को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्कुरणे, न अहेतु न अप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितम् आविष्कुर्वन्ति. एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: इदम् आनन्द षष्ट्यधिकं शतं भिक्षूणां तारकोपमे कल्पे ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. अवकीर्णकुसुमनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके भविष्यन्ति. तेषां खलु पुनर् आनन्द अवकीर्णकुसुमनामकानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां समो (Aद्SPG I ७३) भिक्षुसंघो भविष्यति. समं बुद्धक्षेत्रं भविष्यति. समायुष्प्रमाणं भविष्यति. यदुत वर्षसहस्रं. यतो यतो ऽभिनिष्क्रमिष्यन्त्य् [f. २३३ब्] अभिनिष्क्रम्य प्रव्रजिष्यन्ति. प्रव्रज्य अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. तत्र तत्र पञ्चवर्णिकानां कुसुमानां कुसुमवर्षम् अभिप्रवर्षिष्यति. तस्मात् तर्ह्य् आनन्द उत्तमविहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. तथागतविहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इह गंभीरायां प्रज्ञापारमितायां चरिष्यति. निष्ठा तेन आनन्द कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या, मनुष्येभ्य एव अहं च्युत्वेहोपपन्नस्, तुषितेभ्यो वा देवनिकायेभ्यश् च्युत्वा इह उपपन्नो. मनुष्येष्व् एवेयं गंभीरा प्रज्ञापारमिता विस्तरेण श्रुता भविष्यति. तुषितेषु वा देवनिकायेष्व् इयं गंभीरा प्रज्ञापारमिता विस्तरेण श्रुता भविष्यति. तथागतव्यवलोकितास् ते आनन्द बोधिसत्त्वा महासत्त्वा द्रष्टव्या य इह गंभीरायां प्रज्ञापारमितायां चरिष्यन्ति. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च उद्ग्रहीष्यन्ति धारयिष्यन्ति. वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, बोधिसत्त्वयानिकांश् च पुद्गलांश् चेह गंभीरायां प्रज्ञापारमितायाम् अववदिष्यत्य् अनुशासिष्यति निष्ठा तेन आनन्द बोधिसत्त्वयानिकेन पुद्गलेन गन्तव्या, संमुखं मया तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिकाद् इयं (Aद्SPG I ७४) गंभिरा प्रज्ञापारमिता श्रुता भविष्यत्य् उद्गृहीता च धारिता च वा चिता च पर्यवाप्ता च भविष्यति, तत्र च तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु कुशलमूलान्य् अवरोपितानि भविष्यन्ति. वेदितव्यम् आनन्द तेन कुलपुत्रेण वा कुलदुहित्रा वा, न मया श्रावकाणाम् अन्तिके कुसलमूलान्य् अवरोपितानि, न श्रावकाणाम् अन्तिकाद् इयं गंभीरा प्रज्ञापारमिता श्रुता. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितां उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति, पर्यवाप्स्यति, अर्थतश् च धर्मतश् च व्यञ्जनतश् च अनुगमिष्यति, निष्ठा आनन्द तेन कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या, संमुखीभूतो मे तथागतो ऽर्हन् सम्यक्संबुद्धः. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा न प्रतिक्रोक्ष्यन्ति न प्रतिवक्ष्यन्ति श्रुत्वा च प्रसादं प्रतिलप्स्यन्ते, पूर्वजिनकृताधिकारः स आनन्द कुलपुत्रो वा कुलदुहिता वा वेदितव्यः. अवरोपितकुशलुमूलः कल्याणमित्रपरिगृहिताः. किं चाप्य् आनन्द येन कुलपुत्रेण वा कुलदुहित्रा वा तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके कुशलमूलम् अवरोपितं, न तद् विसंवदिष्यति. श्रावकत्वे वा प्रत्येकबुद्धत्वे वा. अपि तु खलु पुनर् आनन्द सुप्रतिविद्धेन बोधिसत्त्वेन महासत्त्वेन भवितव्यं, दानपारमितायां चरता, शिलक्षान्तिवीर्यध्यानप्रज्ञापारमितायां चरता, यावत् सर्वाकारज्ञतायां [f. २३४अ] चरता. सुप्रतिविद्धो ह्य् आनन्द बोधिसत्त्वो महासत्त्वो दानपारमितायां चरंच्, छीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्, यावत् सर्वाकारज्ञतायां (Aद्SPG I ७५) चरन् न श्रावकत्वे वा प्रत्येकबुद्धत्वे वा स्थास्यति. तस्मात् तर्ह्य् आनन्द अनुपरिन्दामि ते इमां गंभीरां प्रज्ञापारमितां. सचेत् त्वम् आनन्द यो मया धर्मो देशितः प्रज्ञापारमितां स्थापयित्वा सर्वां तां धर्मदेशनाम् उद्गृह्य पर्यवाप्स पुनर् एव नाशयेः, पुनर् एवोत्सृजेर्, न मे त्वम् आनन्द तावतापराध्ये. सचेन् त्वम् आनन्द इमां प्रज्ञापारमिताम् उद्गृह्य एकपदम् अपि नाशयेस् तावता मे त्वम् आनन्द अपराध्ये. सचेत् त्वम् आनन्द इमां गंभीरां प्रज्ञापारमिताम् उद्गृह्य पुनर् एव न नाशये पुनर् एव नोत्सृजेश् तावता मे त्वम् आनन्द नापराध्ये. तस्मात् तर्ह्य् आनन्द, अनुपरिन्दामि ते इमां गंभीरां प्रज्ञापारमितां यथोद्गृह्य धारये. वाचयेत् पर्यवाप्नुया सुमनसिकृता च कर्तव्या सुपरिगृहिता च सुपर्यवाप्ता च स्वाधारिता च कर्तव्या सुसनाप्तैर् अक्षरपदव्यञ्जनै सुनिरुक्ता च सूद्गृहीता च कर्तव्या. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यत्य् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिर् धारिता भविष्यति. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमिताम् उद्ग्रहीष्यत्य् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिर् अनुपरिगृहीता भविष्यति. य इच्छेत् मम आनन्द संमुखीभूतं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं. (Aद्SPG I ७६) पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभि. तेनेयं प्रज्ञापारमितोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्येयं प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः. प्रज्ञापारमितां सत्कुर्वतां गुरुकुर्वतां मानयतां पूजयताम् अहं च तेन पूजितो भविष्याम्य्, अतीतानागतप्रत्युत्पन्नाश् च बुद्धा भगवन्तः पूजिता भविष्यन्ति. यो हि कश्चिद् आनन्द अस्यां गंभीरायां प्रज्ञापारमितायां भाष्यमाणायां गौरवं च प्रेमं च प्रसादं च उत्पादयिष्यति अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवताम् अन्तिके तेन प्रेमश् च प्रसादश् च गौरवं चोत्पादितं भविष्यति. यदि ते आनन्द अहं प्रियश् च मनआपश् च अपरित्यक्तश् च, तन् ते आनन्द इयं प्रज्ञापारमिता प्रिया च मनआपा च अपरित्यक्ता च भवतु. यथैकपदम् अपि ते इतो गंभीरायाः प्रज्ञापारमिताया न नाशयितव्यं. सुबह्व् अपि ते आनन्द भाषेयं प्रज्ञापारमिताया परिन्दानाम् आरभ्य. संक्षिप्तेन आनन्द यादृश एव अहं ते शास्तास् तादृशस् ते [f. २३४ब्] इयं प्रज्ञापारमिता शास्ता, तस्मात् तर्ह्य् आनन्द अप्रमाणया परिन्दानया ते ऽहम् इमां प्रज्ञापारमिताम् अनुपरिन्दामि. तस्मात् तर्ह्य् आनन्द सदेवमानुषासुरस्य लोकस्य पुरत आरोचयामि. यस्यापरित्यक्तो बुद्धः अपरित्यक्तो धर्मः अपरित्यक्तः संघः अपरित्यक्ता च अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्त. अपरित्यक्ता च अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिस्, तस्येयं प्रज्ञापारमिता अपरित्यक्ता भवतु. इयम् अस्माकम् अनुशासनी. यो हि कश्चिद् आनन्द (Aद्SPG I ७७) कुलपुत्रो व कुलदुहिता वा इमं गंभिरां प्रज्ञापारमिताम् उद्ग्रहीष्यति. धारयिष्यति वाचयिष्यति पर्यवाप्स्यति पत्तीयेष्यति योनिशश् च मनसिकरिष्यति. परेषां चेमां गंभीरां प्रज्ञापारमिताम् अनेकपर्यायेण विस्तरेण आख्यास्यति देशयिष्यति प्रज्ञापयिष्यति, प्रस्थापयिष्यति विवरिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति स खलु पुनर् आनन्द कुलपुत्रो वा कुलदुहिता वा क्षिप्रम् एव अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. अभ्याशी भविष्यति सर्वाकारज्ञताया. तत् कस्य हेतोः? प्रज्नापारमितानिर्याता ह्य् आनन्द बुद्धानां भगवताम् अनुत्तरा सम्यक्संबोधिर्. ये ऽपि ते आनन्द अभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्द भविष्यन्त्य् अनागाते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्द एतर्हि पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तेषाम् अपि बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः. तस्मात् तर्ह्य् आनन्द अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन. षट्सु पारमितासु चरितव्यं. तत् कस्य हेतोर्? एषा ह्य् आनन्द बोधिसत्त्वानां महासत्त्वानां जनेत्री यदुत प्रज्ञापारमिता. ये हि केचिद् (Aद्SPG I ७८) आनन्द बोधिसत्त्वा महासत्त्वा षट्सु पारमितासु शिक्षिष्यन्ति. सर्वे ते निर्यास्यन्त्य् अनुत्तरस्यां सम्यक्संबोधौ. तस्मात् तर्ह्य् आनन्द इमाः षट्पारमिताः भूयस्या मात्रया परिन्दाम्य् अनुपरिन्दामि. तत् कस्य हेतोर्? एषा ह्य् आनन्द तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मकोशः, अक्षयो ह्य् एष धर्मकोशो यदुत षट्पारमिताकोशः. ये ऽपि ते आनन्द पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति. ते ऽप्य् आनन्द बुद्धा भगवन्त इह एव षट्पारमिताकोशाद् धर्मं देशयन्ति. ये ऽपि ते आनन्द अभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्रैव षट्सु पारमितासु शिक्षित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा धर्मन् देशयन्त. ये ऽपि ते आनन्द भविष्यन्त्य् अनागाते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्रैव षट्सु पारमितासु शिक्षित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. धर्मन् देशयन्ति. [f. २३५अ] ये ऽपि ते अनन्तातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां श्रावकाः सर्वे ते इहैव प्रज्ञापारमितायां शिक्षित्वा परिनिर्वृताश् च परिनिर्वान्ति च परिनिर्वापयिष्यन्ति च. सचेत् त्वम् आनन्द श्रावकयानिकानां पुद्गलानां श्राववकभूमिम् आरभ्य धर्मन् देशयेस् तया च धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे अर्हत्वं साक्षात्कुर्युः अद्यापि त्वया मे श्रावकेण श्रावककृत्यं न कृतं भवेत्. सचेत् मे (Aद्SPG I ७९) त्वम् आनन्द बोधिसत्त्वस्य महासत्त्वस्यैकपदम् अपि प्रज्ञापारमिताप्रतिसंयुक्तं देशयेः प्रकाशयेः, एवम् अहं त्वया मे? श्रावकेण आराधितो भवेयं, श्रावकेण श्रावककृत्यं कृतं भवेत्. या च पौर्विकया धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुपूर्वचरमम् अर्हत्वं साक्षात्कुर्युस् तेषां च अर्हतां यद् दानमयं पुण्यक्रियावस्तु शीलमयं भावनामयं पुण्यक्रियावस्तु. तत् किं मन्यसे आनन्द अपि नु तद् बहु भवेत्? आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स आनन्द बहुतरं पुण्यं प्रसवेद् यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेद् अन्तश एकदिवसम् अपि, तिष्ठत्व् आनन्दैकदिवसः सचेद् आनन्द अर्धदिवसम् अपि, तिष्ठत्व् आनन्द अर्धदिवसः. सचेद् आनन्द यावत् पुरोभक्तम् अपि, सचेद् यावन् नाडिकान्तरं वा सचेद् यावद् अच्छटान्तरं वा, सचेद् यावत् क्षणं वा लवं वा मुहूर्त्तं वा. अयम् एव आनन्द बहुतरं पुण्यं प्रसवेति यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेत् स सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितृणां च कुशलमूलम् अभिभवति. सचेत् पुनर् आनन्द बोधिसत्त्वो महासत्त्वो बोधिसत्त्वयानिकानां पुद्गलानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेत् अन्तश एकदिवसम् अप्य् अर्धदिवसम् अपि पुरोभक्तम् अपि नाडिकान्तरम् अपि क्षणं वा लवं वा मुहूर्त्तं वा, अयम् आनन्द बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितृणां च कुशलमूलम् अभिभवति. तत् कस्य हेतोः? तथा हि स (Aद्SPG I ८०) आत्मना च अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः परं च अनुत्तरस्यां सम्यक्संबोधौ समादापयति संहर्षयति समुत्तेजयति निवेशयति प्रतिष्ठापयति. एवम् आनन्द बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरंश् चतुर्षु स्मृत्युपस्थानेषु, यावन् मार्गाकारज्ञतायां चरं कुशलमुलैर् विवर्धमानः अस्थानम् आनन्द अनवकाशो यद् अनुत्तरस्याः सम्यक्संबोधेः परिहीयेत नेदं स्थानं विद्यते.
SK
अस्यां खलु पुनः प्रज्ञापारमितायां भाष्यमाणायां भगवांश् चतसृणां पर्षदां देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणां तथा स्थितानाम् एव पुरतस् तथारूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्कृतवान् यथारूपेणर्द्ध्यभिसंस्कारेण अभिसंस्कृतेन सर्वे ते अक्षोभ्यं तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्यन्ति भिक्षुसंघपरिवृतं भिक्षुसंघपुरस्कृतं धर्मन् देशयन्तं सागरोपमया पर्षदा अक्षोभ्यया, सर्वैर् अर्हद्भिः क्षीणास्रवैर् निष्क्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः [f. २३५ब्] कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरपारमिप्राप्तैर् बोधिसत्त्वैश् च महासत्त्वैः सागरोपमबुद्धिभिः. अथ भगवान् पुनर् एव तम् ऋद्ध्यभिसंस्कारं प्रतिसंहृतवान् प्रतिसंहृते च तस्मिन् ऋद्ध्यभिसंस्कारे ताश् चतस्रः पर्षदो न भूयः पश्यन्ति तम् अक्षोभ्यं तथागतम् अर्हन्तं सम्यक्संबुद्धं, श्रावकान् वा बोधिसत्त्वयानिकान् वा पुद्गलंस्, तच् च (Aद्SPG I ८१) बुद्धक्षेत्रम् अक्षोभ्यस्य तथागतस्य अर्हतः सम्यक्संबुद्धस्य न भूयः पश्यन्ति, न भूयो बुद्धप्रमुखो भिक्षुसंघश् चक्षुष आभासम् आगच्छति. तत् कस्य हेतोः? प्रतिसंहृतो हि तथागतेन अर्हता सम्यक्संबुद्धेन स ऋद्ध्यभिसंस्कारस्. तेन तेन भूयः पश्यन्ति. अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयत: पश्यसि त्वम् आनन्द तद् अक्षोभ्यस्य तथागतस्य बुद्धक्षेत्रं तं च अक्षोभ्यम् तथागतं तं च भिक्षुसंघं बोधिसत्त्वसंघं च? आह: चक्षुषो ऽपि भगवंस् तद् बुद्धक्षेत्रं नाभासम् आगच्छति. नापि स तथागतो नापि स भिक्षुसंघो नापि स बोधिसत्त्वसंघः. भगवान् आह: एवम् एव आनन्द सर्वधर्मा न चक्षुष आभासम् आगच्छन्ति. न धर्मो धर्मस्य आभासम् आगच्छति. न धर्मो धर्मं पश्यति. न धर्मो धर्मं जानाति. यथा पुनर् एव अक्षोभ्यस् तथागतो ऽर्हन् सम्यक्संबुद्धस् ते च श्रावकास् ते च बोधिसत्त्वयानिकाः पुद्गलास् तच् च बुद्धक्षेत्रं न चक्षुष आभासम् आगच्छति. एवं ह्य् आनन्द सर्वधर्मा न चक्षुष आभासम् आगच्छन्ति. न धर्मो धर्मस्य आभासम् आगच्छति. न धर्मो धर्मं पश्यति. न धर्मो धर्मं जानाति. सर्वधर्मा ह्य् आनन्द अजानकाः अपश्यकाः अक्रियासमर्थाः. तत् कस्य हेतोः? निरीहका अग्राह्या ह्य् आनन्द सर्वधर्मा आकशनिरीहकतया, अचिन्त्या ह्य् आनन्द सर्वधर्माः मायापुरुषोपमाः, अवेदका ह्य् आनन्द सर्वधर्माश् चित्तविगतत्वात्. विठपनप्रत्युपस्थानलक्षणत्वाद् असारकतां चोपादाय. एवं चरन् बोधिसत्त्वो महासत्त्वश् (Aद्SPG I ८२) चरति प्रज्ञापारमितायां न च किंचिद् धर्मम् अभिनिविशते. एवं शिक्षमाण आनन्द बोधिसत्त्वो महासत्त्वः शिक्षते प्रज्ञापारमितायां. सर्वपारमिताः परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं. एषा शिक्षा अग्र्या आख्यायते ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीता आख्यायते अनुत्तरा निरुत्तरा आख्यायते, सर्वलोकहिताय सर्वलोकसुखाय. अनाथानां नाथकरी हुद्धानुज्ञाता बुद्धप्रशस्ता. यत्र स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमन् त्रिसाहस्रमहासाहस्रं लोकधातुं दक्षिणेन पाणिनाभ्युत्क्षिप्य पुनर् एव निक्षिपेयुः न च तेषां सत्त्वानाम् एवं भवेद्, उत्क्षिप्तो वायं त्रिसाहस्रमहासाहस्रो लोकधातुर् निक्षिप्तो वा. तत् कस्य हेतोः? इयं सा आनन्द प्रज्ञापारमिता यत्र शिक्षित्वा बुद्धानां भगवताम् अतीतानागतप्रत्युत्पन्नेषु धर्मेष्व् असंगं ज्ञानदर्शनम् उत्पन्नं. यावन्त्य आनन्द शिक्षा सर्वासां शिक्षाणाम् इयं प्रज्ञापारमिताशिक्षा अग्र्या आख्यायते ज्येष्ठा श्रेष्ठा आख्यायते वरा प्रवरा आख्यायते. प्रणीता आख्यायते अनुत्तरा निरुत्तरा आख्यायते. आकाशस्य स आनन्द [f. २३६अ] प्रमाणं वा पर्यन्तं वोद्ग्रहीतव्यं मन्येत. यः प्रज्ञापारमितायाः प्रमाणं वा पर्यन्तं वोद्ग्रहीतव्यं मन्येत. तत् कस्य हेतोः? अप्रमाणा ह्य् आनन्द प्रज्ञापारमिता. न मया आनन्द प्रज्ञापारमितायाः प्रमाणम् आख्यातं, नामकायपदकायव्यञ्जनकाया ह्य् आनन्द प्रमाणबद्धा न प्रज्ञापारमिता प्रमाणबद्धा. आनन्द आह: केन कारणेन भगवं प्रज्ञापारमिता अप्रमाणबद्धा? भगवान् आह: अक्षयत्वाद् आनन्द (Aद्SPG I ८३) प्रज्ञापारमिता अप्रमाणबद्धा, विविक्तत्वाद् आनन्द प्रज्ञापारामिता अप्रमाणबद्धा. ये ऽपि ते आनन्द अभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि इत एव प्रज्ञापारमितायाः प्रभाविता. न च प्रज्ञापारमिता क्षयं गता. ये ऽपि ते आनन्द भविष्यन्त्य् अनागते ऽध्वनि तथागताः अर्हन्तः सम्यक्संबुद्धास् ते ऽपि इत एव प्रज्ञापारमितायाः प्रभावयिष्यन्ति. न च प्रज्ञापारमिता क्षेष्यते. ये पि ऽते आनन्दैतर्हि दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति धृयन्ते यापायन्ति धर्मं च देशयन्ति, ते ऽपि बुद्ध भगवन्त इत एव प्रज्ञापारमितायाः प्रभाव्यन्ते न च प्रज्ञापारमिता क्षियते. तत् कस्य हेतोर्? आकाशं स आनन्द क्षपयितव्यं मन्येत यः प्रज्ञापारमितां क्षपयितव्यं मन्येत. न च प्रज्ञापारमिता क्षीणा न क्षीयते न क्षेष्यते. एवं न ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता क्षीणा न क्षीयते न क्षेष्यते. न ह्य् एषां धर्माणाम् उत्पादो ऽस्ति, येषाम् उत्पादो नास्ति कुतस् तेषां क्षयः प्रज्ञास्यते? अथ भगवान् जिह्वेन्द्रियम् अभिनिर्मापय्य सर्वान्तं मुखमण्डलं जिह्वेन्द्रियेण संच्छाद्य आयुष्मन्तम् आनन्दम् आमन्त्रयत: तस्माद् तर्ह्य् आनन्द इमां प्रज्ञापारमितां चतसृणां पर्षदां विस्तरेण चक्षीथा देशयेः संप्रकाशयेः प्रज्ञपयेः प्रस्थापयेः विवरेर् विवरेर् उत्तानीकुर्याद् विस्तरेण (Aद्SPG I ८४) संप्रकाशयेः. इह ह्य् आनन्द गंभीरायां प्रज्ञापारमितायां सर्वधर्मा विस्तरेणोपदिष्टा यत्र श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बोधिसत्त्सयानिकैर् वा पुद्गलैः शिक्षितव्यं. यत्र यथानुशिष्टा शिक्षमाणा स्वसु स्वसु भूमिषु स्थास्यंति. इयं पुनर् आनन्द गंभीरा प्रज्ञापारमिता सर्वाक्षराणां प्रवेशः, इयम् आनन्द गंभीरा प्रज्ञापारमिता सर्वधारणीनां मुखं यत्र धारणीमुखे बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं. इमान् धारणीन् धारयतां बोधिसत्त्वानाम् महासत्त्वानां सर्वप्रतिभानप्रतिसंविद आमुखीभवन्ति. इयम् आनन्द प्रज्ञापारमिता अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवताम् अक्षयः सद्धर्मकोशः उक्तो मया. तस्मात् तर्ह्य् आनन्द आरोचयामि ते प्रतिवेदयामि ते य इमां गंभीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति. पर्यवाप्ष्यति. सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिं धारयिष्यति. [f. २३६ब्] इयं सा आनन्द प्रज्ञापारमिता धारण्य् उक्ता मया. यान् त्वं प्रज्ञापारमिताधारणीन् धारयन् सर्वधर्मान् धारयिष्यसि. ((६०))
SK
परिवर्त ६१.
SK
अथायुष्मतः सुभूतेर् एतद् अभूत्: गंभिरा वतेयम् तथागतानां सम्यकम्बुद्धानां बोधिः. यन्न्व् अहं तथागतम् अर्हन्तं सम्यक्संबुद्धं परिपृच्छेयं. अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: अक्षया हि भगवं प्रज्ञापारमिता. भगवान् आह: आकाश अक्षयत्वात् सुभूते अक्षया प्रज्ञापारमिता. आह: कथं भगवं प्रज्ञापारमिता अभिनिर्हर्तव्या? भगवान् आह: रूप अक्षयत्वात् सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या. वेदनासंज्ञासंस्कारविज्ञानाक्षयत्वात् सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या. दानपारमिता अक्षयत्वात् सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या. यावत् सर्वाकारज्ञता अक्षयत्वात् सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या. पुनर् अपरं सुभूते रूपाकाशाक्षयत्वेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. वेदनासंज्ञासंस्कारविज्ञानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. दानपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. शीलपारमिता आकाशाअक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. क्षान्तिपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. वीर्यपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. ध्यानपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. यावत् सर्वाकारज्ञताकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. पुनर् अपरं सुभूते अविद्याकाशाक्षयत्वेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. संस्काराकाशाअक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता (Aद्SPG I ८६) अभिनिर्हर्तव्या. विज्ञानाकशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. नामरूपाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्नापारमिता अभिनिर्हर्तव्या. षडायतनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. स्पर्शाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. वेदनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. तृष्णाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. उपादानाकाशाअक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. भवाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. जात्याकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाकाशाक्षयत्वेन सूभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञपारमिता [f. २३७अ] अभिनिर्हर्तव्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादव्यवलोकनतान्तविवर्जनता. आवेणिको ऽयं बोधिसत्त्वस्य महासत्त्वस्य धर्मो बोधिमण्डनिषण्नस्य यदेवं प्रतीत्यसमुत्पादं व्यवलोकयति. एवं व्यवलोकयं प्रतीत्यसमुत्पादं सर्वज्ञताज्ञानं प्रतिलभते. य कश्चित् सुभूते अनेन आकाशाक्षयाभिनिर्हारेण प्रज्ञापारमितायां चरं प्रतीत्यसमुत्पादं व्यवलोकयति. स न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ (Aद्SPG I ८७) वा स्थास्यति. स्थास्यति सो ऽनुत्तरस्यां सम्यक्संबोधौ. ये ऽपि केचित् सुभूते बोधिसत्त्वयानिका पुद्गला विवर्तन्ते, सर्वे ते इमां प्रज्ञापारमितामनसिकारान् अनागम्य विवर्तन्ते. न च जानंति कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाकाशाक्षयाभिनिर्हारेण प्रतीत्यसमुत्पादो व्यवलोकितव्यः. ये ऽपि केचित् सुभूते बोधिसत्त्वयानिका पुद्गला विवर्तन्ते सर्वे ते इदम् उपायकौशलम् अनागम्य विवर्तंते ऽनुत्तरस्याः सम्यक्संबोधे. ये ऽपि केचित् सुभूते बोधिसत्त्वा महासत्त्वा न विवर्तंते ऽनुत्तरस्या सम्यक्संबोधेः सर्वे ते इमां प्रज्ञापारमिताम् आगम्य न विवर्तन्ते ऽनुत्तरस्याः सम्यक्संबोधे. उपायकौशलेन चैवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाकाशाक्षयाभिनिर्हारेण प्रज्ञापारमिता व्यवलोकितव्या अभिनिर्हर्तव्या. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन् न कंचिद् धर्मं पश्यत्य् अहेतुकम् उत्पद्यमानम् न कंचिद् धर्मं नित्यं समनुपश्यति न निरुध्यमानं. न कंचिद् धर्मम् आत्मतः समनुपश्यति. न सत्त्वतो न जीवतो न जंतुतो न मनुजतो न मानवतो न पोषतो न पुद्गलतो न कारकतो न कारापकतो न उत्थापकतो न समुत्थापकतो न वेदकतो न वेदयित्रीकतो न जानकतो न पश्यकतः, न नित्यतः समनुपश्यति न अनित्यतो न सुखतो न दुःखतो न आत्मतो न अनात्मतो न शान्ततो न अशान्ततः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रतीत्यसमुत्पादो व्यवलोकयितव्यः प्रज्ञापारमितायां चरता. यस्मिं सुभूते समये बोधिसत्त्वो महासत्त्व (Aद्SPG I ८८) प्रज्ञापारमितायां चरति, तस्मिं समये न रूपं समनुपश्यति, नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मानं वा अनात्मानं वा शान्तं वा अशान्तं वा यावत् सर्वाकारज्ञताम् न समनुपश्यति नित्यं वा अनित्यं वा सुखं वा दुःखं वा, आत्मानं वा अनात्मानं वा, शान्तं वा अशान्तं वा. यस्मिं सुभूते समये बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरति, तस्मिम् [f. २३७ब्] समये प्रज्ञापारमितायां चरं प्रज्ञापारमितां न समनुपश्यति. तम् अपि धर्मं न समनुपश्यति. येन प्रज्ञापारमितां समनुपश्येत्. एवं ध्यानपारमितां न समनुपश्यति. वीर्यपारमितां न समनुपश्यति. क्षान्तिपारमितां न समनुपश्यति. शीलपारमितां न समनुपश्यति. दानपारमितां न समनुपश्यति. यावद् बोधिं न समनुपश्यति. तम् अपि धर्मं न समनुपश्यति. येन धर्मेण बोधिं समनुपश्येत्. येन च धर्मेण सर्ववासनानुसन्धिप्रहाणं कुर्यात् तम् अपि न समनुपश्यति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. सर्वधर्म अनुपलंभयोगेन. यस्मिं सुभूते समये बोधिसत्त्वो महासत्त्वः सर्वधर्म अनुपलभमानः प्रज्ञापारमितायाञ् चरति तस्मिन् समये मारः पापीयां छोकशल्यसमर्पितो भवति. तद्यथापि नाम सुभूते पुरुषो मातापित्रोः कालगतयो शोकशल्यसमर्पितो भवति. परमेण शोकशल्येन समन्वागतः, एवम् एव सुभूते मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्म अनुपलभमानस्य शोकशल्यसमर्पितो भवति. परमेण शोकशल्येन समन्वागतः. सुभूतिर् आह: किम् एक एव भगवं मारः पापीयां परमेण शोकशल्येन समर्पितो भवति. उताहो ये त्रिसाहस्रमहासाहस्रे लोकधातु मारा पापियांसस् (Aद्SPG I ८९) ते सर्वे परमेण शोकशल्येन समर्पिता भवंति? भगवान् आह: ये ऽपि ते सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांसस् ते सर्वे परमेण शोकशल्येन समन्वागता भवंति. स्वकस्वकेषु च आसनेषु न रमन्ते. यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण अविरहितो भवति. एवं विहरतो बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरो लोको ऽवतारं न लभते गाधं न लभते. यत्र गृहीत्वा विवर्तयेत्. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमिताविहारेण विहर्तव्यं. प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति. एवं शीलपारमिता क्षान्तिपारमिता. वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता भावनापरिपूरिं गच्छति. प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य सर्वपारमिता भावनापरिपूरिं गच्छंति. अथायुष्मां सुभूतिर् भगवंतम् एतद् अवोचत्: कथं भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता भावनापरिपूरिं गच्छति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता. प्रज्ञापारमिता कथं भावनापरिपूरिं गच्छति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः दानं ददन् सर्वाकारज्ञतायां परिणामयंस् तद् दानं ददाति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता [f. २३८अ] भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्व शीलं रक्षन् सर्वाकारज्ञतायां परिणामयंस् तच् छीलं रक्षति. एवं (Aद्SPG I ९०) खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलप्रमिता भावनापरिपूरिं गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्वः क्षांत्या संपादयं. सर्वाकारज्ञतायां. परिणामयंस् तां क्षान्तिं भावयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता भावनापरिपूरिं गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्वः वीर्यम् आरभमाणः सर्वाकारज्ञतायां परिणामयंस् तद् वीर्यम् आरभते. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता भावनापरिपूरिं गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानानि समापद्यमानः सर्वाकारज्ञतायां परिणामयंस् तानि ध्यानानि समापद्यते. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता भावनापरिपूरिं गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञां भावयन् सर्वाकारज्ञतायां परिणामयंस् तां प्रज्ञां भावयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता भावनापरिपूरिं गच्छति. अथायुष्माञ्च् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानन् ददतः सर्वाकारज्ञतायां परिणामयतः सर्वसत्त्वेषु मैत्रं कायकर्म मैत्रं वाक्कर्म मैत्रं (Aद्SPG I ९१) मनस्कर्म प्रत्युपस्थितं भवति. शीलपारमितां तस्मिं समये बोधिसत्त्वो महासत्त्व परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः यन् ते परिग्राहका आक्रोशंति वा परिभाषन्ति वा असह्याभिर् वा परुषाभिर् वाग्भिः समुदाचरंति स न तेषाम् अन्तिके चित्तम् आघातयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायं स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः यन् ते परिग्राहका अक्रोशन्ति वा परिभाषन्ते वा असह्याभिर् वा परुषाभिर् वाग्भिः समुदाचरंति तस्याक्रुश्यमानस्य वा परिभाष्यमानस्य वा असह्याभिर् वा परुषाभिर् वाग्भिः समुदाचर्यमाणस्य वा दानबुद्धिर् एव भवति परित्यागबुद्धिर् एव भवति. दातव्यम् एव मया दानं न मया दानं न दातव्यं, स कायिकं चैतसिकं च वीर्यं संजनयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितो वीर्यपारमितां [f. २३८ब्] परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवान् अह: इह सुभूते बोधिसत्त्वो महासत्त्वो दानं ददन् न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वाकारज्ञातायाम् एव अस्य चित्तं न प्रवर्तते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो (Aद्SPG I ९२) दानपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो उपायकौशलेन दानन् ददन् प्रज्ञापारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानं ददतो दानं परित्यजतो मायाबुद्धिर् सदा दाने प्रत्युपस्थिता भवति. तेन च दानेन न कस्यचिद् सत्त्वस्य उपकारं वा अपकरं वा पश्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित. उपायकौशलेन प्रज्ञापरमितां परिगृह्णाति. ((६))
SK
परिवर्त ६२.
SK
अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवान् बोधिसत्त्वो महासत्त्व शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो यः कायिको वा वाचिको वा चैतसिको वा संचरस् तेन संचरेण श्रावकभूमिं. वा प्रत्येकबुद्धभूमिं वा न परामृशति. स तत्र च शीलपारमितायां स्थितो न सत्त्वान् जीविताद् व्यवरोपयति नादत्तम् आददाति. न कामेषु मिथ्याचरति न मृषावाचं भाषते. न पिशुनां वाचां भाषते. न परुषां वाचां भाषते. न संभिन्नप्रलापी भवति, न अभिध्यालुर् भवति न व्यापन्नचित्तो भवति. न मिथ्यादृष्टिको भवति. स तत्र शीलपारमितायां स्थितो यद् दानं ददात्य् अन्नम् अन्नार्थकेभ्यः पानं पानार्थकेभ्यो यानं यानार्थकेभ्यो वस्त्रं वस्त्रार्थकेभ्यः पुष्पाणि पुष्पार्थकेभ्यो माल्यं माल्यार्थकेभ्यो गन्धान् गन्धार्थकेभ्यो विलेपनां विलेपनार्थकेभ्यः शयनासनं शयनासनार्थकेभ्यः उपाश्रयम् उपाश्रयार्थकेभ्यः प्राजीविकं प्राजीविकार्थकेभ्यः उपकरणम् उपकरनार्थकेभ्यः यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददाति. तच् च दानं सर्वसत्त्वै सार्धं साधारणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. तथा च परिणामयति. यथा परिणामो न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः (Aद्SPG I ९४) शीलपारमितायां स्थितो दानपारमितां परिगृह्णति. अह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां स्थितस्य सचेत् सर्वसत्त्वागम्यांगप्रत्यङ्गानि च्छित्त्वा च्छित्त्वा गच्छेयुस् तत्र बोधिसत्त्वस्य महासत्त्वस्य एकचित्तोत्पादो ऽपि न क्षुभ्यति न व्यापद्यते अन्यत्रास्यैवं भवति, सुलब्धा मे लाभा यत्र हि नाम मम सर्वसत्त्वा अङ्गप्रत्यङ्गानि च्छित्त्वा च्छित्त्वा गच्छन्ति. अनेन च अहं कायपरित्यागेन. दिव्यं वज्रमयं तथागतकायं प्रतिलप्स्ये. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां [f. २३९अ] परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व कायेन च चित्तेन च वीर्यं न स्रंसयति. सर्वसत्त्वा मया उत्तारयितव्या संसाराद् अमृते धातौ प्रतिष्ठापयितव्या. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्व शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते. द्वितीयं तृतीयं चतुर्थं यावन् निरोधं समापद्यते. न च श्रावकभूमिं वा प्रत्येकबुद्धभूमिम् अध्यालम्बते. अन्यत्रास्यैवं भवति. इह मया समाधिपारमितायां (Aद्SPG I ९५) स्थित्वा सर्वसत्त्वा संसारात् परिमोचयितव्या इति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति, आह: कथं भगवं बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलापारमितायां स्थितो न कंचिद् धर्मं संस्कृतं पश्यति न असंस्कृतं पश्यति. न भावं संस्कृतं पश्यति. न अभावम् असंस्कृतं पश्यति. न निमित्तं संस्कृतं पश्यति. न अनिमित्तम् असंस्कृतं पश्यति. न कस्यचिद् धर्मस्य अस्तितां वा नास्तितां वा समनुपश्यति. अन्यत्र सर्वधर्मतथतां न व्यतिवर्तंते. तया च प्रज्ञापारमितया उपायकौशलेन च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित प्रज्ञापारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो दानपारमितां परिगृह्णाती? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय दानन् ददतो यावद् बोधिमण्डनिषण्णस्य सर्वसत्त्वा आक्रोशेयुः परिभाषेरन्न् अङ्गप्रत्यङ्गानि वा च्छिन्त्युश् तस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां स्थितस्यैवं भवति: दातव्यम् एव मयैतेभ्य सत्त्वेभ्य न मया दानं न दातव्यं. स तेषां सत्त्वानाम् अन्नम् अन्नार्थिकेभ्यो ददाति. पानं पानार्थिकेभ्यो ददाति. यावद् अन्यतरान्यतरान् मानुष्यकां परिष्कारां ददाति. स तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणां कृत्वा सर्वाकारज्ञतायां परिणामयति. यथा परिणामयतस् त्रिषु बुद्धिषु (Aद्SPG I ९६) न प्रवर्तते. कः परिणामयति किं वा परिणामयति. क्व वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो दानपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्ण न कंचित् सत्त्वं जीविताद् व्यवरोपयति. नादत्तम् आददाति न कामेषु मिथ्याचरति न मृषावदति न पैशुन्यं [f. २३९ब्] वदति. न पारुष्यं वदति. न संभिन्नप्रलापी भवति. न अभिध्यालुर् भवति न व्यापन्नचित्तो भवति न मिथ्यादृष्टिको भवति. न च अस्य श्रावकभूमौ वा. प्रत्येकबुद्धभूमौ वा चित्तं क्रामति. तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. तथा च परिणामयति. यथा त्रिविधा बुद्धिर् न प्रवर्तते. कः परिणामयति किं वा परिणामयति. क्व वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितः शीलपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायां स्थितो एवं वीर्यं संजनयति. गत्वाहं योजनशतं वा गत्वा यावद् योजनसहस्रं वा यावद् योजनशतसहस्रं वा गत्वा यावल् लोकधातुं वा गत्वा लोकधातुकोटीशतसहस्रं वा गत्वा तत्र अन्ततः एकसत्त्वम् अपि शरणगमने शिक्षापदेषु वा प्रतिष्ठापयेयं (Aद्SPG I ९७) क्षान्तौ वा श्रोतआपत्तिफले वा यावद् अर्हत्त्वे वा प्रत्येकबोधौ वा यावद् अनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठापयेयम् इति वीर्यम् आरब्धव्यं तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैः धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति, यावन् निरोधं समापद्य विहरति. उत्पन्नो ऽनुत्पन्नांश् च चित्तचैतसिकान् धर्मान् कुशलोपसंहितान् सर्वाकारज्ञतायां परिणामयति. तथा च परिणामयति. यथा ध्यानानि च ध्यानाङ्गानि च तस्मिं समये नोपलभते. नेवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति, आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो प्रज्ञापारमितां परिगृःणाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षन्तिपारमितायां स्थितो यस्मिं समये धर्मेषु धर्मानुपश्यी विहरति, विविक्ताकारेण वा शान्ताकारेण वा अक्षयाकारेण वा, न च तान् धर्मतां साक्षात्करोति, यावन् न बोधिमण्डनिषण्णो भवति. तत्र च निषद्य. सर्वाकारज्ञताम् अनुप्राप्नोति. उत्थाय च धर्मचक्रं प्रवर्तयति. एवं खलु सुभूते बोधिसत्त्वो (Aद्SPG I ९८) महासत्त्वः क्षान्तिपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति. तथा च परिगृह्णाति यथा नोत्सृजति. न परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो. वीर्यपारमितायां स्थितो दानपारमितां [f. २४०अ] परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः कायेन च चित्तेन च धुरं न निक्षिपति, अवश्यम् एव मया अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या. न मया न अभिसंबोद्धव्या अनुत्तरा सम्यक्संबोधिः. स सत्त्वानां कृते योजनं वा यावद् योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा. लोकधातुं वा यावल् लोकधातुकोटिं वा लोकधातुकोटीशतं वा लोकधातुकोटीशतसहस्रं वा गत्वा वीर्यपारमितायां स्थितो ऽन्तश एकसत्त्वम् अपि बोधौ प्रतिष्ठापयति. सचेद् बोधिसत्त्वयानिकं पुद्गलं न लभेत तत्र श्रवकयानिकं पुद्गलं श्रावकत्वे प्रतिष्ठापयति. प्रत्येकबुद्धयानिकं पुद्गलं प्रत्येकबुद्धत्वे प्रतिष्ठापयति. अन्तश एकसत्त्वम् अपि दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयति. स तद् धर्मदानं दत्त्वा आमिषदानेन सत्त्वान् संतर्पयति. तच् च कुशलमूलं न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति. अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो. वीर्यपारमितायां स्थितो दानपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्ण आत्मना च प्राणातिपातात् प्रतिविरतो भवति. परं च प्राणातिपातवैरमण्यां समादापयति. प्राणातिपातवैरमण्यस्य च वर्णं भाषते ये च अन्ये प्राणातिपातात् प्रतिविरता भवन्ति तेषाम् अपि च वर्णवादी भवति समनुज्ञः. यावद् आत्मना एअ मिथ्यादृष्टेः (Aद्SPG I ९९) प्रतिविरतो भवति परं च मिथ्यादृष्टिवैरमण्यां समादापयति. मिथ्यादृष्टिवैरमण्यस्य च वर्णं भाषते. ये च अन्ये मिथ्यादृष्टेः प्रतिविरतास् तेषाम् अपि वर्णवादी भवति. समनुज्ञः. स तया शीलपारमितया न कामधातौ प्रतितिष्ठति. न रूपधातौ न अरूप्यधातौ प्रतितिष्ठति. न श्रावकभूमौ न प्रत्येकबुद्धभूमौ प्रतितिष्ठति. नान्यत्र तानि कुशलमूलानि सर्वसत्त्वै सार्धं साधारणानि कृत्वानुत्तरस्यां सम्यक्संबोधौ परिणामयति. तथा च परिणामयति. यथा अस्य त्रिविधा बुद्धिर् न प्रवर्तते. कः परिणामयति किं वा परिणामयति. क्व वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः शीलपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य सचेत् मनुष्यभूतो वा अमनुष्यभूतो वा चित्तविक्षेपं कुर्यात् अङ्गप्रत्यङ्गानि वा छित्त्वा च्छित्वा आदाय गच्छेत् तत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायं स्थितस्य नैवं भवति, कश्चित् मे छिन्नत्ति वा भिन्नत्ति वा हरति वा. अपि त्व् अस्यैवं भवति, सुलब्धा [f. २४०ब्] मे लाभा येषाम् एव कृते कायं परिहरामि. त एवागम्य ममाङ्गप्रत्यङ्गानि छित्त्वा छित्त्वा आदाय गच्छन्ति. धर्माणां वा तेन प्रकृतिः सुमनसिकृता भवति. तानि च कुशलमूलानि न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधरणानि कृत्वानुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते (Aद्SPG I १००) बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित क्षान्तिपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रितिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति. स मैत्रीसहगतेन चित्तेन यावत् सर्वावन्तं लोकं स्फरित्वा उपसंपद्य विहरति. एवं करुणासहगतेन मुदितासहगतेन उपेक्षासहगतेन चित्तेन यावत् सर्वावन्तं लोकं स्फरित्वा उपसंपद्य विहरति. यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति. स तेषां ध्यानानां च अप्रमाणानां च आरूप्यसमापत्तीनां. विपाकं न परिगृह्णाति. अन्यत्र यत्र सर्वसत्त्वानाम् अर्थः कर्तव्यस् तत्रोपपद्यते. स तान् सत्त्वान् षट्सु पारमितासु परिपाचयति. दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति बुद्धान् भगवतः पर्युपासीनः कुशलमूलानाम् अवरोपनतायै. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितो दानपारमितां न द्रव्यतः समनुपश्यति. न भावतो न निमित्ततः. शीलपारमितां न द्रव्यतः समनुपश्यति. न भावतो न निमित्ततः, क्षान्तिपारमितां न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, वीर्यपारमितां न द्रव्यतः समनुपश्यति (Aद्SPG I १०१) न भावतो न निमित्ततः, ध्यानपारमितां न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः. एवं यावत् स्मृत्युपस्थानानि यावत् सर्वाकारज्ञतां न द्रव्यतः समनुपश्यति. न भावतो न निमित्ततः. स सर्वधर्मान् अद्रव्यतः समनुपश्यन्न् अभावतः अनिमित्ततः समनुपश्यन्, न कश्चिद् धर्मे निकेतं करोति. स यथावादि तथाकारी भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानापारमितायां स्थितो दानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुसलैर् धर्मै सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपसंपद्य विहरति. यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति. स तत्र ध्यानपारमितायां स्थित अविक्षिप्तमनस् [f. २४१अ] तेभ्य सत्त्वेभ्य आमिषदानं च धर्मदानं च ददाति. स आत्मना च आमिषदानं च धर्मदानं च ददाति. परांश् च आमिषदानेन च धर्मदानेन च समादापयति. आमिषदानधर्मदानस्य च वर्णं भाषते. ये च अन्ये सत्त्वा आमिषदानं च धर्मदानं च ददन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. तानि च कुशलमूलानि न श्रावाकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वै सार्धं साधारणानि कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति. आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां स्थितस्य न रागसहगतं चित्तम् उत्पद्यते न दोषसहगतं न मोहसहगतं, न विहिंसा सहगतं चित्तम् उत्पद्यते. (Aद्SPG I १०२) न? अन्यत्र सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरति, तानि च कुशलमूलं न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः फेनपिण्डोपमं रूपं प्रत्यवेक्षते. बुद्बुदोपमां वेदनाम् मरीच्युपमां संज्ञां कदल्युपमां संस्कारान् मायोपमं विज्ञानं प्रत्यवेक्षते. तस्यैवं प्रत्यवेक्षमाणस्य पञ्चसु उपादानस्कन्धेष्व् असारकसंज्ञ प्रत्युपस्थिता भवति. तस्यैवं प्रत्यवेक्षमाणस्यैवम् भवति. च्छिद्यमानेष्व् अङ्गप्रत्यङ्गेषु को ऽत्र छिन्नन्ति किं वेह च्छिद्यते. कस्य वा कायः कस्य वा वेदना कस्येयं संज्ञा कस्य वा संस्कारा कस्य वा विज्ञानं? तस्यैवं प्रत्येवेक्षमाणस्यैवं भवति. को ऽत्राक्रुश्यते वा परिभाष्यते वा यत्र आक्रुश्यमानस्य वा परिभाष्यमाणस्य वा व्यापाद उत्पद्यते? एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैः धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् (Aद्SPG I १०३) उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति. स ध्यानानां ध्यानाङ्गानां च निमित्तम् उद्गृह्य अनेकविधम् ऋद्धिविधिं प्रत्यनुभवति. यावद् विस्तरेण कर्तव्यं, यावद् दिव्येन श्रोत्रधातुना उभयांच् छब्दांच् छृणोति. दिव्यांश् च मानुषांश् च, परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति. यावद् अनुत्तरं चित्तम् अनुत्तरं चित्तम् इति यथाभूतं प्रजानाति. सो ऽनेकविधं पूर्वे निवासम् अनुस्मरति. यावद् विस्तरेण कर्तव्यं. यावत् स दिव्येन चक्षुषा अतिक्रान्तमानुषेण यावद्, यथाकर्मोपगान् सत्त्वान् पश्यति. स इमाः [f. २४१ब्] पञ्चाभिज्ञा. प्रतिष्ठाय बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति. बुद्धान् भगवतः पर्युपासीनः कुशलमूलान्य् अवरोपयन् सत्त्वान् परिपावयन् बुद्धक्षेत्रं परिशोधयंस्. तानि च कुशलमूलानि न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधरणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो रूपं नोपलभते. वेदनासंज्ञासंस्काराविज्ञानं नोपलभते. दानपारमितां नोपलभते शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां नोपलभते. स्मृत्युपस्थानानि नोपलभते सम्यक्प्रहाणानि नोपलभते. ऋद्धिपादां नोपलभते इन्द्रियाणि नोपलभते बलानि नोपलभते. बोध्यंगानि नोपलभते. आर्याष्टाङ्गं मार्गं (Aद्SPG I १०४) नोपलभते, यावत् सर्वाकारज्ञतां नोपलभते. संस्कृतधातुं नोपलभते असंस्कृतधातुं नोपलभते. अनुपलभमानो न अभिसंस्करोति. अनभिसंस्कुर्वन् नोत्पादयति. न निरोधयति. तत् कस्य हेतोस्? तथा हि सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता स्थित एव धर्मधातु स नैवोत्पद्यते न निरुध्यते. सो ऽविक्षिप्तचित्त सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वाः प्रज्ञापारमितायां स्थितो दानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरं सर्वधर्मांच् छून्या इति समनुपश्यति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मांच् छून्या इति समनुपश्यति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां चरन्न् अध्यात्मशून्यताम् अध्यात्मशून्यतेति नोपलभते. बहिर्द्धाशून्यतां बहिर्द्धासून्यतेति नोपलभते. अध्यात्मबहिर्द्धाशून्यताम् अध्यात्मबहिर्द्धाशून्यतेति नोपलभते. शून्यताशून्यतां शून्यताशून्यतेति नोपलभते. महाशून्यतां महाशून्यतेति नोपलभते. परमार्थशून्यतां परमार्थशून्यतेति नोपलभते. संस्कृतशून्यतां संस्कृतशून्यतेति नोपलभते. असंस्कृतशून्यताम् असंस्कृतशून्यतेति नोपलभते. अत्यंशून्यताम् अत्यन्तशून्यतेति नोपलभते. अनवराग्रशून्यताम् अनवराग्रशून्यतेति नोपलभते. अवकारशून्यताम् अवकारशून्यतेति नोपलभते. प्रकृतिशून्यतां प्रकृतिशून्यतेति नोपलभते सर्वधर्मशून्यतां सर्वधर्मशून्यतेति नोपलभते, स्वलक्षणशून्यतां स्वलक्सणशून्यतेति (Aद्SPG I १०५) नोपलभते. स इह चतुर्दशसु शून्यतासु स्थित्वा बोधिसत्त्वो महासत्त्वो रूपं नोपलभते [f. २४२अ] शून्यम् इति वा अशून्यम् इति वा. वेदनां संज्ञां संस्कारान् विज्ञानं नोपलभते. शून्यम् इति वा अशून्यम् इति वा. स्मृत्युपस्थानानि नोपलभते शून्यम् इति वा अशून्यम् इति वा. यावद् अष्टादशावेणिकां बुद्धधर्मां नोपलभते शून्या इति वा अशून्या इति वा. यावद् बोधिम् अपि नोपलभते शून्येति वा अशून्येति वा. संस्कृतधातुं नोपलभते शून्य इति वा अशून्य इति वा. असंस्कृतधातुं नोपलभते शून्य इति वा अशून्य इति वा. स इह प्रज्ञापारमितायां चरं बोधिसत्त्वो महासत्त्वो यद् यद् एव दानं ददात्य् अन्नं वा पानं वा यावद् अन्यतरान्यतरान् मानुष्यकां परिष्करांस् तद् दानं शून्यम् इति न समनुपश्यति. यो वा ददाति. यस्मै वा ददाति तम् अपि शून्यम् इति न समनुपश्यति. तस्य मात्सर्यचित्तस्य वा आग्रहचित्तस्य वा अवकाशो न भवति. तत् कस्य हेतो? सर्व एते प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य विकल्पान भवंति. प्रथमचित्तोत्पादम् उपादाय. यावद् बोधिमण्डनिषण्णस्य. यथैव तथागतस्य अर्हत सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य न मात्सर्यचित्तं वा आग्रहचित्तं वा उत्पद्यते, तथैव बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न मात्सर्यचित्तं वा आग्रहचित्तं वा उत्पद्यते. एष एव बोधिसत्त्वस्य महासत्त्वस्य शास्ता यदुत प्रज्ञापारमिता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो दानपारमितां परिगृह्णाति. आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः (Aद्SPG I १०६) श्रावकप्रत्येकबुद्धचित्तानाम् अवकाशं न ददाति. तत् कस्य हेतोः? तथा हि स श्रावाकप्रत्येकबुद्धभूमीं नोपलभते. तच् च चित्तं नोपलभते. यच् छ्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयेत्. स प्रथमचित्तोत्पादम् उपादय. यावद् बोधिमण्डं प्राणातिपातं प्रहाणाय धर्मन् देशयति. आत्मना च प्राणातिपातात् प्रतिविरतो भवति. परं च प्राणातिपातवैरमण्यां समादापयति. प्राणातिपातवैरमण्यस्य च वर्णं भाषते. ये च अन्ये प्राणातिपातात् प्रतिविरता भवंति तेषाम् अपि वर्णवादी भवति. समनुज्ञः. यावद् आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति. परं च मित्यादृष्टिवैरमण्ये समादापयति मिथ्यादृष्टिवैरमण्यस्य च वर्णं भाषते. ये च अन्ये मिथ्यादृष्टिविरतास् तेषाम् अपि वर्णवादी भवति समनुज्ञः. तेन च शीलेन न कंचिद् धर्मं परामृशति. श्रावकत्वं वा प्रत्येकबुद्धत्वं वा बुद्धत्वं वा प्राग् एव अन्ये केचित्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः शीलपारमितानि परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां स्थितस्य आनुलोमिकी क्षान्तिर् उत्पद्यते. तस्यैवं भवति. नेह कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा. जायते वा जीर्यते वा मृयते वा, आक्रोश्यते वा परिभाष्यते वा, च्छिद्यते वा भिद्यते वा. [f. २४२ब्] हन्यते वा. तस्य प्रथमचित्तोपादम् उपादाय यावद् बोधिमण्डम् अत्रान्तरात् सचेत् सर्वसत्त्वा आगम्य आक्रोशेयु परिभाषेरल् लोष्टदण्ड मुष्टिशस्त्रप्रहारान् दद्युश् च्छिन्द्युर् भिद्युर् वा तत्रास्यैवं भवति. अहो धर्माणां धर्मता (Aद्SPG I १०७) न च नामेह कश्चिद् धर्म आक्रोश्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा बध्यते वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् स्थितः चतुर्षु ऋद्धिपादेषु स्थित उपायकौशलेन समन्वागतः कायिकं चैतसिकं च वीर्यं संजनय्य लोकधातुम् अपि गत्वा लोकधातुशतम् अपि गत्वा लोकधातुसहस्रम् अपि गत्वा यावल् लोकधातुकोटीनियुतशतसहस्रं अपि गत्वा सत्त्वानां धर्मन् देशयति. दानपारमितायां प्रतिष्ठापयति शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा. प्रतिष्ठापयति. स बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयति. श्रोतआपत्तिफले प्रतिष्ठापयति. सकृदागामीफले अनागामीफले अर्हत्त्वे प्रत्येकबोधौ यावद् अनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठापयति. तथा च प्रतिष्ठापयति. यथा न संस्कृते धातौ प्रतिष्ठापयति. न असंस्कृते धातौ प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो वीर्यपारमितां परिगृह्णाति. आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते होधिसत्त्वो महासत्त्वाः प्रज्ञापारमितायां स्थितस् तथागतसमाधिं स्थापयित्वा यावन्तः केचित् समाधयः श्रावकसमाधयो वा प्रत्येकबुद्धसमाधयो वा बोधिसत्त्वसमाधयो वा तान् सर्वान् समापद्यते. तत्र समाधिषु स्थित्वा अष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च. कतमान् अष्टौ? इह सुभूते बोधिसत्त्वो महासत्त्वो रूपी रूपाणि पश्यत्य्, अयं प्रथमो विमोक्षः. अध्यात्मरूपसंज्ञी बहिर्द्धारूपाणि पश्यत्य्, अयं (Aद्SPG I १०८) द्वितीयो विमोक्षः. शुभं चाधिमुक्तो भवत्य्, अयं त्रितीयो विमोक्षः. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानान्त्यायतनम् उपसंपद्य विहरत्य्, अयं चतुर्थो विमोक्षः. स सर्वश आकाशानान्त्यायतन समतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञाननन्त्यायतनम् उपसंपद्य विहरत्य्, अयं पंचमो विमोक्षः. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरत्य्, अयं षष्ठो विमोक्षः. स सर्वश आकिंचन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरत्य्, अयं सप्तमो विमोक्षः. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् [f. २४३अ] उपसंपद्य विहरत्य्, अयम् अष्टमो विमोक्षः. इमान् अष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च. नव च अनुपूर्वसमापत्तीर् अनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च. कतमा नव? इह सुभूते बोधिसत्त्वो महासत्त्वः विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चथुर्थं ध्यानम् उपसंपद्य विहरति. यावत् नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति. इह नव अनुपूर्वसमापत्तीर् अनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च. स एषाम् अष्टानां विमोक्षाणाम् आसां च नवानाम् अनुपूर्वसमापत्तीनां विभङ्गं कृत्वा इमं सिंहविजृंभितं समाधिं समापद्यते. कतमश् च सुभूते बोधिसत्त्वस्य महासत्त्वस्य (Aद्SPG I १०९) सिंहविजृंभितः समाधिः? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. यावन् नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय निरोधं समापद्यते. निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते. नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय प्रथमध्यानं समापद्यते. स इमं सिंहविजृंभितं समाधिं विपाकीकृत्य विष्कन्दकसमाधिं समापद्यते. कतमश् च सुभूते बोधिसत्त्वस्य महासत्त्वस्य विष्कन्दकसमाधि? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मै सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपसंपद्य विहरति. प्रथमध्यानाद् व्युत्थाय यावन् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय द्वितीयं ध्यानम् उपसंपद्य विहरति. द्वितीयाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय त्रितीयं ध्यानम् उपसंपद्य विहरति. तृतीयाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय चतुर्थं ध्यानम् उपसंपद्य विहरति. चतुर्थाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय आकाशानन्त्यायतनं समापद्यते. आकाशनन्त्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय विज्ञाननन्त्यायतनं समापद्यते. विज्ञानानन्त्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय (Aद्SPG I ११०) अकिंचन्यायतनं समापद्यते. आकिंचन्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते. नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते. नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. [f. २४३ब्] असमहितचित्तान् निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय. असमहितचित्ते ऽवतिष्ठते. असमहितचित्तान् नैवसंज्ञानासंज्ञायतनं समापद्यते. नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. असमहितचित्ताद् आकिंचन्यायतनं समापद्यते. आकिंचन्यायतनाद् व्युत्थाय. असमहितचित्ते ऽवतिष्ठते. असमहितचित्ताद् विज्ञानानन्त्यायतनं समापद्यते. विज्ञानानन्त्यायतनाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. असमहितचित्ताद् आकाशानन्त्यायतनं समापद्यते. आकाशानन्त्यायतनाद् व्युत्थाय असमहित [f. २४३A] चित्ते ऽवतिष्ठते. असमहितचित्ताच् चतुर्थं ध्यानं समापद्यते. चतुर्थध्यानाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. असमहितचित्तात् तृतीयं ध्यानं समापद्यते. तृतीयध्यानाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. असमहितचित्ताद् द्वितीयं ध्यानं समापद्यते. द्वितीयाद् ध्यानाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. असमहितचित्तात् प्रथमं ध्यानं समापद्यते. प्रथमध्यानाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. स इह अवस्कन्दकसमाधौ स्थित्वा सर्वधर्मसमताम् अनुप्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो ध्यानपारमितां परिगृह्णाति. ((६))
SK
परिवर्त ६३.
