Gorakṣaguṭikā

Gorakṣaguṭikā

SK
श्रीगणेशाय नमः || श्रीनाथाय नमः || पार्वत्युवाच || नाथनाथ कृपासिंधो श्रोतुमिच्छामि संहिता | भो संहिता महाभाग गोरक्षस्य महात्मनः ||१|| कथं गुरुपदं तस्य कथं गोरक्षनामतः | कस्य पुत्र भवेद् योगि कर्णच्छेद कथं भवेत् ||२|| किं देवक शिष्यन्ते ममानुग्रह कुर्वते | ब्रूहि भो लोक नाथं तेजा निहितं महात्मनम् ||३|| श्रीमहादेव उवाच || ॐ अस्य श्रीगोरक्षनाथोत्पत्ति कल्पद्रुमसंहिताया महामूलमंत्रस्य श्रीमहाकाल ऋषिशार्दूलछंदः श्रीगोरक्षनाथदेवता नादबीजं दण्डशक्तिकुमकं कोलकीलकं मनेप्सित कामना सिद्ध्यर्थे चतुर्विध पुरुषार्थ सिध्यर्थे जपे विनियोगः || षन्यात्वं पुण्यशीलेत्वं गोरक्षस्य महात्मनः | शृणु प्रिये महद्गोप्यं गुरुनाथ नमोस्तुते ||४|| पुराकृत युगे ब्रह्मा मणिद्वीपे गते सति | मार्गारण्ये महास्थाने सिंहव्याघ्रा हि सेविते ||५|| निवास ब्रह्मणस्तेषां महायोगेन संस्थितः | प्रादुर्भावो विष्णुमाया ब्रह्माग्रे प्राप्तसंस्थिता ||६|| पुलोचना नाम कन्या साक्षाल्लक्ष्मी स्वरूपिणी | दृष्ट्वा विरंचिनाग्ने वै नर्तसीला पुलोचना ||७|| विस्मितं शृष्टि कर्ता च कन्यां दर्मातिमात्मनः | अमोघवीर्यसंप्राप्य गर्मिणी सा पुलोचना ||८|| दधारगर्भं पूर्णेषुसासपूर्णेसु लक्षणाः | शुभमासे शुभेपक्षे सुतिथौ शुभराशिभिः || ब्रह्मपत्न्यां शिशुर्जात संयोगाद्विश्रवा मुनिः | जातकर्मादिकं सर्वं विश्रवेण यथा कृतः ||१०|| स्वभ्रातापत्निमाता स्याद् ब्रह्मानंदेन सुन्दरः | १ब्) गोधनो नाम नृपते तस्य कन्या सुलोचना ||११|| तत्सुतायां ब्रह्मवीर्यात् संवभूव महेश्वरी | नामं चकार विधिवद् गोरक्षकृत विश्रवाः ||१२|| शिशोः दिने दिने वृद्धि शुक्लपक्षे च चन्द्रमाः | ब्रह्मपुत्रो महायात्रा साध्योभुत्का महेश्वरि ||१३|| योगेश्वरो योगमूर्ति ब्रह्मपुत्र वरानने | प्राप्ते पुत्रवती नारी महाहर्षवती शुभा ||१४|| दिने दिने वर्द्धमानं सप्तवर्ष भवेच्छिभुः | भार्गवं गुरुसंप्राप्य विपारंभकृताकिल ||१५||
SK
चतुर्वेदोक्त शास्त्राणि सर्वं सांख्यायनादिकम् | तस्मिन् काले गुरोर्भार्यां गोरक्षेण च सेवनम् ||१६|| गुरोर्दृष्ट्वा माहाक्रोधं कर्णचिच्छेदसिक्षतः | ततः श्रमाभार्गवस्य प्राप्ता श्रीविश्रवा मुनि ||१७|| मम भ्राता कथंतेन कर्णं चिच्छेद कुर्वति | दृष्ट्वाचेन्भ्रातरा नार्या कर्णं छेदति गोत्सवे ||१८|| महाक्रोधैर्गुरुदंष्ट्रा दुष्टत्वं भार्गवो मुनि | मम भ्राता कथं तेन कर्णं चिच्छेद कुर्वति || क्षणे भस्म महंसक्नु सापं ते ब्रह्मकण्टक ||१९|| ब्रह्मपुत्रवच श्रुत्वा छेदो मात्र नयातितः | कारणं यच्छृणु प्राण गोरक्षो कर्णछेदकः ||२०|| तदा गोरक्ष श्रीमान्वै गतत्यक्ता च भार्गवः | गोरक्षोपि च तत्स्थाने गुरुणा कर्णछेदकाः ||२१|| न ब्रह्मधर्ममहं कुर्वं गोरक्षधर्मं भजे | गुरुणादि यतां भेषं कर्णभङ्गं शिखाछिनत् ||२२|| इति भ्रातरवाक्यानि श्रुत्वा गच्छति विश्रवाः | वृत्तान्त कृतया मास परमेष्ठि गता पुरे ||२३|| जलंधरो मत्स्येन्द्रादि दत्तात्रेयादि गोरक्षः | सिक्षयामासशास्त्राणि गोरक्षधर्म परं शिव ||२४|| त्रयो शिष्य महाभाग गोरक्षस्य वरानने | २अ) कर्णभंगं स्वयं कृत्य गंधर्व असिकं कणैः ||२५|| नादं वाद्य कलादण्ड पद्मरागैः सुशोभनैः | परंब्रह्म स्वयं विद्यामापास्तोतुं प्रचक्रमे ||२६|| प्रकारेण स्वयं धर्म प्रकाशान्त्यं वरानने | गोरक्षस्य पथोत्पत्ति भारते पठ्यते सदा ||२७|| देवो वा मानुषो वापि यक्षदानव किन्नराः | नित्यं पठति यो धीमान् चिंतामणि भवेत् प्रिय ||२८|| इति श्रीकल्पद्रुमविवेकिन्यां योगाभ्यासे हरगौरिसंवादे श्रीगोरक्षोत्पत्ति धर्मपरिमाणो नाम गोरक्षगुटिकायां प्रथमस्तरङ्गः || श्रीगणेशाय नमः || श्रीमहादेव उवाच || शृणु प्रिये गोरक्षस्य पंचाङ्गादिषु मे कृता | भवान् भक्त्या प्रसादेन श्रावयामि निशामय ||१|| प्रथमं द्वादशा स्वानिगोरक्षा धीनता गुरोः | प्रसादं मङ्गला मात्रामेकचित्तं वरानने ||२||
SK
ॐ अस्य श्रीगोरक्षनाथ द्वादशनामस्तोत्रमंत्रस्य श्रीमहाकाल ऋषिरनुष्टुप्छंदः श्रीगोरक्षनाथ देवता श्रीबीजं छत्र हस्ताशक्ति कुर्मकल्लोलकीलकं मनेप्सितकामना सिध्यर्थे द्वादशनाम जपे विनियोगः || प्रथमं गोरक्षं नाम द्वितीयं ब्रह्मनन्दन | तृतीयं गुरुरूपं च चतुर्थं नादहस्तकम् ||३|| पंचमं नादपादं च वेदरूपं च षष्ठकम् | सप्तमं भैरवं रूपं रुद्ररूपं तथाष्टमम् ||४|| नवमं सिद्धिरूपा च दशमं छत्रधारणः | सुन्दरी सेवकं चैव एकादश वरानने ||५|| द्वादशं पादुका रूपं * * व्याख्यानि मे ततः | पठति प्राणधारी च सर्वसिद्धिर्भवेत्किल ||६|| २ब्) गोरक्षंते प्रसन्नोस्तु वाञ्छासिद्धिर्भवंति हि ||७|| इति श्रीकल्पद्रुमविवेकिन्यां योगाभ्यासे हरगौरीसम्वादे श्रीगोरक्षद्वादशनामस्तोत्रं गोरक्षगुटिकायां द्वितीयपटलः ||२|| श्रीगोरक्षाय नमः || श्रीपार्वत्युवाच || भो नाथ देवदेवत्वं सर्वज्ञोसि दयानिधे | कथं गोरक्षनाथस्य कवचं मंत्रविग्रहम् ||१|| श्रोतुमिच्छामि लोकेश आज्ञां कुरु महामते || श्रीमहादेव उवाच || धन्यत्वं पुण्यशीलेत्वं श्रानयामि वरानने ||२|| गोरक्षस्य महामंत्रं कवचं मे प्रकाशिता | शृणु प्रिये शैलकन्ये वदामि किल सांप्रतम् ||३|| अस्य श्रीगुरुगोरक्षनाथ महाकवच स्तोत्रमंत्रस्य श्रीमहाकाल ऋषिः पंक्तिच्छंदः श्रीगोरक्षनाथ देवता ह्रीः बीजं श्रीः शक्ति छत्र धराकीलकं मम सर्वदेहवज्र कृत्यर्थे महाकवचस्तोत्र जपे पाठे विनियोगः || ग्नाṁ अंगुष्ठाभ्यां नमः | ग्नीः तर्जनिभ्यां नमः | ग्नूṁ मध्यमाभ्यां नमः | ग्नैṁ अनामिकाभ्यां नमः | ग्नौṁ कनिष्ठिकाभ्यां नमः | ग्नः करतलकरपृष्ठाभ्यां नमः | एषं क्रमेण हृदयादि न्यासः || ध्यानम् || वन्दे गोरक्षनाथ सांकृति मुखा ब्रह्मसुतावार्द्धकाः लोकादेवगुरो सुरेन्द्रयजटा ब्रह्मेन्द्र योगेश्वराः || मार्गापादनरेन्द्रनाद सहितामूर्ती त्रिपुंड्राधराः भूतप्रेत उरङ्गमापशुपते मंत्राधिपा श्रीगुरुम् || इति ध्यानम् || ३अ)
SK
मूलमंत्रः || ॐ ग्नूṁ ॐ गोरक्षनाथ स्वाहा इति मूलं || यथाशक्तिमूलं जपित्वा कवचं कुर्यात् || गोरक्षं च शिरो रक्षेन्यातुमां गुरु मूर्तिना | भालं ललाटे नाथेन पातुत्वां रक्षशंकर ||४|| नेत्रे द्वंद्वे चंद्र नेत्रै रक्षं तु विघ्ननाशका | प्राणं रक्षेत् घोटकेन गोरक्षेण सदावतु ||५|| मुखं रक्षेन् मंत्रनाथं जिह्वां रक्षेत् सदा गुरु | कर्णं रक्षेन् महाकाल श्रोत्रं गोरक्षमूर्तिना ||६|| मौन्वं? रक्षेद् भीमचण्ड गोरक्षेण सदाधिपः | बालरक्षेद्रक्तमूर्ति शिखागोरक्षमूर्तिना ||७|| कुण्डलं पातु चण्डं च कुण्डले * रक्षः | दग्नं? रक्षेव व्याघ्रपाद गोरक्षमूर्ति महेश्वरः ||८|| वक्षं पातु उग्रचण्ड सदारक्षं तु गोरक्षः | ग्रीवां रक्षेत् कंकरूपं सर्वं गोरक्षमूर्तिना ||९|| स्तनौ पातु चंद्रबिंवस्तुं उस्नाद्गोरक्षेण च | बाहुपातु विरूपाक्ष ब्रह्मपुत्रं च गोरक्षः ||१०|| पर्णं रक्षेत् पुण्य वंचमंत्रराजं च गोरक्षः | सर्वांगुलिं बहिराजा तेजोरूपं च गोरक्षः ||११|| नखं पातु नमो देवतान्य देवं च गोरक्षः | नाभौ रक्षेत् महाभीम कुंडीरूपं च गोरक्षः ||१२|| उदरं अन्नकूटं च अन्नरूपं च गोरक्षः | कटिं पातु महादेव योगमूर्तिं च गोरक्षः ||१३|| लिंगं रक्षेत् कामदेव कामरूपं च गोरक्षः | अलकं रक्षते सैव मत्तोन्मत्तं च गोरक्षः ||१४|| अण्डं रक्षेद्रलरूप गोलकं गोरक्षस्तथा | ऊरूं रक्षेद् गदा रूपमहं गोरक्षरूपिता ||१५|| उलकं पातु सुखदा उखलेश्वर गोरक्षः | धीरक्षेन्तालमूर्तिं पद्मतालं च गोरक्षः ||१६|| ३ब्) पादं रक्षेत् पुण्ड्रकस्य हनुरूपं च गोरक्षः | पादाङ्गुली श्रीधरं च विश्वरूपं च गोरक्षः ||१७|| चर्मं रक्षेच्चन्द्रमूर्ति तेजो मूर्ति गुरुस्तथा | मज्जारक्तमयं पातु त्वकाक्षरं साल्वमूर्तिना ||१८|| अस्थिरक्षेदर्णवानां सान्द्रमूर्ति महेश्वरः | अतिरक्षेन्महाकाल भैरवत्व च गोरक्षः ||१९|| सर्वाङ्गबालकं पातु मुक्तचन्द्रेश्वर प्रिये | भार्यां रक्षेद्विष्णुरूप वन्दे गोरक्षसाम्भवः ||२०||
