एवं मया श्रुतम् | एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं द्वादशभिर्भिक्षुशतैः सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैरभिज्ञाताभिज्ञातैर्महाश्रावकैः | तद्यथा - आयुष्मता च आज्ञातकौण्डिन्येन, आयुष्मता च अश्वजिता, आयुष्मता च बाष्पेण, आयुष्मता च महानाम्ना, आयुष्मता च भद्रिकेण, आयुष्मता च महाकाश्यपेन, आयुष्मता च उरुबिल्वकाश्यपेन, आयुष्मता च नदीकाश्यपेन, आयुष्मता च गयाकाश्यपेन, आयुष्मता च शारिपुत्रेण, आयुष्मता च महामौद्गल्यायनेन, आयुष्मता च महाकात्यायनेन, आयुष्मता च अनिरुद्धेन, आयुष्मता च रेवतेन, आयुष्मता च कप्फिनेन, आयुष्मता च गवांपतिना, आयुष्मता च पिलिन्दवत्सेन, आयुष्मता च बक्कुलेन, आयुष्मता च महाकौष्ठिलेन, आयुष्मता च भरद्वाजेन, आयुष्मता च महानन्देन, आयुष्मता च उपनन्देन, आयुष्मता च सुन्दरनन्देन, आयुष्मता च पूर्णमैत्रायणीपुत्रेण, आयुष्मता च सुभूतिना आयुष्मता च राहुलेन | एभिश्चान्यैश्च महाश्रावकैः - आयुष्मता च आनन्देन शैक्षेण | अन्याभ्यां च द्वाभ्यां भिक्षुसहस्राभ्यां शैक्षाशैक्षाभ्याम् | महाप्रजापतीप्रमुखैश्च षड्भिर्भिक्षुणीसहस्रैः |
SK
यशोधरया च भिक्षुण्या राहुलमात्रा सपरिवारया | अशीत्या च बोधिसत्त्वसहस्रैः सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैर्यदुत अनुत्तरायां सम्यक्संबोधौ, धारणीप्रतिलब्धैर्महाप्रतिभानप्रतिष्ठितैरवैवर्त्यधर्मचक्रप्रवर्तकैर्बहुबुद्धशतपर्युपासितैर्बहुबुद्ध शतसहस्रावरोपितकुशलमूलैर्बुद्धशतसहस्रसंस्तुतैर्मैत्रीपरिभावितकायचित्तैस्तथागतज्ञानावतारणकुशलैर्महाप्रज्ञैः प्रज्ञापारमितागतिंगतैर्बहुलोकधातुशतसहस्रविश्रुतैर्बहुप्राणिकोटीनयुतशतसहस्रसंतारकैः | तद्यथा - मञ्जुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन, अवलोकितेश्वरेण च महास्थामप्राप्तेन च सर्वार्थनाम्ना च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च रत्नपाणिना च भैषज्यराजेन च भैषज्यसमुद्गतेन च व्यूहराजेन च प्रदानशूरेण च रत्नचन्द्रेण च रत्नप्रभेण (Vऐद्य २) च पूर्णचन्द्रेण च महाविक्रामिणा च अनन्तविक्रामिणा च त्रैलोक्यविक्रामिणा च महाप्रतिभानेन च सततसमिताभियुक्तेन च धरणीधरेण च अक्षयमतिना च पद्मश्रिया च नक्षत्रराजेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन, सिंहेन च बोधिसत्त्वेन महासत्त्वेन | भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः सार्धम् | तद्यथा - भद्रपालेन च रत्नाकरेण च सुसार्थवाहेन च नरदत्तेन च गुह्यगुप्तेन च वरुणदत्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिणा च अनुपममतिना च सूर्यगर्भेण च धरणींधरेण च | एवंप्रमुखैरशीत्या च बोधिसत्त्वसहस्रैः सार्धम् | शक्रेण च देवानामिन्द्रेण सार्धं विंशतिदेवपुत्रसहस्रपरिवारेण | तद्यथा - चन्द्रेण च देवपुत्रेण सूर्येण च देवपुत्रेण समन्तगन्धेन च देवपुत्रेण रत्नप्रभेण च देवपुत्रेण अवभासप्रभेण च देवपुत्रेण | एवंप्रमुखैर्विशत्या च देवपुत्रसहस्रैः | चतुर्भिश्च महाराजैः सार्धं त्रिंशद्देवपुत्रसहस्रपरिवारैः | तद्यथा - विरूढकेन च महाराजेन, विरूपाक्षेण च महाराजेन, धृतराष्ट्रेण च महाराजेन, वैश्रवणेन च महाराजेन | ईश्वरेण च देवपुत्रेण च महेश्वरेण च देवपुत्रेण त्रिंशद्देवपुत्रसहस्रपरिवाराभ्याम् | ब्रह्मणा च सहांपतिना सार्धं द्वादशब्रह्मकायिकदेवपुत्रसहस्रपरिवारेण | तद्यथा - शिखिना च ब्रह्मणा ज्योतिष्प्रभेण च ब्रह्मणा | एवंप्रमुखैर्द्वादशभिश्च ब्रह्मकायिकदेवपुत्रसहस्रैः | अष्टाभिश्च नागराजैः सार्धं बहुनागकोटीशतसहस्रपरिवारैः | तद्यथा - नन्देन च नागराजेन, उपनन्देन च नागराजेन, सागरेण च वासुकिना च तक्षकेण च मनस्विना च अनवतप्तेन च उत्पलकेन च नागराजेन | चतुर्भिश्च किन्नरराजैः सार्धं बहुकिन्नरकोटीशतसहस्रपरिवारैः | तद्यथा - द्रुमेण च किन्नरराजेन, महाधर्मेण च किन्नरराजेन, सुधर्मेण च किन्नरराजेन, धर्मधरेण च किन्नरराजेन | चतुर्भिश्च गन्धर्वकायिकदेवपुत्रैः सार्धं बहुगन्धर्वशतसहस्रपरिवारैः | तद्यथा - मनोज्ञेन च गन्धर्वेण मनोज्ञस्वरेण च मधुरेण च मधुरस्वरेण च गन्धर्वेण | चतुर्भिश्चासुरेन्द्रैः सार्धं बह्वसुरकोटीशतसहस्रपरिवारैः | तद्यथा - बलिना च असुरेन्द्रेण, खरस्कन्धेन च असुरेन्द्रेण, वेमचित्रिणा च असुरेन्द्रेण, राहुणा च असुरेन्द्रेण | चतुर्भिश्च गरुडेन्द्रैः सार्धं बहुगरुडकोटीशतसहस्रपरिवारैः | तद्यथा - महातेजसा च गरुडेन्द्रेण, महाकायेन च महापूर्णेन च महर्द्धिप्राप्तेन च गरुडेन्द्रेण | राज्ञा च अजातशत्रुणा मागधेन वैदेहीपुत्रेण सार्धम् ||
अपि खलु पुनः शारिपुत्र, भविष्यसि त्वमनागते ऽध्वनि अप्रमेयैः कल्पैरचिन्त्यैरप्रमाणैर्बहूनां तथागतकोटीनयुतशतसहस्राणां सद्धर्मं धारयित्वा विविधां च पूजां कृत्वा इमामेव बोधिसत्त्वचर्यां परिपूर्य पद्मप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि (Vऐद्य ४८) विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ||
