत्पादन-योग्यतां प्रतिलभते स चेन् ०७२२४ न तस्य जन्यः स्यात् / सा अस्य स्वभाव-भूता योग्यता प्राग् एव अस्ति ०७२२५ इति न विज्ञान-जनने तम् अपेक्षेत / पर-भूतायां च अस्यां ०७२२६ स एव ततो भवति इति स्थिति-वत् प्रसङ्गः / तस्माद् व्यञ्जको न ०७२२७ तं करोति न अप्य् अन्यम् इत्य् अकिंचित्करश् च अपेक्ष्यत इति व्याहतम् ०७३०१ एतत् / नन्व् अजनका अपि कार्यत्वाद् धूम-आदयो व्यञ्जकाः / ०७३०२ सत्यं व्यञ्जका न तु धूमम् अपेक्ष्य अग्निर् आत्मनि ज्ञानं ०७३०३ जनयति / तथाभूतस्य अग्नेः साक्षाद् अजनकत्वात् / केवलम् ०७३०४ उपादान-बलेन एव तत्र ज्ञानम् उत्पद्यते न विषय-बलेन असत्य् ०७३०५ अपि तस्मिन् भावात् परंपरया लिङ्ग-अनुसारेण / न अपि सामान्यलक्षण- ०७३०६ अवभासिनां प्रत्ययानां संनिहित-विषयता विषय- ०७३०७ बलेन उत्पत्तिर् वा इति निवेदितम् एतत् / निवेदयिष्यते च / तस्माद् ये ०७३०८ विषयाः साक्षाद् उपयोगेन विज्ञानं जनयन्तस् तत्र परम् ०७३०९ अपेक्षन्ते ते अवश्यं तत आत्मानं प्रतिलभन्ते / न च अयम् ०७३१० आत्म-प्रतिलम्भः सामान्यस्य नित्यस्य कुतश्चित् सम्भवति / ०७३११ तस्मान् न तत् केनचित् व्यङ्ग्यम् / न वै योग्यता-प्रतिलम्भं ०७३१२ सामान्यस्य व्यक्तिं ब्रूमः / किं तर्हि / स्वाश्रय-समवायम् / ०७३१३ स्वाश्रय-समवेतं हि तद् आत्मन्य् अन्यत्र वा विज्ञान-हेतुर् इति / ०७३१४ उक्तम् अत्र अजन्य-जनकयोः को अयम् आश्रयाश्रयिभाव-लक्षणः ०७३१५ समवाय इति / स्वाश्रय-समवाय-अपेक्षो विज्ञान-हेतुस् तेन जन्य ०७३१६ एव स्यात् / तद्-हेतोः स्वभावस्य प्राग्-अभावात् पश्चाच् च ततो ०७३१७ भावात् / नित्यं तत्-स्वभाव-सद्भावे प्राग् अपि समवायाद् विज्ञान- ०७३१८ उदय-प्रसङ्गात् / न वै व्यक्तिः सामान्यस्य संस्काराद् ०७३१९ व्यञ्जिका / किं तर्हि / तद्-ग्राहिण इन्द्रियस्य / सो अपि / ०७३२० अञ्जन-आदेर् इव व्यक्तेः संस्कारो न इन्द्रियस्य च / ०७३२१ प्रतिपत्तेर् अभिन्नत्वात् तद्-भाव-अभाव-कालयोः
SK
०७३२२ संस्कृतम् अञ्जन-आदिभिर् इन्द्रियं प्रतिपत्तौ किंचिद् अतिशयम् ०७३२३ आसादयति / स्पष्ट-अस्पष्ट-भेदात् / अतत्-कारिणश् च अतत्-संस्कारकत्वात् / ०७३२४ न एवं व्यक्तेर् इन्द्रियस्य कश्चित् संस्कारस् तद्-भाव-अभाव- ०७४०१ कालयोः प्रतिपत्तिं प्रत्य् अविशेषात् / विषय-संस्कारस् त्व् इन्द्रिय- ०७४०२ अविशेषे अपि तद्-विशेष-आधानाद् उपकारी स्यात् / न इन्द्रिय-संस्कारः / ०७४०३ प्राग् अदृश्ये दर्शन-शक्त्य्-आधानाद् उपकारक इति चेत् / सो अतीन्द्रियम् ०७४०४ अर्थं दर्शयन् कथं न प्रतिपत्तेर् भेदकः / एक-प्रतिनियमे ०७४०५ च सामान्य-अन्तरस्य दर्शको न स्यात् / व्यक्त्या च इन्द्रिय- ०७४०६ संस्कारात् तद्-दर्शने तद्-व्यङ्ग्येषु सामान्येषु कदाचित् अनिश्चयो ०७४०७ न स्याद् एक-निश्चयो वा / तस्या अविभागायास् तेषु विशेष-अभावात् / ०७४०८ व्यक्तेर् यदि इन्द्रिय-संस्कारो यदि न इन्द्रिय-संस्कारः सामान्यस्य ०७४०९ विज्ञान-जनन-स्वभाव इति स्वभावाद् अप्रच्युतेर् अनपेक्ष्य एव ०७४१० इन्द्रिय-संस्कारं विज्ञानं जनयेत् / संस्कृत-इन्द्रिय-सहकारित्वात् ०७४११ केवलम् असमर्थम् इति चेत् / को अयम् अनाधेयातिशयस्य ०७४१२ सहकार-अर्थः / अनित्या हि भावाः सहकारिणो विशिष्ट-आत्म-लाभात् ०७४१३ तम् अपेक्षेरन् / यो ह्य् एषां जनक आत्मा स तदा एव ततो भवति ०७४१४ इति जन्यता एव एषां परस्परतो अपेक्षा / सामान्यं पुनर् अनासाद्य ०७४१५ परं नित्यं तत्-स्वभावं किम् इति इन्द्रियम् अपेक्षते / ०७४१६ हि तस्य केवलस्य यो न तत्-स्वभावः स पुनः कथंचिद् ०७४१७ भावी व्यक्तेर् इन्द्रिय-संस्कारः / तत्-सहकारि सामान्यं विज्ञान- ०७४१८ हेतुर् इत्य् अपि पारंपर्येण व्यक्तेः कार्यम् एव सामान्यम् ०७४१९ उक्तं स्यात् / अपि च / ०७४२० व्यञ्जकस्य च जातीनां जातिमत्ता यदि इष्यते / ०७४२१ प्राप्तो गोत्व-आदिना तद्वान् प्रदीप-आदिः प्रकाशकः
SK
०७४२२ यो हि यद्-विषय-विज्ञान-हेतुः स तस्य व्यञ्जकः / विज्ञान-हेतुत्वं ०७४२३ गोत्व-आदिषु प्रदीप-आदेर् अप्य् अस्ति / तेजः-संस्कार-अपेक्षिणः ०७४२४ चक्षुषो अर्थ-प्रतिपत्तेः / ततः प्रदीप-आदयो गोत्व-आदिना तद्वन्तः ०७५०१ स्युः / न हि व्यक्तेर् अपि ज्ञान-हेतुतां मुक्त्वा अन्या काचिद् अस्त्य् ०७५०२ अभिव्यक्तिः सामान्यस्य स्वभाव-अतिशयस्य आधातुम् अशक्यत्वात् / ०७५०३ समवायो अभिव्यक्तिर् इति चेत् / उक्ता उत्तरम् एतत् / तस्य समवाय-अयोगाद् ०७५०४ इति / समवाय-मात्रं हि व्यक्त्या सह अस्य जातं न अन्यः ०७५०५ कश्चिद् विशेष इति / पूर्ववत् पश्चाद् अपि न ज्ञान-हेतुः स्यात् / ०७५०६ समवायाद् एव ज्ञान-हेतुत्वे स्वाश्रय-समवायिनाम् अन्येषाम् अपि ०७५०७ दृश्यता-आपत्तिः / तस्माज् ज्ञान-हेतुता एव व्यञ्जकत्वं / तच् च ०७५०८ तुल्यं प्रदीप-आदाव् इति स एव प्रसङ्गः / तन् न आधेयता न व्यक्तिर् ०७५०९ वृत्तिः सामान्यस्य इति / अवृत्तेर् न अनेकत्र ज्ञान-हेतुः / अत एव / ०७५१० व्यक्तेर् अन्या अथवा अनन्या येषां जातिस् तु विद्यते / ०७५११ तेषां व्यक्तिष्व् अपूर्वासु कथं सामान्य-बुद्धयः
SK
०७५१२ विद्यत एव इत्य् अवधारण-अर्थस् तु-शब्दः / विद्यमानो हि पदार्थः ०७५१३ स्व-सामर्थ्येन अन्यत्र बुद्धिं जनयन् स्वरूप-अनुकारिणीं ०७५१४ तत्-सम्बन्धम् अपेक्षते / अन्यथा अतिप्रसङ्गात् / स च सामान्यस्य ०७५१५ सतस् तत्त्वान्यत्त्व-पक्षयोर् न सम्भवति / ०७५१६ एकत्र दृष्टस्य अन्यत्र दर्शन-असम्भवात् / ०७५१७ सा हि बुद्धिर् एक-भाविनी व्यक्त्य्-अन्तरम् एवम् आस्कन्देद् भूत- ०७५१८ ग्राहिणी यदि तत्र दृष्टं किंचिद् अन्यत्र पश्येत् / तच् च ०७५१९ सतः / ०७५२० अनन्यत्वे अन्वय-अभावाद् अन्यत्वे अप्य् अनपाश्रयात्
SK
०७५२१ न सम्भवति / स्वभावो हि स्वभावान् न तत्त्वम् अन्यत्वं ०७५२२ वा लङ्घयति / रूपस्य अतद्भूतस्य अन्यत्व-अव्यतिक्रमात् / इदम् ०७५२३ एव खलु रूपस्य अन्यत्वं यन् न तद् आकार-अन्तर-वद् अविशेषात् / ०७५२४ तच् चेत् सामान्यस्य रूपम् अनन्यत् तद् एव तद् भवति / अतत्त्वे ०७५२५ वस्त्व्-अन्तर-वद् अन्यत्व-प्रसङ्गात् / न च एक-व्यक्त्य्-आत्मनो व्यक्त्य्- ०७५२६ अन्तर-अन्वावेशो अव्यक्त्य्-अन्तरत्व-प्रसङ्गात् / ततो न अव्यतिरेकिणः ०७५२७ सामान्याद् अन्वयिनी बुद्धिः स्यात् / न अपि व्यतिरेकिणस् तस्य ०७६०१ क्वचिद् अनाश्रयाद् अन्यस्य अपि व्यङ्ग्यव्यञ्जकभाव-आदेः सम्बन्धस्य ०७६०२ केनचिद् अनुपकार्यस्य अप्रतिबन्धेन अभावात् / असम्बन्धाच् ०७६०३ च ज्ञान-उत्पत्ताव् अपि प्रसङ्गात् / तद् अयम् एक-वस्तु- ०७६०४ दर्शनेन एक-वृत्तेः प्रत्ययस्य अन्यत्र वृत्तिम् इच्छंस् तत्त्वान्यत्त्वे ०७६०५ न अतिक्रामति इत्य् अयुक्तम् एतत् / तस्माद् इयम् अर्थेष्व् एक-रूपा ०७६०६ प्रतीतिर् विकल्प-वासना-समुत्थिता भ्रान्तिर् एव / भाव-भेदो वासना- ०७६०७ प्रकृतिश् च तस्य आश्रय इति निर्लोठितम् एतत् / कथं तर्हि इदानीं ०७६०८ प्रधान-ईश्वर-आदि-कार्य-शब्दा भावेष्व् अतद्-भूत-भेदेष्व् ०७६०९ अभेदेन वर्तन्ते / ते अपि यथा-संकेत-आहित-वासना-उपस्कृतत्वाद् ०७६१० विज्ञान-सन्ततेः सर्व-अर्थ-दर्शनेष्व् अनपेक्ष्य अपि तद्-भेदं तथा ०७६११ अध्यवसायाद् अतथाभूत-कल्पित-व्यवच्छेदेन विकल्प-विज्ञान- ०७६१२ प्रतिभासिन्य् अर्थ उपादान-बल-प्रभव-विकल्प-समुत्थिताः ०७६१३ प्रवर्तन्ते / न हि तेष्व् अतथाभूतेषु किंचिद् व्यतिरिक्तम् अव्यतिरिक्तं ०७६१४ वा सामान्यम् अस्ति / तथाभाव-कल्पनया तु तद्-अन्य- ०७६१५ भेदः प्रतिपत्तृ-अभिप्राय-वशात् स्यात् / तद्-अभिप्रायाद् एव सामान्यं ०७६१६ किं न इति चेत् / तेन अवश्यं हि तत्र भेदो नान्तरीयकत्वाद् ०७६१७ एष्टव्यः / स एव सामान्य-कार्ये पर्याप्त इति निःप्रयोजना ०७६१८ सामान्य-कल्पना / यदि सत्स्व् असत्सु वा भावेषु सामान्य-बुद्धिर् ०७६१९ न इयम् अर्थवती केवलं विप्लव एव इति न अस्माकम् अस्या विषय- ०७६२० निरूपणं प्रति कश्चिद् आदरः क्वचिद् अविसंवादो अस्या वस्तुनि ०७६२१ कार्यकारणभाव-प्रतिबन्धान् न तथाभूत-ग्राह्य-समावेशात् ०७६२२ प्रत्यक्ष-वद् अतथाभावे अपि भावाद् इति निवेदयिष्यामो निवेदितं ०७६२३ च / भेद-विषयत्वं पुनर् अस्या बहुलं भिन्न-पदार्थ- ०७६२४ दर्शन-बलेन तेषु भाव-अध्यवसायात् / तथा भाव-कल्पनायाम् ०७६२५ एव अपरत्र भावात् / अपि च अयं सामान्यम् अर्थ-अन्तरं कल्पयन् ०७७०१ स्वाश्रय-मात्र-गतं वा कल्पयेत् सर्व-गतं वा आकाश-आदि-वत् / ०७७०२ तत्र यदि स्वाश्रय-मात्र-गतं घटत्व-आदि-शून्येषु प्रदेशेषु ०७७०३ घट-आद्य्-उत्पत्तौ कथं तेषु भिन्न-देश-द्रव्य-वर्तिनः सामान्यस्य ०७७०४ सम्भवः / यस्मात् तत् पूर्व-द्रव्याद् उत्पित्सु द्रव्यं ०७७०५ न याति / ०७७०६ निष्क्रियत्व-उपगमात् / न ह्य् अन्य-द्रव्य-वृत्तेर् भावस्य ततो अविचलतो ०७७०७ भिन्न-देशेन भावेन तद्-उभय-अन्तराल-अव्यापिनो योगो ०७७०८ युक्तः / प्राक् स ०७७०९ न च तत्र आसीत् अस्ति पश्चान् / ०७७१० न च तत्र उत्पन्नो न कुतश्चिद् आयात इति क इमं व्याघात-भारम् ०७७११ उद्वोढुं समर्थो अन्यत्र जाड्यात् / अपि च ०७७१२ न च अंश-वत् / ०७७१३ जहाति पूर्वं न आधारम् / ०७७१४ उत्पित्सु-देशाद् भिन्न-देशम् / तयोश् च वर्तत इति / ०७७१५ अहो व्यसन-सन्ततिः
SK
०७७१६ भिन्न-देशयोर् हि भावयोः सम्बन्धो द्विधा भवेत् / नाना-अवयव- ०७७१७ आत्मतया अन्योन्याभ्याम् अवयवाभ्यां तत्-सम्बन्धाद् आलोक- ०७७१८ रज्जु-वंश-दण्ड-आदि-वत् / न हि स अवयवत्वम् अन्तरेण भिन्न- ०७७१९ देशाभ्यां युगपत् कस्यचिद् योगो युक्तः / तस्य द्वितीय- आत्म-अभावात् / ०७७२० एकात्मनश् च तत्-प्रदेश-वर्ति-सम्बन्धि-रूपत्वात् / अन्यथा ०७७२१ तत्-सम्बन्ध-अयोगात् / एकस्य आधेयस्य तत्र स्थानं तदा एव ०७७२२ तत्र तेन एव आत्मना अस्थानम् इति तत्-स्थित-अस्थित-आत्मनोर् एकस्य ०७८०१ विरोधाद् अयुक्तम् एतत् / सर्वत्र सर्वदा सर्व-आकार-स्थित-आत्मा इति ०७८०२ चेत् / तत्-स्वभाव-दर्शन-आश्रयः प्रत्ययः सर्वत्र सर्व-आकारः ०७८०३ स्यात् / तथा च गाम् अप्य् अश्व इति प्रतीयात् / अश्व-स्थित-आत्मना द्रव्यत्वेन ०७८०४ सम्बन्धात् तत्-स्वभाव-प्रतिपत्त्या च तथा निश्चयात् ०७८०५ तस्य च एकस्य अदृष्ट-आकार-अन्तर-अभावात् / तस्मान् न अनवयवम् अनेक- ०७८०६ देशे युगपद् आधीयते / पूर्व-आधार-त्यागे तु भिन्न-देशे अपि ०७८०७ वर्तेत / स च न अभिमतः / ०७८०८ अन्यत्र वर्तमानस्य ततो अन्य-स्थान-जन्मनि / ०७८०९ स्वस्माद् अचलतः स्थानाद् वृत्तिर् इत्य् अतियुक्तिमत्
SK
०७८१० यत्र असौ वर्तते भावस् तेन सम्बध्यते अपि न / ०७८११ तद्-देशिनं च व्याप्नोति किम् अप्य् एतन् महाद्भुतम्
SK
०७८१२ इत्य् अन्तरश्लोकौ / यस्य तु सर्व-गतं सामान्यं तस्य अपि ०७८१३ व्यक्ता एव एकत्र सा व्यक्त्या अभेदात् सर्वत्रगा यदि / ०७८१४ जातिर् दृश्येत सर्वत्र / ०७८१५ न जातेर् नित्यायाः काचिद् व्यक्तिर् इति निषिद्धम् एतत् / तस्मान् नित्यम् ०७८१६ अनपेक्षित-पर-उपस्कारा दृश्येत वा न वा कदाचित् तस्मिन् स्वभावे ०७८१७ व्यवस्थानात् / स्वभाव-अन्तरस्य कुतश्चिद् अनुत्पत्तेः / अभ्युपगम्य ०७८१८ अपि व्यक्तिं व्यापिन्य् एकत्र व्यक्त्या भेद-अभावाद् व्यक्ता ०७८१९ एव सर्वत्र इति व्यक्ति-शून्येष्व् अपि प्रदेशेषु दृश्येत / ०७८२० न च सा व्यक्त्य्-अपेक्षिणी
SK
०७८२१ यदि हि व्यक्त्य्-अपेक्षिणी स्यात् / ०७८२२ व्यञ्जक-अप्रतिपत्तौ हि न व्यङ्ग्यं सम्प्रतीयते / ०७८२३ विपर्ययः पुनः कस्माद् इष्टः सामान्य-तद्वतोः
SK
०७८२४ यो अपि हि स्वाश्रय-इन्द्रिय-संयोग-अपेक्ष-प्रतिपत्तिकं सामान्यम् ०७८२५ आश्रय-शून्येषु प्रदेशेषु न दृश्यत इति प्रतिसमादधीत तस्य अप्य् ०७८२६ अस्त्य् एव आश्रय-इन्द्रिय-संयोग उपकारक इति ततस् तद्-दर्शी यथा- ०७८२७ स्थितां पश्येत् / न हि तस्यां दृश्यमानायाम् अदृष्टं तदीयं ०७९०१ युक्तम् / व्यक्ति-व्यङ्ग्यत्वात् सामान्यस्य व्यञ्जक-रहितेषु ०७९०२ प्रदेशेष्व् अदर्शनम् इत्य् अपि मिथ्या / तथाभूतस्य व्यङ्ग्यव्यञ्जकभावस्य ०७९०३ तत्र अभावात् / स्व-प्रतिपत्त्या अपर-प्रतिपत्ति-हेतुर् ०७९०४ हि व्यञ्जकः प्रदीप-आदिः स्वरूप-शून्ये देशे स्व-व्यङ्ग्यं न ०७९०५ दर्शयत् / न एवं व्यक्तिर् विपर्ययात् / कथं हि सा व्यञ्जिका ०७९०६ च स्यात् सामान्यस्य / तत्-प्रतिपत्ति-द्वारेण च दृश्या स्यात् / व्यङ्ग्या ०७९०७ च सा एव प्रसज्यते प्रदीप-घट-वत् / कथंचित् तत्-प्रतिपत्तिम् ०७९०८ अन्तरेण अदृश्य-रूपत्वात् / अपि च अनेन किम् असम्भवद् अभिसमीक्ष्य ०७९०९ एवं बह्व्-आयासः सामान्य-वाद आश्रितः / परस्परतो भेदाद् ०७९१० व्यतिरेकिणीषु व्यक्तिष्व् अन्वयिनः प्रत्ययस्य अयोगात् / कथम् ०७९११ इदानीम् ०७९१२ पाचक-आदिष्व् अभिन्नेन विना अप्य् अर्थेन वाचकः / ०७९१३ पाचक-पाठक-आदिष्व् अन्योन्यम् अनन्वयिष्व् अपि शब्द-प्रत्यय-अनुवृत्तिर् ०७९१४ अस्ति / पाचकः पाठक इति / न हि तेष्व् अन्यद् एकम् अभिन्नम् ०७९१५ अस्ति येन भिन्नास् तथा प्रतीयेरन् / कर्म अस्ति चेत् / व्यक्तिभ्य ०७९१६ एव तर्हि स प्रत्ययो अस्तु / किम् इदानीं कर्मणा अन्येन वा / भिन्नम् ०७९१७ अभिन्न-प्रत्यय-हेतुर् न भवति इत्य् एकं सामान्यम् इष्टम् / ०७९१८ तद् यदि भिन्नम् अपि कर्म-अभिन्नम् प्रत्ययं जनयेत् / व्यक्तिभिः ०७९१९ को अपराधः कृतो येन तास् तथा न इष्यन्ते / तासाम् एक-रूपत्वात् / ०७९२० अस्य इदम् इति व्यतिरेक-प्रतीतिर् अतद्-आकार-विशेषवती च न ०७९२१ स्याद् इति चेत् / उक्तम् अत्र यथा व्यतिरेको विशेष-प्रत्ययाश् च ०७९२२ यथास्वम् अर्थ-अन्तर-विवेकाद् इति / तस्माद् व्यक्ति-वत् ०७९२३ भेदान् न हेतुः कर्म अस्य / ०७९२४ पाचक-आद्य्-अभेद-प्रत्ययस्य / तत्-कर्म जातिर् अभेदाद् हेतुर् ०७९२५ इति चेत् / ०७९२६ न जातिः कर्म-संश्रयात्
SK
०८००१ न ह्य् अर्थ-अन्तर-सम्बन्धिनी जातिर् अर्थ-अन्तरे प्रत्यय-हेतुर् ०८००२ गोत्वम् इव कर्क-आदिषु / पाचक-कर्मसु च कर्म-जातिर् न च तानि ०८००३ कर्माणि पाचक-शब्देन अभिधीयन्ते / किं तर्हि / तत्-कर्म-आश्रयो ०८००४ द्रव्यम् / तस्य कर्म-सामान्यस्य ०८००५ श्रुत्य्-अन्तर-निमित्तत्वात् / ०८००६ च पाकः पाक इति हि ततः स्यान् न पुनः पाचक इति / तस्य कर्म- ०८००७ निमित्तत्वे प्रोक्तम् / किं च ०८००८ स्थित्य्-अभावाच् च कर्मणः / ०८००९ न ह्य् अनित्यं कर्म सर्वदा अस्ति / तस्य च प्रत्ययस्य कर्म-निमित्तत्वे ०८०१० निरुद्धे कर्मणि न पाचक इत्य् उच्येत / पचत एव कर्म- ०८०११ सद्भावात् / तत एव ०८०१२ असम्बन्धान् न सामान्यं न अयुक्तम् शब्द-कारणम्
SK
०८०१३ अतिप्रसङ्गात् / ०८०१४ विनष्टे हि कर्मणि तत् सामान्यं न कर्मणि न कर्तरि इति सम्बद्ध- ०८०१५ सम्बन्धे अप्य् अस्य न अस्ति इत्य् असम्बन्धान् न शब्द-ज्ञान- ०८०१६ हेतुः / अन्यथा ह्य् अतिप्रसङ्गः स्यात् / अतीतम् अनागतं वा ०८०१७ निमित्तीकृत्य तयोः प्रवृत्तिर् इति चेत् / ०८०१८ कर्म अपि न असज्-ज्ञान-अभिधानयोः / ०८०१९ निमित्तम् / तयोः ०८०२० अनैमित्तिकता-आपत्तेः / ०८०२१ असद् हि निरुपाख्यं कथं निमित्तं स्यात् / कार्य-करण- ०८१०१ लक्षणत्वाद् वस्तुत्वस्य / तत् प्रच्युत-असम्प्राप्त-रूपम् अतीत-अनागतं ०८१०२ कर्म-निमित्तम् / अन्यच् च व्यक्त्य्-आदिकं न इष्टम् इत्य् ०८१०३ अनिमित्ते ते स्याताम् / तथा च न जाति-सिद्धिस् तस्या ज्ञान-अभिधानयोः / ०८१०४ निमित्तत्वे न इष्टत्वात् / शक्तिः पाचक-आदि-शब्द-निमित्तं ०८१०५ न कर्म न सामान्यम् इति चेत् ०८१०६ न च शक्तिर् अनन्वयात्
SK
०८१०७ न हि शक्तिर् नाम किंचिद् अन्यद् एव पाचक-आदीनाम् / तस्या एव ०८१०८ पाचक-आद्य्-अर्थक्रिया-उपयोगेन द्रव्यस्य अनुपयोगित्व-प्रसङ्गात् / तस्यां ०८१०९ तस्य उपयोग इति चेत् किम् इदानीं शक्त्या / शक्त्य्-उपयोगाय ०८११० शक्त्य्-अन्तरस्य व्यतिरेकिणो अभ्युपगमे अतिप्रसङ्गाद् द्रव्यम् ०८१११ एव उपयुज्यत इति वाच्यम् / तस्य उपयोगे शक्ताव् अर्थक्रियायाम् ०८११२ एव उपयुज्यत इति किं न इष्यत इति किम् अन्तराले अनर्थिकया शक्त्या / ०८११३ तस्माच् शक्तिर् इति द्रव्यम् एव तत्-कार्यं तच् च न अन्वेति इति / ततो ०८११४ अन्वयी शब्दो न स्यात् / ०८११५ सामान्यं पाचकत्व-आदि यदि प्राग् एव तद् भवेत् / ०८११६ व्यक्तं सत्ता-आदि-वन् नो चेन् न पश्चाद् अविशेषतः
SK
०८११७ अथ अपि पाचकत्वम् इति सामान्यम् एव किंचिद् भवेत् / सत्य् अर्थे ०८११८ तत्-समवायस्य अकादाचित्कत्वात् सत्ता-आदि-वत् / प्राग् एव व्यक्तं ०८११९ स्यात् / यावन्ति हि सामान्यान्य् अर्थे समवाय-धर्माणि तानि सह ०८१२० उत्पादेन अस्य समवयन्ति इति समयः / तद्-व्यतिक्रमे तस्य ०८१२१ पश्चाद् अप्य् अविशेषान् न तत्-समवायः स्यात् / तत्-सम्बन्धि-स्वभाव- ०८१२२ वैगुण्याद् हि स तस्य प्राङ् न आसीत् तत्र एव च अस्य स्वभावे ०८१२३ स्थितस्य पश्चाद् भवति इति दुरन्वयम् एतत् / ०८१२४ क्रिया-उपकार-अपेक्षस्य व्यञ्जकत्वे अविकारिणः / ०८१२५ न अपेक्ष-अतिशये अप्य् अस्य क्षणिकत्वात् क्रिया कुतः
SK
०८१२६ कर्म-उपकारम् अपेक्ष्य पाचकत्वं द्रव्येण व्यज्यत इति चेत् / ०८२०१ स्थिर-स्वभावस्य अनतिशयाद् अविशेष-आधायिनि का अपेक्षा / अतिशये ०८२०२ वा क्षणिकत्वात् कर्मणः प्रतिक्षणं स्वभाव-भूतस्य अन्यान्यस्य ०८२०३ अतिशयस्य उत्पत्तेस् तद् अपि क्षणिकं स्यात् / ततः स्व-उत्पत्ति-स्थान-विनाशिनः ०८२०४ क्रिया कुतः यद्-अपेक्षं व्यञ्जकं स्यात् / कथं ०८२०५ तर्हि इदानीम् अस्त्य् अभिन्ने वस्तुनि ज्ञान-शब्दयोर् अन्वयिनोर् वृत्तिः / ०८२०६ यथा पाचक-आदिषु / ननु तद् एव इदं चिन्त्यते कथं तेष्व् ०८२०७ अपि इति / चिन्तितम् एतद् यथा न तेषु सम्भवति / तत् किम् इदानीम् ०८२०८ अनिमित्ते ते स्याताम् / न अनिमित्ते / किं तर्हि / न बाह्य-तत्त्व-निमित्ते / ०८२०९ यथास्वं वासना-प्रबोधाद् विकल्प-उत्पत्तिः / ततः शब्दाः / ०८२१० न पुनर् विकल्प-अभिधानयोर् वस्तु-सत्ता समाश्रय इत्य् उक्त-प्रायम् ०८२११ एतत् / यथास्वं समय-वासना-वशाद् विरोधि-रूप-समावेशेन ०८२१२ अपरापर-दर्शने अप्य् अन्वयिनोस् तयोर् दर्शनात् / न च तत्र ०८२१३ तन्-निबन्धनः कश्चित् स्वभावो अस्ति परस्पर-विरोधिनोर् युगपद् ०८२१४ एकत्र समावेश-अयोगात् / अनियमेन तर्हि स्यात् / न ह्य् अनिमित्तं ०८२१५ भवत् क्वचिद् भवति क्वचिन् न भवति इति नियमम् ०८२१६ अर्हति / न खलु वै तद् अनिमित्तं वासना-विशेष-निमित्तत्वात् / ०८२१७ बाह्यं तु तथाभूतं दृश्यं न अस्ति इति ब्रूमः / न च असति तस्मिन् ०८२१८ न भवितव्यम् / सुप्त-तैमिरिक-उपलब्धेष्व् अर्थेष्व् अभावेषु ०८२१९ समय-वासना-आरोपित-रूप-विशेषेषु च तथा विकल्प-उत्पत्तेः / न ०८२२० च ते असत्सु उत्पद्यन्त इति सर्वत्र सर्व-आकारः / विभागे न एव तथा-उपलब्धानां ०८२२१ विकल्पनात् / उक्तं च अत्र किंचिद् अस्माभिः प्रकृत्या ०८२२२ अपि केचिद् एक-ज्ञान-कार्याः स्वभाव-भेदाद् इति / अपि च / ०८२२३ तुल्ये भेदे यया जातिः प्रत्यासत्त्या प्रसर्पति / ०८२२४ क्वचिन् न अन्यत्र स एव अस्तु शब्द-ज्ञान-निबन्धनम्
SK
०८२२५ इत्य् अन्तरश्लोकः / ०८२२६ न निवृत्तिं विहाय अस्ति यदि भाव-अन्वयो अपरः / ०८२२७ एकस्य कार्यम् अन्यस्य न स्याद् अत्यन्त-भेदतः
SK
०८२२८ यद्य् एते भावा व्यावृत्तिं मुक्त्वा स्वभावेन केनचिद् अन्वयिना ०८३०१ शून्याः / न एषां बहूनाम् एकं कार्यं स्यात् / यो हि तस्य स्वभावो ०८३०२ जनकः / न हि सो अन्यस्य अस्ति / यो अस्ति स न जनको व्यतिरेकस् य ०८३०३ निःस्वभावत्वात् / यज्-जनकं तद् एव वस्तु तज्-जनकं ०८३०४ च अपरत्र न अस्ति इति न अपरं जनयेत् / स हि तस्य स्वभावो यो जनकः ०८३०५ सो अन्यस्य अपि यदि स्यात् / स तेन स्वभावेन ततो अभिन्नः ०८३०६ स्याद् इति अस्ति स्वभाव-अन्वयः / ०८३०७ यद्य् एकात्मतया अनेकः कार्यस्य एकस्य कारकः / ०८३०८ आत्मा एकत्र अपि सो अस्ति इति व्यर्थाः स्युः सहकारिणः
SK
०८३०९ यद्य् एक-स्वभावत्वाद् अनेक एकस्य कारकः स तेषाम् अभिन्नः ०८३१० स्वभावः / एक-संनिधाने अप्य् अस्ति इति / अवैकल्यात् कारणस्य एको ०८३११ अपि जनकः स्यात् / यस्मात् / ०८३१२ न अपैत्य् अभिन्नं तद्-रूपं विशेषाः खल्व् अपायिनः / ०८३१३ न हि तस्य अभिन्न-स्वभावस्य अर्थ-अन्तरे विशेषो अस्ति / विशेषो अभेद- ०८३१४ हानेः / स च तत्र अप्य् अस्ति इति न एक-स्थिताव् अपि तस्य अपायो अस्ति / ये ०८३१५ विशेषास् तेषां सह-स्थिति-नियम-अभावात् स्याद् अपायः / न च ते ०८३१६ जनका इष्टाः / सहकारिणाम् एक-स्वभावतया जनकत्व-अभ्युपगमात् / ०८३१७ ततो जनकस्य स्थानात् / अस्थायिनश् च अजनकत्वाद् ०८३१८ एक-स्थिताव् अपि कार्य-उत्पत्तिः स्यात् / न च भवति / अतः ०८३१९ एक-अपाये फल-अभावाद् विशेषेभ्यस् तद्-उद्भवः
SK
०८३२० तत्-कार्यम् अनेक-सहकारि-साधारणम् एक-विशेष-अपाये अपि न भवति / ०८३२१ पुनर् अप्य् अविकलेषु सर्वेषु विशेषेषु भवति / न त्व् अविकले ०८३२२ अप्य् अभिन्ने रूपे / कार्यं हि कुतश्चिद् भाव-धर्मि यन् न भवति ०८३२३ तत् तस्य एव वैकल्यात् / न च अभिन्नस्य रूपस्य एक-स्थिताव् ०८३२४ अपि वैकल्यम् अस्ति / अविकले अपि तस्मिन्न् अभवत् तस्य अजनक-आत्मतां ०८३२५ सूचयति / यत्-साकल्य-वैकल्याभ्यां च कार्यं भाव-अभाव-वत् ०८४०१ तत एव उत्पत्तिः / तस्मिन् सति नियमेन भवतस् तद्-अन्यस्माद् उत्पत्ति- ०८४०२ कल्पनायाम् अतिप्रसङ्गात् / तस्माद् विशेषा एव जनका न ०८४०३ सामान्यं / ततस् त एव वस्तु / यस्मात् / ०८४०४ स पारमार्थिको भावो य एव अर्थक्रिया-क्षमः / ०८४०५ इदम् एव हि वस्त्व्-अवस्तुनोर् लक्षणं यद् अर्थक्रिया-योग्यता अयोग्यता ०८४०६ च इति वक्ष्यामः / ०८४०७ स च / ०८४०८ अर्थक्रिया-योग्यो अर्थः ०८४०९ न अन्वेति यो अन्वेति न तस्मात् कार्य-सम्भवः
SK
०८४१० तस्मात् सर्वं सामान्यम् अनर्थक्रिया-योग्यत्वाद् अवस्तु / वस्तु ०८४११ तु विशेष एव तत एव तन्-निष्पत्तेः / स्वभाव-अनन्वयात् तर्ह्य् ०८४१२ एकस्य जनकं रूपम् अन्यस्य न अस्ति इत्य् अजनकः स्यात् / जनकत्वे ०८४१३ वा भेद-अविशेषात् सर्वो जनकः स्यात् / न एतद् अस्ति / यस्मात् / ०८४१४ तेन आत्मना हि भेदे अपि हेतुः कश्चिन् न च अपरः / ०८४१५ स्वभावो अयम् / ०८४१६ एकस्य जनकाद् आत्मनो भिद्यमानाः सर्वे समं जनका न वा ०८४१७ अविशेषे कश्चिद् इति स्याद् एतद् यद्य् एषां न विशेषः सम्भवेत् / ततो भेद- ०८४१८ अपि कुतश्चिद् आत्म-अतिशयात् कश्चिज् जनको न अपरः / स हि ०८४१९ तस्य स्वभावो न अपरस्य / न हि स्वभावा भावानां पर्यनुयोगम् ०८४२० अर्हन्ति किम् अग्निर् दहत्य् उष्णो वा न उदकम् इति / एतावत् तु ०८४२१ स्यात् कुतो अयं स्वभाव इति / निर्हेतुकत्वे अनपेक्षिणो नियम-अभावेन ०८४२२ अतिप्रसङ्गात् / तस्मात् स्वभावो अस्य स्व-हेतोर् इत्य् उच्यते / ०८४२३ तस्य अपि तज्-जनन-आत्मता तद्-अन्यस्माद् इत्य् अनादिर् हेतु-परंपरा ०८५०१ भिन्नानां हि कश्चिद् हेतुर् न अन्यः स्वभावाद् इत्य् अत्र न किंचिद् ०८५०२ बाधकम् / ०८५०३ अभेदे तु स्यातां नाश-उद्भवौ सकृत्
SK
०८५०४ अभेदात् / स्वभावेन एव विश्वस्य स्वात्म-वद् विभाग-उत्पत्ति-स्थिति- ०८५०५ निरोध-आदयो न स्युः तथा उपलक्षणाद् अभेदस्य / इदम् एव हि ०८५०६ भेद-अभेद-लक्षणम् एक-आकारस्य अपि व्यतिरेको अव्यतिरेकश् च / ०८५०७ विरोधिनोर् एकात्मन्य् असम्भवात् / ०८५०८ भेदो अपि तेन न एवं चेद् / ०८५०९ न वै सर्व-आकार-अव्यतिरेकं ब्रूमो येन एवं स्यात् / कश्चिद् अस्य आत्मा ०८५१० भिन्नो न अन्य इति भेदान् न सहोत्पत्त्य्-आदयः / एवं तर्हि ०८५११ य एकस्मिन् विनश्यति / ०८५१२ तिष्ठत्य् आत्मा न तस्य / ०८५१३ भेदः / स्थान-अस्थानयोर् एकात्म-आश्रयत्वे को अन्यो धर्मो भेदक ०८५१४ इति नानात्वम् एव क्वचिन् न स्यात् / सर्व-आकार-विवेक अविवेकिनोर् वा अर्थयोर् ०८५१५ अभ्युपगमान् नाम केवलं न इष्टं स्यान् न वस्त्व् ०८५१६ इत्य् उक्तम् / तद् इमे न एकयोगक्षेमा भावाः भिन्ना एव ०८५१७ अतो न स्यात् सामान्य-भेद-धीः
SK
०८५१८ तद् इदम् अर्थ-अन्तरम् अनायत्तम् अजन्यत्वाद् अस्य इदं सामान्यं ०८५१९ भेदो वा इति व्यपदेशं न अर्हति / अन्यापोहे अप्य् एष तुल्यः प्रसङ्ग ०८५२० इति चेत् / न तुल्यः / यतः / ०८५२१ निवृत्तेर् निःस्वभावत्वान् न स्थान-अस्थान-कल्पना / ०८५२२ न ह्य् अन्यापोहो नाम किंचित् तस्य च स्वभाव-अनुषङ्गिण्यः ०८५२३ स्वभाव-स्थिति-प्रच्युति-कल्पना न कल्पन्ते / ०८५२४ उपप्लवश् च सामान्य-धियस् तेन अप्य् अदूषणा
SK
०८५२५ निर्विषयम् एव खल्व् इदं मिथ्या-ज्ञानं यद् अनेकत्र एक-आकारम् ०८६०१ इति न तद्-विषयस्य अभावात् स्थितिर् अस्थितिर् वा / यत् पुनर् एतद् उक्तं ०८६०२ तज्-जनको हि स तस्य स्वभावः ०८६०३ यत् तस्य जनकं रूपं ततो अन्यो जनकः कथम् / ०८६०४ तत्र न ब्रूमो अन्यस्य तज्-जनकं रूपं न अस्ति इति / किं तर्हि / ०८६०५ यद् एकस्य तज्-जनकं तद् अन्यस्य न इत्य् अन्यो अपि स्वरूपेण एव ०८६०६ जनको न पररूपेण अतत्त्वात् / ते यथास्वं भिन्नाश् च तज्-जनकाश् ०८६०७ च स्वभावेन इति को अत्र विरोधः / एक-रूप-विकलस् तद्-रूपो ०८६०८ न स्यात् न अतत्-कार्यः / तेन एव च तत्-कार्यं कर्तव्यम् इति को ०८६०९ अत्र न्यायः / अपि च / ०८६१० भिन्ना विशेषा जनका / ०८६११ इत्य् उक्तम् / न च ते विशेषास् तेन आत्मना परस्परम् अनुयन्ति / ०८६१२ यद् एकस्य जनकं रूपम् अन्यस्य तन् न अस्ति / न च तावता ०८६१३ अजनकाः / ०८६१४ अप्य् अभेदो अपि तेषु चेत्
SK
०८६१५ स्याद् एतत् सत्यं विशेषा जनकाः न पुनस् तेषां विशिष्टम् एव ०८६१६ रूपं किं त्व् अभिन्नम् अपि तद्-एक-शक्ति-योगाज् जनकाः / ०८६१७ तेन ते अजनकाः प्रोक्ताः / ०८६१८ सत्य् अपि सामान्ये रूपे न तेन ते जनकास् तस्य अनपायाद् एक-स्थिताव् ०८६१९ अपि कार्य-उत्पत्ति-प्रसङ्गाद् इत्य् उक्तं प्राक् / किं च / ०८६२० प्रतिभासो अपि भेदकः / ०८६२१ अनन्य-भाक् / ०८६२२ उत्पत्ति-स्थिति-विनाश-आदि-भेदश् न इत्य् अपि-शब्दात् / यो अयम् अभिन्नान् ०८६२३ सर्व-अर्थान् मन्यते तस्य अयम् अर्थेषु बुद्धि-प्रतिभास-भेदो ०८६२४ विरुद्ध-धर्म-अध्यासश् च न स्यात् / सति वा तस्मिन्न् अभेदे अपि ०८६२५ न कश्चिद् भेदः स्यात् / तथा च अयं प्रविभागो न स्याद् एकात्म-वत् / ०८६२६ तस्माद् अयं भिन्न-प्रतिभास-आदिर् विशेष एव / न च अत्र अपरम् ०८६२७ अभिन्नं प्रतिभासं पश्यामो यद्-बलेन अभेद-प्रतीतिः ०८६२८ स्यात् / अतो विशेष एव / ०८७०१ स एव अर्थस् तस्य व्यावृत्तयो अपरे