SK
अथ खल्व् आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: कियच् चिरं संप्रस्थितो वतायं भगवन् बोधिसत्त्वो महासत्त्वः यो ऽनेनोपायकौशलेन समन्वागतः? भगवान् आह: असंख्येयकल्पकोटीनियुतसंप्रस्थितो ऽयं सुभूते बोधिसत्त्वो महासत्त्वः यो ऽनेनोपायकौशलेन समन्वागतः. आह: कियन्तो बुद्धान् भगवन्तः पर्युपासितो ऽयं भगवं बोधिसत्त्वो महासत्त्वो यो ऽनेनोपायकौशलेन समन्वागतः? भगवान् आह: गङ्गानदीवालुकोपमान् बुद्धान् भगवन्तः पर्युपासितो स बोधिसत्त्वो महासत्त्वो वेदितव्यः यो ऽनेनोपायकौशलेन समन्वागतः. आह: किन् तेन भगवन् बोधिसत्त्वेन महासत्त्वेन कुशलमूलम् अवरोपितम यो ऽनेनोपायकौशलेन समन्वागतः? भगवान् आह: प्रथमचित्तोत्पादम् उपादाय सुभूते न सा काचिद् दानपारमिता या तेन बोधिसत्त्वेन महासत्त्वेन न परिपूरिता यो ऽनेनोपायकौशलेन समन्वागतः. न सा काचिच् छीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता या तेन बोधिसत्त्वेन महासत्त्वेन न परिपूरिता यो ऽनेनोपायकौशलेन समन्वागतः. आह: आश्चर्यम् एतद् भगवन् बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशलेन समन्वागताः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. आश्चर्यम् एतद् बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशलेन समन्वागताः तद्यथापि नाम सुभूते सूर्यचन्द्रमण्डलं चतुरो (Aद्SPG I ११२) द्वीपान् अवभासयति, चलुरश् च द्वीपान् अनुगच्छत्य् अनुपरिवर्तते, एवम् एव सुभूते प्रज्ञापारमिता पञ्चसु पारमितासु कर्म करोति, पञ्चपारमिता अनुगच्छत्य् अनुपरिवर्तते. प्रज्ञापारमिता अविरहितत्वात् पञ्चपारमिताः पारमितानामधेयं लभन्ते, प्रज्ञापारमिताविरहितत्वान् न पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते यथा राजा चक्रवर्ती विरहितः सप्तभी रत्नैर् न राजा चक्रवर्तीति नामधेयं लभते, एवम् एव सुभूते पञ्चपारमिता प्रज्ञापारमिताविरहितत्वान् न पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते अपुरुषा स्त्री सुधर्षणा भवति धूर्तकैः, एवम् एव सुभूते प्रज्ञापारमिताविरहितत्वात् पञ्चपारमिताः सुधर्षणा भवन्ति मारेण वा मारकायिकाभिर् वा देवताभिः. तद्यथापि नाम सुभूते संग्रामावचरः पुरुषः सर्वसन्नाहसन्नद्धः संग्रामे वर्तमाने दुराधर्षो भवति प्रतिराजानैर् वा प्रत्यर्थिकैर् वा प्रत्यमित्रैर् वा, एवम् एव सुभूते पञ्चपारमिताः प्रज्ञापारमिता अविरहितत्वाद् दुराधर्षा भवन्ति मारेण वा मारकायिकाभिर् वा देवताभिर्, आधिमानिकैर् वा पुद्गलैर् वा, यावन् बोधिसत्त्वचण्डालैर् वा. तद्यथापि नाम सुभूते कोट्टराजानो राज्ञा चक्रवर्तिना अनुविधेया भवन्ति, सायम्प्रातरुपस्थानाय गच्छन्ति, एवम् एव सुभूते पञ्चपारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेन अनुगच्छन्ति. तद्यथापि नाम सुभूते याः काचित् कुनद्यः सर्वास् ता येन गङ्गानदी तेन अनुगच्छन्ति, (Aद्SPG I ११३) ता गङ्गानद्या सार्धं महासमुद्रम् उपयान्ति, एवम् एव सुभूते पञ्चपारमिताः प्रज्ञापारमितापरिगृहीताः येन सर्वाकारज्ञता तेन अनुगच्छन्ति. तद्यथापि नाम सुभूते पुरुषस्य दक्षिणहस्तः सर्वकृत्याणि करोत्य्, एवम् एव सुभूते प्रज्ञापारमिता द्रष्टव्या. यथा वामहस्तः एवं पञ्चपारमिता द्रष्टव्या. तद्यथापि नाम सुभूते यत् कुनदीषु यच् च महानदीषु उदकं सर्वं तन् महासमुद्रम् अनुप्रविष्टम् एकरसं भवत्य्, एवम् एव सुभूते पञ्चपारमिताः प्रज्ञापारमितापरिगृहीताः सर्वाकारज्ञताम् अनुप्रविष्टा पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते राज्ञाश् चक्रवर्तिनश् चतुरङ्गस्य बलकायस्य चक्ररत्नम् अग्रतो गच्छति, तिष्ठति च. यत्र राजा चक्रवर्त्य् अन्नहेतोस् तिष्ठति, तत्र राज्ञश् चक्रवर्तिनो बलकायान् संतर्पयति, न च तच् चक्ररत्नं स्थानतश् चलति, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता परिणायिका, येन सर्वाकारज्ञता तेन अनुगच्छन्ति, तत्र स्थास्यन्ति, तत्र स्थित्वा ततः स्थानतो नातिक्रामन्ति, तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् तच् चक्ररत्नं तच् च परिणायकरत्नं तच् च गृहपतिरत्नं तच् च स्त्रीरत्नं तच् च मणिरत्नं तच् च हस्तिरत्नं तच् च अश्वरत्नं चतुरङ्गस्य बलकायस्य अग्रतो गच्छत्य्, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता अग्रतो गच्छत्य्, अग्रतो गत्वा येन सर्वाकारज्ञता तेन तिष्ठति, न च प्रज्ञापारमिताया एवं भवति: दानपारमिता मम [f. २४३ब्] अनुगच्छेत्. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता अनुगच्छेत्. न दानपारमिताया एवं भवत्य्: अहं प्रज्ञापारमिताम् अनुगच्छेयं. एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपरमिताया न ध्यानपारमिताया (Aद्SPG I ११४) एवं भवत्य्: अहं प्रज्ञापारमिताम् अनुगच्छेयं. तत् कस्य हेतोः? स्वभावो ह्य् आसाम् एषः अकिंचित्समर्थः स्वभावशून्या तुच्छा मरीचिसमा. अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवं सर्वधर्मा स्वभावशून्यास्, तत् कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां चरञ्च् छीलपारमितायं क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? भगवान् आह: इह सुभूते बोदिसत्त्वस्य महासत्त्वस्य षट्पारमितासु चरतः एवं भवति: विपर्यस्तचित्तो वतायं लोकसन्निवेशः. स न शक्यम् अनुपायकौशलेन संसारात् परिमोचयितुं. अहं तेषां सत्त्वानाम् अर्थाय दानपारमितायां चरिष्यामि. शीलपारमितायां चरिष्यामि क्षान्तिपारमितायां चरिष्यामि. वीर्यपारमितायां चरिस्यामि. ध्यानपारमितायां चरिष्यामि. प्रज्ञापारमितायां चरिष्यामि. स तेषां सत्त्वानाम् अर्थाय आध्यत्मिकबह्यानि वस्तूनि परित्यजति, तस्यैवं परित्यजत एवं भवति: न मे किंचित् परित्यक्तं. तत् कस्य हेतोस्? तथा ह्य् एतद् वस्तु स्वभावशून्यं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपपरीक्षमाणो दानपारमितां परिपूरयति. तेषाम् एव सत्त्वानाम् अर्थाय दौःशीलस्य अवकाशं न ददाति. तत् कस्य हेतोः? तथा ह्य् अस्यैवं भवति: नैतद् मे प्रतिरूपं स्याद् यद् अहम् अनुत्तरस्यां सम्यक्संबोधये संप्रस्थितः प्राणातिपातं कुर्यां यावन् मिथ्यादृष्टिको भवेयं विषयान् वा प्रार्थयेयं. देवत्वं वा ब्रह्मत्वं वा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा प्रार्थयेयं. एवं खलु सुभूते बोधिसत्त्वो (Aद्SPG I ११५) महासत्त्वः उपपरीक्षमाणः शीलपारमितायां चरति. तेषाम् एव सत्त्वानाम् अर्थाय सततम् आक्रुश्यमानः परिभाष्यमाणः कटुकैः कर्कशैर् वचनैर् न क्षोभचित्तम् उत्पादयति. नापि लोष्टदण्डशस्त्रपाषाणप्रहारैस् ताड्यमानो नापि शारिरा वयवेषु भिद्यमानेषु नाप्य् अङ्गप्रत्यङ्गावयवेषु च्छिद्यमानेषु दुष्टचित्तम् उत्पादयति. तत् कस्य हेतोः? तथा हि स सर्वशं तां प्रतिश्रुत्क्रोपमान् उपपरीक्षते. रूपं फेनपिण्डोपमं यावत् विज्ञानं मायोपमम् उपपरीक्षते. [f. २४४अ] एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपपरीक्षमाणः क्षान्तिपारमितायां चरति, तेषाम् एव सत्त्वानाम् अर्थाय न कौसीद्यचित्तम् उत्पादयति. सर्वकुशलपर्येष्ट्यां यावन् न अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवति. तत् कस्य हेतोः? तथा हि तस्यैवं भवति, न कुसीदेन शक्यं सत्त्वानाम् अर्थः कर्तुम् अनुत्तरां वा सम्यक्संबोधिम् अभिसंबोद्धुं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपपरीक्षमाणः वीर्यपारमितायां चरति. तेषाम् एव सत्त्वानाम् अर्थाय न विक्षिप्तचित्तो भवति यावन् न अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः उपपरीक्षमाणो ध्यानपारमितायां चरति. तेषाम् एव सत्त्वानाम् अर्थाय न जातु प्रज्ञाविरहितो भवति. तत् कस्य हेतोः? नाप्य् अन्यथा शक्यं सत्त्वान् परिपाचयितुम् अन्यत्र प्रज्ञापारमिताप्रवेशात्, तस्मात् मयैकम् अपि दौष्प्रज्ञसहगतं (Aद्SPG I ११६) चित्तं नोत्पादयितव्यम् इति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानाम् एवार्थाय प्रज्ञापारमितायां चरति. आह: यदि भगवन् पारमितानां नास्ति नानात्वं, कुतः इयं प्रज्ञापारमिता पञ्चानां पारमितानाम् अग्र्या आख्यायते ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीता अनुत्तरा निरुत्तरा असमसमा आख्यायते. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न सुभूते पारमितानां किंचिन् नानात्वां. यदि पुनः प्रज्ञापारमिता न भवेन् नेमाः पंचपारमिताः पारमितानामधेयं लभेरन्, प्रज्ञापारमितां पुनर् आगम्य इमाः पंचपारमिताः पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते नानाप्रकारा आत्मभावाः सुमेरुं पर्वतराजम् उपसंक्रान्ता एकवर्णा भवन्ति, एवम् एव सुभूते प्रज्ञापारमिताम् आगम्येमाः पंचपारमिताः पारमितानामधेयं लभन्ते ताः सर्वाकारज्ञताम् अनुप्रविष्टा एकवर्णा भवन्ति. यदुत प्रज्ञापारमितावर्णा, न विशेषः कश्चित् प्रज्ञायते इयन् दानपारमिता इयं शीलपारमिता इयं क्षान्तिपारमिता इयं वीर्यपारमिता इयं ध्यानपारमिता इयं प्रज्ञापारमिता. तत् कस्य हेतोस्? तथा ह्य् आसां स्वभावो नास्ति, अनेन कारणेन विशेसो न प्रज्ञायते. आह: यदि भगवं नार्थप्राप्तौ कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा प्रज्ञायते, कुत इयं प्रज्ञापारमिता आसां पंचानां पारमितानाम् अग्र्याख्यायते. ज्येष्ठाख्यायते श्रेष्ठाख्यायते वरा प्रवरा प्रणीता आख्यायते. अनुत्तरा निरुत्तरा असमसमा आख्यायते. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. नार्थप्राप्तौ कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा प्रज्ञायते, अपि तु खलु लोकव्यवहारसंकेतम् उपादाय दानपारमिता प्रज्ञायते शीलपारमिता (Aद्SPG I ११७) क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता प्रज्ञायते. सत्त्वानां संसारत परिमोचनतया. सर्वे ते च सत्त्वा न जायंते न मृयंते न च्यव्यंते नोपपद्यन्ते. सत्त्वासत्तया सर्वधर्मासत्ता वेदितव्या. अनेन सुभूते पर्यायेण आसां पंचानां पारमितानां प्रज्ञापारमिता अग्र्याख्याते ज्येष्ठाख्यायते श्रेष्ठाख्यायते. [f. २४४ब्] वराख्यायते प्रवराख्यायते प्रणीताख्यायते. अनुत्तराख्यायते निरुत्तराख्यायते असमसमाख्यायते. तद्यथापि नाम सुभूते या काश्चन स्त्रियस् ताषां स्त्रिरत्नानाम् अग्रमा आख्यायते यावद् असमसमाख्यायते. एवम् एव सुभूते आसां पंचानां पारमितानां प्रज्ञापारमिता अग्र्याख्यायते यावद् असमसमा आख्यायते. आह: क एष भगवन्न् अभिप्रायो यत् प्रज्ञापारमिता अग्र्या आख्यायते यावद् असमसमाख्यायते? भगवान् आह: तथा हि इयं प्रज्ञापारमिता सर्वकुशलधर्मान् परिगृह्य येन सर्वाकारज्ञता तेन स्थास्यत्य् अस्थानयोगेन. आह: किं पुनर् भगवं प्रज्ञापारमिता कंचिद् धर्मं गृह्णाति वा मुंचति वा? भगवान् आह: नो हीदं सुभूते न प्रज्ञापारमिता कंचिद् धर्मं गृह्णाति वा मुंचति वा. तत् कस्य हेतोस्? तथा हि सुभूते. ते सर्वधर्मा अगृहीता अमुक्ताः. आह: कतमान् भगवं प्रज्ञापारमिता सर्वधर्मां न गृह्णाति न मुंचति? भगवान् आह: रूपं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. वेदनां संज्ञां संस्कारान् विज्ञानं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति, यावद् बोधिं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. आह: कथं भगवं रूपम् अपरिगृहीतं भवति, कथं वेदनासंज्ञासंस्काराविज्ञानम् (Aद्SPG I ११८) अपरिगृहीतम् भवति. कथं यावत् सर्वाकारज्ञता अपरिगृहीता भवति? भगवान् आह: रूपस्य सुभूते अमनसिकारतो रूपम् अपरिगृहीतं भवति, वेदनाया संज्ञाया संस्काराणां विज्ञानस्य अमनसिकारतो विज्ञानम् अपरिगृहीतं भवति, यावत् सर्वाकारज्ञताया अमनसिकारतो बोधिर् अपरिगृहीता भवति. एवं खलु सुभूते रूपम् अपरिगृहीतं भवति. यावद् बोधिर् अपरिगृहीता भवति. आह: यदि भगवं रूपं न मनसिकर्तव्यं वेदना संज्ञा संस्कारा विज्ञानं न मनसिकर्तव्यं यावत् सर्वाकारज्ञता न मनसिकर्तव्या, तत् कथं भगवन्न् अमनसिकुर्वतो रूपं यावद् अमनसिकुर्वतः सर्वाकारज्ञतां कुशलमूलानि विवर्धन्ते, कुशलमूलैर् अविवर्धमानै कथं षट्पारमिता परिपूरयिष्यन्ते, षड्भिः पारमिताभिर् अपरिपूर्यमाणाभिः कथं सर्वाकारज्ञता अनुप्राप्स्यते? भगवान् आह: यदा सुभूते रूपं न मनसिकरिष्यति वेदनासंज्ञासंस्काराविज्ञानं न मनसिकरिष्यति, यावद् बोधिं न मनसिकरिष्यति तदा बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलं विवर्धिष्यन्ते, कुशलमूलैर् विवर्धमानै षट्पारमिताः परिपूरयिष्यति षट्पारमिता परिपूर्य सर्वाकारज्ञाम् अनुप्राप्स्यति. तत् कस्य हेतो? अमनसिकृत्य रूपम् अमनसिकृत्य वेदनां संज्ञासंस्काराविज्ञानम् अमनसिकृत्य बोधिम् अनुत्तराम् सम्यक्संबोधिम् अभिसंभोत्स्यते. आह: किम् अत्र भगवं कारणां यद् अमनसिकृत्य रूपं, अमनसिकृत्य वेदनां संज्ञा संस्कारविज्ञानं अमनसिकृत्य बोधिं सर्वाकारज्ञताम् अनुप्राप्स्यति? भगवान् आह: अमनसिकारेण न श्लेष्यते, कामधातौ न श्लेस्यते रूपधातौ न श्लेष्यते अरूप्यधातौ अमनसिकारेण न क्वचिच् च्छ्लिष्यते. एवं खलु सुभूते बोदिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न (Aद्SPG I ११९) क्वचिद् धर्मेषु श्लेष्टव्यं. आह: एवञ् चरन् भगवं बोधिसत्त्वो [f. २४५अ] महासत्त्वः प्रज्ञापारमितायां क्व स्थास्यति? भगवान् आह: एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो रूपे न स्थास्यति वेदनायां संज्ञायां संस्कारेषु विज्ञाने न स्थास्यति. यावत् सर्वाकारज्ञतायां न स्थास्यति. आह: केन कारणेन भगवंस् तत्र अपि सर्वाकारज्ञातायान् न स्थास्यति? भगवान् आह: अनभिनिवेशेन न क्वचित् स्थास्यति. तत् कस्य हेतोस्? तथा हि सर्वधर्मान् न समनुपश्यति यत्र अभिनिविशेद् अवतिष्ठेद् वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्नापारमितायां चरत्य् अनभिनिवेशेन अस्थानयोगेन. सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं चरति एवं भावयति स प्रज्ञापार्मितायां चरति, स प्रज्ञापारमितां भावयति. अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां भावयामि. सचेद् एवं संजानाति दूरिकरोति प्रज्ञापारमितां. स प्रज्ञापारमितायाः दूरिभवति ध्यानपारमितायाः दूरीभवति, वीर्यपारमिताया क्षान्तिपारमिताया शीलपारमिताया दानपारमिताया दूरीभवति. यावत् सर्वाकारज्ञताया दूरीभवति. तत् कस्य हेतोः? न हि प्रज्ञापारमिता कंचिद् धर्मम् अभिनिविशते. न हि प्रज्ञापारमिताया कश्चिद् अभिनिवेश. तत् कस्य हेतोस्? तथा ह्य् अस्याः स्वभावो नास्ति यत्र अभिनिविशेत. सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमिताम् अपि संजानाति च्यवते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाः. यः प्रज्ञापारमितायाश् च्यवते स सर्वधर्मेभ्यश् च्यवते. सचेत् पुनर् अस्यैवं भवति प्रज्ञापारमिता पंचपारमितान् (Aद्SPG I १२०) परिगृह्णाति यवत् सर्वाकारज्ञतां परिगृह्णाति, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया. न खलु पुनः प्रज्ञापारमिताविहीनेन शक्यम् अनुत्तरां सम्यक्संबोधिर् अभिसंबोद्धुं. सचेत् पुनर् अस्यैवं भवति: इह प्रज्ञापारमितायां स्थित व्याकरिष्यते ऽनुत्तरस्यां सम्यक्संबोधौ च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. न हि प्रज्ञापारमितायाश् च्युतो व्याक्रियते ऽनुत्तरस्यां सम्यक्संबोधौ. सचेत् पुनर् अस्यैवं भवति: य इह प्रज्ञापारमितायां स्थित्वा बोधिसत्त्वो महासत्त्वो दानपारमिताम् अभिनिर्हरति यावत् महाकरुणाम् अभिनिर्हरति. च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया. तत् कस्य हेतो? न हि प्रज्ञापारमितायाश् च्युतस्य शक्यं दानपारमिताम् अभिनिर्हर्तुं यावन् न शक्यं महाकरुणाम् अभिनिर्हर्तुं. सचेत् पुनर् अस्यैवं भवति: परिगृहीतास् तथागतेन सर्वधर्मा स्वयम् अभिसंबुध्य आख्याता. देशिता प्रकाशिता च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि तथागतेन कश्चिद् धर्मो ऽभिसंबुद्धः. तत् कस्य हेतो? तथा हि सुभूते तथागत न कंचिद् धर्मं प्रज्ञपयति. कुतः पुन किंचिद् धर्मम् अभिसंभोत्स्यते नेदं स्थानं विद्यते. अथ खल्व् आयुष्मांस् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः इमे दोषाः न भवन्ति? भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानात्य् असंतः सर्वधर्मा अपरिगृहीता अशक्यम् अभिसंबोद्धुं. सचेद् (Aद्SPG I १२१) एवं चरति चरति प्रज्ञापारमितायां. सचेत् पुनर् एवम् अपरिगृहीतं धर्मम् अभिनिविशते, विरहितो बोधिसत्त्वो [f. २४५ब्] महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि प्रज्ञापारमिता अभिनिवेशतो वक्तव्या. आह: किं पुनर् भगवं प्रज्ञापारमिता प्रज्ञापारमिताया अविरहिता यावद् दानपारमिता दानपारमितया अविरहिता यावत् सर्वाकारज्ञता सर्वाकारज्ञतया अविरहिता? सचेत् प्रज्ञापारमिता प्रज्ञापारमितया अविरहिता. यावद् दानपारमिता दानपारमितया अविरहिता यावत् सर्वाकारज्ञता सर्वाकारज्ञतया अविरहिता. कथं प्रज्ञापारमिता अभिनिर्हृयते. कथं यावत् सर्वाकारज्ञता अभिनिर्हृयते? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् इति न अभिनिविशते इदं रूपम् अस्य रूपम् इति. एवं वेदनां संज्ञां संस्कारान् विज्ञानम् इति न अभिनिविशते, इदं विज्ञानम् अस्य विज्ञानम् इति, यावत् सर्वाकारज्ञतेति न अभिनिविशते इदं सर्वाकारज्ञता अस्य सर्वाकारज्ञतेति. रूपं नित्यतो वा अनित्यतो वा न अभिनिविशते. वेदनासंज्ञासंस्काराविज्ञानं नित्यतो वा अनित्यतो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां नित्यतो वा अनित्यतो वा नाभिनिविशते. रूपं सुखतो वा दुःखतो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं सुखतो वा दुःखतो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां सुखतो वा दुःखतो वा नाभिनिविशते. रूपम् आत्मतो वा अनात्मतो वा नाभिनिविशते, वेदनां संज्ञां संस्कारान् विज्ञानम् आत्मतो वा अनात्मतो वा नाभिनिविशते. यावत् सर्वाकारज्ञताम् आत्मतो वा अनात्मतो वा नाभिनिविशते. रूपं शान्ततो वा अशान्ततो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं शान्ततो वा अशान्ततो वा नाभिनिविशते. यावत् सर्वाकारज्नतां शान्ततो वा अशान्ततो वा नाभिनिविशते. रूपं शून्यतो वा अशून्यतो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं शून्यतो वा अशून्यतो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां (Aद्SPG I १२२) शून्यतो वा अशून्यतो वा नाभिनिविशते. रूपं निमित्ततो वा अनिमित्ततो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं निमित्ततो वा अनिमित्ततो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां निमित्ततो वा अनिमित्ततो वा नाभिनिविशते. रूपं प्रणिहिततो वा अप्रणिहिततो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं प्रणिहिततो वा अप्रणिहिततो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां प्रणिहिततो वा अप्रणिहिततो वा नाभिनिविशते. रूपं विविक्ततो वा अविविक्ततो वा नाभिनिविशते, वेदनां संज्ञां संस्कारान् विज्ञानं विविक्ततो वा अविविक्ततो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां विविक्ततो वा अविविक्ततो वा नाभिनिविशते. तत् कस्य हेतोः? न ह्य् अस्वभावो धर्मो नित्य इति वा अनित्य इति वा सुखम् इति वा दुःखम् इति व आत्म इति वा अनात्म इति वा शान्त इति वा अशान्त इति वा शून्य इति वा अशून्य इति वा निमित्तम् इति वा अनिमित्तम् इति वा प्रणिहितम् इति वा अप्रणिहितम् इति वा विविक्त इति वा अविविक्त इति वा शक्यम् अभिनिर्हर्तुं. स्वभावं स्वभावेन शून्यम् इति न शक्यम् अभिनिर्हर्तुं. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितायं वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरन् सर्वाकारज्ञतायां [f. २४६अ] स्थास्यति. तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चतुरंगो बलकायो. येन येन राजा चक्रवर्ती गच्छति. तेन तेन चतुरंगो बलकायो गच्छति. एवम् एव सुभूते येन येनैव प्रज्ञापारमिता गच्छति. तेन तेनेमा पञ्चपारमिता अनुवर्तन्ते. येन सर्वाकारज्ञता तेन स्थास्यन्ति. तद्यथापि नाम सुभूते सारथिश् चतुर्युगमश् (Aद्SPG I १२३) च रथम् अभिरुह्य समेन मार्गेण गच्छति. एवम् एव आसां पञ्चानां पारमितानां प्रज्ञापारमिता सारथी. समेन मार्गेण येन सर्वाकारज्ञता तेन गच्छति. आह: कतमो भगवन् बोधिसत्त्वानां महासत्त्वानां मार्गः कतमः अमार्गः? भगवान् आह: श्रवकमार्गो बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, प्रत्येकबुद्धमार्गो बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, सर्वाकारज्ञतामार्गः बोधिसत्त्वानां महासत्त्वानां मार्गः. अयं बोधिसत्त्वानां महासत्त्वानां मार्गः अयम् अमार्गः. आह: महाकृत्येन भगवन् प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां प्रत्युपस्थिता यैवं प्रणयत्य् अयं मार्गो ऽयम् अमार्गः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. महाकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता बोधिसत्त्वानां महासत्त्वानां या मार्गं वा अमार्गं वा प्रदर्शयति. अप्रमेयकृत्येन प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां प्रत्युपस्थिता. असंख्येयकृत्येन प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां प्रत्युपस्थिता. प्रज्ञापरमिता सुभूते तच् च कृत्यम् वर्णयति. न च रूपं परिगृह्णाति. न वेदनां न संज्ञां न संस्कारान् न विज्ञानं परिगृह्णाति न श्रावकत्वस्य न प्रत्येकबुद्धत्वस्य परिग्रहाय प्रत्युपस्थिता. सा खलु पुनर् इयं प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य परिणायिका अनुत्तरस्याः सम्यक्संबोधेः श्रावकभूमेश् (Aद्SPG I १२४) च प्रत्येकबुद्धभूमेश् च अपरिणायिका, सर्वाकारज्ञतायाश् च उपनायिका एवम् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्य उत्पादयित्री न निरोधयित्री धर्मस्थितितां प्रमाणीकृत्य. आह: यदि भगवन्न् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्य उत्पादयित्री न निरोधयित्री, तत् कथं भगवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानं दातव्यं कथं शीलं रक्षितव्यं कथं क्षान्तिर् भावयितव्याः कथं वीर्यम् आरब्धव्यं कथं ध्यानानि समापत्तव्यानि. कथं प्रज्ञा भावयितव्या? भगवान् आह: सर्वाकारज्ञताम् आरंबणीकृत्य दानन् दातव्यां सर्वाकारज्ञताम् आरंबणीकृत्य सीलं रक्षितव्यं सर्वाकारज्ञताम् आरंबनीकृत्य क्षान्तिर् भावयितव्या सर्वाकारज्ञताम् आरंबणीकृत्य वीर्यम् आरब्धव्यं सर्वाकारज्ञताम् आरंबणीकृत्य ध्यानानि समापत्तव्यानि. सर्वाकारज्ञताम् आरंबणीकृत्य प्रज्ञा भावयितव्या. तेन तानि कुशलमूलं सर्वसत्त्वैः सार्धं साधारणानि कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयितव्यानि. एवं बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलान्य् अनुत्तरस्यां सम्यक्संबोधौ परिणामयतः षट्पारमिता भावनापरिपूरिं गच्छंति यावद् बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञता [f. २४६ब्] भावनापरिपूरिं गच्छति. यश् च कश्चिद् बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् अविरहितः स सर्वाकारज्ञताय अविरहितः. तस्माद् बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षितव्यं. षट्सु पारमितासु चरन् बोधिसत्त्वो महासत्त्वो सर्वकुशलमूलानि परिपूर्य सर्वाकारज्ञताम् अनुप्राप्स्यति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेना षट्सु पारमितासु योगः करणीयः. आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु (Aद्SPG I १२५) योगः करणीयः? भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन एवं प्रत्यवेक्षितव्यं. रूपं न संयुक्तं न विसंयुक्तं. वेदनासंज्ञासंस्कार विज्ञानं स संयुक्तं न विसंयुक्तं यावत् सर्वाकारज्ञता न संयुक्ता न विसंयुक्ता. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन न रूपे स्थास्यामि इति योग करणीयः, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थास्यामि इति योगः करणीयः, यावन् न सर्वाकारज्ञता यां स्थास्यामि इति योग करणीयः. तत् कस्य हेतोः? न हि रूपं क्वचित् स्थितं, न वेदना न संज्ञा न संस्कारा न विज्ञानं क्वचित् स्थितं. यावन् न सर्वाकारज्ञता क्वचित् स्थिता, एवम् अस्थानयोगेन बोधिसत्त्वेन महासत्त्वेन अनुत्तरा सम्यकम्बोधिर् अभिसंबोद्धव्या. तद्यथापि नाम सुभूते पुरुष आम्रफलानि वा पनसफलानि वा खादितुकामो भवेत्. तेन आम्रफलं वा पनसफलं वा अवरोपितव्यं. अवरोप्य कालेन कालम् उदकं दातव्यं केलयितव्यं, तस्य अनुपूर्वेण वर्धमाने स्तंभे सामग्रीम् आसाद्य आम्रफलैर् वा पनसफलैर् वा सामग्री भविष्यति. स तान्य् आम्रफलानि वा पनसफलानि वा खादिष्यति. एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षित्वा सत्त्वान् दानेन अनुग्रहीतव्या शीलेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञया अनुग्रहीतव्याः सत्त्वां संसारात् परिमोचयितव्याः. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अपरप्रणेयतां गन्तुकामेन बुद्धक्षेत्रं परिशोधयितुकामेन बोधिमण्डनिषीदितुकामेन धर्मचक्रं प्रवर्तयितुकामेन (Aद्SPG I १२६) षट्सु पारमितासु शिक्षितव्यं. आह: प्रज्ञापारमितया भगवन् प्रज्ञापारमितायां शिक्षितव्यम् इति वदसि? भगवान् आह: प्रज्ञापारमितया सुभूते प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि. सर्वधर्मवशिताभावनाम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि. तत् कस्य हेतोः? एषा हि प्रज्ञापारमिता. यया सर्वधर्मवशिताभूमिर् अनुप्राप्यते. एषा हि प्रज्ञापारमिता सर्वधर्माणां मुखं. तद्यथापति नाम महासमुद्रः सर्वनदीनां मुखम्, एवम् एव प्रज्ञापारमिता सर्वधर्माणां मुखं. श्रावाकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बोधिसत्त्वयानिकैर् वा पुद्गलैर् इहैव प्रज्ञापारमितायां शिक्षितव्यं. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायं शिक्षितव्यं. शिलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां [f. २४७अ] ध्यानपारमितयां प्रज्ञापारमितायां शिक्षितव्यं यावत् सर्वाकारज्ञतायां शिक्षितव्यं. तद्यथापि नाम सुभूते इष्वस्त्राचार्यो यथानुरूपं धनुर् गृहीत्वा दुराधर्षो भवति प्रत्यर्थिकैर् वा प्रत्यमित्रैर् वा. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुराधर्षो भवति मारेण वा मारकायिकाभिर् वा देवताभिः. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं. तं च प्रज्ञापारमितायां चरन्तम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः समन्वाहरन्ति. आह: कथं भगवन् बुद्धा भगवन् (Aद्SPG I १२७) तस् तं बोधिसत्त्वं महासत्त्वं दानपारमितायां चरन्तं समन्वाहरन्ति? कथं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्तं समन्वाहरन्ति? कथम् अध्यात्मशून्यतायां यावद् अभावसभावशून्यतायां चरन्तं समन्वाहरन्ति? यावत् कथं सर्वाकारज्ञतायां चरन्तं समन्वाहरन्ति? भगवान् आह: इह सुभूते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं दानपारमितायां चरन्तं समन्वाहरन्ति. शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानप्रमितायां प्रज्ञापारमितायां चरन्तं समन्वाहरन्ति. तथा पुनः समन्वाहरन्ति यथा नैव दानं न शीलं न क्षान्तिं न वीर्यं न ध्यानं न प्रज्ञाम् उपलभते. एवम् अनुपलभमानं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति. एवं बोधिसत्त्वं महासत्त्वं सर्वाकारज्ञतायां चरन्तं समन्वाहरन्ति. तथा च पुनः समन्वाहरन्ति, यथा नैव सर्वाकारज्ञताम् उपलभते. एवम् अनुपलभमानं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति. पुनर् अपरं सुभूते बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं न रूपतः समन्वाहरन्ति. न वेदनातो न संज्ञातो न संस्कारतो न विज्ञनतः समन्वाहरन्ति. यावन् न सर्वाकारज्ञतातः समन्वाहरन्ति. आह: बहुषु भगवंस् स्थानेषु बोधिसत्त्येन महासत्त्वेन शिक्षितव्यं, न क्वचिच् छिक्षितव्यं? भगवान् आह: एवम् एतत् सुभूते एवम् एतद्. बहुषु स्थानेषु बोधिसत्त्वेन मनासत्त्वेन शिक्षितव्यं. न क्वचिच् छिक्षितव्यं. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं. आह: यत् पुनर् भगवंस् तथागतेनेमे धर्मा संक्षिप्तेण च विस्तरेण च भाषितास्, (Aद्SPG I १२८) तत्र बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेनेमाः षट्पारमिताः संक्षिप्तेन च विस्तरेण च पर्यवाप्तव्या पर्यवाप्य वाचा सुपरिचिताः कृत्वा मनसा अनुप्रेक्षितव्यास्, तथा च अनुप्रेक्षितव्या यथा चित्तचैतसिकधर्मा न प्रवर्तेरन्. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. आसु संक्षिप्तविस्तरेण षट्सु पारमितासु शिक्षमाणो बोधिसत्त्वो [f. २४७ब्] महासत्त्वः सर्वधर्माणांश् च संक्षिप्तविस्तरं ज्ञास्यति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वाः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति? भगवान् आह: रूपस्य वा वेदनाया वा संज्ञाया वा संस्कराणां वा विज्ञानस्य वा तथतां जानानः. यावत् सर्वाकारज्ञतायास् तथतां जानानः. सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. आह: कथं पुनर् भगवं रूपस्य तथता? भगवान् आह: यस्या तथताया नोत्पादः प्रज्ञायते न व्ययः प्रज्ञायते न स्थितस्यान्यथात्वं प्रज्ञायते. इयं रूपतथता यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं. आह: कथं भगवं वेदनाया संज्ञाया संस्कराणां विज्ञानस्य तथता यावत् सर्वाकारज्ञतायास् तथता? भगवान् आह: यस्या तथताया नोत्पाद प्रज्ञायते न व्ययः प्रज्ञायते न स्थितस्यान्यथात्वन् प्रज्ञायते इयं वेदनासंज्ञासंस्कारविज्ञानतथता यावत् सर्वाकारज्ञतातथता. यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं. भूतकोटिं जानानः बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. आह: कतमा सा भगवं भूतकोटिः? भगवान् आह: अकोटिर् भूतकोटिर्. अत्र कोट्यां (Aद्SPG I १२९) शिक्षमाणो बोधिसत्त्वो महासत्त्व सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. धर्मधातुं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. आह: कतमासौ भगवं धर्मधातुः? भगवान् आह: अधातुर् धर्मधातुः, यस्य धर्मधातोर् नोच्छेदः प्रज्ञायते न परिच्छेदः. एवं चरं धर्मधातुं जानानन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. आह: कथं भगवं सर्वधर्माणां संक्षिप्तविस्तरं ज्ञातव्यं? भगवान् आह: यथा सर्वधर्मा न संयुक्ता न विसंयुक्ताः. आह: कतमे ते भगवं सर्वधर्मा ये न संयुक्ता न विसंयुक्ताः? भगवान् अहा: रूपं न संयुक्तं न विसंयुक्तं वेदनासंज्ञासंस्कारविज्ञानं न संयुक्तं न विसंयुक्तं यावत् संस्कृतधातुर् असंस्कृतधातुर् न संयुक्तो न विसंयुक्तः. तत् कस्य हेतोः? न ह्य् अस्य स्वभावो ऽस्ति यः संयुज्येत वा विसंयुज्येत वा, यश् च अस्वभावः स अभावः, यश् च अभावः स अभावेन सार्द्धं न संयुक्तो न विसंयुक्तः. एवं सर्वधर्मा ज्ञातव्याः. अयं पुनः सुह्हूते अभिसंक्षेपो बोधिसत्त्वानां महासत्त्वानां. अत्र हि सुभूते ऽभिसंक्षेपपारमितायाम् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, यावद् दशम्यां भूमौ स्थित्वा इहैव अभिसंक्षेपे शिक्षितव्यं. इह पुनर् अभिसंक्षेपे शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षेपविस्तरं ज्ञास्यति. आह: तीक्ष्णेन्द्रियस्य भगवं बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशः? भगवान् आह: मृद्वेन्द्रियस्य अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशो, मध्येन्द्रियस्य (Aद्SPG I १३०) अपि बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशः असमाहितेन्द्रियस्य अपि बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशः. न अयं कस्यचिद् यन् न प्रवेशः शिक्षितुकामस्य बोधिसत्त्वस्य महासत्त्वस्य, न कुसीदस्य अयं प्रवेशो न हीनवीर्यस्य न मुषितस्मृतेर् न विक्षिप्तचित्तस्य, आरब्धवीर्यस्याकुसीदस्य उपस्थितस्मृतेर् अयं प्रवेशः, शिक्षितुकामस्य अवैवर्तिकभूमौ सर्वाकारज्ञताम् अनुप्राप्तुकामस्य अयं प्रवेशः. सचेद् यथोपदिष्टायां प्रज्ञापारमितायां शिक्षिष्यते शिक्षित्वा दानापारमितायां शीलपारमितायां [f. २४८अ] क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां सर्वाकारज्ञताम् अनुप्राप्स्यति. तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो यानि कानिचिन् मारकर्माण्य् उत्पत्स्यन्ते, स उत्पद्यमानान्य् एव प्रहास्यन्ते. तस्माद् उपायकौशलं परिगृहीतुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं. यस्मिन् समये बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरति प्रज्ञापारमितां भावयति प्रज्ञापारमितायां योगम् आपद्यते. तस्मिं समये असंख्येयेषु लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति सद्धर्मं देशयंति. ते तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति. प्रज्ञापारमितायां चरन्तं. तत् कस्य हेतोः? अतो निर्याता ह्य् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवंत. यदुत षट्पारमितेभ्यः. तस्मात् तर्हि बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं प्रतिकांक्षितव्यम् अहम् अप्य् एतान् धर्मान् अनुप्राप्स्यामि. ये ऽतीतानागतप्रत्युत्पन्नैर् बुद्धैर् भगवद्भिर् अनुप्राप्ता अनुप्राप्यन्ते. अनुप्राप्स्यन्ते च. एवं खलु सुभूते बोधिसत्त्वेन (Aद्SPG I १३१) महासत्त्वेन प्रज्ञापारमितायां चरत योगं आपत्तव्यं. एवं युज्यमानो बोधिसत्त्वो महासत्त्व क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तस्मात् तर्हि बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञतामनसिकारैर् अविरहितेन भवितव्यं. सचेत् पुनर् बोधिसत्त्वो महासत्त्व एवं चरन् सर्वाकारज्ञतायाम् अन्तशो ऽच्छटासंघातमात्रम् अपि प्रज्ञापारमितां भावयिष्यति. स खलु पुनर् बोधिसत्त्वो महासत्त्व बहुतरं पुण्यं प्रसविष्यति. न त्व् एव त्रिसाहस्रमहासाहस्रे लोकधातौ ये सत्त्वास् तान् दानेन संतर्पयेत् शीले प्रतिष्ठापयेत् समाधौ प्रतिष्ठापयेत् प्रज्ञायां प्रतिष्ठापयेद् विमुक्तौ प्रतिष्ठापयेद् विमुक्तिज्ञानदर्शने प्रतिष्ठापयेत् श्रोतआपत्तिफले प्रतिष्ठापयेद् यावद् अर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ प्रतिष्ठापयेद्, अयम् एव बहुतरं पुण्यं प्रसवेद् य इमां गंभीरां प्रज्ञापारमिताम् अच्छटासंघातमात्रम् अपि भावयेत्. तत् कस्य हेतोः? अतो निर्यातं हि तद् दानशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्रोतआपत्तिफलं यावद् अर्हत्त्वं प्रत्येकबोधिः. ये ऽपि ते बुद्धा भगवन्तो दशसु दिक्षु लोकधातुषु तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति ते ऽप्य् अतो निर्याताः प्रज्ञापारमितायाः. ये ऽपि ते ऽतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तस् ते ऽप्य् अत एव प्रभाविता. प्रज्ञापारमितायाः. पुनर् अपरं सुभूते यो मुहूर्तं वा दिवसं वा दिवसशतं वा संवत्सरं व संवत्सरशतं वा. कल्पं वा कल्पशतं वा यावद् असंख्येयान्य् अपि कल्पशतानि इमां प्रज्ञापारमितां सर्वाकारज्ञतारंबणमनसिकारैर् भावयिष्यति. स प्रभूततरं पुण्यं प्रसविष्यति. न त्व् एव ये गंगानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् दानेन संतर्पयेत् शीले प्रतिष्ठापयेत् समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने प्रतिष्ठापयेत् स्रोतआपत्तिफले यावद् अर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ (Aद्SPG I १३२) प्रतिष्ठापयेत्. तत् कस्य हेतोः? अतो निर्याता [f. २४८ब्] हि ते बुद्धा भगवन्तो यैर् एतद् दानमयं पुण्यक्रियावस्तु प्रज्ञाप्तं यावद् अर्हत्त्वं प्रज्ञप्तं प्रत्येकबोधिः प्रज्ञप्ता. यः पुनर् बोधिसत्त्वो महासत्त्वः एवम् उपदिष्टायां प्रज्ञपारमितायां स्थास्यति. स खलु पुनर् बोधिसत्त्वो महासत्त्वः अवैवर्तिक प्रतिकाण्क्षितव्यः. तथागतसमन्वागत स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यो यो ऽनेनोपायकौशलेन समन्वागतः बहुबुद्धकोटिनियुतशतसहस्रपर्युपासितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः अवरोपितकुशलमूलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, कल्याणामित्रपरिगृहीतः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, षट्पारमिताचीर्णः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, चतुर्दशशून्यताभावितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः यावत् चतुःप्रतिसंविदभावितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, षडभिज्ञः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, कुमारभूतः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अभिप्रायपरिपूर्णाः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, बुद्धदर्शन अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, कुशलमूल अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. बुद्धक्षेत्र अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अनाच्छेद्यप्रतिभानः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, धाराणीप्रतिलब्धः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, रूपपरिनिष्पत्तिश् तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रतिकाङ्क्षितव्यः, व्याकरणसंपन्नः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, संचिन्त्य भवप्रतिकांक्षी (Aद्SPG I १३३) स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः अक्षरप्रवेशकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अनक्षरप्रवेशकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः बोधिसत्त्वविहारकुसलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, व्याहारकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अव्याहारकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, नेकाधिवचनकुशलो द्व्यधिवचनकुशलो बह्वाधिवचनकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, स्त्र्यधिवचनुकुशलो पुरुषाधिवचनकुशलो नपुंसकाधिवचनकुशलो स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अतीतानागातप्रत्युत्पन्नकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, रूपकुशलो वेदनाकुशलः संज्ञाकुशलः संस्कारकुशलः विज्ञानकुशलः यावत् निर्वाणकुशलो धर्मधातुलक्षणकुशलः संस्कृतलक्सणकुशलः असंस्कृतलक्षणकुशलः, भावकुशलः अभावकुशलः स्वभावकुशलः परभावकुशलः, संप्रयुक्तकुशलो विप्रयुक्तकुशलः संप्रयुक्तविप्रयुक्तकुशलः न संप्रयुक्तविप्रयुक्तकुशलः, तथताकुशलः अवितथताकुशलः अनन्यतथताकुशलः [f. २४९अ] धर्मधातुकुशलो धर्मनियामताकुशलः हेतुप्रत्ययकुशलः अप्रत्ययकुशलः स्कन्धकुशलो धातुकुशलः आयतनकुशलः सत्यकुशलः प्रतीत्यसमुत्पादकुशलः ध्यानकुशलः अप्रमाणकुशलः आरूप्यसमापत्तिकुशलः षट्पारमिताकुशलः (Aद्SPG I १३४) चतुस्मृत्युपस्थानकुशलो यावत् सर्वकारज्ञाताकुशलः संस्कृतधातुकुशलः असंस्कृतधातुकुशलः धातुकुशलः अधातुकुशलः रूपमनसिकारकुशलः यावत् विज्ञानमनसिकारकुशलः यावत् सर्वाकारज्ञतामनसिकारकुशलः रूपं रूपेण सून्यम् इति कुशलः यावत् विज्ञानं विज्ञानेन शून्यम् इति कुशलः यावद् बोधि बोध्या शून्येति कुशलः प्रश्रब्धिमार्गकुशलः अप्रश्रब्धिमार्गकुशलः उत्पादनिरोधकुशलः स्थित्वन्यथात्वकुशलः रागकुशलः द्वेषकुशलो मोहकुशलः अरागकुशलः अद्वेषकुशलः अमोहकुशलः दृष्टिकुशलः अदृष्टिकुशलः मिथ्यादृष्टिकुशलः अमिथ्यादृष्टिकुशलः यावत् सर्वदृष्टिकुशलः नामकुशलो नामरूपकुशलः आरंबणकुशलः अधिपतिकुशलः आकारकुशलः लक्षणकुशलः दुःखकुशलः समुदयकुशलः निरोधकुशलः मार्गकुशलः नरककुशलः तिर्यग्योनिकुशलो यमलोककुशलः मनुष्यकुशलः मनुष्यमार्गकुशलः देवकुशलो देवमार्गकुशलः स्रोतआपत्तिफलकुशलः स्रोतआपत्तिफलमार्गकुशलः सकृदागामीकुशलः सकृदागामीफलमार्गकुशलः अनागामीफलमार्गकुशलः अर्हत्त्वकुशलः अर्हत्त्वमार्गकुशलः प्रत्येकबोधिकुशलः प्रत्येकबोधिमार्गकुशलः मार्गाकारज्ञताकुशलो मार्गाकारज्ञतामार्गकुशलः सर्वाकारज्ञताकुशलः सर्वाकारज्ञतामार्गकुशलः इन्द्रियकुशलः इन्द्रियपरिपूरिकुशलः आशुप्रज्ञकुशलः तीक्ष्णप्रज्ञकुशलः जवनप्रज्ञकुशलः नैर्वेधिकप्रज्ञकुशलः पृथुप्रज्ञकुशलः असमप्रज्ञकुशलः अतीताध्वकुशलो ऽनागताध्वकुशलः प्रत्युत्पन्नाध्वकुशलः उपायाकुशलः सत्त्वाशयकुशलः आशयकुशलः अध्याशयकुशलः (Aद्SPG I १३५) अर्थकुशलो व्यञ्जनकुशलः यानत्रयावस्थानकुसलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. एते ऽनुशांसाः सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमिताम् अभिनिर्हरतः प्रज्ञापारमितां भावयतः प्रतिकाङ्क्षितव्याः. आह: कथं भगवं प्रज्ञापारमितायां चरितव्यं कथं प्रज्ञापारमिता अभिनिर्हर्तव्या कथं प्रज्ञापारमिता भावयितव्या? भगवान् आह: रूपशान्ततया रूपवशिकतया रूपतुच्छकतया रूपासारकतया प्रज्ञापारमितायां चरितव्यं. वेदनासंज्ञासंस्कारविज्ञानशान्ततया विज्ञानवशिकतया विज्ञानतुच्छकतया. विज्ञान असारकतया प्रज्ञापारमितायां चरितव्यं. यत् पुनर् सुभूते एवं वदसि, कथं प्रज्ञापारमिता अभिनिर्हर्तव्येति? आकाशशून्यताभिनिर्हरेण प्रज्ञापारमिता अभिनिर्हर्तव्या. यत् पुनर् एवं वदसि, कथं प्रज्ञापारमिता भावयितव्येति? [f. २४९ब्] भावनाविभावनतया प्रज्ञापारमिता भावयितव्या. आह: कियच् चिरं भगवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतः प्रज्ञापारमितायां चीर्णां भवति? भगवान् आह: प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्ण प्रज्ञापारमितायां चरितव्यं. एवम् अभिनिर्हर्तव्या भावयितव्या. आह: किं पुनर् भगवंस् चित्तानन्तर्यताविरहितेन भवितव्यं? भगवान् आह; अन्येषां मनसिकाराणाम् अवकाशम् अददता प्रज्ञापारमितायां चरितव्यं, सर्वाकारज्ञतामनसिकारम् अनुत्सृजता प्रज्ञापारमितायां चरितव्यं प्रज्ञापारमिता अभिनिर्हर्तव्या प्रज्ञापारमिता भावयितव्या. तथा पुनश् चरितव्यं तथा भावयितव्यं तथा अभिनिर्हर्तव्या यथा चित्तचैतसिका धर्मा न प्रवर्तन्ते. आह; किं पुनर् भगवन् प्रज्ञापारमितायां चरता प्रज्ञापारमिताम् अभिनिर्हरता प्रज्ञापारमितां भावयता सर्वाकारज्ञता अनुप्राप्यते? भगवान् आह: नो हि इति. आह: तत् किम् (Aद्SPG I १३६) अभावयता? भगवान् आह: नो हीति. आह: तत् किं भावयता च अभावयता च? भगवान् आह: नो हीति. आह: तत् किं नैव भावयता ना भावयता? भगवान् आह: नो हीति. आह: कथम् इदानीं भगवं सर्वाकारज्ञताम् अनुप्राप्यते? भगवान् आह: यथा तथता. आह: कथं तथता? भगवान् आह: यथा भूतकोटि. आह: कथं भूतकोटिः? भगवान् आह: यथा धर्मधातुः. आह: कथं धर्मधातुः? भगवान् आह: यथा आत्मधातुः सत्त्वधातुर् जीवधातुः पुद्गलधातुः. आह: कथं भगवन्न् आत्मधातुः सत्त्वधातुर् जीवधातुः पुद्गलधातु? भगवान् आह: तत् किं मन्यसे सुभूते अपि न्व् आत्मा वा सत्त्वो वा जीवो वा पुद्गलो वा उपलभ्यते? आह: नो हीदं भगवं. भगवान् आह: अनुपलभमानः सुभूते आत्मानं वा सत्त्वं वा जिवं वा पुद्गलं वा, कथम् आत्मधातुं सत्त्वधातुम् जीवधातुं पुद्गलधातुं प्रज्ञपयिष्यामः? एवम् अप्रज्ञपयन् प्रज्ञापारमिताम् एवं अप्रज्ञपयं सर्वधर्मान् सर्वाकारज्ञातम् अनुप्राप्स्यति. आह: किं पुनर् भगवन्न् अप्रज्ञपनीया प्रज्ञापारमिता. अप्रज्ञपनीया ध्यानपारमिता अप्रज्ञपनीया वीर्यपारमिता अप्रज्ञपनीया क्षान्तिपारमिता अप्रज्ञपनीया शीलपारमिता अप्रज्ञपनीया दानपारमिता? भगवान् आह: अप्रज्ञपनीया सुभूते प्रज्ञापारमिता अप्रज्ञपनीया यावत् सर्वधर्माः संस्कृता वा असंस्कृता वा श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा. आह: यदि भगवन्न् अप्रज्ञपनीया सर्वधर्मा कुतः पुनर् भगवन् नरकाः प्रज्ञायन्ते. तिर्यग्योनिर् वा यमलोको वा प्रज्ञायते. देवा वा मनुष्या वा प्रज्ञायन्ते श्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा (Aद्SPG I १३७) सम्यक्संबुद्धो वा प्रज्ञायते? भगवान् आह: तत् किं मन्यसे सुभूते अपि नु सत्त्वप्रज्ञप्तिर् उपलभ्यते? आह: नो हीदं भगवन्. भगवान् आह: अनुपलभमानः सुभूते सत्त्वान् कुतो नरकं प्रज्ञपयिष्यामि. तिर्यग्योनिं वा यमलोकं वा देवान् वा मनुष्यन् वा श्रोतआपन्नं वा सकृदागामिनं वा अनागामिनं वा अर्हत्त्वं वा प्रत्येकबुद्धं वा सम्यक्संबुद्धं वा प्रज्ञपयिष्यामि? एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अप्रज्ञपनीयेषु धर्मेषु शिक्षितव्यं. आह: न पुनर् भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे शिक्षितव्यं वेदनायां संज्ञायां [f. २५०अ] यां संस्कारेषु विज्ञाने शिक्षितव्यं यावन् न सर्वाकारज्ञतायां शिक्षितव्यं. भगवान् आह: रूपे शिक्षितव्यं अनुत्क्षेपाप्रक्षेपतया. वेदनायां संज्नायां संस्कारेषु विज्ञाने शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया. यावत् सर्वाकारज्ञतायां शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया. आह: कथं भगवं रूपे शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया. कथं वेदनायां संज्ञायां संस्कारेषु कथं विज्ञाने शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया? भगवान् आह; अनुत्पादानिरोधतः शिक्षितव्यं. आह: कथं भगवं यावत् सर्वाकारज्ञतायां शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया? भगवान् आह: अनुत्पादानिरोधतः शिक्षितव्यं. आह: कथं भगवन्न् अनुत्पादानिरोधतायां शिक्षितव्यं? भगवान् आह: अनभिसंस्कारतायां, संस्काराणां न भावनायां न विभावनायां. आह: कथं भगवन्न् अनभिसंस्कारतायां शिक्षितव्यं? भगवान् आह; स्वलक्षणशून्यतां सर्वधर्मां पश्यता (Aद्SPG I १३८) अनभिसंस्कारतायां शिक्षितव्यं. आह: कथं भगवं स्वलक्षणशून्या सर्वधर्मा द्रष्टव्या? भगवान् आह: रूपं रूपेण शून्यं द्रष्टव्यं. वेदना वेदनया शून्या द्रष्टव्या. संज्ञा संज्ञया शून्या द्रष्टव्या संस्कारा संस्करै शून्या द्रष्टव्या विज्ञानं विज्ञानेन शून्यं द्रष्टव्यं चक्षुश् चक्सूषा शून्यं द्रष्टव्यं. यावत् मनो मनसा शून्यं द्रष्टव्यम् अध्यात्मशून्यता अध्यात्मशून्यतया शून्या द्रष्टव्या यावत् स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या द्रष्टव्या ध्यानानि ध्यानै शून्यानि द्रष्टव्यानि. यावन् निरोधसमापत्तिर् निरोधसमापत्त्या शून्या द्रष्टव्या स्मृत्यूपस्थानानि स्मृत्युपस्थानै शून्यानि द्रष्टव्यानि यावद् बोधिर् बोध्या शून्या द्रष्टव्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता स्वलक्षणशून्येषु सर्वधर्मेषु शिक्षितव्यं. आह: यदि भगवं रूपं रूपेण शून्यं यावद् बोधिर् बोध्या शून्या द्रष्टव्या तत् कथं भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतश् चर्या भवति? भगवान् आह: अचर्या सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताचर्या. आह: केन कारणेन भगवन्न् अचर्या प्रज्ञापारमिताचर्या? भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता नोपलभ्यते बोधिसत्त्वो ऽपि नोपलभ्यते. चर्या अपि नोपलभ्यते. यश् चरति येन वा चरति यत्र वा चरति तद् अपि नोपलभ्यते. इयं सुभूते अचर्या बोधिसत्त्वस्य माहसत्त्वस्य प्रज्ञापारमिताचर्या यत्रैते सर्वप्रपंचा नोपलभ्यन्ते. आह: यदि भगवन्न् अचर्या प्रज्ञापारमिताचर्या तत् कथम् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं? भगवान् आह: इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् एवारभ्य अनुपलंभेषु सर्वधर्मेषु शिक्षितव्यं. तेन दानं ददता अनुपलंभयोगेन दानं दातव्यं, शीलं रक्षता अनुपलंभयोगेन शीलं (Aद्SPG I १३९) रक्षितव्यं क्षान्त्या संपादयता अनुपलंभयोगेन क्षान्त्या संपादयितव्यं. वीर्यम् आरभमाणेन अनुपलंभयोगेन वीर्यम् आरब्धव्यं. समाधिं समापद्यमानेन अनुपलंभयोगेन समाधिः समापत्तव्यः प्रज्ञां भावयता. अनुपलंभयोगेन [f. २५०ब्] प्रज्ञा भावयितव्या. यावत् सर्वाकारज्ञतां भावयता अनुपलंभयोगेन सर्वाकारज्ञता भावयितव्या. आह: कियता भगवन्न् अनुपलंभो भवति. कियतोपलंभो भवति? भगवन् आह: यावद् द्वयं तावद् उपलंभ. अद्वयम् अनुपलंभ. आह: किम् इति भगवन् द्वयं? भगवान् आह: यावत् चक्षूरूपाणि यावद् यावन् मनोधर्माश् च यावद् यावद् बोधिर् बुद्धाश् च इदं सुभूते द्वयं. आह: किं पुनर् भगवन्न् उपलभ्यो ऽनुपलंभः अथ अनुपलभ्यो ऽनुपलंभ? भगवान् आह: न सुभूते अनुपलंभ्यो ऽनुपलंभ. न अनुपलभ्यो ऽनुपलंभः. अपि तु खलु पुनः सुभूते उपलंभ अनुपलंभसमता अनुपलंभः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन उपलंभसमतायां शिक्षितव्यं. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाम् अनौपलंभिको भवति. आह: यदि भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नैवोपलंभे सज्जते नैवानुपलंभे, कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता भूमेर् भूमिः परिपूरयितव्यं, भूमेर् भूमिं परिपूर्य सर्वाकारज्ञता अनुप्राप्तव्या? भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपलंभे स्थित्वा भूमेर् भूमिं परिपूरयति. न ह्य् उपलंभे स्थित्वा शक्यं बोधिसत्त्वेन महासत्त्वेन प्रज्नापारमितायां चरता भूमेर् भूमि परिपूरयितुं. तत् कस्य हेतो? अनुपलंभो हि प्रज्ञापारमिता अनुपलंभो बोधि सो ऽपि नोपलभ्यते. यः प्रज्ञापारमितायां चरति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां (Aद्SPG I १४०) चरितव्यं. आह: यदि भगवं प्रज्ञापारमिता नोपलभ्यते बोधिर् अपि नोपलभ्यते यो ऽपि बोधौ चरति सो ऽपि नोपलभ्यते. तत् कथम् इदानीं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सर्वधर्मेषु प्रविचयः कर्तव्यः इदं रूपम् इयं वेदना इयं संज्ञा इमे संस्कारा इदं विज्ञानं यावद् इयं बोधिः? भगवान् आह: न हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तथा धर्मेषु प्रविचयं करोति. यथा कुर्वन् रूपम् उपलभेत वेदनां संज्ञां संस्कारान् विज्ञानम् उपलभेत. यावद् बोधिम् उपलभेत. आह: यदि भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं नोपलभते. वेदनां संज्ञां संस्कारान् विज्ञानं नोपलभते. यावद् बोधिं नोपलभते, कथम् इदानीं दानपारमितां परिपूर्य शीलपारमितां क्षन्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिपूर्य बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रम्य बुद्धक्षेत्रं परिशोधयति. बुद्धक्षेत्रं परिशोध्य सत्त्वान् परिपाचयति. सत्त्वान् परिपाच्य सर्वाकारज्ञताम् अनुप्राप्नोति. सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति. धर्मचक्रं प्रवर्त्य बुद्धकार्यं करोति. बुद्धकार्यं कृत्वा सत्त्वान् संसारात् परिमोचयति? भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो रूपस्य कृते प्रज्ञापारमितायां चरति. न वेदनाया न संज्ञाया न संस्काराणां न विज्ञानस्य कृते यावन् न बोधेः [f. २५ल] कृते प्रज्ञापारमितायां चरति. आह: कस्य भगवन् कृते बोधिसत्त्वो महासत्त्वः (Aद्SPG I १४१) प्रज्ञापारमितायां चरति? भगवन् आह: न कस्यचित् कृते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति. तत् कस्य हेतोस्? तथा ह्य् अकृताः सर्वधर्माः अनभिसंस्कृताः सर्वधर्माः, सापि प्रज्ञापारमिता अकृता अनभिसंस्कृता, बोधिर् अप्य् अकृता अनभिसंस्कृता. बोधिसत्त्वो ऽप्य् अकृतो ऽनभिसंस्कृतः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अकृत अनभिसंस्कृतयोगेन. आह: यदि भगवन्न् अकृता अनभिसंस्कृताः सर्वधर्मा, तत् कथम् एषां त्रयाणां यानानां व्यवस्थानं भवति. श्रावाकयानस्य वा प्रत्येकबुद्धयानस्य वा महायानस्य वा? भगवान् आह: न सुभूते अकृतानभिसंस्कृतानां धर्माणां किंचिद् व्यवस्थानम् उपलभ्यते. अभिसंस्कृतानाम् अभिसंचेतयितानां धर्माणां व्यवस्थानम् उपलभ्यते. तत् कस्य हेतोस्? तथा हि बालो ऽश्रुतवान् पृथग्जनो ऽभिनिविश्य पञ्चसु स्कन्धेषु रूपे यावद् विज्ञाने. यावत् सर्वाकारज्ञातायाम् अभिनिविश्य रूपं मन्यते रूपम् उपलभते. यावद् विज्ञानं मन्यते विज्ञानम् उपलभते. यावद् बोधिं मन्यते बोधिम् उपलभते. तस्यैवं भवत्य्: अहं बोधिम् अभिसंभोत्स्ये अहं सत्त्वान् मोचयिष्ये संसारात् स एवम् असत् कल्पयति. तत् कस्य हेतोस्? तथा हि सुभूते यद् बुद्धैः पंचभिश् चक्षुभिर् नोपलब्धं रूपं यावद् बोधिः, तत् ते मोहपुरुषा अन्धा अचक्षुष्का सत्त्वांच् छिन्नन्ति संसारात् परिमोचयितुं. आह: यदि भगवंस् तथागतेन अर्हता सम्यक्संबुद्धेन पंचभिश् चक्षुभिर् नोपलभ्दाः सत्त्वा ये संसारात् परिमुच्येरन्, कथम् इदानीं भगवान् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वांस् तृषु राशिषु व्याकर्षीत्, सम्यक्त्वनियते अनियते मिथ्यात्वनियते? भगवान् आह; (Aद्SPG I १४२) न मे सुभूते अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य कश्चित् सत्त्व उपलब्धः, सम्यक्त्वनियतो वा अनियतो वा मिथ्यात्वनियतो वा. अपि तु खलु सुभूते य इमे सत्त्वा अद्रव्ये द्रव्यसंज्ञिन. अभूतग्राहाद् वारयामि, लोकव्यवहारेण न पुनः परमार्थेन. आह: ननु भगवता परमार्थे स्थित्वा अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा? भगवान् आह: नेति. आह: तद् विपर्यासे स्थित्वा अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा? भगवान् आह: नेति. आह: तद् यदि भगवन् नापि परमार्थे स्थित्वा अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा नापि विपर्यासे स्थित्वा तन् मा हैव न तथागतेन अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा भवेत्. भगवान् आह: अभिसंबुद्धा सुभूते तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिः, सा न क्वचित् स्थित्वा संस्कृते वा धाताव् असंस्कृते वा धातौ. तद्यथापि नाम सुभूते तथागतनिर्मितो न क्वचित् स्थितः संस्कृते वा धातौ वा असंस्कृते वा धातौ. स तथागतनिर्मितो गच्छति च आगच्छति च, तिष्ठति च निषीदति च, स दानपारमितायां चरेच् छीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरेत्, यावच् चत्वारि ध्यानान्य् उपसंपद्य विहरेत् चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्ती. पञ्चाभिज्ञा चत्वारि स्मृत्युपस्थानानि भावयेद् यावद् आर्याष्टांगं [f. २५१ब्] मार्गं शून्यतां समाधिम् आनिमित्तं समाधिम् अप्रणिहितं समाधिम् अध्यात्मशून्यतां यावत् स्वलक्षणशून्यताम् अष्टौ विमोक्षान् नवानुपूर्वसमापत्तीर् दशतथागतबलानि चत्वान् वैशारद्यानि चतस्र प्रतिसंविदो महामैत्रीं महाकरुणाम् (Aद्SPG I १४३) अष्टादशावेणिकान् बुद्धधर्मान् धर्मचक्रप्रवर्तनायै. स च निर्मितः अप्य् अप्रमाणान् सत्त्वान् निर्माय त्रिषु राशिषु व्याकुर्यात्, तत् किं मन्यसे सुभूते. अपि नु तेन निर्मितेन कश्चित् सत्त्वो व्याकृतो भवेत्? आह: नो हीदं भगवन्. भगवान् आह: एवम् एव सुभूते तथागतेन निर्मितोपमा सर्वधर्मा ज्ञाता गणिता अज्ञाननिर्मितां ज्ञात्वा न कश्चित् सत्त्व उपलब्धो नापि विनीतः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. तद्यथापि नाम सुभूते तथागतनिर्मित. आह: यदि भगवं सर्वधर्मा निर्मितोपमास्, तथागतस्य च निर्मितस्य च को विशेषः किं नानाकरणं को ऽभिप्रायः? भगवान् आह: तथागतस्य सुभूते निर्मितस्य च न किंचिद् विशेषो न किंचिन् नानाकरणम् उपलभ्यते. निर्विशेषो हि सुभूते तथागतश् च निर्मितश् च. तत् कस्य हेतोः? तथा हि यत् तथागतः कर्म करोति. तं निर्मितः कर्म करोति. आह: किं पुनर् भगवन् सति तथागते निर्मितः कर्म करोति? भगवान् आह; करोति सुभूते. आह: अथ कथं पुनर् भगवन्न् असति तथागते निर्मित कर्म करोति? भगवान् आह: तद्यथापि नाम सुभूते शान्तमतिस् तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वम् अनुपलभमानस् तथागतविग्रहं निर्माय परिनिर्वृत, तेन च निर्मितेनोर्ध्वं कल्पं बुद्धकार्यं कृतं, स च पश्चाद् बोधिसत्त्वो महासत्त्वः व्याकृत्य परिनिर्वृत इति संज्ञातः, न च निर्मितस्य कश्चिद् उत्पादो न परिनिर्वाणं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं यदुत निर्मितोपमान् सर्वधर्मान् अधिमुच्य. (Aद्SPG I १४४) आह: यदि निर्मितस्य च तथागतस्य च विशेषो नास्ति, दक्षिणापरिशुद्धिः कथं भविष्यति. य इमे भगवं सत्त्वा पुण्यार्थिका निर्वानार्थिकास् तथागते ऽर्हे सम्यक्संबुद्धे दक्षिणां प्रतिष्ठापयन्ति. न च जातु सा क्षीयते यावन् न ते सर्वे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृता भवन्ति. एवम् एव निर्मिते दक्षिणा प्रतिष्ठापिता. न जातु क्षीयते यावन् न ते सर्वे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृता भवन्ति? भगवान् आह: यया सुभूते धर्मतया तथागत सदेवमानुषासुरस्य लोकस्य दक्षिणीयः तथैव धर्मतया निर्मितः सदेवमानुषासुरस्य लोकस्य दक्षिणीयः. तिष्ठतु तावत् सुभूते तथागतप्रतिष्ठापिता दक्षिणा. तिष्ठतु तथागतनिर्मितप्रतिष्ठापिता दक्षिणा. ये ऽपि केचित् सुभूते कुलपुत्रा वा कुलदुहितरो वा तथा तथागतं मैत्रावता मनसिकारेण मनसिकरिष्यन्ति, सर्वे ते तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य दुःखस्यान्तं करिष्यन्ति. तिष्ठतु मैत्रावान् मनसिकारः, ये पि केचित् सुभूते कुलपुत्रा वा कुलदुहितरो वा आकाशे पुष्पं क्षेप्स्यन्ति तथागतं मनसिकृत्य, सर्वे ते तस्य कुशलमूलस्य पर्यन्तम् अनधिगम्य, दुःखस्यान्तं करिष्यन्ति. तिष्ठतु सुभूते मैत्रावान् मनसिकारः तिष्ठत्व् आकाशे पुष्पं, ये केचित् सुभूते कुलपुत्रा वा कुलदुहितरो वा बुद्धं नमस्करिष्यन्ति, सर्वे ते [f. २५२अ] ऽनुपूर्वेण दुःखस्यान्तं करिष्यन्ति. एवं महार्थिका वत सुभूते तथागतप्रतिष्ठापिता दक्षिणा. एवं महानुशंसा. तद् अनेन पर्यायेण सुभूते वेदितव्यं. , तथागतस्य च निर्मितस्य च नास्ति किंचिन् नानाकरणं, धर्माणां धर्मतां प्रमाणीकृत्य (Aद्SPG I १४५) एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं, धर्माणां धर्मतायाम् अवतीर्य. सा च धर्माणां धर्मता न विकोपयितव्या इयं प्रज्ञापारमिता इयं प्रज्ञापारमिताया धर्मतेति न विकोपयितव्यं. इयन् ध्यान पारमिता, इयं ध्यानपारमिताया धर्मतेति न विकोपयितव्यं. यावत् इयन् दानपारमिता इयन् दानपारमिताया धर्मतेति न विकोपयितव्यं. एवं यावत् सर्वधर्मेषु कर्तव्यं. आह: यदि भगवन् सर्वधर्माणां धर्मता न विकोपयितव्या, तद् यत् पुनर् भगवंस् तथागतेन विकोपितम् इदं रूपम् यावद् इदं विज्ञानं. एवम् अध्यात्मिका बाह्या धर्मा निर्दिष्टाः, एवं कुशला अकुशलाः सास्रवा अनास्रवाः लौकिका लोकोत्तराः साधारणा असाधारणाः संस्कृत असंस्कृता धर्मा निर्दिष्टाः, तन् मा हैव भगवता धर्माणां धर्मता विकोपिता भवति? भगवान् आह: नो हीदं सुभूते. नामनिमित्तैश् च मया ते धर्मा निर्दिष्टाः धर्माणां सूचना कृता, कथं परो ऽवतरेत् इति. न पुनर् धर्माणां धर्मता विकोपिता भवति. आह: यदि भगवं नामनि मित्तं निर्दिष्टं परेषाम् अवतरणार्थं, तत् कथं भगवन्न् अनामका अनिमित्ता धर्मा नामनिमित्तेन व्याहृताः भगवान् आह: व्याहारः सुभूते न नामनिमित्तं न अभिनिवेशो वा, नान्यत्र सुभूते दुःखम् एव व्याहरामि न नाम्नि न निमित्ते वा अभिनिवेशे. न हि सुभूते तथागतो वा तथागतश्रावको वा नामनिमित्ते (Aद्SPG I १४६) ऽभिनिविशते. यदि सुभूते नाम नाम्न्य् अभिनिविशेत, निमित्तं निमित्ते ऽभिनिविशेत, शून्यता शून्यतायाम् अभिनिविशेत, आनिमित्तम् आनिमित्ते ऽभिनिविशेत, अप्रणिहितम् अप्रणिहिते ऽभिनिविशेत. तथता तथतायाम् अभिनिविशेत, भूतकोटिः भूतकोट्याम् अभिनिविशेत, धर्मधातुर् धर्मधाताव् अभिनिविशेत, असंस्कृतम् असंस्कृते ऽभिनिविशेत. अभिनिविशेत तथागतो वा तथागतश्रावको वा नामनिमित्ते. एते च सर्वधर्मा नाममात्रं. न चैते नाममात्रे ऽप्य् अवतिष्ठन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन नामनिमित्तमात्रे स्थित्वा प्रज्ञापारमितायाञ् चरितव्यं. तत्र च न अभिनिवेष्टव्यं. आह: यदि भगवं नामनिमित्तमात्रम् एव सर्वं संस्कृतं, तत् कस्येदानीं कृते बोधिसत्त्वो महासत्त्वो बोधये चित्तम् उत्पादयति, बोधये चित्तं उत्पाद्य अनेकविधान् संस्काराविप्रकारान् प्रत्यनुभवति. बोधिसत्त्वचारिकां चरति. बोधिसत्त्वचारिकां चरन् विचित्राणि दानानि ददाति. शीलञ् च रक्षति क्षान्त्या च संपादयति. वीर्यं च आरभते. समाधिं च समापद्यते. प्रज्ञां च भावयति. शून्यतायां च चरति. ध्यानाप्रमाणैश् च अरूप्यसमापत्तिभिश् च चरति. स्मृत्युपष्ठानैश् च विहरति सम्यक्प्रहाणैश् च विहरति. यावच् छून्यतानिमित्ताप्रणिहितैश् च विमोक्षमुखैर् विहरति, दशभिश् च तथागतबलैर् विहरति यावन् महामैत्रीं महाकरुणां च परिपूरयति? भगवान् आह: यत् सुभूतिर् एवम् आह: यदि नामनिमित्तमात्रम् एव सर्वं संस्कृतं, तत् कस्य इदानिं कृते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरति? यस्मात् (Aद्SPG I १४७) तर्हि सुभूते नामनिमित्तमात्रम् एव सर्वं संस्कृतं, तच् च नाम नाम्ना [f. २५२ब्] शून्यं, निमित्तं निमित्तेन शून्यं. तस्माद् बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरं सर्वाकारज्ञताम् अनुप्राप्नोति. सर्वकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति. धर्मचक्रं प्रवर्त्य सत्त्वांस् त्रिभिर् यानैः परिनिर्वापयति. तस्य च नामनिमित्तस्य नोत्पादो न व्ययो न स्थितस्यान्यथात्वं प्रज्ञायते. आह: सर्वाकारज्ञता सर्वाकारज्ञतेति भगवन् वदसि. भगवान् आह: सर्वाकारज्ञता सर्वाकारज्ञतेति वदमि. आह: यत् पुनर् भगवं सर्वाकारज्ञता तथागतेन निर्दिष्टा, मार्गाकारज्ञता अपि तथागतेन निर्दिष्टा, सर्वज्ञतापि तथागतेन निर्दिष्टा. आसां भगवंस् तिसृणां सर्वज्ञतानां. को विशेष किन् नानाकरणं? भगवान् आह: सर्वज्ञता सुभूते श्रावकप्रत्येकबुद्धानां मार्गाकारज्ञता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञता तथागतानाम् अर्हतां सम्यक्संबुद्धानं. आह: केन कारणेन भगवं सर्वज्ञता श्रावकप्रत्येकबुद्धानां. केन कारणेन मार्गाकारज्ञता बोधिसत्त्वानां महासत्त्वानां. केन कारणेन सर्वाकारज्ञता तथागतानाम् अर्हतां सम्यक्संबुद्धानां? भगवान् आह: एतावद् एव सुभूते सर्वं यावद् एव अध्यात्मिकाश् च बाह्याश् च धर्माः ते श्रावकप्रत्येकबुद्धैर् अपि ज्ञाता न पुनः सर्वमार्गाणि न सर्वाकारेण. यत् पुनः सुभूतिर् एवम् आह: केन कारणेन मार्गाकारज्ञता बोधिसत्त्वानां महासत्त्वानाम् इति? सर्वमार्गाः सुभूते बोधिसत्त्वेन महासत्त्वेनौत्पादयितव्याः, सर्वमार्गाः ज्ञातव्या, (Aद्SPG I १४८) ये च श्रावकप्रत्येकबुद्धमार्गा. ये च बोधिसत्त्वमार्गाः, ते च मार्गाः परिपूरयितव्याः, तैश् च मार्गैर् मार्गकरणीयं कर्तव्यं. न च भूतकोटि प्रतिवेद्धव्या. आह: यत् पुनर् भगवं बोधिसत्त्वेन महासत्त्वेन बुद्धमार्गः परिपूरयितव्यो ननु तेन भूतकोटि न? साक्षात्कर्तव्या? भगवान् आह: न अपरिशोध्य सुभूते बुद्धक्षेत्रं न अपरिपाच्य सत्त्वांस् तेन बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या. आह: किं पुनर् भगवं बोधिसत्त्वेन महासत्त्वेन मार्गे स्थित्वा भूतकोटिः साक्षात्कर्तव्या? भगवान् आह: नेति. आह: तद् अमार्गे स्थित्वा? भगवान् आह: नेति. आह: तन् मार्गे च अमार्गे च स्थित्वा? भगवान् आह: नेति. आह: तन् नैव मार्गे न अमार्गे स्थित्वा? भगवान् आह: नेति. आह: तत् कथं भगवं बोधिसत्त्वेन महासत्त्वेन भूतकोटिः साक्षात्कर्तव्या? भगवान् आह: तत् किं मन्यसे सुभूते मार्गे ते स्थितस्य अनुपादायास्रवेभ्यश् चित्तं विमुक्तं? आह: नो हीदं भगवन्. भगवान् आह: अमार्गे स्थितस्य? आह: नो हीदं भगवन्. भगवान् आह: तन् मार्गे च अमार्गे स्थितस्य? आह: नो हीदं भगवन्. भगवन् आह: तन् नैव मार्गे न अमार्गे स्थितस्य अनुपादाय आस्रवेभ्यश् चित्तं विमुक्तं? आह: नो हीदं भगवन्. न मे भगवं क्वचित् स्थितस्य अनुपादायास्रवेभ्यस् चित्तं विमुक्तं, विमुक्तं च मे भगवंश् चित्तं यथा न क्वचित् स्थितस्य. भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन न क्वचित् स्थित्वा भूतकोटिः साक्षात्कर्तव्या. यत् पुनः सुभूते सर्वाकारज्ञता सर्वाकारज्ञतेत्य् (Aद्SPG I १४९) उच्यते. एकेन आकारेण सर्वाकारज्ञतेत्य् उच्यते. यदुत शान्ताकारेण. अपि तु खलु पुनः सुभूते यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् [f. २५३अ] धर्मा सूच्यन्ते, सर्वाणि तान्य् आकारास् तानि लिङ्गानि तानि निमित्तानि तथागतेन अनुबुद्धानि, तस्मात् सर्वाकारज्ञतेत्य् उच्यते. आह: यत् पुनर् भगवं सर्वाकारज्ञता च मार्गाकारज्ञता च सर्वज्ञता च, कच्चिद् भगवन्न् आसाम् तिसृणां सर्वज्ञतानां क्लेशप्रहाणस्य नानात्वम् अस्ति, अस्य सावशेषप्रहाणम् अस्य अनवशेषप्रहाणम् इति? भगवान् आह: न सुभूते क्लेशप्रहाणस्य नानात्वम् अस्ति. अस्ति पुनस् तथागतस्य सर्ववासनानुसन्धिप्रहाणं न पुनः स्रावकस्य प्रत्येकबुद्धस्य च सर्वासनानुसन्धिक्लेशप्रहानं. आह: किं पुनर् भगवन्न् एभिर् अनुप्राप्तम् असंस्कृतं. किं वा पुनर् भगवन्न् असंस्कृतस्य नानात्वम् उपलभ्यते? भगवान् आह: नेति. आह: यद्य् असंस्कृतस्य नानात्वं नोपलभ्यते, कुतो भगवन्न् एवं निर्दिशत्य्: अस्य सर्ववासनानुसन्धिप्रहाणम् अस्य न सर्ववासनानुसन्धिप्रहाणं? भागवान् आह: न सुभूते वासनानुसन्धिक्लेशो ऽस्ति. अपि त्व् अस्ति तेषां श्रावाकप्रत्येकबुद्धानां रागदोषमोहप्रहाणं कश्चित् तु कायविकारास् प्रवर्तन्ते ते बालपृथग्जनानाम् अनर्थाय सनिवर्तन्ते. न तु श्रावकानां ते तथागतस्य नास्ति. अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: यद्य् अभावो (Aद्SPG I १५०) भगवं मार्गः अभावो निर्वाणं, तत् कुतः भगवन् निर्दिश्यते. अयं श्रोतआपन्न अयं सकृदागामी. अयम् अनागामी अयम् अर्हन्न् अयं प्रत्येकबुद्ध्हो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः? भगवान् आह: सर्व एते सुभूते असंस्कृतप्रभाविता. यश् च श्रोतआपन्नो यश् च सकृदागामी यश् च अनागामी यश् च अर्हन् यश् च प्रत्येकबुद्धो यश् च बोधिसत्त्वो महासत्त्वो यश् च तथागतो ऽर्हन् सम्यक्संबुद्धः. आह: कच्चित् पुनर् भगवन्न् असंस्कृतं प्रभावयत्य् अयं श्रोतआपन्नो ऽयं यावद् अर्हन्न् अयं प्रत्येकबुद्धो ऽयं बोधिसत्त्वो महासत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्ध इति? भगवान् आह: न खलु सुभूते असंस्कृतं प्रभावयत्य् अपि तु खलु वचनं प्रमाणीकृत्य जल्प्यते. न पुनः परमार्थेन शक्यं प्रभावितुं. तत् कस्य हेतोः? नास्ति तत्र वाक्पथप्रज्ञप्तिर्. आह: कथं भगवन् पश्चिमा कोटिर् प्रज्ञप्यते? भगवान् आह: लोकव्यवहारं सुभूते प्रमाणीकृत्य यैर् यैर् अन्तः उच्छिन्नस् तेषां पश्चिमा कोटिः प्रज्ञप्यते. अपि तु खलु पुनर् यैः पूर्वान्तो व्यवच्छिन्नस् तेषां पश्चिमा कोटिर् प्रज्ञप्ता. आह: स्वलक्षणशून्यानां भगवन् सर्वधर्माणां कुतः पुनः पूर्वकोटिः प्रज्ञायते, कुतः पुनः पश्चिमा कोटिः प्रज्ञायते? भगवन् आह: एवम् एतत् सुभूते एवम् एतत्. स्वलक्षणशून्यानां सुभूते सर्वधर्माणां पूर्वकोटिर् न प्रज्ञायते, कुतः पुनः पश्चिमा कोटिः प्रज्ञप्यते नेदं स्थानं विद्यते. अपि तु खलु सुभूते ये ते सत्त्वा स्वलक्षणशुन्यान् धर्मान् न जानन्ति, तेषाम् एवं निर्दिष्टम् इयं सा पूर्वकोटिर् इयं सा पश्चिमा कोटिर् इति, न पुनः स्वलक्षणशून्येषु सर्वधर्मेषु (Aद्SPG I १५१) पूर्वकोटिर् न पश्चिमा कोटिर् उपलभ्यते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु सर्वधर्मेषु प्रज्ञापारमितायां चरितव्यं. स्वलक्षणशून्येषु सर्वधर्मेषु चरन् न क्वचिद् अभिनिविशते. अध्यात्मिकेषु वा बाह्येषु वा, संस्कृतेषु वा असंस्कृतेषु वा, श्रावकधर्मेषु वा प्रत्येकबुद्धधर्मेषु वा. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: प्रज्ञापारमिता प्रज्ञापारमितेति भगवन्न् उच्यते, केनार्थेन प्रज्ञापारमितेत्य् उच्यते? भगवान् आह: परमपारमिप्राप्तैषा सुभूते प्रज्ञापारमिता सर्वधर्माणां, तेनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि तु खलु पुनः सुभूते अनया प्रज्ञापारमितया सर्वश्रावकप्रत्येकबुद्धा [f. २५३ब्] बोधिसत्त्वाश् च महासत्त्वा तथागताश् च अर्हन्तः सम्यक्संबुद्धा पारं गता गच्छन्ति गमिष्यन्ति, तेनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि तु खलु पुनः सुभूते परमार्थेन यो ऽर्थः सर्वधर्माणां अभिन्नः स. इह प्रज्ञापारमितयाः तैश् च तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः सर्वधर्मेषु पारो नोपलब्धस्, तेनार्थेन प्रज्ञापारमितेत्य् उच्यते. अपि तु खलु पुनः सुभूते इह प्रज्ञापारमितायां तथता अन्तर्गता भूतकोटिर् अन्तर्गता धर्मधातुर् अन्तर्गतास्, तेनार्थेनोच्यते प्रज्ञापारमितेत्य्. अपि तु खलु पुनः सुभूते इयं प्रज्ञापारमिता न केनचिद् धर्मेण संयुक्ता वा विसंयुक्ता वा सनिदर्शना वा अनिदर्शना वा प्रतिघा वा अप्रतिघा वा. तत् कस्य हेतोः? तथा हि इयं प्रज्ञापारमिता अरूपिण्य् अनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणा. अपि तु खलु पुनः सुभूते इयं प्रज्ञापारमिता सर्वधर्माणां (Aद्SPG I १५२) चारिका, दात्री सर्वप्रतिभानानां सर्वालोकानानाम् अनच्छेद्येयं सुभूते प्रज्ञापारमिता असंहार्या मारैर् वा मारकायिकाभिर् देवताभिः श्रावकप्रत्येकबुद्धयानिकैर् वा पुद्गलैर् यावन् न कैश्चिद् अन्यतीर्थिकैः पापमित्रैर् इयं प्रज्ञापारमिता शक्यम् आच्छेतुं बोधिसत्त्वस्य महासत्त्वस्य. तत् कस्य हेतोस्? तथा हि ते सर्वे ऽत्र प्रज्ञापारमितायां नोपलभ्यन्ते स्वलक्षणशून्यताम् उपादाय. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन इह प्रज्ञापारमितायां चरितव्यं. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन इह गंभीरायां प्रज्ञापारमितायाम् अर्थे चरता अनित्यार्थे चरितव्यं दुःखार्थे अनात्मार्थे चरितव्यं. दुःखज्ञानार्थे समुदयज्ञानार्थे निरोधज्ञानार्थे मार्गज्ञानार्थे. क्षयज्ञानार्थे. अनुत्पादज्ञानार्थे. धर्मज्ञानार्थे. अन्वयज्ञानार्थे. संवृतिज्नानार्थे, परमार्थज्ञानार्थे. यावद् यथावज्ज्ञानार्थे चरितव्यं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायार्थे चरितव्यं. आह: यदि भगवन्न् इह गंभीरायां प्रज्ञापारमितायाम् अर्थश् च अनर्थश् च नोपलभ्यते. कथं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायार्थे चरितव्यं? भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन गंभीरे प्रज्ञापारमितार्थे चरता एवं चरितव्यं. रागो मे ऽर्थो ऽनर्थ इति न वरितव्यं दोशो मे ऽर्थो ऽनर्थ इति न चरितव्यं मोहो मे ऽर्थो ऽनर्थ इति न चरितव्यं मिथ्यादृष्टिर् मे ऽर्थो ऽनर्थ इति न चरितव्यं यावत् सर्वदृष्टिगतानि मे (Aद्SPG I १५३) ऽर्थो ऽनर्थ इति न चरितव्यं. तत् कस्य हेतोः? न हि रागदोषमोहानां तथता यावन् न नानादृष्टिगतानां तथता कस्यचिद् अर्थं करोति न अनर्थं करोति. रूपं मे अर्थ इति न चरितव्यं. रूपं मे ऽनर्थ इति न चरितव्यं, विज्ञानं मे अर्थ इति न चरितव्यं विज्ञानं मे ऽनर्थ इति न चरितव्यं. यावद्: बोधि मे ऽर्थ इति न चरितव्यं बोधि मे ऽनर्थ इति न चरितव्यं. तत् कस्य हेतोः? तथा हि सुभूते तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य न कश्चिद् धर्मो उपलब्धो यो ऽर्थं वा कुर्याद् अनर्थं वा. अपि तु खलु सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव धर्माणां धर्मता धर्मस्थितिता स्थितैव धर्मधातु. स नैव कस्यचिद् अर्थं करोति न अनर्थं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन अर्थ अनर्थान् वर्जितेन प्रज्ञापारमितायां चरितव्यं. आह: केन कारणेन भगवन् प्रज्ञापारमिता न अर्थं करोति न अनर्थं करोति? भगवान् आह: तथा हि सुभूते संस्काराणाम् असंस्कृतधर्मता याश् च करणीया प्रज्ञापारमिता, अनेन कारणेन प्रज्ञापारमिता [f. २५४अ] न कस्यचिद् अर्थकरा न अनर्थकरा. आह: ननु भगवन्न् असंस्कृतो ऽर्थ सर्वार्याणां बुद्धानां च बुद्धश्रावकानां च? भगवान् आह: असंस्कृतो ऽर्थः सुभूते सर्वार्याणां बुद्धानां च बुद्धश्रावकानां च? न पुनर् कस्यचिद् उपकारेण वा अनुपकारेण वा प्रत्युपस्थितः. तद्यथापि नाम सुभूते आकाशस्य तथता न कस्यचिद् उपकारेण वा अनुपकारेण वा प्रत्युपस्थिता, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता (Aद्SPG I १५४) न कस्यचिद् धर्मस्य उपकारेण वा अनुपकारेण वा प्रत्युपस्थिता. आह: ननु भगवं बोधिसत्त्वो महासत्त्वो ऽसंस्कृतायां प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नोति? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. बोधिसत्त्वो महासत्त्वः इह गंभीरायाम् असंस्कृतायां प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नोति, न पुनर् द्वययोगेन. आह: किं पुनर् भगवन्न् अद्वयो धर्म अद्वयं धर्मम् अनुप्राप्नोति? भगवान् आह: नेति. आह: तत् किं द्वयो धर्म द्वयं धर्मम् अनुप्राप्नोति? भगवान् आह: नेति. आह: तत् किं द्वयो धर्म अद्वयं धर्मम् अनुप्राप्नोति? भगवान् आह: नेति. आह: तत् किम् अद्वयो धर्म द्वयं धर्मम् अनुप्राप्नोति? भगवान् आह: नेति. आह: तत् कथम् इदानीं प्राप्यते? भगवान् आह: यदा न द्वयन् धर्मो नाद्वयन् धर्म उपलभ्यते. तत् कस्य हेतोः? अनुपलंभो हि प्राप्ति सा न अनुपलंभेन प्राप्यते न पुनर् उपलंभेन प्राप्यते. (६३)
SK
परिवर्त ६४.
SK
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: गंभीरा भगवं प्रज्ञापारमिता दुष्करकारका भगवं बोधिसत्त्वाः महासत्त्वाः ये ऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठन्ते न च नाम कश्चित् सत्त्व उपलभ्यते न च सत्त्वप्रज्ञप्तिस्, ते च सत्त्वानां कृते अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठन्ते. तद्यथापि नाम भगवं कश्चिद् एव पुरुष आकाश अप्रतिष्ठाने स्तम्बम् इच्छेद् वापयितुम् एवम् एव भगवं बोधिसत्त्वा महासत्त्वाः सत्त्वानां कृते सर्वाकारज्ञताम् इच्छन्त्य् अनुप्राप्तुं. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, दुष्करकारका बोधिसत्त्वा महासत्त्वाः ये सत्त्वानां कृते ऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठन्ते. तां च सर्वाकारज्ञताम् अभिसंबुध्य सत्त्वां सत्त्वग्राहात् परिमोचयन्ति. तद्यथापि नाम सुभूते कश्चिद् एव पुरुषः स्तम्बम् इच्छेद् वापयितुं. स च पुरुषस् तस्य स्तम्बस्य न मूलं जानीयान्) न शाखान् न गण्डं न पत्त्रान् न पुष्पं न फलं जानीयात्, स तस्य स्तम्बस्य गण्डं वापयित्वा कालेन कालं गोपयेत् उदकं दद्यात् तस्य स गण्डम् अनुपूर्वेण शाखासंपन्नश् च भवेत् पत्त्रसंपन्नश् च भवेत् पुष्पसंपन्नश् च (Aद्SPG I १५६) भवेत् फलसंपन्नश् च भवेत्. स तस्य स्तम्बस्य पत्त्राणि च अनुभुंजीत पुष्पाणि च फलानि च अनुभुंजीत. एवम् एव सुभूते ये बोधिसत्त्वाः महासत्त्वाः सर्वसत्त्वानां कृते ऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठन्ते ते ऽनुपूर्वेण षट्पारमितासु चरंतः सर्वाकारज्ञताम् अनुप्राप्नुवन्ति. ते सर्वसत्त्वानां पत्त्रपुष्पफलोपजीव्या भवन्ति. तत्रेदं सुभूते पत्त्रं यद् बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वाः त्रिभ्यो अपायेभ्यः [f. २५४ब्] परिमुच्यन्ते. पुष्पं यद् बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहासालकुलेषु ब्राह्मणमहासालकुलेषु गृहपतिमहासालकुलेषु उपपद्यन्ते चातुर्महाराजकायिकेषु देवेषु उपपद्यन्ते यावन् नैवसंज्ञानासंज्ञायतनोपगेषु देवेषु उपपद्यन्ते. फलं यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्य तां सत्त्वां स्रोतआपत्तिफले प्रतिष्ठापयति सकृदागामीफले प्रतिष्ठापयति अनागामीफले प्रतिष्ठापयति. अर्हत्त्वे प्रतिष्ठापयति. प्रत्येकबोधौ प्रतिष्ठापयति. तम् एव बोधिसत्त्वं महासत्त्वम् आगम्य सर्वाकारज्ञताम् अनुप्राप्नुवन्ति, सर्वाकारज्ञताम् अनुप्राप्य ते ऽपि सर्वसत्त्वानां पत्त्रपुष्पफलोपजीव्या भवंति. तत्र ये दक्षिणां प्रतिष्ठापयंति ते सर्वे ऽनुपूर्वेण त्रिभिर् यानैः परिनिर्वान्ति, यदुत श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. न च तत्र सत्त्वं प्रज्ञपयंति. न सत्त्वप्रज्ञप्तिं तांश् च सत्त्वां सत्त्वग्राहां परिमोचयंति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन (Aद्SPG I १५७) प्रज्ञापारमितायं चरितव्यं. न चेह कश्चित् सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते. येषां कृते सर्वाकारज्ञताम् अनुप्राप्स्यामि. सुभूतिर् आह: तथागत एव भगवं बोधिसत्त्वो महासत्त्वो वेदितव्यः. तत् कस्य हेतोस्? तथा हि भगवन् बोधिसत्त्वं महासत्त्वम् आगम्य सर्वनरका उच्छिद्यन्ते, सर्वतिर्यग्योनय सर्वयमलोका उच्छिद्यन्ते सर्वाक्षणापाया उच्छिद्यन्ते सर्वदारिद्र्यान्य् उच्छिद्यन्ते सर्वहीनगतय उच्छिद्यन्ते सर्वकामधातुर् उच्छिद्यते सर्वरूपधातुर् उच्छिद्यते सर्व आरूप्यधातुर् उच्छिद्यते. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्यः. सचेत् खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो नाभविष्यन्, नातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवताम् अनुत्तरां सम्यक्संबोधिं प्रज्ञास्यतन्, न प्रत्येकबुद्धानां लोके प्रादुर्भावो ऽभविष्यन् न अर्हतां लोके प्रादुर्भावो ऽभविष्यन् न अनागामिनां न सकृदागामिनां न स्रोतआपन्नानां लोके प्रादुर्भावो ऽभविष्यत्. न पुनर् यावत् सर्वनरका उदच्छेत्स्यंत न सर्वतिर्यग्योनयो न सर्वयमलोका उदच्छेत्स्यन्त. न सर्वकामधातुर् उदच्छेत्स्य् अन्त न सर्वरूपधातुर् उदच्छेत्स्यन्त न सर्वारूप्यधातुर् उदच्छेत्स्यन्त. ... ... अपि तु खलु पुनर् सुभूते यद् एवं वदसि, तथागत एव बोधिसत्त्वो महासत्त्वो वेदितव्य इति. एवम् एतत् सुभूते एवम् एतत्. तथागत एव बोधिसत्त्वो महासत्त्वः वेदितव्यः. तत् कस्य [f. २५५अ] हेतोः? यया सुभूते तथतया तथागतः प्रज्ञप्यते, यया तथतया (Aद्SPG I १५८) प्रत्येकबुद्धः प्रज्ञप्यते. यया तथतया सर्वार्याः प्रज्ञप्यन्ते. यया तथतया रूपं प्रज्ञप्यते यया तथतया यावद् विज्ञानं प्रज्ञप्यते यया तथतया यावत् संस्कृतधातुः प्रज्ञप्यते. असंस्कृतधातु प्रज्ञप्यते. सर्वा सा तथतैव, तस्मात् तथता इत्य् उच्यते. तस्यां तथतायां बोधिसत्त्वो महासत्त्वः स्थित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति. तस्मात् तथागत इत्य् उच्यते. अनेन सुभूते पर्यायेण बोधिसत्त्वो महासत्त्वस् तथागत एव वेदितव्यः तथतां प्रमाणीकृत्य. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन तथता प्रज्ञापारमितायां शिक्षितव्यं. तथताप्रज्ञापारमितायां सुभूते बोधिसत्त्वो महासत्त्वः शिक्षित्वा सर्वधर्मतथतायां शिक्षते. महासत्त्वः शिक्षित्वा सर्वधर्मतथतायां शिक्षते. सर्वधर्मतथतायां शिक्षित्वा सर्वधर्मतथतां परिपूरयिष्यति. सर्वधर्मतथतां परिपूर्य सर्वधर्मतथतावशीभावनताम् अनुप्राप्स्यति, सर्वधर्मतथतावशीभावनताम् अनुप्राप्य सर्वसत्त्वेन्द्रियकुशलो भविष्यति इन्द्रियकुशलो भूत्वा. इन्द्रियपरिपूरीकुशलताम् अनुप्राप्स्यति. इन्द्रियपरिपूरीकुशलताम् अनुप्राप्य सत्त्वानां कर्मस्वकतां ज्ञास्यति, सत्त्वानां कर्मस्वकतां ज्ञात्वा प्रणिधिज्ञानं परिपूरयिष्यति, प्रणिधिज्ञानं परिपूर्य त्रिध्वसुज्ञानं विशोधयिष्यति. त्रिध्वसुज्ञानं विशोध्य बोधिसत्त्वचारिकां चरन् सत्त्वानाम् अर्थं करिष्यति, सत्त्वानाम् अर्थं कुर्वन् बुद्धक्षेत्रं परिशोधयिष्यति. बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञताम् अनुप्राप्स्यति, सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयिष्यति. धर्मचक्रं प्रवर्त्य सत्त्वान् त्रिषु यानेषु (Aद्SPG I १५९) प्रतिष्ठापयिष्यति, सत्त्वान् त्रिषु यानेषु प्रतिष्ठाप्य अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वां गुणानुशंसान् पश्यता आत्मना च अनुत्तरायै सम्यक्संबोधये चित्तम् उत्पादयितव्यं, परे च अनुत्तरस्यै सम्यक्संबोधये चित्तम् उत्पादयितव्यं. सुभूतिर् आह: नमस्करणीयास् ते भगवं बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन ये इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्ठायां चरन्ति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, नमस्करणीयास् ते बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन. य इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्ठायां चरन्ति. आह: कियद् भगवं प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वः पुण्यं प्रसविष्यति यः सर्वसत्त्वानां कृते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः? भगवान् आह: सचेत् सुभूते यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे श्रावकभूमौ प्रतितिष्ठेयु प्रत्येकबुद्धभूमौ प्रतितिष्ठेयु. अपि नु ते सत्त्वा बहुपुण्यं प्रसवेयुः? आह: बहु भगवन् बहु सुगत. अप्रमेयं भगवन्न् अप्रमेयं सुगत. भगवान् आह: यच् च खलु पुनः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानां सर्वश्रावकयानिकानां प्रत्येकबुद्धयानिकानां वा पुण्यं, यच् च प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महासत्त्वस्य पुण्यं, अस्य प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य पुण्यसंभारस्य एवं (Aद्SPG I १६०) त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानां श्रावकयानिकानां प्रत्येकबुद्धयानिकानां वा [f. २५५ब्] पुण्यं शततमीम् अपि कलां नोपैति. यावत् कोटीशतसहस्रतमीम् अपि कलां नोपैति यावद् उपनिशाम् अपि न क्षमते. तत् कस्य हेतोः? बोधिसत्त्वप्रसूता हि श्रावकप्रत्येकबुद्धयानिका पुद्गला न पुनः श्रावकप्रत्येकबुद्धप्रसूता बोधिसत्त्वा महासत्त्वा. तिष्ठन्तु त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः श्रावकयानिका वा प्रत्येकबुद्धयानिका वा, सचेत् ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे श्रावकगुणसमन्वागता प्रत्येकबुद्धगुणसमन्वागता भवेयुस् तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकबोधिसत्त्वपुण्यस्य शततमीम् अपि कलां नोपैति. यावत् कोटीशतसहस्रतमीम् अपि कलां नोपैति. यावद् उपनिशाम् अपि न क्षमते. तत् कस्य हेतोर्? बोधिसत्त्वप्रसूता हि श्रावकप्रत्येकबुद्धगुणा न श्रावकप्रत्येकबुद्धप्रसूता बोधिसत्त्वा महासत्त्वा. एवं सचेद् ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे शुक्लविदर्शनाभूमौ प्रतिष्ठिता भवेयुः तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकबोधिसत्त्वपुण्यस्य शततमीम् अपि कलां नोपैति यावद् उपनिशाम् अपि न क्षमते. सचेत् पुनः ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे गोत्रभूमौ प्रतिष्ठिता भवेयुः, तेषां यत् पुण्यं तत् प्रथमचित्तोत्पादिकबोधिसत्त्वपुण्यस्य शततमीम् अपि कलां नोपैति यावद् उपनिशाम् अपि न क्षमते. यावत् सचेद् अष्टमकभूमौ प्रतिष्ठिता भवेयुर्. दर्शनभूमौ प्रतिष्ठिता भवेयुः तनुभूमौ प्रतिष्ठिता भवेयु. वीतरागभूमौ प्रतिष्ठिता भवेयुः कृतावीभूमौ प्रतिष्ठिता भवेयुः प्रत्येकबुद्धभूमौ प्रतिष्ठिता भवेयुः (Aद्SPG I १६१) तेषां यत् पुण्यं तत् प्रथमचित्तोत्पदिकबोधिसत्त्वपुण्यस्य शततमीम् अपि कलां नोपैति यावत् कोटीशतसहस्रतमीम् अपि कलान् नोपैति. यावद् उपनिशाम् अपि न क्षमते. तत् कस्य हेतोः? बोधिसत्त्वप्रसूता हि श्रवकप्रत्येकबुद्धगुणा न श्रावकप्रत्येकबुद्धप्रसूता बोधिसत्त्वा महासत्त्वा. सचेत् पुनर् ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिसत्त्वन्यामम् अवक्रान्ता भवेयुस्, तेषां यत् पुण्यं तद् बोधिसत्त्वस्य महासत्त्वस्य पुण्यस्य शततमीम् अपि कलां नोपैति यावद् उपनिशाम् अपि न क्षमते. सचेत् पुनर् ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे बोधिप्रतिपन्नका भवेयुस् तेषां यत् पुण्यं तथागतस्य अर्हतः सम्यक्संबुद्धस्य पुण्यस्य शततमीम् अपि कलान् नोपैति यावत् कोटीशतसहस्रतमीम् अपि कलां नोपैति. यावद् उपनिशाम् अपि न क्समते. आह: प्रथमचित्तोत्पादिकेन भगवं बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता मनसिकर्तव्या? भगवान् आह: प्रथमचित्तोत्पादिकेन सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वाकाराज्ञता मनसिकर्तव्या. आह: सर्वाकारज्ञताया भगवं को भाव किम् आरंबणं किम् आधिपतेयं क आकार किं लक्षणं? भगवान् आह: सर्वाकारज्ञतेति सुभूते ऽभावः अलक्सणम् अनिमित्तम् अनाभोगम् अनुत्पाद अप्रादुर्भावः. यत् पुनर् सुभूतिर् एवम् आह: सर्वाकारज्ञतायाः किम् आरंबणम् इति? सर्वाकारज्ञताया किम् आधिपतेयं क आकार किं लक्षणम् इति? सर्वाकारज्ञताया सुभूते अभाव आरंबणं, (Aद्SPG I १६२) स्मृतिर् आधिपतेयं, शान्तिर् आकारो, अलक्षणं लक्षणं. सर्वाकारज्ञतायाः सुभूते इदम् आरंबणम् इदम् आधिपतेयम् इदं लक्षणम् अयम् आकार. आह: किं पुनर् सर्वाकारज्ञतैव अभावः, उताहो रूपम् अप्य् अभावः, वेदनासंज्ञासंस्कारविज्ञानम् [f. २५६अ] अप्य् अभावः, एवम् आध्यात्मिकबाह्या धर्माः अभावाः, चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वारर्द्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाण्गो मार्ग शून्यतासमाधिः आनिमित्तसमाधिः अप्रणिहित समाधिः अष्टौ विमोक्षाः नवानुपूर्वसमापत्तयः दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा प्रथमाभिज्ञा द्वितीयाभिज्ञा तृतीया चतुर्थी पञ्चम्य् अभिज्ञा षष्ट्य् अभिज्ञा संस्कृतधातुर् असंस्कृतधातुर् अप्य् अभावः? भगवान् आह: रूपम् अपि सुभूते अभाव वेदनासंज्ञासंस्कारविज्ञानम् अप्य् अभावः यावत् संस्कृतधातुर् अप्य् अभावः असंस्कृतधातुर् अप्य् अभावः. तत् कस्य हेतोस्? तथा हि सुभूते सर्वाकारज्ञताया स्वभावो नास्ति. यस्य खलु पुनः सुभूते स्वभावो नास्ति स अभावः. आह: केन कारणेन भगवं सर्वाकारज्ञताया स्वभावो नास्ति? भगवान् आह: नास्ति सुभूते सांयोगिकः स्वभावः. यस्य सांयोगिकः स्वभावो नास्ति स अभावः. अनेन सुभूते पर्यायेण अभावस्वभावाः सर्वधर्माः. अपि तु खलु पुनर् सुभूते शून्यतास्वभावाः सर्वधर्माः आनिमित्तस्वभावाः सर्वधर्माः अप्रणिहितस्वभावाः सर्वधर्मा. अपि तु खलु सुभूते. तथतास्वभावः (Aद्SPG I १६३) सर्वधर्माः भूतकोटिस्वभावाः सर्वधर्माः धर्मधातुस्वभावाः सर्वधर्माः. अनेनापि सुभूते पर्यायेणैवं वेदितव्यम् अभावस्वभावाः सर्वधर्माः. आह: यदि भगवन् सर्वधर्माः अभावस्वभावास्, तत् कतमेनोपायकौशलेन समन्वागतः प्रथमचित्तोत्पादिको बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् बुद्धक्षेत्रं परिशोधयति. सत्त्वांश् च परिपाचयति. एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन् बुद्धक्षेत्रं परिशोधयति सत्त्वांश् च परिपाचयति. एवं प्रथमे ध्याने चरन् यावत् चतुर्थे ध्याने मैत्र्यां यावद् उपेक्षायां, आकाशानन्त्यायतनसमापत्तौ यावन् नैवसंज्ञानासंज्ञायतनसमापत्तौ, अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां, चतुर्षु स्मृत्युपस्थानेषु यावद् आर्याष्टाङ्गे मार्गे, शून्यतायां समाधौ आनिमित्तसमाधौ अप्रणिहितसमाधौ, ध्यानेषु अप्रमाणेषु यावत् नवानुपूर्वसमापत्तीषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु. चतसृषु प्रतिसंवित्स्व् अष्टादशेष्व् आवेणिकेषु बुद्धधर्मेषु, महामैत्र्यां महाकरुणायां (यावत्? ) सर्वाकारज्ञतायां चरन् बुद्धक्षेत्रं परिशोधयति सत्त्वांश् च परिपाचयति. भगवान् आह: एतद् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपायकौशलं वेदितव्यं, यद् अभावस्वभावेषु धर्मेषु परिचयं करोति, बुद्धक्षेत्रं च [f. २५६ब्] परिशोधयति. सत्त्वांश् च परिपाचयति. तच् च बुद्धक्षेत्रं तांश् च सत्त्वान् अभावस्वभावां जानाति. स खलु पुनर् बोधिसत्त्वो महासत्त्वो दानपारमितायां चरं बोधिमार्गे परिचयं (Aद्SPG I १६४) करोति. शीलपारमितायां चरं बोधिमार्गे परिचयं करोति. क्षान्तिपारमितायां चरं बोधिमार्गे परिचयं करोति. वीर्यपारमितायां चरं बोधिमार्गे परिचयं करोति. ध्यानपारमितायां चरं बोधिमार्गे परिचयं करोति. प्रज्ञापारमितायां चरन् बोधिमार्गे परिचयम् करोति. यावत् सर्वाकारज्ञतायां चरं बोधिमार्गे परिचयं करोति, तन् च बोधिमार्गम् अभावस्वभावं जानाति. स खलु पुनर् सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरंस् तावत् तस्मिन् बोधिमार्गे परिचयं करोति. यावन् न दशभिस् तथागतबलैः समन्वागतो भवति. न चतुर्भिर् वैशारद्यैः समन्वागतो भवति. न चतसृभिः प्रतिसंविद्भिः समन्वागतो भवति न आवेणिकैर् बुद्धधर्मैर् महामैत्र्या महाकरुणया च समन्वागतो भवति. अयं सुभूते स बोधिमार्गो यत्र मार्गे स्थित्वा पारमितान् परिपूरयति. पारमितान् परिपूर्य एकक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्स्यति. तस्य तत्र अवस्थायां सर्ववासनानुसन्धिक्लेशन् प्रहास्यति अनुत्पत्तिकप्रहाणेन. स बुद्धचक्षुषा त्रिसाहस्रमहासाहस्रं लोकधातुं व्यवलोकयन्न् अभाव इत्य् अपि न उपलप्स्यते प्राग् एव भावं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अभावस्वभावसर्वधर्मेषु. एतद् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपायकौशलं यद् अभाव इति नोपलभते प्राग् एव भावं. स खलु पुनर् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं (Aद्SPG I १६५) ददाति, स तन् दानन् ददन् न कल्पयति, न निमित्तीकरोति नैव भावतो न अभावतो मनसिकरोति. प्रतिग्राहकम् अपि न कल्पयति, न निमित्तीकरोति, नैव भावतो नाभावतो मनसिकरोति. दायकम् अपि न कल्पयति. न निमित्तीकरोति. नैव भावतो नाभवतो मनसिकरोति. तद् अपि बोधिचित्तं नोपलभते. न निमित्तीकरोति, नालम्बनीकरोति. न समनुपश्यति ... यावत् ... प्रज्ञापारमितां न कल्पयति, न निमित्तीकरोति, नैव भावतो न अभावतो मनसिकरोति. यो ऽपि तां प्रज्ञापारमितां भावयति, तम् अपि न समनुपश्यति न निमित्तीकरोति, नैव भावतो नाभावतो मनसिकरोति, येषाम् अपि सत्त्वानां कृतशस् तां प्रज्ञापारमितां भावयति तां न कल्पयति न निमित्तीकरोति, नैव भावतो नाभावतो मनसिकरोति. तत् कस्य हेतोस्? तथा हि यदि त एव सर्वधर्मा अभावास् ते न बुद्धैः कृता न श्रावकैर् न प्रत्येकबुद्धैः कृता. अकारकाः हि सर्वधर्मा कारकविरहिताः आह: ननु भगवं धर्मैर् एव धर्मा विरहिता? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. धर्मैर् एव धर्मा विरहिता. आह: यदि भगवं धर्मैर् एव धर्मा विरहितास्, तत् कथं विरहितो धर्मो विरहितं धर्मं संजानाति, भाव इति वा अभाव इति वा. न हि भगवन्न् अभावो धर्मो अभावम् धर्मं जानाति. न भावो धर्मो ऽभावं धर्मं जानाति. न अभावो धर्मो ऽभावन् धर्मं जानाति. न भावो धर्मो भावं धर्मं जानाति. एवम् असंजानं सर्वधर्मेषु कुतः एवं भवति. बोधिसत्त्वस्य महासत्त्वस्य भाव इति वा अभाव इति वा? भगवान् आह: लोकसंवृतिम् उपादाय बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (Aद्SPG I १६६) चरन् भाव इति वा अभाव इति वा निर्दिशति, न पुनः परमार्थेन. आह: किं पुनर् भगवन्न् अन्या लोकसंवृतिर् अन्यः परमार्थः? भगवान् आह: न अन्य सुभूते Iओकसंवृतिर् अन्यः परमार्थः. येन लोकसंवृतेस् तथता सैव परमार्थस्य [f. २५७अ] तथता, तत् ते सत्त्वा विपर्यस्ता एतां तथतां न जानन्ति न पश्यन्ति. तेषाम् अर्थाय बोधिसत्त्वो महासत्त्वो लोकसंवृत्या निर्दिशति, भाव इति वा अभाव इति वा. अपि तु खलु सुभूते य एते सत्त्वाः पञ्चस्कन्धेषु भावसंज्ञिनः अभाव इति न जानन्ति. तेषाम् अर्थायैवं तं निर्दिश्यते, धर्माणाम् अप्रभेदताम् उपादाय, कथम् अभाव जानीयुर् इति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. ((६४))
SK
परिवर्त ६५.