SK
पुत्रं रक्षेद्ब्रह्मपुत्र पुलोमानन्द गोरक्षः | मातृपितृ सदारक्षेद्धीमता गोरक्ष स्वयम् ||२१|| मार्गं रक्षेच्छत्र धरा सुन्दरी सेवक स्वयम् | राजद्वारे गुरु साक्षाद्रक्षेद्वा च स्वरूपिता ||२२|| सर्वाङ्गं सर्वकार्येषु रक्षां कुर्वंतु गोरक्षः | इति कवच व्याख्यातं गोरक्षस्य वरानने ||२३|| कवचस्य फलं ह्यस्मिं शृणु लोकेश्वरी प्रिये | ब्रह्मक्षत्रिय विट्वंशा त्रयोजातामुपासिता ||२४|| योगीभेषं वा स्वरूपं त्रिकाले कवचं कृता | भुर्जपत्रे लिखेद् यंत्रं बाहौ वा धारयिष्यति ||२५|| तस्य देहं भवेद्वज्र वृत्रहा वज्र न स्थिराः | असिकंकणनोदधान्तः ऋक्षव्याघ्रादितो भयात् ||२६|| वज्रदेह भवेत् तस्य सत्यं सत्यं न संशयः | संसारे लोकवासं यद्योनरामरकिन्नराः ||२७|| त्रिकाले पठते नित्यं गोरक्ष कवचं यथा | सर्वान् भय विनाशेषु वज्रदेह समो भवेत् ||२८|| न शस्त्र भय तेषां वै न काल भयवै भवेत् | गोरक्षस्य प्रसादेन वांछासिद्धि भवेत् किल ||२९|| ४अ) मने कृता गोरक्षस्य कवचं यद्वरानने | पुनर्गोरक्षनाथस्य किं भूयः श्रोतुमिच्छसि ||३०|| इति श्रीकल्पद्रुमविवेकिन्या योगाभ्यासे हरगौरीसंवादे गोरक्षनाथ कवचं नाम श्रीगोरक्षगुटिकायां तृतीयपटलः ||३|| श्रीगोरक्षनाथाय नमः || श्रीपार्वत्युवाच || भो देवभोजगं नाथ गोरक्षहृदयं कथम् | कथं मंत्र कथं यंत्र किं किं भाव वदामि ते ||१|| श्रोतुमिच्छामि सत्यं तं विस्तराद्वदशंकर | गोरक्षस्यपिमानाय मम तुल्य कथं भवेत् ||२|| श्री ईश्वर उवाच || शृणु प्रिये शैलजात्वं प्रवक्षामि समाहित | गोरक्षस्य हृदयं यंत्रान् नानाविधानकम् ||३|| गुह्यमत्यन्त मे प्राण सप्तो यं धारणाम्यहम् | तव भक्त्या प्रसादेन शृणु ते मम वाक्यत ||४|| पुरा ब्रह्मत्युतः येषां विश्रवेण यथोचितः | नाममादिकं वालगोरक्षोयं महात्मनः ||५|| पश्चाद् भार्गवगुरुणा कर्णचिच्छेदभग्नतः | दुःखी भूत्वा इमां बाल ब्राह्मणानां च गोधनम् ||६||
SK
रक्षां चकार विधिवद् योगेन्द्रस्य द्विजेश्वरः | कालमेकं दैवयोगाद् गोगणै सहिता वने ||७|| सर्वत्तुल्यं च गरलं भक्षयं तु विधे सुत | गरले पीडिता तेषां मृत्युकालवसं गतः ||८|| सर्वे गवा दृश्यमान आवलिपरितः स्थितान् | चक्रुरोदन सर्वे गौ हाहाकारागवेगणा ||९|| ब्रह्मपुत्रशवा दृष्ट्वा गवेषां रौदनं यथा | मे दृष्ट्वा तेन आकाशात् करुणांभुद् वरानने ||१०|| ४ब्) तेषांपि ब्रह्मणा पुत्र द्विजगोसेवकस्तथा | मृतदेहे अहं गत्वा अविसंकितनिश्चयः ||११|| उत्थितोहं मृतो देहा दृष्ट्वा गौगणहर्षिता | नामैषां विश्रवे तस्य कार्यं च गौगणेन च ||१२|| करुणा मे हृत्प्राप्य गवा सर्वे विलप्यताम् | योगेन्द्रस्य गृहे गत्वा गवां संतोषकारणम् ||१३|| गोरक्षस्य शरीरे मे प्रवेशं चैव पार्वति | न ज्ञाति इह संयोग नाना मायां कृता महम् ||१४|| उन्मत्त भावमापन्न योगेन्द्रेण दृष्ट्वा मम | यथेष्टं गच्छभगव उन्मादं भावबालकः ||१५|| किंकरोमि भोगहता गच्छ बाल पथा सुखम् | इति श्रुत्वा मया गौरी निश्चया मासते गृहात् ||१६|| दशांशमेकमंशं मे दत्वा ते ब्रह्मणं सुतात् | मम तुल्य भवेद् गौरी कारणं यन्महेश्वरी ||१७|| पश्चान् मे ने कृता येषां द्वादशाख्याङ्ग हि सुतान् | कवचं च यथा कुर्वन् यत्तंद्धृदयकं शृणु ||१८|| ॐ अस्य श्रीगोरक्षनाथस्य हृदयस्तोत्र नानामादि मंत्रस्य श्रीभैरव ऋषिः पंक्ति छंदः श्रीगोरक्षनाथ देवता ऐṁ बीजं क्लीṁ शक्ति छत्रधरा कीलकं चतुर्विध पुरुषार्थ सिध्यर्थे हृदय जपे विनियोगः || ॐ ऐṁ ग्म्ल्व्र्यीṁ अंगुष्ठाभ्यां नमः || क्लीṁ गोरक्ष ग्लूṁ ष्ल्मीṁ? तर्जनीभ्यां नमः || ॐ छत्रधरा श्रीṁ गोरक्ष गुरु *? मध्यमाभ्यां नमः || ॐ व्रṁ विधिनन्दना ध्रीṁ स्क्ल्हीṁ अनामिकाभ्यां नमः || ॐ अन्यधर्मशालिने ह्रṁ राजेश्वराय रक्ष २ थ्प्र्ज्रीṁ? कनिष्ठिकाभ्यां नमः || ॐ ऐṁ श्रीṁ ह्रीṁ गोरक्षनाथ मां रक्ष २ करतल कर पृष्ठाभ्यां नमः | ५अ) एवं हृदयादि || अथ आदिध्यानम् ||
SK
योनिन्द्रैः हर असंभाल तिलकैः योगेन्द्र मूर्ति स्वयं एकाक्षिं त्रिपुरा महेश कुलकांछत्रं धरंती सदा | गोरक्षं विधिनन्दनंजति बला ब्रह्मत्यवेदैर्युतां सिद्धित्वं परमेश्वरं गुरुमहात्रैलोक्य रक्षां कुरु ||१९|| अथ मूलं || ॐ ह्रिṁ ह्रिṁ ह्रिṁ ह्रिṁ ह्रिṁ गोरक्षनाथ सर्वदुष्टानां वाचं मुखं स्तम्भय २ मां रक्ष २ सिद्धिं देहि २ एक नेत्रे स्वाहा || इति गोरक्षमूल || प्रणवं पंचमाया च देवनामसमुच्चरेत् | सर्वदुष्टादि वाचाभ्यां स्तंभं नाशय २ ||२०|| आत्माकं रक्षशब्द द्वं सिद्धिं च वह्नि जायया | सप्तविंशन् महामंत्रं मंत्रवर्णाननेकस ||२१|| द्विचत्वारिंशतिं वर्गान् गोरक्षेश्वर पार्वति | श्रीयंत्रवसिनी सिद्धा गुरुमूर्ति नमाम्यहम् ||२२|| बीजलक्षप्रमाणेन नवलक्षप्रमाणतः | निशायां पश्चिमे यामे जपित्वा मृग आसने ||२३|| रुद्राक्षमालासंयुक्तां पुरश्चरणपूर्वकम् | साधनं गुरुदेवाय त्रैलोक्य रक्षणाय च ||२४|| दुष्टशत्रुविनाशाय मंत्रसिद्धि कृताय च | ब्रह्मचर्य विधानेन गोरक्षसाधनं कृता ||२५|| हविष्यान्नं च भुञ्जीयाद्धस्तकार्यं समाचरेत् | सप्तत्रिंसल्लक्षजपं निशिंकालेषु उत्तम ||२६|| मण्डपं कारया मास कदलीस्तंभसंयुता | यज्ञसाला प्रकुर्वन्ति जुहुयात् तिलरायिका ||२७|| घृतसंयोगभुंजानं घृतहोमं च कारयेत् | ५ब्) जपस्य साधकान् सर्वे दशांशं जुहुयात् किल ||२८|| तद्दशांशं तर्पयिष्येत् तद्दशांशैव मार्जयेत् | तद्दशांशैर्ब्रह्मकन्या पूजयेद् द्विज भोजनम् ||२९|| हेमस्य स्थण्डिलं कृत्वा यंत्रं गोरक्ष धीमता | लिखेत् पंचोपचारेण पूजयेद् गुरुदेवताम् ||३०|| त्रिकोणं पंचवृत्तानि दलषोडशसंयुताम् | पुनर्वृत्तचतुष्कोण माया बीजेन वेष्टयेत् ||३१|| द्वारं चतुष्टयं कृत्वा पादुका द्वारदेशतः | इति गोरक्षयंत्राणि साधकेन सदार्चयेत् ||३२|| सुबुधैः सदीजा सर्वे पूजयेद् गुरुदेवताम् | सिद्धिं गोरक्ष मंत्रेण वांच्छसिद्धिर्भवेत् किल ||३३||
SK
मध्ये एकादशे रुद्रे इमां रुद्रवरानने | एकं भवति गोरक्ष स्मरेत् सर्वौघनाशनम् ||३४|| कर्मणामनावाचा यत्किंचित् कृतसाधनम् | विलीनं सर्वपापानां जडमूलो भविष्यति ||३५|| षड्कर्मसंयुतां मंत्रं डंकिनीं ध्वंशकारका | नाना भय विनाशानां परचक्र विघाटकान् ||३६|| मारणं मोहनं चैव वशीकरणस्तंभनम् | उच्चाटनं क्रमेणैव समाधान भविष्यति ||३७|| सप्तत्रिंशज्जपेन्मंत्रं होमतर्पण भोजनम् | मार्जनं सर्वकार्याणि मंत्रसिद्धि भवेत् प्रिये ||३८|| कृत्वा पश्चाद्यंत्रराज कार्या भावेषु पूजनम् | मण्डपं कारयामास सर्वकार्येषु तत्परः ||३९|| पुरश्चरण कालेषु सून्यारण्ये जपेत् सदा | सिद्धिं प्राप्यं तु पश्चात् त्वां यंत्रेषु पूजनं सदा ||४०|| बलिदानं प्रभात्काले रात्रि काले पृथक् पृथक् | ६अ) पंचोपचारैः तां पूजां सर्वकार्येषु साधकाः ||४१|| कार्यभावी बलिं दद्याज्जुहुयादग्नि सांनिधिम् | तंत्रे मते शैलपुत्रि अग्निस्थापन पूर्वकम् ||४२|| सर्वकार्येषु गोरक्ष पूजानां तु विधानत | विस्तराच्छृणु भो गौरी सर्वमेव वदामिते ||४३|| आदौ सिद्धि कृता कार्ये अजापुत्र बलिं ददेत् | अष्टसिद्धिर्भवेत् सर्वे साधकैः किल प्राप्नुयात् ||४४|| शत्रूणां मारणं कार्ये कोलजंतु बलिं ददेत् | त्रिरात्रे मरणं तेषां शत्रुवर्गा वरानने ||४५|| विद्याकारण कार्येषु मेषरूपं बलिं ददेत् | मोहने हंसमौद्गल्यां कलिंगै शृंगसर्वता ||४६|| वशीकारणकामेषु मत्स्यरूपं बलिं ददेत् | उच्चाटने च उन्मादे महिषं नरघातिते ||४७|| काम्ये कार्ये स्वस्थ स्वस्थे वेदमार्गेण पूजितान् | पायसैर्मधुरालापैः पूगीतांबूलसंयुतैः ||४८|| गोरक्षो गुरुदेवस्तु स साक्षाद्रुद्र रूपिता | यति क्रीडं देवस्य ब्रह्मपुत्र नमोस्तुते ||४९|| ब्रह्मपुत्राय विद्महे गोरक्षाय धीमहि | वायुमार्ग प्रचोदयात् | इति गायत्री || इति पुरश्चरणक्रमः || पुनरन्यत् प्रवक्षामि मालामंत्रादि शंकरि | जपेच्छ्री गुरुदेवस्य मालामंत्र वरानने ||५०||