SK
०८७०२ तत्-कार्यं कारणं च उक्तं तत् स्वलक्षणम् इष्यते / ०८७०३ तत्-त्याग-आप्ति-फलाः सर्वाः पुरुषाणां प्रवृत्तयः
SK
०८७०४ यद् अर्थक्रियाकारि तद् एव वस्त्व् इत्य् उक्तम् / स च विशेष एव / ०८७०५ यत् पुनर् एतत् सामान्यं नाम तत् तस्य एव अपरस्माद् भेदः / ०८७०६ न हि तस्य अर्थत्वे दृश्यस्य रूप-अनुपलक्षणं युक्तम् / तद्- ०८७०७ उपलक्षण-कृतत्वाद् भेदेष्व् अभिन्न-प्रत्ययस्य / अपि च / ०८७०८ यथा अभेद-अविशेषे अपि न सर्वं सर्व-साधनम् / ०८७०९ तथा भेद-अविशेषे अपि न सर्वं सर्व-साधनम्
SK
०८७१० यद् उक्तम् / कथं तज्-जनक-स्वभावाद् भिन्नो अस्य जनकः ०८७११ स्यात् / जनकत्वे वा अविशेषात् सर्वो जनकः स्याद् इति / उक्तम् ०८७१२ अत्र / यद्य् अविशेषः स्यात् स्याद् एतद् इति / यथा च अस्य स्वयम् ०८७१३ अभेद-वादिनो अभेद-अविशेषे अपि न सर्वः सर्वस्य जनक इति तथा ०८७१४ भेद-अविशेषे अपि भविष्यति / अथवा / ०८७१५ भेदे हि कारकं किंचिद् वस्तु-धर्मतया भवेत् / ०८७१६ अभेदे तु विरुध्येते तस्य एकस्य क्रिया-अक्रिये
SK
०८७१७ भेद-मात्र-अविशेषे अपि स्व-हेतु-प्रत्यय-नियमित-स्वभावत्वात् केचिद् ०८७१८ एव कारकाः स्युः न अन्ये अतत्-स्वभावत्वाद् इत्य् अत्र न एव किंचिद् ०८७१९ विरुद्धम् अस्ति / एकत्वे तु तस्य तत्र एव तथा कारकत्वम् अकारकत्वं ०८७२० च इति व्याहतम् एतत् / ०८७२१ भेदो अप्य् अस्त्य् अक्रियातश् चेन् न कुर्युः सहकारिणः / ०८७२२ न वै सर्व-आकार-अविवेकं ब्रूमो भेदस्य अपि भावात् / तस्मात् ०८७२३ कश्चिद् अकारको अपि इति / तथा अपि कथंचिद् भेदात् सहकारिणो ०८७२४ अकारकाः स्युः / ०८७२५ पर्यायेण अथ कर्तृत्वं स किं तस्य एव वस्तुनः
SK
०८७२६ अथ अपि स्यान् न एव कश्चिद् अकारको अस्ति / सर्वेषां सर्वत्र पर्यायेण ०८७२७ उपयोगात् / शक्तेर् वा विपरिणतायास् तन्-निवेशिन्या रूप-अन्तरेण ०८७२८ उपयोगात् / स एव खल्व् अयं पर्यायो भेद-आश्रय एकस्य कथम् / ०८८०१ परिणामो वा अव्यतिरेकिण्याः / विशेषे वा कथंचिद् एकत्व- ०८८०२ हानिर् इति यत् किंचिद् एतत् / किं च / ०८८०३ अत्यन्त-भेद-अभेदौ च स्यातां तद्वति वस्तुनि / ०८८०४ अन्योन्यं वा तयोर् भेदः सदृश-असदृश-आत्मनोः
SK
०८८०५ भावाश् चेद् अभिन्नेन आत्मना स्वात्मभूतेन भेदिनस् तद्वन्तः ०८८०६ स्युः तद्-अभिन्न-स्वभाव-आत्मत्वाद् भेदस्य अपि कुतः परस्परं ०८८०७ भेदः / अथ न स तस्य समान आत्मा / तथा सति तदात्मना ०८८०८ तेन अपि न युक्तं तथा भवितुम् / तथा अभावे ह्य् अतद्- ०८८०९ धर्मा स्यात् / न ह्य् अयं प्रवृत्ति-निवृत्तिमान् स्वभाव एको युक्तः / ०८८१० न सर्वात्मना अभेद एव / ०८८११ तयोर् अपि भवेद् भेदो यदि / ०८८१२ न हि क्वचिद् अस्य एकान्तिको भेदो अभेदो वा विवेकेन व्यवस्थापनात् / ०८८१३ सामान्यं विशेष इति / ०८८१४ येन आत्मना तयोः / ०८८१५ भेदः सामान्यम् इत्य् एतद् यदि भेदस् तदात्मना
SK
०८८१६ भेद एव / ०८८१७ यदि सामान्य-विशेषयोर् यम् आत्मानम् आश्रित्य सामान्यं विशेष ०८८१८ इति स्थितिस् तेन आत्मना भेदस् तदा भेद एव / यस्मात् तौ हि ०८८१९ तयोः स्वात्मानौ तौ चेद् व्यतिरेकिणौ व्यतिरेक एव सामान्य- ०८८२० विशेषयोः स्वभाव-भेदात् / स्वभावो हि भाव इति / ०८८२१ तथा च स्यान् निःसामान्यविशेषता / ०८८२२ भेद-सामान्ययोर् यद्वद् घट-आदीनां परस्परम्
SK
०८८२३ व्यतिरेके च भेद-सामान्ययोर् न भेदः सामान्यान् न सामान्यं ०८८२४ भेद-वत् सम्बन्ध-अभावात् परस्परं घट-आदि-वद् ०८८२५ इत्य् उक्तम् / अपि च / ०८८२६ यम् आत्मानं पुरस्कृत्य पुरुषो अयं प्रवर्तते / ०८८२७ तत्-साध्य-फल-वाञ्छावान् भेद-अभेदौ तद्-आश्रयौ
SK
०८८२८ चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता / ०८९०१ अस्त्य् एव वस्तु न अन्वेति प्रवृत्त्य्-आदि-प्रसङ्गतः //१८० / ०८९०२ सर्व एव गौर् अश्वाद् भिन्नो अभिन्नो वा इति भेदम् अभेदं वा ०८९०३ पृच्छन् विशेषम् एव भावस्य स्वभाव-आख्यम् अधिकृत्य प्रवर्तते / ०८९०४ स एव हि तथा उच्यते / द्रव्यत्व-आदयस् तु न तत्र शब्द-चोदिताः ०८९०५ यथास्वं पृथग्-अभिधानात् / अर्थस्य तद्-अव्यभिचारात् ०८९०६ ततो गतिः स्यात् / निर्लोठितं च एतद् आचार्येण / तद् अयं गव-आदि-शब्द- ०८९०७ प्रत्युपस्थापितम् अर्थं भिन्नम् अभिन्नं वा पृच्छन्न् ०८९०८ अर्थ-अन्तर-उपक्षेपेण तत्र किम् इति द्वि-मुख-बुद्धिः क्रियते / ०८९०९ तस्माद् यो अस्य आत्मा अनन्य-साधारणो यं पुरस्कृत्य पुरुषो ०८९१० विशिष्ट-अर्थक्रिया-अर्थी प्रवर्तते यथा गोर् वाह-दोह-आदौ न अन्य- ०८९११ सम्भविनो अर्थस्य यथा युद्ध-प्रवेशे स एव स्वभावो ०८९१२ यथास्वं शब्द-चोदितो न द्रव्यत्व-आदि सामान्यम् / तच्-चोदनया ०८९१३ तदा प्राप्तुम् अनभिप्रेतत्वात् / गव-आदि-समावेशात् तद् आत्मभूतानां ०८९१४ च अनन्वयेन तत्र अनुभय-रूपत्वात् / तम् एव च अयं भावं ०८९१५ प्रकारैः पर्यनुयुङ्क्ते / तस्य भेदे द्रव्यत्व-आद्य्-अभेदो ०८९१६ अस्य अबाधक एव / सर्वत्र स्वभावेन भेदस्य अभ्युपगमात् ०८९१७ सामान्यस्य च व्यावृत्ति-लक्षणस्य स्वभाव-भूतस्य च सामान्यस्य ०८९१८ अभेदे अप्य् उक्तम् / स्वात्मना एव अभेदे तु तत्-स्वभाव-निबन्धन- ०८९१९ अर्थक्रिया-अर्थी समं द्वयोर् अपि प्रवर्तेत / एको अपि ०८९२० ताम् अर्थक्रियां तत्-स्वभावत्वाद् एव करोति / तद्-अन्यस्य अपि ०८९२१ तत् तुल्यम् इति सो अपि किं न करोति / ०८९२२ एतेन एव यद् अह्रीकाः किं अप्य् अश्लीलम् आकुलम् / ०८९२३ प्रलपन्ति प्रतिक्षिप्तं तद् अप्य् एकान्त-सम्भवात्
SK
०८९२४ यद् अयम् अह्रीकः स्याद् उष्ट्रो दधि स्यान् न इति किम् अप्य् अश्लीलम् ०८९२५ अयुक्तम् अहेय-उपादेयम् अपरिनिष्ठानाद् आकुलं प्रलपन्ति / तद् ०८९२६ अप्य् अनेन निरस्तं स्वभावेन एकान्त-भेदात् / तद्-अन्वये वा / ०८९२७ सर्वस्य उभय-रूपत्वे तद्-विशेष-निराकृतेः / ०८९२८ चोदितो दधि खादेति किम् उष्ट्रं न अभिधावति
SK
०९००१ तथा ह्य् उष्ट्रो अपि स्याद् दधि न अपि स एव उष्ट्रः ये न अन्यो अपि स्याद् ०९००२ उष्ट्रः / तथा दध्य् अपि स्याद् उष्ट्रः न अपि तद् एव दधि येन अन्यद् ०९००३ अपि स्याद् दधि / तद् अनयोर् एकस्य अपि कस्यचित् तद्-रूप-अभावस्य ०९००४ अभावात् स्वरूपस्य वा अतद्-भाविनः स्व-नियतस्य अभावात् ०९००५ न कश्चिद् विशेष इति / दधि खादेति चोदित उष्ट्रम् अपि खादेत् / ०९००६ अथ अस्त्य् अतिशयः कश्चिद् येन भेदेन वर्तते / ०९००७ स एव दधि सो अन्यत्र न अस्ति इत्य् अनुभयं परम्
SK
०९००८ अथ अनयोः कश्चिद् अतिशयो अस्ति येन अयं तथा चोदितः क्षीर-विकार ०९००९ एव प्रवर्तते न अन्यत्र / स एव अतिशयो अर्थक्रिया-अर्थि-प्रवृत्ति-विषयो ०९०१० दधि / तत्-फल-उपादान-भाव-लक्षित-स्वभावं हि ०९०११ वस्तु दधि इति / स च तादृशः स्वभावो अन्यत्र न अस्ति इति / प्रवृत्त्य्-अभावाद् ०९०१२ अर्थिनः / तस्मात् तन् न उभय-रूपम् इत्य् एकान्त-वादः / ०९०१३ अपि च / ०९०१४ सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धी-ध्वनी / ०९०१५ भेद-संहार-वादस्य तद्-अभावाद् असम्भवः
SK
०९०१६ सो अयम् अह्रीकः क्वचिद् अप्य् एकम् आकारं प्रतिनियतम् अपश्यन् ०९०१७ विभाग-अभावाद् भावानां कथं असंसृष्ट-अन्य-आकारवत्या बुद्ध्य्- ०९०१८ आधिमुच्येत अर्थान् अभिलपेद् वा / ततो भेद-अग्रहात् तत्-संहार- ०९०१९ वादो न स्यात् स्याद् उष्ट्रो दधि स्यान् न इति / अथ पुनर् असंसृष्टाव् ०९०२० आकारौ प्रतिपद्य संहरेत् / एक-रूप-संसर्गिण्याः बुद्धेः ०९०२१ क्वचित् प्रतिनियमात् तत्-प्रतिभास-भेद-कृत एव तयो रूपयोः ०९०२२ स्वभाव-भेदो अपि स्यात् / एक-अनेक-व्यवस्थितेः प्रतिभास-विषयत्वात् / ०९०२३ तथा च न एकस् तद्-उभय-रूपः स्याद् इति मिथ्या-वाद ०९०२४ एषः / स्थितम् एतत् न भावानां कश्चित् स्वभाव-अन्वयो अस्ति ०९०२५ भेद-लक्षणम् एव तु सामान्यम् / अथ च प्रकृत्या केचिद् एक-ज्ञान- ०९०२६ आदि-फलाः केचिन् न इति / भवतु नाम भावानां स्वभाव- ०९१०१ भेदः सामान्यम् / येषां तु निरुपाख्यानां स्वभाव एव न अस्ति ०९१०२ तत्र कथं स्वभाव-भेद-विषयाः शब्दाः / तेष्व् अवश्यं ०९१०३ शब्द-प्रवृत्त्या भाव्यम् / कथंचिद् अव्यवस्थापितेषु विधि-प्रतिषेध- ०९१०४ अयोगात् / तथा च सर्वत्र अयम् अन्वय-व्यतिरेक-आश्रयो व्यवहारो ०९१०५ न स्यात् उष्ण-स्वभावो अग्निर् न अनुष्ण इत्य् अपि / स्वभाव-अन्तरस्य ०९१०६ असतः कथंचिद् अव्यवस्थापनात् / सर्वथा अप्रतिपत्तेर् ०९१०७ अग्नि-स्वभावस्य अप्रतिपत्तिर् इति व्यामूढं जगत् स्यात् / स्याद् एतत् ०९१०८ न तत्र कस्यचिद् असतो निषेधः अनुष्णं सद् एव अर्थ-अन्तरं ०९१०९ निषिध्यत इति / कथम् इदानीं सद् असन् नाम / न ब्रूमः सर्वत्र ०९११० असत् तत्र न अस्ति इति देश-काल-धर्म-निषेध एव सर्व-भावेषु ०९१११ क्रियते न धर्मिणः तन्-निषेधे तद्-विषय-शब्द-प्रवृत्त्य्-अभावात् ०९११२ अनिर्दिष्ट-विषयस्य नञो अप्रयोगात् / सो अपि तर्हि देश-आदि- ०९११३ प्रतिषेधः कथम् / यस्मान् न तत्र अपि देश-आदीनां प्रतिषेधो ०९११४ न अप्य् अर्थस्य / सम्बन्धो निषेध्यत इति चेत् / ननु तन्-निषेधे ०९११५ अपि तुल्यो दोषो निषेधाद् असति शब्द-अप्रवृत्तिर् इत्य् आदि / असतो वा अस्य ०९११६ निषेधे तद्वद् धर्मिणो अपि निषेधः / न वै सम्बन्धस्य ०९११७ न अस्ति इति निषेधः / किं तर्हि / न इह घटो न इदानीं न एवम् इत्य् उक्तौ ०९११८ न अनेन सम्बन्धो अस्ति न एतद् धर्मा वा इति प्रतीतिः / तथा ०९११९ च सम्बन्धो निषिद्धो भवति इति / तथा अपि कथं निषिद्धो यावद् ०९१२० अस्य सम्बन्धो धर्मो वा न अस्ति इति मतिर् न भवति / न च अस्याः ०९१२१ कथंचिद् भावे सम्भवो अभावेषु तथा अभावात् / तस्मात् सम्बन्ध- ०९१२२ अभाव-प्रतीतेर् न अयम् इह इत्य् आद्या प्रतीतिः / स तद्-अभावे ०९२०१ न स्यात् / प्रतीतौ वा तद्-अभावस्य / यथा प्रतीति-मतस् तत्-प्रभवाः ०९२०२ शब्दाः केन निवार्यन्ते / स एव हि शब्दानां न विषयो ०९२०३ यो न वितर्काणाम् / ते चेत् प्रवृत्ताः को वचनस्य निषेद्धा / ०९२०४ न ह्य् अवाच्यम् अर्थं बुद्धयः समीहन्ते / सम्बन्धस्य ०९२०५ तु स्वरूपेण अनभिधानम् उक्तम् / अभिधाने सम्बन्धित्वेन ०९२०६ बुद्धाव् उपस्थानात् / यथा-अभिप्रायम् अप्रतीतिः / तद् अयं प्रतीयमानो ०९२०७ अपि सम्बन्धि-रूप एव इति स्वरूपेण न अभिधीयते / तस्मान् ०९२०८ न अभाव-वत् सम्बन्धे अपि प्रसङ्गः / अपि च / अयम् ०९२०९ अभावम् अभिधेयं ब्रुवाणं प्रति प्रतिविदधद् अब्रुवाणः ०९२१० कथं प्रतिविदध्यात् / वचने वा अस्य कथम् अभावो अनुक्तः / ०९२११ अथ अभावम् एव न इच्छेत् / तेन अवचनम् / तद् एव इदानीं कथम् ०९२१२ अभावो न अस्ति इति / यत् पुनर् एतद् अर्थ-निषेधे अनर्थक-शब्द-अप्रयोगान् ०९२१३ निर्विषयस्य नञो अप्रयोग इत्य् अत्र उत्तरं वक्ष्यते / तस्मात् ०९२१४ सन्त्य् अभावेषु शब्दाः / तेषु कथं स्वभाव-भेद इति / ०९२१५ तत्र अपि / ०९२१६ रूप-अभावाद् अभावस्य शब्दा रूप-अभिधायिनः / ०९२१७ न आशङ्क्या एव सिद्धास् ते व्यवच्छेदस्य वाचकाः
SK
०९२१८ वस्तु-वृत्तीनां शब्दानां किं रूपम् अभिधेयम् आहोस्विद् भेद ०९२१९ इति शङ्का स्यात् / अभावस् तु विवेक-लक्षण एव निमित्तीकर्तव्यस्य ०९२२० कस्यचिद् रूपस्य अभावात् तद्-भावे अभाव-अयोगात् / तद्-भाव-लक्षणत्वाद् ०९२२१ भावस्य / तस्माद् अयम् एव स मुख्यो विवेकः / ०९२२२ तस्य तथा अभाव-ख्यापिनः शब्दाः किं विवेक-विषया इत्य् अस्थानम् ०९२२३ एव एतद् आशङ्कायाः / तस्मात् सिद्धम् एतत् सर्वे शब्दा विवेक-विषया ०९३०१ विकल्पाश् च / त एते एक-वस्तु-प्रतिशरणा अपि यथास्वम् ०९३०२ अवधि-भेद-उपकल्पितैर् भेदैर् भिन्नेष्व् इव प्रतिभात्सु बुद्धौ ०९३०३ विवेकेषु उपलयनाद् भिन्न-विषया एव / तेन स्वभावस्य एव साध्यसाधनभावे ०९३०४ अपि न साध्य-साधन-संसर्गः / तौ न प्रतिज्ञार्थैकदेशो ०९३०५ हेतुर् इति / स च अयं हेतुत्वेन अपदिश्यमानः / ०९३०६ उपाधि-भेद-अपेक्षो वा स्वभावः केवलो अथवा / ०९३०७ उच्यते साध्य-सिद्ध्य्-अर्थं नाशे कार्यत्व-सत्त्व-वत्
SK
०९३०८ अपेक्षित-पर-व्यापारो हि स्वभाव-निष्पत्तौ भावः कृतकः / ०९३०९ तेन इयं कृतक-श्रुतिः स्वभाव-अभिधायिन्य् अपि पर-उपाधिम् एनम् ०९३१० आक्षिपति / एतेन प्रत्यय-भेद-भेदित्व-आदयो व्याख्याताः / एवम् ०९३११ उपाधि-भेद-अपेक्षः क्वचित् स्वभावो हेतुर् उच्यते क्वचिद् अनपेक्षः ०९३१२ सामान्येन यथा अनित्यत्व एव सत्त्वम् क्वचित् स्वभाव-भूत- ०९३१३ धर्म-विशेष-परिग्रहेण यथा तत्र एव उत्पत्तिः / अनया ०९३१४ दिशा अन्ये अपि स्वभाव-हेतु-प्रविभागा द्रष्टव्याः / ०९३१५ सत्ता-स्वभावो हेतुश् चेन् न सत्ता साध्यते कथम् / ०९३१६ अनन्वयो हि भेदानां व्याहतो हेतु-साध्ययोः
SK
०९३१७ यदि सत्त्वम् अनित्यत्वे अन्यत्र वा हेतुः स्यात् साध्यम् अपि कस्मात् ०९३१८ न इष्यते / तत् किल एवं प्रसाध्यमानं विशेषीभवति / ०९३१९ न च विशेषः साधायितुं शक्यते अनन्वयात् / यथा आह प्रमाण- ०९३२० विशेषया अज्ञानाद् इति / सो अयं विशेषो न साध्य एव व्याहन्यते / ०९३२१ किं तर्हि / हेताव् अपि तुल्य-दोषत्वात् / न हि हेतुर् अनन्वयः सिद्धेर् ०९३२२ अङ्गं ततः संशयात् / न एष दोषः / यस्मात् / ०९४०१ भाव-उपादान-मात्रे तु साध्ये सामान्य-धर्मिणि / ०९४०२ न कश्चिद् अर्थः सिद्धः स्याद् अनिषिद्धं च तादृशम्
SK
०९४०३ न सर्वथा सत्ता-साधने विशेषः साधितो भवति / भाव-मात्र- ०९४०४ विशेषणो अस्ति कश्चिद् धर्मी इति प्रसाधयतो अनिर्दिष्ट-स्वभाव-विशेषस्य ०९४०५ कस्यचित् सत्ता-मात्रे विरोध-अभावात् न इह सत्ता-साधन- ०९४०६ प्रतिषेधः किं तु स तथा अस्ति कश्चिद् इति कंचन अस्य भेदम् ०९४०७ अपरामृशन् ब्रुवाणः कं स्वार्थं पुष्णाति / तस्माद् अनेन उपात्त- ०९४०८ भेद एव साध्यः / ०९४०९ उपात्त-भेदे साध्ये अस्मिन् भवद् हेतुर् अनन्वयः / ०९४१० सत्तायां तेन साध्यायां विशेषः साधितो भवेत्
SK
०९४११ स हि धर्मी प्रधान-लक्षण एको नित्यः सुख-आद्य्-आत्मको अन्यो ०९४१२ वा इति यथाकथंचिद् अपि विशेषितस् तत्-स्वभावः प्रसाधितो भवति / ०९४१३ स च तथा न अन्वेति / यद् अपि सत्ता-मात्रम् अन्वेति न तेन ०९४१४ सिद्धेन किंचित् / नन्व् एवम् अग्न्य्-आदिष्व् अपि प्रसङ्गः / तत्र अपि ०९४१५ न अग्नि-सत्ता-मात्रे कश्चिद् विवादः / विशिष्ट-आधार-विशेषस्य त्व् अभिमतस्य ०९४१६ अनन्वयाद् असिद्धिः / न वै स आधारस् तं विशेषीकरोति / ०९४१७ तद्-अयोगव्यवच्छेदेन विशेषणाद् इत्य् उक्तं वक्ष्यते च / तस्मात् ०९४१८ तत्र सामान्यम् एव साध्यते तद्-अयोगव्यवच्छेदेन / ०९४१९ न तथा इह अपि क्वचित् सत्तायाः साधनम् / प्रधान-आदि-शब्द-वाच्यस्य ०९४२० एव अर्थस्य क्वचिद् अभावान् निर्विशेषणा एव सा / कथम् अभावो ०९४२१ ज्ञेय-अभिधेय-प्रमेयत्वैः सो अपि सिद्ध एव / तत् किम् इदानीं ०९४२२ ज्ञेयम् अस्ति इति सिद्धिर् अस्तु / तथा अपि किं सिद्धं स्यात् / अन्यत्र ०९४२३ तु तद् एव अग्नि-सामान्यं तत्र असिद्धम् इति साध्यते / ननु तत्र अपि ०९४२४ तद्-अयोग-विरहिणा सामान्येन अन्वयो न सिद्ध एव / न वै कश्चित् ०९४२५ तथा अभूतेन अन्वयं करोति / प्रतिपादयता हि परं धूमो ०९४२६ अग्नि-नान्तरीयको दर्शनीयो यत्र धूमस् तत्र अग्निर् इति / स तथा अग्नि- ०९४२७ मात्रेण व्याप्तः सिद्धो यत्र एव स्वयं दृश्यते तत्र एव अग्नि- ०९५०१ बुद्धिं जनयति / तत्र च साध्य-निर्देशेन न किंचित् / तत्र ०९५०२ दर्शन-सम्बन्ध-आख्यान-मात्राद् इष्टसिद्धेः / तद्-अनिर्देशे च ०९५०३ कथं तद्-विशिष्टेन अन्वयः / तद् अयम् अग्निना अविनाभावी ०९५०४ सिद्धः / अर्थाद् एव अग्नेस् तत्-प्रदेश-अयोगं व्यवच्छिनत्ति इति स ०९५०५ तथा साध्य उच्यते / न पुनस् तथा अस्य उपन्यास-पूर्वको अन्वयः ०९५०६ साध्य-उक्तेर् इह अनङ्गत्वात् / तत्-पूर्वकत्वे वा कः प्रतिज्ञां ०९५०७ साधनाद् अपाकरोति / तथा च आह / ०९५०८ लिङ्गस्य अव्यभिचारस् तु धर्मेण अन्यत्र दर्श्यते / ०९५०९ तत्र प्रसिद्धं तद्-युक्तं धर्मिणं गमयिष्यति / ०९५१० तस्मान् न अग्न्य्-आदि-साधन-वत् सत्ता-साधनम् अप्य् अनवद्यम् इति / ०९५११ अपरामृष्ट-तद्-भेदे वस्तु-मात्रे तु साधने / ०९५१२ तन्-मात्र-व्यापिनः साध्यस्य अन्वयो न विहन्यते
SK
०९५१३ साधने पुनः सत्त्वे स्वभाव-विशेष-अपरिग्रहेण वस्तु-मात्र- ०९५१४ व्यापिनि साध्य-धर्मे न अन्वय-व्याघातः / न हि तत्र अवश्यं ०९५१५ विशेष-परिग्रहः कार्यः / सन्-मात्र-आश्रये अपि साधन-सामर्थ्यात् / ०९५१६ न साध्यत्वे / वैफल्यात् / अपि च / ०९५१७ न असिद्धे भाव-धर्मो अस्ति व्यभिचार्य्-उभय-आश्रयः / ०९५१८ धर्मो विरुद्धो अभावस्य सा सत्ता साध्यते कथम्
SK
०९५१९ सत्तायां हि साध्यायां / सर्वस् तद्-हेतुर् न त्रयीं दोष-जातिम् ०९५२० अतिपतति / असिद्धिं व्यभिचारं विरोधं च / तत्र यदि भाव- ०९६०१ धर्मो हेतुर् उच्यते / स कथम् असिद्ध-सत्ताके स्यात् / यो हि ०९६०२ भाव-धर्मं तत्र इच्छति / स कथं भावं न इच्छेत् / स्वभाव ०९६०३ एव हि कयाचिद् अपेक्षया धर्म इति व्यतिरेकी इव धर्मिणो ०९६०४ निर्दिश्यते / न हि धर्म-धर्मि-वाचिनोः शब्दयोर् वाच्ये कश्चिद् ०९६०५ विशेषो अस्ति इत्य् उक्तम् एतत् / अथ पुनर् उभय-धर्मं ब्रूयात् / ०९६०६ अनाश्रित-वस्तुनो अपर्युदासेन व्यतिरेक-मात्रस्य अभावे अप्य् अविरोधात् / ०९६०७ यथा न भवति मूर्त इति अमूर्तत्वं निरुपाख्ये अपि ०९६०८ स्यात् / निरुपाख्यस्य अभावाद् न प्रतिषेध-विषयता इति चेत् / तत् किम् ०९६०९ इदानीं विधि-विषयो अस्तु / तद् अपि न इति चेत् / कथम् इदानीं न ०९६१० प्रतिषेध-विषयः / विधि-निवृत्ति-रूपत्वात् प्रतिषेधस्य / तद् ०९६११ एतद् व्यवच्छेद-मात्रं द्वयोर् अपि सम्भवद् विपक्ष-प्रचार- ०९६१२ शङ्का-व्यवच्छेदेन लभ्यं गमकत्वं कथम् आत्मसात् ०९६१३ कुर्यात् / स च स्वयं स्व-वाच-उभय-धर्मतां ब्रुवाणः सतो ०९६१४ अन्यत्र अप्य् अस्य वृत्तिं भाषते सत्तायां च अव्यभिचारम् इति ०९६१५ कथं न उन्मत्तः / अभाव-धर्मं तु भाव-मात्र-व्यापिनो ०९६१६ अर्थस्य व्यवच्छेदं हेतुं सत्तायां वदतो अस्य विरुद्धो ०९६१७ हेतुः स्यात् / तस्य भावे क्वचिद् असम्भवात् अभावे च भाव- ०९६१८ व्यवच्छेदस्य भावात् / तद् अयं त्रिप्रकारो अपि धर्मः सत्ता- ०९६१९ साधने न हेतु-लक्षण-भाक् न च अन्या गतिर् अस्ति / तस्मान् न ०९६२० सत्ता साध्यते / साधनत्वे पुनर् अस्याः सामान्येन तन्-मात्र-व्यापिनि ०९६२१ वस्तु-धर्मे सिद्ध-सत्ताके धर्मिणि न असिद्धिः / तेन च ०९६२२ साध्य-धर्मेण व्याप्तिर् यदि कथंचिन् निश्चीयते न विरोध- ०९६२३ व्यभिचाराव् इति न अयं प्रसङ्गः / अनिश्चितायां तु व्याप्तौ धर्मि- ०९६२४ समाश्रये वा तत्-स्वभावतया गमको न कश्चिद् गमकः / ०९६२५ अत एव स्व-धर्मेण व्याप्तः ०९६२६ सिद्धः स्वभावो गमको / ०९७०१ वाच्यः / न हि प्रकाशतया प्रकाशयन् प्रदीपस् तद्-रूप-अप्रतिपत्तौ ०९७०२ स्वाम् अर्थक्रियां करोति / ०९७०३ व्यापकस् तस्य निश्चितः / ०९७०४ गम्यः स्वभावस् / ०९७०५ तद्-धर्म-निश्चयाद् एव निश्चितो व्यापकत्वेन तस्य धर्मिणो ०९७०६ धर्मो गम्यः / ०९७०७ तस्य अयं निवृत्तौ वा निवर्तकः
SK
०९७०८ तस्य व्याप्यस्य धर्मस्य अयं निवर्तको व्यापको धर्मः ०९७०९ स्वयं निर्वर्तमानः / एवं ह्य् अयम् अस्य व्यापकः सिद्धो ०९७१० भवति यद्य् अस्य अभावे न भवेत् / तद् अनेन द्विविधस्य अपि ०९७११ साधन-प्रयोगस्य गमकता-लक्षणम् उक्तं वेदितव्यम् / द्विविधो ०९७१२ हि प्रयोगः साधर्म्येण वैधर्म्येण च / यथा आहुर् ०९७१३ एके अन्वयी व्यतिरेकी च इति / न अनयोर् वस्तुतः कश्चिद् भेदो अन्यत्र ०९७१४ प्रयोग-भेदात् / साधर्म्येण अपि हि प्रयोगे अर्थाद् वैधर्म्य- ०९७१५ गतिः असति तस्मिन् साध्येन हेतोर् अन्वय-अभावात् / तथा ०९७१६ वैधर्म्ये अप्य् अन्वय-गतिः असति तस्मिन् साध्य-अभावे हेत्व्-अभावस्य ०९७१७ सन्देहाद् इति विस्तरेण वक्ष्यामः / ०९७१८ अनित्यत्वे यथा कार्यम् अकार्यं वा अविनाशिनि / ०९७१९ अनेन उदाहरणम् अनयोर् दर्शयति / तत्र अन्वयी यत् किंचित् कृतकं ०९७२० तत् सर्वम् अनित्यम् यथा घट-आदयः शब्दश् च कृतक ०९७२१ इति कृतकत्वस्य अप्य् अनित्यत्वेन व्याप्तिं प्रदर्श्य शब्दस् य ०९७२२ कृतकत्वे कथिते सामर्थ्याद् एव अनित्यः शब्द इति / तस्मान् ०९७२३ न अवश्यम् इह पक्ष-निर्देश इति / अयम् अन्वयिनः प्रयोगः / ०९७२४ व्यतिरेके अपि न अनित्यत्व-अभावे कृतकत्वं भवति शब्दश् च ०९७२५ कृतक इति / सिद्ध-तत्-स्वभावतया तद्-अभावे न भवतः / ०९७२६ कृतकत्वस्य शब्दे च भाव-ख्यातौ तदात्मनः सतो भाव इति ०९७२७ सामर्थ्यात् सिद्धेः पूर्ववान् न प्रतिज्ञा-वचनम् / अन्वयस् त्व् ०९८०१ अर्थापत्त्या सिद्धः / न ह्य् अतदात्म-नियतस्य तन्-निवृत्तौ ०९८०२ निवृत्तिः / तस्मात् तन्-नियमं प्रसाध्य निवृत्तिर् वक्तव्या / ०९८०३ सा चेत् सिध्यति तदात्म-नियमम् अर्थात् सूचयति इति सिद्धो अन्वयः / ०९८०४ कथम् इदानीं कृतको अवश्यम् अनित्य इति प्रत्येतव्यो ०९८०५ येन एवम् उच्यते / यस्मात् / ०९८०६ अहेतुत्वाद् विनाशस्य स्वभावाद् अनुबन्धिता
SK
०९८०७ न हि भावा विनश्यन्तस् तद्-भावे हेतुम् अपेक्षन्ते / स्व-हेतोर् ०९८०८ एव विनश्वराणां भावात् / तस्माद् यः कश्चित् कृतकः स प्रकृत्या ०९८०९ एव नश्वरः / तथा हि / ०९८१० सापेक्षाणां हि भावानां न अवश्यंभाविता ईक्ष्यते / ०९८११ निरपेक्षो भावो विनाशे / सापेक्षत्वे हि घट-आदीनां केषांचिन् ०९८१२ नित्यता अपि स्यात् / येन ०९८१३ बाहुल्ये अपि हि तद्-हेतोर् भवेत् क्वचिद् असम्भवः
SK
०९८१४ यद्य् अपि बहुलं विनाश-कारणानि सन्ति तेषाम् अपि स्व-प्रत्यय- ०९८१५ अधीन-संनिधित्वान् न अवश्यं संनिधानम् इति कश्चिन् न विनश्येद् ०९८१६ अपि / न ह्य् अवश्यं हेतवः फलवन्तो वैकल्य-प्रतिबन्ध- ०९८१७ सम्भवात् / ०९८१८ एतेन व्यभिचारित्वम् उक्तं कार्य-अव्यवस्थितेः / ०९८१९ सर्वेषां नाश-हेतूनां हेतुमन्-नाश-वादिनाम्
SK
०९८२० इत्य् अन्तरश्लोकः / तद् अयं भावो अनपेक्षस् तद्-भावं प्रति ०९८२१ तद्-भाव-नियतो असम्भवत्-प्रतिबन्धा इव कारण-सामग्री सकला ०९८२२ कार्य-उत्पादने / नन्व् अनपेक्षाणाम् अपि केषांचित् क्वचिन् न अवश्यं ०९८२३ तद्-भावो भूमि-बीज-उदक-सामग्र्याम् अपि कदाचिद् अङ्कुर-अनुत्पत्तेः / ०९८२४ न तत्र अपि सन्तानपरिणाम-अपेक्षत्वात् / न एवं भावस्य काचिद् ०९८२५ अपेक्षा / तत्र अप्य् अन्त्या कारण-सामग्री या अव्यवहिता कार्य-उत्पत्तेः ०९८२६ सा फलवत्य् एव / स एव च तत्र अङ्कुर-हेतुः / अन्यस् तु पूर्वः परिणामस् ०९९०१ तद्-अर्थ एव / न च तां तत्र कश्चित् प्रतिबन्धुं समर्थः / ०९९०२ एकत्र भावे विकार-अनुत्पत्तेः / उत्पत्तौ वा एकत्व-हानेः / ०९९०३ तदात्मनश् च अप्रच्युतस्य तद्-उत्पादनं प्रति वैगुण्यं कारणस्य ०९९०४ अकुर्वाणस्य प्रतिबन्ध-हेतोर् अप्रतिबन्धकत्वात् / ननु ०९९०५ यव-बीज-आदयो अपि शाल्य्-अङ्कुरे जन्ये न सापेक्षाः / तदुत्पत्ति-प्रत्ययानां ०९९०६ कदाचित् तत्र अपि संनिधानात् / कथं न सापेक्षाः / ०९९०७ यावता स एव एषां स्वभावो न अस्ति यस् तद्-उत्पादनः शालि-बीजस्य ०९९०८ इति तत्-स्वभाव-अपेक्षाः / एवं तर्हि कृतकानाम् अपि केषांचित् ०९९०९ सतां वा स एव स्वभावो न अस्ति यो विनश्वरः / तस्मात् तत्-स्वभाव-अपेक्षत्वान् ०९९१० न विनश्वराः / शालि-बीज-आदीनाम् अपि स स्वभावः ०९९११ स्व-हेतोर् इति यो न तद्-हेतुः सो अतत्-स्वभावः स्यात् / नियत-शक्तिश् ०९९१२ च स हेतुः स्वरूपेण प्रतीत एव / न च स्वभाव-नियमो ०९९१३ अर्थानाम् आकस्मिको युक्तः / अनपेक्षस्य देश-काल-द्रव्य-नियम- ०९९१४ अयोगात् तथा अत्र अपि नियम-हेतुर् वक्तव्यो यत इमे केचिन् ०९९१५ नश्वर-आत्मनो जाता न च अत्र कश्चिन् नियामकः स्वभावस्य अस्ति ०९९१६ सर्व-जन्मिनां विनाश-सिद्धेः / जन्मि-स्वभावो नाशी इति चेत् / न वै ०९९१७ जन्म नाशि-स्वभावस्य हेतुः न च अहेतोः स्वभाव-नियमः / ०९९१८ तस्मान् न अत्र कश्चिद् हेतोः स्वभाव-प्रविभागः / तद्-अभावात् ०९९१९ फलस्य अपि न अस्ति इत्य् असमानम् / सा इयं निरपेक्षता विनाशस्य ०९९२० क्वचित् कदाचिच् च भाव-विरोधिनी तद्-अभावं स्वभावेन ०९९२१ साधयति / यो हि स्वभावो निरपेक्षः स यदि कदाचिद् ०९९२२ भवेत् क्वचिद् वा तत्-काल-द्रव्य-अपेक्ष इति निरपेक्ष एव न ०९९२३ स्याद् इत्य् उक्तम् / स तर्हि नश्वरः स्वभावो निरपेक्ष इति अहेतुकः ०९९२४ स्यात् / न अहेतुकः सत्ता-हेतोर् एव भावात् तथा-उत्पत्तेः / सतो ०९९२५ हि भवतस् तादृशस्य एव भावात् / न अवश्यं सतः कुतश्चिद् ०९९२६ भाव इति चेत् / आकस्मिकी तर्हि सत्ता इति / न इयं कस्यचित् कदाचित् ०९९२७ क्वचित् विरमेत् / तद् हि किंचिद् उपलीयेत न वा यस्य यत्र किंचित् ०९९२८ प्रतिबद्धम् अप्रतिबद्धं वा / सा इयं सत्ता अप्रतिबन्धिनी चेत् / १०००१ नियमवती न स्यात् / तस्मान् न इयम् आकस्मिकी क्वचित् / कथं १०००२ तर्हि इदानीम् अहेतुको विनाश उक्तः / जातस्य तद्-भावे अन्य-अनपेक्षणात् / १०००३ उक्तं च अत्र न विनाशो नाम अन्य एव कश्चिद् भावात् स्वभाव १०००४ एव हि नाशः स एव ह्य् एक-क्षण-स्थायी जात इति / तम् अस्य १०००५ मन्दाः स्वभावम् ऊर्ध्वं व्यवस्यन्ति न प्राक् दर्शने अपि १०००६ पाटव-अभावाद् इति तद्-वशेन पश्चाद् व्यवस्थाप्यते विकार-दर्शनेन १०००७ इव विषम् अज्ञैः / तद् अयं सत्ता-व्यतिरेकेण न अन्यत् किंचिद् १०००८ विनाशो अपेक्षत इति तद्-व्यापी / कथं पुनर् एतद् गम्यते १०००९ निरपेक्षो विनाश इति / १००१० असामर्थ्याच् च तद्-हेतोर् / १००११ अभाव-कारिणः क्रिया-प्रतिषेधाच् च इति च-शब्दात् / कथम् असामर्थ्यम् / १००१२ सिद्धे हि भावे कारको न तं करोति / न अप्य् अन्य-क्रियायां १००१३ तस्य किंचिद् इति / तद्-अतद्-रूप-अकरणाच् च अकिंचित्करो न अपेक्ष्यत १००१४ इति / कथं क्रिया-प्रतिषेधो विनाश इति हि ते भाव-अभावं मन्यन्ते / १००१५ तद् अयं विनाश-हेतुर् अभावं करोति इति प्राप्तम् / तत्र १००१६ यद्य् अभावो नाम कश्चित् कार्यः स्यात् स्वभावः स एव भाव इति १००१७ न अभावः स्यात् / तस्माद् अभावं करोति इति भावं न करोति इति १००१८ क्रिया-प्रतिषेधो अस्य कृतः स्यात् / तथा अप्य् अयम् अकिंचित्करः १००१९ किम् इति अपेक्ष्यत इति सिद्धा विनाशं प्रत्य् अनपेक्षया भावस्य / १००२० तस्मात् १००२१ भवत्य् एष स्वभावतः / १००२२ यत्र नाम भवत्य् अस्माद् अन्यत्र अपि स्वभावतः