SK
तेन खलु पुनः शारिपुत्र समयेन तस्य भगवतः पद्मप्रभस्य तथागतस्य विरजं नाम बुद्धक्षेत्रं भविष्यति समं रमणीयं प्रासादिकं परमसुदर्शनीयं परिशुद्धं च स्फीतं च ऋद्धं च क्षेमं च सुभिक्षं च बहुजननारीगणाकीर्णं च मरुप्रकीर्णं च वैडूर्यमयं सुवर्णसूत्राष्टापदनिबद्धम् | तेषु च अष्टापदेषु रत्नवृक्षा भविष्यन्ति सप्तानां रत्नानां पुष्पफलैः सततसमितं समर्पिताः ||
SK
सो ऽपि शारिपुत्र पद्मप्रभस्तथागतो ऽर्हन् सम्यक्संबुद्धस्त्रीण्येव यानान्यारभ्य धर्मं देशयिष्यति | किंचापि शारिपुत्र स तथागतो न कल्पकषाय उत्पत्स्यते, अपि तु प्रणिधानवशेन धर्मं देशयिष्यति | महारत्नप्रतिमण्डितश्च नाम शारिपुत्र स कल्पो भविष्यति | तत्किं मन्यसे शारिपुत्र केन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते? रत्नानि शारिपुत्र बुद्धक्षेत्रे बोधिसत्त्वा उच्यन्ते | ते तस्मिन् काले तस्यां विरजायां लोकधातौ बहवो बोधिसत्त्वा भविष्यन्त्यप्रमेया असंख्येया अचिन्त्या अतुल्या अमाप्या गणनां समतिक्रान्ता अन्यत्र तथागतगणनया | तेन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते ||
तद्यथापि नाम शारिपुत्र इह स्यात् कस्मिंश्चिदेव ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वा राष्ट्रे वा राजधान्यां वा गृहपतिर्जीर्णो वृद्धो महल्लको ऽभ्यतीतवयो ऽनुप्राप्त आढ्यो महाधनो महाभोगः | महच्चास्य निवेशनं भवेदुच्छ्रितं च विस्तीर्णं च चिरकृतं च जीर्णं च द्वयोर्वा त्रयाणां वा चतुर्णां वा पञ्चानां वा प्राणिशतानामावासः | एकद्वारं च तन्निवेशनं भवेत् | तृणसंछन्नं च भवेत् | विगलितप्रासादं च भवेत् | पूतिस्तम्भमूलं च भवेत् | संशीर्णकुड्यकटलेपनं च भवेत् | तच्च सहसैव महाताग्निस्कन्धेन सर्वपार्श्वेषु सर्वावन्तं निवेशनं प्रदीप्तं भवेत् | तस्य च पुरुषस्य बहवः कुमारकाः स्युः पञ्च वा दश वा विंशतिर्वा | स च पुरुषस्तस्मान्निवेशनाद् बहिर्निर्गतः स्यात् ||
SK
अथ खलु शारिपुत्र स पुरुषस्तं स्वकं निवेशनं महाताग्निस्कन्धेन समन्तात् संप्रज्वलितं दृष्ट्वा भीतस्त्रस्त उद्विग्नचित्तो भवेत्, एवं चानुविचिन्तयेत् - प्रतिबलो ऽहमनेन महताग्निस्कन्धेनासंस्पृष्टो ऽपरिदग्धः क्षिप्रमेव स्वस्तिना अस्माद् गृहादादीप्ताद् द्वारेण निर्गन्तुं निर्धावितुम् | अपि तु य इमे ममैव पुत्रा बालकाः कुमारका अस्मिन्नेव निवेशने आदीप्ते तैस्तैः क्रीडनकैः क्रीडन्ति रमन्ति परिचारयन्ति, इमं चागारमादीप्तं न जानन्ति न बुध्यन्ते न विदन्ति न चेतयन्ति नोद्वेगमापद्यन्ते, संतप्यमाना अप्यनेन महताग्निस्कन्धेन महता च दुःखस्कन्धेन स्पृष्टाः समाना न दुःखं मनसि कुर्वन्ति, नापि निर्गमनमनसिकारमुत्पादयन्ति ||
SK
स च शारिपुत्र पुरुषो बलवान् भवेद् बाहुबलिकः | स एवमनुविचिन्तयेत् - अहमस्मि बलवान् बाहुबलिकश्च | यन्न्वहं सर्वानिमान् कुमारकानेकपिण्डयित्वा उत्सङ्गेनादाय अस्माद् गृहान्निर्गमयेयम् | स पुनरेवमनुविचिन्तयेत् - इदं खलु निवेशनमेकप्रवेशं संवृतद्वारमेव | कुमारकाश्चपलाश्चञ्चला बालजातीयाश्च | मा हैव परिभ्रमेयुः | ते ऽनेन महताग्निस्कन्धेनानयव्यसनमापद्येरन् | यन्नूनमहमेतान् संचोदययम् | इति प्रतिसंख्याय तान् कुमारकानामन्त्रयते स्म - आगच्छत भवन्तः कुमारकाः, निर्गच्छत | आदीप्तमिदं गृहं महता अग्निस्कन्धेन | मा हैवात्रैव सर्वे ऽनेन महताग्निस्कन्धेन धक्ष्यथ, अनयव्यसनमापत्स्यथ | अथ खलु ते कुमारका एवं तस्य हितकामस्य पुरुषस्य तद्भाषितं नावबुध्यन्ते नोद्विजन्ति नोत्रसन्ति न संत्रसन्ति न संत्रासमापद्यन्ते, न विचिन्तयन्ति न निर्धावन्ति, नापि जानन्ति न विजानन्ति किमेतदादीप्तं नामेति | अन्यत्र तेन तेनैव धावन्ति विधावन्ति, पुनः पुनश्च तं पितरमवलोकयन्ति | तत्कस्य हेतोः? यथापीदं बालभावत्वात् ||
SK
अथ खलु स पुरुष एवमनुविचिन्तयेत् - आदीप्तमिदं निवेशनं महताग्निस्कन्धेन संप्रदीप्तम् | मा हैवाहं चेमे च कुमारका इहैवानेन महाताग्निस्कन्धेन अनयव्यसनमापत्स्यामहे | यन्न्वहमुपायकौशल्येनेमान् कुमारकान् अस्माद् गृहात् निष्क्रामयेयम् | स च पुरुषस्तेषां कुमारकाणामाशयज्ञो भवेत्, अधिमुक्तिं च विजानीयात् | तेषां च कुमारकाणामनेकविधान्यनेकानि क्रीडनकानि भवेयुर्विविधानि च रमणीयकानीष्टानि कान्तानि प्रियाणि मनआपानि, तानि च दुर्लभानि भवेयुः ||
अथे खलु भगवन् स दरिद्रपुरुष आहारचीवरपर्येष्टिहेतोर्ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु पर्यटमानो ऽनुपूर्वेण यत्रासौ पुरुषो बहुधनहिरण्यसुवर्णकोशकोष्ठागारस्तस्यैव पिता वसति, तन्नगरमनुप्राप्तो भवेत् | अथ खलु भगवन् स दरिद्रपुरुषस्य पिता बहुधनहिरण्यकोशकोष्ठागारस्तस्मिन् नगरे वसमानस्तं पञ्चाशद्वर्षनष्टं पुत्रं सततसमितमनुस्मरेत् | समनुस्मरमाणश्च न कस्यचिदाचक्षेदन्यत्रैक एवात्मनाध्यात्मं संतप्येत्, एवं च चिन्तयेत् - अहमस्मि जीर्णो वृद्धो महल्लकः | प्रभूतं मे हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं संविद्यते | न च मे पुत्रः कश्चिदस्ति | मा हैव मम कालक्रिया भवेत् | सर्वमिदमपरिभुक्तं विनश्येत् | स तं पुनः पुनः पुत्रमनुस्मरेत् - अहो नामाहं निर्वृतिप्राप्तो भवेयं यदि मे स पुत्र इमं धनस्कन्धं परिभुञ्जीत ||
