Mālinīvijayavārtika

Mālinīvijayavārtika

SK
ॐ काश्मीरसंस्कृतग्रन्थावलिः | ग्रन्थाङ्कः ३१ श्रीमालिनीविजयवार्तिकम् श्रीमन्महामाहेश्वराचार्याभिनवगुप्तपादविरचितम् | श्रीभारतधर्ममार्तण्ड कश्मीरमहाराज श्रीप्रतापसिंहवर प्रतिष्ठापिते प्रत्नविद्याप्रकाश (रिसर्च) कार्यालये तदध्यक्ष पण्डित मधुसूदनकौल शास्त्रिणा उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन संगृह्य संशोधनपर्यायाङ्कनविवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादि- śrīnagare kaśmīra pratāpa sṭīma presa mudraṇālaye mudrāpayitvā prakāśyamupanītam khraistābdaḥ 1921 kāśmīra śrīnagara asya granthasya sarve prakāśana-mudrāpaṇādyadhikārāḥ proktamahārājavaryaiḥ svāyattīkṛtāḥ santi atha śrīmālinīvijayavārtikam śrīmadācāryābhinavaguptapādaviracitam prathamaḥ kāṇḍaḥ vamalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ | tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt ||1|| yadīyabodhakiraṇairullasadbhiḥ samantataḥ | vikāsihṛdayāmbhojā vayaṃ sa jayatādguruḥ ||2 || sābhimarśaṣaḍardhārthapañcasrotaḥsamujjvalān | yaḥ prādānmahyamarthaughāndaurgatyadalanavratān ||3|| śrīmatsumatisaṃśuddhasadbhaktajanadakṣiṇaḥ | śaṃbhunāthaḥ prasanno me bhūyādvākpuṣpatoṣitaḥ ||4|| gurubhyo'pi garīyāṃsaṃ yuktaṃ śrīcukhalābhidham | vande yatkṛtasaṃskāraḥ sthito'smi galitagrahaḥ ||5|| tato gurutaraḥ śrīmānbhūtirājo mahāmatiḥ | jayatādbhaktajanatāsamuddharaṇasāhasaḥ ||6|| śrīsomānandasaṃbodhaśrīmadutpalaniḥsṛtāḥ | jayanti saṃvidāmodasaṃdarbhā dikprasarpiṇaḥ ||7|| 2) taddṛṣṭisaṃsṛticchedipratyabhijñopadeśinaḥ | śrimallakṣmaṇaguptasya gurorvijayate vacaḥ ||8|| apyasaṃkhyanavāsvādacamatkāraikadurmadā | yenānuttarasaṃbhogatṛptā me matiṣaṭpadī ||9|| tadekamayatāmāpya svātmanyeva tathā sthitā | tadasyāḥ pronmiṣantyeva vividhā nādasaṃpadaḥ ||10||
SK
सच्छिष्यकर्णमन्द्राभ्यामर्थितोऽहं पुनः पुनः | वाक्यार्थं कथये श्रीमन्मालिन्यां यत्क्वचित्क्वचित् ||११|| औचित्येनेतरत्यागाद्वाच्यवाचकयोर्मिथः | वर्तनावर्त एतस्मिन्साधु शास्त्रं च वार्तिकम् ||१२ || येऽहर्निशं प्रकाशन्ते सर्वस्य च न गोचरे | नुमोऽभिनवगुप्तांस्ताञ्शिवचन्द्रांशुसंचयान् ||१३|| जयन्ति जगदानन्दविपक्षक्षपणक्षमाः | परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः ||१४|| अनियन्त्रितसद्भावाद्भावाभेदैकभागिनः | यत्प्राग्जातं महाज्ञानं तद्रश्मिभरभैरवम् ||१५|| ततस्तादृक्स्वमायीयहेयोपादेयवर्जितम् | विततीभावनाचित्ररश्मितामात्रभेदितम् ||१६|| अभिमर्शस्वभावं तद्धृदयं परमेशितुः | तत्रापि शक्त्या सततं स्वात्ममय्या महेश्वरः ||१७|| यदा संघट्टमासाद्य समापत्तिं परां व्रजेत् | तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् ||१८|| अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् | भाविवक्त्राविभागेन बीजं सर्वस्य यत्स्थितम् ||१९|| हृत्स्पन्ददृक्परासारनिर्नामोर्म्यादि तन्मतम् | एतत्परं त्रिकं पूर्वं [सूक्ष्ममिति पाठः] सर्वशक्त्यविभागवत् ||२०|| अत्र भावसमुल्लासशङ्कासंकोचविच्युतिः | स्वानन्दलीनतामात्रमात्रिच्छाकर्मदृक्तयम् ||२१||
SK
तथा च गुरवः शैवदृष्टावित्थं न्यरूपयन् | [शिवैक्याख्यातिरूपभ्रान्तिमयसंसारावस्था यावन्नोन्मिषति तावदपि तावत्येवोक्तरूपशिवता तथा च शक्तिपंचकमपि तदानीमेकरूपमपि व्यवहारापेक्षया कार्यसंभवादस्त्येव तथा हि परापरावस्थायां योऽहमिति सहजप्रत्यवमर्शात्मा प्रकाशः स एव परानपेक्षः पूर्णत्वादानन्दरूपो निर्वृतचिन्मयः स्थित एव सैव स्वतन्त्रता मुख्या शिवता तदुक्तं चिदाह्लादेति | पूर्णचिदानन्दमात्रेऽनुभवः प्रकाशनं न तु बाह्ये तत एव तत्रैव लयो यस्य स तथानेन निर्वृतचित्कथिता | इच्छाज्ञानक्रियास्तु भिन्नविषयाद्यपेक्षया स्फुटीभवन्ति | परावस्थायां पुनः पूर्णोऽहमित्येव स्वस्वभावः प्रकाशते तावत्प्रकाशत्वात् तदेव ज्ञानं संरम्भरूपत्वात्सैव क्रिया तत्स्वभावत्वेन तदभ्युपगमादिच्छापि स्थितैवेत्याह तदिच्छा तावतीति तावच्च स्वरूपं क्रियेति योज्यम् | अथ वा तावज्ज्ञानमिति तावच्छब्दः क्रियायां स्त्रीलिङ्गः परिणमनीयः द्वितीयस्त्वन्ते तावच्छब्दः क्रमार्थः परापराद्यवस्थापेक्षः अत एव भिन्नविषयाभावेऽप्यभ्युपगमप्रकाशसंरम्भाणां सर्वदा प्रकाशमयत्वेनाविचलनादिच्छादिव्यवहारयोग्यतैवेत्युक्तं सुसूक्ष्मेति सुसूक्ष्मत्वमेषितव्याद्यभावेन विभागापरिकल्पनात् अत एव शक्तिसामरस्यं पूर्णचिन्मात्रप्रकाशतात्मत्वाच्चिदाह्लादपरत्वं चोक्तम् सैव च निर्विभागता परावस्था यदैवमास्ते परस्तदेत्युक्ता || (शि० दृ० श्लो० ४)] स यदास्ते चिदाह्लादमात्रानुभवतल्लयः ||२२|| ३) तदिच्छा तावती ज्ञानं तावत्तावत्क्रिया हि सा | सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते ||२३|| चिद्रूपाह्लादपरमस्तदाभिन्नो भवेदिति | ननु चेदृशि विश्वात्मभूते संकोचवर्जनात् ||२४ || विकल्पकल्पनामूलाः कथं शास्त्रादिसंपदः | उच्यते सर्व एवायं बोधः संवित्प्रभामयः ||२५|| प्रकाशरूपतायोगाच्चिदामर्शघनात्मकः | तत्रामर्शस्वभावोऽयं यः प्रकाशः प्रकाशते ||२६ ||
SK
स एव किन्न शास्त्रौघः किमन्यैर्युक्तिडम्बरैः | परवाग्देवताविद्धस्तत्रासौ केवलं भवेत् ||२७|| न तु लौकिकमायीयवर्णपुञ्जविचित्रितः | [अत्र वृत्तिः - चिदात्मनश्चेश्वरस्यात्मनीवाभेदेनार्थेष्वपि प्रकाशोऽस्त्यन्यथा प्रतिभासमानार्थैकविषयो निर्मातृतामयो विमर्श इच्छारूपो न स्यात् || (प्र० भि० अ० १ आ० ५ श्लो० १०)] उक्तं श्रीप्रत्यभिज्ञायामात्मसंस्थस्य भासनम् ||१८ || अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते | स्वभावमवभासस्य विमर्शं विदुरन्यथा ||२९|| प्रकाशोऽर्थोपरक्तोऽपि तुल्यो रत्नादिकैरिति [अत्र वृत्तिः - प्रकाशस्य मुख्य आत्मा प्रत्यवमर्शस्तं विनार्थभेदिताकारस्यास्य स्वच्छतामात्रं न त्वजाड्यं चमत्कृतेरभावात् || (प्र० मि० अ० १ आ० ५ श्लो० ११)] || किं च यत्किञ्च नामात्र चिच्चमत्कारगोचरः ||३०|| ह्लादनामादिविषयस्तदासौ भवति स्फुटः | तद्विमर्शान्तरालम्बसमुच्छलनयोगतः ||३१|| पश्चात्सुस्फुटतामेति तथा च गुरुरूचिवान् | ५) यथा स्वसंविदा सिद्धं सुखादि व्यवतिष्ठते ||३२|| न हि व्यवस्थासमये वेद्यते तत्स्वसंविदा | तथावश्योपगन्तव्यः स्वसंवित्साधनादिति? ||३३|| एवमत्रापि पश्चाद्यज्ज्ञानाद्युल्लासवर्त्मनि | सर्वाभेदमयी भूमिर्यावदामृश्यतां व्रजेत् ||३४|| तावत्तदुचितोदारविमर्शांशस्फुटत्वतः | तादृक्स एव शास्त्रत्वं [शास्त्रत्वप्रागिति पाठः] प्राग्विसर्गः प्रपद्यते ||३५|| एतदेव तु युक्तं स्यात् तथा ह्यनुपधौ परे | शास्त्रार्थेऽपि समाचारलेशः कोऽपि विभाव्यते ||३६|| स नूनं स्फुटताधामभाविज्ञानादिशक्तिमान् | उपरागात्ततस्तत्तद्वैचित्यपरिबृंहितः ||३७|| यथा मुखस्य तद्व्यक्तिस्थानेऽप्सु मुकुरे मणौ | खड्गे चञ्चलसद्वृत्तसूक्ष्मदीर्घादिका स्थितिः ||३८|| तदित्थं परमे रूपे प्रोद्भूता ज्ञानसंपदः | अनवच्छिन्नहृदयबीजात्मत्रयसुन्दराः ||३९|| यदा तूछलदाकारस्वतरङ्गान्तरात्मकान् | विसिसृक्षति भावौघान्भैरवः शक्तिबृंहितः ||४०||
SK
तदा ता एव विज्ञानसंपदस्तदुपाधिजाम् [उपाधिजान् इति पाठः] | ईषत्क्रियासमाचारयन्त्रणां संश्रिता इव ||४१|| परितस्तत्तरङ्गौघसात्मतां [घमास्मतेति पाठः] समुपाश्रिते | तथापि जगदानन्दसुन्दरे बोधभैरवे ||४२|| भावनिर्भरतामात्रसंतृप्ते शक्तिशालिनि | पूर्णया [पूजयेति पाठः] निजशक्त्यैव न्यक्कृते शक्तिमत्पदे || ४३|| ६) तादृगेव विमर्शात्मा ज्ञानधारा विजृम्भते | यस्यां भोगोपदेशेन कोऽपि ह्लादः प्रवर्तते ||४४|| यदीयसंविदाचारचर्याविस्रम्भभावितः | भोगव्रातोऽपि धन्यानां निःश्रेयसपदायते ||४५|| यत्रोच्यते स्वशक्त्यादिक्षोभसंरम्भनिर्भरा | देवस्य यागप्रियता विशेषान्मातृमध्यतः ||४६|| ऐश्वर्यशक्त्युद्रेकेण लब्धेश्वरपदाभिधः | देवो विज्ञानमहिमा प्रोद्भूतोऽयं प्रपञ्चितः ||४७|| अत्राप्यनन्तभावांशसंयोजनवियोजने | प्रग्दशाभेदसंधानादसंख्यत्वमुपाश्रिते ||४८|| तदुपाधिवशादेव संविज्ज्ञानपदोज्झितां | तायन्ते विविधाः शास्त्रक्रियाज्ञानविभूतयः ||४९|| मुख्यस्त्वेष प्रपञ्चोऽयं पञ्चात्मत्वेन चर्चितः | तथा च वक्ष्यते [शिवस्य सव्यापारत्वेन क्रियाशक्तिप्रधाना जागरा अधिपत्वेन स्वस्वातन्त्र्यादसाधारणतत्तत्सृष्टिमयो ज्ञानशक्तिप्रधानः स्वप्नः ज्ञानक्रियाभ्यां हीनेनौदासीन्यप्रच्यावात्मना प्रेरकत्वेनेच्छाप्रधानं सौषुप्तम् एषणीयपूर्णतया तन्निवृत्त्याप्यानन्दशक्तिप्रधानं तुर्यम् निरानन्दतया सर्वसर्वात्मकपरिपूर्णस्वस्वरूपविश्रान्तेः चिच्छक्तिप्रधानं तुर्यातीतमिति पञ्चावस्थात्मकमित्यर्थः ||] तत्त्वमभिन्नमपि पञ्चधा ||५०|| सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः | इच्छानिवृत्तेः स्वच्छत्वादित्याद्यैर्वाक्यसंचयैः ||५१|| नन्वेतावति सन्दर्भे देशकालकलाकृताः | ७) भेदा न संभवन्त्येव बाढमोमिति वच्महे ||५२|| न ह्यत्र कालतत्वस्य नाममात्रं विभाव्यते | वैभव्यपि महाकाली शक्तिर्नात्र विजृम्भते || ५३||
SK
तर्ह्यभिन्ने स्वसंपूर्णे तदा पश्चात् पुनर्यदा | परतश्चेति [परतश्चैतिकोन्मेष इति पाठ] को न्वेष वाचोयुक्तिपरिग्रहः ||५४|| अत्र ब्रूमः सत्यमेव वस्तुतस्तु स्फुटात्मनि | जृम्भिते तत्त्वसर्गेऽपि कालेऽप्युन्मिषितात्मनि [कालोऽपीति पाठः] ||५५|| बोधस्य नैव सन्त्येताः पूर्वापरविकल्पनाः | कालो विशेषणत्वेन यस्माद्भवति भेदकः ||५६|| विशेषणं च तत्प्रोक्तं समशीर्षिकयैव यत् | भेदेन वेद्यतामेति यथा नीलं सरोरुहम् ||५७|| न च बोधस्य वेद्यत्वं कदाचिदुपपद्यते | वेद्यत्वं भासमानत्वं तत्प्रकाशप्रसादतः ||५८|| प्रकाशः स सबोधश्च स चेद्बोधान्तरस्थितेः | प्रकाशानियमान्नूनमनवस्था [शनिमयादिति पाठः] प्रवर्तते || ५९|| अत एव विमूढा ये बोधमप्रथमानकम् | अर्थप्रथात्मकं ब्रूयुः स्ववचोवञ्चितास्तु ते ||६०|| तस्मात् कालो न बोधस्य भेदकत्वाय कल्पते | नापि वेद्यस्य कालोऽसौ भेदकीभवितुं क्षमः ||६१|| विश्वं हि बोधाभिन्नं तदतथात्वे न भासते | प्रकाशेन समाविषटश्चित्रं भावः प्रकाशते ||६२|| ८) विश्वप्रकाश एवं स्यात् सर्वस्यैव सदातनः | सति प्रकाशे बोधाख्ये स प्रकाशत्वमश्नुते ||६३|| अप्रकाशोऽपि भावश्चेत्प्रकाशात्मा स वेद्यते | अप्रकाशस्त्वसौ भाव इत्यत्र शरणं तमः ||६४ || यश्चाप्रकाशो भावात्मा प्रकाशात्मा स चेत्कृतः | नूनं स भावो नष्टः स्यात् स्वाप्रकाशत्वविच्युतेः [स्वप्रकाशेति पाठः] ||६५|| नातद्रूपं पकाशं च कर्तुं विधिरपि क्षमः | ननु तावदिदंभावः प्रकाशे सति भासते ||६६|| अस्त्वेतदेव किंत्वित्थमप्रकाशः प्रकाशताम् | भावस्य चाप्रकाशत्वे प्रकाशीभाविते सति ||६७|| नैवं प्रकाशितो भाव इति वस्तुस्थितिर्भवेत् | तदलं व्यतिरिक्तेन प्रकाशेन शिवस्तथा ||६८|| तस्मात् प्रकाश एवासौ गीतो यः परमः शिवः | स एवाचिन्त्यमहिमा स्वातन्त्र्योद्दामघूर्णितः ||६९|| प्रकाशते तथा तैस्तैः स्वभावैरच्युतस्थितिः | नात्र सर्वत्र सर्वज्ञभावः कश्चन शङ्क्यते ||७०||
SK
अहं चैत्रो घटं वेद्मि न पठं वेद तं द्वयम् | नायं वेत्ति पटः सोऽहं जाने घटपटाविति ||७१|| वेदिष्यामि न वा पूर्वमजानन्नैव वा क्वचित् | क्रमेण वेद्मि युगपद्द्वाभ्यामुभयवर्जितम् ||७२|| सर्वं वेद्मि न किंचिच्च जाने नैवास्मि कश्चन | भावात्मा ननु नैवाहमहं सर्वं च सर्वदा ||७३|| सर्वमस्म्यहमेवैकः किं सर्वमितरद्भवेत् | ९) इत्यादिरेक एवायं प्रकाशः प्रविजृम्भते ||७४|| नन्वेको यद्यसः कश्चित् प्रकाशो न तदा परः | कथं भवेदहो मूढः कथं व्युत्पाद्यतामयम् ||७५|| एकः प्रकाशः स्वातन्त्याच्चित्ररूपः प्रकाशते | वस्तुतश्च न चित्रोऽसौ नाचित्रो भेददूषणात् ||७६|| घटप्रकाशे वस्त्रस्य प्रकाशो यदि संभवेत् | नासौ घटप्रकाशः स्याद्द्विप्रकाशो ह्यसौ भवेत् ||७७|| सोऽपि चास्त्येव नो नास्ति तदिदं त्वत्प्रचोदितम् | घटात्मना प्रकाशोऽस्य माभुदित्यवतिष्ठते ||७८|| तच्चायुक्तं प्रकाशस्य बोधत्वात्स्वात्मजृम्भणम् | लक्षणं यदि तत्कोऽयं वृथा वाग्जालडम्बरः ||७९|| परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् | जडाद्विलक्षणो बोधो यतो न परिमीयते ||८०|| तस्मादर्कस्य सद्भावे सिद्धे कः खलु वालिशः | ब्रूयात्कथमयं स्वांशुशुभ्रिताशेष भूरिति ||८१|| तस्मात्सिद्धे प्रकाशेऽस्मिन्याः प्रकाशविकल्पनाः | तस्मात् ताः सर्वसंभुक्तयोषिच्चारित्रपालनाः ||८२|| असिद्धौ च प्रकाशस्य कोऽहं किं त्वं तमोऽपि किम् | न किंचिदपि वा किं स्यात्तूष्णीं स्यादपि वा कथम् ||८३|| तस्मात् प्रकाशतादात्म्यलब्धभैरवभागिनाम् | भावानामपि कालोऽयं न किंचित् कर्तुमर्हति ||८४|| हन्त तर्हि कथंकारं तदेत्यादिवचः क्रमः | श्रूयतामुक्तमप्येतत्पुनर्निर्भज्य भण्यते ||८५|| यः प्रकाशः स एवायं प्रतिभाति तथा तथा | १०) नैव चान्यस्य कस्यापि स तु भात्येव केवलम् ||८६|| स एव परमोदारः सर्वस्यैवावभासकः | स्वतन्त्र इति तस्येच्छा शक्तिः [शक्तिस्वातन्त्र्येति पाठः] स्वातन्त्र्यसंज्ञिता ||८७||
SK
स च स्वात्मनि विश्रान्तस्तदन्याभावयोगतः | स्वात्मविश्रान्तिरेवैषा देवस्यानन्द उच्यते ||८८||| स्वातन्त्र्यमहिमा वास्य स्वरूपादपृथक्स्थितिः | स्वप्रकाशे निजे धाम्नि भासयेद्भावविभ्रमान् ||८९|| भासना च क्रियाशक्तिरिति शास्त्रेषु कथ्यते | यया विचित्रतत्वादिकलना प्रविभज्यते ||९०|| भासनानवभाते च कथं नाम प्रकल्पते | तदस्यान्तःस्थितं भानं ज्ञानशक्तिरहं स्मृता ||८१|| एतावदस्य देवस्य यद्रूपं स्वात्ममात्रतः | स उन्मेष इति प्रोक्तः पञ्चशक्तिस्ततो विभुः ||९२|| त्रिशक्तिरेकशक्तिर्वा देवो वा केवलः स्थितः | शक्तिरेवाथ देवी सा सा च शास्त्रे निरूप्यते ||९३|| वक्ष्यते च जगद्धातुः कथितेत्यादितः परम् | सैका सत्यनेकत्वं वै गच्छतीति महेशिना ||९४|| स चायं निर्भरानन्दविश्रान्तिस्वात्मसुस्थितः | सोदर्यैः शब्दसंदर्भैर्भाष्यते भैरवादिभिः ||९५|| सविधं दूरगं वापि यद्यप्यस्य न वस्तुतः | शब्दजातं भवेत् किंचिदन्यदप्यथ वा प्रभोः ||९६|| तथा च भासयत्येव देव एष तथा तथा | ११) ततस्तदनुसारेण सर्वोऽयं कल्पनाक्रमः ||९७|| न च तत्कल्पनामात्रं तथात्वेऽप्यथ का क्षितिः | तथा संकल्पतां देवो [देवयद्वेति पाठः] यद्वा कल्पयतां तथा ||९८|| एवं चैष प्रकाशात्मा सप्तत्रिंशात्मकात्परः | वैचित्र्यभासनां कुर्वन्कालं भासयति प्रभुः ||९९|| वैचित्र्यभासनैवेयं कालशक्तिरुदाहृता | ततोऽवभासमानैतत्कालशक्त्यनुरोधतः ||१००|| आस्मकीनात्तदेत्यादिरुपरागः प्रवर्तते | न चासौ तत्र नास्त्येव तत्र यन्नास्ति तत्कुतः ||१०१|| अन्यत्र तन्यतां नाम तत्प्रकाशवशं हितम् | नन्वेवमपरे तत्त्वजाले शुद्धेतरस्थितौ ||१०२|| शुद्धाशुद्धपदे वापि विद्यादौ तत्त्वमण्डले | शुद्धभैरवसद्भावादविशेषो भविष्यति ||१०३|| नरीनृत्यामहे हन्त यत्नाद्व्याख्येयमेव नः | आयुष्मतो यद्धृदये स्वयं विपरिवर्तते ||१०४|| शुद्धाशुद्धविभेदो हि परमार्थकथासु नो | स तु तत्कृत एवास्ते मूढानां धियि निश्चलः ||१०५||
SK
ननु शुद्धेतरत्वाख्यो यदि भेदो न वास्तवः | व्याचिकीर्षितमेवैतच्छास्त्रं विवदते ततः ||१०६|| अशुद्धत्वं हि तत्वानां दीक्षया शोधनं ततः | इत्यादि बहुधा भेदप्रधानात्र यतः स्थितिः ||१०७|| उच्यते नाद्वयेऽमुष्मिन्द्वैतं नास्त्येव सर्वथा | उक्तं हि भेदवन्ध्येऽपि विभौ भेदावभासनम् ||१०८|| १२) तदेव खलु संसारो मायाविद्यादिभिः पदैः | बन्ध [गन्ध इति पाठः] इत्युच्यते तत्र रूढाः संसारिणो मताः || १०९|| तच्चिन्तानुसृतैरेषां शुद्धाशुद्धादिनिश्चयः | किं च शास्त्रमिदं सम्यग् भगवद्योगदेशकम् ||११०|| भगवद्योगमद्वैतं निर्द्वन्द्वं च प्रचक्षते | तस्योपदेश इत्थं स्याद्यदि यावद्विभेदवत् ||१११|| संभाव्यते तन्निर्भक्त्या निर्भज्यैव निरूप्यते | अद्वैतभैरवविभौ यत्प्रवेशोपवेशयोः ||११२|| आभ्यासिकी स्थितिर्नास्ति तौ हि भेदैकजीवितौ | अतः संभाव्यनिखिलद्वैतशङ्काव्यपोहने ||११३|| गुरूणां च शिशूनां च यत्नः सर्वैर्विजृम्भते | अतो द्वैतमिहाशङ्क्याशङ्क्य सर्वं प्रतन्यते ||११४|| तद्यावद्गति संभाव्य न तु तत्राप्युदास्यते | तथा हि यदि नामृष्टं द्वैतं तर्ह्येकमेव सत् ||११५|| चिद्ब्रह्म तदलं तत्त्वसंख्याकल्पननिर्णयैः | पञ्चविंशतिता कस्मात् तत्त्वानां तन्निरूप्यते ||११६|| तस्माद्द्वैतस्य भेदात्मस्थितेर्यावद्गतिग्रहम् | कृत्वा यस्तत्प्रतिक्षेपस्तेन निःशङ्कता भवेत् ||११७|| एतदेव च विज्ञाने निर्भिद्यैवोपदेशनम् | यथासंभवितद्वज्रपक्षाणां यद्विदारणं ||११८|| तथा हि श्रीमता स्तोत्रे भट्टनारायणेन तत् | नमस्ते भवसंभ्रान्तभ्रान्तिमुद्भाव्य भिन्दते ||११९|| १३)
SK
ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते | [हे देव स्वतन्त्रचेष्टित भवे संसारे ये संभ्रान्ताः त्वन्मायाशक्तिवशात् व्यामूढाः तत एव च भेदासक्तत्वात्कर्मनिष्ठास्तेषां पूर्वकक्ष्यायां तां तां भेदभ्रान्तिमुद्भाव्य सिद्धान्तकक्ष्यायां भिन्दते ध्वंसकाय तथा ज्ञानानन्दं परमाद्वयरूपं विज्ञानमानन्दमयं वृत्वा प्रथमं रहस्यत्वात् अयोग्यान्प्रति आच्छाद्य पश्चात् योग्यान्प्रति विवृण्वते स्फुटीकुर्वते तुभ्यं नमः | एवं च यत्पूर्वपक्षतया कर्मकाण्डस्वरूपं भगवता हेयत्वेन दर्शितं तदेव मूढैरुपादेयत्वेन अभ्युपगम्य ज्ञानकाण्डस्यार्थवादत्वमुच्यते | अथवा भगवतैव सृष्ट्यादिकृत्यचतुष्टयरक्षायै ते तादृशाश्वासवन्तो व्यामोहिताः स्थापिताः || (स्त० चि० ७१ श्लो०)] निर्द्वन्द्वमिति निर्द्वैतं प्रकटीक्रियते पदम् ||१२०|| उद्भाव्यन्ते भ्रमाश्चेति चकारोऽत्राद्भुतावहः | इह चाद्वैतमेवेति पुरतः प्रतनिष्यते ||१२१|| अध्वशुद्ध्यादिकं द्वैतेऽनुपपत्तीति वक्ष्यते | अभेदेन विना नैतन्ननु भेदं विनापि किम् ||१२२|| सत्यं किंतु द्वये तत्त्वे भेदोऽपि न न युज्यते | इदं हि तत्पराद्वैतं भेदत्यागग्रहौ न यत् ||१२३|| भेदे तु विश्वभावानां स्वस्वभावव्यवस्थितेः | अभेद इति शब्दोऽयं मन्ये भेदयते रसान् ||१२४|| तदलं प्रकृतं निरूप्यते परमेशः किल भेदकल्पनाम् | प्रकटीकुरुते यथा तथा ननु कालोऽपि विजृम्भते तथा ||१२५|| न तथापि च याति भिन्नतां परमार्थेन कदाचिदेव सः | युगपत्स हि संविदात्मकः १४) स्वातन्त्र्याद्बहुधा प्रकाशते ||१२६|| क्रमकालविवर्जनाशयं युगपच्छब्दमिमं प्रयुञ्जते | नन्वित्थमेकघनभावविमर्शसारे संवेदने यदहमेष करोमि चित्रः | जानामि वा तदपरेऽपि न मैत्रचैत्र- प्राया विदध्युरथवापि कथं न विद्युः ||१२७|| अहो मायाग्रन्थिर्निविडतम एषोऽत्र भवता- मिदं हि प्रब्रूमः स्वपरमिह नास्त्येकमभिदम् | अहं वेद्मीत्येषा घटतनुविशेषप्रकटता प्रथाश्चित्राकाराः परमहसि भान्तीति कथितम् ||१२८||
SK
तस्माद्घटं वेद्म्यहमित्यमुत्र भेदो न कश्चिन्ननु मे घटोऽयम् | भातीति भेदप्रतिभानमस्ति नैतन्न तस्यैष शिवस्तथायम् ||१२९|| अत एव द्वैपायनमुख्यास्तेषु स्वशास्त्रशेषु | ममकारमेव मृत्युं खण्डनदायित्वतः प्राहुः ||१३०|| तदेवं कालकलनोपाधिजातोपरागजाः | तदेत्यादि प्रतायन्ते परतत्त्वेऽपि संविदः ||१३१|| तत्र पूर्णैकरूपत्वात्सर्वं सर्वत्र चापि तत् | अन्यथा खण्डनायोगान्न पूर्णा पूर्णता भवेत् ||१३२|| ततः पूर्णतया सर्वंसहभैरवधामनि [महाभैरवेति पाठः] | पञ्चात्मकोऽयं शास्त्रार्थः शांभवः शक्त्यणुस्थितिम् ||१३३|| १५) न्यक्कृत्यैषा परा देवी स्वात्मन्युद्रेच्य वर्तते | इत्थं स विसिसृक्षुः सन् भावान्विस्रष्टृतापदात् ||१३४|| पूर्वमुच्छलितानन्दघनामभजत स्थितिम् | विस्रष्टृतापदे त्वेष विसर्गावेशभागपि ||१३५|| रिक्तीभविष्यन्नानन्दघनया पूर्णया चिता | तावदानन्दशक्त्यंशविसर्गावेशनिर्भरः ||१३६|| वर्तमानस्वशक्त्योघपूर्णश्चाभूद्भविष्यति | रिक्तशक्तिरिति त्र्यात्मचित्रसंवेदनात्मकः ||१३७|| तदासौ देवदेवः स्याद्विस्रष्टरि पदे स्फुटम् | ननु किं वर्तमानांशे संस्तो भूतभविष्यती ||१३८|| किं नाम भवता ज्ञातं ते स्वतन्त्रेऽपि केचन | वर्तमानावधेर्भूतं भविष्यच्च विभज्यते ||१३९|| यच्च यत्र न विश्रान्तं तद्विभज्येत वै कुतः | कथं चावधिभावः स्याद्वर्तमानस्य ते प्रति ||१४०|| तयोरवधिमत्त्वं वा तत्प्रत्यपि कथं भवेत् | विश्वस्य विश्वमवधिस्तद्वद्वा जायते न किम् ||१४१|| तस्माद्भूतं भविष्यच्च वर्तमानाख्यसंविदि | रूढमेवेति तत्रैव यदि विश्रान्तिमावहेत् ||१४२|| यदि चात्रैव निखिलकल्पनारश्मिमण्डलम् | अविस्फार्य क्षणं तिष्ठेत् संनिरुद्धनिजस्थितिः ||१४३|| तन्निजामृतविस्फारचमत्कारैकचर्वणाम् | लभते परमानन्दसुधासन्दोहवाहिनीम् ||१४४|| तथा हि सूर्यरश्म्योघपूर्णः स्याच्चन्द्रमा यदा | तदा सूर्यकरान्भूयो यावन्न विसिसृक्षति ||१४५|| १६)
SK
तावत्स्वमण्डलाभोगे क्षणं विश्रान्तिसुस्थितः | अन्तःस्थविश्वदेवांशतर्पणापात्रमुच्यते ||१४६|| एवं भावप्रकाशार्कमरीचिनिचयाञ्चिते | स्वबोधचन्द्रमहसि वर्तमाने हृदन्तरे ||१४७|| विश्रान्तोऽन्तःस्थितोदारचित्सुद्धासारसुन्दरे | अन्तःस्थस्वामृतापूरो वम्यते न बहिर्यतः ||१४८|| तत एवान्तरेवासौ घूर्णमानः समुच्छलन् | स्वान्तःस्थदेवताचक्रतर्पणाहंविदात्मकः ||१४९|| जायते यावदुद्दाम्येत्तावत्स्वकरणक्रमः | निरुद्धे रश्मिपटले विभवाभावयोगतः ||१५०|| न भूतं न भविष्यच्च वर्तमानाद्विभज्यते | अविभागस्तयोर्यावत्तावत्का वर्तमानता ||१५१|| भूतभाविस्वभावाभ्यां सा हि याति विभागिताम् | तदस्मिन्संविदवधौ [सविवधौ इति पाठः] विश्रम्य तुटिमात्रकम् ||१५२|| कालग्रासपरो योगी जायते खेचरः क्षणात् | उक्तं हि भावाभासो यः कालः स कलनात्मकः ||१५३|| स्वसंविद्रश्मिसंस्फारो भावाभावः स नापरः | तस्मात्स्वरश्मिसंसेधद्वाररुद्धाध्वमण्डलः ||१५४|| कालग्रासैकरसिको जायते खेचरः स्वयम् | तदुक्तं परमेशेन तन्त्रे श्रीडामराभिधे ||१५५|| निरुद्ध्य रश्मिचक्रं स्वं पीत्वामृतमनुत्तमम् | कालोभयापरिच्छिन्ने वर्तमाने सुखी भवेत् || १५६|| रोधोऽपि नाम नैतस्मिन्संकोचपरिवर्जिते | १७) तदभावान्न विस्फारो ग्रासतृप्ती तथात्र कं ||१५७|| किं तूक्तनीत्या संरोधस्फारग्रासादि भासते | न तथाभासनाच्चान्यवस्तु विश्वत्र किंचन ||१५८|| इत्यलं खेचरीचक्रगोष्ठ्यालापेन भूयसा | को वाभिनवगुप्तेऽस्मिन्योगः संवेदनक्रमे ||१५९|| प्रकृतं ब्रूमहे देवीविसृष्टाश्चित्रसंविदः | यावत्तावत्तदूर्ध्वोर्ध्वं स्रोतो यद्भेदवर्जितम् ||१६०|| सौरभर्गशिखादीनि ततः शास्त्राणि तेनिरे | उक्तं भर्गशिखायां च देवेन परमेष्ठिना ||१६१|| ऊर्ध्वस्रोतोद्भवं ज्ञानमिदं तत्परमं प्रिये | परमध्वनिनोर्ध्वोर्ध्वं संविद्रूपाभिधायिना ||१६२|| ईशानवक्त्रनिर्यातात्सिद्धान्ताद्भेदमादिशत् | अत्रापि पूर्वभेदांशव्यामिश्रीभावचित्रिताः ||१६३||