SK
१००२३ सो अयं क्वचिद् भवन् दृष्टो अनपेक्षत्वात् स्वभावत एव भवति / १००२४ तथा अन्यत्र अपि स्वभाव-भावी विशेष-अभावाद् इति / १००२५ या काचिद् भाव-विषया द्विधा एव अनुमितिस् ततः / १००२६ स्व-साध्ये कार्य-भावाभ्यां सम्बन्ध-नियमात् तयोः
SK
१००२८ तस्मात् द्विप्रकारा एव वस्तु-विषय-अनुमितिः कार्य-लिङ्गा स्वभाव- १०१०१ लिङ्गा च / यथास्वं व्यापिनि साध्ये तयोर् एव प्रतिबन्धात् लिङ्गयोर् १०१०२ लिङ्गिनि / यथोक्तं प्राक् / १०१०३ प्रवृत्तेर् बुद्धि-पूर्वत्वात् तद्-भाव-अनुपलम्भने / १०१०४ प्रवर्तितव्यं न इत्य् उक्त-अनुपलब्धेः प्रमाणता
SK
१०१०५ तृतीयस् तु हेतुर् अनुपलब्धिर् अविशेषेण क्वचिद् अर्थे गमक इत्य् १०१०६ उच्यते / सन्-निश्चय-शब्द-व्यवहार-प्रतिषेधे हि सर्वा एव अनुपलब्धिर् १०१०७ लिङ्गम् / सन्-निश्चयाद् हि शब्द-व्यवहाराः प्रवर्तन्ते / १०१०८ ते प्रवृत्तिर् इत्य् उक्ताः / तथा ह्य् अनुपलब्धिर् एव असत्त्वम् १०१०९ इत्य् उक्तम् प्राक् / तच् च प्रतिपत्तृ-वशान् न वस्तु-वशात् / तावद् हि १०११० स भावो अस्य न अस्ति यावद् अत्र अप्रतिपत्तिः / सता अपि ते न तद्-अर्थ-अकरणात् / १०१११ वस्तुतस् त्व् अनुपलभ्यमानो न सन् न असन् / सताम् १०११२ अपि स्वभाव-आदि-विप्रकर्षात् कदाचिद् अनुपलम्भात् तस्य असत्स्व् अपि १०११३ तुल्यत्वात् / तद् एतत् प्रतिपत्तुः प्रमाण-अभावान् निवृत्तं सत्त्वम् १०११४ अनुपलब्धि-लक्षणं स्व-निमित्तान् शब्द-व्यवहारान् निवर्तयति / १०११५ तेन या अपि इयम् अनुपलब्धिर् उपलब्धि-लक्षण-प्राप्तानां १०११६ वस्तुतो अप्य् असत्त्व-रूपा अप्रवृत्ति-योग्यत्वात् / तस्या अप्य् एतत् तुल्यं १०११७ प्रामाण्यम् अत्र विषये / असन्-निश्चय-फला अपि सा / असत्तायाम् अपि इयं १०११८ प्रमाणम् एव / न ह्य् अस्ति सम्भवो यद् उपलब्धि-योग्यः १०११९ सकलेष्व् अन्येषु कारणेषु सन् न उपलभ्येत / न पुनः पूर्वा १०१२० असत्ता-साधानी / यस्मात् १०१२१ शास्त्र-अधिकार-असम्बद्धा बहवो अर्था अतीन्द्रियाः / १०१२२ अलिङ्गाश् च कथं तेषाम् अभावो अनुपलब्धितः
SK
१०१२३ सो अयम् असत्तां साधयन्न् अनुपलब्धि-मात्रेण सर्व-अर्थानां १०२०१ प्रमाण-त्रय-निवृत्त्या साधयेत् / तत्र न शास्त्र-निवृत्तिर् अभाव-साधनी / १०२०२ तस्य क्वचिद् अनधिकारे अप्रवृत्तेः / शास्त्रं हि प्रवर्तमानं १०२०३ कंचित् पुरुष-अर्थ-साधनम् उपायम् आश्रित्य प्रवर्तते / १०२०४ अन्यथा अबद्ध-प्रलापस्य अप्रामाण्यात् / तत्र च प्रकरणे १०२०५ बहवो अर्था न अवश्यं निर्देश्याः / यथा प्रत्यात्म-नियताः १०२०६ काश्चन पुरुषाणां चेतो-वृत्तयो अनियत-निमित्त-भाविन्यः देश- १०२०७ काल-व्यवहिता वा प्रकरण-अनुपयोगिनो द्रव्य-विशेषा न तान् १०२०८ शास्त्रं विषयीकरोति / न च तथा विप्रकृष्टेषु स्व-सामर्थ्य-उपधानाव् १०२०९ ज्ञान-उत्पादन-शक्तिर् अस्ति / न च अवश्यम् एषां कार्य-उपलम्भो १०२१० येन अनुमीयेरन् / न च ते प्रमाण-त्रय-निवृत्ताव् अपि १०२११ न सन्ति इति शक्यन्ते व्यवसातुम् / तस्मान् न सर्व-अनुपलब्धिः १०२१२ साधनी निवृत्ति-निश्चयस्य / तद् इयम् / १०२१३ सद्-असन्-निश्चय-फला न इति स्याद् वा अप्रमाणता / १०२१४ न एव वा इयम् अनुपलब्धिः प्रमाणं व्यवसाय-फलत्वात् प्रमाणानाम् / १०२१५ न हि प्रवृत्ति-निषेधे अपि इयं निःशङ्क-परिच्छेदं १०२१६ चेतः करोति / संशयाद् अपि क्वचिल् लोकस्य प्रवृत्तेः / तथात्वे १०२१७ तन् निरवद्यं यदि निश्चय-पूर्वं व्यवहरेद् इति सा इयम् अप्रवृत्ति- १०२१८ फला प्रोक्ता / १०२१९ प्रमाणम् अपि काचित् स्याल् लिङ्ग-अतिशय-भाविनी
SK
१०२२० अत्र न सर्व-अनुपलब्धिर् अप्रमाणम् / प्रमाणम् अपि काचिल् लिङ्ग- १०२२१ विशेष-भाविनी यथा-उदाहृता प्राक् / यत् पुनर् उक्तम् अप्रमाणम् अनुपलब्धिर् इति १०२२३ स्वभाव-ज्ञापक-अज्ञानस्य अयं न्याय उदाहृतः / १०३०१ यस्य कस्यचित् स्वभावो न उपलभ्यते देश-आदि-विप्रकर्षात् न १०३०२ स तद्-अनुपलम्भ-मात्रेण असन् नाम यथोक्तं प्राक् / यो अपि १०३०३ ज्ञापकस्य लिङ्गस्य अभावाद् अतीन्द्रियः प्रतिक्षिप्यते अर्थः स्वभाव- १०३०४ विशेषो वा यथा न अस्ति विरक्तं चेतो देवता-विशेषो वा १०३०५ न अस्ति दान-हिंसा-विरति-चेतनानाम् अभ्युदय-हेतुता इति प्रत्यक्षे १०३०६ अप्य् अर्थे फलस्य आनन्तर्य-अभावाद् अतत्-फल-साधर्म्याद् विपर्यस्तो १०३०७ अपवदेत अपि न तावता तद्-अभाव एव व्यवहितानाम् १०३०८ अपि हेतोः फलानाम् उत्पत्ति-दर्शनात् मूषिक-अलर्क-विष-विकार-वत् / १०३०९ तद्-भावे विरोध-अभावाद् अत्र अनुपलब्धि-मात्रम् अप्रमाणम् / १०३१० भावे किं प्रमाणम् इति चेत् / अत एव संशयो अस्तु भवेद् १०३११ वा प्रमाणम् इत्य् अप्रतिक्षेपः / तद् अत्र केषांचिद् अर्थानां १०३१२ स्वभावानां वा दर्शन-पाटव-अभावात् कारणानां कार्य-उत्पादन- १०३१३ नियम-अभावाच् च भवेज् ज्ञापक-असिद्धिः / नेयता तद्-अभावः / १०३१४ पुनः पर्यायेण केषांचिद् अभिव्यक्तेः / १०३१५ कार्ये तु कारक-अज्ञानम् अभावस्य एव साधकम्
SK
१०३१६ स्वभाव-अभावे साध्ये तद्-अनुपलम्भ एव अप्रमाणम् उच्यते / १०३१७ कारक-अनुपलम्भस् तु प्रमाणम् एव / न ह्य् अस्ति सम्भवो यद् १०३१८ असति कारणे कार्यं स्यात् / ननु कदाचित् कारण-नाशे अपि कार्य-स्थितिर् १०३१९ दृष्टा / न ब्रूमः कारण-स्थिति-काल-भावी कार्यम् इति / हेतु-रहिता १०३२० तु भाव-उत्पत्तिर् न अस्ति इत्य् उच्यते / न च तथा स्थायी भावस् तद्-उपादानः / १०३२१ पारंपर्येण तु सन्तान-उपकारात् तत्-कार्य-व्यपदेशः / १०३२२ यद्य् अस्य कथंचिद् अभावः सिध्येत् तत्-फलं न अस्ति इति निश्चीयते / १०३२३ स्वभाव-अनुपलम्भश् च स्वभावे अर्थस्य लिङ्गिनि / १०३२४ स्वभाव-अभाव एव लिङ्गिनि स्वभाव-अनुपलम्भो अपि कश्चित् प्रमाणम् एव / १०३२५ एव यद्य् अनुपलभ्यमानो व्यापकः स्वभावो अस्य १०३२६ सिद्धिः स्यात् / यथा वृक्षत्वं शिंशपायाः / १०३२७ तद्-अभावः प्रतीयेत हेतुना यदि केनचित्
SK
१०४०१ यद्य् अस्य कारणस्य स्वभावस्य व्यापकस्य वा अभावः कुतश्चिद् १०४०२ गमकाद् हेतोः सिध्येत् / सो अयं असन् एव स्व-कार्यं १०४०३ व्याप्यं वा निवर्तयति / तद्-अभाव-असिद्धौ निवर्त्ये अपि संशयात् / १०४०४ कथम् इदानीं भावस्य स्वयम् अनुपलब्धेर् अभाव- १०४०५ सिद्धिः / १०४०६ दृश्यस्य दर्शन-अभाव-कारण-असम्भवे सति / १०४०७ भावस्य अनुपलब्धस्य भाव-अभावः प्रतीयते
SK
१०४०८ भावो हि यदि भवेद् यथास्वं ग्राहकेण करणेन उपलभ्य १०४०९ एव भवेत् / स दर्शन-प्रतिबन्धिषु व्यवधान-आदिष्व् असत्सु उपलभ्य १०४१० एव / अनुपलब्धस् त्व् असन्न् इति निश्चीयते / तादृशः सत १०४११ उपलम्भ-अव्यभिचारात् / अयम् एव हेतुर् हेतु-व्यापकयोर् अभावे १०४१२ अपि वेदितव्यः / १०४१३ विरुद्धस्य च भावस्य भावे तद्-भाव-बाधनात् / १०४१४ तद्-विरुद्ध-उपलब्धौ स्याद् असत्ताया विनिश्चयः
SK
१०४१५ यो हि भावो येन सह न अवतिष्ठते तद्-उपादानयोर् अन्योन्य-वैगुण्य- १०४१६ आश्रयत्वेन आरम्भ-विरोधात् तयोर् विरुद्धयोर् एकस्य भावे १०४१७ अप्य् अन्य-अभाव-गतिर् भवति यथोक्तं प्राक् / इदम् अनुपलब्धेर् १०४१८ न पृथग् व्यवस्थाप्यते / तत एव विरोध-गतेर् विरोधाच् च अभाव- १०४१९ साधनात् / भवतु नाम एवंविधाया अनुपलब्धेर् अभाव- १०४२० गतिः / सा पुनः कथम् अनुमानम् / कथं च न स्यात् / १०४२१ दृष्टान्त-अनपेक्षणात् / न ह्य् अस्यां कश्चिद् दृष्टान्तो अस्ति / किं १०४२२ न निरुपाख्यं व्योमकुसुम-आदि दृष्टान्तः / तद् असत् कथम् १०४२३ अवगन्तव्यं येन एवं स्यात् / अनुपलब्धेर् एव इति चेत् / तत्र १०४२४ कथम् अदृष्टान्तिका असत्ता-सिद्धिः सदृष्टान्तत्वे वा अनवस्था-प्रसङ्गः / १०४२५ तथा च अप्रतिपत्तिः / तस्मान् निरुपाख्य-अभाव-सिद्धि-वद् १०४२६ अन्यत्र अपि दृष्टान्त-अनपेक्षणाद् अननुमानम् / शृण्वन्न् अपि देवानांप्रियो १०४२७ न अवधारण-पटुः / निमित्तं ह्य् असच्-शब्द-व्यवहाराणाम् १०४२८ उपलभ्य-अनुपलब्धिः / सा स्व-संनिधानात् स्व-निमित्तान् १०४२९ एतान् साधयति इति स्व-निमित्त-सामग्री-योग्य-संनिधानः सर्वो अत्र १०५०१ दृष्टान्तः / असत्ता पुनर् अत्र अनुपलब्धिर् एव / अत एव इयं कारणात् १०५०२ कार्य-अनुमान-लक्षणत्वात् / स्वभाव-हेताव् अन्तर्भवति इति वक्ष्यामः / १०५०३ सच्-शब्द-व्यवहार-प्रतिषेधे अपि प्रमाण-निवृत्त्या १०५०४ निमित्त-वैकल्य-अभाविनो अङ्कुर-आदयो दृष्टान्तः न केवलं निरुपाख्यम् / १०५०५ निरुपाख्ये अपि इयम् एव प्रवृत्तिर् निषिध्यते / अनुपलब्धि- १०५०६ लक्षणा असत्ता सिद्धा एव / सो अयं मूढो निमित्तं तद्-अभावं १०५०७ वा अभ्युपगम्य प्रवृत्ति-निवृत्ती विलोमयन् यथा अभ्युपगमं १०५०८ प्रतिपाद्यते निरुपाख्य-वद् अन्य-वद् वा इति / स एव तावद् १०५०९ उपलब्ध्य्-अभावः कथं सिद्ध इति चेत् / एतद् उत्तरत्र वक्ष्यामः / १०५१० अन्यत्र अप्य् अनुमाने साध्य-धर्मेण व्याप्तं साधनम् १०५११ इच्छन् किम् इति दृष्टान्तेन प्रत्याय्यो व्याप्य-निर्देशाद् एव १०५१२ व्याप्नुवतः सिद्धेः / निश्चित-अर्थस्य अपि स्मृत्य्-अर्थो दृष्टान्त इति १०५१३ चेत् / तद् इतरत्र अपि समानं / सो अयम् अन्यत्र अनुपलम्भ-मात्राद् १०५१४ असद्-व्यवहारं प्रतिपद्यमानो अपि इह व्यामूढ इति १०५१५ स्मार्यते / अथ यद् इदं न सन्ति प्रधान-आदयो अनुपलब्धेर् १०५१६ इति / तत्र कथम् असद्-व्यवहार-विधिः सद्-व्यवहार-निषेधो १०५१७ वा / कथं च न स्यात् / तद्-अर्थ-प्रतिषेधे धर्मि-वाचिनो अप्रयोगाद् १०५१८ अभिधानस्य निर्विषयस्य च प्रतिषेधस्य अयोगात् / न एष १०५१९ दोषः / यस्मात् / १०५२० अनादि-वासना-उद्भूत-विकल्प-परिनिष्ठितः / १०५२१ शब्द-अर्थस् त्रिविधो धर्मो भाव-अभाव-उभय-आश्रयः
SK
१०५२२ तस्मिन् भाव-अनुपादाने साध्ये अस्य अनुपलम्भनम् / १०५२३ तथा हेतुर् न तस्य एव अभावः शब्द-प्रयोगतः
SK
१०५२४ निवेदितम् एतत् यथा न एते शब्दाः स्वलक्षण-विषया अनादि- १०५२५ वासना-प्रभव-विकल्प-प्रतिभासिनम् अर्थं विषयत्वेन आत्मसात् १०५२६ कुर्वन्ति वक्तुः श्रोतुस् च तद्-विकल्प-भाजो यथाप्रतिभासि- १०५२७ वस्तु-प्रतिपादन-समीह-अप्रयोगात् तद्-आकार-विकल्प-जननाच् च / १०६०१ न च उपादान-कार्य-प्रत्यय-अप्रतिभासि रूपं शक्यं तद्-विषयत्वेन १०६०२ अध्यवसातुम् / स तु विकल्पः सद्-असद्-उभय-प्रत्यय-आहित- १०६०३ वासना-प्रभव इति तत्-प्रतिभास्य्-आकार-अध्यवसाय-वशेन १०६०४ च भाव-अभाव-उभय-धर्म इत्य् उच्यते / तद् अत्र धर्मिणि व्यवस्थिताः १०६०५ सदसत्त्वं चिन्तयन्ति किम् अयं प्रधान-शब्द-प्रतिभास्य् १०६०६ अर्थो भाव-उपादानो न वा इति / तस्य भाव-अनुपादानत्वे १०६०७ साध्ये स एव प्रत्यात्म-वेद्यत्वाद् अप्रतिक्षेप-अर्हो अर्थो धर्मी / १०६०८ न च स एव अर्थः स्वलक्षणम् इति शक्यं वक्तुम् / असम्प्राप्त-निरुद्धयोर् १०६०९ अप्य् अर्थयोस् तस्य अनपायात् / वस्तु-विपरीत-आकार-निवेशिष्व् १०६१० अपि तीर्थ-अनन्तरीय-प्रत्ययेषु भावात् / १०६११ परमार्थ-एक-तानत्वे शब्दानाम् अनिबन्धना / १०६१२ न स्यात् प्रवृत्तिर् अर्थेषु दर्शन-अन्तर-भेदिषु
SK
१०६१३ अतीत-अजातयोर् वा अपि न च स्याद् अनृत-अर्थता / १०६१४ वाचः कस्याश्चिद् इत्य् एषा बौद्ध-अर्थ-विषया मता
SK
१०६१५ इति संग्रहश्लोकौ / तस्य च यथा समीहित-रूप-अनुपादानत्वे १०६१६ साध्ये तथा अनुपलम्भो अस्य धर्मो अस्ति इति न साधन-धर्म-असिद्धिः / १०६१७ न पुनर् अत्र अयम् एव शब्द-विकल्प-प्रतिभास्य् अर्थो अपह्नूयते / १०६१८ तस्य बुद्धाव् उपस्थापनाय शब्द-प्रयोगात् / तद्-अभावे १०६१९ तद्-अयोगात् / अपि च / १०६२० शब्द-अर्थ-अपह्नवे साध्ये धर्म-आधार-निराकृतेः / १०६२१ न साध्यः समुदायः स्यात् सिद्धो धर्मश् च केवलः
SK
१०६२३ यदि हि शब्द-अर्थ एव अपोह्येत प्रधान-शब्द-वाच्यस्य धर्मिण १०६२४ एव निराकरणान् निराधारः साध्य-धर्मः स्यात् / तद् अयम् १०६२५ आधार-व्यवच्छेद-अनपेक्षो न विवाद-आश्रय इति न उपन्यसनीय १०६२६ एव स्यात् / किं च / १०६२७ सद्-असत्-पक्ष-भेदेन शब्द-अर्थ-अनपवादिभिः / १०६२८ वस्त्व् एव चिन्त्यते ह्य् अत्र प्रतिबद्धः फल-उदयः
SK
१०६२९ अर्थक्रियासमर्थस्य विचारैः किं तद्-अर्थिनाम् / १०६३० षण्ढस्य रूप-वैरूप्ये कामिन्याः किं परीक्षया
SK
१०७०१ न हि शब्द-अर्थो असन् सन् वा कंचित् पुरुष-अर्थम् उपरुणद्धि १०७०२ समादधाति वा / यथा अभिनिवेशम् अतत्त्वात् / यथा अतत्त्वं च असमीहितत्वात् / १०७०३ तद् अयं प्रवर्तमानः सर्वदा सद्-असच्-चिन्तायाम् १०७०४ अवधीरित-विकल्प-प्रतिभासो वस्त्व् एव अधिष्ठानीकरोति यत्र अयं १०७०५ पुरुष-अर्थः प्रतिबद्धो यथा अग्नौ शीत-प्रतीकार-आदिः / न ह्य् १०७०६ अत्र शब्द-अर्थः समर्थस् तद्-अनुभव-आप्ताव् अपि तद्-अभावात् / १०७०७ तद् अयम् अर्थक्रिया-अर्थी तद्-असमर्थं प्रति दत्ता-अनुयोगो भवितुं १०७०८ न युक्तः / न हि वृषस्यन्ती षण्ढस्य रूप-वैरूप्य-परीक्षायाम् १०७०९ अवधत्ते / यत् पुनर् एतद् उक्तं कल्पितस्य अनुपलब्धिर् १०७१० धर्म इति तस्य को अर्थः / १०७११ शब्द-अर्थः कल्पना-ज्ञान-विषयत्वेन कल्पितः / १०७१२ धर्मो वस्त्व्-आश्रय-असिद्धिर् अस्य उक्तो न्यायवादिना
SK
१०७१३ कल्पना-विषयत्वाच् शब्द-अर्थ एव कल्पितः / तस्य वस्त्व् -आश्रय-अनुपलम्भो १०७१४ धर्म इत्य् अभिप्रायः / यद् उक्तम् न प्रमाण- १०७१५ त्रय-निवृत्ताव् अपि भाव-अभाव-सिद्धिर् इति / तन् मा भूद् अन्य-प्रमाण- १०७१६ अनिवृत्तौ निवृत्तिः / तयोर् असकल-विषयत्वाद् आगमः पुनर् १०७१७ न किंचिन् न व्याप्नोति / तन्-निवृत्तिः कथं न गमिका इति / उक्तम् १०७१८ अत्र न आगमेषु सर्व-अर्था उपनिबध्यन्ते अप्रकरण-आपन्नत्वाद् १०७१९ इति / अपि च / १०७२० नान्तरीयकता अभावाच् शब्दानां वस्तुभिः सह / १०७२१ न अर्थ-सिद्धिस् ततस् ते हि वक्तृ-अभिप्राय-सूचकाः
SK
१०७२२ न हि शब्दा यथाभावं वर्तन्ते यतस् तेभ्यो अर्थ-प्रकृतिर् १०७२३ निश्चीयेत / ते हि वक्तुर् विवक्षा-वृत्तय इति तन्-नान्तरीयकास् १०७२४ ताम् एव गमयेयुः / न च पुरुष-इच्छाः सर्वा यथार्थ-भाविन्यः / १०७२५ न च तद्-अप्रतिबद्ध-स्वभावो भावो अन्यं गमयति / १०८०१ यत् तर्हि इदम् आप्त-वाद-अविसंवाद-सामान्याद् अनुमानता इत्य् आगमस्य १०८०२ प्रामाण्यम् अनुमानत्वम् उक्तम् तत् कथं / न अयं पुरुषो अनाश्रित्य आगम- १०८०३ आसितुं समर्थः / अत्यक्ष-फलानां केषांचित् १०८०४ प्रवृत्ति-निवृत्त्योर् महा-अनुशंसा-पाप-श्रवणात् तद्-भावे विरोध- १०८०५ अदर्शनाच् च / तत् सति प्रवर्तितव्ये वरम् एवं प्रवृत्त १०८०६ इति परीक्षया प्रामाण्यम् आह / तच् च / १०८०७ सम्बद्ध-अनुगुण-उपायं पुरुष-अर्थ-अभिधायकम् / १०८०८ परीक्षा-अधिकृतं वाक्यम् अतो अनधिकृतं परम्
SK
१०८०९ सम्बद्धो वाक्यानाम् एक-अर्थ-उपसंहार-उपकारः / न दश-दाडिम-आदि- १०८१० वाक्यानाम् इव अनुपसंहार एव / अन्यथा वक्तुर् वैगुण्यम् १०८११ उद्भावयेत् / अशक्य-उपाय-फलानि च शास्त्राणि फल-अर्थी न आद्रियेत १०८१२ विचारयितुम् अपुरुष-अर्थ-फलानि च / विष-शमनाय तक्षक- १०८१३ फण-रत्न-अलंकार-उपदेश-वत् काक-दन्त-परीक्षा-वच् च / तद् विपर्ययेण १०८१४ उपसंहार-वत् शक्य-उपायं पुरुष-अर्थ-अभिधायि च १०८१५ शास्त्रं परीक्ष्येत अन्यत्र अवधानस्य एव अयुक्तत्वात् / तद् यदि न १०८१६ परीक्षायां विसंवाद-भाक् प्रवर्तमानः शोभेत / कः पुनर् १०८१७ अस्य अविसंवादः / १०८१८ प्रत्यक्षेण अनुमानेन द्विविधेन अप्य् अबाधकम् / १०८१९ दृष्ट-अदृष्ट-अर्थयोर् अस्य अविसंवादस् तद्-अर्थयोः
SK
१०८२० प्रत्यक्षेण अबाधनं प्रत्यक्ष-अभिमतानाम् अर्थानां तथाभावः १०८२१ यथा नील-आदि-सुख-दुःख-निमित्त-उपलक्षण-राग-आदि-बुद्धीनाम् / १०८२२ अतथा-अभिमतानां च अप्रत्यक्षता यथा शब्द-आदि-रूप- १०८२३ संनिवेशिनां सुख-आदीनां द्रव्य-कर्म-सामान्य-संयोग-आदीनां १०८२४ च / तथा अनागम-अपेक्ष-अनुमान-विषय-अभिमतानां तथाभावः १०८२५ यथा चतूर्णाम् आर्यसत्यानाम् / अननुमेयानां तथाभावो १०९०१ यथा आत्म-आदीनाम् / आगम-अपेक्ष-अनुमाने अपि यथा राग-आदि- १०९०२ रूपं तत्-प्रभवं च अधर्मम् अभ्युपगम्य तत्-प्रहाणाय १०९०३ स्नान-अग्निहोत्र-आदेर् अनुपदेशः / स इयं शक्य-परिच्छेद-अशेष-विषय- १०९०४ विशुद्धिर् अविसंवादः / १०९०५ आप्त-वाद-अविसंवाद-सामान्याद् अनुमानता / १०९०६ बुद्धेर् अगत्या अभिहिता परोक्षे अप्य् अस्य गोचरे
SK
१०९०७ तस्य च अस्य एवंभूतस्य आप्त-भूतस्य अविसंवाद-सामान्याद् अदृष्ट- १०९०८ व्यभिचारस्य प्रत्यक्ष-अनुमान-आगम्ये अप्य् अर्थे प्रतिपत्तेस् १०९०९ तद्-आश्रयत्वात् तद्-अन्य-प्रतिपत्ति-वद् अविसंवादो अनुमीयते / १०९१० ततः शब्द-प्रभवा अपि सती न शाब्द-वद् अभिप्रायं निवेदयत्य् १०९११ एव इत्य् अर्थ-अविसंवादाद् अनुमानम् अपि / अथवा अन्यथा आप्त-वादस्य १०९१२ अविसंवादाद् अनुमानत्वम् उच्यते / १०९१३ हेय-उपादेय-तत्त्वस्य स उपायस्य प्रसिद्धितः / १०९१४ प्रधान-अर्थ-अविसंवादाद् अनुमानं परत्र वा
SK
१०९१५ हेय-उपादेय-तद्-उपायानां तद्-उपदिष्टानाम् अवैपरीत्यम् अविसंवादः / १०९१६ यथा चतूर्णाम् आर्यसत्यानां वक्ष्यमाणनीत्या / तस्य अस्य १०९१७ पुरुष-अर्थ-उपयोगिनो अभियोग-अर्थस्य अविसंवादाद् विषय-अन्तरे १०९१८ अपि तथात्व-उपगमो न विप्रलम्भाय अनुपरोधात् निष्प्रयोजन- १०९१९ वितथ-अभिधान-वैफल्याच् च वक्तुः / तद् एतद् अगत्या उभयथा १०९२० अप्य् अनुमानत्वम् आगमस्य उपवर्णितम् / वरम् आगमात् १०९२१ प्रवृत्ताव् एवं प्रवृत्तिर् इति / न खल्व् एवम् अनुमानम् अनपायम् १०९२२ अनान्तरीयकत्वाद् अर्थेषु शब्दानाम् इति निवेदितम् एतत् / १०९२३ पुरुष-अतिशय-अपेक्षं यथार्थम् अपरे विदुः / १०९२४ यथार्थ-दर्शन-आदि-गुण-युक्तः पुरुष आप्तस् तत्-प्रणयनम् अविसंवाद ११००१ इत्य् अन्ये / ११००२ इष्टो अयम् अर्थः शक्येत ज्ञातुं सो अतिशयो यदि
SK
११००३ सर्वे एव आगमम् अनागमं वा प्रवृत्ति-कामो अन्वेषते प्रेक्षा- ११००४ पूर्व-कारी न व्यसनेन / अपि नाम अनुष्ठेयम् अतो ज्ञात्वा प्रवृत्तो ११००५ अर्थवान् स्याम् इति / स शक्य-दर्शन-अविसंवाद-प्रत्ययेन अन्यत्र अपि ११००६ प्रवर्तते / एवंप्रायत्वाल् लोक-व्यवहारस्य / पुरुष-परीक्षया ११००७ तु प्रवृत्ताव् अप्रवृत्तिर् एव / तस्य तथाभूतस्य ज्ञातुम् ११००८ अशक्यत्वात् न अनिष्टेः / तादृशाम् अवितथ-अभिधानात् / तथा हि / ११००९ अयम् एवं न वा इत्य् अन्य-दोष-अनिर्दोषता अपि वा / ११०१० दुर्लभत्वात् प्रमाणानां दुर्बोधा इत्य् अपरे विदुः
SK
११०११ चैतस्येभ्यो हि गुण-दोषेभ्यः पुरुषाः सम्यङ्-मिथ्या-प्रवृत्तः ११०१२ ते च अतीन्द्रियाः स्व-प्रभव-काय-वाग्-व्यवहार-अनुमेयाः ११०१३ स्युः / व्यवहाराश् च प्रायशो बुद्धि-पूर्वम् अन्यथा अपि कर्तुं ११०१४ शक्यन्ते पुरुष-इच्छा-वृत्तित्वात् तेषां च चित्र-अभिसन्धित्वात् / ११०१५ तद् अयं लिङ्ग-संकरात् कथम् अनिश्चिन्वन् प्रतिपद्येत / अथ ११०१६ किं न एव स तादृशः पुरुषो अस्ति यो निर्दोषः / ११०१७ सर्वेषां सविपक्षत्वान् निर्ह्रास-अतिशय-श्रिताम् / ११०१८ स आत्मीभावात् तद्-अभ्यासाद् धीयेरन् आश्रवाः क्वचित्
SK
११०१९ स तु प्रहीण-आश्रवो दुर्ज्ञानः / दोषा हि निर्ह्रास-अतिशय-धर्मणो ११०२० विपक्ष-अभिभव-उत्कर्ष-अपकर्षं साधयन्ति ज्वाला-आदि-वत् / ते हि ११०२१ विकल्प-प्रभवाः सत्य् अप्य् उपादाने कस्यचिन् मनो-गुणस्य अभ्यासाद् ११०२२ अपकर्षिणः / तत्-पाटवे निरन्वय-विनाश-धर्माणः ११०२३ स्युः / ज्वाला-आदि-वद् एव / तेन स्याद् अपि निर्दोषः / कथं निर्दोषो ११०२४ नाम / यावता दोष-विपक्ष-सात्मत्वे अपि दोष-सात्मनो विपक्ष-उत्पत्ति-वद् ११०२५ यथा-प्रत्ययं दोष-उत्पत्तिर् अपि / न अयं दोषः / यस्मात् / ११०२७ निरुपद्रव-भूत-अर्थ-स्वभावस्य विपर्ययैः//
SK
११०२८ न बाधा यत्नवत्त्वे अपि बुद्धेस् तत्-पक्ष-पाततः //२२१ / १११०१ न हि स्वभावो अयत्नेन विनिवर्तयितुं शक्यः / श्रोत्रिय- १११०२ कापालिक-घृणा-वत् / यत्नश् च प्राप्य-निवर्त्ययोः स्वभावयोर् १११०३ गुण-दोष-दर्शनेन क्रियेत / तच् च विपक्ष-सात्मनः पुरुषस्य १११०४ दोषेषु न सम्भवति / तस्य निरुपद्रवत्वात् / अशेष-दोष-हानेः १११०५ पर्यवस्थान-जन्म-प्रतिबद्ध-दुःख-विवेकात् प्रशम-सुख- १११०६ रसस्य अनुद्वेजनाच् च / अभूत-अर्थं खल्व् अप्य् उपादान- बल-भावि- १११०७ सन्तानस्य विपर्यय-उपादानान् न स्यात् / न तु भूत-अर्थम् वस्तु- १११०८ बल-उत्पत्तेः / अभूत-अर्थाश् च दोषा न प्रतिपक्ष-सात्म्य-बाधिनः / १११०९ तस्मान् न पुनर् दोष-उत्पत्तिः / यत्ने अपि बुद्धेर् गुण-पक्ष- ११११० पातेन प्रतिपक्ष एव यत्न-आधानात् परीक्षावतो विशेषेण अदुष्ट- १११११ आत्मनः / कः पुनर् एषां दोषाणां प्रभवो यत्-प्रतिपक्ष- ११११२ अभ्यासात् प्रहीयन्ते / ११११३ सर्वासां दोष-जातीनां जातिः सत्कायदर्शनात्//
SK
११११४ सा अविद्या तत्र तत्-स्नेहस् तस्माद् द्वेष-आदि-सम्भवः
SK
११११५ न हि न अहं न मम इति पश्यतं परिग्रहम् अन्तरेण क्वचित् ११११६ स्नेहः / न च अननुरागिणः क्वचिद् द्वेषः / आत्म-आत्मीय-अनुपरोधिन्य् ११११७ उपरोध-प्रतिघातिनि च तद्-अभावात् / तस्मात् समान-जातीय-अभ्यासजम् ११११८ आत्म-दर्शनम् आत्मीय-ग्रहं प्रसूते / तौ च तत्-स्नेहं ११११९ स च द्वेष-आदीनि इति सत्कायदर्शनजाः सर्व-दोषाः / तद् एव च अज्ञानम् १११२० इत्य् उच्यते / १११२१ मोहो निदानं दोषाणाम् अत एव अभिधीयते//
SK
१११२२ सत्कायदृष्टिर् अन्यत्र तत्-प्रहाणे प्रहाणतः
SK
१११२३ मोहं दोष-निदानम् आहुः अमूढस्य दोष-अनुत्पत्तेः पुनर् १११२४ अन्यत्र सत्कायदृष्टिम् / तच् च एतत् प्रधान-निर्देशे सति स्याद् १११२५ अनेक-जन्मनां दोषाणाम् एक-उत्पत्ति-विरोधात् / न च द्वयोः प्राधान्ये ११२०१ एकैक-निर्देशः पर-भाग-भाक् / उभयथा अप्य् एकस्य ११२०२ निर्देशे न विरोधः / प्राधान्यं पुनस् तद्-उपादानत्वेन / ११२०३ तत्-प्रहाणे दोषाणां प्रहाणात् / तस्मात् सम्भवति सत्कायदर्शन- ११२०४ जन्मनां दोषाणां तत्-प्रतिपक्ष-नैरात्म्य-दर्शन-अभ्यासात् ११२०५ प्रहाणम् / स तु क्षीण-दोषो दुरन्वयो यद्-उपदेशाद् अयं प्रतिपद्येत / ११२०६ मा भूत् पुरुष-आश्रयं वचनम् आगमः प्रणेतुर् ११२०७ दुरन्वयत्वात् / ११२०८ गिरां मिथ्यात्व-हेतूनां दोषाणां पुरुष-आश्रयात्//
SK
११२०९ अपौरुषेयं सत्य-अर्थम् इति केचित् प्रचक्षते
SK
११२१० न खलु सर्व एव आगमः सम्भाव्य-विप्रलम्भः / विप्रलम्भ- ११२११ हेतूनां दोषाणां पुरुष-आश्रयाद् अपौरुषेयं सत्य-अर्थम् इत्य् ११२१२ एके / कारण-अभावो हि कार्य-अभावं साधयति इति / य एवंवादिनस् ११२१३ तान् एव प्रति / ११२१४ गिरां सत्य-अर्थ-हेतूनां गुणानां पुरुष-आश्रयात्//
SK
११२१५ अपौरुषेयं मिथ्या-अर्थं किं न इत्य् अन्ये प्रचक्षते
SK
११२१६ यथा राग-आदि-परीतः पुरुषो मृषा-वादी दृष्टस् तथा दया-धर्मता- ११२१७ आदि-युक्तः सत्य-वाक् / तद् यथा वचनस्य पुरुष-आश्रयान् मिथ्या-अर्थता ११२१८ तथा सत्य-अर्थता अपि इति / स निवर्तमानस् ताम् अपि निवर्तयति ११२१९ इत्य् आनर्थक्यं स्याद् विपर्ययो वा / न हि शब्दाः प्रकृत्या अर्थवन्तः / ११२२० समयात् ततो अर्थ-ख्यातेः काय-संज्ञा-आदि-वत् / अप्रातिकूल्यं ११२२१ तु योग्यता समये तद्-इच्छा-प्रणयनात् / निसर्ग-सिद्धेष्व् ११२२२ इच्छा-वशात् प्रतिपादन-अयोगात् / ते अनर्थकाः पुरुष-संस्काराद् ११२२३ अर्थवन्तः स्युः / तत्-संस्कार्यता एव च एषां पौरुषेयता युक्ता ११२२४ न उत्पत्तिः / तत एव अर्थ-विप्रलम्भात् / उत्पन्नो अप्य् अन्यथा समितो ११२२५ न उपरोधी तद्-अन्य-पुरुष-धर्म-वत् / तद् अयं निवर्तमानः ११२२६ स्व-कृत-समय-सम्भवाम् अर्थ-प्रतिभां निवर्तयति / ११२२७ तत् कुतस् तन्-निवृत्त्या सत्य-अर्थता / अथ पुनर् उत्पत्तिर् एव पौरुषेयता / ११३०१ न समय-आख्यानम् / ११३०२ अर्थ-ज्ञापन-हेतुर् हि संकेतः पुरुष-आश्रयः//
SK
११३०३ गिराम् अपौरुषेयत्वे अप्य् अतो मिथ्यात्व-सम्भवः
SK
११३०४ किं ह्य् अस्य अपौरुषेयतया यतो हि समयाद् अर्थ-प्रतिपत्तिः ११३०५ स पौरुषेयो वितथो अपि स्यात् / शील-साधन-स्वर्ग-वचनं तद् अन्यथा ११३०६ समयेन विपर्यासयेत् / तेन अयथार्थम् अपि प्रकाशन-सम्भवात् ११३०७ स एव दोषः / ११३०८ सम्बन्ध-अपौरुषेयत्वे स्यात् प्रतीतिर् असंविदः//
SK
११३०९ स्याद् एतद् अकार्य-सम्बन्धा एव शब्दाः / न ते अर्थेषु पुरुषैर् ११३१० अन्यथा विपर्यस्यन्ते / तेन अदोष इति / किम् इदानीं संकेतेन / ११३११ स हि सम्बन्धो यतो अर्थ-प्रतीतिः / स चेद् अपौरुषेयो न अयं ११३१२ समयम् अपेक्षेत / अप्रतीत्य्-आश्रयो वा कथं सम्बन्धः / ११३१३ संकेतात् तद्-अभिव्यक्ताव् असमर्थ-अन्य-कल्पना
SK