SK
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बोधिसत्त्व चारिका बोधिसत्त्वचारिकेत्य् उच्यते, कस्यैतद् अधिवचनं यदुत बोधिसत्त्वचारिकेति? भगवान् आह: बोधिसत्त्वचारिका बोधिसत्त्वचारिकेति सुभूते उच्यते बोधये एसा चारिका तस्माद् बोधिसत्त्वचारिकेत्य् उच्यते. आह: क्व भगवं सा बोधिसत्त्वस्य महासत्त्वस्य चारिका? भगवान् आह: रूपं शून्यम् इति चरति. वेदनासंज्ञासंस्कारविज्ञानं शून्यम् इति चरति. एवम् आध्यात्मिकबाह्यैर् आयतनैर् दानपारमितायां चरति शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां. आध्यात्मशून्यतायां चरति. बहिर्द्धाशून्यतायाम् आध्यात्मबहिर्द्धाशून्यतायां शून्यताशून्यतायां महाशून्यतायां परमार्थशून्यतायां संस्कृतशून्यतायाम् असंस्कृतशून्यतायाम् अत्यंतशून्यतायाम् अनवराग्रशून्यतायाम् अनवकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां चरति स्वलक्षणशून्यतायां चरति. अनुपलंभशून्यतायाम् अभावशून्यतायां चरति. स्वभावशून्यतायान चरति. अभावस्वभाशून्यतायां चरति. प्रथमे ध्याने चरति. द्वितीये तृतीये एअतुर्थे ध्याने चरति मैत्र्यां चरति. करुणायां मुदितायाम् उपेक्षायां चरति. आकाशानन्त्यायतने चरति. विज्ञानन्त्यायतने आकिंचन्यायतने, नैव (Aद्SPG I १६८) संज्ञानासंज्ञायतने चरति. चतुर्षु स्मृत्युपस्थानेषु चरति. चतुर्षु सम्यक्प्रहाणेषु चतुर्षु ऋद्धिपादेषु पंचस्व् इन्द्रियेषु. पंचसु बलेषु. सप्तबोध्यङ्गेष्व्. आर्याष्टांगे मार्गे चरति. शून्यतायां समाधौ चरत्य् आनिमित्ते समाधौ च अप्रणिहिते समाधौ चरति. अष्टसु विमोक्षेषु नवस्व् अनुपूर्वसमापत्तिषु चरति. दशसु तथागतबलेषु चरति. चतसृषु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्या महाकरुणायाम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति. बुद्धक्षेत्रपरिशुद्धये चरति. सत्त्वपरिपाके चरति. प्रतिभाने चरत्य् अक्षराभिनिर्हारेषु चरति. अक्षरप्रवेशेषु चरति. अनक्षरप्रवेशे चरति. धारनीषु चरति. संस्कृतधातौ चरत्य्. असंस्कृतधातौ चरति. तथा पुनर् चरति यथा बुद्धिर् न द्विधी भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधौ चरति. अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: बुद्धो बुद्ध इति भगवम्न् उच्यते. कस्यैतद् अधिवचनं बुद्ध इति? भगवान् आह: भूतो ऽर्थो बुद्ध इत्य् उच्यते. अपि तु खलु सुभूते भूतो ऽनेन धर्मो ऽभिसंबुद्धस्, तस्माद् बुद्ध इत्य् उच्यते. भूतो [f. २५७ब्] ऽनेनार्थः प्रतिविद्धस् तस्माद् बुद्ध इत्य् उच्यते. अपि तु खलु सुभूते सर्वधर्माः अनेन यथावद् अभिसंबुद्धास्, तस्माद् बुद्ध इत्य् उच्यते. आह: बोधि बोधिर् इति भगवन्न् उच्यते, कस्यैतद् भगवन्न् अधिवचनं बोधिर् इति? भगवान् आह: बोधिर् इति सुभूते शून्यताया एतद् अधिवचनं, तथताया एतद् अधिवचनं, भूतकोटेर् एतद् अधिवचनं, धर्मधातोर् एतद् अधिवचनं. अपि तु खलु सुभूते बोधिर् इति तथत अवितथता (Aद्SPG I १६९) अनन्यतथता अनन्यथाभावस्, तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु सुभूते नामधेयनिमित्तमात्रम् एतद् यदुत बोधिस्, तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु सुभूते अभेदार्थो बोध्यर्थः. अपि तु खलु सुभूते बुद्धानाम् एषा भगवतां बोधिस्, तस्माद् बोधिर् इत्य् उच्यते. अपि तु खलु सुभूते बुद्धैर् एषा भगवद्भिर् अभिसंबुद्धास्, तस्माद् बोधिर् इत्य् उच्यते. आह: यो भगवं बोधिसत्त्वो महासत्त्व इह बोधये चरति, स किं षड्भिः पारमिताभिर् चरति यावत् सर्वाकारज्ञतायां विहरति, कतमेषां भगवं कुशलमूलानाम् आचयो भवत्य् अपचयो वा हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा? भगवान् आह: यः सुभूते बोधिसत्त्वो महासत्त्वः इह बोधौ चरति षड्भिः पारमिताभिर् चरति यावत् सर्वाकारज्ञतया चरति. तस्य न कस्यचिद् धर्मस्य आचयो भवत्य् अपचयो वा हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशं वा व्यवदानं वा. तत् कस्य हेतो? न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिः प्रज्ञापारमितायां चरतः कस्यचिद् धर्मस्य आरंबणयोगेन प्रत्युपस्थिता, आचये वा अपचये वा हानये वा वृद्धये वा उत्पादाय वा निरोधाय वा संक्लेशाय वा व्यवदानाय वा. आह: यदि भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः बोधिर् न कस्यचिद् धर्मस्य आरंबणयोगेन प्रत्युपस्थिता. तत् कथम् इदानीं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितां परिगृह्णाति. शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिगृह्णाति, कथम् अध्यात्मशून्यतायां चरति. बहिर्द्धाशून्यतायाम् अध्यात्मबहिर्द्धाशून्यतायां यावत् स्वलक्षणशून्यतायां (Aद्SPG I १७०) चरति, कथं ध्यानेषु अप्रमणेषु आरूप्यसमापत्तिषु यावत् अनुपूर्वविहारसमापत्तिषु चरति. कथं शून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेषु चरति. कथं दशसु तथागतबलेषु चरति चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु अष्टादशष्व् आवेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायां चरति. कथं दशसु बोधिसत्त्वभूमिषु चरति. श्रावकप्रत्येकब्बुद्धभूमिम् अतिक्रामति. बोधिसत्त्वन्यामं च अवक्रामति? भगवान् आह: न हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य द्वयचारिणी बुद्धिः. न हि सुभूते बोधिसत्त्वो महासत्त्वो द्वयेन दानपारमितायां चरति. न द्वयेन शीलपारमितायां चरति, न द्वयेन क्षान्तिपारमितायां चरति, न द्वयेन वीर्यपारमितायां चरति. न द्वयेन समाधिपारमितायां चरति. न द्वयेन प्रज्ञापारमितायां चरति. एवं सुभूते बोधिसत्त्वो महासत्त्वः दानपारमितां परिगृह्णाति यावत् प्रज्ञापारमितां परिगृह्णाति यावत् सर्वाकारज्ञताम् अनुप्राप्नोति. आह: यदि भगवं न द्वयेन [f. २५८अ] दानपारमितायां चरति, न द्वयेन शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरति, तत् कथम् इदानीं बोधिसत्त्वो महासत्त्वः कुशलमूलैर् विवर्धमानै प्रथमचित्तोत्पादम् उपादाय. यावत् पश्चिमकश् चित्तोत्पादः कुशलमूलैर् विवर्धते? भगवान् आह: ये सुभूते द्वयेन चरन्ति, न ते विवर्धन्ते कुशलमूलैः. तत् कस्य हेतोः? द्वयनिश्रिता हि सुभूते सर्वबालपृथग्जनास्, ते न विवर्धंते कुशलमूलैः. बोधिसत्त्वो महासत्त्वः पुनर् अद्वयेन चरति, स प्रथमचित्तोत्पादम् उपादाय कुशलमूलैर् विवर्धते. यावत् पश्चिमकश् चित्तोत्पाद कुशलमूलैर् विवर्धते. तेन (Aद्SPG I १७१) न शक्यते ऽभिभवितुं. सदेवमानुषासुरेण लोकेन, यैर् अकुशलमूलैर् अवमर्दितः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतेत्, तद् अन्यैर् वा अकुशलैर् धर्मैः संहृयेत, यैः संहृयमानो दानपारमितायां चरन् कुशलैर् मूलैर् न विवर्धेत, यावत् सर्वाकारज्ञतायां चरन् कुशलमूलैर् न विवर्धेत. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. आह: किं पुनर् भगवं बोधिसत्त्वेन महासत्त्वेन कुसलमूलानां कृते प्रज्ञापारमितायां चरितव्यं? भगगवान् आह: नो हीदं सुभूते, न बोधिसत्त्वो महासत्त्वो कुशलमूलानां कृते प्रज्ञापारमितायां चरति, नाप्य् अकुशलमूलानां कृते प्रज्ञापारमितायां चरति, न च अपर्युपास्य बुद्धान् भगवतो, न अपरिपूर्य कुशलमूलानि. न कल्याणमित्रैर् अपरिगृहीतो बोधिसत्त्वो महासत्त्वः शक्तः सर्वाकारज्ञताम् अनुप्राप्तुं. आह: कथं भगवं पर्युपास्य बुद्धां भगवतः कुशलमूलैः परिगृहीतः कल्याणमित्रैर् परिगृहीतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय बुद्धान् भगवतः पर्युपास्ते, यच् च ते बुद्धा भगवन्तो भाषन्ते, सूत्रं गेयं व्याकरणं गाथोदाननिदान-इत्युक्तकजातकवैपुल्य-अद्भुतधर्मापदानापदेशस् तत् सर्वम् उद्गृह्णात्य् उद्गृह्य वाचा सुपरिचितं कृत्वा मनसा च अनुप्रेक्षितं कृत्वा दृष्ट्या सुप्रतिविद्धं कृत्वा धारणीं प्रतिलभते. धारण्याप्रतिलब्धया प्रतिसंविद उत्पादयति. प्रतिसंविद्भिर् उत्पादिताभिस् (Aद्SPG I १७२) तस्य जातिव्यतिवृत्तस्यापि ते धर्मा न जातु विप्रणश्यति यावत् सर्वाकारज्ञताम् अनुप्राप्नोति. तत्र च तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु कुशलमूलान्य् अवरोपयति, यैः कुशलमूलैः परिगृहीतो न जात्व् अपायेष्व् अक्षणेषु चोपपद्यते. तैश् च कुशलैः मूलैः आश्रयपरिशुद्धिं परिगृह्णाति, यैर् आश्रयैर् बुद्धक्षेत्रं परिशोधयति सत्त्वांश् च परिपाचयति, तैश् च कुशलमूलैः परिगृहीतः कल्याणमित्रैर् न जातु विरहितो भवति बुद्धैश् च भगवद्भिः बोधिसत्त्वैर् महासत्त्वैः श्रावकैश् च ये बुद्धयानस्य वर्णां भाषन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धा भगवन्तः पर्युपासितव्याः, कुशलमूलानि च अवरोपयितव्यानि कल्याणमित्राणि च सेवितव्यानि. ((६५)) [f. २५८ब्]
SK
परिवर्त ६६.
SK
अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: यः पुनर् भगवं बोधिसत्त्वो महासत्त्वो नैव बुद्धां भगवतः पर्युपास्ते, न कुशलमूलानि परिपूरयति, न कल्याणमित्रपरिगृहीतो भवेत्, मा हैव बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नुयात्? भगवान् आह: नास्ति सुभूते बोधिसत्त्वो महासत्त्वो यो बुद्धां भगवतो ऽपर्युपास्य कुशलमूलान्य् अपरिपूर्य कल्याणमित्रैर् अपरिगृहीतः सर्वाकारज्ञताम् अनुप्राप्नुयात्. तत् कस्य हेतोर्? बुद्धान् एव तावत् पर्युपास्य कुशलमूलान्य् अवरोप्य कल्याणमित्राणि. सेवित्वा आद्य् अपि तावत् सर्वाकारज्ञता न शक्यते ऽनुप्राप्तुं. प्राग् एव अपर्युपास्य बुद्धान् भगवतः अपरिपूर्य कुशलमूलान्य् असेवित्वा कल्याणमित्राणि सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति नेदं स्थानं विद्यते. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सत्ये बोधिं निष्ठातुकामेन, क्षिप्रं च अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन बुद्धान् ब्नगवतः पर्युपासितव्या कुशलमूलान्य् अवरोपयितव्यानि कल्याणमित्राणि सेवितव्यानि. आह: केन कारणेन भगवं बोदिसत्त्वो महासत्त्वो बुद्धान् भगवतः पर्युपास्य कुशलमूलान्य् अवरोप्य कल्याणमित्राणि सेवित्वा सर्वाकारज्ञतां न अनुप्राप्नोति? भगवान् आह: उपायकौशलविरहितत्वात्, सो ऽनेनोपायो न श्रुतो भवति तेषां बुद्धानां भगवताम् अन्तिकात्, तानि च कुशलमूलानि न अवरोपितानि. (Aद्SPG I १७४) तानि च कल्याणमित्राणि न सेवितानि. ये ऽस्योपायम् उपदिशन्ति. आह: कतमद् भगवांस् तद् उपायकौशलं येनोपायकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताम् अनुप्राप्नोति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरं सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति, बुद्धेभ्यो भगवद्भ्यस् प्रत्येकबुद्धेभ्यः श्रावकेभ्यो मनुष्यभूतेभ्यः अमनुष्यभूतेभ्यः. स तैः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् समन्वागतो न च अस्य दाने दानसंज्ञा भवति, न प्रतिग्राहके प्रतिग्राहकसंज्ञा भवति, न दायके दायकसंज्ञा भवति. तत् कस्य हेतोः? तथा हि सुभूते स्वलक्षणशून्यान् सर्वधर्मान् जानात्य् असतो ऽसंभूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तान् सर्वधर्मान् पश्यति. धर्माणां च धर्मलक्षणम् अवतरत्य् अकिञ्चित्समर्थाः सर्वधर्मा इत्य् असंस्कारलक्षणेन अवतरति. सो ऽनेनोपायकौशलेन समन्वागत कुशलमूलैर् विवर्धते, स कुशलमूलैर् विवर्धमानो दानपारमितायां चरति, दानपारमितायां चरन् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति. न च दानफलम् आशंसते यद् दानफलं संसारे परिभुंजीत अन्यत्र सत्त्वपरित्राणतायै सत्त्वपरिमोचनतायै दानपारमितायां चरति. उपायकौशल्यनिर्देशपरिवर्तः. ((६६))
SK
पतिवर्त ६७.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरं प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलं रक्षति. तस्य नैव राग चित्तम् आवृनोति न दोषो न मोहो न अनुशया न पर्युत्थानानि न अन्ये ऽप्य् अकुशला धर्मा ये बोधेः परिपन्थकरा, तद्यथा मात्सर्यं वा दौशील्यं वा क्षोभणचित्तं वा कौसीद्यचित्तं वा हीन [f. २५९अ] वीर्यचित्तं वा विभ्रान्तचित्तं वा दौष्प्रज्ञचित्तं वा मानो वा अवमानो वा अधिमानो वास्मिमानो वा. श्रावकप्रत्येकबुद्धचित्तं वा. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् सर्वधर्मान् जानात्य्, असतो ऽसंभूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति. धर्माणां च धर्मलक्षणम् अवतरत्य् अकिञ्चित्समर्थात् सर्वधर्मा इत्य् असंस्कृतलक्षणेन अवतरति. सो ऽनेनोपायकौशलेन समन्वागतः कुशलमूलैर् विवर्धते. स कुशलमूलैर् विवर्धमानः शीलपारमितायां चरति. स शीलपारमितायां चरं सत्त्वांश् च परिपाचयति. बुद्धक्षेत्रं च परिशोधयति. न च शीलफलम् आकाण्क्षते, यच् छीलफलं संसारे परिभुंजीत अन्यत्र सत्त्वपरित्राणतायै सत्त्वपरिपाचनतायै शीलपारमितायां चरति. ((६७))
SK
परिवर्त ६८.
SK
एवं क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता कर्तव्या. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरं प्रथमचित्तोत्पादम् उपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रज्ञां भावयति. तस्य नैव राग चित्तम् आवृणोति, न दोषो यावन् न श्रावकप्रत्येकबुद्धचित्तं वा. तत् कस्य हेतोः? तथा हि स सुभूते स्वलक्षणशून्यान् सर्वधर्मान् जानात्य् असतो ऽसंभूतान् अपरिनिष्पन्नान् अनभिनिर्वृत्तांश् च सर्वधर्मान् पश्यति. धर्माणां च धर्मलक्षणम् अवतरत्य् अकिञ्चित् असमर्थाः सर्वधर्मा इत्य् असंस्कृतलक्षणेन अवतरति. सो ऽनेनोपायकौशलेन समन्वागतः कुशलमूलैर् विवर्धते स कुशलमूलैर् विवर्धमानः प्रज्ञापारमितायां चरति. स प्रज्ञापारमितायां चरं सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति. न च प्रज्ञाफलम् आकांक्षते यत् प्रज्ञाफलं संसारे परिभुंजीतान्यत्र सत्त्वपरित्राणतायै सत्त्वपरिमोचनतायै प्रज्ञापारमितायां चरति. ((६८))
SK
परिवर्त ६९.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमध्यानं समापद्यते यावत् चतुर्थं ध्यानं समापद्यते, मैत्रिं यावद् उपेक्षां समापद्यते, आकाशानन्त्यायतनसमापत्तिं यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते. न च विपाकं परिगृह्णाति. तत् कस्य हेतोः? तथा हि स उपायकौशलेन समन्वागतो येनोपायकौशलेन तान् ध्यान अप्रमाणआरूप्यसमापत्तीन् स्वलक्षणशून्यान् जानाति यावद् अनभिनिर्वृत्तान् जानाति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय उपायकौशलेन समन्वागतो दर्शनभावनाप्रहातव्ये च मार्गे चरति, न च स्रोतआपत्तिफलम् अनुप्राप्नोति न सकृदागामीफलं न अनागामीफलं न अर्हत्त्वम् अनुप्राप्नोति. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यान् सर्वधर्मान् जानाति यावद् अनभिनिर्वृत्तान् जानाति. तेषु च बोधिपक्षिकेषु धर्मेषु चरंच् छ्रावकप्रत्येकबुद्धभूमिम् अतिक्रामति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अनुत्पत्तिकेषु धर्मेषु क्षान्ति. पुनर् अपरं सुभूते ऽबोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अष्टौ विमोक्षान् समापद्यते नवानुपूर्वसमापत्तीन् समापद्यते न च स्रोतआपत्तिफलम् अनुप्राप्नोति यावन् न अर्हत्त्वम् अनुप्राप्नोति. तत् (Aद्SPG I १७८) कस्य हेतोः? तथा हि स्वलक्षणशून्यान् सर्वधर्मान् [f. २५९ब्] जानाति यावद् अनभिनिर्वृत्तां सर्वधर्मान् जानाति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दशसु तथागतबलेषु परिचयं करोति, चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु अष्टादशावेणिकेषु बुद्धधर्मेषु महामैत्र्यां महाकरुणायां च परिचयं करोति. न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति यावन् न बुद्धक्षेत्रं परिशोधितं भवति सत्त्वाश् च परिपाचिता भवन्ति. एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. आह: परमबुद्धिमां खलु भगवन् बोधिसत्त्वो महासत्त्वो भवति, य एवं गंभीरेषु धर्मेषु चरति न च विपाकं परिगृह्णाति. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. परमबुद्धिमान् बोधिसत्त्वो महासत्त्वो य एवं गंभीरेषु धर्मेषु चरति, न च विपाकं परिगृह्णाति. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वो महासत्त्वः स्वभावतो न चलति. आह: कस्य स्वभावतो न चलति? भगवान् आह: अभावान् न चलति. यत् पुनः सुभूतिर् एवम् आह: कस्य स्वभावान् न चलति? रूपस्य स्वभावां न चलति, वेदनाया संज्ञाया संस्काराणां विज्ञानस्य स्वभावान् न चलति, दानपारमिताया स्वभावान् न चलति, शीलपारमिताया स्वभावान् न चलति, क्षान्तिपारमिताया वीर्यपारमिताया ध्यानपारमिताया प्रज्ञापारमिताया स्वभावान् न चलति. ध्यानस्वभावान् न चलत्य् अप्रमाणस्वभावान् न चलत्य् आरूप्यसमापत्तिस्वभावान् न चलति. स्मृत्युपस्थानानां स्वभावान् न चलति. यावद् आर्याष्टाङ्गस्य मार्गस्य स्वभावान् न चलति. शून्यतासमाधेर् आनिमित्तस्य समाधेर् अप्रणिहितस्य समाधेः स्वभावान् न चलत्य् अष्टविमोक्षनवानुपूर्वसमापत्तिस्वभावान् (Aद्SPG I १७९) न चलति. दशानां तथागतबलानां स्वभावान् न चलति यावद् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां स्वभावान् न चलति. महामैत्र्या महाकरुणाया स्वभावान् न चलति. तत् कस्य हेतोः? तथा हि सुभूते य एषां धर्माणां स्वभावः सो ऽभावः. न हि सुभूते अभावेन अभावः शक्यम् अभिसंबोद्धुं. आह: किं पुनर् भगवन् भावेन भावः शक्यम् अभिसंबोद्धुं? भगवान् आह: नो हीदं सुभूते. आह: तद् अभावेन भावः शक्यम् अभिसंबोद्धुं? भगवान् आह: नो हीदं सुभूते. आह: तद् अभावेन अभावः शक्यम् अभिसंबोद्धुं? भगवान् आह: नो हीदं सुभूते. आह: तद् भावेन अभाव सक्यम् अभिसंबोद्धुं? भगवान् आह: नो हीदं सुभूते. आह: तन् मा हैव भगवन् न प्राप्तिर् न अभिसमयो भविष्यति, यदि न अभावेन अभावस्य अभिसमयो न भावेन भावस्य अभिसमयः न अभावेन भावस्य अभिसमयो न भावेन अभावस्य अभिसमयः. भगवान् आह: अस्त्य् अभिसमयो, न पुनर् अनेन चतुष्क अभिनिर्हारेण. आह: कथम् इदानिं भगवन्न् अभिसमयः? भगवान् आह: यत्र नैव भावो न अभावः स तादृशो ऽभिसमयः यत्रैते प्रपंचा न संविद्यन्ते, अप्रपंच्योनिस्प्रपञ्चो ऽभिसमयः. आह: कः पुनर् भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्चः? भगवान् आह: रूपं नित्यम् इत्य् अनित्यम् इति वा बोधिसत्त्वस्य महासत्त्वस्य प्रपञ्च. वेदनासंज्ञसंष्कारविज्ञानं नित्यम् इत्य् अनित्यम् इति वा प्रपञ्चः. रूपं सुखम् इति [f. २६०अ] वा दुःखम् इति वा प्रपञ्च. वेदनासंज्ञासंस्कारविज्ञानं सुखम् इति वा दुःखम् इति वा प्रपञ्च. रूपम् आत्मेत्य् अनात्मेति वा प्रपञ्च. वेदनासंज्ञासंस्कारविज्ञानम् आत्मेत्य् अनात्मेति (Aद्SPG I १८०) वा प्रपञ्च. रूपं शान्तम् इत्य् अशान्तम् इति वा प्रपञ्च. वेदनासंज्ञासंस्कारविज्ञानं शान्तम् इत्य् अशान्तम् इति वा प्रपञ्च. रूपं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्च. वेदनासंज्ञासंस्कारविज्ञानं परिज्ञेयम् अपरिज्ञेयम् इति वा प्रपञ्च. दुःखम् आर्यसत्यं परिज्ञेयम् इति प्रपञ्च, समुदय प्रहातव्य इति प्रपञ्च, निरोधः साक्षात्कर्तव्य इति प्रपञ्चः, मार्गो भावयितव्य इति प्रपञ्चः. चत्वारि ध्यानानि भावयितव्यानि इति प्रपञ्चः चत्वार्य् अप्रमाणानि भावयितव्यानि इति प्रपञ्चः चतस्रः आरूप्यसमापत्तयो भावयितव्या इति प्रपञ्चः. चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि भावयिष्यामि इति प्रपञ्चः चत्वाररिद्धिपादा भावयितव्या इति प्रपञ्चः. एवं पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गो मार्गो भावयितव्या इति प्रपञ्चः. शून्यताविमोक्षमुखम् आनिमित्तं विमोक्षमुखम् अप्रणिहितं विमोक्षमुखं भावयितव्यम् इति प्रपञ्चः अष्टौ विमोक्षा नवानुपूर्वसमापत्तयो भावयितव्या इति प्रपञ्चः, श्रोतआपत्तिफलं सकृदागामीफलम् अनागामीफलम् अर्हत्त्वं समतिक्रामिष्यामि इति प्रपञ्चः. प्रत्येकबुद्धभूमिं समतिक्रामिष्यामि इति प्रपञ्चः दशबोधिसत्त्वभूमीन् परिपूरयिष्यामि इति प्रपञ्चः बोधिसत्त्वन्यामम् अवक्रामिष्यामि इति प्रपञ्चः, बुद्धक्षेत्रं परिशोधयिष्यामि इति प्रपञ्चः, सत्त्वान् परिपाचयिष्यामि इति प्रपञ्चः. दशतथागतबलान्य् उत्पादयिस्यामि इति प्रपञ्चः, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् उत्पादयिष्यामि इति प्रपञ्चः. सर्वाकारज्ञताम् अनुप्राप्स्यामि इति प्रपञ्चः सर्ववासनानुसन्धिक्लेशं प्रहास्यामि इति प्रपञ्चः. तस्माद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं नित्यम् इत्य् अनित्यम् इत्य् अप्रपञ्च्यन् न प्रपञ्चयति (Aद्SPG I १८१) वेदनासंज्ञासंस्कारविज्ञानं नित्यम् इत्य् अनित्यम् इत्य् अप्रपञ्च्यन् न प्रपञ्चयति ... न्नित्यम् इत्य् अनित्यम् इत्य् अप्रपञ्च्यन् न प्रपञ्चयति. यावत् सर्वाकारज्ञाताम् अनुप्राप्स्यामि इत्य् अप्रपञ्च्यन् न प्रपञ्चयति. सर्ववासनानुसन्धिक्लेशं प्रहास्यामि इत्य् अप्रपञ्च्यन् न प्रपञ्चयति. तत् कस्य हेतोर्? न हि स्वभावः स्वभावं प्रपञ्चयति. न अभाव अभावं प्रपञ्चयति. न च स्वभाव अभावौ स्थापयित्वा अन्यः कश्चिद् धर्म उपलभ्यते, यः प्रपञ्चयेद् येन वा प्रपञ्चयेद् यत्र वा प्रपञ्चयेत्. तस्मात् तर्हि सुभूते निष्प्रपञ्च्यं रूपं. निष्प्रपञ्च्या वेदनासंज्ञासंस्कारा निष्प्रपञ्च्यं विज्ञानं. यावन् निष्प्रपञ्च्या सर्वाकारज्ञता. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन निष्प्रपञ्च्यायां प्रज्ञापारमितायां चरितव्यं. अपि तु खलु सुभूते नास्ति रूपस्य स्वभावो नास्ति वेदनायाः संज्ञाया संस्काराणां नास्ति विज्ञानस्य स्वभावः. यावन् नास्ति सर्वाकारज्ञताया स्वभावः. यस्य स्वभावो नास्ति तद् निष्प्रपञ्च्यं. [f. २६०ब्] अनेन सुभूते कारणेन निष्प्रपञ्च्यं रूपं निष्प्रपञ्च्या वेदनासंज्ञासंस्कारा निष्प्रपञ्च्यं विज्ञानं. यावन् निष्प्रपञ्च्या सर्वाकारज्ञता. एवं खलु सुह्हूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बोधिसत्त्वन्यामम् अवक्रामति. आह: यदि भगवन् न कस्यचिद् धर्मस्य स्वभाव उपलभ्यते. कतमेन मार्गेण बोधिसत्त्वो महासत्त्वो बोधिसत्त्वन्यामम् अवक्रामति, श्रावकमार्गेण वा प्रत्येकबुद्धमार्गेण वा बुद्धर्मार्गेण वा? भगवान् आह: न सुभूते श्रावकमार्गेण बोधिसत्त्वो महासत्त्वो बोधिसत्त्वन्यामम् अवक्रामति. न (Aद्SPG I १८२) प्रत्येकबुद्धमार्गेण न बुद्धमार्गेण. अपि तु खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गेषु शिक्षित्वा बोधिसत्त्वन्यामम् अवक्रामति. तद्यथापि नाम अष्टमकः सर्वमार्गेषु शिक्षित्वा सम्यक्त्वन्यामम् अवक्रामति. न च तावत् फलम् अनुप्राप्नोति यावन् न फलमार्गम् उत्पादयति, एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् उत्पाद्य बोधिसत्त्वन्यामम् अवक्रामति. न च तावत् सर्वाकारज्ञताम् अनुप्राप्नोति. यावन् न वज्रोपमः समाधिः प्रतिलब्धो भवति. स तस्य समाधेः प्रतिलंभाद् एकक्षणसमायुक्तया प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति. आह: यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वमार्गान् परिपूर्य बोधिसत्त्वन्यामो ऽवक्रामितव्यः, ननु भगवन्न् अन्य एव अष्टमकस्य मार्गः अन्यः स्रोतआपन्नस्य अन्यः सकृदागामितायै प्रतिपन्नकस्य अन्यः सकृदागामिनः अन्यो ऽनागामितायै प्रतिपन्नकस्य अन्यो ऽनागामिनः अन्यो ऽर्हत्त्वप्रतिपन्नकस्य अन्यो ऽर्हतो मार्गः अन्यः प्रत्येकबुद्धस्य अन्यः तथागतस्य अर्हतः सम्यक्संबुद्धस्य मार्गः. यदि भगवन्न् अन्य एषां मार्गस्, तत् कथं बोधिसत्त्वेन महासत्त्वेन सर्वमार्गान् परिपूर्य बोधिसत्त्वन्यामो ऽवक्रमितव्यः? यदि भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाः परिपूरयितव्याः, तन् मा हैव भगवन् बोधिसत्त्वो महासत्त्वो ऽष्टमकमार्गम् उत्पाद्य अष्टमको भवेद्, दर्शनमार्गम् उत्पाद्य स्रोतआपन्नो भवेद्, भावनामार्गम् उत्पाद्य सकृदागामीप्रतिपन्नको भवेत्. सकृदागामी भवेद् अनागामीप्रतिपन्नको भवेद् अनागामी भवेद् अर्हत्त्वप्रतिपन्नको भवेद् (Aद्SPG I १८३) अर्हन् भवेत् प्रत्येकबुद्धमार्गम् उत्पाद्य प्रत्येकबुद्धो भवेद्, अस्थानं च भगवन्न् अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमको भूत्वा बोधिसत्त्वन्यामम् अवक्रामेन् नेदं स्तानं विद्यते यद् बोधिसत्त्वन्यामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयान् नेदं स्थानं विद्यते. एवं श्रोतआपत्तिफलम् अनुप्राप्य सकृदागामीफलम् अनुप्राप्य अनागामीफलम् अनुप्राप्य अर्हत्त्वम् अनुप्राप्य प्रत्येकबोधिम् अनुप्राप्य बोधिसत्त्वन्यामम् अवक्रामेत् बोधिसत्त्वन्यामम् अवक्रामन् सर्वाकारज्ञताम् अनुप्राप्नुयान् नेदं स्थानं विद्यते. तत् कथं भगवन् जानीयाम बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य बोधिसत्त्वन्यामम् अवक्रामति, बोधिसत्त्वन्यामम् अवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नोति. सर्ववासनानुसन्धिं च प्रजहाति? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. अस्थानं सुभूते अनवकाशो यद् बोधिसत्त्वो महासत्त्वो ऽष्टमको भूत्वा श्रोतआपत्तिफलं च अनुप्राप्ययावद् अर्हत्त्वं च अनुप्राप्य प्रत्येकबोधिं च अनुप्राप्य बोधिसत्त्वन्यामम् अवक्रामेन् नेदं स्थानं विद्यते. बोधिसत्त्वन्यामम् अनवक्रम्य सर्वाकारज्ञताम् अनुप्राप्नुयान् नेदं स्थानं विद्यते. अपि तु खलु सुभूते [f. २६१अ] बोधिसत्त्वो महासत्त्वो प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरन्न् अष्टौ भूमीञ् ज्ञानेन च दर्शनेन च अतिक्रामति. कतमा अष्टौ? शूक्लविदर्शनभूमि गोत्रभूमिर् अष्टमकभूमि दर्शनभूमिस् तनुभूमिर् वीतरागभूमिः कृतावीभूमिः प्रत्येकबुद्धभूमिः ईदृशः स इमा अष्टौ भूमीञ् ज्ञानेन च दर्शनेन च अतिक्रम्य मार्गाकारज्ञतया बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रम्य सर्वाकारज्ञताज्ञानेन सर्ववासनानुसन्धिक्लेशं (Aद्SPG I १८४) प्रजहाति. तत्र सुभूते. यद् अष्टमकस्य ज्ञानं सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यच् छ्रोतआपन्नस्य ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. यत् सकृदागामिनो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. यद् अनागामिनो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. यद् अर्हतः ज्ञानं च प्रहानं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः, यत् प्रत्येकबुद्धस्य ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिः. तद् बोधिसत्त्वो महासत्त्वो श्रावकप्रत्येकबुद्धमार्गान् परिपूर्य मार्गाकारज्ञताज्ञानेन बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रम्य सर्वाकारज्ञताज्ञानेन सर्ववासनानुसन्धिक्लेशं प्रजहाति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सर्वमार्गान् परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्त्वानां फलोपाजीव्यो भवति. आह: य इमे भगवन् मार्गाः, श्रावकमार्गः प्रत्येकबुद्धमार्गो बुद्धमार्गस्, तत् कतमात्र भगवन् मार्गाकारज्ञतामार्गः? भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन मार्गाकारज्ञताविशुद्धिर् उत्पादयितव्या. तत्रेयं सुभूते मार्गाकारज्ञताविशुद्धिः, यैर् यैर् आकारैर् यैर् यैर् लिङ्गैर् यैर् यैर् निमित्तैर् मार्गः सूच्यते. तत्र तान् आकारान् तानि लिङ्गानि तानि निमित्तानि बोधिसत्त्वेन महासत्त्वेन अभिसंबोद्धव्यान्य् अभिसंबुद्ध्य परेषाम् आख्यातव्यानि. देशयितव्यानि प्रकाशयितव्यानि, प्रज्ञापयितव्यानि प्रतिष्ठापयितव्यानि, परस्य विनयनार्थं यथा परो जानीयात्, तत्र बोधिसत्त्वेन महासत्त्वेन सर्वरुतसंकेतघोषा (Aद्SPG I १८५) अभ्युदीरयितव्याः आधारयितव्याः यादृशैस् त्रिसाहस्रमहासाहस्रं लोकधातुं विज्ञापयेन् प्रतिश्रुत्का आज्ञानन अर्थेन. तद् अनेन अपि सुभूते पर्यायेण बोधिसत्त्वेन महासत्त्वेन सर्वमार्गाः परिपूरयितव्याः मार्गाकारज्ञतां परिपूर्य सत्त्वानाम् आशया ज्ञातव्याः. नैरयिकानां सत्त्वानां मार्गो ज्ञातव्यः हेतुर् ज्ञातव्यः फलं ज्ञातव्यं, ततश् च नैरयिका मार्गतो निवारयितव्याः हेतुतो निवारयितव्या फलतो निवारयितव्याः, तिर्यग्योनिका मार्गतो निवारयितव्याः हेतुतो निवारयितव्या फलतो निवारयितव्याः, यमलौकिका मार्गतो निवारयितव्याः हेतुतो निवारयितव्या फलतो निवारयितव्याः, किन्नराणां महोरगानां नागानां यक्षाणां मनुष्यानां मार्गो ज्ञातव्यः हेतुर् ज्ञातव्यः फलं ज्ञातव्यं. देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं. ब्रह्मणानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्य फलं ज्ञातव्यं. आभास्वराणां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्य फलं ज्ञातव्यं. शुभकृत्स्नानां वृहत्फलानाम् असंज्ञिसत्त्वानाम् अवृहाणाम् अतपानां सुदृशानां [f. २६१ब्] सुदर्शनानाम् अकनिष्ठानां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं. आकाशानन्त्यायतनानां देवानां मार्गो ज्ञातव्यो हेतुर् ज्ञातव्यः फलं ज्ञातव्यं. यावत् नैवसंज्ञानासंज्ञायतननं देवानां मार्गो ज्नातव्यो हेतुर् ज्नातव्य फलं ज्ञातव्यं. चत्वारि स्मृत्युपस्थानानि ज्ञातव्यानि चत्वारि सम्यक्प्रहाणानि चत्वारि ऋद्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि ज्ञातव्यानि यावच् शून्यताविमोक्षमुखम् आनिमित्तं विमोक्षमुखम् अप्रणिहितं विमोक्षमुखं (Aद्SPG I १८६) ज्ञातव्यं दशतथागतबलानि ज्ञातव्यानि चत्वारि वैशारद्यानि ज्ञातव्यानि चतस्रः प्रतिसंविदो ज्ञातव्याः अष्टादशावेणिका बुद्धधर्मा ज्ञातव्याः महामैत्री ज्ञातव्या महाकरुणा ज्ञातव्या. यैश् च मार्गैर् ये सत्त्वा स्रोतआपत्तिफले प्रतिष्ठापयितव्यास् तां स्रोतआपत्तिफले प्रतिष्ठापयति. यावद् ये ऽर्हत्त्वे प्रतिष्ठापयितव्यास् तान् अर्हत्त्वे प्रतिष्ठापयति. ये प्रत्येकबोधौ प्रतिष्ठापयितव्यास् तां प्रत्येकबोधौ प्रतिष्ठापयति. ये बोधौ प्रतिष्ठापयितव्यास् तां बोधौ प्रतिष्ठापयति. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गाकारज्ञता यत्र बोधिसत्त्वो महासत्त्व शिक्षित्वा सत्त्वाशयताम् अवतरति. सत्त्वाशयताम् अवतीर्य. तथैव धर्मं देशयति. सा च अस्य धर्मदेशना अक्षूणा अमोघाश् च भवति. तत् कस्य हेतोस्? तथा ह्य् अनेन परेषाम् इन्द्रियाणि प्रभावितानि भवन्ति. स सत्त्वानां गतिं चागतिञ् च च्युतिम् उपपत्तिं च प्रजानाति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. अत्र प्रज्ञापारमितायां सर्वमार्गा अन्तर्गता. ये केचिद् बोधिपक्षिका धर्मा यत्र बोधिसत्त्वेन महासत्त्वेन चरितव्यं श्रावकैर् वा प्रत्येकबुद्धैर् वा चरितव्यं. आह: यदि भगवन् ये च बोधिपक्षिका धर्मा या च बोधिः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणा. कथं भगवं बोधिपक्षिका धर्मा बोधेर् आहारका भवन्ति. न हि भगवन न संयुक्तो न विसंयुक्तः अरूपिणो ऽनिदर्शनो ऽप्रतिघो एकलक्षणो यदुतालक्षणो धर्म कस्यचिद् धर्मस्य आहारको (Aद्SPG I १८७) वा अपहारको वा. तद्यथापि नाम भगवन् न आकाशं कस्यचिद् धर्मस्य आहारको वा अपहारको वा, एवम् एव भगवन् न स्वलक्षणशून्यो धर्मः कस्यचिद् धर्मस्य आहारको वा अपहारको वा. भगवान् आह: एवम् एतत् सुभूते एवम् एतन्. न सुभूते स्वलक्षणशून्यो धर्मः कस्यचिद् धर्मस्य आहारको वा अपहारको वा. ये पुनः सुभूते सत्त्वाः स्वलक्षणशून्यान् धर्मान् न जानन्ति तेषाम् अर्थायैवं निर्दिश्यते. इमे बोधिपक्षिका धर्मा बोधेर् उपनायका भवन्ति इति. अपि तु खलु पुनर् सुभूते यच् र रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता. या च ध्यानपारमिता या एअ प्रज्ञापारमिता या च आध्यात्मशून्यता या च बहिर्द्धाशून्यता यावद् या च स्वलक्षणशून्यता यच् च प्रथमध्यानं या च यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिर् ये च चत्वारि स्मृत्युपस्थानानि यो च यावद् आर्याष्टाङ्गो मार्गो ये च यावत् त्रिविमोक्षमुखानि ये [f. २६२अ] च यावद् अष्टौ विमोक्षा यावन् नवानुपूर्वविहारसमापत्तयः ये च यावद् दशतथागतबलानि चत्वरि वैशारद्यानि चतस्रः प्रतिसंविदः अष्टादशावेणिका बुद्धधर्मा या च महामैत्री या च महाकरुणा या च यावत् सर्वाकारज्ञता अस्मिन्न् आर्ये धर्मविनये सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः. ते च खलु पुनः सुभूते तथागतेन सत्त्वानाम् अवतरणार्थम् एवं लोकव्यवहारेण व्याहृता न पुनः परमार्थेन. तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वत्र ज्ञानेन च दर्शनेन शिक्षितव्यं, ज्ञानेन दर्शनेन शिक्षित्वा केचिद् धर्माः प्रतिवेद्धव्याः (Aद्SPG I १८८) केचिद् धर्मा न प्रतिवेद्धव्याः. कतमे धर्मा बोधिसत्त्वेन महासत्त्वेन ज्ञानेन दर्शनेन शिक्षित्वा प्रतिवेद्धव्याः, कतमे धर्मा ज्ञानेन दर्शनेन शिक्षित्वा न प्रतिवेद्धव्याः? श्रावकप्रत्येकबुद्धधर्माः शिक्षित्वाज्ञानेन दर्शनेन च न प्रतिवेद्धव्याः, सर्वाकारज्ञताज्ञानेन सर्वाकारैः सर्वधर्मा प्रतिवेद्धव्याः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन आर्यधर्मविनये प्रज्ञापारमितायां शिक्षितव्यं. आह: आर्यो धर्मविनयो आर्यो धर्मविनय इति भगवन्न् उच्यते. कियता भगवन्न् आर्यो धर्मविनय इत्य् उच्यते? भगवान् आह: इह सुभूते श्रावकाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वाश् च तथागता अर्हन्तः सम्यक्संबुद्धा रागेण न संयुक्ता न विसंयुक्ताः दोषेण न संयुक्ता न विसंयुक्ताः मोहेन न संयुक्ता न विसंयुक्ताः सत्कायदृष्ट्या न संयुक्ता न विसंयुक्ताः विचिकित्सया न संयुक्ता न विसंयुक्ताः शीलव्रतपरामर्शेन न संयुक्ता न विसंयुक्ताः कामरागव्यापादेन न संयुक्ता न विसंयुक्ताः रूपरागारूपरागेण न संयुक्ता न विसंयुक्ताः अविद्यया न संयुक्ता न विसंयुक्ताः मनौद्धत्येन न संयुक्ता न विसंयुक्ताः प्रथमेन ध्यानेन न संयुक्ता न विसंयुक्ताः यावत् चतुर्थेन ध्यानेन न संयुक्ता न विसंयुक्ताः मैत्र्या न संयुक्ता न विसंयुक्ताः करुणया न संयुक्ता न विसंयुक्ताः मुदितया न संयुक्ता न विसंयुक्ताः उपेक्षया न संयुक्ता न विसंयुक्ताः यावत् नैवसंज्ञानासंज्ञायतनेन न संयुक्ता न विसंयुक्ताः चतुर्भिः स्मृत्युपस्थानैर् न संयुक्त न विसंयुक्ताः यावन् महामैत्र्या महाकरुणया न संयुक्ता न विसंयुक्ताः, संस्कृतधातुना न (Aद्SPG I १८९) संयुक्ता न विसंयुक्ताः असंस्कृतधातुना न संयुक्ता न विसंयुक्ता इति. तेन ते आर्या इत्य् उच्यन्ते. तेषां चायं धर्मो विनयश् च, तस्माद् आर्यो धर्मविनय इत्य् उच्यते. तत् कस्य हेतोः? तथा हि ते सर्वधर्मा अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः. ते अरूपिणः अरूपिणाः सार्धं न संयुक्ता न विसंयुक्ताः, अनिदर्शना अनिदर्शनेन सार्धं न संयुक्ता न विसंयुक्ताः, अप्रतिघा अप्रतिघेन सार्धं न संयुक्ता न विसंयुक्ताः, अलक्षणा अलक्षणेन सार्धं न संयुक्ता न विसंयुक्ताः. इयं सुभूते अरूप्य् अनिदर्शना अप्रतिघा एकलक्षणा अलक्षणा पारमिता बोधिसत्त्वानां [f. २६२ब्] महासत्त्वानां यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, यो ऽत्र शिक्षित्वा न कस्यचिद् धर्मस्य लक्षणम् उपलभते. सुभूतिर् आह: न पुनर् भगवन् रूपलक्षणे शिक्षितव्यं, न वेदना संज्ञा संस्कारा विज्ञानलक्षणे शिक्षितव्यं. न चक्षुर्लक्षणे शिक्षितव्यं न यावत् मनोलक्षणे शिक्षितव्यं, न रूपशब्दगन्धरसस्प्रष्टव्यधर्मलक्षणे शिक्षितव्यं, न पृथिवीधातोर् अब्धातोर् तेजोधातोर् वायुर्धातोर् आकाशधातोर् विज्ञानधातोर् लक्षणे शिक्षितव्यं, न दानपारमिताया लक्षणे शिक्षितव्यं, न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमिताया न प्रज्ञापारमिताया लक्षणे शिक्षितव्यं, नाध्यात्मशून्यतालक्षणे शिक्षितव्यं यावन् न स्वलक्षणशून्यतालक्षणे शिक्षितव्यं, न प्रथ मध्यानलक्षणे शिक्षितव्यं यावन् न चतुर्थध्यानलक्षणे शिक्षितव्यं न मैत्र्या लक्षणे शिक्षितव्यं न यावन् नैवसांज्ञानासंज्ञायतनलक्षणे शिक्षितव्यं न स्मृत्युपस्थानानां लक्षणे शिक्षितव्यं यावन् न आर्याष्टाङ्गमार्गस्य लक्षणे (Aद्SPG I १९०) शिक्षितव्यं, न शुन्यता समाधेर् नानिमित्तस्य समधेर् नाप्रणिहितस्य समाधेर् लक्सने शिक्षितव्यं, न विमोक्षाणां न अनुपूर्वसमापत्तीनां लक्षणे शिक्षितव्यं, न दशबलानां न चतुर्णां वैशारद्यानां च चतसृणां प्रतिसंविदां न अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लक्षणे शिक्षितव्यं, न महामैत्र्या न महाकरुणाय लक्षणे शिक्षितव्यं न दुःखार्यसत्यानां लक्षणे शिक्षितव्यं, न समुदयलक्षणे शिक्षितव्यं न निरोधलक्षणे शिक्षितव्यं न मार्गलक्षणे शिक्षितव्यं नार्यलक्षणे शिक्षितव्यं नानुलोमप्रतिलोमप्रतीत्यसमुत्पादलक्षणे शिक्षितव्यं, न संस्कृतधातुलक्षणे शिक्षितव्यं न असंस्कृतधातुलक्षणे शिक्षितव्यं. यदि भगवन्न् अत्रापि धर्मलक्षणेषु न शिक्षितव्यं, कथं भगवन्न् अशिक्षित्वा बोधिसत्त्वो महासत्त्वः सर्वधर्मलक्सणे संस्कारलक्षणे च श्रावकप्रत्येकबुद्धभूमिम् अतिक्रामिष्यत्य्. अनतिक्रम्य श्रावकप्रत्येकबुद्धभूमिं कथं बोधिसत्त्वन्यामम् अवक्रमिष्यति, बोधिसत्त्वन्यामम् अनवक्रम्य कथं सर्वाकारज्ञताम् अनुप्राप्नोति, सर्वाकारज्ञताम् अननुप्राप्य कथं धर्मचक्रं प्रवर्तयिष्यति, धर्मचक्रम् अप्रवर्त्य कथं सत्त्वान् संसारात् परिमोचयिष्यति, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा महयानेन वा? भगवान् आह: यदि सुभूते कस्यचिद् धर्मस्य लक्सणं भवेत् तद् बोधिसत्त्वेन महासत्त्वेन तत्र लक्षणेषु शिक्षितव्यं. यस्मात् तर्हि सुभूते सर्वधर्माः अलक्षणा अरूपिणो अनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणा. तस्माद् बोधिसत्त्वेन महासत्त्वेन नैव लक्षणे शिक्षितव्यं नालक्षणे. तत् कस्य हेतोर्? न हि पूर्वम् अलक्षणा अभूवन् पश्चात् सलक्षणा भूताः, यस्मात् तर्हि (Aद्SPG I १९१) सुभूते पूर्वम् अप्य् एते धर्मा एतर्ह्य् अप्य् अलक्षणास् तस्माद् बोधिसत्त्वेन महासत्त्वेन नैव लक्षणे शिक्षितव्यं, न अलक्षणे. तत् कस्य हेतोर्? उत्पादाद् वा अनुत्पदाद् वा तथागतानां स्थित एवायम् अलक्षणधातुर्. [f. २६३अ] आह: यदि भगवन्न् अलक्षणाः सर्वधर्माः न विलक्षणस्, तत् कथं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितभावना भविष्यति? न च भगवन्न् अभावयित्वा प्रज्ञापारमितां बोधिसत्त्वेन महासत्त्वेन शक्त श्रावाकभूमिर् वा प्रत्येकबुद्धभूमिर् वा अतिक्रमितुं, अनतिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं न च शक्यं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वन्यामो ऽवक्रमितुं, अनवक्रम्य बोधिसत्त्वन्यामं न शक्यं बोधिसत्त्वेन महासत्त्वेन अनुत्पत्तिकेषु धर्मेषु क्षान्तिम् उत्पादयितुं, अनुत्पत्तिकेषु धर्मेषु क्षान्तिर् नोत्पाद्य न शक्यम् अभिज्ञा उत्पादयितुं, बोधिसत्त्वो ऽभिज्ञा अनुत्पदे न शक्यं बुद्धक्षेत्रं परिशोधयितुं सत्त्वांश् च परिपाचयितुं, बुद्धक्षेत्रम् अपरिशोध्य सत्त्वांश् च अपरिपाच्य न शक्यं सर्वाकारज्ञताम् अनुप्राप्तुं, अननुप्राप्य सर्वाकारज्ञतां न शक्यं द्गर्मचक्रं प्रवर्तयितुं, धर्मचक्रम् अप्रवर्त्य न शक्यं सत्त्वां स्रोतआपत्तिफले प्रतिष्ठापयितुं न सकृदागामिफले न अनागामिफले न अर्हत्त्वे न प्रत्येकबोधौ प्रतिष्ठापयितुं, नापि शक्यं सत्त्वान् दानमये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुं न शीलमये भावनामये पुण्यक्रियावस्तुनि प्रतिष्ठापयितुं. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. अलक्षणा सुभूते सर्वधर्मा न विलक्षणाः. आह: त कथम् अलक्षणेषु धर्मेषु प्रज्ञापारमिताभावना भवति? भगवान् (Aद्SPG I १९२) आह: न सुभूते प्रज्ञापारमिताभावना बोधिसत्त्वस्य महासत्त्वस्य विलक्षणा नैवलक्षणा. अलक्षणभावना सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना. आह: तत् कथम् अलक्षणा प्रज्ञापारमिताभवना भवति? भगवान् आह: सर्वधर्मविभावना प्रज्ञापारमिताभावना. आह: तत् कथं भगवं सर्वधर्मविभावना? भगवान् आह: रूपविभावनाभावना प्रज्ञापारमिताभावना. वेदनासंज्ञासंस्काराविज्ञानविभावनाभावना प्रज्ञापारमिताभावना. चक्षुश्रोत्रघ्राणजिह्वाकायमनोविभावनाभावना प्रज्ञापारमिताभावना. रूपशब्दगन्धरसस्प्रष्टव्यधर्मविभावनाभावना प्रज्ञापारमिताभावना. आयूहविभावनाभावना प्रज्ञापारमिताभावना. निर्यूहविभावनाभावना प्रज्ञापारमिताभावना. प्रथमध्यानविभावनाभावना प्रज्ञापारमिताभावना. द्वितीयध्यानतृतीयध्यानचतुर्थध्यानविभावनाभावना प्रज्ञापारमिताभावना. मैत्रीविभावनाभावना प्रज्ञापारमिताभावना. करुणामुदिता उपेक्षाविभावनाभावना प्रज्ञापारमिताभावना. आकासानन्त्यायतनविभावनाभावना प्रज्ञापारमिताभावना. विज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनविभावनाभावना प्रज्ञापारमिताभावना. बुद्धानुस्मृतिविभावनाभावना प्रज्ञापारमिताभावना. धर्मानुस्मृतिसंघानुस्मृतिशीलानुस्मृतित्यागानुस्मृतिदेवतानुस्मृत्युद्वेगानुस्मृत्यानापानानुस्मृतिमरणानुस्मृतिकायगतानुस्मृतिविभावनाभावना प्रज्ञापारमिताभावना. अनित्यसंज्ञादुःखसंज्ञानात्मसंज्ञाशुभसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना. प्रतीत्यसमुत्पादविभावनाभावना प्रज्ञापारमिताभावना. आत्मसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना. सत्त्वसंज्ञजीवसंज्ञाजन्तुसंज्ञामनुजसंज्ञा मानवसंज्ञा [f. २६३ब्] (Aद्SPG I १९३) पोषसंज्ञापुद्गलसंज्ञाकारकसंज्ञाकारपकसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना. नित्यसंज्ञासुखसंज्ञाशुभसंज्ञात्मसंज्ञाविभावनाभावना प्रज्ञापारमिताभावना. स्मृत्युपस्थानविभावनाभावना प्रज्ञापारमिताभावना. सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गार्याष्टाङ्गमार्गविभावनाभावना प्रज्ञापारमिताभावना. शून्यतासमाधिविभावनाभावना प्रज्ञापारमिताभावना. आनिमित्तसमाध्यप्रणिहितसमाधिविभावनाभावना प्रज्ञापारमिताभावना. अष्टविमोक्षविभावनाभावना प्रज्ञापारमिताभावना. नवानुपूर्वसमापत्तिविभावनाभावना प्रज्ञापारमिताभावना. सवितर्कसविचारसमाधिविभावनाभावना प्रज्ञापारमिताभावना. अवितर्कसविचारमात्रसमाधिविभावनाभावना प्रज्नापारमिताभावना. अवितर्काविचारसमाधिविभावनाभावना प्रज्ञापारमिताभावना. दुःखार्यसत्यविभावनाभावना प्रज्ञापारमिताभावना. समुदयनिरोधमार्गार्यसत्यविभावनाभावना प्रज्ञापारमिताभावना. दुःखज्ञानसमुदयज्ञाननिरोधज्ञानमार्गज्ञानविभावनाभावना प्रज्ञापारमिताभावना. क्षयज्ञानविभावनाभावना प्रज्ञापारमिताभावना. अनुत्पादज्ञानधर्मज्ञानान्वयज्ञानसंवृतिज्ञानपरिचयज्ञानयथावज्ज्ञानविभावनाभावना प्रज्ञापारमिताभावना. दानपारमिताविभावनाभावना प्रज्ञापारमिताभावना. शीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमिताप्रज्ञापारमिताविभावनाभावना प्रज्ञापारमिताभावना. अध्यात्मशून्यताविभावनाभावना प्रज्ञापारमिताभावना. बहिर्द्धाशून्यता अध्यात्मबहिर्द्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यता (Aद्SPG I १९४) संस्कृतशून्यतासंस्कृतशून्यतात्यन्तशुन्यतानवराग्रशून्यताअनवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यताभावशून्यतास्वभावशून्यताभावस्वभावशून्यताविभावनाभावना प्रज्ञापारमिताभावना. दशतथागतबलविभावनाभावना प्रज्ञापारमिताभावना. चतुर्वैशारद्यचतुप्रतिसंविदष्टादशावेणिकबुद्धधर्माविभावनाभावना प्रज्ञापारमिताभावना. महामैत्रिमहाकरुणाविभावनाभावना प्रज्ञापारमिताभावना. स्रोतआपत्तिफलविभावनाभावना प्रज्ञापारमिताभावना. सकृदागामिफलानागामिफलार्हत्वप्रत्येकबोधिविभावनाभावना प्रज्ञापारमिताभावना. सर्वाकारज्ञताविभावनभावना प्रज्ञापारमिताभावना. सर्ववासनानुसन्धिप्रहाणविभावनाभावना प्रज्ञापारमिताभावना. सुभूतिर् आह: कथं पुनर् भगवं रूपविभावनाभावना प्रज्ञापारमिताभावना यावत् कथं सर्ववासनानुसन्धिप्रहानविभावनाभावना प्रज्ञापारमिताभावना? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं भाव इति न भावयति यावद् विज्ञानं भाव इति न भावयति. यावत् सर्वाकरज्ञतां भाव इति न भावयति यावत् सर्ववासनानुसन्धिप्रहाणं [f. २६४अ] भाव इति न भावयति. तत् कस्य हेतोः? नास्ति सुभूते भावसंज्ञिनः दानपारमिताभावना, नास्ति शिलपारमिताभावना क्षान्तिपारमिताभावना वीर्यपारमिताभावना ध्यानपारमिताभावना नास्ति सुभूते भावसंज्ञिनः प्रज्ञापारमिताभावन. (Aद्SPG I १९५) नास्ति भावसंज्ञिनः यावत् सर्वाकारज्ञताभावना. तत् कस्य हेतोस्? तथा हि सुभूते तस्ज भावे सक्तस्य दानेन शीलेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञायाम् एष संगः. यस् तथा सक्तस् तस्य नास्ति मोक्षः. नास्ति सुभूते भावसंज्ञिनः स्मृत्युपस्थानभावना, न सम्यक्प्रहाणभावना ऋद्धिपादाभावना इन्द्रियभावना बलभावना, न बोध्यङ्गभावना न मार्गभावना न शून्यताभावना न अनिमित्तभावना न अप्रणिहितभावना, यावन् नास्ति सर्वाकारज्ञताभावना. तत् कस्य हेतोस्? तथा हि सुभूते स भावे सक्तः. एवम् उक्ते आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: किम् इति भगवन् भावः? किम् इत्य् अभावः? भगवान् आह: द्वयं सुभूते भावः, अद्वयम् अभावः. आह: किम् इति भगवन् द्वयं? भगवान् आह: रूपसंज्ञा सुभूते द्वयं, वेदनासंज्ञासंस्काराविज्ञानसंज्ञा द्वयं, चक्षुःसंज्ञा यावत् मनोसंज्ञा द्वयं, रूपसंज्ञा यावद् धर्मसंज्ञा यावद् बुद्धसंज्ञा बोधिसंज्ञा संस्कृतधातुसंज्ञा असंस्कृतधातुसंज्ञा यावत् सुभूते सर्वसंज्ञा यावच् च असंज्ञा सर्वम् एतद् द्वयं. यावद् द्वयं तावद् भावः, यावद् भावस् तावत् संस्क्ष्रो, यावत् संस्कारस् तावत् सत्त्वा न परिमुच्यन्ते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः (Aद्SPG I १९६) तद् अनेन अपि सुभूते पर्यायेणैवं वेदितव्यम्: नास्ति द्वयसंज्ञिनो दानं नास्ति शीलं नास्ति क्षान्तिर् नास्ति वीर्यं नास्ति ध्यानं नास्ति प्रज्ञा, नास्ति मार्गो नास्ति प्राप्तिर् नास्त्य् अभिसमयो, नास्त्य् अन्तशः आनुलोमिक्य् अपि क्षान्तिः, कुतः पुनर् रूपस्य परिज्ञा यावद् विज्ञानस्य परिज्ञा, यावत् सर्वाकारज्ञतायाः परिज्ञा? यस्य नास्ति मार्गभावना, कुतस् तस्य स्रोतआपत्तिफलं कुतो यावद् अर्हत्वं कुतः प्रत्येकबोधिः, कुतो यावत् सर्ववासनानुसन्धिप्रहाणं? ((६९))
SK
परिवर्त ७०.