SK
विज्ञानसंपदस्तांस्तांस्तन्वते शास्त्रविभ्रमान् | इह यावत् तु मुख्येयं षडात्मा शास्त्रसन्ततिः ||१६४|| एतत्पूर्वार्धभागीनि त्रिकशास्त्राणि यानि तु | षडर्धसंज्ञया तानि गुरुभिर्भापितान्यलम् ||१६५|| न तु गूढरहस्यत्वादेवैष वचनक्रमः | एवं हि द्वादशार्धार्धमित्याद्यपि न किं भवेत् ||१६६|| अत्र शक्तित्रयं मुख्यं संपूर्णस्थिति कल्पते | अनन्योन्योपरोधेन पूर्णं पूर्णचिदात्मकम् ||१६७|| ततः परं तु त्रितयं कस्यांचिद्गुणताजुषि | अन्यस्यां गुणताभाजि यामलं परिभाष्यते ||१६८|| पश्चाद्विसृष्टेऽर्थौघे तद्वैचित्र्योपाधियोगतः | १८) पृथग्भाववियोगासु स्वात्मशक्तिषु पञ्चसु ||१६९|| चित्स्पन्देच्छाविदाकर्मरूपासु स्वौचितीवशात् | पञ्चब्रह्माङ्गसुभगात्स्फुरद्भावांशबोधजम् ||१७०|| रूपं शास्त्रात्मतां प्राप्तं पञ्चधैव विजृम्भते | तथा हि प्रागनन्तान्तस्थितभावौघजृम्भणम् ||१७१|| यावत्करोति भगवांस्तावदीशमुखस्थितिः | अन्तःस्थाया अभिन्नायाः क्रियाशक्तेर्विजृम्भणे ||१७२|| क्रमादुन्मिषिते तावानेष स्फारः प्रतायते | क्रियाशक्तेः स्फुटः स्फारः मायात्वं प्रतिपद्यते [प्रतिपत्स्यते इति पाठः] ||१७३|| मायातत्वस्वरूपे हि शिवेशानीति वक्ष्यते | शुद्धाशुद्धेतराशुद्धविश्वनिर्माणकारिणः ||१७४|| पञ्चमन्त्रतनोः शंभोर्निर्मेयाशुद्धसंगतिः | अस्त्येव पूर्वकोट्यां हि सर्वमेव व्यवस्थितम् ||१७५|| तथाहि स्वगृहात्क्वापि यियासोः प्रथमक्षणे | यावत्किंचन कर्तव्यं यच्च तन्मध्यवृत्ति तु ||१७६|| तुटिपातेऽपि सर्वज्ञसर्वकर्तृत्वलब्धृता | तत एव विशेषांशनिष्कम्पकुशलात्मनाम् ||१७७|| तथा हि जात्यखड्गाग्रधारासंस्पर्शसंमिता | स्फुरत्त्वसमकालं धीर्विशेषांशान्प्रकर्षति ||१७८|| रत्नतत्त्वस्फुटप्रज्ञो विद्युत्तत्कालदर्शितान् | तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि ||१७९|| अनेकस्वरसंभारस्पर्शलाघवयोजिते | वीणायामेकविस्तारे वैचित्र्यं वेत्ति तन्मयः ||१८०|| १९)
SK
निविडाभ्यासधाराग्रविश्रान्तश्रवणेन्द्रियः | वेत्त्येव तत्स्वरांशान्तःश्रुत्यूनाधिकतामपि ||१८१|| आस्तामभेदवादेऽस्मिन्नयत्नेनैव सिद्ध्यति | एतद्यत्र विभातेऽपि भेदे वास्तवमद्वयम् ||१८२|| भेदैकजीविते शास्त्रे यावदेतत्स्थितं स्फुटम् | तथा हि पतञ्जलिना पादे वैभूतनामनि ||१८३|| न्यरूप्यत प्रातिभाद्वा सर्वमत्र मयापि च | प्रातिभे प्रथमोन्मेषे संविद्रूपिण्यखण्डिते ||१८४|| स्थितः सर्वस्फुरत्तात्मा [स्फुरतात्मेति पाठः] सर्वसिद्धिफलोदयः | एवं जगति निर्मेये निर्मित्सास्वीकृतं बलात् ||१८५|| अशुद्धमपि तद्रूपनानावैचित्र्ययोग्यपि | सामान्याकाररूपेण दलं भेदात्मसुन्दरम् ||१८६|| आस्ते प्रोन्मिषितं सैषा भेदाभेदात्मिका स्थितिः | अत एव हि सादाख्ये ज्ञानशक्तिस्वरूपिणि ||१८७|| अशुद्धलेशकालुष्यात्परापरतया स्थितिः | तेनेशभुक्तादेतस्मादप्यूर्ध्वपदभागिनः ||१८८|| मायाप्रकटनौत्सुक्यात्तत्संस्कारजुषस्तथा | बहुक्रियासमारम्भमयं विविधमन्त्रणम् ||१८९|| प्रादुर्भूतमहाज्ञानसन्ततेश्च शिवप्रदम् | स हि तत्रापरो [स हि तन्नापर इति पाठः] भावः परभावनिमीलितः [तथा निमीजन इति पाठः] ||१९०|| न तु रूढिमुपागच्छेदशुद्धाध्वविधाविव | तेन वैष्णवबौद्धादिशासनान्तरनिष्ठिताः ||१९१|| २०) यथा सम्यङ्न मुच्यन्ते न तथा शैवसंस्कृताः | अतिमार्गक्रमकुलत्रिकस्रोतोन्तरादिषु ||१९२|| परमेशानशास्त्रे तु ये सम्यग्दीक्षिता नराः | तेषां नैवापवर्गस्य लाभे भेदोऽस्ति कश्चन ||१९३|| न चैतदतिरिक्तोऽपि मोक्षोपायोऽस्ति कश्चन | केवलं क्वाप्यनायासा जीवन्मुक्तिक्रमेण च ||१९४|| शीघ्रमेव परा सिद्धिर्यथास्मद्दर्शनेष्विति | क्वापि तत्त्वावलीयोगपरिपाटीक्रमाच्चिरात् ||१९५|| तैस्तैः क्रियाकलापैश्च लभ्यते परमं फलम् | अत एवास्ति संहारदृशां कौलिक्यपीह दृक् ||१९६|| यथोक्तं कालपादादौ दीक्षयेच्छ्वपचानिति | चिदुन्मेषादिकाः पञ्च याः पूर्वं प्रागभेदतः ||१९७||
SK
प्रोक्ताः परस्मिंच्चिन्नाथे भैरवे समवायतः | ता एव भावोपाध्यंशलब्धभेदविभाविताः ||१९८|| भेदांशमेव पुष्णन्ति प्रागभेदजुषोऽप्यलम् | तथा ह्योदनसंभोगो यो देहस्योपचायकः ||१९९|| कफसंचयपातेन स देहस्यापचायकः | ननु देवस्य विश्वात्मभेदेऽपि स्वापरिच्युतेः ||२००|| विकारिष्वेव योग्यानामुपाधीनां गतिः कुतः | तदुपाधिवशाद्भेदो भैरवे भावसंभवात् ||२०१|| इति नास्मन्मनोभूमामुपारोढुमिहार्हति | तूष्णीं विकारिणो भावाः सन्तीति ह्यतिसाहसम् ||२०२|| देवः स एव विश्वात्मा तथारूपेण भासते | अनुपाधेरभिन्नस्य भीन्नं नोपाधिभासनम् ||२०३|| २१) नन्वित्थं तदसत्यं स्यात्कथं सत्यं तदेव हि | तथावभासनादन्यत्क्व किं सत्यं निरूप्यताम् || २०४|| नन्वेवं स्वप्नसंसारः किं सत्यं किंत्वसौ किल | अभीष्टार्थक्रियावन्ध्योऽसत्यो व्यवहृतः परम् ||२०५|| एतच्चाग्रे प्रपञ्चेन युक्तियुक्तं निरूप्यते | तस्मादुन्मेषशक्तिर्या पूर्वमासीदभेदिनी ||२०६|| भावोन्मेषस्वरूपासौ याता तत्पुरुषस्थितिम् | यदभिन्नं तदग्राह्यं यच्चाग्राहकमीश्वरम् ||२०७|| अधुना तत्स्थितं ग्राह्यं भेदात्तद्ग्राहकं भिदः | पुरुषाख्यं ततः [यत इति पाठः] प्रोक्तं सृष्टेः प्रारम्भयोगतः ||२०८|| सुस्फुटप्रत्यभिज्ञानान्मुख्यं वक्त्रं च भण्यते | अत एवात्र विसरभावस्थितिविघातकम् ||२०९|| नानारुग्ग्रहसंघातविषादि परिचर्च्यते | अनेकयुक्तिदलितव्याधिसंशान्तसुस्थिताः ||२१०|| अत्र सुस्फुटतां यान्ति भावा भेदैकवृत्तयः | भावत्वमेव यत्सर्वं तत्त्विदं [तत्तेदमिति पाठः] पूर्वजं मुखम् ||२११|| सर्वतश्च गुणोत्कर्षादीशानस्योर्ध्ववक्त्रता [वक्त्रगेति पाठः] | दिक्कालकलनाशून्ये न तु दिग्भेदकल्पनाः ||२१२|| यो हि यस्माद्गुणोत्कृष्ट इति चोर्ध्वो भविष्यति | ततो भावान्यदा सम्यगिच्छतीच्छाविभूतितः ||२१३|| तदेच्छायां समारूढाः सा चेच्छा चैव निर्मला | येन [निर्मलेच्छामयतायोगात्] तन्मयतायोगात्संविदैक्यं स्पृशन्त्यमी ||२१४|| २२)
SK
किंतूपाध्युपरक्तेच्छासंछादनतिरोहिताः | ते तदानीं स्थिता भावा देवस्तु स्वैषणास्थितः ||२१५|| पराचीनितसंवित्तिवक्त्रो [पराचीनिति इति पाठः] न च परां स्थितिम् | पूर्णामध्युषितस्तेन सुषुप्त इव भासते ||२१६|| असुप्तश्च प्रबुद्धत्वात्तस्य स्वापो निमीलनम् | नह्यस्ति परमार्थेन भैरवानन्दसंविदः ||२१७|| तस्मिन्परप्रकाशे हि निमीलत्त्वमुपागते | प्रलयात्तन्निमीलत्त्वमितिर्वा [प्रलयास्तेति पाठः] कुत्र भासताम् || २१८|| अनाभातं च नो वस्तु व्योमसद्मगवाक्षवत् | सोऽपि वा कल्पिताकारश्चित्प्रकाशे प्रकाशते ||२१९|| तदमीलित एवायं निमीलन्निव तिष्ठति | प्रभूणामविकल्प्या हि शक्तिर्दुर्घटकारिणाम् ||२२०|| इदं सुखेन घटते दुःखेन घटते त्वेदम् | इत्याभासनवैचित्र्ये स्वतन्त्रो हि स एव नः ||२२१|| तदेव तस्य स्वातन्त्र्यं शक्तिर्नियतिनामिका [नियतिर्नाम यस्याः सा] | यया रुद्धः पशुर्जातु स्वातन्त्र्यं [स्वान्त्र्येणैवेति पाठः] नैव विन्दति ||२२२|| तदपेक्षावलात्प्रोक्ता पत्यौ दुर्घटकारिता | नहि विश्वात्मनः किंचित्सुघटं वाथ दुर्घटम् ||२२३|| किं मुहुर्मुहुरेतेन सकृन्ननु निरूपितम् | हन्ताविस्मृतिशीलं त्वां प्रत्येतत्स्यादपार्थकम् ||२२४|| एकमुद्दिश्य किंत्वेतत्संरम्भो न विराजते | किं ह्येकाङ्कुरसंपत्त्यै प्रावृषेण्याः पयोमुचः ||२२५|| २३) मर्मस्थानमिदं चात्र व्युत्पाद्यो हि जनः स च | व्याप्तो [व्याप्ता इति पाठः] हृद्भुवि कर्मौघकृष्टायां सौकुमार्यतः ||२२६|| मायाबीजोत्थितानन्तविकल्पाङ्कुरकन्दलैः | भेदाभिमानजनितवाचनौचित्यसेवितैः || २२७|| यावद्विद्यामहादावज्वालयैषा [ज्वालयेमाः इति पाठः] पुनः पुनः | नालब्धा तावदस्यैतद्द्वैतं [दास्येतद्वैतमिति पाठः] रोहेत्पुनः पुनः ||२२८|| तीक्ष्णयत्नकुठारौघैः सद्विद्यावह्निदीपितैः [सविद्येति पाठः] | निर्भिन्नो देहविटपी [देवविटपिति पाठः] पुनर्नैव प्ररोहति ||२२९|| एवं देवे सुषुप्तांशमध्यासीनाः स्थिता अपि | असद्देशीयतां यान्ति भावाः श्वभ्रकपित्थवत् ||२३०||
SK
अत्र तादृशमेवं स्वं ज्ञानं वैराग्यनिर्भरम् | निरुपाख्यं निरालम्बं व्यजृम्भत विरागतः || २३१ || कपालमालाभरणाः श्मशानपदवासिनः | अस्मात्पराङ्मुखीभूता भूतसंघातगोचरात् ||२३२|| भोग्यं जुगुप्सावधि सर्वमेव भोक्ता ह्यहं कः किल देह एषः | चर्मास्थिमात्रं न च सारमत्र लेशांशभागेऽपि कदाचिदस्ति ||२३३|| इत्थमभ्यस्यमानास्ते परां वैराग्यसंपदम् | प्रतिक्षणमुपारुह्य निमीलन्ति तदाहतम् (?) ||२३४|| किमेतदिति धावन्ति दुःखेऽपीन्द्रियवृत्तयः | एतदेवमिति प्रायो विरज्यन्ते सुखादपि ||२३५|| २४) दृष्टानुश्रविकार्थौघवैतृष्ण्ये वशताधियः | तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यमित्यपि ||२३६|| नन्वकाण्डेऽपि पृच्छामः किंचिद्यदि न कुप्यते | किमकाण्डभेदकाण्डभेदकाण्डघटावधौ (?) ||२३७|| तर्हि संविदियं शुद्धा स्वभावादेव चेत्कथम् | अशुचिभ्योऽपि भोगेभ्यो रसात्स्पृहयतेतमाम् [न सा स्पृहयत इति पाठः] ||२३८|| नन्वविस्मृतिशीलत्वाभिमानः क्वाधुना गतः | अलं वा बुद्ध्युपालब्धैरुक्तमप्येतदुच्यते ||२३९|| स्वभावादेव संवित्तिः प्रकाशपरमार्थिका | विश्वावभासयोगेन भातीति हि विपञ्चितम् ||२४०|| अतश्च संविदो देव्या विश्वस्मिन्भावमण्डले | स्वात्मन्येवोच्छलत्त्वं किं खण्डनादायि जायते ||२४१|| यदापि परमेशानशक्त्या भेदोऽवभास्यते | तदापि संविद्भावेषु धावतीति विविच्यते ||२४२|| यथा लोष्ठह्रदज्वालाश्वासकुम्भवियत्स्थितिः | धराम्बुधिमहातेजः समीरानन्तखात्मताम् ||२४३|| यात्येव मितिरूपेयं [शितीति पाठः] संवित्स्वोच्छलितक्रमात् | संविद्रूपसजातीयान्भावानेवानुधावति ||२४४|| न्यरूप्यत तथा चैतत्केनापि परमेशिना | निम्नं तडागपानीयं कः प्रवर्तयितुं क्षमः ||२४५|| परिपूर्णे पुनस्तस्मिन्प्रवाहाः सर्वतोमुखाः | ननु किं कांश्चिदेवेत्थं सैषा स्वनियतेर्बलात् ||२४६|| २५) इत्थं धावति तच्चास्या रागतत्त्वात्मकं वपुः | तत्रापि च तथा रागाभास एव स धार्यताम् ||२४७||
SK
चिदात्मनि तु रागस्तु कोऽप्यन्यारुषणात्मकः | नन्वित्थं चेत्कथं नाम सा कुत्रापि विरज्यते ||२४८|| हन्त प्रकृत एवायं वादः संगतिमागतः | यदा हि चितिरेवैषा सर्वथा संकुचत्स्थितिः ||२४९|| क्रमेण भोग्योपायेभ्यो भोग्येभ्यो [भोगेभ्य इति पाठः] देहतो भुजः | भोगाद्भोक्तुस्तथा शून्यमहाप्रलयभागिव ||२५०|| जायते रुद्ररूपैषा दशा सांहारिकी यतः | सद्योजातश्च यद्रुद्रः पुरुषश्चेश्वरात्मकः ||२५१|| श्रीमान्सदाशिवो देव ईशानश्चेति गीयते | विष्णुर्वामः कजोऽघोर इति चैतद्भविष्यति ||२५२|| अन्तःस्थसर्वशक्तित्वेनैकैकस्यापि बृंहणात् | ब्रह्माण्येतानि कथ्यन्ते बृहत्त्वाद्विश्वबृंहणात् ||२५३|| तदन्यशक्त्युद्रेकांशे ह्यत एव विवक्षिते | प्रत्येकमस्ति ब्रह्मादिहेतुपञ्चकयोगिता ||२५४|| सैव शास्त्रेषु भेदेन तेषु तेषु प्रतन्यते | अतश्च सद्योजातेऽस्मिन्मुख्या रौद्रदशा स्थिता ||२५५|| सा च संकोचरूपापि चिद्विकासे भविष्यति | यल्लीनौ ब्रह्मविष्ण्वंशौ तेनाधः कुरुते बलात् ||२५६|| वस्त्वभावमयीत्यादिदशा रुद्राधिदैवता | भिन्नप्रमेयेति [भिन्नप्रमेयेत्याद्यं च नान्तं किं शु कदाचित्के | भ्रम इत्यादि तच्छ्रीमदिति पाठः |] श्रीमदुत्पलेन न्यरूप्यत ||२५७|| २६) जातोऽपि भेदतन्मात्रे संकोचं यदुपागतः | ततो व्यतिनिमीलेते भोक्तृभोग्याविह स्फुटम् ||२५८|| अजातमिव तद्विश्वमत्र सद्योऽवभासते | सद्योजातपदं तेन शून्यसंवेदनात्मकम् ||२५९|| ततः शून्यपदस्यान्तर्यावत्स च विविक्षति | देवस्तावत्स्वयं बोधे विश्वं प्रोच्छलति स्थितम् ||२६०|| जानाति सेयं नाथस्य ज्ञानशक्तिर्विकासिनी | तयोर्विकासिचिद्धाम्नि [तत इति पाठः] लीनत्वमुपपादितम् ||२६१|| संविदः शून्यरूपाया विकासो विश्वमेव तत् | तथा हि घनसौषुप्तविश्रान्तिवशनिर्भरः ||२६२|| तांस्तान्गृहापणाद्यंशान्वेत्ति स्वप्नपदाभिधान् | अत एव न सा सृष्तिः स्थितिरेव तु सा तथा ||२६३|| पूर्वसृष्टेषु भावेषु तद्धि विज्ञानमात्रकम् | तथा च जाग्रतो रूपात्स्वप्नो भेदेनजायते ||२६४||
SK
किंतु जाग्रत्पदादीनां प्रत्येकं बहुभेदता | निर्णेप्यते ततो युक्तं सृष्टिरूपेण भासनम् ||२६५|| अतो निजविबोधेन तान्भावान्व्याप्नुवन्विभुः | एतैस्त्याजयते तां स्वामौदासीन्यदशां विभुः || २६६|| ज्ञानशक्तेरियं जृम्भा तज्ज्ञानस्थितिभाविनः | भावाः प्रयान्ति पूर्णत्वं विकासिनिजतेजसः ||२६७|| परमः खलु संकोचः सद्योजातपदे भवेत् | यदेषां स्वस्वरूपस्य निष्ठा नैव स्म जायते ||२६८|| विना संविदुपारोहं संघासंघा जडोऽजडः | २७) अनीलं नीलमित्यादिव्यवस्था कल्पतां कथम् ||२६९|| यदुवाचोत्पलगुरुर्यथा सदसतां तथा | जडाजडानां न स्वात्मविशेष इति निश्चितम् ||२७०|| तस्माद्बोधभरोल्लासविसृष्टस्वपरस्थितिः | चिदनुप्राणनां विश्वग्वमन्नानन्दसुन्दराम् [प्रसन्निति? पाठः] ||२७१|| चिदेकवपुषा विश्वं स्वीचिकीर्षश्चिदात्मनि | स्वबोधशक्तिवमनात्स देवो वाम उच्यते ||२७२|| स्वबोधशत्सुद्रेकेण यद्यप्येष प्रयच्छति | भावानां स्ववपुस्तादृक्तथापि परमार्थतः ||२७३|| स्वीकर्तुमिच्छन्संहारमेषां कल्पयते भिदः | अतो भेदाव्यवस्थायां [भेदच्चवेति? पाठः] वामोऽसौ परमेश्वरः ||२७४|| अत्र सौभाग्यनिःष्यन्दि तादृग्ज्ञानं प्रतायते | सौभाग्यं सोच्यते [प्रोच्यत इति पाठः] तेषां भिन्नानां स्वीक्रियैव या ||२७५|| भावानां च विचित्राणां भोगाङ्गानां स्वशक्तितः | स्वकौतुककलालोकादुच्छलन्त्येव या चितिः ||२७६|| सैव स्वभावरागेण विश्वं रञ्जयते यतः | व्यक्तो हि रञ्जयेद्विश्वं व्यक्तिश्चास्य स्वरूपतः ||२७७|| यैव प्रोच्छलितावस्था स्वीकारेच्छाभरोदयः | तद्रश्मिसारसर्वस्वे क्षणं तिष्ठत्यनन्यधीः ||२७८|| किं नाकर्षति किं नैष न भावयति योगवित् | तत एवोच्यते शास्त्रे नारक्तो रञ्जयेदिति ||२७९|| तथा कामस्थं काममध्यस्थं कामाङ्कुशपुटीकृतम् | २८) कामेन साधयेत्कामान्कामं कामेषु योजयेत् ||२८०|| कामं स्वीकर्तुमिच्छैव तदाच्छादनयोगतः | विश्वं साधयते कामी कामतत्त्वमिदं यतः ||२८१||
SK
तथा हि परमे स्वात्मन्यध्यास्य स्थैर्यमञ्जसा | तदुच्छलितसंबोधकलासंछादनक्रमात् ||२८२|| विश्वं कामाङ्कुशाधीनं किंकरत्वेन भासते | अध्यात्मसिद्धया युक्त्या त्वनयैव निजोदये ||२८३|| प्राणपुर्यष्टकं देहं व्याप्य विश्वं प्रकर्षति | तत्त्वस्य कामतत्त्वस्य प्रकटीक्रियया यतः ||२८४|| सिद्धचक्रेष्विदं गोप्यं किं वा न प्रकटीकृतम् | शून्यानन्दात्प्रसृत्यैव बोधः [दोप इति पाठः] प्रोच्छलितात्मकः ||२८५|| वर्तमानो निजाः शक्तीर्विकास्यैव प्रवर्तते | यत्रास्य प्रविविक्षास्ति [प्रविवित्सेति पाठः] यतश्च प्रावृतद्विभुः ||२८६|| सर्वाः शक्तीरसौ भास्तास्स्वात्मन्युद्रेच्य वर्तते | ततश्चिदात्मको देवो न्यग्भूत इव भासते ||२८७|| उद्भूतास्तु विभान्त्येताः प्रोन्मेषेच्छाविदिक्रियाः [विधीति पाठः] | अतश्चतुष्कयुक्तोऽसौ यद्यपि प्रतिभासते ||२८८|| तथापि शक्तिगणना वस्तुतोऽस्य भवेत्कुतः | अत्रैव भावभेदांशनिर्मूलनकला यतः ||२८९|| स्थितस्ततः समाचारो लोकातिक्रान्तगोचरः | अनन्तशक्तिवैचित्र्यादत्राप्युच्चाटनादयः ||२९०|| संहारलीलाभूयिष्ठा अपि तास्ताः क्रियाः स्थिताः | तदित्थं ज्ञानशक्त्यन्ते भावानां वपुषि स्थिते ||२९१|| क्रियाशक्तिरथान्त्यैव तान्संहरति सादरम् | यदा सूक्ष्मतमा शक्तिरुन्मेषाख्या पुरावधौ ||२९२|| स्रष्टव्यभावस्थौल्येन स्थूलाकारेव भासते | तथैवैषा क्रियाशक्तिर्यस्यां भावा निमेषिताः [रेषिता इति पाठः] || २९३|| स्वस्वरूपास्थितिः कापि पूर्णैव प्रविजृम्भते | नन्वस्त्येव क्रिया यस्यां भेदः प्रत्यवभासते ||२९४|| सैवं सर्वा क्रिया भेदं प्रत्युत प्राग्व्यपोहति | तथा हि भेदभूमौ ये काष्ठज्वलनतण्डुलाः ||२९५|| त एव पाकाविष्टत्वे भेदं प्रोज्झन्ति सादरम् | यदि भिन्नस्वरूपास्ते पाकैक्यं तत्कथं भवेत् ||२९६|| भिन्नं स्वरूपमङ्गानां नहि युक्त्योपपद्यते | ननु पाकेन कश्चित्स यत्तन्नानास्वरूपकम् ||२९७|| ज्वलनक्लेददाहादि तत्पाक इति शब्द्यते | भिन्ना एव क्रियाः सर्वाः फलमेकं प्रति स्थिताः ||२९८||
SK
पाक इत्युच्यते नान्या क्रिया नामास्ति काचन | एतदेव कथं बह्व्य [बाह्य इति पाठः] एकं फलमभीप्सितम् || २९९|| कथं संपादयेयुस्ताः पूर्वोक्ता एव हेतुतः | ननु लोचनदीपार्थमनस्कारैरपि [रवस्कारैरिति पाठः] स्फुटम् || ३००|| जन्यते ज्ञानमेकं तत्तथैवात्र भविष्यति | सोऽयं कर्दमसंमर्दमलिनीभूतविग्रहः ||३०१|| मरौ मरीचिकाम्भोभिः स्नानेच्छुरभिधावति | भिन्नस्वरूपाद्यद्येकमस्ति वस्त्विति संभवः ||३०२|| तर्हि कारणभेदेन न भेदः पारमार्थिकः | ३०) अथ भिन्नस्वरूपं तदेकं चेत्युपगम्यते || ३०३ || स्वभावभेदो भेदायेत्येतत्त्यक्तं व्रतं भवेत् | नन्वित्थं सा क्रिया माभूदेका काष्ठादि कारकम् ||३०४|| फलं जनयतामेवमप्यस्तु नहि नः क्षितिः | क्रिया हि नाम नास्माकमन्या शक्तिस्त्वसौ यतः ||३०५|| शक्तिश्च फलभित्कॢप्त्या भावात्मैव विभेदतः | सा च शक्तिर्विभोरेव स च विश्वात्मविग्रहः ||३०६|| फलकारकभेदेन न भिन्नः परमार्थतः | स्वात्मन्यभिन्नेऽपि विभोरेवं भेदावभासनात् ||३०७|| क्रियाशक्तिरिति प्रोक्ता यया कर्ता महेश्वरः | ननु यत्पशवः कुर्युः कथं तदुपपद्यताम् ||३०८|| ते हि भेदैकजीवत्वात्कुर्युर्भेदवतीं क्रियाम् | अलमेतेन पशवः कथं कुर्युर्यदि स्फुटम् ||३०९|| स एव स्ववचश्छिन्नो वादो वन्ध्यासुतादिवत् | नहि कुम्भकृतः क्वापि कदाचित्कर्तृता भवेत् ||३१०|| यदि नासौ महेशाख्यात्कर्तुरव्यतिरेकभाक् | यद्येवं तत्कुलालेन पटोऽपि क्रियते न किम् ||३११|| ननु किंस्वित्कुलालेन कुम्भोऽपि क्रियते ततः | ईशस्य विश्वकर्तृत्वे किं पटेऽपि न कर्तृता ||३१२|| नन्वेवं सति नो कर्ता कोऽप्यन्य इति कर्मणाम् | शुभाशुभानां स्वफलं कर्तुं [हेतुमिति पाठः] कं प्रति हेतुता ||३१३|| एवमेवैतदायुष्मंस्तथाह्येवं विजानताम् | न किंचन फलं क्वापि शुभाशुभसमुद्भवम् ||३१४|| ३१) इत्थं ये तु न जानन्ति भुञ्जते तेऽविपश्चितः | तदेव कर्मसंज्ञं [कार्मेति पाठः] तु मलमज्ञानमूलकम् || ३१५||
SK
एतदेवानुमन्यैव [अमुमत्यैवेति पाठः] केचित्संवित्तिमात्रकम् | संमन्यन्ते ह्यकर्तारं कर्तृत्वानुपपत्तितः ||३१६|| चित्स्वरूपाधिकं ह्यस्य यत्तत्कर्तृत्वमुच्यते | तज्जाड्यमर्पयेदस्मै [जात्यमिति पाठः] चिदाधिक्यप्रसङ्गतः || ३१७|| प्रकृतेः कर्तृता पुंसि ननु नामोपचर्यते | एतन्न्यायपथापेतैर्वृथा जेगीयते गृहे ||३१८|| उपचारो हि नो वस्तुतथात्वं प्रतिपद्यते | व्यपदेशः परं तादृग्वस्तुशून्योऽस्तु तावता ||३१९|| नोपचारिकवह्नित्वव्यपदेशेऽपि मानवः | हिमानीशीकरासारिवातोत्थशिशिरापहः ||३२०|| द्रष्टुः पुंसश्च न द्रष्ट्री प्रकृतिः परिगीयते | न चान्योऽस्ति वराकोऽतः [वदेकेतैरिति पाठः] कर्तृभावोपचारकः ||३२१|| किं च प्रयोजनं तस्य कर्तृत्वव्यवहारजम् | व्यपदेशस्तु नावस्तु परिवर्तयितुं क्षमः ||३२२|| येऽप्यात्मानं न्यायविदः कर्तारं समुपागमन् | तेऽपि प्रश्नमिमं तावदस्माकं प्रतिभार्पितम् ||३२३|| किं यादृग्लोकसंसिद्धकर्तृत्वं कर्मयोगतः | स्पन्दात्म तद्विभौ स्पन्दहीने समुपपद्यते ||३२४|| ननु ज्ञानं चिकीर्षा च यत्नश्चेति गुणत्रयम् | समवैति यदत्रास्य तत्कर्मत्वमुदाहृतम् ||३२५|| इत्थं बालमतीनां धीविंप्रलभ्येत वञ्चकैः | ३२) दारका अपि वा विद्युर्न संवेदनवर्जितम् ||३२६|| तत्र ज्ञानं न कर्तृत्वं सर्वत्रास्त्येव तद्यतः | इच्छायत्नावपि प्रायः संस्तः [संस्थ इति पाठः] सर्वस्य सर्वतः ||३२७|| कुम्भकारो गृहाभावपरितापितचेतनः | जानन्निच्छन्सयत्नोऽपि किं कुर्यान्नात्मनो गृहम् ||३२८|| ननु कर्तुं न जानाति ततः कर्तुं न चेच्छति | तस्मात्कर्तुं न [हि इति पाठः] यतते तद्गृहं कुरुतां कथम् || ३२९|| कर्तुमित्येव यद्रूपं ज्ञानादीनां विशेषणम् | करोतेस्तत्र कोऽर्थः स्याद्यदि सस्पन्दता किल ||३३०|| तदासौ स्पन्दितुं वेत्ति प्रेप्सतीति भवेद्वचः | तच्च स्वात्मगतं नास्य स्पन्दितं वैभवोद्भवात् ||३३१|| अन्यदस्पन्दितं ज्ञानं सर्वस्यापि च संभवेत् | ज्ञानेच्छायत्नवत्त्वं च करणं तम्य भाषितम् ||३३२||
SK
आत्मनः कर्तुमित्यस्य ततोऽर्थप्रविवेचने | जानातीच्छन्प्रयतते ज्ञातुं यतितुमेषितुम् ||३३३|| प्रत्येकमिति योऽर्थः स कर्तुं वेत्तीति शब्दितः | चिकीर्षितृत्वं चैतत्स्यान्न कर्तृत्वं पुनर्भवेत् || ३३४|| तथात्वे मानसैः साम्यं भवेद्वाक्कायकर्मणाम् | वाक्कायकर्मभिर्वास्य कथं कर्तृत्वमापतेत् ||३३५|| मानसान्यपि कर्माणि कथं तस्येति गीयताम् | तद्गुणत्रयसद्भावे मनोवाक्कायसंभुवाम् ||३३६|| कर्मणां संचितेरेष कर्मभागीति चेन्ननु | उपचारोऽयमेवं स्यात्स चावस्त्विति वर्णितम् ||३३७|| ३३) किं चात्मगमहत्त्वादिद्रव्यान्तगुणसंनिधौ | तानि सन्तीति किं सोऽपि कर्तृत्वायतनो भवेत् ||३३८|| न चास्त्वित्युपगन्तव्यं मुक्तावपि [व्यमुक्ताविति पाठः] हि तद्भवेत् | अन्यात्मगुणसांनिध्ये समश्चैष विधिर्यतः ||३३९|| आत्मस्वतः प्रवर्तेरन्कृतनाशाकृतागमाः | किं चेश्वरेण सर्वत्र बुद्धिमत्ताव्यपेक्षिणि ||३४०|| संनिवेशाधिके कार्ये निमित्तत्वं कृतं यदि | स्वैः स्वैश्च समवायान्यकारणांशैः प्रपूरिते ||३४१|| कमंशं कुम्भकारादेः प्रातुं [प्रैतुमिति पाठः] भवतु हेतुता | नहि सोऽस्त्यंशलेशोऽपि सर्वकर्तरि यं प्रति ||३४२|| न ज्ञानेच्छायत्नमस्ति कर्तृत्वं नान्यदित्यपि | तस्मान्नान्यस्य [कस्मादिति पाठः] कर्तृत्वं कदाचिदपि संभवेत् ||३४३|| ईश्वरादीश्वरस्यपि स्वातन्त्र्यं कर्तृतां विदुः | तदित्थं परमेशानां भेदेऽभेदेऽपि वात्मनाम् ||३४४|| प्रभवन्ति न कर्माणि बन्धनाय स्वभावतः | तस्मादिदममुष्मात्स्यात्कर्मणो वाशुभं शुभम् [शुभाशुभमिति पाठः] ||३४५|| तदैश्वर्यममुष्यैव विहितं परमेशितुः | निर्णीतमेतदन्यत्र मयैव विततं यतः ||३४६|| तदलं प्रकृतं ब्रूमः क्रियाशक्तिरियं परा | अघोरत्वेन देवस्य तत एव प्रकीर्तिता ||३४७|| दाक्षिण्यमत एवास्या भावानां शिवसंश्रये | यतोऽञ्जसैव मार्गोऽयं या क्रिया च न सात्मिका ||३४८|| ३४) ननु नात्र स्थिताः केचिद्भावा ये शिवताश्रितौ | कर्तारः सत्यमित्थं तु बोध्यमानोऽवधारयेत् || ३४९||
SK