११३१४ न वै सम्बन्धो विद्यमानो अप्य् अनभिव्यक्तः प्रतीति-हेतुः / ११३१५ संकेतस् त्व् एनम् अभिव्यनक्ति / स तर्हि सिद्ध-उपस्थायी किम् ११३१६ अकारणं पोष्यते / नन्व् इयान् सम्बन्धस्य व्यापारो यद् अर्थ- ११३१७ प्रतीति-जननम् / तत् समयेन एव कृतम् इति / न अयोग्ये समयः ११३१८ समर्थ इति योग्यता तत्-सम्बन्धश् चेत् / तत् किं वै शब्दः ११३१९ सम्बन्धो अस्तु / समर्थं हि रूपं शब्दस्य योग्यता कार्य- ११३२० कारण-योग्यता-वत् / सा चेद् अर्थ-अन्तरं किं शब्दस्य इति सम्बन्धो ११३२१ वाच्यः / योग्यता-उपकार इति चेत् / न / नित्यायाः निरतिशयत्वात् / ११३२२ तत्र अप्य् अतिप्रसङ्गात् उपकार-असिद्धेः / योग्यतायां च स्वतो योग्यत्वे ११३२३ अर्थ एव किं न इष्यते / समयस् तर्हि कथं शब्द-अर्थ- ११३२४ सम्बन्धाः / पुरुषेषु वृत्तेः / न अमिश्राणां सिद्धानां कश्चित् ११३२५ सम्बन्धो अभेद-प्रसङ्गात् अनपेक्षणाच् च / अर्थ-विशेष-समीह- ११३२६ अप्रेरिता वाग् अत इदम् इति विदुषः स्व-निदान-आभासिनम् अर्थं ११३२७ सूचयति इति बुद्धि-रूप-वाग् विज्ञप्त्योर् जन्यजनकभावः सम्बन्धः ११४०१ ततः शब्दात् प्रतिपत्तिर् अविनाभावात् / तद्-आख्यानं ११४०२ समयः / ततः प्रत्यायक-सम्बन्ध-सिद्धेः सम्बन्ध-आख्यानात् / ११४०३ न तु स एव सम्बन्धः / अस्तु वा अन्य एव नित्यः सम्बन्धः / ११४०४ तेन ११४०५ गिराम् एक-अर्थ-नियमे न स्याद् अर्थ-अन्तरे गतिः//
SK
११४०६ न हि तेन सम्बन्धेन असम्बद्धे अर्थे प्रतीतिर् युक्ता / तस्य ११४०७ वैफल्य-प्रसङ्गात् / दृष्टश् च इच्छा-वशात् कृत-समयः सर्वः ११४०८ सर्वस्य दीपकः / ११४०९ अनेक-अर्थ-अभिसम्बन्धे विरुद्ध-व्यक्ति-सम्भवः
SK
११४१० अथ मा भूद् दृष्ट-विरोध इति सर्वे सर्वस्य वाचकाः / तथा न ११४११ सर्वः सर्व-साधनो असंकरात् कार्यकारणतायाः / तत्र प्रतिनियत- ११४१२ साधने अभिमते अर्थे सर्व-साध्य-साधन-साधारणस्य ११४१३ शब्दस्य-इष्ट-व्यक्तिम् एव समयकारः करोति इति कुत एतत् सो अनियतो ११४१४ नियमं पुरुषात् प्रतिपद्यते / तदा / ११४१५ अपौरुषेयतायाश् च व्यर्था स्यात् परिकल्पना//
SK
११४१६ अपि नाम असंकीर्णम् अर्थं जानीयाम् इति संकर-हेतुः पुरुष-उपाकीर्णः / ११४१७ तत्र यादृशाः पुरुषैः क्वचित् प्रयुक्ताः संकीर्यन्ते ११४१८ तादृशा एव सर्व-साधारणाः सन्तः क्वचित् तैर् विनियमितास् ११४१९ तत्त्व-अपरिज्ञानात् / प्रकृत्या एव वैदिका नियता इति चेत् / न उपदेशम् ११४२० अपेक्षेरन् न अन्यथा संकेतेन प्रकाशयेयुः व्याख्या-विकल्पश् ११४२१ च न स्यात् / उपदेशस्य च इष्ट-संवादः शक्य-विकल्पे न अस्ति इति ११४२२ व्यर्था एव अपौरुषेयता / ११४२३ वाच्यश् च हेतुर् भिन्नानां सम्बन्धस्य व्यवस्थितेः
SK
११४२५ अर्था हि बाह्या न रूपं शब्दस्य न शब्दो अर्थानाम् / येन अभिन्न- ११४२६ आत्मतया व्यवस्था-भेदे अपि नान्तरीयकता स्यात् / कृतकत्व- ११४२७ अनित्यत्व-वत् / न अप्य् एते विवक्षा-जन्मानो ध्वनयो अजन्मानो ११४२८ वा विवक्षा-व्यङ्ग्याः न अर्थ-आयत्ताः / ततः कथम् इदानीं ११५०१ तत्-प्रतिनियम-संसाध्यं तद्-अन्वयं साधयेयुः / न ह्य् ११५०२ अप्रतिबद्धस् तत्-साधन इति / ११५०३ असंस्कार्यतया पुम्भिः सर्वथा स्यान् निरर्थता//
SK
११५०४ संस्कार-उपगमे मुख्यं गज-स्नानम् इदं भवेत्
SK
११५०५ इति संग्रहश्लोकः / अपि च / शब्द-अर्थयोः सम्बन्धो नित्यो वा ११५०६ स्याद् अनित्यो वा / यद्य् अनित्यः पुरुष-इच्छा वृत्तिर् अवृत्तिर् वा / अपुरुष- ११५०७ अधीनत्वे पुरुषाणां यथा अभिप्रायं देश-आदि-परावृत्त्या तेन ११५०८ प्रतिपादनं न स्यात् / इच्छायाम् अप्य् अनायत्तस्य कदाचिद् अयोगात् / ११५०९ पर्वत-आदि-वत् / अयम् एव नित्यत्वे अपि दोषस् तस्य स्थिर-रूपस्य ११५१० परावृत्त्य्-अयोगाद् इति समं सर्व-अवस्थाने अपि इष्ट-प्रतिनियम-अभावात् / ११५११ ततो विशेष-प्रतिपत्तिर् न स्याद् इति पूर्ववत् प्रसङ्गः / ११५१२ इच्छा-वृत्तौ च पौरुषेयत्वम् इति विप्रलम्भ-आशङ्का / अपि च / ११५१३ सम्बन्धिनाम् अनित्यत्वान् न सम्बन्धे अस्ति नित्यता / ११५१४ पराश्रयो हि सम्बन्धो अप्रतिबन्धे तयोः सम्बन्धिता अयोगात् / ११५१५ स च आश्रयो अनित्यः / अपाये अस्य सम्बन्धस्य अप्य् अपायः अन्यथा अनाश्रितः ११५१६ स्यात् / ततो न नित्यः / तद्-आश्रय-अर्थश् च वक्तव्यः / ११५१७ नित्यस्य अनुपकार्यत्वात् / अनुपकुर्वाणश् च अनाश्रयः / जातेर् वाच्यत्वाद् ११५१८ अदोष इति चेत् / न / तद्-वचने प्रयोजन-अभावाद् इति निर्लोठितम् ११५१९ एतत् / सर्वत्र च जात्य्-असम्भवाद् अयोगो यादृच्छिकेषु व्यक्ति- ११५२० वाचिषु सर्वदा जाति-चोदने विशेष-अन्तर-व्युदासेन प्रवृत्त्य्-अयोगाच् ११५२१ च / तस्माद् अन्वय-व्यतिरेकिणो भावस्य भाव-अभावौ सम्बन्धः / ११५२३ अर्थैर् अतः स शब्दानां संस्कार्यः पुरुषैर् धिया //२३१ / ११५२४ ताव् एव भाव-अभावाव् आश्रित्य-असंसृष्टाव् अपि संसृष्टाव् इव पुरुषस्य ११६०१ व्यवहार-भावनातः प्रतिभात इति पौरुषेयो भावानां ११६०२ संश्लेषः / किं च आश्रय-विनाशान् नष्टे सम्बन्धे स शब्दः पुनर् ११६०३ असम्बन्धत्वान् न अपूर्वेण योज्येत / उत्पन्न-उत्पन्नाश् च भावाः ११६०४ स्थित-सम्बन्ध-अभावाद् असम्बन्धिनो अवाच्याः स्युः / तत्र ११६०५ अपि / ११६०६ अर्थैर् एव सह उत्पादे / ११६०७ कल्प्यमाने ११६०८ न स्वभाव-विपर्ययः / ११६०९ शब्देषु युक्तः / ११६१० अथ मा भून् नष्ट-सम्बन्धस्य शब्दस्य अर्थ-अन्तरे वैगुण्यं ११६११ अर्थानां च अवाच्यता इत्य् उत्पन्नो अर्थः सम्बन्धवान् यद्य् उत्पद्येत ११६१२ स सम्बन्ध उत्पन्नो अपि न शब्दे स्यात् / तस्य तेन असम्बन्धि- ११६१३ स्वभावस्य स्वभाव-विपर्ययम् अन्तरेण तद्-भाव-अयोगात् / ११६१४ अर्थेन सह उत्पन्नस्य अन्यतः सिद्धस्य अनुपकारिणि शब्दे ११६१५ असमाश्रयाच् च / तस्य अपि तदुत्पत्ति-सहकारित्वे समर्थस्य नित्य-उत्पादन- ११६१६ प्रसङ्गः / अनपेक्षत्वान् नित्यस्य अनुपकारात् / असामर्थ्ये ११६१७ अपि पश्चाद् अपि स्वभाव-अत्यागाद् अशक्तिः / ११६१८ सम्बन्धे न अयं दोषो विकल्पिते
SK
११६१९ न हि भाव-श्लेष-अपेक्षी पुरुष-भावना-प्रतिभासी तद्-अपेक्ष-अलक्षणः ११६२० सम्बन्धः / सो अयम् नित्यानाम् अप्य् अपरावर्तयन् स्वभावं ११६२१ कुतश्चित् स्वयम् उत्प्रेक्ष्य घटयेद् इति ते अपि तथा ११६२२ स्युः / न च च्यवन-धर्माणः / यद् उक्तम् आश्रय-अपायेन आश्रित- ११६२३ सम्बन्ध-विनाशाद् अनित्यः स इति तत्र / ११६२४ नित्यत्वाद् आश्रय-अपाये अप्य् अनाशो यदि जाति-वत् / ११६२५ नित्येष्व् आश्रय-सामर्थ्यं किं येन इष्टः स आश्रयः
SK
११६२६ श्रूयत एतन् नित्या जातिर् आश्रयिता च न अप्य् आश्रयेण सह नश्यति इति / ११६२७ केवलं नित्येष्व् आश्रय-सामर्थ्यं न पश्यामः येन असाव् आश्रयः / ११६२८ कृतस्य करण-अभावाद् अकारकस्य च अनपेक्षत्वात् / व्यक्तिर् ११६२९ उपकारो जातेः सम्बन्धस्य च आश्रयात् तेन आश्रय इति चेत् ११७०१ ज्ञान-उत्पादन-हेतूनां सम्बन्धात् सहकारिणाम् / ११७०२ तद्-उत्पादन-योग्यत्वेन उत्पत्तिर् व्यक्तिर् इष्यते
SK
११७०३ घट-आदिष्व् अपि युक्ति-ज्ञैर् अविशेषे अविकारिणाम् / ११७०४ व्यञ्जकैः स्वैः कुतः को अर्थो व्यक्तास् तैस् ते यतो मताः
SK
११७०६ सहकारिणः सकाशाद् उपादान-अपेक्षाद् ज्ञान-जनन-योग्य-क्षण-अन्तर- ११७०७ उत्पत्तिर् एव घट-आदीनाम् अभिव्यक्तिः / अन्यथा अनपेक्ष्य तद्-उपकारं ११७०८ ज्ञान-उत्पादन-प्रसङ्गात् / सामर्थ्य-कारिणश् च जनकत्वात् / ११७०९ तस्य च तदात्मकत्वात् / अर्थान्तरत्वे च भाव-अनुपकार- ११७१० प्रसङ्गात् सामर्थ्याच् च ज्ञान-उत्पत्तेर् नित्यं घट-आदीनाम् ११७११ अग्रहण-आपत्तेर् अनालोक-अपेक्ष-ग्रहण-प्रसङ्गाद् अनपेक्ष-आत्म-अनुपकारात् / ११७१२ तद् इमे स्व-विषय-ज्ञान-जनने परम् अपेक्षमाणास् ११७१३ ततः स्वभाव-अतिशयं स्वीकुर्वन्ति / तेन अस्य ते जन्याः / ज्ञेय- ११७१४ रूप-असाधनात् तु ज्ञान-वशेन कार्य-अतिशय-वाचिना शब्देन विशेष- ११७१५ ख्यात्य्-अर्थं व्यङ्ग्याः ख्याप्यन्ते / न एवं जाति-सम्बन्ध-आदयः ११७१६ कथंचिद् अप्य् अनुपकार्यत्वाद् अनुपकारिणा व्यक्ता युज्यते / ११७१७ सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धि-चित्रता / ११७१८ स च अयं सम्बन्धो वस्तु भवन् नियमेन शब्द-अर्थाभ्यां ११७१९ भेद-अभेदौ न अतिवर्तते / रूपं हि वस्तु / तस्य अतत्त्वम् एव अन्यत्त्वम् ११७२० इत्य् उक्तम् / स च अयम् ऐन्द्रियः सन् स्व-बुद्धौ तद्-अन्य-विवेकिन- ११७२१ अप्रतिभासमानो रूपेण कथं तथा स्यात् / दृश्य- अविवेक-अदर्शनयोर् ११७२२ विवेक-सत्ता-विपर्यय-आश्रयत्वात् / अन्यथा तत्-स्थितेर् ११७२३ अभाव-प्रसङ्गात् / अतीन्द्रियत्वाद् अप्रतिभासे अपि इन्द्रिय-आदिष्व् इव अदोष ११७२४ इति चेत् / न / ततो अप्रतिपत्ति-प्रसङ्गात् अप्रसिद्धस्य अज्ञापकत्वात् / ११७२५ संनिधि-मात्रेण ज्ञापने अव्युत्पन्नानाम् अपि स्यात् / ११७२६ न अनुमानात् प्रतिपत्तिर् लिङ्ग-अभावात् दृष्टान्त-असिद्धेश् च तत्र अप्य् ११८०१ अतीन्द्रियत्वेन साधन-अपेक्षणात् / तुल्यम् इन्द्रिय-आदिष्व् अपि इति चेत् / न / ११८०२ तेषाम् अन्यथा-अनुमानात् / ज्ञानं हि केषुचित् सत्सु व्यतिरेक-अन्वय-वत् ११८०३ तन्-मात्र-असम्भवं तद्-व्यतिरिक्त-अपेक्षां च साधयति / ११८०४ ततः कार्य-द्वारेण इन्द्रिय-सिद्धिः / न एवं सम्बन्धस्य / तस्य असिद्धौ ११८०५ तत्-कार्यस्य एव ज्ञानस्य अभावात् / न हि तत्र शब्द-रूपम् ११८०६ अर्थो वा लिङ्गं तयोः सर्वत्र योग्यत्वात् / विशेष-प्रतीति-समाश्रयस्य ११८०७ अप्रत्यायनाद् अप्रतीतिर् अस्य / न ह्य् असति सम्बन्ध-विशेषे ११८०८ सा युक्ता / तस्यां वा अनिमित्तायां तद्-विशेष-प्रतीति-नियम-वद् ११८०९ अर्थ-प्रतिपादनम् अपि शब्दानाम् अनिमित्तं किं न इष्यते / तस्मात् ११८१० तत् सदृशं लिङ्गं सर्व-सम्बन्धे ततो अविशेषेण गमयेत् / ११८११ ततो अविशेषेण एव प्रतीतिः स्यात् सर्वस्य च / तस्मात् सम्बन्ध- ११८१२ सिद्ध्य्-अर्थ-प्रतीतेर् न कश्चित् सम्प्रदायम् अपेक्षेत / सम्प्रदाय- ११८१३ सहितस्य लिङ्गत्वम् इति चेत् / तत् किम् अनया परंपरया / ११८१४ स एव सम्प्रदाय-अपेक्षो अर्थ-ज्ञापनं किं न करोति / स च शब्दो ११८१५ यद् अभिप्रायैः प्रयुज्यमानो दृष्टो अन्यथा न दृष्टो दर्शन- ११८१६ अदर्शनाभ्यां धूम-आदि-वत् तत्-प्रतीतिं जनयति इति स एव ११८१७ सम्बन्धो अविनाभाव-आख्यः / न च अत्र अन्यस्य सामर्थ्यं पश्यामः / ११८१८ न अपि सिद्ध्य्-उपायम् / अथ पुनर् न शब्द-अर्थयोर् अन्य एव ११८१९ सम्बन्धः / ११८२० ताभ्याम् अभेदे ताव् एव न अतो अन्या वस्तुनो गतिः
SK
११८२१ रूप-भेद-निबन्धनत्वाद् व्यवस्था-अन्तरस्य तद्-रूपं तद् एव ११८२२ स्यात् / धर्म-भेदस् तु स्यात् पूर्व-उक्त-क्रमेण / स च अविरुद्ध ११८२३ एव न वस्तु-भेदः / न च भेद-अभेदौ मुक्त्वा वस्तुनो अन्या ११८२४ गतिः / तस्य रूप-लक्षणत्वाद् / रूपस्य च एतद्-विकल्प-अनतिवृत्तेः / ११८२५ अपि च / ११८२६ भिन्नत्वाद् वस्तु-रूपस्य सम्बन्धः कल्पना-कृतः / ११८२७ इत्य् उक्तं प्राक् / न हि श्लेष-लक्षणः सम्बन्धो अश्लिष्टेषु पदार्थेषु ११८२८ सम्भवति / न च अर्थ-अन्तरम् एषां सम्बन्धः / यस्मात् ११९०१ सद्-द्रव्यं स्यात् पर-अधीनं सम्बन्धो अन्यस्य वा कथम्
SK
११९०३ न हि सिद्धं सत् परम् अपेक्षते / न अनपेक्षः स्वतन्त्रः सम्बन्धः / ११९०४ द्रव्यम् इति च स्वभाव उच्यते / स कथं परभावस्य ११९०५ श्लेषः स्यात् / न हि स्वभाव-अन्तर-सत्तया अन्यः श्लिष्टो नाम / ११९०६ मा भूद् अश्लिष्टेन श्लिष्टेन तु स्याद् इति चेत् / न / तस्य एव ११९०७ ताभ्यां श्लेष-असिद्धेः स एव असिद्धो यस् तौ श्लेषयेत् / तद् अयम् ११९०८ अतिप्रसङ्गो यद्य् अर्थाव् अर्थ-अन्तरेण श्लिष्यतो विशेष-अभावात् / किं ११९०९ च / ११९१० वर्णा निरर्थकाः सन्तः पद-आदि परिकल्पितम् / ११९११ अवस्तुनि कथं वृत्तिः सम्बन्धस्य अस्य वस्तुनः
SK
११९१२ वाचको हि वचन-अङ्गेन तद्वान् स्यात् / सन्तो अप्य् अवाचका वर्णाः / ११९१३ तन् न तेषु वाच्यवाचकसम्बन्धः / तद्-वृत्तौ स्वरूप-हानि- ११९१४ प्रसङ्गात् / क्रम-विशेषेण वाचका वर्णा इति चेत् / न / क्रमस्य अनर्थ- ११९१५ अन्तरत्वेन अभेदकत्वात् / तद्-रूपस्य क्रम-अन्तरे अप्य् अविशेषात् ११९१६ तुल्या स्यात् प्रतिपत्तिः / अर्थान्तरत्वम् अपि क्रमस्य निषेत्स्यामः / ११९१७ तद् असति वर्णानां वाचकत्वे पद-आदि वाचकं स्यात् / ११९१८ तच् च न किंचिद् व्यतिरेक-अव्यतिरेक-विरोधात् / तस्माद् इन्द्रिय- ११९१९ विज्ञान-विशेष-अनुबन्धी सभाग-वासना-उपादान -विकल्प-प्रतिभास-विभ्रमः ११९२० पदम् / वाक्यं च एक-अवभासि मिथ्या एव / एक-अनेकत्व- ११९२१ अयोगात् / न ह्य् एकम् / अनेकया बुद्ध्या क्रमेण ग्रहण-अयोगात् / ११९२२ न च तद् एकया ग्राह्यं वर्ण-अनुक्रम-ग्रहणात् / एक-वर्ण- ११९२३ ग्रहण-काले च अनेक-बुद्धि-व्यतिक्रमात् / क्षणिकत्वात् बुद्धीनाम् / ११९२४ क्षणस्य एक-परमाणु-व्यतिक्रम-कालत्वात् / आधिक्ये विभागवतः ११९२५ पर्यवसान-अयोगात् / अनेक-अणु-व्यत्यय-निमेष-तुल्यकालत्वाद् ११९२६ अन्त्य-वर्ण-परिसमाप्तेः / यथा-अनुभवं स्मरणात् ११९२७ स्मृतिर् अपि तत्-काल एव / अनुभव-स्मरण-अनुक्रमयोर् विशेष-अनुपलक्षणत्वाच् ११९२८ च / न अप्य् अनेकं पद-आदि / अभेद-प्रतिभासनाद् बुद्धेस् ११९२९ तद्-अनेकत्वस्य निषेत्स्यमानत्वाच् च / तन् न वस्तु / तस्य ११९३० एतद्-विकल्प-अनतिक्रमात् / वस्तु च सम्बन्धः / स कथं १२००१ तद्-आश्रयः स्यात् / आश्रयनीय-अयोगात् / अनाश्रितो ह्य् एवं स्यात् / १२००२ तथा च असम्बन्धः / तस्मान् न स्वाभाविकः शब्द-अर्थयोः १२००३ सम्बन्धः / तद्-अभिप्रायस्य प्रयोगाद् उत्पन्नो अभिव्यक्तो १२००४ वा शब्दो तद्-अव्यभिचारी इति तत्त्वम् अस्य सम्बन्धः / सा च उत्पत्तिर् १२००५ अभिव्यक्तिर् वा अव्यभिचार-आश्रयः पौरुषेयी इति पौरुषेय एव १२००६ सम्बन्धस् तद्-द्वारेण च अर्थ-प्रत्यायने अनियमः शब्दानाम् १२००७ इत्य् अपौरुषेयत्वे अपि स एव विप्रलम्भः / १२००८ अपौरुषेयता अपि इष्टा कर्तृऋणाम् अस्मृतेः किल / १२००९ या अपि इयम् अपौरुषेयता वेद-वाक्यानां कर्तुर् अस्मरणाद् वर्ण्यते / १२०११ सन्त्य् अस्य अप्य् अनुवक्तार इति धिग् व्यापकं तमः
SK
१२०१२ तस्य एव तावद् ईदृशं प्रज्ञा-स्खलितं कथं वृत्तम् इति सविस्मय- १२०१३ अनुकम्पं नश् चेतः / तद् अपरे अप्य् अनुवदन्ति इति निर्दय- १२०१४ आक्रान्त-भुवनं धिग् व्यापकं तमः / कः प्राणिनो हित-ईप्सा- १२०१५ विप्रलब्धस्य अपराधः / तथा हि स्मरन्ति सौगता मन्त्राणां १२०१६ कर्तृऋन् अष्टक-आदीन् / हिरण्यगर्भं च काणादाः / तेषां १२०१७ स मिथ्या-वाद इति चेत् / क इदानीम् एवं पौरुषेयो अन्यो अपि / १२०१८ कुमारसम्भव-आदिष्व् आत्मानम् अन्यं वा प्रणेतारम् उपदिशन्तो १२०१९ यद् एवं प्रतिव्यूह्येरन् / तत्र प्रतिवहने अभ्युपेत- १२०२० बाधा इति चेत् / नन्व् इदम् एव अभ्युपगम-अङ्गम् इति कस्य बाधा / १२०२१ तत् परस्य अपि तुल्यम् एव / तस्य इष्टत्वाद् अदोष इति चेत् / कुतो अस्य इयम् १२०२२ इष्टिर् अप्रमाणिका प्राग् आसीत् / अकस्माद् ग्राही च अयं किं पुनः १२०२३ क्वचित् साधनम् अपेक्षते / यत् पौरुषेय-अपौरुषेय-चिन्तया १२०२४ आत्मानम् आयासयति / तत एव इष्टेर् अनभ्युपेत-बाधायां तद्-अन्यस्य १२०२५ अपि तुल्यम् इत्य् अनुपालम्भः / अनतिशय-दर्शी च अयं १२०२६ वाक्येष्व् एवंप्रकाराणाम् अपौरुषेयत्व-साधनानां कार्य-धर्माणां १२१०१ वा क्वचिद् अतिशयम् अभ्युपेत इत्य् अप्रत्यय एव अस्य वृत्तिः / १२१०२ दृश्यन्ते च विच्छिन्न-क्रिया-सम्प्रदायाः कृतकाश् च / तान् यत्नवन्त १२१०३ उपलभन्त इति चेत् / न / नियम-अभावात् / अन्यत्र अनुपलम्भस्य १२१०४ उपलम्भस्य वा पर-उपदेशाद् अप्रत्ययाद् अनिश्चय-अर्थत्वात् / १२१०५ स्वयं-कृतानाम् अप्य् अपह्नोतृ-दर्शनात् / निष्ठा-गमनस्य १२१०६ अशक्यत्वात् / १२१०७ यथा अयम् अन्यतो अश्रुत्वा न इमं वर्ण-पद-क्रमम् / १२१०८ वक्तुं समर्थः पुरुषस् तथा अन्यो अपि इति कश्चन
SK
१२१०९ तस्य अपि तद् एव उत्तरम् एवम् अपौरुषेयत्वे अपि किम् इदानीं पौरुषेयम् १२११० इत्य् आदि / तथा हि / १२१११ अन्यो वा रचितो ग्रन्थः सम्प्रदायाद् ऋते परैः / १२११२ दृष्टः को अभिहितो येन सो अप्य् एवं न अनुमीयते
SK
१२११३ न खलु किंचिद् अन्यद् अपौरुषेयत्व-आश्रयो अन्यत्र इदानीन्तनानाम् १२११४ अनुपदेश-पाठ-अशक्तेः / सा च अन्यत्र अप्य् एकेन रचिते ग्रन्थे अन्यस्य १२११५ तुल्या / तद्-अनुसारिणा सर्वस् तथा उन्नेयो न वा कश्चित् / तस्य १२११६ तथा अनिष्टत्वाद् इत्य् आदाव् अप्य् उक्तम् इष्टेस् तद्-आश्रयत्वाद् इत्य् आदि / १२११७ अपि च / १२११८ यज्-जातीयो यतः सिद्धः स तस्माद् अग्नि-काष्ठ-वत् / १२११९ अदृष्ट-हेतुर् अन्यो अप्य् अविशिष्टः सम्प्रतीयते
SK
१२१२० न अदर्शनाद् हेतुर् अहेतुको नाम / अदृष्ट-हेतवो अपि हि भावास् १२१२१ तद्-अन्यैः स्वभाव-अभेदम् अनुभवन्तस् तथाविधाः समुन्नीयन्ते / १२१२२ हेतु-रूप-निवृत्ताव् अपि तद्-रूपम् अनिवृत्तं कार्य-धर्म- १२१२३ व्यतिक्रमान् न ततः स्याद् इति न कश्चित् तथा वचनीयः / १२१२४ रूप-विशेषो वा तथा दर्शनीयो य एनं हेतुम् अनुविदध्यात् / येन इष्ट- १२१२५ अनिष्टयोर् इष्ट-विपर्ययो न स्यात् / स्वभाव-निवृत्तेश् च हेतोर् १२१२६ अभेदने भावानां भेदः स्याद् आकस्मिक इति न क्वचिद् विनिवर्तेत / १२१२७ तस्माद् यः स्वभावो यज्-जन्मा दृष्टः सो अन्यत्र अप्य् अविभज्यमानः १२१२८ स्वात्मना तत्-कार्य-धर्मतां न अतिवर्तते अग्नि-इन्धन-वत् / १२२०१ तत्र अप्रदर्श्य ये भेदं कार्य-सामान्य-दर्शनात् / १२२०२ हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः
SK
१२२०३ यथा-अद्यो अपि पथिक-कृतो अग्निर् ज्वाला-अन्तर-पूर्वको न अरणि-निर्मथन- १२२०४ पूर्वकः / पथिक-अग्नित्वात् / अनन्तर-अग्नि-वद् इति / कथं १२२०५ पुनः पथिक-अग्नेर् व्यभिचारः / ज्वाला-उद्भव-सामर्थ्यं ह्य् १२२०६ आश्रित्य दहनस्य हेत्व्-अन्तरं प्रतिक्षिप्यते / यदि हि विना ज्वालया १२२०७ स्याद् अन्यत्र अपि स्याद् इति / तत्र ज्वाला-इतर-जन्मनोर् अबाध्यबाधकत्वे १२२०८ ज्वाला-अप्रभवत्वम् अन्यथा अपि स्याद् इति धर्मयोर् १२२०९ एकत्र अर्थे सम्भवात् स पथिक-अग्निर् अन्यो वा अर्थ एक-प्रतिनियतो १२२१० न स्याद् इत्य् आशङ्क्यते व्यभिचारः / सो अप्य् अन्योन्य-व्यतिरेकी १२२११ धर्म-द्वय-अवतारो वस्तु-सामान्ये अविरुद्ध इत्य् उच्यते न अवस्था- १२२१२ भेदिनि विशेषे / निष्कलस्य आत्मनस् तद्-अतत्त्व-विरोधात् / न च १२२१३ ज्वाला-इतर-जन्मनोर् बाध्यबाधकता पथिक-अग्नौ / तस्य ज्वाला-प्रभव- १२२१४ व्यतिरेकेण असम्भव-अभावात् / एवंभूतः पथिक-अग्निर् १२२१५ ज्वाला-प्रभव इति स्यात् / न सर्वः / तत्र विशेष-प्रतिक्षेपस्य १२२१६ कर्तुम् अशक्यत्वात् / सम्भवद्-विशेषस्य च तादवस्थ्य-अनियमात् / १२२१७ यद् अपि विना ज्वालया स्याद् अन्यत्र अपि स्याद् इति / भवत्य् एव / १२२१८ यया सामग्र्या सम्भवति सा यदि स्यात् अस्याः सम्भवं प्रदर्श्य १२२१९ तद्-अभावं प्रदर्शयेत् तत्र वा ज्वालाम् स्याद् एतत् / १२२२० तस्मान् न एकस्य पर-पूर्वकम् अध्ययनं सर्वस्य तथाभावं १२२२१ साधयति / तस्य अन्यथा असम्भव-अभावात् / तथाविधस्य १२२२२ तु तत्-क्रिया-प्रतिभा-रहितस्य तथा स्याद् इति / तथाभूतम् १२२२३ एवं वाच्यं स्यात् तद् अविशेषेण सम्भवद्-विशेषम् उच्यमानं १२२२४ छायां न पुष्णाति / कथं विशेषस्य सम्भवो यावता १२२२५ तेषाम् अपि पुरुषाणाम् अशक्तिर् एव इदानीन्तन-पुरुष-वत् / अत्र अपि १२२२६ शक्ति-पुरुषयोर् न किंचिद् विरोध-दर्शनम् इति न अविरुद्ध-विधिर् १२२२७ अनुपलब्धि-प्रयोगो गमकः / न ह्य् अतीन्द्रियेषु विरोध-गतिर् १२२२८ अस्ति इत्य् उक्तम् / न च अयं पूर्व-प्रयोगाद् भिद्यते / यदि पुरुषाः १२२२९ शक्ताः स्युर् इदानीन्तना अपि इति / विशेष-असम्भव एतत् स्यात् / १२३०१ स च दुःसाधः / यत्र एकस्य अशक्तिस् तत्र सर्व-पुरुषाणाम् इत्य् अपि १२३०२ पूर्ववद् व्यभिचारि / भारत-आदिष्व् इदानीन्तनानाम् अशक्ताव् १२३०३ अपि कस्यचित् शक्ति-सिद्धेः / तस्मात् कारणानि विवेचयत अर्थेष्व् १२३०४ अपि तद्-अतत्-प्रतिभवेषु स्वभाव-भेदो दर्शनीयः / तद्-अभावे १२३०५ सर्वस् तदात्मा न वा कश्चित् / न च अत्र लौकिक-वैदिकयोः स्वभाव- १२३०६ भेदं पश्यामः / असति तस्मिंस् तयोः सामान्यस्य एव १२३०७ दृष्टेर् एकस्य कश्चिद् धर्मं विवेचयन् तत्-स्वभाव-सम्भविना १२३०८ तेन आशङ्क्य-व्यभिचार-वादः क्रियते / ननु वेद-अवेदयोस् १२३०९ तत्त्व-लक्षणो अस्त्य् एव विशेषः / सत्यम् अस्ति / न केवलं १२३१० तयोर् एव / किं तर्हि / डिण्डिक-पुराण-इतरयोर् अपि / न च स्व-प्रक्रिया- १२३११ भेद-दीपनो नाम-भेदः पुरुष-कृतिं बाधते / अन्यत्र १२३१२ अपि प्रसङ्गात् / यदि तादृशीं रचनां पुरुषाः कर्तुं न शक्नुयुः १२३१३ कृतां वा अकृत-संकेतो विवेचयेत् व्यक्तम् अपौरुषेयो १२३१४ वेदः / ननु न शक्नुवन्त्य् एव पुरुषा मन्त्रान् कर्तुम् / एतद् १२३१५ उत्तरत्र विचारयिष्यामः / अपि च / न मन्त्रो नाम अन्यद् एव १२३१६ किंचित् / किं तर्हि / सत्य-तपः-प्रभाववतां समीहित-अर्थ-साधनं १२३१७ वचनम् / तद् अद्यत्वे अपि पुरुषेषु दृश्यत एव / यथास्वं १२३१८ सत्य-अधिष्ठान-बला विष-दहन-आदि-स्तम्भन-दर्शनात् / १२३१९ शबराणां च केषांचिद् अद्य अपि मन्त्र-करणात् / अवैदिकानां १२३२० च बौद्ध-आदीनां मन्त्र-कल्पानां दर्शनात् / तेषां च पुरुष- १२३२१ कृतेः / तत्र अप्य् अपौरुषेयत्वे कथम् इदानीम् अपौरुषेयम् १२३२२ अवितथम् / तथा हि बौद्ध-इतरयोर् मन्त्र-कल्पयोर् हिंसा- १२३२३ मैथुन-आत्म-दर्शन-आदयो अनभ्युदय-हेतवो अन्यथा च वर्ण्यते / १२३२४ तत् कथम् एकत्र विरुद्ध-अभिधायि द्वयम् सत्यं १२३२५ स्यात् / तत्र अर्थ-अन्तर-कल्पने तद् अन्यत्र अपि तुल्यम् इत्य् अर्थ-अनिर्णयात् १२३२६ क्वचिद् अप्रतिपत्तिः / तथा च सद् अप्य् अनुपयोगम् अपौरुषेयम् / १२३२७ बौद्ध-आदीनाम् अमन्त्रत्वे तद्-अन्यत्र अपि कोष-पानं १२३२८ स्यात् करणीयम् / विष-कर्म-अधिकृतो बौद्धा अपि दृश्यन्ते / तत्र अमन्त्रत्वम् १२४०१ अपि विप्रतिषिद्धम् / मुद्रा-मण्डल-ध्यानैर् अप्य् १२४०२ अनक्षरैः कर्माणि क्रियन्ते / न च तान्य् अपौरुषेयाणि नित्यानि १२४०३ युज्यते / तेषां क्रिया-सम्भवे अक्षर-रचनायां कः प्रतिघातः १२४०४ पुरुषाणाम् / तस्मान् न किंचिद् अशक्य-क्रियम् एषाम् / कथम् १२४०५ इदानीं सत्य-प्रभवौ मन्त्र-कल्पौ परस्पर-विरोधिनौ / न १२४०६ वै सर्वत्र तौ सत्य-प्रभवौ / प्रभाव-युक्त-पुरुष-प्रतिज्ञा- १२४०७ लक्षणाव् अपि तौ स्तः / स प्रभावो गति-सिद्धि-विशेषाभ्याम् अपि १२४०८ स्यात् / यदि पौरुषेया मन्त्राः किं न सर्वे पुरुषा मन्त्र-कारिणः / १२४०९ तत्-क्रिया-साधन-वैकल्यात् / यदि तादृशैः सत्य-तपः-प्रभृतिभिर् १२४१० युक्ताः स्युः कुर्वन्त्य् एव / अपि च काव्यानि पुरुषः करोति इति १२४११ सर्वः पुरुषः काव्य-कृत् स्यात् / अकरणे वा न एव कश्चित् तद्वद् १२४१२ इत्य् अपूर्वा एषा वाचो-युक्तिः / सत्यं मन्त्र-क्रिया-साधन-विकला १२४१३ मन्त्रान् न कुर्वते / तत् तु कस्यचित् साकल्यं न पश्यामः / १२४१४ पुरुषाणां समान-धर्मत्वात् / उक्तम् अत्र न मन्त्रो नाम अन्यद् १२४१५ एव किंचित् सत्य-आदिमतां वचन-समयाद् इति / तानि च क्वचित् १२४१६ पुरुषेषु दृश्यन्ते / सर्व-पुरुषास् तद्-रहिता इत्य् अपि तत्-सम्भव- १२४१७ विरोध-अभावाद् अनिर्णयः / न च अत्यक्ष-स्वभावेष्व् अनुपलब्धिर् १२४१८ निश्चय-हेतुः / न च स्मृति-मति-प्रतिवेध-सत्य-शक्तयः १२४१९ सर्व-भाविन्यः / तत्-साधन-सम्प्रदाय-भेद-वद् गुण-अन्तर- १२४२० साधनान्य् अपि स्युः / न अपि सन्न् अपि सर्वो द्रष्टुं शक्यः / अत १२४२१ एव अदृष्टस्य अनपह्नवः / न अपि पुरुषेषु उत्पित्सोः कस्यचिद् गुणस्य १२४२२ प्रतिरोद्धा / बाध्य-अदृष्टेर् बाध्यबाधकभाव-असिद्धेः / एतेन १२४२३ सर्व-ज्ञान-प्रतिषेध-आदयो अपि निर्वर्णित-उत्तराः / तत्र अप्य् एवंभूतो १२४२४ यादृशो अयम् असम्भवत्-तत्-साधन-सम्प्रदायो न इति न्यायः / १२४२५ न अदृष्ट-ज्ञापको अतत्-स्वभाव इत्य् अपि / सतां अपि कार्य-अनारम्भ- १२४२६ सम्भवात् / स्वभाव-विप्रकर्षेण द्रष्टुम् अशक्यत्वाच् च / १२४२७ तस्माद् अध्ययनम् अध्ययन-अन्तर-पूर्वकम् अध्ययनाद् इति १२४२८ भारत-अध्ययने अपि भावाद् व्यभिचारि / ननु वेदने विशेषणाद् १२४२९ अदोषः / कः पुनर् अतिशयो वेद-अध्ययनस्य यद् अन्यथा अध्येतुं १२४३० न शक्यते / न हि विशेषणम् अविरुद्धं विपक्षेण अस्माद् १२४३१ हेतुं व्यावर्तयति / अविरुद्धयोर् एकत्र सम्भवात् / इदानीन्तनानाम् १२५०१ अध्ययनाद् इति चेत् / उक्त-उत्तरम् एतत् / अदर्शनाद् १२५०२ इति चेत् / इदम् अपि प्रतिव्यूढम् / न अप्य् अदर्शन-मात्रम् अभावं १२५०३ गमयति इति व्यभिचार एव / तस्मान् न विशेषणम् अतिशय- १२५०४ भाग् इत्य् अनुपात्त-समम् / यत् किंचिद् वेद-अध्ययनं सर्वं १२५०५ तद्-अध्ययन-अन्तर-पूर्वकम् इत्य् अपि व्याप्तिर् न सिध्यति / १२५०६ सर्वस्य तथाभाव-असिद्धेः / यादृशं तु तन्-निमित्तं दृष्टं १२५०७ तत् तथा इति स्यात् / दृष्टे विशेषे तन्-निमित्ततया तत्-त्यागेन सामान्य- १२५०८ ग्रहणं व्यभिचार्य् एव / हुताशन-संसिद्धौ पाण्डु-द्रव्यत्व-वत् / १२५०९ एतेन वचन-आदयो राग-आदि-साधने प्रत्युक्ताः / अस्तु १२५१० वेदम् अध्ययनम् अध्ययन-पूर्वता-साधनम् / १२५११ सर्वथा अनादिता सिध्येद् एवं न अपुरुष-आश्रयः / १२५१२ तस्माद् अपौरुषेयत्वे स्याद् अन्यो अप्य् अनर-आश्रयः
SK
१२५१३ पुरुष एव हि स्वयम् अभ्यूह्य परतो वा आधीयते / न एषाम् अव्यापृत- १२५१४ करणानां स्वयं शब्दा ध्वनन्ति येन अपौरुषेयाः स्युः / १२५१५ अपि स्युर् अपौरुषेया यदि पुरुषाणाम् आदिः स्यात् / तदा अप्य् अन्य- १२५१६ पूर्वकं न सिध्यति / अध्यापयितुर् अभावात् / तत् प्रथमो १२५१७ अध्येता कर्ता एव स्यात् / तद् अयम् अनादिः पूर्व-पूर्व-दर्शन- १२५१८ प्रवृत्तो डिम्भक-पांसु-क्रीडा-आदि-वत् पुरुष-व्यवहार इति स्यात् / १२५१९ न अपौरुषेय इति / अनादित्वाद् अपौरुषेयत्वे बहुतरम् इदानीम् १२५२० अपौरुषेयम् / तथा हि / १२५२१ म्लेच्छ-आदि-व्यवहाराणां नास्तिक्य-वचसाम् अपि / १२५२२ अनादित्वात् तथाभावः पूर्व-संस्कार-सन्ततेः
SK