SK
अथ खलु भगवन् स दरिद्रपुरुष आहारचीवरं पर्येषमाणो ऽनुपूर्वेण येन तस्य प्रभूतहिरण्यसुवर्णधनधान्यकोशकोष्ठागारस्य समृद्धस्य पुरुषस्य निवेशनं तेनोपसंक्रामेत् | अथ खलु भगवन् स तस्य दरिद्रपुरुषस्य पिता स्वके निवेशनद्वारे महत्या ब्राह्मणक्षत्रियविट्शूद्रपरिषदा परिवृतः पुरस्कृतो महासिंहासने सपादपीठे सुवर्णरूप्यप्रतिमण्डिते उपविष्टो हिरण्यकोटीशतसहस्रैर्व्यवहारं कुर्वन् वालव्यजनेन वीज्यमानो विततविताने पृथिवीप्रदेशे मुक्तकुसुमाभिकीर्णे रत्नदामाभिप्रलम्बिते महत्यद्धर्या उपविष्टः स्यात् | अद्राक्षीत् स भगवन् दरिद्रपुरुषस्तं स्वकं पितरं स्वके निवेशनद्वारे एवंरूपया ऋध्या उपविष्टं महता जनकायेन परिवृतं गृहपतिकृत्यं कुर्वाणम् | दृष्ट्वा च पुनर्भीतस्त्रस्तः संविग्नः संहृष्टरोमकूपजातः उद्विग्नमानसः एवमनुविचिन्तयामास - सहसैवायं मया राजा वा राजमात्रो वा आसादितः | नास्त्यस्माकमिह किंचित् कर्म | गच्छामो वयं येन दरिद्रवीथी, तत्रास्माकमाहारचीवरमल्पकृच्छ्रेणैव उत्पत्स्यते | अलं मे चिरं विलम्बितेन | मा हैवाहमिह वैष्टिको वा गृह्येय, अन्यतरं वा दोषमनुप्राप्नुयाम् ||
SK
अथ खलु भगवन् स दरिद्रपुरुषो दुःखपरंपरामनसिकारभयभीतस्त्वरमाणः प्रक्रामेत् पलायेत्, न तत्र संतिष्ठेत् | अथ खलु भगवन् स आढ्यः पुरुषः स्वके निवेशनद्वारे सिंहासने उपविष्टस्तं स्वकं पुत्रं सहदर्शनेनैव प्रत्यभिजानीयात् | दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातो भवेत्, एवं च चिन्तयेत् - आश्चर्यं यावद् यत्र हि नाम अस्य महतो हिरण्यसुवर्णधनधान्यकोशकोष्ठागारस्य परिभोक्ता उपलब्धः | अहं चैतमेव पुनः पुनः समनुस्मरामि | अयं च स्वयमेवेहागतः | अहं च जीर्णो वृद्धो महल्लकः ||
SK
अथ खलु भगवन् स पुरुषः पुत्रतृष्णासंपीडितस्तस्मिन् क्षणलवमुहूर्ते जवनान् पुरुषान् संप्रेषयेत् - गच्छत मार्षा एतं पुरुषं शीघ्रमानयध्वम् | अथ खलु भगवंस्ते पुरुषाः र्सव एव जवेन प्रधावितास्तं दरिद्रपुरुषमध्यालम्बेयुः | अथ खलु दरिद्रपुरुषस्तस्यां वेलायां भीतस्त्रस्तः संविग्नः संहृष्टरोमकूपजातः उद्विग्रमानसो दारुणमार्तस्वरं मुञ्चेदारवेद् विरवेत् | नाहं युष्माकं किंचिदपराध्यामीति वाचं भाषेत | अथ खलु ते पुरुषा बलात्कारेण तं (Vऐद्य ७३) दरिद्रपुरुषं विरवन्तमप्याकर्षेयुः | अथ खलु स दरिद्रपुरुषो भीतस्त्रस्तः संविग्न उद्विग्नमानस एवं च चिन्तयेत् - मा तावदहं वध्यो दण्डयो भवेयम् | नश्यामीति | स मूर्छितो धरण्यां प्रपतेत्, विसंज्ञश्च स्यात् | आसन्ने चास्य स पिता भवेत् | स तान् पुरुषानेवं वदेत् - मा भवन्त एतं पुरुषमानयन्त्विति | तमेनं शीतलेन वारिणा परिसिञ्चित्वा न भूय आलपेत् | तत्कस्य हेतोः? जानाति स गृहपतिस्तस्य दरिद्रपुरुषस्य हीनाधिमुक्तिकतामात्मनश्चोदारस्थामताम् | जानीते च ममैष पुत्र इति ||
SK
अथ खलु भगवन् स गृहपतिरुपायकौशल्येन न कस्यचिदाचक्षेत् - ममैष पुत्र इति | अथ खलु भगवन् स गृहपतिरन्यतरं पुरुषमामन्त्रयेत् - गच्छ त्वं भोः पुरुष | एनं दरिद्रपुरुषमेवं वदस्व - गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि | मुक्तो ऽसि | एवं वदति स पुरुषस्तस्मै प्रतिश्रुत्य येन स दरिद्रपुरुषस्तेनोपसंक्रामेत् | उपसंक्रम्य तं दरिद्रपुरुषमेवं वदेत् - गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि | मुक्तो ऽसीति | अथ खलु स दरिद्रपुरुष इदं वचनं श्रुत्वा आश्चर्याद्भुतप्राप्तो भवेत् | स उत्थाय तस्मात् पृथिवीप्रदेशाद्येन दरिद्रवीथी तेनोपसंक्रामेदाहारचीवरपर्येष्टिहेतोः | अथ खलु स गृहपतिस्तस्य दरिद्रपुरुषस्याकर्षणहेतोरुपायकौशल्यं प्रयोजयेत् | स तत्र द्वौ पुरुषौ प्रयोजयेत् दुर्वर्णावल्पौजस्कौ - गच्छतां भवन्तौ यो ऽसौ पुरुष इहागतो ऽभूत्, तं युवां द्विगुणया दिवसमुद्रया आत्मवचनेनैव भरयित्वेह मम निवेशने कर्म कारापयेथाम् | सचेत् स एवं वदेत् - किं कर्म कर्तव्यमिति, स युवाभ्यामेवं वक्तव्यः - संकारधानं शोधयितव्यं सहावाभ्यामिति | अथ तौ पुरुषौ तं दरिद्रपुरुषं पर्येषयित्वा तया क्रियया संपादयेताम् | अथ खलु तौ द्वौ पुरुषौ स च दरिद्रपुरुषो वेतनं गृहीत्वा तस्य महाधनस्य पुरुषस्यान्तिकात्तस्मिन्नेव निवेशने संकारधानं शोधयेयुः | तस्यैव च महाधनस्य पुरुषस्य गृहपरिसरे कटपलिकुञ्चिकायां वासं कल्पयेयुः | स चाढ्यः पुरुषो गवाक्षवातायनेन तं स्वकं पुत्रं पश्येत् संकारधानं शोधयमानम् | दृष्ट्वा च पुनराश्चर्यप्राप्तो भवेत् ||
SK