देशकालक्रियाकारकल्पनापथवर्जितः | देवदेवस्तथैवास्य शक्तिः सा विश्वरूपिणी ||३५०|| तद्विश्वमपि कालादिकलङ्काङ्ककलोज्झितम् | तत्स्वातन्त्र्यात्स्वतन्त्रं तत्स्वात्मनि प्रोच्छलत्स्थितम् | यतो भाति ततोऽप्यस्तशिवावेशबहिष्कृति [कृती इति पाठः] ||३५२|| अत एव परा सेयं दक्षिणाघोररूपिणी | यद्वक्ष्यते जन्तुचक्रे शिवधामफलप्रदाः ||३५३|| पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः | अन्यत्रापि क्रियाशक्तिः शिवस्य पशुवर्तिनी ||३५४|| बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिनी | अकारादिहकारान्तः प्रसरो यः प्रगीयते ||३५५|| स एव बिन्दुनिलयादस्वरत्वमुपाश्रितः | क्रियाशक्तिविजृम्भेयं समस्ता वर्णमालिका ||३५६|| क्रोडीकारेणाहमितिपरामर्शस्वरूपिणी | तिष्ठत्येव ततः पूर्णपराहंकारसस्फुरः ||३५७|| अनन्तादिविरिञ्चान्तपशुसंघातघस्मरः | निजोदरदरीनीतचराचरजगद्व्रजः ||३५८|| स्वचैतन्यविमर्शान्तर्ग्रस्तपुद्गलसंचयः | यावदुल्लसितस्तावत्क्रियाशक्तिस्वरूपतः ||३५९|| ३५) असंविज्ञाननिःसंख्यवैचित्रीचर्चितस्थितेः | अनन्तकार्यशान्त्यादिसौम्यरौद्रभिदात्मनः ||३६०|| अपि स्वग्रासमाहात्म्यप्रकटीकृतसुस्थितेः | औचित्याद्विविधाकारा अपि भैरवतेजसः ||३६१|| रिक्तपूर्णोभयभावा [भवभवा इति पाठः] पुनरावृत्तिचित्रिताः | शाक्तस्वरूपविश्वाख्यस्वांशग्रासैकलम्पटाः ||३६२|| लोककालचिरारूढभावोन्मूलनभाविताः | शक्तयो निजविस्फाराद्रश्मिपुञ्जं निजं निजम् [पुञ्जनिभं निभमिति पाठः] ||३६३|| प्रसारयन्त्यः संकल्पसत्यभावसमाश्रयात् | स्वोचितान्येव लोकोत्थवामाचारबहिष्कृतेः ||३६४|| घटयन्त्येव शास्त्राणि यातानि परिपूर्णताम् | यादृक्प्रथमसंभूते लोकातिक्रान्तिगोचरे ||३६५|| समाचारः स एवात्र त्रस्तभेददशे भवेत् | पूर्णेयं परमेशस्य महासृष्टिरिह स्थिता ||३६६|| यस्यां संहारसृष्ट्यंशा विश्वे ते मध्यवर्तिनः | सा चाद्या सृष्टिरित्येव नैव वक्तुं [वक्त्रमिति पाठः] भवेत्क्षमा ||३६७||
SK
अदेशकाले तत्त्वे हि कथमाद्यादिसंभवः | जाग्रद्दशेयं सा मुख्या प्रोन्मेषपदभागिनी ||३६८|| ब्रह्मैष निजशक्त्यंशसंबोधकमलासनः | ता एताः सौशिवाद्रूपात्प्रभृति ब्राह्ममन्ततः ||३६९|| रूपं कृत्वा विजृम्भन्ते संविन्नाथस्य शक्तयः | एतावानेव [एतावदेवेति पाठः] देवोऽयमिति यद्यपि शक्यते ||३७०|| ३६) न वक्तुमप्रमेयत्वाच्चिद्रूपस्य महेशितुः | प्रबोधपञ्चदशिकामध्ये तादृङ्मया स्फुटम् ||३७१|| उक्तं मितप्रकाशत्वं जडस्य किल लक्षणम् | जडाद्विलक्षणो बोधो यतो न परिमीयते ||३७२|| तथापि स्वयमेतादृग्देवो मानविवर्जितः | निजस्वातन्त्र्ययोगेन कृत्वात्मानं चराचरम् ||३७३|| [तथा हि प्रथममीशानतत्पुरुषसद्योजातैरेकैकस्योद्बुभूषुभिः सद्भिर्भेदत्रयमुल्लासितम् उद्भूतैश्चेत्येकैकभेदाः षट् त्रिभिरप्येभिः संभुयोलासित एको भेदः ईशतत्पुरुषौ ईशसद्योजातौ सद्योजाततत्पुरुषाविति द्व्यात्मना संभूयापि एभिस्त्रिभिर्भेदत्रयं समुल्लासितम् ||] ईशतत्पुरुषाजातैरुद्भूतैरुद्बुभूषुभिः | एककैः [एकैकैरिति पाठः] षड्भिरेकेन त्रिकेण [नाध्यात्मेति पाठः] द्व्यात्मकैस्त्रिभिः ||३७४|| जायते शिवभेदानां [शशिभेदानामिति पाठः] दशानां विविधा स्थितिः | अत एव विचित्राभ्यः संविद्भ्यो मिश्रतावशात् ||३७५|| चित्राण्यत्र शिवाख्येऽपि भेदज्ञानानि तेनिरे | यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः ||३७६|| तदा प्रत्येकशक्तित्वं भविष्यद्भवदुद्भवैः | षणां त्रित्वे रुद्रभेदस्तेनाष्टादशधा स्थितः ||३७७|| एकैकं पञ्चवक्त्रं [वक्त्रं यस्मात्प्रगीयते | दशाष्टादशेति पाठः |] च वक्त्रं यस्मात्प्रगीयते | दशाष्टादशभिन्नस्य ततो भैदैरसंख्यता ||३७८|| पूर्वोदितयथास्वस्वज्ञानकर्मविचित्रिताः | निर्णीयन्ते यतस्तेषु तेन नापुनरुक्तता ||३७९|| ३७) अन्यान्य एव बोधो हि समाचारः क्रियाक्रमः | तत्र तत्र तथा प्रोक्तः सर्वस्तु शिवधामगः ||३८०|| यथा जलकणाः सर्वे विश्राम्यन्ति महाम्बुधौ | तथा ज्ञानक्रियाः सर्वाः संवित्सिन्धौ महेश्वरे ||३८१||
SK
मितमपि जलं भूमौ सूर्यांशुभिः किल पीयते तदपि च पुनर्वृष्टिद्वारैः प्रयाति महार्णवम् | जगति निखिलं ज्ञानं कर्म स्फुटं किमपि स्वयं किमपि च परैः पारम्पर्याच्छिवार्णसि मज्जति ||३८२|| यच्चान्ते दक्षिणे हार्दं लिंगं हृत्परमं मतम् | तदप्यन्तः कृताशेषसृष्टभावसुनिर्भरम् [सृष्टिभावेति पाठः] ||३८३|| भेदभावकमायीयतेज्ॐशग्रसनाच्च तत् | सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् ||३८४|| विज्ञानशास्त्रे कथितमत एव महेशिना | लीनं मूर्ध्नि वियत्सर्वमित्यादितिमिरं विभोः ||३८५|| एवमेव दुर्निशायां कृष्णपक्षागमे चिरम् | भावयेद्भैरवं रूपं भावयद्भिर्दुराभिदम् ||३८६|| उक्तं च यत्र स्वर्दुःखं तमो वा द्वयसंवृते | नाविद्याकर्मसंबन्धः पारतन्त्र्यादिदर्शनात् ||३८७|| तदत्र तिमिराकारे भैरवीये वपुष्यलम् | अन्तर्लीनतया भाति यावद्वक्त्रचतुष्टयम् ||३८८|| उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम् | इत्थं [तत इति पाठः] युगपदेवैतद्भिदा षोडशकात्मकम् ||३८९|| दक्षे वैसर्गिके हार्दे स्वतन्त्रे च शिवे विशत् | ३८) अष्टाष्टकात्मकं शास्त्रं युगपद्भैरवाभिधम् ||३९०|| इत्थं तन्त्रं रुद्रशिवभैरवाख्यं स्थितं त्रिधा | वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ||३९१|| भेदेन भेदाभेदेन तथा [पूर्णेनेति पाठः] चाभेदसन्धिना | तथा च मुख्याः शाम्भव्यस्तिस्र इच्छादिशक्तयः ||३९२|| तत्रैव तु प्रपञ्चेन पञ्चशक्त्यादियोजनम् | इत्थं मध्ये विभिन्नं तत्त्रिकमेव परं [तथा तत्रेति पाठः] तथा ||३९३|| शास्त्रमस्मद्गुरुगृहे संप्रदायक्रमात्स्थितम् | अत एव हि नैकट्याद्वामदक्षिणशास्त्रयोः ||३९४|| धारा प्रान्तधराप्रान्ते कौलिकी प्रविजृम्भते | ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः ||३९५|| भैरवः परमार्थोद्यद्रवबृंहितवृत्तिकः [शक्तिक इति पाठः] | ईशानवामदक्षासु तासु शक्तित्रयं क्रमात् ||३९६||
SK
परादिशक्तित्रितयं क्रोडीकृत्यावतिष्ठते | तद्विभावयति भेदविभागं तत्स्फुटत्वकृदथोक्तमनन्तम् | संग्रसिष्णु परमेश्वररूपं वस्तुतस्त्रिशिर एव निराहुः ||३९७|| ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च | रूढाभ्यमुभ्य धारायां भेदसंकोचहानये ||३९८|| परप्रकाशविषयस्त्रिकार्थस्त्रैधयास्थितः | स एष परमेशेन ज्ञानचन्द्राख्ययोदितः ||३९९|| स एष सर्वः शास्त्रार्थः परवाग्वृत्तिसंश्रितः | अनुल्लसिततद्वाच्यवाचकादिविभक्तिकः ||४००|| ३९) पश्चात्तु ज्ञानशक्त्यंशप्राधान्यस्फुरितात्मनि | क्रियाशक्तिसुसूक्ष्मायां सादाख्यैश्वर्यसंपदि ||४०१|| पश्यन्तीमध्यमाधाम्नि सञ्जल्पोल्लेखयोगतः | पदवाक्यस्वरूपेण वर्तते वर्णरूपिणा ||४०२|| स्वच्छन्दशास्त्रे तेनोक्तं स्वयं देवः सदाशिवः | पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं योजितवानिति ||४०३|| तथा च तत्रैवोक्तं तत्सुशिवावरणेऽध्वनि | सुशिवावरणं पूर्वं तत्र ज्ञेयः सदाशिवः ||४०४|| शिवदशकसंयुक्तो रुद्राष्टादशकान्वितः | अधिकारो हीशतत्त्वे तज्जिघृक्षा तु सौशिवे ||४०५|| वरणे बिन्दुतो भोगनाम्नि [धाम्नीति पाठः] विभवतो विभोः | भैरवाख्यस्य बोधस्य शक्तितत्त्वे परं त्रयम् ||४०६|| स्थितिस्तस्मादीश्वरोर्ध्वे सदाशिवपदादधः | सुशिवावरणेनोक्ता श्रीमत्स्वच्छन्दशासने ||४०७|| तदनन्तरमेतासु शिवरुद्रभिदास्वलम् | मायीयाध्वनि कॢप्तासु शिवैरुक्तः शिवाभिधः [भिद इति पाठः] ||४०८|| भेदो [भोगेति पाठः] रुद्रैश्च रुद्राख्य इति प्राप्तो विचित्रताम् | ततः प्रोद्यत्क्रियासारप्रोल्लासात्क्रमशः स्फुटम् ||४०९|| सर्वगोचरमायीयश्रुतवैखर्युपाश्रिताः | वर्णवाक्यपदात्मानः शास्त्रार्था लोकगोचराः ||४१०|| समाश्रित्य प्रवर्तन्ते तांस्तांस्तन्त्रावतारकान् | तेन प्रथमतो यावन्मायीयां वैखरीं दरीम् ||४११|| मायीयवर्णसंदृब्धः शास्त्रार्थो नायमागतः | अन्तः सारविधोधैकपरवाङ्मयवर्णकः ||४१२||
SK
अकृत्रिमपरावेशमूलसंस्कारसंस्कृतः | शास्त्रार्थो लौकिकान्तोऽस्ति सप्तत्रिंशे परे [त्रिंशपरे इति पाठः] विभौ ||४१३|| तत्रासतां हि भावानां क्वापि नास्त्येव सत्यता | स्वामिन्यविनयाक्रान्तप्रकृतौ विनयः कुतः ||४१४|| तस्मात्समस्तशास्त्रार्थः परतत्त्वात्मना स्थितः | अतो वेदादयोऽप्येते मायीयाः शासनांशवः ||४१५|| स्फुरन्ति भैरवादित्यप्रभावादेव नान्यतः | नहि संविद्विमर्शात्स्यादन्यत्क्वाप्येव [अत्यक्ताप्येवमिति पाठः] कारणम् ||४१६|| संविन्नान्यस्य [नास्त्यस्येति पाठः] संवित्स्यात्संविदेव तथा यतः | कार्यं च कारणं चेति तथात्व उपचर्यते ||४१७|| परिणामे हि भावस्य क्रमाद्विततधर्मणः [धर्मिण इति पाठः] | आद्यन्तयोः संविदेव रूपत्वेनावभासते ||४१८|| संविच्च कालकलनां सहेत् यदि तत्स्फुटम् | भुञ्जीमहि निशातासिच्छिन्ना व्योमांशशर्कराः ||४१९|| अतः समग्रशास्त्राणि संविद्रूपापरिच्युतेः | संविदः स्वप्रकाशत्वात्स्वप्रकाशानि वस्तुतः ||४२०|| न च वाच्यं पृथग्जातु वाचकाद्व्यवतिष्ठते | स्वातन्त्र्यादभिधातैव भाविवाच्यतया यतः ||४२१|| कदाचिद्वाचकांशस्तु स्वरूपग्रस्तवाच्यकः | निर्भासते कदाचित्तु सामान्योल्लासवाचकः ||४२२|| जातुचिन्निकटानन्तविशेषणविशेषितः | स्फुटस्वरूपवाच्यांशसमुद्रेकेण भासते ||४२३|| तेनार्थपरता जातु स्वरूपपरता तथा | ४१) बुभुत्सितार्थता क्वापि क्वचिद्रसमयी दशा ||४२४|| शब्दानां लक्ष्यते चित्रा संविद्रूपानपायतः | संविद्विचित्रकचनैः कचतीति किमद्भुतम् ||४२५|| इत्थं शिवात्मकविमर्शपदादभिन्नः शब्दः स्फुटत्वत [स्फुटस्वत इति पाठः] इह स्वपरप्रकाशः | मानं तदेव चितिसारविमर्शमात्र- मन्यत्पुनस्तदुपचारवशात्तथा हि ||४२६|| स्वप्रकाशात्मिका येयं संवित्तिः पारमार्थिकी | तत्स्वसंवेदनं प्रोक्तं यतो विश्वव्यवस्थितिः ||४२७|| सा चैषा न विमर्शात्मस्वरूपमतिवर्तते | विमर्शोऽस्याः परो भोगः पूर्णः पश्यन्त्युदाहृता ||४२८||
SK
परापरा सैव देवी मानमित्यवधार्यताम् | यत्रापरांशगं मेयं तादात्म्याद्व्यवतिष्ठते ||४२९|| नहि भिन्नेन मानेन मेयस्य स्याद्व्यवस्थितिः | नहि हंसस्य शुक्लत्वे काकः श्वेतत्वमर्हति ||४३०|| एतदेव तथा चाह गुरुः शंकरनन्दनः | न मानत्वात्ततोऽन्यत्वान्न बाधादस्थितेः स्थितिः ||४३१|| प्रकाशेनाविनाभूतैः सत्तायां नियतात्मभिः | धर्मैर्भावो बहिर्भावान्न भावः सिद्धिमृच्छति ||४३२|| तेन संवित्तिकात्मैव मातृमानप्रमेयता | गृह्यती स्वप्रकाशत्वं स्वभावादेव भासते ||४३३|| सा चान्तःस्थितमन्त्रात्मशब्दनामर्शसुन्दरा | अनपेक्षान्यविरहात्प्रमाणं स्वत एव हि ||४३४|| ४२) तस्या एव विचित्राणि नामानि बहुभङ्गिभिः | तत्प्रसादोत्थितान्येव वादिनः पर्यचीकॢपन् ||४३५|| तथा च चक्षुराद्यक्षमण्डलीटङ्कनिष्ठितम् | प्रत्यक्षमिति यद्गीतं तत्तावत्प्रविविच्यते ||४३६|| संवित्तिव्यतिरेकेण यद्यक्षाणां व्यवस्थितिः | न स्यादर्थप्रमाणैक्यं तर्हि बाह्यघटादिवत् ||४३७|| नन्वात्मनश्चक्षुरादि करणं न घटादिकम् | तस्मात्तेनैव भावानां मानं न तु घटादिभिः ||४३८|| व्यापकाभिमतस्यास्य संयोगे चाविशेषिणः | भौतिकत्वाविशेषेण [विशिष्टेनेति पाठः] घटाद्यैश्चक्षुरादिना ||४३९|| आत्मनः करणाकाङ्क्षापूरणं नियतं कुतः | विशिष्ट एव संयोगः करणत्वे निबन्धनम् ||४४०|| विशेषः कर्मभिस्तैस्तैर्धर्माधर्मगिरोदितैः | तदेतद्युक्तिसद्भावप्रतिभाविकलात्मकः ||४४१|| व्रुवन्वञ्चयते मुग्धान्पलायनपरायणः | यच्चाशेषाक्षसंयोगिव्यापकात्मवशोत्थिताम् ||४४२|| युगपज्ज्ञप्तिमाच्छेत्तुं मनो नाम निगद्यते | तत्रापि ब्रूमहे पूर्वं मनसात्मैव युज्यते ||४४३|| तत्राप्यात्ममनोयोगं कः कुर्यादिति चर्च्यताम् | व्यापकत्वादसौ स्याच्चेत्सर्वैरेव मनो व्रजेत् ||४४४|| एकस्य जाते संयोगे सर्वः सर्वज्ञतामियात् | यदि स्वान्तमधिष्ठातृ चक्षुराद्यमपेक्षते ||४४५|| तेनाधिष्ठानमर्थानां तावतोऽक्षांशवर्त्मनः | ४३) अक्षाधिष्ठितसूक्ष्मांशभागसंपर्कभासितः ||४४६||
SK
बाह्यस्यार्थस्य कुण्डादेरणुरेकोऽवभासताम् | अथापि मानसाधिष्ठा जाता चेदक्षगोचरे ||४४७|| तदेतस्य स्वविषये शक्ततैवोपजायते | तर्हि सूक्ष्मतमच्छिद्रनिस्सृता नेत्ररश्मयः ||४४८|| विश्ववर्तिनि भावौघे न प्रमां कुर्वते कुतः | योग्यदेशस्थितान्भावान्गृह्णतेऽक्षाणि नन्वलम् ||४४९|| योग्यतैव हि देशस्य कीदृशीति विचार्यताम् | यत्रस्थस्य भवेद्वित्तिः स देशो योग्य उच्यते ||४५०|| कुत्रस्थस्य भवेद्वित्तिरिति किं वा न दर्श्यते | तदमी तार्किकम्मन्या युक्त्यु?पन्यासवर्जिताः ||४५१|| पूर्वमेव कथं तूष्णीं नातिष्ठन्किं विकत्थनैः | आत्मनश्चाभिसंधानवन्ध्यस्यैव बलादयम् ||४५२|| मनोक्षजालसंयोगो भवेत्किं नासमञ्जसः | अभिसंधिरथैतस्य विषयं प्रति जायते ||४५३|| अज्ञाते कोऽभिसंधिः स्याज्ज्ञाते कोऽर्थोऽक्षसंयुजा | प्रज्ञाते स्मर्यमाणे चेदभिसंधातृभावितः ||४५४|| अन्यदेवाभिसंधातुः प्रयत्नोऽन्यत्र जायते | मनोयुक्तात्मसंबद्धचक्षुराद्यक्षसंश्रिताः ||४५५|| विषयाः सविधीभूतनेत्राद्युल्लङ्घनक्रमात् | आत्मन्येव कथङ्कारं प्रमातृत्वं प्रतन्वताम् ||४५६|| ननु ज्ञानकृतो मातृभावो विज्ञानमात्मनि [विज्ञातमिति पाठः] | समवैति ततोऽन्यस्य कथं मातृत्वशङ्कनम् ||४५७|| ४४) एतदेव वयं ब्रूमो ज्ञानं तत्रैव वै कुतः | भयात्स्वपक्षपातान्धस्तदेवोत्तरमभ्यधात् ||४५८|| यथेन्द्रियात्मसंयोगे मनः कारणमुच्यते | तथैवात्ममनोयोगे कारणान्तरमुच्यताम् ||४५९|| तथात्वे चानवस्थैव मूलक्षतिकरी च [तथेति पाठः] सा | अथ स्वान्तात्मसंयोगो ध्रुव एवाभ्युपेयते ||४६०|| ज्ञातारः स्युः सदा सुप्तमत्तमूर्छितदुर्भगाः | न चैतद्भवतां ज्ञानमभीष्टं शाक्यशिष्यवत् ||४६१|| तस्मात्प्रत्यक्षता नाम कथमिन्द्रियगोचरात् | अथ प्रत्येकमेतेषां परीक्षेयं प्रतन्यते ||४६२|| तत्राणु नित्यं सर्वार्थं वेगवल्लघ्वभौतिकम् | मनस्तच्चापि नैवेह युक्तिसिद्धत्वमश्नुते ||४६३||
SK
अणु चेच्छीघ्रसंचारि मनो यद्विषयान्मुहुः | स्पृशेत्तदैव देहस्य भवेच्छवशरीरता ||४६४|| देहस्थेऽपि मनोयोगे तत्रैव ज्ञानयोगतः | एकाणुमात्रं जीवः स्याच्छिष्टं स्याद्धटकुड्यवत् ||४६५|| अथ स्वान्तेन योगश्चेज्जातः क्वाप्यात्मगोचरे | तद्विभोरात्मनो ज्ञानं समवायीति मातृता ||४६६|| जातेति सर्वदेहस्थं जीवनं किं न सिद्ध्यति | एनयैव न किं युक्त्या घटादेर्जीवनं भवेत् ||४६७|| विभावात्मनि जातं हि ज्ञानं तत्रैकदेशतः | देहमात्रे पुनः स्वान्ते भवेत्सावयवा स्थितिः ||४६८|| विभुत्वे मानसस्य स्याद्युगपत्सर्ववेदनम् | नित्ये च मनसि ज्ञानं सर्वदैव भवेत् ततः ||४६९|| ४५) मोक्षावस्थापि विज्ञानयोगिन्येवोपजायते | मुक्तौ चात्मनोयोगो नास्तीत्येतन्महाद्भुतम् ||४७०|| किं हि व्यापकता मोक्षे स्वात्मनो विनिरुद्ध्यते [न निरुद्ध्यत इति पाठः] | अभौतिकं चेत्सर्वार्थं कथङ्कारं मनो भवेत् ||४७१|| विशिष्टविषयव्यक्तिकौशलादेव चक्षुषः | तैजसत्वमभीष्टं हि तन्मनो भौतिकं न किम् ||४७२|| सर्वार्थत्वे च मनसः किमन्यैरक्षडम्बरैः | ननु बाह्येऽस्य विषये प्रागस्त्यक्षोपयोगिता ||४७३|| तथा हीन्द्रियसंदृष्टे पाश्चात्या मनसः स्थितिः | अत्रोच्यते यथैव प्रागिन्द्रियेण न गृह्यते ||४७४|| तच्चेत्स्वलक्षणं पश्चादनुयन्त्रिति का कथा | अथ सामान्यमात्रं तद्गृहीतं प्राक्तदिन्द्रियैः [इन्द्रियमिति पाठः] ||४७५|| व्यक्तिनिष्ठं तदानीं च मनसा व्यक्तिनिश्चयः | नास्तीति मनसा कस्मात्सामान्यग्रहणं भवेत् ||४७६|| विना व्यक्तिग्रहेणैव सामान्यग्रहणं य(कु)तः | सामान्यग्रहणे चास्य सर्वार्थत्वं निरुद्ध्यते ||४७७|| विशेषग्रहवन्ध्यस्य सर्वशब्दविलोपतः | आशुगामित्वमेतस्य यच्चोक्तं तत्र वस्तुनि ||४७८|| पुरःस्थिते स्वहस्तादौ किंचिद्दूरगते घटे | अतिदूरे च मेर्वादौ कथं तुल्यैव गन्तृता ||४७९|| आशुसंचारिणां यस्मात् क्वापि पूर्वकतेजसाम् (?) | सविधासविधत्वेन विशेषः प्रविभाव्यते ||४८०||
SK
कथं चाभौतिकं सूक्ष्मं गृह्णीयात्पर्वतादिकम् | अभिव्यक्तिः समानस्य समानेन विधीयते ||४८१|| ४६) नन्वस्तु प्राकृती बुद्धिस्ततोऽहंकृत्ततो मनः | इत्थमप्यणुता नैव मनसः संप्रसिद्ध्यति ||४८२|| व्यापकत्वेन पूर्वोक्तदूषणानि स्थितान्यलम् | इत्थं मनो न युक्त्यंशैर्मानसावर्जनाय नः ||४८३|| यादृग्वाद्यन्तरैरिष्टं द्वैतव्यामूढदृष्टिभिः | चिदात्मनः प्रकाशस्य तथाभासनभागिनी [भासकेति पाठः] || ४८४|| या शक्तिस्तन्मनस्त्वस्तु स्वस्वातन्त्योपकल्पितम् | यत्र श्रोत्रं नभस्तत्र सर्वशब्दश्रुतिर्भवेत् ||४८५|| चक्षुराद्यैश्च सर्वत्र निर्विबन्धं यतो नभः | धर्माधर्मैर्विबन्धश्च युक्त्युपन्यासवैकली [केवलीति पाठः] || ४८६|| बाधिर्यादि कथं च स्यात् कथं वा तच्चिकित्सनम् | बन्धाश्रयविघातेन तदनुग्रहतस्तथा ||४८७|| अक्षं स्वावयवेष्वेव * * * समवायिनः | विशेषेण नभो नैव क्वाप्याश्रितमिति स्थितिः ||४८८|| संयोगिता तु * * * साकं भावेन वर्तते | तदनुग्रहघाताभ्यामपि विक्रियतां ततः ||४८९|| यदनुग्रहतस्तस्यानुग्रहः स तदाश्रयः | इतीयं स्ववचःकॢप्तिर्निःसारैव विभाति [विभागिन इति पाठः] नः ||४९०|| आश्रयद्वारकोऽक्षाणामनुग्रह इति स्फुटम् | अभिधत्स्व क एतेषामाश्रयोऽस्त्विति चोदिते ||४९१|| यदनुग्रहयोगोऽस्य [योगस्येति पाठः] स एवाश्रय इत्ययम् | न्यायोऽन्योन्यसमालम्बी चक्रकं नातिवर्तते ||४९२|| वायुप्रकृति यच्चोक्तं स्पर्शनं तद्विविच्यते | ४७) वायोर्वेगवती तावदनिरुद्धा स्थितिः स्थिता ||४९३|| देहदेशे [देहदेहे इति पाठः] ततः स्पर्शः न कुड्य इति कः क्रमः | चक्षुश्च [स्वतैजसमिति पाठः] तैजसं तेजः प्रसृतं बाह्यगोचरे ||४९४|| अर्थान्रूपप्रधानांश्च वेत्तित्येतन्निरूप्यते | अदृश्यं यदि तत्तेजः प्रेर्यते मनसा कथम् ||४९५|| प्रेरणं नह्यविज्ञानं [नहि विज्ञातमिति पाठः] कदाचिदुपपद्यते | इन्द्रियेण न च ज्ञातं कदाचिच्चाक्षुषं महः ||४९६||
SK
न चापीन्द्रियविज्ञाते स्वतन्त्रं भवतां मनः | अप्रेरितं च तत्पश्येत्सर्वतः सर्वथा सदा ||४९७|| आसमञ्जस्यमेव स्यात् प्रवृत्तौ वा निवर्तने | किं च गोलकसंस्थानं तावच्च यदि तन्महः ||४९८|| तावतस्तद्गतस्यैव ग्रहः स्यान्नान्यतः क्वचित् | तथैतद्विपरीतं तु गोलकेऽपि निमीलिते ||४९९|| उन्मीलिते वा सर्वत्र वस्तुनि ग्रहणं भवेत् | उन्मीलिते चक्षुषि च प्रसृते रश्मिमण्डले ||५००|| तस्यास्ति न पटस्येव संवृतिर्नेत्रमीलने | ततो निमीलिताक्षस्य वस्तुदृष्टिर्न किं भवेत् ||५०१|| घने चातपमध्येऽस्ति विनिमीलितचक्षुषः | चित्रतेजोवभानं [वतानामिति पाठः] तत्पीडिताक्षयुगस्य च ||५०२|| योगिनां बिन्दुदृग्ध्वान्ते कथं तद्वा भविष्यति | भवेदुन्मीलितेऽप्यक्ष्णि न वस्तुग्रहणं क्वचित् ||५०३|| मनोधिष्ठानयोगेन परमाण्वधिकप्रथा | दीपापेक्षा च यामुष्य सापि किं न विबाध्यते ||५०४|| ४८) दीपप्रकाशः स्वान्तात्मनेत्रार्थेषूपकारकः | न प्रत्येकं मनोवृत्तेः संस्कारस्तेन चेद्भवेत् ||५०५|| दीपे संकल्प्यमाने स्याद्रात्रौ रूपपरिग्रहः | आत्मनः संस्क्रिया चेत्स्यात्तस्य सर्वगतत्वतः ||५०६|| सर्वदा रूपसंवित्स्यात्संयोगः संस्क्रिया यतः | अमूर्तस्यापि नित्यस्य कोऽन्यः संस्कार उच्यते ||५०७|| नेत्रोपकारश्चेत्तर्हि नेत्रदेशस्थितेऽर्चिषि | तेजोमध्यगतं रूपं न भासेत कदाचन ||५०८|| ननु तद्वेद्यदेशेऽसौ नायनः किरणव्रजः | हन्त तत्रैव विज्ञानमात्मदेशे न किं भवेत् ||५०९|| तत्रैवात्मा विभुत्वेन तत्रैव करणं यतः | तस्माद्भोगाश्रयो देहो जीवन्निति वृथोक्तयः ||५१०|| नायनानां मयूखानां गन्तृत्वेऽवसिते सति | अनावृतेऽरण्यमार्गे स्वहस्तात्प्रभृति स्फुटम् ||५११|| अर्कचन्द्रादिसंदृष्टिः कथं नामोपजायताम् | शीघ्रत्वेऽपि यतः प्रोक्तभेदो दूराविदूरगः ||५१२|| दीपनेत्रावभासाभ्यां छन्ने तस्मिन्कथं मतिः | शुद्ध एव भवेद्भावे ताभ्यां व्यामलताजुषि ||५१३||
SK
अन्धत्वं तच्चिकित्सा च न युक्ताश्रयदूषणा | रसना च जलात्मा चेत्तज्जलं स्रुतिमद्यतः ||५१४|| ततः स्थैर्यं कथं तस्य का च नानारसप्रथा | तस्यैकरसतायोगे तस्या नैकरसस्थितेः ||५१५|| न स्यादेकरसज्ञप्तिर्यथा पित्तभरे सति | तिक्ता रसनवृत्तिर्नो माधुर्यं विदितुं क्षमा ||५१६|| ४९) ननु पित्तगतं तैक्त्यं न त्वेवं रसनागतम् | तर्हि पित्तगुडौ तुल्यं [तुर्यमिति पाठः] रसनापथगामिनौ ||५१७|| इति स्याद्युगपज्ज्ञप्तिस्तिक्तमाधुर्यगोचरा | नीरसा रसना चेत्सा रसाभिव्यञ्जिका कुतः ||५१८|| स्वभावादिति चेदस्याः कोऽयमाम्भसताग्रहः | घ्राणं च पार्थिवं तस्य काठिन्यं किं न दृश्यते ||५१९|| ननु गन्धगुणोद्रेकि किं स गन्धो न भासते | नास्ति तत्रेन्द्रिअयव्यक्तगन्धवत्त्वे तथा प्रमा ||५२०|| निर्गन्धमपृथिव्यात्म मनो गन्धग्रहक्षमम् | अस्त्येव भवतां तेन नानुमा तादृशः क्षमा ||५२१|| तस्मादिन्द्रियसंघातो भौतिको नोपपद्यते | आहङ्कारिकतायां तु व्याप्तृत्वमविभिन्नता ||५२२|| देहाश्रयविरोधश्च करणत्वेन चास्थितिः | वागादि यच्च कर्माक्षपञ्चकं तद्विविच्यताम् ||५२३|| आनाभेर्मुर्द्धपर्यन्तं यः समीराभिघातजः | विशेषः कोऽपि वागात्मा स तादृगिह कथ्यते ||५२४|| तस्य [तस्या इति पाठः] कार्यं भवेच्छब्दः कर्ता कोऽत्र विचार्यताम् | आत्मनो नैव कर्तृत्वं तथात्वेऽपि विभुत्वतः ||५२५|| मया प्रोच्चारिते शब्दे त्वं वक्ता किं न जायसे | प्रकृतावपि दोषोऽयं कर्त्र्यां कर्तृत्ववर्जिता ||५२६|| करणस्य स्थितिर्नास्ति तुल्ये वागिन्द्रिये सति | कथं चास्फुटसुस्पष्टभावः शब्देषु जायते ||५२७|| कथं चोपांशुसंजल्पस्मृत्यादौ शब्दगा भिदा | प्रयत्नाच्चेत्प्रयत्नोऽपि यद्युत्पत्तिस्ततः कथम् ||५२८|| ५०) विशेषो जायते ह्यन्यो नह्यन्यगुणसंभवः | प्रयत्नमान्द्यामान्द्याभ्यां येन प्रतिविधीयते ||५२९|| पाणीन्द्रियं चाददानं मुखाद्यैर्ग्रहणं कुतः | ग्रहणं च किमुच्येत स्वीकारो यदि संमतः ||५३०||
SK
