Introduction to the Middle Way

Madhyamakāvatāra 1-5 · Mअध्यमकावतार १-५

Introduction to the Middle Way

Madhyamakāvatāra 1-5

Mअध्यमकावतार १-५

SK
१. प्रथमश्चित्तोत्पादः
SK
संस्कृतभाषायाम्मध्यमकावतारभाष्यं नाम / (भोटभाषायाम्द्बु म ल ऽजुग् पई ब्शद् प शेस् व्यव) आर्यमञ्जुश्रीकुमारभूताय नमः /
SK
मध्यमकशास्त्रे ऽवताराय मध्यमकावतारचिकीर्षया सर्वसम्यक्सम्बुद्धैर्बोधिसत्त्वैश्चापि आदौ भगवतीं महाकरुणां बुद्धत्त्वहेतुसम्पत्प्रधानाम् अशेषापरिमिताशरणभवचारकबद्धसत्त्वपरित्राणलक्षणां स्तुतियोग्यतया दर्शयितुं उक्तम् /
SK
मुनीन्द्रजाः श्रावकमध्यबुद्धाः बुद्धोद्भवाःखल्वपि बोधिसत्त्वात् / कारुण्यचित्ताद्वयबुद्धिबोधिचित्तानि हेतुर्जिनपुत्रकाणाम् // Mअध्य्_१.१ //
SK
इत्यादि श्लोकद्वयम् / तत्र अनुत्तरधर्मैश्वर्यसंपदर्जनात्, श्रावकप्रत्येकबुद्धबोधिसत्त्वेभ्यो ऽपि परमैश्वर्यसंपत्तेः, श्रावकादीनां तदाज्ञावशवर्तित्वाच्च बुद्धा भगवन्तो मुनीन्द्र इति कथ्यन्ते / तेभ्यः श्रावकादीनां जन्म तु तेभ्य उत्पत्तिः / कथम्? बुद्धानां समुत्पादे प्रतीत्यसमुत्पादस्य अविपर्यस्तदेशनायां प्रवेशार्थं श्रुतिचिन्ताभावनानुसारमपि यथाधिमुक्तिवच्छ्रावकत्वादिपरिपूर्त्तिः / यद्यपि कस्यचित् प्रतीत्यसमुत्पादोपदेशश्रवणमात्रेण परमार्थाधिगमवैदुष्ये सत्यपि दृष्टजन्मन्येव निर्वाणप्राप्तिर्न भवति, तथापि उपदेशसाधको विपाकनियतफलवत् परजन्मनि अभीष्टफलपरिपाकं नियतं प्राप्नोति / यथा आर्यदेवेन उक्तम्- इह यद्यपि तत्त्वज्ञो निर्वाणं नाधिगच्छति / प्राप्नोत्ययत्नतो ऽवश्यं पुनर्जन्मनि कर्मवत् // इति // अतएव मध्यमके ऽपि उक्तम्- सम्बुद्धानामनुत्पादे श्रावकाणां पुनः क्षये / ज्ञानं प्रत्येकबुद्धानामसंसर्गात् प्रवर्तते // इति //
SK
तर्हि सम्यगववादफलप्राप्तिकारणाच्छ्रावका इति / ᳚कृतं मे करणीयं तस्मान् मे नापरं जन्म᳚ इत्यादि भवति / पुनरपरं, सत्फलम् अनुत्तरसम्यक्संबुद्धमार्गं वा सर्वतथागतेभ्यः श्रुत्वा तदर्थिनः श्रावणत्वाच्छ्रावकाः / यथा- सद्धर्मपुण्डरीकसूत्र उक्तम्-
SK
अद्यो वयं श्रावकभूतनाथ संश्रावयिष्यामथ चाग्रबोधिम् / बोधीयशब्दं च प्रकाशयामस्तेनो वयं श्रावकभीष्मकल्पाः // इति //
SK
सर्वे बोधिसत्त्वा अपि तथा, किन्तु तथा सन्तो ऽपि श्रावयन्ति एव, अनुरूपं रञ्चमात्रमपि न प्रतिपद्यन्ते, तेषां श्रावकभूतत्वाद् बोधिसत्त्वेषु दोषो न प्रसज्यते / अयं बुद्धशब्दो बुद्धस्वभावः श्रावकप्रत्येकबुद्धानुत्तरसम्यक्संबुद्धान् त्रीनपि समाख्याति, अतो बुद्धशब्देन प्रत्येकबुद्धा आख्याताः / ते पुण्यज्ञानयोरु उत्तरवृद्धिविशेषत्वात्, श्रावकेभ्यो विशिष्ट तरत्वात्, पुण्यज्ञानसम्भारमहाकरुणासर्वाकारताद्यभावात् सर्वसम्यक्सम्बुद्धेभ्यो हीनत्वात् मध्याः / तस्मादेव ते उपदेशं विना ज्ञानोत्पादाद् आत्ममात्रार्थं बुद्धत्वात् प्रत्येकबुद्धा इति / यथोक्तस्वभावत्वात् ते श्रावकाः प्रत्येकबुद्धाश्च तथागतधर्मदेशनातः समुद्भूतत्वात् मुनीन्द्रजा इति / पुनश्च ते मुनीन्द्राः कुतो जाता इति?- बुद्धोद्भवाः खल्वपि बोधिसत्त्वाद् इत्युक्तम् / ननु बोधिसत्त्वा अपि तथागतोपदेशत उत्पत्रभूतत्वात् जिनपुत्रा इति किं नोक्ताः? अतोः कथं बुद्धा भगवन्तो बोधिसत्त्वेभ्यो जाता उक्ता इति? सत्यमिदम्, तथापि हेतुद्वयेन बोधिसत्त्वा बुद्धभगवतां हेतवो भवन्ति- अवस्थाविशेषत्वात्, समादापकावतारत्वाच्च / तत्र अवस्थाविशेषस्तु तथागतावस्थाबोधिसत्त्वावस्थयोः सहेतुकत्वात् / समादापकस्तु यथा आर्यमञ्जुश्रीर्बोधिसत्त्वभूत एव भगवतः शाक्यमुनेः तत्परेषां तथागतानां पूर्व एव काले बोधिचित्तसमादापको मन्यते / अत एवं तन्निष्ठाफलं मुख्यहेतुभूतं दृष्ट्वा तथागता बोधिसत्त्वजाता दिष्टाः / अतएव हेतुसम्पदो ऽतिगरीयस्त्वात् हेतुपूजाकृते ऽपि फलपूजायाम् अर्थापत्तिं मत्त्वा तैर्बुद्धैर्भगवद्भिः निश्चितम् अपरिमितफलदायकमहौषधवृक्षम् अंकुरादिसमुद्गतमञ्जुपर्णावस्थाभूतवत् यत्नतः परिपालनीयत्वेन दर्शयित्वा तत्समये आसन्नीभूतत्रियानावसक्तसत्त्वस्कन्धानां महायान एव नियोजनार्थं बोधिसत्त्वानां प्रशंसा कृता / यथा आर्यरत्नकूटसूत्रे-
SK
᳚तद्यथापि नाम काश्यप! नवचन्द्रो नमस्क्रियते सा चेव पूर्णचन्द्रो न तथा नमस्क्रियते, एवमेव काश्यप! ये मम श्रद्दधन्ति ते बलवन्ततरं बोधिसत्त्वं नमस्कर्तव्य, न तथागतः, तत् कस्य हेतोः, बोधिसत्त्वनिर्जाता हि तथागताः / तथागतनिर्जाताः श्रावकप्रत्येकबुद्धाः /᳚ अत एव एवं युक्त्यागमाभ्यां तथागता बोधिसत्त्वेभ्यो जाता इति सिद्धम् / अथवा ते बोधिसत्त्वाः किं हेतुकाः? उक्तम् / कारुण्यचित्ताद्वयबुद्धिबोधिचित्तानि हेतुर्जिनपुत्रकाणाम् / तत्र करुणा तु अनुकम्पा, अत्रैव वक्ष्यमाणप्रकारस्वभावा / अद्वयबुद्धिस्तु भावाभावाद्यन्तद्वयापेता प्रज्ञा / बोधिचित्तं तु आर्यधर्मसंगीतिसूत्रे-
SK
᳚बोधिसत्त्वो बोधिचित्तेन सर्वधर्मान् अवबुध्येत् / सर्वे धर्मा धर्मधातुसमाः / सर्वेषाम् आगन्तुकभूताप्रतिष्ठितधर्माणां ज्ञेयमात्रत्वाद् ज्ञातृशून्यत्वात् परिज्ञेयमात्राव-सायित्वेन एतादृशीयं धर्मता प्राणिभिरवबोद्धव्येति बोधिसत्त्वेषु यो ऽयं चित्तोत्पादः स बोधिसत्त्वबोधिचित्तोत्पाद इत्युच्यते / सर्वप्राणिभ्यो हितसुखचित्तम् / अनुत्तरं चित्तं , मैत्र्या कोमलं चित्तं, करुणतयाविपर्ययसंचित्तं, आनन्दतयाननुतप्तं चित्तम् / उपेक्षातया विमलं चित्तं, शून्यतयाविपरिणामं चित्तम्, अनिमित्ततया निरावरणं चित्तं, अप्रणिधानतयाप्रतिष्ठितं चित्तमिति यथोक्तवत्᳚ / बोधिसत्त्वानां मुख्यहेतुस्तु करुणा अद्वयप्रज्ञा बोधिचित्तमितीमे त्रयो धर्माः सन्ति / यथोक्तं रत्नावल्याम्- शैलेन्द्रराजवन्मूलं बोधिचित्तं दृढं ततः / दिगन्तव्यापि कारुण्यं ज्ञानं चाद्वयनिश्रितम् // इति //
SK
बोधिचित्तस्य अद्वयज्ञानस्य च द्वयोरपि मूलं करुणया भूतत्वात् करुणा मुख्यत्वेन देष्टुमिष्यते /
SK
बीजं कृपा यज्जिनशस्यराशेस्तद्वृद्धये वारिसमा, चिराय / भोगाय पाकश्च यथैव मान्य, मादौ ममातः करुणाप्रशंसा // Mअध्य्_१.२ //
SK
यथा बाह्यधान्यादिसम्पत्तये आदौ मध्ये ऽन्ते च बीजजलपाकानां मुख्यतया एव भूतत्वाद् उपयोगिताभावः, तथा करुणाया एव त्रिकाले ऽपि जिनशस्यसम्पदे उपयोगितां एवं देशिता वर्तते / एवं दयालुस्तु परदुःखदुःखित एव अशेषदुःखीभूतसत्त्वानां परित्राणाय ᳚अवश्यम् अहम् समस्तममुं लोकं दुःखतः समुद्धृत्य बुद्धत्व एव संनियोक्ष्येति᳚ निश्चितं चित्तोत्पादं करोति / अस्या अपि प्रतिज्ञाया अद्वयज्ञानप्रहाणे साधयितुमशक्यत्वाद्, अद्वयज्ञाने ऽपि आवश्यक एव अवतारः, अतः सर्वबुद्धधर्माणां बीजं करुणा एव अस्ति / यथा रत्नावल्याम् उक्तम्- करुणापूर्वकाः सर्वे निष्यन्दा ज्ञाननिर्मलाः / उक्ता यत्र महायाने कस्तन्निन्देत् सचेतनः //
SK
बोधिचित्तोत्पादे ऽपि यदि उत्तरकाले करुणाजलेन पुनः पुनः न सिञ्चितः असञ्चितविपुलफलसंभारो ऽयम् अवश्यं श्रावकप्रत्येकबुद्धयोः परिनिर्वाणे परिनिर्वृत्तो भविष्यति / अनन्तफलावस्थायां प्राप्तायामपि यदि परकाले करुणा परिपाकरहिता स्याद् अस्याः दीर्घकालोपभोगो न भविष्यति, आर्यफलमहासम्भारफलक्रमपरम्परास्वभावो ऽपि निरन्तरं दीर्घं नाभिवर्धेत / सम्प्रति आलम्बनविशेषप्रवेशद्वारेणपि करुणायाः स्वभावविशेषम् अभिव्यज्य तस्यै एव प्रणामचिकीर्षया-
SK
आत्माभिसक्तौ त्वहमेति पूर्वं रागोद्भवे भाव इदं ममेति / अर्हट्टचर्यावदधीनलोके कारुण्यवान् यो ऽस्ति नमो ऽस्तु तस्मै // Mअध्य्_१.३ //
SK
इत्युक्तम् /
SK
अस्य लोकस्य तु ममाभिनिवेशात् पूर्वम् एव अहंग्रहणाद् ऽ असन्तम् आत्मानम्ऽ अस्तीति परिकल्प्य अत्रैव सत्याभिनिवेशः, ऽइदं तु ममऽ इति / आत्मग्रहविषयतो भिन्ने ऽशेषविधे वस्तुनि अभिनिवेशो भवति / आत्मात्मीयाभिनिविष्टम् इदं जगत् कर्मक्लेशबन्धननिबद्धम् चक्रचालकविज्ञानोत्क्षेपाधीनप्रवेशं संसारमहाकूपभवाग्रतो गम्भीरनिर्बाधावीचिपर्यन्तचलनं, स्वयमेव हेष्ठागामि, प्रयत्नतः कथञ्चन आकृष्यमाणम्, अज्ञानादिक्लेशकर्मजन्यसंक्लेशत्रये ऽपि पौर्वापर्यमध्यक्रमेण अनिश्चितं, प्रतिदिनं दुःखदुःखताविपरिणामदुःखताप्रवाहाद् अर्हट्टघटस्यावस्थातो नातिवर्तते, यतो बोधिसत्त्वो दुःखेन दुःखितम् अतिकरुणालम्बनेन त्रातुमिच्चति, अतः सर्वप्रथमं खलु भगवती महाकरुणा प्रणम्यते / इयं बोधिसत्त्वकरुणा तु सत्त्वालम्बनेति /