अथ खलु स गृहपतिः स्वकान्निवेशनादवतीर्य अपनयित्वा माल्याभरणनि, अपनयित्वा मृदुकानि वस्त्राणि, चौक्षाण्युदाराणि मलिनानि वस्त्राणि प्रावृत्य, दक्षिणेन पाणिना पिटकं परिगृह्य पांसुना स्वगात्रं दूषयित्वा दूरत एव संभाषमाणो येन स दरिद्रपुरुषस्तेनोपसंक्रामेत् | उपसंक्रम्यैवं वदेत् - वहन्तु भवन्तः पिटकानि, मा तिष्ठत, हरत पांसूनि | अनेनोपायेन तं पुत्रमालपेत् संलपेच्च | एनं वदेत् - इहैव त्वं भोः पुरुष कर्म कुरुष्व | मा भूयो ऽन्यत्र गमिष्यसि | सविशेषं ते ऽहं वेतनकं दास्यामि | येन येन च ते कार्य भवेत्, तद्विश्रब्धं मां याचेः, यदि वा कुण्डमूल्येन यदि वा कुण्डिकामूल्येन यदि वा स्थालिकामूल्येन यदि वा काष्ठमूल्येन यदि वा लवणमूल्येन यदि वा भोजनेन यदि वा प्रावरणेन | अस्ति मे भोः पुरुष जीर्णशाटी | सचेत्तया ते कार्यं स्यात्, याचेः, अहं ते ऽनुप्रदास्यामि | येन येन ते भोः पुरुष कार्यमेवंरूपेण परिष्कारेण, तं तमेवाहं ते सर्वमनुप्रदास्यामि | निर्वृतस्त्वं भोः पुरुष भव | यादृशस्ते पिता, तादृशस्ते ऽहं मन्तव्यः | तत्कस्य हेतोः? अहं (Vऐद्य ७४) च वृद्धः, त्वं च दहरः | मम च त्वया बहु कर्म कृतमिमं संकारधानं शोधयता | न च त्वया भोः पुरुष अत्र कर्म कुर्वता शाठयं वा वक्रता वा कौटिल्यं वा मानो वा म्रक्षो वा कृतपूर्वः, करोषि वा | सर्वथा ते भोः पुरुष न समनुपश्याम्येकमपि पापकर्म, यथैषामन्येषां पुरुषाणां कर्म कुर्वतामिमे दोषाः संविद्यन्ते | यादृशो मे पुत्र औरसः, तादृशस्त्वं मम अद्याग्रेण भवसि ||
SK
अथ खलु भगवन् स गृहपतिस्तस्य दरिद्रपुरुषस्य पुत्र इति नाम कुर्यात् | स च दरिद्रपुरुषस्तस्य गृहपतेरन्तिके पितृसंज्ञामुत्पादयेत् | अनेन भगवन् पर्यायेण स गृहपतिः पुत्रकामतृषितो विंशतिवर्षाणि तं पुत्रं संकारधानं शोधापयेत् | अथ विंशतेर्वर्षाणामत्ययेन स दरिद्रपुरुषस्तस्य गृहपतेर्निवेशने विश्रब्धो भवेन्निष्क्रमणप्रवेशे, तत्रैव च कटपलिकुञ्चिकायां वासं कल्पयेत् ||
SK
अथ खलु भगवंस्तस्य गृहपतेर्ग्लान्यं प्रत्युपस्थितं भवेत् | स मरणकालसमयं च आत्मनः प्रत्युपस्थितं समनुपश्येत् | स तं दरिद्रपुरुषमेवं वदेत् - आगच्छ त्वं भोः पुरुष | इदं मम प्रभूतं हिरण्यसुवर्णधनधान्यकोशकोष्ठागारमस्ति | अहं बाढग्लानः | इच्छाम्येतं यस्य दातव्यं यतश्च ग्रहीतव्यं यच्च निधातव्यं भवेत्, सर्वं संजानीयाः | तत्कस्य हेतोः? यादृश एव अहमस्य द्रव्यस्य स्वामी, तादृशस्त्वमपि | मा च मे त्वं किंचिदतो विप्रणाशयिष्यसि ||
SK
अथ खलु भगवन् स दरिद्रपुरुषो ऽनेन पर्यायेण तच्च तस्य गृहपतेः प्रभूतं हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं संजानीयात् | आत्मना च ततो निःस्पृहो भवेत् | न च तस्मात् किंचित् प्रार्थयेत्, अन्तशः सक्तुप्रस्थमूल्यमात्रमपि | तत्रैव च कटपलिकुञ्चिकायां वासं कल्पयेत्, तामेव दरिद्रचिन्तामनुविचिन्तयमानः ||
SK
अथ खलु भगवन् स गृहपतिस्तं पुत्रं शक्तं परिपालकं परिपक्वं विदित्वा अवमर्दितचित्तमुदारसंज्ञया च पौर्विकया दरिद्रचिन्तया आर्तीयन्तं जेह्रीयमाणं जुगुप्समानं विदित्वा मरणकालसमये प्रत्युपस्थिते तं दरिद्रपुरुषमानाय्य महतो ज्ञातिसंघस्योपनामयित्वा राज्ञो वा राजमात्रस्य वा पुरतो नैगमजानपदानां च संमुखमेवं संश्रावयेत् - शृण्वन्तु भवन्तः, अयं मम पुत्र औरसो मयैव जनितः | अमुकं नाम नगरम् | तस्मादेष पञ्चाशद्वर्षो नष्टः | अमुको नामैष नाम्ना | अहमप्यमुको नाम | ततश्चाहं नगरादेतमेव मार्गमाण इहागतः | एष मम पुत्रः, अहमस्य पिता | यः कश्चिन्ममोपभोगो ऽस्ति, तं सर्वमस्मै पुरुषाय निर्यातयामि | यच्च मे किंचिदस्ति प्रत्यात्मकं धनम्, तत्सर्वमेष एव जानाति ||
SK
अथ खलु भगवन् स दरिद्रपुरुषस्तस्मिन् समये इममेवंरूपं घोषं श्रुत्वा आश्चर्याद्भुतप्राप्तो भवेत् | एवं च विचिन्तयेत् - सहसैव मयेदमेव तावद् हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं प्रतिलब्धमिति ||
तद्यथापि नाम काश्यप अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यावन्तस्तृणगुल्मौषधिवनस्पतयो नानावर्णा नानाप्रकारा ओषधिग्रामा नानानामधेयाः पृथिव्यां जाताः पर्वतगिरिकन्दरेषु वा | मेघश्च महावारिपरिपूर्ण उन्नमेत्, उन्नमित्वा सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछादयेत् | संछाद्य च सर्वत्र समकालं वारि प्रमुञ्चेत् | तत्र काश्यप ये तृणगुल्मौषधिवनस्पतयो ऽस्यां त्रिसाहस्रमहासाहस्रलोकधातौ, तत्र ये तरुणाः कोमलनालशाखापत्रपलाशास्तृणगुल्मौषधिवनस्पतयो द्रुमा महाद्रुमाः, सर्वे ते ततो महामेघप्रमुक्ताद्वारिणो यथाबलं यथाविषयमब्धातुं प्रत्यापिबन्ति | ते चैकरसेन वारिणा प्रभूतेन मेघप्रमुक्तेन यथाबीजमन्वयं विवृद्धिं विरूढिं विपुलतामापद्यन्ते, तथा च पुष्पफलानि प्रसवन्ति | ते च पृथक् पृथगू नानानामधेयानि प्रतिलभन्ते | एकधरणीप्रतिष्ठिताश्च ते सर्वे ओषधिग्रामा बीजग्रामा एकरसतोयाभिष्यन्दिताः | एवमेव काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते | यथा महामेघः उन्नमते, तथा तथागतो ऽप्युत्पद्य सर्वावन्तं सदेवमानुषासुरं लोकं स्वरेणाभिविज्ञापयति | तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुमवच्छादयति, एवमेव काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धः सदेवमानुषासुरस्य लोकस्य पुरत एवं शब्दमुदीरयति, घोषमनुश्रावयति - तथागतो ऽस्मि भवन्तो देवमनुष्याः अर्हन् सम्यक्संबुद्धः, तीर्णस्तारयामि, मुक्तो मोचयामि, आश्वस्त आश्वासयामि, परिनिर्वृतः परिनिर्वापयामि | अहमिमं च लोकं परं च लोकं सम्यक् प्रज्ञया यथाभूतं प्रजानामि सर्वज्ञः सर्वदर्शी | उपसंक्रामन्तु मां भवन्तो देवमनुष्या धर्मश्रवणाय | अहं मार्गस्याख्याता मार्गदेशिको मार्गवित् मार्गकोविदः | तत्र काश्यप बहूनि प्राणिकोटीनयुतशतसहस्राणि तथागतस्य धर्मश्रवणायोपसंक्रामन्ति | अथ तथागतो ऽपि तेषां सत्त्वानामिन्द्रियवीर्यपरापरवैमात्रतां (Vऐद्य ८५) ज्ञात्वा तांस्तान् धर्मपर्यायानुपसंहरति, तां तां धर्मकथां कथयति बह्वीं विचित्रां हर्षणीयां परितोषणीयां प्रामोद्यकरणीयां हितसुखसंवर्तनकरणीयाम् | यया कथय ते सत्त्वाः दृष्ट एव धर्मे सुखिता भवन्ति, कालं च कृत्वा सुगतीषूपपद्यन्ते, यत्र प्रभूतांश्च कामान् परिभुञ्जन्ते, धर्मं च शृण्वन्ति | श्रुत्वा च तं धर्मं विगतनीवरणा भवन्ति | अनुपूर्वेण च सर्वज्ञधर्मेष्वभियुज्यन्ते यथाबलं यथाविषयं यथास्थानम् ||
SK
तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछाद्य समं वारि प्रमुञ्चति, सर्वांश्च तृणगुल्मौषधिवनस्पतीन् वारिणा संतर्पयति | यथाबलं यथाविषयं यथास्थामं च ते तृणगुल्मौषधिवनस्पतयो वार्यापिबन्ति, स्वकस्वकां च जातिप्रमाणतां गच्छन्ति | एवमेव काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धो यं धर्मं भाषते, सर्वः स धर्म एकरसो यदुत विमुक्तिरसो विरागरसो निरोधरसः सर्वज्ञज्ञानपर्यवसानः | तत्र काश्यप ये ते सत्त्वास्तथागतस्य धर्मं भाषमाणस्य शृण्वन्ति धारयन्ति अभिसंयुज्यन्ते, न ते आत्मनात्मानं जानन्ति वा वेदयन्ति वा बुध्यन्ति वा | तत्कस्य हेतोः? तथागत एव काश्यप तान् सत्त्वांस्तथा जानाति, ये च ते, यथा च ते, यादृशाश्च ते | यं च ते चिन्तयन्ति, यथा च ते चिन्तयन्ति, येन च ते चिन्तयन्ति | यं च ते भावयन्ति, यथा च ते भावयन्ति, येन च ते भावयन्ति | यं च ते प्राप्नुवन्ति, यथा च ते प्राप्नुवन्ति, येन च ते प्राप्नुवन्ति | तथागत एव काश्यप तत्र प्रत्यक्षः प्रत्यक्षदर्शी यथा च दर्शी तेषां सत्त्वानां तासु तासु भूमिषु स्थितानां तृणगुल्मौषधिवनस्पतीनां हीनोत्कृष्टमध्यमानाम् | सो ऽहं काश्यप एकरसधर्म विदित्वा यदुत विमुक्तिरसं निर्वृतिरसं निर्वाणपर्यवसानं नित्यपरिनिर्वृतमेकभूमिकमाकाशगतिकमधिमुक्तिं सत्त्वानामनुरक्षमाणो न सहसैव सर्वज्ञज्ञानं संप्रकाशयामि | आश्चर्यप्राप्ता अद्भुतप्राप्ता यूयं काश्यप यद्यूयं संधाभाषितं तथागतस्य न शक्नुथ अवतरितुम् | तत्कस्य हेतोः? दुर्विज्ञेयं काश्यप तथागतानामर्हतां सम्यक्संबुद्धानां संधाभाषितमिति ||
अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेषां चतुरशीतेः कल्पसहस्राणामत्ययेन स्मृतिमान् संप्रजानस्तस्मात् समाधेर्व्युत्तिष्ठत् | व्युत्थाय च स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो येन तद्धर्मासनं तेनोपसंक्रामत् | उपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत् | समनन्तरनिषण्णश्च खलु पुनर्भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतस्तस्मिन् धर्मासने, अथ तावदेव सर्वावन्तं पर्षन्मण्डलमवलोक्य भिक्षुसंघमामन्त्रयामासआश्चर्यप्राप्ता भिक्षवो ऽद्भुतप्राप्ता इमे षोडश श्रामणेराः प्रज्ञावन्तो बहुबुद्धकोटीनयुतशतसहस्रपर्युपासिताश्चीर्णचरिता बुद्धज्ञानपर्युपासका बुद्धज्ञानप्रतिग्राहका बुद्धाज्ञानावतारका बुद्धज्ञानसंदर्शकाः | पर्युपासध्वं भिक्षव एतान् षोडश श्रामणेरान् पुनः पुनः | ये केचिद् भिक्षवः (Vऐद्य ११९) श्रावकयानिका वा प्रत्येकबुद्धयानिका वा बोधिसत्त्वयानिका वा एषां कुलपुत्राणां धर्मदेशनां न प्रतिक्षेप्स्यन्ति | न प्रतिबाधिष्यन्ते, सर्वे ते क्षिप्रमनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति, सर्वे च ते तथागतज्ञानमनुप्राप्स्यन्ति ||
आरोचयामि ते भैषज्यराज, प्रतिवेदयामि ते | बहवो हि मया भैषज्यराज धर्मपर्याया भाषिताः, भाषामि भाषिष्ये च | सर्वेषां च तेषां भैषज्यराज धर्मपर्यायाणामयमेव धर्मपर्यायः सर्वलोकविप्रत्यनीकः सर्वलोकाश्रद्दधनीयः | तथागतस्याप्येतद् भैषज्यराज आध्यात्मिकधर्मरहस्यं तथागतबलसंरक्षितमप्रतिभिन्नपूर्वमनाचक्षितपूर्वमनाख्यातमिदं स्थानम् | बहुजनप्रतिक्षिप्तो ऽयं भैषज्यराज धर्मपर्यायस्तिष्ठतो ऽपि तथागतस्य, कः पुनर्वादः परिनिर्वृतस्य ||
SK