SK
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन् भावसंज्ञिनः अनुलोमिक्य् अपि क्षान्तिर् नास्ति, कुतः पुनः प्राप्तिः कुतो ऽभिसमयः? किं पुनर् अभावसंज्ञिनः अनुलोमिकी क्षान्तिः नास्ति, शुक्लविदर्शनभूमिर् वा गोत्रभूमिर् वा अष्टमकभूमिर् वा दर्शनभूमिर् वा तनुभूमिर् वा वीतरागभूमिर् वा कृतावीभूमिर् वा प्रत्येकबुद्धभूमिर् वा बोधिसत्त्वभूमिर् वा बुद्धभूमिर् वा. मार्गभावना वा यां मार्गभावनाम् आगम्य क्लेशान् न प्रजहाति श्रावकप्रतिसंयुक्तान् वा प्रत्येकबुद्धप्रतिसंयुक्तां वा, यैः क्लेशैर् आवृतो बोधिसत्त्वन्यामं न अवक्रामेत्, बोधिसत्त्वन्यामम् अनवक्रमन् सर्वाकारज्ञतां न अनुप्राप्नुयात्, सर्वाकारज्ञतां न अनुप्राप्नुवन् सर्ववासनानुसन्धिक्लेशान् न प्रजहीत? यदि भगवन् नास्ति कस्यचिद् धर्मस्य उत्पद्यमानस्य उत्पादः न च अनुत्पाद्य इमान् धर्मांच् छक्यं सर्वाकारज्ञतां अनुप्राप्तुं? भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. न अभावसंज्ञिन आनुलोमिकी क्षान्तिर् अस्ति यावन् नास्ति सर्ववासनानुसन्धिक्लेशप्रहानं. आह: किं पुनर् भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो भावसंज्ञा भवत्य् अभावसंज्ञा वा, रूपसंज्ञा वा यावत् विज्ञानसंज्ञा वा, यावत् सर्वाकारज्ञतासंज्ञा वा, रागसंज्ञा वा रागप्रहाणसंज्ञा वा, द्वेषसंज्ञा वा द्वेषप्रहाणसंज्ञा [f. २६४ब्] वा, मोहसंज्ञा वा मोहप्रहाणसंज्ञा (Aद्SPG I १९८) वा, अविद्यासंज्ञा वा अविद्याप्रहाणसंज्ञ वा, संस्कारसंज्ञा वा संस्कारप्रहाणसंज्ञा वा, विज्ञानसंज्ञा वा विज्ञानप्रहानसंज्ञा वा, नामरूपसंज्ञा वा नामरूपप्रहानसंज्ञा वा, षडायतनसंज्ञा वा षडायतनप्रहाणसंज्ञा वा, स्पर्शसंज्ञा वा स्पर्शप्रहाणसंज्ञा वा, वेदनासंज्ञा वा वेदनाप्रहाणसंज्ञा वा, तृष्णासंज्ञा वा तृष्णाप्रहानसंज्ञा वा, उपादानसंज्ञा वा उपादानप्रहाणसंज्ञा वा, भवसंज्ञा वा भवप्रहाणसंज्ञा वा, जातिसंज्ञा वा जातिप्रहाणसंज्ञा वा, जरामरणसंज्ञा वा जरामरणप्रहाणसंज्ञा वा, शोकपरिदेवसंज्ञा वा शोकपरिदेवप्रहाणसंज्ञा वा, दुःखसंज्ञा वा दुःखप्रहाणसंज्ञा वा, समुदयसंज्ञा वा समुदयप्रहाणसंज्ञा वा, निरोधसंज्ञा वा निरोधप्रहाणसंज्ञा वा, मार्गसंज्ञा वा मार्गप्रहाणसंज्ञा वा, यावत् सर्वाकारज्ञतासंज्ञा वा सर्ववासनानुसन्धिक्लेशप्रहानप्रहाणसंज्ञा वा? भगवान् आह: नो हीदं सुभूते. न सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् क्वचिद् धर्मे भावसंज्ञी वा अभावसंज्ञी वा भवति. एषैव बोधिसत्त्वस्य महासत्त्वस्य आनुलोमिकी क्षान्तिर् यत्र नास्ति भावसंज्ञा न अभावसंज्ञा. एषैवास्य मार्गभावना यत्र नास्ति भावसंज्ञा न अभावसंज्ञा. एतद् एव अस्य फलं यत्र नास्ति भावसंज्ञा न अभावसंज्ञा. अभावः खलु पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्य मार्गः, अभाव एव अभिसमयस्. तद् अनेन अपि ते सुभूते पर्यायेणैवं वेदितव्यम्: अभावस्वभावाः सर्वधर्माः. आह: यदि भगवन्न् अभावस्वभावाः सर्वधर्माः, तत् कथं भगवन्न् अभावस्वभावाः सर्वधर्मास् तथागतेन अभिसंबुद्धाः, येषाम् अभिसंबोधाय सर्वधर्मविषयवशवर्त्तिता (Aद्SPG I १९९) अनुप्राप्ता? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह अहं सुभूते पूर्वं बोधिसत्त्वचारिकां चरं, षट्सु पारमितासु चरन्, विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैः धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानं यावद् चतुर्थं ध्यानम् उपसंपद्य विहरामि. सो ऽहं तेषान् ध्यानानां ध्यानाङ्गानाञ् च निमित्तम् अनुद्गृह्णंस्, तैर् ध्यानैर् न मन्ये, ध्यानानि न आस्वादयामि, ध्यानानि नोपलभे. सो ऽहं तानि ध्यानान्य् आकारविशुद्धानि समापद्ये, सो ऽहं तानि ध्यानानि विपाकीकृत्वा विविधज्ञानसाक्षात्क्रियायै चित्तम् अभिनिर्णामयामि, यावद् दिव्यश्रोत्रज्ञानसाक्षात्क्रियायै चित्तपर्यायज्ञानसाक्षात्क्रियायै पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायै दिव्यचक्षुर्ज्ञानसाक्षात्क्रियायै चित्तम् अभिनिर्णामयामि. तासां साक्षात्क्रियायां निमित्तम् अनुद्गृह्णंस् ताभिर् अभिज्ञभिर् न मन्ये न आस्वादयामि नोपलभे. सो ऽहं ताः पञ्चाभिज्ञाः आकाशसमाः पश्यामि समापद्ये. सो ऽहं सुभूते एकलक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य इदं दुःखं, अयं दुःखसमुदयो, अयं दुःखनिरोधः, इयं दुःखनिरोधगमिनीप्रतिपद् इति यथाभूतम् आज्ञातवान्, सो ऽहं दशभिः तथागतबलैः समन्वागतश् चतुर्भिर् वैशारद्यैश् चतसृभिः प्रतिसंविद्भिः महामैत्र्या महाकरुणया ऽष्टादशभिर् आवेणिकैर् बुद्धधर्मैः समन्वागतः सत्त्वांस् त्रिषु राशिषु व्याकरोमि. (Aद्SPG I २००) आह: कथं भगवंस् [f. २६५अ] तथागतेन अर्हता सम्यक्संबुद्धेन अभावस्वभावानि चत्वारि ध्यानानि उत्पादितानि, कथम् अभास्वभावा षडभिज्ञा उत्पादिता, कथं सत्त्वासत्त्वा त्रिषु राशिषु व्याकृताः? भगवान् आह: सचेत् सुभूते कामानां वा पापकानां वा अकुशलानां धर्माणां स्वभावो ऽभविष्यद् भावो वाभविष्यत् पर भावो वाभविष्यन्, न अहं सुभूते पूर्वं बोधिसत्त्वचारिकां चरन्न् अभावस्वभावान् कामान् विदित्वा अभावस्वभावान् पापकान् अकुशलान् धर्मान् विदित्वा चत्वारि ध्यानान्य् उपसंपद्य व्याहर्षं. यस्मात् तर्हि सुभूते न कामानां पापकानां च अकुशलानां धर्माणां स्वभावो ऽस्ति न भावो न परभावः अन्यत्र अभावस्वभावत्वात् एव, तस्माद् अहं पूर्वं बोधिसत्त्वचारिकां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपसंपद्य व्याहर्षं. एवं यावत् चतुर्थं ध्यानम् उपसंपद्य व्याहर्षं. सचेत् सुभूते अभिज्ञानां भावो वा स्वभावो वा परभावो वा अभविष्यन्, न अहं सुभूते सर्वाभिज्ञा अभावस्वभावा विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये. यस्मात् तर्हि सुभूते सर्वाभिज्ञानां न भावो न स्वभावो न परभावो ऽस्ति, अन्यत्र अभावस्वभावात् एव, तस्मात् तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वाभिज्ञा अभावस्वभावा विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः.
(VI ७) कथञ् च सुभूते बोधिसत्त्वो महासत्त्वः बुद्धानुस्मृतिं भावयति? इह सुभूते बोधिसत्त्वो महासत्त्वः तथागतम् अर्हन्तं सम्यक्संबुद्धं न रूपतो मनसिकरोति. न वेदनातो /// तत् कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति, यस्य स्वभावो नास्ति सो ऽभावः, वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य स्वभावो नास्ति यस्य स्वभावो नास्ति सो ऽभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न द्वातृंशता महापुरुषलक्सणैर् मनसिकर्तव्य न: सुवर्णवर्ण? कायतो मनसिकर्त्व्य /// तत् कस्य हेतोस्? तथा हि कायस्य प्रभाया अनुव्यञ्जनानां च स्वभावो नास्ति यस्य स्वभावो नास्ति सः अभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न शीलस्कन्धतो मनसिकर्त्व्यो न समाधिस्कन्धतो न प्रज्ञास्कन्धतो न विमुक्तिस्कन्धतो न विमुक्तिज्ञानदर्शनस्कन्धतो मनसिकर्त्व्यः. तत्कस्य हेतोः? तथा हि शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य स्वभावो नास्ति यस्य स्वभावो नास्ति सः अभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न दशभिस् तथागतबलैर् मनसिकर्तव्यः. न चतुर्भ्यो वैशारद्येभ्यो न चतसृभ्य प्रतिसंविद्यो न महामैत्र्या न महाकरुणया न अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् मनसिकर्त्व्यः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति [f. २६७अ] यस्य स्वभवो नास्ति स अभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
SK
पुनर् अपरं सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धो न प्रतीत्यसमुत्पादाद् मनसिकर्तव्यो. तत् कस्य हेतोः? तथा ह्य् अस्य स्वभावो नास्ति यस्य स्वभावो नास्ति. सः अभावः. तत् कस्य हेतोः? अस्मृत्य् अमनसिकारो हि बुद्धानुस्मृतिः.
SK
(Aद्SPG II ६) एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता बुद्धानुस्मृतिर् मनसिकर्त्व्या. एवं खल्व् अस्य अनुपूर्वक्रिया प्रज्ञायते ऽनुपूर्वशिक्षा अनुपूर्वप्रस्थानं, स इह अनुपूर्वक्रिययाम् अनुपूर्वशिक्षायाम् अनुपूर्वप्रस्थाने शिक्षमाण अनुपूर्वप्रस्थानैश् चत्वारी स्मृत्युपस्थानानि परिपूरयति /// प्रहाणानि चतुरर्द्धिपादान् पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टांगं मार्गम् /// सर्वाकारज्ञतार्ण् परिपूरयत्य् अभावस्वभावयोगेन. स अभावत एव सर्वधर्मान् अभिसंबुध्यते. यत्र स्वभावसंज्ञा ऽपि नास्ति.
SK
(VI ८) कथञ् च सुभूते बोधिसत्त्वेन महावत्त्वेन धर्मानुस्मृतिर् भावयितव्या? इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न कुशलधर्मा मनसिकर्तव्या न अकुशला धर्मा मनसिकर्तव्या न व्याकृता न अव्याकृता न लौकिका न लोकोत्तरा न सामिषा न निरामिषा न आर्या न अनार्या न सास्रवा ना अनास्रवा न कामधातुपर्यापन्ना न रूपधातुपर्यापन्ना न आरूप्यधातुपर्यापन्ना /// तथा हि तेषां धर्माणां स्वभावो नास्ति यस्य स्वभावो नास्ति. सः अभावः. अभाव स्मृत्य् अमनसिकारो हि धर्मानुस्मृति. इह अ? धर्म /// अभिसंबुध्यते. यत्र स्वभावसंज्ञास्य भावसंज्ञापि नास्ति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मानुस्मृतिर् भावयितव्या.
(VI ११) कथं च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायानि चरता त्यागानुस्मृतिर् भावयितव्या? /// सामिष त्यागो यदि वा धर्मत्यागः यत्र परित्यज्यता चित्तम् एव नोत्पादयितव्यं. ददामि वा न ददामि वा. परित्यजामि वा न परित्यजामि वा /// तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति, स एवं त्यागानुस्मृत्यां चरंच् छिक्षमाणो ऽनुपूर्वेण यावत् सर्वाकारज्ञताम् अनुप्रापयति.
SK
(VI १२) कथञ् च सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता देवतानुस्मृतिर् भावयितव्या? /// चातुर्महाराजकायिकेषु देवेषु उपपन्ना यावत् परनिर्मितवशवर्तिषु देवेषु उपपन्नास् ते अभावस्वभावतो मनसिकर्तव्याः. /// गेन ता देवता. मनसिकर्तव्याः. यत्राञ्चापि स्मृतिकर्म नास्ति, स एवं मनसिकुर्वन्न् अनुपूर्वेण यावत् सर्वाकारज्ञतां मनसिकरोति. /// [वा आरूप्य व च म द?] अनागामिनस् ते अभावतो मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नास्ति. येषां स्वभावो नास्ति ते ऽभावा. /// यत्राञ्चापि स्मृतिकर्म नास्ति, स एवं मनसिकुर्वन्न् अनुपूर्वेण यावत् सर्वाक्रारज्ञतां मनसिकरोति. /// पुनर् मनसिकुर्वतो ऽअनुपूर्वक्रिया प्रज्ञायते अनुपूर्वशिक्षा अनुपूर्वप्रस्थानं प्रज्ञायते. ///
भगवान् आह: यथैव सुभूते अभावस्वभावाः सर्वधर्मास् (Aद्SPG II ९) तथैव बोधिसत्त्वो महासत्त्वो ऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते. तत् कस्य हेतोः? क्षुद्रक सुभूते उपलंभः, न उपलंभसंज्ञिनः प्राप्तिर् न अभिसमयो न अनुत्तरां सम्यक्संबोधिः.
SK
आह: किं पुनर् भगवन्न् अनुपलंभस्य प्राप्तिर् वा अभिसमयो वा अनुत्तरा वा सम्यक्संबोधिः?
SK
भगवान् आह: अनुपलंभ एव सुभूते प्राप्तिर् अनुपलंभो ऽभिसमयः अनुपलंभ एव अनुत्तरा सम्यक्संबोधिः धर्मधात्वविकोपितत्वाम् उपादाय. धर्मधातुं स इच्छेद् विकोपयितुं यो ऽनुपलंभस्य प्राप्तिं वा अभिसमयो वा अनुत्तरां वा सम्यक्संबोधिम् इच्छेत्.
SK
आह: यदि भगवन्न् अनुपलंभस्य न प्राप्तिर् न अभिसमयो न अनुत्तरा सम्यक्संबोधिः, अनुपलंभ एव प्राप्तिर् अनुपलंभ एव अभिसमयो ऽनुपलंभ एव अनुत्तरा सम्यक्संबोधिः, तत् कुतः पुनर् भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रथमा भूमिः, कुतो दिवितीया कुतस् त्रितीया कुतो यावद् दशमी भूमि कुतो ऽनुत्पत्तिकधर्मक्षान्ति. कुतो विपाकीया अभिज्ञा कुतो विपाकीयं दानं कुतो विपाकीयं शीलं कुतो विपाकीया क्षान्ति कुतो विपाकीयं वीर्यं कुतो विपाकीयं ध्यानं कुतो विपाकीया प्रज्ञा, यत्र स्थित्वा विपाकीयेषु धर्मेषु सत्त्वान् परिपाचयति. बुद्धक्षेत्रं च परिशोधयति. बुद्धांश् च भगवत उपतिष्ठति अन्नेन पानेन वस्त्रैर् गन्धैर् माल्यै शयनेनासनेन उपाश्रयेण प्राजीविकेण यावद् अन्यतराभिर् मानुषिकीभिः संपत्तिभिः ताश् च अस्य नाच्छेद्यन्ते. यावत् परिनिर्वृतस्य शरीरेषु श्रावकेषु च विपाक कृत्वा न क्षीयते.
आह: अनुपलंभस्य च भगवन् दानस्य च शीलस्य च क्षन्त्याश् च वीर्यस्य च समाधेश् च प्रज्ञायाश् च अभिज्ञानां च को विशेषः किं नानाकरणं?
SK
भगवान् आह: अनुपलंभस्य च सुभूते दानस्य च शीलस्य च क्षन्तेश् [f. २६८ब्] च वीर्यस्य च समाधेश् च प्रज्ञायाश् च अभिज्ञानां च न किंचिन् नानाकरणं. यत् पुनः सुभूते अनुपलिप्तं दानं शीलं क्षान्ति वीर्यं ध्यानं प्रज्ञाभिज्ञा च, तेषां नानाकरणं निर्दिष्टं.
SK
आह: कथं पुनर् भगवन्न् अनुपलिप्तस्य दानस्य यावद् अभिज्ञानां नानाकरणं निर्दिश्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् यद् दानं ददाति तत् प्रज्ञापारमितया परिगृहीतः तत्र न द्वयसंज्ञी भवति. यच् छीलं रक्षति तत्र न द्वयसंज्ञी भवति. यत् क्षान्तिं भावयति तत्र न द्वयसंज्ञी भवति. यद् वीर्यम् आरभते तत्र न द्वयसंज्ञी भवति. यद् समाधिं भावयति तत्र न द्वयसंज्ञी भवति. यत् प्रज्ञां भावयति तत्र न द्वयसंज्ञी भवति. यावद् यद् अशीतिम् अनुव्यञ्जनान्य् अभिनिर्हारते. तत्र न द्वयसंज्ञी भवति.
SK
आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददाति. तत्र च न द्वयसंज्ञी भवति. यावद् अशीतिम् अनुव्यञ्जनान्य् अभिनिर्हारति. तत्र च न द्वयसंज्ञी भवति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् दानपारमितां परिपूरयति. स तत्र दानपारमितायां सर्वाः षट्पारमिता अन्तर्गता कृत्वा दानन् ददाति. एवं सर्वबोधिपक्ष्यान् धर्मान् परिपूरयति यावत् स तत्र मार्गे सर्वाः षट्पारमिता अन्तर्गता कृत्वा मार्गं भावयति. तत् पुनः कथम् इति? यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानन् ददाति. सो ऽनास्रवे चित्ते स्थित्वा दानं ददाति. स तत्र अनास्रवे चित्ते स्थितो निमित्तं न समनुपश्यति. को ददाति कस्मै वा ददाति. केन वा ददाति को वा ददामि. स निमित्तापगतेन चित्तेन दानं ददात्य् अनास्रवेण विगततृष्णेन विगताविद्येन, स तच् चित्तं न समनुपश्यति. तद् दानं न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन शीलं रक्षति. तच् च शीलं न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. एवं निमित्तापगतेन (Aद्SPG II १३) चित्तेन क्षान्तिं भावयति. तां च क्षान्तिं न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. निमित्तापगतेन चित्तेन वीर्यम् आरभते. तच् च वीर्यं न समनुपश्यति. यवात् सर्वबुद्धधर्मेषु कर्तव्यं. निमित्तापगतेन चित्तेन समाधिं समापद्यते. तं च समाधिं न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. निमित्तापगतेन चित्तेन प्रज्ञां भावयति तां च प्रज्ञां न समनुपश्यति. यावत् सर्वबुद्धधर्मेषु कर्तव्यं. निमित्तापगतेन चित्तेन चत्वारि स्मृत्युपस्थानानि भावयति यावद् अशीत्य् अनुव्यञ्जनेषु कर्तव्यं.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो निमित्तापगतेन चित्तेन दानं ददात्य् अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्य यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान्न् आध्यात्मिकं वा अङ्गप्रत्यङ्गानि बाह्यं वा भार्यपुत्रदुहित्रीराय्जं वालंकृत्यालंकृत ददाति. याचनकेभ्यस्, तस्य कश्चिद् एवागम्य एवं वदेत् किम् अनेनेदृशेन दानेन दत्तेनैवं निरुपकारेण, तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः एवं भवति. किं चापि मे सत्त्वा एवं परिभाषन्ते. अनेनेदृशेन दानेनैवम् अस्थिरेण दत्तेन इति. अथ च पुनर् दातव्यम् एव मया दानं, न मया दानं न? दातव्यं. स तद् दानं सर्वसत्त्वै साधारणं कृत्वा अनुत्तरस्यै सम्यक्संबोधौ परिणामयति. स तथा परिणामयति यथा परिणामयन् निमित्तं न समनुपश्यति. किं वा दानम् एकस्मै वा ददामि, केन वा ददामि को वा ददाति. (Aद्SPG II १४) किं वा परिणामयामि. क्व वा परिणामयामि. केन वा परिणामयामि. को वा परिणामयति. स तद् वस्तुन् न समनुपश्यति. यद् वा दद्याद् यत्र वा दत्त्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयेत्. तत् कस्य हेतोः? सर्वं वस्त्व् अध्यात्मशून्यतया शून्यं बहिर्द्धाशून्यतया शून्यम् अध्यात्मबहिर्द्धाशून्यतया शून्यं शून्यताशून्यतया शून्यं महाशून्यतया शून्यं संस्कृतशून्यतया शून्यम् असंस्कृतशून्यतया शून्यम् अत्यन्तशून्यतया शून्यम् अनवराग्रशून्यतया शून्यं. अवकारशून्यतया शून्यं प्रकृतिशून्यतया शून्यं सर्वधर्मशून्यतया शून्यं. स्वलक्षणशून्यतया शून्यं. स एवं संपश्यति क्व वा परिणामयिष्यति. किं वा परिणामयिष्यति. केन वा परिणामयिष्यति, तेनैवं परिणामयता परिणामितं भवति. स सत्त्वांस् च परिपाचयति. बुद्धक्षेत्रं च परिगृह्णाति. दानपारमितां च परिपूरयति. शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां यावत् सप्ततृंशतो बोधिपक्ष्यान् धर्मान् शून्यताम् आनिमित्तम् अप्रणिहितं समाधिं यावद् अष्टादशावेणिकान् बुद्धधर्मान् परिपूरयति. स आदद् एव दानपारमितां परिपूरयति. विपाकं च न परिगृह्णाति. तद्यथापि नाम परनिर्मितवशवर्त्तिनां देवानां मनस एव सर्वोपकरणसंपदः प्रादुर्भवन्त्य्, एवम् एव तस्य बोधिसत्त्वस्य महासत्त्वस्य मनस एव सर्वोपकरणसंपदः प्रादुर्भवन्ति. स तेन दानेन बुद्धांश् च भगवत उपतिष्ठति. स देवमानुष्य असुरं च लोकं संतर्पयति. स तान् सत्त्वांश् तया दानपारमितया परिगृह्य उपायकौशलेन च त्रिषु यानेषु प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् निमित्तापगतेन चित्तेन दानपारमितां परिपूरयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वो यावच् छीलपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंच् छीलपारमितां परिपूरयति. स आर्यम् अनास्रवं मार्गपर्यापन्नं धर्मताप्रातिलंभिकं शीलं प्रतिलभते. तत् पुनर् अस्य शीलम् अखण्डं भवत्य् अच्छिद्रम् अकल्माषम् अपरामृष्टं भुजिष्यं सुसमाहितं विज्ञप्रशस्तं, तेन च शीलेन न कंचिद् धर्मं परामृशति. रूपं वा वेदनां वा संज्ञां वा संस्कारान् वा विज्ञानं वा (Aद्SPG II १५) द्वातृंशतां वा महापुरुषलक्सणानि क्षत्रियमहासालकुलानि वा ब्राह्मणमहासालकुलानि वा [f. २७०अ] गृहपतिमहासालकुलानि चातुर्महाराजिकां वा देवास् त्रयस्त्रिंशत्कायिकान् वा यामान् वा तुषितां वा निर्मणरतीं वा परनिर्मितवशवर्त्तिनो वा ब्रह्मकायिकां वा ब्रह्मपुरोहितां वा ब्रह्मपारिषद्यां वा परीत्तां वा अप्रमाणां वा आभास्वरां वा परिशुभान् वा अप्रमाणशुभान् वा शुभकृत्स्णान् वा बृहत्फलान् वा असंज्ञिकान् वा अस्पृहान् वा अतपान् वा सुदृशान् वा सुदर्शनान् वा अघनिष्ठान् वा आकाशानंत्यायतनं वा. विज्ञानंत्यायतनं वा आकिंचन्यानन्त्यायतनं वा. नैवसंज्ञानासंज्ञायतनं वा. स्रोतआपत्तिफलं वा. सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा. प्रत्येकबुद्धं वा चक्रवर्तीराज्याधिपत्यं वा कारयेयम् इत्य्, अन्यत्र सर्वसत्त्वैः सार्धं साधारणानि कृत्वा सर्वाकारज्ञातायां परिणामयत्य्, आनिमित्तानुपलंभाद्वयपरिणामेन, लोकव्यवहारेण न पुनः परमार्थेन. तया च शीलपारमितया परिपूरितया उपायकौशलेन च चत्वारि ध्यानान्य् उत्पादयत्य् अनास्वादययोगेन. दिव्यं च चक्षुर् अभिनिर्हारति. येन दिव्येन चक्षुषा वैनयिकेन ये पूर्वस्यान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तांश् च पश्यति. तस्यास्य दर्शनं न नश्यति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्यां यावद् ये समन्ताद् दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तांश् च पश्यति. तच् चास्य दर्शनं न नश्यति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. स दिव्येन श्रोत्रधातुना विशुद्धेन अतिक्रान्त मानुषेण तेषां बुद्धानां भगवतां भाषमणानां शब्दं शृणोति. तच् च श्रुतं तावन् न नश्यति. यावन् न तेन श्रुतेन आत्मनः च परस्य च अर्थः कृतो भवति. चेतःपर्यायज्ञानेन च तेषां बुद्धानां भगवतां चेतसैव चित्तं प्रजानाति. तेन च चेतःपर्यायज्ञानेन सर्वसत्त्वानाम् अर्थं करोति, पूर्वेनिवासानुस्मृतिज्ञानेन च तेषां सत्त्वानाम् अतीतानि कुशलमूलान्य् आज्ञाय तै कुशलमूलैस् तां सत्त्वां संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, ते तथा समादापिताया च तथा संप्रहर्षिताया विशेषगामिनो भवन्त्य्, आस्रवक्षयज्ञानेन च सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयति यावद् अर्हत्त्वे प्रतिष्ठापयति. प्रत्येकबोधौ प्रतिष्ठापयति. (Aद्SPG II १६) अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयति. एवं यावद् यत्र यत्र सत्त्वाः प्रतिबलाः भवन्ति कुशलेषु धर्मेषु तत्र तत्र प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो निमित्तापगतेन चित्तेन शीलपारमितां परिपूरयति.
SK
कथं च सुभूते आनिमित्तेष्व् अनाभोगेष्व् अनुपलंभेष्व् अनभिसंस्कारेषु धर्मेषु क्षान्तिपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य सचेत् सर्वसत्त्वा आगम्य आगम्य लोष्टदण्डशस्त्रप्रहारान् दद्युस् तत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादस्य अपि क्षोभसहगतस्य अवकाशो न दातव्यः. तत्र बोधिसत्त्वेन महासत्त्वेन द्वे क्षान्ती भावयितव्ये. कतमे द्वे? यच् च सर्वसत्त्वानां मया क्षान्तव्यम् आक्रोशपरिभाषलोष्टदण्डशस्त्रप्रहारम् इति. या च अनुत्पत्तिकेषु धर्मेषु क्षान्तिर् उत्पादयितव्या. तत्र बोधिसत्त्वेन महासत्त्वेन आक्रुश्यमानेन वा परिभाष्यमाणेन वा लोष्टदण्डशस्त्रप्रहारेषु दीयमानेष्व् एवं प्रत्यवेक्षितव्यं. को मे आक्रोर्शति वा परिभाष्यते वा लोष्टदण्डशस्त्रप्रहारान् वा ददाति. कस्य वा ददाति. तेन धर्माणां स्वभावः प्रत्यवेक्षितव्यः, सर्वधर्माणां स्वभावं प्रत्यवेक्षमाणो धर्मान् एव नोपलप्स्यते कुतः पुनर् धर्मः. [f. २७Oब्] स्वभावं, तस्य धर्मस्वभावं प्रत्यवेक्षमाणस्य एवं भवति. को मे छिन्नत्ति वा भिन्नत्ति वा. स एवं प्रत्यवेक्षमाणो धर्मस्वभावम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलप्स्यते. तत्र अनुत्पत्तिकेषु धर्मेषु क्षान्ति. किम् इति: क्लेशानुत्पत्तिकता च ज्ञानानाच्छेद्यता च. सो ऽनयो द्वयो क्षान्त्यौ स्थित्वा चत्वारि ध्यानानि परिपूरयिष्यति. चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टाङ्गं मार्गं त्रिनि विमोक्षमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणाम् अष्टादशावेणिकां बुद्धधर्मान्. स एषु धर्मेषु स्थित्वा आर्येष्व् अनास्रवेषु लोकोत्तरेष्व् असाधारणेषु सर्वश्रावकप्रत्येकबुद्धैः सार्धं ततः आर्या अभिज्ञा परिपूरयिष्यति. याभिर् अभिज्ञाभिः परिपूर्णाभिः षड्भिश् च पारमिताभिः समुदागच्छति, अनास्रवेषु च पञ्चस्व् अभिज्ञासु (Aद्SPG II १७) स्थित्वा दिव्येन चक्षुषा पूर्वस्यां दिशि बुद्धान् भगवन्तो द्रक्ष्यति. तांश् च बुद्धान् भगवतो दृष्ट्वा बुद्धानुस्मृतिं प्रतिलप्स्यते. तस्य सा बुद्धानुस्मृतिर् नोच्छेत्स्यते यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवं यावत् समन्ताद् दशसु दिक्षु, स दिव्येन श्रोत्रधातुना यन् तेषां बुद्धानां भगवतां भाषितं तत् सर्वम् उद्ग्रहीष्यत्य् उद्गृह्य तथत्वाय सत्त्वानान् धर्मन् देशयिष्यति. स तेषां बुद्धानां भगवतां चेतसैव चित्तम् आज्ञास्यति. स तेन चित्तपर्यायज्ञानेन सर्वसत्त्वानां चेतसैव चित्तम् आज्ञायत तथत्वाय धर्मन् देशयिष्यति. पूर्वेनिवासानुस्मृतिज्ञानेन. तेषां सत्त्वानां कुशलमूलान् आज्ञाय तां पौर्वकेण कुशलमूलेन संहर्षयिष्यति समादापयिष्यति आस्रवक्षयज्ञानेन च तां सत्त्वांस् त्रिषु यानेषु निवेषयिष्यति प्रतिष्ठापयिष्यति. स खलु पुनर् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञतायां चरन् सर्वाकारज्ञतां परिपूर्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः क्षान्तिपारमिता परिपूर्यते.
SK
कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तेष्व् अनाभोगेष्व् अनुपलंभेष्व् अप्रादुर्भावेष्व् अनभिसंस्कारेषु धर्मेषु वीर्यपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् कायिकेन एव वीर्येण समन्वागतो भवति. स प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति. स चतुर्थं ध्यानं समापन्नः अनेकविधम् ऋद्धिविधिं प्रत्यनुभवति, यावत् सूर्यचन्द्रमसौ पाणिना परामृशत्य् आ ब्रह्मलोकं कायेन वशवर्त्तयति. तेन कायिकेन वीर्येण समन्वागतो ये पूर्वस्यां दिशि बुद्धा भगवन्तो विहरन्त्य् अनेकशतसातसाहस्रेषु लोकधातुषु सर्द्ध्या गत्वा बुद्धान् भगवतः उपतिष्ठति. चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषय्ज्यपरिष्कारैः. तस्य ते चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारास् तावन् न क्षीयन्ते यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते. अभिसंबुद्धबोधेश् (Aद्SPG II १८) च सदेवमानुषासुरो लोकः सुखी भवति. चीवरपिण्डपातशय्यनासनग्लानप्रल्ययभैषज्यपरिष्कारैः, परिनिर्वृतस्य च शरीरेषु शरीरपूजाः प्रवर्तन्ते. तेनैव चर्द्ध्यभिसंस्कारेण गत्वा तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति. सो च यथा श्रुतो न जातु विप्रनश्यति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते. सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिगृह्णाति सर्वाकारज्ञताया चरन्. एवं खलु सुभूते [f. २७१अ] बोधिसत्त्वो महासत्त्व कायिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति. कथं च सुभूते बोधिसत्त्वो महासत्त्वः चैतसिकेन वीर्येण समन्वागतः आर्येण अनास्रवेण मार्गेण मार्गपर्यापन्नेन वीर्यपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरंश् चैतसिकेन वीर्येण समन्वागतः अकुशलस्य कायकर्मणो ऽवकाशं न ददात्य् अकुशलस्य वाक्कर्मणो ऽवकासं न ददाति. न परामृशति. नित्यम् इति वा अनित्यम् इति वा सुखम् इति वा दुःखम् इति वा आत्मेति वा अनात्मेति वा संस्कृतम् इति वा असंस्कृतम् इति वा. कामधातुं वा रूपधातुं वा आरूप्यधातुं वा. सास्रवधातुं वा अनास्रवधातुं वा. प्रथमध्यानं वा यावच् चतुर्थं ध्यानं वा. मैत्रिं वा करुणां वा मुदितां वा उपेक्षां वा आकाशानन्त्यायायतनं वा. यावन् नैवसंज्ञानासंज्ञायतनं वा स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादान् वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टङ्गं मार्गं वा शून्यतां वा आनिमित्तं वा अप्रणिहितं वा यावद् बुद्धधर्मान् वा न परामृशति. नित्या इति वा अनित्या इति वा सुखम् इति वा दुःखम् इति वा आत्मेति वा अनात्मेति वा स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा बोधिसत्त्वत्वं वा न परामृशति. इमे सत्त्वा दर्शनप्रभाविता इमे तनुभूमिप्रभाविता इमे अवरभागीयप्रभाविता इमे ऊर्ध्वंभागीयप्रभाविता. इमे प्रत्येकबुद्धप्रभाविता इमे मार्गाकारज्ञताप्रभाविता इमे सर्वाकारज्ञताप्रभाविता इत्य् एवम् अपि न परामृशति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते. येन स्वभावेन प्रभाव्येरन्. स तेनैव चैतसिकेन (Aद्SPG II १९) वीर्येण समन्वागतो मरणमुखे ऽपि समाने सत्त्वानाम् अर्थं करोति. तांश् च सत्त्वान् नोपलभते. वीर्यपारमितां च परिपूरयति. तां च वीर्यपारमितां नोपलभते. बुद्धधर्मांश् च परिपूरयति तांश् च बुद्धधर्मान् नोपलभते. बुद्धक्षेत्रं च परिशोधयति तच् च बुद्धक्षेत्रं नोपलभते. स तेन कायिकेन च चैतसिकेन च वीर्येण समन्वागतः सर्वकुशलधर्मान् परिपूरयति. तत्र च न सज्जति. सो ऽसज्जमानो बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति. सत्त्वानाम् अर्थं कुर्वन्, येन येनर्धिप्रातिहार्येणेच्छति विकुर्वितुम्. तेनर्धिप्रातिहार्येण विकुर्वति. यदि वा पुष्पवर्षेण यदि वा गन्धविमुञ्चनेन. यदि वा गीतवाद्यारंभेण यदि वा भूमिचालेन. यदि वा अवभासेन: यदि वा सप्तरत्नमयलोकधातुसन्दर्शनेन. यत्र यत्र वा यौवनार्थानां सत्त्वानां कृते आत्मानम् अवसृजति. यदि वा ज्योतिरन्धानां सत्त्वानाम् अर्थे आत्मनो ऽवसृजति. यदि वा गन्धम् अवसृजति. यदि वा महायज्ञान् अवसृजति. यत्र न प्राणातिपात प्रवर्तते. यदि वा अनन्तां सत्त्वान् मार्गे ऽवतारयति. यावत् प्राणातिपाताद् विरमयति. यावन् मिथ्यादृष्टे परिमोचयति, कांश्चिद् दानेन अनुगृह्णाति. कांश्चिच् छीलेन. केसांचित् कृते अङ्गप्रत्यङ्गानि परित्यजति. केषांचित् पुत्रदारा केषांचिद् राज्यं केषांचिद् अर्थे आत्मानम् अवसृजाति. एवें येन येनोपायेन सत्त्वानाम् अर्थः कर्तव्य तेन तेनोपायेन सत्त्वानाम् अर्थं करोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् आनिमित्तेषु धर्मेषु चैतसिकेन वीर्येण समन्वागतो वीर्यपारमितां परिपूरयति.
SK
कथं च सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् अनामनिमित्तेषु धर्मेषु स्थित्वा समाधिपारमितां परिपूरयति? (Aद्SPG II २०) इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् स्थापयित्वा तथागतसमाधिं तत् अन्यात् सर्वसमाधीन् [f. २७ल्ब्] परिपूरयति. स विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः. सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. स मैत्रिसहगतेन चित्तेन यावद् उपेक्षासहगतेन चित्तेन यावत् सर्वावन्तं लोकं स्फरित्वो ऽपसंपद्य विहरति. यावन् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. स तत्र समाधिपारमितायां स्थित्वाष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापद्यते च व्युत्तिष्ठते च. नवानुपूर्वसमापत्तीं शून्यतां समाधिम् आनिमित्तं समाधिम् अप्रणिहितं समाधिम् उपसंपद्य विहरति. आनन्तर्यांश् च समाधिम् उपसंपद्य विहरति. विद्युतोपमं समाधिं सम्यक्समाधिं वज्रोपमं समाधिम् उपसंपद्य विहरति. स इह समाधिपारमितायां स्थित्वा सप्ततृंशतं बोधिपक्ष्यान् धर्मान् उपसंपद्य विहरति. स इह समाधिपारमितायां स्थित्वा मार्गाकारज्ञताज्ञानेन यावन् मार्गाकारज्ञतायां सर्वसमाधीन् अन्तर्गतान् दृष्ट्वा शुक्लविपश्यनाभूमिम् अतिक्रम्य गोत्रभूमिम् अष्टमकभूमिं दर्शनभूमिं तनुभूमिं वीतरागभूमिं कृताविभूमिं प्रत्येकबुद्धभूमिम् अतिक्रम्य बोधिसत्त्वन्यामम् अवक्रामति. बुद्धभूमिं परिपूरयति. सो ऽत्र च भूमिषु चरति. न च अन्तरेण फलं च अनुप्राप्नोति. यावन् न सर्वाकारज्ञताज्ञानम् अनुप्राप्नोति. सो ऽत्र समाधिपारमितायां स्थित्वा बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति. बुद्धान् भगवतः पर्युपासिनः. स तान् बुद्धान् भगवत. पर्युपास्ते तेषां च बुद्धानां भगवताम् अन्तिके कुशलमूलम् अवरोपयति. सत्त्वांश् च परिपाचयति. बुद्धक्षेत्रं च परिशोधयति. लोकधातौश् च लोकधातुं संक्रामति. सत्त्वानां च अर्थं करोति. कांश्चित् सत्त्वान् दानेन अनुगृह्णाति. कांश्चिच् छीलेन, कांश्चित् क्षान्त्या कांश्चिद् वीर्येण कांश्चित् समाधिना कांश्चित् प्रज्ञया कांश्चिद् विमुक्त्या कांश्चिद् विमुक्तिज्ञानदर्शनेन, कांश्चित् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयति. कांश्चित् सकृदागामिफले कांश्चिद् अनागामिफले कांश्चिद् अर्हत्त्वे प्रतिष्ठापयति. कांश्चित् प्रत्येकबोधौ प्रतिष्ठापयति. कांश्चिद् बोधौ प्रतिष्ठापयति. यैर् यैः कुशलमूलैर् धर्मैः सत्त्वा उद्गच्छन्ति तत्र नियोजयति. स इह समाधिपारमितायां स्थित्वा सर्वधारणीमुखान्य् (Aद्SPG II २१) अभिनिर्हरति. चतस्रः प्रतिसंविद प्रतिलभते. विपाकीयानाञ् च अभिज्ञानां लाभी भवति, स न जातु मातुः कुक्षाव् उपपद्यते. न जातु कामान् प्रतिसेवते, न च काचिद् उपपत्तिर् यां न प्रतिगृह्णाति. न चोपपत्तिदोषेण लिप्यते. तत् कस्य हेतोः? तथा ह्य् अनेन मायोपमा धर्माः सुदृष्टा भवन्ति. स मायोपमान् सर्वसंस्कारान् विदित्वा सर्वसत्त्वानाम् अर्थं करोति. न च तत्र सत्त्वान् न सत्त्वप्रज्ञप्तिर् उपलभ्यते. सो ऽनुपलभमान सर्वधर्मा अनुपलंभ एव सत्त्वान् प्रतिष्ठापयति लोकव्यवहारताम् उपादाय न पुनः परमार्थेन. स इह समाधिपारमितायां स्थित्वा सर्वध्यानविमोक्षसमाधिसमापत्तिषु चरति. न च जातु समाधिपारमिताया विरहितो भवति. यावद् अनुत्तरां सम्यक्संबोधिं परिपूरयति. स इह मार्गाकारज्ञतायां स्थित्वा सर्वाकारज्ञताम् अभिनिर्हरति. यत्र स्थित्वा सर्ववासनानुसन्धिं प्रजहाति. सर्ववासनानुसन्धिं प्रहाय आत्मनश् च परस्य च अर्थं करोति. स आत्मनश् च परस्य च अर्थं कुर्वन् सदेवमानुषासुरस्य लोकस्य दक्षिणीयो भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् समाधिपारमितां परिपूरयति.