१२५२३ म्लेच्छ-व्यवहारा अपि केचिन् मातृ-विवाह-आदयो मदन-उत्सव-आदयश् १२५२४ च अनादयः / नास्तिक्य-वचांसि च अपूर्व-परलोक-आद्य्-अपवादीनि / न १२५२५ हि तान्य् अनाहित-संस्काराः परैः प्रवर्तयन्ति / स्व- प्रतिभा-रचित- १२५२६ समयानाम् अपि यथा अश्रुत-अर्थ-विकल्प-संहारेण एव प्रवृत्तेः / १२५२७ तत् किंचित् कुतश्चिद् आगतम् इत्य् एकस्य उपदेष्टुः प्रबन्धेन अभावाद् १२५२८ अपर-पूर्वकम् इत्य् उच्यते / प्राग् एव यथा-दर्शन- १२५२९ प्रवृत्तयः सम्यङ्-मिथ्या-प्रवृत्तयो लोक-व्यवहाराः / नन्व् १२५३० आदि-कल्पिकेष्व् अदृष्टा एव व्यवहाराः पश्चात् प्रवृत्ता इष्यन्ते / १२६०१ न / तेषाम् अप्य् अन्य-संस्कार-आहितानां यथा-प्रत्ययं प्रबोधात् / १२६०२ भवतु सर्वेषाम् अपौरुषेयत्वम् इति चेत् / १२६०३ तादृशे अपौरुषेयत्वे कः सिद्धे अपि गुणो भवेत् / १२६०४ कामम् अविसंवादकम् इत्य् अपौरुषेयत्वम् इष्टम् / तद् विसंवादकानाम् १२६०५ अपि केषांचिद् अनादित्वाद् अस्ति इति किम् अपौरुषेयत्वेन / १२६०६ सति वा वेद-वाक्यानाम् एव अपौरुषेयत्वे / १२६०७ अर्थ-संस्कार-भेदानां दर्शनात् संशयः पुनः
SK
१२६०८ यदि अपौरुषेयत्वे अपि प्रतिनियताम् एव तद्-अर्थ-प्रतिभां १२६०९ जनयेद् आश्वासनं स्यात् / यथेष्टं तु समारोप-अपवादाभ्यां १२६१० नैरुक्त-मीमांसक-आदयो वेद-वाक्यानि विशसन्तो दृश्यन्ते / न १२६११ च ते अर्थास् तेषां न संघटन्ते / समय-प्राधान्याद् अर्थ-निवेशस्य १२६१२ एकस्य अपि वाक्यस्य अनेक-विकल्प-सम्भवात् / प्रकृति-प्रत्ययानाम् १२६१३ अनेक-अर्थ-पाठात् / रूढेर् अप्य् एकान्तेन अननुमतेः / अरूढ- १२६१४ शब्द-बाहुल्यात् / तद्-अर्थस्य पुरुष-उपदेश-अपेक्षणात् / तद्-उपदेशस्य १२६१५ तद्-इच्छा-अनुवृत्तेर् अनिर्णय एव वेद-वाक्य-अर्थेषु / १२६१६ अपि च / अयम् अपौरुषेयत्वं साधयन् वर्णानां वा साधयेद् १२६१७ वाक्यस्य वा / तत्र / १२६१८ अन्य-अविशेषाद् वर्णानां साधने किं फलं भवेत् / १२६१९ न हि लोक-वेदयोर् नाना वर्णाः / भेदे अपि च प्रत्यभिज्ञान-अविशेषात् १२६२० तत एकत्व-असिद्धि-प्रसङ्गाद् भेद-अनुपलक्षणाच् च वैदिक- १२६२१ वर्ण-असिद्धिः प्रत्यभिज्ञानाद् अप्रतिपत्ति-प्रसङ्गात् / अनभ्युपगमाच् १२६२२ च / तेषां च अपौरुषेयत्व-साधने ते तुल्याः सर्वत्र १२६२३ इति किम् अनेन परिशेषितम् / तथा च सर्वो व्यवहारो अपौरुषेयः / १२६२४ न च सर्वो अवितथ इति व्यर्थः परिश्रमः / अथ वाक्यम् १२६२५ अपौरुषेयम् इष्टम् / १२७०१ वाक्यं न भिन्नं वर्णेभ्यो विद्यते अनुपलम्भनात्
SK
१२७०३ न हि वयं देवदत्त-आदि-पद-वाक्येषु दकार-आदि-प्रतिभासं मुक्त्वा १२७०४ अन्यं प्रतिभासं बुद्धेः पश्यामः / द्वितीय-वर्ण-प्रतिभास-वत् / १२७०५ न च अप्रतिभासमानं ग्रहणे ग्राह्यतया इष्टम् अस्त्य् १२७०६ अन्यद् वा इति शक्यम् अवसातुम् / आकार-अन्तर-वत् / अन्य-असम्भवि १२७०७ कार्यं गमकम् इति चेत् / स्याद् एतत् यदि तेषु वर्णेषु सत्सु अपि १२७०८ तत् कार्यं न स्यात् / न भवति तेषाम् अविशेषे अपि पद-वाक्य-अन्तरे १२७०९ अभावाद् इति चेत् / न / तेषाम् अविशेष-असिद्धेः / अविशेषः प्रत्यभिज्ञानात् १२७१० सिद्ध इति चेत् / न / तस्य व्यभिचाराद् अनिदर्शनत्वाच् १२७११ च / वर्ण-अविशेषे अपि वाक्य-भेदात् प्रतिपत्ति-भेदः कार्य-भेदः १२७१२ स्यात् / सा च वाक्यात् / तच् च अतीन्द्रियम् इति कुतः स्यात् / संनिधान- १२७१३ मात्रेण जनने अव्युत्पन्नस्य अपि स्यात् / तस्मान् न वाक्यं १२७१४ नाम किंचिद् अर्थ-अन्तरं वर्णेभ्यो यस्य अपौरुषेयत्वं साध्येत / १२७१५ तद्-अभावाद् वेद-अविशिष्ट-वर्ण-अपौरुषेयत्वम् अपि प्रथम- १२७१६ पक्षे प्रत्युक्तम् / अपि च अस्त्व् अर्थ-अन्तरं वाक्यम् / १२७१७ तद् अनेक-अवयव-आत्मकं वा स्याद् अनवयवं वा / १२७१८ अनेक-अवयव-आत्मत्वे पृथक् तेषां निरर्थता / १२७१९ ते अपि तस्य बहवो अवयवाः पृथक् प्रकृत्या यद्य् अनर्थकाः / १२७२० अतद्-रूपे च ताद्रूप्यं कल्पितं सिंहता-आदि-वत्
SK
१२७२१ अर्थवान् एव आत्मा वाक्यम् / ते च अवयवाः स्वयम् अनर्थकाः / १२७२२ तेषु स आत्मा कल्पना-समारोपितः स्यात् / सिंहता-आदि-वन् माणवक- १२७२३ आदिष्व् इति पौरुषेय एव / अथ मा भूद् एष दोष इति प्रत्येकं १२७२४ ते अवयवाः सा अर्थका इष्यन्ते / १२८०१ प्रत्येकं सा अर्थकत्वे अपि मिथ्या-अनेकत्व-कल्पना / १२८०२ एक-अवयव-गत्या च वाक्य-अर्थ-प्रतिपद् भवेत्
SK
१२८०३ परिसमाप्त-अर्थं हि शब्द-रूपं वाक्यम् / ते च अवयवास् तथाविधाः १२८०४ पृथक् पृथग् इति प्रत्येकं ते वाक्यम् / तथा च न अनेक- १२८०५ अवयवं वाक्यम् / एक-अवयव-प्रतिपत्त्या च वाक्य-अर्थ-प्रतिपत्तेर् १२८०६ अवयव-अन्तर-अपेक्षा काल-क्षेपश् च न स्यात् / तस्य निष्कल- १२८०७ आत्मनः क्षणेन प्रतिपत्तेर् एक-ज्ञान-उत्पत्तौ निःशेष-अवगमात् / १२८०८ अन्यथा च एकत्व-विरोधात् / १२८०९ सकृच् श्रुतौ च सर्वेषां काल-भेदो न युज्यते / १२८१० अथ मा भूद् अवयव-अन्तर-अप्रतीक्षणेन एकस्माद् एव अवयवाद् १२८११ वाक्य-अर्थ-सिद्धेर् अनेक-अवयवत्व-हानिर् वाक्यस्य इति सकृत् सर्व- १२८१२ अवयवानां श्रवणम् इष्यते / तदा अपि काल-क्षेपो न युक्त एव / १२८१३ एक-अवयव-प्रतिपत्ति-काल एव सर्वेषां श्रवणात् / क्रम-श्रवणे १२८१४ च पृथग् अर्थवताम् एकस्माद् एव तद्-अर्थ-सिद्धेर् अन्यस्य १२८१५ वैयर्थ्यात् / सकृच् श्रुतौ च पृथग् अर्थेष्व् अदृष्ट-सामर्थ्यानाम् १२८१६ अर्थवत्ता च न सिध्यति / सहितेष्व् अर्थ-दर्शनाद् अदोषः / १२८१७ न / पृथग् असतो रूपस्य संघाते अप्य् असम्भवात् / अर्थ-अन्तर-अनुत्पत्तेश् १२८१८ च / शब्द-उत्पाद-वादिनस् तावद् अयम् अदोष एव / पृथग् १२८१९ असमर्थानाम् अप्य् अवयवानाम् उपकार-विशेषाद् अतिशयवतां १२८२० कार्य-विशेष-उपयोगात् / प्रत्येकं त्व् अवयवेषु समर्थेषु व्यर्था १२८२१ स्याद् अन्य-कल्पना / अथ पुनर् एकम् एव अनवयवं वाक्यम् / १२८२२ तत्र / १२८२३ एकत्वे अपि ह्य् अभिन्नस्य क्रमशो गत्य्-असम्भवात्
SK
१२८२४ काल-भेद एव न युज्यते / न ह्य् एकस्य क्रमेण प्रतिपत्तिर् १२८२५ युक्ता / गृहीत-अगृहीतयोर् अभेदात् / क्रमेण च वाक्य-प्रतिपत्तिर् १२८२६ दृष्टा / सर्व-वाक्य-व्याहार-श्रवण-स्मरण-कालस्य अनेक-क्षण-निमेष- १२८२७ अनुक्रम-परिसमाप्तेः / वर्ण-रूप-असंस्पर्शिनश् च एक-बुद्धि-प्रतिभासिनः १२८२८ शब्द-आत्मनो अप्रतिभासनात् / वर्ण-अनुक्रम-प्रतीतेः / १२८२९ तद्-अविशेषे अप्य् अनुक्रम-कृतत्वाद् वाक्य-भेदस्य अनुक्रमवती १२९०१ वाक्य-प्रतीतिः / वर्ण-अनुक्रम-उपकार-अनपेक्षणे तैर् यथा कथंचित् १२९०२ प्रयुक्तैर् अपि यत् किंचिद् वाक्यं प्रतीयेत विना वा १२९०३ वर्णैः / तैर् अनुक्रमवद्भिर् अक्रमस्य उपकार-अयोगात् / अक्रमेण १२९०४ च व्याहर्तुम् अशक्यत्वात् / गत्य्-अन्तर-अभावाच् च / न एव १२९०५ वाक्ये वर्णाः सन्ति तद् एकम् एव शब्द-रूपं व्यञ्जक-अनुक्रम- १२९०६ वशाद् अनुक्रम-वद् वर्ण-विभाग-वच् च प्रतिभाति इति चेत् / १२९०७ अनुक्रमवता व्यञ्जकेन अक्रमस्य व्यक्तिः प्रत्युक्ता / व्यक्त- १२९०८ अव्यक्त-विरोधाद् अवर्ण-भागे च वाक्ये असकल-श्राविणो असकल-वाक्य- १२९०९ गतिर् न स्यात् एकस्य शकल-अभावात् सकल-श्रुतिर् न वा कस्यचित् / १२९१० समस्त-वर्ण-संस्कारवत्या अन्त्यया बुद्ध्या वाक्य-अवधारणम् १२९११ इत्य् अपि मिथ्या / तस्य अवर्ण-रूप-संस्पर्शिनः कस्यचित् कदाचिद् १२९१२ अप्रतिपत्तेः / वर्णानां च अक्रमेण अप्रतिपत्तेः कुतो अक्रमम् १२९१३ एक-बुद्धि-ग्राह्यं वाक्यं नाम / न च अन्त्य-वर्ण-प्रतिपत्तेर् १२९१४ ऊर्ध्वम् अन्यम् अशकलं शब्द-आत्मानम् उपलक्षयामः / न अपि १२९१५ स्वयम् अयं वक्ता विभावयति / केवलम् एवं यदि स्यात् साधु १२९१६ मे स्याद् इति कल्याण-कामता-मूढ-मतिर् अन्त्यायां बुद्धौ समाप्त-कलः १२९१७ शब्दो भाति इति स्वप्नायते / न हि स्मर्यमाणायोर् १२९१८ अपि पद-वाक्ययोर् वर्णाः क्रम-विशेषम् अन्तरेण विभाव्यन्ते / १२९१९ अक्रमायां बुद्धौ पौर्वापर्य-अभावात् / तेषां तत्-कृतः पद- १२९२० वाक्य-भेदानां भेदो न स्यात् / न अप्य् अवर्ण-क्रमम् अन्यच् १२९२१ शब्द-रूपं पश्याम इत्य् उक्तम् / सति वा तद् अनित्यं वा स्यान् १२९२२ नित्यं वा / यदि / १२९२३ अनित्यं यत्न-सम्भूतं पौरुषेयं कथं न तत् / १२९२४ अवश्यं ह्य् अनित्यम् उत्पत्तिमत् कुतश्चिद् भवति / तथा ह्य् आकस्मिकत्वे १२९२५ सत्त्वस्य देश-आदि-नियमो न स्याद् इत्य् उक्तम् / तच् च यत्न- १२९२६ प्रेरित-अविगुण-करणानां दृष्टम् अन्यथा न इति / कारण-धर्म- १३००१ दर्शनात् पुरुष-व्यापार एव कारणम् / अतः पौरुषेयं स्यात् / १३००२ नित्य-उपलब्धिर् नित्यत्वे अप्य् अनावरण-सम्भवात्
SK
१३००३ अथ तच् शब्द-रूपं नित्यं स्याद् उपलभ्य-स्वभावं च / १३००४ स च तस्य स्वभावः कदाचिन् न अपैति इति नित्यम् उपलभ्येत / १३००५ एवं हि स नित्यः स्याद् यदि न कुतश्चित् सामर्थ्यात् प्रच्यवेत् / १३००६ ज्ञान-जनन-सामर्थ्यस्य तदात्मकत्वात् / अर्थान्तरत्वस्य च १३००७ प्राग् एव निषिद्धत्वात् / न अपि तस्य उपलभ्य-आत्मनः किंचिद् उपलम्भ- १३००८ आवरणं सम्भवति / तस्य सतो अपि तदात्मनम् अखण्डयतः १३००९ सामर्थ्य-तिरस्कार-अयोगात् / न हि तत्र अतिशयम् अनुत्पादयन् १३०१० किंचित्करो नाम / अकिंचित्करश् च कः कस्य आवरणम् अन्यद् १३०११ वा इति निर्लोठित-प्रायम् एतत् / कुड्य-आदयो घट-आदीनां कम् अतिशयम् १३०१२ उत्पादयन्ति खण्डयन्ति वा येन आवरणम् इष्यन्ते / न ब्रूमस् १३०१३ ते कंचिद् अतिशाययन्ति इति / अपि तु न सर्वे घट-क्षणाः सर्वस्य इन्द्रिय- १३०१४ विज्ञान-हेतवः परस्पर-सहितास् तु विषय-इन्द्रिय-आलोकाः १३०१५ परस्परतो विशिष्ट-क्षण-अन्तर-उत्पादाद् विज्ञान-हेतवः / अनुपकार्यस्य १३०१६ अपेक्षा-अयोगात् / शक्त-स्वभावस्य नित्यं जननम् अजननं १३०१७ वा अन्यस्य सर्वदा स्याद् इत्य् उक्तम् / ते च अव्यवहिताः प्रतिघातिना १३०१८ अन्येन अन्योन्यस्य उपकारिणः / अव्यवधान-देश-योग्यता-सहकारित्वात् १३०१९ तेषाम् अन्योन्य-अतिशय-उत्पत्तेः / व्यवधाने तु हेत्व्-अभावात् १३०२० समर्थ-क्षण-अन्तर-अनुत्पत्तेर् ज्ञान-अनुत्पत्तिः / तस्मात् पूर्व-उत्पन्न- १३०२१ समर्थ-निरोधात् सति कुड्ये अन्यस्य उत्पित्सोः कारण-अभावेन अनुत्पत्तेः १३०२२ कारण-वैकल्याज् ज्ञान-अनुत्पत्तिर् इति कुड्य-आदय आवरणम् १३०२३ उच्यन्ते / न प्राग् योग्यस्य प्रतिबन्धात् / तस्य स्वभावाद् अप्रच्युतेः / १३०२४ अथवा सम्भवत्य् अपि भावानां क्षणिकानाम् अन्योन्य-उपकारो १३०२५ अचिन्त्यत्वाद् हेतु-प्रत्यय-सामर्थ्यस्य असर्वविदा / तेन १३०२६ यद् इन्द्रिय-विषय-मध्य-स्थितम् आवरणं तत् तौ विज्ञान-उत्पत्ति- १३०२७ वैगुण्य-तारतम्य-भेदेन अतिशययेद् अपि / आवरण-भेदे न शब्द- १३०२८ आदौ श्रुति-मान्द्य-पाटव-दर्शनात् / अन्यथा क्वचिद् अप्य् अकिंचित्करस्य १३१०१ संनिधानस्य अप्य् असंनिधान-तुल्यत्वात् तस्य इदम् इत्य् / १३१०२ उपसंहारो विकल्प-निर्मित एव स्यात् / न वस्त्व्-आश्रयः / न च १३१०३ समारोप-अनुविधायिनो अर्थक्रियाः / न हि माणवको दहन-उपचाराद् १३१०४ आधीयते पाके / तस्मात् सत्याम् अपि कल्पनायाम् अतत्-परावृत्तयो १३१०५ भावा यथा-स्वभाव-वृत्तय एव स्युः / तत् सत्य् अप्य् १३१०६ आवरणे विज्ञापयेयुर् एव इन्द्रिय-आदयः / न च तथा / तस्मात् तेन आधेयविशेषा १३१०७ इति गम्यन्ते / न खल्व् एवं नित्यानां शब्दानां १३१०८ कस्मिंश्चित् सत्य् अतिशय-हानिर् उत्पत्तिर् वा / तद् यदि तेषां ज्ञान-जननः १३१०९ स्वभावः सर्वस्य सर्वदा सर्वाणि स्व-विषय-ज्ञानानि सकृज् १३११० जनयेयुः / नो चेन् न कदाचित् कस्यचित् किंचिद् इत्य् एकान्त एषः / १३१११ अश्रुतिर् विकलत्वाच् चेत् कस्यचित् सहकारिणः / १३११२ स्याद् एतत् / न आवरणान् नित्यं सर्वे शब्दा न श्रूयन्ते / अपि तु १३११३ किंचित् तेषां प्रतिपत्तौ सहकारि प्रतिनियतम् अस्ति / तत् कदाचित् १३११४ कस्यचिद् भवति इति तत्-कृतम् एषां कदाचित् क्वचिच् श्रवणम् इति / १३११५ कामम् अन्य-प्रतीक्षा अस्तु नियमस् तु विरुध्यते
SK
१३११६ न वै वयं कारणानां सहकारीणि प्रतिक्षिपामः / किं त्व् १३११७ अपेक्षन्त एव कारणानि तद्-अवस्था-उपकारिणम् / ततो लभ्यस्य अतिशयस्य १३११८ कार्य-उपयोगात् / तथा शब्दो अपि यदि किंचिद् अपेक्ष्य १३११९ कार्यं कुर्यात् करोतु पूर्व-स्वभाव-नियत इत्य् एतन् न स्यात् / १३१२० तस्य प्रच्युतेः / अपेक्ष्याच् च स्वभाव-अन्तर-प्रतिलम्भात् / १३१२१ न ह्य् अनुपकार्य् अपेक्ष्यत इत्य् उक्तम् एतत् / तद्-उपकारस्य १३१२२ च अर्थान्तरत्वे तस्य इति सम्बन्ध-अभाव-आदयो अप्य् उक्ताः / तस्य १३१२३ च अज्ञेयत्वम् / उपकाराद् एव ज्ञान-उत्पत्तेः / तस्माद् एव शब्दो न इन्द्रियं १३१२४ न संनिकर्षं न आत्मानम् अन्यद् वा किंचिज् ज्ञान-उत्पत्ति-समाश्रयं १३१२५ स्व-विज्ञान-जनने अपेक्षते / सर्वस्य तत्र अकिंचित्करत्वाद् / १३१२६ अपि च / एते शब्दा व्यापिनो वा स्युर् अव्यापिनो वा / १३१२७ सर्वत्र अनुपलम्भः स्यात् तेषाम् अव्यापिता यदि / १३१२८ कथं एक-देश-वर्तितं तच्-शून्य-देश-स्थित उपलब्धेत / अप्राप्त- १३२०१ ग्रहण-पक्षे अदोष इति चेत् / न / तत्र अपि योग्य-देश-स्थिति-तारतम्य- १३२०२ अपेक्षणाद् अयस्कान्त-आदि-वत् / अन्यथा स्पष्ट-अस्पष्ट-श्रुति- १३२०३ भेदो न स्यात् / सति च उपलम्भ-प्रत्यये सर्वत्र देशे तुल्यम् १३२०४ उपलभ्येरन् / तस्मान् न अव्यापिनः / १३२०५ सर्वेषाम् उपलम्भः स्याद् युगपद् व्यापिता यदि
SK
१३२०६ न हि कश्चिच् शब्द क्वचिन् न अस्ति इति सर्वे युगपद् उपलभ्येरन् १३२०७ सर्व-देश-स्थितैश् च / योग्य-इन्द्रियत्वाद् विषय-संनिधानाद् अप्रतिबन्धाच् १३२०८ च / १३२०९ संस्कृतस्य उपलम्भे च कः संस्कर्ता अविकारिणः / १३२१० स्याद् एतत् / सन्न् अपि न सर्वः शब्द उपलभ्यते सर्वेण / संस्कृतस्य १३२११ संस्कृतेन एव उपलम्भाद् इति / तत्र न संस्कृतस्य उपलम्भो १३२१२ अनाधेयविकारस्य संस्कार-अयोगात् / १३२१३ इन्द्रियस्य हि संस्कारः शृणुयान् निखिलं च तत्
SK
१३२१४ तत्र यदि संस्कृतेन उपलम्भ इत्य् असंस्कृतेन इन्द्रियो न उपलभते / १३२१५ यस्य संस्कार इन्द्रियस्य कृतः स सर्व-शब्दान् युगपच् शृणुयाद् १३२१६ इति प्रसङ्गो अनिवृत्त एव / १३२१७ संस्कार-भेदाद् भिन्नत्वाद् एक-अर्थ-नियमो यदि / १३२१८ अनेक-शब्द-संघाते श्रुतिः कलकले कथम्
SK
१३२१९ अथ अपि स्यात् / प्रतिनियताः ते संस्काराः शब्दानाम् / तत्र केनचित् १३२२० संस्कृतम् इन्द्रियं कस्यचिद् एव ग्राहकम् इति न युगपत् सर्व- १३२२१ शब्द-श्रुतिर् इति / संस्कार-विशेषाच् श्रुति-नियमे इन्द्रियाणाम् अनेक- १३२२२ शब्द-संघातस्य कलकलस्य श्रुतिर् न स्यात् / न ह्य् एकः १३२२३ शब्दः कलकलो नाम / भिन्न-स्वभावानां युगपच् श्रवणात् / १३२२४ स्वभाव-भेद-आश्रयत्वाच् च भेद-व्यवस्थितेः / लघुवृत्तेः १३२२५ सकृच्-श्रुतिर् भ्रान्तिर् इति चेत् / वंश-आदि-स्वर-धारायां गमक-अवयव- १३२२६ संहारात् संकुला प्रतिपत्तिः स्यात् / वक्ष्यते च अत्र प्रतिषेधः / १३२२७ तस्माद् एक-गति-शक्ति-प्रतिनियमाद् इन्द्रियस्य अनेकात्मा १३२२८ कलकलो न श्रूयेत / १३२२९ ध्वनयः केवलं तत्र श्रूयन्ते चेन् न वाचकाः / १३३०१ न वै कलकले वर्ण-पद-वाक्यानि श्रूयन्ते / ध्वनीनाम् एव १३३०२ केवलानां श्रवणात् / वाचके च प्रतिनियत-शक्ति-इन्द्रियं न १३३०३ ध्वनिषु / तत्र / १३३०४ ध्वनिभ्यो भिन्नम् अस्ति इति श्रद्धा इयं अतिबह्व् इदम्
SK
१३३०५ न हि वयं ध्वनिं शब्दं च वाचकं पृथग्-रूपम् उपलक्षयामः / १३३०६ एकम् एव एकदा वर्ण-अनुक्रम-श्रवणे शब्द-आत्मानं १३३०७ व्यवस्यामः / तत् कथं व्यवसाय-पूर्वकं व्यवहारम् १३३०८ अव्यवस्यन्तः प्रवर्तयामः / तस्माद् ध्वनि-विशेष एव इयं १३३०९ वर्ण-आद्य्-आख्यः / अपि च / १३३१० स्थितेष्व् अन्येषु शब्देषु श्रूयते वाचकः कथम् / १३३११ न ध्वनिर् अतो भिन्नस् तेन सह पृथग् वा / न हि प्रत्यक्षे १३३१२ अर्थे पर-उपदेशो गरीयान् / तद् अयं स्थितेष्व् अन्येषु व्याहर्तृषु १३३१३ केवलम् एव शब्दं शृण्वंस् तद्-उपलम्भ-प्रत्ययानां तद्-अन्य- १३३१४ निष्पादने सामर्थ्य-अभावं प्रत्येति / यदि हि समर्थाः स्युस् १३३१५ तत्-साधितं तद् उपलभ्येत / तत्-स्वभावा एव पुनः प्रत्ययाः १३३१६ कथं कलकले अर्थ-अन्तरम् आरभेरन् / न हि कारण-अभेदे १३३१७ कार्य-भेदो युक्तः / भेदस्य अहेतुकत्व-प्रसङ्गाद् इत्य् उक्तम् / १३३१८ न च कलकले वाचको न श्रूयते / पद-वाक्य-विच्छेदानाम् उपलक्षणात् / १३३२० कथं वा शक्ति-नियमाद् भिन्न-ध्वनि-गतिर् भवेत्
SK
१३३२१ तानि प्रतिनियत-शक्तीन्य् अपि इन्द्रियाणि नाना-रूपान् प्रति-शब्द-नियतान् १३३२२ ध्वनीन् शृण्वन्ति न त्व् एवं शब्दान् इति कः शब्देष्व् एषां १३४०१ निर्वेदः / यद् उक्तं न ध्वनयो भेदेन वाचकेभ्यः सिद्धा १३४०२ इति कथं न सिद्धाः / वचनाद् अर्थ-प्रतिपत्तेः / न हि ध्वनि- १३४०३ भागाद् अल्पीयसः शब्द-अर्थ-प्रतीतिः / न च सो अन्यं सम इति / १३४०४ तद् इयं समस्त-पद-वाक्य-रूप-साध्य-अर्थ-प्रतीतिर् असमस्त- १३४०५ भागेषु ध्वनिषु न सम्भवति इति सिद्धम् अक्रम-सत्त्वं १३४०६ शब्द-रूपम् / क्रमवद्-भागश् च ध्वनिर् इति / तन् न / अक्रमस्य १३४०७ क्रमवद्-व्यतिरेकिणः प्राग् एव निषिद्धत्वात् / अतिप्रसङ्गश् च एवम् / १३४०८ कर्म-भागानां पूर्वेण अपरस्य अप्रतिसन्धानात् एक-अंशाच् १३४०९ च अप्रतिपत्तेः तद्-व्यतिरेकी हस्त-संज्ञा-आदिष्व् अर्थ-प्रतिपत्ति- १३४१० हेतुः समस्त-रूपः कर्म-आत्म-अभ्युपगन्तव्यः स्यात् / शब्द-वद् १३४११ एव / क्रम-भाविन एव यथास्वं करण-प्रयोगाद् भिन्ना १३४१२ वर्ण-भागाः कर्म-भागा वा क्रमेण विकल्प-विषया यथा- १३४१३ संकेतम् एव अर्थ-प्रतीतिं जनयन्ति इति न्याय्यम् / किं च / १३४१४ ध्वनयः सम्मता यैस् ते दोषैः कैर् अप्य् अवाचकाः / १३४१५ ध्वनिभिर् व्यज्यमाने अस्मिन् वाचके अपि कथं न ते
SK
१३४१६ क्रम-उत्पादिभिर् ध्वनि-भागैर् व्यक्तः किल वाचको वक्ति / तम् १३४१७ अपि ते न एव सकृत् प्रकाशयन्ति / क्रम-भावात् / न अप्य् एक एव १३४१८ भागः शब्दं व्यनक्ति / तद्-अन्य-वैयर्थ्य-प्रसङ्गात् / एक-वर्ण- १३४१९ भाग-काले च समस्त-रूप-अनुपलक्षणात् / तद् अयम् अप्रतिसंहित- १३४२० सकल-उपलम्भो ध्वनि-वद् उपलम्भ-साकल्य-संनिधान- १३४२१ अर्थं कथं साधयेत् / को हि विशेषो अत्यन्त-अनुपलम्भे १३४२२ सद्-असतोर् उपलम्भ-साध्येष्व् अर्थेषु / न च संनिधि-मात्रेण १३४२३ साधनः / व्यक्त्य्-अपेक्षणात् / सा च इयं क्रम-भाविनी सद्-असतोस् १३४२४ तुल्य-उपयोग इति ध्वनिभिर् अशक्य-साधनं कार्यम् / तत्र अपि १३४२५ तथा इत्य् अलं अन्येन / तस्मान् न वर्णेषु वाक्ये वा अपौरुषेयता / १३४२६ वर्ण-अनुपूर्वी वाक्यं चेन् न वर्णानाम् अभेदतः / १३५०१ न अर्थ-अन्तरम् एव शब्द-रूपं वाक्यम् अपौरुषेयम् / किं तर्हि / १३५०२ वर्ण-अनुक्रम-लक्षणं हि नो वाक्यम् / तद् अपौरुषेयं साध्यम् १३५०३ इति चेत् / न / वर्णानाम् आनुपूर्व्या अभेदात् / न इयम् अर्थ-अन्तरं १३५०४ वर्णेभ्यः / दृश्यायां विभाग-उपलम्भात् / अदृश्यायां ततो १३५०५ अप्रतिपत्तेर् लिङ्ग-अभावात् / भेदवत्याश् च आनुपूर्व्या अभावे वर्ण- १३५०६ मात्रम् अवशिष्टं सर्वत्र इति पूर्ववत् प्रसङ्गः / १३५०७ तेषां च न व्यवस्थानं क्रम-अन्तर-विरोधतः
SK
१३५०८ यद्य् अकृतक-अनुपूर्वी वर्णानां ते च न बहवः समान-जातीयाः १३५०९ येन केचिद् व्यवस्थित-क्रमाः स्युः अन्ये यथा इष्ट-परावृत्तयः १३५१० किं तर्हि एक एव त्रैलोक्ये अकारस् तथा गकारः तदा अग्निर् इत्य् १३५११ एव स्यात् न गगनम् इति अकार-गकारयोः पूर्वापर-भावस्य १३५१२ व्यवस्थितत्वात् / कृतकानाम् अपि हेतु-परिणाम-नियमवताम् १३५१३ अशक्यः क्रम-विपर्ययः कर्तुम् / यथा बीज-अङ्कुर-पत्र-आदीनाम् १३५१४ ऋतु-संवत्सर-आदीनां च / किं पुनर् अचलित-अवस्था-स्वभावानाम् १३५१५ अकृतकानां कथंचित् स्थितानां पूर्व-अवस्था-त्यागम् अन्तरेण १३५१६ अन्यथा अभाव-अयोगात् / त्यागे वा विनाश-प्रसङ्गात् / विशेषेण नित्यायाम् १३५१७ आनुपूर्व्यां / तद् एतत् प्रतिपदं क्रम-अन्यत्वं वर्ण- १३५१८ अन्यत्वे अपूर्व-उत्पादात् वर्ण-बाहुल्याद् वा स्यात् / तच् च अनभिमतम् / १३५१९ अपि च / १३५२० देश-काल-क्रम-अभावो व्याप्ति-नित्यत्व-वर्णनात् / १३५२१ सा च इयम् आनुपूर्वी वार्णानां देश-कृता वा स्यात् / यथा पिपीलिकानां १३५२२ पङ्क्तौ / काल-कृता वा यथा बीज-अङ्कुर-आदीनाम् / सा द्विविधा अपि १३५२३ वर्णेषु न सम्भवति / व्याप्तेर् नित्यत्वाच् च / अन्योन्य-देश- १३६०१ परिहारेण वृत्तिर् हि देश-पौर्वापर्यम् / तत् सर्वस्य सर्वेण १३६०२ तुल्यदेशत्वाद् वर्णेषु न सम्भवति / वात-आतप-वद् आत्म-आदि-वच् १३६०३ च / तथा काल-परिहारेण वृत्तिः काल-पौर्वापर्यम् / यदा एको १३६०४ न अस्ति तदा अन्यस्य भावात् / तद् अपि नित्येषु न सम्भवति / सर्वदा १३६०५ सर्वस्य भावात् / न च अन्या गतिर् अस्ति / तत् कथं वर्ण-पौर्वापर्यं १३६०६ वाक्यं यद् अपौरुषेयं साध्येत / १३६०७ अनित्य-अव्यापितायां च दोषः प्राग् एव कीर्तितः
SK
१३६०८ अथ मा भूद् अयं दोष इत्य् अनित्यान् अव्यापिनश् च वर्णान् इच्छेत् / १३६०९ ताव् अपि पक्षौ प्राग् एव निराकृताव् इत्य् अपरिहारः / १३६१० व्यक्ति-क्रमो अपि वाक्यं न नित्य-व्यक्ति-निराकृतः / १३६११ न वर्णानां रूप-अनुपूर्वी वाक्यम् / किं तर्हि / तद्-व्यक्तेः / सा १३६१२ यथा स्व-वर्ण-अभिव्यक्ति-प्रत्यय-क्रमाद् भवन्ती क्रम-योगिनी १३६१३ इति तदा अनुपूर्वी वाक्यम् इत्य् अपि मिथ्या / तस्या नित्येषु प्राग् एव १३६१४ निषिद्धत्वात् / कार्यता-विशेष एव साक्षाच्-शक्त्य्-उपधानेन ज्ञान- १३६१५ जनकानां व्यक्तिर् इत्य् आख्यातम् एतत् / १३६१६ व्यापाराद् एव तत्-सिद्धेः करणानां च कार्यता
SK
१३६१७ यत् खलु रूपं यत एव उपलभ्यते तस्य तद्-उपलब्धि-नान्तरीयकाम् १३६१८ उपलब्धिम् एव आश्रित्य लोकः कार्यतां प्रज्ञापयति / सा १३६१९ वर्णेष्व् अप्य् अस्ति / स एव च अन्यत्र अपि तद्-आश्रयः / न विशेषः / तत् १३६२० कथं तुल्ये अभ्युपगम-निबन्धने न वर्णाः कार्याः / न १३६२१ च एतद् उपलब्ध्य्-आश्रया कार्यता-स्थितिः / किं तर्हि / यत् सत्य् एव १३६२२ भवति इति सत्ता-आश्रया / सा सत्ता कुतः सिद्धा ये न कार्यतां साधयेत् / १३६२३ न ह्य् असिद्धायाम् अस्याम् एवं भवति इति / तस्मात् सत्ता- १३६२४ सिद्धिस् तत्-साधनी / सा च उपलब्धिर् एव / सत्यम् एवं यदि तस्य १३६२५ प्राङ् न सत्ता सिद्धा स्यात् / सा हि सत्ता-सिद्धिर् या असिद्धि-पूर्विका / १३७०१ ननु तद् रूपम् असिद्धम् एव यत् तथाभूत-विज्ञान-अव्यवधान- १३७०२ उपयोगि / सिद्धम् एव तद् अन्य-वैकल्यान् न उपयुक्तम् इति १३७०३ चेत् / कथम् इदानीम् उपयुक्त-अनुपयुक्तयोर् अभेदः / न अपि भेदः १३७०४ शब्द-स्वभाव-असंस्पर्शी तस्य एव अतिशयस्य उपयोग-सिद्धेस् तस्या १३७०५ कारणत्व-प्रसङ्गात् / यस्य एव भावे साध्य-सिद्धिस् तद् एव हि १३७०६ तत्र उपयोगि युक्तम् / तद्-अतिशय-उपयोगे अप्य् अस्य तद्वत् प्रसङ्गः / १३७०७ तस्माद् अतिशेत एव अव्यवहित-सामर्थ्य-उपयोगो अवस्था- १३७०८ भेदस् तद्-अन्यम् / अनतिशयस्य अपेक्षा च प्राग् एव निषिद्धा / १३७०९ स च करण-व्यापाराद् एव सिद्ध इति सर्व-कार्य-तुल्य-धर्मा / १३७१० तस्य तादृशस्य व्यक्तौ सर्वं व्यङ्ग्यं न वा किंचिद् अप्य् १३७११ अविशेषात् / तथा हि / १३७१२ स्व-ज्ञानेन अन्य-धी-हेतुः सिद्धे अर्थे व्यञ्जको मतः / १३७१३ यथा दीपो अन्यथा वा अपि को विशेषो अस्य कारकात्
SK
१३७१४ स्व-प्रतिपत्ति-द्वारेण अन्य-प्रतिपत्ति-हेतुर् लोके व्यञ्जकः सिद्धः १३७१५ दीप-आदि-वत् स चेत् प्राक् सिद्धः स्यात् समान-जातीय-उपादान-क्षण-सिद्धेः / १३७१६ न तस्य एव अतिशयस्य ज्ञान-हेतोः तस्य तत्-सामग्री-प्रत्ययत्वात् / १३७१७ ये पुनर् असिद्ध-उपलम्भनाः कारका एव कुलाल-आदि-वद् १३७१८ घट-आदौ / प्रत्यभिज्ञान-आदयो अपि सिद्धि-हेतवो न हेतु-लक्षणं १३७१९ पुष्णन्ति / यद् अपि किंचिद् उत्तरा अकार-प्रतीतिर् अकार-प्रतीतेः पूर्व-अभिन्न- १३७२० विषया तद्वद् इत्य् आदि / तद् अपि न स्वलक्षणयोर् अभेद- १३७२१ साधने समर्थम् / तत्-स्वभाव-सिद्धेः / सामान्येन वचने १३८०१ भिन्न-विषयत्वस्य अप्य् अविरोधः / एक-विषययोश् च प्रतीत्योः १३८०२ पूर्वापर-भाव-अयोगात् संनिहित-असंनिहित-कारणत्वेन उत्पाद-अनुत्पादात् १३८०३ संनिधाने अप्य् अनुत्पन्नस्य अतत्-कारणत्वात् तयोर् १३८०४ भिन्न-अखिल-कारणत्वम् / तत्र एक-अभेदे अपि शक्तस्य अप्रतीक्षणाद् १३८०५ युक्ति-विरुद्धं पूर्वापरयोः प्रतीत्योर् एक-विषयत्वम् / प्रतीति- १३८०६ प्रतिभास-स्वभाव-भेदे अपि नाम-साम्याद् एक-विषयत्वम् अप्य् १३८०७ अयुक्तम् / घट-आदिष्व् अपि प्रसङ्गात् / तत्र दृष्ट-विरोधाद् असाधनत्वम् १३८०८ इति चेत् / इह अपि विरोध-अभावः केन सिद्धः / यावत् तथा अभिधेयता- १३८०९ अर्थ-भेदेन व्याप्ता न साध्यते तावत् सन्दिग्धो १३८१० व्यतिरेकः / प्रतिकरण-भेदं च भिन्न-स्वभावः शब्दः १३८११ श्रुतौ निविशमानो यदा एकः साध्यते किं न घट-आदयः / तत्र १३८१२ अपि शक्यम् एवं व्यञ्जक-भेदात् प्रतिभास-भेद इति प्रत्यवस्थातुम् / १३८१३ अपि च / १३८१४ करणानां समग्राणां व्यापाराद् उपलब्धितः / १३८१५ नियमेन च कार्यत्वं व्यञ्जके तद्-असम्भवात्
SK
१३८१६ न हि कदाचिद् व्यापृतेषु करणेषु शब्द-अनुपलब्धिः / न च अवश्यं १३८१७ व्यञ्जक-व्यापारो अर्थम् उपलम्भयति / क्वचित् प्रकाशे १३८१८ अपि घट-आद्य्-अनुपलब्धेः / सा इयं नियमेन उपलब्धिस् तद्-व्यापाराच् १३८१९ शब्दस्य तद्-उद्भवे स्यात् / अकर्तुर् व्यापारे अपि तत्-सिद्ध्य्-अयोगात् / १३८२० व्यापि-नित्यत्वाद् उपलम्भ इति चेत् / क इदानीं घट-आदिषु १३८२१ समाश्वासः / तेषां तथा अनिष्टेर् इति चेत् / शब्दः किम् इष्टस् तत्-समान- १३८२२ धर्मा / न च अस्य कश्चिद् अतिशय इत्य् उक्तम् / प्रतिषिद्धे च १३८२३ व्यापि-नित्यत्वे / घट-आदीनां व्यञ्जक-अन्तर-सम्भवाद् अदोषः / १३८२४ प्रकाशो ह्य् एषां व्यञ्जकः सिद्धः / कुलाल-आदीनां व्यञ्जकत्वे १३८२५ तादृशा एव स्युः / अतिशेरते च / ततो व्यञ्जक-अतिशयात् कारका एव / १३८२६ उपकारकस्य गत्य्-अन्तर-अभावात् / तद् एतच् शब्देष्व् अपि तुल्यम् / १३८२७ तत्र अपि इन्द्रिय-योग्य-देशता-आदिभ्यः करणानाम् अतिशयात् / घट-आदि- १३८२८ कारक-धर्मस्य च करणेषु दृष्टेः / तस्य एव प्रदीप-आदेर् १३८२९ विषय-अन्तरस्य च कस्यचिद् व्यञ्जक-अन्तर-अभावात् / तत्- कारणानि १३८३० तेषां व्यञ्जकानि स्युः / तस्मान् न व्यक्तिः शब्दस्य / भवन्ती १३९०१ वा करणेभ्यो अतिशयत्ता वा शब्दस्य व्यक्तिर् आवरण-विगमो १३९०२ विज्ञानं वा गत्य्-अन्तर-अभावात् / तत्र न अतिशय-उत्पत्तिर् अनित्यता- १३९०३ प्रसङ्गात् / तस्याः पूर्वापर-रूप-हान्य्-उपजनन-लक्षणत्वात् / १३९०४ अथ १३९०५ तद्-रूप-आवरणानां च व्यक्तिस् ते विगमो यदि / १३९०६ अभावे करण-ग्राम-सामर्थ्यं किं नु तद् भवेत्