अपि तु खलु पुनर्भैषज्यराज तथागतचीवरच्छन्नास्ते कुलपुत्रा वा कुलदुहितरो वा वेदितव्याः | अन्यलोकधातुस्थितैश्च तथागतैरवलोकिताश्च अधिष्ठिताश्च | प्रत्यात्मिकं च तेषां श्रद्धाबलं भविष्यति, कुशलमूलबलं च प्रणिधानबलं च | तथागतविहारैकस्थाननिवासिनश्च ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति, तथागतपाणिपरिमार्जितमूर्धानश्च ते भविष्यन्ति, य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य श्रद्दधिष्यन्ति वाचयिष्यन्ति लिखिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति परेषां च संश्रावयिष्यन्ति ||
SK
यस्मिन् खलु पुनर्भैषज्यराज पृथिवीप्रदेशे ऽयं धर्मपर्यायो भाष्येत वा देश्येत वा लिख्येत वा स्वाध्यायेत वा संगायेत वा, तस्मिन् भैषज्यराज पृथिवीप्रदेशे तथागतचैत्यं कारयितव्यं महन्तं रत्नमयमुच्चं प्रगृहीतम् | न च तस्मिन्नवश्यं तथागतशरीराणि प्रतिष्ठापयितव्यानि | तत्कस्य हेतोः? एकघनमेव तस्मिंस्तथागतशरीरमुपनिक्षिप्तं भवति, यस्मिन् पृथिवीप्रदेशे ऽयं धर्मपर्यायो भाष्येत वा देश्येत वा पठ्येत वा संगायेत वा लिख्येत वा लिखितो वा पुस्तकगतस्तिष्ठेत् | तस्मिंश्च स्तूपे सत्कारो गुरुकारो मानना पूजना अर्चना करणीया सर्वपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः | सर्वगीतवाद्यनृत्यतूर्यतालावचरसंगीतिसंप्रवादितैः पूजा करणीया | ये च खलु पुनर्भैषज्यराज सत्त्वास्तं तथागतचैत्यं लभेरन् वन्दनाय पूजनाय दर्शनाय वा, सर्वे ते भैषज्यराज अभ्यासन्नीभूता वेदितव्या अनुत्तरायाः सम्यक्संबोधेः | तत्कस्य हेतोः? बहवो भैषज्यराज गृहस्थाः प्रव्रजिताश्च (Vऐद्य १४६) बोधिसत्त्वचर्यां चरन्ति, न च पुनरिमं धर्मपर्यायं लभन्ते दर्शनाय वा श्रवणाय वा लिखनाय वा पूजनाय वा | न तावत्ते भैषज्यराज बोधिसत्त्वचर्यायां कुशला भवन्ति, यावन्नेमं धर्मपर्यायं शृण्वन्ति | ये त्विमं धर्मपर्यायं शृण्वन्ति, श्रुत्वा चाधिमुच्यन्ति अवतरन्ति विजानन्ति परिगृह्णन्ति, तस्मिन् समये ते आसन्नस्थायिनो भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ, अभ्याशीभूताः ||
सर्वे च लोकप्रद्योता आगता ये दिशो दश / सत्यां वाचं प्रभाषामो अधिमुक्तिं विजानसि // Sअद्ध्प्_१२.२१ //
SK
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये उत्साहपरिवर्तो नाम द्वादशमः ||
SK
Sअद्ध्प्_१३: सुखविहारपरिवर्तः |
SK
अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत - दुष्करं भगवन् परमदुष्करमेभिर्बोधिसत्त्वैर्महासत्त्वैरुत्सोढं भगवतो गौरवेण | कथं भगवन् एभिर्बोधिसत्त्वैर्महासत्त्वैरयं धर्मपर्यायः पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः? एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - चतुर्षु मञ्जुश्रीर्धर्मेषु प्रतिष्ठितेन बोधिसत्त्वेन महासत्त्वेन अयं धर्मपर्यायः पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः | कतमेषु चतुर्षु? इह मञ्जुश्रीर्बोधिसत्त्वेन महासत्त्वेन आचारगोचरप्रतिष्ठितेन अयं धर्मपर्यायं पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः | कथं च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्व आचारगोचरप्रतिष्ठितो भवति? यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वः क्षान्तो भवति, दान्तो दान्तभूमिमनुप्राप्तो ऽनुत्रस्तासंत्रस्तमना अनभ्यसूयकः, यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद्धर्मे चरति, यथाभूतं च धर्माणां स्वलक्षणं व्यवलोकयति | या खल्वेषु धर्मेष्वविचारणा अविकल्पना, अयमुच्यते मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्याचारः | कतमश्च मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य गोचरः? यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न राजानं संसेवते, न राजपुत्रान् न राजमहामात्रान् न राजपुरुषान् संसेवते न भजते न पर्युपास्ते नोपसंक्रामति, नान्यतीर्थ्याश्चरकपरिव्राजकाजीवकनिर्ग्रन्थान् न काव्यशास्त्रप्रसृतान् सत्त्वान् संसेवते, न भजते न पर्युपास्ते, न च लोकायतमन्त्रधारकान् न लोकायतिकान् सेवते न भजते न पर्युपास्ते, न च तैः सार्धं संस्तवं करोति | न चाण्डलान् न मौष्टिकान् न सौकरिकान् न कौक्कुटिकान् न मृगलुब्धकान् न मांसिकान् न नटनृत्तकान् न झल्लान् न मल्लान् | अन्यानि परेषां रतिक्रीडास्थानानि तानि नोपसंक्रामति | न च तैः सार्धं संस्तवं करोति | अन्यत्रोपसंक्रान्तानां कालेन कालं धर्मं भाषते, तं चानिश्रितो भाषते | श्रावकयानीयांश्च भिक्षुभिक्षुण्युपासकोपासिका न सेवते न भजते न पर्युपास्ते, न च तैः सार्धं संस्तवं करोति | न च तैः सह समवधानगोचरो भवति चंक्रमे वा विहारे वा | अन्यत्रोपसंक्रान्तानां चैषां कालेन कालं धर्मं भाषते, तं चानिश्रितो भाषते | अयं मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य गोचरः ||
SK
पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न मातृग्रामस्य अन्यतरान्यतरमनुनयनिमित्तमुद्गृह्य अभीक्ष्णं धर्मं देशयति, न च मातृग्रामस्य अभीक्ष्णं दर्शनकामो भवति | न च कुलान्युपसंक्रमति, न च दारिकां वा कन्यां वा वधुकां वा अभीक्ष्णमाभाषितव्यां मन्यते, न प्रतिसंमोदयति | न च पण्डकस्य धर्मं देशयति, न च तेन सार्धं संस्तवं करोति, न च प्रतिसंमोदयति | न चैकाकी भिक्षार्थमन्तर्गृहं प्रविशति अन्यत्र तथागतानुस्मृतिं भावयमानः | सचेत्पुनर्मातृग्रामस्य धर्मं देशयति, स नान्तशो धर्मसंरागेणापि धर्मं (Vऐद्य १६७) देशयति, कः पुनर्वादः स्त्रीसंरागेण | नान्तशो दन्तावलीमप्युपदर्शयति, कः पुनर्वाद औदारिकमुखविकारम् | न च श्रामणेरं न च श्रामणेरीं न भिक्षुं न भिक्षुणीं न कुमारकं न कुमारिकां सातीयति, न च तैः सार्धं संस्तवं करोति, न च संलापं करोति | स च प्रतिसंलयनगुरुको भवति, अभीक्ष्णं च प्रतिसंलयनं सेवते | अयमुच्यते मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य प्रथमो गोचरः ||
गृहस्थ ये प्रव्रजिताश्च ये स्युरथ बोधिसत्त्वास्तद कालि पश्चिमे / सर्वेषु मैत्रीबल सो हि दर्शयी मा हैव क्षेप्स्यन्ति श्रुणित्व धर्मम् // Sअद्ध्प्_१३.४६ //
अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत् - यः कश्चिदजित कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य इमं धर्मपर्याय देश्यमानं संप्रकाश्यमानं शृणुयाद् भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा विज्ञपुरुषो वा कुमारको वा, कुमारिका वा, श्रुत्वा च अभ्यनुमोदेत, सचेत्ततो धर्मश्रवणादुत्थाय प्रक्रामेत्, स च विहारगतो वा गृहगतो वा अरण्यगतो वा वीथीगतो वा ग्रामगतो वा जनपदगतो वा तान् हेतूंस्तानि कारणानि तं धर्मं यथाश्रुतं यथोद्गृहीतं यथाबलमपरस्य सत्त्वस्याचक्षीत मातुर्वा पितुर्वा ज्ञातेर्वा, संमोदितस्य वा अन्यस्य वा संस्तुतस्य कस्यचित्, सो ऽपि यदि श्रुत्वा अनुमोदेत, अनुमोद्य च पुनरन्यस्मै आचक्षीत | सो ऽपि यदि श्रुत्वानुमोदेत, अनुमोद्य च सो ऽप्यपरस्मै आचक्षीत, सो ऽपि तं श्रुत्वानुमोदेत | इत्यनेन पर्यायेण यावत् पञ्चाशत् परंपरया | अथ खल्वजित यो ऽसौ पञ्चाशत्तमः पुरुषो भवेत् परंपराश्रवानुमोदकः, तस्यापि तावदहमजित कुलपुत्रस्य वा कुलदुहितुर्वा अनुमोदनासहगतं पुण्याभिसंस्कारमभिनिर्देक्ष्यामि | तं शृणु, साधु च सुष्ठु च मनसिकुरु | भाषिष्ये ऽहं ते ||
SK
तद्यथापि नाम अजित चतुर्षु लोकधातुष्वसंख्येयशतसहस्रेषु ये सत्त्वाः सन्तः संविद्यमानाः षट्सु गतिषूपपन्नाः, अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा रूपिणो वा अरूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो वा नासंज्ञिनो वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा यावदेव सत्त्वाः सत्त्वधातौ संग्रहसमवसरणं गच्छन्ति | अथ कश्चिदेव पुरुषः समुत्पद्येत पुण्यकामो हितकामस्तस्य सत्त्वकायस्य सर्वकामक्रीडारतिपरिभोगानिष्टान् कान्तान् प्रियान् मनापान् दद्यात् | एकैकस्य सत्त्वस्य जम्बुद्वीपं परिपूर्णं दद्यात् कामक्रीडारतिपरिभोगाय, हिरण्यसुवर्णरूप्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवालानश्वरथगोरथहस्तिरथान् दद्यात् प्रासादान् कूटागारान् | अनेन पर्यायेण अजित स पुरुषो दानपतिर्महादानपतिः परिपूर्णान्यशीतिं वर्षाणि दानं दद्यात् | अथ खल्वजित स पुरुषो दानपतिर्महादानपतिरेवं चिन्तयेत् - इमे खलु सत्त्वाः सर्वे मया क्रीडापिता रमापिताः सुखं जिवापिताः | इमे च ते भवन्तः सत्त्वा बलिनः पलितशिरसो जीर्णवृद्धा महल्लका (Vऐद्य २०६) अशीतिवर्षिका जात्या | अभ्याशीभूताश्चैते कालक्रियायाः | यन्न्वहमेतांस्तथागतप्रवेदिते धर्मविनये ऽवतारयेयमनुशासयेयम् | अथ खल्वजित स पुरुषस्तान् सर्वसत्त्वान् समादापयेत् | समादापयित्वा च तथागतप्रवेदिते धर्मविनये ऽवतारयेद् ग्राहयेत् | तस्य ते सत्त्वास्तं च धर्मं शृणुयुः | श्रुत्वा च एकक्षणेन एकमुहूर्तेन एकलवेन सर्वे स्रोतआपन्नाः स्युः, सकृदागामिनो ऽनागामिनो ऽनागामिफलं प्राप्नुयुर्यावदर्हन्तो भवेयुः, क्षीणास्रवा ध्यायिनो महाध्यायिनो ऽष्टविमोक्षध्यायिनः | तत्किं मन्यसे अजित अपि नु स पुरुषो दानपतिर्महादानपतिस्ततोनिदानं बहु पुण्यं प्रसवेदप्रमेयमसंख्येयम्? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - एवमेतत् भगवन्, एवमेतत् सुगत | अनेनैव तावद् भगवन् कारणेन स पुरुषो दानपतिर्महादानपतिर्बहु पुण्यं प्रसवेत्, यस्तावतां सत्त्वानां सर्वसुखोपधानं दद्यात् | कः पुनर्वादो यदुत्तरिअर्हत्त्वे प्रतिष्ठापयेत् ||