SK
धर्मालम्बनां निरालम्बनां च करुणामपि अवलम्बनद्वारा प्रकाशयितुम् उक्तम्-
SK
जगच्चले चन्द्रमिवाम्बुमध्ये चलं स्वभावेन विना विलोक्य /
SK
कारुण्यवान् यो ऽस्ति नमो ऽस्तु तस्मै, इति तत्र योजितव्यम् / मन्दवायुलघुतरंगितस्वच्छजलाभ्यन्तरव्याप्तचन्द्रप्रतिबिम्बं पूर्वावलम्बिताश्रयविषयेण सह नश्यति, तयोर्भावप्रत्यक्षे अवलम्बत्वेन उदये सति, उत्तमैस्तु एतद्वयं स्वभावताप्रकाशनसदृशं स्थितं दृश्यते- एवम् प्रतिक्षणं अनित्यतास्वभावशून्यता च / तथा बोधिसत्त्वैः करुणापरतन्त्रीभूतैरपि सत्कायदृष्टयविद्यासागरे सागरश्रेष्ठधर्मामृतरसोद्भवहेतवे सकलविपरीतकल्पनालक्षणे सम्पूर्णे जगति अयोनिशोविकल्पमारुतप्रेरिते नीलविस्तृताविद्याजले स्थितान् प्राणिनः स्वकर्मप्रतिबिम्बवत्पुरःस्थितान् प्रतिक्षणं अनित्यदुःखपतीतान् स्वभावशून्यान् दृष्ट्वा तयोरनित्यतादुःखविनाशसदृशभूतान् सद्धर्मश्रेष्ठामृतरसोद्भवहेतवे सकलविपरीतकल्पनानिवृत्तिलक्षणं सम्पूर्णं जगत् बन्धुत्वस्वभावभूतं बुद्धत्वं सम्यक्प्रापयितुमिष्यते /
SK
तेषां या करुणा सत्त्वालम्बना, धर्मालम्बना अनालम्बना च तां प्रणम्य बोधिसत्त्वानां बोधिचित्तस्य दशविधभेदाविवक्षया सः प्रथमबोधिचित्तम् अधिकृत्य एवं वदति-
SK
यदस्य चित्ते खलु बोधिसत्त्वे, जगद् विमुक्त्यै करुणावशंगे // Mअध्य्_१.४ //
SK
समन्तभद्रप्रणिधाननाम्नि, प्रमोदिता सा प्रथमेत्यवस्थतः /
SK
बोधिसत्त्वानाम् अनास्रवज्ञानस्य करुणादिभिः परिग्रहाविभागोभूमिरिति नाम प्राप्नोति, गुणाश्रयभूतत्वात् तस्या च उत्तरोत्तरं गुणसंख्याबलातिशयप्राप्तिदानादिपारमितापाठपरिपाकवृद्धिविशेषेण प्रमुदितादिभूमिप्रकारभेदेन दशविधभेदा व्यवस्थापिताः, अत्र स्वभावविशेषभेदो न भवति / यथा- यथान्तरीक्षे शकुनेः पदं बुधैर्वक्तुं न शक्यं न च दर्शनोपगम् /
SK
तथैव सर्वा जिनपुत्रभूमयो वक्तुं न शक्याः कुत एव श्रोतुम् // इत्युक्तम् /
SK
तत्र बोधिसत्त्वभूमिः प्रमुदिता बोधिसत्त्वानां प्रथमश्चित्तोत्पादः, अन्तिमश्च धर्ममेघो दशमश्चित्तोत्पादः / तत्र बोधिसत्त्वस्य यथोक्तविधिना- जगत् निःस्वभावदर्शकं करुणाविशेषेण उपगृहीतं यच्चितं करुणापरतन्त्रं सत् बोधिसत्त्वसमन्तभद्रप्रणिधानेन परिणामितं प्रमुदितमिति नामकम्, अद्वयज्ञानं तस्य सहेतुकं फलोपलक्षणं तत्र प्रथम इति कथ्यते / दशमहाप्रणिधानादीनि दशासंख्यशतसाहस्रप्रणिधानानि, तत्र बोधिसत्त्वः प्रथमं चित्तोत्पादं करोति, तानि बोधिसत्त्वसमन्तभद्रप्रणिधानमध्ये समाहितानि, अशेषप्रणिधानोपसंग्रहत्वात् समन्तभद्रप्रणिधानं विशेषेण सन्दृब्धम् / तत्र यथाश्रावकयाने प्रवेशफलमार्गस्थितिभेदेन अष्ट श्रावक भूमिव्यवस्था तथा महायाने ऽपि बोधिसत्त्वानां दशबोधिसत्त्वभूमयः / पुनश्च यथा श्रावकस्य निर्वेधभागीयावस्थोत्पादः प्रथमफलप्रवेशावस्था न मन्यते तथा भाविनां बोधिसत्त्वानामपि / रत्नमेघसूत्रे महाधिमुक्तमहाचर्याधर्मताया अनन्तरं प्राप्तेयं प्रथमभूमिस्थितिस्तु बोधिसत्त्वस्य बोधिचित्तानुत्पादभूमिरित्युक्तवत् / अधिमुक्तिचर्यायास्तत्क्षणास्थितिरपि- ऽकुलपुत्र! तद्यथा- यथा चक्रवर्ती राजा मानुषवर्णातीतो न तु देववर्णप्राप्तः, तथैव बोधिसत्त्वो ऽपि लौकिकश्रावकप्रत्येकबुद्धानां सर्वभूम्यतीतः, न तु बोधिसत्त्वपरमार्थभूमिप्राप्तः / इति तत्रैव व्याख्यातम् / पुनश्च यदा इह प्रमुदिताख्यप्रथमभूमौ प्रवेशः- ततः समारभ्य तु तत्र प्राप्तः स बोधिसत्त्वेति पदाभिधेयः // Mअध्य्_१.५ //
SK
तच्चित्तप्राप्तस्तु सर्वथा पृथग्जनभूम्यतिक्रान्तावस्थायां बोधिसत्त्वपदे- नैवाभिधीयते, नान्यथा, तत्समये तस्य आर्यभूतत्वात् / यथा- भगवत्यां पंचविंशशतिकायां- ᳚बोधिसत्त्व इत्यनुबुद्धसत्त्वस्यैतदधिवचनम्, येन सर्वधर्मा बुद्धा ज्ञाताः / कथं ज्ञाताः? अभूता असंभूता अवितथाः, नैते तथा यथा बालपृथग्जनैः कल्पिताः / नैते तथा यथा बालपृथग्जनैर्लब्धाः / तेनोच्यते बोधिसत्त्वा इति / तत्कस्य हेतोः? अकल्पिता अविकल्पिता हि बोधिः, अविठपिता हि बोधिः, अनुपलम्भा हि बोधिः / न हि सुविक्रान्तविक्रामिंस्तथागतेन बोधिर्लब्धा / अलम्भात्सर्वधर्माणामनुपलम्भात्सर्वधर्माणां बोधिरित्युच्यते / एवं बुद्धबोधिरित्युच्यते, न पुनर्यथोच्यते / येन सुविक्रान्तविक्रामिन् बोधाय चित्तमुत्पादयन्ति इदं चित्तं बोधायोत्पादयिष्याम इति बोधिं मन्यन्ते, अस्त्यसौ बोधिर्यस्यां वयं चित्तमुत्पादयिष्याम इति, न ते बोधिसत्त्वा इत्युच्यन्ते, उत्पन्नसत्त्वास्त उच्यन्ते / तत्कस्माद्धेतोः? तथा हि उत्पादाभिनिविष्टाश्चित्ताभिनिविष्टा बोधिमभिनिविशन्ते /᳚ इत्यादि उक्तम् / पुनश्च- ᳚अलक्षणा हि बोधिर्लक्षणस्वभावविनिवृत्ता / य एवमनुबोधः, इयमुच्यते बोधिरिति, न पुनर्यथोच्यते / एषां हि सुविक्रान्तविक्रामिन् धर्माणामनुबोधत्वाद्वोधिसत्त्व इत्युच्यते / यो हि कश्चित् सुविक्रान्तविक्रामिन् इमान् धर्मानप्रजानन्ननवबुध्यमानो बोधिसत्त्व इत्यात्मानं प्रतिजानीते, दूरे तस्य बोधिसत्त्वस्य बोधिसत्त्वभूमिः, दूरे बोधिसत्त्वधर्माः, विसंवादयति सदेवमानुषासुरं लोकं बोधिसत्त्वनाम्ना / सचेत्पुनः सुविक्रान्तविक्रामिन् वाङ्मात्रेण बोधिसत्त्वो भवेत्, तेन सर्वसत्त्वा अपि बोधिसत्त्वा भवेयुः / नैतत्सुविक्रान्तविक्रामिन् वाङ्मात्रं यदुत बोधिसत्त्वभूमिरिति /᳚ इत्यादि उक्तम् / यथोक्तं बोधिचित्तं प्राप्तस्तु तस्याम् अवस्थायां बोधिसत्त्वशब्दद्वारा एव केवलं न उक्तो ऽपि तु-
SK
गोत्रे ऽपि भावो ऽस्य तथागतानां त्यक्तं त्रिसंयोजनमस्य सर्वम् / प्रामोदितां प्राप्य स बोधिसत्त्वः क्षोब्धुं समर्थः शतलोकधातुम् // Mअध्य्_१.६ //
SK
पृथग्जनश्रावकप्रत्येकबुद्धसर्वभूम्यतीतत्वात् समन्तप्रभेतितथागतभूम्यनुगामिमार्गोत्पन्नत्वाच्च स बोधिसत्त्वः तथागतगोत्रोत्पन्नः / तदा पुद्गलनैरात्म्यं प्रत्यक्षं दृष्ट्वा इयं सत्कायदृष्टिसंशयशीलव्रतपरमार्थतेति संयोजनत्रयेभ्यो ऽपि सन्निवर्तते, तेषां पुनरनुत्पादाय / तत्त्वाद्रष्टुरात्मनि आरोपात् सत्कायदृष्टिर्भवति, तथा संशयतस्तस्यापरमार्गे ऽपि गमनं संभाव्यते, न चान्यस्य / निश्चयप्रवेशे तस्य सहेतुकगुणप्राप्तिः, भूमेरसपक्षदोषनिवृत्तेश्च असामान्यविशेषमुदितोत्पादाद् अतिप्रमुदितावशात् स बोधिसत्त्वो ऽग्रमुदिताम् अपि धारयति / प्रमोदविशेषभूतत्वाद् इयम् भूमिस्तु प्रमुदितेति नामापि प्राप्ता / शतलोकधातुं क्षोब्धुमपि समर्थः /
SK
प्रयाति भूमेः खलु भूमिमूर्ध्वं तदास्य मार्गो कुगतेर्निरुद्धः / पृथग्जनस्यावनिसंक्षयो ऽस्ति यथाष्टमार्यः कथितस्तथैषः // Mअध्य्_१.७ //
SK
इति //
SK
अयम् यथावबुद्धधर्माभ्यासाद् द्वितीयभूम्याद्यतिक्रमात्युत्साहाद् भूमेर्भूमिं समाक्रम्य ऊर्ध्वं प्रयाति / संक्षेपेण यथा स्रोतआपन्नार्यः स्वानुरूपार्यधर्माधिगमाद् दोषरहितो गुणान्वितश्च भवति तथा अस्मिन् बोधिसत्त्वे ऽपि भूम्यधिगमात् स्वस्मिन् अनुरूपगुणोद्भवाद् दोषक्षयाच्च स्त्रोतआपत्तेरुदाहरणद्वारा परिदीपितम् / अयम् बोधिसत्त्वस्तु सम्बोधिचित्तोदय आदिके ऽपि प्रत्येकबुद्धान् समुनीन्द्रवाग्जान् /
SK
जित्त्वैधते पुण्यबलेन चापि /
SK
यदस्ति तदपरो विशेषः, यथा- आर्यमैत्रीविमोक्ष उक्तम् ᳚तद्यथा कुलपुत्र अचिरजातो राजपुत्रो मूर्धप्राप्तान् सर्ववृद्धामात्यानभिभवति कुलाभिजात्याधिपत्येन, एवमेव अचिरोत्पादितबोधिचित्तस्तथागतधर्मराजकुलप्रत्याजात आदिकर्मिको बोधिसत्त्वश्चिरचरितब्रह्मचर्यान् वृद्धश्रावकानभिभवति बोधिचित्तमहाकरुणाधिपत्येन /᳚
SK
᳚तद्यथा कुलपुत्र, यो ऽचिरजातस्य महागरुडेन्द्रपोतस्य पक्षवातबलपराक्रमो नयनपरिशुद्धिगुणश्च, स सर्वशरीरप्रवृद्धानां तदन्येषां पक्षिणां न संविद्यते, एवमेव यः प्रथमचित्तोत्पादिकस्य तथागतमहागरुडेन्द्रस्य कुलगोत्रसंभवस्य बोधिसत्त्वमहागरुडेन्द्रपोतस्य सर्वज्ञताचित्तोत्पादबलपराक्रमो महाकरुणाध्याशयनयनपरिशुद्धिगुणश्च, स कल्पशतसहस्रनिर्यातानां सर्वश्रावकप्रत्येकबुद्धानां न संविद्यते /᳚ इत्याद्युक्तवत् /