अस्वस्य स्वस्य करणं स्वीकार इति भण्यते | स्वशब्दश्चात्मवाची चेत्तत्रात्मा प्रकृतिर्यदि ||५३१|| तन्नास्त्यप्राकृतं किंचिदित्यस्वत्वं कथं किल | अहङ्कारोऽप्यथात्मा स्यान्नाहङ्कारी कृतिर्घटे ||५३२|| आत्मीयोऽयमनेनैतद्दुषणेनैव दूषितम् | अहङ्कारस्य संबन्धि सर्वमेव हि तत्स्वकम् ||५३३|| आत्मनो व्यापकस्यास्ति न स्वं नास्वं च किंचन | एवं पादेन्द्रियस्यापि समोऽयं युक्तिविक्रमः ||५३४|| देशाद्देशान्तरप्राप्त्या गमनं च यदुच्यते | तत्त्यागरूपं स्वीकाराभावेनैव प्रसिद्ध्यति ||५३५|| स्वीकारो दूषितश्चैष स्वीकारांशोऽपि यो गतौ | तस्य पाणीन्द्रियं युक्तं करणं नाङ्घ्रिनामकम् ||५३६|| इन्द्रियाणां हि सांकार्यमेवं कार्येषु जायते | अत एव महान्यायवेदिभिश्चरमे नये ||५३७|| प्रोक्तो गतिनिषेधाय भूयान्सद्वाक्यडम्बरः | गतं न गम्यते तावदगतं नैव गम्यते ||५३८|| गतागतविनिर्मुक्तं नास्तीत्यादि स्वके नये | पाय्विन्द्रियं च न च्छिद्रमात्रं कोष्ठ्यमरुत्क्रमात् [कोष्ठेति पाठः] ||५३९|| उत्सर्गः किल सांकार्यं तेन स्यादियती स्थितिः | उपस्थमिन्द्रियं यच्च तस्य कार्यं निगद्यते ||५४०|| ५१) आनन्दः स सुखात्मैव तर्हि दुःखेऽपि कथ्यते | इन्द्रियान्तरमेवात्र मोहेऽप्येवं निरुच्यताम् ||५४१|| दृष्टे ह्लादिनि वा स्पृष्टे घ्रातेऽप्याकर्णितेऽपि वा | आनन्दो वेद्यते तत्र वाच्यमेवेन्द्रियान्तरम् ||५४२|| यच्चाप्यानन्दसंज्ञातमिन्द्रियं तत्र वर्तनी | पायुवत्तन्न कर्माक्षपञ्चकं युक्तिमर्हति ||५४३|| कर्मबुद्ध्यक्षजालस्य समं चेज्ज्ञप्तिसंभवः | तर्हि बुद्ध्यक्षपक्षेऽपि कथं न युगपद्विदा ||५४४|| यदि चायौगपद्यं तच्चक्षुषा सत्यदर्शने | सूक्ष्ममुक्ताफलादीनां प्रोम्भनं किं न शक्यते ||५४५|| निमीलिताक्षस्यादानगत्यादि न कथं भवेत् | भावेषु चक्षुषापाते यदि न स्पर्शनेन्द्रियम् ||५४६|| स्वशरीरं निश्चिनुयात्तत्कुड्यप्रतिमं भवेत् | किं चाक्षव्यतिरिक्तोऽसौ न देहो नाम लभ्यते ||५४७||
SK
अक्षाणि करणानि स्युः स्पर्शात्मानि न वै कुतः | देहो नियामकश्चेत्स्यान्नाक्षवर्जं स कश्चन ||५४८|| अभौतिके च भावेऽपि कथं ग्रहणमिन्द्रियैः | तद्वदेव सुखादीनां किं वा न ग्रहणं भवेत् ||५४९|| संनिवेशश्च नो रूपं स्पर्शेनापि तथा ग्रहात् | न स्पर्शो नेत्रगम्यत्वादनयोर्ग्रहणं कथम् ||५५०|| स्पर्शेन चक्षुषा वा स्यादित्थं कर्मापि चर्च्यताम् | सामान्यसमवायादेस्तथावयविनः प्रथा ||५५१|| कथमिन्द्रियसंघातैररूपादि तथा हि तत् | यश्चादौ संनिकर्षोऽपि संयोगसमवायजः ||५५२|| अप्रसङ्गातिप्रसङ्गकारी स परमार्थतः | ५२) प्रत्यक्षं समवायं च ये भावं प्रतिपेदिरे ||५५३|| तेषामेतेन नेत्रेण संनिकर्षो हि को भवेत् | कपित्थरसरूपांशौ संयुक्तसमवायतः ||५५४|| तुल्यावेवेति नेत्रेण रसः किं वा न गृह्यते | अभावश्चक्षुषा ग्राह्य इति वा भवतां कथम् ||५५५|| भावोऽवश्यतया सोऽस्तीत्येतदप्यपबाधितम् | समवायोऽपि भावो हि न चास्मिन्संनिकृष्टता ||५५६|| अस्ति चाध्यक्षता तेन सर्वं तदसमञ्जसम् | ननु सामान्ययोगेन भावत्वं तु विभाव्यते ||५५७|| पदार्थत्रयसंकारि [सरकारि समवाये चेति पाठः] समवाये च तत्कुतः | हन्त तर्हि न सामान्ये भावत्वं युक्तिमत्ततः ||५५८|| तत्रापि संनिकृष्टत्वघोषणाव्यसनेन किम् | सामान्यसमवायादेः संनिकर्षं विना ग्रहे ||५५९|| विश्ववर्तिषु भावेषु किं वै स्यान्न तथा ग्रहः | ननु वस्तुस्वभावोऽयं नानुयोगं च सोऽर्हति ||५६०|| नूनं तर्ककथा क्षीणा तदलं माननिश्चयैः | एवं नास्त्यनुमानस्य संबन्धिनियमग्रहः ||५६१|| अन्वयव्यतिरेकौ च कथं तद्ग्रहणं विना | धूमाधूमवह्न्यवह्निव्यक्तयो निखिलाः कथम् ||५६२|| जन्मनापि च गृह्यन्तामन्वयादि [गृह्णन्तासत्वयाद्यतयेति पाठः] तथा कुतः | ननु सामान्ययोगेन संबन्धग्रहणं भवेत् ||५६३|| एतद्वयं न जानीमस्तज्ज्ञापयितुमर्हसि | यत्र स्याद्धूमसामान्यं वह्निसामान्यमत्र चेत् ||५६४|| अत्रातिदेशमात्रेऽतिप्रसङ्गोऽस्य विभुत्वतः | ५३)
SK
व्यक्तौ देशे तु नो युक्तमधूमव्यक्तिगेऽनले ||५६५|| धूमव्यक्तेः स्वभावोऽग्निरग्रेर्व्यक्त्यविनात्मता | एतदेव कुतो मानात्प्रयक्षाद्यदि तत्कथम् ||५६६|| अन्यव्यक्तेस्तथाभावनियमावगतिः कुतः | यच्च धूमत्वसामान्यं नियामकमिहेष्यते ||५६७|| तत्र [तन्नेति पाठः] वह्नित्वसामान्यमविनाभावि वर्तते | नहि जात्यन्तराज्जातिर्विना नास्तीति युज्यते ||५६८|| गम्यते यदि तेनैतदविनाभावलक्षणम् | अविनाभावगमने अन्योन्याश्रयतामितः ||५६९|| धूमाद्वह्नित्वसामान्यप्रतीतिर्यदि चोद्भवेत् | सामान्यग्रहणे तर्हि न भवेद्व्यक्त्यपेक्षणम् ||५७०|| व्यक्तिभ्यो व्यतिरिक्ते च सामान्ये परिनिश्चिते | तासु तत्समवैतीति मुग्धश्रद्धाविजृम्भितम् ||५७१|| सामान्ये च पृथग्भूते तेन चार्थक्रियाकृते | न स्यात् प्रवृत्तिर्लोकस्य स हि तत्प्रापणोत्सुकः ||५७२|| अथ सामान्यमाक्षिप्तव्यक्तिकं संप्रतीयते | सामान्यं ज्ञातमाक्षेप्तुं व्यक्तिं किं व्यग्रविग्रहम् ||५७३|| तस्मिन्ननु च तद्वृत्तं श्रद्धत्तामेतदेव कः | ननु प्रमाणसंसिद्धिभिदोर्जातिविशेषयोः ||५७४|| भेदेन नास्ति ग्रहणं ततो वृत्तिः प्रकल्प्यते | सोऽयं मुग्धमतीन्वालान्प्रतार्य निरपत्रपः ||५७५|| विदग्धम्मन्यतामूढो विप्रलम्भयतेऽपि नः | तत्सत्यमुक्तं केनापि लोकवृत्तान्तदर्शिना ||५७६|| येनापत्रपते साधुरसाधुस्तेन तुप्यति | ५४) भेदेन ग्रहणं नास्तीत्यत्र यद्ग्रहणं [चेद्ग्रहणमिति पाठः] मतम् ||५७७|| या च प्रमाणसंसिद्धिभिदोरित्यत्र सा मता | तयोरन्योन्यवादेन प्रतिज्ञैव विरुद्ध्यते ||५७८|| यदि मानाद्विभिन्नौ तौ तद्भेदग्रहणं न किम् | भेदवेदि हि यन्मानं तदेव ग्रहणं भिदः ||५७९|| भेदेन नास्ति ग्रहणमित्युक्ते नापि भेदगम् | प्रमाणमिति चोक्तं स्यात्तस्मान्नेत्थं सतत्त्वधीः ||५८०|| व्यक्त्यादिना च विज्ञानमस्ति शब्दानुमानयोः | तच्च सामान्यविषये भेदग्राहि न किं भवेत् ||५८१|| ननु यादृङ्मता जातिः प्रत्यक्षे ह्यवभासते | नेदृशी शब्दलिङ्गाभ्यां जनितप्रत्ययोदये ||५८२||
SK
हन्त स्फुटास्फुटादीनां धर्माणां संभवो यदि | जातावस्ति गुणास्तर्हि सामान्येष्वप्यवस्थिताः ||५८३|| ननु ज्ञानं स्फुटान्यत्वभासि स्यादसदीदृशम् | ज्ञानं हि विषयाकारप्रकाशपरिनिष्ठितम् ||५८४|| अर्थोपरागजनितैः स्फुटाद्यैरुपचर्यते | नन्वस्य स्फुटताद्यस्तु स्वयं सूर्यमरीचिवत् ||५८५|| मैवं तेजोणवस्तैस्तैर्विसंभागैरतैजसैः | सान्तरव्यन्तरीभूता विभ्रान्तध्यामलायितम् ||५८६|| उत्पत्तिमात्ररचितभावाभावः प्रकाशते | गुणैर्निरंशे विज्ञाने नेदृक्साम्यं सुसंगति ||५८७|| ज्ञानस्योत्पत्तिमात्रेण विषयो ह्यवभासते | अनुत्पत्तौ न वा भाति न तु तान्यथवा स्फुटम् ||५८८|| ननु शब्देऽनुमाने वा सामान्यं भात्स्वरूपतः [भास्वरूपेति पाठः] | ५५) व्यक्तिमाक्षिपतीत्येवं भेदेन ग्रहणं कुतः ||५८९|| उच्यते भास्वरूपेण सामान्यं व्यक्तिमाक्षिपेत् | व्यक्तिस्थतत्प्रतीतिर्या स एवाक्षेप उच्यते ||५९०|| ततोऽध्यक्षेण सर्वासां धियां साम्यं [साद्यमिति पाठः] न किं भवेत् | नन्वस्फुटैव सा व्यक्तिरेतदेव विविच्यताम् ||५९१|| स्फुटत्वमस्फुटत्वं च स्तो धर्मौ यदि कावपि | अस्फुटव्यक्तिनिष्ठं तत्सामान्यमिति जायते ||५९२|| तथापि तादृशस्यास्य स्फुटमेव ग्रहः स्थितः | स्फुटव्यक्तिषु जातिश्च समवेता न संभवेत् ||५९३|| ननु यद्व्यक्तिमात्रं तन्निष्ठं सामान्यमुच्यते | मात्रशब्दे वयं नार्थं विद्मोऽपि सुसमाहिताः ||५९७|| सापि हि व्यक्तिरेव स्यात्सामान्यं वा न वा द्वयम् | ननु व्यक्तेः स्फुटत्वे क आक्षेपार्थो भवेदिह ||५९८|| माभूत्किं खलु वस्त्वंशास्त्वदुक्त्यनुविधायिनः | अवस्थादेशकालादिदूषणं यच्च चर्चितम् ||५९९|| अनुमानेऽत्र हरिणा तदप्यनुसरेद्बुधः | किं चाप्रयोजकीकर्तुं हेतुः सर्वोऽपि शक्यते ||६००|| धूमश्च स्यादनग्निश्चेत्येवं मूर्तौ [मूर्त इति पाठः] ध्रुवो यथा | सर्वो वह्निप्रयुक्तो हि धूम इत्यत्र का प्रमा ||६०१|| सामान्यद्वारताक्षिप्ता न चोपायान्तरस्थितिः | धूमः प्रयोजको वह्नेर्मूर्तावपि [मूर्ततापीति पाठः] न किं भवेत् ||६०२||
SK
अनित्यत्वस्य नियमज्ञप्त्युत्पत्तिकृतौ [कृत इति पाठः] न तु | अन्योन्याश्रयताज्ञानमनवस्था न चैव हि ||६०३|| ५६) शाम्यतीति न युक्तेत्थमनुमानप्रमाणता | तद्भेदवादिनां तावद्द्वे माने नैव संगते ||६०४|| शब्दादेस्त्वनुमानेन सुधीभिः परिनिश्चितम् | तस्मात्स्वसंविदेवैषा स्वप्रकाशतया स्थिता ||६०५|| मातृमानप्रमेयादिप्रपञ्चैः सावभासते | समुल्लासः सिन्धोर्बहललहरीविभ्रममयः प्रकाशः शाशाङ्कः कुमुददलनिर्भेदसचिवः [निर्वेदेति पाठः] | परस्याः संवित्तेर्मितिविषयमातृव्यतिकरै- र्विकासो यः सेयं जगति विविधा कल्पनकला ||६०६|| तस्मात्प्रकाश एवायं चित्रशक्तिसुनिर्भरः | स्वयं विचित्ररूपेण भाति विश्वत्र विश्वतः ||६०७|| तदयं प्रस्फुटाभासो लोकरूपादिवर्त्मना | स्वशक्त्यंशाद्विकल्पाख्यात्प्रत्यक्षव्यपदेशभाक् ||६०८|| तथाहि देवदेवांशस्तत्समुन्मीलनं दृशः [देहदेहांश इति पाठः] | प्राणस्पन्दस्तदैकाग्र्यं भावस्तद्धर्मसंचयः ||६०९|| इत्यादि सर्वं यद्भाति तत्प्रत्यक्षमिति स्फुटम् | न त्वत्र कर्तृकर्मांशकरणत्वादिना [कारणेति पाठः] गतिः || ६१०|| नन्वसावस्ति पाश्चात्ये वैकल्पिकपथे ततः | यतो देहघटाभासः स्फुटः पश्चात्तु सोऽस्फुटः ||६११|| स एव च्छन्नरूपस्तु शुद्धांशस्वात्मसंविदाम् | ततो देहघटाभासस्तत्राप्येषैव वर्तनी ||६१२|| यावत्सहस्रदेहौघभावकोट्यवभासनम् | तत्रापि च पुरा पश्चान्न तु तादृक्प्रथा यदि ||६१३|| ५७) आमर्शपदवीं याति तत्स्फुटास्फुटचित्रितः | तावानसावेक एव स्वरूपप्रस्फुटात्मकः ||६१४|| शिवप्रकाश आयाति विचित्रोऽयं न वस्तुतः | तत्रातद्रूपसंवेशाद्वैचित्र्यं परिचर्यते ||६१५|| शिवप्रकाशेऽतद्रूपप्रवेशस्तु न संगतः | यदि वा कथितन्यायबलात्क्वापि न चित्रता ||६१६|| किंतु चित्रतयाभासश्चित्रभावं प्रसूयते | एवं चैत्रोऽयमस्माकं चित्रवद्भवन्नीदृशः [चित्तवद्भावमीदृशमिति पाठः] ||६१७||
SK
मैत्रेण तन्मतेनालं दृष्टो मां भावदर्शिनम् | पश्यन्पश्यति यः सोयं समाधौ परिनिष्ठितः ||६१८|| प्राक्त्वेष जन्मकोटीषु तत्तत्तापाद्यभुङ्क्त वै | मोक्ष्यते ध्यानचर्याद्यैर्योऽप्येतेन पथागतः ||६१९|| सोऽप्यन्यो मोक्षभागीत्थमपर्यवसितोदयः | प्रकाश एक एवायं यश्चिरान्न विभिद्यते ||६२०|| अत एव हि भेदोऽस्ति न कश्चिद्यो महेश्वरम् | अद्वयं संप्रभिन्दीत [संप्रभेदेतेति पाठः] प्रकाशानन्दसुन्दरम् ||६२१|| देशकालाकृतिज्ञानधर्मोपाध्यन्तरादयः | संमता भेदकत्वेन भान्ति चेत्सा विभा तथा ||६२२|| न चेद्विभैव सा तादृक्तदद्वैतमिदं स्फुटम् | भेद इत्येष शब्दस्तु केवलं प्रतिभोज्झितः ||६२३|| अस्तु वा भेदकलना प्रतिभासंप्ररोहिणी | उक्तनीत्या तु तत्रैव सप्रतिष्ठा भविष्यति ||६२४|| अयं घटः पटश्चायं तावन्योन्यविभेदिनौ | प्रमात्रन्तरभिन्नौ च तौ मत्तोऽपि विभेदिनौ ||६२५|| इति प्रकाश एकोऽयं तथामर्शस्वरूपकः | नन्वेवं पक्षपातोऽयमद्वैतं भवतां कथम् ||६२६|| भेदोऽप्यस्तु स आहत्य किं नाम न विषह्यते | सेयं बधिरगोष्ठीषु गीतवाद्यप्ररोचना ||६२७|| नह्यद्वयं द्वयावेशबाधेनास्माभिरुच्यते | त्वत्पक्षोपगमो ह्येष स्याद्द्वयं तद्धि सुस्फुटम् ||६२८|| इदं द्वैतमिदं नेति तदिदं च द्वयाद्वयम् | इति यत्र समं भाति तदद्वयमुदाहृतम् ||६२९|| नन्वित्थमस्तु भेदोऽपि न वयं शब्दकामुकाः | अस्त्वसौ नहि नो हेयमादेयं वा यथात्र वः ||६३०|| सर्वानुग्राहकं पक्षमालिलम्बिषसे यदि | परमाद्वयदृष्टिं तत्संश्रयेः शरणं महत् ||६३१|| एतदष्टादशे तत्त्वमधिकारे भविष्यति | यत्तदन्ते परप्राप्यं तदस्तु परमार्थतः ||६३२|| अत्र ये नहि विश्रान्तास्ते मितां संविदं श्रिताः | सर्वथैवापबाध्यन्ते जन्ममृत्यूत्थविभ्रमैः ||६३३|| तस्मात्स एक एवासौ प्रकाशः परमेश्वरः | प्रत्यक्षमिति तेनैव प्रकाशेनैव भासते ||६३४||
SK
तत्र ता दृष्टयः सर्वा महानद्य इवार्णवे | विशन्त्यवश्यं नाविष्टाः प्रयान्ति कृतकृत्यताम् ||६३५|| तथा हि मानसामग्री रूपालोकमनोक्षजा | साकं मातृप्रमेयाभ्यां तद्वर्जं वाप्यनेकशः ||६३६|| ज्ञातं च गमयेन्मानं च चाप्युज्झति मानताम् | ५९) प्रत्यक्षपादोत्प्रेक्षेयमिदानीमुपपद्यते ||६३७|| किं चानधिगतग्राहि मानं नवनवं यतः | भैरवेच्छावशादेतद्विश्वं भाति तथा तथा ||६३८|| वस्तु प्रदर्शयन्मानं प्रवृत्तिं विदधत्स्फुटम् | प्रापयत्येव तद्वस्तु तथाभासनयोगतः ||६३९|| सदप्येकान्ततो नेदं नासच्चेत्यादिसंविदः | भान्त्येव परमार्थेन तदनेकान्तदृक्स्फुटा ||६४०|| एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः | अर्हद्वादः सोऽयमस्मत्सुदृष्टौ युक्तश्च श्रीसारशास्त्रेऽपि [तन्त्रे इति पाठः] चोक्तः ||६४१|| इदं मानं मेयं तदिदमिति संख्यां कलयितुं स्वरूपं वा शक्तः क इव जगतीत्येतदपि सत् | मतं वाचां पत्युर्भगवति चिदानन्दसुभगे यतस्तूष्णींभावादपर इह कः किं प्रकुरुताम् ||६४२|| अहेतोर्भाने स्याद्यदि न तनुदिक्कालनियम- स्ततो हेतोरीदृङ्नियम इति कस्यैष महिमा | स्वभावोऽयं हेतोरथ विवृतकण्ठं कथमसौ न भावस्यैवोक्तो [नोक्तौ इति पाठः] यमयति परे केन हि परः ||६४३|| स्वभावाच्चात्मासौ परमशिव इत्यागमकथा निरुक्तो विश्वात्मा जगति निखिले जृम्भत इति | धरादेश्चानन्यो भवतु तदियं भूतचितिता स वन्ध्यो दिक्कालैर्जननमरणापायरहितः ||६४४|| ६०) तदस्यायं लोकस्तदनु परलोकोऽप्ययमिति ग्रहः कस्माद्धेतोः स्पृशति नहि तं कालकलना | ततः स्वातन्त्र्योद्यत्सुखरसपरानन्दमहिमा- भवद्भस्मीभूताखिलकलुषपाशौघसुभगः ||६४५|| सांख्यदृक्पुनरिहैव भूयसा चर्च्यते निखिलतत्त्वगोचरा | दृश्यते हि धरणीप्रभृत्यलं तच्च सूक्ष्मतमकारणोत्थितम् ||६४६|| तद्गृहीतिकरणोद्यतं पुन- र्बाह्यतः करणकं दशात्मकम् | आन्तरं त्रिविधमस्य कारणं सौख्यदुःखपरिमोहदर्पणः ||६४७||
SK
तादृशं त्रिगुणमेव यद्भवे- त्तत्पुनर्जडतयाथ भेदतः | मूलकारणमपेक्षते परं सा निशेयमिह भोग्यमुच्यते | तच्च भोक्तृपरतन्त्रतामयं नो परस्परमुपैति भोक्तृताम् ||६४८|| भोग्यभोक्तृवपुरेकमेव नो जाघटीति हि विरुद्धधर्मतः | तेन भोक्तृ चितिशक्तिमात्रकं तच्चिदात्ममयतावशान्मनः ||६४९|| व्याप्तृ सर्वगतमीश्वरं कथं भोक्तृतां व्रजतु भेदसंगताम् | ६१) तेन तन्निजवशित्वनिर्मितां संकुचत्स्थितिजुषं दशां श्रयेत् ||६५०|| अन्यकारणकलाद्यभावतः सोऽयमस्य सहजो मलः स्मृतः | स त्रिधा समवभाति तद्वशा- देष एव स पुमानुदाहृतः ||६५१|| भोक्तृभावपरतन्त्रावशा- न्नान्तरीयकतयास्य कञ्चुकम् | भाति नैवमिति कालवित्कला- रागसन्नियतिनामधेयकम् ||६५२|| यद्यात्मैष पुनर्निरर्गलनिजस्वातन्त्र्यसंछादितं स्वं रूपं विवृणोत्यलं निजबलात्तच्छुद्धवित्संभवः | कर्तृत्वं किल कार्यवर्गमखिलं बोधे निधाय स्वके पश्यन्नीश्वरतां व्रजेदहमिदं [त्यजेदिति पाठः] सर्वं सदेत्युङ्कुरः ||६५३|| ज्ञातृत्वं हृदयान्तरस्फुरितदृग्दृष्ट्वा स्फुटाभासिनि ज्ञेये भेदतिरोधितां निजचितौ यस्मात्स संपश्यति | तेनास्येदमहंविदोः सरभसं भेदैक्यमाजग्मुषी सामानाधिकरण्यधीः प्रकटयेत्सादाशिवीं संस्थितिम् || ज्ञेयं कार्यं सर्वमन्तर्विबोधे यावल्लीनं तावदुद्रिक्तवृत्तेः | बोधज्वालासंचयस्यान्तराले तत्प्रस्त्यानं स्वं वपुः प्रोज्झतीव ||६५५|| इदंभावः सोऽयं विगलितुमना नो विगलितो ६२) भवेत्प्राक्कक्ष्यायामपि स समकान्तिस्तदधुना | अहंभागोद्रेके विधिरनवधिर्भावविसरे तदेषा शाक्ती भुरिपिरिति स्वसिद्धात्मनि परा ||६५६|| ईहते गलितुमन्वतो [नलितेति पाठः] गलेत्तत्र पूर्वपररूपसंगतेः | शाक्तभूमिरखिलेयमुच्यते चित्रचिन्निचयचर्चिता सती ||६५७|| तत्त्वे तत्त्वे स्वेच्छया देवदेवः सर्वां सर्वां भूमिमालम्बमानः | पूर्णैकात्मा पूर्णसंवित्स्वरूपः श्रीमाञ्शास्त्रे भैरवोऽसौ निरुक्तः ||६५८||
SK
शक्तिपातदृगियं निरुच्यते मन्दमध्यपरतीव्रभेदतः | तत्परस्परभिदाभिरप्यलं या स्वरूपपरिदृष्टिरात्मनः ||६५९|| ननु किं कदाचिदयमीश्वरो निजरूपं प्रकाशयति पूर्णचितिः किं वा कदाचिदथ संवृणुते निर्हेतुको हि नियमः किल कः उक्तमत्र किल पूर्वमनन्तं नान्यदस्ति नियमेषु निमित्तम् | लौकिकेष्वपि स एव महेश- श्चित्रचित्रपरिभासनशीलः ||६६१|| तत्स्वातन्त्र्यादधिकमधुना नोत्तरं बम्भणीमः संवित्सिन्धोः प्रथितलहरीहर्म्यधाराधिरूढिः [रूढ इति पाठः] | शान्तिस्तस्यास्तदनु तदयं बन्धनाम्नापदिष्ट- स्तेनैवेत्थं परिगतरसो मोक्ष इत्युक्तरूपः ||६६२|| ६३) सदा कदचिदधुना तदेत्यादि च संविदः | तत्स्वातन्त्र्यावभासीयकालकेलिविकल्पनाः ||६६३|| न च कालकलाभिः स स्पृश्यते परमेश्वरः | नहि तासां स्वतन्त्रास्ति स्थितिस्तत्कल्पनां विना ||६६४|| तेन स्वसृष्टे भावांशे स्वरूपात्मन्यपि स्फुटम् | पारतन्त्यावभासोऽयं देवेनैवावभास्यते ||६६५|| पारतन्त्र्यं कलयति स्वतन्त्रः परमेश्वरः | स्वातन्त्र्ये पारतन्त्र्ये च नान्यल्लक्षणमुच्यते ||६६६|| परिच्छिन्नप्रकाशोहि जडस्तेनात्र यः स्थितः | परिच्छेदक एषोऽपि परिच्छेद्यो यदि स्फुटम् ||६६७|| तदस्य रूपग्रहणे न प्रकाशः प्रकाशते | तथा हि बाह्यो भावांशः स्वयं नैष प्रकाशते ||६६८|| ज्ञानमर्थप्रकाशात्म तच्चानाभातमेव हि | तस्यापि समवाय्यात्मा नैव भाति स्वरूपतः ||६६९|| तदीयकरणं [कारणमिति पाठः] नेत्रप्रभृत्यपि न भासते | आलोकादेश्च विज्ञानादृते नैवावभासनम् ||६७०|| ननु जातं यदि ज्ञानमर्थस्यासौ [त्र्य?क्षस्येति पाठः] प्रकाशता | शक्तिर्धर्मो यदि प्राप्तं सार्वज्ञ्यं विश्वमण्डले ||६७१|| अन्यदेवाथ तत्किंचित्प्रकाशत्वाभिशब्दितम् | तन्मेयमातृमानेषु नैव कुत्रापि संगतम् ||६७२|| ततश्चाप्रकटं विश्वं सर्वदैव भवेदिदम् | अप्रकाशस्य भावस्य यदि च स्यात्प्रकाशनम् ||६७३||
SK
तावतैवास्य हीयेत स्वरूपं परिहानितः | ज्ञानोत्पत्तिश्च भावस्य स्वरूपस्थस्य [स्वरूपस्य चेति पाथः] चेत्प्रथा ||६७४|| ६४) अविशिष्टे स्वरूपस्थभावे विश्वस्य सा न किम् | तस्मात्प्रकाशो विश्वस्य परिच्छेदकनिष्ठितः ||६७५|| तत्स्वातन्त्र्यावभासोत्थचित्राकारविभेदितः | परिच्छेदक इत्थं चेत्परिच्छेद्यो भवेत् ततः ||६७६|| मूलक्षतिकरी सेयमनवस्था पतिष्यति | अतश्च सोऽपरिच्छिन्नः परिच्छेदक उच्यते ||६७७|| अकाल्यस्तेन शास्त्रेषु तन्न कालस्य गोचरः | तेनास्य वेद्यधर्मत्वं कालस्य परिभाषितम् ||६७८|| यदि कालश्च मातारं परिच्छिन्द्यात्ततो ध्रुवम् | मातृलग्नैव कालस्य स्थितिर्निर्वाहमिच्छति ||६७९|| न च मात्रन्तरं किंचित्संभवेदनवस्थितेः | तां हन्तुं वोपगम्योऽसौ माता कालकलोज्झितः ||६८०|| य एव तु परिच्छेद्यो माता तल्लग्न एव चेत् | स कालो मातृमेयत्वे तर्ह्येकस्य कथं तव ||६८१|| भेदवादे हि भवतां निष्ठिता मतिरीदृशी | अभेदवादिनां नस्तु नैव काप्यस्ति खण्डना ||६८२|| विश्वं मातृमयं येषां माता विश्वमयस्तथा | तन्न कालकलाजालजम्बालैः परमेश्वरः ||६८३|| चितिशक्तिप्रकाशो हि मालिन्यमवलम्बते | अतस्तदा संवृतोऽसौ पश्चात्प्रकटरूपकः ||६८४|| इति तस्यैव जृम्भेयं तथात्वव्यपदेशिनी | कलनैवास्य सा काचित्स्वरूपामर्शनात्मिका ||६८५|| शिवयोगार्हमात्मानं यस्यामात्माभिमन्यते | यतो वैचित्र्ययोगेन तथात्मानं स मन्यते ||६८६|| ६५) शक्तिपातस्य तेनोक्ता नवधात्र व्यवस्थितिः | अन्यथा नेश्वरस्यास्ति रागो द्वेषोऽथ वा क्वचित् ||६८७|| येन क्वाप्येष नियतां स्वां शक्तिं पातयेद्विभुः | अनिमित्तस्तथा चायं शक्तिपातो महेशितुः ||६८८|| तेन रागक्षयात्कर्मसाम्यात्सुकृतगौरवात् | मलपाकात्सुहृद्योगाद्भक्तेर्भावाच्च सेवनात् ||६८९|| अभ्यासाद्वासनोद्भेदात्संस्कारपरिपाकतः | मिथ्याज्ञानक्षयात्कर्मसंन्यासात्काम्यविच्युतेः ||६९०|| साम्याच्चित्तस्य सा शक्तिः पततीति यदुच्यते | तदसन्ननु तत्रापि निमित्तान्तरमार्गणात् ||६९१||
SK
अनवस्थातिप्रसङ्गसंभवाभावयोगतः | अन्योन्याश्रयनिःश्रेणिचक्रकाद्युपपाततः ||६९२|| अस्मिंस्तु पक्षे सर्वेषां प्रवादानामपि स्थितिः | युक्ता सर्वंसहे पक्षे न किंचित्किल दुष्यति ||६९३|| युक्तिः सुधीभिः स्वयमेव तत्र शक्येत संयोजयितुं ततो न | पृथक्तया योजनमुक्तमत्र यद्ग्रन्थतो विस्तर एष मिथ्या ||६९४|| उपजग्मुरतोऽनपेक्षिणीं शिवशक्तिं न च तां विना भवेत् | अपवर्गपदं यतो मुधा परशास्त्रेषु विमोक्षसंकथाः ||६९५|| शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् | ६६) श्रीमदुत्पलगुरुर्न्यरूपयत् तत्र तत्र निजशास्त्र ईदृशम् ||६९६|| तस्यैव हि प्रसादेन भक्तिरुत्पद्यते नृणाम् | यया यान्ति परां सिद्धिं तद्भावगतमानसाः ||६९७|| इत्थं पुराणशास्त्रादौ शक्तिः सा पारमेश्वरी | निरपेक्षैव कथिता सापेक्षत्वे ह्यनीशता ||६९८|| केवलं भेदवादान्ध्यस्थगितालसदृष्टिभिः | दुःसमर्थत्वमेतस्या नियमेन क्वचित्स्थितेः ||६९९|| पर्यालोच्यानिशं कर्ममलसाम्यप्रपाकतः | इत्यादिहेतुजालेषु वृथात्मा परिखेद्यते ||७००|| तत्तेषां नोपकाराय कुशकाशावलम्बनम् | तस्मात्स एव तादृक्षस्वस्वातन्त्र्योपबृंहितः ||७०१|| तदा तथा तथेत्यादिवैचित्र्येणावभासते | तदित्थं सर्वदृष्टीनामत्रैव परमेश्वरे ||७०२|| अनुप्रवेश इत्यन्यैरलं वा युक्तिडम्बरैः | तदित्थं देवदेवेन स्वस्वरूपमिहोदितम् ||७०३|| प्रत्यक्षं तत्र तन्मानं सर्वमानधुरोद्धुरम् | एकमेवेदृशं मानमिति केचित्प्रपेदिरे ||७०४|| धूमादग्निरिति प्रायस्तस्यैवैतद्विजृम्भितम् | यथा घटस्य पूर्वांशदृष्टैकपरिनिष्ठितः ||७०५|| माता स्फुटास्फुटाकारतावदर्थावलेहिनीम् | स्फुटामेव मतिं मत्वा प्रत्यक्षत्वं प्रपद्यते ||७०६|| न चानुमानमन्त्यांशे संविदेकैव सा यतः | धूमाध्यक्षप्रतीत्यन्तर्निविष्टाग्निप्रथा तथा ||७०७|| एकैव तावदर्थांशलेहिनी जायते मतिः | ६७) तावत्यंशे स्फुटाकारा प्रत्यक्षमिति भाष्यताम् ||७०८||
SK
यथा रत्नादिवैचित्र्यं तथा संस्कारसंस्थितेः | नेत्रात्ममानसालोकविषयादिषु संविदि ||७०९|| प्रत्यक्षमेव संवित्तौ स्फुटत्वेनावभासते | तथा तथाविधव्याप्तिधामसंस्कारसंस्थितेः ||७१०|| अन्ते तथैव सा वित्तिर्धूमाग्न्याकाररूपिणी | यथा च दृढसंस्काराः सोल्लेखाः सपदि स्वयम् ||७११|| रत्नादितत्त्वं पश्यन्ति विघ्नान्तरतिरोधितः | तथा बुभुक्षितात्मानः शीघ्रमेवातिनिश्चितम् ||७१२|| अन्नादि गृह्णते भोक्तुं व्याप्त्याद्यव्यवधानतः | तेन प्रत्यक्तमेव स्याद्यदाहुः परिकल्पनम् ||७१३|| अभ्यस्तेष्वविनाभावस्वभावव्याप्तिसंविदः | किं हि तत्कल्पनाव्याप्तिवित्तेरिति न मन्महे ||७१४|| आशुत्पत्तिवशादस्या न खल्वस्त्युपलक्षणम् | अनुमीयत एवं सा तदेव परिकल्पनम् ||७१५|| अहो स्वपक्षपातान्धाः स्वमप्युपगतं मुहुः | अमी विस्मर्तुमारब्धास्तार्किकम्मन्यबुद्धयः ||७१६|| क्षणापवर्गिणी बुद्धिः सर्वैव हि भवन्मता | उत्पत्तिमात्रयोगेन विषयस्यावभासिका ||७१७|| न क्षणाच्चापरं किंचिदाशुभावित्वमुच्यते | तत्सर्वमाशुभाव्येव विज्ञानमिति तत्त्वतः ||७१८|| सर्वत्र भावजातेषु भवेदनुपलक्षणम् | अथाविच्छिन्नदृष्टीनां द्राघीयः कालगोचरम् ||७१९|| ज्ञानं तेनापि तर्ह्यर्थो जन्ममात्रेण भास्यते | ६८) यच्चोत्पत्तिवशादेव विषयस्फुटतात्मकम् ||७२०|| तस्य शीघ्रतरस्थास्नुभावो भेदावहः कथम् | यत्तत्किल ग्रहापेक्षं स्वप्रकाशमथापि सत् ||७२१|| अन्यत्रोपायतां याति विद्युद्दीपादिवत्तथा | तत्रैव [अत्रैवेति पाठः] चिरशीघ्रस्थभावो भेदाय भासते ||७२२|| न च क्वाप्यनुमानेषु व्याप्त्यादेर्ग्रहणं भवेत् | पुनः पुनः स्फुटीभावं याति येनोपलक्ष्यते ||७२३|| किं च क्रमिकधूमादिज्ञानमालात्मनि स्फुटम् | उदितापि [यन्नियामिति पाठः] कथं कुर्यादेकभावावभासनम् || ७२४|| अथान्त्यमनुसंधानज्ञानमेवं करिष्यति | तदपि प्राक्स्थसंवित्तिसमं भिन्नं कथं तथा ||७२५|| तेन प्राक्तनविज्ञानमालामन्वास्यते यदि | तदसन्नहि संधानं नष्टायामुपपद्यते ||७२६||
SK
अथ स्मरणमेवेह संधानं संविदां भवेत् | तदप्यनुभवाभावे कथं नाम भविष्यति ||७२७|| न च ज्ञानेष्वनुभवो युज्यते संविदः क्वचित् | युगपज्ज्ञानयुगलं नास्तीति हि भवन्मतम् ||७२८|| ज्ञानज्ञेयात्मता दृष्टा युगपत्स्थितताजुषोः | न तु पूर्वापराकारसमुत्पन्नविरोधिनोः ||७२९|| तस्माद्व्याप्त्यनुसारावभासपूर्वापि या मतिः | तत्राप्यक्रममेवेदं प्रत्यक्षमानवेदनम् ||७३०|| यथा झटिति सौषुप्तप्रबुद्धः प्रोन्मिषद्दृशिः | प्रत्यक्षमिति भावांशध्यामलत्वनिवृत्तये ||७३१|| नेत्रसंमार्जनादीनि विदधन्नभिमन्यते | ६९) भावाननुमिनोमीति तथैवात्रापि बुद्ध्यताम् ||७३२|| यथा च घनसौषुप्तमोहाव्युत्थितदर्शनः | स्वात्मानमथ तत्स्थानं विस्मरत्येव तत्क्षणम् ||७३३|| अथ प्रयत्नसंभारप्रबुद्धविमलस्वदृक् | सोऽहमस्मीति मन्वानः संवित्तेः परमार्थतः ||७३४|| तत्र सर्वत्र नाथोऽयं भैरवश्चित्स्वरूपकः | स्वातन्त्र्यात्स्वं वपुर्यावद्गूहते विवृणोति च ||७३५|| तावदज्ञानमेतस्य विज्ञानं चोपजायते | तच्च स्फुटतया सर्वप्रत्यक्षमिति मन्यताम् ||७३६|| घटशब्दे श्रुते या च पृथुबुध्नोदरादिधीः | तत्रापि खलु संकेतस्मरणादि तथाविधम् ||७३७|| यथा रत्नपरीक्षायां स्वां संवित्तिं स्फुटात्मिकाम् | संविदन्तरसंघातैस्तिष्ठति प्रतिबोधयन् ||७३८|| ततः प्रबुद्धचरमस्फुटसंवित्तियोगतः | रत्नतत्त्वं विभात्यत्र नोपयोगोऽन्यसंविदाम् ||७३९|| ताः परं तत्प्रोबोधाय कारणत्वं वितेनिरे | तस्यैवाभासयोगे हि न तासामुपयोगिता ||७४०|| बालवैकटिकज्ञानदृष्टान्तादीदृशात्स्वयम् | शाब्देऽपि खलु विज्ञाने स्फुटैवैका प्रकाशधीः ||७४१|| अतस्तथाविधे शब्दे श्रुते यत्समनन्तरम् | अर्थावभासने सेयमियती मतिरीदृशी ||७४२|| अर्थः स तावांस्तत्रास्ते घटपूर्वापरांशवत् | नन्वसौ घट एकः स्यादवयव्यात्मकस्तथा ||७४३|| न तु शब्दार्थयोरैक्यं तत्कथं साम्यमीदृशम् | अहो भेदग्रहाभ्यासतिमिराबिललोचनः ||७४४|| ७०)
SK
सद्युक्त्यञ्जनयोगेऽपि न दृष्टिं विमलां गतः | अभिन्नो भगवानेव भैरवो भोग्यभोक्तृताम् ||७४५|| आत्मन्येवानुसंधाय सर्वदा पूर्णविग्रहः | इति प्रसाधिते पूर्वं कः प्रश्नस्यास्य संभवः ||७४६|| तदेवमुपमानादावपि मानान्तरे स्फुटम् | संवित्प्रत्यक्षरूपैव सर्वत्र प्रतिभासते ||७४७|| अन्धोऽपि [नग्न इति पाठः] स्पर्शशब्दाद्यैस्तत्तद्रूपं विलोकयन् | स्फुटतामेव तां तावत्संवेत्ति स तथाविधाम् ||७४८|| एवं जातिजडा रूपस्पर्शाद्यैरभिमन्वते | स्फुटमेव हि भावांशं तेषां नाज्ञातधिः क्वचित् ||७४९|| इयं लावण्यसरसी तारुण्योद्यानकन्दली | इति तुष्यति जात्यन्धस्तदङ्गपरिमर्शनात् ||७५०|| अहो नु सदलङ्कारं गायतीति जडो जनः | गातुर्मुखं विलोक्यैव तावता परितुष्यति ||७५१|| इति प्रत्यक्षमेवैकं निःसपत्नं विजृम्भते | तदस्य फलचिन्तादि कर्तुं प्रस्तूयते मनाक् ||७५२|| तदेव खलु विज्ञानं परिमर्शरसात्मकम् | तस्माद्भेदकथा नैव फलं प्रति सुसंगता ||७५३|| हानादिधीः फलं वास्तु तस्या [तस्मादपीति पाठः] अप्यथ भासनात् | यदि वा स्वप्रकाशैव संवित्तिः पारमार्थिकी ||७५४|| तदेव पर्यन्तफलं सर्वत्रैव सुनिश्चितम् | ह्लादादिकं फलं मुख्यं यत्सर्वत्रेह गीयते ||७४४|| तत्स्वसंविदि विश्रान्तिमभ्येति भरितात्मनि | ७१) तदेवमिदमध्यक्षं सर्वतः प्रविजृम्भते ||७५६|| एतदभ्यासनिष्ठस्य केव सिद्धिर्न जायते | ब्रह्मादिभाषितश्रौतप्रौन्मुख्येन कलादिकात् ||७५७|| दूराछ्रवणविज्ञानमचिरात्संप्रवर्तते | मनोदृष्टेऽपि भावांशे स्फुटवृत्त्युदयो ह्यलम् ||७५८|| स्वविमर्शबलाक्रान्ते किं चित्रं यदि जायते | स्पन्दशास्त्रे तथा चोक्तं सावधानेऽपि चेतसि ||७५९|| भूयः स्फुटतरो भातीत्यलं बहुलविस्तरैः | इत्थं प्रत्यक्षमेवेदं विश्वं यत्परमेशितुः ||७६०|| तत्ततोऽप्यविभिन्नस्य मातृवर्गस्य तत्तथा | न च प्रतीतिसांकर्यं तथा भासनयोगतः ||७६१||
SK
प्रत्यक्षेऽपि समे साम्यं नो घटाघटसंविदोः | इत्थं प्रत्यक्षमेवेदं निःसपत्नं विजृम्भते ||७६२|| ततो न भिद्यते चार्थः प्रत्यक्षाद्वैतमीदृशम् | इदं सन्धानकलिकापरिनिष्ठितबुद्धिना ||७६३|| आचार्यनरसिंहेन प्रत्यक्षाद्वयमुच्यते | अनुमानप्रमाणत्वं विश्वस्मिन्कैश्चिदुच्यते ||७६४|| तथा हि देवः सर्वज्ञो निर्विकल्पस्वभावकः | स चाध्यक्षस्वभावोऽपि नायाति व्यवहार्यताम् ||७६५|| अविकल्पे विकल्पात्मा व्यवहारः कथं किल | विकल्पेन च सर्वोऽयं व्यवहारोऽवतन्यते ||७६६|| स एव चानुमानं स्यात् तस्यैताः परिकल्पनाः | पक्षतद्धर्मतद्व्याप्तितत्प्रतीत्यादयोऽखिलाः ||७६७|| वस्तुतस्त्वेक एवासौ प्रत्ययः पारमार्थिकः | ७२) नन्वध्यक्षवियोगे स्यादनुमानं कथं यतः ||७६८|| तत्प्रत्यक्षपरिच्छिन्नप्रतिबन्धनिबन्धनम् | सत्यं किंतु य एकोऽसौ देवः सर्वज्ञतास्पदम् ||७६९|| तदावेशवशादेषा व्याप्तिर्बोधेऽवकल्पते | अन्यथा वह्निधूमादि तदभावादिवेदनम् [वेशनमिति पाठः] || ७७०|| अन्वयव्यतिरेकात्म न स्याद्युगशतैरपि | अत एव हि मुख्यस्य मानस्य सदृशत्वतः ||७७१|| अनुमानमिति प्रोक्तं व्यवहारप्रवर्तनम् | तदेवमेते मातारः सर्वत्रेश्वरसंविदम् ||७७२|| उपजीवितुमायान्ति [उपजीवन्त इति पाठः] मातृभावं न चान्यथा | अज्ञो हि जन्तुवर्गोऽयं कथं तदनिवेशतः ||७७३|| ज्ञस्वरूपत्वमाप्नोति तद्विना मातृता कुतः | तस्मात्संविदि योगोऽस्य स च नानेन दुर्लभः ||७७४|| वस्तुतो हि न कश्चित्स संविन्नाथो ह्यसौ तथा | तदेवंपक्षमीशानप्रत्यक्षाक्षिप्तवृत्तिकम् ||७७५|| सापेक्षं परतन्त्रे च पाशवं मानमुच्यते | अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ||७७६|| ईश्वरप्रेरितो यातीत्यत एव मुनिर्जगौ | एवमीश्वरसापेक्षानुमानैकप्रमाणता ||७७७|| निर्णीता लोलटाख्येन गुरुणा लोकसंमता | अन्यस्तद्गृह्य एवाह सत्यं वाध्यक्षसंविदः ||७७८|| व्यवहारेऽस्ति मानत्वमनुमा तु कथं प्रमा | सुलभव्यभिचारायामनुमायां विनिश्चितः ||७७९||
SK
विशंश्रमीतु को नाम परीक्षकतया स्थितः | ७३) अन्वयो व्यतिरेकश्च यः सपक्षेतरस्थितिः ||७८०|| आदिदृष्टस्तदात्वे [पृष्ठ इति पाठः] नो विनिश्चयविधायिनौ | यैस्तु तस्मादपास्येत पक्षधर्मादिदूषणात् (णम्) ||७८१|| वर्चस्ककूटे शुद्धिं ते कुर्युः पांसुकणोच्चयैः | तस्मात्संशय एवायं प्रवृत्त्यङ्गतया स्थितः ||७८२|| स एव भेदाभासित्वान्मायेति परिभाष्यते | मायैव च पशूनां स्यान्मानं मायाचिदात्मकम् ||७८३|| तर्को वाप्येकपक्षांशस्थितिसंभावनात्मकः | अर्थानर्थबलीयस्त्वात्प्रवृत्तौ (त्त्यै)वा निवृत्तये ||७८४|| प्रभविष्णुः स एवेति किमन्यैर्मानडम्बरैः | प्रमाता शिव एवैको यस्येदं स्वाङ्गमीदृशम् ||७८५|| मेयत्वेन समाभाति सर्वतो निश्चयात्मकम् | अन्यः पुनः पशुः सर्वः संशयध्वान्तमध्यगः ||७८६|| सौदामनीद्युतिप्रायसंवित्समनुरञ्जितः | पक्षद्वितयसत्यान्यभावान्यतमनिश्चयम् ||७८७|| विन्दान एव लभते नात्र रूढिं कथञ्चन | तदेवं तर्कतः सर्वो व्यवहार इति स्थितम् ||७८८|| अशुद्धा सैव विद्येयमिति मानं विधीयताम् | अशुद्धिरियती तस्या यद्वस्त्वननुसारिता ||७८९|| अन्ये त्वनर्थिनो नास्ति प्रवृत्तिरिति [इवेति पाठः] निश्चिताः | अर्थित्वमेव सचिवमित्येवं पर्यचूचुदन् ||७९०|| रागस्य मानतामित्थं प्राहुरन्यात्मवेदिनः | अन्ये त्वाहुः संशयोऽपि न नामानिश्चिते गजे ||७९१|| ७४) शक्तत्वे सति जायेत रागो वापि प्रवृत्तये | ततः स्वां कर्तृतामीषदालोच्य जनताः सदा ||७९२|| प्रवर्तन्त इतीत्थं स्यात् कलाया एव जृम्भितम् | तेनार्थः स तथा वास्तु मा वाभूत्स्वात्मनस्तया ||७९३|| मन्वानः कर्तृतामेष सर्वत्रैव प्रवर्तते | अन्ये त्वाहुरनादिर्यो व्यवहारः क्रियात्मकः ||७९४|| नियतिः सैव विश्वस्य प्रवर्तकतया स्थिता | स एव चागमो नाम वृद्धव्यवहृतिक्रमः ||७९५|| ततः समग्र एवायं धर्मादिपरिनिश्चयः | न प्रत्यक्षान्नानुमानाद्भूयसा विप्रलम्भकम् ||७९६||
SK
मतिरभ्येति विश्वासं परीक्षापक्षशालिनाम् | अन्नं क्षुधं शमयते तृषं वारीति बालकाः ||७९७|| अन्यतः परिनिश्चित्य तथात्वानतिशङ्किनः | अन्यदाक्षादिकेऽप्यर्थे तत एवाद्यमानतः ||७९८|| लभन्ते निश्चयं सम्यगागमाख्यात्परीक्षकाः | तथा च मुनिराहेदं पुण्यं पापमिति द्वये ||७९९|| शास्त्रप्रयोजनं स्वल्पं नागमस्य प्रयोजनम् | आगमो हि न नामैष पुस्तकग्रन्थसंचयः ||८००|| केवलं प्रथिताभिख्योऽनादिर्वेदादिकः किल | किं तु प्रसिद्धिरेवासौ सा च शब्दस्वरूपिणी ||८०१|| या सर्वदर्शनेष्वेव न जात्वायात्यपोह्यताम् | छागश्चैत्यो जटा भस्म भिक्षा दण्डः कमण्डलुः ||८०२|| जालं तप्तशिला श्मश्रुकेशलोमविलुञ्चनम् | अग्निरेधा इष्टकौघचयनं गृहमेधिता ||८०३|| ७५) इद्यादिसर्वशब्दानां प्रसिद्धिप्रक्रमादृते | कोऽभ्युपायोऽर्थतः कॢप्ततदन्यार्थावबोधयोः ||८०४|| इत्थमागम एवायं प्रमाणमिति धीधनैः | उक्तं सत्यैव वागैशी प्रसिद्धिरविगानतः ||८०५|| प्रसिद्ध आगमो लोके युक्तिमानथवेतरः | विद्यायामप्यविद्यायां प्रमाणमिति तत्स्थितम् ||८०६|| प्रामाण्यं नियतेः श्रीमद्भूतजान्तनिवासिनाम् | अन्ये त्वाहुर्विशेषोऽयं कालो नामाभिवर्तते ||८०७|| स्फुटभावस्वभावोऽसौ वर्तमानोऽभिवर्तते [निरुध्यते इति पाठः] | वृत्तस्फुटस्वभावांशस्तदा त्वस्फुटतामयः ||८०८|| भूतः कारणकॢप्त्या तु भाव्यसौ परिकल्प्यते | स चायं न स्वतन्त्रोऽस्ति कश्चिदन्योन्यसंश्रयात् ||८०९|| अनवस्थानतो रूपपरावृत्त्यवलोकनात् | इयत्तारूढ्यभावाच्च मातृमेयोभयाश्रयात् ||८१०|| निरुपाधिकतद्रूपप्रतिभानवियोगतः | एकानेकध्रुवानित्यस्वरूपानुपपत्तितः ||८११|| एकस्यैकोपधेरैक्यात्तिरोधे(?)रुपधेरपि | क्रियायाः स्वगते भेदे कालस्यानुपयोगतः ||८१२|| तत्कृतेऽन्योन्यसंश्रित्यान्यकृतेऽप्यनवस्थितेः | औपाधिकभिदावृत्तेरसत्यत्वादवास्तवात् ||८१३|| कार्यस्यानुपपत्तित्वादेकस्यानुपयोगतः | चितश्च स्फुटतादत्तवर्तमानसदात्वतः ||८१४||
SK
भूतभाविलयात्तस्माद्वर्तमानलयादपि | चिन्नाथ एव देवोऽसौ कालमाभासयत्यलम् ||८१५|| ७६) तदस्य कालाभासाख्या चित्स्वरूपस्य संसृतिः | स्वभाव(स्वाभास)गर्भा [स्वाभावेति पाठः] भावेषु भावाभावमयी स्वके ||८१६|| रूपे स्थितिः प्रमातृत्वसमुल्लासोऽभिधीयते | इदं न यदहं चाहं यन्नेदमिदमप्यदः ||८१७|| यन्नेदमिति चित्रेयमभाव(माभास)स्यैव मानता | परा प्रमातृता यासौ शुद्धा तस्यां पृथक्स्थिति ||८१८|| न मानमस्तीत्यत्रांशे किं तया प्रविविक्तया | यस्तु सांसारिको मातृभावः सर्वोऽयमीदृशः ||८१९|| तत्राभाव(स)स्य मानत्वं स च कालप्रसादतः | तथा हि परिपूर्णोऽसौ सर्वसर्वात्मरूपधृत् ||८२०|| क्व माता क्व च वा मानं क्व च मेयोऽवतिष्ठताम् | मात्रादीनां हि सत्यत्वे न स्यादापेक्षिकी स्थितिः ||८२१|| मेयादेव [मेद्यादेर्न चेति पाठः] च मात्रादेर्भावो जातु प्रकल्पते | अन्योन्यरूपस्यालाभे लाभे वा तदयोगतः ||८२२|| सर्वत्रातिप्रसङ्गाच्च सर्वज्ञत्वादियोगतः | युगपच्चाप्यनुल्लासात्तत्त्वस्यानुपकारिणाम् ||८२३|| अन्यमेयादिजनिते मातृत्वादौ तदन्यतः | तद्भावस्याप्यनुत्पन्नसमत्वेनैव संस्थितेः ||८२४|| तस्मात्पूर्णश्चिदात्मासौ शिवः स्वांशं विखण्डयन् | नाहमित्यादिभेदांश इदमप्यवकल्पयेत् ||८२५|| तदन्यसर्वपूर्णत्वमहमात्मनि तावति | ततोऽन्यतोऽपि संहर्ता जायते नाहमित्यपि ||८२६|| उभौ ताविदमंशौ चाप्यपोहति परस्परम् | बुद्धिस्थमिदमंशं स्वं स्वाहमंशे तिरोदधत् ||८२७|| ७७) आस्ते न द्रावयत्येनं वस्त्रावृतघटादिवत् | तदेवं बुद्धिसंस्थात्तु समयाग्रथितादथो ||८२८|| इदमन्तरसंघातादहमंशव्यपोहिनः | अहमंशादिदन्तौघव्यपोहादहमन्तरात् ||८२९|| व्यपोहात्स्वाहमोऽन्यान्याहंव्यपोहस्य भासनम् | षड्देवताः शून्यरूपा यदाश्रित्य प्रवर्तते ||८३०|| तदेवेदमिति ज्ञानं विकल्प इति गीयते | स कालः कल्यते येन विश्वं निजकलोदयात् ||८३१||
SK
तदत्रांशे य एषोऽस्ति भासांशः स्वप्रकाशकः | भावरूपतया सोऽयं सर्वानुप्राणनात्मकः ||८३२|| न मातासौ न वा मानं न च मेयं निरुच्यते | यस्त्वसौ शून्यतायोगादभावो रुद्रदैवतः ||८३३|| स एव मानतामेति यद्योगान्मातृभावि(व)तः | मानाच्च न पृथङ्मेयमित्येवमुपपादितम् ||८३४|| इत्थं कालस्य मानत्वं प्रतिपेदेऽत्र कैश्चन | ये श्रिमद्भवतीत्याख्यगुरुपादोपसेविनः ||८३५|| तदित्थं पुंसि चिद्धर्मविभवामोदशालिनि | मातृत्वदायि यत्प्रोक्तं षट्कं कञ्चुकसंज्ञितम् ||८३६|| तदेकैकस्य मानत्वं केचन प्रतिपेदिरे | अन्ये त्वेकस्य सर्वान्यसचिवस्येति मन्वते ||८३७|| अन्ये कदापि कस्यापि कथंचित्क्वचनेत्यपि | अन्ये द्वयोर्द्वयोरन्ये त्रिकद्वयनियोगतः ||३८३|| अन्योन्यानुग्रहादन्ये बोधेनान्योन्यतोऽपरे | अन्ये तु गुणसाम्यात्मप्रकृतिमेव मानताम् ||८३९|| मुख्यत्वेन विदुः सुप्तमत्तमूर्छादिदर्शनात् | ७८) स यत्रैव प्रमातायं यतः सुप्त इव स्थितः ||८४०|| सैवास्य मातृता मानमेययोरप्रवेदनात् | अन्योन्यमविकार्यत्वात्प्रसुप्तेऽपि तथाविधे ||८४१|| केवलं प्रकृतिः सेयं जानामित्यभिमन्यते | तत्र मुख्यं तु तन्मानं यत्पुंसैवानुदर्शनम् ||८४२|| तच्च शुद्धं निर्विकारं सदसद्रूपतोज्झितम् | इत्थं केऽप्यभिमन्यन्ते सांख्यकञ्चुकसंश्रयात् ||८४३|| वय्याभिधानस्य गुरोर्गृहे ज्ञानोपजीविनः | अन्ये धीभूमिमेवाहुर्दृष्ट्टदृश्योपरागिणीम् ||८४४|| प्रमाणं पारमर्षेयाः केचित्तद्वृत्तिसंचयम् | धर्मादिकाष्टसंख्यातं धर्मजातं परे विदुः ||८४५|| अन्येऽहंकारमेवाहुः केचिद्धियमथो मनः | केचित्त्रितयमेवेदं समं सर्वत्र मन्वते ||८४६|| अन्ये दशानामेकैकमिन्द्रियाणां प्रपेदिरे | केचित्समस्तान्येतानि सर्वत्राकूतवृत्तितः ||८४७|| अन्धस्यापि हि तत्किंचिद्रूपायतनमस्ति यत् | विकारमेकश्रोत्रस्पृगक्षान्तरसमस्थिति ||८४८|| प्रभातं प्रविलीनाभ्रनभोमण्डलमण्डितम् | इत्याकर्ण्य परां तुष्टिं यात्यन्धो हैमने दिने ||८४९||
SK
यद्यप्यनुमिमीतेऽसौ शीतवारणजं सुखम् | तथाप्यस्य स्वसंवित्तिर्न रूपानवभासिनी ||८५०|| अन्ये तन्मात्ररूपाणां मानत्वं प्रतिपेदिरे | चक्षूरश्मिस्त्वसंस्पर्श इत्यादिविधियोगतः ||८५१|| अदृश्यत्वं चक्षुरादेरत एवोपपद्यते | ७९) योगिनः प्रत्यदृश्यत्वं जातुचिन्नोपपद्यते ||८५२|| अन्ये तु स्थूलभूतानां ज्योतिषां मानतां जगुः | मेयस्यापि प्रमाणत्वमपरे प्रतिपेदिरे ||८५३|| यतो भवति मातृत्वं तत्प्रमाणमिति स्थितिः | तद्धटाद्यैश्च यत्तस्मात्तेऽपि मानमिति स्मृताः ||८५४|| लौकिको व्यपदेशश्च नैव वस्त्वनुसारतः | स हीच्छामात्रकॢप्तत्वात्प्रायेणैवौपचारिकः ||८५५|| कथं जानासि भोः सोऽहं जानामीति च चोदितः | घटेनानेन दृष्टेन जानामीत्यभिभाषते ||८५६|| तस्मान्मेयेऽपि मानत्वं नहि नाम न लौकिकम् | अभेदवादे मूलस्थे विरोधोऽपि न दूषणम् ||८५७|| ये तु प्रमाणमाहुस्तत्सामग्रीं तैरपि स्फुटम् | अर्थादेर्मानताभीष्टा सा सङ्घेऽप्यन्यथा कुतः ||८५८|| अन्ये तु सर्वस्यैवेयत्तात्तभेदस्य मानताम् | क्रमोदितां हि सर्वत्र क्वचिच्चाप्यक्रमोदिताम् ||८५९|| क्वचित्क्रमाक्रमग्रासपरिपूर्णत्वबन्धुराम् [पूर्णिपूर्णेति पाठः] | मन्वते तन्मतं तावद्दिङ्मात्रेणोपदर्श्यते ||८६०|| प्रथमं मेययोगेन झटिति प्रतिभासिना | अन्यार्थदृश्यभिप्रायप्रच्छन्नेनैव सर्वतः ||८६१|| मातृत्वं चरमं तत्र चक्षुषः प्रविजृम्भणम् | ततो मनोऽहंधीवर्गविजृम्भान्तःसमुज्ज्वलम् ||८६२|| ततः पौंस्नाभिसंशुद्धसंविदुल्लासशालिता | ततः कालकलारागयत्यविद्यानिशाः क्रमात् ||८६३|| अन्यथा वा समं वापि द्वन्द्वयोगेन वा त्रिशः | ८०) सर्वशो वा चतुष्पञ्चयोगेनाप्याणवे पदे ||८६४|| अभावकर्तृतासङ्गसिद्धितर्काख्यसंशयाः | तत्रापि ननु जायन्ते तत्तत्क्रमविचित्रिताः ||८६५|| तत्पृष्ठे चाविकल्पासौ शुद्धैश्वर्यावभासिका | विद्या प्रमाणतामेति पर्यन्तप्रमितिस्थितौ ||८६६|| ततः सदाशिवोदारज्ञानेच्छाशक्तिसंश्रये | स माता पूर्णतामेति शक्त्यन्ताध्वसुनिर्वृतः ||८६७||
SK
इत्थं पूर्णं प्रमातृत्वं यतः समवभासते | तदन्यतमभागांशतिरोधानवियोगजाः [तदन्यमतेति पाठः] || ८६८|| संविदः स्फुटतान्यत्वभेदान्निःसंख्यतां गताः | अत एव ह्यजानानैः शिवशास्त्रोदितां स्थितिम् ||८६९|| स्फुटास्फुटादिसंवित्सु स्मृत्यस्मृत्यादिगोचरे | सौषुप्तादिषु शीघ्रत्वे युक्त्यामर्शाद्यसंभवात् ||८७०|| मनोवधानं संस्कारो धर्माद्यदृष्टकल्पनम् | इत्येते हि स्फुटं शब्दा नात्र कोऽर्थस्तत्रि * मा ||८७१||(?) ऊर्ध्वोर्ध्वतत्त्वव्रातस्य मानत्वे च निरूपिते | अधराधरतत्त्वांशो मेयतामवलम्बते ||८७२|| न चात्रास्ति क्रमः कश्चिद्व्यवधाने हि संभवात् | नहि विद्या न बौद्धि तामालोचयति संविदम् ||८७३|| विद्या विवेक्त्री प्रोक्ता हि बुद्धिपृष्ठसमाश्रिता | प्रकाशात्मवपुर्बाह्यमक्षमालोचनात्मकम् ||८७४|| संकल्पार्थं मनः प्राहुरभिमन्त्रीमहङ्कृतिम् | निश्चेत्रीं च धियं तत्र विद्यां चापि विवेचिकाम् ||८७५|| तत्रैव रञ्जकं रागं कलां शक्तत्वदर्शिनीम् | ८३) कालं व्यवच्छित्कर्तारं नियतिं च नियामिकाम् ||८७६|| आमृशन्तीमन्यमातृसाधारण्यावभासिकाम् | ग्राह्यमण्डलतद्ग्राहिनानारूपावमर्शिनीम् ||८७७|| मायां पूर्णत्वसंभोगप्रच्युतिक्षोभकारिणीम् | सद्विद्यां पूर्णविश्रान्तिदायिनीं सुशिवात्मिकाम् ||८७८|| ज्ञाननिर्भरभावांशस्वरूपपरिमर्शिकाम् | इच्छाशक्तिं प्रमात्रंशपूर्णभावावभासिकाम् ||८७९|| आश्रित्य परिपूर्णोऽयं मातृभावो विजृम्भते | प्रकाशालोचने पूर्वं संकल्पाभिमते ततः ||८८०|| निश्चयानुदृशौ पश्चाद्विवेकासङ्गिताद्वयम् | कर्तृतास्थाव्यवच्छेदः साधारण्यावभासनम् ||८८१|| नानाविमर्शाप्रक्षोभपूर्णमेयप्रवेदनम् | पूर्णमातृत्वसंवित्तिर्भैरवीभाव एव च ||८८२|| इत्थं षोडशधा मेयमयं यावत्प्रकाशयेत् | तावद्विज्ञानचन्द्रोऽसौ प्रोक्तो द्व्यष्टकलास्थितिः ||८८३|| अनुत्तरा स्थितिः पूर्वमानन्देच्छेशनान्यतः | उदयश्चोनतावेश इति षट्कं व्यवस्थितम् ||८८४|| अनुत्तरात्समारभ्य ज्ञानशक्त्यन्तमीदृशम् | इच्छैव तु क्रियाशक्तिमीशनेन समास्थिता ||८८५||
SK
प्रकाशस्थितिलेशांशं गृह्णती षण्ठतां गता | इच्छादि यच्च तत्पूर्वानुत्तरानन्दसंगतेः ||८८६|| तदादिश्लेषयोगेन संध्यक्षरचतुष्टयम् | ततः स्वरूपसंवित्तिलाभाद्बिन्द्वादिका स्थितिः ||८८७|| ततः समग्रसंदर्भभरिताकाररूपिणि | विसर्गः किल शाक्तोऽसौ विक्षेप इति यः स्मृतः ||८८८|| ८२) विसर्गस्यैव विश्लेष इति सप्तदशी कला | क्वचिदष्टादशी सैव पुनः प्रक्षोभयोगतः ||८८९|| अनुत्तरस्याकारस्य परभैरवरूपिणः | अकुलस्य परा येयं कौलिकी शक्तिरुत्तमा ||८९०|| स एवायं विसर्गस्तु तस्माज्जातमिदं जगत् | तस्य प्रक्षोभयोग्यत्वं प्रक्षोभकलनोदयः ||८९१|| प्रक्षोभपूर्णताभावात्तदकुलक्रमोनता | इति षट्कस्वरूपात्मविमर्शान्दोलनोदितम् ||८९२|| अनुतारस्वभावत्वादाद्यस्यैव विजृम्भितम् | स एव भगवानन्तर्नित्यं प्रस्फुरदात्मकः ||८९३|| अन्तःस्थसर्वभावौघपूर्णमध्यमशक्तिकः | स्वेच्छाक्षोभस्वभावोद्यज्जगदानन्दसुन्दरः ||८९४|| नित्यं स्फुरति संपूर्णविसर्गरससुन्दरः | शिवशक्त्योः स संघट्टः स्नेह इत्यभिधीयते ||८९५|| अत्रैव पूर्णवैसर्गपदे लब्धुं प्रवेशनम् | लेहनामन्थनेत्यादिसंप्रदायमुपासते ||८९६|| तथाहि मध्यमां नाडीमधिष्ठायाखिलं वपुः | प्राणयत्परमं तेजः प्रक्षुब्धमृतुमाल्य(मद्य)तः ||८९७|| विसृष्टिरूपतां गच्छेद्यात्यानन्दचमत्क्रियाम् | अपूर्णा केवलं सा तु पूर्णा तु भगवन्मयी ||८९८|| तेन वैसर्गिकी शक्तिरेकैवेयं प्रजृम्भते | विसर्ग एव प्रक्षुब्धः प्रयत्नद्विगुणत्वतः ||८९९|| हकारो नाम विश्वेषां व्यञ्जनानां प्रसूतिकृत् | स एव च पुनर्बिन्दुयोगात्स्वामेव भूमिकाम् ||९००|| ८३) अनुत्तरामाश्रयते सोऽहंभाव इहेष्यते | अत्रैवावर्णजः काख्यस्तदन्यश्च इवर्णजः ||९०१|| तत एव हि रेफांशच्छायोपाधेर्-ऋवर्णतः | टवर्गस्तत एवाथ धराच्छायोपधिक्रमात् ||९०२|| तवर्गस्तत्परः पश्चादुवर्णाद्यरलाश्च वः | इवर्णवर्गाच्चोवर्णात्क्रमेणेत्यत एव हि ||९०३||
SK
अन्तःस्था इत्यशीताश्च इवर्णाद्द्विप्रभेदशः | शषसानां समुद्भूतिः शुद्धोपाधिकलायुजः ||९०४|| इच्छाया एव विश्वो हि प्रसवो बहुधा स्थितः | अत एव हि सस्थानभावो युक्तत्वमर्हति ||९०५|| जीवस्यैवेयमाश्यानस्थितिर्योन्यात्मिका यतः | सैवानुत्तरदेवस्य शक्तिरत्र निरुच्यते ||९०६|| तत्रैवान्तःस्थतत्त्वानि परावाग्भूमिकाक्रमात् | अवर्गे शिवतत्त्वं तु कादौ हान्ते शिवान्तकम् ||९०७|| इति संपुटयोगोऽयं त्रिंशकार्थो निरूपितः | एवं पूर्णानवच्छिन्न चिद्देवी स्याद्यदि स्फुटम् ||९०८|| सर्वमस्यां भवेदेषा सर्वत्र च तथा भवेत् | यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ||९०९|| तस्याहं न प्रणश्यामि स ममेत्यपि तन्मुनिः | अभाषतार्जुनाचार्यवचसा तत्र तत्र च ||९१०|| संविदात्मा हि विच्छिन्नो यदि स्यात् सर्वभावतः | भाव एव भवेदेष स्वलक्षणघटादिवत् ||९११|| अतश्च संवित्संवित्त्वहानेरेषा प्रणश्यति | पलायते हि चित्सा चेद्व्यवचिच्छेदयिष्यते ||९१२|| निजोत्तमाङ्गच्छायेव स्वपदाक्रमणक्रमे | ८४) यच्च सर्वं मयि प्रोक्तं न पश्यति महाजनः ||९१३|| स सर्वमध्यवर्तित्वान्मयि तावत्प्रतिष्ठितः | एवं प्रकाशानिष्ठत्वादस्यासत्समताजुषः ||९१४|| प्रणाश एवेति मुनिः प्रोवाचोभयवर्त्मना | एष वस्तुक्रमस्तावद्योऽयं संपुट उच्यते ||९१५|| तत एव समस्ताध्वकलितासनसद्मनि | संविदाधेयतां प्राप्ता पुनराधारतां गता ||९१६|| उक्तं चानुत्तरे यागे पुनरेवासनं ततः | अत्र तु प्रविविक्षूणां ज्ञप्तिक्रमवशान्मुनिः ||९१७|| ऊचिवान्भगवानेव विश्वं तन्नान्यथेति यत् | अभिन्नसंवित्स्वातन्त्र्यं भासते भेदवर्त्मनि ||९१८|| उपदेश्योपदेष्ट्टत्वव्यवस्थेयं प्रतायते | स्वात्मैव हि गुरुर्देवः पर इत्यभिमन्यते ||९२९|| स्वोदीरितानि वाक्यानि परोक्तानीति मन्यते | प्रतिपाद्यं च यद्वस्तु येन च प्रतिपाद्यते ||९२०|| तत्सर्वमात्मरूपं हि भेदेनैवाभिमन्यते | यथा स्वप्नपदावस्थामुपदेशपरम्पराम् ||९२१||
SK