पुनरपरं सततसमिताभियुक्त स कुलपुत्रो वा कुलदुहिता वा इमं धर्मपर्यायं संप्रकाशयमानः परेषां च संश्रावयमानस्तैर्द्वादशभिः श्रोत्रगुणशतैः समन्वागतः ये त्रिसाहस्रमहासाहस्रायां लोकधातौ विविधाः शब्दा निश्चरन्ति यावदवीचिर्महानिरयो यावच्च भवाग्रं सान्तर्बहिः, तद्यथा - हस्तिशब्दा वा अश्वशब्दा वा उष्ट्रशब्दा वा गोशब्दा वा अजशब्दा वा जनपदशब्दा वा रथशब्दा वा रुदितशब्दा वा शोकशब्दा वा भैरवशब्दा वा शङ्खशब्दा वा घण्टाशब्दा वा पटहशब्दा वा भेरीशब्दा वा क्रीडाशब्दा वा गीतशब्दा वा नृत्यशब्दा वा तूर्यशब्दा वा वाद्यशब्दा वा स्त्रीशब्दा वा पुरुषशब्दा वा दारकशब्दा वा (Vऐद्य २११) दारिकाशब्दा वा धर्मशब्दा वा अधर्मशब्दा वा सुखशब्दा वा दुःखशब्दा वा बालशब्दा वा आर्यशब्दा वा मनोज्ञशब्दा वा अमनोज्ञशब्दा वा देवशब्दा वा नागशब्दा वा यक्षशब्दा वा राक्षसशब्दा वा गन्धर्वशब्दा वा असुरशब्दा वा गरुडशब्दा वा किन्नरशब्दा वा महोरगशब्दा वा मनुष्यशब्दा वा अमनुष्यशब्दा वा अग्निशब्दा वा वायुशब्दा वा उदकशब्दा वा ग्रामशब्दा वा नगरशब्दा वा भिक्षुशब्दा वा श्रावकशब्दा वा प्रत्येकबुद्धशब्दा वा बोधिसत्त्वशब्दा वा तथागतशब्दा वा, यावन्तः केचित्रिसाहस्रमहासाहस्रायां लोकधातौ सान्तर्बहिः शब्दा निश्चरन्ति, तान् शब्दांस्तेन प्राकृतेन परिशुद्धेन श्रोत्रेन्द्रियेण शृणोति | न च तावद्दिव्यं श्रोत्रमभिनिर्हरति | तेषां तेषां च सत्त्वानां रुतान्यवबुध्यते, विभावयति विभजति तेन च प्राकृतेन श्रोत्रेन्द्रियेण | तेषां तेषां च सत्त्वानां रुतानि शृण्वतस्तस्य तैः सर्वशब्दैः श्रोत्रेन्द्रियं नाभिभूयते | एवंरूपः सततसमिताभियुक्त तस्य बोधिसत्त्वस्य महासत्त्वस्य श्रोत्रेन्द्रियप्रतिलम्भो भवति, न च तावद्दिव्यं श्रोत्रमभिनिर्हरति ||
पुनरपरं सततसमिताभियुक्त स बोधिसत्त्वो महासत्त्व इमं धर्मपर्यायं धारयमाणो वा वाचयमानो वा प्रकाशयमानो वा देशयमानो वा लिखमानो वा अष्टौ कायगुणशतानि प्रतिलप्स्यति | तस्य कायः शुद्धः परिशुद्धो वैडूर्यपरिशुद्धच्छविवर्णो भविष्यति, प्रियदर्शनः सत्त्वानाम् | स तस्मिन्नात्मभावे परिशुद्धे सर्वं त्रिसाहस्रमहासाहस्रलोकधातुं द्रक्ष्यति | ये च त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाश्च्यवन्ति उपपद्यन्ते च, हीनाः प्रणीताश्च, सुवर्णा दुर्वर्णाः, सुगतौ दुर्गतौ, ये च चक्रवालमहाचक्रवालेषु मेरुसुमेरुषु च पर्वतराजेषु सत्त्वाः प्रतिवसन्ति, ये च अधस्तादवीच्यामूर्ध्वं च यावद् भवाग्रं सत्त्वाः प्रतिवसन्ति, तान् सर्वान् स्व आत्मभावे द्रक्ष्यति | ये चापि केचिदस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधात्रौ श्रावका वा प्रत्येकबुद्धा वा बोधिसत्त्वा वा तथागता वा प्रतिवसन्ति, यं च ते तथागता धर्मं देशयन्ति, ये च सत्त्वास्तांस्तथागतान् पर्युपासन्ते, सर्वेषां तेषां सत्त्वानामात्मभावप्रतिलम्भान् स्व आत्मभावे द्रक्ष्यति | तत्कस्य हेतोः? यथापीदं परिशुद्धत्वादात्मभावस्येति ||
अथ खलु लम्बा च नाम राक्षसी विलम्बा च नाम राक्षसी कूटदन्ती च नाम राक्षसी पुष्पदन्ती च नाम राक्षसी मकुटदन्ती च नाम राक्षसी केशिनी च नाम राक्षसी अचला च नाम राक्षसी मालाधारी च नाम राक्षसी कुन्ती च नाम राक्षसी सर्वसत्त्वोजोहारी च नाम राक्षसी ह्ःरीती च न्ःम र्ःक्षसी सपुत्रपरिव्ःर्ः एत्ःः सर्व्ः र्ःक्षस्यो येन भगव्ःंस्तेनोपसंक्र्ःन्त्ःः | उपसंक्रम्य सर्व्ःस्त्ः र्ःक्षस्य एकस्वरेण भगवन्तमेतदवोचन् - वयमपि भगवंस्तेष्ःमेवंरूप्ःण्ःं सूत्र्ःन्तध्ःरक्ःण्ःं धर्मभ्ःणक्ःन्ःं रक्ष्ःवरणगुप्तिं करिष्य्ःमः, स्वस्त्ययनं च करिष्य्ःमः | यथ्ः तेष्ःं धर्मभ्ःणक्ःन्ःं न कश्चिदवत्ःरप्रेक्षी अवत्ःरगवेषी अवत्ःरं लप्स्यतीति ||
इति मे इति मे इति मे इति मे इति मे | निमे निमे निमे निमे निमे | रुहे रुहे रुहे रुहे रुहे | स्तुहे स्तुहे स्तुहे स्तुहे स्तुहे स्वाहा ||
SK
इमं शीर्षं समारुह्य मा कश्चिद् द्रोही भवतु धर्मभाणकानां यक्षो वा राक्षसो वा प्रेतो वा पिशाचो वा पूतनो वा कृत्यो व वेतालो वा कुम्भाण्डो वा स्तब्धो वा ओमारको वा ओस्तारको वा अपस्मारको वा यक्षकृत्यो वा अमनुष्यकृत्यो वा मनुष्यकृत्यो वा एकाहिको वा द्वैतीयको वा त्रैतीयको वा चतुर्थको वा नित्यज्वरो वा विषमज्वरो वा | अन्तशः स्वप्नान्तरगतस्यापि स्त्रीरूपाणि वा पुरुषरूपाणि वा दारकरूपाणि वा दारिकारूपाणि वा विहेठां कुर्युः, नेदं स्थानं विद्यते ||
इदमवोचद् भगवानात्तमनाः | ते चाप्रमेया असंख्येयास्तथागता अर्हन्तः सम्यक्संबुद्धा अन्यलोकधात्वागता रत्नवृक्षमूलेषु सिंहासनोपविष्टाः, प्रभुतरत्नश्च तथागतो ऽर्हन् सम्यक्संबुद्धः स च सर्वावान् बोधिसत्त्वगणः, ते च विशिष्टचारित्रप्रमुखा अप्रमेया असंख्येया बोधिसत्त्व महासत्त्वा ये पृथिवीविवरेभ्यो ऽभ्युद्गताः, ते च महाश्रावकाः ताश्च चतस्रः पर्षदः, सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ||
SK
इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये ऽनुपरीन्दनापरिवर्तो नाम सप्तविंशतिमः समाप्तः ||
SK
* * * * * * ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् | तेषां च यो निरोध एवं वादी महाश्रमणः ||