Śivasūtravṛtti

Śivasūtravṛtti

SK
नो. १६७२क तित्ले शिवसूत्रवृत्तिः एxतेन्त् १३पत्र सुब्जेच्त् शैवदर्शनम् पृ० १अ) ॐश्रीसद्विद्याधरगुरवे शिवाय्ॐनमः || ॐश्रीगणेशायनमः ॐनमःशि वाय ॐचैतन्यमात्मा||ॐचेतयते इतिचेतनःसर्वज्ञानक्रियास्वतन्त्रः| तस्यभावश्चैतन्यंसर्वज्ञानक्रियासं वन्धमयंपरिपूर्णस्वातन्त्र्यमुच्यते| एतदेवात्मानपुनःशरीरप्राणवुद्धि शून्यानिलौकिकाद्यभ्युपगतानि|| किंच||एतश्चैतन्यमुक्तंसेवात्मा स्वभावः|भावाभावरूपस्यजगतः|| तदुक्तंश्रीमदुच्छुष्मभैरवे|यावन्नवेद काएतेतावद्वेद्याःकथंप्रियेवे दकंवेद्यमेकंतुतत्त्वंनास्त्यशुचिस्त तःइति|| १||ज्ञानंवन्धः||विषयज्ञानं वन्धः अथवाऽकारप्रश्लेषेणअज्ञा नंवन्धः|मलमज्ञानमिच्छन्तिसंसा पृ० १ब) राङ्कुरकारणमितिश्रीमालिनीवि जये||२||योनिवर्गःकलाशरीरम्||मा याप्रपञ्चोपिवन्धाकात्ममलमपि वन्धःकलाव्यापाराःकिञ्चित्कर्तृत्व म्||ज्ञानाधिष्ठानंमातृका||३||अकारा दिक्षकारान्तंमातृकारूपंनसोस्तिप्रत्ययोलो केयःशव्दानुगमादृते अनुविद्धमि वज्ञानंसर्वंशव्देनगम्यतेवाग्रूपता चेदुत्क्रामेदववोधस्यशाश्वतीन प्रकाशःप्रकाशेतसाहिप्रत्यवमर्शि नी मातृकाधिष्ठानादेवहिअन्तरभे दानुसन्धिवन्ध्यत्वात्क्षणमप्यलव्द- विश्रान्तीनिर्वहिर्मुखान्येवज्ञानानि उद्यमोभैरवः विमर्शमय्यःसंविदो नवनवस्वरूपप्रथनरूपुद्यमःभैर
SK
पृ० २अ) वात्मस्वस्वरूपाभिव्यक्तिहेतुः||शक्ति चक्रसन्धानेविश्वसंहारः ५ शक्तिच- क्रंशक्तयोस्यजगत्कृत्स्नमितितस्या नुसन्धानेऽन्तर्विमर्शनेसतिविश्वसं हारःपरसंविदग्निसाद्भावः जाग्रत् सुप्तसुषुप्तभेदेतुर्याभोगसंभवः६भे देनानारूपेपृथक्त्वावभासेस्फुरत्ता त्मनस्तुर्यस्याभोगश्चमत्कारःतस्य संभवोनित्यंप्रोक्तयोगयुक्तस्यभ- वति ज्ञानंजाग्रत् ७सर्वसाधारणा र्थविषयंवाह्येन्द्रियजन्यंज्ञानम् स्वप्नोविकल्पः ८ अविवेकोमायासौ षुप्तम्९विवेचनाभावोऽख्यातिरेत देवमायामयंमोहमयंसौषुप्तम्|| त्रितयभोक्तावीरेशः||१० जाग्रदादित्र- पृ० २ब) यस्यस्वातन्त्र्येणचमत्कर्ता||विस्म योयोगभूमिकाः११परतत्त्वैक्यापाव्या रोपोहविश्रान्तिसूचिकाः||इच्छाश क्तिरुमाकुमारी१२योगिनिच्छाश- क्तिः परैवपारमेश्वरीस्वातन्त्र्यरूपा