SK
मम तुल्य भवत्येव सांप्रतं लोक पूजितम् | महाश्रेष्ठं सुरेन्द्रादि मध्ये भारत खण्डत ||५१|| अथ माला न्यासः || क्म्ल्व्र्यṁ कṁ षṁ क्षṁ अंगुष्ठाभ्यां नमः | व्य्माṁ? तर्जनीभ्यां नमः || प्ल्र्व्यूṁ? मध्यमाभ्यां नमः || प्म्ल्व्र्व्प्रीṁ? कनिकाभ्यां नमः || क्व्षर्र्य्रीṁ? करतल करपृष्ठाभ्यां नमः | ६ब्) एवं क्रमेण हृदयादि न्यासः | अथ ध्यानम् || त्रैलोक्ये गुरुमूर्तिना जनमना ब्रह्मसुतां श्रीमुखां रुद्रांशां भय नाशकां युगभुजां योगेश्वरी सेवकाः || तं वंदे गुरुरक्ष गोरक्ष पदे ज्वाला महानर्तकां श्रीचक्रेषु विराजिता गुरुकुले गोरक्षनाथं भजे ||५२|| अथ त्रिकाल ध्यानम् || आदौ सात्विकी || वंदे गोरक्षनाथं प्रथित गुणमये योगसंयोग मूर्ते ब्रह्माण्डे योगलभ्यं पदमिह लभते श्रीगुरोधौम्य देवाः || जालंधर्यादि सिद्धान् सुरपति सुखदां योगि योगेन्द्र रूपां उन्मत्तां त्वां उदासीं जय जय गुरुते वंदितादेसमूर्तिः ||५३|| इति सात्विकी || लोकेलोकानुलूके नरगणेगीतसंवाद्यरूपेरर्चे नानाविचारैः पदमिह लभते जुहुयात् होमघाटे || भोज्यैर्मांसादि क्षिप्तं विजय जयते भक्तराज्ञाश्रमांता कर्णंक्षिप्तांत इन्द्रिंसु फल स गुरुणावंदितां नित्यराजम् ||५४|| इति राजसी || महाम्भोजतुल्यां माहारोसरूपां जटाजूटशुभ्रांकरालाक्षिदिप्ताम् || कृतां मद्यपानां महोन्मत्तरूपां जगद्रावयत्तां महारुद्ररूपाम् ||५५|| इति तामसि ध्यानम् || अथ मालामंत्रप्रारंभः || श्रीगुरवे नमः || ॐ गुरुगोरक्षनाथ हूṁ समसमश्रीṁ शिव अंशयुतं ह्रीṁ प्रमयप्रथप्रसाधकं रक्ष २ उṁ ध्रूṁ ध्रीṁ वर्द्धय २ मानिनी गोरक्षनाथ ह्रṁ चक्रमूर्ते सुंदरी सेवकायल्लीṁ ल्ल्ṁ ल्लीṁ ॐ गुरुदेवदेव हा हा हा मम सर्वशत्रूणां वाचां मुखं स्तंभय स्तंभय जीवं मारय मारय ७अ)
SK
सकलसुरासुरनरयक्षगंधर्वकिन्नरसकलराक्षभूतप्रेतपिशाच ब्रह्मराक्षसकुष्माण्डादि डाकिनी शाकिनी हाकिनी नानादुष्टानां दोषं नाशय नाशय भयं हरय हरय कीलय कीलय मां सदारक्ष भो गुरुगोरक्षनाथ भवमारिजचरने स्त्रीṁ नमामि || इति मालामंत्रः || एतन्मालासदाजाप्यं अष्टसिद्धि समो भवेत् | सत्यं सत्यं भवेद् भावे श्रद्धायुक्ते वरानने || अथ वृहद्ध्यानम् || योगीन्द्रै शशि अर्क तुल्य वदनैः शाक्ता सदासात्विकी सामुद्री शरिरात्मकैः युगभुजायामातपत्रं धरा || चक्रं पात्रत्रिशूलमस्त्रसुभिता तेजाग्नि तुल्य प्रभा ऊर्णानां उपवीत रुद्रग्रथिता वंदे गुरोः पादुकौ || अथ मध्यमध्यानम् || सत्यान्मा विदुरामुखाः पशुपति रुद्रांशमेकैः युताब्रह्मानन्दनराजसीहरमुखा भूमे नृपं चिह्निता || कर्णे रक्ष तु भग्न कुण्डलमति रत्नादि भुषोज्वलाः व्याप्ता मुण्डि स्मशान भस्म धरिता रुद्राक्षमाला युता | अंत्य ध्यानम् || आदौ भैरव लोकनाथ वदना सा युज्यमुक्ति प्रदासिंहाद्याक्रतु नायका सुरमुखाभव्यां कराली मुखा || देवी सेवकतामसात्त गुरवे ज्ञानार्थ लोके स्वराः नित्यं भक्तजनार्त दुःख हरतां वंदे गवेरक्षकाम् || एतत् हृदयव्याख्यातं नित्यं पठति धीमता | वांछार्थसिद्धिमाप्नोति लभते परमं पदम् || गोरक्षनाथ हृदयं कथिता यद्वरानने | मेनेत्वं भक्ति भावेन गोरक्षसंहिता मया || ७ब्) पुनः शृणु शैलपुत्रि पूजाव्याख्यान पार्वति | कीलकं तत्प्रवक्ष्यामि एकचित्तं कुरु प्रिये ||६१|| इति श्रीकल्पद्रुमविवेकिन्यां योगाभ्यासे हरगौरीसंवादे गोरक्ष गुटिकायां श्रीगोरक्षनाथ हृदयं नाम चतुर्थपटलः ||४|| श्रीगोरक्षाय नमः || श्रीमहादेव उवाच || गोरक्षस्य विधानेन चकार विधिपूर्वकम् | पूजाविधानं भो गौरी एतेसामग्निकं शृणु ||१|| गंगाजलं दधि क्षौद्रं सर्करामधुपायसम् | श्रीखण्डं मलयं भूतं रक्तचन्दनसिंदुराः ||२||
SK
चाक्षतं च तिलं चैव यवं च बिल्वपत्रकम् | नानसुगंधपुष्पाणि गुग्गुलं सिल्हकादिकाः ||३|| दीपं नानाविधानांनि नैवेद्यानि च पार्वति | फलं च नाना पक्वान्नैव लिंनानाविधानि च ||४|| होमद्रव्यं चकारा सुगोघृतादिषु पूरितम् | दिव्यवस्त्रसमानीय गैरिकादि कृता यथा ||५|| मंत्रैः पूजा च गुरवे च कारशुद्धद्यानसः | मंत्रं शृणु महेशानि प्रवक्ष्यामि मयाकिल ||६|| ॐ ह्रीṁ गोरक्षनाथाय गुरवे श्रीṁ सर्वसिद्धि मूर्तये गुरुगोरक्षनाथ हूṁ देशकाल प्रपूज्यन्ते मम सकलकुटुम्ब शिष्यादिकानां आयुरारोग्यसुखवृद्धिकामनार्थे यथाशास्त्रोक्त फलप्राप्ति कामयथाशक्ति पंचोपचारेण पूजयामि || इति संकल्पः || तत दिग्बन्धनम् || ॐ पूर्वे श्रीṁ गुरुगोरक्षनाथ ह्रṁ इन्द्रोदेवकाध्यायदिशं पूर्वरक्ष रक्ष स्वाहा || ८अ) ॐ आग्नये हṁ ॐ श्रीगुरुगोरक्षनाथ ह्रीṁ अग्नि देवताकाध्यायकोण आग्नेयं रक्ष रक्ष स्वाहा || ॐ यमो ह्रṁ श्रीगुरुगोरक्षनाथ पितृदेवताकाध्यायदिशि दक्षिणं रक्ष रक्ष स्वाहा || ॐ नि-ऋति ह्रṁ नै-ऋताय श्रीगोरक्षनाथ श्रीṁ कोणनै- oṃ prācyāṃ paścima hrīṁ varuṇa devatākādhyāya śrīgurugorakṣanāthadiśi paścimaṃ rakṣa rakṣa svāhā || oṃ vāyavya śrīgurugorakṣanāthavāyudevatākādhyāyakoṇaṃ vāyavyaṃ rakṣa rakṣa svāhā || oṃ uttare dhanādhipa hrīṁ śrīṁ gorakṣanātha hrīṁ kubera devatākādhyāya uttaradiśaṃ rakṣa rakṣa svāhā || oṃ īśāne hraṁ gorakṣanāthāya śrīṁ evaramūrtaye śrīṁ mahādevatākādhyāya koṇaṃ īśānaṃ rakṣa rakṣa svāhā || oṃ ākāśe ūrdhve śrīgorakṣanātha śrīṁ prakṛti māyākādhyāya hrīṁ ūrdhva bhāgaṃ rakṣa rakṣa svāhā || oṃ antarikṣe arini hrīṁ gorakṣanātha hriṁ śrīṁ klīṁ antarikṣabhāgaṃ rakṣa rakṣa svāhā || oṃ adhaḥ bhāge śrīgorakṣanātha krīpṛthvī devatākādhyāya gurugorakṣanātha māṃ pṛthvī bhāge rakṣa rakṣa svāhā || iti digbaṃdhanam || atha pūjākarmamaṃtraḥ ||
SK
आवाहनस्य मंत्रं च शृणु भो त्वं वरानने | आगछ ब्रह्मपुत्रत्वं रुद्र अंशसमन्वितः ||७|| स्थिरो भव महादेव यावत् पूजां करोमि ते | पश्चान्मूलेन दशधा शोधयेद् गुरुमंत्रतः ||८|| ततः न्यासं समाधाय ध्यानपुष्पसमर्चयेत् | ॐ एṁ ह्रीṁ श्रीṁ गुरुगोरक्ष हूṁ हूṁ फट् अंगुष्ठाभ्यां नमः || ८ब्) ॐ एṁ ह्रीṁ श्रीṁ ग्नौṁ गुरुगोरक्षतर्जनीभ्यां नमः || ॐ एṁ ह्रीṁ श्रीṁ रṁ गुरुगोरक्षमध्यमाभ्यां नमः | ॐ एṁ ह्रीṁ श्रीṁ क्षुṁ गुरुगोरक्ष अनामिकाभ्यां नमः || ॐ एṁ ह्रीṁ श्रीṁ लाṁ गुरुगोरक्षकनिष्ठिकाभ्यां नमः || ॐ एṁ ह्रीṁ श्रीṁ नṁ गुरुगोरक्षकरतलकरपृष्ठाभ्यां नमः || एवं क्रमेण हृदयादि || दण्डवत् प्रणमाम्यहं || गोरक्षगुरुनाथभार्गवमुखासन्यं पृयादात्मिका सर्वेशं शिव अंशयं | प्रतमुखाकर्णाध्या कुण्डलो ज्वलाम् || पत्मीमाम भयंजिता पशुपतिं श्रीसुन्दरी सेवकां वंदेहं गुरुपंकजं हर हरः पुष्पाणि गृह्यं कुरु || इति ध्यानपुष्पं || अथ स्नानम् || मन्दाकिन्यादि यमुनागंगायासरितोदकम् || ह्रिṁ श्रीṁ श्रीṁ गुरुगोरक्षं स्नानानि प्रतिगृह्यताम् || पयोदधि घृतं चैव शर्करामधुमिश्रितम् || अष्टसिद्धाय गुरवे अमृतं प्रतिगृह्यताम् || नानातीर्थोदकं सुद्धं निर्मलं पुष्पमिश्रितम् || स्नानार्थं गुरुदेवस्य स्नानं मे प्रतिगृह्यताम् | श्रीखण्डचन्दनैर्गंधैश्चन्दनादि मनोहरैः || लेपनं करणं रुद्र चन्दनं प्रतिगृह्यताम् | ऐṁ ह्रीṁ श्रीṁ गुरुगोरक्षसिंदूरं घृतसंयुतम् || संग्रामे जयमाप्नोति सिंदुरं प्रतिगृह्यताम् | रक्तचंदनकं दिव्यं गंधाढ्यं सुमनोहरम् || गुरुदेवप्रीत्यर्थं रक्तगंधं प्रगृह्यताम् | चाक्षतं कुण्डसंयुक्तं जवादितिलसंयुतम् || गृहाणगुरुगोरक्षं अक्षतं प्रतिगृह्यताम् | नानापुष्पादिकं दिव्यं गंधाद्यं सुमनोहरम् || ९अ) नानावर्णसमायुक्तं पुष्पादि प्रतिगृह्यताम् | बिल्वपत्रादिकैर्मालां ग्रथिता सुमनोहरां || गुरुदेवादि प्रीत्यर्थं मालादि प्रतिगृह्यताम् | ऊर्णसूत्रैः ग्रथितानि मूलमंत्रेण सोध्यतं ||