SK
दूरङ्गमायां तु धियाधिकः स्यात् // Mअध्य्_१.८ //
SK
आर्यदशभूमि(सूत्रे) ऽपि- ᳚तद्यथापि नाम भवन्तो जिनपुत्राः, राजकुलप्रसूतो राजपुत्रो राजलक्षणसमन्वागतो जातमात्र एव सर्वामात्यगणमभिभवति राजाधिपत्येन, न पुनः स्वबुद्धिविचारेण / यदा पुनः स संवृद्धो भवति तथा स्वबुद्धिबलाधानतः सर्वामात्यक्रियासमतिक्रान्तो भवति, एवमेव भो जिनपुत्राः, बोधिसत्त्वः सहचित्तोत्पादेन सर्वश्रावकप्रत्येकबुद्धानभिभवत्यध्याशयमाहात्म्येन, न पुनः स्वबुद्धिविचारेण / अस्यां तु सप्तम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः स्वविषयज्ञानविशेषमाहात्म्यावस्थितत्वात्सर्वश्रावकप्रत्येकबुद्धक्रियामतिक्रान्तो भवति᳚ // इति यथोक्तवत् / अत एवं सति दूरंगमत एव आरभ्य बोधिसत्त्वः स्व बुद्धिबलोत्पादने ऽपि श्रावकप्रत्येकबुद्धांश्चाभिभवति, न चाधोभूमिष्विति ज्ञेयम् / अस्मादागमात् सर्वश्रावकप्रत्येकबुद्धेष्वपि सर्वधर्मनिःस्वभावताज्ञानमपि अस्तीति निर्भासेत / असति च तथा निःस्वभावभावपरिज्ञानरहितत्वात् लौकिकवीतरागवत् तानपि प्रथमचित्तोत्पादबोधिसत्त्वा अपि स्वबुद्धिविचारेणापि अभिभवन्ति / तीर्थिकवत् एतेषां त्रिधातुषु चर्याया सर्वक्लेशप्रहाणमपि न भवति / रूपादीनां स्वलक्षणावलम्बनविपर्ययात् पुद्गलनैरात्म्यबोधो ऽपि न भवति, आत्मप्रज्ञप्तिहेतुस्कन्धावलम्बनात् / यथा रत्नावल्याम् उक्तम्-
SK
᳚स्कन्धग्राहो यावदस्ति तावदेवाहमित्यपि / अहङ्कारे सति पुनः कर्म जन्म ततः पुनः //
SK
त्रिवर्त्मैतदनाद्यन्तमध्यं संसारमण्डलम् / अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम् //
SK
स्वपरोभयतस्तस्य त्रैकाल्ये चाप्यनाप्तितः / अहङ्कारः क्षयं याति ततः कर्म च जन्म च //
SK
᳚इति //
SK
अपि च-
SK
अलातचक्रं गृह्णाति यथा चक्षुर्विपर्ययात् / तथेन्द्रियाणि गृह्णन्ति विषयान् साम्प्रतानिव //
SK
इन्द्रियाणीन्द्रियार्थाश्च पञ्चभूतमया मताः / प्रतिस्वं भूतवैयर्थ्यादेषां व्यर्थत्वमर्थतः //
SK
निरिन्धनो ऽग्निर्भूतानां विनिर्भागे प्रसज्यते / सम्पर्के लक्षणाभावः शेषेष्वप्येष निर्णयः //
SK
द्विधापि भूतानां व्यर्थत्वात्सङ्गतिर्वृथा / र्थत्वात्सङ्गतेश्चैवं रूपं व्यर्थमतो ऽर्थतः //
SK
विज्ञानवेदनासंज्ञासंस्काराणां च सर्वशः / प्रत्येकमात्मवैयर्थ्याद् वैयर्थ्यं परमार्थतः //
SK
सुखाभिमानो दुःखस्य प्रतीकारे यथार्थतः / तथा दुःखाभिमानो ऽपि सुखस्य प्रतिघातजः //
SK
सुखे संयोगतृष्णैवं नैःस्वाभाव्यात् प्रहीयते / दुःखे वियोगतृष्णा च पश्यतां मुक्तिरित्यतः //
SK
कः पश्यतीति चेच्चितं व्यवहारेण कथ्यते / नहि चैत्तं विना चित्तं व्यर्थत्वात्र सहेष्यते //
SK
व्यर्थमेवं जगन्मत्वा यथाभूत्यात्रिरास्पदः / निर्वाति निरुपादानो निरुपादानवह्निवत् // ᳚इति //
SK
बोधिसत्त्वैरेव तथा निःस्वभावतया दृष्टम् इति चेत्, न चापि तत्, श्रावकान् प्रत्येकबुद्धांश्चाधिकृत्य तथोक्तत्वात् / कथमिदं ज्ञायत इति? वक्ष्यते- समनन्तरमेव बोधिसत्त्वान् अधिकृत्य- ᳚बोधिसत्त्वो ऽपि दृष्ट्वैवं सम्बोधौ नियतो मतः / केवलं त्वस्य कारुण्यादाबोधेर्भवसन्ततिः //᳚
SK
इत्यादि उक्तत्वात् / श्रावकदेशनासूत्रेष्वपि श्रावकानां क्लेशावरणप्रहाणार्थम्- ᳚फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा / मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः / मायोपमं च विज्ञानमुक्तमादित्यबन्धुना //᳚
SK
इत्यादिना फेनपिण्डजलबुद्बुदमरीचिजलकदलीस्कन्धमायाद्युदाहरणेन संस्कारा निर्णीता आचार्यपादैः- ᳚अनुत्पादो महायाने परेषां शून्यता क्षयः / क्षयानुत्पादयोश्चैक्यमर्थतः क्षम्यतां यतः //᳚ इति //
SK
तथा च-
SK
कात्यायनाववादे चास्तीति नास्तीति चोभयम् / प्रतिषिद्धं भगवता भावाभावविभाविना //
SK
श्रावकयाने ऽपि धर्मनैरात्म्यं देशितमिति तदा महायानदेशना व्यर्था स्यादिति तन्मतमपि एवं युक्त्यागमाभ्यां विरुद्धं बुध्यते / महायानदेशना धर्मनैरात्म्यमात्रस्य देशना नास्ति अपितु बोधिसत्त्वानां भूमिपारमिताप्रणिधानमहाकरुणादिपरिणामनासम्भारद्वय-अचिन्त्यधर्मताश्च सन्ति / यथा रत्नावल्यामुक्तम्-
SK
न बोधिसत्त्वप्रणिधिर्न चर्या परिणामना / उक्ता श्रावकयाने ऽस्माद् बोधिसत्त्वः कुतस्ततः //
SK
इति //
SK
बोधिचर्याप्रतिष्ठार्थं न सूत्रे भाषितं वचः / भाषितं च महायाने ग्राह्यमस्माद् विचक्षणैः //
SK
धर्मनैरात्म्यप्रकाशाय महायानदेशनापि युक्ता एव, विस्तृतदेशनाया विवक्षितत्वात् / श्रावकयाने तु धर्मनैरात्म्यं संक्षिप्तलक्षणमात्रेण समाप्यते / यथा आचार्यपादैरुक्तम्- अनिमित्तमनागम्य मोक्षो नास्ति त्वमुक्तवान् / अतस्त्वया महायाने तत् साकल्येन दर्शितम् //
SK
आनुषंगिकत्वेन पर्याप्तम् / अत एव अनाकुलबुद्धेः स्वयमेवार्थतत्त्वावबोधसमर्थत्वात् प्रकृतमेवाभिधीयते / तदात्र सम्बुद्धसुबोधिहेतुर्भवेत् प्रधानं ह्यतिरेकि दानम् /
SK
तस्य प्रमुदिताभूमिप्राप्तबोधिसत्त्वस्य दानशीलक्षान्तिवीर्यसमाधिप्रज्ञा-उपायप्रणिधानबलज्ञानेष्विति दशसु दानपारमितैव अतिरिच्यते, किन्तु न तद्भिन्नानामभावः / तद्दानमपि सर्वाकारज्ञतायाः प्रधानो हेतुः /
SK
स्वमांसदाने ऽपि कृतादरत्वाद् भवेददृष्टे ऽप्यनुमानहेतुः // Mअध्य्_१.९ //
SK
तस्य बोधिसत्त्वस्य अदृष्टा गुणा बोधादयो ये के ऽपि सन्ति ते ऽपि बाह्याभ्यन्तरस्ववस्तुदानविशेषानुमानेनैव स्फुटम् अनुमीयन्ते, धूमादिना वह्नयादिवत् / यथा बोधिसत्त्वानां दानं बुद्धत्वस्य प्रधानहेतुरप्रत्यक्षगुणनिर्णयलक्षणो ऽस्ति तथा पृथग्जनश्रावकप्रत्येकबुद्धानामपि दुःखप्रतिकारस्य आत्यन्तिकसुखप्राप्तेश्च हेतुरिति देशितुकामेन-
SK
सुखाभिलाषी हि जनस्तु सर्वः सुखं न सम्पत्तिमपास्य लोके / धनं तु दानोद्गतमेव बुद्ध्वा मुनिः प्रधानं समुवाच दानम् // Mअध्य्_१.१० //
SK
उक्तम् / क्षुत्तृड्रोगशीतादिप्रतिपक्षो दुःखप्रतिकारमात्रं, भवसुखोत्पादहेतुप्रतिबन्धकविपर्यमात्रेण स्वत्वप्रवाहपरिकल्पितोपघातापनयो ऽसुखात्मके लोके ऽतीव अभिनिविष्टः तथा तस्य सुखाभिलाषिणः सुखं दुःखप्रतिकारमात्रस्वभावम्, अभीष्टविषयसम्पत्तिः दुःखप्रतिपक्षभूः, विपर्ययात्मनो भोगं विना नोत्पादावलम्बनम् / दुःखप्रतिकारहेतुभूतास्ते विषया अपि दानोद्भूतपुण्यक्रियावस्त्वसंचयेषु नोत्पद्यन्त इति विचार्य भगवान् जगदशेषाशयस्वभावज्ञः शीलादिसमाख्यानेषु सर्वप्रथमं दानमेव आह / अधुना दानिप्राणिनः शीलवैरूप्ये ऽपि स्वकार्यानुकूलत्वाद् दानमाहात्म्यम् आख्यातुमाह-
SK
परीत्तकारुण्यसुदुष्टचित्ता विकुर्वते स्वार्थपरा अमी ये / तदिष्टसम्पद् व्यसनप्रशान्त्यै समुद्गता दानत एव सापि // Mअध्य्_१.११ //
SK
ये वणिग्वत् स्वल्पधनत्यागेन अतिविपुलफलसम्पत्स्कन्धार्थेच्छवो ऽपि अधिकतरार्थार्थिनो दित्सादराः, सुगतपुत्रवत् करुणापरतन्त्रा दानफलार्थम् अनायासमेव आदित्सोत्सवाभिवर्धनास्ते ऽपि दानदोषग्रहणपराङमुखाः केवलगुणग्रहणोत्साहप्राप्ता अतिशयैश्वर्योपसम्पदाः कायाप्रियदुःखक्षुत्तृष्णादिनाशनेन दुःखोपशान्तिहेतुर्भवन्ति / यस्य निष्करुणस्य स्वदुःखप्रतिकारापेक्षया एव दित्सायाम् आदरः, सो ऽपि-
SK
कदाचिदस्मिन्नपि दानकाले द्रुतं हि लब्ध्वार्यजनाभिसङ्गम् / ततः समुच्छिद्य भवप्रवाहं सहेतुकां शान्तिमतः प्रयाति // Mअध्य्_१.१२ //
SK
इत्युक्तम् / दानपतेस्त्यागिनः समीपे सद्भिर्गन्तव्यम् इति दानाधिमुक्तिका दानकाले आर्यजनाभिसंगात् तदुपदेशतः संसारनिर्गुणतां ज्ञात्वा निर्मलम् आर्यमार्गं साक्षात्कुर्वन्ति, दुःखोपशान्त्या त्यक्ताविद्या भवसन्ततेरनादिकालतः प्रवृतां जन्ममरणपरम्परां त्यक्त्वा श्रावकप्रत्येकबुद्धयानैः परिनिर्वृता भविष्यन्ति / अतः साम्प्रतं बोधिसत्त्वानां दानं भवनिर्वाणसुखप्राप्तिहेतुः /
SK
जगद्धितार्थं हि कृतप्रतिज्ञाः प्रयान्ति मोदं न चिरेण दानैः //
SK