शक्तिःकुमारीविश्वसर्गसंहारक्री- डापरा||दृश्यंशरीरम्१३बाह्यमाभ्य- न्तरंवायद्दृश्यंतत्सर्वमस्याहमिद- मितिस्वाङ्गकल्पमस्यस्फुरतिनभेदेन||हृदये चित्तसंघटादृश्यस्वापदर्शनम्१४चि त्प्रकाशेचलतश्चित्तस्येकाग्रभाव नात्दृश्यस्यनीलदेहप्राणवुद्ध्यात्म नःस्वापस्यैतदभावरूपस्यशून्यस्यद र्शनंयथावस्तुस्वाङ्गकल्पंनभवति|| शुद्धतत्त्वानुसन्धानाद्वापशुशक्तिः||१५||
SK
पृ० ३अ) परमशिवाख्येतत्त्वेयदाविश्वमनु- सन्धतेतन्मयमेवैतदिति|तदाऽवि द्यमानापश्वाख्यावन्धशक्तिर्यस्यता दृगयंसदाशिववज्जगतःपतिर्भवति|| वितर्कात्मज्ञानम्१६विश्वात्माशि वेवास्मीतियोवितर्कोविचारेतदेवात्मज्ञान म्||लोकानन्दःसमाधिसुखम्१७लो कोवस्तुग्रामेलोक्यतेइतिग्राहकवर्गोस्फुरतितस्मिन्स तिप्रमातृपदविश्रान्त्यलोकयतिचेतिलोकोवधानात्तश्च मत्कारमयोयानन्देतदेवास्य समाधिसुखम्||शक्तिसन्धाने शरीरोत्पत्तिः१८पूर्वोक्तेच्छाशक्तिःत- न्मयीभावेनतद्वशेनयथाभिमतं शरीरमस्योत्पद्यते भूतसन्धानभू तपृथक्त्वविश्वसंघट्टाः१९भूतानि
SK
पृ० ३ब) शरीरप्राणादीनामाप्यायनादौस न्धानंपरिपोषणंव्याध्याद्युपशमा दौतत्सकाशात्पृथक्त्वंशरीरादेर्वि श्लेषणम् देशकालादिविप्रकृष्ट स्यचविश्वस्यसंघटोज्ञानविषयी कार्यत्वमस्यपूर्वोक्तशक्तिसन्धानेसति जायते|| शुद्धविद्योदयाश्चक्रेशत्व सिद्धिः २० विश्वात्मप्रथवांछयायदाशक्तिंसंधत्तेतदाहमेवसर्वमितिशुद्धवि- द्योदयात्विश्वात्मकस्वशक्तिचक्रेशत्वरूपंमाहे श्वर्यमस्यसिद्ध्यति||महाह्रदानुस- न्धानान्मन्त्रवीर्यानुभवः ||२१ परासंवि देविच्छाशक्तिप्रमुखं स्थूलमेयपर्यंतं विश्वंवमंती खेचरीचक्रादिअशेषवाहप्रवर्तकत्वस्वच्छत्वानावृतत्वगंभीरत्वादि धर्मयोगान्महाह्रदस्तस्यानुसन्धा नादन्तर्मुखतयाऽनारतंतत्तादात्म्य विमर्शनान्मन्त्राणांवीर्यभूतस्यपू
SK
पृ० ४अ) र्णाहन्ताविमर्शमयस्यमहामन्त्र स्यानुभवःस्वात्मरूपतयास्फुरणं भवति इतिशांभवोपायप्रकाशेमंत्रोद्धार प्रकाशनंनामप्रथमुन्मेषः १ चित्तंमन्त्रः मंत्रदेवताविमर्शपर त्वेनप्राप्ततत्सामरस्यमाराधकचि त्तमेवमंत्रः १ प्रयत्नःसाधकः २ अकृत कोयःप्रयत्नःसेवसाधकोमंत्रयि तुर्मंत्रदेवतातादात्म्यप्रदः||विद्याश रीरसत्तामंत्ररहस्यम्३विद्याशरीर स्यशव्दराशेःसत्ताशेषविश्वाभेदम यपूर्णाहंविमर्शात्मास्फुरत्तासाम न्त्राणांरहस्यमुपनिषत् गर्भेचित्त