SK
१३९०७ न ह्य् आवरणस्य अकिंचित्कराणि करणानि समर्थानि नाम / विगमश् १३९०८ च अभावः / न च अभावः कार्यम् इति निवेदितम् एतत् / न अपि शब्दस्य १३९०९ नित्यस्य किंचिद् आवरणम् असामर्थ्याद् इत्य् अप्य् उक्तम् / १३९१० तस्मान् न आवरणे करण-उपक्षेपः / न अप्य् एषाम् असामर्थ्यम् / तद्- १३९११ व्यापार-अभावे शब्द-अनुपलब्धेः / अतो युक्तम् एते यच् शब्दान् १३९१२ कुर्युः / अन्यथा / १३९१३ शब्द-अविशेषाद् अन्येषाम् अपि व्यक्तिः प्रसज्यते / १३९१४ तथा अभ्युपगमे सर्व-कारणानां निरर्थता
SK
१३९१५ यदि सर्व-कारण-समान-धर्माण्य् अपि करणानि व्यञ्जकानि न १३९१६ किंचिद् इदानीं कार्यं स्यात् / न च एतद् युक्तम् / सर्व-कारणानाम् १३९१७ आनर्थक्य-प्रसङ्गात् / वस्तुनो अनाधेयविशेषत्वात् / आवरण-अभावस्य १३९१८ अकार्यत्वात् / वस्तु-वद् एव ज्ञानस्य अपि सिद्धत्वात् / ज्ञानं १३९१९ प्रति कारकत्वे कस्यचित् तथाभूतानाम् अन्येषाम् अपि तथाभाव- १३९२० प्रसङ्गेन सर्वस्य कार्यता-प्रसङ्गात् / तस्माद् अयं १३९२१ कारक-अभिमतो अर्थ-कलापो न व्यक्तौ न क्रियायाम् इति व्यर्थ १३९२२ एव स्यात् / तथा च इदम् अनुपकार्य-उपकारकं निरीहं जगत् स्यात् / १३९२३ शब्द-नित्यत्वे च / १३९२४ साधनं प्रत्यभिज्ञानं सत्-प्रयोग-आदि यन् मतम् / १३९२५ अनुदाहरणं सर्व-भावानां क्षण-भङ्गतः
SK
१४००१ क्षण-भङ्गिनो हि सर्व-भावा विनाशस्य अकारणत्वाद् इत्य् उक्तं १४००२ वक्ष्यते च / उत्पत्तिमन्तश् च परतः / सत्ताया आकस्मिकत्व-अयोगात् / १४००३ तन् न इदं प्रत्यभिज्ञानं सत्-प्रयोग-आदिकं क्वचिद् अन्वेति १४००४ स्थिर-एक-रूपे / अपरापर-स्वभाव-परावृत्तिष्व् एव दीप-आदिषु १४००५ दृष्टम् इति विरुद्धम् एव / न / अभिन्न-जन्मनः साधर्म्य-विप्रलम्भाद् १४००६ भ्रान्त्या दीप-आदिषु भावात् / अभिन्न-जन्म इति केन अवष्टम्भेन १४००७ उच्यते / तस्य एव अभेदस्य सर्वत्र पौर्वापर्येण १४००८ चिन्त्यत्वात् / तथा भेदस्य अपि इति चेत् / तेन एव संशयो अस्तु / न च १४००९ संशयितात् सिद्धिः / विवेक-अदर्शनाद् एकत्वम् इति चेत् / न / ज्ञान- १४०१० पौर्वापर्येण सदसत्त्व-सिद्धेः / स्वभाव-विवेक-सद्भावात् / १४०११ यद्य् अपराणि ज्ञानानि प्राक् संनिहित-कारणानि पूर्व-ज्ञान-वज् जातानि १४०१२ एव स्युः / अजातानि तु कारण-वैकल्यं सूचयन्ति / समर्थस्य १४०१३ जननाद् असमर्थस्य अपि पुनः सामर्थ्य-अप्रतिलम्भात् / १४०१४ प्रतिलम्भे वा स्थैर्य-अयोगात् / तद् अयम् सत्-प्रयोग इत्य् अपि जननम् १४०१५ एव प्रयोक्तुः सामर्थ्यात् / स्वयं समर्थे तस्य अनुपयोगात् / १४०१६ प्रयोग इत्य् अपि इष्ट-साधन-समर्थ-उत्पादनम् एव समान- १४०१७ जातीय-उपादान-अपेक्षम् अनपेक्षं वा वास्य्-आदि-प्रयोग-वत् कर्म- १४०१८ आदि-प्रयोग-वच् च कथ्यते / यो अपि मन्यते समक्षे प्रत्यभिज्ञानं १४०१९ प्रत्यक्षम् एव ततः प्रत्यक्षाद् एव स्थैर्य-सिद्धिर् १४०२० इति / तद् अप्य् उत्तरत्र निषेत्स्यामः / १४०२१ दूष्यः कुहेतुर् अन्यो अपि / १४०२२ न एव कश्चिद् धर्मो यः समान-जातीयम् अन्वेति / सर्व-धर्माणाम् १४०२३ एतद्-अवस्थत्वात् / सर्व-स्थैर्य-प्रतिज्ञायाश् च यथा अभिधानं १४०२४ युक्ति-विरोधाद् अन्ये अपि नित्य-हेतवो वाच्य-दोषाः / १४०२५ बुद्धेर् अपुरुष-आश्रये / १४०२६ बाधा अभ्युपेत-प्रत्यक्ष-प्रतीत-अनुमितैः समम्
SK
१४०२७ यदि व्यक्तिर् बुद्धिस् तदा आनुपूर्वी वाद्यम् / तस्या अपौरुषेयत्व- १४१०१ प्रसाधने बुद्धीनां पुरुष-गुणत्व-अभ्युपगमात् सम यो १४१०२ अस्य बाध्यते / प्रत्यक्षं खल्व् अप्य् एतद् यद् इमा बुद्धयः १४१०३ पुरुष-संख्यातेभ्यः पुरुष-गुणेभ्यो वा मनस्कार-आदिभ्यो १४१०४ भवन्ति इति / न च कार्यता नाम अन्या भाव-अभाव-विशेषाभ्याम् / १४१०५ स च भावः प्रत्यक्षो अभावो अप्य् अनुपलब्धि-लक्षणः प्रत्यक्ष- १४१०६ सामर्थ्य-सिद्ध इति वक्ष्यामः / तत एव पुरुष-कार्यता १४१०७ बुद्धीनाम् अनुमेय-अन्वय-व्यतिरेक-लिङ्गत्वाद् अस्याः / किं च / १४१०८ आनुपूर्व्याश् च वर्णेभ्यो भेदः स्फोटेन चिन्तितः / १४१०९ कल्पना-आरोपिता सा स्यात् कथं वा अपुरुष-आश्रया
SK
१४११० वर्ण-व्यतिरेकिण्य् आनुपूर्वी स्फोट-विचार-अनुक्रमेण एव प्रतिविहिता / १४१११ न अपि सा वर्ण-स्वभावा / वस्तु-स्वभावस्य एतद्-विकल्प -अनतिक्रमात् / १४११२ अतद्-रूपेषु तद्-रूप-समारोप-प्रतिभासिन्या बुद्धेर् १४११३ अयं विभ्रमः स्याद् आनुपूर्वी इति / सा च कथम् अपौरुषेयी / बुद्धि- १४११४ विठपन-प्रत्युपस्थापनात् / अपि च / आत्यन्तिकस्य कस्यचित् १४११५ स्वभावस्य अभावाद् भवता ध्वनिना अनात्यन्तिकेन भवितव्यम् / १४११६ स च अहेतुको अन्य-हेतुको वा नित्यं भवेन् न च पुरुष- १४११७ व्यापारात् / तस्मान् न अपौरुषेयः / कथम् इदं गम्यते अनात्यन्तिको १४११८ ध्वनिर् अन्यो वा भाव इति / १४११९ सत्ता-मात्र-अनुबन्धित्वान् नाशस्य अनित्यता ध्वनेः / १४१२० न हि नाशो भावानां कुतश्चिद् भवति / तद् भाव-स्वभावो भवेत् / १४१२१ भावस्य एव स्व-हेतुभ्यस् तद्-धर्मणो भावात् / न च भाव- १४१२२ विशेष-स्वभावः / तस्य निषेत्स्यमानत्वात् / तस्माद् भाव- १४१२३ मात्र-स्वभावः स्यात् / तेन शब्दो अन्यो वा सत्ता-भाजनः सर्व १४१२४ एव भावो अनात्यन्तिक इति सिद्धम् / न सिद्धम् / तस्य एव विनाशस्य १४१२५ अपर-जन्म-असिद्धेः / तथा ह्य् अग्निना काष्ठं दण्डेन १४२०१ घट इति विनाश-हेतवो भावानां दृश्यन्ते / अन्वय-व्यतिरेक-अनुविधानं १४२०२ हेतु-तद्वतोर् लक्षणम् आहुः / न / पूर्वस्य स्व-रस- १४२०३ निरोधे अन्यस्य विशिष्ट-प्रत्यय-आश्रयेण विकृतस्य उत्पत्तेः / १४२०४ अस्तु वा अग्निः काष्ठ-विनाश-हेतुः / स विनाशो अग्नि-जन्मा किं काष्ठम् १४२०५ एव आहोस्विद् अर्थ-अन्तरम् / १४२०६ अग्नेर् अर्थ-अन्तर-उत्पत्तौ भवेत् काष्ठस्य दर्शनम्
SK
१४२०७ अविनाशात् / १४२०८ किम् इत्य् अर्थ-अन्तराद् अर्थ-अन्तर-जन्मनि काष्ठम् अभूतं नाम १४२०९ न दृश्यते वा / अतिप्रसङ्गो ह्य् एवं स्यात् / १४२१० स एव अस्य विनाश इति चेत् / १४२११ यदि स एव अर्थो अग्नि-जन्मा अभावस् तद् इदम् अभूतत्वान् न दृश्यत १४२१२ इति / भवतु तस्य इदं नाम अभाव इति / तथा अपि १४२१३ कथम् / १४२१४ अन्यो अन्यस्य विनाशः / न हि कस्यचिद् अर्थस्य नाम-करण-मात्रेण १४२१५ काष्ठं न दृश्यत इति युक्तम् / न च अन्यो अन्यस्य विनाशः / १४२१६ अतिप्रसङ्गात् / विशेष-अभावात् तस्य अर्थान्तरत्वेन वस्तु-भूतस्य १४२१७ तद्-अन्येभ्यः / काष्ठे अग्नि-कृतः स्वभावो विनाशो न सर्व इति १४२१८ चेत् / काष्ठा इति कः सम्बन्धः / आश्रयाश्रयि सम्बन्धश् चेत् / १४२१९ न / तस्य निषेत्स्यमानत्वात् / जन्यजनकभावाश् चेत् / अग्नेर् इति १४२२० किम् / काष्ठाद् एव भावात् / तद्-अपेक्षाद् उत्पत्तेर् अदोष इति चेत् / १४२२१ अनतिशय-लाभिनः का अपेक्षा / लाभे वा अपर-काष्ठ-जन्म स्यात् / १४२२२ पूर्वं त्व् अप्रच्युति-कारणम् / तथा एव दृश्यत / तत एव अग्नेः १४२२३ पूर्व-विनाश इति चेत् / पूर्वेण अस्य कः सम्बन्ध इति स एव प्रसङ्गो १४२२४ अपर्यवसानश् च / तद् अवश्यं विनाश-सम्बन्ध-योग्यम् उत्तरम् १४२२५ अतिशयं प्रत्युपकुर्वाणो अग्निर् अपूर्वम् एव जनयति इति १४२२६ पूर्वं तद्-अवस्थं दृश्येत / काष्ठ-विनाश इति च काष्ठ-अभाव १४३०१ उच्यते / न च अभावः कार्यः / तत्-कारी च अकारक एव इत्य् अनपेक्षणीय १४३०२ इत्य् उक्तम् / स्वभाव-अभावस्य च ततो भेदे ततो निवर्तमानस्य १४३०३ भावस्य स्वभाव एव समर्थितः स्याद् इति कथम् १४३०४ अभूतो नाम / तस्मान् न १४३०५ अन्यो अन्यस्य विनाशो अस्तु काष्ठं कस्मान् न दृश्यते
SK
१४३०६ को अयम् अर्थ-अन्तर-भाव-काष्ठ-दर्शनयोर् विरोधः / १४३०७ तत्-परिग्रहतश् चेन् न तेन अनावरणं यतः / १४३०८ यदि तेन अर्थ-अन्तरेण परिगृहीतम् इति काष्ठं न दृश्येत तत् १४३०९ काष्ठस्य आवरणम् इत्य् आपन्नम् / न च एतद् युक्तम् / आवरणं १४३१० हि दर्शनं बिबध्नीयान् न अभिघाट-आदीनि द्रव्य-सामर्थ्यानि / १४३११ सर्व-प्रतिबन्धे च नन्व् अनेन एव द्रव्यं विनाशितं स्यात् / १४३१२ सर्व-शक्ति-प्रच्यावनात् / पुनस् तत्र अप्य् अग्नाव् इव प्रसङ्गाद् १४३१३ अनवस्था / अप्रच्युतेषु वा अस्य अभिघाट-सामर्थ्य-आदिषु सता वा १४३१४ तेन अन्येन किं विनाशितम् / यदि च अग्नि-समुद्भवस्य विनाश-आख्यस्य १४३१५ अर्थस्य परिग्रहात् काष्ठं न दृष्टम् / १४३१६ विनाशस्य विनाशित्वं स्याद् उत्पत्तेस् ततः पुनः
SK
१४३१७ काष्ठस्य दर्शनं / १४३१८ अवश्यं ह्य् उत्पत्तिमता विनाशेन विनष्टव्यम् / तस्मिन् विनष्टे १४३१९ पुनः काष्ठ-आदीनाम् उन्मज्जनं स्यात् / १४३२० हन्तृ-घाते चैत्र-अपुनर्भवः / १४३२१ यथा अत्र अप्य् एवम् इति चेद् धन्तुर् न अमरणत्वतः
SK
१४३२२ विनाश-विनाशे अपि च वस्तुनः प्रत्यापत्तिः / न हि हन्तरि हते अपि १४३२३ तद्वतः प्रत्युज्जीवति इति चेत् / न / हन्तुस् तद्-घात-हेतुत्वात् / १४३२४ न ब्रूमो विनाश-हेतोर् अग्नि-दण्ड-आदेर् निवृत्तौ भावेन भवितव्यम् १४३२५ इति / किं तर्हि / भाव-अभावस्य अत्यन्त-अनुपलब्धि-लक्षणस्य / १४३२६ तन्-निवृत्तौ कान्या गतिः स्वभाव-स्थितेः / हन्ता हि चैत्रस्य १४३२७ न नाश-कल्पः / किं तर्हि / दण्ड-आदि-कल्पः / नाश-कल्पं १४४०१ ह्य् अस्य मरणं / तन्-निवृत्तौ च स्याद् एव अस्य पुनर्भावः / १४४०२ अनन्यत्वे अपि नाशस्य स्यान् नाशः काष्ठम् एव तु / १४४०३ तस्य सत्त्वाद् अहेतुत्वं न अतो अन्या विद्यते गतिः //२७३ / १४४०४ अनर्थ-अन्तर-भूतो विनाशः काष्ठात् / तद् एव तद् भवति / तच् १४४०५ च प्राग् एव अस्ति इति किम् अत्र सामर्थ्यं वह्न्य्-आदीनाम् / तस्मात् १४४०६ तद्-अनुपकारात् तेन न अपेक्ष्यन्ते कथंचित् / न अप्य् अस्य इदम् इति १४४०७ सम्बन्धम् अर्हति / तस्य उपकार-निबन्धनत्वात् / अन्यथा अतिप्रसङ्गात् / १४४०८ पारंपर्येण उपकारे अप्य् अवश्यम् अयं विकल्पो अन्वेति १४४०९ स किम् उपकारो अर्थ-अन्तरम् आहोस्वित् तद् एव इति / तद्-अर्थान्तरत्वे १४४१० अपि तस्य इति पुनर् उपकारत्व-आदि-पर्यनुयोगस् तद्-अवस्था १४४११ एव / तथा अनन्यत्वे / तस्मात् सतो रूपस्य तत्त्वान्यत्त्व-अव्यतिक्रमात् / १४४१२ उपकार-उत्पादनस्य च रूप-निष्पादन-लक्षणत्वात् / १४४१३ तद्-अतत्-क्रिया-विकलो न कर्ता एव इति न कस्यचिद् हेतुर् अहेतुश् च १४४१४ न अपेक्षते / तस्मात् स्वयम् अयं भावस् तत्-स्वभाव इति सिद्धम् / १४४१५ अहेतुत्वे अपि नाशस्य नित्यत्वाद् भाव-नाशयोः//
SK
१४४१६ सहभाव-प्रसङ्गश् चेद् असतो नित्यता कुतः
SK
१४४१७ स्याद् एतद् यस्य अपि विनाशो अहेतुकः सो अवश्यं नित्य इति भावस् १४४१८ तद्-अभाव-लक्षणो विनाशश् च सह स्याताम् इति / न / तस्य नित्य-अनित्य- १४४१९ धर्म-अयोगात् / न ह्य् असत्य् अयं विकल्पः सम्भवति / १४४२० तयोर् वस्तु-धर्मत्वात् / विनाशस्य च अकिंचित्वात् / भवतो हि १४४२१ केनचित् सहभावः स्यात् / न च विनाशो भवति / तस्माद् अदोषः / १४४२२ असत्त्वे अभाव-नाशित्व-प्रसङ्गो अपि न युज्यते / १४४२३ यस्माद् भावस्य नाशेन न विनाशनम् इष्यते
SK
१४४२४ कथम् असन् विनाशो भावं नाशयेत् / अतो अविनाशी भावः स्याद् १४४२५ इत्य् अप्रसङ्ग एव / विनाशाद् भाव-नाश-अनभ्युपगमात् / यो हि १४५०१ विनाश इति किंचिन् न इत्य् आह स कथं ततो भाव-नाशम् इच्छेत् / १४५०२ कथम् इदानीम् असति विनाशे भावो नष्टो नाम / न ह्य् असद्-विनाशा १४५०३ नष्टा गण्यन्ते प्रत्युत्पन्न-अवस्थायाम् / न हि यो येन अतद्वान् १४५०४ स तेन तथा व्यपदिश्यते प्रतीयते वा / यथा अश्वो विषाणेन / १४५०५ न वै विनाशो न अस्त्य् एव / स तु न अस्ति यो भावस्य भवन्ति / भाव १४५०६ एव तु क्षण-स्थिति-धर्मा विनाशः / तम् अस्य स्वभावम् उत्तर- १४५०७ कालं विभावयन्तो विनाशो अस्य भूत इति यथा-प्रतीति व्यपदिशन्ति १४५०८ इत्य् उक्तम् / न हि भावस्य किंचित् कदाचिद् भवति / स एव १४५०९ केवलं स्व-हेतुभ्यस् तथाभूतो भवति / तन् न केनचिद् भवता १४५१० स नष्टः / किं तर्हि / स्वभाव एव अस्य येन स नष्टो नाम / १४५११ कथं तर्हि इदानीम् अहेतुको विनाशो भवति इत्य् उच्यते / १४५१२ नश्यन् भावो अपर-अपेक्ष इति तज्-ज्ञापनाय सा / १४५१३ अवस्था अहेतुर् उक्ता अस्या भेदम् आरोप्य चेतसा
SK
१४५१४ न भावो जातो अपरस्मान् नाशं प्रतिलभते तथाभूतस्य एव १४५१५ स्वयं जातेर् इत्य् अपर-अपेक्ष-धर्म-अन्तर-प्रतिषेध-अर्थं तत्- १४५१६ स्वभाव-ज्ञापनेन अर्थ-अन्तरम् इव धर्मिणो धर्मं चेतसा १४५१७ विभज्य तन्-मात्र-जिज्ञासायां स्वभाव एव तथा उच्यते / तद् एतन् १४५१८ मन्द-बुद्धयः क्वचित् तथा दर्शनाद् घोष-मात्र-विप्रलब्धा १४५१९ नाशं गुणं तस्य च भावम् आरोप्य सहेतुकम् अहेतुकं १४५२० वा अप्रतिष्ठित-तत्त्वया भाव-चिन्तया आत्मानम् आकुलयन्ति / १४५२१ स्वतो अपि भावे अभावस्य विकल्पश् चेद् अयं समः / १४५२२ नन्व् अपरभावित्वे अपि विनाशस्य स्वत एव भावस्य भवतो १४५२३ अयं तत्त्वान्यत्त्व-विकल्पस् तुल्यः / तदा किम् अर्थ-अन्तर-भावे १४५२४ भावो न दृश्यते अनर्थान्तरत्वे अपि तद् एव तद् भवति / १४५२५ तन् न किंचिद् अस्य जातम् इति कथं विनष्टो नाम / नन्व् अत्र / १४५२६ न तस्य किंचिद् भवति न भवत्य् एव केवलम्
SK
१४५२७ इत्य् उक्तम् / न ह्य् अयं विनाशो अन्यो वा कश्चिद् भावस्य भवति इत्य् १४५२८ आह / किं तर्हि / स एव भावो न भवति इति / यदि हि कस्यचिद् भावं १४५२९ ब्रूयात् न भावो अनेन निवर्तितः स्यात् / तथा च भाव-निवृत्तौ १४५३० प्रस्तुतायाम् अप्रस्तुतम् एव उक्तं स्यात् / न हि कस्यचिद् १४५३१ भावेन भावो न भूतो नाम / तदा न भूतो यदि स्वयं न १४६०१ भवेत् / न भवति इति च प्रसज्यप्रतिषेध एष न पर्युदासः / १४६०२ अन्यथा इह अपि कस्यचिद् भावे न प्रतिषेध-पर्युदासयो रूप- १४६०३ भेदः स्याद् उभयत्र विधेः प्राधान्यात् / एवं च अप्रतिषेधात् १४६०४ कस्यचित् पर्युदासो अपि क्वचिन् न स्यात् / यदि हि किंचित् कुतश्चिन् १४६०५ निवर्तेत तदा तद्-व्यतिरेकि संस्पृश्येत / तत्-पर्युदासेन / तच् १४६०६ च न अस्ति / सर्वत्र निवृत्तिर् भवति इत्य् उक्ते कस्यचिद् भावस्य एव १४६०७ प्रतीतिः / तथा च अनेन अर्थ-अन्तर-भाव एव उक्तः स्यात् / न तयोः १४६०८ परस्परं विवेकः / अविवेके च न पर्युदासः / तद् एवं व्यतिरेक- १४६०९ अभावाद् अन्वयो अपि न स्यात् / तस्य एक-स्वभाव-स्थिति-लक्षणत्वात् / १४६१० तत्-स्थितिश् च तद्-अन्य-व्यतिरेके सति स्यात् / स च न अस्ति इत्य् अप्रवृत्ति- १४६११ निवृत्तिकं जगत् स्यात् / तस्माद् यस्य नाशो भवति इत्य् उच्यते स १४६१२ स्वयम् एव न भवति इत्य् उक्तं स्यात् / न वै घोष-साम्याद् विषय- १४६१३ अन्तर-दृष्टो विधिः सर्वत्र योजनाम् अर्हति / न हि गर्दभ इति १४६१४ नाम-करणाद् बालेय-धर्मा मनुष्ये अपि संयोज्याः / तथा न १४६१५ चैत्रस्य पुत्रो भवति इत्य् अत्र दृष्टो विधिर् नाशे अपि विरोधात् / १४६१६ एवं च अभिधाने अपि प्रयोजनम् आवेदितम् एव / अतः १४६१७ भावे ह्य् एष विकल्पः स्याद् विधेर् वस्त्व्-अनुरोधतः / १४६१८ भावो अवश्यं भवन्तम् अपेक्षते / स च स्वभाव एव / निःस्वभावस्य १४६१९ क्वचिद् व्यापारे समावेश-अभावात् / व्यापार इति हि १४६२० तथाभूत-स्वभाव-उत्पत्तिः / सा निःस्वभावस्य कथं स्यात् / १४६२१ कथम् इदानीं भवत्य् अभावः शश-विषाणम् इत्य् आदि-व्यवहारः / १४६२२ न वै शश-विषाणं किंचिद् भवति इत्य् उच्यते / अपि त्व् एवम् १४६२३ अस्य न भवति इति भाव-प्रतिषेध एव क्रियते / अपि च / व्यवहर्तार १४६२४ एव एतद् एवं व्यापार-वद् इव समारोप्य आदर्शयन्ति १४६२५ प्रकरणेन केनचित् / न तु तत् तथा / सर्व-अर्थ-विवेचनं हि १४६२६ तत्र तत्त्वं न कस्यचित् समावेशः / न खल्व् एवं विनाशो वस्तुनि १४६२७ तद्-भावात् / असाव् अपि यदि वक्तृभिर् एवं ख्याप्यते न १४६२८ तु स्वयं तथा तदा न किंचिद् भवति इति इष्टम् एव / तस्मात् स्वयं १४७०१ भवन् स्वभावो विकल्प-द्वयं न अतिवर्तते तत्त्वम् अन्यत्त्वम् १४७०२ इति / अतत्त्वम् एव स्वभावस्य अन्यत्त्वम् / न हि रूप-रसयोर् १४७०३ अप्य् अन्यद् एव परस्परम् अन्यत्त्वम् / स्वभाव-अप्रतिबन्धो १४७०४ अन्यत्त्वम् इति चेत् / को अयं प्रतिबन्धो नाम येन स च न १४७०५ स्यात् / न अन्य-स्वभावश् च / जन्म इति चेत् / सर्व-कारणानां परस्परम् १४७०६ अवाच्यता स्यात् / तथा च सर्वः सर्वस्य कथंचिद् उपयोगि १४७०७ इति न कश्चित् कुतश्चिद् अन्यः स्यात् / एवं च अवाच्यता इत्य् अपि कार्यकारणभाव १४७०८ एव शब्द-अन्तरेण उक्तः स्यात् / न अर्थ-भेदः / स्वभाव-अननुगमनं १४७०९ त्व् अन्यत्त्वं ब्रूमः / स च स्वभाववतां परस्परम् १४७१० अस्त्य् एव इत्य् अन्यत्त्वम् एव / न च तज्-जन्म-लक्षणात् १४७११ स्वभावप्रतिबन्धाद् अन्यः प्रतिबन्धो नाम / अनायत्तस्य १४७१२ व्यभिचार-अविरोधात् / ततो धर्म-भेदाच् च अन्यत्त्वम् / ज्ञान-कृतः १४७१३ प्रतिबन्ध इति चेत् / स्याद् एतत् / यत्-प्रतिपत्ति-नान्तरीयकं १४७१४ यज्-ज्ञानं तद्-गतौ नियमेन तत्-प्रतिभासनात् तद् अतद्-रूपम् १४७१५ अप्य् अवाच्यम् इति / न / तस्य निःस्वभावत्वात् स्वयम् / स एव हि १४७१६ तस्य स्वभावो यः प्रतिभाति / स्वभाववत्त्वे अस्य तद्वत् प्रतिभास- १४७१७ प्रसङ्गात् / अप्रतिभासमानस्य च दृश्य-अभावात् / अदृश्यत्वे १४७१८ अपि न तद्-रूपं ज्ञानम् इति कस्य किम् आयत्ता प्रतिपत्तिः / न १४७१९ च यद् यद् आयत्ता-प्रतीतिकं तस्य स्वभाव-प्रतिभास एव नश्यति / १४७२० प्रकाश-आयत्त-प्रतीतीनाम् इव नील-आदीनाम् / का वा तस्य प्रत्यासत्तिः / १४७२१ तत्र यत् तस्मिन्न् अनात्म-रूपे प्रतीयमाने स स्वयं १४७२२ प्रत्युपतिष्ठते / अतिप्रसङ्गो ह्य् एवं स्यात् / प्रतीयमानस्य १४७२३ तद्-उपादानता इति चेत् / को अयम् उपादान-अर्थः / न कार्यकारणभावो १४७२४ अनभ्युपगमात् / अभ्युपगमे वा न कार्य-कारणे अन्योन्य- १४७२५ प्रतीति-प्रत्युपस्थापने / प्रतीतेर् एव तन्-नान्तरीयकता १४७२६ प्रत्यासत्तिर् इति चेत् / ननु स एव असति प्रतिबन्धे न युक्ता इत्य् उच्यते / १४८०१ न अकार्य-कारणयोः कश्चित् प्रतिबन्ध इति च उक्तम् / यत् -प्रतिपत्ति- १४८०२ नान्तरीयकं यज्-ज्ञानम् इत्य् अपि तज्-ज्ञाने सति स्यात् / न हि यो १४८०३ विज्ञाने स्वरूपेण अस्वरूप-असंसर्गेण न प्रतिभासते तस्य किंचिज् १४८०४ ज्ञानम् / तद्-अभावान् न सिध्यति अवाच्यता-लक्षणम् अर्थ- १४८०५ रूपस्य / तद् भवता वस्तुतस् तत्त्वान्यत्त्व-भाजा भवितव्यम् / १४८०६ यस्य तु विनश्यतो भावस्य न किंचिद् भवति / तेन १४८०७ न भावो भवति इत्य् उक्तम् अभावो भवति इत्य् अपि
SK
१४८०८ यद् अप्य् अयं भावस्य अभावो भवति इत्य् आह / तद् अपि भावो १४८०९ न भवति इत्य् एव उक्तं भवति / एवं हि स निवर्तितो भवति / १४८१० प्रतिषेधे विधेर् असम्भवात् / तत एव अस्य विनाशे न कश्चिद् हेतुः / १४८११ तथा हि / १४८१२ अपेक्ष्येत परः कार्यं यदि विद्यत किंचन / १४८१३ यद् अकिंचित्करं वस्तु किं केनचिद् अपेक्ष्यते
SK
१४८१४ सति हि कार्ये कारणं भवति / न च नश्यतो भावस्य किंचित् १४८१५ कार्यम् इत्य् उक्तम् / तस्माद् यो नाम नाश-हेतुः स भावे न १४८१६ किंचित् करोति इत्य् अकिंचित्करो न अपेक्ष्यणीयः / तत् कथं इदानीम् १४८१७ अनुत्पन्न-अतिशयस् तद्-अवस्थ एव भावो नष्टो नाम / १४८१८ नन्व् अतिशय-उत्पत्ताव् अपि स एव तस्य अतिशय उत्पन्न इति कथं १४८१९ स नष्टो नाम / तेन न अयं तद्-अवस्थो नष्टो नाम / येन स्वयं १४८२० न भवति तेन नष्टः / न अर्थ-अन्तर-उत्पादाद् इत्य् उक्तम् / न ह्य् १४८२१ अतिशय-उत्पत्त्या स्वयं न भूतो नाम / अभावस्य सर्व-अतिशय-उपाख्या- १४८२२ निवृत्त्या सर्व-भाव-धर्म-विवेक-लक्षणत्वात् / भावस्य १४८२३ च उत्पत्ति-समावेश-लक्षणत्वात् / तस्मान् न अभावे कस्यचिद् भाव-उपक्षेपो १४८२४ अन्यस्य / १४८२५ एतेन अहेतुकत्वे अपि ह्य् अभूत्वा नाश-भावतः / १४८२६ सत्ता-नाशित्व-दोषस्य प्रत्याख्यातं प्रसञ्जनम्
SK
१४८२७ यो अपि मन्यते अहेतुके अपि विनाशे अभूत्वा अस्य भावात् सत्ता-अनित्यत्वं १४९०१ च दुर्निवारम् / अभूत्वा भवन्न् अहेतुको भवति इत्य् अपि १४९०२ विरुद्धम् इति / सो अप्य् अनेन एव प्रत्याख्यातः / कस्यचिद् भावान् अभ्युपगमात् / १४९०४ यथा केषांचिद् एव इष्टः प्रतिघो जन्मिनां तथा / १४९०५ नाशः स्वभावो भावानां न अनुत्पत्तिमतां यदि
SK
१४९०६ अथ अपि स्याद् / भवतु नाम स्वभाव एष भावानां य इमे क्षण- १४९०७ स्थिति-धर्माणाः / स तु उत्पत्तिमताम् एव भविष्यति / न हि स्वभाव १४९०८ इति सर्वः सर्वस्य स्वभावो भवति प्रतिघ-आत्मता-वत् / १४९०९ सत्यम् एतत् / तथा अपि / १४९१० स्वभाव-नियमाद् हेतोः स्वभाव-नियमः फले / १४९११ न अनित्ये रूप-भेदो अस्ति भेदकानाम् अभावतः
SK
१४९१२ न वै प्रतिघो अन्यो वा स्वभावो अकस्मात् प्रतिनियमवान् / यादृशी १४९१३ तु स्व-हेतोः शक्ति-स्थितिस् तादृशं फलं भवति इति हेतु-स्वभाव- १४९१४ नियमात् फल-स्वभाव-नियमः / आकस्मिकत्वे अप्य् अस्य उक्तो १४९१५ दोषः / प्रतिघात-आत्मता-हेतु-स्वभाव-प्रतिनियमवन् न नश्वर- १४९१६ जनन-प्रतिनियत-स्वभावं भावं पश्यामः / येन तज्-जन्मा १४९१७ तथा स्यान् न अन्यः / सर्व-आकार-जन्मनां विनाश-दर्शनात् / १४९१८ नन्व् इदम् अप्य् अनिश्चेयम् एव सर्व-आकार-जन्मानो नश्यन्ति इति / १४९१९ तासाम् अनिःशेष-दर्शनात् / विचित्र-शक्तयो हि सामग्र्यो दृश्यन्ते / १४९२० तत्र काचित् स्याद् अपि या अनश्वर-आत्मानं जनयेत् / न / ज्ञेय-अधिकारात् / १४९२१ ये कदाचित् क्वचित् केनचिज् ज्ञाताः सन्तो न ज्ञायन्ते १४९२२ तेषां सत्ता-अनुबन्धी नाश इति ब्रूमः / त एव कृतका अनित्याः १४९२३ साध्यन्ते / न ह्य् अयं सम्भवो अस्ति यत् ते ज्ञान-जनन- १४९२४ स्वभावाः पुनर् अनष्टा न जनयेयुर् अपेक्षेरन् वा परम् / १४९२५ तज्-जनन-स्वभावस्य निष्पत्तेः / न च तेष्व् अनपेक्षेषु कस्यचित् १४९२६ कदाचित् किंचिज् ज्ञानं निवर्तेत / न च एवंभूतं किंचिद् अस्ति / १४९२७ सर्वस्य केनचित् कदाचित् ज्ञानात् / ज्ञान-मात्र-अर्थक्रियायाम् अप्य् १५००१ असामर्थ्ये वस्त्व् एव न स्यात् / तथा हि तल्-लक्षणं वस्त्व् इति १५००२ वक्ष्यामः / तस्य च विनाश-अव्यभिचारात् स सत्ता-अनुबन्धी / १५००३ प्रत्याख्येया अत एव एषां सम्बन्धस्य अपि नित्यता / १५००४ अत एव यथा उक्ताद् वस्तु-मात्र-अनुबन्धाद् विनाशस्य शब्द-वत् १५००५ सम्बन्ध-नित्यता अपि प्रत्याख्येया / या च शब्द-शक्तिर् योग्यता-आख्या १५००६ अर्थ-प्रतिपत्त्या आश्रयो जैमिनीयैर् वर्ण्यते स अर्थ-अन्तरम् १५००७ एव न भवति / तथा हि / योग्यता इति रूप-अतिशय एव भावानाम् इत्य् १५००८ आवेदितं प्राक् / अस्तु वा अर्थ-अन्तरम् / तथा अपि १५००९ सम्बन्ध-दोषैः प्राग् उक्तैः शब्द-शक्तिश् च दूषिता
SK
१५०१० उक्तो हि सम्बन्ध-अर्थ-अन्तर-वादे अनेक-प्रकारो दोषः / तेन एव १५०११ सा शब्द-शक्तिर् दूषिता इति न पुनर् उच्यते / अपि च / १५०१२ न अपौरुषेयम् इत्य् एव यथा अर्थ-ज्ञान-साधनम् / १५०१३ दृष्टो अन्यथा अपि वह्न्य्-आदिर् अदुष्टः पुरुष-आगसा
SK
१५०१४ भवन्तु नाम अपौरुषेया वैदिकाः शब्दाः तथा अपि सम्भाव्यम् १५०१५ एव एषाम् अयथार्थ-ज्ञान-हेतुत्वम् / न हि पुरुष-दोष-उपधानाद् १५०१६ एव अर्थेषु ज्ञान-विभ्रमः / तद्-रहितानाम् अपि प्रदीप-आदीनां नील-उत्पल- १५०१७ आदिषु वितथ-ज्ञान-जननात् / तद् इमे शब्दाः संस्कार-निरपेक्षाः १५०१८ प्रकृत्या च अर्थेषु प्रतिभान-हेतवः स्युः / स्वभाव-विशेषाद् १५०१९ वह्न्य्-आदि-वत् / वितथ-व्यक्तयश् च नियमेन एव नियम- १५०२० कारण-अभावाद् अयुक्तम् इति चेत् / अवितथ-व्यक्ति-नियमे किं १५०२१ कारणम् / तस्माद् यथार्थ-व्यक्ति-नियम-वत् प्रकृत्या अयथार्थ- १५०२२ व्यक्ति-नियमः किं न कल्प्यते / अथवा वह्न्य्-आदि-वद् एव अर्थेषु १५०२३ उभय-ज्ञान-हेतुत्वं स्यात् / न ह्य् अपौरुषेया अपि वह्न्य्-आदय १५०२४ एकत्र यथार्थ-ज्ञान-हेतवो अपि सर्वत्र तथा भवन्ति इति / १५०२५ तथा शब्दानाम् अप्य् अपौरुषेयत्वे अप्य् उभयं स्याद् इति / भवतु १५०२६ वह्न्य्-आदीनाम् कृतकत्वाद् यथा-प्रत्ययम् अन्यत्र अन्यथात्वम् १५०२७ न पुनर् नित्येषु शब्देष्व् एतद् अस्ति / नन्व् एवंविधो अन्यत्र १५०२८ अप्य् अस्त्य् एव धर्मस् तेषाम् अपि संकेत-बलाद् अन्यथा-वृत्तेः १५०२९ कार्य-जनन-स्वभाव-स्थितौ च एषां समय-आदेर् अपेक्षणीयस्य अभावात् / १५१०१ ततः प्रतीतिर् अर्थेषु सर्वस्य सर्वदा स्यात् / न च अस्ति १५१०२ तस्मान् न शब्दाः स्थित-स्वभावा इति / अपि च / १५१०३ न ज्ञान-हेतुता एव स्यात् तस्मिन्न् अकृतके मते / १५१०४ नित्येभ्यो अवस्तु-सामर्थ्यान् न हि जन्म अस्ति कस्यचित्
SK
१५१०५ यद्य् अकृतकः शब्दो न तस्माद् अर्थेषु प्रतीतिर् एव स्यात् / प्रतीति- १५१०६ जन्म-इतर-कालयोस् तुल्य-रूपस्य प्रतीति-जन्मनि सामर्थ्य- १५१०७ सम्भावना-अयोगात् / एवम् अयं जनको न एवम् इति विवेचनीयस्य १५१०८ रूप-भेदस्य अभावात् / न यादृशो अस्य अजनकस् तादृश एव जनको १५१०९ युक्तः / अन्य-अपेक्षा अपि निषिद्धा एव / तस्मान् न नित्यानां क्वचिद् १५११० विज्ञान-जनन-सामर्थ्यम् / कदाचिद् अजनने नित्यम् अजनन- प्रसङ्गात् / १५१११ कार्य-सातत्य-अदर्शनाच् च न ते कथंचित् कर्तार इत्य् १५११२ उक्त-प्रायम् / या अप्य् एता नित्य-अभिमतेष्व् आकाश-आदिषु प्रतिपत्तयस् १५११३ ता अपि न तत्-स्वभाव-भाविन्यः / तथा हि / १५११४ विकल्प-वासना-उद्भूताः समारोपित-गोचराः / १५११५ जायन्ते बुद्धयस् तत्र केवलं न अर्थ-गोचराः
SK