अबोधिसत्त्वास्तु दानसमकालं यथोक्तदानफलं नियतं न संभुञ्जन्ति, तस्माद् दानफलस्य अप्रत्यक्षत्वाद् दाने प्रवेशो ऽपि न संभवः, बोधिसत्त्वास्तु दानसमकालमेव अर्थिनामपि परितर्पणाद्, अभीष्टदानफलसंपत्परमानन्दं धारयन्तः, तत्रैव दानफलम् उपभुञ्जन्ति / अतः सर्वदा दाने मुदिता भविष्यन्ति / अतो यथोक्तरीत्या-
SK
दयादया भावमया यतश्च /
SK
सर्वाभ्युदयनिः श्रेयसहेतुर्दानम्, ततो ऽस्ति मूलं खलु दानवार्ता // Mअध्य्_१.१३ //
SK
यतस्ते सर्वदा दानं प्रति आदरेण सम्पद्विभाजनद्वारा च मनस्तर्पयन्ति / बोधिसत्त्वेषु आनन्दविशेषोत्पादः कीदृश इति अर्थिनां चेत्- उच्यते-
SK
यथा तु देहीति निशम्य शब्दं सुखोद्भवो बुद्धसुते विचिन्त्य / तथा सुखं शान्तिगते मुनौ न किमुच्यतां सर्वसमर्पणेनि // Mअध्य्_१.१४ //
SK
यावदर्थिनां देहीति शब्दश्रुतावेव विचार्यमाणे बोधिसत्त्वानाम् ऽइमे मां याचन्त इति बुद्धवा वारम्वारं यः सुखोत्पादो निर्वाणसुखादपि अतिरिच्यते, ततो बाह्याभ्यन्तरवस्तुसमर्पणेन अर्थिनजनतर्पणस्य किमुच्यताम्? पुनः किम् तत् तथोक्तबाह्याभ्यन्तरवस्तुत्यागिनां बोधिसत्त्वानां कायदुःखमपि न भविष्यतीति? उच्यते- महात्मनां तु अचेतनानामपच्छेदवत् कायदुःखोत्पादो ऽसम्भव एव /
SK
आर्यगगनगञ्जपरिपृच्छासमाधौ यथोक्तम्-
SK
᳚तद्यथा महासालवृक्षवनमस्ति / तत्र कश्चिदागत्य एकं सरलं छिनत्ति / तत्रावशिष्टास्ते सालवृक्षा अयं तु छिन्नो, वयं न छिन्ना इति न चिन्तयन्ति / तेषु नानुरागो न वा कोपः, न कल्पो न विकल्पः, तद्वत् बोधिसत्त्वस्य या क्षान्तिः सा परिशुद्धाग्रगगनोपमेत्युक्तिवत् /
SK
रत्नावल्यामपि एवमुक्तम्- शारीरं नास्ति वै दुःखं तत्र दुःखं क्व मानसम् / लोको हि दुःखितस्तेन करुण्यात् स्थीयते चिरम् // पुनर्यो ऽलब्धविरागावस्थस्तत्र कायस्थितिबाधकविषये समवतीर्णे कायदुःखं निश्चितम् उत्पद्यते, तदा सो ऽपि सत्त्वार्थकृत्येषु अतिविशिष्टावतारहेतुत्वेन प्रतिष्ठत इति आख्यातम् /
SK
प्रदाय छेत्तुं स्ववपुः स्वदुःखात् स्वसंविदा नारकदुःखकादि / विलोक्य तन्नाशयितुं परेषां परिश्रमं प्रारभते स शीघ्रम् // Mअध्य्_१.१५ //
SK
बोधिसत्त्वस्तु दुःखमयनरकतिर्यग्योनियमलोकादिघोरलोकान्तर्गतं निरन्तरघोरदुःखेन कायच्छेदं, स्वकायच्छेददुःखात् सहस्त्रशो ऽप्यधिकं प्रवृद्धमसह्यं दुःखं स्वदुःखेन तुलयित्वा पश्यति तदा स्वकायच्छेददुःखमविगणय्य सत्त्वानां नरकादिदुःखच्छेदाय अतिशीघ्रं वीर्यमारभते / यथोक्तदानपारमिताप्रभेददेशनार्थम् उक्तम्-
SK
प्रदेयसङ्ग्राहकदातृशून्यं वदन्ति लोकोत्तरपारमीति / तत्र पारमीति तु यत् संसारसागरपारं तटं, क्लेशज्ञेयावरणनिःशेषत्यागस्वभावयुक्तो बुद्ध एव वा / पारंगतस्तु पारमित इत्युक्तम् / अलुगुत्तरपदे इत्यनेन लक्षणेन कर्मविभक्तिलोपं न कृत्वा रूपणम्, अथवा पृषोदरादित्वाद् उत्तरपदयुक्ततया व्यवस्थापितम् / प्रज्ञां गृहीत्वा विशेषेण व्याख्यातम्, दानादयः पारमितातुल्यत्वात् पारमिताः सन्ति / परिणामनाविशेषेण पारगमनं व्यवस्थाप्य दानं पारमितानाम प्राप्नोत् / वक्ष्यमाणाः शीलादयो ऽपि तथा विज्ञेयाः / इयं दानपारमितापि देयं, प्रतिग्राहकं दायकं च अनालम्ब्य लोकोत्तरपारमिता अस्तीति भगवतीप्रज्ञापारमितायाम् उक्तम् / अनालम्बनस्य लोकोत्तरत्वाद् आलम्बनं च व्यवहारसत्यसंग्रहत्वाल्लौकिकमेव अस्ति / तत्तु अप्राप्तबोधिसत्त्वावस्थाभिर्ज्ञातुं न शक्यते / अपि च-
SK
त्रयीषु रागोद्भवतः प्रदिष्टं तदेव वै लौकिकपारमीति // Mअध्य्_१.१६ //
SK
तदेव दानं त्रिष्ववलम्बितं सत् लौकिकपारमितेत्युक्तम् / सम्प्रति यथोक्त- भूमिरिति ज्ञानविशेषेण अतिशयगुणानुवादद्वारा देशनार्थमेवमुक्तम्-
SK
तथा प्रतिष्ठा जिनपुत्रचित्ते सदाश्रये सुप्रभकान्तिमाप्ता / घनं तमिस्रं मुदिता निरस्य जयत्यसौ चन्द्रमणिर्यथा वै // Mअध्य्_१.१७ //
SK
तथा शब्दो यथोक्तप्रकारदेशनार्थः / मुदितेति भूमिनाम समाख्यायते / जयतीति तु असपक्षं पराजित्य अवस्थानम् इत्यर्थः / सा तु ज्ञानस्वभावा सती एव जिनपुत्रमनसि स्थितत्वाद् उपरिस्थिता / प्रमुदिताभूमिस्तु यथोक्तरीत्या सर्वमपि गहनम् अन्धकारं निराकृत्य जयति / यथोक्त एव अर्थ उदाहरणेन प्रकाशयितुम् आख्यातम् / चन्द्रकान्तमणिवद् इति /
SK
मध्यमकावतारभाष्ये प्रमुदितेति प्रथमश्चित्तोत्पादः / बोधिसत्त्वप्रथमचित्तोत्पादो व्याख्यातः /
SK
२. द्वितीयश्चित्तोत्पादः
SK
अधुना द्वितीयं (चित्तोत्पादम्) अधिकृत्योच्यते-
SK
स शीलसम्पत्तिगुणान्वितत्त्वात् स्वप्ने ऽपि दुःशीलमलं जहाति / इति /
SK
भूमिसंज्ञकसर्वज्ञानविशेषस्य तु एकस्वभावत्वात् तदसत्वे ऽनुत्पन्नगुणभ्यः शीलपारमितादिविशिष्टताभ्य एव द्वितीयचित्तोत्पादादिविशेषाः दर्शिताः / तत्र क्लेशानधिवासित्वात्, पापानुद्भूतत्वात्, चित्तकौकृत्यग्निशमनेन, शीतलत्वात्, सुखहेतुत्वेन उत्तमैराश्रयणीयत्वात् शीलमिति / तदपि सप्तत्यागलक्षणम् / त्रयो धर्मा अलोभो ऽद्वेषः सम्यग्दृष्टिश्च ते समुत्थानम् / अतः समुत्थानेन सह शीलम् अधिकृत्य दशकर्ममार्गा व्याख्याताः शीलसंपत् तु शीलातिशयः / गुणविशुद्धिस्तु गुणशुद्धिः, शीलसंपत्परिशुद्धिरिति शब्दः प्रयोज्यः / स्वगुणपरिशुद्धत्वात् शीलत्वं विशिष्टिम् / तदन्वितत्वात् स बोधिसत्त्वः स्वप्नावस्थायामपि दुःशीलमलैरलिप्तः / अथ कथं तस्य तादृक् शीलसम्पदा गुणपरिशुद्धिः? एतादृशो ऽयं बोधिसत्त्वो द्वितीयबोधिसत्त्वभूमौ प्रस्थितस्तु-
SK
स कायवाक्चित्तविशुद्धचर्यो दशैव सत्कर्मपथांश्चिनोति // Mअध्य्_२.१ //
SK
यथा द्वितियबोधिसत्त्वभूमौ- ᳚तत्रभवन्तो जिनपुत्रा, विमलायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः प्रकृत्यैव प्राणातिपातात्प्रतिविरीतो भवति निहतदण्डो निहतशस्त्रो निहतवैरो लज्जावान् दयापन्नः सर्वप्राणिभूतेषु हितसुखानुकम्पी मैत्रचित्तः / स संकल्पैरपि प्राणिविहिंसां न करोति, कः पुनर्वादः परसत्त्वेषु सत्त्वसंज्ञिनः संचिन्त्यौदारिककायविहेठनया //
SK
अदत्तादानात्प्रतिविरतः खलु पुनर्भवति स्वभोगसंतुष्टः, परभोगानभिलाषी, अनुकम्पकः / स परपरिगृहीतेभ्यो वस्तुभ्यः परपरिगृहीतसंज्ञी स्तेयचित्तमुपस्थाप्य अन्तशस्तृणपर्णमपि नादत्तमादाता भवति, कः पुनर्वादो ऽन्येभ्यो जीवितोपकरणेभ्यः //
SK
काममिथ्याचारात्प्रतिविरतः खलु पुनर्भवति स्वदारसंतुष्टः परदारानभिलाषी / स परपरिगृहीतासु स्त्रीषु परभार्यासु गोत्रध्वजधर्मरक्षितासु अभिध्यामपि नोत्पादयति, कः पुनर्वादो द्वीन्द्रियसमापत्या वा अनङ्गविज्ञप्त्या वा //
SK
अनृतवचनात्प्रतिविरतः खलु पुनर्भवति सत्यवादी, भूतवादी, कालवादी, यथावादी तथाकारी / सो ऽन्तशः स्वप्नान्तरगतो ऽपि विनिधाय दृष्टिं क्षान्तिं रुचिं मतिं प्रेक्षां विसंवादनाभिप्रायो नानृतां वाचं निश्चारयति, कः पुनर्वादः समन्वाहृत्य //
SK
पिशुनवचनात्प्रतिविरतः खलु पुनर्भवति अभेदाविहेठाप्रतिपन्नः सत्त्वानाम् / स नेतः श्रुत्वा अमुत्राख्याता भवत्यमीषां भेदाय / न अमुतः श्रुत्वा इहाख्याता भवत्येषां भेदाय / न संहितान् भिनत्ति, न भिन्नानामनुप्रदानं करोति / न व्यग्रारामो भवति न व्यग्ररतो न व्यग्रकरणीं वाचं भाषते सद्भूतामसद्भूतां वा //
SK
परुषवचनात्प्रतिविरतः खलु पुनर्भवति / स येयं वागदेशा कर्कशा परकटुका पराभिसंजननी अन्वक्षान्वक्षप्राग्भारा ग्राम्या पार्थग्जनकी अनेला अकर्णसुखा क्रोधरोषनिश्चारिता हृदयपरिदहनी मनःसंतापकरी अप्रिया अमनआपा अमनोज्ञा स्वसंतानपरसंतानविनाशिनी, तथारूपां वाचं प्रहाय येयं वाक् स्निग्धा मृद्वी मनोज्ञा मधुरा प्रियकरणी मनआपकरणी हितकरणी नेला कर्णसुखा हृदयंगमा प्रेमणीया पौरी वर्णविस्पष्टा विज्ञेया श्रवणीया निश्रिता बहुजनेष्टा बहुजनकान्ता बहुजनप्रिया बहुजनमनआपा विज्ञापन्ना सर्वसत्त्वहितसुखावहा समाहिता मनः प्रह्लादनकरी स्वसंतानपरसंतानप्रसादनकरी तथारूपां वाचं निश्चारयति //
SK
संभिन्नप्रलापात्प्रतिविरतः खलु पुनर्भवति सुपरिहार्यवचनः कालवादी भूतवादी अर्थवादी धर्मवादी न्यायवादी विनयवादी, स निदानवतीं वाचं भाषते कालेन सावदानाम् / स चान्तश इतिहासपूर्वकमपि वचनं परिहार्यं परिहरति, कः पुनर्वादो वाग्विक्षेपेण //
SK
अनभिध्यालुः खलु पुनर्भवति परस्वेषु परकामेषु परभोगेषु परवित्तोपकरणेषु परपरिगृहीतेषु स्पृहामपि नोत्पादयति, किमितियत्परेषां तन्नाम स्यादिति नाभिध्यामुत्पादयति, न प्रार्थयते, न प्रणिदधाति, न लोभचित्तमुत्पादयति //
SK
अव्यापन्नचित्तः खलु पुनर्भवति सर्वसत्त्वेषु मैत्रचित्तो हितचित्तो दयाचित्तः सुखचित्तः स्निग्धचित्तः सर्वजगदनुग्रहचित्तः सर्वभूतहितानुकम्पाचित्तः / स यानीमानि क्रोधोपनाहखिलामलव्यापादपरिदाहसंधुक्षितप्रतिघाद्यानि तानि प्रहाय यानीमानि हितोपसंहितानि मैत्र्युपसंहितानि सर्वसत्त्वहितसुखाय वितर्कितविचारितानि, तान्यनुवितर्कयिता भवति //
SK
सम्यग्दृष्टिः खलु पुनर्भवति सम्यक्पथगतः कौतुकमङ्गलनानाप्रकारकुशीलदृष्टिविगत ऋजुदृष्टिरशठो ऽमायावी बुद्धधर्मसंघनियताशयः / ᳚ इत्याद्युक्तवत् /
SK
तत्र प्रथमत्रयकुशलकर्मपथाः कायेन प्रतिपाद्यन्ते / मध्यमचतुरो वाचा अन्त्यत्रयश्चित्तेन / एवं दशकुशलकर्ममार्गा अपि संगृहीताः / किम् एतेषां कर्ममार्गाणां चयनं प्रथमचित्तोत्पादबोधिसत्त्वा न कुर्वन्ति? ते ऽपि चयनं कुर्वन्ति, तथापि-
SK
दशापि मार्गान् कुशलान् समेत्य भवन्ति ते शुद्धतरास्तथैव / प्रथमचित्तोत्पादबोधिसत्त्वा न तथा / सदा विशुद्धः खलु शारदेन्दुर्यथा हि शान्तप्रभयातिशेते // Mअध्य्_२.२ //
SK
शान्तस्तु संवृतेन्द्रियः / प्रभामयो देदीप्यमानशरीरः, तथा परिशुद्धशीलः सन्नपि / स शुद्धशीलप्रकृतिंविदश्चेद् भवेन्न तेनैव विशुद्धशीलः /
SK
यथा-आर्यरत्नकूटसूत्रे- ᳚काश्यप, ए[क]त्यो भिक्षुः (शीलवन्तः) प्रातिमोक्षसंवरसंवृतो विहरति / आचारगोचरसम्पन्न अणुमात्रेष्ववद्येषु (अपि) भयदर्शी समा[दा] य शिक्षते शिक्षापदेषु परिशुद्धकायकर्मवाङ्मनस्कर्मणा समन्वागतो विहरति, परिशुद्धाजीवः स च भ[वति] आत्मवादी, अयं काश्यप प्रथमो दुःशीलः शीलवंतः प्रतिरूपको द्रष्टव्यः /᳚ इत्यतः ᳚पुनरपरं काश्यप! इहे कत्यो भिक्षुः द्वादशाधूतगुणस[मादाने ऽपि] उपलम्भदृष्टिकश्च भवति, अहंकार(ममकार)स्थितः अयं काश्यप चतुर्थो दुःशीलः शीलवन्तप्रतिरूपकोद्र[ष्टव्यः]᳚ इति पर्यन्तम् उक्तम् /
SK
अतः सदा सस्त्रितये ऽपि बुद्धिद्वयप्रचारात् सुतरां निवृत्तः // Mअध्य्_२.३ //
SK
कस्मै प्राणिने त्यागः, किं त्यक्तं, केन त्यक्तं, तत्त्रितये ऽपि भावाभावादिबुद्धिद्वयनिर्वृतो भवति / एवं संप्रति बोधिसत्त्वस्य शीलसंपन्मयत्वम् उक्तम् / ततः पश्चात् सामान्यतया तद्भिन्नानामपि शीलसम्पत्तेर्दानादितो ऽपि अतिशयत्वं सर्वगुणसम्पदाश्रयभूतत्वमेव देशनार्थयितुम् उक्तम्-
SK
दानाज्जनः शीलपदेन हीनो भोगानवाप्यैष्यति दुर्गतिञ्च / इति /
SK
तद्दानत एव स दानपतिः शीलवान् भूतो नरदेवमध्ये विशिष्टभोगसम्पन्मयः सन् शीलपादनिर्वृत्तौ दुर्गतिलोकपतितः प्रत्येकनरकं, अश्वगजवानरनागादिप्रेतमहर्द्धिकादिषु उत्पन्नः स विविधभोगसम्पत्सम्पन्न एव भवति / अतः
SK
सव्याजमूले परिक्षीयमाणे तस्मै न भोगाः प्रभवन्ति पश्चात् // Mअध्य्_२.४ //
SK
यो ऽत्यल्पबीजमुप्त्वा विपुलफलं प्राप्नुवन् पुनः फलाय तस्मादप्यधिकं बीजं वपति, तेन महाफलसम्भारस्य यथासमये उपवर्धनक्रमो ऽविच्छिन्नं सम्भवति, कृतप्रणाशस्वभावश्चयो मूर्खतया पूर्वबीजमात्रमपि उपभुङ्क्ते तस्य सव्याजवस्तुसंग्रहस्यापि क्षयत्वात् कुतो भाविफलसंपदुत्पादः? तथैव शीलनिवृत्तेः अस्थाने सम्पदुपभोगक्तुरपि अतिमूर्खतया अपूर्वाक्षेपरहितत्वात् पूर्वाक्षेपाशेषोपभोगत्वाच्च पश्चात् सम्पद्भावो ऽसंभवः / शीलपादविहीनस्य अस्य पूर्णसम्पद्भावो न केवलं दुर्लभः, दुर्गतिगमनेन दुर्गतित उत्थानम् अपि अतिदुर्लभम् इति देशनाय-
SK
यदा स्वतन्त्रः स्थितिसामरूप्यम् अयं स्वचिन्तां यदि नो करोति / दरीप्रपाते परतन्त्रताप्तौ क एनमुत्त्थापयिता हि पश्चात् // Mअध्य्_२.५ //
SK
इत्युक्तम / यद्यसौ तदा अनुकूलजनपदस्थितो बन्धमुक्तशूरवत् स्वच्छन्दः, पराधीनतामप्रविष्टः सन् देवमनुष्यादिलोकस्थितः स्वचिन्तां न करोति, साधिष्टदरीसमुत्सृष्टबद्धशूरवद् दुर्गतिंगतमेनं पश्चात् क उत्त्थापयिष्यति / अत एव पीडनाय निश्चितमेव दुर्गतिर्भविष्यति / तत एव पुनर्मनुष्येषु उपपादे ऽपि द्विविधः परिपाको ऽभिसिद्ध इत्युक्तम् / यतस्तादृशो दुःशीलो ऽत्यधिकदोषसम्भाराधिष्ठानम्-
SK
ततो जिनो दानकथामुदीर्य कथां तु शीलानुगतामुवाच /
SK
तस्मादेव पराजितसकलपापधर्मो जिनो दानादिगुणाविप्रणाशाय दानकथासमयानन्तरं शीलकथामेव कृतवान् /
SK
गुणे विवृद्धे खलु शीलभूमौ फलोपभोगस्तु निरन्तरं स्यात् // Mअध्य्_२.६ //
SK
सर्वगुणाश्रयभूतत्वात् शीलम् एव भूमिः / तत्र दानादिसर्वगुणविवृद्धिश्चेत् हेतुफलपरम्परा उत्तरोत्तरं क्रमशो ऽनवच्छिन्नरूपेण फलसम्भारमुपवर्धयन्ती दीर्घकालम् उपभोक्तुं शक्यते, अन्यथा तु न / अतो ऽनेन प्रकारेण-
SK
पृथग्जनश्रावकनैजबोधिस्वभावनिष्ठस्य जिनात्मजस्य / न हेतुरस्त्यभ्युदयाय शीलाद् ऋते च निःश्रेयसहेतवे ऽन्यः // Mअध्य्_२.७ //
SK
यथा- ᳚इमे खलु पुनर्दशाकुशलाः कर्मपथा अधिमात्रत्वादासेविता [भाविता] बहुलीकृता निरयहेतुर्मध्यत्वात् तिर्यग्योनिहेतुर्मृदुत्वाद्यमलोकहेतुः / तत्र प्राणातिपातो निरयमुपनयति, तिर्यग्योनिमुपनयति, यमलोकमुपनयति / अथ चेत्पुनर्मनुष्येषु उपपद्यते, द्वौ विपाकावभिनिर्वर्तयति अल्पायुष्कतां च बहुग्लान्यतां च / अदत्तादानं .........पेयालं.........ऽपरीत्तभोगतां ऽ च ऽसाधारणभोगतांऽ च / काममिथ्याचारो ... अनाजानेयपरिवारतां च ससपत्नदारतां च / मृषावादो.......अभ्याख्यानबहुलतां च परैर्विसंवादनतां च / पैशुन्यं......भिन्नपरिवारतां च हीनपरिवारतां च / पारुष्यं........अमनापश्रवणतां च कलहवचनं च / तां संभिन्नप्रलापो.......अनादेयवचनतां च अनिश्चितप्रतिभानतां च / अभिध्या........असंतुष्टितां च महेच्छतां च / व्यापादो.......अहितैषितां च परोत्पीडनतां च / मिथ्यादृष्टिः [निरयमुपनयति, तिर्यग्योनिमुपनयति, यमलोकमुपनयति / अथ चेत्पुनर्मनुष्येषु उपपद्यते, द्वौ विपाकावभिनिर्वर्तयति] कुदृष्टिपतितश्च भवति शठश्च मायावी / एवं खलु महतो ऽपरिमाणस्य दुःखस्कन्धस्य इमे दशाकुशलाः कर्मपथाः समुदागमाय संवर्तन्ते /᳚ ᳚पुनः कुशलानां कर्मपथानां समादानहेतो[र्देव] मनुष्याद्युपपत्तिमादिं कृत्वा यावद्भवाग्रमित्युपपत्तयः प्रज्ञायन्ते / तत उत्तरं त एव दश कुशलाः कर्मपथाः प्रज्ञाकारेण परिभाव्यमानाः प्रादेशिकचित्ततया त्रैधातुकोत्त्रस्तमानसतया महाकरुणाविकलतया परतः श्रवणानुगमेन घोषानुगमेन च श्रावकयानं संवर्तयन्ति / तत उत्तरतरं परिशोधिता अपरप्रणेयतया [स्वयंभूत्वानुकूलतया] स्वयमभिसंबोधनतया [परतो ऽपरिमार्गणतया] महाकरुणोपायविकलतया गम्भीरेदं- प्रत्ययानुबोधनेन प्रत्येकबुद्धयानं संवर्तयति / तत उत्तरतरं परिशोधिता विपुलाप्रमाणतया महाकरुणोपेततया उपायकौशलसंगृहीततया संबद्धमहाप्रणिधानतया सर्वसत्त्वापरित्यागतया बुद्धज्ञानविपुलाध्यालम्बनतया बोधिसत्त्वभूमिपरिशुद्धयै पारमितापरिशुद्धयै चर्याविपुलत्वाय संवर्तन्ते /᳚ इत्यादि विस्तरेणोक्तवत् अतो ऽनेनप्रकारेण तद्दशकुशलमार्गातिरिक्तं पृथग्जनश्रावकप्रत्येकबुद्धबोधिसत्त्वानां यथायोगम् अभ्युदयस्य संसारसुखस्य, निःश्रेयसः सुखदुःखाभावस्वभावस्य मुक्तिलक्षणस्य प्राप्तेरुपायो ऽन्यो नास्तीति समुपदिष्टम् / यो ऽसौ द्वितीयचित्तोत्पादबोधिसत्त्वः-
SK
यथा समुद्रो हि शवेन सार्धम् अमङ्गलेनापि च मङ्गलं वा / तथा हि शीलाधिकृतो महात्मा समं न तिष्ठासति दुष्टशीलैः // Mअध्य्_२.८ //
SK
अमंगलमिति अकुशलपर्यायः / यथोक्तशीलपारमिताविभेदाख्यानम्-
SK
कुतश्च किं कुत्र विवर्जितञ्च त्रिके गृहीते सति यद्धि शीलम् / वदन्ति तल्लौकिकपारमीति /
SK
तच्छीलं त्रिष्ववलम्बितं सत् लौकिकपारमितेति आख्यायते / अलौकिकं तत् त्रिषु रागशून्यम् // Mअध्य्_२.९ //
SK
तदेवशीलं यथोक्तालम्बनत्रयरहितं स्याच्चेद् अलौकिकपारमितेत्युच्यते / यथोक्तभूमिगुणानुवादेन शीलपारमितावस्थापरिनिष्पत्तिमाह-
SK