विकासोऽविशिष्टविद्यास्वप्नः ४||ग र्भेमंत्रसिद्धिप्रपञ्चेचित्तविकासस्ता पृ० ४ब) वन्मात्रेसन्तोषः सर्वजनसाधारणीविद्याकि ञ्चिज्ञत्वरूपाशुद्धविद्यासैवस्वप्नो भेदनिष्ठोविचित्त्रोविकल्पात्माभ्रमः तदुक्तंपातञ्जले तेसमाधावुपस- र्गाव्युत्थानेसिद्धयिति||विद्यासमु- त्थानेस्वाभाविकेखेचरीशिवावस् था५पराद्वयप्रथारूपशुद्धविद्योद येखेबोधगगनेचरतीतिखेचरीमु द्राभिव्यज्यते|| गुरुरुपायः ६ तदत्रमु द्रामंत्रवीर्यासादने मातृकाचक्र संवोधः ७ शिष्यस्यभवतीतिशेषः अनुत्तरानन्देच्छेशनोन्मे षोनत्वादितत्त्वप्रदर्शनेनचिदान- न्दघनस्वस्वरूपसमावेशमयःसम्य ग्वोधोभवतितस्माद्गुरोःप्रसन्ना- च्छिष्यस्यभवतीतिशेषः||शरीरंह-
SK
पृ० ५अ) विः सर्वैर्यत्प्रमातृत्वेनाभिषिक्तं स्थूलसूक्ष्मादिरूपंशरीरंतन्महायो गिनःपरेस्मिंश्चिदग्नौह्रयमानंहविः|| ज्ञानमन्नम् ८ यत्पूर्वंज्ञानंवन्धित्यु क्तंतदऽद्यमानमानत्वाद्योगिना- मन्नम् अथचयत्स्वरूपविमर्शा- त्मकंतदस्यान्नम्परिपूर्णतृप्तिका रितयास्वात्मविश्रान्तिहेतुः|| वि द्यासमुत्थानेतदर्थस्वप्नदर्शनम् || ९ शुद्धविद्यानिमज्जनेभेदमयस्यवि कल्पप्रपञ्चस्यस्फुटमुन्मज्जनं भवति शाक्तोपायप्रकाशनंद्वि तीयःउन्मेषः २ आत्माचित्तम् यदेतद्विषयवासनाच्छुरितंतदध्य वसायादिव्यापारवुद्ध्यहंकारम पृ० ५ब) नोरूपंचित्तंतदेवाततिसत्त्वादिवृ- त्यवलंबनेननानायोनीःसञ्चर- तीत्यात्माणुरित्यर्थः १ ज्ञानंवन्धः|| सुखदुःखमोहमयाध्यवसायादिवृत्तिरूपंतदुचितभेदावभासनात्मकंयत्ज्ञानंतद्बंधः तत्पाशितत्त्वादेवह्ययंसंसरति तदुक्तंश्रीतंत्रसद्भावे सत्त्वस्थोराजसस्थश्चतमस्थोगुण वेदकः एवंपर्यटतेदेहीस्थानात्स्था नान्तरंव्रजेदिति २ कलादीनांत- त्त्वानामविवेकोमाया३किञ्चित्क र्तृत्वादिरूपकलादिक्षित्यन्तानां तत्वानांकञ्चुकपुर्यष्टकस्थूलदे हत्वेनावस्थितानांयोयमविवेकः पृथक्त्वाभिमतानामेवापृथक्त्वा- त्मत्वेनप्रतिपत्तिःसामायातत्त्वाख्या तिमयःप्रपञ्चोमाया ३ शरीरेसं हारःकलानाम्||शरीरेस्थूलेसूक्ष्मे परेवाकलानांतत्त्वभागानांपृथि-
SK
