SK
नरेश्वरपरीक्षा ब्य् सद्योज्योति Kष्ट्ष् ४५ श्रीमद्रामकण्ठाचार्यकृतया प्रकाश टीकया संवलिता कुलपतेः प्रो. राममूर्तिशर्मणः प्रस्तावनया विभूषिता सम्पादकः आचार्य श्रीरामजीमालवीयः आचार्योऽध्यक्षश्च सांख्य- योगतन्त्रागमविभागस्य एवं प्रति- कुलपतिः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य वाराणसी वाराणस्याम् २०५६ तमे वैक्रमाब्दे १९२१ तमे शकाब्दे २००० तमे ख्रैस्ताब्दे श्रीमदाचार्यसद्योज्योतिर्विरचिता नरेश्वरपरीक्षा श्रीनारायणकण्ठसूनुश्रीमद्रागकण्ठाचार्यविरचित- प्रकाशाख्यटीकया संवलिता प्रथमं काण्डम् अथ मेयाब्धिरत्नस्य शङ्करस्यामितद्युतेः | परीक्षां लेशतो वच्मि पुंस्परीक्षापुरस्सरम् || १ || तं शक्तिशक्तिमद्रूपं नत्वा नारेश्वरं परम् | नरेश्वरपरीक्षायामक्षरार्थः प्रकाश्यते || २ || प्रकरणस्य तावदस्य प्रयोजनमाह अथ इति, ईश्वरपरीक्षा वक्तव्यता अधिक्रियमाणाभिधेया तस्याः प्रयोजनं तु परमेश्वरविषयज्ञानोत्पादः परस्य श्रेयसः साधनम्- इति वक्ष्यते प्रकरणसमाप्तौ अत्र तु समस्ततत्त्वभुवनादिप्रमेयसागरसारत्वेन भगवतो रत्नरूपतया, शङ्करपदेन तदेवाह श्रेयस्करो हि सर्वैश्चिन्तामणिरिव परीक्ष्यन्ते | सम्बन्धश्चोपायोपेयलक्षणोऽर्थसिद्धिः- इत्येवं सर्वस्य प्रेक्षावतोऽत्र प्रवृत्तिसिद्धिः | अनेन दर्शनान्तरसिद्धानां हरिहरहिरण्यगर्भादीनामीश्वरत्वेऽपि अशङ्करत्वात् न प्रेक्षावन्तः परीक्षायां प्रवर्तन्त इति दर्शयति | अथ कथं तस्यैव तथाभूतत्वं यतोऽमितद्युतिः | यस्तु प्रकृतिः