SK
रुद्रग्रंथिसमायुक्तं उपवीतं प्रतिगृह्यताम् | गैरिकादि मनोहर्य्ॐ वस्त्राकार्पाससंभवाम् || गुरुदेवाय प्रीत्यर्थं वसनं प्रतिगृह्यताम् | नादं आदेशतां शब्दं वाद्यं? घोषे?नसंयुताम् || गतदन्त भवं काष्ठं नादं यत्प्रतिगृह्यताम् | धूपं नानासुगंधादि सुगंधगुगुलादिकम् || सिल्हकं हरणं पापं धूपोयं प्रतिगृह्यताम् | दीपं नानाविधं तेज कार्पासघृतसंयुतम् || ध्वान्तं निवारणार्थायं दीपोयं प्रतिगृह्यताम् | बीजपूरादिकं सुद्धं रंभाकदलिसंयुतम् || धत्तुरपनसाम्नादि फलानि प्रतिगृह्यताम् | नानाभक्ष्यादि वस्तूनि मिष्ठान्नादि समन्वितम् || आत्मानं प्रीणनार्थाय नैवेद्यं प्रतिगृह्यताम् | कुरु ग्रहणसर्वाणि अर्पितानि मया प्रभो || गुरुत्वं सर्वदेवानां तर्पयामि सुरारसम् | यासुरा सा उमा देवि या सुरा ब्रह्म ईश्वरा || या मद्य स स्वयं विष्णुः सर्वदेवाः सुरासुराः | त्रिद्रव्य सर्व अन्नानां वृक्षादीनां सम्भवम् || तर्पयामि महादेव गुरुगोरक्ष धीमता | ॐ आदित्य देवताचार्यो गुरुगोरक्षनाथ ऐṁ ह्रीṁ श्रीṁ मेघवर्णभैरवनाथपादुकां पूजयामि नमः || ब्रह्माण्डैर्मत्स्यसंयुक्तां मेघं त्रिरंगसंयुताम् || ९ब्) सुराधाराचाक्षतेन मांसेन तर्पयिष्यताम् || मत्स्यं मांसं च मुद्रां च मधुमद्यं च संयुताम् | मकारः पंचसुक्तं गोरक्षं पूजयाम्यहम् || ॐ ऐṁ ह्रीṁ श्रीṁ गोरक्षनाथ असिताङ्ग भैरवनाथ पादुकां पूजयामि तर्पयामि नमः || ॐ ऐṁ ह्रीṁ श्रीṁ गोरक्षनाथ रुद्रभैरवनाथपादुकां पूजयामि तर्पयामि नमः || ॐ ऐṁ ह्रीṁ श्रीṁ गोरक्षनाथ चन्द्रभैरवनाथपादुकां पूजयामि तर्पयामि नमः || ॐ ऐṁ ह्रीṁ श्रीṁ गोरक्षनाथ क्रोधभैरवनाथ पादुकां पूजयामि तर्पयामि नमः || ॐ ऐṁ ह्रीṁ श्रीṁ गोरक्षनाथ उन्मत्त भैरवनाथपादुकां पूजयामि तर्पयामि नमः || ॐ ऐṁ ह्रीṁ श्रीṁ गोरक्षनाथकपाली भैरवनाथ पादुकां पूजयामि तर्पयामि नमः || ॐ ऐṁ ह्रीṁ श्रीṁ गोरक्षनाथभीषणभैरवनाथपादुकां पूजयामि तर्पयामि तर्पयामि नमः ||
SK
ॐ ऐṁ ह्रीṁ श्रीṁ गोरक्षनाथसंहारभैरवनाथपादुकां पूजयामि तर्पयामि नमः || ॐ श्रीṁ गुरुगोरक्षनाथ प्रलोमानन्दनाथपादुकां पूजयामि तर्पयामि नमः || इति तर्पणमंत्राणि साक्षाद्योगेश्वरी सदा || भृत्यञ्श्रीगुरुगोरक्षनमामि सुन्दरी प्रिय | ततो नीराजनैः सार्द्धं मंत्रमेषमुदीरयेत् || कर्पूरचंद्रकोटीनां सुन्दरं तेजरूपिणम् | कर्पूरदीपं गृहाण गुरुनाथ नमोस्तुते || यथाशक्ति जपं कुर्यात् कीलकं कर्म कुर्वता | गोरक्षकीलकं येषां शृणुत्वं भो वरानने || घोगेश्वराय देवाय कुलशुद्धाम्बराय च | योगेश्वराय योगाय योगीनां पतये नमः || १०अ) धर्मेश्वराय धर्माय साधूनां पतये नमः | धीराय बुद्धि रूपाय कुलेशाय नमो नमः || सर्वमेतन्मनामस्तु मंत्राणामपि कीलितम् | सोपिक्षेममवाप्नोति गोरक्षं तन्न संशयः || जलंधरो महासिद्धा मंत्रजाप्ये मनोजय | अस्या स्वरूपो भगवान् गोपीचंद्रो महानृप || चंद्रसेन सुतो धीमान् मात्यकणकांभिध | गुरु कृत्यर्थ श्रीयोगी जलंधर सुरेश्वरी || विश्वकेतो महाक्षेत्रे नैमिषारण्यवासिनः | गोरक्षमंत्रं प्रजपेन्नित्यं सकासाद्गुरुवाक्यतः || द्वादशं छंतु निःसंकं मेषाणामपि कीलितम् | भिक्षूकरूपब्रह्माण्डे देहि भिक्षा गृहे गृहे || चचारसर्वयोगेशि भिक्षाणामपि कीलितम् | गोपीचंद्र नरश्रेष्ठ अमात्य सहितं गता || स गृहे प्रविशन्तस्मिन्मनितं पंचविंशति | स्त्रीणां च षट्शतानीकं गोपीचंद्र नृपस्य च || जानीत्वां योगमधाता? जलंधर गमिष्यति | गोपी चंद्र पुरे रात्रौ आगमिष्यति गोपुरे || शब्दं चकारनादेन वेगं गत्वा नृपध्वज | गुरुं प्रदक्षिणं कृत्वा दण्डवत् पतितो भुवि || गोरक्षरूपो भगवाञ्जालंधर नमोस्तुते | अमात्यपुत्रकणकन आगत्यगुरोः पुरे || शापं चकारकोपेन कणकाभिधदुःखिता | लज्जितो भ्रांत हृदयो लोम संतापमंदधी || प्रेतान्न भुंजि श्रेष्ठत्व भविष्यति स भूतले | इति शापं चकारा शुगोपीचंद्रस्य आगमत् || १०ब्)
SK
प्राप्ता तपोवने घोरं सिंहव्याघ्रादि संयुते | गोरक्षनाथमंत्रं तु कीलितमपि कीलितम् || विवाहादिषु दानादि पुनः कृत्वा जलंधरैः | गोपी चन्द्राय नृपते योगेन च वलेन च || गुरुणादीक्षितापलिंप्राप्नुयंति नरेस्वर | काले पुत्रवती नारी पुत्रं त्यक्ता दिवंगता || योगीशिष्य नृपश्रेष्ठ मातृहीने सुबालके | प्राप्यं महत्तरं दुःखं षट्वर्षैः योषिता स्वयम् || षट्वर्षप्राप्य काले तु गुरवेणैव कथ्यत | भो भो शिष्य नृपश्रेष्ठ घातघात इमे शिशु || न लंघयित्वा वाक्यं यद्गुरु आशां करोति चेत् | खड्गेन घातितं पुत्रं गुरु आज्ञा च मानिता || तज्जलंधरकैर्दृष्ट्वा हर्षयामा स पार्वति | पुनः सिद्धेन वाक्येन बोधयामा स शिष्यतम् || भो शिष्य भो नृपश्रेष्ठ तव मायाक्वतगता | स्वपुत्रमात् हीनस्य क्षणमात्रेषु पातित || इति गुरुर्वच श्रुत्वा गोपीचंद्रमथो ब्रवीत् | नमोहमाया न बलं च बुद्धिं गुरो सकासात्तम किं न चास्ति || गुरुर्वलं भिन्न न चास्तिमह्यं क्षमस्व सर्वे गुरुभार्गवेण भवान् कृताज्ञा मम पूर्वकाले स्त्रीपतिराज्य मम त्यज्यतास्मि || भोगादि सर्वं ममत्यज्यतोस्मि भवान्महापंकजपादकारणात् || पुनप्प्यर्हपाणि ग्रहादि कार्य भवान् महाज्ञा मम धारितोस्मि || गुरोरनुज्ञा मममान्यतोस्मि विलाससीला मम कर्मतोस्मि || ११अ) भवेत् पुत्रमेकं महामोहजालेनष्टे च मातृन च पोषणं च | शिशोमेन च यस्मिन् सुतपाल्यतोस्मि गुरोरनुज्ञा इह घातितोस्मि || किमत्र चित्रं गुरुनाथभार्गव आज्ञां कुरु स्वार्थ परो विचिंत्य | श्रुत्वा इमं शिष्य वचो वरानने महान्महानन्द भवेत् तदन्तरे || पुनर्जलंधरो वाक्यं वक्षयामाससिक्षतम् | शृणुशिष्य वचो मह्यं धन्यत्वं बुद्धिमान्नरः || स्वार्थमाया च सर्वेषां परमार्थ विचिंत्य च | पुन शृणु महाशिष्य पाकं कुरुशिशुर्यथा || मांसानि खण्डखण्डं च कुरुयत्नं महामते | इति गुरोर्वच श्रुत्वा पुत्रमांसं च पाक कृत् ||
SK
कृत्वा च गुरु देवाय अर्पयामास पार्वति | दृष्ट्वा चेद्गुरु सिद्धेन गोपीचंद्राय वाक्यतः || भुंक्ष्व शिष्य महाभाग अर्धमासं च भुज्य च | दत्वा च निर्दया रूपात् जलंधर हरीश्वरः || यस्मिन् गुरोर्वच श्रुत्वा महासंकष्ट प्राप्नुता | गोपीचंद्र नरश्रेष्ट अनुकूलं विधाष्पति || पुत्रामीषं कथं भक्ष कथं लंघ्य गुरुर्वच | चिंतयामासमनसि नरश्रेष्ठो कुलेश्वर || सिद्धेन दृष्ट्वाज्ञाकाशं वचो न च बोधयत् | गोपीचंद्रसुतामांसं ग्रासमेकं स्वयं भुजेत् || एकं कीलं च आकाशाद्गोरक्षमंत्रेण कीलितम् | ततो न भक्षेत् शिष्येण पुनर्ग्रासानि भुंजित || द्रुतं यत्कीलकं मंत्रं आकाशाद् गोरक्षस्य च | गत दृष्टा च आकाशाद् गुरुणा यंत्र कीलितम् || ११ब्) मनोजवं मनोघोषमेकयोजन उर्धवः | जलंधरा श्रम? दृष्टामेकग्रासं स्वयं भुजेत् || अर्धयोजन आकाशाद् गोपी चंद्रेण कीलयत् | द्वितीय खण्डमांसं च पुनराग्रहमात्र च || भस्म भवतरसा वायुना हरति क्षणात् | मंत्रं कीलित गोरक्ष महासिद्धेश्वर प्रियः || एतत्कीलक माहात्म्य मयाकुर्वन् महेश्वरि | चंद्रसूर्योपरागेषु जलेषसतिजाप्यत || चत्वारिंशति श्लोकानि जले स्थित्वा च पाठयत् | स्पर्शे तु मोक्षकालेषु कटिमा वृतते गता || गोरक्षमंत्राणि सर्वेषां कीलं भवति निश्चितः | स्तवराज महेशानि गोरक्षस्य शृणु प्रिये ||७७|| इति श्रीकल्पद्रुमविवेकिन्यां योगाभ्यासे हरगौरीसंवादे पूजाव्याख्याने गोरक्षगुटिकायां श्रीगुरुगोरक्षनाथकीलकोद्धारणनाम पंचमस्तरङ्गः ||५|| श्रीगुरुगोरक्षनाथाय नमः || श्रीमहादेव उवाच || शृणु प्रिये महद्गोप्यं स्तवराजं च गोरक्ष | महापुण्यवतो गौरी श्रीगुरोपादचिंतका ||१|| ॐ अस्य श्रीगुरुगोरक्षस्तवराजस्तोत्र मंत्रस्य श्रीभैरव ऋषिः पंक्तिच्छंदः श्रीगोरक्षनाथदेवता श्रीṁ बीजं ह्रीṁ शक्ति छत्रधरा कीलकं योगीभूषणसोभार्थे जपे विनियोगः ||
SK
श्रीबीजेनाद हस्ते परममुनिपतेः सारदे मुक्ति रूपे शक्तेः साध्ये प्रयुक्तेः परमहलभते सिद्धि रूपे पुराणे || १२अ) वीरे नृत्यमहेशे सुरगुरु परमब्रह्म पुत्रे महात्म्ये मायामोहे विलासे नरकुलसुखदेयोगमूर्तिं नमामि || धैर्ये बुद्धि स्वरूपेसुसुरभि उदये ध्यायते शुद्धमूर्ते माने मोक्षे च सिद्धे जन भयहरणे वेदरूपे सुगण्ये || नानावाद्येसु घोषे तरुणनलियुते नित्य ज्ञाने सुरम्ये भीमे भव्ये विनति क्रतु फलं सुभदे श्रीगुरोः पाद वन्दे ||३|| कार्ये कालान्त रूपे कलिमलहरणे मुक्तिमार्गे ध्यानागम्येसु घोषे जगजगजगते चक्रराज्येषु वासे || श्रीचक्रे चक्रमध्ये सुरवरजननी छत्रहस्तेसु वंदे गोरक्षराज्ये परमिहलभते श्रीगुरोः पाद वन्दे ||४|| ग्नूṁ ग्नूṁ ग्नूṁ गोलमूर्ते गुणनिधि सततं मंत्रराजेसु मध्ये श्रेष्ठे भेदेननांगेपति सुषवरदे दक्षिणामूर्तिसिहे || तारागण्ये प्रणामे धरधरणि राज्ये आदेशः शब्दद्वन्द्वं मे सिद्धि देही जहि मम अरिणां श्रीगुरोः पाद वन्दे ||५|| गोरक्ष गो स्वरूपे गणपति गुरवे गंधवन्यादि शैले गंगे गंगासुशीर्षे जटिलटिपति मुखे ऊर्णसूत्रोपवीतेः || विश्वे व्याप्तान्त भोजे जहिजहि डकिनी मंत्रनाशे भूते नानास्वरूपे नरपति सुखदे नर्तशीलादि वंदे ||६|| स्तवराजमिदं गौरी पंचश्लोकेन संयुता | मयाकृत महादेवि महाफल युतासुभाः || य इदं पठते नित्यं त्रिकालं श्रद्धयान्वितः | १२ब्) मम तुल्यं भवेज्जन्तु सत्यं सत्यं न संशयः ||७|| पुनर्गोरक्षनाथस्य अष्टकं संविधाष्पति | शृणु प्रिये प्रवक्ष्यामि महामोक्षनिशामय ||८|| इति श्रीकल्पद्रुमविवेकिन्यां योगाभ्यासे हरगौरीसंवादे गोरक्षगुटिकायां श्रीगोरक्षनाथगुटिकायां श्रीगोरक्षनाथ पंचरत्नस्तवराजनामस्तोत्रं षष्ठस्तरंगः ||६|| श्रीमहादेव उवाच || ॐ अस्य श्रीगुरुगोरक्षनाथ अष्टकस्तोत्रमंत्रस्य श्रीभैरव ऋषिरनुष्टुप्छंदः श्रीगुरुगोरक्षनाथप्रसन्नार्थे जपे पाठे विनियोगः ||
SK
ॐ नमो नंताय गुरवे पुलोमानंदनाय च | मंत्रनाथ नमस्तुभ्यं एकनेत्रे नमाम्यहम् ||१|| योगिराज नमस्तेस्तु विश्वेश्वर शिवाय च | गौरिकादि वासं धरागोरक्ष त्वं नमो नमः ||२|| नादहस्त महायोगी भृगुशिष्य महेश्वरः | विश्रवा भ्रातरस्तुभ्यं गोरक्षाय नमो नमः ||३|| भैरवो लोकनाथत्वं विश्वव्यापि सदाशिव | धन्यत्वं गुरुगोरक्षब्रह्मपुत्र नमोस्तुते ||४|| ध्यानगम्य परब्रह्म महाब्रह्मस्वरूपिणे | योगीकुल सदावास ब्रह्मेंद्राय नमो नमः ||५|| यज्ञेश्वराय सर्वाय महायोगेश्वराय च | जलंधराय योगाय गोरक्षाय नमो नमः ||६|| ऊर्णयज्ञोपवीताय महामोक्ष प्रदाय च | नाथ पादं नमस्तेस्तु गोरक्षाय नमो नमः ||७|| नमः शिवाय शांताय अणिमादि प्रियाय च | १३अ) विश्वेश्वराय विश्वाय गोरक्षाय नमो नमः ||८|| एतदष्टक गोरक्षस्य मया कुर्वति पार्वति | नरेण पठते नित्यं अष्टसिद्धि समो भवेत् ||९|| इति श्रीकल्पद्रुमविवेकिन्यां योगाभ्यासे हरगौरी संवादे गोरक्षगुटिकायां रक्षाष्टकस्तोत्रं सप्तमस्तरंगः ||७|| श्रीमन्महागुरुगोरक्षाय नमः || श्रीमहादेव उवाच || भो शैलजा महाभागा गुरुगोरक्ष धीमता | सान्द्रं मानपुरे देव पंचाङ्गस्य फलं पथा ||१|| प्राप्नोति पूरयेद्गौरी नाममष्टोत्तरं शतम् | स्तोत्रं मयाकृतं पूर्वं पंचांगं पूरणाय च ||२|| सहस्रनामतातुल्यं फलं प्राप्नोति निश्चितम् | अर्थधर्मकाममोक्षे च मनोवांछाफलप्रदम् ||३|| नानापापं सुरापादी निंदका गुरुतल्पगः | द्यूतक्रीडादि पापानां जडमूलो भविष्यति ||४|| परापवादिनां सर्वे मातृगमनपातकम् | भगिनी गमनं चैव न स्थिरा अग्नि तेजवत् ||५|| सत्यं सत्यं पुनः सत्यमेतदष्टोत्तरं शतम् | नित्यं पठति यो धीमान् तस्याङ्गे पाप न स्थिराः ||६|| विद्यार्थी लभते विद्यां धनार्थी लभते धनम् | कन्यार्थी लभते कन्यां पत्न्यर्थी पत्निमाप्नुयात् ||७|| योगार्थी योगमाप्नोति सद्योमुनि समाकुला | पुत्रार्थी लभते पुत्रं सत्यं सत्यं वरानने ||८||
SK
योगेश्वरो एकनेत्र आदेश ज्ञान चक्षुषा | श्रीगुरोनाथगोरक्षं प्रणमामि सदा प्रिये ||९|| ॐ अस्य श्रीगुरुगोरक्षनाथस्य अष्टोत्तरशतनामस्तोत्रमंत्रस्य श्रीभैरव ऋषिरनुष्टुप्छन्दः श्रीगुरुगोरक्षनाथ देवता श्रीṁ बीजṁ नादशक्तिदण्डहस्ता कीलकं पंचांगपाठकृतफलपूरणार्थे श्रीगुरुगोरक्षनाथप्रसन्नद्वारा अष्टोत्तरशतनामस्तोत्र पाठे विनियोगः ||१०|| अथ स्तोत्रम् || गोरक्षगोमुखाश्रीशयोगी रूपसुरेश्वरः | ब्रह्मपुत्र महातेज मंगलेश्वर पर्वतः || पादुकाशंकरं नाथ विघ्नराजधुरंधरः | शालग्रामशान्तमूर्ति शैलेश्वर वृषेश्वरः ||११|| पद्म नेत्र एकनेत्र बहुनेरः सुकोदरः | मानेश्वरादि मूर्तिं च धनुर्धर विधीसुतः ||१२|| पुलोमानन्दन श्रीमान् ज्ञान ज्ञानेस्वरो हरः | यज्ञेश्वरो यज्ञकांतः पक्षराज उमाधरः ||१३|| विश्रवा भ्रातरधान्यधातुनन्दनगोरक्ष | पुलोचनापुण्यमूर्ति पुरुषोत्तम पौण्ड्रकः ||१४|| पौलस्त्य पितृभ्राता च पितामह अजाय च | कश्यप भ्रातरो नाद योगी गण्य गुणाकरः ||१५|| गरुडध्वज गोपाल गोपालेश्वर गोपकः | सिद्धामणि गीतपति सङ्कर्षणनरेश्वरः ||१६|| परं ब्रह्म परं धाम परमात्मा सनातनः | परमेष्ठि जगद्धाम श्रीमंत श्रीश्रीयं करः ||१७|| श्रद्धायोगेश्वरो योगी योगमूर्ति वसुंधरः | सूर्यरूप ध्यानमूर्ति कर्णस्फटिक मण्डित ||१८|| १४अ) व्यालभूषणशोभाढ्य नरश्रेष्ठो क्षपाकरः | स्फटिककुण्डलकण्ठकाल रूपो भयानकः ||१९|| विश्वरूपान्तको कृष्ण देवसाक्षाज्जनार्दनः | रक्ताम्बरो रक्तमूर्ति रक्तनेत्र कुलेश्वरः ||२०|| चन्द्रनाथः सोमनाथ विश्वात्मा विश्वनाथकः | भुक्तिनाथ मुक्तिनाथ नरनाथ नरान्तकः ||२१|| लम्बोदरोलम्बवाहो लम्बाक्षलम्बनाभिकः | ललजिह्वा छत्र हस्तो सुन्दरी सेवकोपमः ||२२|| एतदष्टोत्तरशतं गोरक्षस्य वरानने | स्तोत्रं पठति यो धीमान् गोरक्षाष्टोत्तरं शतम् ||२३||
SK
मुच्यते सर्वपापान्ते चिन्तामणि भवेत् प्रिये | इह लोके सुखं भुक्ता चान्ते मुक्ति पुरं लभेत् ||२४|| इति श्रीकल्पद्रुमविवेकिन्यां योगाभ्यासे हरगौरीसम्बादे गोरक्षगुटिकायां पंचाङ्गपूरणार्थं श्रीगोरक्षनाथ अष्टोत्तरशतनामस्तोत्रमष्टमस्तरङ्गः ||८|| श्रीगुरुगोरक्षनाथाय नमः || पार्वत्युवाच || नाथनाथ कृपासिंधो त्राहि मां लोकशंकरः | प्रणमामि सदा वन्दे योगी योगेश्वरः प्रभु ||१|| गोरक्षस्य महामंत्र शृण्वहं भववाक्यतः | प्रथमोत्पत्ति स्तोत्रं च द्वादशाख्या द्वितीयकम् ||२|| तृतीयं कवचं तस्य चतुर्थं हृदयस्तथा | पूजाव्याख्यादिकं सर्वं पंचमं कीलकं तथा ||३|| १४ब्) षष्ठं च पंचरत्नादि स्तवराजं महाद्भुतम् | अष्टक सप्तमे स्तोत्रं प्रसादात् तव शंकर ||४|| पंचाङ्गपूरणार्थाय नाममष्टोत्तरं शतम् | श्रूयतां अष्टमं सर्वे मंत्रतंत्राणि जानि हि ||५|| यंत्रादिकं तु सर्वेषां ज्ञातु भो लोकशंकरः | पुनर्गोरक्षनाथस्य श्रोतुमिच्छामि संहिता ||६|| कथं सहस्रनामं च कथं स्तोत्रमुदीरिताः | वद सर्वं कृपासिंधो श्रोतुमिच्छामि भो प्रभो ||७|| श्रीमहारुद्रोवाच || धन्यत्वं मृगशावाक्षि पुण्यादर्ता भृणूच्छसि | गोरक्षनाथमंत्रादी सर्वं वै कथयामिते ||८|| आदौ शृणु महेशानि योगाभ्यासस्य जन्मनः | पश्चात् सहस्र नामानि प्रवक्षामि तवाधुना ||९|| योगाभ्यासस्य उत्पत्ति भवेद् यस्मिन् धरातले | पुराकल्पे मणीद्वीपे जगन्माता विराजते ||१०|| कार्यसादिभिरस्माकं मंत्र अंते प्रकाशतः | पुष्पकं तत्समाहृत्य विमानं परमाद्भुतम् ||११|| मयाप्यहं कृता देवि ब्रह्माविष्णुश्च संयुता | काले दिवं लतामूर्ति निर्जलस्थान प्राप्नुता ||१२|| कोटि ब्रह्माण्डसंदृश्य कोट्यहं ब्रह्मकोट्यहम् | विष्णुं च कोट्यं सत्यं यद्वै कुण्ठं पर्वतं मया ||१३|| देवलोकं पुरासर्वे बहुदृश्य वरानने | गत्वाहं महदाश्चर्यं ब्रह्माविष्णु मया यथा ||१४|| महापल्लवसोभाढ्या कुसुमोत्पलसंयुता | नानावृक्षैः समायुक्ता नाना पभि विराजिता ||१५||
SK
१५अ) रम्ये नाना महाघानै चाप्सरोगणसेवितैः | गीतवाद्यै महाघोषैः बहुनृत्यैवराङ्गनैः ||१६|| दृष्ट्वाविमानाद्भो गौरी सर्वमाश्चर्य प्राप्नुताः | अस्माकमत्रिसंभार्य कोमलैः तपसा स्थितैः ||१७|| परावृत्यैश्च संपाद्यै सिंहव्याघ्रश्च हस्तिभिः | मृगादि सहक्रीडाभि गम्भीरै नृत्तशीलभि ||१८|| शत्रु वर्गैर्हीन भोगैर्क्षैर्नानामुमुक्षुभिः | स्थाने स्थाने मुनिगणैतपसं कर्षणै पुमान् ||१९|| मार्जारो मूषकैः क्रीडान् गरुडै पन्नगादिकान् | मनुष्यै राक्षसैमत्वान् सहक्रीडा मनोहरान् ||२०|| जलमग्निमिलीतासन महदाश्चर्य विद्यता | गत्वामत्स्यादिकान् यामे सुधासिंधु प्रवाहकान् ||२१|| विमाना दृश्यनस्माकं सकाशात् मर्म भेदिकाः | सुखं च परमं कालाद्दंपति ज्ञान चक्षुषान् ||२२|| मणि रत्नादिकैः भोगै बालुका स्थानसंस्थितैः | पर्णैः व्याप्ता महारम्यैः शतयोजनविस्तृतैः ||२३|| नानासुगंधैर्वातेन प्रवाहैर्व्योम सुहृदैः | पंक्तिं चकारयंत्रादि समुद्रैस्ये भिता सदा ||२४|| हंसकारण्ड वा कीर्णं चक्रवाकादि सोभितम् | मयूरपिच्छनिलयं सद्य चंद्रोदयै सुभैः ||२५|| येषां शोभा समानीता विमानाद् दृश्यतां युवाम् | तत्कालेषु नियमं विमानं तररंहसा ||२६|| यस्मिन् काले त्रयोस्माकमष्टकात्तेज प्राविशत् | १५ब्) सर्वतेजो समूहेन सुन्दरी चारुभूषितान् ||२७|| सुन्दरं चारु शोभाढ्यं प्रममंकं प्रकाशिता ||२८|| स्त्रीरूपं योगनामं च पुंस अभ्यास नामतः | कन्यामेकं कुमारैकं तेज अस्मात् प्रकाशिताः ||२९|| चकार ब्रह्मा भो गौरी स्वयम्भू चतुरानन | तद्गत्वा च महारम्ये सुन्दरं चातिशोभितम् ||३०|| नानावर्णैर्बहुविधैस्त्रीगणैः शोभिते यथा | ब्रह्माविष्णुस्तथा मह्यं ईश्वरीपादशंकरः ||३१|| सदाशिवस्य भूर्ति च पादविष्टरसंस्थिताः | चक्राकारं यंत्रराजं तदस्यो परिसंस्थिताः || विश्वमाता विशालाक्षी भुवनेशी महेश्वरी ||३२|| अस्माकं दर्शया मास सर्ववर्णेश्वरी प्रिये | विमानं तरसा काले भूम्यै उत्तरसंस्थिताः ||३३||
SK
स्त्री स्वभावं भवेद्गौरी ब्रह्मविष्णु मयापि च | महदाश्चर्य प्राप्नोति विरुद्धविश्वरंहसा ||३४|| गत्वा च सेवितान्देविं मातरं विश्व मातरम् | तस्मिन् काले महामोहे प्राप्तसेवा त्रयो महान् ||३५|| किं कर्तव्यं जनोलोका असिताङ्गादि भैरवाः | पूर्वकल्पस्य ब्रह्मणा सुतगोरक्षनामतः ||३६|| ममापि अंशपूर्वस्य देव्याछत्रधरस्तथा | नवपुंसंस्थितां लोके अन्यस्त्री गणसंकुलात् ||३७|| मात्रं तु विश्वमाता स्याद् योगाभ्यासे द्वयोमप्यम्? | आगत्य दण्डवद्भूमौ तुष्णिं भूतमिवास्थितः ||३८|| १६अ) योगाभ्यासस्य भक्तीनां दृष्ट्वा चेज्जगदीश्वरी | ततः प्रसन्नो जननी विश्वमाता विरंहसा ||३९|| कोकिलैसुधुरालापै स्वरमोहेन वाक्यत | भो भो योगेश अभ्यास गच्छ यथासुखम् ||४०|| त्रयोतुर्य गुरुर्पित् ब्रह्मविष्णु महेश्वरा | तस्य अंशस्य गुरोमावर्ण्य ते किंतुसकेते ||४१|| भीष्मद्रोणप्रमुखत अश्वत्थामाविकर्णत | युधीष्ठिरो महापात्र वसुदेव सुरेश्वरी ||४२|| इति प्रभूषिता देवा योगाभ्यासेन मोहिता | प्रथमं संतति ज्ञानं योगाभ्यासात् समाहित ||४३|| तस्माद्गच्छ सुरश्रेष्ठ अंससापूज्यमाप्नुयात् | स्थावरे जंगमे येस्ती विश्वेषा स्थितिरंहसा ||४४|| वत्सौ तौ मृगसावाक्षौ लोके व्याप्ता वभूवतु | योगाभ्यासं इति वरं दत्वा च भुवनेश्वरी ||४५|| जगन्माता वचः श्रुत्वा गतालोकेश्वरी पुरात् | तपं चकार विधिवद्योगाभ्यासेन संकुला ||४६|| गोत्राकुप्रविसां मायां कारणं यन्महेश्वरी | अस्माकमपि योगेशि भुवनाम्बा पुरस्थिताः ||४७|| तस्मिन् काले गोरक्षेण अस्माकं च ददौ वरौः | भो भो ब्रह्मा महाविष्णु लोकेश्वर महेश्वर ||४८|| कालान्तरूपी भो रुद्र जगदम्बा पदं भज | इति गोरक्षवाक्यानि श्रुत्वास्मान् स्त्रीभिर्गणैः ||४९|| विचारितं मनसा गुरु कुर्वति गोरक्षः | शृणु लोकेश्वरी तेन ब्रह्माविष्णु मया कृतः ||५०|| १६ब्) गोरक्षस्य महास्तोत्रं सहस्रनासंज्ञकः | भुवनेश्वर्या महामात्रा छत्रहस्तौ महोत्तमौ ||५१||
SK
कार्यसिध्यर्थ विश्वाये महामोक्षप्रदाय च | पूर्वकल्पस्य कार्यादि विश्रुतानांवराने ||५२|| श्रीगोरक्ष उवाच || शृणुकान्ते महादेव शृष्टिस्थित्यन्त कारकः | पूर्वकल्पे भवान्मूर्त्या भगवत्या प्रकाशिता ||५३|| त्वं ब्रह्मा सर्वलोकानां मांत्रापि त्वं प्रकाशिता | त्वं विष्णु सृष्टि सर्वेषां कर्तु पालन कर्मकृत् ||५४|| त्वं रुद्रसर्वलोकानां संहारकर्मकृत्सदा | गायत्री चैवसावित्री सरस्वत्यादि नामतः ||५५|| भक्ति प्राप्नोति ते सर्वे भगवत्या प्रसादतः | सृष्टिस्थित्यं हरेत् कार्यं कृत्वा कालान्त प्राप्नुता ||५६|| ब्रह्मापि काल वशगा विष्णोपि च निरन्तरम् | त्वं च ईश महादेव कालस्य वशगो भवेत् ||५७|| पूर्वकल्पस्य ब्रह्मणः चर्मं कालि तत्क्षणात् | ततस्तु ब्रह्मचर्मास्तं देवित्वं परिधानतः ||५८|| पुनजीवददौ ब्रह्म कबंधरूपमास्थितः | स्वपाद चरणौ सेषां गणं कृत्यवभूरताः ||५९|| त्वं विष्णु वै सदा ध्यानं छलेन विगतेन च | वेतालरूपमास्थाय यत्र दृश्य सुराधिपः ||६०|| महादेव भूत रूप साक्षाद्भूतेश्वरो भवेत् | भुवनेश्वर्या सदा पृष्ठे चकार सेवितं सदा ||६१|| श्रीकल्पे कल्पकल्पस्य कार्यसादि भवान्वभौ | १७अ) भूताकबंधैवेताल स्वयं सेवकमातराः | दशा इन्द्रादि सकला वलीनो भवंति चैव काकथा | पुनः सृष्टिमिच्छता सत्लोकेश्वर्या निमेषतः ||६३|| पुराहमेक कल्पस्य ब्रह्मपुत्र च गोरक्षः | रुद्रं त्वं ब्रह्मणस्त्वं च विष्णुस्त्वं मिहकल्पयोः ||६४|| अजरामर पुत्रोहं भगवत्या प्रसादतः | युष्माकं तु त्रयोदेवा जगन्मोहेन मोहिता ||६५|| पूर्ववार्ता न जानामि भो ब्रह्मा भो हरीहरः | अस्मिन्मणि द्विपशुधानामा सिंधो सुरेश्वरः ||६६|| सेवांकुरु जगन्मात्र्या प्रसादं कुरु गृह्णितः | स्त्री भावोपि गता तुभ्यं पुनर्लोकं प्रकाशकः ||६७|| सामर्थ्यं भवतां प्राप्ता भुवनेश्वरी प्रसन्नता | इति गोरक्ष वाक्यानि श्रुत्वातं शैलनंदिनी ||६८|| पुनर्ब्रह्मा उवाचेदं वचनं गोरक्षात् | शृणुत्वं च विसालाक्षि ब्रह्मवाक्यं वरानने ||६९||
SK
श्रीब्रह्म उवाच || भो गोरक्ष महाभाग धन्यत्वं मृगलोचनेः | पूर्वं मेघ?ककल्पस्य पुत्रत्वं बुद्धिमान्नरः ||७०|| पराधीना भवेदस्मान् संज्ञा हरति गोरक्षः | अस्मिंकालेषु भो पुत्र किं न जानामि विश्रुता ||७१|| उपायं वद भो तात जगदीश्वर्याश्च सेवनं | जडोहं स्त्री स्वभावोहं किं सेवे श्री प्रसीदति ||७२|| महादेव उवाच || श्रीब्रह्मण वच श्रुत्वा गोरक्षवचनमब्रवीत् | शृणुत्वं मृगसावाक्षि यथा भाषितगोरक्षः ||७३|| श्रीगोरक्ष उवाच || १७ब्) भो ब्रह्मा भो हरः विष्णुः मम वाक्यं शृणु पुमान् | कल्पे कल्पे पुमान् स्त्री सा आगत्य मम सन्निधि | सप्तत्रिंशल्लक्षकोटि गतवान्तं मनोगणा ||७६|| अस्मिं कल्पस्यापि पुमान् उपदेशं दशमितः | न संशय महाभाग जगः शृण्वं तु भो विधा ||७७|| एकाक्षरी जगन्मात्र्या ददौमंत्रं त्रिभिर्गणं | संबंधा गुरुगोरक्षमंत्रं प्राप्ता वरानने ||७८|| जपितोहं त्रिभिरस्मान् पूर्वस्य चरितं समाः | जानेहं जानिता गौरी ब्रह्मणापि च जानिता ||७९|| विष्णुनापि च जानीहि पूर्वज्ञातुं समुहतः | इति ज्ञात्वा पुनर्गौरी पश्चाच्छ्रीगोरक्षा पंच ||८०|| सहस्रनामत स्तोत्रं चकारस्मां महेश्वरी | विस्तराच्छृणु भो गोरी गोरक्षनामसहस्रकम् ||८१|| ककारादि क्षकारान्ता नानामंत्र युताय च | अकारादि अकारान्तः पश्चान्नामानि पूरितः ||८२|| कंकालकालरुद्रश्च कृष्ण क्रीṁ क्रीṁ स्वरूपकः | कालोकाल खण्डकल्पाण कल्पकेश्वरः ||८३|| कीर्तिमंतो कीर्तिमान कीर्ति भैरव कीर्तिकः | क्रिंकारमंत्ररूपश्च क्रीṁकार मंत्रकारकः ||८४|| क्रीṁ बीजे वासिनश्चेति कालसर्प स्वरूपकः | करपर्वत वासी च करपर्वत रूपकः ||८५|| करगाणश्च करकीर्ति नाथ कुलेश्वरः | कुलाचार्य कुलंध्रकुलंधरयथा भवान् ||८६|| कुलशैल स्वरूपश्च कुलान्त ककलाधरः | १८अ) कलानथ कालनाथ कुलनाथ खलेश्वरः ||८७|| खर्वहा खड्गहस्ताश्च खट्वाङ्गधारणस्तथा | खिṁ खिṁ बीज स्वरूपा च ख्रिṁकार बीजवादिनः ||८८||
SK
खिलधारी खलेशश्च खिलनाथखिलान्तकः | खेकार खेनिवासश्च खेनाथ खलपातकः ||८९|| खसाखसेखरखला खसनाथखसान्तकः | खसकार खसकेश खसनेत्र खसो मुखः ||९०|| खण्डे खण्ड खण्डमूर्ति खण्डचक्र स्वरूपतः | खण्डनाथ खूरनाथ खूरेश्वर खुराधिपः ||९१|| गुरुगोरक्ष गोनाथ गोपाल गौगवेश्वरः | गो नेत्रगणनाथ धगणेंद्र गणनायक ||९२|| गणनाथ गणाचार्य गणेश्वर गुणेश्वरः | ग्नीṁ ग्नीṁ बीजस्वरूपश्च ग्नीṁकार बीजवादिनः ||९३|| गया नाथ गयाकार गयेश्वर गयाधरः | गयापिण्ड स्वरूपश्च गयासुरप्रकाशकः ||९४|| गयासुरविषाटश्च गंधमान्गंधरूपकः | गंधेश्वर गंधवाहा गंधमादन गो शिरः ||९४|| गरनाथ गराहार गरलेश्वर गंगकः | गंगानाथ गंगराज गंगाध गणान्तकः ||९६|| गाणविद्या प्रकाशश्च गाणाविद्या प्रकाशकः | घंटहस्त घंटकर्ण घंटमूर्ति घटेश्वरः ||९७|| घटवास घटानाथ घिṁ घिṁ बीजेषु वासिनः | घनाक्षर घनाचार्य घणेश्वर घणांतकः ||९८|| घनस्यामो घनांकार घनांतक घवर्गकः | घटपर्वत वासी च घटोघ्नि गावरसकः ||९९|| १८ब्) घटशब्द प्रकाशश्च घटकार घटो सुखः | घृणि विद्या च घोṁकार घृणि तेजसमस्तथा ||१००|| ङवर्ग ङकरानाथ ङṁकारबीजरूपकः | ङे राङ पोटङाकार ङ ट पर्वतकारकः ||१०१|| ङटेश्वर ङकारांत ङमुखी ङलिनस्तथा | ङ सिमाकर्णकारश्च कर्णफाटक मूर्तिना ||१०२|| चर्म नेत्र चर्मधरः चर्माटन चलाचलः | चण्डिका चण्डिका नाथ चण्डश्चण्ड घातकः ||१०३|| चण्डदर्यो पहारश्च चन्द्रचंचल लोचनः | चंचलाङ्ग चंद्रशिर चन्द्रशेखरचातुर ||१०४|| चतुरानन सुत्रश्च चतुरेशश्च चंपकः | चंपकेश्वर श्रीमंत चंपनाथं च अर्वकः ||१०५|| चिंबीज चर्मपाणश्च चर्मकारेश्वरस्तथा | छिन्नमस्तापति छण्ड छण्डेयछण्डनायकः ||१०६||
SK
छण्डनाथ छकारश्च छलिनी छ्या छलेश्वरः | छलनाथ छलः केश छण्डभेद छलोन्मनः ||१०७|| छलविद्या छलसंज्ञा छलभेदश्च छेदकः | छेदकर्ण छेदमूर्ति छडैश्वर छरिस्तथा ||१०८|| छरिहस्त छत्रधर छत्रेशनायकः | छत्रनाथ छत्रवास छत्रपर्वतकारकः ||१०९|| छिंकारछद्मकारश्च छन्नरूपक्षपाकरः | जयंतिकजामुनिकजलरूप जलेश्वरः ||११०|| जलोदरजलासश्च जलनाथ जलाकरः | जलंधर जपजाया जायापति जयाकरः ||१११|| ज्वालापति ज्वालामाला ज्वालानाथ जपेश्वरः | १९अ) जयमालाधरजाता जातांधाजाति भेदका ||११२|| जन्मदाता जनेशश्च जेयाजेय स्वरूपक | जपनाथश्च जीṁकार जपपर्वतवासकः ||११३|| जडेशः जडसंहार जडज्ञानोपहारकः | जनसिद्धश्च जनकजानकीपति सेवकः ||११४|| झपमाला झलझंला झंकेश्वर झषस्तथा | झपमान झिंकारश्च झींकार बीजवादिनः ||११५|| झंपासुरनिवहश्च झमशब्द प्रकाशकः ||११६|| झक्का झंपार्वतीनाथ झṁवर्गबीजकारकः ||११७|| झञ पर्वतवासी च झीं झिकार झपाकरः | झलनं झालनाकार झापेर झाटि रूपकः ||११८|| झषेश्वर झकारश्च झमांतकञ्जकारिका | ञमेञ्चर ञमो ञंतत्रकार बीजवादिनः ||११९|| ञं बीजरूप श्रीनाथ ञंटेश्वर ञमेश्वरः | ञं वगरूप ञंत्रीकन्तत्रीमाला ञसासिकः ||२०|| टकार वादिनटिंकटीकानाथ टलेश्वरः | टंकेश्वरश्चटिṁकार टिट्टिṁ बीज स्वरूपकः ||१२१|| टल पर्वतवासी च टपोमुख टिपाकरः | टंकनाथ टंककेशटंकलोचन पटकः ||१२२|| टमरीरमरोनाथ टमरवाद्यप्रंसकः | टामरेश्वर टोपाल टांकारटंकनामसा ||१२३|| टुंकाकार्य टंकपंत्रटुंडिटुंडिलाधिपः | टुंडिलेशटुंदनाथ दंडनेत्र टसाधिपः ||१२४|| टुंडदेशाधिपश्चेति टुंददेशेश्वरस्तथा | टकारशब्द टांकार टकपालाश्च तारकः ||१२५|| टुंकेश्वर टुंकनाथ टंकेश टरुनस्तथा | टरुणश्वर टारुणिक टारकत्रिपुरांतकः ||१२६|| १९ब्)
SK
ठण्डिलाठण्डिलपतिः ठंडिलेश्वर ठामरिः | ठुनाकारठुणमुखः ठुमलेश्वर ठाकुरः ||२७|| ठालापति ठुलनाथ ठुलकेशेश्वरस्तथा | स्थितिमूर्तिस्थिरमुखस्थलावासस्थलेश्वरः ||२८|| स्थलनाथस्थातु रुद्रश्चतुरानन चासरः | डंडिमुख डमरुकां तडमरुवल्लभस्तथा ||१२९|| स्थूलाकारस्थूलमुख डंबुनाथ डपाकरः | डपानाथ डामरिकः डलनायक डुंडुभ ||१३०|| डिṁ डिṁ बीजेश्वरश्चैव ह्रीṁ ह्रीṁ बीजस्वरूपकः | ढ्रीṁ बीज ढुछकारश्च ढुं ढुमार ढलेश्वरः ||१३१|| ढरनाथ ढसंज्ञा च ढंकनाथ ढिमाकरः | ढिमेश ढमकारश्च ढुं ढुं शब्द स्वरूपकः ||१३२|| ढरांतक ढालरूप ढढारूप ढरीमुखः | ढाराढीरेश्वरश्चेति ढतुलानाढलनेश्वरः ||१३३|| णाशब्दरूपिनणामणादगर्णलिलेम्बरः | णलिनणालिनं णादि णादणादेश्वरस्तथा ||१३४|| णाटंकाबीजवासश्च तलातलनिवासकः | तेजमूर्ति तेजकरतल्प तल्पेश्वरस्तथा || तरुण सूर्यतारुणि कतमकेशतमान्तकः | तेजकांतस्तेजनाथ तरुणेश्वर ताण्डवः ||१३६|| तरुर्णावमूर्तिश्च तरुणकांत ततुंरुषा | तालवृक्षस्वरूपश्च तालशब्द प्रकाशकः ||१३७|| तलपर्वतवासी च तलनाथतरि यथा | त्रीṁकार बीजरूपश्च त्रीṁकार स्वरनालिकः ||१३८|| तारकासुरघातश्च तारकेश्वरतारकः | तारकर्म स्वरूपश्च त्रिपुरेश्वर तांत्रिकः ||१३९|| त्रिपुरनाथ त्राणरूप त्रिपुछत्रधारणः | २०अ) त्रिपुरपर्वताधीश त्रिपुरपर्वतेश्वरः ||१४०|| त्रिपुरस्थानवासश्च त्रिपुरादेव सेवकः | त्रिपुरासुर अंतश्च तंत्रिक तांत्रिकी यथा ||१४१|| तंत्रनाथ तंत्ररूपतंतकासुरघातकः | तंत्रेश्वर तंत्रमय तंत्रीत्राणेश्वरस्तथा ||१४२|| तल्पपयतल्पनाथ तल्पकान्ततलेश्वरः | थलवास थलकर्ण थाली थालादि रूढकः ||१४३|| थाली पृयं थंथ शब्द थ थ वर्णेश्वरस्तथा | दामरी दमरोदाम दीमोदर दयाकरः ||४४||
SK
दयाधारी दयाकान्त दमनं दम्बिकोदरः | दान्तिकौतुहलं कुण्ड दमनासुरमर्दनः ||१४५|| दमनपुष्प प्रियकदमयंति पतिस्तथा | दारुण दारुणाधीश दानेशदानरूपकः ||१४६|| दानपुण्य स्वरूपश्च धर्मध्वजधराधरः | धारारूप धराकांत धारणश्च धुरंधरः ||१४७|| धुरंधरेश्वरः धीरा धीस्वरूपधनेश्वर | धन्वन्तरी ध्याननाथ ध्यानेश्वर धलांतकः ||१४८|| धर्मेश्वर धर्मरूप ध्रीṁ शब्दधरणीधरः | धरणीनाथ धन्यात्मा धार्मिक धमलेश्वरः ||१४९|| धन्यः गुरुधन्यरूप धन्यनाथ धनान्तकः | नारामणनरेशश्च नररूप नृपध्वजः ||१५०|| नाट्यरूप नृत्यनाथ नरनाथ नरेश्वरः | नररक्षाकरनील नीलनाथ नरान्तकः ||१५१|| नीलकान्तयशभ्रात यमराज सहोदरः | पूर्णचंद्र पूर्णकांत पूर्णेश पूर्णिमापतिः ||१५२|| पद्मनाभ पद्मनाथ पद्माक्ष पद्मरूपकः | पाखण्डपापि नाशश्च पर्वत पार्वतिपति ||१५३|| २०ब्) पाशहस्त पलारूप पाशीपाशेश्वरस्तथा | पात्रप्रियो पात्रधरपात्रे पात्रस्वरूपक ||५४|| पृया वा पृयारूप प्रियानाथ पलासयोः | पीताम्बर धरपीतपितात्वं पुत्ररूपकः ||१५५|| पौण्ड्रेश पुण्ड्ररूपं च पुण्डरीकाक्ष पाणिनि | पातकी खण्डरूपं च पाण्डवावरदायका ||५६|| पाण्डवेशपाण्डुनाथ फकिराफकिरेश्वरः | फत्किरेश्वरः फिखण्डः फालासन फण्डतथा ||१५७|| फ्रिṁकार बीजवादी च बीजेश बलदायकः | बलाकर बलानाथ बलेश्वर विनायकः ||१५८|| बिन्दुरूपबिन्दाविद्याधिपस्तथा | विद्याधर विरूपाक्ष विष्णु त्वं विमलस्तथा ||१५९|| विषेसात्त वैश्यरूप वैश्यनाथ विडम्बरः | बिलेश्वर बिल्वप्रिय बिलास वरुणेश्वरः ||१६०|| वेश्यापति वेदरूप वारुणी पृयवाल्हिकः | बालसपबालनाथ बलान्तकः ||१६१|| वीरमूर्ति बलोन्मत्त वाग्मती जलरूपसा | बाणहस्तपाणरूप वाणनाथ वसीकरः ||१६२|| वशीकरणनाथं च विनाशविनरूपकः | वायुनाथवायुरूप वायुनाशकरस्तथा ||१६३||
SK
भगंधर भगाकार भगनाथं च भैरवः | भेषीधरः भेषिनाथ भेषीरक्षकभिल्लता ||१६४|| भरुणीकांत भ्राता च भरुणीनाथ भ्र्ṁतथा | महाकालमहारुद्र महादेव मनुर्मणिः ||१६५|| मणिकंठ मनर्मानं मानिनीकांतमौक्तिकः | माहानाथ माहानेत्र महावेदमाहासुरः ||१६६|| २१अ) मुक्तमालामोक्षरूप मोक्षज्वाला नराधिपः | पलापलांधिपयजनाथ यमेश्वरः ||१६७|| रलकान्तर लनाथ रलेश्वररथाधिपः | रथवाहारलधरा रलकारकरलकः ||१६८|| रमाकान्तरमानाथ राजेश्वर रजोगुणः | रजपर्वतवासी च रजपर्वतकरकः ||१६९|| रजेश्वरराजरूप रजनाथ रयोमुखः | ललनालाकिनी नाथ लंकेशोदर्पनाशकः ||७०|| लज्जापति लंबशिख लम्बज्ञान लपंकरः | लपमूर्ति लंबनाथ लाजाप्रिय लठाःकरः ||१७१|| लटेश्वर लम्बमुख लम्बासुर निवर्हणः | वननावनिमामारवजनावातिवातुलः ||१७२|| शेषमूर्ति शेषनाथ शेषेश्वर शशांकक | शक्तिसिद्धि सिद्धिनाथ शिलेश्वर सिमाकरः ||१७३|| षिṁ बीज षलुगांधार षसांतषानमातुरः | षगनाथ षंगमुषषसी मुख षलेश्वरः ||१७४|| साल्व साल्वपती सान्त सान्तनाथ शशीधरः | शशिनेत्र शशिमुख शाम्बशाम्भेश्वरस्तथा ||१७५|| श्रीशश्च श्रीमुख श्रेम्बाश्रीपाकरस्वरेस्वरः | शरणागत रूपं च शरणागतरक्षकः ||१७६|| हलीहलिमुखहाल हालेश्वर हयोमुखः | हयनाथ हयज्ञान हयारी नाशहाटकः ||१७७|| हाटकेश्वर ह्रीṁकार हत्यामोचन हालनः | हेतोपदेश हेतुंश्च हेतुकारक हिṁकरः ||१७८|| हिंवीर्वर्ग स्वरूपं च ह्रीबीजे वासकारकः | हनुमत्सखहोमसहा होमस्वरूपकः ||१७९|| हरिन्नेत्रश्च हरिण हरिन्मांस हरीमुखः | हरांशहररूपं च हरेश्वर हयंकरः ||१८०|| रूपनेत्रा हनुमता हरनाथ हरीश्वराः | हालानाथ हालहतांतक हटेश्वरः ||१८१|| हेरम्ब हनुगंधर्व हलिसाधिपहर्मयः | हननं हानि रूपं च हटमूर्ति हलायुधः ||१८२||
SK
क्षेत्रज्ञ क्षेत्रजक्षेत्री क्षेत्रीशक्षत्रमर्दनः | क्षाररूप क्षत्रधरक्षत्रनायछादनः ||१८३|| क्षेत्ररूप क्षत्रपति क्षांति रूपक्षपेश्वरः | क्षपानाथ क्षमानाथ क्षेत्रेश्वर छलीमुखः ||१८४|| क्षात्रधर्मप्रकाशश्च क्षात्रधर्मश्च नायकः | क्षौरकर्मेश्वरक्षौर क्षौरगंधर्व क्षेमज ||१८५|| क्षत्रपर्वतवासश्च क्षत्रपर्वतकारकः | क्षत्रीमर्दनरूपं च क्षत्रोक्रोध स्वरूपकः ||१८६|| क्षत्रीरुधिररूपं च क्षत्रीवलस्वरूपकः | क्षत्रीमंत्र विपाकं च क्षामिका क्षिṁक्षपाकरः ||१८७|| क्षत्रीसंहारकर्ता च क्षत्रीज्ञानप्रकाशकः | क्षारवारी स्वरूपश्च क्षात्रावीर्यस्वरूपकः ||१८८|| क्षमेश्वर क्षत्रपति क्षत्रनाथ क्षपाकरः | क्षपाकरेश्वर क्षुद्रक्षौर धर्मक्षमानिधि ||१८९|| क्षत्रीशस्त्र स्वरूपं च क्षत्रीप्राणेश्वरस्तथा | क्षरजक्षीररूपं च क्षीणमूर्तिधरस्तथा ||१९०|| अर्यमा अरिनाथं च अरिसंहारकारकः | अरिवर्गप्रकाशश्च अरिणी अरुणेश्वरः ||१९१|| अत्रिवसप्रकाशश्च अयोनिजप्रकाशकः | अब्जनंदन अस्थि च अस्थिक स्वर अत्रिजः ||१९२|| अनुमता अत्रिका च अत्रिनाथ अयोमुखः | २२अ) अग्निश्च अग्नजन्मा च अर्कमण्डल अर्कजः ||१९३|| अर्कतेजस्वरूपश्च अर्कमंत्रप्रकाशकः | अर्कनाथ अर्क अंश आदित्य आदिरूपकः ||१९४|| आदिज्ञान आदिनाथ आर्तिकेश्वर अग्निगाः | आदिदेव आदियोगी आदेश आर्तकान्तकः ||१९५|| आलिंगन आरुणिस आनन्देश्वर आंतरः | आदिलोकेश्वर आली आसीविष स्वरूपकः ||१९६|| आसीभूषणधर्ता च आसीज्ञान प्रकाशकः | आसीतनाधिपं आस आशारूपेश्वरस्तथा ||१९७|| आशानाथ आग्नहिक आग्नहेश्वर हत्यकः | इत्याचार्य दुष्टरूप दुष्टाग्रह हलेश्वरः ||१९८|| इलावृत्त निवासश्च इलानाथ इलांतकः | इलामार्गप्रकाशश्च इष्टेश्वर इमानिधी ||१९९|| इति शब्द प्रकाशच इतिहास स्वरूपकः | इति गंधस्वरूपश्च इति स्थान निवासकः ||२००|| इत्यर्थमंत्ररूपश्च इलिंगेश्वर इन्द्रियः | इन्द्ररूप इन्द्रनाथ इन्द्रेश्वर उमापति ||२०१||
SK
उमाकान्त उमानाथ उमानिषि उमाकरः | उग्रनाथश्च उग्रेश उग्राचार्य उमासजः ||२०२|| उमेश्वरा उत्तरेशो उत्तराखण्डवासकः | उत्रीरूप उत्पत्तिक उत्पत्तेश्वर उग्रजः ||२०३|| उग्रतारासेवकश्च ऊग्रपर्वतकारकः | उग्रसेन सुताहंती उग्रचंद्र ऋतुस्तथा ||२०४|| ऋतुराज ऋतुप्रिय ऋतुपुष्प प्रियस्तथा | ऋतुज्ञानविभागश्च ऋतु मंत्रेश्वरस्तथा ||२०५|| ऋतुबंधु ऋतुप्रिय ऋतवेश्वररंतिक | २२ब्) रंतिदेव ऋतु प्रियो ऋतुवीर्य स्वरूपकः ||२०६|| ऋर्यमा च ऌमार्गश्च लंकेशो प्राणघातकः | ऌवर्णबीजरूपा च ऌवर्ग वर्णरूपकः ||२०७|| ऌंनाथरासमा सत्य रा रा मंत्रस्वरूपकः | ऐṁकार ऐṁ नमोवाणी ऐṁन्द्रपर्वत वासकः ||२०८|| ओण्ड्रपुष्प प्रियकर ओद्रवर्तिक ॐ नमः | ओद्रपर्वतवासी च ओद्रविद्या स्वरूपकः ||२०९|| आटघात ओममा ओतृ ओतुर्विद्या स्वरूपकः | ओतुर्नाथ ओतुकर ओद्रुकांत ओगंधलः ||२१०|| औद्यानवासि औंकार औṁ विद्या औसमः निधि | औंतिगंधावती औत्य औचपर्वत वासकः ||२११|| और्वासुरविद्यातश्च और्वकंठि अटेश्वरः | और्वतेजवत औली औलींधर धरस्तथा ||२१२|| औलिंगनाथ औलिंग औलिंगेश्वर श्रीपतिः | असुर अण्डजानाथ अण्डेश्वरसुभंकरः ||२१३|| अन्तकेश्वर आकार अंकनाथांतकेश्वर | अंतकर्तिक अंकार अṁबीज अन्तरूपकः ||२१४|| अंत्रासुर निवर्हश्च आतपत्र सुधारणः | अंकारबीजवासश्च अण्ड अत्र्यंतरेस्थितः ||२१५|| अण्डमातमनामश्च अकारवर्णरूपकः | अतलोकरूपश्च अतलेश्वर अर्वगः ||२१६|| अग्निमण्डलवासी च अग्निमण्डलरूपकः | अग्निकान्तिस्वरूपश्च अग्निस्तंभनरूपकः ||२१७|| अश्ववाहा अश्वशिर अश्वलोचन अंतिकः | अदुपुत्र अदुपति अश्लेषापति अद्बिधः ||२१८|| २३) अन्यद्भुजं महामूर्ति महालोचन ताण्डवः | यक्षयक्षपति अर्थ अज्ञानतीथ रूपकः ||२१९|| अशक्तमूर्ति भगवान्भिल्लमिष असायकः | गोरक्षनाथ अंत्येषु इति नाम्नादशं शतम् ||२२०||
SK
अस्माकेन कृतं स्तोत्रं गोरक्षस्य च पार्वति | सहस्रनाम परमं योगीनां चैव दुर्लभम् ||२२१|| रागिणां च विरागीणां योगीनां च गृहस्थिनाम् | नित्यं पठति यो धीमान् प्रसन्नो भव गोरक्ष ||२२२|| सहस्रनाम परमं स्तोत्रं सहस्रगुणसंयुतम् | सहस्रज्ञानसंयुक्तं सहस्रसिद्धिसंयुतम् ||२२३|| सहस्रविद्यासंयुक्तं सहस्रतुण्डलेश्वरि | चिंतामणि भवेद्भक्त जना आनन्दकारिता ||२२४|| गोरक्षतुल्यो भवति नानामंत्रप्रकाशकः | नित्यं त्रिकाले पठति त्रिरावृत्त महेश्वरि ||२२५|| चन्द्रसूर्यस्य पर्वेषु स्पर्शमोक्षान्त पठ्यतः | गतसंख्या कृताविप्रं भोजनं साधकैर्ददे ||२२६|| इति गोरक्षनाथस्य अङ्गपूरित भो पृये | श्रीगोरक्षप्रसन्नोस्तु अस्माकं दृश्यत त्रिभिः ||२२७|| पश्चात् सिद्धिं ददातिथ्य भुवनेशी प्रसन्नता | इति श्रीकल्पद्रुमविवेकिन्यां योगाभ्यासे हरगौरीसम्बादे गोरक्षगुटिकायां श्रीगोरक्षनाथसहस्रनामस्तोत्रं नामनवमस्तरङ्गः ||९||

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. gorakṣaguṭikā [M00291].

Source