पृ० ६अ) व्याशिवान्ततत्त्वानांस्वकारणेल- यभावनयासंहारोध्येतव्यितिशे षः ४ नाडीसंहारभूतजयकैव- ल्यभूतपृथक्त्वानि नाडीनांप्रा णादिवाहिनीनांमध्यनाड्यांसंहा रःभूतानांजयोविलीनतापादनम् भूतकैवल्यंचित्तस्यततःप्रत्याहर- णंभूतपृथक्त्वंतदनुपरक्तस्वच्छ- स्वच्छन्दचिदात्मताएतानियोगि- नाभावनीयानीतिशेषः ५ मोहा वरणात्सिद्धिः मोहकृतादावरणा त्प्रोक्तधारणादिक्रमसमासादिता त्तत्त्वभोगात्सहजविद्याजयः मो हस्यमायायाजयादभिभवात्कीदृ शादनन्तःसंस्कारप्रशमपर्यन्त पृ० ६ब) आभोगोविस्तारोयस्यतादृशात् सहजविद्याजयोलाभोभवति ६ जाग्रद्द्वितीयकरः जाग्रच्छुद्धविद्यै कव्याप्तौजागरूकःद्वितीयंपूर्ण विमर्शात्मकस्वाहन्तापेक्षयाय- दिदन्ताविमृश्यंवेद्याभासात्मकं जगतत्करोरश्मिर्यस्यतथाविधो भवतिविश्वमस्यस्वदीधितिक- ल्पंस्फुरतीत्यर्थः ८ नर्तका- त्मा नृत्यत्यन्तर्निगूहितस्वस्वरूपा वष्टंभमूलंतत्तज्जागरादिनानाभू मिकाप्रपञ्चंस्वपरिस्पन्दलीलयै वस्वभित्तौप्रकटयतीतिनर्तका त्मा ९ रङ्गोन्तरात्मा रङ्गस्तत्तद्भू मिकाग्रहणस्थानंअन्तरात्मासं
SK
पृ० ७अ) कोचावभाससतत्वः शून्यप्रधानः प्राणप्रधानोवापुर्यष्ट कनियंत्रितोजीवस्तत्रह्ययंकृतपदः स्वकरणपरिस्पंदक्रमेण जगन्नाट्यमाभासयति १० प्रेक्षका णीन्द्रियाणि संसारनाट्यप्रकटन प्रमोदनिर्भरंस्वस्वरूपान्तर्मुखत- यासाक्षात्कुर्वन्ति ११ धीवशात्स त्त्वसिद्धिः धीस्तात्विकस्वरूपविम- र्शनविषदाधिषणातद्वशात्सत्व- स्यस्फुरत्तात्मनःसूक्ष्मस्यान्तरप- रिस्पन्दस्याभिव्यक्तिर्भवतिनाट्येच सात्विकाभिनयेसिद्धिर्वुद्धिकौश लादेवलभ्यते १२ सिद्धःस्वतन्त्रभा वः सिद्धःसम्पन्नःस्वतन्त्रभावःसहजज्ञत्वकर्तृ त्त्वाद्यात्मकमशेषविश्ववशीकारिस्वा तन्त्र्यम् १३ यथातत्रत- थान्यत्र यत्रदेहेयोगिनःस्वाभिव्य पृ० ७ब) क्तिर्जातातत्रयथातथान्यत्रसर्व त्रसदावहितस्यसाभवति १४ वी जावधानम् वीजेपरशक्त्यात्मनि विश्वकारणेऽवधानंभूयोभूयश्चि त्तनिवेशनंकर्तव्यमितिशेषः १५ आसनस्थःसुखह्रदेनिमज्जति आ स्यतेनित्यमैकात्म्येनस्थीयतेस्मिन्नि त्यासनंपरंशाक्तंवलंयस्तत्रतिष्ठ तिपरिहृतपरापरध्यानधारणा- दिसर्वक्रियाप्रयासोनित्यमन्तर्मुखतयातदे वपरामृशतियःससुखमनायासत यापरामृतसमुद्रेनिमज्जतिदेहादि संकोचसंहारव्रूडनेनतन्मयीभ वति १६ स्वमात्रानिर्माणमापाद यति स्वस्यचैतन्यस्यसंवन्धिनीमात्रा
SK