जिनात्मजेन्दूद्गतनिर्मलापि भवाभवैषा विमला भवश्रीः / शरदृतोश्चान्द्रमसीप्रभेव जगन्मनस्तापमपाकरोति // Mअध्य्_२.१० //
SK
विमलेति दशकुशलकर्ममार्गविमलत्वाद् द्वितीयबोधिसत्त्वभूमेरन्वर्थं नाम / यथा निर्मला शरच्चन्द्रप्रभा जनसंतापम् अपाकरोति तथा जिनपुत्रेन्दूद्गतेयं विमलापि दुःशीलोत्पन्नं मनःसंतापं निवर्तयति / अस्या असंसारान्तर्गतत्वाद् न भवो ऽपितु भवश्रीः, सर्वगुणसम्पदां तदनुगतत्वात्, चतुर्द्वीपैश्वर्यसम्पधेतुत्वाच्च /
SK
इति मध्यमकावतारभाष्ये द्वितीयश्चित्तोत्पादः /
SK
३. तृतीयश्चित्तोत्पादः
SK
सम्प्रति तृतीयचित्तोत्पादम् अधिकृत्योत्तच्यते-
SK
अशेषज्ञेयेन्धनदाहकाग्निप्रभोद्भवाद् भूमिरियं तृतीया /
SK
प्रभाकरी ................ प्रभाकरीति तु तृतीयबोधिसत्त्वभूमिनाम / पुनरियं कस्मात् प्रभाकरीति चेद् अन्वर्थमेव / तत्समये अशेषज्ञेयेन्धनदाहकज्ञानाग्नेः शान्त्यात्मकप्रभोद्भवाद् भूमिरियं प्रभाकरीत्युच्यते / तृतीयचित्तोत्पादस्य
SK
............... तं सुगतस्य पुत्रं तदा रविस्ताम्र इवाविभाति // Mअध्य्_३.१ //
SK
यथा सूर्यौदयावस्थायाः पूर्वं ताम्र इव अवभासते तथा बोधिसत्त्वे ऽपि तत्र ज्ञानम् आभासते / तादृग्ज्ञानाभासप्राप्तस्य तस्य बोधिसत्त्वस्य क्षान्तिपारमिताविशेषतादेशनार्थमुक्तम्-
SK
अकोपपात्रस्य हि तस्य कायात् सहास्थिमांसं यदि को ऽपि कृन्तात् / पलं पलं दीर्घनिकृन्तने ऽपि निकृन्तके क्षान्तिरतीव तस्य // Mअध्य्_३.२ //
SK
बोधिसत्त्वः परचित्तानुरक्षणार्थत्वात् तादृग्ज्ञानवत्वाच्च येन परद्वेषचित्ताधारत्वत्रिकालनिरर्थकत्वं संदेहास्पदत्वञ्च न स्युः तादृक्स्वभावकायवाक्चित्तावतारसाक्षी नास्ति / अकोपपात्रस्य यदि को ऽपि विशेषणम् / यदि तादृक्प्राणिना तस्य बोधिसत्त्वस्य कायतो सास्थिमांसं प्रतिपलं विरम्य विरम्य चिरं निकृन्तिते ऽपि तादृक्कृन्तकाय न केवलं चित्तव्यारोषो न भवति अपितु, तदकुशलकर्मप्रत्ययं नरकदुःखादिविशेषम् अवलम्ब्य बोधिसत्त्वे ऽतिविशिष्टा क्षान्तिरेव जायते / अपि च-
SK
यतः स धर्मान् प्रतिबिम्बरूपान् निरात्मदृक् पश्यति बोधिसत्त्वः / ततः कथं केन किमस्ति छिन्नं कदापि वा क्षान्तिमुपेति चासो // Mअध्य्_३.३ //
SK
तदकुशलकर्मप्रत्ययं नरकादिदुःखविशेषम् अवलम्ब्य न केवलं विशेषेण क्षान्तो ऽपितु यतः स सर्वधर्मान् अपि प्रतिबिम्बवत् पश्यन् आत्मात्मीयसंज्ञानिवृत्तः तस्माद् अपि क्षान्ततर एव / अपि शब्दस्तु क्षान्तिहेतुसंग्रहार्थम् / क्षान्तिरियं न केवलं बोधिसत्त्वानुरूपो धर्मो ऽपितु तदितरसकलगुणरक्षाहेतुभूतत्वाद् अक्षान्तवत् क्रोधव्यावृत्तिरपि युक्ता व्याख्याता-
SK
प्रकुप्यते यद्यपकारिणे ऽत्र किमत्र कोपो विनिवर्तितः स्यात् / अतो ऽत्र कोपो हि निरर्थको ऽस्मिन् परत्र लोके ऽपि विरुद्ध एव // Mअध्य्_३.४ //
SK
सम्प्रति दत्तरोषावसरो ऽयं परस्मै अपकारिणे क्रुध्यति चेत् तदानीन्तनापकाराविनिवृत्तेः, तदालम्बनः प्रतिकोपो निरर्थक एव, कृतकार्यत्वात् / अस्मै कोपो न केवलं वर्तमाने निष्प्रयोजनः, अपितु परलोको ऽपि विरुद्धो भवति, क्रोधोत्पादे सति अमनापपरिपाकाक्षेपः / यो दुश्चरितकर्मफलविशेषोपभोगवान् मोहात् परेणाहं प्रपीडित इति परिकल्पयन् अपकारिणे क्रोधमुत्पादयन् प्रत्यपकारेण तत्पीडनं पराजेतुकामश्चासौ / तस्यापि व्यावर्तनार्थमाह-
SK
पुराकृतस्याकुशलस्य कर्मफलं तु यो नष्टतया विवक्षुः / पराहितक्रोधत एव दुःखं कथं हि तद्बीजतयोपनीतम् // Mअध्य्_३.५ //
SK
यत् शस्त्रधारपातेन तत्काये साधिष्ठमपकारदुःखं शत्रुणोपसाधितम्, तदन्त्यफलभूतं पूर्वकृतप्राणातिपातकर्मणः प्राणिनां नरकतिर्यग्योनियमलोकादि परिपाकफलं घोरम् अनुभूयमानं निष्यन्दफलं यच्चावशिष्टक्लेशाशेषाप्रियफलनिवर्तनहेतुः / तत्कथं पुनः र्विपरिणाम्यैव, औषधस्य अन्तिममात्राया आभ्यन्तरे-व्याधिप्रतीकारहेतुत्वाद् व्यारोषपरापकाराभ्याम् अतीतामनापफलादपि अतिविशिष्टापकारफलसम्भावनाहेतुत्वेन आनीयते? अतस्तद् वैद्यस्य व्याधिचिकित्साहेतुभूततीक्ष्णशल्यकर्मक्रियावत् फलदुःखोत्पादहेतोरतिक्षान्तिर्युक्ता / अक्षान्तिस्तु न केवलम् अमनापपरिपाकातिक्षेपहेतुरपितु दीर्घसंगृहीतपुण्यसम्भारक्षयहेतुरप्यस्तीति देशनार्थमुक्तम्-
SK
दानेन शीलेन समुद्गतं यत् पुण्यं चितं कल्पशतेन नश्येत् / क्षणेन कोपाज्जिनपुत्रकेषु तस्मान् न कोपादपरं हि पापम् // Mअध्य्_३.६ //
SK
यदि बोधिसत्त्वो महात्मा सः पुद्गले विशिष्टे ऽविशिष्टे वापि क्लेशाभ्यासवशप्रवेशत्वाद् बोधिचित्तोत्पान्नेषु सत्यभूतम् असत्यभूतश्च दोषम् अधिकं प्रज्ञाप्य क्षणमात्रमपि क्रोधचित्तोत्पादे ऽपि तन्मात्रेणैव पूर्वोक्तदानशीलपारमिताभ्यासोत्पन्नशतकल्पसंचितपुण्यसंभारो नश्यति, अबोधिसत्त्वेन बोधिसत्त्वेभ्य उत्पादिते तु पुनः किं वक्तव्यम्? तस्मात् महासागरजलप्रमाणं कर्षगणनया निश्चेतुमशक्यं तथा तत्र परिपाकसीमा निश्चेतुमशक्यः / अत एवं सति अमनापफलाक्षेपं पुण्यक्षयकरञ्च पापम् अक्षान्तेः परम् अपरं नास्ति / ᳚मञ्जुश्रीः, क्रोधः क्रोध इति शतकल्पसंभृतपुण्योपक्षयकरः, तस्मात् क्रोधः क्रोध इत्याख्यातः /᳚ पुनश्च अक्षान्ताः परापकारासमर्थास्तु आत्मानमेव नाशयन्ति, समर्था निष्करुणाश्च स्वपरनाशकाः / अनेन तु जन्मत एव-
SK
कुदर्शनो ऽसज्जननीयमानो नयानयज्ञानविवेकहीनः / परस्मिन् काले निकायसभागं त्यक्त्वा सकोपनो दुर्गतिमेति शीघ्रम् /
SK
यद्येते ऽक्षान्तिदोषाः, तदा के वै तद्विपरीतक्षान्तिगुणा इति-
SK
गुणा विरुद्धाः कथिता ह्यकोपात् // Mअध्य्_३.७ //
SK
सुदर्शता सज्जनतागतिश्च नयानयज्ञानपटुत्वमस्ति / अनन्तरं देवमनुष्यजन्म क्षयं ह्यकोपादुपयाति पापम् // Mअध्य्_३.८ //
SK
ये ऽक्षान्तिदोषा उक्तास्तद्विरुद्धास्ते गुणाः क्षान्तेर्ज्ञेयाः / तद्यथा-
SK
पृथग्जनो जिनपुत्रश्च दोषान् गुणान् समालोक्य च कोपक्षान्त्योः / अपास्य कोपं तरसैव क्षान्तिं सदा श्रयेच्चार्यजनप्रशस्ताम् // Mअध्य्_३.९ //
SK
कोपक्षान्ती तु कोपक्षान्त्यैव / दोषगुणौ चापि दोषगुणौ / क्रोधक्षान्त्योर्दोषगुणाविति शब्दविनियोगः / क्रोधदोषस्तु यथोक्तः, विपर्ययेण क्षान्तिगुणम् अवगम्य अक्षान्तिं त्यक्त्वा सर्वकालं क्षान्तिरेव आश्रयणीया / अधुना क्षान्तिपारमिताप्रभेददेशनार्थम्-
SK
सम्बुद्धबौध्यै परिणामनापि त्रिष्वाश्रिता चेत् खलु लौकिकीयम् / बुद्धत्वाय परिणामनायामपि का क्षान्तिः, केन क्षान्तिः, केषु प्राणिषु क्षान्तिरेतत्त्रिष्वाश्रयेषु सत्सु इयं क्षान्तिपारमिता लौकिकीति / अनाश्रिता स्यात् खलु सैव बुद्धैरलौकिकी पारमितेति दिष्टा // Mअध्य्_३.१० //
SK
तस्यां भूमौ बोधिसत्त्वस्य क्षान्तिपारमिता यथा विशुद्धयति तथैव-
SK
अभिज्ञतां ध्यानमितो ऽत्र भूमौ जिनस्य पुत्रो हतरागवैरः / भवत्यसौ लौकिककामरागौ निहन्तुमत्यन्ततया च शक्तः // Mअध्य्_३.११ //
SK
ध्यानमिति ध्यानशब्दस्तु उपलक्षणार्थः, समापत्त्यप्रमाणानामपि ग्रहणं भवति / यथातृतीयबोधिसत्त्वभूमावुक्तवत्- ᳚सो ऽस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो धर्मानुधर्मप्रतिपत्तिहेतो र्विविक्तं कामैर्विविक्तं पापकैरकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति / स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसंपद्य विहरति / स प्रीतेर्विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन् / सुखं न कायेन प्रतिसंवेदयति यत्तदार्या आचक्षन्ते- उपेक्षकः स्मृतिमान् / सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुसंपद्य विहरति / स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति /᳚ इति, एतानि चत्वारि ध्यानानि / चतस्त्र आरूप्यसमापत्तयस्तु- तद्यथा- ᳚स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनन्तकमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य विहरति / स सर्वश आकाशानन्त्यायतनसमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान्नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरति / स सर्वश आकिंचन्यायतनसमतिक्रमान्नैव संज्ञा नासंज्ञापि इति संज्ञानासंज्ञायतनमुपसंपद्य विहरति /᳚ इमाश्चतस्त्र आरूप्यसमापत्तयः / चत्वारो ऽप्रमाणास्तु एवम्- ᳚स मैत्रीसहगतेन चित्तेन विपुलेन महदतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्याबाधेन सर्वत्रानुगतेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकं स्फरित्वोपसंपद्य विहरति / एवं करुणासहगतेन चित्तेन / मुदितासहगतेन चित्तेन / उपेक्षासहगेतन चित्तेन विहरति /᳚