१५११६ स्वलक्षण-विषया हि बुद्धिर् नियमेन तद्-योग्यता-उपस्थापन-अनुविधायिनी १५११७ इति तस्मिन् सत्य् अस्याः कारणे योग्ये सा भवत्य् एव / १५११८ तद् यदि नित्यानां पदार्थानां स्वलक्षणे कस्यचित् ज्ञानं स्यात् १५११९ सर्वस्य सर्वदा स्यात् / कार्य-विशेषा हि व्यक्तयः कथंचित् १५१२० क्वचिद् उपयुज्यमानास् तद्-उपजनन-योग्य-अतिशय-प्रतिलम्भ-हेतुम् १५१२१ वस्तु-विशेषम् अपेक्षन्त इति युक्तम् / तथा अकार्य-विशेषो नित्यो १५१२२ भावः केनचिद् गृह्यमाणस् तत्-कारण-अपेक्षो यदि ग्रहणम् अस्य १५१२३ जनयेत् युक्तं यत् तेन एव गृह्येत / तच् च स्थित-स्वभावत्वान् १५१२४ न सम्भवति इति / सर्वेण समं गृह्येत न वा केनचिद् इति १५१२५ सन् केनचिद् दृष्टो न नित्यः कश्चिद् अतीन्द्रियः स्यात् / न च एतद् अस्ति / १५१२६ तस्माद् अर्थ-सामर्थ्य-अनपेक्षाः समारोपित-गोचरा आन्तरम् एव उपादानं १५१२७ विकल्प-वासना-प्रबोधम् आश्रित्य बाह्य-अर्थ-शून्या भ्रान्तय १५१२८ एव आकाश-आदिषु सर्वस्य सम्भवन्ति इति / तस्मान् न अपरावृत्ति- १५२०१ धर्माः शब्दाः / तत्त्वे वा कुत एतद् अवितथ-अर्थ-प्रतीतय १५२०२ एव इति / न ह्य् अग्निर् हिमस्य भेषजम् इत्य् आदिषु शीत-प्रतिघात- १५२०३ सामर्थ्यं लोक-प्रसिद्धं अग्नेः ख्याप्यत इति सर्वं तथा १५२०४ भवति / लोकस्य स्व-इच्छा-कृत-संकेत-अनुव्यवहारात् किम् अयं १५२०५ लोकः स्व-संकेतम् अनुविदधद् एवं प्रत्येति आहोस्विच् शब्द- १५२०६ स्वभाव-स्थितेर् इति सन्देहः / लोक-इच्छया अपि परावर्त्यमानाः १५२०७ शब्दाः पुनर् अन्यत्र अन्यथा दृश्यन्त इति लोक-प्रसिद्ध्य्-अनुविधाने १५२०८ अपि सम्भवत्य् एषाम् अन्यथाभावः / तस्मात् कस्यचिद् अवैपरीत्य- १५२०९ दर्शने अपि सर्वेषां तथाभावो न सिध्यति / अकृतक-स्वभावत्वे १५२१० अपि ह्य् एषां कश्चिन् मिथ्या-अर्थ-नियतो अपि स्याद् इति स्वभाव- १५२११ अपरिज्ञानात् सर्वत्र संशयः स्यात् / १५२१२ मिथ्यात्वं कृतकेष्व् एव दृष्टम् इत्य् अकृतं वचः / १५२१३ सत्य-अर्थं व्यतिरेकस्य विरोधि-व्यापनाद् यदि
SK
१५२१४ अथ यन् मिथ्या-अर्थं वचनं तद् अखिलं कृतकम् इति हेतु-व्यतिरेकेण १५२१५ साध्य-व्यतिरेकस्य व्याप्तेर् अन्यत्र असम्भवाद् अकृतकं १५२१६ सत्य-अर्थम् इति स्याद् विना अप्य् अन्वयेन / यो हि येन अव्याप्तस् १५२१७ तत्र तद्-व्यतिरेकः शङ्क्येत / न च विरुद्धयोर् एकत्र सम्भवो १५२१८ अस्ति / असम्भवे च विजातीयस्य गत्य्-अन्तर-अभावाद् इष्ट-अर्थ-सिद्धेस् १५२१९ तत्-साधनत्वाच् च लिङ्गस्य व्यर्थम् अन्वय-दर्शनं १५२२० व्यतिरेक-मात्रेण एव सिद्धेर् इति / सत्यम् एतत् यदि विपक्षयोर् १५२२१ व्याप्यव्यापकभावः सिध्येत् / स तु न सिद्धः / यस्मात् १५२२२ हेताव् असम्भवे अनुक्ते भावस् तस्य अपि शङ्क्यते / १५२२३ विरुद्धानां पदार्थानाम् अपि व्यापक-दर्शनात्
SK
१५२२४ यदि हेतोः साध्य-विपक्षे अभावः सिध्येत् तदा साध्य-व्यतिरेकं १५२२५ हेतु-व्यतिरेको व्याप्नुयात् / न च तत्र तस्य असम्भवे १५२२६ प्रमाणं पश्यामः / न च अविरुद्ध-विधिः प्रतिषेध-साधनो १५२२७ युक्तः / अतिप्रसङ्गात् / न च एकत्र दृष्टस्य अन्यत्र असम्भव १५२२८ एव पृथग् विरुद्ध-सहभाविनाम् अपि दर्शनात् / अनित्यत्व-वत् १५२२९ प्रयत्नानन्तरीयक-इतरयोर् / न च तथाविधस्य अदर्शनाद् असत्त्वम् १५२३० एव / यस्मात् / १५३०१ न असत्ता-सिद्धिर् इत्य् उक्तं सर्वतो अनुपलम्भनात् / १५३०२ असिद्धायाम् असत्तायां सन्दिग्धा व्यतिरेकिता
SK
१५३०३ न ह्य् अयं पुरुष-मात्रकः सर्वं द्रष्टुं समर्थो येन अस्य १५३०४ दर्शन-निवृत्त्या न तथा स्यात् / यस्य हि ज्ञानं ज्ञेय-सत्तां १५३०५ न व्यभिचरति स एवं ब्रुवाणः शोभेत अदर्शनान् न अस्ति इति / १५३०६ तद् इमे स्वभाव-देश-काल-विप्रकर्षेण सन्तो अप्य् अनुपलक्ष्याः १५३०७ स्युः / तथा हि / को अत्यन्तपरोक्षे अर्थे संवादनम् इतरद् १५३०८ वा सर्व-दर्शी वचनस्य अकृतकस्य इतरस्य वा विभावयितुं समर्थः / १५३०९ प्रतिपादितं च एतत् क्वचित् तथा दृष्टानाम् अप्य् अर्थानां १५३१० पुनः कथंचिद् अन्यथाभावः यथा क्वचिद् देशे मधुराणि १५३११ निम्ब-फलानि संस्कार-विशेषाद् आमलकी-फलानि च न १५३१२ च इदानीम् अतद्-दर्शिना तानि प्रतिक्षेप्तव्यान्य् एव इति / तस्माद् अकृतकं १५३१३ च स्याद् स्यान् मिथ्या-अर्थं च इति न विरोधं पश्यामः / न १५३१४ हि इयम् अनुपलब्धिर् अदृश्य-आत्मस्व् अभाव-साधिका इत्य् उक्तम् / तेन १५३१५ यत् किंचिन् मिथ्या-अर्थं तत् सर्वं पौरुषेयम् इत्य् अनिश्चयाद् १५३१६ अव्याप्तिः / तथा हि / १५३१७ अन्वयो व्यतिरेको वा सत्त्वं वा साध्य-धर्मिणि / १५३१८ तन्-निश्चय-फलैर् ज्ञानैः सिध्यन्ति यदि साधनम्
SK
१५३१९ तथा च उक्तम् / य एव तु उभय-निश्चित-वाची स साधनम् दूषणम् १५३२० वा न अन्यतर-प्रसिद्ध-सन्दिग्ध-वाची पुनः साधन-अपेक्षत्वाद् १५३२१ इति / को ह्य् अदृष्ट-विरोधस्य सम्भवं प्रत्याचक्षीत / तद् अयं १५३२२ व्यतिरेकः संशयाद् असाधनम् / अपि च / १५३२३ यत्र साध्य-विपक्षस्य वर्ण्यते व्यतिरेकिता / १५३२४ स एव अस्य सपक्षः स्यात् सर्वो हेतुर् अतो अन्वयी
SK
१५४०१ यत् किंचिन् मिथ्या-अर्थं तत् सर्वं पौरुषेयम् इति हेतु-विपक्षेण १५४०२ साध्य-विपक्षस्य व्याप्तिस् तद्-अभावे अभाव-सिद्धौ स्यात् / तद्-अभावे १५४०३ भवतस् तेन व्याप्त्य्-अयोगात् / या एव च विजातीययोर् व्यावृत्ति-सिद्धिः १५४०४ सा एव अन्वय-स्थितिर् विपक्ष-व्यवच्छेद-लक्षणत्वात् साध्यस्य / १५४०५ प्रतिषेध-द्वयाच् च विधि-सिद्धिर् इति का अनन्वय-अव्यतिरेक-व्याप्ति- १५४०६ सिद्धिः / तन् न कश्चिद् हेतुर् अनन्वयो नाम / एक-व्यवच्छेदस्य १५४०७ तद्-विजातीय-सिद्धि-नान्तरीयकत्वात् / अनित्य-निरात्मता-आदि-व्यवच्छेदे १५४०८ अपि तथा स्यात् / न / व्यतिरेक-व्यवच्छेदस्य भाव-रूपत्वात् / १५४०९ न भाव-रूप-व्यवच्छेदे भाव-अनुषङ्गः / अभाव-व्यवच्छेदस् १५४१० तु नियमेन भाव-उपस्थापनः / भाव-अभावयोर् अन्योन्य-विवेक- १५४११ रूपत्वात् / अभाव-रूपस् तु व्यतिरेकः स च व्यतिरिच्यमानो १५४१२ भावम् उपस्थापयति न एवं नैरात्म्य-आदयः स्वभाव-विशेषात् / १५४१३ क्रिया-भोग-अधिष्ठान-अस्वतन्त्रो ह्य् आत्मा निरात्मा / तत्-स्वातन्त्र्य- १५४१४ लक्षणत्वाद् आत्मनः / तद् रूपं नैरात्म्यं न आत्म-निवृत्ति- १५४१५ मात्रम् अन्यथा निरुपाख्ये कृतकत्व-आद्य्-अयोगान् न ततो नैरात्म्य- १५४१६ सिद्धिः स्यात् / आत्म-व्यवच्छेदेन निरात्मनो भावस्य परामर्शाद् १५४१७ अदोष इति चेत् / पर्युदासेन वस्तु-संस्पर्शाद् तद् एव १५४१८ वस्तु-रूपं नैरात्म्यम् आयातम् / यस्य अपि न अभाव-रूपो व्यतिरेकस् १५४१९ तस्य भाव-रूप-व्यवच्छेदे न भाव-सिद्धिः स्याद् इति १५४२० न अन्वय-अनुषङ्गः / तथा अनैरात्म्ये अपि न भाव-सिद्धिः / यथा १५४२१ न इदं निरात्मकं जीवच्छरीरं प्राण-आदिमत्त्वाद् इति विपक्षयोर् १५४२२ व्याप्यव्यापकभाव-चिन्तायाम् अप्राण-आदिमत्त्व एव नैरात्म्यं १५४२३ दृष्टम् / तद्-अभावे च न अस्ति इति स्वयं न भवद् अपि प्राण-आदीनां १५४२४ न आत्मनि सिद्धिम् उपस्थापयति / तथा साध्ये अपि प्राण-आदिभिर् १५४२५ व्युदस्यमानं स्यात् केवलम् / नैरात्म्ये अभावात् प्राण- १५४२६ आदयस् तन्-निरसना न आत्म-उपस्थापनाः / तत्र भाव-असिद्धेः / १५४२७ न च नैरात्म्य-निवृत्त्या आत्म-सिद्धिः स्यात् / विपक्ष-व्यतिरेक-दर्शने १५४२८ अपि प्रसङ्गात् / तन् न विपर्यय-व्याप्तिर् व्यतिरेक-असिद्धौ / १५४२९ तत्-सिद्धिर् एव च अन्वय-सिद्धिः / असिद्धौ वा तद्-व्यतिरेक-निवृत्ति- १५४३० सिद्धाव् अपि तद्-असिद्धिर् इति साध्ये अपि प्रसङ्गः / तन् न अनन्वया १५४३१ व्यतिरेक-व्याप्तिः / मिथ्या-अर्थतायास् तु पौरुषेयत्वेन व्याप्त्या १५५०१ अपौरुषेयान् निवृत्ताव् अपि न सत्य-अर्थत्वम् / प्रकार-अन्तर-सम्भवात् / १५५०२ द्वैराश्ये तु शब्दानाम् एतत् स्याद् एक-निवृत्तौ गत्य्-अन्तर- १५५०३ अभावात् / ते त्व् अनर्थका अपि स्युर् इति न इष्टसिद्धिः / अर्थ-प्रतीतेर् १५५०४ न अनर्थका इति चेत् / एष पुरुष-व्यापारः स्यात् / अर्थ-अन्तर-विकल्प-वत् / १५५०५ यथा अतद्-अर्थत्वे अपि भरत-उर्वश्य्-आदि-चरित-आदिकम् अर्थम् १५५०६ अन्ये अन्यथा व्याचक्षते / तद्-अनुसारेण च केषांचित् प्रतीतिः / १५५०७ तथा अयम् अनर्थकेष्व् अर्थ-विकल्पः पुरुष-कृतः न तु शब्द- १५५०८ स्वभाव-कृतः पुरुष-उपदेश-अपेक्षणात् अर्थ-अन्तर-वद् एव / १५५०९ न हि प्रकृत्या प्रकाशनास् तम् अपेक्षन्ते वह्न्य्-आदयः / पुरुषस् १५५१० तु स्व-समय-व्यापारम् आचक्षाण उपदिशति इति न्याय्यम् / १५५११ पुरुष-समित-निसर्ग-सिद्धयोर् उपदेश-अपेक्षण-अविशेषाद् अन्य-विशेष-अभावाच् १५५१२ च एको नैसर्गिको अन्यस् तु पौरुषेय इति दुरवसानम् / अस्ति १५५१३ विशेषः प्रमाण-संवाद इति चेत् / एतद् उत्तरत्र निषेत्स्यामः न अस्त्य् १५५१४ अत्यन्तपरोक्षे अर्थे प्रमाण-अन्तर-वृत्तिर् इति / समान-धर्मिणोर् १५५१५ अर्थयोः प्रमाण-संवाद-मात्र-विशेषाद् एकत्र अपौरुषेयत्वे बहुतरम् १५५१६ इदानीम् अपौरुषेयम् / सन्ति पुरुष-कृतान्य् अपि वाक्यानि कानिचिद् १५५१७ एवंविधानि इति तेष्व् अपि प्रसङ्गः / तद्वद् एषाम् अप्य् अभिमत- १५५१८ अर्थवत्ता पौरुषेयी च स्यात् प्रमाण-अनुरोधिनी च / अपि १५५१९ च इदं मन्त्रा अपौरुषेयाश् च इति व्याहतं पश्यामः / तथा हि / १५५२० समयत्वे हि मन्त्राणां कस्यचित् कार्य-साधनम् / १५५२१ युक्तम् / यद्य् एते मन्त्राः कस्यचित् समयो यथा मत्-प्रणीतम् / १५५२२ एतद् अभिमत-अर्थ-उपनिबन्धनं वाक्यम् एवं नियुञ्जानम् १५५२३ अनेन अर्थेन योजयामि इति परार्थ-परता-अनुरोधेन अन्यतो वा कुतश्चिद् १५५२४ हेतोः कृतः स्यात् तदा मन्त्र-प्रयोगात् कदाचित् अर्थ- १५५२५ निष्पत्तिर् युक्ता कवि-समयाद् इव पाठकानाम् / १५५२६ अथ अपि भाव-शक्तिः स्याद् अन्यत्र अप्य् अविशेषतः
SK
१५५२७ न वै पुरुष-समयान् मन्त्रेभ्यो अर्थ-सिद्धिः / किं तर्हि / भाव- १५५२८ स्वभाव एष यद् इमे कथंचिन् नियुक्ताः फलदाः / तत् तर्हि १५६०१ रूपं वर्णानां सर्वत्र अविशिष्टम् इति यथाकथंचित् प्रयुक्ताद् १५६०२ अपि फलं स्यात् / वर्णा एव हि मन्त्रो न अन्यत् किंचित् / तत्-क्रमो १५६०३ मन्त्र इति चेत् / १५६०४ क्रमस्य अर्थान्तरत्वं च पूर्वम् एव निराकृतम् / १५६०५ न वर्ण-व्यतिरिक्तो अन्यः क्रम इति निवेदितम् एतत् / अव्यतिरेके १५६०६ च वर्णा एव मन्त्रस् / ते च अविशिष्टाः सर्वत्र इति सर्वदा फलदाः १५६०७ स्युः / उपप्लवस् त्व् अल्पीयसो अपि क्रमस्य भ्रंशाद् दृष्टः / १५६०८ कस्यचिद् अनुष्ठानाद् देवता-संनिधेर् असाकल्येन विराधनाच् १५६०९ च / सर्व-भ्रंशे तु कस्यचिद् एव समयस्य अननुष्ठानाद् असंनिधेर् १५६१० न अर्थ-अनर्थौ / किं च क्रमस्य अर्थान्तरत्वे अनर्थान्तरत्वे १५६११ वा वर्ण-आत्मनस् तत्-क्रम-आत्मनो वा मन्त्रस्य अर्थ-हेतोर् १५६१२ अकृतकत्वान् नित्यस्य नित्यं संनिधानम् इति १५६१३ नित्यं तद्-अर्थ-सिद्धिः स्याद् / १५६१४ यतो हि भाव-शक्तेः फल-उत्पत्तिः सा अविकला इति न फल-वैकल्यं १५६१५ स्यात् / न हि कारण-साकल्ये कार्य-वैकल्यं युक्तम् / तस्य १५६१६ अकारणत्व-प्रसङ्गात् / न केवलान् मन्त्र-प्रयोगाद् इष्टसिद्धिस् १५६१७ तस्य विधान-अपेक्षत्वाद् इति चेत् / १५६१८ असामर्थ्यम् अपेक्षणे
SK
१५६१९ यदि मन्त्रा विधानाद् अन्यतो वा कंचित् स्वभाव-अतिशयम् आसादयेयुः १५६२० स तत्र समर्थो अपेक्ष्यः स्यात् / न च नित्येष्व् एतद् १५६२१ अस्ति इत्य् उक्तम् / तत् किम् अयम् असमर्थो अपेक्ष्यत इत्य् अनपेक्षाः १५६२२ सदा कुर्युर् न वा कदाचिद् अनतिशयात् / १५६२३ सर्वस्य साधनं ते स्युर् भाव-शक्तिर् यद् ईदृशी / १५६२४ प्रयोक्तृ-भेद-अपेक्षा च न असंस्कार्यस्य युज्यते
SK
१५६२५ यदि भाव-शक्तया एव मन्त्राः सिद्धि-प्रदा न ते कंचित् परिहरेयुर् १५६२६ यजमानम् अन्यं वा / न ह्य् अन्यं प्रति स्वभावो अतद्-भावो १५६२७ भवति / तस्य तेन अनपकर्षणाद् अन्येन च अनुत्कर्षणात् / १५७०१ केनचित् सह कार्यकारणभाव-अयोगात् / प्रत्यासत्ति-विप्रकर्ष- १५७०२ अभावात् / अत एव अस्य असंस्कार्यत्वात् प्रयोक्ता अपि न अस्ति / अतः १५७०३ प्रयोक्ता फलम् अश्नुवीत / १५७०४ संस्कार्यस्य अपि भावस्य वस्तु-भेदो हि भेदकः / १५७०५ प्रयोक्तृ-भेदान् नियमः शक्तौ न समये भवेत्
SK
१५७०६ आधेयविशेषा ह्य् अनित्या भावाः / तद्-हेतोः स्वभाव-भेदे ततः १५७०७ समासादित-अतिशयत्वाद् अन्यत्र अन्यथा स्युः / न अभेदे / कारण-अविशेषे १५७०८ कार्य-अविशेषात् / विशेषे तस्य अहेतुकत्व-प्रसङ्गाद् इत्य् उक्त- १५७०९ प्रायम् / तद् इमे मन्त्राः स्वभाव-अतिशयात् फलदायिनः कार्या १५७१० अपि न शूद्र-आदि-प्रयोगे अप्य् अन्यथा स्युः / शूद्र-विप्र-अभिधानयोः १५७११ पुरुषयोः स्वभाव-अभेदात् / न हि पुरुष-इच्छा-अनुविधायिनो १५७१२ नाम-व्यवहार-भेदात् स्वभाव-भेद-अनुबन्धिनाम् अर्थानाम् अन्यथात्वम् १५७१३ अस्ति / तयोर् जाति-भेद इति चेत् / स खल्व् आकृति-गुण-शक्ति- १५७१४ भेदे दृष्टो गव-अश्व-वत् / अनुपदेशं च एनं लोकः प्रतिपद्यते / १५७१५ न तद्वद् अनयोः कंचिद् अपि गुणं विनियतं पश्यामः / अपश्यन्तश् १५७१६ च कथं भेदं प्रतिपद्येमहि / यो अप्य् अयं नाम- १५७१७ भेद-अन्वयो लोके प्रतीति-भेदः सो असत्य् अपि जाति-भेदे व्यापार- १५७१८ विशेष-अनुष्ठानाद् अन्वयाच् च स्याद् वैद्य-वणिग्-व्यपदेश-आदि-वत् / १५७१९ तद् इमे अविशिष्टेन प्रयुज्यमाना मन्त्रास् ततो अविशिष्टम् एव १५७२० स्वभावम् आसादयन्ति / तेन अविशेषेण एव फलदाः स्युः / यदा १५७२१ तु समयाद् एभ्यः फलं तदा अयम् अदोषः / समयकारस्य १५७२२ रुचेः फल-उत्पत्ति-नियमात् / स्वभाव-वृत्तयो हि भावास् तन्-मुखेन १५७२३ प्रसङ्गम् अर्हन्ति / न पुरुष-इच्छा-वृत्तयस् तेषां १५७२४ यथाकथंचिद् वृत्तेः / यद् अपि प्रयोक्ता फलम् अश्नुत इति १५७२५ प्रयोगं समीहित-अर्थ-योग्यस्य उत्पादनं सन्तानपरिणामनं १५७२६ वा पश्यामः / तद् उभयं विशेष-जन्मनि स्यात् / अन्यथा / १५७२७ अनाधेयविशेषाणां किं कुर्वाणः प्रयोजकः / १५७२८ येन ततः कश्चित् फलम् अश्नुते अन्यो न / १५७२९ प्रयोगो यद्य् अभिव्यक्तिः सा प्राग् एव निराकृता
SK
१५८०१ न हि नित्यानां काचिद् अभिव्यक्तिर् इत्य् उक्तम् यतो अभिव्यञ्जकः १५८०२ प्रयोक्ता स्यात् / १५८०३ व्यक्तिश् च बुद्धिः सा यस्मात् स फलैर् यदि युज्यते / १५८०४ स्याच् श्रोतः फल-सम्बन्धो वक्ता हि व्यक्ति-कारणम्
SK
१५८०६ न हि शब्दस्य अन्यतः स्वरूप-परिणामो व्यक्तिर् न अप्य् आवरण-विगमनम् / १५८०७ किं तु तद्-विषया प्रतीतिर् अश्रूयमाणे अव्यक्त-व्यपदेशात् / १५८०८ तत्र यदि बुद्धि-हेतुर् वक्ता स्यात् तत् तुल्यं श्रोतर्य् अपि इति १५८०९ सो अपि फलं वक्तृ-वद् अश्नुवीत / न हि वक्तुः कश्चिद् अन्यस् १५८१० तद्-भावो अन्यत्र तद्-बुद्धि-हेतुत्वात् / पर-उपाधि-बुद्धिः श्रोतुर् १५८११ न वक्तुर् इति विशेष इति चेत् / कः पुनर् उपयोगो वक्तुः श्रोतरि १५८१२ येन उपाधिर् इष्यते / ततः शब्द-श्रुतिर् इति चेत् / ननु तद् एव इदं १५८१३ पर्यनुयुज्यते कथं तत इति / असम्बन्धात् / विषय-उपनयनाद् १५८१४ अयम् अस्य श्रावकः स्यात् / तच् च न शक्यम् तस्य कथंचिद् १५८१५ अप्य् अपरिणामात् / इन्द्रिय-संस्कार-आदयो अप्य् उक्ताः / मां १५८१६ श्रावयत्य् अहं श्रावयामि इति तयोः प्रत्ययाद् वक्तृ-श्रोतृ-भेद १५८१७ इति चेत् / अनुपकार्य-उपकारकाद् भ्रान्ति-मात्रात् तद्-भावे अतिप्रसङ्गात् / १५८१८ अन्यत्र अपि भ्रान्त्या प्रत्यय-दर्शनात् / सर्वथा उपकार-अभावे १५८१९ च तथा प्रत्ययो न युक्तः / सर्वेषां परस्परम् एवं १५८२० प्रसङ्गात् / भ्रान्तिर् अपि कुतश्चिद् उपकारे सति कयाचित् प्रत्यासत्त्या १५८२१ अन्यत्र भवति / स अप्य् अत्यन्त-अनुपकारे न स्यात् / तस्माद् १५८२२ वक्तृ-श्रोत्रोर् व्यक्ति-हेतुत्वे अविशेषात् तुल्यः फल-सम्बन्धः १५८२३ स्यात् / अपि च / १५८२४ अनभिव्यक्त-शब्दानां करणानां प्रयोजनम् / १५८२५ मनोजपो वा व्यर्थः स्याच् शब्दो हि श्रोत्र-गोचरः
SK
१५८२६ श्रोत्र-ग्रहण-लक्षणः शब्दः / तद्-अतिक्रमे अतिप्रसङ्गात् / नन्व् १५८२७ एवं सामान्ये अपि प्रसङ्गः / न ब्रूमः शब्द एव इति / शब्दस् त्व् १५८२८ अवश्यं तल्-लक्षणस् तस्य लक्षण-अन्तर-अभावात् / तत्र यदि १५८२९ शब्द-आत्मनां मन्त्राणां व्यक्ति-हेतुः प्रयोक्ता अनभिव्यक्त- १५९०१ श्रुति-विषयाणां करणानां प्रयोक्ता जापी न मन्त्र-फलेन १५९०२ युज्यते न अपि मनसा जपन् / न हि तदा श्रोत्रेण कंचिद् अर्थं १५९०३ विभावयामः / न च अशब्द-आत्मा मन्त्रः / १५९०४ पारंपर्येण तज्जत्वात् तद्-व्यक्तिः सा अपि चेन् मतिः / १५९०५ न हि मनसा ध्यायतो अपि मन्त्र-आभासा बुद्धिः शब्द-श्रवणाद् १५९०६ ऋते / ततः शब्द-प्रभवात् सा अपि शब्द-व्यक्तिर् एव / अनवस्था एवं १५९०७ स्यात् / शब्द-अर्थ-विकल्पानाम् अपि परंपरया प्रसूतिर् अस्ति इति / १५९०८ ते / १५९०९ अपि १५९१० तथा स्युस् तद्-अर्था चेद् असिद्धं कल्पना-अन्वयात्
SK
१५९११ न ब्रूमः सर्वा शब्द-प्रभवा बुद्धिस् तद्-व्यक्तिर् इति / या तु १५९१२ तद्-विषया सा तस्य व्यक्तिर् इति / मनो-विकल्पस्य तद्-विषयत्वम् १५९१३ असिद्धम् / न हि स्वलक्षणे विकल्पानां वृत्तिर् इति निवेदयिष्यामः / १५९१४ ते हि यथास्वम् आन्तराद् विकल्प-वासना-प्रबोधाद् अनपेक्षित- १५९१५ बाह्य-अर्थ-उपनिधयो भवन्ति / बाह्य-अपायान-आगमे अपि भावात् / १५९१६ न हि यो यस्य सत्ता-उपधानं न अपेक्षते स तस्य हेतुः / अहेतुश् १५९१७ च कथं विषयः / तस्मान् न मनो-विकल्पः शब्द-व्यक्तिर् १५९१८ यतस् तद्वान् प्रयोक्ता स्यात् / तत्-प्रसूता तद्-विषया बुद्धिस् तद्-व्यक्तिः / १५९१९ तद्-आश्रयः प्रयोक्ता इति / अत्र अप्य् उक्तं श्रोतर्य् अपि प्रसङ्ग १५९२० इति / तज्-ज्ञाने च प्रयोगे शब्दः पुरुषे व्याप्रियते / तस्य ज्ञान- १५९२१ जननात् / न पुरुषः शब्दे / तदात्मन्य् अनुपकारात् / अथ च १५९२२ पुरुषः शब्दानां प्रयोक्ता इत्य् अलौकिको अयं व्यवहारः / १५९२३ सर्वथा शब्द-स्वभावानां मन्त्राणां प्रयोगात् फल-अवाप्तौ १५९२४ व्यर्थो मनोजपो विकल्पस्य शब्द-रूप-असंस्पर्शात् / १५९२५ स्व-सामान्य-स्वभावानाम् एक-भाव-विवक्षया / १५९२६ उक्तेः समयकाराणाम् अविरोधो न वस्तुनि
SK
१५९२७ समयकारस् तु स्वलक्षणम् इन्द्रिय-विषयं सामान्यलक्षणं १५९२८ च विकल्प-प्रतिभासं यथा-व्यवहारं संवृत्या संकलय्य १५९२९ समयम् आरोचयेत् यथा-समयं च अर्थं निष्पादयेद् इति १६००१ न मनोजप-आदाउ दोषः / वस्तु-स्वभावात् तु फलाव् आप्ताव् अतत्- १६००२ स्वभाव-संस्पर्शे न स्यात् / यद् उक्तं न वर्णेभ्यो अन्या काचिद् १६००३ आनुपूर्वी इति तत्र / १६००४ आनुपूर्व्याम् असत्यां स्यात् सरो रस इति श्रुतौ / १६००५ न कार्य-भेद इति चेद् / १६००६ न हि सरो रस इत्य् आदि-पादेषु कश्चिद् वर्ण-भेदो न च वर्ण-व्यतिरिक्तम् १६००७ अन्यद् यतः कार्य-भेदः स्यात् / भिन्नां च तयोः १६००८ प्रतिभां पश्यामः आनुपूर्वीम् एव च अतुल्याम् / न च कारण-अभेदे १६००९ कार्य-भेदो युक्तः / तस्माद् अस्ति सा भेदवती यतो अयम् १६०१० प्रतीति-भेदः / सत्यम् १६०११ अस्ति सा पुरुष-आश्रया
SK
१६०१२ तथा हि / १६०१३ यो यद्-वर्ण-समुत्थान-ज्ञानजाज् ज्ञानतो ध्वनिः / १६०१४ जायते तद्-उपाधिः स श्रुत्या समवसीयते
SK
१६०१५ तज्-ज्ञान-जनित-ज्ञानः स श्रुताव् अपटु-श्रुतिः / १६०१६ अपेक्ष्य तत्-स्मृतिं पश्चाद् आधत्ते स्मृतिम् आत्मनि
SK
१६०१७ इत्य् एषा पौरुषेय्य् एव तद्-हेतु-ग्राहि-चेतसाम् / १६०१८ कार्यकारणता वर्णेष्व् आनुपूर्वी इति कथ्यत्
SK
१६०१९ चित्त-समुत्थाना हि वाग्-विज्ञप्तिर् वर्ण-पद-वाक्य-अभिधाना / तत्र १६०२० सकार-समुत्थापन-चेतसा समनन्तरप्रत्ययेन अकर-उत्थापन- १६०२१ चित्तम् उत्थाप्यते / तथा रेफ-आकार-विसर्जनीय-उत्थापनानि पूर्व- १६०२२ पूर्व-प्रत्ययानि / तद् इमे अन्यान्य-हेतवो वर्णाः स्व-कारण- १६१०१ आनुपूर्वी-जन्मानः / श्रुति-काले अपि यदा मन्द-चारिणः पूर्व- १६१०२ वर्ण-ज्ञान-सहकारि-प्रत्यय-अपेक्षाः स्व-ज्ञानं जनयन्ति तदा १६१०३ पूर्व-वर्ण-स्मरण-अपेक्षा एव स्मृतिम् उपलीयन्ते / स एष वर्णानां १६१०४ भिन्न-कार्यकारणभाव-प्रत्यय-निर्वृत्ति-धर्मा भिन्न- १६१०५ निर्वर्तन-धर्मा च स्वभावः पुरुष-संस्कार-भेद-भिन्नः १६१०६ क्रम इत्य् उच्यते / १६१०७ अन्यद् एव ततो रूपं तद् वर्णानां पदं पदम् / १६१०८ कर्तृ-संस्कारतो भिन्नं सहितं कार्य-भेद-कृत्
SK
१६१०९ तस्मान् न खल्व् एक एव पदेषु वर्णानां स्वभावः कर्तृ-चित्त- १६११० संस्कार-भेदेन भेदात् / स च परस्पर-सहितः कार्य-भेद- १६१११ हेतुः / १६११२ सा च आनुपूर्वी वर्णानां प्रवृत्ता रचन-आकृतः / १६११३ इच्छा अविरुद्ध-सिद्धीनां स्थित-क्रम-विरोधतः
SK
१६११४ कार्यकारणभूत-प्रत्यय-उत्पन्न-स्वभाव-विशेषो वर्णानाम् आनुपूर्वी १६११५ इत्य् उक्तम् / सा च पुरुष-वितर्क-विचार-कृता इति न स्थित-क्रमा १६११६ वर्णाः / इच्छा अविरुद्ध-सिद्धि-क्रमत्वात् / क्रम-विशेष-अनुक्रम-वत् / १६११७ न हि स्थित-क्रमाणां देश-कालयोर् हिमवद्-विन्ध्य-मलय- १६११८ आदीनां बीज-अङ्कुर-आदीनां च स्व-इच्छया क्रम-रचना शक्यते १६११९ कर्तुम् / तत एव पुरुष-धर्म-संख्याते विकल्प-अनुक्रमे सति १६१२० भावाद् असति च अभावात् / १६१२१ कार्यकारणता-सिद्धेः पुंसां वर्ण-क्रमस्य च / १६१२२ सर्वो वर्ण-क्रमः पुम्भ्यो दहन-इन्धन-युक्ति-वत्
SK
१६१२३ सति इन्धने दाह-वृत्तेर् असत्य् अभावाद् अदृष्ट-इन्धनो अपि दहनो १६१२४ न अनिन्धनस् तस्य देश-काल-नियम-अयोगात् / नियमे च तस्य एव इन्धनत्वाद् १६१२५ दहन-उपादान-लक्षणत्वाद् इन्धनस्य / तथा अयम् १६२०१ अपि वर्ण-अनुक्रमः पुरुष-विकल्पं यदि न अपेक्षेत निरालम्बनः १६२०२ स्वयं प्रकाशेत / यत्ने अपि न शक्येत / अतत्-प्रभवात् / १६२०३ क्वचिच् शक्तौ सर्वस् तथा स्यात् / विशेष-अभावात् / तद्-भाव-भाविनो १६२०४ अतद्-विशिष्टस्य च अतत्-कृतौ सर्वत्र कार्यकारणभावश् च १६२०५ निराकृतः स्यात् / अन्वय-व्यतिरेक-लक्षणत्वात् तस्य / लक्षण-अन्तरं १६२०६ वा वक्तव्यम् / सर्वे अपि घट-आदयो भावाः कृत्रिमा अकृत्रिमा १६२०७ प्रसजन्ति / तत्र अप्य् एवं विकल्पनायाः सम्भवात् / विशेष-अभावाच् १६२०८ च / तान् अपि हि पर-क्रिया-दर्शन-पूर्वकम् एव अन्यः करोत्य् अविदित १६२०९ कर्तारश् च केचिद् इति सर्वेषां केषांचिद् वा अक्रिया-अभिनिवेशो अस्तु / १६२१० तस्मात् सर्वा एव इयं वर्ण-आनुपूर्वी प्रसिद्ध-कार्यकारणभाव- १६२११ वस्तु-धर्म-अनतिक्रमात् पुरुष-कृता / अत एव / १६२१२ असाधारणता सिद्धा मन्त्र-आख्य-क्रम-कारिणाम् / १६२१३ पुंसां ज्ञान-प्रभावाभ्याम् अन्येषां तद्-अभावतः
SK
१६२१४ अयं क्रमो वर्णानां विष-निर्घात-आदि-समर्थो न अन्य इति यद्य् १६२१५ अन्यो अपि जानीयत् तं तथा एव प्रतिपद्येत / न च एवम् / तस्माद् १६२१६ अयम् अनुक्रमः स्वभावतो अपि कार्य-कृत् कैश्चिद् एव विज्ञात इत्य् १६२१७ अस्ति परोक्ष-अर्थ-दर्शी पुरुषः / न ह्य् अयम् अर्थः समर्थो १६२१८ न अयम् इति शक्यम् उन्नेतुम् असंकीर्णस्य लिङ्ग-विशेषस्य असिद्धेः / १६२१९ प्रत्यक्षयोर् अप्य् अनुपदिष्टयोर् मन्त्र-अमन्त्रयोर् अपरिज्ञानात् / १६२२० उपदेशे अपि कथंचित् स्वभाव-विवेक-अप्रतीतेर् अन्यत्र कार्य- १६२२१ संवादात् तस्य च करणात् प्राग् द्रष्टुम् अशक्यत्वात् / न १६२२२ च अयम् अनुक्रमः स्वभावतः कारकः कस्यचिद् आशु-सिद्धेर् १६२२३ अन्यस्य चिराद् अपरस्य व्रत-चरण-आद्य्-अपेक्षणात् / एकस्माद् अपि १६२२४ कर्मणः कयोश्चिद् अर्थ-अनर्थ-सन्दर्शनात् / वहताम् अपि १६२२५ मन्त्राणां पुनः क्वचिद् विसंवादात् / न ह्य् अयं प्रकारः १६२२६ स्वभावे युक्तः / स्वभावस्य सर्वत्र अविशेषात् / पुरुषस् १६२२७ तु स्व-इच्छा-प्रवृत्तिः सत्त्व-सभागता-आदि-वशात् सा इव अविशेषाद् वा १६३०१ कंचिद् अनुगृह्णाति न अपरम् इति युक्तम् / व्रत-चर्या-भ्रंश- १६३०२ आदिना धर्म-अधर्म-उपचये धर्म-अधर्म-आत्मनोर् वा प्रकृत्या १६३०३ सिद्ध्य्-असिद्धी इति चेत् / न / धर्म-विरुद्धानाम् अपि क्रौर्य- १६३०४ स्तेय-मैथुन-हीन-कर्म-आदि-बहुलानां व्रतानां डाकिनी-भगिनी- १६३०५ तन्त्र-आदिषु दर्शनात् / तैश् च सिद्धि-विशेषात् / न च एवंविधो १६३०६ धर्म-स्वभाव इति च यथावसरं निवेदयिष्यामः / मैत्री- १६३०७ शौच-धर्म-परायणानां च तन्-निमित्तम् एव कस्याश्चिद् सिद्धेर् १६३०८ असिद्धेर् विपर्यये च पुनः सिद्धेः / न च एक-रूपात् कर्मणः १६३०९ स तद्-विरोधी धर्मो युक्तो अधर्मश् च / कथम् इदानीं धर्म- १६३१० फलम् इष्टम् अधर्म-आत्मनो व्रत-आदेर् अश्नुते / न वै तस्य एव १६३११ तद् इष्टं फलं व्रत-आदेर् विपाको अपि तु पूर्वस्य कर्मणः / १६३१२ ब्रह्म-हत्य्-आदेश-अनुष्ठानाद् ग्राम-प्रतिलम्भ-वत् / तस्य त्व् १६३१३ अधर्म-आत्मनो व्रतस्य आगामि फलम् अनिष्टम् / स तु मन्त्र-आदि- १६३१४ प्रयोगस् तस्य इष्ट-फलस्य कर्मणः कथंचिद् उपकारात् पाचकश् १६३१५ चित्रत्वाद् उपकारक-शक्तेः / पुरुष-विशेष-आश्रय-विपाक- १६३१६ धर्मा स धर्मस् तेन कृतः स तथा तद्-आराधनेन फलति इति / १६३१७ तत्-प्रयोग-उपकार-विपाक-धर्मणः कृतत्वात् तत्-फलस्य कर्मणः / १६३१८ विना अपि पुरुषेण तद्-उपकारात् फलम् इति चेत् / न / पुरुष-आकार- १६३१९ स्वभाव-चर्या-अधिमुक्ति-वैयर्थ्य-प्रसङ्गात् / तस्य अप्य् उपकारत्वे १६३२० सिद्धः पुरुष-विशेषो असाधारण-गुणः / तद्-अधिमुक्तेर् १६३२१ एव हि विष-कर्म-आदि-करणात् / तस्मात् च मन्त्राः पुरुष-प्रनीता १६३२२ अपि तद्-उपयोग-निरपेक्षाः स्वभावेन फलदाः / १६३२३ ये अपि तन्त्रविदः केचिन् मन्त्रान् कांश्चन कुर्वते / १६३२४ प्रभु-प्रभावस् तेषां स तद्-उक्त-न्याय-वृत्तितः
SK
