SK
||श्री || ईशानशिवगुरुदेवपद्धतिः श्रीमदीशानशिवगुरुदेवमिश्रविरचिता | (तृतीयः क्रियापादः) अथ प्रथमः पटलः | प्रणम्यादौ शिवं शक्तिं सादेशं च गणेश्वरम् | शुद्धविद्यां तथा वाणीं मुख्यं धर्मं प्रचक्ष्महे || १-१ || सामान्यमन्त्रपादाभ्यां पूर्वार्धे खलु दर्शिताः | धर्मार्थकाम्याः सामान्याः शिष्टं व्यावर्ण्यतेऽधुना || १-२ || मुख्यधर्मचिदाप्नोति दृष्टादृष्टफलोदयात् | भोगान् मोक्षं च तद्धर्मविषयः परमेश्वरः || १-३ || अथातो धर्ममित्यादिसूत्राद् वैशेषिकादतः | धर्मप्रयोजनं मोक्षः प्रोक्तश्चाभ्युदयो महान् || १-४ || धर्मा बहुविधाः ख्यातास्तत्तदागमचोदिताः | नहि ते मुख्यधर्माः स्युर्मुख्यधर्माः शिवोदिताः || १-५ || मायाविकारहीनेन विशुद्धेनामलात्मना | सर्वकर्त्रा शिवेनोक्तं शास्त्रं मुख्यं हि सर्वथा || १-६ || स हि मायादिभूम्यन्तविश्वकार्यस्य कारणम् | शिवः कर्ता विकर्ता च प्रमाणत्रयगोचरः || १-७ || जगत् सावयवं ह्येतद् बुद्धिमत्कर्तृकं स्मृतम् | कार्यत्वाद् यद्यदेवं स्याद् यथा घटपटादिकम् || १-८ || तथाचोक्तमिदं तस्मादुक्तसाध्यं न संशयः | अस्त्येकः स शिवः कर्ता ह्यपरेभ्यो विलक्षणः || १-९ || योगिप्रत्यक्षतः सिद्धश्चानुमानागमैरपि | सर्वेभ्यो ह्यपरेभ्योऽस्य वैलक्षण्यं कथंअ भवेत् || १-१० || प्. २) विलक्षणः शिवोऽन्येभ्यस्त्वनादिरमलो यतः | सर्वेषां समलत्वाच्च यद् यत् स्यान्निर्मलं स्वतः || १-११ || तत्तद्विलक्षणं तेभ्यः स्वर्णं ताम्रादिकाद्यथा | तथाचोक्तं प्रसिद्धं स्यादत्रोक्तं किरणेऽपि च || १-१२ || अनादिमलसम्बन्धान्मलिनत्वमणौ स्थितम् | अनादिमलमुक्तत्वान्निर्मलत्वं स्थितं शिवे || १-१३ || इति | रामकण्ठोऽप्याह � यश्चासौ सर्वज्ञः सर्वकर्ता च शुद्धः शिवः, तथा किञ्चिज्ञोऽह्यशुद्ध आत्मा | तयोः शिवात्मनोः सम्ब(न्धी ये ? न्धिनी) तु शुद्धाशुद्धे निर्मलमलयुक्ते स्वरूपे इति | श्रीमल्लम्बितेऽपि � एकः शिवः पुमानासीदपरेभ्यो विलक्षणः | इति |