SK
पञ्चाभिज्ञास्तु, तद्यथा- ᳚सो ऽनेकविधां ऋद्धिविधिं प्रत्यनुभवति / पृथिवीमपि कम्पयति / एको ऽपि भूत्वा बहुधा भवति / बहुधापि भूत्वैको भवति / आविर्भावं तिरोभावमपि प्रत्यनुभवति / तिरः कुडयं तिरःप्राकारं पर्वतमप्यसज्जन् गच्छति तद्यथापि नाम आकाशे / आकाशे ऽपि पर्यङ्केन क्रामति तद्यथापि नाम पक्षिशकुनिः / पृथिव्यामप्युन्मज्जननिमज्जनं करोति तद्यथापि नाम उदके / उदके ऽप्यमज्जन् गच्छति तद्यथापि पृथिव्याम् / धूमयति प्रज्वलति, तद्यथापि नाम महानग्निस्कन्धः / स्वकायादपि महावारिधारा उत्सृजति तद्यथापि नाम महामेघः / याभिर्वारिधाराभिरयं त्रिसाहस्त्रमहासाहस्रो लोकधातुरादीप्तः प्रदीप्तः संप्रज्वलितो ऽग्निना एकज्वालीभूतो निर्वाप्यते / इमावपि चन्द्रसूर्यावेवंमहर्द्धिको एवंमहानुभावो पाणिना परामृशति परिमार्ष्टि यावद् ब्रह्मलोकमपि कायेन वशं वर्तयति /᳚ इत्येते ऋद्धयभिज्ञाः /
SK
᳚स दिव्येन श्रोत्रधातुना [विशुद्धेना] तिक्रान्तमानुष्यकेन उभयान् शब्दान् शृणोति दिव्यान् मानुष्यकान्, सूक्ष्मानौदारिकांश्च / ये दूरे ऽन्तिके वा अन्तशो दंशमशककीटमक्षिकाणामपि शब्दान् शृणोति / [एषा दिव्या श्रोत्राभिज्ञा] //᳚
SK
᳚स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति / सरागं चित्तं सरागचित्तमिति यथाभूतं प्रजानाति / विरागं चित्तं विरागचित्तमिति प्रजानाति / सदोषं, विगतदोषं, समोहं, विगतमोहं, सक्लेशं, निःक्लेशं, परीत्तं, विपुलं, महदतं, अप्रमाणं, संक्षिप्तं, [विस्तीर्णं], समाहितं, असमाहितं, विमुक्तं, अविमुक्तं, साङ्गनम्, अनङ्गनम्, औदारिकं चित्तमौदारिकचित्तमिति यथाभूतं प्रजानाति / अनौदारिकं चित्तमनौदारिकं चित्तमिति यथाभूतं प्रजानाति / इति परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति / [इत्येषा परचित्तज्ञानाभिज्ञा] //᳚
SK
᳚सो ऽनेकविधं पूर्वनिवासमनुस्मरति / एकामपि जातिमनुस्मरति / द्वे तिस्त्रञ्चतस्त्रः पञ्च दश विंशतिः त्रिंशतं चत्वारिंशतं पञ्चाशतं जातिशत[सहस्त्र]मनुस्मरति / अनेकान्यपि जातिशतानि / [अनेकान्यपि जातिसहस्त्राणि] अनेकान्यपि जातिशतसहस्त्राणि / संवर्तकल्पमपि विवर्तकल्पमपि / अनेकानपि संवर्तविवर्तकल्पानप्यनुस्मरति / कल्पशतमपि कल्पसहस्त्रमपि कल्पशतसहस्त्रमपि कल्पकोटीमपि कल्पकोटीशतमपि कल्पकोटीसहस्त्रमपि कल्पकोटीशतसहस्रमपि यावदनेकान्यपि कल्पकोटीनियुतशतसहस्राण्यनुस्मरति-अमुन्नाहमासं एवंनामा / एवंगोत्रः एवंजातिः एवमाहार एवमायुःप्रमाणः एवंचिरस्थितिकः एवं सुखदुःखप्रतिसंवेदी / सो ऽहं ततश्च्युतो ऽत्रोपपन्नः / ततश्च्युत इहोपपन्नः / इति साकारं सोद्देशं सनिमित्तमनेकविधं पूर्वनिवासमनुस्मरित / [एषा पूर्वनिवासानुस्मृत्यभिज्ञा] //᳚
SK
᳚स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् प्रणीतान् हीनान् / यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति- इमे भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता वाग्दुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागताः आर्याणामपवादका मिथ्यादृष्टयः मिथ्यादृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातनिरयेषूपपद्यन्ते / इमे पुनर्भवन्तः सत्त्वाः कायसुचरितेन समन्वागता वाक्सुचरितेन समन्वागता मनःसुचरितेन समन्वागता आर्याणामनपवादकाः / सम्यग्दृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणात्सुगतौ स्वर्गे देवलोकेषूपपद्यन्त इति [प्रजानाति / एवं] दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमनुष्येण (च्यवमानानुपपद्यमानान्) साकारं सोद्देशं सनिमित्तं सत्त्वान् पश्यति / यथाकर्मोपगतान् सत्त्वान् यथाभूतान् प्रजानाति / स इमानि ध्यानानि विमोक्षान् समाधीन् समापत्तीश्च समापद्यते, व्युत्तिष्ठते / न च तेषां वशेनोपपद्यते ऽन्यत्र यत्र बोध्यङ्गपरिपूरिं पश्यति तत्र संचिन्त्य प्रणिधानवशेनोपपद्यते / तत्कस्य हेतो? तथा हि तस्य बोधिसत्त्वस्योपायकौशल्याभिनिर्हता चित्तसंततिः //᳚
SK
अत एव अस्यां भूमौ बोधिसत्त्वे ध्यानम् अभिज्ञाश्च सम्भवन्ति कथं सदा लौकिकरागद्वेषपरिक्षयः? चपदं तु अनुक्तसङ्ग्रहार्थम्, इति तस्य मोहस्यापि परिक्षयो भवति- कथम् इति, इदमपि यथा सूत्रे- ᳚स सर्वधर्माणामसंक्रान्तितां च अविनाशितां च प्रतीत्य प्रत्ययतया व्यवलोकयति // तस्य भूयस्या मात्रया सर्वाणि कामबन्धनानि तनूनि भवन्ति / सर्वाणि रूपबन्धनानि सर्वाणि भवबन्धनानि सर्वाण्यविद्याबन्धनानि तनूनि भवन्ति / दृष्टिकृतबन्धनानि च पूर्वमेव प्रहीणानि भवन्ति / तस्य अस्य प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अनेकान् कल्पान् यावदनेकानि कल्पकोटिनियुतशतसहस्त्राणि ....पेयालं.....अनुपचयं मिथ्यारागः प्रहाणं गच्छति, अनुपचयं मिथ्यादोषः प्रहाणं गच्छति, अनुपचयं मिथ्यामोहः प्रहाणं गच्छति /᳚ इत्युक्तम् / अतस्तस्य रागो द्वेषो मोहश्च परिक्षीणो भवति / कथं हि ते सदा लौकिककामरागात् उपहन्तुं समर्था भविष्यन्तीति यथा- ᳚इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रभाकरी नाम तृतीया बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन इन्द्रो भवति देवराजस्त्रिदशाधिपतिः कृती प्रभुः सत्त्वानां कामरागविनिवर्तनोपायोपसंहाराय कुशलः सत्त्वान् कामपङ्कादभ्युद्धर्तुम्᳚, इत्युक्तम् / अतः स जिनपुत्रो लौकिककामरागान् उपहन्तुं समर्थो भविष्यति / एवम् अस्य बोधिसत्त्वस्य तृतीयबोधिसत्त्वभूमौ विशुद्धक्षान्तिपारमिताध्यानापरिमाणसमापत्यभिज्ञा रागादिपरिक्षयस्य च निश्चितप्राप्तिर्भविष्यतीत्युक्त्वा अधुना तु क्षान्तिपारमितापर्यन्तं पारमितात्रयाश्रयविशेषं सम्भारस्वभावं फलपरिसिद्धिव्यवस्थां च प्रकाशयितुम् आख्यायते- इमे हि दानादिमयाः त्रिधर्मा गृहिभ्य उक्ताः सुगतैस्तु भूयः / त एव पुण्येत्यपि संभृता हि सम्बुद्धरूपात्मककायहेतुः // Mअध्य्_३.१२ //
SK
बोधिसत्त्वा एव यथोक्तदानाद्याश्रयाः सन्ति, तथापि गृहस्थप्रव्रजितभेदेन तत्र द्वयोः संभवं विचिन्त्य तथोक्तम् / तत्र गृहस्थेषु प्रायेण दानादयस्त्रयो धर्माः सुसाध्याः, परिव्राजकेषु च वीर्यं, ध्यानं तथा प्रज्ञा / न चेतरेतरासंभावना / बुद्धत्वहेतुसम्भारौ तु द्वौ स्तः, स चासौ पुण्यसंभारो ज्ञानसंभारश्च / तत्र पुण्यसम्भारस्तु तास्तिस्त्रः पारमिताः सन्ति, ज्ञानसम्भारश्च ध्यानं प्रज्ञा च / वीर्यं तूभयहेतुरिति व्यवस्था / तत्र यः पुण्यसम्भारः स संबुद्धानां भगवतां शतपुण्यलक्षणस्य अदभुतस्य अचिन्त्यस्य विश्वरूपमयस्य रूपकायस्य हेतुः / धर्मस्वभावकायस्य अनुत्पादलक्षणस्य हेतुस्तु ज्ञानसम्भारः / सम्प्रति आश्रयादिमाहात्म्येन स्वमहत्वम् उक्त्वा तृतीयबोधिसत्त्वभूम्यवस्था समाख्यायते-
SK
प्रभाकरीयं जिनपुत्रसूर्ये तमः स्वकं पूर्वतरं विनाश्य / समीहते लोकतमो विहन्तुं /
SK
सुगतपुत्रसूर्यस्थितेयं प्रभाकरीभूमिः स्वाश्रिताम् अविद्यां आत्मोद्भवविघ्नभूतां जायमानावस्थायामेव विनाश्य तत्प्रकारोपदेशेन तद्भिन्नानां तृतीयभूम्युद्भवविघ्नान्धकारं विहन्तुं समीहते / स बोधिसत्त्वः-
SK
न चात्र कोपो भुवि तीक्ष्णभूते // Mअध्य्_३.१३ //
SK
स तु दोषान्धकाराणां प्रतिबन्धकानां नाशनेन सूर्यवद् अतितीक्ष्णतावतारे ऽपि दोषयुक्तजनेभ्यो न क्रुध्यति / क्षान्तेरतिविशिष्टाभ्यासात् करुणया सन्ततेः स्निग्धत्वाच्च /
SK
मध्यमकावतारभाष्ये तृतीयश्चित्तोत्पादः /
SK
४. चतुर्थश्चित्तोत्पादः
SK
सम्प्रति दानशीलक्षान्तिपारमिताभ्यो वीर्यपारमिताया अतिरेकदेशनाद्वारेण चतुर्थचित्तोत्पादमधिकृत्य आख्यायते-
SK