१६३२५ रथ्या-पुरुषा अपि केचन तन्त्रज्ञाः स्वयं-कृतैर् मन्त्रैः १६३२६ किंचित् कर्म कुर्वन्ति / तथा अन्यो अप्य् अनतिशयश् च कर्ता च १६३२७ मन्त्राणाम् इति / न / तेषां प्रभाववता एव अधिष्ठानात् / तत्-कृतं १६३२८ हि ते समयम् अनुपालयन्तस् तद्-उपदेशेन च वर्तमानाः समर्थाः / १६३२९ तत्-समय-उपदेश-निरपेक्षाणाम् असामर्थ्यात् / तत्र अपि १६४०१ तद्-आकार-ध्यान-आदेर् एव प्रयोगात् / तस्मात् तद्-अधिष्ठानम् एव १६४०२ तत् तादृशम् इत्य् उन्नेयम् / अपि च / सो अपि तादृशः प्रभाववान् १६४०३ एव अनन्य-साधारण-शक्तित्वाद् इति पुरुष-विशेष एव समर्थितः १६४०४ कृतकाः पौरुषेयाश् च वाच्या मन्त्राः फल-ईप्सुना / १६४०५ न ह्य् अकृतकानां प्रयोगः सम्भवति न च अप्रयुक्तेभ्यः १६४०६ फलम् इति प्रयोगात् फलम् इच्छता कृतका मन्त्रा वाच्याः पौरुषेयाश् १६४०७ च / पुरुष-अधिष्ठानम् अन्तरेण अन्यतो असम्भवत्-फलानां १६४०८ फल-दर्शनात् / कृत-समय-काव्य-आदि-वत् / १६४०९ अशक्ति-साधनं पुंसाम् अनेन एव निराकृतम्
SK
१६४१० प्रतिपादिता हि पुरुष-कृतास् तद्-अधिष्ठानाच् च फलदा मन्त्राः / १६४११ तद् अस्ति कश्चिद् अतिशयवान् इति तत्-प्रतिक्षेप-साधनान्य् अपि प्रतिव्यूढानि / १६४१३ बुद्धि-इन्द्रिय-उक्ति-पुंस्त्व-आदि साधनं यत् तु वर्ण्यते / १६४१४ प्रमाण-आभं यथार्था अस्ति न हि शेषवतो गतिः
SK
१६४१५ यत् तु बुद्धि-इन्द्रिय-वचन-योगात् पुंस्त्वाद् इति पुरुष-अतिशय-प्रतिक्षेप- १६४१६ साधनं तत् त्व् अगमकम् एव / प्रतिक्षेप-सामान्य- १६४१७ साधनयोर् असम्भवात् / न ह्य् अतीन्द्रियेष्व् अतद्-दर्शिनः प्रतिक्षेपः १६४१८ सम्भवति / सताम् अप्य् एषाम् अज्ञानात् / अत एव विरोध-असिद्धेः / १६४१९ अविरोधिना च सह सम्भव-अविरोधाद् इत्य् अप्य् उक्तम् / १६४२० न अपि इतर-सामान्य-सिद्धिर् विशेष-असम्भवस्य ज्ञातुम् अशक्यत्वात् / १६४२१ ईदृशेषु च अनुपलब्धेर् हेतुत्व-प्रतिक्षेपात् / पुंस्त्व-आदि-साम्ये १६४२२ अपि कस्यचिद् विशेषस्य दर्शनात् / सम्भवद्-विशेषे च साम्य-असिद्धिर् १६४२३ इत्य् उक्तम् / तस्माच् शेषवद् अनुमानम् एतत् / व्यतिरेकस्य १६४२४ सन्देहाद् असमर्थम् अदर्शने अपि विपक्ष-वृत्तेः / अपि १६४२५ च एवंवादिनो जैमिनीयाः स्वम् एव वादं स्व-वाचा विधुरयन्ति / १६४२६ तथा हि / १६५०१ अर्थो अयं न अयम् अर्थो न इति शब्दा वदन्ति न / १६५०२ कल्प्यो अयम् अर्थः पुरुषैस् ते च राग-आदि-संयुताः
SK
१६५०३ तत्र एकस् तत्त्वविन् न अन्य इति भेदश् च किं-कृतः / १६५०४ तद्वत् पुंस्त्वे कथम् अपि ज्ञानी कश्चित् कथं न वः
SK
१६५०६ न खल्व् एते वैदिकाः शब्दा एवं विक्रोशन्ति एत भवन्तो ब्राह्मणा १६५०७ अयम् अस्माकम् अर्थो ग्राह्यो न अन्य इति केवलम् अनभिव्यक्त- १६५०८ अर्थ-विशेष-संसर्गाः श्रुतिम् अभिपतन्ति / तत्र एकः पुरुषः १६५०९ कंचिद् अर्थं कल्पयत्य् अन्यो अपरम् / न च शब्दानां १६५१० कश्चित् स्वभाव-प्रतिनियमो येन एकम् अर्थम् अनुरुन्धते न अपरम् / १६५११ केवलं समय-वशात् तं तम् आविशन्तो दृश्यन्ते / तेषाम् १६५१२ अविदित-अर्थ-नियमानाम् अत्यक्ष-आवेशाद् अविद्वान् एव दोष-उपप्लवः १६५१३ कश्चित् तत्त्वं व्याचष्टे न अपर इति न न्याय्यम् / अथ १६५१४ कुतश्चिद् अतिशयाद् बुद्धि-इन्द्रिय-आदीनां स एव वेत्ति न अपरः / तस्य १६५१५ कुतो अयम् अतीन्द्रिय-ज्ञान-अतिशयः / तथा अन्यो अपि द्रष्टा देश-काल- १६५१६ स्वभाव-विप्रकृष्टानाम् अर्थानां किम् असम्भवी दृष्टः / न १६५१७ हि तत्-प्रतिक्षेप-साधनानि कानिचिद् यानि न एनम् उपलीयन्ते / १६५१८ यथा अयं तत्-साधन-सम्भवे अप्य् अस्य विशेषस् तथा अन्यस्य अपि १६५१९ स्याद् इत्य् अनभिनिवेश एव युक्तः / १६५२० यस्य प्रमाण-संवादि वचनं सो अर्थविद् यदि / १६५२१ न ह्य् अत्यन्तपरोक्षेषु प्रमाणस्य अस्ति सम्भवः
SK
१६५२२ स्याद् एतन् न वयं पुरुष-प्रामाण्यात् कस्यचिद् व्याख्यानम् १६५२३ अभिनिविष्टाः / किं तर्हि / प्रमाण-अन्तर-संवादाद् / बहुष्व् अपि १६५२४ व्याख्यातृषु यः प्रमाणं प्रत्यक्ष-आदिकं संस्यन्दयति सो १६५२५ अनुमन्यते / तन् न / अतीन्द्रियेष्व् अदृष्ट-आदिषु प्रमाण-अन्तर-अवृत्तेः / १६५२६ तद्-असम्भवाद् एव ह्य् आगमस् तत्-प्रतिपत्त्य्-अर्थम् उपयाच्यते / १६५२७ अन्यथा सत्य् अपि तस्मिन् प्रमाण-अन्तर-अवृत्ताव् अप्रतिपत्तेः / ततश् १६६०१ च केवलाद् अर्थ-प्रतिपत्तेर् असाधनम् एव आगमः स्यात् / केवलाद् अन्यतो १६६०२ अप्य् अतीन्द्रियेष्व् अप्रतिपत्तिर् इति चेत् / कथम् अतीन्द्रियश् च नाम १६६०३ प्रत्यक्ष-आदि-विषयश् च / ते पुनः स्व-विषये अप्य् आगमम् अपेक्ष्य एव १६६०४ साधकाश् चेत् / अनागमाद् धूम-आदेर् अग्न्य्-आदि-प्रत्ययो न स्यात् / १६६०५ न वै प्रवृत्त आगमे प्रमाण-अन्तरम् अन्विष्यते किं तर्हि १६६०६ स एव आगम-प्रवृत्तिर् न ज्ञायत इति चेत् / स्वयं समर्थस्य प्रसाधने १६६०७ अस्य तद्-आगम-उपधानं कम् अतिशयं पुष्णाति / असमर्थं १६६०८ त्व् आगम-प्रवृत्तिम् अपि न एव साधयिष्यति / सा च अतीन्द्रिय- १६६०९ अर्थ-सम्बद्धा आगम-प्रवृत्तिर् अतीन्द्रिया कथम् अन्येन १६६१० सिद्धा / अन्यच् च एवम् आगम-लक्षणं स्यात् / तथा हि / १६६११ यस्य प्रमाण-संवादि वचनं तत्-कृतं वचः / १६६१२ स आगम इति प्राप्तं निरर्था अपौरुषेयता
SK
१६६१३ तुल्ये अप्य् आगम-वादे प्रमाण-बलाद् आगमस्य क्वचिद् आगमत्वे १६६१४ प्रमाण-संवादो वचनानाम् आगम-लक्षणं स्यात् / न अपुरुष- १६६१५ क्रिया / तस्याः सर्व-अर्थेषु तुल्यत्वे अपि प्रमाण-अबाधनात् प्रतिपत्तेः / १६५१६ तद्-भावे अप्य् अन्यत्र प्रमाण-असंवादिन्य् अनिष्टत्वात् / १६६१७ किं च / १६६१८ यद्य् अत्यन्तपरोक्षे अर्थे अनागम-ज्ञान-सम्भवः / १६६१९ अतीन्द्रियार्थवित् कश्चिद् अस्ति इत्य् अभिमतं भवेत्
SK
१६६२० यद्य् आगम-अनपेक्षं ज्ञान-अयाथातथ्यं पुरुषस्य इष्यते परोक्षे १६६२१ अर्थे सन्ति पुरुषा अतीन्द्रियार्थदृश इति इष्टं स्यात् / प्रत्यक्ष- १६६२२ पूर्वकानां प्रमाणानाम् अतद्-दर्शने असम्भवात् / प्रत्यक्ष- १६६२४ प्रमाणम् आगमः / प्रमाण-अन्तर-वृत्तिस् तु प्रत्यक्षम् १६६२५ अन्वाकर्षति इति न पुरुष-अतिशयो निवार्यः स्यात् / तस्मान् न अस्त्य् अतीन्द्रियेषु १६६२६ प्रमाण-अन्तर-वृत्तिः / अत एव आगमस्य अर्थ-विशेष-वृत्तेर् १६६२७ अपरिज्ञानाद् अयं जैमिनिर् अन्यो वा १६६२८ स्वयं राग-आदिमान् न अर्थं वेत्ति वेदस्य न अन्यतः / १६७०१ न वेदयति वेदो अपि वेद-अर्थस्य कुतो गतिः
SK
१६७०२ सर्व एव हि पुरुषो अनतिक्रान्त-दोष-विप्लवस् तम् अतीन्द्रियम् १६७०३ अर्थ-विशेष-प्रतिनियमं व्याख्याता न स्वयं वेत्ति / न अप्य् एनम् १६७०४ अन्यो वेदयति / तस्य अपि तुल्य-प्रसङ्गत्वात् / न ह्य् अन्धेन आकृश्यमाणो १६७०५ अन्धः पन्थानं प्रतिपद्यते / न अपि स्वयं वेदः १६७०६ स्वार्थं विवृणोति / उपदेश-वैयर्थ्य-प्रसङ्गात् / तद् अयम् अपरिज्ञात- १६७०७ अर्थः शब्द-गडुर् एवं शल्यभूतो असद्-दर्शन-स्नायु १६७०८ विनिबद्धो दुरुद्धरो दुःखम् आसयति / १६७०९ तेन अग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ / १६७१० खादेच् श्वमांसम् इत्य् एष न अर्थ इत्य् अत्र का प्रमा
SK
१६७११ क्वचिद् अप्य् अर्थे प्रत्यासत्ति-विप्रकर्ष-रहितस्य अग्निहोत्रं जुहुयात् १६७१२ स्वर्गकाम इत्य् आदि-वाक्यस्य भूत-विशेषे यथा-अभिमतं १६७१३ घृत-आदि प्रक्षिपेद् इत्य् अयम् अर्थः न पुनः श्वमांसं खादेद् १६७१४ इति न अतिशयं पश्यामः / नन्व् अयं सर्वत्र समानः प्रसङ्गः १६७१५ परोक्ष-दैशिकानां वचनानाम् अर्थं यथा-अभिप्रायम् इदानीन्तनाः १६७१६ किं समनुयन्ति आहोस्विद् विपर्ययम् इति / न / उपदेष्टुः १६७१७ स्व-अभिप्राय-प्रकाशनेन सम्प्रदाय-सम्भवात् / न ह्य् १६७१८ अयम् अदैशिकानां शब्दानां सम्भवति / लोक-प्रत्यायन-अभिप्रायश् १६७१९ च ब्रुवाणो लोक-संकेत-प्रसिद्धिम् अनुपालयति इति ततो अपि १६७२० तद्-अर्थ-सिद्धिः स्यात् न अपौरुषेयाणां शब्दानाम् / तत्र कस्यचित् १६७२१ समीह-अभावात् / अपि च न्यायम् एव अनुपालयन्तः पण्डिता हेय-उपादेय- १६७२२ तद्-आश्रयेषु संघटन्ते न तु प्रवाद-मात्रेण इति न समानः १६७२३ प्रसङ्गः / तच् च यथावसरं प्रतिपादयिष्यामः / ननु १६७२४ कश्चिल् लोक-संनिवेश-आदिर् अयुक्ति-विषयो अपि सम्भावनीय-पुरुष- १६७२५ वचनाद् अर्थः प्रतिपद्यते / न / अप्रत्ययात् / न हि क्वचिद् १६७२६ अस्खलित इति सर्वं तथा / व्यभिचार-दर्शनात् / तत् प्रवृत्तेर् १६८०१ अविसंवादेन व्याप्त्य्-असिद्धेश् च / अगत्या च इदम् आगम-लक्षणम् १६८०२ इष्टम् / न अतो निश्चयः / तन् न प्रमाणम् आगम इत्य् अप्य् उक्तम् / १६८०३ अपौरुषेयानां शब्दानाम् अर्थ-ज्ञानं न सम्प्रदायान् १६८०४ न युक्तेर् न लोकाद् इति तत्र अप्रतिपत्तिर् न्याय्या / तत्र अपि / १६८०५ प्रसिद्धो लोक-वादश् चेत् / १६८०६ प्रतिपत्ति-हेतुः / १६८०७ तत्र को अतीन्द्रियार्थदृक् / १६८०८ अनेक-अर्थेषु शब्देषु येन अर्थो अयं विवेचितः
SK
१६८०९ न ह्य् अयं लोक-व्यवहारो अपौरुषेयाच् शब्द-अर्थ-सम्बन्धात् / १६८१० किं तर्हि / समयात् / स्व-शास्त्रकार-समयात् पाणिनीय-आदि-व्यवहार-वत् / १६८११ उपदेश-अपेक्षणात् / न ह्य् अपौरुषेये तस्मिन्न् उपदेशो १६८१२ युक्तः / तस्य केनचिद् अज्ञानात् / अतीन्द्रियत्वात् / ऐन्द्रियकत्वे १६८१३ स्वयं प्रतिपत्ति-प्रसङ्गात् / रूप-आदि-वत् / उपदेशे च पुरुषाणां १६८१४ स्वतन्त्राणां यथा-तत्त्वम् उपदेशेन अविसंवादस्य असिद्धेर् अनाश्वासः / १६८१५ वेद-वत् तद्-व्याख्यानम् अप्य् अपौरुषेयं सम्प्रदाय-अविच्छेदाद् १६८१६ आगतम् ततो अर्थ-सिद्धिर् इति चेत् / तस्य अपि शब्द-आत्मकत्वे १६८१७ तुल्यः पर्यनुयोगः कथम् अस्य अर्थो विदित इति / पुरुषो १६८१८ हि स्वयं समितानां शब्दानाम् अर्थं शृङ्ग-ग्राहिकया अपि तावद् १६८१९ अबुधं बोधयेद् इत्य् अस्ति पौरुषेयानां शब्दानाम् अर्थ-गताव् १६८२० उपायः / अपौरुषेयस् तु शब्दो न एवं करोति / न च अस्य कश्चित् १६८२१ क्वचित् सम्बन्ध-नियमं ज्ञातुम् ईश इत्य् अप्रतिपत्तिर् एव १६८२२ तद्-अर्थस्य / अपि च वेदस् तद्-व्याख्यानं वा पुरुषेण पुरुषाय उपदिश्यमानम् १६८२३ अनष्ट-सम्प्रदायम् एव अनुवर्तत इत्य् अत्र अपि समयः १६८२४ शरणम् / आगम-भ्रंश-कारिणाम् आहोपुरुषिकया तद्-दर्शन- १६८२५ विद्वेषेण वा तत्-प्रतिपन्न-खलीकाराय धूर्त-व्यसनेन अन्यतो १६८२६ वा कुतश्चित् कारणाद् अन्यथा रचन-अदर्शनात् / अपि च अत्र १६८२७ भवान् स्वम् एव मुख-वर्णं स्व-वाद-अनुरागान् नूनं विस्मृतवान् १६९०१ पुरुषो राग-आदिभिर् उपप्लुतो अनृतम् अपि ब्रूयाद् इति न अस्य १६९०२ वचनं प्रमाणम् इति / तद् इह अपि किं न प्रत्यवेक्ष्यते १६९०३ सम्भवति न वा इति / स एव उपदिशन्न् उपप्लवाद् वेदं वेद-अर्थं १६९०४ वा अन्यथा अप्य् उपदिशेद् इति / श्रूयन्ते हि कैश्चित् पुरुषैर् उत्सन्न-उद्धृतानि १६९०५ शाखा-अन्तराणि / इदानीम् अपि कानिचिद् विरल-अध्येतृकाणि / १६९०६ तद्वत् प्रचुर-अध्येतृकाणाम् अपि कस्मिंश्चित् काले कथंचित् १६९०७ संहार-सम्भवात् / पुनः सम्भावित-पुरुष-प्रत्ययात् प्रचुरता- १६९०८ उपगमन-सम्भावना-असम्भवात् / तेषां च पुनः प्रतानयितृऋणां १६९०९ कदाचिद् अधीत-विस्मृत-अध्यनानाम् अन्येषां वा सम्भावना- १६९१० भ्रंश-भय-आदिना अन्यथा उपदेश-सम्भवात् / तत्-प्रत्ययाच् १६९११ च तद्-भक्तानाम् अविचारेण प्रतिपत्तेर् बहुष्व् अध्येतृषु १६९१२ सम्भावितात् पुरुषाद् बहुलं प्रतिपत्ति-दर्शनात् / ततो अपि कथंचिद् १६९१३ विप्रलम्भ-सम्भवात् / किं च / परिमित-व्याख्यातृ- १६९१४ पुरुष-परंपराम् एव च अत्र भवताम् अपि शृणुमः / तत्र १६९१५ कश्चिद् द्विष्टाज्ञ-धूर्तानाम् अन्यतमः स्याद् अपि इत्य् अनाश्वासः / १६९१६ तस्मान् न अपौरुषेयाद् व्याख्यानान् न अपि सामयिकाल् लोक-व्यवहाराद् १६९१७ वेद-अर्थ-सिद्धिः / असामयिकत्वे अपि नाना-अर्थानां शब्दानां १६९१८ व्यवहारे दर्शनात् कस्यचिद् अप्रसिद्ध-अर्थस्य अप्रसिद्धस्य वा १६९१९ पुनर् व्युत्पत्ति-दर्शनेन सर्वत्र तद्-आशङ्का-अनिवृत्तेः / सर्वेषां १६९२० यथार्थ-नियोगे अप्य् अवैगुण्येन यथा-समयं प्रतीति- १६९२१ जननात् / इष्ट-अनिष्टयोर् अविशेषात् / अविशिष्टानां सर्व-अर्थेष्व् एकम् अर्थम् १६९२२ अत्यक्ष-संयोगम् अनत्यक्ष-दर्शिनि पुरुष-सामान्ये को विवेचयेद् १६९२३ यतो लोकात् प्रतीतिः स्यात् / अपि च / स्वयम् अप्य् अयं न १६९२४ सर्वत्र प्रसिद्धिम् अनुसरति / यस्मात् / १६९२५ स्वर्ग-उर्वश्य्-आदि-शब्दश् च दृष्टो अरूढ-अर्थ-वाचकः / १६९२६ अनेन एव निर्वर्ण्यमानः / मनुष्य-अतिशायि-पुरुष-विशेष-निकेतो अतिमानुष- १६९२७ सुख-अधिष्ठानो नाना-उपकरणः स्वर्गः तन्-निवासिन्य् १६९२८ अप्सरा उर्वशी नाम इति लोक-वादः / तम् अनादृत्य-अन्याम् एव अर्थ-कल्पनाम् १६९२९ अयं कुर्वाणः शब्द-अन्तरेषु कथं प्रसिद्धिं प्रमाणयेत् / १६९३० तत्र अविरोधाद् अभ्युपगम इति चेत् / न / अत्र अप्य् अतीन्द्रिये १६९३१ विरोध-असिद्धेः / अन्यत्र अप्य् अविरोधस्य दुरन्वयत्वात् / विरुद्धाम् १६९३२ अप्य् अग्निहोत्रात् स्वर्ग-अवाप्तिं मान्द्याद् अयं न लक्षयेद् १६९३३ अपि / विरोध-अविरोधौ च बाधक-साधक-प्रमाण-वृत्ती / ते च अत्यक्षे १७००१ न अभिमते / तत् कथं तद्-वशात् प्रतीतिः / न च वचन- १७००२ वृत्तेर् एव अविरोधो अन्यत्र अपि प्रसङ्गात् / अपौरुषेय आगमस् तस्य १७००३ प्रवादाद् अर्थ-सिद्धिः / तत्र पुनर् विरोध-चिन्तायाम् अनाश्वास १७००४ आगमे स्यात् / सत्य् अपि तस्मिन्न् अतथाभावाद् अर्थस्य अप्रमाण- १७००५ वृत्तेर् अन्यस्य अपि शङ्कनीयत्वात् / यद् उक्तम् अग्निहोत्रं १७००६ जुहुयात् स्वर्गकाम इत्य् अत्र श्वमांस-भक्षण-देशना-विकल्पो १७००७ भवत्व् इति स न भवति / प्रदेश-अन्तरेषु तथा तस्य चर्चनात् / १७००८ न / तस्य अर्थ-अपरिज्ञानात् / प्रदेश-अन्तरेष्व् अपि तथाविध-अर्थ- १७००९ कल्पनाया अनिवार्यत्वात् / यदि हि क्वचिद् विदित-अर्थो अयम् अपौरुषेयः १७०१० शब्द-राशिः स्यात् तदा ततो अर्थ-प्रतीतिः स्यात् / ते तु बाहुल्ये १७०११ अप्य् अन्धा एव सर्व इति यथेष्टम् प्रणीयन्ते / तस्मात् / १७०१२ शब्द-अन्तरेषु तादृक्षु तादृश्य् एव अस्तु कल्पना
SK
१७०१३ यादृश्य् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अस्य वाक्यस्य / अपि १७०१४ च १७०१५ प्रसिद्धिश् च नृणां वादः प्रमाणं स च न इष्यते / १७०१६ ततश् च भूयो अर्थ-गतिः किम् एतद् द्विष्ट-कामितम्
SK
१७०१७ न प्रसिद्धिर् नाम अन्या अन्यत्र जन-प्रवादात् / ते च सर्वे जना १७०१८ राग-आद्य्-अविद्या-अपरीतत्वाद् असम्भावनीय-याथातथ्य-वचनाः / १७०१९ तद् एषां प्रवादो न प्रमाणम् / न हि कस्यचिद् अपि सम्यक्-प्रतिपत्तेर् १७०२० अभावे बाहुल्यम् अर्थ-वद् भवति / पारशीक-मातृ-मिथ्या- १७०२१ चार-वत् / तेषाम् एव पुरुषाणां वचनात् पुनः परोक्ष-अर्थ-सम्प्रतिपत्तिर् १७१०१ इति कथं तद् एव युगपद् द्वेष्यं च काम्यं च / १७१०२ अथ प्रसिद्धिम् उल्लङ्घ्य कल्पने न निबन्धनम् / १७१०३ प्रसिद्धेर् अप्रमाणत्वात् तत्-ग्रहे किं निबन्धनम्
SK
१७१०५ प्राप्त-प्रतिलोमनेन अन्यत्र प्रवृत्तिर् गुण-दोष-सन्दर्शनेन युक्ता १७१०६ इति प्रसिद्धेर् अन्वय इति चेत् / न / प्राप्तेः प्रमाण-वृत्ति-लक्षणत्वात् / १७१०७ यत् किंचन ग्रहणं हि प्रसिद्धिम् अप्रमाणयतस् १७१०८ तन्-मुखेन प्रतीतिः / न्यायात् प्राप्ति-प्रतिषेधात् / तुल्या स्व-पर- १७१०९ विकल्पयोर् उभयथा अपि वृत्तिर् इति कः प्रसिद्धाव् अनुरोधः / १७११० अपि च इयम् १७१११ उत्पादिता प्रसिद्ध्या एव शङ्का शब्द-अर्थ-निश्चये / १७११२ यस्मान् नाना-अर्थ-वृत्तित्वं शब्दानां तत्र दृश्यते
SK
१७११३ न प्रसिद्धेर् एक-अर्थ-निश्चयः शब्दानां तत एव शङ्का-उत्पत्तेः / १७११४ नाना-अर्था हि शब्दा लोके दृश्यन्ते / लोक-वादश् च प्रतीतिः / अत एव १७११५ नाना-अर्था इति तत एक-अर्थ-नियमो न युक्तः / १७११६ अन्यथा असम्भव-अभावान् नाना-शक्तेः स्वयं ध्वनेः / १७११७ अवश्यं शङ्कया भाव्यं नियामकम् अपश्यताम्
SK
१७११८ इत्य् अन्तरश्लोकः / तस्माद् अविदित-अर्थ-विभागेषु शब्देष्व् एकम् १७११९ अर्थम् अत्यक्ष-संयोगम् अनालम्बन-समारोपं विनिश्चित्य व्याचक्षाणो १७१२० जैमिनिस् तद्-व्याजेन स्वम् एव मतम् आह इति न तीर्थकर- १७१२१ अन्तराद् अस्य विशेषं पश्यामः / तथा हि / तद्-अर्थ-वचन-व्यापार- १७१२२ शून्यस्य तत्-समारोपेण अभिधानं न स्व-वचनम् अतिशेते / १७१२३ तत्-कारिणा केवलं मिथ्या-विनीतता एव आत्मनः समुद्द्योतिता स्यात् १७१२४ तथा हि / १७१२५ एष स्थाणुर् अयं मार्ग इति वक्ति इति कश्चन / १७१२६ अन्यः स्वयं ब्रवीमि इति तयोर् भेदः परिक्ष्यताम्
SK
१७२०१ निरभिप्राय-व्यापार-वचने स्थाणौ समारोप्य-उपदिशतः स्वतन्त्रस्य १७२०२ वा स्वयं वचन-उपगमे न कश्चिद् विशेषो अन्यत्र जडस्य १७२०३ प्रतिपत्ति-मान्द्यात् / अपि च एक-अर्थ-नियमे सत्य् एनं जैमिनिर् १७२०४ जानीयात् / स एव शब्दस्य १७२०५ सर्वत्र योग्यस्य एक-अर्थ-द्योतने नियमः कुतः / १७२०६ न हि शब्दस्य कश्चिद् अर्थः स्वभाव-नियतः सर्वत्र योग्यत्वात् / १७२०७ अयोग्यत्वे च तद्-अप्रच्युतेर् अविधेयस्य पुरुषाणां क्वचिद् १७२०८ उपनयन-अपनयन-असम्भवात् / १७२०९ ज्ञाता वा अतीन्द्रियाः केन विवक्षा-वचनाद् ऋते
SK
१७२१० पुरुष-प्रणीते हि शब्दे कयाचिद् विवक्षया स तां कदाचित् क्वचिन् १७२११ निवेदयेद् अपि इति विवक्षा-पूर्वकानां शब्दानाम् अर्थ-नियमः १७२१२ प्रतीयेत अपि / अपौरुषेये तु विद्यमानो अप्य् अर्थ-नियमः कथं १७२१३ विज्ञेयः / स्वभाव-भेदस्य अभावात् / सति वा प्रत्यक्षस्य स्वयं १७२१४ प्रतीति-प्रसङ्गात् / अप्रत्यक्षे अपि केनचिज् ज्ञातुम् अशक्यत्वात् / १७२१५ न च अस्ति कश्चिद् विशेषः / सर्व-शब्दा हि सर्व-अर्थ- प्रत्यासत्ति-विप्रकर्ष- १७२१६ रहिताः / ततस् तेषाम् १७२१७ विवक्षा नियमे हेतुः संकेतस् तत्-प्रकाशनः / १७२१८ अपौरुषेये सा न अस्ति तस्य सा एकार्थता कुतः
SK
१७२१९ विवक्षया हि शब्दो अर्थे नियम्यते न स्वभावतः तस्य १७२२० क्वचिद् अप्रतिबन्धेन सर्वत्र तुल्यत्वात् / यत्र अपि प्रतिबन्धस् १७२२१ तद्-अभिधान-नियम-अभावात् / सर्व-शब्दैः करणानाम् अभिधान- १७२२२ प्रसङ्गात् / तस्माद् विवक्षा-प्रकाशनाय अभिप्राय- निवेदन-लक्षणः १७२२३ संकेतः क्रियते / अपौरुषेये तु न विवक्षा न संकेतः १७२२४ कस्यचिद् अभिप्राय-अभावाद् इति न नियमो न तज्-ज्ञानम् / १७२२५ स्वभाव-नियमे अन्यत्र न योज्येत तया पुनः / १७२२६ यदि संकेत-निरपेक्षः स्वभावत एव अर्थेषु शब्दो निलीनः १७२२७ स्यात् उक्तम् अत्र अप्रतिबन्धाद् अनियम इति / अपि च / स्वाभाविके १७२२८ वाच्यवाचकभावे न पुनर् विवक्षया यथेष्टं नियुज्येत / १७३०१ संकेतश् च निरर्थः स्याद् / १७३०२ न हि स्वभाव-भेद इन्द्रिय-गम्यः स्व-प्रतीतौ परिभाषा-आदिकम् १७३०३ अपेक्षते / नील-आदि-भेद-वत् / तद्-अपेक्ष-प्रतीतयस् तु न वस्तु-स्वभावाः / १७३०४ किं तर्हि / सामयिका राज-चिह्न-आदि-वत् / यश् च सामयिकः १७३०५ स स्वभाव-नियतो अयुक्तस् तस्य इच्छा-वृत्तेः / अत एव संकेतात् १७३०६ स्वभाव-विशेषस्य १७३०७ व्यक्तौ च नियमः कुतः
SK
१७३०८ स्व-इच्छा-वृत्तिः संकेतः स इह एव कर्तुं शक्यते न अन्यत्र इति १७३०९ न उपरोधो अस्ति / स च पुरुषैः स्व-इच्छया क्रियमाणस् तम् एव १७३१० स्वभावं व्यनक्ति न अन्यम् इति न नियमो अस्ति / १७३११ यत्र स्वातन्त्र्यम् इच्छाया नियमो नाम तत्र कः / १७३१२ द्योतयेत् तेन संकेतो न इष्टाम् एव अस्य योग्यताम्
SK
१७३१३ इति अन्तरश्लोकः / १७३१४ यस्मात् किल ईदृशं सत्यं यथा अग्निः शीत-नोदनः / १७३१५ वाक्यं वेद-एकदेशत्वाद् अन्यद् अप्य् अपरो अब्रवीत्
SK
१७३१६ अन्यस् त्व् अपौरुषेयम् आगम-लक्षणं परित्यज्य अन्यथा प्रामाण्यं १७३१७ वेदस्य साधयितुकामः प्राह अवितथानि वेद-वाक्यानि १७३१८ यत्र अप्रतिपत्तिर् वेद-एकदेशत्वात् यथा अग्निर् हिमस्य १७३१९ भेषजम् इत्य् आदि-वाक्यम् इति / तस्य इदम् / १७३२० रस-वत् तुल्य-रूपत्वाद् एक-भाण्डे च पाक-वत् / १७३२१ शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदा ईदृशम्
SK
१७३२२ स्वयम् ईदृशम् आचार्येण अनुमानं नैयायिक-शेषवद्-अनुमान- १७३२३ व्यभिचारम् उद्भावयता तुल्य-रूपतया फलानां तुल्य-रस- १७३२४ साधन-वद् एक-स्थाल्य्-अन्तर्गमाद् दृष्ट-वद् अदृष्ट-तण्डुल-पाक- १७३२५ साधन-वच् च असाधनम् उक्तम् / तद्-असाधनत्व-न्यायश् च १७३२६ पूर्वम् एव उक्तः / उक्तं च इदम् आगम-लक्षणम् अस्माभिः तत् तु १७३२७ सर्वस्य शक्य-विचारस्य विषयस्य यथास्वं प्रमाणेन विधि- १७३२८ प्रतिषेध-विशुद्धौ नान्तरीयकत्व-अभावे अपि शब्दानाम् अर्थेषु १७४०१ वरं संशयितस्य वृत्तिः तत्र कदाचिद् अविसंवाद-सम्भवात् १७४०२ न त्व् अन्यत्र दृष्ट-प्रमाण-उपरोधस्य पुरुषस्य प्रवृत्तिर् इति / १७४०३ यः पुनः प्राकृत-विषयस्य वह्नेः शीत-प्रतिघात-सामर्थ्यस्य १७४०४ अभिधानं सत्य-अर्थम् उपदर्श्य सर्वं सत्य-अर्थम् आह १७४०५ शास्त्रं शक्य-परिच्छेदे अपि विषये प्रमाण-विरोधाद् बहुतरम् १७४०६ अयुक्तम् अपि / १७४०७ नित्यस्य पुंसः कर्तृत्वं नित्यान् भावान् अतीन्द्रियान् / १७४०८ ऐन्द्रियान् विषमं हेतुं भावानां विषमां स्थितिम्
SK
१७४०९ निवृत्तिं च प्रमाणाभ्याम् अन्यद् वा व्यस्त-गोचरम् / १७४१० विरुद्धम् आगम-अपेक्षेण अनुमानेन वा वदत्
SK
१७४११ विरोधम् असमाधाय शास्त्र-अर्थं च अप्रदर्श्य सः / १७४१२ सत्य-अर्थं प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम्
SK
१७४१४ अप्रच्युत-अनुत्पन्न-पूर्वापर-रूपः पुमान् कर्ता क्रमेण कर्मणां १७४१५ कर्म-फलानां च भोक्ता समवायि-कारण-अधिष्ठान-भाव-आदिना १७४१६ इत्य् आह वेदः तच् च अयुक्तम् इत्य् आवेदित-प्रायम् नित्यत्वं च १७४१७ केषांचिद् भावानाम् अक्षणिकस्य वस्तु-धर्म-अतिक्रमाद् अयुक्तम् १७४१८ अप्रत्यक्षान्य् एव हि सामान्य-आदीनि प्रत्यक्षानि जन्म-स्थिति- १७४१९ निवृत्तीश् च विषमाः पदार्थानाम् अनाधेयविशेषस्य प्राग् अकर्तुः १७४२० पर-अपेक्षया जनकत्वम् निष्पत्तेर् अकार्य-रूपस्य आश्रय-वशेन १७४२१ स्थानम् कारणाच् च विनाश इत्य् आदिकम् अन्यद् अपि प्रत्यक्ष- १७४२२ अनुमानाभ्यां प्रसिद्धि-विपर्ययम् आगम-आश्रयेण च अनुमानेन १७४२३ बाधितम् अग्निहोत्र-आदेः पाप-शोधन-सामर्थ्य-आदिकम् / तस्य १७४२४ एवंवादिनो वेदस्य सर्वत्र शास्त्र-शरीरे प्रमाण-विरोधम् १७४२५ अप्रतिसमाधाय सम्बन्ध-अनुगुण-उपाय-पुरुष-अर्थ-अभिधानानि च १७४२६ शास्त्र-धर्मान् अप्रदर्श्य-अत्यन्त-प्रसिद्ध-विषय-सत्य-अभिधान- १७४२७ मात्रेण प्रज्ञा-प्रकर्ष-दुरवगह-गहने अपि निरत्ययतां साधयितुकामो १७४२८ बन्धकीम् अपि प्रागल्भ्येन विजयते / काचित् किल १७४२९ बन्धकी स्वयं स्वामिना विप्रतिपत्ति-स्थाने दृष्ट्वा उपालब्धा / सा १७४३० तं प्रत्युवाच / पश्यत मातः पुरुषस्य वैपरीत्यं / मयि १७४३१ धर्म-पत्न्यां प्रत्ययम् अकृत्वा आत्मीययोर् न इतर-अभिधानयोर् १७४३२ जल-बुद्बुदयोः / करोति / तेन जरत्काणेन ग्राम्य-काष्ठ-हारकेण १७५०१ प्रार्थिता अपि न संगता / रूप-गुण-अनुरागेन किल मन्त्रि-मुख्य- १७५०२ दारकं कामये अहम् इति / एवंजातीयकम् एतद् अपि वह्नेः १७५०३ शीत-प्रतीकार-वचनेन दृष्ट-प्रमाण-विरोधस्य अप्य् अत्यन्तपरोक्षे १७५०४ अर्थे अविसंवाद-अनुमानम् / १७५०५ सिध्येद् प्रमाणं यद्य् एवम् अप्रमाणम् अथ इह किम् / १७५०६ न ह्य् एकं न अस्ति सत्य-अर्थं पुरुषे बहु-भाषिणि
SK
१७५०७ यथा इदम् अतिदुष्करम् अत्यन्त-सत्य-अभिधानं तथा अत्यन्त-असत्य- १७५०८ अभिधानम् अपि / तत्र एकस्य वचनस्य कथंचित् संवादेन अविशिष्टस्य १७५०९ तद्-वचन-राशेस् तथाभावे न कश्चित् पुरुषो अनाप्तः १७५१० स्यात् / अपि च / १७५११ न अयं स्वभावः कार्यं वा वस्तूनां वक्तरि ध्वनिः / १७५१२ न च तद्-व्यतिरिक्तस्य विद्यते अव्यभिचारिता
SK
१७५१३ न तावद् एतद् वचनं वाच्यानां स्वभावः / न अप्य् एषां कार्यम् १७५१४ तद्-अभावे अपि वक्तुर् विवक्षा-मात्रेण भावात् / न च अन्यः १७५१५ कश्चित् कस्यचिद् अव्यभिचारी / व्यभिचारे च ततो अन्यथा अपि १७५१६ तत्-सम्भवात् तद्-भावात् तत्-प्रतीतिर् अयुक्ता / १७५१७ प्रवृत्तिर् वाचकानां च वाच्य-दृष्टि-कृता इति चेत् / १७५१८ स्याद् एतत् कार्यम् एव वचनं वाचकस्य वाच्य-दर्शन-वृत्तेर् / १७५१९ एवं सति / १७५२० परस्पर-विरुद्ध-अर्था कथम् एकत्र सा भवेत्
SK
१७५२१ यद्य् एष प्रतिनियमो वाच्यं वस्त्व् अन्तरेण शब्दो न प्रवर्तत १७५२२ इति / भिन्नेषु प्रवादेष्व् एकत्र वस्तुनि विरुद्ध-स्वभाव-उपसंहारेण १७५२३ वचन-वृत्तिर् न स्यात् / न ह्य् अयं सम्भवो अस्ति एकः १७५२४ शब्दो निष्पर्यायं नित्यश् च स्याद् अनित्यश् च इति / १७५२५ वस्तुभिर् न आगमास् तेन कथंचिन् नान्तरीयकाः / १७५२६ प्रतिपत्तुः प्रसिध्यन्ति कुतस् तेभ्यो अर्थ-निश्चयः
SK
१७५२७ आगमं प्रमाणं तद्-आदर्शित-अर्थ-प्रतिपत्तये अज्ञो जनः समन्वेषते १७५२८ समधिगत-याथातथ्यानाम् उपदेश-अनपेक्षणात् / अज्ञस्य १७५२९ च अतीन्द्रिय-गुण-पुरुष-विवेचने असामर्थ्यात् / वचनानां १७६०१ समीहित-अर्थ-सत्ताम् अन्तरेण अपि वृत्तिं पश्यतो भवितव्यम् एव अदृष्ट- १७६०२ व्यभिचार-वचसाम् अपि पुरुषाणां वाचि शङ्कया किं यथार्था १७६०३ न वा इति / तेन न युक्तम् अनेन कस्यचिद् वचनेन किंचिन् १७६०४ निश्चेतुम् / १७६०५ तस्मान् न तन्-निवृत्त्या अपि भाव-अभावः प्रसिध्यति / १७६०६ यद् उक्तं सर्व-विषयत्वाद् आगमस्य सति वस्तुन्य् अविसंवादेन १७६०७ अस्य वृत्तेस् तन्-निवृत्ति-लक्षण-अनुपलब्धिर् अभावं साधयति १७६०८ इति तद् अस्य सर्व-विषयत्वे अपि वस्त्व्-अन्तरेण आवृत्तौ स्यात् / तच् १७६०९ च न अस्ति / ततः प्रतिपत्तुकामस्य असिद्धिर् इत्य् उक्तम् / १७६१० तेन असंनिश्चय-फला अनुपलब्धिर् न सिध्यते
SK
१७६११ तस्मान् न प्रमाण-त्रय-निवृत्ताव् अपि विप्रकृष्टेष्व् अभाव-निश्चयः / १७६१३ वेद-प्रामाण्यं कस्यचित् कर्तृ-वादः / १७६१४ स्नाने धर्म-इच्छा जाति-वाद-अवलेपः / १७६१५ सन्ताप-आरम्भः पाप-हानाय च इति / १७६१६ ध्वस्त-प्रज्ञाने पञ्च लिङ्गानि जाड्ये
SK
१७६१७ इति प्रमाणवार्त्तिके प्रथमः परिच्छेदः // //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dharmakīrti: Pramāṇavārttisvavṛtti (sa_dharmakIrti-pramANavArttisvavRtti.htm).

Source