SK
(VII २) कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरता आनिमित्तेषु धर्मेषु प्रज्ञापारमिता भावनापरिपूरिं गच्छति? इह [f. २७२अ] सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् न कंचिद् धर्मं सद्भूततापरिनिष्पन्नं समनुपश्यति, स रूपस्य सधूततां परिनिष्पन्नतां च न समनुपश्यति. वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य सद्भूततां परिनिष्पन्नतां च न समनुपश्यति. रूपस्योत्पादं न समनुपश्यति. वेदनायाः संज्ञाया संस्काराणां विज्ञानस्योत्पादं न समनुपश्यति. स रूपस्योत्पादम् असमनुपश्यन् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादम् असमनुपश्यन् रूपस्यायंद्वारं न समनुपश्यति. वेदनाया संज्ञाया संस्काराणां विज्ञानस्य आयंद्वारं न समनुपश्यति. रूपस्य सन्निचयं न समनुपश्यति. वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य सन्निचयं न समनुपश्यति. (Aद्SPG II २२) एवं यावत् सास्रवाणां धर्माणाम् अनास्रवाणां धर्माणाम् आयद्वारं न समनुपश्यति. तुच्छकाम् एव रिक्तकताम् एव समनुपश्यति. स एवं प्रत्यवेक्षमाणो रूपस्य स्वभावं नोपलभते. वेदनायाः संज्ञाया संस्काराणां विज्ञानस्य स्वभावं नोपलभते. यावत् सास्रवाणाम् अनास्रवाणां धर्माणां स्वभावं नोपलभते, स प्रज्ञापारमितायां चरन्न् अभावस्वभावान् सर्वधर्मान् अधिमुच्यते, स एवम् अधिमुच्यमान अध्यात्मशून्यतायां चरन् यावत् स्वलक्षणशून्यतायां चरन् न क्वचिद् धर्मेष्व् अभिनिविशते. रूपे वा वेदनायां वा संज्ञायां वा संस्कारेषु वा विज्ञाने वा यावद् बोधौ वा, सो ऽभावस्वभावायां प्रज्ञापारमितायां चरन् बोधिसत्त्वमार्गं परिपूरयति. यदुत षट्पारमितान्. यावत् सप्ततृंशतं बोधिपक्ष्यधर्मान् दशतथागतबलानि चत्वारि वैशारद्यानि चतस्र प्रतिसंविदो महामैत्रीं महाकरुणाम् अष्टादशावेणिकान् बुद्धधर्मान् द्वातृंशन् महापुरुषलक्षणान्य् अशीतिम् अनुव्यञ्जनानि परिपूरयति, स विपाकधर्मणि बोधिमार्गे स्थित्वाषट्सु पारमितासु परिपूर्णासु यावत् सप्ततृंशति बोधिपक्ष्येषु धर्मेषु परिपूर्णेषु यावद् विपाकीयास्व् अभिज्ञासु परिपूर्णासु, ये सत्त्वा दानेन अनुग्रहीतव्यास् तान् दानेन अनुगृह्णाति. ये ऽशीलेन अनुग्रहीतव्यास् तान् शीलेन अनुगृह्णाति. ये क्षान्त्या अनुग्रहीतव्यास् तान् क्षान्त्या अनुगृह्णाति. ये वीर्येण अनुग्रहीतव्यास् तान् वीर्येण अनुगृह्णाति. ये समाधिना अनुग्रहीतव्यास् तान् समाधिना अन्तिगृह्णाति. ये प्रज्ञया अनुग्रहीतव्यास् तान् प्रज्ञया अनुगृह्णाति. ये विमुक्त्या अनुग्रहीतव्यास् तान् विमुक्त्या अनुगृह्णाति. ये विमुक्तिज्ञानदर्शनेन अनुग्रहीतव्यास् तान् विमुक्तिज्ञानदर्शनेन अनुगृह्णाति. ये स्रोतआपत्तिफले प्रतिष्ठापयितव्यास् तान् स्रोतआपत्तिफले प्रतिष्ठापयति. ये सकृदागामिफले प्रतिष्ठापयितव्यास् तान् सकृदागामिफले प्रतिष्ठापयति. ये ऽनागामिफले प्रतिष्ठापयितव्यास् तान् अनागामिफले प्रतिष्ठापयति. ये ऽर्हत्त्वे प्रतिष्ठापयितव्यास् तान् अर्हत्त्वे प्रतिष्ठापयति. ये प्रत्येकबोधौ प्रतिष्ठापयितव्यास् तान् प्रत्येकबोधौ प्रतिष्ठापयति. ये बोधौ प्रतिष्ठापयितव्यास् तान् बोधौ प्रतिष्ठापयति. एष सर्वत्र पेयाल. सो ऽनेकविधम् ऋध्या विकुर्वन् गङ्गानदीवालुकोपमान् लोकधातून् गच्छति, स आकांक्संस् तान् गङ्गानदीवालुकोपमान् (Aद्SPG II २३) लोकधातून् यादृशाना रत्नानाम् आकांक्षिष्यति तादृशाना रत्नानाम् अभिनिर्हास्यति. स सत्त्वानाम् अभिप्रायान् परिपूरयन् लोकधातोर् [f. २७२ब्] लोकधातुं संक्रमिष्यति, स तान् लोकधातून् दृष्ट्वा यथाभिप्रेतं बुद्धक्षेत्रं परिग्रहीष्यति. तद्यथापि नाम परनिर्मितवशवर्तिषु देवेषु उपभोगपरिभोगा, ये ऽप्य् अन्येषु बुद्धक्षेत्रेषु अपगतपर्येष्टिषु ते तत्र भविष्यन्ति. स तया विपाकीयेन दानपारमितया शीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया प्रज्ञापारमितया विपाकीयाभिर् अभिज्ञाभिर् विपाकीयेन बोधिमार्गेण मार्गाकारज्ञतायां चरन् सर्वधर्मपरिपूरिप्राप्त सर्वाकारज्ञताम् अनुप्राप्स्यति. यावत् सचेद् रूपम् अपरिगृहीतं वेदना संज्ञा संस्कार विज्ञानम् अपरिगृहीतं यावत् सर्वधर्मा कुशला वा अकुशला वा लौकिका वा लोकोत्तरा वा. सास्रवा वा अनास्रवा वा संस्कृता वा असंस्कृता वा. अपरिगृहीतास्, तथैव अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वोपभोगपरिभोगा अपरिगृहीता भविष्यन्ति. तत् कस्य हेतोः? तथा हि सर्वधर्मा अपरिगृहीता अनुपलंभयोगेन, सर्वधर्मा अपरिग्रहाय वा सत्त्वानां धर्मो देशितः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आनिमित्तयोगेन प्रज्ञापारमितां परिपूरयति. ((७))
SK
परिवर्त ७२.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवन्न् असंभिन्नेषु सर्वधर्मेष्व् आनिमित्तेषु सर्वधर्मेषु स्वलक्षणशून्येषु षण्णां पारमितानां भावनापरिपूरिर् भवति. दानपारमिताया शीलपारमिताया क्षान्तिपारमिताया वीर्यपारमितायाः समाधिपारमिताया. प्रज्ञापारमितायाः. कथम् एषां सास्रवाणाम् अनास्रवाणां (Aद्SPG II २४) धर्माणां नानाकरणं प्रज्ञायते, कथं दानपारमिता अन्तर्गता भवति प्रज्ञापारमितायां, कथं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता कथं यावद् अष्टादशावेणिका बुद्धधर्मा अन्तर्गता भवन्ति प्रज्ञापारमितायां. कथं भगवन्न् एवं विलक्षणानां धर्माणाम् एकलक्षणानां यदुत अलक्षणानां. प्रज्ञप्तिर् भवति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्. स्वप्नोपमेषु पञ्चसु स्कन्धेषु स्थित्वा दानं ददाति शीलं रक्षति क्षान्तिं भावयति वीर्यम् आरह्हते समाधिं भावयति प्रज्ञां भावयति, प्रतिश्रुत्कोपमेषु पञ्चसु स्कन्धेषु स्थित्वा. दानं ददाति शीलं रक्षति क्षान्तिं भावयति वीर्यम् आरभते समाधिं भावयति प्रज्ञां भावयति. एवं प्रतिभासोपमेषु मरीच्युपमेषु मायोपमेषु निर्मितोपमेषु पञ्चसु स्कन्धेषु स्थित्वा दानं ददाति शीलं रक्षति क्षान्तिं भावयति वीर्यम् आरभते समाधिं भावयति प्रज्ञां भावयति. स्वप्नोपमा पञ्चस्कन्धा अलक्षणा प्रतिश्रुत्कोपमा प्रतिभासोपमा मरीच्युपमा मायोपमा निर्मितोपमा पञ्चस्कन्धाः अलक्षणाः. तत् कस्य हेतोः? न हि स्वप्नस्य कश्चित् स्वभावः न प्रतिभासस्य कश्चित् स्वभावः न मरीचिकायाः कश्चित् स्वभावः न मयाया कश्चित् स्वभावः न निर्मितस्य कश्चित् स्वभावः. यस्य स्वभावो नास्ति तस्य लक्सणं नास्ति, यस्य लक्सणं नास्ति तद् एकलक्षणं यदुत अलक्षणं. तद् अनेन अपि ते सुभूते पर्यायेण एवां वेदितव्यम्: अलक्षणं दानम् अलक्षणो दायकः अलक्षण प्रतिग्राहकः. य एवं ज्ञात्वा दानं ददाति स दानपारमितां [f. २७३अ] परिपूरयंच् छीलपारमितया न विवर्तते. क्षान्तिपारमितया वीर्यपारमितया समाधिपारमितया प्रज्ञापारमितया न विवर्तते. स इह षट्सु पारमितासु स्थित्वा चत्वारि ध्यानानि परिपूरयति. चत्वार्य् अप्रमाणां चतस्रः आरूप्यसमापत्ती परिपूरयति. चत्वारि स्मृत्युपस्थानानि परिपूरयति. चत्वारि सम्यक्प्रहाणानि. चतुरर्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गान्य् आर्याष्टाङ्गं मार्गं परिपूरयति. आध्यात्मशून्यतां परिपूरयति बहिर्द्धाशून्यतम् अध्यात्मबहिर्द्धाशून्यतां. अभावशून्यतां स्वभावशून्यताम् अभावस्वभावशून्यतां यावत् स्वलक्षणशून्यतां परिपूरयति. शून्यतां समाधिं परिपूरयत्य् आनिमित्तं समाधिम् अप्रणिहितं समाधिं परिपूरयति. अष्टौ विमोक्षान् परिपूरयति. नवानुपूर्वसमापत्ती परिपूरयति. पञ्चाभिज्ञापरिपूरयति. पञ्चधारणीमुखशतानि परिपूरयति. चतस्रः प्रतिसंविदः (Aद्SPG II २५) परिपूरयति. दशतथागतबलानि चत्वारि वैशारद्यानि महामैत्रीं महाकरुणाम् अष्टादशावेणिकां बुद्धधर्मान् परिपूरयति. स इह विपाकीयेष्व् अनास्रवेषु धर्मेषु स्थित्वा पूर्वस्यान् दिशि लोकधातून् ऋध्या गत्वा बुद्धान् भगवतः पर्युपास्ते. तांश् च उपतिष्ठते. यावद् उपभोगपरिभोगैश् च सत्त्वानाम् अर्थं कुर्वति. ये दानेन संग्रहीतव्यास् तान् दानेन संगृह्णाति. ये शीलेन संग्रहीतव्यास् तांच् छीलेन संगृह्णाति. ये क्षान्त्या संग्रहीतव्यास् तान् क्षान्त्या संगृह्णाति. ये वीर्येण संग्रहीतव्यास् तान् वीर्येण संगृह्णाति. ये समाधिना संग्रहीतव्यास् तान् समाधिना संगृह्णाति. ये प्रज्ञया संग्रहीतव्यास् तान् प्रज्ञया संगृह्णाति. यावद् ये सर्वकुशलैः धर्मैः संग्रहीतव्यास् तान् सर्वकुशलैर् धर्मै संगृह्णाति. स तैः कुशलमूलै समन्वागतः सर्वधर्मेश्वरः संसारं चोपाददाति. न च संसारावचरै. दुःखैर् लिप्यते. सत्त्वानां कृते देवमानुष्यिकी संपत्तिर् उपाददाति. याभिः संपत्तिभिः सत्त्वान् संगृह्णाति: सो ऽलक्षणान् सर्वधर्मान् जानाति. स्रोतआपत्तिफलं च जानाति. न च तत्र अवतिष्ठते. सकृदागामिफलं च जानाति न च तत्र अवतिष्ठते. अनागामिफलं च जानाति न च तत्र अवतिष्ठते. अर्हत्वं च जानाति न च तत्र अवतिष्ठते. प्रत्येकबोधिं च जानाति न च तत्र अवतिष्ठते. तत् कस्य हेतोह्स्? तथा हि तेन सर्वधर्मा ज्ञात्वा सर्वाकारज्ञता अनुप्राप्तव्या: या असाधारना सर्वश्रावकप्रत्येकबुद्धैः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व अलक्षणा सर्वधर्मा ज्ञात्वा षट्पारमिता अलक्षणान् जानाति. यावत् सर्वबुद्धधर्मान् अलक्षणान् जानाति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसु उपादानस्कन्धेषु स्थित्वा शीलपारमितां परिपूरयति. प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीचिकोपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा शिलपारमितां परिपूरयति. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व स्वप्नोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा प्रतिश्रुत्कोपमान् प्रतिभासोपमान् मायोपमान् मरीच्युपमान् निर्मितोपमान् पञ्चोपादानस्कन्धान् ज्ञात्वा अलक्षणशीलपारमितां परिपूरयति. अखण्डाम् अच्छिद्राम् अशबलाम् अकल्माषाम् अपरामृष्टां भुजिष्यां विज्ञप्रशस्तां सुसमाप्ताम् आर्याम् अनास्रवानि मार्गपर्यापन्नां (Aद्SPG II २६) लोकोत्तरां, यत्र स्थित्वा समादानसांकेतिकं शीलं रक्षति. धर्मताप्रतिलंभिकशीलं च संवरशीलं च विज्ञप्तिसीलं च [f. २७३ब्] समुदाचारशीलं च असमुदाचारसीलं च. स एवंरूपै शीलै समन्वागतो न परामृशत्य् अनेन अहं क्षत्रियमहाशालकुलानां सहभागतायै उपपद्येयं. ब्राह्मणमहासालकुलानं वा सहभागतायै गृहपतिमहासालकुलानं वा सहभागतायै उपपद्येयं राजा वा भवेयं चक्रवर्ती कोट्टराजा वा चातुर्महाराजकायिकानां वा देवानां सहभागतायै उपपद्येयं. त्रायंस्त्रिंशानां वा यामानां वा तुषितानां वा निर्माणरतिनां वा परनिर्मितवशवर्तिनां वा देवानां सहभागतायै उपपद्येयं. स्रोतआपत्तिफलं वा अनुप्राप्नुयां सकृदागामीनां वा अनागामिनां वा अर्हत्वं वा. प्रत्येकबोधिं वा बोधिं वा अनुप्राप्नुयाम् इति. तत् कस्य हेतोः? तथा ह्य् अलक्षणाः सर्वधर्माः एकलक्षणा यदुत अभावस्वभावलक्षणाः. न ह्य् अलक्षणो धर्म अलक्षणं धर्मम् अनुप्राप्नोति. नापि विलक्षणो धर्मो विलक्षणं धर्मं प्राप्नोति. नाप्य् अविलक्षणा वा अलक्षणा वा धर्मा अविलक्षणान् व अलक्षणान् वा धर्मान् प्राप्नुवन्ति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् अलक्षणशीलपारमितां परिपूर्य बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रमन्न् अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते. मार्गाकारज्ञतायां चरन् पञ्चाभिज्ञा विपाकीया प्रतिलभ्य पञ्चसु धारणीमुखशतेषु पञ्चसु समाधिमुखशतेषु स्थित्वा चतस्रः प्रतिसंविद प्रतिलभ्य बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति. बुद्धान् भगवतः प्रयुपासिन सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिग्रहीष्यति. पञ्चगतिके संसारे संसरिष्यति न च संसारावचरेण कर्मणा न विपाकेन लेप्स्यते. तद्यथापि नाम निर्मितश् चंक्रम्यते तिष्ठति निषादति शय्यं कल्पयति, न च अस्य आगमनं संदृष्यते न गमनं न स्थानं न निषद्या न शय्यान, सत्त्वानां च अर्थं करोति न च सत्त्वम् उपलभ्यते न (Aद्SPG II २७) सत्त्वप्रज्ञप्तिं. तद्यथापि नाम सुभूते शान्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यकसंबोधिम् अभिसंबुद्धो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्त्य अपरिमाणां सत्त्वां द्वाभ्यां यानाभ्यां परिनिर्वाप्य न कश्चिद् बोधिसत्त्वम् उपलभते यम् अनुत्तरस्यां सम्यक्संबोधौ व्याकार्षीत्. स आयुसंस्कारान् उत्सृज्य निर्मितं निर्माय अनुपधिशेषे निर्वाणधातौ परिनिर्वृत, स खलु पुनः सुभूते निर्मितः कल्पस्यात्ययेन बोधिसत्त्वं महासत्त्वं व्याकृत्य अनुत्तरायां सम्यक्संबोधौ परिनिर्वाति. तस्य च परिनिर्वृतस्य न किञ्चिद् वस्तु उपलभ्यते. रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो न सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं, सत्त्वानां च अर्थं करोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरंच् छीलपारमितां परिपूरयति. यस्या परिपूर्णत्वाद् अन्तर्गता सर्वधर्मा भवन्ति.
SK
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरं. स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोम्पमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्त्वा अलक्षणक्षान्तिपारमितां परिपूरयति? कथं च सुभूते बोधिसत्त्वो महासत्त्वः अलक्षणेषु धर्मेषु स्थित्वा क्षान्तिपारमितां परिपूरयति? इह सुभूते बोधिसत्त्वो महासत्त्वो द्वाभ्यां क्षान्तिभ्यां क्षान्तिपारमितां परिपूरयति. कतमाभ्यां द्वाभ्यां क्षान्तिभ्यां? अधिवासनक्षान्त्या धर्मावबोधक्षान्त्या च. तत्र कतमा अधिवासनक्षान्तिर्? यत् प्रथमचित्तोत्पादम् [f. २७४अ] उपादाय यावद् बोधिमण्डनिषदनाद् अन्त्रान्तराद् बोधिसत्त्वस्य महासत्त्वस्य सचेत् सर्वसत्त्वा आगम्य आगम्य आक्रोशेयु परिभाषेरन् वा. असत्याभिर् वा परुषाभिर् वाग्भिः समुदाचरेयुर् लोष्टदण्डशस्त्रप्रहारान् दद्युस्, तत्र बोधिसत्त्वेन महासत्त्वेन क्षान्तिपारमितां परिपूरयितुकामेन एकचित्तोत्पादो ऽपि क्षोभसहगतो व्यापादसहगतो वा नोत्पादयितव्यः. तेष्व् एव सत्त्वेष्व् अतीव कर्तव्याः क्लेशरुजार्ता बतेमे सत्त्वा, ते मया अपापचित्तम् उत्पादियतव्या. अपि तु मयैते शत्रुभूता स्कन्धा परिगृहीता. यद्यैवं प्रत्यवेक्षते मैत्रावान् करुणायति इयम् उच्यते अधिवासनक्षान्तिः. तत्र कतमा धर्मावबोधक्षान्तिः? यत् तान्य् अपि सत्त्वान् परमार्थतो नोपलभते. (Aद्SPG II २८) को मा आक्रोशते परिभाषते वा असत्याभिर् वा परुषाभिर् वाग्भिः समुदाचरति लोष्टदण्डशस्त्रप्रहारान् वा ददाति, मायोपमा सर्वसंस्कारा रिक्तास् तुच्छा वशिका गगनकल्पा आत्मसत्त्वजीवजन्तुपुरुषपुद्गलमनुजमानवविरहितापरिकल्पसमुत्थितास्, ते सर्वे विकल्पा को मा आक्रोशते वा परिभाषते वा असत्याभिर् वा परुषाभिर् वाग्भिः समुदाचरति. लोष्टदण्डशस्त्रप्रहारान् वा ददाति, अहं पुनर् नैवं विकल्पयिष्यामि. स्वभावशून्यताम् उपादाय परमार्थशून्यताम् उपादायैयम् उच्यते धर्मावबोधक्षान्तिः. स एवम् उपपरीक्षमाण क्षान्तिपारमितां परिपूरयति, सो ऽनया क्षान्तिपारमितया परिपूर्णया अनुत्पत्तिकेषु धर्मेषु क्षान्तिं प्रतिलभते.
SK
सुभूतिर् आह: कैषा भगवन्न् अनुत्पत्तिकधर्मक्षान्ति. किं वा अस्य प्रमाणं. किं वा ज्ञानं?
आह: या च भगवंच् छ्रावकाणां या च प्रत्येकबुद्धानाम् अमित्पत्तिकधर्मक्षान्तिः या च बोधिसत्त्वस्य महासत्त्वस्य अनुत्पत्तिकधर्मक्षान्ति. आसां क्षान्तीनां किन् नानाकरणं?
SK
भगवान् आह: यच् च सुभूते स्रोतआपन्नस्य ज्ञानं यच् च प्रहाणं सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. यत् सकृदागामिनो ज्ञानं च प्रहाणां च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. यद् अनागामिनो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. यद् अर्हतो ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. यत् प्रत्येकबुद्धस्य ज्ञानं च प्रहाणं च सा बोधिसत्त्वस्य महासत्त्वस्य क्षान्ति. इदं सुभूते नानाकरणं श्रावकप्रत्येकबुद्धक्षान्त्याश् च बोधिसत्त्वक्षान्त्याश् च, स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽनयैवंरूपया क्षान्त्या समन्वागत सर्वश्रावकप्रत्येकबुद्धान् अभिभवति. स एवैषा क्षान्त्याम् अनुत्पत्तिकधर्मक्षान्त्यां स्थित्वा बोधिसत्त्वमार्गे चरन् मार्गाकारज्ञतां परिपूरयति. यया परिपूर्णया अविरहितो भवति. सप्ततृंशता बोधिपक्ष्यैर् धर्मैः शून्यतानिमित्ताप्रणिहितैः समाधिभिः. स आभि पञ्चभिर् अभिज्ञाभिर् अविरहितो भवति. सो ऽविरहितत्वात् सत्त्वान् परिपाचयति. बुद्धक्षेत्रं च परिशोधयति. सत्त्वांश् च परिपाच्य (Aद्SPG II २९) बुद्धक्षेत्रं च परिशोध्य एकक्षणसमायुक्तया [f. २७४ब्] प्रज्ञया सर्वाकारज्ञताम् अनुप्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन्न् अलक्षणक्षान्तिपारमितां परिपूरयति.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा समाधिपारमितां परिपूरयति? कथं च सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्. स्वप्नोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा प्रतिश्रुत्कोपमेषु प्रतिभासोपमेषु मायोपमेषु मरीच्युपमेषु निर्मितोपमेषु पञ्चसूपादानस्कन्धेषु स्थित्वा समाधिपारमितां परिपूरयति? इह सुभूते [f. २७५अ] बोधिसत्त्वो महासत्त्व प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति. मैत्रीम् उपसंपद्य विहरति. करुणां मुदिताम् उपेक्षाम् उपसंपद्य विहरति. आकाशानन्त्यायतनम् उपसंपद्य विहरति. विज्ञानानन्त्यायतनम् आकिञ्चन्यातनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयति. विद्युतोपमं समाधिं भावयति. सम्यक्समाधिं भावयति. वज्रोपमे समाधौ स्थित्वा तथागतसमाधिं स्थापयित्वा यावन्तः केचनः समाधयः श्रावकसाधारणाः वा प्रत्येकबुद्धसाधारणाः वा ये ऽप्य् अन्ये समाधिसमापत्तिगणास् तान् सर्वान् कायेन स्फरित्वा उपसंपद्य विहरति. न च तान् समाधीन् आस्वादयति. न समापत्तिफलं. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वः तान् समाधीन् अलक्षणान् जानात्य् अभावस्वभावान्, तत् कथम् अलक्षणो धर्म अलक्षणन् धर्मम् आस्वादयति. कथम् अभावो धर्म अभावं धर्मम् आस्वादयति? सो ऽनास्वादयन् न कस्यचित् समाधेर् वशेन उपपद्यते. रूपधातौ वा आरूप्यधातौ वा. तत् कस्य हेतोः? तथा हि स तौ धातौ नोपलभते. यो ऽपि समापद्येत येनापि समापद्येत तद् अपि नोपलभते. सो ऽनुपलभमानः अलक्षणसमाधिपारमितां परिपूरयति. सो ऽनया समाधिपारमितया श्रावकप्रत्येकबुद्धभूमीन् अतिक्रामति.
SK
सुभूतिर् आह: कथं भगवं बोधिसत्त्वो महासत्त्व समाधिपारमितां परिपूर्य श्रावकप्रत्येकबुद्धभूमी अतिक्रामति?
SK
भगवान् आह: तथा हि सुभूते बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां सुशिक्षितः यावत् स्वलक्षणशून्यतायां सुशिक्षितः, न चेह शून्यतासु कश्चिद् धर्म उपलब्ब्यते. यत्र प्रतिष्ठेत्. स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा, यापि सा सर्वाकारज्ञता सापि शून्या शून्यताभिः. स आभिः शून्यताभिः बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य बोधिसत्त्वन्यामम् अवक्रामति.
SK
आह: कतमो भगवन् बोधिसत्त्वस्य महासत्त्वस्य आम कतमो न्यामः?
SK
भगवान् आह: सर्वः सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपलंभः. आमः, सर्वोनुपलंभो न्यामः.
SK
आह: कतमो भगवन्न् उपलंभः कतमो ऽनुपलंभः?
SK
भगवान् आह: रूपं बोधिसत्त्वस्य महासत्त्वस्य उपलंभः. वेदनासंज्ञासंस्कारविज्ञानं सुभूते बोधिसत्त्वस्य महासत्त्वस्य उपलंभः. चक्षुरूपणि च श्रोत्रं शब्दांश् च घ्राणं गन्धांश् च जिह्वरसाश् च कायः स्प्रष्टव्यानि च. मनो धर्मांश् च उपलंभः. यावत् सर्वाकारज्ञता उपलंभः. आमः. नियामः पुनः सुभूते यत्रैषां धर्माणां प्रव्याहारो ऽपि नोपलभ्यते. रूपस्य यावत् सर्वाकारज्ञताया. तत् कस्य हेतोः? थथा हि सुभूते यो रूपस्य स्वभाव सो ऽप्रव्याहारः, यावद् यः सर्वाकारज्ञताया स्वभावः सो ऽप्रव्याहारः. अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नियामः, स नियामावक्रान्तो बोधिसत्त्वो महासत्त्वः सर्वसमाधिः परिपूर्णः समाधिवशेन अपि नोपपद्यते. प्राग् एव रागं वा दोषं वा मोहं वा उत्पादयेद् यत्र स्थित्वा तत् कर्माभिसंस्कुर्यद् येन कर्माभिसंस्कारेण पञ्चगतिके संसारे पतेत् इति नेदं स्थानं विद्यते. अन्यत्र मायोपमेषु धर्मेषु स्थित्वा सर्वसत्त्वानाम् अर्थं करोति. न च सत्त्वम् उपलभते (Aद्SPG II ३२) न मायां, सो ऽनुपलभमान सत्त्वांश् च परिपाचयति. बुद्धक्षेत्रं च परिगृह्णाति. [f. २७५ब्] एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः समाधिपारमितां परिपूर्य यावद् धर्मचक्रं प्रवर्तयति. यदुत अनुपलंभचक्रशून्यतानिमित्ताप्रणिहितचक्रं.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नापि स्वप्नम् अद्राक्षीन् न स्वप्नदर्शिनं. न प्रतिश्रुत्कम् अद्राक्षीन् न प्रतिश्रुत्कश्रोतारं, न प्रतिभासम् अद्राक्षीन् न प्रतिभासदर्शिनं. न मायान् अद्राक्षीन् न मायादर्शिनं. न मरीचिकम् अद्राक्षीन् न मरीचिकदर्शिनं. न निर्मितम् अद्राक्षीन् न निर्मितदर्शिनं. तत् कस्य हेतोः? तथा हि विपर्यासः स्वप्न प्रतिश्रुत्क प्रतिभासो माया मरीचिका विपर्यासो निर्मितो, बालपृथग्जनानां. अर्हत् पुनर् न स्वप्नं पश्यति न स्वप्नदर्शिनं. यावन् न निर्मितं पश्यति न निर्मितदर्शिनं. एवं यावत् प्रत्येकबुद्धो बोधिसत्त्वो महासत्त्व तथागतो ऽर्हन् सम्यक्संबुद्धो नैव स्वप्नं पश्यति न स्वप्नदर्शिनं. यावन् न निर्मितं पश्यति न निर्मितदर्शिनं. तत् कस्य हेतोस्? तथा ह्य् अभावस्वभावाः सर्वधर्माः परिनिर्वाणसमा असद्भूततयाः. अपरिनिष्पन्नाः सर्वधर्माः असंभूततया. तत् किं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् भावसंज्ञी भविष्यति परिनिष्पन्नसंज्ञी वा भूतसंज्ञी वा नेदं स्थानं विद्यते. तत् कस्य हेतोः? न सा प्रज्ञापारमिता स्याद् यदि कस्यचिद् धर्मस्य स्वभाव उपलभ्येत परिनिष्पत्तिर् वा सद्भूतता वा, एवं च बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् रूपे न सज्जते. यावद् विज्ञाने न सज्जते, कामधातौ न सज्जते. रूपधातौ न सज्जते. आरूप्यधातौ न सज्जते. ध्यानविमोक्षसमाधिसमापत्तिषु न सज्जते. चतुर्षु स्मृत्युपस्थानेषु न सज्जते यावद् आर्याष्टाङ्गे मार्गे न सज्जते. शून्यतायां न सज्जते. आनिमित्तसमाधाव् अप्रणिहिते समाधौ न सज्जते. दानपारमितायां (Aद्SPG II ३३) न सज्जते. शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां समाधिपारमितायां न सज्जते. स इह प्रज्ञापारमितायां स्थित प्रथमं भूमिं परिपूरयति. तत्र च च्छन्दरागं नोत्पादयति. तत् कस्य हेतोः? तथा हि स तान् भूमीन् नोपलभते. तत् किं तत्र च्छन्दरागम् उत्पादयिष्यति, यावद् दशमीं भूमिं परिपुरयति. तत्र च च्छन्दरागं नोत्पादयति. तत् कस्य हेतोस्? तथा हि स तान् भूमीन् नोपलभते. तत् किं तत्र च्छन्दरागम् उत्पादयिष्यति. स प्रज्ञापारमितायां चरति. तां च प्रज्ञापारमितां नोपलभते. सो ऽनुपलंभायां चरन् सर्वधर्मांश् च तत्र प्रज्ञापारमितायाम् अन्तर्गतान् पश्यति. तांश् च धर्मान् नोपलभते. तत् कस्य हेतोस्? तथा हि ते च धर्मा सा च प्रज्ञापारमिता अद्वयम् अद्वैधीकारं. तत् कस्य हेतोस्? तथा हि तेषां धर्माणां न कश्चिद् भेदो ऽस्ति. धर्मधातुनिर्देशेन तथतानिर्देशेन [f. २७६अ] भूतकोटिनिर्देशेन. असंभिन्नाः सर्वधर्माः.
SK
आह: असंभिन्नानां भगवन् सर्वधर्माणां कथं कुशलाकुशलानां धर्माणां निर्देशो भवति. कथं लौकिकलोकोत्तराणां धर्माणां निर्देशो भवति. कथं सास्रवानास्रवाणां धर्माणां निर्देशो भवति. कथं संस्कृतासंस्कृतानां धर्माणां निर्देशो भवति?
SK
भगवान् आह: तत् किं मन्यसे सुभूते या धर्माणां धर्मता. अपि नु तत्र कस्यचिद् धर्मस्य. प्रव्याहारो ऽस्ति. संस्कृतस्य वा असंस्कृतस्य वा. स्रोतआपत्तिफलस्य वा सकृदागामिफलस्य वा. अनागामिफलस्य वा अर्हत्त्वस्य वा. प्रत्येकबोधेर् वा बोधेर् वा.
SK
आह: नो हीदं भगवन्.
SK
भगवान् आह: तद् अनेन अपि ते सुभूते पर्यायेण एवं वेदितव्यं. असंभिन्नाः सर्वधर्माः अलक्षणा अनुत्पादो ऽप्रादुर्भावाः सर्वधर्मा, न मे सुभूते पूर्वं बोधिसत्त्वचारिकां चरता कस्यचिद् धर्मस्य स्वभाव उपलब्धो रूपम् इति वा वेदनेति वा संज्ञेति वा संस्कार इति वा. विज्ञानम् इति वा. यावत् संस्कृतम् इति वा असंकृतम् इति वा. यावत् स्रोतआपत्तिफलम् इति वा. यावद् बोधिर् इति वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति प्रथमचित्तोत्पादम् उपादाय. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. अनुपलंभयोगेन. सर्वधर्माणां च स्वभावकुशलेन भवितव्यं. सर्वधर्मस्वभावकुशलो हि बोधिसत्त्वो महासत्त्व बोधिमार्गं (Aद्SPG II ३४) च परिपूरयति. सत्त्वांश् च परिपाचयति. बुद्धक्षेत्रं च परिगृह्णाति. यत्र स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य तथा सत्त्वान् विनयति. यथा विनीतास् तृषु भवेषु न दृश्यन्ते. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यम् अलक्षणयोगेन. ((७२))
भगवान् आह: तेन हि सुभूते शृणु साधु च सुष्टु च मनसिकुरु, भाषिष्ये ऽहं ते. इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपाकीयासु षट्सु पारमितासु स्थित्वा पञ्चसु च अभिज्ञासु सप्ततृंशति च बोधिपक्ष्येषु धर्मेषु धारणीमुखेषु समाधिमुखेषु च दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायाम् अष्टादशष्व् आवेणिकेषु बुद्धधर्मेषु स्थित्वा दिश्विदिक्षु लोकधातूं गत्वा ये सत्त्वा दानेन (Aद्SPG II ३८) अनुग्रहीतव्यास् तान् दानेन अनुगृह्णाति. ये शीलेन ये क्षान्त्या ये वीर्येण ये समाधिना ये प्रज्ञया ये प्रथमेन ध्यानेन ये द्वितीयेन ये तृतीयेन ये चतुर्थेन ये आकाशानन्त्यायतनसमापत्त्या विज्ञानानन्त्यायतनसमापत्त्या आकिंचन्यायतनसमापत्त्या नैवसंज्ञानासंज्ञायतनसमापत्त्या अनुग्रहीतव्यास् तांस् तथैव अनुगृह्णाति. ये मैत्र्यानुग्रहीतव्यास् तां मैत्र्यानुगृह्णाति ये करुणया ये मुदितया ये उपेक्षयानुग्रहीतव्यास् तान् उपेक्षयानुगृह्णाति. ये चतुर्षु स्मृत्युपस्थानैश् चतुर्भिः सम्यक्प्रहाणैश् चतुर्भिर् इद्धिपादैः पञ्चभिर् इन्द्रियैः पञ्चभिर् बलैः सप्तभिर् बोध्यङ्गैर् आर्याष्टांगेन मार्गेणानुग्रहीतव्या ये शून्यतया समाधिना ये आनिमित्तेन समाधिना ये अप्रणिहितेन समाधिना अनुग्रहीतव्यास् तान् अप्रणिहितेन समाधिना अनुगृह्णाति.
SK
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो दानेन सत्त्वान् अनुगृह्णाति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानं ददात्य्, अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यः गन्धं गन्धार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्यो: वस्त्रं वस्त्रार्थिकेभ्यः शय्यासनं शय्यासनार्थिकेभ्यो यावद् अन्यतरान्यतरां मनुष्यकां परिष्कारान् ददाति. यथैव तथागतया अर्हते सम्यक्संबुद्धाय ददाति. तथैव प्रत्येकबुद्धेभ्यो ऽर्हद्भ्यो ऽनागामिभ्यः सकृदागामिभ्यः स्रोतआपन्नेभ्यः सम्यग्गतेभ्यः सम्यक्प्रतिपन्नेभ्यः तथैव मनुष्यभूतेभ्य. तथैव तिर्यग्योनिगतेभ्यः सर्वेभ्यः अनानात्वसंज्ञाम् उपस्थाप्य दानं ददाति. तत् कस्य हेतोः? तथाप्य् अनानात्वं सर्वधर्माः, सो ऽनानात्वं दानं दत्त्वा अनानात्वस्य धर्मस्य लाभी भविष्यति. यदुत सर्वाकारज्ञताया. सचेत् पुनर् सुभूते बोधिसत्त्वस्य महासत्त्वस्य तिर्यग्योनिगतं [f. २७७ब्] प्राणिकम् अदक्षिणीयं दृष्ट्वा एवं चित्तम् उत्पद्येत, सम्यक्संबुद्धो मे दक्षिणीयो न तिर्यग्योनिगत इति. न बोधिसत्त्वधर्मो भवेत्. तत् कस्य हेतोः? न हि बोधिसत्त्वो महासत्त्वो बोधये चित्तम् उत्पाद्य् एवम् अनुत्तरस्यै सम्यक्संबोधये संप्रस्थित, इमे मया (Aद्SPG II ३९) सत्त्वा दानेन अनुग्रहीतव्या इमे न अनुग्रहीतव्या ते दानेन अनुगृहीता क्षत्रियमहासालकुलेषु उपपत्स्यन्ते ब्राह्मणमहासालकुलेषु उपपत्स्यन्ते गृहपतिमहासालकुलेषु उपपत्स्यन्ते. ते तेनैव दानेन अनुगृहीता अनुपूर्वेण त्रिभिर् यानैर् अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यन्ति. सचेद् बोधिसत्त्वं महासत्त्वं सर्वो जनकायोर् वाध्यं याचेत, तत्र बोधिसत्त्वेन महासत्त्वेन नान्यं चित्तं नोत्पादयितव्यं. दातव्यं वा न दातव्यम् इत्य्, अविकोपितमानसेन. दातव्यम् एव तस्मै जनपदकायायः. तत् कस्य हेतोस्? तथा हि स जनपदकायस्य अर्थे ऽनुत्तरस्यै सम्यक्संबोधये संप्रस्थितः. सचेत् पुनः विकल्पयेद् गर्ह्यो भवेत् तेषां बुद्धानां भगवतां तेषां च बोधिसत्त्वानां महासत्त्वानां प्रत्येकबुद्धानाम् अर्हतां शैक्षाणां सदेवमानुष्यासुरस्य च लोकस्य, केन किलाध्यीष्ट: सर्वसत्त्वानां त्राणं भव लयनं शरणं परायणम् इति.
SK
पुनर् अपरं सुभूते सचेद् बोधिसत्त्वस्य महासत्त्वस्य मनुष्यभूतो वा अमनुष्यभूतो वा आगम्य अङ्गप्रत्यङ्गानि च्छेतुं याचेत तं तदा तेन न द्वितीयं चित्तम् उत्पादयितव्यं. दास्ये वा न दास्ये वा. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सत्त्वानाम् अर्थाय संचिन्त्य आश्रयः परिग्रहीतः. अनेन मे आत्मभावेन सर्वसत्त्वानाम् अर्थः कर्तव्यः. तेनैवं चित्तम् उत्पादयितव्यं, येषाम् अर्थे मया आत्मभावः उपादत्तस् ते अयाचितम् एव गृहीत्वा गच्छतुं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं.
SK
पुनर् अप्रं सुभूते बोधिसत्त्वेन महासत्त्वेन याचनकं दृष्ट्वैवं चित्तम् उत्पादयितव्यं, को वेह ददाति कस्मै वा दीयते किं वा दीयते, सर्वेषाम् एषां धर्माणां स्वभावो नोपलभ्यते. (Aद्SPG II ४०) तत् कस्य हेतोः? तथा ह्य् एते धर्मा अत्यन्तशून्यतया शून्या. न हि शून्यता कश्चिद् ददाति वा आहरते वा. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं. यदुत अध्यात्मशून्यतायां वा बहिर्धासून्यतायां वा. अध्यात्मबहिर्धाशून्यतायां वा शून्यताशून्यतायां वा परमार्थशून्यतायां वा प्रकृतिशून्यतायां वा सर्वधर्मशून्यतायां वा यावत् स्वलक्षणशून्यतायां वा, स इह शून्यतायां स्थित्वा यद् दानं दास्यति. तस्य सततसमितं दानपारमितापरिपूरिर् भविष्यति. सो ऽनया दानपारमितया परिपूर्या न अध्यात्मिकबाह्येषु धर्मेषु च्छिद्यमानेषु वा भिद्यमानेषु वा एवं चित्तम् उत्पादयिष्यति. न कश्चित् छिनत्ति वा भिनत्ति वा.
(III) कथं च बोधिसत्त्वो महासत्त्वो ऽर्थक्रियया सत्त्वान् संगृह्णाति? आभिर् एव षड्भिः पारमिताभिः दीर्घरात्रं सत्त्वान् संगृहीत यदुत दानेन च प्रियवादितया अर्थक्रियया च समानार्थतया च.
SK
(D) स सत्त्वानाम् अशीतिम् अनुव्यञ्जननानि देशयति. कतमानि च सुभूते अशीतिर् अनुव्यञ्जनानि तथागतस्य? तद्यथा १. ताम्रनखाश् च बुद्धा भगवन्तो भवन्ति, २. स्निग्धपुष्पितानखाश् च बुद्धा भगवन्तो भवन्ति, ३. तुङ्गनखास् च बुद्धा भगवन्तो भवन्ति, ४. वृत्ताङ्गुलयश् च बुद्धा भगवन्तो भवन्ति, ५. दीर्घाङ्गुलयश् च भवन्ति, ६. चिताङ्गुलयश् च भवन्ति, ७. अनुपूर्वाङ्गुलश् च, ८. गूढशिराश् च भवन्ति, ९. निर्ग्रन्थिशिराश् च भवन्ति, १०. गूढगुल्फाश् च भवन्ति, ११. अविषमपादाश् च भवन्ति, १२. सिंहविक्रान्तगामिनश् च भवन्ति, १३. नागविक्रान्तगामिनश् च भवन्ति, १४. हंसविक्रान्तगामिनश् च भवन्ति, १५. वृसविक्रान्तगामिनश् च भवन्ति, ६. प्रदक्षिणगामिनश् च भवन्ति, १७. चारुगामिनश् च भवन्ति, १८. अवक्रगामिनश् च भवन्ति, १९. वृत्तगामिनश् च भवन्ति, २०. मृष्टगात्राश् च भवन्ति, २१. अनुपूर्वगात्राश् च भवन्ति, २२. सुपरिणतजातमण्डलाश् च भवन्ति, २३. परिपूर्णव्यञ्जनास् च भवन्ति, २४. ईर्यापथसंपन्नाश् च भवन्ति, २५. अस्थानसंपन्नाश् च भवन्ति, २६. समक्रमाश् च भवन्ति, २७. शुचिगात्राश् च भवन्ति, २८. मृदुगात्राश् च भवन्ति, २९. विशुद्धगात्राश् च भवन्ति, ३०. अवलोकनीयाश् च भवन्ति, ३१. न दीर्घमुखाश् चभवन्ति, (Aद्SPG II ५३) ३२. उदारमुखाश् च भवन्ति, ३३. बिंबोष्टाश् च भवन्ति, ३४. परिपूर्णमुखमण्डलाश् च भवन्ति, ३५. गंभीरयोषाश् च भवन्ति, ३६. गंभीरनाभाश् च भवन्ति, ३७. प्रदक्षिणावर्त्तनाभाश् च भवन्ति, ३८. सुकुमारगात्राश् च भवन्ति, ३९. अदीनगात्राश् च भवन्ति, ४०. उत्सदगात्राश् च भवन्ति, ४१. सुसंहतनाश् च भवन्ति, ४२. सुविभक्तप्रत्यङ्गाश् च भवन्ति, ४३. परिपूर्णहस्तपादाश् च भवन्ति, ४४. वृत्तकुक्षयश् च भवन्ति, ४५. मृष्टकुक्षयश् च भवन्ति, ४६. अभग्नकुक्षयश् च भवन्ति, ४७. च्छादोदराश् च भवन्ति, ४८. समन्तप्रासादिकाश् च भवन्ति, ४९. शुचिसमाचाराश् च भवन्ति, ५०. व्यपगततीलकाश् च भवन्ति, ५१. तूलसदृशसुकुमारपानयश् च भवन्ति, ५२. गंभीरपानिलेखाश् च भवन्ति, ५३. आयतपाणिलेखास् च भवन्ति, ५४. अच्छिन्नपाणिलेखाश् च भवन्ति, ५५. रक्तपाणिलेखाश् च भवन्ति, ५६. प्रसन्नवदनाश् च भवन्ति, ५७. चन्द्रमुखाश् च भवन्ति, ५८. तनुजिह्वाश् च भवन्ति, ५९. ताम्रजिह्वाश् च भवन्ति, ६०. सर्वाकारपरिपूर्णस्वराश् च भवन्ति, ६१. मधुरवल्गुस्वराश् च भवन्ति, ६२. वृत्तदंष्ट्राश् च भवन्ति, ६३. तीक्ष्णदंष्ट्राश् च भवन्ति, ६४. शुक्लदंष्ट्राश् च भवन्ति, ६५. तुङ्गनासाश् च भवन्ति, ६६. विशालनयनाश् च भवन्ति, ६७. अंजितपक्ष्मणश् च भवन्ति, ६८. आयतभ्रुवश् च भवन्ति, [f. २८२अ] ६९. श्लक्ष्णभ्रुवश् च भवन्ति, ७०. समस्निग्धलोमभ्रुवश् च भवन्ति, ७. पीनायतसमकर्णाश् च भवन्ति, ७२. सुपरिणतललाटाश् च भवन्ति, ७३. पृथुललाटाश् च भवन्ति, ७४ सुपरिपूर्णोत्तमाण्गा च भवन्ति सचेत् खलु पुनर् देवमुष्याश् चक्षुषा पश्यन्ति. सर्वं समं पश्यन्ति. न चातिमन्यमाना अववदन्ति. अनुपरिचैषां स्वरं स्मरति. बहिर्द्धा निश्चरति ७५. समन्तव्यामप्रभया च अवभासिता भवन्ति. ७६. सूक्ष्ममृदुस्निग्धकेशाश् च भवन्ति, ७७-७८. असंलुडितासितसंरजितवत्रित केशाश् च भवन्ति, ७९-८०. सुरभिश्रीस्वस्तिककेशाश् च बुद्धा भगवन्तो भवन्ति. एभि सुभूते अशीत्य् अनुव्यञ्जनैस् तथागतस्य कायः समन्वागतो छवति.
भगवान् आह: तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यं, यथा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानान् धर्मन् देशयति. तांश् च यथाभूतं प्रतिष्ठापयति. विपर्यासेभ्यः परिमोचयत्य् अबद्धामुक्तयोगेन. तत् कस्य हेतोः? [f. २८३अ] तथा हि सुभूते रूपम् अबद्धम् अमुक्तं, वेदना संज्ञा संस्कारा विज्ञानम् अबद्धम् अमुक्तं, या रूपस्य अबद्धामुक्तता न तद् रूपं. या वेदनाया संज्ञायाः संस्काराणां विज्ञानस्य अबद्धामुक्तता न तद् विज्ञानं यावत् या संस्कृतासंस्कृतानाम् अबद्धामुक्तता न ते संस्कृतासंस्कृता धर्माः. तत् कस्य हेतोः? अत्यन्तविशुद्धं हि रूपं यावद् अत्यन्तविशुद्धं विज्ञानं. यावत् संस्कृतासंस्कृता धर्मा कर्तव्य. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां चरन् सत्त्वानां धर्मन् देशयति. न च सत्त्वम् उपलभते. अनुपलब्धौ सर्वद्धर्माणां बोधिसत्त्वो महासत्त्वो स्थितस् तच् च अस्थानयोगेन. रूपशून्यतया अस्थानयोगेन. यावद् विज्ञानशून्यतया अस्थानयोगेन. यावत् संस्कृतासंस्कृतानां धर्माणां शून्यतया अस्थानयोगेन. न हि संस्कृतासंस्कृता धर्माः क्वचित् स्थिताः. तत् कस्य हेतोः? तथा हि तेषां स्वभावो नोपलभ्यते. यत्र प्रतितिष्ठेयुः, न ह्य् अभावः अभावे स्थास्यति. न स्वभावः स्वभावे स्थास्यति. न परभावः परभावे स्थास्यति. तत् कस्य हेतोः? तथा हि ते सर्वे नोपलभ्यन्ते. या च सा अनुपलब्धिः सा न क्वचित् स्थास्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् इमान् धर्मान् प्रभावयत्य् आभिः सर्वशून्यताभिः, एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (Aद्SPG II ५७) चरन्न् अनपराधि भवति बुद्धानां भगवतां बोछिसत्त्वानां च महासत्त्वानां प्रत्येकबुद्धानां च श्रावकाणां च सर्वेषां च आर्याणां. तत् कस्य हेतोः? तथा हि बुद्धैश् च भगवद्भिर् बोधिसत्त्वैश् च महासत्त्वै प्रत्येकबुद्धैश् च श्रावकैश् च एषैव धर्मता अनुबुद्धा. अनुभुध्य सर्वसत्त्वानान् धर्मन् देशयन्ति. तां ते धर्माणां धर्मतां न व्यतिवर्तन्ते. तत् कस्य हेतोःर्? न हि धर्मता व्यतिवर्तते. न तथता न भूतकोटिर् व्यतिवर्तते. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते. यो व्यतिवर्तेत.
भगवान् आह: किं पुनः सुभूते बालपृथग्जनाः संवृतिसत्यं वा परमार्थसत्यं वा प्रजानान्ति. यदि प्रजानंति तेषाम् अपि फलव्यवस्थानं भविष्यति. स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा सम्यक्संबोधिर् वा. यः पुनः सुभूते बालपृथग्जनानां न मार्गो न मार्गव्यवस्थानं न मार्गभावना, तत् कुतो बालपृथग्जनानां फलव्यवस्थानं भविष्यति? आर्यपुद्गलानां पुनर् मार्गश् च मार्गभावना च. तस्माद् आर्यपुद्गलानां फलव्यवस्थानं भविष्यति.
SK
आह: किं पुनर् भगवन् मार्गभावनाया फलप्राप्तिर् भवति. फलं वा प्राप्यते?
SK
भगवान् आह: नो हीदं सुभूते, न मार्गभावनाया फलप्राप्तिर् भवति. फलं वा प्राप्यते. न पुनः सुभूते अभावितमार्गस्य फलप्राप्तिर् न मार्गेण फलं प्राप्स्यते. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां फलव्यवस्थानं करोति. न च भागच्छेदेन संस्कृतधातोर् वा असंस्कृतधातोर् वा फलव्यवस्थानम्.
SK
आह: यदि भगवन् न भागच्छेदेन संस्कृतधातोर् वा असंस्कृतधातोर् वा फलव्यवस्थानं भवति, न निर्देष्टं पुनर् भगवता, इदं स्रोतआपत्तिफलं त्रयाणां संयोजनानां प्रहाणात्, सकृदागामिफलं कामरागव्यापादतनुत्वात्, अनागामिफलं पञ्चानाम् अधोभागीयानां संयोजनानां प्रहाणात्, अर्हत्वं पञ्चानाम् ऊर्द्धंभागीयानां (Aद्SPG II ५९) संयोजनानां प्रहाणात्, प्रत्येकबोधिर् यत् किंचित् समुदयधर्म सर्वन् तं निरोधधर्मेति सम्यक्संबोधिः सर्ववासनानुसन्धिप्रहाणात्. अस्य वयं भगवन् भाषितस्य कथम् अर्थम् आजानीयाम, न संस्कृतानां वा असंस्कृतानां वा धर्माणां भागच्छेदेन फलव्यवस्थानं भवति?
SK
भगवान् आह: किं पुनः सुभूते स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा अनुत्तरा सम्यक्संबोधिर् वा संस्कृतम् एतद् उताहो ऽसंस्कृतं?
SK
आह: असंस्कृतम् एतद् भगवन् न संस्कृतं सुगतः.
SK
भगवान् आह: किं पुनः सुभूते असंस्कृतस्य धर्मस्य भागच्छेदो ऽस्ति?
भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्त्वानां धर्मन् देशयत्य् अभागच्छेदताम् उपादाय. यदुत अध्यात्मशून्यताम् उपादाय. यावत् स्वलक्षणशून्यताम् उपादाय. आत्मना च न क्वचिद् धर्मे ऽभिनिविशते. परं च न क्वचिद् अभिनिवेशयति. दानपारमितायां वा शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा, प्रथमे वा ध्याने यावच् चतुर्थे वा ध्याने. मैत्र्यां वा करुणायां वा मुदितायां वा उपेक्षायां वा यावन् नैवसंज्ञानासंज्ञायतनसमापत्तौ वा स्मृत्युपस्थानेषु वा. यावद् आर्याष्टाङ्गे मार्गे. यावत् सर्वाकारज्ञतायां वा, सो ऽनभिनिविष्टो न क्वचित् सज्जते. तद्यथापि नाम तथागतनिर्मितो दानं च ददाति न च दानफले सज्जते. न दानफलं प्रत्यनुभवत्य् अन्यत्र सर्वसत्त्वानां परिनिर्वापनार्थं. यावत् षट्सु पारमितासु यावत् सास्रवानास्रवेषु धर्मेषु लौकिकलोकोत्तरेषु संस्कृतासंस्कृतेषु न क्वचित् तिष्ठति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मेषु चरति. न क्वचिद् धर्मे तिष्ठति न सज्जते. तत् कस्य हेतोः? तथा ह्य् अस्य धर्माणां धर्मलक्षणं सुप्रतिविद्धं.
आह: कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य पुरुषकारो भवति, यदि सर्वं रूपं निर्मितोपमं यावत् सर्वं विज्ञानं निर्मितोपमं, निर्मितस्य भगवन् न रूपं न वेदना न संज्ञा (Aद्SPG II ६१) न संस्कारा न विज्ञानं. न संक्लेशो न व्यवदानं नापि पञ्चगतिकः संसारो यतो सत्त्वान् परिमुच्येत.
SK
भगवान् आह: तत् किं मन्यसे सुभूते अपि नु बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचारिकां चरता कश्चित् सत्त्व उपलभ्दो यन् नरकात् परिमोचयेत् तिर्यग्योनेर् वा यमलोकाद् वा देवेभ्यो वा मनुष्येभ्यो वा?
SK
आह: नो हीदं भगवन्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. न बोधिसत्त्वेन महासत्त्वेन कश्चित् सत्त्वो उपलब्धो यं त्रैधातुकात् परिमोचयेत्. तथा ह्य् अनेन सर्वधर्मा मायोपमा ज्ञाता दृष्टा विदिता. निर्मितोपमा ज्ञाता दृष्टा विदिता.
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं प्रजानाति. यथा च रूपम् उत्पद्यते. यथा रूपं निरुध्यते. यथा रूपस्य तथता. कथं रूपं प्रजानाति इति? अत्यन्तच्छिद्रतश् च अत्यन्तसुषिरतश् च. तद्यथापि नाम फेनपिण्ड असारकः एवं रूपं प्रजानाति. कथं च [f. २८५ब्] रूपस्य उत्पादं प्रजानाति? न रूपं कुतश्चिद् आगच्छति नापि रूपं क्वचिद् गच्छति इत्य् अकुतश्चिद् आगमनतश् च अक्वचिद् गमनतश् च रूपस्य उत्पादं प्रजानाति. यन् न कुतश्चिद् आगतं न क्वचिद् गतं, एवं हि सुभूते बोधिसत्त्वो महासत्त्व रूपस्य उत्पादव्ययं प्रजानाति. कथं च रूपस्य तथतां प्रजानाति? न तथता उत्पद्यते वा निरुध्यते वा न आगच्छति न गच्छति. न संक्लिष्यते न व्यवदायते. नि हीयते न वर्धते. एवं तथतां प्रजानाति. अवितथता सुभूते तथता तस्मात् तथताइत्य् उच्यते. न सा विततथा तेन तथातेत्य् उच्यते. एवं रूपस्य तथतां प्रजानाति. कथं च वेदनां प्रजानाति? कथं वेदनाया उत्पादं कथं वेदनाया व्ययं कथं वेदनायांस् तथतां प्रजानाति? तद्यथापि नाम उदकबुद्बुदा रिक्तका उत्पद्यन्ते च निरुध्यन्ते च. एवं वेदनां प्रजानाति. न कुतश्चिद् आगच्छति न क्वचिद् गच्छति. एवं वेदनाया उत्पादव्ययं प्रजानाति. कथं च वेदनायास् तथतां प्रजानाति? अवितथतातथता. एवं वेदनायांस् तथतां प्रजानाति. कथं च संज्ञां प्रजानाति? तद्यथा (Aद्SPG II ६६) मरीचिकायाम् उदकम् अत्यन्ततया नोपलभ्यते. एवं संज्ञां प्रजानाति. न कुतश्चिद् आगच्छति न क्वचिद् गच्छति. एवं संज्ञाया उत्पादव्ययं प्रजानाति. कथं च संज्ञातथतां प्रजानाति? यथैव वेदनातथता एवं संज्ञातथतां प्रजानाति. कथं संस्कारान् प्रजानाति तद्यथापि नाम कदल्याः सारम् असारतया पत्र पत्रं कृत्वा नोपलभ्यते एवं संस्कारान् प्रजानाति. कथं संस्काराणाम् उत्पादव्ययं प्रजानाति? अकुतश्चिद् आगमनतया अक्वचिद् गमनतया संस्काराणाम् उत्पादव्ययं प्रजानाति. कथं च संस्काराणां तथतां प्रजानाति? वेदनातथतया संस्कारतथतां प्रजानाति. कथं विज्ञानं प्रजानाति? तद्यथापि नाम मायाकारनिर्मितश् चतुरङ्गो बलकाय. एवं विज्ञानं प्रजानाति. न कुतश्चिद् आगच्छति न क्वचिद् गच्छति. एवं विज्ञानस्य उत्पादव्ययं प्रजानाति. कथं विज्ञानस्य तथतां प्रजानाति? वेदनातथतया विज्ञानतथतां प्रजानाति. कथं च धातून् प्रजानाति? चक्षुर्धातुश् चक्षुर्धातुस्वभावेन शून्यं. रूपधातुर् रूपधातुस्वभावेन शून्यं. चक्षुविज्ञानधातुश् चक्षुविज्ञानधातुस्वभावेन शून्यं. एवं यावन् मनोधातुर् धर्मधातुर् मनोविज्ञानधातुः कर्तव्यः. कथं च आयतनानि प्रजानाति? आध्यात्मिका धर्मा आध्यात्मिकैर् धर्मै शून्याः, बाह्या धर्माः बाह्यैर् धर्मैः शून्याः. एवम् आयतनानि प्रजानाति. कथं च आर्यसत्यं प्रजानाति दुःखं प्रजानाति. सत्यं प्रजानाति. आर्यसत्यं प्रजानाति. द्वयताविनिर्मुक्तम् आर्यसत्यम् अद्वयं हि आर्याणां सत्यम् इति प्रजानाति. एवं समुदयं निरोधं निरोधगामिनीप्रतिपदम् आर्यसत्यं प्रजानाति. कथं दुःखतथतां प्रजानाति? तथत्?ऐव दुःखस्य तथतेति प्रजानाति. एवं समुदयस्य निरोधस्य मार्गस्य. तथतां प्रजानाति. कथं च प्रतीत्यसमुत्पादं प्रजानाति? अनुत्पादतो प्रतीत्यसमुत्पादं प्रजानाति. एवम् अनिरोधतो ऽनुच्छेदतो ऽशाश्वततो ऽनेकार्थतो ऽनानार्थतो ऽनागमतो न निर्गमतः प्रपञ्चोपरमतः शिवं प्रतीत्यसमुत्पादं प्रजानाति. एवं प्रतीत्यसमुत्पादं प्रजानाति.