गुणा अशेषा अनुगम्य वीर्यं द्वयोस्तु हेतुर्मतिपुण्यराश्योः / यतो भवेत् प्रोज्ज्वलमेव वीर्यम् अर्चिष्मती भूः खलु सा चतुर्थी // Mअध्य्_४.१ //
SK
कुशलकर्मानुत्साहमये तु सर्वथा दानादाप्रवृत्तेः सर्वगुणोत्पादो ऽसंभवः / पूर्वोक्तगुणसञ्चयसमुत्सुके तु प्राप्ताप्राप्तयोर्वृद्धिप्राप्तिसंभवाद् यस्य कस्यचिद् गुणस्य हेतुस्तु वीर्यमेव अस्ति / सम्भारद्वयहेतुस्तु पूर्वत आख्यातः / तद् वीर्यं स्वगुणपरिशुद्धिद्वारा यस्यां भूमावधिज्वलति सा तु चतुर्थी बोधिसत्वभूमिः अर्चिष्मतीति स्यात् / अपि च, कस्य हेतोरर्चिष्मतीति आख्यायते-नामावतारहेतुदेशनार्थम्-
SK
सम्बोधिपक्षस्य विभावनातो जातो ऽवभासः सुगतस्य पुत्रे / ताम्रप्रभाया अधिकं विभाति
SK
इत्युक्तम् / एवम् अस्यां भूमौ बोधिसत्त्वे सप्तत्रिंशद् बोधिपाक्षिकधर्मभावनेन पूर्वाख्यातताम्रप्रभाया विशिष्टो ऽवभास उपपद्यते / तस्मात् सम्यग्ज्ञानाग्निप्रभोपपादेन सा बोधिसत्त्वभूमिरर्चिष्मतीत्याख्यायते / सप्तत्रिंशद् बोधिपाक्षिका धर्मस्तु एवम्- चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गश्चेत्युक्ताः / तत्र चत्वारि स्मृत्युपस्थानानि- ᳚जिनपुत्रा, बोधिसत्त्वो ऽस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ प्रतिष्ठितो ऽध्यात्मं काये कायानुदर्शी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोको ऽभिध्यादौर्मनस्ये / बहिर्धा काये (कायानुदर्शी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये) अध्यात्मं बहिर्धा काये / एवमेवाध्यात्मं वेदनासु बहिर्धा वेदनासु अध्यात्मं बहिर्धा वेदनासु / एवमध्यात्मं चित्ते बहिर्धा चित्ते ऽध्यात्मं बहिर्धा चित्ते / अध्यात्मं धर्मेषु धर्मानुदर्शी (विहरति आतापी संप्रजानन् स्मृतिमान्) बहिर्धा धर्मेषु धर्मानुदर्शी ... एवमध्यात्मं बहिर्धा धर्मेषु... /᳚ इति विस्तृतनिर्देशवत् /
SK
चत्वारि सम्यक्प्रहाणानि यथा- ᳚सो ऽनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं प्रगृह्णाति सम्यक्प्रणिदधाति / उत्पन्नानां पापकानामकुशलानां धर्माणां
SK
प्रहाणाय[इतिपूर्ववत्] / अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय [इतिपूर्ववत्] / उत्पन्नानां कुशलानां धर्माणां स्थितये ऽसंप्रमोषाय वैपुल्याय भूयोभावाय (भावनाय) परिपूरये [च्छन्दं जनयति, व्यायच्छते- तु पूर्ववत्] /᳚
SK
चत्वारो ऋद्धिपादाः ᳚छन्दसमाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं भावयति विवेकनिश्चितं विरागनिश्चितं निरोधनिश्चितं व्यवसर्गपरिणतं [तद्वत्] वीर्य [समाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं] भावयति चित्त [समाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं] भावयति मीमांसा [समाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं] भावयतीत्यादि पूर्ववत् /᳚
SK
पञ्चेन्द्रियाणि तद्यथा- ᳚स श्रद्धेन्द्रियं भावयति [इति तद्वत्] विवेकनिश्चितं...वीर्येन्द्रियं....स्मृतीन्द्रियं....समाधीन्द्रियं...प्रज्ञेन्द्रियं...स / ᳚भावयति विरागनिश्चितं इत्यादि / पञ्चबलानि तु तान्येवासपक्षपराजितानि पूर्ववत् / सप्त बोध्यङ्गानि- तद्यथा- ᳚(स) स्मृति-संबोध्यङ्गं भावयति, [इत्यादि] धर्मप्रविचय [बोध्यङ्गं] वीर्य [संबोध्यङ्गं] प्रीति [संबोध्यङ्गं] प्रस्त्रब्धि-[संबोध्यङ्गं] समाधि [संबोध्यङ्गं] उपेक्षा [संबोध्यङ्गं भावयति इत्यादि पूर्ववत्] /᳚
SK
आर्याष्टाङ्गमार्गस्तु यथा- ᳚सम्यक्दृष्टिं भावयति [विरागनिश्चितं निरोध- निश्चितं व्यवसर्गपरिणतं] सम्यक्सङ्कल्पं [अपि पूर्ववत्] सम्यग्वाचं........ सम्यक्कर्मान्तं......सम्यगाजीवं......सम्यग्व्यायामं.....सम्यक्स्मृतिं...सम्यक्समाधिं /᳚ [भावयति इत्यादि पूर्ववत् /] अस्यां भूमौ न केवलं बोधिपाक्षिकभावनोत्पादो ऽपितु-
SK
संक्षीयते चात्मदृशो ऽनुषङ्गः // Mअध्य्_४.२ //
SK
अस्यां भूमौ तस्य आत्मदृष्टिक्षयो ऽपि भवति- तथा- ᳚जिनपुत्रा, बोधिसत्त्वस्य अस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ स्थितस्य यानीमानि सत्कायदृष्टिपूर्वङ्गमानि आत्मसत्त्वजीवपोष (पुरुष) पुदलस्कन्धधात्वायतनाभिनिवेशसमुच्छ्रितानि उन्मर्ज्जितानि निमज्जितानि विचिन्तितानि वितर्कितानि केलायितानि ममायितानि धनायितानि निकेतस्थानानि, तानि सर्वाणि विगतानि भवन्ति स्म /᳚ इत्युक्तम् /
SK
इति मध्यमकावतारभाष्ये ऽर्चिष्मती नाम चतुर्थश्चित्तोत्पादः /
SK
५. पञ्चमश्चित्तोत्पादः
SK
सम्प्रति पञ्चमचित्तोत्पादाधिकारः-
SK
स दुर्जयाभूमिगतो महात्मा क्षमो न जेतुं ह्यपि सर्वमारैः /
SK
पञ्चमबोधिसत्त्वभूमौ स्थितो बोधिसत्त्वस्तु सर्वलोकधातुस्थितैर्देवपुत्रमारैरपि जेतुं न क्षमः तत्परेषां मारकिङ्करादीनां कः पुनर्वादः? अत एव अस्या भूमेर्नाम सुदुर्जयेति / बोधिसत्त्वस्तु-
SK
ध्याने विशिष्टे सुमतेश्च सत्यसूक्ष्मस्वभावाधिगमे ऽतिदक्षः // Mअध्य्_५.१ //
SK
ज्ञातव्यः / तत्र दशपारमितासु ध्यानपारमितैव अतिविशिष्टा भवति / सुमतीति आर्याः / तेषां सत्यानि सुमतिसत्यानि आर्यसत्यानीत्यर्थः / स्वभावस्तु स्वरूपम् / सूक्ष्मज्ञानाधिगतस्वभावस्तु सूक्ष्मस्वभावः, भद्रमतिसत्यानां सूक्ष्मस्वरूपस्य ज्ञाने ऽतिदक्षो भवति / चतुरार्यसत्यानि तु दुःखसमुदयनिरोधमार्गाः / भगवता सत्यं तु द्वयमेव दिष्टमिति तद्यथा- संवृतिसत्यं परमार्थसत्यञ्च / यथा-पितापुत्रसमागमसूत्रे-
SK
सत्य इमे दुवि लोकविदूनां दिष्ट स्वयं अश्रुणित्व परेषाम् / संवृति या च तथा परमार्थो सत्यु न सिध्यति किं च तृतीयु // इत्युक्तम् / मध्यमकशास्त्रे ऽपि-
SK
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना / लोकसंवृतिसत्यं च सत्यं च परमार्थतः // इत्युक्तम् / अतः क्वसत्यद्वयातिरिक्तानि अन्यानि चतुरार्यसत्यानि सन्तीति चेत्- आरव्यायते- यद्यपि एवम्, तथापि हेयोपादेययोः पृथक् पृथक् हेतुफलभावदेशनार्थंम् अत्र चतुरार्यसत्यानि उक्तानि / तत्र हेयपक्षस्तु संक्लेशः / तत्फलं च दुःखसत्यम् / हेतुश्च समुदयसत्यम् / उपादेयपक्षस्तु व्यवदानम्, तस्य फलं निरोधसत्यम् / तत्प्राप्तिहेतुर्मार्गसत्यम् / तत्र दुःखसमुदयमार्गसत्यानां संवृतिसत्ये ऽन्तर्भावः / निरोधसत्यं परमार्थसत्यस्वरूपम् / तथापरं सत्यं यत् किंचित् स्यात् तस्यापि यथायोगं सत्यद्वये ऽन्तर्भाव एव निश्चेयः / किं चतुःसत्यातिरिक्तमपरमपि सत्यमस्तीति चेत्? आख्यातम् / यथा-बोधिसत्त्वपञ्चमभूमौ - ᳚इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति / अयं दुःखसमुदय आर्यसत्यमिति यथाभूतं प्रजानाति / अयं दुःखनिरोध आर्यसत्यमिति यथाभूतं प्रजानाति / इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति / स संवृतिसत्यकुशलश्च भवति / परमार्थसत्यकुशलश्च भवति / लक्षणसत्यकुशलश्च भवति / विभागसत्यकुशलश्च भवति / निस्तीरणसत्यकुशलश्च भवति / वस्तुसत्यकुशलश्च भवति / प्रभवसत्यकुशलश्च भवति / क्षयानुत्पादसत्यकुशलश्च भवति / मार्गज्ञानावतारसत्यकुशलश्च भवति / सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतया यावत्तथागतज्ञानसमुदयसत्यकुशलश्च भवति / स परसत्त्वानां यथाशयसंतोषणात्संवृतिसत्यं प्रजानाति / एकनयसमवसरणात्परमार्थसत्यं प्रजानाति / स्वसामान्यलक्षणानुबोधाल्लक्षणसत्यं प्रजानाति / धर्मविभागव्यवस्थानानुबोधाद्विभागसत्यं प्रजानाति / स्कन्धधात्वायतनव्यवस्थानानुबोधान्निस्तीरणसत्यं प्रजानाति / चित्तशरीरप्रपीडनोपनिपातितत्वाद्वस्तुसत्यम्, गतिसंधिसंबन्धनत्वात्प्रभवसत्यम्, सर्वज्वरपरिदाहात्यन्तोपशमात्क्षयानुत्पादसत्यम्, [अद्वयानुत्पादसत्यम्,] अद्वयाभिनिर्हारान्मार्गज्ञानावतारसत्यम्, सर्वाकाराभिसंबोधः सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतयायावत्तथागतज्ञानसमुदयसत्यं प्रजानाति /᳚ इत्युक्तवत् /
SK
इति मध्यमकावतारभाष्ये सुदुर्जयाख्यः पञ्चमश्चित्तोत्पादः /
SK
[Cहप्तेर् ६ नोत् अवैलब्ले अत् प्रेसेन्त्]

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Madhyamakāvatāra 1-5 (sa_madhyamakAvatAra-1-5.htm).

Source