Kramastotra
Hymn of the Sequence
क्रमस्तोत्रम्
SKअयं दुःखव्रातव्रतपरिगमे पारणविधिर् महासौख्यासारप्रसरणरसे दुर्दिनम् इदम् | यद् अन्यन्यक्कृत्या विषमविशिखप्लोषणगुरोर् विभोः स्तोत्रे शश्वत् प्रतिफलति चेतो गतभयम् ||
SKविमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये | विमृष्टश् च स्वात्मा निखिलविषयज्ञानसमये तदित्थं त्वत्स्तोत्रे ऽहम् इह सततं यत्नरहितः ||
SKअनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाज् अनामृष्टः स्वात्मेत्य् अपि हि न विना ऽमर्शनविधेः | शिवश् चासौ स्वात्मा स्फुरद् अखिलभावैकसरसस् ततो ऽहम् त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः ||
SKविचित्रैर् जात्यादिभ्रमणपरिपाटीपरिकरैर् अवाप्तम् सार्वज्ञं हृदय यद् अयत्नेन भवता | तद् अन्तस् त्वद्बोधप्रसरसरणीभूतमहसि स्फुटम् वाचि प्राप्य प्रकटय विभोः स्तोत्रम् अधुना ||
SKविधुन्वानो बन्धाभिमतभवमार्गस्थितिम् इमां रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभेदाम् | विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात् पिबन् भावान् एतान् वरद मदमत्तो ऽस्मि सुखितः ||
SKभव प्राज्यैश्वर्यप्रथितबहुशक्तेर् भगवतो विचित्रं चारित्रं हृदयम् अधिशेते यदि ततः | कथं स्तोत्रं कुर्याद् अथ च कुरुते तेन सहसा शिवैकात्म्यप्राप्तौ शिवनतिर् उपायः प्रथमकः ||
SKज्वलद्रूपं भास्वत्पचनम् अथ दाहं प्रकटनम् विमुच्यान्यद् वह्नेः किम् अपि घटते नैव हि वपुः | स्तुवे संविद्रश्मीन् यदि निजनिजांस् तेन स नुतो भवेन् नान्यः कश्चिद् भवति परमेशस्य विभवः ||
SKविचित्रारम्भत्वे गलितनियमे यः किल रसः परिच्छेदाभावात् परमपरिपूर्णत्वम् असमम् | स्वयं भासां योगः सकलभवभावैकमयताविरुद्धैर् धर्मौघैः परचितिर् अनर्घोचितगुणा ||
SKइतीदृक्षैर् रूपैर् वरद विविधं ते किल वपुर् विभाति स्वांशे ऽस्मिन् जगति गतभेदं भगवतः | तद् एवैतत्स्तोतुं हृदयम् अथ गीर्बाह्यकरणप्रबन्धाश् च स्युर् मे सततम् अपरित्यक्तरभसः ||
SKतवैवैकस्यान्तः स्फुरितमहसो बोधजलधेर् विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः | त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां शशाङ्कार्काग्नीनां युगपद् उदयापायविभवाः ||
SKअतश् चित्राचित्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः शश्वद् व्रजति न विभेदं कथम् अपि | तद् एतस्यां भूमाव् अकुलम् इति ते यत् किल पदं तदेकाग्रीभूयान् मम हृदयभूर् भैरव विभो ||
SKअमुष्मात् संपूर्नात् वत रसमहोल्लाससरसान् निजां शक्तिं भेदं गमयसि निजेच्छाप्रसरतः | अनर्घं स्वातन्त्र्यं तव तदिदम् अत्यद्भुतमयीं भवच्छक्तिं स्तुन्वन् विगलितभयो ऽहं शिवमयः ||
SKइदन्तावद् रूपं तव भगवतः शक्तिसरसं क्रमाभावाद् एव प्रसभविगलत् कालकलनम् | मनःशक्त्या वाचाप्य् अथ करणचक्रैर् बहिर् अथो घटाद्यैस् तद्रूपं युगपद् अधितिष्ठेयम् अनिशम् ||
SKक्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः | क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपं भूयासं समधिशयितुं व्यग्रहृदयः ||