SK
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमे परस्परभिन्नान् (Aद्SPG II ६७) धर्मान् एवं प्रजानाति. ननु भगवन् धर्मधातुर् विकोपितो भवति?
SK
भगवान् आह: विकोपित सुभूते स्याद् यदि धर्मधातुर्विनिर्मुक्तः +अन्यः? कश्चिद् धर्मः स्याद्. न सुभूते धर्मधातुविनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलभ्यते. यद्य् उपलभ्येत स्याद् धर्मधातोर् विकोपना. तत् कस्य हेतोः? न हि सुभूते तथागतेन वा बोधिसत्त्वेन वा. प्रत्येकबुद्धेन वा तथागतश्रावकेण वा धर्म [f. २८६अ] धातुर्विनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलब्धः. अनुपलभ्य न प्रज्ञपयति. धर्मधातुर्विनिर्मुक्तो ऽन्यः कश्चिद् धर्म उपलभ्यत इति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता धर्मधातौ शिक्षितव्यं.
भगवान् आह: धर्मधातौ सुभूते शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वधर्मेषु शिक्षितं भवति. तत् कस्य हेतोः? तथा हि सुभूते सर्वधर्मा धर्मधातुः.
SK
आह: केन कारणेन भगवं सर्वधर्मा धर्मधातुः?
SK
भगवान् आह: तथा हि सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थित एव धर्माणां धर्मधातुर् अभेदयोगेन. यदुत संस्कृतधातुर् असंस्कृतधातुर् च धर्मधातुः. एवं यावत् सर्वधर्मेषु कर्तव्यं. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन धर्मधातौ शिक्षितं भवति.
SK
आह: यदि भगवन् सर्वधर्मा धर्मधातुः, कथं पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं? समाधिपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षितव्यं? कथं बोधिसत्त्वेन महासत्त्वेन प्रथमे ध्याने शिक्षितव्यं? कथं द्वितीये त्रितीये चतुर्थे ध्याने शिक्षितव्यं? कथं मैत्र्यां करुणायां मुदितायाम् उपेक्षायाम् आकाशानन्यायतने यावन् नैवसंज्ञानासंज्ञायतने शिक्षितव्यं? कथं चतुर्षु स्मृत्युपस्थानेषु यावद् आर्याष्टाङ्गे मार्गे शिक्षितव्यं? कथं (Aद्SPG II ६८) शून्यतानिमित्ताप्रणिहितेषु शिक्षितव्यं? कथम् अष्टादशसु विमोक्षेषु नवस्व् अनुपूर्वसमापत्तिषु शिक्षितव्यं? कथं दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां महामुदितायां महोपेक्षायाम् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षितव्यं? कथं पञ्चाभिज्ञासु शिक्षितव्यं? कथं द्वातृंशद्महापुरुषलक्षणपरिनिष्पत्तौ शिक्षितव्यं? कथम् अशीत्य् अनुव्यञ्जनपरिनिष्पत्तौ शिक्षितव्यं? कथं क्षत्रियमहासालकुलोपपत्तौ ब्राह्मणमहासालकुलोपपत्तौ गृहपतिमहासालकुलोपपत्तौ शिक्षितव्यं? कथं चातुर्महाराजकायिकानां देवानाम् उपपत्तौ त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां ब्रह्मकायिकानाम् आभास्वराणां शुभकृत्स्नानां वृहणां परीत्तवृहनां वृहत्फलानां देवानाम् उपपत्तौ शिक्षितव्यं? कथम् असंज्ञीसत्त्वोपपत्तौ शुद्धावासदेवनिकयोपपत्तौ शिक्षितव्यं कथं प्रथमे चित्तोत्पादे शिक्षितव्यं. कथं द्वितीये त्रितीये चतुर्थे पञ्चमे षष्टे सप्तमे अष्ठमे नवमे दशमे चित्तोत्पादे शिक्षितव्यं. कथं श्रावकभूमौ प्रत्येकबुद्धभूमौ बोधिसत्त्वनियामे शिक्षितव्यं? कथं सत्त्वपरिपाके बुद्धक्षेत्रपरिशुद्धौ सर्वधारणीमुखसमाधिमुखेषु शिक्षितव्यं? कथं प्रतिभाने शिक्षितव्यं? कथं बोधिमार्गे शिक्षितव्यं यत्र शिक्षमाणेन सर्वधर्माः सर्वाकारैर् ज्ञातव्याः? यदि भगवन् धर्मधाताव् इमे विकल्पा न सन्ति, माहैव भगवन् बोधिसत्त्वो महासत्त्वो विपर्यासे चरेत्. अप्रपञ्च्यं प्रपञ्चयेत्. तत् कस्य हेतोः? न हि भगवन् धर्मधाताव् इमे विकल्पाः. न हि धर्मधातुर् रूपं न वेदना न संज्ञा न संस्कारा न धर्मधातुर् विज्ञानं. नान्यत्र रूपाद् धर्मधातुर् नान्यत्र वेदनाया संज्ञायाः संस्कारेभ्यो नान्यत्र विज्ञानाद् धर्मधातुर्. रूपम् एव धर्मधातुर् धर्मधातुर् एव रूपं. यावद् विज्नानम् एव धर्मधातुर् धर्मधातुर् एव विज्ञानं. एवं सर्वधर्मा ज्ञातव्याः.
(VIII ५,४) तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारन्तेवासी वा यत् किंचिद् एव द्रव्यजातम् अधिष्ठाय विविधं रूपगतं सन्दर्शयेत्. यदुत हस्तिविग्रहं वा अश्वविग्रहं वा बलीवर्दविग्रहं वा पुरुषस्त्रिदारकदारिकविग्रहं वा. उद्यानविमानपोवन(?)आरामरमणीयकानि. पुष्करणीरमणीयकानि वा वनरमणीयकानि वा, यत्र विविधास् तरणोपस्तररिअप्रत्यास्तरनानि. पुष्पमाल्यगुणां वा खादनीयभोजनीयानि वा दर्शयेद्, गीतवादितेन वा जनं रमयेत्. दानं वा ददंच् छीलं वा रक्षन् क्षान्त्या वा संपादयन् वीर्यं वा आरभमाणः समाधिर् वा विक्रीनुन् प्रज्ञां वा भावयन्. स तत्रैभिर् आकारैर् जनं रमयेत्, क्षत्रियमहासालकुलानि वा दर्शयेत् ब्राह्मणमहासालकुलानि वा गृहपतिमहासालकुलानि वा दर्शयेत्. चातुर्महाराजकायिकान् वा देवान् वा दर्शयेत्, सुमेरुं वा दर्शयेत्, त्रयस्त्रिंशान् वा यामान् वा तुषितान् वा निर्मणरतीं वा परनिर्मितवशवर्तिनो वा देवान् यावन् नैवसंज्ञानासंज्ञायतनोपगात्वा देवान् दर्शयेद्, अरूपिण स्रोतआपन्नं वा सकृदागामिनो वा अनागामिनो वा अर्हन्तो वा प्रत्येकबुद्धान् वा. ये ऽपि ते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय दानपारमितायां चरन्ति. शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्ति. प्रथमायां भूमौ चरन्ति. यावद् दशम्यां महाभूमौ चरन्ति. बोधिसत्त्वन्यामम् अवक्रामन्त्य् अभिज्ञाम् अभिनिर्हरन्ति. ताभिर् अभिज्ञाभिर् विक्रीडन्ति सत्त्वांश् (Aद्SPG II ७०) च परिपाचयन्ति. बुद्धक्षेत्रं च परिशोधयन्ति. ध्यानविमोक्षसमाधिसमापत्तिभिर् विक्रीडन्ति. अङ्गप्रत्यङ्गानि वा परित्यजन्ति. दुष्करचर्यान् वा चरन्ति. तथागतबलानि वा निष्पादयन्ति. वैशारद्यानि वा प्रतिसंविदो वा महामैत्रीं महाकरुणां वा तान् अपि दर्शयेत्. सर्वाङ्गप्रत्यङ्गपरिपूर्णं बुद्धविग्रहं वा आदर्शयेत्. तत्र बालजतीया सत्त्वा एवं जानीयुह्: अहो यावत् सुशिक्षितो ऽयं मनुष्यः कथं शोभनं करोति. यद् इमं जनम् एवं रमयत्य् एवं विविधानि च रूपाण्य् आदर्शयति. यावद् बुद्धविग्रहं वा. ये खलु पुनस् तत्र मनुष्या भवन्ति पण्डिता व्यक्ता मेधाविनः तद्रूपया मीमांसया समन्वागता तेषाम् एवं भवत्य्. आश्चर्यम् इदम् अद्भुतधर्मो न चात्र कश्चिद् धर्म उपलभ्यते. अयं च मनुष्य इमां जनताम् एवम् असद्भिर् धर्मैर् रमयति. तां च सत्त्वसंज्ञान् नोपलभते. अद्रव्ये वतेमे सत्त्वा द्रव्यसंज्ञिन इति. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वो न कश्चिद् धर्मन् धर्मधातुविनिर्मुक्तं पश्यति. प्रज्ञापारमितायां चरन्न् उपायकौशलेन न च सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं.
SK
(VIII ५,५). स आत्मना च दानं ददाति परं च दाने समादापयति. दानस्य च वर्णं भाषते. ये ऽप्य् अन्ये सत्त्वा दानं ददन्ति तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च शीलं रक्षति. परं च शीले समादापयति. शीलस्य च वर्णं भाषते ये ऽप्य् अन्ये शीलं रक्षन्ति. तेषां च वर्णवादी [f. २८७अ] भवति समनुज्ञः. एवम् आत्मना च क्षान्तिं भावयंति. परं च क्षान्तौ समादापयति. क्षान्तेश् च वर्णं भाषते. ये ऽप्य् अन्ये क्षान्तिं भावयन्ति तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च वीर्यम् आरभते. परं च वीर्ये समादापयति. वीर्यस्य च वर्णं भाषते. ये ऽप्य् अन्ये वीर्यम् आरभन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च समाधिं समापद्यन्ते. परं च समाधौ समादापयति. समाधेश् च वर्णं भाषते ये ऽप्य् अन्ये समाधिं समापद्यन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च प्रज्ञानि भावयति. परं च प्रज्ञायां समादापयति प्रज्ञायाश् च वर्णं भाषते. ये ऽप्य् अन्ये प्रज्ञां भावयन्ति. तेषां च वर्णवादी भवति: समनुज्ञः.
SK
(VIII ५,६) आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तन्ते परं च दशसु कुशलेषु कर्मपथेषु समादापयति. दशानां च कुशलानां कर्मपत्ः आनां च वर्णं भाषते. ये ऽप्य् अन्ये (Aद्SPG II ७१) सत्त्वा दशकुशलान् कर्मपथान् समादाय वर्तन्ते तेषां च वर्णवादी भवति समनुज्ञः. आत्मना च अष्टाङ्गसमन्वागतं पोषधम् उपवसन्ति. परं च अष्टाङ्गसमन्वागते पोषधे समादापयति: अष्टाङ्गसमन्वागतस्य च पोषधस्य वर्णं भाषते. ये च अन्ये सत्त्वा अष्टाङ्गसममन्वागतं पोषधम् उपवसन्ति. तेषां च वर्णवादी भवति समनुज्ञः. आतमना च पञ्चशिक्षापदानि समादाय वर्तन्ते. परं च पञ्चसु शिक्षापदेषु समादापयन्ति. पञ्चानां च शिक्षापदानां वर्णं भाषते. ये च अन्ये सत्त्वा पञ्चशिक्षापदानि समादाय वर्तन्ते तेषांच वर्णवादी भवति समनुज्ञः. एवम् आत्मना च प्रथमं ध्यानं समापद्यते याव चतुर्थं मैत्रीं करुणां मुदितां उपेक्षाम् आकाशानन्त्यायतनसमापत्तिं यावन् नैवसंज्ञनासंज्ञायतनसमापत्तिं. आत्मना च स्मृत्युपस्थानानि भावयति. यावद् आर्याष्टांगं मार्गं त्रीणि विमोक्षमुखानि अष्टौ विमोक्षान् नवानुपूर्वसमापत्तीर् दशतथागतबलानि. चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्रीं महाकरुणाम् अष्टादशावेणिकान् बुद्धधर्मान् अशीतिम् अनुव्यञ्जनानि भावयति. परं च अशीत्याम् अनुव्यञ्जनेषु समादापयति. अशीतिर् अनुव्यञ्जनानां वर्णं भाषते ये ऽप्य् अन्ये सत्त्वा अशीतिम् अनुव्यञ्जनानि भावयन्ति. तेषां च वर्णवादी भवति समनुज्ञः.
SK
(VIII ५,७) यदि सुभूते धर्मधातुर् यथा पूर्वं तथा पश्चात् तथा मध्ये नाभविष्यत्. न बोधिसत्त्वो महासत्त्व उपायकौशलेन सत्त्वानां धर्मधातुं सूचयति. सत्त्वांश् च परिपाचयिष्यति. यस्मात् तर्हि सुभूते धर्मधातुर् यथा पूर्वं तथा पश्चात् तथा मध्ये, तस्माद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वानां धर्मधातुं सूचयति. सत्त्वानाम् अर्थाय बोधिसत्त्वचारिकां चरति. सत्त्वांश् च परिपाचयति.
SK
// सर्वधर्मसमतानिर्देशपरिवर्त्तः.
SK
परिवर्त ७५. अकोप्यनिर्देश
SK
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अत्यन्ततया सत्त्वो नोपलभ्यते, न सत्त्वप्रज्ञप्तिः, कस्य अर्थाय बोधिसत्त्वो महासत्त्व प्रज्ञापारमितां भावयति?
आह: यदि भगवन् भुतकोटिः सत्त्वकोटिस्, तत् किं भूतकोटिर् भूतकोट्यां प्रतिष्ठापयति? [f. २८७ब्] यदि भगवं भूतकोटिर् भूतकोट्यां प्रतितिष्ठेत्, ततः स्वभावः स्वभावे प्रतितिष्ठेत्. न च भगवं स्वभाव स्वभावे प्रतितिष्ठति. कथं भगवन् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति?
SK
भगवान् आह: न सुभूते भूतकोटिर् भूतकोट्यां प्रतितिष्ठते. न स्वभाव स्वभावे प्रतितिष्ठते. अपि तु खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वकोटिर् भूतकोट्यां प्रतिष्ठापयति. न च अन्या भूतकोटिर् अन्या सत्त्वकोटिर्, इति हि सत्त्वकोटिश् च भूतकोटिश् च अद्वयम् एतद् अद्वैधीकारं.
SK
आह: कतमद् भगवन् बोधिसत्त्वानां महासत्त्वानाम् उपायकौशलं येन उपायकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सत्त्वान् भूतकोट्यां प्रतिष्ठापयति न च भूतकोटिं विकोपयति?
SK
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादम् उपादाय सत्त्वान् दाने प्रतिष्ठापयति. दाने प्रतिष्ठाप्य तस्य दानस्य पूर्वान्तापरान्तमध्यम् आचष्टे. यथैव तद् दानं पूर्वान्ततः शून्यम् अपरान्ततः. शून्यं मधयतः शून्यं, तथैव दानफलम् अपि शून्यं. दानपतिर् अपि शून्यः. प्रतिग्राहको ऽपि शून्यः. एवं कुलपुत्रा: सर्व एते ऽर्था भूतकोट्यां न संविद्यन्ते. मा च अन्यद् दानं मंस्यसे ऽन्यद् दानफलं मा च अन्यद् दानपतिं मंस्यसे ऽन्यं प्रतिग्राहकं. यदा त्वं कुलपुत्र न अन्यद् दानं मंस्यसे ऽन्यद् दानफलं. नान्यद् (Aद्SPG II ७३) दानपतिं मंस्यसे ऽन्यं प्रतिग्राहकं. तदा तवेदं दानम् अमृतं भविष्यत्य् अमृतफलपर्यवसानम्. अनेन च दानेन मा रूपं परिग्रहीर् मा वेदनां संज्ञां मा संस्कारान् मा विज्ञानं परिग्रही. तत् कस्य हेतोर्? यथा ह्य् एतद् दानं शून्यं दानेन. अस्य फलं शून्यं फलेन. दानपतिर् अपि शून्यो दानपतिना. प्रतिग्राहको ऽपि शून्य प्रतिग्राहकेण, न शून्यतायां दानम् उपलभ्यते. न दानफलं न दानपतिर् न प्रतिग्राहकः उपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अत्यन्ततया एते धर्मा स्वभावेन शून्या. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वान् शीले प्रतिष्ठापयति. एहि त्वं कुलपुत्र प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरम. यावत् मिथ्यादृष्टिं प्रहाय: मिथ्यादृष्टिं प्रतिविरम. नैषां कुलपुत्र धर्माणांकश्चित् स्वभावः संविद्यते: यथा ते परिकल्पितः, हन्त तावत् कुलपुत्र व्युपपरीक्षस्व: कतम एष धर्मः प्राणीनाम् अयं जीवितान् व्यपरोपयिष्यसि. येन वा व्यपरोपयिष्यसि. यावन् मिथ्यादृष्टे कर्तव्यं. अनेन च सुभूते उपायकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सत्त्वान् परिपाचयति. स तस्य दानस्य च शीलस्य च फलम् आचष्टे. तद् अपि दानफलं च शीलफलं च स्वभावेन शून्यं. ततः स कुलपुत्रो दानस्य च शीलस्य च फलं शून्यम् इति विदित्वा तत्र न अभिनिविशते. अनभिनिविशमान अविक्षेपम् उत्पाद्य प्रज्ञाम् उत्पादयति. यया प्रज्ञया सर्व अनुशयपर्युत्थनानि च्छित्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वाति. लोकव्यवहारेण न पुनः परमार्थेन, तत् कस्य हेतोः? न हि शून्यतायां कश्चिद् धर्म उपलभ्यते. यः परिनिर्वायाद् वा परिनिर्वापितो वा. अपि तु खलु तद् एव अस्य परिनिर्वाणं यदुत [f. २८८अ] अत्यन्तशून्यता. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः परसत्त्वान् परपुद्गलान् क्षुभितान् व्यापन्नचित्तान् दृष्ट्वा एवम् अववदत्य् एवम् अनुशास्ति. एहि त्वं कुलपुत्र क्षान्त्या संपादय क्षान्तिञ् च भावय (Aद्SPG II ७४) अधिवासनजातीयो भव, यो वा व्यापद्यते. येन वा व्यापद्यसे. यत्र वा व्यापद्यसे: सर्व एते धर्माः प्रकृतिशून्या, हन्त तावत् कुलपुत्र व्युपपरीक्ष्व को ऽत्र व्यापद्यते. कस्मिं व्यापद्ये. केन वा व्यापद्ये: सर्व एते धर्माः प्रकृतिशून्या. या च प्रकृतिशून्यता न सा जातु न शून्यता, सा न तथागतैः कृता न प्रत्येकबुद्धैर् न श्रावकैर् न बोधिसत्त्वैर् न देवैर् न नागैर् न यक्षैर् न गन्धर्वैर् न किन्नरैर् न महोरगैर् न चातुर्महाराजकायिकैर् देवैर् यावन् न परनिर्मितवशवर्तिभिः न ब्रह्माभिर् यावन् न शुभकृत्स्नैर् न शुद्धावासैर् यावन् न नैवसंज्ञानासंज्ञायतनोपगैर् देवैः. तद् हन्त तावत् कुलपुत्र व्युपपपरीक्षस्व को ऽत्र व्यापद्यते कस्य वा व्यापद्ये. केन वा व्यापद्ये: सर्व एते धर्माः प्रकृतिशून्याः. न हि शून्यता कस्यचिद् अन्तिके व्यापद्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरं सत्त्वान् उपायकौशलेन प्रकृतिशून्यतायां नियोजयत्य्. अपि हेताव् अपि फले. प्रकृतिशून्यतायां नियोजयन्न् अनुपूर्वेण अनुत्तरस्यां सम्यक्संबोधौ संहर्षयति समादापयति निवेशयति. प्रतिष्ठापयति. तत् पुनर् लोकव्यवहारेण न पुनः परमार्थेन. तत् कस्य हेतोर्? न हि प्रकृतिशून्यतायां कश्चिद् अस्ति यः प्राप्नुयाद् येन वा प्राप्नुयाद् यद् वा प्राप्नुयात्. इयं सुभूते भूतकोटिः प्रकृतिशून्यता यत्र बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरति. सत्त्वानां कृते, न च तत्र सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिं. तत् कस्य हेतोः? सत्त्वविविक्ता हि सर्वधर्माः. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वां हीनवीर्यान् कुसीदान् दृष्ट्वा एवं कायिके चैतसिके वीर्ये समादापयति. न हि कुलपुत्र: प्रकृतिशून्यतायां कस्यचिद् धर्मस्य संसीदना विद्यते. यत्र संसीदेद् येन वा संसीदेद् यो वा संसीदेत्, सर्व एते धर्माः प्रकृतिशून्यताया न व्यतिवर्तन्ते. हन्तेदानिं कायिकं चैतसिकं च वीर्यं संजनय्य कौसीद्यम् उत्सृज्य कुशलेषु धर्मेषु प्रयुज्यस्व: यदि वा दाने यदि वा शीले यदि वा क्षान्तौ यदि वा वीर्ये. यदि वा ध्याने यदि वा प्रज्ञायां. यदि वा ध्यानविमोक्षसमाधिसमापत्तिषु यदि वा स्मृत्युपस्थानेषु यदि वा यावद् आर्याष्टाङ्गे मार्गे (Aद्SPG II ७५) यदि वा शून्यतायां यदि वा आनिमित्ते यदि वा अप्रणिहिते: यदि वा सर्वबुद्धधर्मेषु: सर्वान् एतान् कुलपुत्र धर्मान् अनावरणान् प्रेक्षस्व शून्यताया, न ह्य् अनावरणेषु धर्मेषु कस्यचिद् धर्मस्य संसीदना संविद्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन प्रकृतिशून्यतायां सत्त्वां समादापयति. निवेशयति. प्रतिष्ठापयति. तथा पुनः प्रतिष्ठापयति. यत्र द्वयन् न विद्यते. तत् कस्य हेतोः? अद्वया हि प्रकृतिशून्यता अद्वैधीकारा, न ह्य् अद्वयो धर्मः न क्वचित् संसीदति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्नापारमितायां चरन् प्रकृतिशून्यतया वीर्ये सत्त्वान् अववदत्य् अनुशास्ति. एहि त्वं कुलपुत्र वीर्यम् आरभस्व यदि वा दाने यदि वा शीले यदि वा क्षान्तौ. यदि वा वीर्ये यदि वा ध्याने यदि वा प्रज्ञे. यदि वा स्मृत्युपस्थानेषु यदि वा यावद् आर्याष्टाङ्गे मार्गे. यदि वा अष्टासु विमोक्षेषु यदि वा नवस्व् अनुपूर्वसमापत्तिषु. यदि वा दशसु तथागतबलेषु यदि वा चतुर्षु वैशारद्येषु. यदि वा चतसृषु प्रतिसंवित्सु यदि वा महामैत्र्यां यदि वा महाकरुणायां यदि वा अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, मा चैतान् धर्मान् द्वयतो मनसिकार्षीर् मा अद्वयत, तत् कस्य हेतोः? [f. २८८ब्] प्रकृतिशून्यतैते धर्माः, न च प्रकृतिशून्यता द्वयतो मनसिकर्तव्या न अद्वयतः. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन बोधिसत्त्वचारिकां चरं सत्त्वां परिपाचयति. सत्त्वां परिपाच्य अनुपूर्वेण स्रोतआपत्तिफले प्रतिष्ठापयति. सकृदागामिफले अनागामिफले अर्हत्त्वे प्रत्येकबोधौ यावद् अनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठापयति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्नापारमितायां चरन्न् उपायकौशलेन विक्षिप्तचित्तान् सत्त्वान् एवम् अववदति. एवम् अनुशास्ति, एहि त्वं कुलपुत्र समाधिं भावय, मा विक्षेपसंज्नी मा समाधिसंज्ञी भूः. तत् कस्य हेतोः? प्रकृतिशून्यतैते धर्म, न च प्रकृतिशून्यतायां कश्चिद् धर्म उपलभ्यते यो विक्षिप्यते एकाग्रि भवति वा. स त्वम् अत्र समाधौ स्थित्वा यद् यद् एव कुशलमूलं करिष्यसि कायेन वा. वाचा वा मनसा वा. यदि वा दानं दास्यसि. यदि वा शीलं रक्षस्यसि. यदि वा क्षान्त्या संपादयिष्यसि. यदि वा वीर्यम् आरप्स्यसे, यदि वा समाधिम् उत्पादयिष्यसि. यदि वा प्रज्ञां भावयिष्यसि. यदि वा स्मृत्युपस्थानेषु चरिष्यसि. (Aद्SPG II ७६) यदि वा यावद् आर्याष्टाङ्गे मार्गे. यदि वा त्रिषु विमोक्षमुखेषु यदि वा अष्टासु विमोक्षेषु यदि वा नवस्व् अनुपूर्वसमापत्तिषु. यदि वा दशसु तथागतबलेषु. यदि वा चतुर्षु वैशारद्येषु यदि वा चतसृषु प्रतिसंवित्सु: यदि वा महामैत्र्यां यदि वा महाकरुणायां महामुदितायां महोपेक्षायां यदि वा अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु: यदि वा द्वातृंशतिमहापुरुषलक्षणेषु यदि वा अशीत्याम् अनुव्यंजनेषु. यदि वा श्रावकमार्गे यदि वा प्रत्येकबुद्धमार्गे. यदि वा बोधिसत्त्वमार्गे. यदि वा बुद्धमार्गे. यदि वा स्रोतआपत्तिफले यदि वा सकृदागामिफले. यदि वा अनागामिफले. यदि वा अर्हत्त्वे. यदि वा प्रत्येकबोधौ. यदि वा सर्वाकारज्ञतायां. यदि वा सत्त्वपरिपाके यदि वा बुद्धक्षेत्रपरिशुद्धौ, तस्य ते. इमे कुशला धर्मा अल्पकृच्छ्रेण प्रादुर्भविष्यन्ति प्रकृतिशून्यतायां चरतह्: एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वानाम् अर्थं करोति, प्रथमचित्तोत्पादम् उपादायज्न जात्व् अकर्मको भवति. किं कुशलगवेषी सत्त्वानाम् अर्थं कुर्वं. बुद्धक्षेत्राद् बुद्धक्षेत्रं सततसमितं संक्रामति. बुद्धां भगवतः पर्युपासिनह्: यञ् च तेशां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृणोति. तस्य जातिव्यतिवृत्तस्य अपि न जातु विप्रणश्यति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. धारणीप्रतिलब्धश् च सततसमितं भवति. अहीनेन्द्रियो. यदि वा कायेन्द्रियेण यदि वा वागिन्द्रियेण: यदि वा मनैन्द्रियेण. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञता सततसमितं सुभाविता, तेन अनया सर्वाकारज्ञतया सुभावितया सर्वमार्गा. सुभाविता भवन्ति: यदि वा श्रावकमार्गो यदि वा प्रत्येकबुद्धमार्गो यदि वा बोधिसत्त्वमार्गः. तस्य अभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य सततसमितम् उपकारीभूता भवन्त्य् अविप्रणाशयोगेन. स तासु विपाकीयास्व् अभिज्ञासु स्थित्वा सत्त्वानाम् अर्थं करोति. न च परिहीयते पंचगतिके संसारे संसरन्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रकृतिशून्यतायां स्थितो उपायकौशलेन सत्त्वानाम् अर्थं करोति. स तया प्रज्ञापारमितया सुभावितया सत्त्वान् एवम् अववदत्य् एवं अनुशास्ति. एहि त्वं कुलपुत्र यद् यद् एव कर्म करोषि. कायेन वा वाचा वा मनसा वा तत् सर्वं प्रकृतिशून्यम् (Aद्SPG II ७७) एवं प्रत्यवेक्षस्व, तस्य ते सर्वं कर्मामृतफलं भविष्यत्य् अमृतपर्यवासनं. न च प्रकृतिशून्यतायां कश्चिद् धर्म उपलभ्यते. यो विनश्येद् यो वा परिहीयेत. [f. २८९अ] तत् कस्य हेतोः? न हि प्रकृतिशून्यता परिहीयते नापि प्रकृतिशून्यताया कश्चिद् धर्मः परिहीयते. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता न भावो न अभावः. तत् किम् अभावस्वभावेषु धर्मेषु परिहास्यते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वान् अववदत्य् अनुशास्ति. एवम् अववदन्न् एवम् अनुशासन् न जात्व् अकर्मको भवति. स आत्मना च दशकुशलेषु कर्मपथेषु सततसमितं वर्तते. परं च दशकुशलेषु कर्मपथेषु समादापयति. एवं पंचसु शिक्षापदेष्व् अष्टाङ्गसमन्वागते उपवासे, आत्मना च. प्रथमध्यानं समापद्यते परं च प्रथमे ध्याने समादापयति. एवं यावच् चतुर्थे ध्याने. आत्मना च सततसमितं मैत्रीविहारी भवति परं च सततसमितं मैत्रीभावनायां समादापयति. एवं करुणायां मुदितायाम् उपेक्षायां यावन्. नैवसंज्ञानासंज्ञायतनसमापत्तौ, आत्मना च स्मृत्युपस्थानं भावयति. परं च स्मृत्युपस्थानेषु समादापयति. एवं यावद् आर्याष्टाङ्गे मार्गे. आत्मना च दशसु तथागतबलेषु शिक्षते. परं च दशसु तथागतबलेषु समादापयति. निवेशयति विनयति प्रतिष्ठापयति. एवं यावद् अशीत्याम् अनुव्यञ्जनेषु, आत्मना च स्रोतआपत्तिफलज्ञानम् उत्पादयति. न च तत्र अवतिष्ठते. परं च स्रोतआपत्तिफले प्रतिष्ठापयति. एवं यावद् अर्हत्त्वे प्रत्येकबोधौ, आत्मना च अनुत्तरस्याम्: सम्यक्संबोधेर् मार्गम् उत्पादयति. परं च तत्र मार्गे ऽवदत्य् अनुशास्ति निवेशयति. विनयति प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन न कदाचित् कर्म न करोति.
SK
आह: यदि भगवं. प्रकृतिशून्याः सर्वधर्माः न च प्रकृतिशून्यतायां सत्त्वम् उपलभ्यते, न धर्मो न अधर्मस्, तत् कथं भगवं बोधिसत्त्वो महासत्त्व सर्वाकारज्ञतायैः संप्रतिष्ठते?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथा यथा वदसि, प्रकृतिशून्याः सर्वधर्माः, न च प्रकृतिशुन्यतायां सत्त्वम् उपलभ्यते, (Aद्SPG II ७८) न धर्मो न अधर्मः, यदि पुनः सुभूते नप्रकृतिशून्या सर्वधर्माः भवेयुर् न बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतायां प्रतितिष्ठेत्. न अस्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य प्रकृतिशून्यान् धर्मान् देशयेत्. रूपं सुभूते प्रकृतिशून्यं, वेदनासंज्ञासंस्काराविज्ञानं सुभूते प्रकृतिशून्यं. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् पञ्चस्कन्धाः प्रकृतिशून्या इति धर्मन् देशयति. अष्टादशधातवो द्वादशायतनानि प्रकृतिशून्या इति धर्मन् देशयति. चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्रः आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टाङ्गो मार्ग प्रकृतिशून्य इति धर्मन् देशयति. त्रीणि विमोक्षमुखान्य् अष्टौ विमोक्षा नवानुपूर्वसमापत्तयो. दशतथागतबलानि चत्वारि वैशारद्यानि. चतस्रः प्रतिसंविदो महामैत्री महाकरुणा महामुदिता महोपेक्षा अष्टादशावेणिका बुद्धधर्मा द्वातृंशन् महापुरुषलक्षणानि अशीतिर् अनुव्यञ्जनानि प्रकृतिशून्यान् इति धर्मन् देशयति. स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलं. अर्हत्त्वं प्रत्येकबोधिः सर्वाकारज्ञता सर्ववासनानुसन्धिक्लेशप्रहाणं प्रकृतिशून्य् [f. २८९ब्] अम् इति धर्मन् देशयति. यदि पुनः सुभूते ऽध्यात्मशून्यता न प्रकृतिशून्याभविष्यन् न बोधिसत्त्वो महासत्त्वः प्रकृतिशून्याः सर्वधर्मा इति धर्मन् देशयिष्यन्. एवं बहिर्द्धाशून्यता आध्यात्मबहिर्द्धाशून्यता शून्यताशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता न प्रकृतिशून्या भवेत्? तद् विनाशिता प्रकृतिशून्यता भवेन्, न च प्रकृतिशून्यता विनश्यति. न कूटस्थो भवति. नापि सा पुनर् अवक्रामति. तत् कस्य हेतोः? न हि सा देशस्था न प्रदेशस्था, न हि सा कुतश्चिद् आगच्छति न क्वचिद् गच्छति. एषा सा धर्मस्थितिता यत्र न कस्यचिद् धर्मस्य आचयो वा अपचयो वा उपलभ्यते. हानिर् वा वृद्धिर् वा उत्पादो वा निरोधो वा संक्लेशो वा वयवदानं वा. एषा सा प्रकृतिर् धर्माणां यत्र स्थित्वा बोधिसत्त्वा महासत्त्वा अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठन्ते. न च कस्यचिद् धर्मस्य (Aद्SPG II ७९) प्रस्थानं समनुपश्यति न अप्रस्थानं. असंप्रस्थिता. अस्थिता हि सर्वधर्माः. एषा सा धर्माणां धर्मस्थिता, तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् प्रकृतिशून्यान् दृष्ट्वा न प्रत्युदावर्त्तते ऽनुत्तरस्याः सम्यक्संबोधेः. तत् कस्य हेतोस्? तथा हि स न कस्यचिद् धर्मस्य आवरणं समनुपश्यति. अनावरणान् सर्वधर्मान् समनुपश्यति. तत् किं विचिकित्सिष्यत्य् अनुत्तरस्या सम्यक्संबोधेः. यत्र प्रकृतिशून्यतायां न सत्त्व उपलभ्यते न सत्त्वप्रज्ञप्तिं न आत्मा न जीवो न पोषो न पुद्गलो न जन्तुर् न मनुजो न मानवो न कारको न कारापको न वेदको न वेदयिता न उत्थापको न जनको न पश्यक उपलभ्यते. न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानम् उपलभ्यते. एवम् आध्यात्मिकबाह्या धर्माः कर्तव्याः यावद् अशीतिर् अनुव्यञ्जनानि.
SK
(VIII ५,८) तद्यथापि नाम सुभूते तथागतनिर्मितो निर्मितस्य भिक्षोर् भिक्षुण्या वा उपासकस्य वा उपासिकाया वा अनुप्रबन्धं कल्पनियुतं धर्मन् देशयेत्, तत् किं मन्यसे सुभूते अपि नु ते निर्मिता भव्या स्रोतआपत्तिफलम् अनुप्राप्तुं सकृदागामिफलम् अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा अनुत्तरां वा सम्यक्संबोधिम् अनुप्राप्तुं?
SK
आह: नो हीदं भगवन्. तत् कस्य हेतोस्? तथा हि तेषां वस्तु नास्ति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. अवस्तुकानां सर्वधर्माणां कतम स सत्त्वो यम् बोधिसत्त्वो महासत्त्वो निवेशयेत् स्रोतआपत्तिफले वा सकृदागामिफले वा अनागामिफले वा अर्हत्त्वे वा प्रत्येकबोधौ वा अनुत्तरायां वा सम्यक्संबोधौ, अन्यत्र विपर्यासपर्यवनद्धः प्रज्ञा अविपर्यासे निवेशयति प्रतिष्ठापयति. य एव विपर्यास स एव अविपर्यास. कल्पनिष्यन्दम् उपादाय. अविकल्पश् च अविपर्यास, यत्र विपर्यासो नास्ति तत्र न आत्मा न सत्त्वो यावन् न जनको न पश्यकः, तत्र न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं यावन् न बोधिः, यत्र न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं. यावन् न बोधिः, एषा सा प्रकृतिशून्यता. यत्र स्थित्वा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् विपर्यासां सत्त्वान् सत्त्वसंज्ञायां मोचयति. एवं रूपसंज्ञायात् अरूपसंज्ञायान् मोचयति. यावत् सर्वेभ्यः सास्रवेभ्यो धर्मेभ्यो मोचयति. (Aद्SPG II ८०) ये ऽपि ते [f. २९०अ] अनास्रवा धर्मास् तद्यथा चत्वारि स्मृत्युपस्थानानि. चत्वारि सम्यक्प्रहाणानि चत्वारर्द्धिपादा पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यंगान्य् आर्याष्टांगो मार्ग त्रिणि विमोक्षमुखानि यावद् अष्टादशावेणिका बुद्धधर्माः, तद् अपि न तथा परमार्थः, यदुत असंस्कृतम् अनुत्पादः अभावः अप्रादुर्भावः एषा सा प्रकृतिशून्यता, एषा सा बुद्धानां भगवतां बोधिः, यत्र न सत्त्वो यावन् न जनको न पश्यकः, न रूपं न वेदना स संज्ञा न संस्कारा न विज्ञानं. एवं विस्तरेण कर्तव्यं. यावद् अशीतिर् अनुव्यञ्जनानि. न हि बोधिसत्त्वो महासत्त्वो मार्गस्य कृते ऽनुत्तरस्यै सम्यक्संबोधये ऽभिप्रतिष्ठते. अन्यत्रप्रकृतिशून्यतापरिज्ञान अर्थे. सा अपि प्रकृतिशून्यता पूर्वे वा सा प्रकृतिशून्यता, पश्चाद् वा सा प्रकृतिशून्यता. मध्ये वा सा प्रकृतिशून्यता, न सा जातु न प्रकृतिशून्यता. तद् बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यतापारमितासु चरं सत्त्वानां सत्त्वसंज्ञीनां सर्वसंज्ञाप्रमोक्षण अर्थं मार्गाकारज्ञातायां चरति. स मार्गाकारज्ञतायां चरन् सर्वमार्गेषु चरति. यदुत श्रावकमार्गे प्रत्येकबुद्धमार्गे बोधिसत्त्वमार्गे. स खलु पुनर् बोधिसत्त्वो महासत्त्व सर्वमार्गान् परिपूर्य सत्त्वां परिपाच्य बुद्धक्षेत्रं परिशोध्य आयुह्संस्कारान् अधिष्टाय अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. बुद्धनेत्रिं न व्यवच्छिन्नत्ति यदुत प्रकृतिशून्यतां. एषा सा बुद्धानां भगवतां बुद्धनेत्रि, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि बुद्धा भगवन्तस् तेषाम् अपि बुद्धानां भगवताम् इयं बुद्धनेत्री यदुत प्रकृतिशून्यता, ये ऽपि ते अनागते ऽध्वनि भविष्यन्ति बुद्धा भगवन्तस् तेषाम् अपि बुद्धानां भगवताम् इयं बुद्धनेत्री यदुत प्रकृतिशून्यता: ये ऽपि ते एतर्हि दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति तेषाम् अपि बुद्धानां भगवताम् इयं बुद्धनेत्रि यदुत प्रकृतिशून्यता. न ह्य् अन्यतः प्रकृतिशून्यताया लोकप्रादुर्भावो भवत्य् अन्यत्र बुद्धानां भगवताम् अन्तिकात्, तथा बोधिसत्त्वेन महासत्त्वेन प्रकृतिशून्यतापारमितासु चरितव्यं, यत्र चरं बोधिसत्त्वो महासत्त्वो न परिहीयते सर्वाकारज्ञतया.
भगवान् आह: यदि सुभूते अन्यद् रूपं भवेद् अन्या प्रकृतिशून्यता. अन्या वेदनासंज्ञासंस्काराविज्ञानं भवेद् अन्या प्रकृतिशून्यता. यावद् अन्या बोधिर् भवेद् अन्या प्रकृतिशून्यता. यदि सुभूते रूपं न प्रकृतिशून्यं भवेन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरांसम्यक्संबोधिम् अभिसंबुद्ध्येत. एवं वेदनासंज्ञासंस्कारा, यदि विज्ञानं न प्रकृतिशून्यं भवेन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत, यावद् यदि बोधिर् न प्रकृति [f. २९०ब्] शून्यता भवेन् न बोधिसत्त्वो महासत्त्वो ऽन्य्त्तरां सम्यक्संबोधिम् अभिसंबुध्येत. यस्मात् तर्हि सुभूते रूपं प्रकृतिशून्यं वेदनासंज्ञासंस्काराविज्ञानं प्रकृतिशून्यं, यावद् बोधिः प्रकृतिशून्या: तस्माद् बोधिसत्त्वो महासत्त्वः प्रकृतिशून्यान् सर्वधर्मान् विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. तत् कस्य हेतोः? न ह्य् अत्र कश्चिद् धर्मो विनश्यति वा कूटस्थो वा भवत्य् अवक्रामति वा, अन्यत्र सदेवको लोकः समारकः सब्रह्मकः सो मूढः इदं रूपम् अहं रूपं मम रूपं. यावद् इदं विज्ञानम् अहं विज्ञानं मम विज्ञानं, ते रूपम् अभिनिविश्य यावद् विज्ञानम् अभिनिविश्य अहंकारममकारयोश् चरन्ति. अहंकारममकारयोर् अभिनिविश्य अध्यात्मिकबाह्येषु (Aद्SPG II ८२) वस्तुष्व् अभिनिविश्यन्ते, अभिनिविश्य उपपद्य आयतनेषु उपाददाते. रूपं वेदनां संज्ञां संस्कारान् विज्ञानं, ते न परिमुच्यन्ते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो, न परिमुच्यन्ते. पञ्चगतिकात् संसारात्, तद् बोधिसत्त्वो महासत्त्व प्रकृतिशून्यतापारमितासु चरन् रूपं न विकोपयति. शून्यं वा न वाशून्यम् इति. वेदनासंज्ञासंस्कारान्, विज्ञानं न विकोपयति. शून्यं वा न वाशून्यम् इति. यावद् बोधिं न विकोपयति शून्यं वा न वाशून्यम् इति. तत् कस्य हेतोः? न हि रूपशून्यता रूपं विकोपयति. इदं रूपम् इयं रूपशून्यता यावद् इयं विज्ञानम् इयं विज्ञानशून्यता यावद् इयं बोधिर् इयं बोद्धिशून्यता. तद्यथापि नाम सुभूते न आकाशम् आकाशं विकोपयति. नाध्यात्मिकम् आकाशं बाह्यम् आकाशं विकोपयति. न बाह्यम् आकाशम् आध्यात्मिकम् आकाशं विकोपयति. एवम् एव सुभूते न रूपं शून्यतां विकोपयति. न वेदनासंज्ञासंस्काराविज्ञानं शून्यतां विकोपयति. न शून्यता विज्ञानं विकोपयति. यावन् न बोधिः शून्यतां विकोपयति. न शून्यता बोधिं विकोपयति. तत् कस्य हेतोः? न ह्य् एषां स्वभावो ऽस्ति य एवं विकोपयेद्. इदं रूपम् इयं शून्यता इयं वेदनासंज्ञासंस्काराविज्ञानम् इयं शून्यता यावद् इयं बोधिर् इयं शून्यता.
SK
सुभूतिर् आह: यदि भगवन्न् अभेदः सर्वधर्माः, कुतो बोधिसत्त्वो महासत्त्व संप्रस्थितो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति? न च भगवन् द्वैधीकारो बोधिर् न च द्विधीकुर्वता शक्यम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतद्, न द्वये चरतो बोधिर् न द्वैधीकारो बोधि, अद्वयं हि सुभूते बोधिर् अद्वैधीकारा, न सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिर् द्वैधीकारे चरति बोधिर् इति बोधिसत्त्व इति वा. सा च बोधिसत्त्वस्य महासत्त्वस्य बोधिर् न रूपे चरति. न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति. यावन् न बोधौ चरति. तत् कस्य हेतोः? न हि बोधिर् अहम् इति वा ममैति वा, अहं रूपे चरेयं मम रूपं, अहं वेदनायां संज्ञायां संस्कारेष्व् अहं विज्ञाने चरेयं मम विज्ञानं, (Aद्SPG II ८३) यावद् अहं बोधौ चरेयं मम बोधिः. न च बोधिसत्त्वस्य महासत्त्वस्य बोधिर् उगृह्णे वा अनुद्गृह्णे वा चरति.
SK
सुभूतिर् आह: यदि भगवं बोधिसत्त्वस्य महासत्त्वस्य बोधिर् न उद्गृह्णे चरति न अनुद्गृह्णे. कुह बोधिसत्त्वस्य महासत्त्वस्य बोधिश् चरति?
SK
भगवान् आह: तत् किं मन्यसे सुभूते कुह तथागतस्य निर्मितस्य बोधिश् चरति. उद्गृह्णे वा अनुद्गृह्णे वा चरति?
SK
आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किं मन्यसे सुभूते अर्हतः स्वप्नान्तरगतस्य बुद्धि. कुह चरति. उद्गृह्णे वा अनुद्गृह्णे वा?
भगवान् आह: एवम् एव सुभूते न बोधिसत्त्वस्य महासत्त्वस्य बोधिश् चरत्य् उद्गृह्णे व अनुद्गृह्णे वा.
SK
आह: यदि भगवं बोधिसत्त्वस्य महासत्त्वस्य बोधिर् न उद्गृह्णे चरति न अनुद्गृह्णे चरति. न रूपे चरति. यावन् न सर्वाकारज्ञातायां चरति, न पुनर् भगवन् [f. २९१अ] बोधिसत्त्वो महासत्त्वो दशभूमिषु चरति. षट्सु पारमितासु सप्तत्रिंशति बोधिपक्ष्येषु धर्मेषु त्रिषु विमोक्षमुखेषु चतुर्दशसु शून्यतासु ध्यानविमोक्षसमाधिसमापत्तिषु दशसु तथागतबलेषु यावद् अशीत्यानुव्यंजनेषु पञ्चस्व् अभिज्ञासु स्थित्वा बुद्धक्षेत्रं च परिशोधयति सत्त्वांश् च परिपाचयति. सर्वाकारज्ञताम् अभिसंबुध्यते. न च भगवन्न् अस्थित्वा दशसु भूमिषु षट्सु पारमितासु यावत् पञ्चस्व् अभिज्ञासु, बोधिसत्त्वन्यामम् अनवक्रम्य बुद्धक्षेत्रम् अपरिशोध्य सत्त्वान् अपरिपाच्य शक्यम् अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतद् यथा वदसि, न षक्यम् अपरिपूर्य दशभूमी षट्पारमिताश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्रः आरूप्यसमापत्तीश् चत्वारि स्मृत्युपस्थानानि यावद् आर्याष्टङ्गं मार्गं. शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि. चतुर्दशशून्यता दशतथागतबलानि. यावद् अशीतिम् अनुव्यञ्जनानि पञ्चाभिज्ञा शक्यम् अपरिपूर्य असंप्रमोषधर्मतां सदोपेक्षविहारितां सर्वाकारज्ञताम् अभिसंबोद्धुं. तत् खलु पुनः सुभूते रूपप्रकृतौ (Aद्SPG II ८४) स्थित्वा वेदनासंज्ञासंस्काराविज्ञानप्रकृतौ स्थित्वा यावद् बोधिप्रकृतौ स्थित्वा. सा च प्रकृतिर् उपशान्त. न कस्यचिद् धर्मस्य आचयं वा करोत्य् अपचयं वा. उत्पादं वा निरोधं वा संक्लेशं वा व्यवदानं वा प्राप्तिं वा अभिसमयं वा.
SK
(VIII ५,९) तत् खलु पुनः सुभूते लोकव्यवहारप्रज्ञप्तिधर्मताम् उपादाय बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. न पुनः परमार्थेन किंचिद् अस्ति रूपम् वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावद् बोधिर् वा, यो वा बोधौ चरेत्, सर्व एते धर्मा लोकव्यवहारताम् उपादाय प्रज्ञप्ता न पुनः परमार्थेन. तत् तु बोधिसत्त्वो महासत्त्व. प्रथमचित्तोत्पादम् उपादाय बोधाय चरति, न पुनस् तानि चित्तान्य् उपलभते. न सत्त्वान् न बोधिं न बुद्धं न बोधिसत्त्वं. तत् किं मन्यसे सुभूते यस्मिन् समये सुभूतिना सत्कायदृष्टिप्रहाणायेन्द्रियाणि प्रतिलब्धान्य् आनन्तर्यो वा समाधिः स्रोतआपत्तिफलं वा प्राप्तं. सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्राप्तं. अपि नु तस्मिन् समये स्वप्नो वा उपलब्धश् चित्तं वा मार्गो वा फलं वा. आह: नो हीदं भगवं.
SK
भगवान् आह: तत् कथं पुनस् ते आज्ञाव्याकृता सुभूतिना अर्हत्त्वं प्राप्तम् इति?
भगवान् अह: इह शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकौशलेन [f. २९२अ] रूपं न योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि रूपस्य स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा, यावन् न विज्ञानं योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि विज्ञानस्य स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा, यावन् न दानपारमितां योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि दानपारमितायां स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा, यावन् न प्रज्ञापारमितां योजयति न वियोजयति. तत् कस्य हेतोः? तथा हि प्रज्ञापारमितायाः स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा. यावन् नावेणिकबुद्धधर्मान् योजयति न वियोजयति. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्माणां स्वभावो नास्ति यं योजयेद् वा वियोजयेद् वा.
SK
आह: यदि भगवन् न कस्यचिद् धर्मस्य स्वभावः संविद्यते यं योजयेद् वा वियोजयेद् वा. तत् कथं प्रज्ञापारमिताया अभिनिर्हारो भवति. यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं? न च अशिक्षित्वा प्रज्ञापारमितायां शक्यं बोधिसत्त्वेन महासत्त्वेन अनुत्तरं सम्यक्संबोधिम् अभिसंबोद्धुं.
भगवान् आह: न खलु पुनः शारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कश्चिद् उपलंभः. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कंचित् सत्त्वम् उपलभते. अन्यत्र संवृतिसंकेतेन व्यवहारति. तत्र शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः द्वयो सत्ययो स्थित्वा सत्त्वानां धर्मन् देशयति. यदुत संवृतिपरमार्थसत्ययो, न हि शारद्वतीपुत्र द्वयो सत्ययोः सत्त्वम् उपलभ्यते न सत्त्वप्रज्ञप्तिः. अपि तु खलु पुनर् उपायकौशलेन बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्. सत्त्वानान् धर्मन् देशयति. तत् ते सत्त्वा दृष्ट एव धर्मे आत्मानं नोपलभन्ते, प्राग् एव यत् प्राप्स्यन्ति येन वा प्राप्स्यन्ति. एवं खलु शारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः [f. २९३अ] प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वानां धर्मन् देशयति.
SK
आह: महोत्पादो वतायं भगवन् यदुत बोधिसत्त्वो महासत्त्वः, न च नाम भगवं कस्यचिद् धर्मस्य एकत्वं वा नानात्वं वा. नापि पृथक्त्वम् उपलभ्यते. एवंरूपं च सन्नाहं सन्नह्यति येन सन्नाहेन सन्नद्धेन न कामधातौ संदृश्यते. न रूपधातौ. नारूप्यधातौ न संस्कृतधातौ न असंस्कृतधातौ संदृश्यते. सत्त्वांश् च त्रैधातुकां. परिमोचयति. न च सत्त्वो न सत्त्वप्रज्ञप्तिर् उपलभ्यते: सत्त्वाप्रज्ञप्तितः सत्त्व अबद्धः अमुक्तः, सत्त्व अबद्ध अमोक्षया असंक्लेशाव्यवदानं, असंक्लेशाव्यवदानेन न गतिसंभेदः प्रज्ञायते. गत्यसंभेदतायां न (Aद्SPG II ९०) च कर्म न क्लेशः, अकर्माक्लेशस्य कुतो विपाको भविष्यति. येन विपाकेन आत्मा वा सत्त्वो वा पञ्चगतिके संसारे संदृश्येत.
आह: यदि भगवं सर्वधर्मा शून्या. कथं बोधिसत्त्वो महासत्त्वः सर्वधर्मेषु शिक्षते? न नु भगवन्न् अप्रपंच्यं प्रपंचयेति. इयन्त इति वा इम इति वा, इमे धर्मा लौकिका इमे लोकोत्तरा. एवं सास्रवा वा अनास्रवा वा. संस्कृता वा असंस्कृता वा. पृथग्जनधर्मा वा यावद् अर्हन्धर्मा वा प्रत्येकबुद्धधर्मा वा बुद्धधर्मा वा.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. सर्वधर्माः शून्याः. यदि पुनः सुभूते सर्वधर्माः शून्या न अभविष्यन् न बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत: यस्मात् तर्हि सुभूते सर्वधर्माः शून्यास् तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. अपि तु खलु सुभूते तद् एवं वदसि: यदि सर्वधर्माः शून्याः कथं बोधिसत्त्वो महासत्त्वो धर्मनानात्वं करोति. इयन्त इति वा इम इति वा यावत् पृथग्जनधर्मा वा यावद् अर्हद्धर्मा वा. प्रत्येकबुद्धधर्मा वा. (Aद्SPG II ९९) बुद्धधर्मा वा. इति. तत् कच्चित् पुनः सुभूते एते सत्त्वा एवं जानंति सर्वधर्माः शून्या इति. यदि जानीयुर् नै [f. २९६अ] व बोधिसत्त्वो महासत्त्वो सर्वधर्मेषु शिक्षित्वा सर्वाकारज्ञताम् अनुप्राप्नुयात्. यस्मात् तर्हि सुभूते एते सत्त्वा न जानन्ति सर्वधर्माः शून्या इति. तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वधर्मव्यवस्थानं कृत्वा सत्त्वानान् धर्मं देशयति.