आकर्णयञ्जडो जन्तुरन्योक्तमभिमन्यते | तथैव जाग्रद्गर्भोऽयं व्यवहारः समस्तकः ||९२२|| को भेदः स्वप्नजाग्रत्सु तर्हि स्यादिति चेत्पुनः | भणिष्यतेऽथ वा नाथे स्वतन्त्रे किन्न भाषितम् ||९२३|| एवं ज्ञप्तिक्रमेणैव भेदो विध्यनुवादयोः | सर्वं देवोऽथ वा देवः सर्वमित्येकमेव हि ||९२४|| वस्तुतः कुम्भघटवद्विश्वं पर्यायमात्रकम् | ८५) वाच्य एषां त्वमेवेति तच्छ्रीनारायणोऽभ्यघात् ||९२५|| नन्वभेदे कथंकारं कॢप्तिर्विध्यनुवादयोः | यो दन्तुरः स चैत्रोऽयमिति दन्तुरमादितः ||९२६|| अनुद्य चैत्र इत्यंशो यदि नाम विधीयते | तद्दन्तुरोऽन्यश्चेच्चैत्राच्चैत्रश्चान्यस्ततः कथम् ||९२७|| घटश्चैत्र इतीदृक्षा न स्याद्विध्यनुवादता | तस्माद्य एव चैत्रोऽसौ स दन्तुर इति स्थितिः ||९२८|| वास्तवी ज्ञप्तिमात्रोत्थो विधिर्विध्यनुवादयोः | अज्ञातपर्यायपदस्थितीन्प्रति प्रयुज्यते पादप एष भूरुहः | कुम्भो घटश्चेति तथैव भण्यते महेश्वरः सर्वमिदं जगत्त्विति ||९२९|| इत्थं संपुटयोगेन परिपूर्णा हि या स्थितिः | यस्यां संहारसृष्ट्यंशशतान्यन्तः स्थितान्यपि ||९३०|| तामेव भागशः केचिदुपासितुमनस्तया | एकादिद्विगुणत्वोत्थचतुःषड्द्वादशादिभिः ||९३१|| संविच्चक्रमयैर्भेदैर्भिन्दते विविधैः क्रमैः | एका संविद्द्विधा सैव दृक्क्रियात्मा त्रिधाथ सा ||९३२|| प्रोन्मेषशक्तिसाचिव्याच्चतुर्धाप्यथ गीयते | चिच्छक्त्यानन्दरूढ्या तु पञ्चधासौ प्रभाष्यते ||९३३|| षोढा तु स्वरषट्कोक्तसंविच्चर्चाविचारणात् | यावद्द्वादशधा संवित्सृष्ट्यादौ तुल्यगोचरे ||९३४|| एकैकशस्त्र्यात्मकत्वात्त्रये वा चातुरात्म्यतः | सृष्टिं कलयते संवित्तत्राभ्येति च रक्तताम् ||९३५|| स्थितिनाशं कलयते क्वापि शङ्कां प्रकल्पयेत् | ८६) तां संहृत्य च भावांशं संहारात्स्वात्मनः पुनः ||९३६|| संहर्त्रीत्वं चर्चयते तदन्तः पुण्यपापयोः | न द्रुतं न निरोधं वा स्वस्वातन्त्र्येण वाञ्छति ||९३७||
SK
एवं बोधांशकरणमरीचीचक्रमात्मनि | ग्रसमाना संहरते प्रमाणांशस्थितान्रवीन् ||९३८|| ततः कल्पितमात्रंशं संहृत्याकल्पिते हृदि | तत्सर्वातीतमप्यन्तरनवच्छिन्नधामनि ||९४९|| नयेत्तन्नयनद्वाराद्विश्वं यावत्तथा नयेत् | ततः सृष्टिं च कलयेदित्यादिक्रमयोगतः ||९४०|| द्वादशारमिदं चक्रं सर्वदा परिवर्तते | यस्यैताः स्थूलमात्रत्वं मासराश्यादिसंपदः ||९४१|| अक्रमक्रमवशाद्द्विशस्त्रिशो भूरिशोऽथ विविधैः क्रमाक्रमैः | चक्रमेतदुदितं विजृम्भते मेयमानमितिमातृभक्षकम् ||९४२|| एतच्चक्रगतानन्तकिरणारासमाश्रयात् | चक्रभेदो न संख्यातुं कदाचिदपि शक्यते ||९४३|| यथा हि वर्हिणः पत्रे सितपीतारुणादिकम् | प्रोन्मिषन्निमिषच्चात्र भासतेऽप्यतथात्मकम् ||९४४|| तथानुन्मिषितालीनसूक्ष्मसंवित्सुनिर्भरः | चक्रेशो भाति निमिषत्प्रोन्मिषद्वृत्तिचित्रितः ||९४५|| तत्कस्यापि निमेषेण कस्याप्युन्मेषयोगतः | एकारचक्रात्प्रभृति सहस्रारं विवर्तते ||९४६|| तदसंख्यानमथ वाप्यन्योन्याश्रितगर्भकम् | ८७) न वा तच्चक्रमथ किं व्योमैवैकं विजृम्भते ||९४७|| तदप्यनन्तसच्चक्रगर्भं वापि विभासते | अनन्तव्योमगर्भं वा महाव्योमैकमुच्यते ||९४८|| यथा व्योमैवैकं कचति सितनीलारुणतया यथा चैते मेघाः पुनरथ तथा भान्ति बहुधा | तथा संवित्तत्त्वं कलनपरिसंख्याविरहितैः स्वतन्त्रं स्वाकारैः स्फुरति नच ते केचन ततः ||९४९|| इति तत्त्वमिदं न्यरूपय- न्मम नाथो हृदयस्थितः स्वयम् | प्रतिपद्य विचित्ररूपकं गुरुसंतानपरम्परायितम् ||९५०|| तदमुत्र नये न ये प्ररूढिं प्रतिपत्तुं क्षमतामुपाश्रयन्ते | ननु तत्प्रतिबोधनाय देवो विविधां मण्डलकल्पनामवोचत् ||९५१|| बालो यद्वद्रेखया वर्णजाते स्वैः संकेतैर्योज्यते तत्क्रमेण | तद्वन्मुद्रामण्डलैर्मन्त्रतन्त्रैः पूर्णे स्वस्मिन्योज्यते धाम्न्यनर्घे ||९५२||
SK
अत्रापि किञ्चन विभाति तदिच्छयैव दूरं तथा सविधमाश्रिततारतम्यम् | अंशस्पृगप्यथ निरंशपदप्रतिष्ठ- मित्थं क्रियापटलगो बहुधैव भेदः ||९५३|| इत्थं प्रमाणताभागि यत्तत्त्वं हि न्यरूप्यत | परापरा भगवती सेयं भाति तथा तथा ||९५४|| ८८) तदत्रैव परांशो यः स मात्रंशोऽपरः पुनः | मेयांश इति तत्पूर्वमेवास्माभिः प्रकाशितम् ||९५५|| मात्रंशोऽपि परे भागे बहुधा यत्स्थितस्ततः | परापरतयोद्रिक्तः परो मन्त्रेशरूपकः ||९५६|| उद्रिक्तापरभावस्तु मन्त्र इत्यभिधीयते | परापरस्तु यो माता समुद्रिक्तपरापरः ||९५७|| स विज्ञानाकलः प्रोक्तः प्रबुद्धपरभावकः | अपरोद्रेकयोगेन स एव प्रलयाकलः ||९५८|| अपरः किल यो माता सकलः स तु भाष्यते | परापरादिभेदेन तस्यापि बहुधा स्थितिः ||९५९|| विचार्यमाणा निःसंख्यान्मातृभेदांस्तनोत्यलम् | मुख्यत्वेन तु सप्तैव मातृभेदाः प्रकीर्तिताः ||९६०|| प्रमाणांशे पतन्त्येव तेषामेव स्वशक्तयः | व्यापारयोगितैवैषा शक्तित्वमिति मन्महे ||९६१|| यच्च व्याप्रियमाणत्वं करणत्वं तदेव हि | एवं च शक्तिमच्छक्तिभेदान्मातृप्रमाणजाः ||९६२|| चतुर्दश स्वरूपं च प्रमेयमिति भाष्यते | माता मानं च मेयं च यत एकं प्रकीर्तितम् ||९६३|| ततः पञ्चदशात्मैकमेकं प्रकृतिपञ्चितम् | तत्राप्येकैकशो भेदे निजतत्त्वस्वरूपिणि ||९६४|| संक्षेपविस्तरकृतं भेदानन्त्यं प्रतायते | पुनर्जलादिमूलान्तभेदसंकलनक्रमात् ||९६५|| भूयान्भेदप्रभेदोत्थो वैचित्र्यविसरोदयः | एवं धरातः प्रभृति प्रधान- तत्त्वान्तमुक्तं दशपञ्चधैव | ८९) पुंसः कलान्तं सकलः स्वरूप- भूतो न माता न च मानरूपः ||९६६|| त्रयोदशात्मत्वमतोऽत्र निष्ठितं निशि स्वरूपं तु भवेल्लयाकलः | मध्ये तु विज्ञानकलस्वरूपता विद्यापदे मन्त्रगतस्वरूपता ||९६७||
SK
ऐशे मन्त्रेशवर्गस्थितिरथ सुशिवे धाम्नि तन्नाथनिष्ठा पूर्वं पूर्वं च तत्र प्रकटयति निजां मातृमानव्यवस्थाम् | तेनानन्यप्रमातृ स्फुरति शिवपदं स्वप्रकाशं सदैकं मन्त्रेशेशानतस्तु त्रिशरमुनिनवत्र्यक्षसंख्याविभेदाः ||९६८|| शक्तिश्च नो शक्तिमतो विभिन्ना तेनैति नो भेदमियं पृथक्त्वम् | अमातृतायां न च शक्तिरस्ति तेन स्वरूपं नहि शक्तियुक्तम् ||९६९|| धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते | स एव शिवनाथोऽत्र पृथिवी ब्रह्म तत्परम् ||९७०|| धरातत्त्वगताः सिद्धिर्वितरीतुं समुद्यतान् | प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ||९७१|| प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् | धरातत्त्वगतं योगमभ्यस्य शिवविद्यया ||९७२|| न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा | अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः ||९७३|| तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः | सौषुप्तावस्थितौ यद्वत्तेऽत्र प्रलयकेवलाः ||९७४|| सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते | ९०) अन्यथा नियतस्वप्नसंसृष्टिरियती कुतः ||९७५|| सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते | अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ||९७६|| मायाकर्मसमुल्लाससंमिश्रितमलाबिलाः | धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ||९७७|| अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने | प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं ततः ||९७८|| शिवोऽविच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः | ताः स्वातन्त्र्यवशोपात्तग्रहीतृग्राह्यरूपिकाः ||९७९|| ग्रहीतृभागोद्रेकेण ग्राह्यभागोच्छलत्त्वतः | सप्त सप्तेति यत्त्वेकं जडमात्रं नरात्मकम् ||९८०|| तत्स्वरूपं ततस्त्रैधं प्रतितत्त्वं व्यवस्थितम् | किं चार्थे खलु निर्ग्राह्ये तुटयः षोडश क्षणाः ||९८१|| सपादद्व्यङ्गुलावेशात्प्रत्येकं परिकल्पिताः | तत्राद्यः परमाद्वैतनिर्विभागरसात्मकः ||९८२|| अन्त्यस्तु ग्राह्यतादात्म्यान्न पृथक् प्रविभाव्यते | उपान्त्यस्तत्स्वरूपस्य ग्राहकः परिभाव्यते ||९८३||
SK
आद्यं च सप्तकं तत्र निर्विकल्पकतां गतम् | क्रमोन्मिषद्विकल्पांशच्छायाच्छादनकोविदम् ||९८४|| तदेव शिवरूपं हि परशक्त्यात्मकं विदुः | द्वितीयं सप्तकं तत्र परापरपदात्मकम् ||९८५|| विकल्प इति संगीतमिति भेदोऽवभास्यते | तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः ||९८६|| संवेदयन्ते यद्रूपं तत्र किं वा विकत्थनैः | क्रमात्तु भेदन्यूनत्वे तुटीनामपि यो मतः ||९८७|| ९१) विकल्पस्य च निर्ह्रासो निर्विकल्पोपलक्षणम् | यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः ||९८८|| विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना | तथा गतविकल्पेऽपि रूढाः संवेदने जनाः ||९८९|| विकल्पविश्रान्तिबलात्तां वृत्तिं नाभिमन्वते | विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या | संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः ||९९०|| ग्राह्यग्राह्यकसंवित्तौ संबन्धे सावधानता | इयं सा भण्यते तत्र यथेष्टफलयोगतः ||९९१|| अत एव हि तद्भेदबाहुल्याद्भुवनान्यपि | विचित्रत्वंप्रयान्तीति न चातिक्रम इष्यते ||९९२|| सक्रमाक्रममेवेदं कालस्य प्राक्प्रदूषणात् | दिशश्च परमार्थत्वं नैव युक्त्योपपद्यते ||९९३|| पूर्वापरप्रतीतिं हि नैका सा कुरुते तथा | उपाधिभेदो नो वस्तु तत्कथं सा प्रकल्प्यताम् ||९९४|| यो हि यस्माद्गुणोत्कृष्ट इत्यतः परमेश्वरः | अभाषत निजानन्दकॢप्तदिक्कालमण्डलः ||९९५|| तदेवं तत्त्वरूपेऽस्मिन्विचित्रे प्रविविक्षताम् | उपायभेदात्त्रैविध्यं समावेशेषु वर्णितम् ||९९६|| अनुपायः शांभवोऽसौ चिदुपायस्ततः परम् | जडोपायस्त्वाणवः स्यात्स चापि बहुधा मतः ||९९७|| अजडेऽपि जडाभासः पारमेश्वर्ययोगतः | ९२) नाडीकरणबाह्यादेस्तेन संविदुपायता ||९९८|| तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः | तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ||९९९|| आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः | लयाकलस्य यो भोगः लयकर्मवशान्न तु ||१०००||
SK
स्थिरो भवेन्निशाभावात्सुप्तं सौख्याद्यवेदने | ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ||१००१|| भेदवन्तः स्वतो भिन्नाश्चिकीर्ष्यन्ते जडाजडाः | तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ||१००२|| यावद्भैरवबोधांशप्रवेशनसहिष्णवः | भावा विगलदात्मीयसाराः स्वयमभेदिनः ||१००३|| तुर्यातीतपदे संस्युरिति पञ्चदशात्मके | यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ||१००४|| तदेवास्थिरमाभाति स्वरूपं स्वप्न ईदृशः | अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोऽपि यत् ||१००५|| त्रितयस्यानुसन्धिस्तु यद्वशादुपजायते | स्रक्सूत्रतुल्यं तत्तुर्यं सर्वभेदेषु गृह्यताम् ||१००६|| यत्त्वद्वैतभरोल्लासि द्राविताशेषभेदकम् | तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ||१००७|| लयाकले हि स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु | स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः ||१००८|| एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते | आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता ||१००९|| ज्ञानं तु स्वप्नवृत्तित्वं क्रिया जाग्रदिति स्मृता | अत्रैव योगभूम्युत्थाः संज्ञाः पिण्डस्थतादयः ||१०१०|| ९३) सर्वतोभद्रताद्यास्तु प्रसंख्याज्ञानिनिर्मिताः | एकैकत्र चतूरूपसद्भावाद्वितते ततः ||१०११|| चतूरूपत्वमेकत्र त्रित्वं पश्चादथैकता | एकस्तु भैरवो नाथः प्रोल्लसद्विश्वरूपकः ||१०१२|| एकः शिवादिसकलपर्यन्तस्थितिसंगतः | सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् ||१०१३|| तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोऽवभासते | सोऽयं मातृस्वरूपस्थो मन्त्राध्वेति विभाव्यते ||१०१४|| प्रमारूपतया सोऽयं वर्णाध्वेति निरुच्यते | प्रमाणरूपतामेत्य प्रयात्येष पदाध्वताम् ||१०१५|| प्रमाणरूपतावेशमपरित्यज्य मेयताम् | गच्छन्संकल्पनायोगात्कलाध्वा मातृसंगतः ||१०१६|| शुद्धे प्रमेयतायोगे स तत्त्वाध्वेति गृह्यताम् | तत्स्थौल्याधारतायोगाद्भुवनाध्वेति वर्णितः ||१०१७|| तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा | शिवज्ञानक्रियायत्तमननत्राणतत्परा ||१०१८||
SK
अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् | मन्त्राध्वा रभसेन द्राक्प्रागुद्भूतः शिवात्मकः ||१०१९|| उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः | सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः ||१०२०|| सृष्टाः स्वात्मसहोत्थार्थधरापर्यन्तवृत्तयः | स्वात्मीये चिद्विलसिते तावतोऽर्थान्निजात्मनि ||१०२१|| आमृशन्तः प्रमारूपां सत्यां बिभ्रति संविदम् | बालास्तिर्यक्प्रमातारो येऽप्यसंकेतभागिनः ||१०२२|| तेऽप्यकृत्रिमसंस्कारसारामेनां स्वस्वंविदम् | ९४) भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् ||१०२३|| अस्यामकृत्रिमानन्तवर्णसंविदि रूढताम् | संकेता यान्ति चेत्तेऽपि यान्त्यसंकेतवृत्तिताम् ||१०२४|| अनया तु विना सर्वे संकेता बहुशः कृताः | नैव चेतसि विश्रान्तिं संकेतान्तरयोगतः ||१०२५|| व्रजेयुरन्वस्थानान्मूलक्षतिकरत्वतः | तत्रापि खलु संकेते बालो व्युत्पाद्यतां कुतः ||१०२६|| तेनानन्तस्त्वमायीयो यो वर्णग्राम ईदृशः | स चिद्विमर्शसचिवः सदैव प्रविजृम्भते ||१०२७|| तत एव च मायीया वर्णाः सूतिं वितेनिरे | तेषां ते खल्वमायीया वीर्यमित्यवधार्यते ||१०२८|| तथाहि परवाक्येषु श्रुतेष्वावृणुते निजा | प्रमा यस्य जडो नासौ तत्रार्थे याति मातृताम् ||१०२९|| यस्य तु स्वप्नमा बोधे प्रविऽसेद्भेदगर्भगा | मायीयवर्णपुञ्जे स्वे स प्रमातृत्वमृच्छति ||१०३०|| यथा यथा चाकृतकं तद्रूपमतिरिच्यते | तथा तथा चमत्कारतारतम्यं प्रकल्प्यते ||१०३१|| तदुद्रेकमहत्त्वे तु प्रतिभात्मनि निष्ठिताः | ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः ||१०३२|| अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता | तेषामेव ततस्तेन गुप्ता गुप्तेन भाषिताः ||१०३३|| ततो यावद्विभोः शश्वद्विश्रान्तिर्युगपद्बहून् | वर्णानुदृङ्क्य भोगांशपरिपूरणसुस्थितान् ||१०३४|| तावदेव पदाध्वासौ मेयभूमिमुपाश्रितः | संसारमृतसंकेतसङ्घाते प्रथमाङ्कुरः ||१०३५|| ९५) एवं प्रमेयता मातृभावो मानत्वमप्यथा | षट्त्रिंशदात्मनस्तत्त्वकलापस्येति निश्चितम् ||१०३६||
SK
तत्र सर्वं विभात्येतत्परमेशितरि ध्रुवे | प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ||१०३७|| चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी | भिन्ना संसारिणां भाति रज्जौ सर्पादिका यथा ||१०३८|| यतः प्राग्देहमरणसिद्धन्तः स्वप्नगोचरः | देहान्तरादिर्मरणात्कीदृग्वा देहसंभवः ||१०३९|| स्वप्ने तु प्रतिभामात्रसामान्यप्रथनाद्बलात् | विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते तथा ||१०४०|| सालिग्रामोपलाः केचिच्चित्राकृतिहृदो यथा | तथा मायादिभूम्यन्तलेखाश्चित्रहृदश्चितः ||१०४१|| नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः | न स्वयं सदसद्रूपकारणाकारणात्मकाः ||१०४२|| चिरप्ररूढे नियमे समुच्छेदात्प्रवर्तनात् | अरूढेऽपि स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः ||१०४३|| एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि | एवमस्मीत्यनामर्शो भेदको भावमण्डले ||१०४४|| सर्वप्रमाणैर्णो सिद्धं स्वप्ने कर्त्रन्तरं यथा | स्वसंविदः स्वतन्त्रायास्तथा सर्गोऽपि बुध्यताम् ||१०४५|| चित्तचित्रपुरोद्याने क्रीडन्नेव हि वेत्ति यः | अहमेव स्थितो भावैर्भूतैश्चिन्मात्रकैरिति ||१०४६|| एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः | अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वकल्पिताः ||१०४७|| ९६) परेहसंविदामात्रं परलोकेहलोकता | किन्त्वकालकलासंविद्देशभेदेऽप्यभेदिनी ||१०४८|| अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः | तदवेक्ष्यत [अवक्ष्यतेति पाठः] तन्मध्यात्केनैकोऽपि धराधरः || १०४९|| भूततन्मात्रवर्गादेराधाराधेयचर्चने | अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ||१०५०|| तस्मात्प्रतीतिरेवेत्थं कर्त्री सा प्रतिभा शिवः | अत्र स्वात्मनि ते तेन शक्तिः साधारसंज्ञिता ||१०५१|| सांकल्पिकं निराधारमपि नैव पतत्यधः | स्वाधारशक्तौ विश्रान्तेर्विश्वमित्थं विमृश्यताम् ||१०५२|| अस्या घनाहमित्यादिरूढेरेव धरादिता [घनेति पाठः] | यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ||१०५३||
SK
मणाविन्द्रायुधे भास इव नीलादयः शिवे | परमार्थत एषां तु नोदयव्यययोगिता ||१०५४|| देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम् | चिदात्मनो हि देवस्य सृष्टिर्दिक्कालयोरपि ||१०५५|| जागराभिमते सार्धहस्तत्रितयगोचरे | प्रहरे च पृथक्स्वप्नाश्चित्रदिक्कालमानिनः ||१०५६|| अत एव क्षणं नाम न किञ्चिदपि मन्महे | क्रियाक्षणेऽपि ह्येकस्मिन्वह्व्यः सन्ति द्रुताः क्रियाः ||१०५७|| तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे | ते नूनमनया नाल्या [रात्र्येति पाठः] शून्यदृष्ट्यवलम्बिनः || १०५८|| तद्य एव सतो भावाञ्शून्यीकतुं तथासतः | स्फुटीकर्तुं स्वतन्त्रत्वादीशः स परमेश्वरः ||१०५९|| ९७) तदित्थं परमेशानो विश्वरूपः प्रगीयते | न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ||१०६०|| उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते | बहुभिश्चापि बाह्यार्थदूषणा प्रव्यरच्यत ||१०६१|| नन्वित्थं जन्ममरणे कर्मणः फलयोगिता | कथं स्यात्किन्नु पूर्वोक्तं चित्स्वातन्त्र्यं सुविस्मृतम् ||१०६२|| तथा हि चित्स्वतन्त्रेयं यथा भासयते तथा | सत्यं भात्यखिलाकारगर्भा सा चेति निश्चितम् ||१०६३|| इक्षौ प्रत्यणु माधुर्यं यथा सर्वात्मना तथा | प्रत्येकपरमाणौ हि सर्वसृष्टिमयी स्थितिः ||१०६४|| अज्ञाततत्त्वमूलास्तु विवदन्तेऽत्र ये बुधाः | नूनं निजमनोराज्यरक्षायै ते समुद्यताः ||१०६५|| प्राणे खे चिति बाह्ये वा कुत्रापीदमिति भ्रमः | अज्ञत्वात्तन्नियत्युत्थस्वातन्त्र्याभावजृम्भितः ||१०६६|| अतः स्वसंविदामर्शो जन्मत्वेनेह भासते | पुरस्तात्तु न संवित्तिः स्वातन्त्र्योचितरूपिणी ||१०६७|| प्राक्तनी संविदेवेह पूर्वकर्मेति भाष्यते | तत्संविद्बाधिका संवित्कर्मक्षयकरी ततः ||१०६८|| अकृतं च यथा स्वप्ने मया कृतमिति स्फुरेत् | फलदा दृश्यते सैव वार्ता जाग्रति कर्मणः ||१०६९|| तथा च प्राच्यकर्मौघफलसंप्लोषणात्मिका | यस्यैकाप्युत्तरोदेति संवित्स फलभाङ्नहि ||१०७०||
SK
किं चान्यद्बहुसंवित्सुस्फुरत्त्वादयशो यशः | भूयः फलवदाकाशनद्यम्भः सिक्तबीजवत् ||१०७१|| एवमल्पफलं कर्म स्वल्पसंवेदने स्फुरत् | ९८) अस्फुरन्निष्फलं त्वेव न्यायः सोऽयं स्वसंविदाम् ||१०७२|| तत्राप्यल्पत्वभूयस्त्वे संविदां ये प्रकल्पिते | ते कर्मकर्तुः संवित्तिरूढ्या तद्रूपभागिनी ||१०७३|| या च (यस्य) संवित्स्वयं तादृक्फलगर्भा न जायते | नाप्यन्यफलनिर्ग्राहिमातृसंगतितस्तथा ||१०७४|| फलवेदितुरन्यस्य प्रमातुरपि संविदि | अन्यप्रमातृसंकल्पाद्यावदन्ते स कोऽप्यलम् ||१०७५|| प्रबुद्धः सृष्टिरक्षायै स्थितिशक्तिविजृम्भकः | विदाः स्म संकोचयति फलालम्बनकल्पनाः ||१०७६|| मत्स्यादमत्स्यदृष्ट्येयं सृष्टिरित्याशयेन ते | परोपकारं कर्तव्यमुपादिक्षन्पुरातनाः ||१०७७|| एवं नामोपकारोऽयं मृतस्यापि प्रतन्यते | पिण्डदानादिना भूयो दीयते देहसंगमः ||१०७८|| वरं स्वात्मनि संक्लेशाः परं मा पीडयन्त्विति | इति कल्पितमेतस्य कृच्छ्रादेस्तपसः फलम् ||१०७९|| लशुनादावभक्ष्यत्वमुक्तमाज्ञेयमीदृशी | अकारणकमेवेति गृह्णन्तु किल जन्तवः ||१०८०|| तदेवं हंसपक्ष्यादिभक्ष्याभक्ष्यत्वनिर्णये | युज्येत भिन्नबुद्धित्वमन्यथा न कथंचन ||१०८१|| एवं दृष्टेऽप्यदृष्टेऽथ कल्पितांशांशिकाक्रमात् | फलयोगः स एवाद्य रूढः संविद्भुवि स्थितः ||१०८२|| देहः पिण्डात्परे लोके नान्यथेति स्थितिः कृता | अन्योन्याननुषक्तत्वं जन्तूनां देहभृदिति? ||१०८३|| तत्सर्वशास्त्रपूगैश्च शङ्काशङ्कुः प्ररोपितः | अज्ञचित्तधरारूढः फलपर्यन्ततां गतः ||१०८४|| ९९) अस्ति मे पिण्डदोऽद्याहं पिण्डदानक्रमात्तथा | प्राप्नोभ्यवयवाभोगं पूर्णदेहोऽस्मि सुस्थितः ||१०८५|| अदृष्टक्रियया पुत्रशिष्यस्वात्मादिकॢप्तया | स्वर्गभागहमत्यन्तमात्तसंभोगसुस्थितः ||१०८६|| नास्ति मे पिण्डदः कश्चित्स्वयं चास्म्यतिदुष्कृती | न मे त्रातास्ति कुत्रापि पतामि नरकार्णवे ||१०८७||
SK
भविष्यति मम त्राता क्वापि काले कथंचन | इत्यादिः संविदां स्फारस्तथैव फलति स्वयम् ||१०८८|| तस्यास्तु पिण्डकर्त्रादिर्माभूदथ यथा स्फुरेत् | स तावत्तत्फलं भुङ्क्ते स्वसंकल्पेन कल्पितम् ||१०८९|| शङ्कावज्रप्रलेपान्तर्दृढबद्धां त्विमां मतिम् | भैरवानल एवैकः समूलं प्लुष्यति क्षणात् ||१०९०|| अशेषचित्रचिद्गर्भसंसारस्वप्नसद्मनः [सद्गर्भेति पाठः] | प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ||१०९१|| तन्मूढः कर्मसंवित्तिचित्रीभूतचितिस्तथा | संकल्पमेव संसारं विचित्रमभिमन्यते ||१०९२|| अत एव मृतो बालो वासनान्तरवर्जितः | शिशुरेव भवेत्सुप्तदृढसंसारवासनः ||१०९३|| तान्यौ तथा (?) | यावद्यौवनमभ्येति पुनस्तद्वासनाक्रमात् ||१०९४|| संस्कारसंविदा तास्ताः संसृतीरभिमन्यते | कश्चिज्जडत्वसंस्काराज्जडीभूतोऽपि खानिलैः ||१०९५|| सह भूजलयोगेन याति पुष्पफलात्मताम् | भक्षितो वीर्यरूपेण पुनरायाति गर्भताम् ||१०९६|| १००) यावत्पुनः पुनश्चित्रान्संसारानभिमन्यते | एकत्रैव स्वसंस्कारवासनावासितः शिवः ||१०९७|| भुङ्क्ते स्वर्नरकाद्यांस्तु भोगान्स्वातन्त्र्यकल्पितान् | क्वचिद्भूमिमयी क्वापि जलात्मा क्वापि मिश्रिता ||१०९८|| एवं भुवनमय्येषा संविद्भाति स्वरूपतः | ध्रियते यत्र तत्रैव स्वसंस्कारात्सुखादिकम् ||१०९९|| वेत्त्यन्येन न दृश्यस्तु स त्वन्यान्वेद चान्यथा | न देशः परमार्थेन न च कालोऽस्ति कश्चन ||११००|| भेदवादे हि गगनदेशात्सर्वैकदेशता | उपाधेरेव देशाद्भिद्देशस्याप्युपधेर्भिदा ||११०१|| इत्यन्योन्यसमाश्रित्या देशभेदो न कश्चन | स्वरूपभेद एवातो भेदकत्वे सुसंगतः ||११०२|| स च नास्ति प्रकाशैकस्वरूपेष्विति साधितम् | एनयैव परामर्शदृशा ये परिवर्जिताः ||११०३|| ते शङ्काकारिशास्त्रौघशङ्कितास्तन्मयीकृताः | स्वस्वप्ननिर्मितानन्तजडजन्तुविकल्पितैः ||११०४|| शास्त्राभासैर्वृथा शङ्कां ग्राह्यन्ते बोधवर्जिताः | यथा प्रबुद्ध्यते संविन्निभृतापि चिरं स्थिता ||११०५||
SK