SKपुरा सृष्टिर् लीना हुतवहमयी यात्र विलसेत् परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा | हुताशेन्दुस्फारोभयविभवभाग् भैरवविभो तवेयं सृष्ट्याख्या मम मनसि नित्यं विलसताम् ||
SKविसृष्टे भावांशे बहिर् अतिशयास्वादविरसे यदा तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् | तदा रक्ता देवी तव सकलभावेषु ननु मां क्रियाद् रक्तापानक्रमघटितगोष्ठीगतघृणम् ||
SKबहिर् वृत्तिं हातुं चितिभुवम् उदारां निवसितुं यदा भावाभेदं प्रथयसि विनष्टोर्मिचपलः | स्थितेर् नाशं देवी कलयति तदा सा तव विभो स्थितेः सांसारिक्याः कलयतु विनाशं मम सदा ||
SKजगत्संहारेण प्रशमयितुकामः स्वरभसात् स्वशङ्कातङ्काख्यं विधिम् अथ निषेधं प्रथयसि | यमं सृष्ट्वेत्थं त्वं पुनर् अपि च शङ्कां विदलयन् महादेवी सेयं मम भवभयं संदलयताम् ||
SKविलीने शङ्कौघे सपदि परिपूर्णे च विभवे गते लोकाचारे गलितविभवे शास्त्रनियमे | अनन्तं भोग्यौघं ग्रसितुम् अभितो लंपटरसा विभो संहाराख्या मम हृदि भिदांशं प्रहरतु ||
SKतदित्थं देवीभिः सपदि दलिते भेदविभवे विकल्पप्राणासौ प्रविलसति मातृस्थितिर् अलम् | अतः संहारांशम् निजहृदि विमृश्य स्थितिमयी प्रसन्ना स्यान् मृत्युप्रलयकरणी मे भगवती ||
SKतदित्थं ते तिस्रो निजविभवविस्फारणवशाद् अवाप्ताः षट्चक्रक्रमकृतपदं शक्तय इमाः | क्रमाद् उन्मेषेण प्रविदधति चित्रां भवदशाम् इमाभ्यो देवीभ्यः प्रवणहृदयः स्यां गतभयः ||
SKइमां रुन्धे भूमिं भवभयभिदातङ्ककरणीम् इमां बोधैकान्तद्रुतिरसमयीम् चापि विदधे | तदित्थं संरोधं द्रुतिम् अथ विलुप्याशुभततीर् यथेष्टं चाचारं भजति लसतां सा मम हृदि ||
SKक्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवीम् अवाप्तस्य स्फारं निजनिजरुचा संहरति या | इयं मार्त.ङ्दस्य स्थितिपदयुजः सारम् अखिलम् हठाद् आकर्षन्ती कृशतु मम भेदं भवभयात् ||
SKसमग्राम् अक्षालीं क्रमविरहिता सात्मनि मुहुर् निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा | परा दिव्यानन्दं कलयितुम् उदारादरवती प्रसन्ना मे भूयात् हृदयपदवीं भूषयतु च ||
SKप्रमाणे संलीने शिवपदलसद्वैभववशात् शरीरप्राणादिर् मितकृतकमातृस्थितिमयः | यदा कालोपाधिः प्रलयपदम् आसादयति ते तदा देवी यासौ लसति मम सा स्याच् छिवमयी ||
SKप्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो बहिर्लीनात्यन्तम् प्रसरति समाच्छादकतया | ततो ऽप्य् अन्तःसारे गलितरभसाद् अक्रमतया महाकाली सेयं मम कलयतां कालम् अखिलम् ||
SKततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि क्रमं विच्छिद्याशु स्थितिमतिरसात् संविदधति | प्रमाणं मातारं मितिम् अथ समग्रं जगद् इदं स्थितां क्रोडीकृत्य श्रयतु मम चित्तं चितिम् इमाम् ||
SKअनर्गलस्वात्ममये महेशे तिष्ठन्ति यस्मिन् विभुशक्तयस् ताः | तं शक्तिमन्तं प्रणमामि देवं मन्थानसंज्ञं जगदेकसारम् ||
SKइत्थं स्वशक्तिकिरणौघनुतिप्रबन्धान् आकर्ण्य देव यदि मे व्रजसि प्रसादम् | तेनाशु सर्वजनतां निजशासनांशुसंशान्तिताखिलतमःपटलां विधेयाः ||
SKषट्षष्टिनाम् एके वर्षे नवम्याम् असिते ऽहनि | मया ऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ||
SKइति श्री अभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ||