Stanzas on Vibration

Spandakārikā · स्पन्दकारिका

Stanzas on Vibration

Spandakārikā

स्पन्दकारिका

SK
प्रथमो निःष्यन्दः
SK
यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तं शक्तिचक्रविभवप्रभवं शङ्करं स्तुमः
SK
यत्र स्थितम् इदं सर्वं कार्यं यस्माच् च निर्गतं | तस्यानावृतरूपत्वान् न निरोधो ऽस्ति कुत्रचित्
SK
जाग्रदादि विभेदे ऽपि तदभिन्ने प्रसर्पति | निवर्तते निजान्नैव स्वभावाद् उपलब्धृतः
SK
अहं सुखी च दुःखी च रक्तश् च इत्यदिसम्विदः | सुखाद्यवस्थानुस्यूते वर्तन्ते ऽन्यत्र ताः स्फुटम्
SK
न दुःखं न सुखं यत्र न ग्राह्यम् ग्राहकं न च | न चास्ति मूढभावो ऽपि तद् अस्ति परमार्थतः
SK
यतः करणवर्गो ऽयं विमूढो ऽमूढवत् स्वयम् | सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतिः
SK
लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वम् आदरात् | यतः स्वतन्त्रता तस्य सर्वत्रेयम् अकृत्रिमा
SK
न हीच्छानोदनस्यायम् प्रेरकत्वेन वर्तते | अपि त्व् आत्मबलस्पर्शात् पुरुषस् तत्समो भवेत्
SK
निजाशुद्ध्यासमर्थस्य कर्तव्येष्व् अभिलाषिणः | यदा क्षोभः प्रलीयेत तदा स्यात् परमम् पदम्
SK
तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणह् | यतस् तदेप्सितं सर्वं जानाति च करोति च
SK
तम् अधिष्ठातृभावेन स्वभावम् अवलोकयन् | स्मयमान इवास्ते यस् तस्येयं कुसृतिः कुतः
SK
नाभावो भाव्यताम् एति न च तत्रास्त्य् अमूढता | यतो ऽभियोगसंस्पर्शात् तदासिद् इति निश्चयह्
SK
अतस् तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत् सदा | न त्व् एवं स्मर्यमाणत्वं तत् तत्त्वम् प्रतिपद्यते
SK
अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् | कार्यता क्षयिणी तत्र कर्तृत्वम् पुनर् अक्षयम्
SK
कार्योन्मुखः प्रयत्नो यः केवलं सो ऽत्र लुप्यते | तस्मिन् लुप्ते विलुप्तो ऽस्मीत्य् अबुधः प्रतिपद्यते
SK
न तु यो ऽन्तर्मुखो भावह् सर्वज्ञात्वगुणास्पदम् | तस्य लोपः कदाचित् स्याद् अन्यस्यानुपलम्भनात्
SK
तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी | नित्यं स्यात् सुप्रबुद्धस्य तदाद्यन्ते परस्य तु
SK
ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः | पदद्वये विभुर् भाति तदन्यत्र तु चिन्मयः
SK
गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभः सततं स्युर् ज्ञस्यापरिपन्थिनः
SK
अप्रबुधधियस् त्व् एते स्वस्थितिस्थगनोद्यताः | पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि
SK
अतः सततम् उद्युक्तः स्पन्दतत्त्वविविक्तये | जाग्रद् एव निजम् भावम् अचिरेणाधिगच्छति
SK
अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् | धावन् व यत् पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः
SK
याम् अवस्थां समालम्ब्य यद् अयम् मम वक्ष्यति | तदवश्यं करिष्ये ऽहम् इति संकल्प्य तिष्ठति
SK
ताम् अश्रित्योर्ध्वमार्गेण चन्द्रसूर्याव् उभाव् अपि | सौषुम्ने ऽध्वन्यस्तमितो हित्वा ब्रह्मा.ङ्दगोचरम्
SK
तदा तस्मिन् महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन् मूढः प्रबुद्धः स्याद् अनावृतः
SK
द्वितीयो निःष्यन्दः
SK
तदाक्रम्य बलम् मन्त्राः सर्वज्ञाबलशालिनः | प्रवर्तन्ते ऽधिकाराय करणानीव देहिनाम्
SK
तत्रैव सम्प्रलीयन्ते शान्तरूपा निरञ्जनाः | सहाराधकचित्तेन तेनैते शिवधर्मिणः
SK
यस्मात् सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः
SK
तस्माच् छब्दार्थचिन्तासु न सावस्था न या शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः
SK
इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः
SK
अयम् एवोदयस् तस्य ध्येयस्य ध्यायिचेतसि | तदात्मतासमापत्तिर् इच्छतः साधकस्य या
SK
इयम् एवामृतप्राप्तिर् अयम् एवात्मनो ग्रहः | इयं निर्वाण-दीक्षा च शिवसद्भावदायिनि
SK
तृतीयो निःष्यन्दः
SK
यथेच्छाभ्यर्थितो धाता जाग्रतो ऽर्थान् हृदि स्थितान् सोमसूर्योदयं कृत्वा सम्पादयति देहिनः || १ |
SK
तथा स्वप्ने ऽप्य् अभीष्टार्थान् प्रणयस्यानतिक्रमात् | नित्यं स्फुटतरं मध्ये स्थितो ऽवश्यं प्रकाशयेत्
SK
अन्यथा तु स्वतन्त्रा स्यात् सृष्टिस् तद्धर्मकत्वतः | सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये
SK
यथा हि अर्थो ऽस्फुटो दृष्टः सावधाने ऽपि चेतसि | भूयः स्फुटतरो भाति स्वबलोद्योगभावितः
SK
तथा यत् परमार्थेन येन यत्र यथा स्थितम् | तत् तथा बलम् आक्रम्य न चिरात् सम्प्रवर्तते
SK
दुर्बलो ऽपि तदाक्रम्य यतः कार्ये प्रवर्तते | आच्छादयेद् बुभुक्षां च तथा यो ऽति बुभुक्षितः
SK
अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः | तथा स्वात्मन्य् अधिष्ठानात् सर्वत्रैवम् भविष्यति
SK
ग्लानिर् विलु.ङ्थिका देहे तस्याश्चाज्ञानतः सृतिः | तद् उन्मेषविलुप्तं चेत् कुतः सा स्याद् अहेतुका
SK
एकचिन्ताप्रसक्तस्य यतः स्याद् अपरोदयः | उन्मेषः स तु विज्ञेयः स्वयं तम् उपलक्षयेत्
SK
अतो बिन्दुर् अतो नादो रूपम् अस्माद् अतो रसः | प्रवर्तन्ते ऽचिरेणैव क्षोभकत्वेन देहिनः
SK
दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते | तदा किं बहुनोक्तेन स्वयम् एव अवभोत्स्यते
SK
प्रबुद्धः सर्वदा तिष्ठेज् ज्ञानेनालोक्य गोचरम् | एकत्रारोपयेत् सर्वं ततो ऽन्येन न पीड्यते
SK
शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् | कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः
SK
परामृतरसापायस् तस्य यः प्रत्ययोद्भवः | तेनास्वतन्त्रताम् एति स च तन्मात्रगोचरः
SK
स्वरूपावरणे चास्य शक्तयः सततोत्थिताः | यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः
SK
सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञात सिद्ध्युपपादिका
SK
तन्मात्रोदयरूपेन मनो ऽहंबुद्धिवर्तिना | पुर्यष्टकेन संरुद्धस् तदुत्थम् प्रत्ययोद्भवम्
SK
भुङ्क्ते परवशो भोगं तद्भावात् संसरेद् अतः | संसृतिप्रलयस्यास्य कारणं सम्प्रचक्ष्महे
SK
यदा त्व् एकत्र संरूढस् तदा तस्य लयोदयौ | नियच्छन् भोक्तृताम् एति ततश् चक्रेश्वरो भवेत्
SK
चतुर्थो निःष्यन्दः
SK
अगाधसंशयाम्भोधिसमुत्तरणतारिनीम् | वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम्
SK
लब्ध्वाप्य् अलभ्यम् एतज् ज्ञानधनं हृद्गुहान्तकृतनिहितेः | वसुगुप्तवच् छिवाय हि भवति सदा सर्वलोकस्य

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Spandakārikā: corpustei HTML transform of the Spandakārikā.

Source