पृ० ८अ) चिद्रसाश्यानतात्मांशस्तद्रूपंयथे ष्टवेद्यवेदकावभासात्मकंनिर्मा णमापादयतिनिर्मितत्वेनदर्शयति १७ विद्याविनाशे जन्मविनाशः विद्यायाविनाशे सततोन्मग्नतयास्फुरणेजन्मनो ज्ञानसहकारिकर्महेतुकस्यदुः खमयस्यदेहेन्द्रियादिसमुदायक स्यनाशोविध्वंसःसंपन्नेव १८ कवर्गादिषुमाहेश्वर्याद्याःपशुमा तरः अधिष्ठात्र्योभवन्तीतिशेषः ज्ञानाधिष्ठानंमातृकेतिसामान्यो क्तम् इदंतुप्राप्ततत्त्वेपिप्रमापन्मा हेश्यादिभिःपशुजनाधिष्ठातृभूता भिरपिशव्दानुवचनद्वारेणमोह्यते इत्याशयेनेतिविशेषः १९ त्रिषुच-
SK
पृ० ८ब) तुर्थंतैलवदासेच्यम् त्रिष्वपिजाग रादिपदेषुचतुर्थं शुद्धविद्याप्रकाशरूपं तुर्यानन्दरसात्मकंधामतैलवदिति यथातैलंक्रमेणाधिकमधिकंप्रसरदाश्रयंप्राप्नोतितथाआसेच्यंत्रिष्वपिपदेषून्मेषोपशान्त्यात्मकाद्य न्तकोट्योःपरिस्फुरतातुर्यरसेनम ध्यदशामप्यवष्टंभयुक्त्याव्याप्नुयात् येनतन्मयीभावमाप्नुयात् २० म ग्नःस्वचित्तेनप्रविशेत् मग्नःशरीरा दिप्रमातृतांप्रशमयन् अविकल्प करूपेणसमाविशेत् २१ प्राणस- माचारेसमदर्शनम् प्राणस्यवहि र्मन्दमन्दप्रसरणेचिदानन्दघनात्म तयैकरूपंसंवेदनमर्थात्सर्वासुद- शासुभवतीत्यर्थः २२ मध्येवरप्र- सवः || पूर्वापरकोट्योस्तुर्यरसमासा दयतोमध्येमध्यदशायामवरोश्रेष्ठः भेदप्रथात्माकुत्सितःसर्वोजायतेन
SK
पृ० ९अ) तुसदाव्यामुह्यति २३ मात्रास्वस्व- प्रत्ययसन्धानेनष्टस्यपुनरुत्थानम् || मात्रामुपदार्थेषुयदाविश्वमिदमह मितिचिद्घनात्मरूपतांसर्वत्रानु- सन्धतेतदापूर्वोक्तावरप्रसवान्नष्ट स्यतुर्यचमत्कारमयस्वभावस्यपु- नरुन्मज्जनंयोगिनोभवतीत्यर्थः ३३ शिवतुल्योजायते तुर्यपरिशील- नप्रकर्षात्प्राप्ततुर्यातीतपदःस्वच्छ स्वच्छन्दचिदानन्दघनेनशिवेनभ गवतातुल्यःदेहकलायांगलता तत्समोजायते तद्विगलनेनासौ- साक्षाच्छिवेवेत्यर्थः ३४ शरीर- वृत्तिर्व्रतम् प्रोक्तदृशाशिवतुल्य स्ययोगिनःशिवाहंभावेनवर्तमा- पृ० ९ब) नस्यशरीरेवृत्तिर्वर्तनंयत्तदेवव्र- तंनियमेनानुष्ठेयमस्य नपुनस्त स्यदेहस्थितिव्यतिरिक्तंव्रतमुप- युक्तम् ३५ कथाजपः अहमेव परोहंसःशिवःपरमकारणमिति नीत्यानित्यमेवपराहंभावनामय- त्वात्महामंत्रात्मकाऽकृतकाहं- विमर्शारूढस्ययद्यदालापादित त्तदस्यस्वात्मदेवताविमर्शानवर तावर्तनात्माजपोजायते ३६ दा नमात्मज्ञानम् दीयतेइतिदानम् आत्मज्ञानंअनेनान्तेवासिभ्योदी यते ३७ योविपस्थोज्ञाहेतुश्च पशुमातृवर्गमाहेश्वर्यादिचक्रेप्र भृत्वेनस्थितोयःसज्ञानशक्तिहे