तथापि फलतीत्येवं प्रायश्चित्तादिकल्पितैः | एवमाभासनानात्वस्वातन्त्र्यैश्वर्यशालिना ||११०६|| कॢप्तं यदेव तत्तस्य याति तन्वादिरूपताम् | विपर्ययाभासयोगे शीताद्याभासदूषिते ||११०७|| नाड्यादावथ संकोचस्फोटघातादिपीडिते | देहभस्त्रामहायन्त्रवातचक्रेऽन्यथागते ||११०८|| प्राणो विघटते तेन जडाभासं कलेवरम् | १०१) यस्मिन्यात्यधिकारे वा जाते प्राग्वासनाक्रमात् ||११०९|| तत्रैव कल्पयेद्भोगं परलोकाभिधानकम् | पाषाणतां वा वेत्त्येष पुनर्वा प्रतिबुध्यते ||१११०|| परोऽयं लोक इति च रूढ्यास्य परलोकिता | स्वर्गमोक्षादि यस्येह यथारूढं च चेतसि ||११११|| तथैवास्य बहिर्भाति ततस्तत्रापि चित्रता | बन्धो मोक्षः सुखं [स्वयमिति पाठः] स्वर्गो दुःखं जडमयी स्थितिः ||१११२|| संविदेव स्वतन्त्रेत्थं शिवरूपा विराजते | भूयोऽवयवयुक्तस्य यथा तावत्यहंस्थितिः ||१११३|| तथा विश्वात्मके रूपे भैरवस्याप्यहंस्थितिः | शिशुः शून्येऽपि वेतालं वेत्ति सत्यार्थकारिणम् ||१११४|| ध्येयपूज्यादिवैचित्र्यमित्थमर्थक्रियाकरम् | मूर्तो भिन्नः समाहूतो हित्वा भोगान्निजान्क्षणात् ||१११५|| देव एतीति वार्तैषा वचनेष्वेव शोभते | अमूर्तादिस्वरूपत्वं सर्वमेतत्तु युज्यते ||१११६|| आत्मैव हि तथाभूतस्तथा भात्येव भेदतः | एवं स्वभाव एवैष संविदो यः स एव तु ||१११७|| भेदग्रस्ततया कार्मो मलः शास्त्रे निरूप्यते | दीक्षादिकर्मयोगे तु न मलत्वं प्रतायते ||१११८|| स हि भेदमयाशेषसंसारदहनव्रतः | दीक्षा च वस्तुतस्तादृक्सत्यसंवित्स्वरूपिणी ||१११९|| एवं यो वेद तत्त्वेनेत्युक्तं चानुत्तरे नये | एवं विज्ञानयोगे हि शमिते भेदगोचरे ||११२०|| आत्मैव शिव एवैकः को बन्धः का च मुक्तता | १०२) एतद्दीक्षामहासंवित्प्रवेशाय तु भण्यते ||११२१|| क्रियास्वभावदीक्षासौ कर्मादिमलहानये | स्वभावकॢप्तनियतिबलाक्षिप्तेषु कर्मसु ||११२२|| भोगोऽस्य युगपद्यस्मात्क्रियते मन्त्रशक्तितः | तथा हि प्राणगा देशकलाकालाध्वनिश्चयाः ||११२३||
SK
जातयोऽस्य प्रतायन्ते धरण्यादिशिवान्ततः | तत्रैव जन्मसंभोगाधिकारलयभाजनम् ||११२४|| विधायोत्कृष्यते तस्मादन्यत्र च विधीयते | इत्थं गुरोर्निश्चितसंविदात्म- रूढेश्च शिष्यस्य परस्परेण | निष्कर्मचेतोरचितैव दीक्षा प्राक्कर्मशक्तीरखिला रुणद्धि ||११२५|| तत्रापि तण्डुलतिलाज्यचरुप्रबन्ध इत्यादि शैवनियतिप्रतिभारकॢप्तम् | तावत्यपि स्फुटपदे न निशाप्रपञ्चो निर्मूलतामुपगतोऽपि विभेदवृत्तेः ||११२६|| भेदेऽपि किंत्वेष पुनर्भविष्य- संसारकारिसुकृतादिविघातहेतुः | शुद्धस्ततस्तदत एव हि तत्त्वजालं शुद्धेतरस्थितितया निखिलं द्विधैव ||११२७|| शुद्धं त्रिशक्तिखचितं ननु यामलं च भात्येव तेन बहुधैष कृतः क्रियायाः | व्यापारकल्पनवशान्नियतिप्रपञ्चः स्वल्पेतरत्वकृततादृशभोगयोगः ||११२८|| मुद्रामण्डलसंघातः समन्त्रतन्त्रचर्चितः | १०३) यत्र योगादिकं सर्वं फलदानाय कल्पते ||११२९|| निर्वृतिफलसंप्राप्तिकाङ्क्षासंकोचसुस्थिताः | अनवच्छिन्नतामेव फलत्वेनात्र मन्वते ||११३०|| नह्यनन्तानवच्छेदे कापि यागादिकल्पना | अनवच्छिन्नवाञ्छा * * * * * * * * * ||११३१|| तथापि विदिते ह्यर्थे परमाद्वयसुन्दरे ||११३२|| संवित्स्वभावस्वातन्त्र्यात्केषांचित्फलकामता | तान्येवोद्दिश्य तत्सर्वं पूरणाय धरादितः ||११३३|| शिवान्तं बहुधा भेदैर्धारणाग्रन्थ उच्यते | इह हि नान्यनयेष्विव किञ्चन स्फुरितमस्ति न यत्किल सत्यतः | तदिह सत्यपदे स्थितिभागिनां किमिव हेयपदे निपतिष्यति ||११३४|| इत्थं सप्तदशाधिकारचरमं तत्त्वं यदाभासते तन्निर्णीतमनुत्तरं शिवपदं संप्राप्तिकामान्प्रति | एतत्सर्वमिहोदितं च जगदानन्दे विपक्षात्मकं भेदप्राणतया यतोऽत्र निखिलोऽप्येष प्रपञ्चः स्थितः ||११३५|| इति श्रीमन्महामाहेश्वराचार्यवर्याभिनवगुप्तपादविरचिते श्रीमालिनीविजयोत्तरवार्तिके प्रथमः काण्डः ||१|| अथ द्वितीयः काण्डः
SK
एवं महेश्वरो देवो विश्वात्मत्वेन संस्थितः | क्रमिकज्ञानयोगाभ्यां धारणाभिरुपास्यते ||१|| तत्त्वक्रमं गतद्वैतमलमायादिजालकम् | अष्टादशे तत्पटले तत्त्वं सम्यग्विभाव्यते ||२|| प्राणायामादिकं यत्र हेयमित्येव वर्ण्यते | नहि तस्य परां वित्तिं प्रति काचिदुपायता ||३|| अन्तः संविदि यन्निरूढमभितस्तत्प्राणधीविग्रहे संचार्येत कथं तथेति घटतामभ्यासयोगक्रमः | ये त्वभ्यासपथेन संविदमिमां संस्कर्तुमभ्युद्यता- स्ते किं कुत्र [कुत्र कथं नुवेति पाठः] कुतः कथं विदधतामित्यत्र संदिद्महे ||४|| अभ्यासो हि पुनः पुनरर्थः सोऽपि च दिक्कालप्रतिभेदात् | आभासेतरयोगसमुत्थो देहमनःप्राणाक्षपथे स्यात् ||५|| प्रकाशैकघने रूपे भैरवीये विविक्षवः | सकृद्विभातविज्ञानविश्रान्त्यैव सुसंस्थिताः ||६|| अत्रैवातः परं प्रोक्तमङ्गं सर्वोपकारि यत् | धारणा अपि तद्द्वारे निश्चिते [तद्द्वारनिश्चित इति पाठः] स्युस्तथात्मिकाः ||७|| नन्वप्रतिष्ठे कस्तर्के समाश्वासः प्रकल्प्यताम् | १०५) किं वा न भवतां तादृगप्रतिष्ठाहतं वचः ||८|| तथा ह्यागम एवैकं प्रमाणमिति निश्चितैः | तद्विरुद्धागमव्राते सति निश्चीयतां कथम् ||९|| महाजनप्रसिद्धिस्तु तत्र प्रामण्यकारणम् | अप्रतिष्ठा तद्विरुद्धमहाजनसुसंभवात् ||१०|| प्रत्यक्षमपि रुच्यादौ दृष्टबाधकसंविदम् | उत्तरोत्तरविज्ञानानवस्थाभाजनं ननु ||११|| स्वसंविदपि तत्रैव बाधिते कथितं (ति कथं) किल | व्यवहारमयं कुर्याद्भेदसन्धानपण्डितः ||१२|| अस्माकं त्वप्रतिष्थानं न कदाचित्क्वचिद्भवेत् | येषां [तेषामिति पाठः] सर्वत्र संपूर्णः परो भैरवसागरः || १३|| विशेषतस्तु तर्कस्य तान्प्रत्येवाप्रतिष्ठता | ये तर्कार्णवतारात्तपरमामृतसंविदः ||१४|| तथा हि सर्वे तर्कांशा अनामृष्टस्वसंविदः | सर्वत्र पर्यन्तफलं न शिवं प्रतिपेदिरे ||१५|| अभेदसारः सर्वो हि शास्त्रार्थस्तत्प्रपत्तये | यस्तत्रोद्भावितो भेदस्तत्र मूढधियो रताः ||१६||
SK
तर्कश्च भेदवांदांशयुक्तिच्छेदैकपण्डितः | नन्वभेदेऽपि तर्कस्य काचिदस्त्युपयोगिता ||१७|| परमाद्वयदृष्टौ च सोऽपि नैव न संगतः | अत एव पराद्वैतं यद्विश्वानुग्रहात्मकम् ||१८|| तस्योपायं परं ब्रूते हृदयं [हृदये इति पाठः] स्पन्दनात्मकम् | हृदये बोधमयो [मये इति पाठः] यः स्वविमर्शः पूर्णचिच्चमत्कारः | १०६) युगपद्द्रागिति हठतो [हठ एव स इति पाठः] लीनीकृतविश्वतःस्फुरणः [मलिनीकृत इति पाठः] ||१९|| भावग्रहाद्यचरम- [बालग्रहेति पाठः] दशाद्वयोल्लासिनिर्वृतिसुपूर्णः | जगदानन्दमयोऽसौ सामान्यस्पन्द इत्युक्तः ||२०|| स्फुरणं हृदयस्य यत्किल प्रकटं विश्वमिदं विसर्गधाम्नः | सदिति प्रतिभाति यावता त्रिकशक्तौ विशतीह तावता ||२१|| तदिदं हृदयं निरुच्यते परमं भैरवसंविदामृतम् | इषिदृक्कृतिशक्तिशूलगं परमे धाम्नि विसृज्यते ततः ||२२|| परमे भगवत्परात्मनि स्फुरितं विश्वमिदं चिदात्मकम् | शक्तित्रयशूलगं ततः शाम्भवभूमिविसर्गिवर्त्मना ||२३|| तदथो सदिति प्रगीयते तदिदं पूर्णमिहाहमात्मकम् | हृदयं शिवशक्तिसंगम- स्फुरणात्मैव सदावभासते ||२४|| इह सृष्टिलयस्थितिक्रमाः १०७) शतशो वापि सहस्रकोटिशः | प्रविभान्ति सदातनात्मना हरविष्ण्वम्बुजहेतुसंचिताः ||२५|| इह तु पुरोक्ताद्युक्तिकलापाद्यः प्रविशेत्सद्यो नाशक्तः | तं प्रति शाक्तोपायपथेन [क्रमेणेति पाठः] प्रकटीक्रियते हृदयस्पन्दः ||२६|| त्रिशूलप्रान्तगप्राणप्रेरणावाप्तहृत्पथः | तदन्तर्वर्तिचिच्चन्द्रकलाविश्रान्तितत्परः ||२७|| झटित्येवाथ तद्भूमित्यागेन प्रोज्भ्य ता दशाः | निरानन्दादिकाः पञ्चभूतमध्यव्यवस्थिताः [त्र्यरमध्येति पाठः] ||२८|| त्यजेत्पूर्वां परां क्रामेत्सम्यग्विश्रान्तितत्परः | यतो निजानन्दमयी भूमिः शान्तपदानुगा ||२९|| निरानन्दपरानन्दौ पुरुषाजातसंगतौ | अभेदभिन्नभोग्यौघजनितानन्दजृम्भणात् ||३०||
SK
महानन्दस्थितिः कापि वामाचारा चिदुल्लसेत् [सदुल्लसेदिति पाठः] | भैरवीयमहाधाम्नि स्वीकृताशेषसंविदि ||३१|| महानन्दश्चिदानन्दीभूय भूयः प्रवर्तते | अस्मिंस्तु स्वीकृताशेषदक्षवामोर्ध्वगत्रिके ||३२|| त्रिके सर्वात्मना द्वैताद्वैतसंग्रहणात्मनि | अभिन्ना वाथ भिन्ना वा भिन्नाभिन्ना अथापि वा ||३३|| भावा निजादिकानन्ददशापञ्चक योजिताः | जायन्ते जगदानन्दसमुद्दामदशाजुषः ||३४|| निजानन्दः प्रमात्रंशमात्रनिष्ठनिबन्धनः | शून्यतामात्रविश्रान्तेर्निरानन्दात्मिका स्थितिः ||३५|| प्रमेयपदविश्रान्तेः परानन्दोऽप्युदेत्यलम् | १०८) अनन्तमेयसंघट्टपूर्णे मेये तु सर्वतः ||३६|| प्रमाणाच्चर्वणायोगान्महानन्द इति स्थितिः | समस्तमानमेयौघकलनाग्रासकोविदः [प्रमाता सर्वमेयेति पाठः] ||३७|| यदा विश्रान्तिमभ्येति निरुपाधिसुनिर्भराम् | तदा खलु चिदानन्दो यो जडानुपबृंहितः ||३८|| न च यत्र स्थितिः कापि विभक्ता जडरूपिणी | यत्र कोऽपि व्यवच्छेदो [समुच्छेद इति पाठः] नास्ति यद्विश्वतः स्फुरत् ||३९|| यदनाहृतसंवित्ति परमामृतबृंहितम् | तदेव जगदानन्दघामास्माकं गुरुर्जगौ ||४०|| यत्रास्ति भावनादीनां न मुख्या कापि संगतिः | तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ||४१|| या तत्र सम्यग्विश्रान्तिस्तत्पराद्वैतमुच्यते | प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ||४२|| चतुष्किकाम्बुजालम्बिलम्बिकासौधसिक्तभूः | बन्धमोक्षविभागेन नरादन्यत्र [नरादत्र नेति पाठः] योगिना || ४३|| अनुत्तरस्वभावेन वाग्व्यापाराभिवर्तिना | चिद्विमर्शपराहङ्कृत्प्रलयोल्लासयोगिना ||४४|| उद्योगवशरिक्तेन सद्द्वादशकलात्मना | सूर्येणाभासिते भावे पूरिते परिचर्चिते ||४५|| तद्ग्रासमन्थरवशाः षोडशाख्यकलाजुषा | प्रविष्टेन विबोधाग्नौ सम्यग्विसृजता कलाः ||४६|| चतस्रो जीवनीः प्राप्तविसर्गाविकृतस्थितेः [सर्गविकृतेति पाठः] | अन्तःकृतानन्ततत्त्वकादिक्षान्तेन सर्वतः ||४७|| १०९)
SK
भावानां भावतासारविमर्शाभावहृद्युजा [मशर्*? bahiḥprasavasadyogikulanetryadhiśāyinā ||48|| rudrayāmalabhāvena nityaṃ yā niṣṭhitaiva tām | citprāṇaguṇadehāntaśaktisopānamālikām ||49|| visargeṇa visṛjyātha spandanodaravartinā | visargabhūmimāśliṣya matsyodaradaśājuṣam ||50|| sarvasarvagatāṃ sarvajīvanīṃ paramāṃ kalām | triśūlabhuvamākramya nāḍītritayasaṃgatām ||51|| vikasvarāṃ saṃkucitāṃ krameṇaikātmyamāśritām | bhrukuṭībindunādāntaśaktisopānamālikām ||52|| rāsabhīvaḍavāsrāvasasaṃkocavikāsikām | muhurmuhurlīyamānasṛṣṭabhāvaughanirbharām ||53|| ekīkṛtamahāmūlaśūlavaisargikāspadām | samagrabhāvabharaṇabhairavīyahṛdāśritām ||54|| sarvāpūraṇahevākasamarjitaparābhidhām | ādyantarahitāmenāṃ viśvapravaṇaśālinīm ||55|| hṛdbodhākāśaciccandracandrikāṃ tritayeśikām | devīṃ prāpya na kiṃ nāma labhate lambhayatyapi ||56|| tadatra bhāvanādehagatopāyaiḥ pare sati | yadaiṣa pravivikṣuḥ syādyogī tāvatprakampate ||57|| pūrvajanmaśatābhyastadehatādātmyaniścayaḥ | jalapāṃsuvadekatvaṃ manvānaściccharīrayoḥ ||58|| bhedākhyamāyārahite paripūrṇacidātmani | praviśetprathamaṃ yāvatsvabalākramaṇakramāt ||59|| 110) bhavedadyā(nnidrā)sya sā dehāveśaśaithilyadāyinī | kamprarūpaiva yāvanno rūḍhirjātā parātmani ||60|| etadavyaktaliṅgaṃ tannaraśaktiśivātmakam | yatra viśvamidaṃ līnaṃ yadantaḥsthaṃ gamyate ||61|| kiṃ cādhvajātametaddehasthatayaiva pūrvanirṇītam | tasyonmeṣavaśena sphuṭatāṃ yā(yāt)samāveśaḥ [yaḥ samāveśa iti pāṭhaḥ] ||62|| cittattvasya viśeṣaspandadaśāśālinaścidānandaḥ | śāktasamullāsabharādantaḥkṛtamantravīryaparāsāraḥ ||63|| naraśaktimayamidaṃ tadvyaktāvyaktaṃ bhavelliṅgam | siddhiphalaprasavarasaprasūnamiti kathyate śāstre ||64|| vyaktaliṅgaṃ taduktaṃ tu yatkevalanarātmakam | ekasya spandanasyeyaṃ tridhā bhedavyavasthitiḥ ||65||
SK
एतल्लिङ्गज्ञानप्रवियुक्तहृदा वृथैव हि भजन्ते | बाह्यस्थलिङ्गपूजां प्रयासमात्रं फलाय नहि तत्स्यात् ||६६|| यद्व्यक्तमात्मलिङ्गाख्यं नररूपसमाश्रयि | देहाभेदमये बाह्ये विश्वस्मिन्भरिते सति ||६७|| समुदेति महानन्दभूमौ लीनस्य योगिनः | तेनाद्यं लिङ्गमभ्येति संमुखीनत्वमञ्जसा ||६८|| अत्र लिङ्गे सदा तिष्ठेत्पूजाविश्रान्तितत्परः | यद्योगिनीनां हृदयं परमानन्दमन्दिरम् ||६९|| पूर्वोक्तबीजयोन्यंशविसर्गानन्दमन्दिराः | यत्र कामपि तादात्म्यसंपत्तिं चिन्वते बुधाः ||७०|| यत्र प्रयासविरहात्सर्वोऽसौ देवतागणः | आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ||७१|| १११) यत्तद्भैरवनाथस्य संकोचेतरभासनम् | अविद्यमानसंकोचविकासस्यापि भासते ||७२|| यत्तत्समाप्तिसंघट्टसमुत्थानन्दधारया | अवसिक्तमिदं विश्वमपोज्झति पुराणताम् ||७३|| तत्र प्रवेशने यत्नः कार्यत्वेन प्रयासकृत् | यतः सदोदितो भानुः किं दीपेन विचार्यते ||७४|| यदि स्वात्मस्थितो योगी शिवचित्स्पन्दभूमिगः | यदि वा बाह्यभावौघविशेषस्पन्दसंश्रितः ||७५|| सर्वथा शिवशक्त्यात्मत्रिकरूढेरविच्युतः | योगी जायेत निःशेषयोगिनीकुलनन्दनः ||७६|| घटाभावेऽपि सामान्यस्पन्दाभासमयीं स्थितिम् | परभैरवमुद्रां तामन्तर्लक्षबहिर्दृशम् ||७७|| यदाश्रयति शैवी सा परा देवी ततः पुनः | स्वातन्र्यहेलानिर्मेये [लीलेति पाठः] तत्तदर्थक्रियामये ||७८|| भावौघे सोत्सुकौन्मुख्यविमर्शरसयोगतः | विशेषस्पन्दसद्भूमिं शक्तिं संस्पृश्य वर्तते ||७९|| एतेनाधिष्ठिता धाम्ना स्वमन्त्रास्तत्प्रकाशने | यान्ति स्वातन्त्र्ययोगित्वं विचित्रास्वपि सिद्धिषु ||८०|| हानादानतिरस्कारवृत्तौ रूढिमुपागतः | सर्वभासनयोगेन भासमानं चिदात्मना ||८१|| अभेदवृत्तितः पश्यन्दृश्यं चितिचमत्कृतेः | अर्थक्रियार्थितादैन्यकारितां [जनितामिति पाठः] कातरां स्थितिम् || ८२|| विहाय यावदासीत तावच्छांभवभूमिकाम् | भैरवीमाविशत्येव परां भूमिमयत्नतः ||८३|| ११२)
SK
एतदाविष्टसंवित्ति सर्वमेव निरीक्ष्यते | प्रकाशरूपताक्रान्तं चैतन्यं हि प्रकाशते ||८४|| न चाप्रकाशं प्राकाश्ययोगादेति प्रकाशताम् | इति विस्तरतः पूर्वं प्रकाशितमिदं यतः ||८५|| महासाहससंयोगविलीनाखिलवृत्तिकः | पुञ्जीभूतस्वरश्म्योघनिर्भरीभूतमानसः ||८६|| अकिंचिच्चिन्तकः स्पष्टदृष्टभेदोज्झितस्थितिः | यावदासीत तावत्तु पूर्वोक्ता एव भूमयः ||८७|| सांमुख्यं यान्ति संसारसद्मदाहैकहेतवः | यश्च दिव्योऽक्षसंघातो भेदरूढितिरोहितः ||८८|| स्वातन्त्र्यपोषकक्रीडामात्रोपकरणात्मकः | यदा निमीलनावन्ध्यस्तिष्ठत्येकं क्षणं तदा ||८९|| तद्द्वारोदितसंबोधमहाज्वालाविलापितम् | विश्वमभ्येति परमानन्दसागरशायिताम् ||९०|| तद्रसापानविश्रान्तः संविद्देवीः प्रतर्पयन् | अचिरादेति मरणजन्मत्रासविहीनताम् ||९१|| आश्यानभावं हि गता स्वसंवि- द्देहेन्द्रियज्ञेयमयत्वमाप्ता | युक्त्या तु सा [संप्राप्तेति पाठः] प्राप्तविलीनभावात् संविद्धनं स्वं वपुरेव याति ||९२|| युक्त्या ययैव बाह्यार्थविवशीकृतचेतसाम् | व्युत्थितिर्जायते सैव भैरवानन्दसंविदः ||९३|| तयैव योगिनीवक्त्रसंप्रदायक्रमाप्तया | विधूतकल्मषावेशा तिष्ठते चिन्मयी [तन्मयीति पाठः] स्थितिः ||९४|| ११३) वक्त्रमीषद्यदा योगी विकासयति संविदः | सर्वा इन्द्रियनाड्यन्तश्चक्राक्रमणसंश्रयाः || ९५|| तदा विकासं ग्राह्यार्थभेदाभावमयं हठात् | प्रयान्ति चिदुन्मुखत्वान्नीलपीतादिभेदवान् [चेदिति पाठः] ||९६|| ग्राह्यग्राहकसंबन्धभेदः सपदि भिद्यते | योगिनीवक्त्रसंरूढसंप्रदायक्रमाप्तया ||९७|| सद्योऽनुभवदायिन्या मुद्रया मुद्रिताखिलः | सर्वाधिष्ठातृचिद्रूपसाक्षाद्भैरवतन्द्रितः ||९८|| स योगी विस्मयाविष्टो लभते स्वात्मसंविदम् | तत्तद्दृश्योदयापाययोगेऽप्यनपयत्स्थिति ||९९|| तडागवर्तिनिम्नाम्बु तन्नान्यत्र प्रवर्तते | प्रयत्नेनापि तन्मात्रपूरणाय यदक्षमम् ||१००||
SK
यदा त्वन्तःपदद्वारसार(तद्वारिधारा)संपूरितं रसात् | भवेद्भवेयुस्तत्पूर्णाः प्रवाहाः सर्वतोमुखाः ||१०१|| एवं स्वोल्लासरभसाच्चैतन्यं प्रोन्मिषत्स्वयम् | अविभागेन भावांशान्स्वात्माभेदेन भासयन् ||१०२|| शी(मी)लनाविषयीभावं श्रयेद्यदि मुहूर्तकम् | मायाविगलनाद्भूमिर्भैरवीया विराजते ||१०३|| वैकल्पिको ह्यवच्छेदः पश्चाद्यां [पाश्चात्यामिति पाठः] दर्शयेद्भिदाम् | सैव माया स्वतन्त्रस्य भेददृष्टिप्रकाशिनी ||१०४|| उन्मेषमात्ररूढस्य सा निर्मूला न संभवेत् | इत्थं किं बहुनोक्तेन नयेऽनुत्तरनामनि ||१०५|| वस्तुतोऽस्ति न कस्यापि योगाङ्गस्याभ्युपायता | स्वरूपं ह्यस्य नीरूपमवच्छेदविवर्जनात् ||१०६|| ११४) उपायोऽप्यनुपायोऽस्यायागवृत्तिनिरोधतः | रेचनापूरणैरेषा रहिता तनुवातनौः [तनोरिति पाठः] ||१०७|| तारयत्येवमात्मानं भेदसागरगोचरात् | निमञ्जमानमप्येतन्मनो वैषयिके रसे ||१०८|| नान्तरार्द्रत्वमभ्येति निश्छिद्रं तुम्बकं यथा | स्वं पन्थानं हयस्येव मनसो ये निरुन्धते ||१०९|| तेषां तत्खण्डनायोगाद्धावत्युन्मार्गकोटिभिः | किंस्विदेतदिति प्रायो दुःखेऽप्युत्कण्ठते मनः ||११०|| सुखादपि विरज्येत ज्ञानादेतदिदं (त्विति) | तथाहि गुरुरादिक्षद्बहुधा स्वकशासने ||१११|| अनादरविरक्त्यैव गलन्तीन्द्रियवृत्तयः | यावत्तु विनियम्यन्ते तावत्तावद्विकुर्वते ||११२|| प्रत्याहारोऽपि नामायं योऽक्षजाले प्रवर्त्यते | बन्धस्यारूढवृत्तेस्तद्वज्रलेपेन बन्धनम् ||११३|| अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् | अनाविशन्तोऽपि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ||११४|| सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्रियां तस्मै कुर्वति तत्प्रचार चतुरे सत्यक्षवर्गेऽपि च | सत्स्वर्थेषु रसादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिखचितस्तत्तत्त्वमादीयताम् ||११५|| अविवेक एव परमिह संसार इति प्रवादमात्रमिदम् | अविवेक एव हि परं निःश्रेयसलाभसोपानम् ||११६|| ११५)
SK
त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् | पूर्णेऽवधानं नहि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ||११७|| यत्रैवानन्दयोगः क्वचन ननु भवेत् तत्र पूर्णः स्वभावो �.टे वेति तत्र प्रशमपदमियाद्यद्ययं भेदमोहः | तज्ज्ञाने जाग्रदादावपि निखिलपदे चिन्महाचक्रनाथो योगी जायेत नानाव्यवहृतपथगोऽप्युल्लसन्मन्त्रवीर्यः ||११८|| यथा हि कूपं प्रचिकीर्षुरेव प्राप्ते जले याति कृतित्वमेकः | कश्चित्पुनर्हस्तगतादि(वारि) मात्रा- दित्थं परप्राप्तिविधिर्विचित्रः ||११९|| अनुपायमिदं तस्मादुपायोपेययोगतः | भेदबन्धाद्विमुच्येत कथं वेतरथा जनः ||१२०|| अनुपायेऽपि चैतस्मिन्किंचित्सांबन्ध्यवृत्तितः | उपायस्योपदेशोऽयं शास्त्रेऽत्र बहुधा कृतः ||१२१|| यथा लिप्यक्षरैर्बालाः सत्ये वर्णात्मनि [वर्त्मनि चेति पाठः] स्फुटम् | प्रवेश्यन्ते तथा मूढास्तैस्तैरौपयिकैः क्रमात् ||१२२|| तदर्थमेव चाद्वैते परतत्त्वेऽपि सादरम् | पूजाध्यानादि शास्त्रेऽस्मिन्नुचितं किंचिदुच्यते ||१२३|| यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ | योज्यते बोधसद्ब्रह्मधाम्नि ब्रह्मविलात्मनि ||१२४|| आत्मानुसारिसद्भावसमावेशदशाश्रयात् | तत्तत्परकुलेशानशक्तिचक्रार्चनाक्रमे ||१२५|| ११६) प्रयात्येवाप्रयत्नेन करणत्वं स्वभावतः | कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिताम् आत्तैर्मानसतः स्वभावकुसुमैः स्वामोदसंदोहिभिः [नन्देति पाठः] | आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमा- [घीर्घ्यपात्रेति पाठः] त्त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ||१२६|| एवं यत्र क्वचित्तिष्ठेत्स्वविमर्शस्वभावतः | तत्र शक्तित्रयावेशस्त्रिधा तावत्प्रकाशते ||१२७|| नवधा भासमानस्य [मानश्चेति पाठः] प्रोक्तद्वादशचक्रतः | विश्रान्तिरेकक्षणगा साष्टोत्तरशतस्थितिः ||१२८|| एकैव शतसंख्या च सा स्थितिः प्रविभाव्यते | इत्थं यत्किंचनैतस्य वचनं योगिनो भवेत् ||१२९||
SK
तदेव जपयोगाय जायतेऽनुत्तरे पथि | अन्तरिन्धनसद्भावमनपेक्ष्यैव नित्यशः ||१३०|| यो ज्वलत्यखिलाक्षौघप्रसृताग्रशिखाशतः | तत्रैव सर्वभावानां प्रवेशश्चेद्विमृश्यते ||१३१|| नूनं झटिति संप्लुष्टस्थूलरूपतया हठात् | यान्ति बोधमहाज्वालाप्रकाशैक्यं स्वरूपतः ||१३२|| स एष [एवेति पाठः] परमो होमो भैरवीयक्रमे मतः | निजबोधजठरहुतभुजि भावाः सम्यक्समर्पिता युक्त्या | जहति भेदविभागं निजशक्त्या तं समिन्धते यस्मात् ||१३३|| यदेव स्वेच्छया सृष्टिस्वाभाव्यवशतः पुरः | निर्मिमीतेऽक्षविषयं तद्ध्यानायावकल्पते ||१३४|| निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति | ११७) फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ||१३५|| यथा ह्यभेदसंपूर्णे भावेऽप्युदकमाहरन् | अन्याकृत्यपहानेन घटमर्थयते रसात् ||१३६|| तथैव परमेशाननियतिप्रविजृम्भणात् | काचिदेवाकृतिः कांचित्सूते फलविकल्पनाम् ||१३७|| यस्तु संपूर्णचिद्वृत्तिर्न फलं नाम वाञ्छति | तस्य विश्वाकृति ध्यानं सर्वदैव विजृम्भते ||१३८|| कुलयोगिन उद्रिक्तभैरवीयरसासवात् | घूर्णमानस्य यः कश्चित्कोऽप्युदेति यथा तथा ||१३९|| शरीरगः समावेशो मोदनद्रावणात्मकः | सा स्वीकृतजगन्मुद्रा मुद्रा नैरुत्तरे मते ||१४०|| एष योगविधिः कोऽपि कस्यापि हृदि वर्तते | यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ||१४१|| लोकेनालोक्यमानोऽपि देहबन्धविधौ स्थितः | अभ्येति योगे रूढेन क्षणात्कामपि संविदम् ||१४२||? अत्रैव त्वस्मत्पूर्वार्याचार्याणां धिषणा भृशम् | अभ्यमंस्त भवाभोगविभ्रमाणामसंनिधिम् ||१४३|| वेदसांख्यभवेद्वादन्यायसौगतलौकिकैः | पञ्चरात्रक्रियाशास्त्रसिद्धान्तादिभिरप्यलम् ||१४४|| उचितोचितविज्ञानक्रियांशपरिभावकैः | सर्वैः स्वप्रक्रियारूढैस्तैस्तैरौचित्ययोगतः ||१४५|| यत्र बीजसमावापखननादिक्रियाक्रमः | अकारि शांभवानेकशाखाभिर्योऽतिविस्तृतः ||१४६|| तस्य चिद्भैरवतरोः फलमेतदनुत्तरम् | ११८)
SK
आश्रमस्थितचर्याद्यैर्जटाजालाञ्जनान्तकैः [चर्वाद्यैरिति पाठः] ||१४७|| कृतैरप्यकृतैर्वापि यत्र नो लभ्यते भिदा [भिधेति पाठः] | तत्रैव योगे विश्रान्तिं कुर्वतां भवडम्बरः ||१४८|| हिमानीव महाग्रीष्मे स्वयमेव प्रलीयते | अलं हि चर्व्यमाणेऽस्मिन्सरसे संविदासवे ||१४९|| निस्सरन्ति महोल्लासाः संख्या येषु न विद्यते | तेषां च प्रकटीकाराः कृताः प्रागेव विस्तरात् ||१५०|| अत्राभिनवगुप्ते तु तत्त्वे केऽप्येव निश्चिताः | केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका | भैरवीयपरमाद्वयार्चने कोऽपि रज्यति नभेदमोहितः ||१५१|| नात्र रूढस्य कार्या स्याच्छुद्धिः काचन कुत्रचित् | अशुद्धं हि जगत्येव भैरवात्मनि किं भवेत् ||१५२|| अशुद्धेऽपि च भूतौघे केन शुद्धिः प्रतायताम् | अनवस्था भवेदित्थं व्यर्थान्योन्याश्रितिस्तथा ||१५३|| अशुद्धस्य तिरोधाने शुद्धं नाम प्रलीयते | प्रतियोगिकृतं तद्धि न स्वभावेन नीलवत् ||१५४|| अत एव न कश्चिदाग्रहो विषयाणां ग्रहणेऽप्यपोहने | परभैरवसंविदात्मनः स्वयमेवोच्छलिता हि भोक्तृता ||१५५|| सर्वमत्र विहितं यतोऽमुना वर्त्मना सकलमेव युज्यते | ११९) मार्गमेवमपहस्त्य किंचन क्वापि नैव ननु याति युक्तताम् ||१५६|| तथाहि दीक्षा नामेयं या मलानां निकर्तनी | सा भेदवादिनां पक्षे कथं नामोपपद्यते ||१५७|| तथाहि यो मलो नाम स कथं चित्स्वभावकम् | आत्मानमावृणीते क्व विभोरावरणक्रिया ||१५८|| न च प्रकाशस्तमसा जातु संव्रियते यतः | प्रकाशोदय एवायं ध्वान्तध्वंसक्रियात्मकः ||१५९|| किं चावरणमुक्तं हि रश्म्यादेर्गतिधर्मिणः | प्रतिघातात्मकं तत्किं विभोरगतिधर्मिणः ||१६०|| अपि वा ज्ञेयतामात्रतिरोधैव(धानं) हि संवृतेः | पटादिना घटादेः स्यान्न स्वरूपान्यथास्थितिः ||१६१|| न चात्मानश्चिदात्मत्वाज्ज्ञेयत्वमधिशेरते | तदावरणमेषां [एतेषामिति पाठः] तु शब्देष्वपि न शोभते || १६२||