SK
(VIII ५,१३) तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन बोधिमार्गे चरता प्रथमत एव एवम् उपपरीक्षितव्यं. न अत्र कश्चिद् धर्मः स्वभावेन उपलभ्यते. अन्यत्र अभिसंस्कारात्. तत्र एवं सर्वधर्माणां स्वभावम् उपपरीक्षेत. उपपरीक्ष्य न क्वचिद् अभिनिविशते. यदि वा पारमितासु यदि वा सप्ततृंशति बोधिपक्ष्येषु धर्मेषु यदि वा स्रोतआपत्तिफले. यदि वा सकृदागामिफले यदि वा अनागामिफले यदि वा अर्हत्त्वे यदि वा प्रत्येकबोधौ यदि वा अनुत्तरस्यां सम्यक्संबोधौ. तत् कस्य हेतोः? तथा हि स्वभावेन सर्वधर्माः शून्या, न हि शून्यताया शून्यतायाम् अभिनिविशते. शून्यतैव तावन् नोपलभते. प्राग् एव यः शून्यतायाम् अभिनिवेक्ष्यते. एवं हि बोधिसत्त्वो महासत्त्वः अनभिनिविष्टः सर्वधर्मेषु विहरति. यत्र शिक्षायां स्थित्वा सर्वाश् चर्या अवलोकयति क्वेमे सत्त्वाश् चरंति असद्ग्राहे, तत्र बोधिसत्त्वस्य महासत्त्वस्य एवं भवति, सुमोच्या वतेमे सत्त्वा असद्ग्राहाद् इति. ततोपायकौशलेन प्रज्ञापारमितायां स्थित्वा एवम् अववदति. एत यूयं भोः सत्त्वा दानं ददध्वं. तद् युष्माकम् अवैकल्यं भविष्यति. भोगैः, तैश् च भोगैर् मा मंस्यध्वे, न तत्र किंचित् सारम् अस्ति. एवं शीले अववदति. एत यूयं भोः सत्त्वाः शीलं रक्षत. तेन च शीलेन मा मंस्यध्वे. न तत्र किंचित् सारम् अस्ति. एवं क्षान्तौ वीर्ये समाधाव् अववदति एत यूयं भोः सत्त्वा समाधिं समापद्यध्वं. तेन समाधिना मा मंस्यध्वे, न तत्र किनिचित् सारम् अस्ति. एवं प्रज्ञायाम् अववदति. एत (Aद्SPG II १००) भोः सत्त्वाः प्रज्ञां भावयतः, तया च प्रज्ञया मा मंस्यध्वे, न तत्र किंचित् सारम् अस्ति. एवं स्रोतआपत्तिफले एवं सकृदागामिफले एवम् अनागामिफले एवम् अर्हत्त्वे एवं प्रत्येकबोधौ एवं बुद्धधर्मेष्व् अववदति. एत यूयं भोः सत्त्वाः बुद्धधर्मां भावयतः, तैश् च बुद्धधर्मैर् मा मंस्यध्वे, न तत्र किंचित् सारम् अस्ति. स एवम् एव अववदन्न् एवम् अनुशासन् बोधिसत्त्वमार्गे चरति. न च क्वचित् अभिनिविशते. तत् कस्य हेतोः? अनभिनिविष्टा हि सर्वधर्मा, तथा ह्य् एषां स्वभावो नास्ति येन अभिनिविश्येत. शून्यतास्वभावताम् उपादाय: तत्र सुभूते बोधिसत्त्वो महासत्त्वो बोधिमार्गे चरन् न क्वचित् प्रतितिष्ठति. सो ऽप्रतिष्ठानयोगेन दानपारमितायां चरति. न च तत्र प्रतितिष्ठति. शीलपारमितायां चरति न च तत्र प्रतितिष्ठति. क्षान्तिपारमितायां चरति न च तत्र प्रतितिष्ठति. वीर्यपारमितायां चरति न च तत्र प्रतितिष्ठति. ध्यानपारमितायां चरति न च तत्र प्रतितिष्ठति. प्रज्ञापारमितायां चरति न च तत्र प्रतितिष्ठति. स प्रथमं ध्यानं समापद्यते न च तत्र प्रतितिष्ठति. तत् कस्य हेतोः? तथा हि प्रथमं ध्यानं ध्यानेन शून्यं यो ऽपि समापद्येत सो ऽपि शून्यः यैर् अप्य् आकारैः समापद्यते. ते ऽप्य् आकारा शून्या. एवं द्वितीयम् [f. २९६ब्] तृतीयं चतुर्थम् एवं मैत्रिं करुणां मुदिताम् उपेक्साम् आरूप्यसमापत्तीम् अष्टौ विमोक्षान् नवानुपूर्वसमापत्तीं स्रोतआपत्तिफलं प्रतिलभते. न च तत्र प्रतितिष्ठति. सकृदागामिफलं प्रतिलभते. न च तत्र प्रतितिष्ठति. अनागामिफलं प्रतिलभते न च तत्र प्रतितिष्ठति. अर्हत्त्वं प्रतिलभते न च तत्र प्रतितिष्ठति. प्रत्येकबोधिं प्रतिलभते. न च तत्र प्रतितिष्ठति.
SK
आह: केन कारणेन न प्रतितिष्ठति?
SK
भगवान् आह: द्वाभ्यां कारणाभ्यां न प्रतितिष्ठति. कतमाभ्यां द्वाभ्यां? स्वभावश् च तेषां फलानां नास्ति यत्र प्रतितिष्ठेत्. येन वा प्रतितिष्ठेत्. यो वा प्रतितिष्ठेत्. न च तन्मात्रकेण तुष्टिम् आपद्यते. न मया स्रोतआपत्तिफलं न प्राप्तव्यं. न च तत्र स्थातव्यं. यावन् न मया अर्हत्त्वं न प्राप्तव्यं. न च तत्र स्थातव्यं. न मया प्रत्येकबुद्धभूमिर् न प्राप्तव्या, न च तत्र स्थातव्यं. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये. तत् कस्य हेतोः? तथा हि मया प्रथमचित्तोत्पादम् उपादाय नान्यं चित्तं प्रतिलब्धम् अन्यत्र अनुत्तरस्या सम्यक्संबोधेः. तत् कस्य (Aद्SPG II १०१) हेतोः? तथा हि मया प्रथमम् भूमिम् उपादाय न अन्यं चित्तम् उत्पादितम् अन्यत्र अनुत्तरस्या सम्यक्संबोधेः. एवं यावद् दशमी भूमिर् यावद् बोधिसत्त्वन्यामम् अवक्रान्तः न अन्यः कश्चि चित्तोत्पाद उत्पादितो ऽन्यत्र अनुत्तरस्याः सम्यक्संबोधेः. अविक्षिप्तमनसा, सुभूते बोधिसत्त्वो महासत्त्वो यावद् एव कायेन पराक्रमते. वाचा मनसा नान्यत्र बोधिचित्तेन, तद् बोधिसत्त्वो महासत्त्वो बोधिचित्ते स्थित्वा अविक्षिप्तम. नसा बोधिमार्गम् उत्पादयति.
SK
आह: यदि भगवं सर्वधर्मा अनुत्पन्नास् तत् कथं बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. सर्वधर्मा अनुत्पन्ना, तत् पुनः कथम् इति. ये ऽनाभिसंस्कुर्वन्ति तेषां सर्वधर्मा अनुत्पन्नाः?
SK
आह: न नु पुनर् भगवन्न् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव धर्माणान् धर्मस्थिति?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैव धर्माणान् धर्मस्थितिः, ये पुनर् इमां धर्मस्थितिं न जानन्ति तेषाम् अर्थाय बोधिसत्त्वो महासत्त्वो बोधिमार्गम् उत्पादयति. येन बोधिसत्त्वमार्गेण सत्त्वान् मोचयति संसारात्.
भगवान् आह: नो हीदं सुभूते. तत् किं मन्यसे सुभूते अपि न्व् अष्टमको वा स्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा अपायेषु उपपद्यते?
SK
आह: नो हीदं भगवन्.
SK
भगवान् आह: एवम् एव सुभूते यो बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय दानं ददञ्च् छीलं रक्षन् क्षान्त्या संपादयन् वीर्यं वारभमाणः समाधिं समापद्यमानः प्रज्ञां भावयं. मैत्रीकरुणामुदिता-उपेक्षां सर्वसत्त्वेषु भावयति सर्व अकुशलधर्मप्रहाणाय तिष्ठति. सो ऽपायेषु उपपद्येत इति नेदं स्थानं विद्यते. दीर्घायुष्केषु वा देवेषु उपपद्येत इति नेदं स्थानं विद्यते. यत्र वा अप्रचारः कुशलधर्माणाम् एडमूकेषु वा जनपदेषु उपपद्येत इति. नेदं स्थानं विद्यते. दस्युषु म्लेच्छेषु प्रत्यन्तेषु वा जनपदेषु उपपद्येत इति. यत्र अगतिश् चतसृणां पर्षदन् नेदं स्थानं विद्यते. मिथ्यादृष्टिकेषु वा कुलेषु उपपद्येत इति नेदं स्थानं विद्यते. तत्र च उपपद्येत यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्द इति नेदं स्थानं (Aद्SPG II १०८) विद्यते. अक्रियादृष्टिं वा पतेद् इति नेदं स्थानं विद्यते. अपि तु खलु सुभूते प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वो महासत्त्वो ऽनुत्तरस्यै सम्यक्संबोधये संप्रस्थितः अध्याशयेन, दसाकुशलाः कर्मपथान् अध्यापद्येत इति नेदं स्थानं विद्यते.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. एवम् एव बोधिसत्त्वो महासत्त्वः आर्येण अनास्रवेण धर्मेण समन्वागतः संचिन्त्य (Aद्SPG II ११०) तथारूपम् आत्मभावं परिगृह्णाति. येन आत्मभावेन सत्त्वानां बुद्धकार्यं करोति. न च तेन तथारूपेण आत्मभावेन दुःखितो भवति. न दुःखां वेदनां प्रत्यनुभवति. तत् किं मन्यसे सुभूते यां मायाकारो मायान् दर्शयति. हस्तिविग्रहां वा अश्वविग्रहां वा बलीवर्दविग्रहां वा अन्यां वा विविधां मायां दर्शयति. अपि नु ते हस्तिविग्रहा भवन्त्य् अश्वविग्रहा वा वलीवर्दविग्रहा वा अन्या वा विविधा प्राणिजातय?
SK
आह: नो हीदं भगवं.
SK
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वो महासत्त्व आर्येण अनास्रवेण धर्मेण समन्वागतो भवति. संचिन्त्य तथारूपम् आत्मभावं परिगृह्णाति. यथारूपेण आत्मभावेन सत्त्वानाम् अर्थं करोति. न च तथारूपां वेदनां प्रत्यनुभवति.
SK
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महोपायकौशलं भगवं बोधिसत्त्वस्य महासत्त्वस्य यो हि नाम भगवन्न् आर्येण ज्ञानेन समन्वागतो येन येन आत्मभावेन शक्नोति सत्त्वानाम् अर्थः कर्तुं तं तम् एव आत्मभावं परिगृह्णाति.
SK
(VIII ५,१७) कतमेषु भगवंच् छुक्लेषु धर्मेषु स्थित्वा बोधिसत्त्वो महासत्त्वो [f. २९९ब्] इमान्य् एवंरूपान्य् उपायकौशलानि करोति न च तैर् लिप्स्यते?
SK
भगवान् आह: प्रज्ञापारमितायां सुभूते स्थित्वा बोधिसत्त्वो महासत्त्वः इमान्य् एवंरूपान्य् उपायकौशलानि करोति. यैर् उपायकौशलै पूर्वस्यान् दिशि दक्षिणायां पश्चिमायाम् उत्तरस्याम् अधस्तात् तिर्यक् समन्ताद् दशसु दिक्ष्व् ऐकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वानां कृत्यं करोति. न च तेन तत्र किंचित् संस्पृश्यते. तत् कस्य हेतोः? तथा हि स बोधिसत्त्वो महासत्त्व सर्वथैव धर्मं नोपलभते. यो वा संस्पृश्येत येन वा संपृश्येत यत्र वा संस्पृश्येत. तत् कस्य हेतोः? तथा हि सर्व एते त्रयो धर्माः स्वभावेन शून्याः. न च शून्यता शून्यतां संस्पृशति. न अपि शून्यतां कश्चिद् धर्म संस्पृशति. न अपि शून्यता संस्पृश्यते. तत् कस्य हेतोः? तथा हि शून्यता शून्यतायां नोपलभ्यते. इयं (Aद्SPG II १११) सा अनुपलंभशून्यता यत्र स्थित्वा बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
आह: किं पुनर् भगवन् प्रज्ञापारमितायाम् एव स्थित्वा न अन्येषु धर्मेषु?
SK
भगवान् आह: अस्ति पुनः सुभूते कश्चिद् धर्मो यो न प्रज्ञापारमितायाम् अन्तर्गतः?
SK
आह: यदि भगवं. प्रज्ञापारमिता स्वभावेन शून्या कथं प्रज्ञापारमितायां सर्वधर्मा अन्तर्गता? न च भगवंच् छून्यतायां कश्चिद् धर्मो ऽन्तर्गतो वा न वा अन्तर्गतः.
SK
भगवान् आह: न पुनः सुभूते सर्वधर्मा सर्वधर्मैः शून्याः?
SK
आह: शून्या भगवं.
SK
भगवान् आह: यदि सुभूते सर्वधर्माः सर्वधर्मैः शून्या, न नु सर्वधर्मा शून्यतायाम् अन्तर्गता?
SK
आह: एवम् एतद् भगवन्.
SK
भगवान् आह: तद् अनेन सुभूते पर्यायेण एवं वेदितव्यं, यत् प्रज्ञापारमितायां स्थित्वा बोधिसत्त्वो महासत्त्व इदम् एवंरूपम् उपायकौशलं कुरुते.
SK
(VIII ५,१८) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सर्वधर्मशून्यतायां स्थित्वा अभिज्ञापारमिताम् अभिनिर्माति? यास्व् अभिज्ञासु स्थित्वा पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातून् गच्छति. तत्र लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति धर्मञ् च देशयन्ति तां. पर्युपास्ते धर्मं च शृणोति. तत्र च बुद्धेषु भगवत्सु कुशलमूलान्य् अवरोपयति?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् ये पूर्वस्यान् दिशि गङ्गानदीवालुकोपमान् लोकधातवस् तां सर्वां शून्या इति पश्यति. ये ऽपि तत्र बुद्धा भगवन्तस् ते ऽपि बुद्धा भगवन्तस् स्वभावशुन्या४न अन्यत्र नामसंकेतेन प्रज्ञप्तिम् उपादाय निर्दिश्यन्ते. सर्वाः प्रज्ञप्ति स्वभावेन शून्याः, यदि ते लोकधातवो न स्वभावेन शून्याः अभविष्यंस्, ते ऽपि बुद्धा भगवन्तो न स्वभावेन शून्या अभविष्यंस्, ते ऽपि प्रज्ञप्तिसमुदाचारा न स्वभावेन शून्या (Aद्SPG II ११२) अभविष्यंस्, तत् प्रादेसिकी शून्यताभविष्यत्. यस्मान् न प्रादेशिकी शून्यता तस्मात् सर्वधर्माः सर्वधर्मैः शून्याः, तद् बोधिसत्त्वो महासत्त्व उपायकौशलेन प्रज्ञापारमितायां चरन्न् अभिज्ञापारमिताम् अभिनिर्हरति. यास्व् अभिज्ञासु स्थित्वा दिव्यं चक्षुर् अभिनिर्हरति. दिव्यश्रोत्रम् ऋद्धिं परचित्तज्ञानं. पूर्वे निवासं च्युतोपपत्तिं, न च विना अभिज्ञाभिर् बोधिसत्त्वेन महासत्त्वेन शक्यम् अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं. /// [३००अ/ब् मिस्सिन्ग्] /// [f. ३०१अ] तस्माद् बोधिसत्त्वस्य महासत्त्वस्य अभिज्ञापारमितायां बोधिर् अन्तर्गता; तेभिर् एव अभिज्ञाभिर् बोधिर् मार्गयितव्या; स मार्गयमाणो दिव्येन चक्षुषा आत्मनस् तान् कुशलान् धर्मान् पश्यति. परं च कुशलेषु धर्मेषु नियोजयति. न च तेषु कुशलेषु धर्मेषु अभिनिवेष्ठते. तत् कस्य हेतोः? तथा हि ते सर्वे कुशला धर्माः स्वभावेन शून्या. न हि शून्यताया क्वचिद् अभिनिविशते. यद् अभिनिविश्य आस्वादयेत्. निरास्वादा हि शून्यता. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दिव्यं चक्षुर् अभिनिर्हरति. येन दिव्येन चक्षुषा सर्वधर्मांच् छून्या इति पश्यति, तत् पुनर् बोधिसत्त्वो महासत्त्वस् तान् धर्मताम् आगम्य कर्म अभिनिरोपयति. यया कर्माभिनिरुप्त्या सत्त्वानान् धर्मन् देशयति. न पुनः सत्त्वं न सत्त्वप्रज्ञप्तिम् उपलभते. इत्य् अनुपलंभयोगेन बोधिसत्त्वो महासत्त्वः अभिज्ञापारमिताम् अभिनिर्माति. याभिर् अभिज्ञाभिर् ये ऽभिज्ञाकरणीयान् धर्मान् तान् करोति. तत्र बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेन अतिक्रान्तमानुष्यकेण पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् दिशि विदिक्ष्व् ऊर्ध्वम् [**] तिर्यग् लोकधातूं पश्यति. स तत्र ऋध्या गत्वा सत्त्वानाम् अर्थं (Aद्SPG II ११३) करोति. यदि वा दानेन यदि वा शीलेन यदि वा क्षान्त्या यदि वा वीर्येण यदि वा समाध्मा यदि वा प्रज्ञाया यदि वा सप्ततृंशता बोधिपक्ष्यैर् धर्मैः यदि वा ध्यानाप्रमाणारूप्यविमोक्षसमाधिसमापत्तिभिर् यदि वा श्रावकधर्मैर् यदि वा. प्रत्येकबुद्धधर्मैर् यदि वा बोधिसत्त्वधर्मैर् यदि वा बुद्धधर्मैस् तेषां सत्त्वानां कृत्यकरो भवति. तत्र ये सत्त्वा मत्सरिणस् तेषाम् एवन् धर्मन् देशयति. ददध्वद् दानन्, दुःखं हि दारिद्र्यं, न हि दारिद्र्येण शक्यम् आत्मनो ऽप्य् अर्थः कर्तुं. प्राग् एव परस्य, तद् यूयम् आत्मना च दुःकिता भविष्यथः परं च दुःखयिष्यथ, मा दारिद्र्येण अभिभूता अन्योन्य मांसानि खादन्तो न परिमोक्ष्यध्वे तृभ्यो ऽपायेभ्यः, ये दुःशीला सत्त्वास् तेषाम् एवन् धर्मन् देशयति. दुःखं हि भोः पुरुषा दौःशील्यं, न हि दुःशीलेन शक्यम् आत्मनो ऽप्य् अर्थः कर्तुं, प्राग् एव परस्य. दौःशील्यस्य यो विपाकः स नरका वा तिर्यग्योनिर् वा यमलोको वा, तद् यूयं तृष्व् अपायेषु प्रपतिता. आत्मानम् एव न शक्या अर्थं कर्तुं प्राग् एव परम्, तद् युष्माभिर् एकदौःशील्यस्य चित्तस्य अप्य् अवकाशो न दातव्यो, मा पश्चात् तापिनो ऽभूत्. ये सत्त्वास् परस्परं व्यापन्नचित्तास् तेषाम् एवन् धर्मन् देशयति. मा यूयम् अन्योन्यं व्यापद्यध्वं. क्षुभितचित्तानां सतां न कश्चित् कुशलो धर्मः प्रादुर्भवति, तद् युष्माकम् अन्योन्यक्षुभितचित्तानां सतां स्थानम् एतद् विद्यते. यन् नरकोपपत्तिर् भवेद् वा तिर्यग्योनिर् वा यमलोको वा, हंत युष्माभिर् एकचित्तम् अपि न क्षोभयितव्यं, प्राग् एव अन्येषां अकुशलानां चित्तानाम् अवकाशो न दातव्यः इति. ये कुसीदास् तां वीर्ये नियोजयति, एवं यावद् ये विक्षिप्तचित्तास् तान् समाधौ नियोजयति. ये दुष्प्रज्ञास् तान् प्रज्ञायां नियोजयति. ये रागचरितास् तान् अशुभायां नियोजयति. ये द्वेषचरितास् तां मैत्र्यां नियोजयति. [f. ३०१ब्] ये मोहचरितास् तां प्रतीत्यसमुत्पादे नियोजयति. ये कुमार्गे प्रस्थितास् तान् मार्गे नियोजयति. यदि वा श्रावकमार्गे यदि वा प्रत्येकबुद्धमार्गे नियोजयति. तेषाम् एवन् धर्मन् देशयति, यत्र यूयम् अभिनिविष्टास् ते धर्माः स्वभावेन शून्या, न हि स्वभावेन शून्येषु धर्मेषु शक्यम् अभिनिवेष्टुं. अनभिनिविष्टा च (Aद्SPG II ११४) शून्यता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अभिज्ञासु स्थित्वा सत्त्वानाम् अर्थं करोति. नास्ति सुभूते बोधिसत्त्वो महासत्त्वो येन शक्यम् अभिज्ञास्व् अस्थित्वा सत्त्वानां धर्मन् देशयितुं, उत्पथप्रस्थिता वा सत्त्वा मार्गम् अवतारयितुं नेदं स्थानं विद्यते. यथा सुभूते पक्षी शकुनिर् अपक्षको न शक्नोत्य् आकाशेन क्रामितुम् एवम् एव सुभूते बोधिसत्त्वो महासत्त्व अनागम्य अभिज्ञा न शक्नोति. धर्मन् देशयितुं. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञा अभिनिर्हर्तव्याः. स आभिर् अभिज्ञाभिर् अभिनिर्हर्ताभिर् यम् आकाङ्क्षिश्यति सत्त्वानाम् अर्थं कर्तुं तं सुखिन करिष्यति. दिव्येन चक्षुषा गङ्गानादीवालुकोपमान् लोकधातून् द्रक्ष्यति. तांश् च तत्र सत्त्वान् उपपन्नान् द्रक्ष्यति. दृष्ट्वा च तान् सत्त्वान् ऋध्या गत्वा चेतसैव चित्तं प्रज्ञास्यति, प्रज्ञाय तथैव धर्मन् देशयिष्यति. यदि वा दानकथां यदि वा यावन् नैर्यानिकीं कथां. स दिव्येन श्रोत्रधातुना उभौ शब्दौ श्रोष्यति. यदुत दिव्यांश् च मानुष्यकांश् च. तत्र ये पूर्वस्यां दिशि यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो धर्मं देशयन्ति. स तेन दिव्येन श्रोत्रधातुना तान् धर्मान् श्रोष्यति. श्रुत्वा च तथात्वाय उद्ग्रहीष्यति. तथात्वाय उद्गृह्य अनन्यथात्वाय धर्मन् देशयिष्यति. दानकथां यावन् नैर्याणिककथां. तस्य चेतःपर्यायज्ञानं सुविशुद्धं भविष्यति. स तेन चेतःपर्यायज्ञानेन सत्त्वानां चित्तं प्रज्ञास्यति. तेषान् तथात्वाय धर्मन् देशयिष्यति. दानकथां यावन् नैर्याणिककथां. सो ऽनेकविधं पूर्वेनिवासम् अनुस्मरिष्यति अन्य आत्मनो ऽपि परस्य अपि. स तेन पूर्वेनिवासानुस्मृतिज्ञानेन एवं ज्ञास्यत्य् एवंनामकास् ते ऽभूवन्. पौर्वकास् तथागता अर्हन्तः सम्यक्संबुद्धा सश्रावकास्, तत्र ये सत्त्वा पूर्वेनिवासानुस्मृत्यधिमुक्ता भविष्यन्ति. तेषां तथात्वाय धर्मन् देशयिष्यति. दानकथां यावन् नैर्याणिककथां. स ऋद्ध्या अनेकान् विविधां लोकधातूं गत्वा बुद्धां भगवतः पर्युपासिष्यते पर्युपास्य अभिज्ञानेन सत्त्वानां धर्मन् देशयिष्यति. दानकथां यावन् नैर्याणिककथां. स आस्रवक्षयज्ञानेन सुविदितेन सत्त्वानान् धर्मन् देशयिष्यति. यदि वा दानकथां यदि वा नैर्याणिककथां. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां च (Aद्SPG II ११५) रता अभिज्ञा अभिनिर्हर्तव्या. स एभिर् अभिज्ञाभिः सुपरिचिताभि यं यम् एव आत्मभावं परिगृहीतुम् आकाङ्क्षिष्यति. तं तम् एव आत्मभावं परिग्रहीस्यति. स न च तेन सुखेन वा दुःखेन वा सुमना वा दुर्मना वा भविष्यति. नैव अस्य अनुनयप्रतिघौ भविष्यथ. तद्यथापि नाम तथागतनिर्मितः [f. ३०२अ] पुरुषः सर्वकृत्यानि करोति. न च तेन सुखेन वा दुःखेन वा क्लिश्यते. एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अभिज्ञाविक्रीडितेन भवितव्यं. यथा विक्रीडमानो बुद्धक्षेत्रं च परिशोधयिष्यति. सत्त्वांश् च परिपाचयिष्यति. न पुनः सुभूते बोधिसत्त्वेन महासत्त्वेन अपरिशोधिते बुद्धक्षेत्रे अपरिपाचितेषु सत्त्वेषु शक्यम् अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं. तत् कस्य हेतोः? नास्ति सुभूते मार्गाङ्गविकलस्य बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरा सम्यक्संबोधिः.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न सुभूते दुःखज्ञानेन परिनिर्वाणं भवति न दुःखेन, न समुदयज्ञानेन पर्मिर्वाणं भवति. न समुदयेन. न दुःखनिरोधज्ञानेन परिनिर्वाणं भवति. न दुःखनिरोधेन. न मार्गज्ञानेन परिनिर्वाणं भवति न मार्गेण. या पुनः सुभूते चतुर्णाम् आर्यसत्यानां समता तत् परिनिर्वाणम् उक्तं मया, न पुन दुःखज्ञानेन परिनिर्वाणं भवति. न दुःखेन न समुदयज्ञानेन न समुदयेन न दुःखनिरोधज्ञानेन न दुःखनिरोधेन न मार्गज्ञानेन न मार्गेण परिनिर्वाणं भवति.
SK
आह: कतमा एषं भगवंस् चतुर्णाम् आर्यसत्यानां समता?
SK
भगवान् आह: यत्र सुभूते न दुःखं न दुःखज्ञानं न समुदयो न समुदयज्ञानं न निरोधो न निरोधज्ञानं न मार्गो न मार्गज्ञानं. यैषां चतुर्णाम् आर्यसत्यानां तथता अवितथता धर्मता. धर्मधातुर् धर्मनियामता धर्मस्थिता. यद् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थित एव धातुर् यदुत धर्मधातुः असंप्रमोषाय अपरिहाणाय संवर्तते. तद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सत्यानुबोधाय चरति. न च सत्यान्य् अनुबोधव्यानि.
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न तान् धर्मांस् तथा पश्यति. यथा पश्यं किंचिद् धर्मम् उपलभेत. अनुपलभमानः सर्वधर्मांच् छून्या इति पश्यति. सत्यपर्यापन्नांश् च असत्यपर्यापन्नाञ् च तान् सर्वान् शून्या इति पश्यति. स एवं पश्यन्न् अवक्रान्तनियामो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वगोत्रभूभूमौ स्थितो भवति. स बोधिसत्त्वगोत्रभूभूमौ स्थित्वा न मूर्ध्न निपातं पतति. येन [f. ३०३ब्] मूर्ध्न निपातेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति. स इह बोधिसत्त्वगोत्रभूमौ स्थित्वा चत्वारि ध्यानान्य् उत्पादयति चत्वार्य् अप्रमाणानि चतस्रः आरूप्यसमापत्तीः. स इह शमथभूमौ स्थित्वा सर्वधर्मान् प्रविचिनोति. चत्वार्य् आर्यसत्यानि प्रतिविबुध्यति. स च दुःखञ् च परिजानाति. न च दुःखारम्बणां चित्तम् उत्पादयति. समुदयं च प्रजाहति. न च समुदयारम्बणं चित्तम् उत्पादयति. निरोधं च साक्षात्करोति. न च निरोधारम्बणं चित्तम् उत्पादयति. मार्गं च भावयति न च मार्गारम्बणं चित्तम् उत्पादयति. अन्यत्र बोधिनिम्नेन चित्तेन सर्वधर्मान् यथावत्वं पश्यति.
SK
आह: कतमा भगवन् सर्वधर्माणां यथावत्ता?
SK
भगवान् आह: शून्यता.
SK
आह: कतमा शून्यता?
SK
भगवान् आह: स्वलक्सणशून्यता. सो ऽनयैवंरूपया विपश्यनया सर्वधर्मांच् छून्या इति विपश्यति. न कस्यचिद् धर्मस्य स्वभावं पश्यति. यत्र भावे स्थित्वा बोधिम् अभिसंबुध्येत.
SK
आह: एवं सति भगवन्न् अभावश् च बोधिः?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतद्. यथा वदसि. अभावश् (Aद्SPG II १२१) च बोधिः, सा न बुद्धैः कृता न प्रत्येकबुद्धैर् न अर्हद्भिर् नापि तैर् बोधिसत्त्वैर् महासत्त्वैर्, य इह बोधाय चरन्ति. अन्यत्र सत्त्वा न जानन्ति न पश्यन्ति यथात्वं. तद् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन्न् उपायकौशलेन सत्त्वानां धर्मं देशयति. ((७९))
SK
परिवर्त ८०.
SK
(VIII ५,२२) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवन्न् अभावस्वभावा सर्वधर्मास्, ते न बुद्धै कृता न प्रत्येकबुद्धैर् न अर्हद्भिर् न अनागामिभिर् न सकृदागामिभिर् न स्रोतआपन्नैर् न प्रतिपन्नकैर् नापि तैर् बोधिसत्त्वैर् महासत्त्वैः कृता य इह बोधाय चरन्ति. तत् कुत एसान् धर्माणां नानाकरणं वा व्यवस्थानं वा प्रज्ञायते, इमे नैरयिका इमे तैर्यग्योनिका इमे यामलौकिका इमे देवा इमे मनुष्याः, अनेन वा कर्मणा नरकास् तिर्यग्योनिर् यमलोकः अनेन कर्मणा देवाः अनेन कर्मणा मनुष्याः अनेन कर्मणा ब्रह्मकायिका देवाः यावन् नैवसंज्ञानासंज्ञायतना देवाः. अनेन कर्मणा स्रोतआपन्नाः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धाः अनेन कर्मणा बोधिसत्त्वो महासत्त्वो ऽनेन कर्मणा तथागतो ऽर्हन् सम्यक्संबुद्धः. अभावस्य हि भगवन् न काचित् क्रिया यया क्रिया नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा देवमानुष्यं वा यावन् नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत. स्रोतआपत्तिफलं वा अनुप्राप्नुयात् सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा, बोधिसत्त्वो वा महासत्त्वो बोधिमार्गे चरेत् तथागतो वा ऽर्हन् सम्यक्संबुद्धः सर्वाकारज्ञतां वा अनुप्राप्नुयाद् याम् अनुप्राप्य सत्त्वां संसारां मोचयेद्.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् तथा यथा वदसि, अभावस्य हि सुभूते न कर्म न क्रिया न फलं. बालो हि सुभूते (Aद्SPG II १२२) अश्रुतवान् पृथग्जनः आर्यधर्मेष्व् अकोविदः अभावस्वभावान् धर्मान् न प्रजानाति. स विपर्याससमुत्थितेन चित्तेन विविधं कर्माभिसंस्करोति. तस्य तादृश एव आत्मभावो अभिनिर्वर्तते. यदि वा नरकेषु यदि वा तिर्यग्योनौ यदि वा यमलोके यदि वा यावन् नैवसंज्ञानासंज्ञायतनेषु [f. ३०४अ] देवेषु. यावद् अभावस्य न कर्म न क्रिया न फलं. यः पुनर् अभावः अभाव एव सः. यत् पुनर् सुभूतिर् एवम् आह. अभावस्य हि न काचित् क्रिया यया क्रियया यावत् स्रोतआपत्तिफलं वा अनुप्राप्नुयात्. सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिं वा, बोधिसत्त्वो वा महासत्त्वो मार्गाकारज्ञतायाञ्च् चरेत् तथागतो वार्हन् सम्यक्संबुद्धः सर्वाकारज्ञताम् अनुप्राप्नुयाद् इति. याम् अनुप्राप्य सत्त्वान् संसारान् मोचयेत्. तत् किं मन्यसे सुभूते न अभावो मार्गः अभावः स्रोतआपत्तिफलम् अभावः सकृदागामिफलम् अभावो ऽनागामिफलम् अभावो ऽर्हत्त्वम् अभावः प्रत्येकबोधिह्र् अभावो यावत् सर्वाकारज्ञता.
भगवान् आह: तत् किं मन्यसे सुभूते येयं मरीचिकायाम् अनुदके उदकसंज्ञा. अनद्यां नदीसंज्ञा. अनगरे नगरसंज्ञा. अनुद्याने उद्यानसंज्ञा तत् किं तस्यां मरीचिकाया संज्ञायां कर्म अस्ति यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा देवमनुष्येषु वा उपपद्येत यावन् नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत?
SK
आह: अत्यन्ततया भगवं मरीचिकायाम् उदकन् नास्ति. न नदी, न नगर उद्यानम् अन्यत्र संज्ञाविपर्यासश् चक्षुषो मोह. कुतस् तस्या कर्म भविष्यति. यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिं वा यमलोकं वा देवमनुष्येषु वा उपपद्येत. यावन् नैवसंज्ञानासंज्ञायतनेषु वा देवेषु उपपद्येत.
SK
भगवान् आह: तत् किं मन्यसे सुभूते कच्चित् तस्या विपर्यस्तसंज्ञाया मार्गभावना अस्ति. यान् मार्गभावनाम् आगम्य नैव संक्लिश्येत न व्यवदायेत?
SK
आह: न भगवन् विपर्यस्तायाः संज्ञाया मार्गभावना अस्ति. यां मार्गभावनाम् आगम्य नैव संक्लिश्येत न व्यवदायेत.
SK
भगवान् आह: तत् किं मन्यसे सुभूते यां मायाकारो विविधान् मायाम् अभिनिर्मिनोति. यदि वा हस्तिकायं यदि वा अश्वकायं यदि वा बलीवर्दकायं. यदि वा पत्तिकायं. यदि वा रथकायं यदि वा स्त्रिकायं यदि वा पुरुषकायं, अपि नु तस्या मायाया वस्त्व् अस्ति. यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिर् वा यमलोकं वा देवमनुष्येषु वा उपपद्येत. यावन् नैवसंज्ञानासंज्ञायतनेषु देवेषु उपपद्येत?
SK
आह: नो हीदं भगवं, न हि तस्या मायाया वस्त्व् अस्त्य् अन्तशो बलाग्रकोटिनिक्षेपमात्रम् अपि. यत्र स्थित्वा कर्माभिसंस्कुर्यात्. यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिर् वा यमलोकं वा देवमनुष्येषु वा उपपद्येत. यावन् नैवसंज्ञानासंज्ञायतनेषु देवेषु उपपद्येत.
SK
भगवान् आह: तत् किं मन्यसे सुभूते कश्चित् तस्या मायाया मार्गभावना अस्ति. यां मार्गभावनाम् आगम्य नैव संक्लिश्येत न व्यवदायेत?
भगवान् आह: तत् किं मन्यसे सुभूते यः पुनस् तथागतो निर्मितं निर्मिणोति कच्चित् तस्य निर्मितस्य वस्त्व् अस्ति. यत् कर्माभिसंस्कृत्य नरकं वा गच्छेत् तिर्यग्योनिर् वा यमलोकं वा देवमनुष्येषु वा उपपद्येत. यावन् नैवसंज्ञानासंज्ञायतेनेषु देवेषु उपपद्येत?
SK
आह: नो हीदं भगवन्न् अवस्तुकः स भगवं निर्मितः.
SK
भगवान् आह: तत् किं मन्यसे सुभूते. कच्चित् तस्य निर्मितस्य मार्गभावना अस्ति. यां मार्गभावनाम् आगम्य नैव संक्लिश्येत न ववदायेत?
SK
आह: नो हीदं भगवं.
SK
भगवान् आह: तत् किं मन्यसे सुभूते कश्चिद् अत्र संक्लिश्यते वा व्यवदायते वा?
SK
आह: नो हीदं भगवं.
SK
भगवान् आह: यथैव सुभूते कश्चिन् न संक्लिश्यते न व्यवदायते तथैव नास्ति संक्लेशो न व्यवदानं. तत् कस्य हेतोर्? अहंकारममकारयो स्थित्वा: सत्त्वाः संक्लिश्यन्ते वा व्यवदायन्ते वा, न च भूतदर्शी संक्लिश्यते वा व्यवदायते वा. यथैव भूतदर्शी न संक्लिश्यते न व्यवदायते तथैव नास्ति संक्लेशो न व्यवदानं. ((८०))
SK
परिवर्त ८१.
SK
(VIII ५,२४) अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: भूतदर्शी भगवं न संक्लिश्यते न व्यवदायते. ऽभूतदर्श्य् अपि न संक्लिश्यते न व्यवदायते. तथा ह्य् अभावस्वभावाः सर्वधर्माः, अभावस्य च भगवं न संक्लेशो न व्यवदानं. भावस्य अपि भगवन् न संक्लेशो न व्यवदानम्, स्वभावस्य अपि भगवन् न संक्लेशो न व्यवदानं. अभावस्वभावस्य अपि भगवन् न संक्लेशो न व्यवदानं. तद् यद् एतद् भगवता व्यवदानं निर्दिष्टं, तत् कथम् इदं भगवन्?
SK
भगवान् आह: या एषां सर्वधर्माणां समता तन् मयोक्तं व्यवदानं?
SK
आह: सा पुनः सर्वधर्माणां समता कतमा?
SK
भगवान् आह: तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता. धर्मनियामता भूतकोटिः यो ऽसाव् उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थित एव धर्मस्थितिताधातुर् यदुत धर्मधातुर् इदं सुभूते व्यवदानं, तत् पुनर् लोकव्यवहारेण व्यवहृयते. अनभिलाप्यं पुनस् तद् अप्रव्याहारं. सर्वगीर्घोषवाक्पथातीतं.
भगवान् आह: तत् किं मन्यसे सुभूते न त्व् एते धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा. मरीच्युपमाः मायोपमा निर्मितोपमाह्ये त्वया परिकीर्तिता?
SK
आह: यद्य् एते भगवन् धर्माः स्वप्नोपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा. मरीच्युपमा मायोपमा निर्मितोपमा, तत् कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, न हि भगवन् स्वप्नो भूतो न यावन् निर्मितः. न हि भगवन्न् अभूतेन शक्यं दानपारमितायां चरता शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां. प्रज्ञापारमितायां यावद् अस्तादशस्व् आवेणिकेषु बुद्धधर्मेषु चरता अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. न ह्य् अभूतेन शक्यं दानपारमितायां चरता. शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां. यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरता अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धुं. सर्व एते धर्मा अभिसंस्कृता अभिसंचेतयिता. न हि शक्यम् अभिसणिष्कृतैर् अभिसंचेतयितैर् धर्मैः सर्वाकारज्ञताम् (Aद्SPG II १२८) अनुप्राप्तुं. अपि तु खलु सुभूते सर्व एते धर्मा मार्गाहरणताय संवर्तन्ते मार्गोत्पादाय न पुन फलस्य अधिगमाय, य एषां धर्माणाम् अनुत्पाद अप्रादुर्भाव अलक्षणो ऽपि सः. तद् बोधिसत्त्वो महासत्त्व प्रथमचित्तोत्पादम् उपादाय यावत् तम् एव कुशलन् धर्मम् आरभते. यदि वा दानपारमितां यदि वा शीलपारमितां यदि वा क्षान्तिपारमितां. यदि वा वीर्यपारमितां यदि वा ध्यानपारमितां यदि वा प्रज्ञापारमितां यदि वा ध्यानानि यदि वा अप्रमाणानि यदि वा आरूप्यसमापत्तीर् यदि वा स्मृत्युपस्थानानि यावन् मार्गं. यदि वा आध्यात्मशून्यतां यावद् अभावस्वभावशून्यतां. यदि वा विमोक्षा नवानुपूर्वसमापत्ती यदि वा यावद् आवेणिकबुद्धधर्मान्. तत् सर्वं मायागतम् इति जानाति. न शक्यम् इमान् धर्मान् अपरिपूर्य दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां यावद् अष्टादशावेणिकान् बुद्धधर्मान् अपरिपूर्य सत्त्वान् परिपाचयितुं. तद् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् यं यम् एव कुशलन् धर्मम् आरभते सर्वं तं स्वप्नोपमं जानाति. यावन् निर्मितोपमं जानाति. स प्रज्ञापारमितायां चरन् यावत् सर्वाकारज्ञतां स्वप्नोपमां जानाति. यावन् निर्मितोपमां जानाति. ते सर्वसत्त्वा स्वप्ने चरन्ति इति जानाति. यावन् निर्मिते चरन्ति इति जानाति. तद् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाञ् चरन्. स्वप्नोपमान् धर्मान् अभावतो गृह्णाति. यावन् गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नोति. यावन् निर्मितोपमान् धर्मान् अभावतो गृह्णाति. यावन् गृहीत्वा सर्वाकारज्ञताम् अनुप्राप्नोति. अग्राह्या च प्रज्ञापारमिता. अग्राह्या यावद् अष्टादशावेणिका बुद्धधर्माः. तद् बोधिसत्त्वो महासत्त्व अग्राह्याः सर्वधर्मा इति विदित्वा अनुत्तरां सम्यक्संबोधिं प्रार्थयति. तत् कस्य हेतोः? तथा ह्य् अग्राह्याः सर्वधर्मा अवस्तुकाः स्वप्नोपमाः यावन् निर्मितोपमा, न च अग्राह्येण. [f. ३०६अ] धर्मेण अग्राह्यो धर्मः शक्यम् अनुप्राप्तुं, अन्यत्र सत्त्वा इमान् धर्मान् न जानन्ति न पश्यन्ति. (Aद्SPG II १२९) तद् बोधिसत्त्वो महासत्त्व सर्वसत्त्वानाम् अर्थाय अनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते, स च प्रथमचित्तोत्पादम् उपादाय यद् दानं ददाति. तत् सर्वसत्त्वानां कृते. यच् छीलं रक्षति यां क्षान्तिं भावयति यन् वीर्यम् आरभते यद् ध्यानं समापद्यते यां प्रज्ञां भावयति तत् सर्वसत्त्वानां कृते, न पुनर् आत्मार्थं, न च बोधिसत्त्वो महासत्त्वो ऽन्यस्य कृते ऽनुत्तरस्यै सम्यक्संबोधये संप्रतिष्ठते ऽन्यत्र सर्वसत्त्वानां कृते, स प्रज्ञापारमितायां चरन् ये असत्त्वे सत्त्वसंज्ञया स्थितास् अनात्मान्य् आत्मसंज्ञया स्थिता एवं जन्तुमनुजमानवपोषपुद्गलकारककारापकसमुत्थापकवेदकवेदयित्रिषु. यावद् अजानके जानकसंज्ञया स्थिता अपश्यके पश्यकसंज्ञया स्थितास् तां विपर्यासान् विवेचयति. विपर्यासाद् विवेच्य. अमृते धातौ प्रतिष्ट्ःआपयति. यत्र प्रतिष्ठापितानां नेमे समुदाचाराः प्रवर्तन्ते. आत्मसंज्ञा यावत् कारककारापकसंज्ञा वा, स सर्वाणि इमानि निमिञ्जितमन्यितस्पन्दितप्रपञ्चितानि त्यक्त्वा अमन्यमानेन चेतसा बहुलम् उपसंपद्य विहरति. अनेन सुभूते उपायेन बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् आत्मना च न क्वचिद् धर्मे ऽभिनिविशते. सर्वसत्त्वांश् च अनभिनिवेशे प्रतिष्ठापयति. लोकव्यवहारेण. न पुन परमार्थेन.
SK
आह: यो भगवंस् तथागतेन धर्मो ऽभिसंबुद्धः, किं पुनः स लोकव्यवहारेण अभिसंबुद्धः उतः परमार्थेन?
SK
भगवान् आह: लोकव्यवहारेण व्यवहृयते. अयं तथागतेन धर्मो ऽभिसंबुद्ध इति. न पुनर् अत्र कश्चिल् लभ्यते. अयन् धर्मो ऽनेन धर्मेण अभिसंबुद्ध इति. तत् कस्य हेतोर्? उपलंभो ह्य् एष यदुत अनेन धर्मेण अयन् धर्मो ऽभिसंबुद्ध इति. न च द्वयेन काचित् प्राप्तिर् न अभिसमय.
SK
आह: यदि भगवन् न द्वयेन प्राप्तिर् अभिसमयश् च, किं पुनर् अद्वयेन प्राप्तिर् अभिसमयश् च?
SK
भगवान् आह: न द्वयेन प्राप्तिर् न अभिसमयो न अद्वयेन प्राप्तिर् अभिसमयश् च, यथैवात्र प्राप्तिर् अभिसमयश् च. यत्र न द्वयं न अद्वयं. तत् कस्य हेतोः? प्रपञ्च एष यदैष प्राप्तिर् एसो ऽभिसमय. न च धर्मसमतायां प्रपञ्चो ऽस्ति. निष्प्रपञ्च हि धर्मता.
SK
आह: अभावस्वभावानां भगवन् सर्वधर्माणां का धर्मसमता?
SK
भगवान् आह: एषैवात्र धर्मसमता यत्र न भावो न अभावो न स्वभावो न परिकीर्तना, न धर्मसमता परिकीर्त्यते, न च अन्यः कश्चिद् धर्म उपलभ्यते धर्मसमतायां. स्थापयित्वा सर्वधर्मव्यतिवृत्ता धर्मसमता, अगतिर् अविषयो धर्मसमता. कस्यचिद् बालस्य वा आर्यस्य वा.
भगवान् आह: अविषयः सुभूते. धर्मसमता. सर्वार्याणां स्रोतआपन्नानां वा सकृदागामिनां वा अनागामिनां वा. अर्हतां वा. प्रत्येकबुद्धानां वा बोधिसत्त्वानां [f. ३०६ब्] वा तथागतस्य अप्य् अविषय.
SK
आह: न पुनर् भगवं सर्वधर्मविषयवशवर्त्ती तथागतो ऽर्हन् सम्यक्संबुद्धः?
SK
भगवान् आह: स्यात् सर्वधर्मविषयवशवर्त्ती तथागतो ऽर्हन् सम्यक्संबुद्धो, यद्य् अन्या धर्मसमता स्याद् अन्यस् तथागतो ऽर्हन् सम्यक्संबुद्धो, या च सुभूते पृथग्जनानां धर्मसमता या च स्रोतआपन्नानां या च सकृदागामिनां या च अनागामिनां या च अर्हतां या च प्रत्येकबुद्धानां या च बोधिसत्त्वानां या च तथागतानाम् धर्मसमता एकसमता सा, समतायांश् च न किञ्चिन् नानाकरणं, या च पृथग्जनानां समता या च सर्वार्याणां समता एकसमता सा, नैकसमतायां द्वयम् अस्त्य् अयं पृथग्जनो ऽयं यावत् तथागतो ऽर्हन् सम्यक्संबुद्ध इति. सर्व एते धर्मा. समतायां नोपलभ्यन्ते.
SK
आह: यदि भगवन् सर्वधर्मसमतायां सर्व एते धर्मा नोपलभ्यन्ते. अयं पृथग्जनो ऽयं स्रोतआपन्नो ऽयं सकृदागाम्य् अयम् अनागाम्य् अयम् अर्हन्न् अयं प्रत्येकबुद्धः अयं बोधिसत्त्वो ऽयं तथागतो ऽर्हन् सम्यक्संबुद्धः. एवं सत्य् अविशेषो भविष्यति. पृथग्जनानां स्रोतआपन्नानां च सकृदागामिनां च अनागामिनां च अर्हतां च प्रत्येकबुद्धानां च बोधिसत्त्वानां च तथागतानां च अर्हतां सम्यक्संबुद्धानां.
SK
भगवान् आह: एवम् एत सुभूते एवम् एतद्. अविशेषः सर्वधर्मसमतायां (Aद्SPG II १३१) पृथग्जनानां यावत् तथागतानां च अर्हतां सम्यक्संबुद्धानां.
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, तथागतस्यैष विषयः तथागतस्यैष पुरुषकारो यद् अलक्सणानां धर्माणां व्यवस्थानं करोति. तत् किं मन्यसे सुभूते यदि तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिं न अभिसंभोत्स्यत. अनभिसंबुध्य धर्माणां व्यवस्थानं नाकरिष्याद्, अपि नु नरका वा प्रज्ञास्यन्ते तिर्यग्योनिर् वा यमलोक वा. देवा वा मनुष्या वा. चातुर्महाराजकायिका वा यावत् परनिर्मितवशवर्त्तिनो वा ब्रह्मकायिका वा यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिर् वा स्मृत्युपस्थानानि वा यावद् आर्याष्टाङ्गो मार्गः त्रीणि विमोक्षमुखान्य् अष्टौ विमोक्षा नवानुपूर्वसमापत्तय अध्यात्मशून्यता बहिर्धाशून्यता. अध्यात्मबहिर्धाशून्यता यावत् स्वलक्षणशून्यता यावद् अष्टादशावेणिका बुद्धधर्माः प्रज्ञास्यन्ते?
SK
आह: नो प्रज्ञास्यन्ते भगवन्. [f. ३०७अ]
SK
भगवान् आह: तस्मात् तर्हि सुभूते तथागतस्यैष पुरुषकारो यो धर्मसमताया च न चलति धर्माणां च व्यवस्थानं करोति.
SK
आह: किं पुनर् भगवं यथा चैव तथागतो धर्मसमतायाश् च न चलति. तथैव पृथग्जना न चलन्ति. तथैव स्रोतआपन्ना न चलन्ति. तथैव यावत् प्रत्येकबुद्धा न चलन्ति. तथैव यावद् बोधिसत्त्वा न चलन्ति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. सर्वधर्मा सुभूते धर्मसमताया न चलन्ति. न विवन्तन्ते. तत् कस्य हेतोः? यैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिर्, सैव बालपृथग्जनानां तथता यावद् भूतकोटिर्, सैव श्रद्धानुसारिणां धर्मानुषारिणाम् अष्टमकानां स्रोतआपन्नानां यावद् बोधिसत्त्वानां महासत्त्वानां तथता यावद् भूतकोटिर्. सर्व एते धर्मा धर्मसमतां न व्यतिवर्त्तन्ते. तत् कस्य हेतोः? तथा हि या तेषां तथता यावद् भूतकोटि नान्या तेषां धर्मसमताया.
भगवान् आह: न संस्कृता न असंस्कृता, न च संस्कृत. व्यतिरिकेण (Aद्SPG II १३४) असंस्कृतं लभ्यते. न च असंस्कृतव्यतिरिकेण संस्कृतम् उपलभ्यते. इति हि सुभूते यश् च संस्कृतधातुर् यश् च असंस्कृतधातुर् उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् निदर्शनाव् अप्रतिघाव् एकलक्षणौ यदुत अलक्षणौ, तत् पुनस् तथागतो लोकव्यवहारेण व्याहारति. न पुनः परमार्थेन. न च परमार्थे कश्चित् कायसंस्कारो वाक्संस्कारो वा मनःसंस्कारो वा. न च अन्यत्र कायसंस्कारान् न अन्यत्र वाक्संस्कारान् न अन्यत्र मनःसंस्कारात् परमार्थ उपलभ्यते. यैषान् धर्माणां संस्कृत असंस्कृतानां समता स परमार्थः, तद् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् परमार्था च न चलति. बोधिसत्त्वकार्यं च करोति. ((८१))
SK
परिवर्त ८२.
SK
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवं सर्वधर्मसमता प्रकृतिशून्या, तन् न कस्यचिद् धर्मस्य किंचित् करोति. आकिंचनेषु वा निष्किंचनेषु वा धर्मेषु कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थाच् च न चलति. सर्वसत्त्वानां च कार्यं करोति. दानेन प्रियवचनेन अर्थक्रियया समानार्थतया च?
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत् तथा यथा भाषसे. यच् छून्यता न सा कस्यचित् किंचित् करोति. नाकिंचित्. यदि सुभूते ये ते सत्त्वाः स्वयम् एव शून्यतां जानीयुर् नेयन् तथागतस्य तथागतवृषभिता भवेत्. यच् छून्यतायाश् च न चलति. सत्त्वांश् च आत्मसंज्ञाया विवेचयति विवेच्य शून्यताया मोचयति संसारात्. एवं सत्त्वसंज्ञाया यावत् कारकसंज्ञाया रूपसंज्ञाया यावद् विज्ञानसंज्ञाया चक्षुःसंज्ञाया यावन् मनःसंज्ञाया पृथिवीधातुसंज्ञाया यावद् विज्ञानधातुसंज्ञाया संस्कृतधातुसंज्ञाया विवेचयति. विवेच्य असंस्कृतधातौ प्रतिष्ठापयति. स च असंस्कृतधातुः शून्यः.
SK
(VIII ५,२७) आह: केन शून्यः?
SK
भगवान् आह: सर्वसंज्ञाभिः शून्यः. अपि तु खलु सुभूते यो निर्मितो ऽन्यन् निर्मितं निर्मीयेत अपि नु तस्य किंचिद् वस्त्व् अस्ति यन् न शून्यता?
SK
आह: नो हीदं भगवं यन् न निर्मितस्य. किंचिद् वस्त्व् अस्ति यन् न शून्यता. या च शून्यता यश् च निर्मित उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् उभाव् एतौ शून्यताया शून्यौ. तत् किं विनिगूहितम् इयं शून्यता अयं निर्मितः. तत् कस्य हेतोः? तथाप्य् उभयम् एतच् छून्यतायां नोपलभ्यन्ते इयं शून्यता अयं निर्मित इति.
SK
भगवान् आह: नास्ति सुभूते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावन् निर्मितं. यन् न अनिर्मितं.
भगवान् आह: केचित् सुभूते धर्मा, उट्ठापिता वा निरोधिता वा, सर्वे ऽते निर्मिता.
SK
आह: कतमो भगवन् धर्मो यो न निर्मितः?
SK
भगवान् आह: यस्य नोत्पादो न निरोधः स न निर्मितः.
SK
आह: स पुनः कतमः?
SK
भगवान् आह: असंमोषधर्मनिर्वाणसमयं धर्मो न निर्मितः.
SK
आह: यत् पुनर् भगवतोक्तं शून्यतायाश् च न चलति. न च द्वयेनोपलभ्यते न च कश्चिद् धर्मो यो न शून्यता. तस्माद् भगवन्न् असंमोषधर्मनिर्वाणं निर्मितं भविष्यति.
SK
भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते स्वभावशून्याः, ते न श्रावकैः कृता न प्रत्येकबुद्धैर् न बोधिसत्त्वैर् महासत्त्वैर् न तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कृताः, या च स्वलक्षणशून्यता तन् निर्वाणं.