SK
पृ० १०अ) तुरुपदेश्याञ्ज्ञानशक्त्यावोधयि तुंक्षमश्चशव्दोह्यर्थे ३८ स्वशक्ति प्रचयोस्यविश्वम् यतोयंशिवतु ल्युक्तस्ततोयथाशक्तयोस्यजग त्कृत्स्नमित्याम्नायदृष्ट्याशिवस्य विश्वंस्वशक्तिमयंतथास्यापिस्व- स्याःसंविदात्मनःशक्तेःप्रचयःक्रि याशक्तिस्फुरणरूपोविकासोवि श्वम् ३९ स्थितिलयौ वहिर्मुख- त्वावभासनंचिन्मयप्रमातृविश्रा न्तिश्चस्वशक्तिप्रचयऽइत्यनुवर्त ते ४० तत्प्रवृत्तावप्यनिरासःसंवे त्यभावात् सृष्ट्यादिभेदोन्मज्जने सत्यपिनास्ययोगिनश्चलनंतुर्य चमत्कारात्मकविमर्शमयादुप पृ० १०ब) लव्ध्यत्वात् ४१ सखासुखयोर्वहि र्मननम्||वेद्यस्पर्शजातयोः सुखासुखयोर्वहिर्नीलादिवदिदन्ता- भासरूपतयामननंसंवेदनंनतु- लौकिकवदहन्तासंस्पर्शनेन योगीहिप्रशान्तपुर्यष्टकप्रमातृ- भावः कथंसुखासुखाभ्यांस्पृश्य ते ४२ तद्विमुक्तस्तुकेवली ता- भ्यांसुखदुःखाभ्यांविशेषेणमुक्तः संस्कारमात्रेणाप्यान्तरसंसृष्टः केवलीकेवलंचिन्मातृप्रमातृरूपं यस्य ४३ मोहप्रतिसंहतस्तुकर्मा त्मा मोहेनअज्ञानेन प्रतिसंहतस्तदेकघनुक्तंच अज्ञानैकघनःनित्यंशुभाशु- भकलंकितः ४४ भेदतिरस्कारेस र्गान्तरकर्मत्वम् शरीरप्राणाद्यह न्ताभिमानात्मनोभेदस्यतिरस्कारे
SK
पृ० ११अ) चिद्घनस्वभावोन्मज्जनादपहस्त नेसतिसर्गान्तरकर्मत्वंयथाभिल षितनिर्मेयनिर्मातृत्वंभवति ४५ करणशक्तिःस्वतोनुभवात् नचैत दस्यासंभाव्यंयतःकरणशक्तिरिति स्वतःस्वस्मादेवानुभवात्संकल्पस्व- प्नादौकरणशक्तिस्तत्तदसाधारणा र्थनिर्मातृत्वमात्मनःसिद्धमेव ४५? त्रिपदाद्यनुप्राणनम् त्रयाणांसृष्टि स्थितिलयशव्दोक्तानांभावौन्मु- ख्यादभिष्वङ्गतदन्तर्मुखीभावनाम यानामवस्थानांयदादिप्रधानमान न्दघनंतुर्याख्यंपदंमायाशक्त्याच्छा दितमपितत्तद्विषयोपभोगाद्यवस रेषुविद्युद्वदाभासमानंतेनानुप्रा- पृ० ११ब) णनमात्मनतत्तेकुर्यात् ४६ चि त्तस्थितिवच्छरीरकरणबाह्येषु अन्तर्मुखायांचित्तस्थिताविवशरी रकरणबाह्याभासात्मिकायांव- हिर्मुखतायामपितेनतुर्येणानुप्रा णनंकुर्यात् ४७ अभिलाषाद्वहि र्गतिःसंबाह्यस्य संवाह्यतेयोनेः योन्यन्तरंनीयतेइतिसंवाह्यःक र्मात्मरूपःपशुस्तस्याभिलाषादपूर्ण म्मन्यतात्मकाविद्याख्याऽणवम- लरूपाद्धेतोर्वहिर्गतिर्विषयोन्मुख त्वमेवभवति नत्वन्तर्मुखस्वरूपावहितत्वंजातुचित् ४८ तदारूढप्रमिते स्तत्क्षयाज्जीवसंक्षयः तदितितुर्य पदेआरुढातद्विमर्शनपराप्रमितिः संविद्यस्ययोगिनस्तस्याभिलाषा-