SK
नन्वीश्वरस्य ते ज्ञेया अणवः कथमीदृशम् | चिदात्मकं हि न ज्ञेयं चिदात्मत्वतिरोहितेः ||१६३|| संविज्ज्ञेयेति [विज्ञेयेति पाठः] शब्दोऽयं वन्ध्या मे जननीत्यदः | वाक्यं स्मरयतीव स्वं स्वात्मसब्रह्मचारि यत् ||१६४|| किंचेश्वरस्य सार्वज्ञ्यं तावता प्रतिहन्यते | आवृतान्वेत्ति नाणून्यन्न त्वेषां काचन क्षतिः ||१६५|| नन्वनावरणे नीले ज्ञातुरावरणे सति | न दर्शनं तथा बाधा [तथावाणुरिति पाठः] न सर्वज्ञो मलावृतः ||१६६|| मैवं तत्र हि दृग्रश्मीन्गच्छतः प्रतिहन्ति तत् | पटादि [पटादिवन्नेति पाठः] न तु विज्ञातुरस्त्यावरणसंभवः ||१६७|| १२०) मलश्चाव्यापको व्याप्तुरावारक इति स्फुटम् | घटेऽपि व्योम्नि संदध्यादशून्यत्वं स्वरूपतः ||१६८|| आत्मनश्चाधिकार्यत्वान्मलः किंचित्करो न चेत् | कथमावरणायैष शक्तो ननु च भोः किमु ||१६९|| मलसद्भावमात्रं हि तस्यावरणमुच्यते | मलेन सद्वितीयोऽणुरावृतः परिभाष्यते ||१७०|| हन्तानेन नयेनैष [एवेति पाठः] शिवमुक्तात्मनामपि | स्थितमावरणं सत्यं मलसद्भावमात्रतः ||१७१|| किंचावृतो मलेनात्मा मलमेव न वेत्ति किम् | तदसंवेदने तस्य किं मलान्तरमुच्यते ||१७२|| नन्वतः किं मलं वेत्तु [वेत्तुमिति पाठः] तर्हि विद्याकले विना | सर्वज्ञत्वं भवेत् तच्च मलं विदितमेव सत् ||१७३|| जहात्वात्माभ्युपायैस्तैस्तैर्विचित्रैः प्रकल्पितैः | किंचावरणमेतेन यस्यात्मनि भवेत् ततः ||१७४|| घटादौ ज्ञातृकर्तृत्वे कथमस्य भविष्यतः | ननु विद्याकले किंचिज्ज्ञत्वकर्तृत्वदे स्मृते ||१७५|| इत्थं विमूढमतयो वञ्च्यन्ते न तु पण्डिताः | जडस्वभावा मायैषा तत्सूतिश्च कलादिकः ||१७६|| अचिदात्मा कथंकारं चिदभिव्यञ्जनक्षमः | अभिव्यक्ता च चिद्विभ्वी किंचित्त्वादिविशेषणैः ||१७७|| विशेष्यतां कथं नाम सांशवस्तूचितं हि तत् | ननु देवः कलाविद्याकरणो व्यञ्जयेच्चितम् ||१७८|| व्यनक्तु सर्वतो हन्त नास्याशक्तिरथाग्रहः | १२१) मले सदातने चास्य कथं मुक्तिर्भविष्यति ||१७९||
SK
रौद्री (रोद्ध्री) शक्तिर्मलस्यास्ति सा च क्वापि निवर्तते | क्वापि प्रवर्तते चेति धिगिदं मूढभाषितम् ||१८०|| जडानां कोऽनुसंधिः स्यात् तं विनैतत्कथं भवेत् | अथ तत्रापि देवस्य हेतुताभ्युपगम्यते ||१८१|| किं निमित्तमसौ देवस्तां शक्तिं संप्रवर्तयेत् | प्रवर्तितां वा किं नाम तां निवर्तयते पुनः ||१८२|| स्वातन्त्र्यादिति चेत्पूर्णं तदेवाश्रीयते न किम् | मलस्य ध्वान्तरूपस्य न च पाकोऽस्ति कश्चन ||१८३|| स ह्यन्यतादानयोगाद्धन्त्यमुष्य ध्रुवात्मताम् | एतेन मलसंबन्धादीश्वरेच्छाप्रचोदितः ||१८४|| भोगलोभकथाविष्टः पशुः सृष्ट्यानुगृह्यते | इति यद्भण्यते मूलहतं तज्जनितं ततः ||१८५|| स्वात्मप्रच्छादनक्रीडामात्रमेव मलं विदुः | स्वतन्त्रो हि विभुः किंचित्किं न स्वात्मनि भासयेत् ||१८६|| यच्च कर्मापि नामेष्टं तत्तावत्प्रविचार्यताम् | तथाहि कर्मसंबन्धे स्थितेऽपि कथमीदृशः ||१८७|| महाप्रलय उच्येत महासृष्टिश्च वा कथम् | नन्वीश्वरेच्छया तत्र कर्मायाति निरुद्धताम् ||१८८|| कर्मौदासीन्ययोगेन कर्मान्तरमपेक्षताम् | ईश्वरोऽथ नवा पूर्वपक्षे संभव एव च ||१८९|| नसंभवे स कुत्रांशे चैश्वर्यमधिगच्छतु | कर्मतः सर्वमेवेदं स्यात् सृष्टिप्रलयादिकम् ||१९०|| अथ कर्मानपेक्षो वा कर्मणां रोधनं ततः | १२२) सदा निरुद्धान्येवेशः कर्माणि कुरुतां विभुः ||१९१|| ननु तेषां स्वभावोऽयं यद्भोगप्रसवात्मता | कथं स्वभाव एष स्याद्यः परोपाधितां गतः ||१९२|| अनपेक्षो हि भावानां स्वभावः कर्मणां ततः | ईशैषणानपेक्षाणां यद्रूपं तत्स्वकं वपुः ||१९३|| किं च प्रलयलीनानि कर्माणि स्थितिभाञ्ज्यपि | किं प्रबोधयते देवः किं नु दृ(सृ)ष्टैर्हि तैः कृतम् ||१९४|| मलपाकाय चेत्सोऽपि सुदूरमपसारितः | किं चात्मा विभुरेवैष स किं नाम करोति हि ||१९५|| इति पूर्वं विचारश्च विस्तरेण प्रपञ्चितः | मृद्दण्डचक्रसूत्रेषु धीमान्कर्तेश्वरः स्थितः ||१९६||
SK
कुम्भकारस्य कर्तृत्वं कुत्रांशे न्ववतिष्ठताम् | अकृष्टपच्यबीजेषु प्ररोहप्रसवादिके ||१९७|| पूर्वं करोतु हेतुत्वं न सस्येष्विति को नयः | इदं दुष्कृतमेतच्च सुकृतं फलभेदतः ||१९८|| इति यत्प्रविभक्तं किं तत्रास्येच्छैव जृम्भते | स्वतन्त्रो यद्यसौ कस्मात्परपीडाकरीं निजाम् ||१९९|| इच्छां गृह्णाति यो नित्यं करुणारसनिर्भरः | ननु स्वभावात्तत्तादृक्कर्मातः फलदायकम् ||२००|| प्रायश्चित्तादिकरणाच्छाम्येच्चेति विचारयन् | देवस्तथैव तनुते शास्त्रं चित्रोपदेशकम् ||२०१|| शैवं स्वभाव एतादृक्कर्मणामिति को नयः | बीजमङ्कुरसंसूतिस्वभावमिति मादृशः ||२०२|| पूर्ववृद्धव्यवहृतेर्विज्ञातुं प्रभविष्णवः | ईश्वरस्तु निजेच्छातो विना न हि कदाचन ||२०३|| १२३) अवलोकितवान्कर्मफलवैचित्र्यचातुरीम् | तस्माद्देवः सर्वकर्ता यदि स्या- त्कर्तारः स्युर्नात्मवर्गाः कथंचित् | नो कर्तारस्तेऽपि चेत्कर्मवन्ध्या- नुद्दिश्यैनान्सर्वकर्ता न देवः ||२०४|| इत्थं च भेददृष्ट्येदं कर्म नाम न मु(यु)क्तिमत् | एतावानत्र संक्षोपो व्यासोऽन्यत्र तु दर्शितः ||२०५|| संवेदनात्मको देव एकस्तस्मात्स्वतः खलु | सर्वकर्ता स वैचित्र्यात्कर्मयोगीति भण्यते ||२०६|| माया च नाम विश्वस्य या कारणमिति स्थिता | सा धरण्यन्ततत्त्वांशगर्भा नित्या यदि स्फुटम् ||२०७|| प्रलयो न कदाचित्स्यान्ननु स व्यक्तिभावतः [व्यक्त्यभावेति पाठः] | व्यक्तिं नाम न जानीमो विज्ञानं ग्राह्यता यतः ||२०८|| तदीश्वरपरज्ञानग्राह्यतास्ति सदातनी | तस्यामविद्यमानायामीश्वरः कारणं कुतः ||२०९|| स्फुटं प्रकुरुते कुम्भं तद्वदीशे भविष्यति | मैवमन्तर्बहीरूपकरणप्रविभेदतः ||२१०|| स्फुटास्फुटादिविज्ञानं युक्तं कुम्भकृति स्फुटम् | ईश्वरस्य स्फुटोदारपूर्वविज्ञानशालिनः ||२११|| को न ज्ञातो भवेद्भागो यत्रापि व्यक्त्यपेक्षिता | सत्कार्यवादिनां देशे कारणेऽपि स्फुटं स्थितम् ||२१२|| विश्वमित्यपि मायायां स्फुटं स्यादसमञ्जसम् | व्यापकाश्च शिवात्मानस्तत्त्वैः साकं परस्परम् ||२१३||
SK
कथं च नाम विद्यन्तां व्यापकत्वतिरोहितेः | १२४) विकासः परमो व्याप्तिः संविदो भेद उच्यते ||२१४|| मायीयं कञ्चुकव्रातं तथा करणसंचयः | विचारितः पूर्वमेव कार्यवर्गश्च चर्चितः ||२१५|| यावच्छिवपदाध्यासवन्ध्यं विश्वं न विस्फुरेत् | तत्स्वातन्त्र्यकथामात्रमेतदित्यवधार्यताम् ||२१६|| एवं मलाद्यभावे हि का दीक्षा को हि दीक्षकः | दीक्षापात्रं च को वा स्यादिति किंचिन्न युज्यते ||२१७|| शिष्येऽध्वन्यनले कुम्भे मण्डले स्रुक्करादिके | समस्ताध्वकृतो न्यासः कथं वाप्युपपद्यताम् ||२१८|| नहि तावन्त एव स्युर्ननु संकल्पनावशात् | शोध्यशोधकभावोऽयं सर्व एवोदितो ननु ||२१९|| कल्पितं चेत्फलेत्सत्यं मनोराज्यार्जितश्रियः | जयन्ति नाकसाम्राज्यलाभविश्रान्तियोगतः ||२२०|| किं नाम बलवद्रूपसंकल्पपथवर्तिनः | फलन्ति न तथा भावा ध्यानादिविषनाशवत् ||२२१|| संकल्पदार्ढ्यमित्येव ध्यानं संशयरूषितम् | ध्यानं च न फलेदेव स्वयं पक्षद्वयाग्रहात् ||२२२|| हन्त संकल्पनायोगाद्यदि जायेत् तत्फलम् | किमसंविन्मयान्भावान्वाह्यान्कांश्चिदभीप्ससि ||२२३|| संकल्पेनैव संस्कारः कुण्डाग्निगुरुशिष्यगः | स एव च फलाभासी तत्संविदवशिष्यते ||२२४|| संविदश्च स्वतन्त्रायास्तथारूपावभासनम् | दीक्षेति किल मन्तव्यं मुच्यन्ते जन्तवो यया ||२२५|| अत एव तिलाज्यादेः स्वरूपे ग्रहणे मितौ | क्रमो वा नियमो नेह कश्चिच्छास्त्रे निरूपितः ||२२६|| १२५) ननु मन्त्रेषु किं नाम नियमः सर्ववर्णभाक् | रूपं परं हि कथितं दीक्षापि न तथा कथम् ||२२७|| एवमेवार्णदाहस्य यद्भावान्संमतं हितम्? | किं तु तावति ये रूढिं न प्राप्तास्तान्प्रति ध्रुवम् ||२२८|| मान्त्रोऽयं नियमः प्रोक्त उपयोगं च गच्छति | प्रतिबुद्धा हि ते मन्त्रा विमर्शपथवर्तिनः ||२२९|| स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात्कर्तृतामयाः | मया(न्त्रा) विशन्त्येवाचार्यं तं तादात्म्यनियोगतः ||२३०||
SK
स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् | इत्थं दीक्षादिविधये येऽप्यन्ये विधयो मताः ||२३१|| किं नाम कुर्वतां कृत्यं निषेधं त्वपि वा कथम् | तेऽप्यत्रैवोपपद्यन्ते तत्सर्वं विहितं त्विह ||२३२|| सर्वं चैतदमुत्रैव प्रतिषिद्धं यतः स्फुटम् | प्रतिषेधे दर्शितेऽस्य किं चाद्वैतपथाश्रितः ||२३३|| प्रतिषेधोऽपि विहितः सोऽपि च प्रतिषिध्यते | इत्थं स्वसंविदम्भोधिः स्वात्मनि प्रोच्छलत्ययम् ||२३४|| इत्थं च विश्वमेवेदं जगदानन्दसुन्दरम् | तद्विपक्षं च भेदांशमित्थं क्षपयतेतराम् ||२३५|| परमेशमुखोद्भूतज्ञानचन्द्रस्य सर्वतः | तावता स्वप्रभाभारभास्वराः सुमरीचयः ||२३६|| शिवचन्द्रांशुसंघातपातमात्रविलापितः | समस्तभावशीतांशु(नांश)कालकूटो रसायते ||२३७|| तत्रानिशं निमञ्जन्तस्तद्रसापानघूर्णिताः | तद्रसीभूय तिष्ठामः शुद्धास्तापत्रयोज्झिताः ||२३८|| १२६) परमेशमुखं तु शक्तिरुक्ता भवतीच्छा ननु सोद्भवं गता | प्रतिपद्यत ईश्वरादिभिन्न- स्थितिविज्ञानशशाङ्कशक्तिवृत्तम् ||२३९|| शशिनः किल तस्य सर्वतो यः परिपूर्णः प्रसृतो मरीचिपुञ्जः | इयमेव हि सा क्रियात्मिकोक्ता परमेशस्य जगन्मयी स्वशक्तिः ||२४०|| तदिदं त्रिकशक्तिनिर्भरं परमं भैरवमेव जृम्भते | नतु तद्व्यतिरेकि संभवेत् स्वविजृम्भा विजयोऽस्य कीर्तितः ||२४१|| तत एव जगज्जयन्त्यमी स्फुटमर्थः प्रकटोऽपि युज्यते नः | बहुवाचकयोग ईदृशं तत् परिपूर्णत्वममुष्य वाक्यभेदम् ||२४२|| इत्येक एव श्लोकोऽयं चिदात्मा भैरवः स्वयम् | समस्तभावसंदर्भनिर्भरो व्याकृतः स्फुटम् ||२४३|| संसारगरनाशाय दार्ढ्या(तार्क्ष्या)धिष्ठितदृष्टयः | विश्व(ष)मेवोपयुञ्जानाः प्राप्नुवन्त्यामृतीं स्थितिम् ||२४४|| इति दर्शितमेतावत्स्वप्राकाशस्वसंविदा | सिद्धं तद्व्यतिरेकेण न किंचिदेव कल्पते ||२४५|| यावत्स्वसंविद्विश्रान्तं यत्तावत्तत्सदेव हि | कालान्तरव्यपेक्षे हि सत्यत्वं स्यान्न कुत्रचित् ||२४६|| १२७)
SK
संविदः कालयोगश्च विस्तरेण निवारितः | तत्स्वसंविद्यथा देशं वितरेद्वर्तते तथा ||२४७|| तथा संविद्यक्षमये(य्यां) निकषाश्मनि रोपितम् | न यत्तत्संशयायैव शास्त्रेऽप्युक्तमवस्तु तत् ||२४८|| स्वसंविदनुपारोहि प्रलापान्न विशिष्यते | तच्छास्त्रं प्रक्रिया सा च यत्संविदि विवर्तते ||२४९|| हृदयाज्जगतो जाताः सर्वस्यैते क्षयोदयाः | स्वप्नस्येव सुषुप्ताख्यात्स्वसंविच्छास्त्रचर्चिताः ||२५०|| रूपालोकमनस्कारसामग्री संहृतिः स्थितिः | सृष्टिर्निमेषोन्मेषौ च सतां संकोचकल्पनम् ||२५१|| इत्यादिका मातृमेयमानरूपा स्थितिः सदा | स्वसंविदः सुपूर्णायाः प्रपञ्चरचना स्वयम् ||२५२|| सर्वसर्वात्मदिग्देशकालाकारा स्वयं हि सा | सत्यमिथ्यात्वनिर्णीतिस्तत एव हि जायते ||२५३|| आचार्योत्पलदेवोऽपि तदेतदुपदिष्टवान् | बहिः सदसदात्मापि स्वसंविदि मदीयदृक् ||२५४|| पश्यत्विति स्वतन्त्रस्य नियतिः सेन्द्रियाभिधा | सैव रूढा शिवादा च क्रिमेः स्वां संविदं श्रिता ||२५५|| तदेव देवे संसारः स शिवः परमेश्वरः | तत्र विश्रान्तिमापन्नो मुक्त इत्यभिधीयते ||२५६|| एतत्प्रसादाज्जिवन्ति ब्रह्माद्याः स्थावरान्तकाः | अविलुप्ता सदा सेयं संवित्तिरिति गृह्यताम् ||२५७|| विभान्त्यपि हि सा देवी न तया रहितं क्वचित् | १२८) आत्मानं साधयेत्क्वापि क्वापि दूषयते क्वचित् ||२५८|| अन्यथैव स्थापयते न च [चायातीति पाठः] याति विकारिताम् | साधनादूषणान्यत्ववन्ध्यापि परमेश्वरी ||२५९|| भासते च तथात्वेन तत्स्वतन्त्रा स्फुटा हि सा | श्रीमान्महेश्वरो देवः पूर्वेषामपि यो गुरुः ||२६०|| स एतदेव प्रोवाच लोकानुग्रहहेतुतः | मूढाः किं निःसारे वायसविरटितकल्पे तिष्ठत वचसि वृथैवं स्वां संविदमावर्ज्य | संविद्देवतयैव यदादिष्टं [यदनादिष्टमिति पाठः] निकटेऽप्यथ सर्व आद्रियमाणास्तत्तद्देशे जीवन्मुक्ता भवन्ति ||२६१|| तदत्र नीतौ संवित्तिरेवासौ गुरुरुच्यते | गिरत्येव यतो विश्वं सृष्टिसंहृतियोगतः ||२६२||
SK
तदत्र मुख्या या रूढिः संबन्धः पर उच्यते | एनया यद्यदादिष्टं ज्ञानं सांसिद्धिकं तु तत् ||२६३|| यत्रास्मद्गुरुवर्गस्य स्थिता नित्यव्यवस्थितिः | त्रैयम्बकादिसंतानभेदो यस्मात्प्रवर्तते ||२६४|| यत्रोक्तं पूर्वमज्ञानतादात्म्यं नश्यतीत्यपि | स्वसंविदस्तु वैचित्र्यं गृह्णत्या भात्ययं ततः ||२६५|| अन्तरालमहद्दिव्यादिव्यादिः शास्त्रसंगमः | तत्त्ववन्निजवागंशून्गुरोरात्मविनिर्मितान् ||२६६||(?) प्राधान्यं प्रकटं स्वसंविदः | गुरुतः किल शास्त्रतः स्वतः १२९) तदयं मुख्यतया कृतः श्रमः ||२६७|| शास्त्रवृत्तिपरतन्त्रितो गुरुः स्वात्मसंविदि च तत्प्रतिष्ठितम् | तेन सर्वमिदमात्मसंविदा सिद्धिमेति नहि जात्वसह्यताम् ||२६८|| एतच्छास्त्रं प्रयत्नेन चर्च्यतां हे मुमुक्षवः | मा वृथैवायुरायस्तमन्यशास्त्रेषु नीयताम् ||२६९|| अभेददृष्टिर्या काचिद्भेददृष्टिरथापि वा | सात्रैवायाति निर्वाहं तेनैतत्प्रविचार्यताम् ||२७०|| स्वप्नकालपरिज्ञातवी * * * यथा तथा | एतच्छास्त्रसमभ्यासप्रबुद्धहृदयः सदा ||२७१|| स्वसंविदेव तच्छास्त्रं सा चापेक्षाविवर्जिता | तथा यद्यभिधीयेत स्वतः प्रामाण्यमुच्यताम् ||२७२|| शासनं शासितव्यं च शासकं चेति यत्किल | तत्तत्राकालकलितं स्वातन्त्र्याद्वैतसुन्दरम् ||२७३|| तामवस्थितिमात्मीयां गर्भीकृत्यानपायिनीम् | श्रीकण्ठनाथः प्रोवाच श्रीमत्किरणशासने ||२७४|| सर्वमेतत्प्रवृत्त्यर्थं श्रोतॄणां तु विभेदतः | अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्प्यते ||२७५|| फलभेदो न कल्प्योऽत्र कल्प्यश्चेदयथायथम् | दशकाष्टादशाष्टाष्टभेदभिन्नमिदं विभोः ||२७६|| शिवसद्भावलाभैकफलं तल्लाभप्रोत्सुके | अधिकारिण्यणौ [एवणोरिति पाठः] जातिकुलवर्णाद्यनादरात् ||२७०|| १३०) प्रवृत्तमेकवाक्यत्वं यावदासाद्य वर्तते | अङ्गाङ्गिवृत्तवैचित्र्यात्तावदेकमिदं विदुः ||२७८|| त्रिकशास्त्रं तथाभूतो गुरुरत्राद्वयात्मकः | तदनन्तरवाक्यांशपुञ्जः प्रकरणानि च ||२७९||
SK
मायीयभेदवृत्तान्तस्फुटभावे भवन्ति च | तथापि शिवसंप्राप्तिर्मुख्यमन्ते फलं स्थितम् ||२८०|| अधिकारि चैक एव शिवतावाप्तिभाजनम् | तथापि तावन्मात्रे च जाते प्रकरणात्मनि ||२८१|| यादृक्फलं स्फुटं मुख्यं [मुख्यपर्यन्तेति पाठः] पर्यन्तफलमङ्गि वा | तदङ्गं वा तद्विपक्षे परपक्षे परं च वा ||२८२|| अपि तत्तद्विपक्षांशसमुद्भावनभाजनम् | तथोचितशरीरादेस्तथा [यथेति पाठः] संस्कारभागिनः ||२८३|| गुरोः शिष्यस्य चाप्युक्तस्तादृशोऽधिक्रियाक्रमः | तथा च मृत्युविध्वंसिरसायनविधिं श्रितः ||२८४|| पूर्वं संस्कारलाभाय क्वाथवान्तिविरेचनैः | दीक्षया या च विकृता (तिः) नोत्तरत्र क्रियाविधौ ||२८५|| तेनाधिकारिनियमस्तद्देहविदशादिजः | तेनोच्यते वैष्णवाद्याः पशुशासनसंश्रिताः ||२८६|| न शैवेऽधिकृतास्तन्त्रे न शैवा वामगोचरे | तेऽपि नो दक्षिणे तेऽपि न स्युः कुलमते त्रिके ||२८७|| उक्तं श्रीभैरवकुले पञ्चदीक्षाक्रियोचितः | गुरुरुल्लङ्घिताधस्त्यस्रोता वा त्रिकशास्त्रगः ||२८८|| इत्थमेकाधिकारित्वमात्मतत्त्वसमाश्रयात् | १३१) संस्काराश्रय * * * भेदाद्भिन्नाधिकारिता ||२८९|| स्वच्छन्दतन्त्रे तेनोक्तं सर्वशास्त्रे शिवः फलम् | यतः शिवोद्भवाः सर्वे शिवधामफला इति ||२९०|| तत्रैव च पुनः प्रोक्तमूर्ध्वतत्त्वविवेचने | यन्न सांख्यैर्न योगीन्द्रैर्न प्रिये पाञ्चरात्रिकैः ||२९१|| इत्यादि यावदाक्षिप्तं वादिनां तु शतत्रयम् | त्रिषष्ठ्या चाधिकं ते हि तावन्मात्रविवेचकाः ||२९२|| कथं स्युरपरिच्छिन्नशिवतत्त्वविदात्मकाः | अथ तत्रांशमात्रेऽपि शिवसद्भावमेव ते ||२९३|| आरोपयेयुस्तत्तावन्नैव सुस्पष्टसंगति | देवदत्तादिवाक्ये हि सर्वतः पूर्व(र्ण)विग्रहे ||२९४|| देवदत्तपदश्रोता तावन्मात्रपदे कथम् | समग्रपूर्ववाक्यानां समारोपं करिष्यति ||२९५|| कथं चाधिगमस्तस्य तावतोऽर्थस्य वाक्यतः | तस्मादेवेति चेत्तर्हि न पदश्रोतृता न च ||२९६||
SK
तावन्मात्रस्य सोऽस्त्यर्थ इत्थं प्रकृतिगोचरे | समग्रशिवशास्त्रार्थज्ञप्त्या संपूर्णरूपया ||२९७|| योगसांख्यार्हतन्यायपाञ्चरात्रश्रुतिस्मृतीः | यद्येव शिवतत्त्वेन संपूर्णं परिकल्पयेत् ||२९८|| तावदस्तु नतु स्फारस्तावांस्तत्रेति चर्चितम् | ज्ञप्तिश्च शिवतत्त्वस्य तत्संस्कारपुरःसरा ||२९९|| अन्यथा प्रत्यवायः स्यादुपदेष्ट्रुपदेश्ययोः | तत्संस्कारग्रहश्चेत्स्यात्कामं शास्त्रार्थ ईदृशः ||३००|| न तु वैष्णवता तस्य सांख्यता श्रौततापि वा | १३२) अन्यसंस्कारमूर्ध्वोर्ध्वं गृहीत्वाप्यनुतिष्ठति ||३०१|| वैष्णवाद्येव तर्ह्यस्य प्रत्यवायो महत्तरः | नन्वद्वयपदेऽमुष्मिन्केयं मुख्या प्रकल्पना ||३०२|| किं ब्रूषे स्वयमेव त्वं भेदोपहतवृत्तिकः | एतदेव परं द्वैतं भवानेव हि संश्रितः ||३०३|| यदहं वैष्णवो भूष्णुः शैवे किं नाधिकारवान् | तत्स्वयं भेदमूढस्त्वं भेदे च नियतेर्बलात् ||३०४|| ततस्तैः प्रत्यवायः स्याद्योग इत्युपपादितम् | किं च तादात्म्ययोगेन देवता पूज्यते ततः ||३०५|| विष्णुतादात्म्यमापन्नः कथं रुद्रं प्रपूजयेत् | गीतासु च ततो गीतं यो यच्छुद्धः स एव सः ||३०६|| तादात्म्यभावना योगाः फलं मन्त्राः स्व * * * | दद्युस्तद्भावितात्मातः फलकामस्य सिद्धिदः ||३०७|| मोक्षकामस्य तच्छास्त्रमोक्षलिप्सोरपि स्फुटम् | तद्दोषभावनाक्रान्तः क्षमस्तावति योजने ||३०८|| मुख्यस्तावदयं कल्पो यो यत्रैव प्रतिष्ठितः | नित्यं तादात्म्यमापन्नः स तत्राधिकृतस्त्विति ||३०९|| अत एव ततो ग्राह्यं ज्ञानमित्यभिधीयते | स हि तादात्म्यमापन्नस्तद्भावनविधिक्रमात् ||३१०|| शिष्यस्तदैव [तत्रैवेति पाठः] शास्त्रं तु गृह्णन्पूर्वापरक्रमात् | कथं स्वबुद्ध्या संधत्तां तावद्यत्तेन संहितम् ||३११|| यस्तु संधातुमीहेत स साक्षात्परमेश्वरः | तस्य किं वा गुरुः क्रुयात्सोऽन्येषां गुरुरुच्यते ||३१२|| १३३) नान्यतो वेदविद्भ्यश्चेत्यत एव हि मन्वते | तस्मात्तादात्म्यमापन्नो गुरुरित्यभिधीयते ||३१३||
SK
स च यावति यत्रैव [तत्रैवेति पाठः] तत्र तावति नान्यथा | ननु वैष्णवशास्त्रार्थस्तत्कालं शिवभावनात् ||३१४|| तादात्म्यं गुरुतां हन्त पूर्णधीः प्रलपत्ययम् [त्यलमिति पाठः] | रामरावणनाट्येषु नह्येता नटभूमिकाः ||३१५|| नेपथ्यादिपरावृत्त्या येनान्यत्वं प्रपद्यते [प्रवर्तते इति पाठः] | वैष्णवो विष्णुरेवाहं तद्दासो वेति चर्चयन् ||३१६|| इदानीं न तथास्मीति किमेतत्सुसमञ्जसम् | अत्र ह्येकतमा संविन्मिथ्याज्ञानत्वमश्नुते ||३१७|| यया [यथेति पाठः] स एव पतितः शिष्यो वा पतितो भवेत् | तस्मान्मुख्यो ह्ययं कल्पः प्रतिशास्त्रं गुरुर्गुरुः ||३१८|| उक्तं स्वतन्त्रशास्त्रेषु नासौ सिद्धिफलप्रदः | अन्यशास्त्ररतो यः स्यात्तच्छास्त्रनिरतोऽपि वा ||३१९|| लोकेऽपि यावदीदृक्षः प्रवादो ज्योतिरादिके | विष्णोर्भागवता मगाश्च सवितुः शांभोर्जटाभस्मिनो मातॄणामथ मातृमण्डलविदो विप्रास्त्वथ ब्रह्मणः | शाक्याः सत्त्वहितस्य बुद्धवपुषो नग्नास्तथैवार्हतो यो यैर्देव उपास्यते स्वविधिना तैस्तस्य कार्या क्रिया || अत एवाधिकज्ञानशाली संनिहितो यदि | देशे तत्र भवेन्नाना नाधिकारस्य भाजनम् ||३२१|| यस्त्वस्मिन्पूर्णसंबोधे रूढो वास्तवशासने | १३४) उत्तरोत्तररूढ्यर्थं शिशोः करणमानसम् ||(?) ३२२|| फलसंपत्तये वापि भावांशवशशालिनः | अनुग्रहं स वै कुर्यात्पूर्णत्वादूर्ध्ववृत्तितः ||३२३|| नन्वद्वये किमूर्ध्वं स्यान्न किंचिद्भेदमोहिताः | भवन्तस्त्वधरावस्था भेद एवाधरो यतः ||३२४|| तस्माद्ये केचनान्ये स्युः पशुशासनवर्तिनः | वैष्णवाः सौगताः श्रौतास्तथा श्रुत्यन्तवादिनः ||३२५|| इत्यादयो नाधिकृता जातुचित्पतिशासने | उक्तवान्यत्र शास्त्रेष्वप्यधिकारिविवेचने ||३२६|| यो वैष्णवो मनुं दद्याच्छैवं मूढमतिः शिशोः | तं पापं वञ्चकं मत्वा शिशुर्न्याय्यं समाचरेत् ||३२७|| इहाप्युक्तं मोक्षदः स्यात् स्वभ्यस्तज्ञानवानिति | अभ्यस्तं च परं ज्ञानं यतो नास्त्येव विच्युतिः ||३२८||
SK
परमाद्वयविज्ञानान्न खल्वप्यस्ति विच्युतिः | स्वात्मपक्षस्थिताशेषज्ञाननिर्भरवृत्तिकः ||३२९|| कथं को वा कुतो वापि च्यवतां तिष्ठतु क्व वा | इत्थं य एष शास्त्रार्थः स्थितः शक्तिप्रभावतः ||३३०|| अन्तः कृताशेषतत्त्ववर्णादिभरनिर्भरः | सर्वाभिधो भैरवात्मा सोऽयमेव स्वरूपभाक् ||३३१|| शास्त्रेऽस्मिन्परमेशेन ज्ञानचन्द्राख्यया कृतः || तद्व्याख्यातमिदं प्रसन्नगहनं वाक्यं मया स्वागम- प्रामाण्यप्रतिपादनक्रमवशात्तत्तत्प्रसङ्गादपि | अत्रारूढधियां प्रमाणमहिमा विश्वाद्वयोद्दामितो भातीति स्वयमेव सत्यहृदया ज्ञास्यन्ति किं श्लाघितैः || १३५) ये सम्यक्प्रविचारिणो ननु शिवाः कस्तान्प्रति प्रोद्यमः किं तैर्ये प्रविमर्शदूरशिखरारोहक्रमे पङ्गवः | पाषाणायितवृत्तयः पुनरमी ये शास्त्रवन्ध्या नराः संरम्भः प्रलयाम्बुधेरिव ततः स्वात्मन्ययं घूर्णते || संशाम्य स्वयमात्मनि त्यज जवाज्ज्वालाजटाडम्बरान् भोः कल्पानल दाह्यमस्ति भवतो नाद्यापि किञ्चिद्यतः | त्वत्प्रोल्लासविघूर्णनाघनघुरद्धोरस्फुलिङ्गाशतै- र्विश्वं व्याप्य विलीनतां गतमिदं द्राक्त्वत्प्रकाशात्मकम् || प्रवरपुरनामधेये पुरे पूर्वे काश्मीरिकोऽभिनवगुप्तः | मालिन्यादिमवाक्ये वार्तिकमेतद्रचयति स्म ||३३५|| इति श्रीमन्महामाहेश्वराचार्यवर्याभिनवगुप्तपादविरचिते श्रीमालिनीविजयोत्तरश्लोकवार्तिके द्वितीयः काण्डः || शुभाय *? भवीतु || श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् | मधुसूदनकौलेन संपाद्येदं प्रकाशितम् ||

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. mālinīvijayavārtika [M00158].

Source