SK
पृ० १२अ) ज्जीवस्यसंवाह्यात्मनःपुर्यष्टकप्र- मातृभावस्यक्षयःप्रशमश्चिन्मा तृमयतयैवस्फुरतीत्यर्थः ४९ भूतकञ्चुकीतदविमुक्तोभूयःप तिसमःपरः ५० तदेत्यभिलाषक्षयात्जीवसंक्षयेपुर्षष्टकप्रमातृताभिमानविगलनेसत्ययं भूतकंचुकीशरीरारम्भीनिभूतानिकंचुकमिवव्यतिरिक्तं प्रावरणमिव नत्वहंतापदस्पर्शीनियस्य तथाभूतःसन्विमुक्तो निर्वाणभाक्यतो भूयोबाहुल्येनपतिसमः चिद्घनपारमेश्वरस्वरूपाविष्टस्ततेवपरःपूर्णःशरीरवृत्तिर्व्रतमित्युक्तसूत्रनीत्यादलकल्पेदेहादौस्थितोपिनप्रमातृतासंस्कारेण अस्पृष्टः|(य यं त्रुटिः) नैसर्गिकःप्राण संबन्धः ५१ ननुभूतकञ्चुकित्वम प्यस्यकस्मात्तदैवननिवर्ततेइत्या हनैसर्गिकितिनिसर्गात्स्वातंत्र्या त्मनःस्वभावादायातोनैसर्गिकः प्राणसंवन्धःसंवित्किलभगवती विश्ववैचित्र्यमवविभासयिषुःसंकोचा वभासपूर्वकंसंकुचिदशेषविश्वस्फुरत्तात्मकप्राणनारूपग्राहक भूमिकांश्रित्वाग्राह्यरूपजगदाभा सात्मनास्फुरतीतिनैसर्गिकःस्वा तंत्र्यात्प्रथममुद्भासितोस्याःप्राणसं
SK
पृ० १२ब) वन्धः ५१ नासिकान्तर्मध्यसंयमा त्किमत्रसव्यापसव्यसौषुम्णेषु सर्वनाडीचक्रप्रधानरूपेषुसव्या पसव्यसौषुम्णेषुदक्षिणवामम ध्यनाडीपदेषुयानासिकानसते कौटिल्येनवहतीतिकृत्वाकुटि लवाहिनीप्राणशक्तिस्तस्यान्तरि त्यान्तरीसंवित्तस्यापिमध्यंसर्वा न्तरतमतयाप्रधानंयद्विमर्शम यंरूपंतत्संयमादन्तर्निभालनप्र कर्षात्किमत्रोच्यतेअयंहिसर्वद शादेदीप्यमानोनिर्व्युत्थानःपरः समाधिः ५२ भूयःस्यात्प्रतिमीलन म् चैतन्यात्मनःस्वरूपादुदितस्या पृ० १३) स्यविश्वस्यभूयःपुनःविगलितभे दसंस्कारात्मनाबाहुल्येनच प्रति मीलनंचैतन्याभिमुखेनमीलनम्पुनरपिचैतन्यात्मस्वरू पोन्मीलनरूपंपरयोगाभिनिवि ष्टस्ययोगिनोभवति इत्याणवो पायप्रकाशनंतृतीयुन्मेषः ३ समाप्तेयंशिवसूत्रवृत्तिः|| शोधिताचेयं श्रीसाहिबकौलशिव नाथकेन महाराजरामसिंहस्या र्थे || # END OF FILE #

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. Śivasūtravṛtti [M00667].

Source